॥ श्रीः ॥
अथ षट्त्रिंशोऽध्यायः ।
अथात्रेयो वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ।
अङ्गिरा गौतमोऽगस्त्यो मनुरायुस्तथात्मवान् ॥ १ ॥
विश्वामित्रः स्थूलशिराः संवर्तिः(र्तः) प्रमतिर्दनुः 1 ।
उशना बृहस्पतिर्व्यासश्चावनः काश्यपो ध्रुवः ॥ २ ॥
दुर्वासा जामदग्न्यश्च मार्कण्डेयोऽथ गालवः ।
भरद्वाजश्च रैभ्यश्च यवक्रीतस्तथैव च ॥ ३ ॥
स्थूलाक्षः 2शकलाक्षश्च काण्वो मेधातिथिः क्रतुः3 ।
नारदः पर्वतश्चैव सुवर्माऽथैकजो द्विजः4 ॥ ४ ॥
5नितम्बुर्भुव्रनः सौम्यः शतानन्दः6 कृतव्रणः ।
जामदग्न्यस्तथा रामः कचश्चेत्येवमादयः7 ॥ ५ ॥
Abh
॥ अथ षट्त्रिंशोऽध्यायः ॥
यस्मिन् निगूढपरमार्थमबुध्यमानाः
संसारनाट्यरसभावमुपाश्रयन्ते ॥
बुद्ध्वा पुनर्मुहुरहो निजमेव यान्ति
तत् पूर्णधाम शिवतत्त्वमहं प्रपद्ये ॥
यदिदं नाट्यमुक्तं तस्य रसभावरूपताप्रतिपादने नियतानुकारतानुकारितैव चावितत्य निरस्याह्या(त्या)यतं पूर्वरङ्गस्य न नाट्यरूपतेत्युक्तम् । तदेतदिहाध्याये प्रश्नोत्तरमुखेनेतिहासदृशा दृढीक्रियते । न तत्र प्रथमं पूर्वरङ्ग एव नाट्यत्वं तावदाचक्षते । तत्पूर्वकत्वान्नाट्यं ततोऽप्यनुकारकथा निरस्यते ॥ १–५ ॥
Notes
एवं ते1(तु) मुनयः श्रुत्वा2 सर्वज्ञं भरतं ततः3 ।
पुनरूचुरिदं वाक्यं कुतूहलपुरोगमम्4 ॥ ६ ॥
यस्त्वया गदितो ह्येष नाट्यवेदः पुरातनः ।
एकचित्तैः स चास्माभिः सम्यक् समुपधारितः5 ॥ ७ ॥
6एकश्च संशयोऽस्माकं 7तं नो व्याख्यातुमर्हसि ।
8को वाऽन्यो नाट्यवेदस्य निश्चयं वक्तुमर्हति9 ॥ ८ ॥
न वयं परिहासेन न विरोधेन नेर्ष्यया 10 ।
11पृच्छामो भगवन् नाट्यमुपदेशार्थमेव तु12 ॥ ९ ॥
अस्माभिश्च तदा नोक्तं 13कथाच्छेदो भवेदिति ।
14इदानीं तूपशिक्षार्थं नाट्यगुह्यं निदर्शय15 ॥ १० ॥
लोकस्य चरितं 16नाट्यमित्यवोचस्वदी(स्त्वमी)दृशम्17 ।
18तेषां तु(शेषाणां) लेकं(क)गुह्यानां निश्चयं वक्तुमर्हसि ॥ ११ ॥
Abh
तत्र प्रश्नं तावद् दर्शयति । एवं तु मुनय इति ॥ ६ ॥ ७–८ ॥
तत्र यान्या परिहासप्रायनाट्यशास्त्रविरुद्धं च नाट्यतो यन्त्रितापर्यन्त इति वचनान् नटानां जीविकोपायोऽयमित्याशङ्का वारयति । परिहासेनेत्यादिना ॥ ९ ॥
तपः (तूप)शिक्षार्थमिति । तत्त्वनिर्णयार्थमित्यर्थः । नाट्यगुह्यमिति । नाट्ये यत् तात्पर्यारूढ्यर्थं गुह्यम् ॥ १० ॥
शेषाणां लोकगुह्यानामिति । लोके यानि दृश्यन्ते अथ च पूर्वरङ्गे क्रियन्ते तैस्तावल्लोके चरितैर्भवि– तव्यम् । लोकस्य चरितं यतो नाट्यमतो लोकगुह्यानामिति साभिप्रायेणाध्यारोपेण(प)गर्भेयमुक्तिः ॥ ११ ॥
Notes
1देवस्य(लोकस्य)कस्य चरितं पूर्वरङ्गे द्विजर्षभ ।
किमर्थं 2भुज्यते ह्येष प्रयुक्तः किं करोति वा3 ॥ १२ ॥
कस्माच्चैव 4पुनः शौचं 5सम्यक् चरति सूत्रदृक् ।
कथमुर्वीतले नाट्यं स्वर्गान्निपतितं विभो6 ॥ १३ ॥
कथं7 तवाऽयं वंशश्च नटसंज्ञः प्रतिष्ठितः8 ।
सर्वमेव यथातत्त्वं कथयस्व महामुने ॥ १४ ॥
9भरत उवाच ।
[तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः ।
प्रत्युवाच पुनर्वाक्यं गुह्यार्थाभिनयं प्रति ॥]
10ब्रवीमि वः कथां गुह्यां 11यन् मां पृच्छत सुव्रताः ।
पूर्वरङ्गविधानस्य तां च मे सन्निबोधत 12 ।। १५ ।।
Abh
तथा चाह । लोकस्य कस्य चरितमिति । परिदृश्यमानस्य भावना । एतच्चरितं न नूनं गूढोऽ(ढम)तः कश्चिल्लोकोऽस्तीत्यादयः । दृश्यं सर्वं च यदिति स(स्व)र्ग एवैतन्नाटयं सकलं सुखस्थाने । अति च (तश्च)नोपदेशो यत्तयोरुपदेशो मर्त्य…..।। १२ ।।
तत्र कथमेतत् तदाह । कथमूर्वीतल इति ।। १३ ।।
नाट्यवेदवित् त्वदीयो वंशो नटसंज्ञायां(ज्ञया)मूर्खत्वेन कथं प्रसिद्धम्(:) । यद्यपि बहवः प्रश्नास्तथापि नाट्यविषयोऽयं संशय एको बहुधर्मविषयो यथा स्थाणुर्वा नभो वोच्चशिलादावेव कुशलं वेत्येक एव संशयः ।। १४ ।।
गुह्यार्थस्याभिनयम् । प्रथममेतदर्थमिति यावत् । अन्ये तु गुह्यार्थो यत्र तादृगभिनयो नाट्यं तम् ।। १५ ।।
Notes
प्रोक्तवानस्मि यत् पूर्वं 1शुभं विघ्ननिबर्हणम् ।
तस्यानुबन्धेन मया पूर्वरङ्गः प्रकीर्तितः ।। १६ ।।
शस्त्राणां 2प्रतिकारार्थं शरीरावरणं यथा ।
3क्रियते हि यथा पापं हुतेनैव प्रशाम्यति ।। १७ ।।
एवं जप्यैश्च होमैश्च देवताभ्यर्चनेन च ।
4aसर्वातोद्यविधानैश्च4 तथा5 गीतस्वनेन च ।। १८ ।।
स्तुत्याशीर्वचनैः शान्तैः कर्मभावानुकीर्तनैः ।
मया 6पापापहरणैः कृते विघ्ननिबर्हणे ।। १९ ।।
स्तुतिगीताभिसंसृष्टै7र्देवैरभिहितोऽस्म्यहम्8 ।
नितरां परितुष्टाः स्मः प्रयोगेणामुना च ते ।। २० ।।
देवतासुरमानन्द्य यस्माल्लोकश्च (कं च)नन्दति ।
9तस्मादयं प्रयोगस्तु 10नदिनाम्ना(नान्दीनामा)भविष्यति ।। २१ ।।
गीतवाद्यानुनादो हि11 यत्र काकुस्वनः (रः) शुभः12 ।
तस्मिन् देशे विपाप्मानो 13म(मा)ङ्गल्यश्च(ञ्च) भविष्यति ।। २२ ।।
यावत्तं पूरयेद् देशं ध्वनिर्नाट्यसमाश्रयः14 ।
15न (स्था)स्यन्ति हि रक्षांसि तं देशं न विनायकाः ।। २३ ।।
Abh
प्रविघ्नन्ति । निर्वह(बर्ह)णं रङ्गपूजनम् । तस्यानुबन्धेन तत्प्रसङ्गेन ।। १६ ।।
शरीरावरणं कवचानि(दि)।। १७ ।। १८–२० ।।
नान्दीनामेति । नन्दनात् । अत एव नान्द्यन्त इति पूर्वरङ्गान्त इत्यर्थः ।। २१ ।।
काकुस्वर इति । पूर्वरङ्गसिद्ध्यर्थे पाठ्यम् । ततः शृङ्गाररसयुक्तां पठेदार्यामित्यादौ (भ.ना.५– १२२) । न त (तु) सदैव देवेन परतन्त्रीकृतस्य कदाचिद् द्विजन्मादेरिति वाद्याद्युपभोगावसरः ।। २२ ।। २३ ।।
Notes
आवाहे च विवाहे च यज्ञे नृपतिमङ्गले ।
नान्दीशब्दमुपश्रुत्य1 ह़िंस्रा नश्यन्ति चैव हि ।। २४ ।।
2पाठ्यं नाट्यं तथा गेयं चित्रवादित्रमेव च ।
3वेदमन्त्रार्थवचनैः समं ह्येतद् भविष्यति4 ।। २५ ।।
श्रुतं 5मया देवदेवात्5a तत्त्वतः शङ्कराद्धितम् ।
स्नान6जप्यसहस्रेभ्यः 7पवित्रं गीतवादितम् ।। २६ ।।
8यस्मिन्नातोद्यनाट्यस्य गीतपाठ्यध्वनिः शुभः ।
भविष्यत्यशुभं देशे नैव9 तस्मिन् कदाचन ।। २७ ।।
एवं पूजाधिकारार्थं पूर्वरङ्गः कृतो मया ।
10नाना स्तुतिकृतैर्वाक्यैर्देव10aताभ्यर्चनेन च ।। २८ ।।
यतोऽभिवादनं11 क्लिष्टं 12शिष्टं तद्रङ्गमण्डले ।
ततस्तस्य हि 13तच्छौचं विहितं तु द्विजोत्तमाः ।। २९ ।।
शौचं कृत्वा यतो मन्त्रं 14पूजनं जर्जरस्य तु ।
उच्यते पूर्वरङ्गेऽस्मिन् 15तस्माच्छौचं प्रकीर्तितम्15a ।। ३० ।।
यथावतारितं चैव नाट्यमेतन् महीतले ।
16वक्तव्यं सर्वमेतद्धि न शक्यं हि निगूहितुम् ।। ३१ ।।
Abh
ततो वेदविरुद्धमित्याशङ्क्याह । आवाहे च विवाहे चेत्यादि ।। २४ ।। २५ ।।
आरा(ग)मिकत्वमस्यार्थस्याह । श्रुतं देवादिदेव(वात्)तत्त्व(तः) शङ्करादिदमुत्कृष्टमिति ।। २६ ।। २७–३१ ।।
भूस्पर्शादपवित्रीभूतं तदेव पवित्रीभूतं प्रहसनैः………बाधन्त इति । तच्च नाट्यस्याविदन्तो
Notes
ममैते तनयाः सर्वे नाट्यवेदसमन्विताः1 ।
सर्वलोक(कं)प्रहसनै2र्बाधन्ते नाट्यसंश्रयैः ।। ३२ ।।2a
कस्यचित्त्वथ कालस्य शिल्पकं ग्राम्यधर्मकम्3 ।
ऋषीणां व्यङ्ग्यकरणं कुर्वद्भिर्गण4संश्रयम् ।। ३३ ।।
5अश्राव्यं तद्6 दुराचारं ग्राम्यधर्मप्रवर्तितम् ।
निष्ठुरं 6aचाप्रस्तुतं च7काव्यं संसदि योजितम् ।। ३४ ।।
तच्छुत्वा मुनयः सर्वे 8भीमरोषप्रकम्पिताः ।8a
ऊचुस्तान् भरतान् क्रुद्धा9 निर्दहन्त इवाग्नयः ।। ३५ ।।
मा तावद् भो द्विजा युक्तमिदमस्मद्विडम्बनम् ।
को नामायं परिभवः 10किञ्च नास्मासु सम्मतम् ।। ३६ ।।
यस्माज्ज्ञानमदोन्मत्ता 11न वेत्थाऽ(विद्धा न) विनयाश्रिताः ।
तस्मादेतद्वि(द्धि) भवनां(तां12)कुज्ञानं नाशमेष्यति ।। ३७ ।।
Abh
नियतमनुकरणीयं मन्यमानाः । परचेष्टानुकरणोल्लास इति नीत्या सर्वे प्रहसितवन्त इति । सायं प्रतिपन्ना इति निन्दार्थत्वात् त एत एतत्पक्षं प्रतिक्षेपकृदुत्पत्तिविघातं निन्दार्थत्वादेता नाट्योत्पत्तावेव दर्शितं र(व्य)ङ्गकरणमिति ।। ३२ ।। ३३–३५ ।।
विडम्बकं(नं)गण्डसंश(श्र)यमिति । गण्डवदन्यापदेशमुखेनेत्यर्थः ।। ३६ ।।
ज्ञानमदे(दोन्)मत्ता इति । मिथ्या ज्ञानमिदं युष्माकमिति पर्यवसितमिति भावः । विद्धा ब्रह्मणा । वेदबाह्याः ।। ३७ ।।
निराहुताः परिभवभाजः ।। ३८ ।। ३९–४०।।
Notes
ऋषीणां ब्राह्मणानां च समवाय1aसमागताः (:) ।
1निर्व्रताश्च (निराहुता) विना होमैः शूद्राचारा1b भविष्यथ ।। ३८ ।।
2अपाङ्क्तेयाः कुत्सिताश्चावमा एव भविष्यथ ।
यश्च वो भविता वंशः 3सर्वाशौचो भविष्यति ।। ३९ ।।
ये च वो वंशजास्तेऽपि भविष्यन्त्यथ नर्तकाः ।
परोपस्थानवन्तश्च शस्त्रपण्योपजीविनः4 ।। ४० ।।
शापं दत्तं तथा ज्ञात्वा सुतानां मम देवताः5
(सुतेभ्यो मे तदा सुराः) ।
सर्वे विमनसो भूत्वा तानृषीन् समुपस्थिताः6 ।। ४१ ।।
7समस्तैश्च त(याचमानैस्त)तः प्रोक्तं देवैः शक्रपुरोगमैः ।
इदानीं दुःखमुत्पन्नं नाट्यमेतद् विनङ्क्ष्यति ।। ४२ ।।
ऋषिभिश्च ततः प्रोक्तं न चैतद्धि विनङ्क्ष्यति8 (न त्वेतद्विनशिष्यति) ।
शेषमन्यत्र9 यत् प्रोक्तं सर्वमेतद् भविष्यति ।। ४३ ।।
एतच्छुत्वा तु वचनं मुनीनामुग्रतेजसाम् ।
विषण्णास्ते 10ततः सर्वे श्रुत्वा मां 11समुपस्थिताः ।। ४४ ।।
Abh
सुरा इन्द्राद्याः ।। ४१ ।।
याचमानैरिति । ऋषीन् प्रार्थयदु (द्भिरु) क्तम् ।। ४२ ।।
तत्र कुत्सितानियताकारभागोचितं स्वस्थितरसभावप्रयोगेऽवस्थाप्यत इत्याह न त्वेतं(तद्)विहितं (विनशिष्यति) ।। ४३ ।। ४४–४६ ।।
निधने आत्महनने ।। ४७ ।।
Notes
1a N: समवाये समागताः
प्रोक्तवन्तश्च मां 1पुत्रास्त्वयाहो नाशिता वयम् ।1a
अनेन नाट्यदोषेण शूद्राचारा हि यत् कृताः2 ।। ४५ ।।
मयापि सान्त्वयित्वोक्ता मा 3क्रोधं व्रजतानघाः ।
कृतान्तविहितोऽस्माकं नूनमेष विधिः सुताः4 ।। ४६ ।।
5मुनीनां न मृषा वाक्यं भविष्यति कदाचन ।
निधने च मनो मा भूद् युष्माकमिति सान्त्विताः ।। ४७ ।।5a
6जानीध्वं तत्तथा नाट्यं ब्रह्मणा संप्रवर्तितम् ।
शिष्येभ्यश्च तदन्येभ्यः 7प्रयच्छामः प्रयोगतः ।। ४८ ।।
मा वै प्रणश्यतामेतन्नाट्यं दुःखप्रवर्तितम् ।
महाश्रयं महापुण्यं वेदाङ्गोपाङ्गसंभवम् ।। ४९ ।।
Abh
जनिष्य(जानी)ध्वं तत्तथा नाट्यमिति । तत्त्वापरिज्ञानादयं भवति शापो जात इदानीमत्रैव तत्त्वपरिज्ञाने रसभावस्वरूपे यत् तच्च दर्शितं वितत्य रसाध्यायादौ (भ.ना.६) । तत्र कैश्चिद् वार्तिककारीयं श्लोकद्वयं शूरग्रन्थमध्ये आक्षिप्तम् ।
नाट्यस्य ज्ञाततत्त्वस्य यदभीष्टं प्रयोजनम् ।
तत्त्वतस्तदनिर्णीतं शापाध्यायेन दर्शितम् ।।
इत्यादि । रसप्राधान्यमेवाह ।
यथास्त(स्वा)दप्रसङ्गेन सूचाद्यर्थोपयोगिता ।
आस्वादकानां प्रीत्यर्थं केवलं रसयोजनम् ।
न च जीविकादक्षिणेन च योग इति भावः ।। ४८ ।। ४९ ।।
स्त्रीणां च न कश्चनास्य प्रयोगे वेदार्थत्यागशङ्कावकाश इति दर्शयति । इदं नाट्यमप्सरोभ्यो दत्त्वा
Notes
अप्सरोभ्य इदं चैव याथातत्त्वं यथाश्रुतम्1 ।
नाट्यं दत्त्वा ततः सर्वे प्रायश्चित्तं चरिष्यथ ।। ५० ।।
।। इति भारतीये नाट्यशास्त्रे नाट्यशापो नामाध्यायः षट्त्रिंशः2 ।।
Abh
प्रायश्चित्तं चरिष्यथेति । येन च भावलाभाद्भ(भवल्लाभो)भविष्यति ।। ५० ।।
इत्यभिनवगुप्ताचार्यविरचितायां नाट्यवेदवृत्तावभिनवभारत्यां नटशापाध्यायः षट्त्रिंशः ।।