।। श्रीः ।।
अथ पञ्चत्रिंशोऽध्यायः ।
विन्यासं भूमिकानां च1 सम्प्रवक्ष्यामि नाटके ।
यादृशो 2यस्य कर्तव्यो विन्यासो 3भूमिकास्वथ4 ।। १ ।।
गतिवागङ्गचेष्टाभिः सत्त्वशीलस्वभावतः5 ।
परीक्ष्य पात्रं तज्ज्ञस्तु युञ्ज्याद् भूमिनिवेशने6 ।। २ ।।
7तस्मिन्नन्विष्य हि गुणवान् कार्या(र्यः)पात्रसमाश्रया(यः) ।
न खेदजननं8 बुद्धेराचार्यस्य भविष्यति9 ।। ३ ।।
आचार्यः पात्रजांश्चैव गुणाञ्ज्ञात्वा स्वभावजान्10 ।
ततः कुर्याद् यथायोगं11 नॄणां भूमिनिवेशनम् ।। ४ ।।
Abh
अथ पञ्चत्रिंशोऽध्यायः ।
यद्भूमिकालाभपराः सदाशिवपदस्थिताः ।
तां वन्दे परमां शक्तिं चन्द्रमौलेः परां तनुम् ।।
एवमातोद्यपर्यन्तं निरूपिते नाट्यविषये यद्यपि न वक्तव्यान्तरमस्ति तथापि कठिनापदेशेनास्य शास्त्रस्य प्रवृत्तेर्नाट्याचार्येणेत्थं भूमिकानिवेशः कार्य इति शिक्षयितुं समाधानान्तरम् । तदाह । विन्यासं भूमिकानां चेति । नाट्यस्यावष्टम्भस्थानमि(मे) व भूमिका । ता(साम)वष्टम्भो हि योग्यबलनिमित्तानुभावहराद् रसभावप्रयोगकौशलमस्येति । नाटकमि(इ)ति ।। १ ।।
नाट्ये सत्त्वं मानसो हेवाक्र(क)म(सः) । शीलं शारीरः आ(रमा)हार्यमन्तः ।। २ ।। ३ ।।
स्वाभाविका गुणाः सामान्याभिनये व्याख्याता एव । ते यस्य सति(न्ति) ।। ४ ।।
Notes
अङ्गप्रत्यङ्गसंयुक्तमहीनाङ्गं वयोन्वितम् ।
न स्थूलं न कृशं चैव न दीर्घं न च मन्थरम् ।। ५ ।।
श्लिष्टाङ्गं द्युतिमन्तं च (विश्लिष्टाङ्गं)सुस्वरं प्रियदर्शनम् ।
एतैर्गुणैश्च संयुक्तं देवभूमिषु योजयेत् ।। ६ ।।
स्थूलं प्रांशुं बृहद्देहं मेघगम्भीरनिस्वनम् ।
रौद्रस्वभावनेत्रं च स्वभावभ्रुकुटीमुखम् ।। ७ ।।
रक्षोदानवदैत्यानां भूमिकासु प्रयोजयेत्1 ।
पुरुषाणां प्रयोगस्तु 2तथाङ्गक्रिययान्वितः ।। ८ ।।
सुनेत्रसुभ्रुवः स्वङ्गाः सुललाटाः सुनासिकाः ।
स्वोष्ठाः सुगण्डाः सुमखाः 3सुकण्ठाः सुशिरोधराः ।। ९ ।।
4स्वङ्गप्रत्यङ्गसंयुक्ता न दीर्घा न च मन्थराः ।
न स्थूला न कृशाश्चैव स्वभावेन व्यवस्थिताः ।। १० ।।
सुशीला ज्ञानवन्तश्च तथा च प्रियदर्शनाः ।
5कुमारराजभूमौ तु संयोज्याश्च नरोत्तमाः6 ।। ११ ।।
अङ्गैरविकलैर्धीरं स्फुटं वसनकर्मणि ।
न दीर्घं नैव च स्थूलमूहापोहविचक्षणम् ।। १२ ।।
Abh
स्त्रीभूमिकायामिति । कौशिकीप्राधान्यख्यापनाय पूर्वं स्त्रीभूमिकोक्ता ।। ५ ।।
विशि(श्लि)ष्टाङ्गमिति । विभक्ताङ्गम् । रत्या दीप्त्यात्मकं सन्ततम् । स(सु)स्वरमिति ।। ६ ।।
सुकुमार(त)या च पुरुषाणां ये प्रयोगा(गे)भूमिकायोगि(गे)न उपयोगिनो धर्मा उक्तास्त एव प्रियया तद्योषिता युक्ताः कर्तव्यास्तेन स्थूलाः (लमित्यादि) ।। ७ ।। ८-१२ ।।
Notes
अदीनं च 1प्रगल्भं च प्रत्युत्पन्नविनिश्चयम् ।
सेनापतेरमात्यानां 2भूमिकासु प्रयोजयेत् ।। १३ ।।
पिङ्गाक्षं 3घोणनासं च 4नेत्र(ह्नस्व)मुच्चमथापि वा ।
कञ्चुकिश्रोत्रियादीनां भूमिकासु नियोजयेत् ।। १४ ।।
एवमन्येष्वपि तथा नाट्यधर्मविभागतः5 ।
6देशवेषानुरूपेण पात्रं 7योज्यं 8स्वभूमिषु ।। १५ ।।
मन्थरं वामनं कुब्जं विकृतं विकृताननम् ।
9विष्टब्धनेत्रं काणाक्षं स्थूलं चिपिटनासिकम् ।। १६ ।।
10दुर्जनं दुःस्वभावं च 11विकृताचारमेव च ।
दासभूमौ प्रयुञ्जीत बुधो दासाङ्गसम्भवम्12 ।। १७ ।।
प्रकृत्याऽतिकृशं 13क्षामं तपःश्रान्तेषु14 योजयेत् ।
तथा च पुरुषं स्थूलमुपरोधेषु15 योजयेत् ।। १८ ।।
Abh
प्रत्युत्पन्नविनिश्चयमिति । झटिति भानवन्तः(म्) । सेनापतेरमात्यानामिति पाठे ।। १३ ।।
त्रयो घोणसु(नासं)च । कुटिला(ना)साऽस्येति ।। १४ ।।
एवमिति । उक्तव्यतिरिक्ता येऽन्ये तापसप्रभृतयस्तद्विषये नाट्यधर्मेणानुरागेण प्रवेशने कर्तव्ये देशहेवाकानुरूप्येण वयोवर्णाश्रमादिरूपावस्थो विचित्रानवस्थोचिताय भूमिकामुपयोजयेत् ।। १५ ।। १६-१७ ।।
अ(उ)परा(रो)धेष्विति ।। १८ ।।
Notes
यदि वा नेदृशाः सन्ति प्रकृत्या पुरुषा द्विजाः ।
आचार्यबुद्धया योज्यास्तु1 भावचेष्टास्वभावतः ।। १९ ।।
या यस्य सदृशी चेष्टा ह्युत्तमाधममध्यमा ।
सा तथाऽऽचार्ययोगेन नियम्या(ऽ)भावभाविनी2 ।। २० ।।
अतः परं3 प्रवक्ष्यामि भरतानां विकल्पनम् ।
4भरताश्रयाश्च भरतो विदूषकः सौ(कस्तौ)रिकस्तथा नान्दी(कोनटोवादी) ।
नन्दी ससूत्रधारो नाट्यरसो(करो)नायकश्चैव ।। २१ ।।
मुकुटाभरणविकल्पौ वि(ल्पैर्वि)ज्ञेयो(या) माल्यवस्तुविविधैश्च ।
कार(रु)ककुशीलवाद्या विज्ञेया नामतश्चैव ।। २२ ।।
धुर्यवदेको यस्मादुद्धारोऽनेकभूमिकायुक्तः ।
5भाण्डग्रहोपकरणैर्नाट्यं भरतो भवेत्6 तस्मात् ।। २३ ।।
लोका(क)हृदाश्रयकृता(तां) सर्व7प्रकृतिप्रचारसंयुक्ता(म्) ।
नानाश्रयां प्रकुरुते तथा च 8नारी तु सर्वत्र ।। २४ ।।
Abh
अतः परिजनभूमिकाध्यायं यदि तु स्वभावतस्तादृग्(न) भवति तदा भूमिकास्वभावोचिता चेष्टा आचार्या(र्यबुद्ध्)या कार्या । चेष्टाग्रहणेनाकाराद्यपि प्रतिशीर्षकादिना कर्तव्यमिति लक्ष्यते ।। १९ ।।
सा चेष्टाऽऽचार्येण नियमनीया । तथा सत्यभावेऽपि भवा (भावि)नी भवित्री भवति । भावश्चारत्यादिकं भावयति रसार्णेन(ना)पि विरौति तच्छीला ।। २० ।।
भरतानामिति । नाट्योपयोगिनाम् । इयता परिकरेण विना नाट्यं तु न निर्वहतोत्येतावदवश्याहरणीयमिति भावः ।। २१ ।। २२ ।।
स्वधुर्व(धुर्य)वदिति । यः सर्वत्र प्रतिज्ञागर्भितरसभरोद्वहनाद्धरत्वच्छेदैर्गीतिविविधं कृत्वा
Notes
प्रत्युत्पन्नप्रतिभो नर्मकृतो नर्मगर्भनिर्भेदः ।
1छेदविदूषितवचनो विदूषको नाम विज्ञेयः ।। २५ ।।
तूर्य(प)ति(र्य)स्तु नरः सर्वातोद्यप्रवादने कुशलः ।
2तूरपरिग्रहयुक्तो विज्ञेयस्तौरिको3 नाम ।। २६ ।।
नटनृति (त्तौ) 4धात्वर्थोऽयं भूतं नाटयति लोकवृत्तान्तम् ।
रसभावसत्त्वयुक्तं यस्मात् तस्मान्नटो भवति ।। २७ ।।
5स्तुत्यभिवादनकृतैर्मधुरैर्वाक्यैः सुमङ्गलाचारैः ।
सर्वं स्तौति हि लोकं यस्मात् तस्माद्भवेद्वादी ।। २८ ।।
6भावेभ्यो बहुधाऽस्मिन् रसा(नसौ)वदति नाट्ययोगेषु ।
प्राकृतसंस्कृतपाठ्यो 7नन्दी नामेति स ज्ञेयः ।। २९ ।।
गीतस्य च वाद्यस्य च पाठ्यस्य च नैकभावविहितस्य ।
8शिष्टोपदेशयोगात् सूत्रज्ञः सूत्रधारस्तु ।। ३० ।।
यस्मात् यथोपदिष्टान् रसांश्च भावांश्च सत्त्वसंयुक्तान् ।
भूमि9विकल्पैर्नयति च नाट्यकरः कीर्तितस्तस्मात् ।। ३१ ।।
चतुरातोद्यविधानं 10सर्वस्य तु शास्त्रखे(वे)दविहितस्य ।
11नाट्यस्यान्तं गच्छति तस्माद्वै नायकोऽभिहितः ।। ३२ ।।
नानाप्रकृतिसमुत्थं करोति यः शीर्षकं मुकुटयोगे ।
विविधैर्वेषविशेषैः 12स च (मु)कुटकारस्तु विज्ञेयः ।। ३३ ।।
Abh
दूषितादिवाचयैवानुभावादिप्रतिजागरं कुर्वता(न्न)न्यरसः ।। २३ ।। २४-३५ ।।
Notes
1भाण्डकवाद्यज्ञा या लयतालज्ञा रसानुविद्धा च ।
सर्वाङ्गसुन्दरी वै कर्तव्या नाटकीया तु ।। ३४ ।।
यस्त्वाभरणं कुर्याद् बहुविधविहितं स चाभरण(:) ।
यश्चोपकरणयोगात् स तेन नाम्नाऽभिधातव्यः2 ।। ३५ ।।
यो वै माल्यं कुरुते पञ्चविधं माल्यकृत् स विज्ञेयः ।
यश्चापि वेषयोगं कुरुते स च वेषकारी तु3 ।। ३६ ।।
चित्रज्ञश्चित्रकरो वस्त्रस्य रञ्जानात्तथा रजकः ।
जत्वश्मलोहकाष्ठैर्द्रव्यकरैः(रः) कारुकश्चैव ।। ३७ ।।
नानातोद्यविधाने प्रयोगयुक्तः प्रवादने कुशलः ।
आतोद्येऽप्यतिकुशलो4यस्मात् स कुश(शी)लवो ज्ञेयः ।। ३८ ।।
5यद्यत् समाश्रयन्ते6 शिल्पं वा कर्म वा प्रयोगं वा ।
7तेनैवोपगतगुणा विज्ञेया नामतः पुरुषाः ।। ३९ ।।
एवं तु नाटकविधौ जातिर्नटसंश्रया बुधैर्ज्ञेया ।
8नाट्योपकरणयुक्ता नानाशिल्पप्रसक्ता च9 ।। ४० ।।
उक्तोऽत्र भूमिकान्यासः प्रयोक्तारश्च योगतः ।
आदिष्टं नाट्यशास्त्रं च मुनयः किमिहोच्यताम् ।। ४१ ।।
10इति भारतीये नाट्यशास्त्रे भूमिकाविकल्पाध्यायः पञ्चत्रिंशः ।।
Abh
पञ्चविधमित्याहार्याभिनये दर्शितम् ।। ३६ ।। ३७ ।।
कुशा(न् ला)तीति कुशल(:) निरूढिलक्षणा । तेषां लावण्या(न्या)देयम् । अत एव कुशजातिं कुशिं कुर्यां(शा)यो लुनाति अयोविकारमपि यश्छिनत्ति स कुशीलिवः । उपचारात् कर्मणि पुनर्नाट्योपकरणयुक्ते नापि नटविदूषकादिशिल्पप्रयोक्ता(क्तृ) कू(मुकु)टकारादि(दावि)ति शिवम् ।। ३८ ।। ३९–४१ ।।
इत्यभिनवगुप्ताचार्यविरचितायां नाट्यवेदवृत्तावभिनवभारत्यां भूमिका(वि)कल्पः पञ्चत्रिंशः ।।