।। श्रीः ।। अथ चतुस्त्रिंशोऽध्यायः । भिन्नपाठक्रमः ।
ततातोद्यविधिस्त्वेष मया प्रोक्तः समासतः ।
अवनद्धविभागेन लक्षणं कर्म चैव हि ।। १ ।।
आतोद्यानां प्रवक्ष्यामि विधिं वादनमेव च ।
मृदङ्गपणवानां च दर्दरस्य तथैव च ।। २ ।।
गान्धर्वं चैव वाद्यं च स्वातिना नारदेन च ।
विस्तारगुणसम्पन्नमुक्तं लक्षणकर्मतः ।। ३ ।।
अनुवृत्त्या तयोः स्वातेरातोद्यानां समासतः ।
पौष्कराणां प्रवक्ष्यामि निवृत्तिं सम्भवं तथा ।। ४ ।।
अनध्याये कदाचित्तु स्वातिर्वै दुर्दिने दिने ।
जलाशयं जगामाथ सलिलानयनं प्रति ।। ५ ।।
तस्मिन् सरोनिषण्णे1 च प्रविष्टः2 पाकशासनः ।
धाराभिर्महतीभिश्च कर्तुमेकार्णवं जगत् ।। ६ ।।
पतन्तीभिश्च धाराभिर्वायुवेगाज्जलाशये ।
पुष्करी(रा)णां 3कलरवः पत्राणामभवत्तदा ।। ७ ।।
तेषां 4धीरकलं शब्दं निशम्य स5 महामुनिः ।
आश्चर्यमिति सम्प्राप्तमवधारितवान् स्वयम् ।। ८ ।।
केचिदेकवक्त्रजं केचित् त्रिवक्त्रजं केचिन्निर्वक्त्रजमिति । यथा रेफः सर्ववक्त्रेषु । दका(र)धकारावालिङ्ग्यवामके । आलिङ्ग्य दक्षिणे मकारः । वामोध्ववो(र्ध्वो वा) गकारः । क्वचिदालिङ्गेऽपि लाघवार्थं धकारः कर्तव्यः । एवं तत्र प्रतिषेधो न कार्य इति नु(नो)त्तुं
Notes
स्वरव्यञ्जनसंयोगः1 पञ्चपाणिः 2प्रगतानां समपाणिर3र्धपाणिरर्धार्धपाणिः प्रदेशिनी चेति । एते नीच(नि)गृहीतार्धगृहीतमुक्ता भवन्ति । तत्र समपाणिहतो मकारः स निगृहीतः । दकार- 4पकारा अक्षता 5र्धगृहीताः । अर्धपाणिप्रहताश्च 6कार(क)कारखकारगकारडकाराः । पार्श्वपाणि- प्रहता निगृहीताश्च तकारथकारहकाराः । अर्धार्धपाणिप्रहताश्च प्रदेशिन्या हताश्चालिङ्गे 7मकार- डक़ारणकाराः । मुक्ताश्च विहस्तप्रहस्तप्रहता अपि 8द्रङ्व्रङ्क्लेङिति । मुक्ताश्च 9क्रुद्ध(द्धा)इत्यर्धपाणि10 प्र (ह)तोऽ (ता अ)र्धनिगृहीताश्च । एवमेतेष्वक्षरेषु प्रयोगवशेन कार्यं प्रहतम् ।। ९ ।। कुतः ।
षोडशैव तु दृष्टानि वाद्यजान्यक्षराणि तु ।
अनेनैव तु योगेन योंज्यं वा(क्)करणं बुधैः ।। १० ।।
चतुर्मार्गमिति यदुक्तं तदनुव्याख्यास्यामः ।
अड्डितालिप्तमार्गौ तु वितस्तो गोमुखस्तथा ।
मार्गाश्चत्वार एवैते प्रहारकरणाश्रयाः ।। ११ ।।
तत्रालिङ्गमृदङ्गप्रहारयुक्तस्त्वड्डितो मार्गः ।
वामोर्ध्वगप्रहारयुक्तस्त्वालिप्तमार्गः ।। १२ ।।
ऊर्ध्वाङ्गदक्षिणोत्क्षिप्तप्रहस्तो11 वितस्तमार्गः ।
आलिङ्गकरणबहुलः सर्वपुष्करप्रहतो गोमुखमार्गः ।। १३ ।।
इति । तत्राड्डित12प्रहारजो यथा । मट्टंकत्थितघटघेण्डाघट्टंगत्थि घुंगमगत्थिमगघेण्डां सन्धित्थ इत्याड्डितो मार्गः ।
इदानीमालिप्तमार्गः13 । आलिङ्गकरणबहुलः सर्वादध्रो मामादध्रो मांगुदुघेंगुदुरनुंदुंघेंघ्रेन्द्र 14घेन्द्रामाङ् ।
Notes
आलिप्तमार्गवाद्यं विज्ञेयं वादकैरेवम् ।
इदानीं वितस्तमार्गः । तकितां तकिता 1क्लेन्नां किन्तान्ध्रि संकेता उदुहुदुकेन्तां वितस्ते स्यात् । अङ्गुलिप्रचालनावर्तितो 2 नकारो मुक्तश्च स एव स्वस्तिकोनो ध्वां3 कुकयोरर्ध- निगृहीतः । तयोरेव समहस्तदर्शनात् प्रचालनात् 4हकारो मुक्त इति । 5धत्थातित्थडित्थडितकिता खदेङ् खदेङ् गुरुखेन्दु खेण्डझत्थित्थि6 त्थन्धित्थां7 विधातव्यः । एवं वितस्तमा8र्गगणे 9लमकरवर्जिताः प्रहाराः स्युः । ऊर्ध्वमार्गेण विशेषो10 कार्या(र्य)श्च गोमुख्याः । 11खगमत्थिमटटघेण्डाखुखुणं 12खरखेण्डां खेदुङ् खुणुमां दुणकितिकिन्तिकिट्टिमां 13 खुखुणुद्वेघे14 धोधा विधातव्या ।
इदानीं गोमुखीवाद्यम् । डेणघेण्डणखुखुन्धु 15लघुदुलेङ्16 घटमटटाङ् दुणुघुणांत्थि घटंघिटिमां कुकुटाङुङुणुघेङ्किदिमाङ् धे धे खो खो च गोमुख्याः ।। १४ ।।
ये त्वालिप्तसमुत्थाः सर्वैर्मार्गैस्तु ते विधातव्याः ।
ग्रहणाक्षरसन्धानेऽ 17प्याद(दि)मृदङ्गाद् ग्रहो भवति ।। १५ ।।
एतेषां तु प्रवक्ष्यामि दर्शनानि यथाक्रमम् ।
चतुर्णामपि मार्गाणामक्षरग्रहणं यथा ।। १६ ।।
धृङ् 18वृङ् घट्टघङ् 19मत्थिटत्थिमटामटत्थिदिङ्मनधेङ् क्लङ्क्लेङ्20 क्घिकाङ् त्वड्डिते वाद्यम् ।
मद्रा तकिता धृङ् 21वृङ् 22स्रो किटि घेडाङ् गंत्थि्23 किटिकेत्था 24यकुताकितां किरटामिति संयोगो वितस्तेस्तु 25स्रोमाङ् गुदुघेङ् घेघेघेण्डां घेघेटद्वमां ।
Notes
आलिप्ते संयोगे कार्योऽयं वादने तज्ज्ञैः ।।
घैघेटत्थिकटांगुदुघेङ् घेटां घेण्डां 1धिमितित्थिधंकेसरेधेगधेणोणोणमिति वैष मोमुख्याः । उक्ता मार्गाः । एतेषां पुष्कराणां त्रिविधः प्रचारः । समो विषमः समविषम इति । वामोर्ध्वगयोर्वामसव्ययोरड्डितामार्गेऽपि कार्यः । समप्रचारस्त्वालिप्ते वाद्यकरणे तु वाध्वथ्2 (ग) सव्यानां ग्रहणे3 वामस्तु कर्तव्यः । सव्यो4 ध्वगमनानां5 सव्यो विषमप्रचारे तु ।। १७ ।।
एवं स्वस्तिकयोगाद् द्वाभ्यामपि यद् भवेत्तु हस्ताभ्याम् ।
माने वितस्तिसंज्ञे प्रहते विषमः प्रचारः सः ।। १८ ।।
स्वच्छन्दकस्तु करयोः शेषः प्रहतेषु मार्गकरणेषु ।
अड्डितगोमुखयोगात् समविषमो हस्तसञ्चारः ।। १९ ।।
श्रृङ्गारहास्ययोर्वाद्य6 योज्यं तथाड्डिते मार्गे ।
वीराद्भुतरौद्राणां वितस्तमार्गेण वाद्यं स्यात् ।। २० ।।
करुणरसेऽपि च कार्यं वाद्यं चालिप्तकरणमार्गेण ।
बीभत्सभयानकयोस्तथैव नित्यं हि गोमुख्याः ।। २१ ।।
7रसत्वभावयोगं दृष्ट्वाऽभिनयं गतिप्रचारं च ।
वाद्यं नित्यं कार्य यथाक्रमं स्थानसंयोगात् ।। २२ ।।
एतत् प्रहतविधानं कार्य मार्गाश्रिते8 रसैः सम्यक् ।
वक्ष्याम्यतश्च भूयो दर्दुरपणवाश्रितं वाद्यम् ।। २३ ।।
तत्रातिवादितं स्यात् मुखानामग्रतो यत्र ।
यत्त्वनुगतं मृदङ्गत(ङ्गं) 9मृदङ्गादनुवादितमुच्यते तु तद्वाद्यम् ।। २४ ।।
Notes
1समवादितमृदङ्गैर्ज्ञेयं साम्येन यद् वाद्यम् ।
2कखगवं पणवमुखां दोह्णां ब्रुहुलाम्3 ।
एते वर्णा नित्यं पणववाद्ये प्रयोक्तव्याः ।। २५ ।।
किरिखिण्डां 4थोणोथोत्रहुला 5किरिकिण्डां णोणोणाणाश्च किरिकण्डां 6माटामटत्थि टे टे दोण्णां पणवाद्यं तस्य प्रहतं कार्यं कनिष्ठा नामिकाग्रेणैव7 ।। २६ ।।
प्रशिथिलवञ्चितकक्ष्ये पणवे कङ्कार एकप्रकारस्तु ।
तथै(था)न्ततः प्रहारः पणवे कार्यः प्रशिथिल(लं)8वक्ष्ये ।। २७ ।।
कखररकृतः प्रहारः 9सोच्छ्वासे तु पणवे विधातव्याः (व्यः) ।
शेषा भ्रान्तकरणसंयोगात् संयोगकृता विधातव्याः ।। २८ ।।
धोकारस्तु खारजे पणवे कक्ष्याञ्चिते तु संभवति ।
णैणकरो10 युक्तो ह्ण इति पणवप्रकारः स्यात् ।। २९ ।।
तिर्यग्गृहीतवादननखवर्तितमिष्यते प्रहारोऽयम् ।
कुहुलां कुहुलां 11क्रेमससिन्धिः कुहुलामितीत्थं प्रकारः स्यात् ।। ३० ।।
एवं च सङ्करकृताः प्रहाराः शुद्धाः प्रकीर्तितास्तज्ज्ञैः ।
दर्दुरपणवमृदङ्गैर्मिश्रितवाद्यं प्रवक्ष्यामि ।। ३१ ।।
तत्र वर्गिकाभावं केचिदिच्छन्ति मिश्रितं केचित् ।
केचिद् युगपत्क रणं केचित् पर्यायकरणं तु ।। ३२ ।।
12एकैकसम्प्रयुक्ता वर्गानुगतास्तथैव सम्प्रयोक्तव्याः ।
घेंता कथं त्रैवो13 कुहुलां तकिता मृदङ्गेषु ।। ३३ ।।
अथ दररे 14दङ् द्रेरेङ् कुहुलां मटंथि पणवे च ।
थंमंटं 15हिझं कुहुलां मटत्थि देङ् वेङ् विमिश्रितस्तु ।। ३४ ।।
Notes
एभ्यो येऽन्ये शेषा न मिश्रा एवं नित्यशः कार्याः ।
पूर्वेऽपि च मिश्रत्वं व्रजन्ति सर्वे यथायोगम् ।। ३५ ।।
अथ युगपत् करणं कुहुलाणणां1 खुखुणोखेद्रोमादोण्णा
2थथोधौत्थि द्वे योज्यं पणववाद्यम् 3ध(धु)र्यकृतं च
क्रमशः करणं परिवादने के(दके) 4न कर्तव्यम् ।। ३६ ।।
5भटभेभेधोधोणाणकिरिणि किण्णाकृतं चेति ।
पणवस्याचारबन्धे कार्यं धाखुखुणेति वाद्यत्रयम् ।। ३७ ।।
भूयः कृतं च प्रतिकृत(तं) मार्दङ्गिकदार्दुरिकाभ्यां तु ।
यद्यत् कुर्यात् समुखं प्रहारजातं गतिप्रचारेषु ।। ३८ ।।
अनुगच्छतमक्षरवृत्तं तदेव वाद्यं तु पणवेन ।
न हि चित्रं कर्तव्यं गतिप्रचारेषु 6वाद्य(दन)मनन्तज्ञैः ।। ३९ ।।
समसहिं तत्र हि तन्न लक्ष्यते पादसञ्चारे ।
उपरिकरणं 7यथेष्टं कर्तव्यं पणवे मृदङ्गे च ।। ४० ।।
तद्वत् 8प्रहारकरणं मृदङ्गवाद्ये विधातव्यम् ।
प्रायेण सर्ववाद्येष्वादौ पणवग्रहाः प्रयोक्तव्याः ।। ४१ ।।
वक्ष्याम्यतः परमहं दसृक्9 घेत्ततिता 10केसदेङ् ।
केसदेवेदेरेभिण्णत11 मिततिमत्थि ।। ४२ ।।
इति दर्दुरे प्रहरः कार्यो मुक्ते निषण्णे च ।
कार्यस्तत्र णणण्णारेद्रेग्रेधिकित्थि12दक्किक्किकरणे ।। ४३ ।।
वामेन तु 13झित्थिकसं(लं) तत्त्ववृ(ष्ट)ष्टै(:) कराग्रेण ।
मुक्ते तमिति चैव निगृह्याशीघ्रकरणानुबन्धास्थितिरेव हितकं स्यात् ।। ४४ ।।
Notes
इति दर्दुरे प्रहारे वक्षाम्यूर्ध्वकरणजातम् ।
रूपं कृतं प्रकृतिं(प्रतिकृतं) प्रतिभेदो रूपशेषमोघश्च ।
षष्ठी(ष्ठं) वै 1प्रकृति(प्रति) शुष्के(ष्कं) ह्येते(त्तज्) ज्ञेयाः(यं)
(हि) करु(र)णा(ण)जातम् ।। ४५ ।।
तत्र रूपं नाम विहस्तकरणकरणम् । यथा ।
2गंखुखुणखुघंक्रमंथिमत्थेत्तरधयं घन्तिमेंथिघेण्डां ।
करगुडरणकिटिउंखेघडंचेघडं घेक्ख3मिति रूपम् ।। ४६ ।।
4प्र(ति)कृतं नाम यत्रैकं करणं त्रिपुष्करमप्युद्भावयति । यथा । थंखुवण5 खुं क्रमत्थि वर्गेरघटां घटं त्थिध6क सां गुदुं घं कुहलां ह्णां दोघोघोणा इति ।। ४७ ।। कृतप्रतिकृताख्यं प्रतिभेदो नाम युगपत् कृते करणे मृदङ्गानां यदुपरिकरणेन गच्छति । यथा । घोघोणाखोकुहुला7लणाणात्थि कटामटात्थिटधिघेण्टाम् ।
एभिः करणविशेषैः प्रतिभेदो नाम विज्ञेयः ।। ४८ ।।
विरूपशेषं नाम विरामकृतैः8 । यथा । खुखुण्णाणोमटघेंघेण्टा 9मदघेण्टामत्थि
10आंधोमिति वाद्यं रूपशेषं तु ।। ४९ ।।
प्रतिशुष्कं नामानुस्वारो मार्दङ्गिकपाणविकदार्दुरिकाणाम् । यथा । घटमटत्थिदुणघेङ् किटिघेङ् घोङ् घोण्डा घोणं घोण खोखो खेकुटुकुटु किटकिट वखोत्थिणणत्थि ।। ५० ।। चतुष्काख्ये सर्वभाण्डे विरामे द्रुतपाणिलयो नद्योघवा(व)दोघः । यथा । थंकिटिमंथि11 वठिकिटिघिटि धेङ् घेण्टाण्टाणं घोण घोण घट घटगु12दु घेङ् गंघेति13रिणगेगं थो थो तथो 14घघु ।। ५१ ।।
Notes
करणानां समा1योगं करणेषु विधीयते ।
अनेन2 (नैव) विधानेन योज्यं वाक्करणं बुधैः ।
यतिना(र्ना)म समा स्रोतोगता गोपुच्छचे(जे)ति च ।। ५२ ।।
यतिपाणि(णी)नां त्रिविधः संयोगः । स च त्रिप्रकारो भवति । यथा । 3राद्धा(द्धं)विद्धां(द्धं) शय्या(म्या)गतम् । एवम् ।
त्रिप्रकारः संप्रयोगः करणेषु विधीयते ।
4अपपाणिस्तु यत्र स्यात् तथा चैव स्थिता लयाः ।। ५३ ।।
गोपुच्छा च यतिर्वाद्यं तद्वै 5शम्यागतं भवेत् ।
यथाऽवगीतिप्राधान्यं मार्गश्चैव च दक्षिणः ।। ५४ ।।
6अत्युक्त(त्त)मेषु पातेषु वाद्यं शय्या(म्या)गतं भवेत् ।
स्रोतोगता यतिर्यत्र लयो मध्यं तथैव च ।। ५५ ।।
समपाणिस्तथा चैव विद्धं वाद्यं तु तद्भवेत्7 ।
स्थिताल्लयात् प्रभृत्येषां प्रमाणं सम्प्रवर्तते ।। ५६ ।।
कार्यहानिः 8कुलानां च शेषेष्वन्येषु पाणिषु ।
यतयः पाणयश्चैव या वै वाद्यसमाश्रयाः ।
यथाक्रमं विकर्तव्या नाट्ययुक्तिमवेक्ष्य च ।। ५७ ।।
तिस्रो मार्जना नाम ।
मायूरी ह्यर्धमायूरी तथा कार्मारवी पुनः ।
तिस्रस्तु मार्जना ज्ञेयाः पुष्करेषु स्वराश्रयाः ।। ५८ ।।
गान्धारो वामके कार्यः षड्जो दक्षिणपुष्करे ।
ऊर्ध्वगे मध्यमश्चैव मायूर्यश्च स्वराश्रयाः ।। ५९ ।।
Notes
वामके पुष्करे षड्ज ऋषभो दक्षिणे तथा ।
धैवतश्चोर्ध्वगे कार्य अर्धमायूरकाश्रयाः ।। ६० ।।
ऋषभः पुष्करे वामे षड्जो दक्षिणपुष्करे ।
पञ्चमश्चोर्ध्वगे कार्याः कार्मारव्याः स्वराश्रयाः ।। ६१ ।।
एतेषामनुवादी तु जातिरागस्वरान्विताः(तः) ।
आलिङ्गे मार्जनं प्राप्य निषादस्तु विधीयते ।। ६२ ।।
मायूरी मध्यमग्रामेऽप्यर्धा1 षड्जं2 तथैव च ।
कर्मारवी च कर्तव्या साधारणसमाश्रयाः3 (या) ।। ६३ ।।
स्वरा ये स्थायिनो यान्ति श्रुतिसा(धा)रणाश्रयाः ।
त एव मार्जनं कृत्वा शेषाः सञ्चारिणः स्मृताः ।। ६४ ।।
वामोर्ध्वगाभ्यामाहार्या कार्या वै लेपन 4 स्वराः ।
शैथिल्यादायतत्वाच्च कार्यस्त्वालिङ्गकान्तिके5 ।। ६५ ।।
शैथिल्यं च 6 यतं चैव वर्धापीडनमार्दवात् ।
एवं स्वरोद्भवः कार्यो मार्जनासु प्रयोक्तृभिः ।। ६६ ।।
मार्जनं तु 7मृदा कार्यं वामगोर्ध्वगयोस्तथा ।
लक्षणं मिश्रिकायास्तु8 गदतो मे निबोधत ।। ६७ ।।
निःशर्करा निःसिकता निस्तृणा निस्तुषा तथा ।
न पिच्छिला न विशदा न क्षारकटुका तथा ।। ६८ ।।
नावदाना(नवाकृष्टा)न9 चाम्ना(म्ला)ना न वि (वि)रक्तदा ।
मृत्तिकालेपनं ह्येषां यथाकार्यं तु मार्जनम् ।। ६९ ।।
नदीकूलप्रदेशस्था श्यामा या10 मृत्तिका भवेत् ।
11तोयाव(प)सरणश्लक्ष्णा तया कार्यं तु मार्जनम् ।। ७० ।।
Notes
बहुका या(ह्य)वदाता तु कृष्णा गुर्वी न च स्थिरा ।
सतुषा न स्वरकरी श्यामा यत्र न दृश्यते ।। ७१ ।।
तत्र गोधूम(चू)र्णं1 वा यवचूर्णं च दापयेत् ।
यवगोपुच्छचूर्णस्तु2 (न्तु) कदाचिदुपभु(यु)ज्यते ।। ७२ ।।
एकस्तस्य तु दोषः स्यादेकस्वरकरो भवेत् ।
एवं तु मार्जनायोगाच्छ्यामा स्वरकरी भवेत् ।
त्रिसंयोगस्य वक्ष्यामि लक्षणं द्विजसत्तमाः ।। ७३ ।।
त्रिसंयोगो नाम 3गुरुसञ्चयो लघुसञ्चयो गुरुलघुसञ्चय इति । तत्र गुरुसञ्चयो नाम गुरुस्थितलयवृत्तम् । यथा । त्थितटां तकितां तकिटां घतित्ति4 मत्ति5 मतथीत्थं घटमथिमावेङ् घेण्टामटयामेवं गुरुलघु स्यात् ।। ७४ ।। लघुसञ्चयो नाम लघुद्रुतलयप्रवृत्ते यथा । घटमट6घटमत्थिमटात्थिघटघटदुकते लय(घु)संचय इति संयोगा ज्ञेया मृदङ्गवाद्यप्रयोगज्ञैः । (त्रि) 7प्रकृतिर्नाम तत्त्वमनुगतमोघश्चेति ।। ७५ ।।
अक्षरसदृशं वाद्यं पदवर्णसमं तथैव प्रवृत्तम् ।
समं सुविभक्तकरणयुतं तत्त्वं वाद्यं विधातव्यम् ।। ७६ ।।
समपाण्यप8 (व)पाणियुतं स्फुटप्रहारकरणानुगम् ।
वाद्यं पाण्यं भवेदनुगतं च नैककरणाश्रयम् ।। ७७ ।।
(उ9)पर्युपरिपाणि 10 (समं) द्रुतलयं च (विज्ञेयम्) ।
आविद्धकरणबहुलं वाद्यं योज्यं बुघैरोघम् ।। ७८ ।।
सर्वस्यैव तु वाद्यस्य अष्टौ साम्यानि भवन्ति ।
अक्षरसमं तालसममङ्गसमं लयसमं च ।
न्यासाव(प)न्याससमं पाणिसमं चेति विज्ञेयम् ।। ७९ ।।
Notes
यद्वृत्तं तु भवेद्गानं गुरुलघ्वक्षरान्वितम् ।
तद्वृत्तं तु भवेद्वाद्यं तदक्षरसमं स्मृतम् ।। ८० ।।
ध्रुवाणां ग्रहमोक्षे तु कलान्तरकलासु च ।
यथा(द)ङ्गं क्रियते वाद्यं तदङ्गं सममुच्यते ।। ८१ ।।
यत्प्रमाणं भवेद्गानं कलाकालप्रमाणतः ।
तत्प्रमाणं तु यद् वाद्यं तद्वै तालसमं भवेत् ।। ८२ ।।
सम(मा)स्रोतोगता वापि गोपुच्छा च यतिर्यथा ।
यद्विधं तु भवेद्वाद्यं तद्वै यतिसमं भवेत् ।। ८३ ।।
1व्या(न्या)सान्ध(प)न्यासयोगस्तु स्वरणां हि यथा भवेत् ।
वंशवैणोद्भवं वाद्यं न्यासाव(प)न्यासजं तथा ।। ८४ ।।
समपाण्युपपाण्यो(ण्यु)क्तं तथैवोपरिपाणिजम् ।
गीतानुगं च यद्वाद्यं स्मृतं पाणिसमं तु तत् ।। ८५ ।।
अष्टादशजातिकमिति यदुक्तं तदनुव्याख्यास्यामः । यथा । शुद्घा एकरूपाऽऽदेशा गुरुर्वा2ऽऽदेशरूपा पर्यायो(या)विष्कम्भः पर्यन्त आरम्भोः(म्भः) पार्ष्णिसम3ता (मस्ता) दुष्करकरणा4 ऊर्ध्वगोष्ठिका उच्चिन्तिता एवं वाद्या मृदङ्गपणवा अवकीर्णा अर्धावकीर्णा सम्प्लवा विधूतमिति ।। ८६ ।।
एतासां जातीनां लक्षणमभिव्याख्यास्यामः । तत्र ।
एकाक्षरं द्वयक्षरं वा यद् वाक्यं(द्यं) सार्वमार्गिकम् ।
भवेत् करणयोगे तु सा शुद्धा नामतो यथा ।। ८७ ।।
थखोखोथक्कामेभिर्जात्यक्षरैः समायुक्ता । सा शुद्धा विज्ञेया मध्यस्त्रीणां भवेज्जातिः ।। गोमुखीमड्डिका(ता)लिप्तौ5 वितस्तं वाश्रिता(तां)यदा । वादयन्ति तथैकैक एकरूपा हि सा यथा । द्रिङ् धोङ् दोङ् धोंङ् घेघेमेङ् ।
Notes
अड्डितमार्गाक्षरैः समायुक्ता सा त्वेकरूपा जातिर्नृत्ते गीतविधानतः कार्या सर्वास्वपि प्रकृतिषु प्रयोज्या । सा स्थिताय(या) द्रुता वापि देशं कालमवस्थां ज्ञात्वा मध्ये1 विनियोज्या । 2सर्वात्ये(ण्या) ता(तो)द्यानि यत्रैकं करणं भावयन्ति हि ।। ८८ ।।
मृदङ्गवाद्यानुगमादेकरूपा तु सा स्मृता ।
अड्डितमार्गविभक्ता सम्भोगकृते भवति शृङ्गारे ।। ८९ ।।
देशानुरूपजातिस्थितिलयवृत्तं3 (युक्ता) च कर्तव्या ।
यथा मीमत्थ4मम्मत्थिकिमा एभिर्जात्यन्तरैः समायुक्ता ।। ९० ।।
देशानुरूपजातिशृङ्गारे चोत्तरे स्त्रीणाम् ।
वामोर्ध्वगप्रवृत्ता 5वाद्याक्षिप्त्वा(प्ता) चतुष्टययुक्ताः ।। ९१ ।।
उपदेशादपेतरूपा करुणरसे सा भवेज्जातिः ।
यथा ।
6घेद्राङ्घेघेमेभिर्जात्यक्षरैः समायुक्ता ।। ९२ ।।
देशादपेतरूपा सा कार्या वाद्ययोगेषु ।
पर्यागच्छति पूर्वं यस्मिन् सिद्धैस्तु तं करणजातम् ।। ९३ ।।
त्रिविधेऽपि च लययोगे पर्याया नाम सा जातिः ।
यथा ।
घेदोङ्घेदोङ्गुदु 7घङ्प्राया वामोर्ध्वगमे वामहस्तसञ्चारा8 ।
पर्यायकृता जातिर्वीराद्भुतरौद्रयोगेषु ।। ९४ ।।
गुरुयुग्मं लघुयुग्मं तथैव च 9गुरुलघुनी चैव लघुश्चैव ।
यथा ।
धिङमाङ् घटघेङ् गुदुघेङ्10 दघेङ्11 दघेङ् मात्थिमेत्थम् ।
विष्कम्भाख्या जातिः शृङ्गारे चोत्तमस्त्रीणाम् ।। ९५ ।।
Notes
एकैकाक्षरयोगाद् यद् वाद्यं सर्वमार्गसंयुक्तम् ।
पर्यस्ता क्रमहस्ता जातिः समहस्तविचारसंयुक्ता ।। ९६ ।।
आकाशे 1र(थ)विमानऋषिविद्याधरभुजङ्गमादीनाम् ।
चरिते गतिविन्यासेऽथ धा(रा)यां2 चैव पर्यस्ता ।। ९७ ।।
यथा ।
घेङ् ताङ् घेङ् ताङ् देह्णामेभिर्जात्यक्षरैः समायुक्ता ।
पर्यस्ता जातिर्वै साऽधमपुरुषेषु कर्तव्या ।। ९८ ।।
अपपाणिकरयुक्त 3मभ्यादेण्(क्ता ह्यादौ) मध्यमलयेन न यत्तुल्यम् ।
आरम्भं तं विद्यादन्तेवासि श्रुतं यस्याः ।। ९९ ।।
यथा ।
मगठं खुखु4किटां एभिर्जात्यक्षरैः समायुक्ता ।
अधमस्त्रीणां योज्या संरम्भा नाम वै जातिः ।। १०० ।।
ऊर्ध्वाङ्गदक्षिणैर्मुखे क्षिप्ता प्रभूता वितस्तमार्गे तु ।
पार्ष्णिसमस्ता जातिः कार्या शृङ्गारहास्यगतौ ।। १०१ ।।
तत्थिंकटमत्थिंकरणैः सपार्ष्णिनिपीडैः ।
5चन्द्रांशुघेन्द्रडिताङ् पार्ष्णिः समस्तः पुनर्जातिः ।। १०२ ।।
स्थितिलयगतिविन्यासे शृङ्गारे भवति योत्तमप्रकृतौ ।
धीरोत्तमपुरुषाणामन्येषां दानवादीनाम् ।। १०३ ।।
स्वह(स्व) स्तिकहस्तविचारा सर्वं(र्व) मार्दङ्ग6प्रहारसंयुक्ता ।
सा त्रिलयवाद्ययुक्ता दुष्करकरणा भवेज्जातिः ।। १०४ ।।
यथा ।
दुणुदुणुदुणाकिंकधिमघेङ्7मदत्थिदुधकिटिघेङ् ।
एभिर्जात्यक्षरयोगैर्दुष्करकरणा भवेज्जातिः ।। १०५ ।।
Notes
दैत्येन्द्रभुजगराक्षसपिशाचगन्धर्वगुह्यकादीनाम् ।
गतिविन्यासे कार्या दुष्करकरणा भवेज्जातिः ।। १०६ ।।
ऊर्ध्वाङ्गदक्षिणमुखो(त्) क्षिप्तप्रहिता वितस्तमार्गा च ।
अङ्कोर्ध्वगप्रवृत्ता दक्षिणवामप्रवृत्ता च ।। १०७ ।।
प्रावेणान्तर्मार्गा वितस्तमार्गाश्रया तु दिव्यानाम् ।
1अविलृङ् धृङ् धृङ्प्राया जातिरियमूर्ध्वकोष्ठा स्यात् ।। १०८ ।।
सर्वैर्मार्गैः समृद्धृत्य यद्वाक्यं करणं भवेत् ।
उच्चित्तिकां विजानीयाद् गूढशृङ्खलिकाकृत(ता)म् ।। १०९ ।।
यथा ।
केत्तां केत्तां गदितामेभिर्जात्यक्षरैः समायुक्ता ।
राज्ञां स्वभावग(मने)जातिः2 कार्या वितस्तिकृता ।। ११० ।।
गोमुख्यक्षरसहिता सर्वमृदङ्गप्रहारसंयुक्ता ।
कुहकाभिनये योज्या वैलाम्बिकदृष्टलिङ्गेषु ।। १११ ।।
यथा ।
घेण्डाण्डादोरकिता धेङ्3मिटत्थि घटगु4दुघे ।
एभिस्त्वक्षरयोगैरेवा5ऽऽवाद्या (वं वाद्ये) भवेज्जातिः ।। ११२ ।।
वामनविह्वलखञ्जस्यू (ञ्जेषु) धाङ् गाधे च (गद्यहतवादाम्) ।
6गद्यहतवादां7 (एवं)वाद्य(द्या)जातिस्त्वेषां गमने तु कर्तव्या ।। ११३ ।।
पृथिवी वादितं यत्र पर्वतोऽन्येषु दृश्यते ।
मृदङ्गपणवादीनां सा जातिः (नां जातिः) सा माजि(र्जि)की8 यथा ।। ११४ ।।
घ्रोंघ्रोंठोंठोमेभिर्जात्यक्षरैः समायुक्ता ।
मृदङ्गपणवा (दी)नां स्त्रीणामेषा(भवेज्) जातिः ।। ११५ ।।
Notes
अवतीर्णं यद् वाद्यं त्रिगुणैर्वाद्यकरणैर्मृदङ्गानाम् ।
दर्दुरपणवोपगमादवकीर्णा नाम सा जातिः ।। ११६ ।।
यथा ।
केन्तां केन्तां केन्तामेभिर्जात्यक्षरैस्तु सम्प्र(सं)युक्ता1 ।
गोमुखमार्गे जातिः सा चैव2(वं)गुणा विधातव्या ।। ११७ ।।
अर्धकीर्णविविधैः करणैरिह मार्गयोगलघुयुक्तैः ।
दर्दुरपणवमृदङ्गैरर्धार्ध3(र्धं)वादने कार्यम् ।। ११८ ।।
यथा ।
थंगदघेण्डां सेन्द्रामेभिर्जात्यक्षरैस्तु संयुक्ता ।
सम्प्लवमिति विज्ञेया कर्तव्या वानरैः करणैः ।। ११९ ।।
दिव्यैर्नानाकरणैश्चित्रैः समृदङ्गप्रहारसंयुक्तैः ।
स्वाभाविकोत्तमगतौ विधूय जातिर्विधातव्या ।। १२० ।।
यथा ।
4तिक्षिंसां मटत्थि कणं कुक्राभ् ।
एभिस्त्वक्षरयोगैर्विधूतजातिर्विधातव्या ।। १२१ ।।
एता गतिप्रचारेषु विज्ञेया जातयो बुधैः ।
याश्च नोक्ता मया 5वाऽ(चा)स्मिन् ता ग्राह्या लोकतोऽर्थतः ।। १२२ ।।
एवमेतेन विधिना कर्तव्यं वादनं बुधैः ।
गतिप्रचारे गीते च दशरूपे तथैव च ।। १२३ ।।
सप्तरूपे विधाने च छन्दसा कारितेषु6 च ।
वाद्यं गुर्वक्षरकृतं 7तथार्धाक्षरमेव च ।। १२४ ।।
गतिप्रचारे कर्तव्यं गानसौम्यार्थदर्शनात् ।
तत्त्वं चानुगतं चैव तथौघं करणाश्रयम् ।। १२५ ।।
Notes
राज्ञां ललितभावत्वाद् योज्यं वाद्यं स्वभावजम् ।
तत्त्वं तु प्रथमे गाने द्वितीयेऽनुगतं भवेत् ।। १२६ ।।
तृतीये त्वौधसंज्ञं तु वाद्यं गतिपरिक्रमे1 ।
शेषाणां छन्दतश्चित्रं ध्रुवाणां सम्प्रयोजयेत् ।। १२७ ।।
अथ स्थितावकृष्टानां वाद्यं चानुगतं भवेत् ।
प्रावेशिकीनां कर्तव्यं तत्त्वं चानुगतं तथा ।। १२८ ।।
नैष्क्रामिक्यन्तरगतं कार्यं त्रिलयवादिना2 ।
द्रुतं प्रासादिकीनां च ध्रुवा पञ्चविधा भवेत् ।
एवं ध्रुवाणां कर्तव्यं वाद्यं प्रकरणाश्रयम् ।। १२९ ।।
यो मात्रांशविकल्पस्तु ध्रुवापादे भवेदिह ।
स तु भाण्डेन कर्तव्यस्तज्ज्ञैर्गतिपरिक्रमः (मे) ।। १३० ।।
एवं गतिप्रचारेषु वाद्यं योज्यं प्रयोक्तृभिः ।
अत ऊर्ध्वं प्रवक्ष्यामि ग्रहान् भाण्डसमाश्रयान् ।। १३१ ।।
शम्यातालग्रहाः केचित् तथाकाशग्रहाः पुनः ।
तत्र शम्याग्रहा ज्ञेया नित्यं दक्षिणपुष्करे ।। १३२ ।।
वामोर्ध्वगे ग्रहाश्चापि ज्ञेयास्तालग्रहा बुधैः ।
तर्जनीग्रह3काठिन्य(नित्य) मालिङ्गे परिकीर्तिता(:) ।। १३३ ।।
अथाकाशग्रहाः प्रोक्ता निष्क्रामे वा प्रयोजिताः ।
आसारितानित्यश (नि श)म्याद्यास्तालाद्यास्तु ध्रुवाङ्गजाः ।। १३४ ।।
लयं च न ग्रहं गानं तत्र स्यात् तर्जनीग्रहाः ।
शीर्षकं चोद्धता चैव प्रदेशिन्या ग्रहाः स्मृताः ।। १३५ ।।
नत्कुटस्याड्डिका(ता)याश्च4 प्रादेशि(सादि)क्यास्तथैव च ।
सन्निपातग्रहा ज्ञेयास्तथैवैककला(लो)विधिः ।। १३६ ।।
Notes
आकाशग्रहका ज्ञेयाश्चतु1र्वि(र्द्वि)कलयोगजाः ।
तथा चाङ्गनिबद्धानि2 गीतकानि यथाक्रमम् ।। १३७ ।।
एवमेते बुधैर्ज्ञेया ग्रहा भाण्डसमाश्रयाः ।
ताण्डवे सुकुमारे च वाद्यं वक्ष्याम्यतः परम् ।। १३८ ।।
अभाण्डमेक(कं) गानस्य परिवर्तं प्रयोजयेत् ।
तस्यान्ते सन्निपातस्तु कार्यो भाण्डग्रहो बुधैः ।। १३९ ।।
3अथा(थवा) नृत्तशोभार्थमङ्गाङ्गं(ङ्ग)परिकी(व)र्तनम् ।
गीतकस्य प्रकर्तव्यं 4व(ल)यस्य परिवर्तनम् ।। १४० ।।
यत्राभिनेयमङ्गं तु न वाद्यं तत्र योजयेत् ।
यत्राङ्गहारनृत्तं तु तत्र वाद्यं प्रयोजयेत् ।। १४१ ।।
यदा गीतवशादङ्गं भूयो भूयो निवर्तते ।
तत्राद्यमभिनेयं5 तु शेषं नृत्तेन योजयेत् ।। १४२ ।।
यद्वृत्तं तु पदं गाने तादृशं वाद्यमिष्यते ।
गीतवाद्यप्रमाणेन कुर्याच्चाङ्गविचेष्टितम् ।। १४३ ।।
वाद्यं गुर्वक्षरकृतं तथाल्पाक्षरयोजितम् ।
मुखोपग(व)हनं6 कार्यं प्रकृष्टं वर्णतस्तथा ।। १४४ ।।
स्थितेऽल्पत्वं प्रहारं तु मध्येऽक्षरसमं तथा ।
कार्यं तु गीतके वाद्य(द्यं)द्रुते चोपरिपाणित(क)म्7 ।। १४५ ।।
समं रक्तं विभक्तं च स्फुटं 8शुद्ध(द्धं)प्रयोगजम् ।
नृत्ताङ्गग्राहि कालज्ञैर्वाद्यं योज्यं तु ताण्डवे ।। १४६ ।।
सनृत्तेषु प्रयोगेषु तत्त्वं ह्यनुगतं भवेत् ।
अनृत्तेषु प्रयोगेषु तत्त्वमोघं च वादयेत् ।। १४७ ।।
Notes
स्थिते मध्ये द्रुते चापि यथागानं तु वादयेत् ।
पदनृत्ताङ्गहारेषु कृतेन वै प्र(न प्र) क्रमेण तु ।। १४८ ।।
यो विधिर्गानवाद्यानां पदाक्षरलयान्वितः ।
स तु नृत्ताङ्गहारेषु कर्तव्यो नाट्ययोगतः ।। १४९ ।।
एतास्तु जातयः प्रोक्ता दश चाष्टौ च भाण्डजाः ।
अत ऊर्ध्वं प्रवक्ष्यामि प्रकारान् वाद्यसंश्रयान् ।। १५० ।।
अथ प्रकाराः । चित्रं1 (त्रः) समं2(मो) विभक्तं3(क्तो)हीनं(छिन्नो) भिन्नं(छिन्नविद्धो) विद्धं(द्धो) (ऽनुपीडः) स्वरूपं (पः) 4स्वरूपानुगतम(तोऽ)नुगतः अ(सृतोऽ) नुस्मृतः(सृत) विच्युतो दुर्गः अ(र्गोऽ)वकीर्णः अ(र्णो) र्धावकीर्ण एकरूपः परिक्षिप्तः सञ्चि(साचीकृतः समलेखः चित्रलेखः सर्वसमवायः(यो) दृढ इति ।। १५१ ।। तत्र ।
5रचितादिभिः प्रयुक्तं चित्रौः करणैरनेकविधहस्तैः ।
त्रिलयं त्रिपाणियुक्तं चित्रं वाद्यं बुधैर्ज्ञेयम् ।। १५२ ।।
दुर्दरपणवमृदङ्गैर्नानाकरणैस्तु यः सम्यक् ।
समयतिकालाङ्गयुतः स तु विज्ञेयः समो नाम ।। १५३ ।।
एकायनस्तथा यत्या यतश्च संस्थानसंविभक्तश्च ।
अक्षरपाणिलयेषु च विभक्तस्तु6 स्व (स विज्ञेयः) ।। १५४ ।।
वाद्यं तु त्रिलयं यत्र सहसा च विवर्धते ।
सर्वातोद्यप्रवृत्तं तु प्रकारश्छिन्न एव सः ।। १५५ ।।
अपपाणिमृदङ्गानां पणवोपरिपाणि च ।
भवतो यत्र वाद्ये तु छिन्नविद्ध इति स्मृतः ।। १५६ ।।
मृदङ्गकरणं वाद्यं पणवो वेधयेद् यदि ।
सूचीवेधैर्विचित्रैस्तु करणैर्विद्ध एव सः ।। १५७ ।।
Notes
विद्धानुविद्धये द्वाभ्यां1 (द्धं यद्वाद्यं) सर्वातोद्येषु दृश्यते ।
परस्परविरोधे तु अनुपीडस्तु संस्मृतः2 ।। १५८ ।।
विशुद्धवाद्यप्रकृतिः समतालकृतस्तथा ।
स्वरूपापगतं चै(तश्चै)व स्वरूप इति संस्मृतः ।। १५९ ।।
मुखः (खो वा) पणवो वापि पणवो दर्दुरोऽपि वा ।
तथानुयायादातोद्यं स्वरूपानुगतस्तु सः ।। १६० ।।
अनुगद्य मृदातोद्यं गच्छेद् यत् स समं3 पुनः ।
श्रुतवत् समता वाद्ये तदाऽनुसृत उच्यते ।। १६१ ।।
एकैकानुगतं मा(गा)ढं वाद्यजातिसमन्वितम् ।
कृत्वाऽन्यजातिकं कुर्यात् तदाऽनुसृतविच्युतः ।। १६२ ।।
यत्र प्रचारविषमः4(मं) सर्वमार्गप्रबोधनम् ।
अविभक्ताक्षरकृतं तद् दुर्गं वाद्यमुच्यते ।। १६३ ।।
समवृत्तै5र्मुदङ्गस्तु वाद्यते पणवैर्यदा ।
नानाविचित्रकरणैरवकीर्णस्तदा स्मृतः ।। १६४ ।।
द्रुता6(तं)लयं समारुह्य पणवो दुर्दरोऽपि वा ।
7अवधानोऽपि यत्र स्यादर्धकीर्णा तु सा सदा ।। १६५ ।।
सर्वातोद्यानि यत्रैकं करणं भावयन्ति च ।
समवृत्तपदान्येव एकरूप इति स्मृतः ।। १६६ ।।
पणवैश्चोदितं यत्र वाद्यमल्प8मृदङ्गजम् ।
सुविभक्ताक्षरपदं परिक्षिप्तं तु9 (प्तस्तु) स स्मृतः ।। १६७ ।।
चित्रं हि करणं यत्र पदेनैकेन वाद्यते ।
नृत्ताङ्गहारानुगतं ज्ञेयं साचीकृतं तु यत् ।। १६८ ।।
कृत्वोपरिगतं वाद्यं पणवो1 (वो)दर्दरोऽपि हि ।
Notes
1यत्रोदीक्षेत मुखान्3 समलेखस्तु स स्मृतः ।। १६९ ।।
चित्रं बहुविधं वाद्यं मृदङ्गपणवादिभिः ।
क्रियते यत्र संरब्धैश्चित्रलेखस्तु स स्मृतः ।। १७० ।।
सर्वमार्गकृतो यस्तु सर्वपाणिलयाश्रयः ।
विचित्रश्च विभक्तश्च स सर्वसमवायकः ।। १७१ ।।
यस्तु मध्यलयोपेतः समः स4विहिताक्षरः ।
गतिप्रचारविहितः प्रचारो दृढ एव सः ।। १७२ ।।
एवमेते प्रकारास्तु कर्तव्या नाट्यसंश्रयाः ।
गतिप्रचारे गीते च रसभावौ समीक्ष्य तु ।। १७३ ।।
एते प्रकारा जात्यश्च सर्वमार्गेषु ते स्मृताः ।
ते वै गतिप्रचारेषु शुद्धास्ते केवलाः स्मृताः ।। १७४ ।।
एतेषां प्रयोगमिदानीं वक्ष्यामि । तत्रोपविष्टैः प्राङ्मुखो रङ्गे कुतव(प)विनिवेशः कर्तव्यः । तत्र पूर्वोक्तयोर्नेपथ्यगृहद्वारयोर्मध्ये कुतव(प)विन्यासः । रङ्गाभिमुखा मार्दङ्गिकपाणविक– दार्दरिकेषु गायकनायिका5वांशिकवैणिकसहितेषु अ (ष्व)शिथिलायततन्त्रीबद्ध 6स्तनितेष्वातोद्येषु यथाग्रामरागमूर्च्छानां मार्जनानुलिप्तेषु मृदङ्गेषूद्धाराया निपीडितेषु निगृहीतार्धनिगृहीतमुक्तप्रकारे7षु दर्दरवादनमुख्यविन्य–स्तहस्तैर्वादकैर्देवतानामार्वाहन– विसर्जनार्थं प्रथममेव त्रिसामः कर्तव्यः । स तु सर्वचराचरोत्पत्तिस्थितिप्रलयकर्तृब्रह्मणो मुखाभिव्यक्तेन प्रथमेन साम्ना वामपार्श्वे चन्द्रं सम्प्रीणयति दक्षिणेन पन्नगान् । अथान्तरेण
8जलसाम्ना मुनीन् । आग्नेयेन बृहत्साम्ना दैवतेन च ।। १७५ ।।
एवं प्रीणयते यस्माद् दैवतानि यथाक्रमम् ।
तस्मान् त्रिसाम विज्ञेयं त्रिसामत्वाद् बुधैरिह ।। १७६ ।।
एवं च श्रूयते यस्माद् ब्रह्माणं केशवं शिवम् ।
तस्मादेतत् त्रिसामं तु ऋषिभिः परिकीर्तितम् ।। १७७ ।।
Notes
चतुर्णामपि वेदानामादावोङ्कार उच्यते ।
तथात्र सर्वगीतानां त्रिसाम परिगीयते ।। १७८ ।।
त्रिप्रकारं त्रिलयकं तथा चैवाड्डिताश्रयम् ।
षट्कलं त्रिकलं चैव त्रिसाम परिकीर्तितम् ।। १७९ ।।
त्रिविधः साक्षरविधस्तु(धो) गुरुलघ्वक्षरान्वितम् ।
यकारश्च मकारश्च त्रिकैस्त्रिगुणितं भवेत् ।। १८० ।।
तस्यैव चान्ते पूर्वरङ्गविधिमनुप्रासं छन्दोसमेनाक्षरसमेन च वाद्यं बहिर्गीतविधान– वस्तुत्रितयं वर्तनीयम् । तत्र च सा नितम्बियोगं च तथानुगतं वाद्यं प्रायः प्रयोक्तव्यम् । वृत्ते वस्तुत्रिसाम्ना च प्रकृत्याहारोऽयं वर्तनं यो1 गीतिकावद् वाद्यं प्रवर्तते । तत्रादौ वामोर्ध्वगप्रचारयुतं पश्चादालिङ्गनविमर्दे(र्द)नो2 गोपुच्छा यदि सामाद्यपि चित्रकरणयुतं चतुमार्गं विपञ्चीवाद्यं प्रवर्तयितव्यम् । पूर्वं भाण्डेनाभिव्यञ्जिते रङ्गे स्त्रीबालमूर्खावि(व)कीर्णे च रङ्गे कुतूहलमुत्पन्ना(त्पादना)र्थं भवति ।। १८९ ।।
अपि च ।
आचार्याः सममिच्छन्ति पदच्छेदं तु पण्डिताः ।
सुकुमारा3(रं)स्त्र(स्त्रि)यश्चैव 4निकृष्टमितरे जनाः ।। १८२ ।।
तत्र भाण्डे ताण्डवप्रयोगमधिकृत्यावतरणकाले लघुपादसञ्चयैर्मार्दङ्गिकैरङ्गुलिप्रचलप्रायं वाद्यं योज्यम् । तत्रान्तराभिमुखो गायकः । गायकस्य वामपार्श्वे वैणिकः । वैणिकस्य दक्षिणे मृदङ्गवादकः । गातुरभिमुखा गायकाः । नर्तक्यवतरणगीतान्ते सन्निपाता ज्ञेयाः । लास्यनृत्ताङ्गहारानुगतं वाद्यं करणधातुसंयोगमित्युच्यते ।
Notes
समं रक्तमित्यादि तत इदानीं वामोर्ध्वगप्रहारसंयुक्तमालिप्तमार्गदेशकरसंश्रयं समुत्थापन्नन(पन)केन1 वाद्यं योज्यम् । यथा । दीर्घेङ् मतिखङ् मथांदेङ् धिविदिं 2क्कं खुं खोकणे देघां केत्तां केत्तां किट धेङ् इति । 3पूर्वरङ्गलयपातनिर्दिष्टप्रयोगसमुत्थापनके वाद्यं योज्यमिति । तयोः परं यत् परिवर्तनं चतुर्मार्दङ्गिकं शुद्धजात्याश्रयं यथा प्रोक्तम् । खोखोणं खोखाणां थखोखोणा । एतद्द्रव्यैर्यववाद्यं स्यात् । पुन(:)स्त्री वान्या स्यात् । थोखोदोखो खकेणां घयेत्तां घ । नपुंसकपदे यथा स्वरं खं 4दुमार्गि इति । चतुर्थकारप्रवेशे च वाद्यं वस्तूत्थापनके चापकृष्टायामर्धमपि चार्यग्रहो यथा । घेघेत्तां 5घे खोखोङ्गो घणं दोषां दों घ दो घ घ घे इति । शुष्कावकृष्टाया6 (यां)यथा । थो खो थो खे ख धोधेङ्णादम्यङ् खोघ्रोकेतांकखेखेणकसुगुकघेङ् गिणाणां खिखिखेङ्ताङ् खेङ्णं किटिकिटि घघेङ् घघेङ् कटुखुदुकं लवला खोखोखो 7खोखाध्रंकेटां माणिंणांमां किटिघ8णि इति । सन्निपातग्रहः(हो)यथा । वामकरणे का 9खोणो दोदोकं10 मोकं11 दहेणणा धो धो12 धो घटमटत्थि 13खंघोखोखोखोकटकटझं 14खेखाखो तिथि कटकटां घटकमत्थि घे खो15 मिथि णाणां किटिकिणां खफत्थमिति आलिप्तमार्गाश्रितं वाद्यम् ।। १८३ ।। अतः परं महाचार्यवितस्तमार्गाश्रितं वाद्यम् । प्रदेशिन्या ग्रहो यथा । णणणखो16मधुणां खोखोमत्थि तकितां तकितां किटिकितों किटिकितों खोखोमतितों मत्थित्र मतित्थं तिकिति केन्तां केन्तां द्रेतां ततकेन्तांट घेतोन्द्रं केन्तां द्रान्तां किण्णां केन्तां मुद्रां धोध्रंकेसंध्रंध्राद्रांद्रा ध द्रे द्रां द्राघें द्राघें द्राघेङ् इति । 17केस(क्लेङ्)कोपक्षेपणात् सिद्धिः । एतावच्चतुरश्रम् । पूर्वरङ्गविधाने भाण्डवाद्यं प्रयोजयेत् ।
Notes
त्र्यश्रत्वे तदेव कलाव्यवहितं पुनश्च नाटकाद्येषु धीरोदात्तधीरोद्धतधीरललितप्रशान्तानां चतुर्णां नायकानां गतिप्रचारेष्ववस्थासु निर्गतं वाद्यमुपदेक्ष्यामः । तत्र घ्रं घ्रं घ्रं धाद्रं प्रायो 1वेदा(देवा)नां गतौ प्रयोज्यम् । घेन्तां प्रयोज(ज्यं)राज्ञाम् । 2घाकेसं घट्ट घेङ् घेङ् घेङ् घेङ् घटित्थि टुन किटिति थिद्राणां णां घ्र द्रां प्रायं मध्यमपुरुषो3(षे) वाद्यम् । पुनरेव स्थितायां वाद्यविधानं वक्ष्यामि ।। १८४ ।।
त्रिकलं(ल)द्विकलैककलाश्चतुष्कलाश्चैव 4पातविन्यासाः ।
तत्र तु साम्यं कार्यं भाण्डेन समं न गानेन ।। १८५ ।।
स्वस्थो गतिप्रचारो वाद्य(द्यं)त्रिकलश्च(लं च)तुष्कलं वापि ।
(गति)लययतिविधानं समीक्ष्य तज्ज्ञैः प्रयोक्तव्यम् ।। १८६ ।।
न ह्येककला द्विकला वा ध्रुवाविरामा भवन्ति वाद्येषु ।
तस्माद् भाण्डेन च 5कं(तं) साम्यं कार्यं न गानेन ।। १८७ ।।
सर्वत्र त्वरितगमनेषु पाताः पूर्वोक्ता ये गतिप्रचारेषु ।
धृङ्धृङ्घेङ्घेङ्प्रायं तत्र च वाद्यं प्रयोक्तव्यम् ।। १८८ ।।
गौ(गो)रथविमानयाने पक्षिच(ज)लाकाशजजडचि(वि)चलनात्6 ।
कार्यं वाद्यं चतुष्केऽप्यन्योन्यकराभिहतं वाद्यम् ।। १८९ ।।
दुःखार्थिव्याधित7शापक्लेशनिपतितेष्टजनविभवनाशवधबन्धव्रतनियमो– पवासयुक्तेषु पू्र्वलिप्तमार्गाश्रितमुत्थापनवाद्यं प्रयोज्यं स्यात् । दैत्यदानवयक्षराक्षसभूतपिशाचग्रहा 8दिंनिथाध्राङ्दुङ्वधसंयुक्तं घुटुटुकृतं तकेथोद्राम् इत्येवमादि करणैर्गतिवाद्यं प्रयोजयेत् । खञ्जविकलवामनकुब्जादीनां प्रवृत्तगमनेषु घेंतां कटकामिति वाद्यं प्रयोक्तव्यम् । यतिमुनिपाशुपतशाक्यादीनां दोखो 9विखिदगुदुखेङ् 10कसनदोधन्तिकिती11 वाद्यं प्रयोक्त– व्यम् । विदूषकोपधापन12षण्डवर्षवरादीनां घें घें त्राणोण्णा दो ण्णा ण्णा ण्णामिति वाद्यं पुनश्चैव ।
Notes
अथ वृद्धश्रोत्रियकञ्चुकिस्थूलादीनां ध्रं ध्रो द्राङ्द्रों धीङ्द्रोणां खो खोणाम् इति वाद्यं प्रयोक्त– व्यम् । अथ राज्ञां 1अयिधमिगोंकं खु खु इति वाद्यं प्रयोज्यम् । 2अधमानां वेश्याशिल्पकारि(र)काणां नागरिकीयानां(काणां)धकुकुद्धिकिटमत्थिति3णंगोणां धो इति ।। १९० ।। एवं तावत् समासाभिहितं स्त्रीणामवस्थान्तरितानां च । एत एव पौरुषवाद्यविशेषाः । तस्मात् सामान्यतो हि भयक्लेशशोकक्रोधादयो विभावाः4 समुत्पद्यन्ते । तत्र 5भ(भा)वापेक्षं मार्गाश्रितवाद्यं योज्यं भवति ।। १९१ ।। अपि च ।
जातिमार्गप्रकारैस्तु करणैरक्षरैस्तथा ।
वादयेद् वस्तु सङ्कीर्णं स श्रेष्ठो वादकः स्मृतः ।। १९२ ।।
अन्तरवाद्यानि च विप्रकारितं6 सिद्धग्रहणं परिच्छिन्नमिति । तत्रानुबन्धसंज्ञाना– मान्तरवाद्यम् । यथा । खोखोणां खो घे इति पाठ्य(म्) । विप्रहारितः7 (तो) यथा । धद्रां छ खाखो8 इति ।। १९३ ।। सिद्धिरपि वा ।
ऐश्वर्ये विस्मृते श्रान्ते वस्त्राभरणसंयमे ।
सिद्धिर्वाचैव कर्तव्या नानाकरणसंश्रया ।। १९४ ।।
सा च सिद्धिर्यथा मार्गकरणाश्रया कार्या चित्रकरणा पञ्चषट्कला9 । अथ परिच्छिन्नं सर्वभाण्डिकं द्रुतध्रुवाभूयोपगमने गम्भीरधीरप्रहारमुद्धतं यथा पञ्चषट्कलं च तत्रोत्तमानां वितस्तभुजाश्रितं घुं घुं घुं क स इति10 । अथोत्तमस्त्रीणामड्डितवाद्याश्रितं यथा । णण्णां खो खो णण्णामिति । अथाधमानां खण्डनं नत्कुटविषयं यथा । सं संकेत किटि किण्णामिति । अवस्थान्तरेषु पुनरेवार्धकृतं भविष्यति च11 । वाद्यविरामे वाद्यं साधनकृते विरामे च वस्त्रा-
Notes
हरणविनिपाते संयमनकाले । अथ प्रासादिक्यां समपादो विभक्तकरणवाद्यं योज्यम् । द्रुतायामुपरिपाणिकरणम्1 । अजितायामापकृष्टसामे(मै)कसन्निपातकृतमिति ।
एवमेतत् प्रयोक्तव्यं वाद्यं गतिपरिक्रमे ।। १९५ ।।
अड्डितायां च णा खो खो ण द दे दे दे दे खो खो धुणं धुण् इति2 । अथ नत्कुटखञ्जयो(:) णण्णाखुखुणाण्णा3ण्णा खोणं4ण्णा दे दे दे खो खो खो खो घे इति । 5अथोद्गात्यसम्भ्रमावेगामर्षार्थविस्मयोत्साहजो भोगाय तस्य यत् तदुद्धात्यं सम्प्रकीर्तितम् ।। १९६ ।। मोक्षानिदानीमुपदेक्ष्यामः । 6तत्राड्डितद्रुताः ध्रां तिडि 7तिन्तां इति । असतस्थिताया घततामिति । अपकृष्टायां वधधमिति8 ।। १९७ ।।
एवमेते ग्रहा मोक्षा द्रुतपा(क्षा पा)त्राणां गदिता मया ।
निष्क्रामे च प्रवेशे च आक्षेपिक्यन्तरासु च ।। १९८ ।।
एवं 9तालकलास्वरा(र)ज्ञानेन मार्दङ्गिकेन भवितव्यम् । भवति चात्र श्लोकः ।
अतालकमतालज्ञमशास्त्रज्ञमवादकम्10 ।
चर्मघातकमित्येवं प्रवदन्ति मनीषिणः ।। १९९ ।।
अनेनैव विधानेन योज्यं वाद्यं प्रयोक्तृभिः ।
अत ऊर्ध्वं प्रवक्ष्यामि आतोद्यानां तु लक्षणम् ।। २०० ।।
त्रिविधा(त्रिधा)क्रिया मृदङ्गानां हरीतकियवाश्रया ।
तथा गोपुच्छरूपा च भवत्येषां स्वरूपतः ।। २०१ ।।
हरीतक्याकृतिस्त्वङ्क्या यवमध्यस्तथा स्वकः11 ।
आलिङ्गश्चैव गोपुच्छाकृतिरेषां प्रकीर्तितः ।। २०२ ।।
Notes
तालास्त्रयोर्ध्व(र्ध)तालाश्च मृदङ्गा(ङ्गोऽ)ङ्गिक इष्यते ।
मुखे तस्याङ्गुलानि स्युस्त्रयोदश चतुर्दश ।। २०३ ।।
ततो(थो)र्ध्वकश्च कर्तव्यश्चतुस्तालप्रमाणतः ।
मुखं तस्याङ्गुलानि स्युरष्टावेव समासतः ।। २०४ ।।
पणवश्चापि कर्तव्यो दीर्घत्वे षोडशाङ्गुलः ।
कृशो मध्या(ध्ये)ङ्गुलान्यष्टौ पञ्चाङ्गुलमुखं त(खस्त)था ।। २०५ ।।
ओष्ठस्तस्य च कर्तव्यस्तज्ज्ञैरध्यर्धङ्गुमलम् ।
मध्ये तु सुषिरं तस्य चत्वार्येवाङ्गुलानि तु ।। २०६ ।।
दर्दरस्य 1शुभंकारो भवत्यष्टिमुखस्तथा ।
मुखं च तस्य कर्तव्यं घटस्य सदृशं बुधैः ।। २०७ ।।
द्वादशाङ्गुलविस्तीर्णं पीनोष्ठं च समासतः ।
अत ऊर्ध्वं प्रवक्ष्यामि चर्मलक्षणमुत्तमम् ।। २०८ ।।
न ज्वरोपगतं2 चर्म न च काकमुखाहव(वह)म्3 ।
न मेदोपगतं क्लिन्नं न च धूमादिदूषितम् ।। २०९ ।।
षडि्भर्दोषैर्विनिर्मुक्तं चर्म निर्वर्तितं गवाम् ।
देवताभ्यर्चनां कृत्वा ततः स्थाप्य महीतले ।। २१० ।।
चित्रायामथवा हस्तेऽहनि पुण्ये शुभौ(भे)तिथौ ।
उपाध्यायः शुचिर्भूत्वा कुलीनो राजवर्जितः ।। २११ ।।
घनज्ञो गीततत्त्वज्ञो मधुरो नियतेन्द्रियः ।
सोपवासोऽल्पकेशश्च शुक्लवासा दृढव्रतः ।। २१२ ।।
मण्डलत्रयमालिप्य4 गोमयेन सुगन्धिना ।
ब्रह्माणं शङ्करं विष्णुं त्रिषु तेषु प्रकल्पयेत् ।। २१३ ।।
Notes
आलिङ्ग्य स्थापयेत् पूर्वं ब्रह्माणं पूर्वमण्डले ।
ऊर्ध्वकं तु द्वितीयस्मिन् रुद्रनाम्नि निपातयेत् ।। २१४ ।।
तिर्यक् कृतां गतिं सम्यग् वैष्णवे मण्डले न्यसेत् ।
बलिपुष्पोपहारैश्च नानापुष्पैर्विचित्रकैः ।। २१५ ।।
आलिङ्गे चञ्ज(चाञ्ज)लिं दद्यात् मधुपायसमिश्रितम् ।
अपूर्व1(पो)ल्लपिकामिश्रामालिङ्गे2 सम्प्रदापयेत् ।। २१६ ।।
अनन्तरं च दातव्यं सर्वमेवोर्ध्वके बलिम् ।
स्वस्तिकाऽपूपिका 3धूपरूपकैश्च तिलैः सह ।। २१७ ।।
उन्मत्तकरवीरैश्च पुष्पैरन्यैश्च भूषितः ।
बलिः कार्यः प्रयत्नेन रक्तो रक्ताम्बरैः सह ।। २१८ ।।
वैष्णवे मण्डले स्थाप्य सर्वबीजकृतो हितम् ।
शुद्धस्यालम्बनैः पीतैश्चरुभिश्च सहासवैः ।। २१९ ।।
वाचयित्वा द्विजान् स्वस्ति दत्त्वा पूर्वं च दक्षिणाम् ।
पूजयित्वा च गन्धर्वान् पश्चाद् वाद्यं समाचरेत् ।। २१० ।।
तन्त्रीभिः पणवं तु स्यात् सभृष्ट्या(ष्टा)भिः समन्ततः ।
घातपुष्करिकाश्चैव योजयेत् तत्र कर्मणा ।। २२१ ।।
मृदङ्गपणवा वापि कर्तव्या दर्दरास्तथा ।
दैवतानि च वक्ष्यामि यान्येषां च भविष्यति(वान्ति हि) ।। २२२ ।।
लक्षश्लक्ष्णः शङ्कुकर्णो श्रा(भ्रा)मणी च तथा महान् ।
एतास्तु देवता विप्रा मुरजेषु प्रकीर्तिताः ।। २२३ ।।
ऋङ्मयत्वान् मृदङ्गं तु भाण्डो भाण्डाकृतीनि च ।
मुरजं शुद्धिकरणादातोद्यं तोदनात् तथा ।। २२४ ।।
Notes
भाण्डस्यादौ प्रमाणेन पणवश्च विधीयते ।
दारणाद् दण्डवाद्यानां दर्दरः परिकीर्तितः ।। २२५ ।।
दृष्ट्वा मृदङ्गपणवदर्दरं च महामुनिः ।
मेघैस्तु स(स्व)रसंवादान् मृदङ्गो नाम चाकरोत्1 ।। २२६ ।।
विद्युज्जिह्वो भवेद्वाद्यो मेघस्य तु महात्मनः ।
ऐरावणो महामेघस्तथा चोर्ध्वगतो भवेत् ।। २२७ ।।
आलिङ्गये च तडित् ख्याता नाम्ना मेघो 2बलाहकः ।
दक्षिणे पुष्करे मेघा3 (घः) कोकिलो नाम स स्मृतः ।। २२८ ।।
मृदङ्गश्चैव नाम्ना च ऊर्ध्वको नान्यथोच्यते ।
अङ्गारः सिद्धिरित्येवमालिङ्ग4श्चाष्टपिङ्गलः ।। २२९ ।।
तत्प्रियोऽपि बलिस्तेभ्यो दातव्यः सिद्धिमिच्छता ।
पूजयित्वा तु तां देवीं प्रेक्षां रङ्गे प्रकल्पयेत् ।। २३० ।।
करीषस्य तु सङ्घाते मृदङ्गांस्थापयेद् बुधः ।
नाटकेऽङ्के प्रकरणे वीथ्यां भाणे डिमे तथा ।। २३१ ।।
मृदङ्गपणवाश्चापि दर्दरं चोपकारयेत् ।
एवमेतद् बुधैर्ज्ञेयं मृदङ्गानां तु लक्षणम् ।। २३२ ।।
अत ऊर्ध्वं प्रवक्ष्यामि5उपहस्तस्य लक्षणम् ।
6कर्करी समहस्तश्च हस्तपाणित्रयं तथा ।
वर्तना दण्डहस्तश्च पञ्चशिक्षाकरा(र)स्ततः7 ।। २३३ ।।
तर्जन्यङ्गुष्ठयोगेन 8सदेशाद्रुतिभिस्ततः ।
Notes
9पर्यायपतनज्ञेया कर्करी10 हस्तयोर्द्वयोः ।। २३४ ।।
समयोः समतालेन द्वयोर्हस्ततलार्धयोः ।
पर्यायशः प्रपाते यः समहस्त इति स्मृतः ।। २३५ ।।
विभावितस्य वामस्य पार्ष्णिनाङ्गुलिभिस्तथा ।
सकृद्दक्षिणहस्तस्य हस्तपाणित्रयं भवेत् ।। २३६ ।।
पूर्वं दक्षिणहस्तेन क्रमाद् वामेन 1वा(पा)दतः ।
चत्वारो यत्र वर्तन्ते वर्तनाद् वर्तनाः स्मृताः ।। २३७ ।।
प्रथमं वामहस्तेन गृहीत्वा दक्षिणेन तु ।
प्रहाराः क्रमवातेन दण्डहस्तः समस्तयोः ।। २३८ ।।
सौष्ठवं लाघवं चैव बाहुल्यं दृढताऽपि च ।
सर्वेषां चैव हस्तानां गुणाश्चत्वार ईरिताः ।। २३९ ।।
एवमेतन् मया प्रोक्तं हस्तानामपि लक्षणम् ।
अत ऊर्ध्वं प्रवक्ष्यामि वादकानां तु लक्षणम् ।। २४० ।।
गीतवादकलापातग्रहमोक्षविशारदः ।
अथ लघुहस्तच्छिद्रपाणिर्विधिज्ञः सिद्धिस्थाने ध्रुवाकुशलः ।
कलाभिरतो मधुरहस्तः सुनिविष्टो मार्जनो बलवान् ।। २४१ ।।
सुविहितशरीरबुद्धिः संसिद्धो वादकः2 श्रेष्ठः ।
आलेपनप्रमाणज्ञश्चतुर्मार्गकृतश्रमः ।। २४२ ।।
प्रतिग्रहीता सिद्धीनामगदो निश्चलो निपुणः ।
शीघ्रो लघुहस्तो विधानविद् वादनान्तरे वेदी3 ।
[प्रतिग्रहीता सिद्धीनामङ्गदोषविवर्जितः ।
निश्चलो निपुणः शीघ्रो लघुहस्तो विधानवित् ।
Notes
वादनान्तरवेदी च दर्दरी च प्रशस्यते ।।]
एतत् सर्वं नाट्ययोगं समीक्ष्य
प्रोक्तं वाद्यं सर्वलोकानुमानात् ।
नोक्तं यन् मानागमाच्छास्त्रबुद्धया
सद्भिः कार्यं मार्गजातिं समीक्ष्य ।। २४४ ।।
स्फुटप्रहारं विषमं विभक्तं
सन्नोऽपि 1घुष्टारिभितं 2कु(क)लं च ।
त्रिमार्जनं पूरितरागयोग–
मृदङ्गवाद्यं गुणतो वदन्ति ।। २४५ ।।
वाद्येषु यत्नः प्रथमं तु कार्यः
शय्या च नाट्यस्य वदन्ति वाद्यम् ।
वाद्ये3विगीतेऽपि च सुप्रयुक्ते
नाट्यस्य शोभा न विनाशमेति ।। २४६ ।।
इति भारतीये नाट्यशास्त्रे वाद्याध्यायो नाम चतुर्स्त्रिंशोऽध्यायः ।।