३४ ० पुष्कराध्यायः

श्रीः

अथ चतुस्त्रिंशोऽध्यायः

1ततवाद्यविधानं तु यन् मयाऽभिहितं पुरा ।
अवनद्धगतस्यापि तस्य वक्ष्यामि लक्षणम्2 ॥ १ ॥2a

यथोक्तं मुनिभिः पूर्वं स्वातिनारदपुष्करैः3 ।
सर्वलक्षणसंयुक्तं सर्वा(तथा)तोद्यविभूषितम्4 ॥ २ ॥

5मृदङ्गानां समासेन लक्षणं पणवस्य च ।
दर्दरस्य च संक्षेपाद् विधानं वाद्यमेव च ॥ ३ ॥

Abh

अथ चतुस्त्रिंशोऽध्यायः ।

मार्जनानुगतमार्गसुन्दरं
पुष्करत्रितयमाश्रितं सदा ।
चित्रदानपदक्लृप्तविग्रहं
श्रीसदाशिवतनुं शिवं नुमः ॥

वृत्तेऽध्यायेऽवनद्धविधिं ब्रूम इत्युक्तम् । तत्र पुनरर्धं(र्थं) स्फुटयितुमाह । ततवाद्यविधानं तु यन् मयेति । यत्तद्विधानं पूर्वमुक्तं तस्यैव लक्षणं वक्ष्यामिति सङ्गतिः पुनरर्धः(र्थः) । न च पुनरुक्ततया तावदन्तर्धानं गतमिति प्राप्तमपि तस्य विधेयस्वरूपं भवति तच्च नोक्तमिति । अवहननं चर्मणा बन्धः । स यद्यपि वीणादावस्ति तथापि स्वोंऽशोऽत्रारादुपकारी न सन्निपत्य तन्त्रीपणवादौ ततांशवदिति । तत्र व्यपदेशोऽपि कृतः । तत एव बद्धपाणिकरटादीनि । यद्वादकेषु पक्षातोद्यकव्यवहारो लोके तैश्च संयुक्तं कृत्वापि । तथेति तस्माद्धेतोरुक्तम् । तस्मान् मृदङ्गाणां(नां) त्रयाणां पुष्कराणां पणवस्य दर्दरस्य च लक्षणात्मकं विधानं चर्मादिकारणत्वं वाद्यं

Notes

अनध्याये कदाचित्तु स्वातिर्महति दुर्दिने1 ।
जलाशयं जगामाथ 2सलिलानयनं प्रति ॥ ४ ॥

3तस्मिञ् 4जलाशये यावत् प्रविष्टः(वृत्तः) पाकशासनः ।
धाराभिर्महतीभिस्तु पूरयन्निव मेदिनीम्5 ॥ ५ ॥

पतन्तीभिश्च धाराभिर्वायुवेगाज्जलाशये ।
6पुष्करिण्यां 7पटुः शब्दः पत्राणामभवत्तदा ।। ६ ।।

तेषां 8धारोद्भवं नादं निशम्य 9स महामुनिः ।
आश्चर्यमिति 10मन्वानश्चावधारितवान् स्वनम् 11।। ७ ।।

ज्येष्ठमध्यकनिष्ठानां पत्राणामवधार्य च12 ।
गम्भीरमंधुरं 13हृद्यमाजगामाश्रमं ततः ।। ८ ।।

Abh

फलं संक्षेपाद् वक्ष्यामीति पूर्वेण सम्बन्धः । एकश्चो यस्मादर्थे द्वितीयः समुच्चये । अन्यथा त्रय उदीयेरन् । धर्मे चार्थे च कामे च मोक्षे चेति (महाभारतम् १.६२.२६) यथा । नारदग्रहणं गातुः पुष्करवाद्यज्ञानमवश्यमुपयोगीति शिक्षयति । ब्रह्मग्रहणं कवेरपीति । अत्र पूर्वनिपातात् स्वातिर्भाण्डे नियुक्तः (१.५०) इति प्रथमाध्याये दर्शितत्वात् स्वातिरत्र प्रधानमिति पुराकल्पेन दर्शयति ।। १-३ ।।

अनध्याये कदाचित्विति । तुरागमद्योतकः । नारदादिभ्यो विशेषो वा । अनध्याये इति प्रकृतानुपरोध उक्तः । सलिलानयनं प्रतीति तृषाहत(ति)प्रतिषेधः ।। ४ ।।

प्रवृत्तो वर्षितुम् । प्रवृत्तवर्षो (मेदिन्यां) ततो जलाशये वा ।। ५ ।।

पुष्करिणी कमलखण्डः । तत्र पत्राणां शब्दोऽभवदिति सम्बन्धः । स्थलकमलषण्डे हि न चित्राणि पत्राणि वितताविततरूपाणि भवन्तीति जलाशयग्रहणम् । अत एव वक्ष्यति । ज्येष्ठमध्यकनिष्ठानामिति । (भ. ना.३४.८) ।। ६ ।।

अवधारितवानिति । ईदृशः शब्द एव चित्तवृत्तिं तोषयतीति स्वसंवेद(ने)न निश्चिता(का)येत्यर्थः ।। ७-८ ।।

Notes

ध्यात्वा सृष्टिं मृदङ्गानां पुष्करानसृजत् ततः1 ।
पणवं दर्दरं चैव सहितो विश्वकर्मणा ।। ९ ।।

देवानां दुन्दुभिं दृ(भीर्दृ)ष्ट्वा चकार 2मुरजांस्ततः ।
3आलिङ्गम् (ङ्ग्यश्चो)र्ध्वकं चै(कश्चै)व तथैवाङ्किकमे(ए)व च ।। १० ।।

चर्मणा चावनद्धांस्तु मृदङ्गान् दर्दरं तथा ।
तन्त्रीभिः पणवं चैवमूहापोहविशारदः4 ।। ११ ।।4a

5त्रयं चान्यान्यपि तथा काष्ठायसकृतान्यथ ।
6झल्लरीपटहादीनि चर्मनद्धानि तानि च7 ।। १२ ।।7a

Abh

ध्यात्वेति । अभिसन्धाय । मृत् अङ्गं येषाम् । मृच्चर्मेत्येके । मर्दनादिति । पुष्करानिति । पारम्पर्येण पुष्करप्रभवत्वादिति भावः । सहितो विश्वकर्मणेति । आकृतिकरणे त्वष्टुरिव कुम्भकारादिमौरजिकोपदेशापेक्षस्य व्यापार इति सूचयति ।। ९ ।।

ननु च वाद्यं तेन स्वातिनाऽऽरूढपूर्वं दृष्टं प्रतिभाति । दृष्टपूर्ववैचित्र्यमुल्लिखेदित्याशङ्क्याह । देवानां दुन्दुभीर्दृष्ट्वेति । मङ्गलार्थानि चर्मनद्धानि नाभूवन् । केवलं स्वाति(:)क्रमाक्षरादियोजनया तद्वाद्यं रसभावद्योतनोपयोगि सो(स्वो)पज्ञवैचित्र्यान्तरमुत्प्रेक्षांचक्र इत्यर्थः । मुर(रा)सुपधिषसाश्च (सूपधिष्ठिता च) श्लक्ष्म(क्ष्ण) सुकुमारायां मृदि प्ररोहतीति मृदपि मुरा । ततो जाता मुरजा मृदङ्गा इत्यर्थः । ङयापोरिति (अष्टा. ६.३.६३) संज्ञाया ह्रस्वः । तानाह ।

आलिङ्ग(ङ्ग्य)श्चोर्ध्वकश्चैव तथैवाङ्कित(क)एव च ।

इति । एकश्चकारस्त्रिपुष्करत्वं नियमयति । अन्यश्चकारः पक्षातोद्यमनुगृह्णाति ।। १० ।।

दर्दरं तथेति । चर्मनद्धम् । तन्त्रीभिरिति । चकाराच् चर्मणा चेति ।। ११ ।। (काष्ठायसेति ।)काष्ठं सुषिरीकृत्य कृतानि । अत एवायसं तेन कृतानि । आयसं ताम्राद्युप-लक्ष्यते । झल्लरी कांस्यतालम् । तन्त्रीव क्रान्तः (कान्ता)पूर्णा पटहिका । पटहः शुद्धः । आदिग्रहणात् करटाहुडुक्कमर्दलादेर्ग्रहणम् ।। १२ ।।

Notes

आतोद्यसमवाये तु यानि योज्यानि वादकैः ।
1अङ्गप्रत्यङ्गयोगेन गदतो मे निबोधत ।। १३ ।।1a

विपञ्ची चैव 1चित्रा च दारवीष्वङ्गसंज्ञिते ।
कच्छपीघोषकादीनि प्रत्यङ्गानि तथैव च3 ।। १४ ।।

4मृदङ्गा दर्दराश्चैव पणवाश्चाङ्गसंज्ञिताः ।
झल्लरीपटहादीनि प्रत्यङ्गानि तथैव च ।। १५ ।।

अङ्गलक्षणसंयुक्तो विज्ञेयो वंश एव हि ।
शाख(शङ्ख)स्तुण्डि(ण्ड)किनी5चैव प्रत्यङ्गे परिकीर्तिते ।। १६ ।।

नास्ति किञ्चिदनायोज्यमातोद्यं दशरूपके7 ।
8रसभाव(वे) प्रयोगं तु ज्ञात्वा योज्यं विधानतः9 ।। १७ ।।

Abh

आतोद्यसमवाय इति । आतोद्यपूरणनिमित्तं(त्तानि) यानि योजनाङ्गानि तानि च चकारेति पूर्वेण सम्बन्धः । ननु त्रिपुष्करमेव वाद्यम् । तच्चालिङ्गकोर्ध्वकाङ्गि(ङ्कि)केषु पूर्णं दर्दरपणवस्य झल्लरीपटहादेर्वा न योग इत्याशङ्क्याह । अङ्गप्रत्यङ्गयोगेनेति । स्वरूपपरिपूर्व(र्ण)त्वेनावश्यंभाव्युपकरणमङ्गम् । अन्यत् प्रत्यङ्गम् ।। १३ ।।

तत्त्ववनद्धस्यैव किमयं न ततादेरपीत्याह । विपञ्ची चैव चित्रा चेति । व्याख्याते प्राक् । दारवीष्विति । वीणासु ते अङ्गम् । कच्छपी कूर्मी सैरन्ध्रीति प्रसिद्धा । घोषकः पिष्टनका । तौ प्रत्यङ्गौ ।। १४ ।।

मृदङ्गा इति । पुष्करत्रयव्यतिरिक्ता एवात्र महन्(हा)मर्दलाकारास्ते । पटह(हा)मृदङ्गा(न्) दर्दरं तथेत्यर्धोक्ताः (भ.ना. ३४.११) । ते मृदङ्गदर्दरपणव(वा) मृदङ्गादिषु त्रिपुष्करे प्रत्यङ्गानि ।। १५ ।।

सुषिरेऽन्तरितान्यङ्गप्रत्यङ्गानीत्याह । अङ्गलक्षणसंयुक्त इति । पूर्णस्वरे वंशेऽङ्गस्वरत्वादङ्गत्वेन लक्ष्यमाणो वंश एवासावित्येवकारःशङ्खवत् तुण्डि(ण्ड)किनी तर्तुकेति प्रसिद्धा तत् प्रत्यङ्गम् ।। १६ ।।

नन्वेवं न किञ्चिदिहातोद्यं त्यक्तं भवति नाटये इत्याह । नास्ति किञ्चिदनायोज्यमिति । क्कचित्तु । किञ्चिदित्याह । रसभावे तु ।। १७ ।।

Notes

उत्सवे चैव याने च नृपाणां मङ्गलेषु च1 ।
शुभकल्याणयोगे च 2विवाहकरणे तथा ।। १८ ।।

उत्पाते 2सम्भ्रमे चैव सङ्ग्रामे पुत्रजन्मनि4 ।
ईदृशेषु हि कार्येषु सर्वातोद्यानि वादयेत् ।। १९ ।।

5स्वभावगृहवार्तायाम6ल्पभाण्डं प्रयोजयेत् ।
उत्थानका7र्य(व्य)बन्धेषु सर्वातोद्यानि वादयेत्8 ।। २० ।।

9अङ्गानां तु समत्वाच्च10 छिद्रप्रच्छादने तथा 11 ।
विश्रामहेतोः शोभार्थं भाण्डवाद्यं विनिर्मितम्12 ।। २१ ।।

13तत्रावनद्धे वक्ष्यामि 14विधिं स्वरसमुत्थितम् ।
नानाकरणसंयुक्तं मार्गजातिविभूषितम् ।। २२ ।।

Abh

क्वचित्तु सर्वमपि योज्यमित्याह । उत्सवे दैवकार्यादि(दौ) । एव एवंप्रकारे समुच्चयः । द्वितीय एवकारः प्रकारान्तरव्यावृत्त्यै । यानं दण्डयात्रादि । एतच्च नाट्ये लोकेऽपि च ।।१८-१९।।

स्वभावेन ग्र(गृ)हवार्ता । उद्यानगमनादिरनाविष्टभावात्मा । तत्राल्पं भाण्डवाद्यम् । भणतीति भाण्डं त्रिपुष्करम् । उत्थानमित्युत्साहः । तत्प्रधानेषु काव्यबन्धेषु वीररौद्रादिनियमेषु डिमादिषु सर्व(र्वा)तोद्यानि ।। २० ।।

नन्वेवं शृङ्गारपरिक्रमादौ दीप्तत्वायोगिनि किं भाण्डवाद्येनिति शङ्कित्वाह । अङ्गानामिति । शाखोपाङ्ग(च)रणादीनां समत्वाय परिक्रमणे । छिद्रप्रच्छादन इत्युत्तरध्रुवागाने । विश्रामहेतोरित्याक्षेप- गानादौ । शोभार्थमिति प्रसादगाने ।। २१ ।।

एवमुत्पत्तिस्वरूपप्रयोजनान्यभिधायावनद्धस्य वाद्यं लक्षयितुमुपक्रमते । तत्रावनद्ध इति । स्वर()मुत्थितम्स्वरं शब्दमभिसन्धाय यो विधिः प्रवृत्तः इत्थमयं शब्दो भवतीति वक्ष्यामि । स्वरषट्काद्यनुहाररूपवर्णनाऽनुहाररूपं च शब्दमात्रमिह करणरूपादिषड्विधमार्गोचितत्वं ताभिश्चतुर्धाजातिः शुद्धाधिकाष्टादशधा च लक्ष्यते ।

Notes

यावन्ति चर्मनद्धानि ह्यातोद्यानि द्विजोत्तमाः ।1
तानि त्रिपुष्कराद्यानि ह्यवनद्धमिति स्मृतम् ।। २३ ।।

एतेषां तु 2पुनर्भेदाः शतसंख्याः प्रकीर्तिताः3 ।
किन्तु त्रिपुष्करस्यास्य4 लक्षणं प्रोच्यते मया ।। २४ ।।

शेषाणां कर्मबाहुल्यं5 यस्मादस्मिन्न दृश्यते ।
न स्वरा न प्रहाराश्च नाक्षराणि न मार्जनाः ।। २५ ।।

6भेरीपटहज7म्भा(ञ्झा)भिस्तथा दुन्दुभि़डिण्डिमैः8 ।
शैथिल्यादायतत्त्वाच्च 9स्वरेऽगाम्भीर्यमिष्यते ।। २६ ।।

Abh

लेपमार्जनादेरत्रैवोपयोग इत्याशयेन तदिह नोक्तम् । अन्ये तु स्वरशब्देन स्वरानुहारं च । अक्षररूपं तु वर्णः । अनुहारकरणशून्याः संगृह्णते ।। २२ ।।

ननु झल्लरीपटहादौ पूर्वं वर्माद्यनुहार इत्याह । यावन्ति चर्मनद्धानीति । आदौ त्रिपुष्करे वाद्यं प्रधानं येषां तदङ्गानि सन्ति तानि प्रयुज्यन्ते ।। २३ ।।

अन्यथा तु एतेषां तु पुनर्भेदा इत्यसंख्यत्वादलक्षण इ(मि)त्याशयः । नन्ववनद्ध एवानारम्भणीयः । नेत्याह । किन्तु त्रिपुष्करस्येति । वाद्ये अन्यपदार्थबहुव्रीहिः । अवयवेन विग्रहः । समुदायो वृत्यर्थ इति गुर्वाचार्यादिः (दयः) ।। २४ ।।

नन्विदानीमङ्गप्रत्यङ्गकृतो ज्ञेय इत्याह । शेषाणामिति । कर्मबाहुल्यमिति । वाद्यं तत्तद्बहुलं तेषु । अत्रहेतुः ।

न स्वारा न प्रहाराश्च नाक्षराणि न मार्जनाः ।

इति । षड्जादिस्वराभा (वा)त् त(त्सम्पत्तये) । मार्जना मायूर्याद्य(द्या)स्तेऽत्रायस्तास्तत्सम्पत्तिफलाः । अक्षराणां षोडशानां मानं तदभावात् तत्सम्पत्तये । निगृहीतादयस्त्रयः प्रहाराः ।। २५ ।।

ननु स्वराभावे कथं शब्दवैचित्र्यमित्यत आह । भेरीपटहजञ्झाभिरिति । तुरीयेऽध्याये स्वरूपमुक्त- मेषाम् । एतैर्यः क्रियते स्वरः शब्दस्तत्र केवलं शैथिल्याद् वध्रचर्मकीलिना……त् धामभिर्यन् मृदुत्वमायतत्त्वात्तुगाम्भीर्यमुच्चत्वम् ।

Notes

1प्रायशस्तानि1aकार्याणि 2कालं कार्यं समीक्ष्य तु ।
3किन्तु त्रिपुष्करस्यास्य श्रूयतां यो विधिः स्मृतः ।। २७ ।।

वाय्वात्मको भवेच्छद्बः स चापि 3aद्विविधो मतः ।
4स्वरवांश्रैव विज्ञेयस्तथा चैवाभिधानवान् ।। २८ ।।

तत्राभिधानवान् नाम5 नानाभाषासमाश्रयः ।
6स्वरवानपि विज्ञेयो नानातोद्यसमाश्रयः ।। २९ ।।

Abh

आवृत्याकारः श्लिष्टः । एतदुक्तं भवति । उच्चनीचतामात्रमेवात्र परं तु न तावता स्वरोदयः । स्वरान्तरश्रुत्याद(दावा)यत्तो हि संस्फुटो भवतीत्युक्तम् । मत्तकोकिलादयस्तु न तथा । भावरक्ति…..योगादेतच्च स्वरगते न्यक्षेण चर्चितमित्यास्ताम् ।। २६ ।।

पुनर्न चैषां सर्वदा नोपयोग इति दर्शयति ।

प्रायशस्तानि कार्याणि कालं कार्यं समीक्ष्य तु ।

किन्त्विति । प्रकृतं सूत्रयति । त्रिपुष्करस्यास्य श्रूयतां यो विधिरिति ।। २७ ।।

तत्र शब्दस्य तावत् स्वरूपमाह । वाय्वात्मको भवेच्छब्दः स चापि द्विविध इति । वायुरात्मस्वरूपं जन्मन्युपादानं व्यक्तौ वा निमित्तमात्रं यस्य शब्दस्य । एतच्च

वायोरणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते ।

इत्यत्र ब्रह्मकाण्डोद्देशे विवेचितम् । इह त्वप्रकृतमिति न विस्तारितम् । स्वरात्मकं स्वरूपं यस्य नित्यमस्ति स स्वरवान् नादमात्रात्मकः । ननु पाण्डित्ययोगनियमपर्यवसायित्वं वदता वर्णात्मके नादरूपता नास्तीत्युक्तम् । अभिधाने समयादिनाऽर्थप्रतिपादनं विद्यते यस्य सोऽभिधानवान् वर्णात्मकः ।। २८ ।।

तत्रेदमिह वक्तव्यं मत्वा पूर्वाभिधानोपयोगिनमाद्यमाह । स्वरवानिति । आतोद्ये वीणादौ स एव भवतीति ।। २९ ।।

Notes

शारीर्यामेव1 वीणायां स्वराः सप्त प्रकीर्तिताः ।
2तेभ्यो 2aविनिःसृताश्चै3वमातोद्येषु द्विजोत्तमाः ।। ३० ।।

4पूर्वं शरीरादुद्भूता5स्ततो गच्छन्ति दारवीम् ।6
7ततः पुष्करजं 7aचैवमनुयान्ति घनं(ध्वनिं) पुनः(युताः)।। ३१ ।।

8तेषां वाक्करणैर्ज्ञेयाः प्रहारा वचनाश्रयाः ।
9झण्मण्या 9aचेति(झण्टुं झांझेति) संयुक्ता10 वीणावाद्यप्रयोगिनः11 ।। ३२ ।।

Abh

तदसम्यक् । (ना)नाश्रय आतोद्य एवेति कश्चिदमंस्तेत्याह । शारीर्यामेवेति । तत्रैवोक्तः । श्रुतिसम्बन्धः । यतस्तेभ्य इति । शारीरेभ्यो विनिःसृता इति । तत्सामान्यादिति भावः । आतोद्येष्विति ततादिषु ।। ३० ।।

तदपि गुणप्रधानतामाह । पूर्वं शरीरादुद्भूता उत्पन्ना अभिव्यक्ता वा ततो गच्छन्ति दारवीम् । वीणायां पूर्णत्वात् तत्प्रा(पा)णिकृताया रक्तेः । अनेन वैणवा अप्युपलक्षिताः । ततः पुष्करजं चैवमनुयान्तीति । वीणास्वरेषु यादृशी रक्तिः पूर्णतादृशी पुष्करेषु केवलं साम्यानुहारमात्रम् । तदाह । ध्वनिमनुयान्तीति ।

नन्वेवमनुहरणं साम्यस्य (दारव्या) दावप्यस्ति । तत्कथमुक्तं स्वरा इति । नैतत् । तत्रैकमेवानुहारमात्रइ- (मि)ति न स्वरानुहारत्वं तत्र स्फुटम् । इह तु मार्जनायोगात् तत्पठनेन च सम्पादितत्रयान्तरसम्पत्तापप्येकस्त्रिष्विवान्यो भवन् नीचभावसंवेदाद् व्यक्तस्वरानुहारो मिश्रत्वात् । तदाह । युता इति । सु…….नत्वादित्यर्थः ।। ३१ ।।

एवं त्रिपुष्करे मार्जनास्वरयोगं सूचयतः प्रहाराक्षरयोगमपि सूचयिष्यन् तत्प्रकृतौ…….द्वीणायां दर्शयितुं सामान्योपक्रमं सूचयति । तेषां वाक्करणैर्ज्ञेयाः प्रहार(रा)वचना(श्रया) इति । तेषामित्यातोद्यानां परामर्शः । आतोद्येष्विति प्रक्रान्तत्वात् । वाक्करणैस्तोभाक्षरैरूच्चरद्भिर्ज्ञायते । आतोद्यानां वचनाश्रयो (य)वर्णानुहारसम्पादका हस्ताङ्गुलिप्रहारा भवन्तीति । वाच एव क्रिया न त्वर्थं प्रतीत्यादि । किञ्चिदित्यत्र

Notes

शारीर्यामथ वीणायां झण्टु जगदि यादि च1 ।
2भवेद्वाक्करणं तत्र3 3aनानाकरणसंयुतम् ।। ३३ ।।

4यं यं गाता स्वरं गच्छेत् तमातोद्यैः4a प्रयोजयेत् ।
5यतिपाणिसमायुक्तं गुरुलघ्वक्षरान्वितम् ।। ३४ ।।

Abh

तद्वाक् वचनं करणं वर्णा इह तु तदनुहारः । ननु कानि स्तोभाक्षराणि कुत्रेत्याह । झण्टुं झांझेति । न प्रकारे वि(हि) वीणावाद्यप्रयोगे विद्यते येषां हेतुनेति वीणावाद्यप्रयोगिनः ।। ३२ ।।

ननु वीणायां वागभावाद्यावदक्षरमिति का नामेत्याशङ्क्याह । शारीर्यामथझण्टुं जगति यादि चेति । आदिना दिगिनिगिझण्टुप्रभृतीनि । ननु तुल्येऽङ्गुलिप्रहारे कथमकारादिस्तन्त्र्यां विशेष इत्यतः शिक्षां ददाति ।

भवेद्वाक्करणं तत्र नानाकरणसंयुतम् ।

इति । नखाङ्गुल्यग्रमध्यादिनाऽतीवतीव्रस्पर्शनं तत्र तस्यां तन्त्र्यादिभावेष्विति । नानारूपक्रिया झण्टुमादिवाक्करणेन कार्यभूतेन संयुज्यते श्रुत्या ।। ३३ ।।

अलं तदाह ।

यं यं गाता स्वरं गच्छेत् तमातोद्यैः प्रयोजयेत् ।

इति । आतोद्यैः वीणादिभिः । यतिपाणयो व्याख्याताः परमगुरवश्च प्रकृतं व्याचक्षते ।

गुरुलघ्वक्षरे गीयमाने अन्वितमाश्रितम् ।
स्वन्तं स्वरं वादमानं वादयेदेव भासयेत् ।
कथं यतिर्विरामः(स्यात्) तत्प्रधानेन पाणिना ।।

इति पाणिप्रहारेण संयुक्तम्पाणिना वंशेषु फूत्कारो लक्ष्यते । गुरौ गीयमाने गुरुणा विच्छेदो लघोः शीघ्रतयेति ।। ३४ ।।

Notes

1पौष्करस्य 1aतु 2वाद्यस्य मृदङ्गपणवाश्रयम् ।
विधांनं सम्प्रवक्ष्यामि दर्दरस्य तथैव च3 ।। ३५ ।।

षोडशाक्षरसम्पन्नं4 चतुर्मार्गं तथेव च ।
5वि (द्वि)लेपनं षट्करणं त्रियति त्रिलयं तथा ।। ३६ ।।

Abh

ननु भवत्वेवं वीणादौ । प्रकृते पुष्करे कथमेतदित्याह । पौष्करस्य । तथैवेति । नैव स्वराक्षरं वादनप्रकारेण हेतुना पौष्करस्य लक्षणं वक्ष्यामि तदनुषङ्गी लाभश्च । दर्दरस्य मृदङ्गपणवाश्रयं कृत्वा । तेन मृदङ्गपणवस्य चानुषङ्गिणो विधानं स्वराक्षरसम्पादकं प्रकारं वक्ष्यामीति सम्बन्धः ।। ३५ ।।

षोडशाक्षरसम्पन्नं चतुर्मार्गं तथैव च ।

इति । अक्षरप्रकारेण मार्गच्छेद इति ।

द्विलेपनं षट्करणं त्रियति त्रिलयं तथा ।
त्रिगतं त्रिप्रकारं च त्रिसंयोगं त्रिपाणिकम् ।
दशार्धपाणिप्रहतं त्रिप्रहारं त्रिमार्जनम् ।
विंशत्यलङ्कारयुतं तथाष्टादशजातिकम् ।।

इति । तत्र योजनमाह । एवं प्रकारैर्यस्मात् पुष्करजं वाद्यं परिपूर्णं तस्मान्नाट्ये रसभावाभिव्यञ्जनसमर्थमित्यतो भणनयोग्यमिति सम्भाव्यते । तत्र पौष्करं वाद्यं प्रकारत्रयेण नाट्योपयोगिनि(गीति) । वर्णानुसारेण स्वरानुसारेण साम्यात्मना ताले च । तथा हि । वर्णाः कस्मैचिदपि वाद्यविशेषतया प्रभवन्तोऽप्यज्ञातार्थश्रुतिमात्रेणैव पुरुषं नागरग्राम्योपनागरिकात्मवृत्तित्रयाणि ताल(लय)भेदेषु दीप्तमध्यमसृणरूपसंविद्वृत्तिव्यञ्जका इति तावत् प्रसिद्धमेव । ततश्च प्रागलङ्काराध्याये (भ. ना. १६) निर्णीतमस्माभिः सहृदय । लोकलोचने (ध्वन्यालोकलोचनम् ३. २) च । त एव त्वनुहाररूपतायां वर्णरूपत्वन्यक्कारेण नादरूपतया संछादितात्मानो भवन्तो नादस्य लालित्यपारुष्यादितारतम्यभेदे नितरां द्विरावृत्तिमेवोद्दीपयन्ति । नादो हि चित्तवृत्तेरन्तरङ्गः समयानपेक्षित एव । लोकेऽपि चित्तवृत्ति(त्ते)र्व्यनक्ति । संवित्प्राणितं तु वाक्त्तत्त्वस्य प्रथमं नादात्मना विवृत्तस्य । वर्णात्मा चरमो विवर्तो बहिरङ्गः । यतः सा चेयं नादरूपतयैवं वक्ष्यमाणा पातहन्यमा(ना)न्यपुष्करमुखोदितान्येव चोच्चार्यमाणेषु वर्णेषु प्रयत्नशतैरपि न सम्पद्यते । तत्र हि सर्वधा (था)

Notes

त्रिगतं त्रिप्रका(चा)रं1 च त्रिसंयोगं 1aत्रिपाणिकम् ।
1bदशार्धपाणिप्रहतं त्रिप्रहारं त्रिमार्जनम् ।। ३७ ।।

2विंशत्यलङ्कारयुतं तथाष्टादशजातिकम् ।
3एभिः 3aप्रकारैः सम्पन्नं वाद्यं पुष्करजं भवेत् ।। ३८ ।।

तत्र षोडशाक्षरमिति यदुक्तं तदनुव्याख्यास्यामः ।
कखगघटठडढतथदधमरलह इति षोडशाक्षराणीह ।4a
4नियत 4b पुष्करवाद्ये वाक्करणैः संविधेयानि ।। ३९ ।।

Abh

वर्णप्राधान्यमेवोन्मीलति । नादप्राधान्या……उच्चार्यमाणं(र्णा) वर्णा वाद्यमानं तु वादिभूतवर्णमयं सन्ध्यायां शाबलेयादय इव गो

षोडशाक्षरसम्पन्नं चतुर्मार्गं द्विलेपं षट्करणं त्रिप्रचारं त्रिसंयोगं दशार्धपाणिप्रहतं

Notes

चतुर्मार्गं नाम । आलिप्ताङ्कितगोमुखवितस्ताश्चत्वारो मार्गाः ।
1aद्विलेपं नाम । व(वा)मोर्ध्वकप्रलेपात् ।1
षट्करणं नाम । रूपं कृतप्रतिकृतं प्रतिभेदो रूपशेषमोघः प्रतिशुल्का चेति ।
त्रियतिर्नाम । समा स्रोतोगता गोपुच्छा चेत्यन्वयात् ।1b
त्रिलयं नाम । द्रुतमध्यविलम्बितयोगात् ।1c
त्रिग 2तं नाम । तत्त्वमनुगतमोघश्चेति ।
त्रिप्रचारं नाम । समप्रचारो विषमप्रचारः 3समविषमप्रचारश्चेति ।
त्रिसंयोग नाम । गुरुसंयोगो4 लघुसंयोगो4 गुरुलघुसंयोग4श्चेति ।
त्रिपाणिकं नाम । समपाणिरवपाणिरुपरिपाणिश्चेति ।
पञ्चपाणिप्रहतं नाम । समपाण्यर्धसमपाणिरर्धार्धसमपाणिः
पार्श्वपाणिः प्रदेशिनी चेति ।
त्रिप्रहारं नाम । निगृहीतोऽर्धनिगृहीतो मुक्तश्चेति ।
त्रिमार्जनं नाम । मायूर्यर्धमायूरी कार्मारवी चेति ।
5विंशत्यलङकाराः(रान्)अष्टादशजावि(ती)श्च पदभेदे दर्शयिष्यामः ।। ४० ।।

Abh

त्रिप्रकारमष्टादशजातिकमिति । यस्तूद्देशभागे वर्णानुसंहारविषयो यस्तुस्वरानुहारांशस्तत्र द्विलेपमिति । स्वरूपसिध्यै त्रिमार्जनमिति । स्वरसंयोजनांशे नादीभूतवर्णसम्पत्यनुभावि सदनुरणनरूपं तद्गानांशस्थितस्थायित्वं स्वरूपमनुवर्तमानं तत एव तत्कृतचित्तवृत्त्युद्दीपन एव सुतरामात्मानमाश्रयतीति यत्तत उपदिश्यमानस्वरानुहारांश इति प्रकारत्रयम् । घातपञ्चकादेरत्र यत्रोपयोग एव । गतयो लयास्तत्त्वादीनि त्रिगतम् । समपाण्यादित्रयमिति साम्यांशात्ताल उपयुज्यते । साम्यं यत्र यस्यान्योन्यमृदङ्गाद्यङ्गैर्झार्यादिप्रत्यङ्गैस्ततादिभिरातोद्यान्तरैर्ध्रुवागानेन परिक्रमणादिपात्रचेष्टितेनेति तद्विचित्रीकरणे विंशतिरलङ्कारा इति । एवं पुष्करवाद्यमनुरञ्जकत्वेऽपि विवाह ……शोभामावहतीति । तथा च नन्दिमते

न पुष्करविहीनं हि वाद्यवृत्तं विराजते ।
तत्रैव हि श्रुते लोक उन्मुखत्वं प्रपद्यते ।।

इति । विभक्तविषयत्वेऽपि मिश्रितत्वेन प्रयोगे तत्सम्पादनं न हि विभज्येति प्रतिपादयितुं मुनिः शङ्करे (संक्षेपे)णोददिक्षत् ।।३६-४०।।

Notes

1a N: द्विकलेयं नाम । वामार्धकाभ्यां कर्तव्यम् । (V.N. 2)

एतावत् सूत्रम् । अतः पदभेदः1 । तत्र षोडशाक्षरं नाम ।
2अभिव्यञ्जितानि पूर्वं यान्येतानि षोडशाद्यानि ।।

3तान्यक्षराणि जानीत पुष्करेषु यथाक्रमम् 4।
ऋपणवे दर्दरे चैव 5मृदङ्गेषु तथैव च ।। ४१ ।।

कखतथभा(टढतथरा)स्तु6 दक्षिणमुखेऽत्र 1घघम(घम)हाश्च वामके नियताः ।
गदकारौ चैवोर्ध्वे8(चोर्ध्वाख्ये) 9दठडोण(खठडध)लाः स्युरालिङ्गे ।। ४२ ।।9a

एतेषामक्षराणां9bस्वरसंयोगं व्यञ्जनसंयोगं च व्याख्यास्यामः ।

तत्र अ आ इ ई उ(इ उ)ए ओ अं 10इति स्वरा व्यञ्जनैः सह संयोगं गच्छन्ति ।

Abh

एतदत्र वस्तुतत्त्वं शिष्टं ग्रन्थयोजनामात्रम् । तदाह मुनिःएतावत् सूत्रमिति । स(सा)मात्यौ…..नेत्याह । अतः पदभेद इति । सूत्रेऽस्मिन् यानि पदानीत्यवान्तरवाक्यानि तानि व्याख्यायन्तेऽस्मिन्निति स ग्रन्थस्तथोक्तः । तत्र पणवदर्दरमृदङ्गेष्वक्षरविभागं पुष्करेषु तावदाह ।। ४१ ।।

कटढतथरास्तु दक्षिणमुखेऽत्र घमहाश्च वामके नियताः ।
गदकारौ चोर्ध्वाख्ये कढणद (खठडध)लाश्च स्युरालिङ्गे ।।

दक्षिणस्य पुष्करस्य सव्यतो वामतश्चेति मुखद्वयम् । अत एव सयवाङ्को लक्षणमस्तीत्यङ्किकः । तस्य दक्षिणस्य दक्षिणमुखे षड् वर्णाः । वामे त्रयः । मध्यमे तु प्रधानत्वादङ्गिकालिङ्गाभ्यां सार्धं त्रयम् । तालाभ्यामाधिक्येन चतुस्तालत्वेन वक्ष्यमाणत्वाच्चोर्ध्वकशब्दवाच्ये द्वौ वर्णौ । आलिङ्गके पणवदर्दरवाद्येन मिश्रीक्रियते यस्य वाद्यमालिङ्ग्यकरणत्वबहुलत्वमेव तद्वाद्यम् । न तु तच्छून्यं कदाचित् । तत्रालिङ्गके पञ्च । एवं षोडश ।। ४२ ।।

तेषां स्वरसंयोगमाह । तत्रेत्यादिना हकारमा()कारौ शुद्धावित्यन्तेन । ऋलृऐऔअः इत्येतद्वर्जम् ।

Notes

1अकारेकारोकारैकारौकाराङ्कारा इति ककारे । यथा । ककिकुकेकोकमिति । इकारैकारौकारा इति खकारे । खिखेखो इति ।

उकारैकारौ गकारे । यथा गुगे इति ।
अकारेकारोकारौकारा इति घकारे । यथा घघिघुघो इति ।
अकाराकारेकारौकाराङ्कारा (इति) टकारे । यथा टटाटिटोटमिति ।
अकाराकारेकारैकारौकाराङ्कारा इति ठकारे । यथा ठठाठिठेठोठमिति ।
एकारौकारौ ढकारे । यथा ढेढो इति ।
अकाराकारैकारौकारा इति णकारे । यथा णणाणेणो इति ।
अकाराकारेकारैकारा इति तथयोः । यथा ततातिते थथाथिथे इति ।
अकारोकारैकारौकारा इति दकारे । यथा ददुदेदो इति ।
अकाराकारेकारैकारौकाराङ्कारा इति धकारे । यथा धधाधिधे (धोधमिति) ।
आ(अकारा)कारेकारैकारा इति रेफे । यथा ररारिरे इति ।
अका(राका)रेकारैकारा इति लकारे । यथा ललालिले इति ।
हकारमकारौ शुद्धौ ।। ४३ ।।

ककारगकारघकारतकारदकारधकाराणां रेफोऽनुबन्धः। यथा क्र ग्र घ्र त्र द्र ध्र । ककारस्य लकारोऽनुबन्धः । यथा क्ल क्ले क्लमिति । हकारस्य णकारोऽनुबन्धः । यथा ह्ण इति । तकारस्य थकारोऽनुबन्धः । यथा त्थ इति । दकारस्य धकारोऽनुबन्धः । यथा द्धं द्धा द्धे इति । एवमेतैः संयोगैर्द्विहस्तसंयुक्तान्यक्षराणि भवन्ति ।। ४४ ।।

Abh

अत्र स्वरविनियोग इति लक्ष्ये हि हडदित्यादौ टकारो न मन्तव्यः । हकारश्च(स्य)शुद्धस्याप्यभिधानाल्लक्ष्ये तर्हि गहतदित्यादौ गन्तव्यमित्यादि शाड्य (वाद्य)म् । अग्रे च यद्वाद्ये कुतूहल इति कर्तव्यम् । न तु कुतूहलमिति । शिष्टं स्पष्टम् ।। ४३ ।।

अथ व्यञ्जनसंयोगमाह । ककारेत्यादिना एवमेतैः संयोगैरित्यन्तेन । संयोगैरिति भावसाधनम् । एतद्योजनोपलक्षितानि यान्यक्षराणि तानि हस्तद्वयसंयोगजानि । व्यापाराद्वृत्तिभेदाद्बहुहस्तसंयोगजत्वमपि सम्भाव्यमपीति द्विग्रहणम् ।। ४४ ।।

Notes

तत्रैत एव द्विपुष्करे । आङ्किकमृदङ्गे द्विपुष्करे समहस्तनिपातनाद्धकारः । तत्रैवाङ्गुलिप्रचलनाद् ध्रकारः । तत्रैवावष्टम्भात् तत्रैवार्धनिगृहीतात् स्थ(थ)कारः । तत्रैव दक्षिणमुखे पार्ष्णिनिपीडिते ककारः । तत्रैवाङ्गुलिकुञ्चनात् कुकारः । ऊर्ध्वकवामकयोः समहस्तनिपातनाद्धंकारः । प्रदेशिन्या चालिङ्गे क्रेङ्कारः ।। ४५ ।।

पञ्चपाणिप्रहतमिति यदुक्तं समपाण्यवपाण्यर्धार्धपाणिपार्श्वपाणिप्रदेशिन्यश्चेति । त- (य)एते पञ्चपाणिप्रहता के (ते) निगृहीतार्धनिगृहीतयुक्ता यथायोगं कार्याः । तत्र समपाणिप्रहतो मकारः स निगृहीतः । गकारधकारदकारपकारा अर्धपाणिप्रहता अर्धनिगृहीताः । ककारखकारटकारदकाराः पार्श्वपाणिप्रहता निगृहीताश्च । तकारथकारावर्धार्ध- पाणिहतावर्धनिगृहीतौ । प्रदेशिन्या हता आलिङ्गे ढकारणका(र)रेफवकारा युक्ताः । द्विहस्तप्रहता ध्रुद्रोंक्ले इति । मुक्तपार्श्वे थिक्रा इत्यर्धपाणिहता निगृहीता(:) । एवमेतेष्वक्षरेषु प्रयोगवशेन कार्याः प्रहाराः ।। ४६ ।।

षोडशैतानि दृष्टानि वाद्यजान्यक्षराणि तु ।
अनेनैव विधानेन योज्यं वाक्करणं बुधैः ।। ४७ ।।

Abh

अनुबन्धशब्दत्वेन मिश्रत्वेन वैचित्र्यमाह । एत एव हि (द्वि) पुष्करे द्विमुखेऽङ्गिक इति । मुखद्वये समं कृत्वा हस्तनिपातादिति समग्रहणं क्रमनिषेधार्थम् । अत एवाव्यक्तपूर्णान्तरमेवेदं केवलमुद्धट्टने । तत्रैवेत्यङ्किके दक्षिणमुखे द्वयमित्युक्तम् ।। ४५ ।।

षोडशाक्षरमिति निर्णीय तदुपयोगि दशार्धपाणिप्रहतमिति निर्णेतुमाह । पञ्चपाणीति । पञ्चसन्निवेशैः पाणिभिः प्रयोगसिद्धये हतं हननं येषां ते वर्णा निगृहीतादित्रयरूपाः कार्या इति । त्रिप्रकारस्येतिकर्तव्यतारूपतामाह । यथायोगमिति । व्याचष्टे समपाणिप्रहतमि(त इ)त्यादिना । अर्धपाणिप्रहतार्धनिगृहीत इति तुल्यत्वेऽपि पुष्करभेदात् ()कारादीनां भेदः ।। ४६ ।।

ननु तत्र यदि वर्णानुहारस्वरभवा एतेऽन्य एव तथा सति संयोगजानां ध्वनीनां परमार्थतोऽन्यत्वमेव । तथा रूपादिकरणषट्केन दर्दरपणवमृदङ्गध्वनेः पुष्करध्वनिमेलने वक्ष्यमाणे वस्तुतोऽन्य एव विचित्रो निनाद

चतुमार्गं यदुक्तं तमनुव्याख्यास्यामः ।
अड्डितालिप्तमार्गे(र्गौ) तु वितस्ता गोमुखी तथा ।
मार्गाश्चत्वार एवैते प्रहारकरणाश्रयाः ।। ४८ ।।

तत्र किङ्क(त्राङ्किक)मृदङ्गप्रहारयुक्तोऽड्डितमार्गो वामोर्ध्वकप्रहारयुक्त आलिप्तमार्गः । ऊर्ध्वकाङ्किके दक्षिणमुखे आलिप्तहस्तो वितस्तमार्गः । आलिङ्गककरणबहुलः सर्वपुष्करहतो गोमुखीमार्गं इति ।। ४९ ।।

Abh

इति किमर्थोऽयं षोडशाक्षरनियमप्रयास इत्याशङ्क्याह । षोडशैतानीति । तुर्हेतौ । यस्मादनेन षोडशाक्षरात्मना विधानेन वाक्करणं वाचां ताल्वोरुद्धट्टनं बुधैरनुहारसादृश्यविवेककुशलैर्योजयितुं शक्यते । तद्योजनया च……..लिना तद्वाच्याभ्याससम्पादनमशक्यत्वात् प्रयोगविच्छेदमित्यवश्यं योजनार्हम् । एतैरेव षोडशभिरुद्धट्टनिकारूपैः सर्वमेव वाक्करणं योजनार्हम् । अधिकान्यक्षराणि नापेक्षत इति । ततो हेतोरेतानि वाद्याज्जातानि कल्पनया तत आ(अ)पोद्धारेण लब्धस्वरूपाणि षोडशाक्षराणि दृष्टानीति सम्बन्धः ।। ४७ ।।

अथैषां वर्णानां चतुर्धा समूहीभावं रसविशेष उपयोजयितुं दर्शयितुं प्रक्रमते । चतुर्मार्गमिति । यदुक्तमिति । उद्देशसूत्रे मार्ग आकाङ्क्षा तया सम्बन्धनं समूहीभावात्मा लक्ष्यते । स चतुर्धा । एको द्विक इत्याङ्गिकमुखम् । तच्च प्रथमो (ममु)क्तम् । कटरथकटस्थानं मृदङ्गपूर्विकमङ्गम् । इह यत्र घटकारय(यु)क्तैरेतद्गतैः प्रहारैर्युक्तो द्विको मार्गः ।। ४८ ।।

अड्डिता ध्रुवा शृङ्गारविषया ध्रुवाध्याये (भ.ना ३२) दर्शिता । तत्रोचिते कृत्वाऽङ्गि (ङ्किः) कस्य यद्वाममुखं यत्र घहमाश्च वामकमित्युक्तम् । यच्चोर्ध्वकं कटस्थानं तत्प्रहारयुक्त आलिप्तमार्गः । शोकातुरो हि शरीरपरिकर्मविरहान्(होन्)मुख आलिप्तः । तदुचितकरणोचितश्चायमिति । ऊर्ध्वके पदस्थानेऽङ्किकस्य दक्षिणमुखे करटशतद्वये उक्तिरसातिशयवेगताडनहस्ताभ्यां प्रहारं प्रकृष्टहननं यत्र स वितस्तमार्गश्च । अस्य दक्षिणो स(वित)स्तस्येति नाशयति तस्य भावोचितस्तां हिंस्रतां तद्विषये दीनरौद्राभावस्य विनियोगो यतः । वितस्तिमात्राक्षिप्तहस्तप्रहरणसूचनार्थं वितस्तमार्ग इत्यन्ये पठन्ति । सर्वेषु पुष्करेषु यद्धननं बाहुल्येन चाङ्गि(ङ्कि)क एव नोर्ध्वकस्थाने स गोमुखीनःगोमुखमन्तर्वक्त्रं न तूर्ध्वम् । तत्र बीभत्सयोग इत्यक्षरसङ्गतिरपि गोमुखीत्युक्ता ।। ४९ ।।

तत्राड्डित(ता)प्रहारजातम् । मटकटथिधधटधेधोधहमंधि धंधनधिधि इत्यड्डितामार्गः । धडः गुटुगुटमधेदोधिंधदुधिदुधेंधि (इत्यालिप्तमार्गः)। किंकाकिटुमेटकितां किंकेकितांद….. तसितां गुटुगेत्येवं ज्ञेयो वितस्त्यास्तु । शुद्धं सिद्धं मद्धिकुटधेधेमत्थिद्धिधखुखुणंधेधोटत्थिमट गोमुखीमार्गः ।। ५० ।।

कुर्याद्वितस्तिमार्गे थरविवर्जितान् प्रहारांस्तु ।
उद्धतमार्गेण विना शेषाः कार्यास्तु गोमुख्याम् ।। ५१ ।।

द्रोमांस्तु गुटुगुटुधेद्रथणैघटकेदोराडिम् ।
एवं वि(तस्त)वाद्यं विज्ञेयं वादकैस्तज्झैः ।
ठिणिखिठिणिहो डडडधो गोमुख्याम् ।। ५२ ।।

ये त्वालिप्तसमुत्था(:) सर्वमार्गैस्तु ते विधातव्या (:) ।
ग्रहगो न लक्ष्यसत्त्वो नाट्यविधानं समासाद्य ।
ग्रहमोक्षणसन्धानैस्तु मृदङ्गानां ग्रहो भवति ।। ५३ ।।

Abh

तत्र मार्गचतुष्टये तान्यक्षराणि दर्शयति । तत्राड्डिताप्रहारजातमित्यादिना गोमुखीमार्ग इत्यन्तेन ।। ५० ।।

अथात्रैव मार्गचतुष्टयेनेत्युक्तम् । विशेषमाह । कुर्यादिति । आङ्गिकदक्षिणमुखगतो रेफो वितस्तमार्गः । प्राप्ता ऊर्ध्वककटताश्च दकारस्तालभेदं निषिध्यते । नकाराकारस्यालिङ्गकेऽप्यप्राप्तस्य हमयोश्चाङ्गिकल(स)ममुखगतयोरप्राप्तयोर्निषेधः । मध्येऽस्य तद्वर्गप्रक्षेपाद्यज्ञाय तदाहरणम् । अवर्जितान् प्रहारां- स्त्वड्डितमार्गेणोपलक्ष्य(क्षि)ते वितस्ते कुर्यात् । मत्वर्थीयोऽत्र चयोगे । ते शेषा इह वर्जिता वर्णास्ते गोमुख्यां कार्या इति । प्राप्तानामप्येषां पुनर्विधानं भूयस्त्वं ख्यापयति ।। ५१ ।।

आलिप्तमार्गे रेफस्य पूर्वलक्षणाप्राप्तिरित्यन्यानुबन्धत्वेन रेफावेशेनात्र भवतीत्युदाहरणव्याजेनाह । द्रोमामित्यादिना । गोमुखीमार्गे सर्वेषां रवादीनामविशेषे प्राप्ते ड(ङ)कारोऽन्येन तुल्य इत्युदाहरणछद्मना दर्शयति प्रणव इत्यादिना ।। ५२ ।।

अड्डितावर्जनमार्गत्रयमुक्त्वा विशेषान्तरमपि परस्परानुग्रहतो भवतीति दर्शयितुमाह । ये त्वालिप्तसमुत्था इति । आलिप्तसमुत्थानमाकर्मभ्यो येषां ते । आलिप्तादयस्त्रय इति यावत् । तेन सर्वे त्रयोऽपि मार्गा इत्यर्थः । विधातव्याः

एतेषां चैव वक्ष्यामि दर्शनानि यथाक्रमम् ।
चतुर्णामपि मार्गाणामक्षरग्रहणं यथा ।। ५४ ।।

दाघददथिमटां धीमटां दिथिथिक्लं थिक्लाथिंतांक्लाथिकटाम् ।
कटधिमटां खोखोघेटामड्डितावाद्यम् ।। ५५ ।।

तन्त्रान्तिकिता धंधंद्रघटितयेटम् ।
मटथकिकेत्त(टाकुट्टिकिकिद)वितस्तायाम् ।। ५६ ।।

ध्रांमांघुटूघेघेटाघटितकथिथिधोटामाम् ।
आलिप्तकसंयोगो(गः) कार्ये(र्यः) संवादने सम्यक् ।। ५७ ।।

ध्रटमिथिघेटांधेधेतमथिधोणाखमत्थिधक्लेंताम् ।
खोखोथाथा णाणाणाणा च गोमुख्याम् ।। ५८ ।।

Abh

ग्रहमोक्षणसन्धानैस्तु मृदङ्गानां ग्रहो भवति ।

इति । अयमर्थः । एकं मृदङ्गं यदा वादयितुं प्राधान्येन स्वीक्रियते तदा मृदङ्गान्तराद् द्रुतं कुर्यात् । तद्यथा । ऊर्ध्वकाङ्ककालिङ्गका दक्षिणमुखाद्यतो(मुक्ति)रिति । अथ तत्र मोक्षस्तदा(दिग्रहा)दिति सन्धानम् । तत्र व्यामिश्रत्वेन वर्णस्य जननं विचित्रमेव लिपौ दर्शयितुमशक्यमेव । एवं ग्रहमोक्षसन्धानानामेकभेदा(स्त्र)यो द्विभेदाः षट् त्रिभेदाश्च षडिति । यथा पञ्चदशभिर्भेदैः पुनर्मार्गाद्यैर्वैचित्र्यम् । यथोक्तं नन्दिमते

षोडशस्वपि वर्णेषु भेदाः पञ्चदशोदिताः ।
ताडने ग्रहसन्धानमोक्षैर्मुखचतुष्टये ।।

इति । अन्ये तु चत्वारो मार्गा आलिप्तसमुत्था इत्यनेन स्वीकृताः । सूत्रे तेषां तदादित्वेनोक्तया नीत्याऽऽचक्षते ।। ५३ ।।

अथास्य मार्गचतुष्टयस्य लक्ष्यसमवायितमुदाहरणभेदमाह । दर्शनानीति । निर्दिश्यते लक्षणं पूर्वा…..तं येषु । पूर्वं हि रूपोदाहरणमात्रं दत्तमित्यपौनरुक्त्यम् । तदाह । यथाक्रममिति । यावल्लक्षणं तावदुदाहरणं दत्तमिति यावत् । प्रायशोऽत्राभिरेव ग्रन्थकृता लक्षणाद्यं दर्शितमिति भङो(ङ्गो) यथा भवति तथा पाठे यतितव्य(म्) ।…..इत्यादिना ग्रहणमोक्षेण दर्शितौ सन्धानत्वलक्षणमित्युक्तम् ।। ५४-५८ ।।

एतेषां पुष्कराणां त्रिविधः प्रचारः । समप्रचारो विषमप्रचारः समविषमप्रचार इति ।। ५९ ।।

तत्र ।

वामोर्ध्वकयोर्वामः सव्यो वै दक्षिणोर्ध्वके चापि का(के का)र्यः ।
1समप्रचारे ह्यालिप्ते लिप्तवाद्यकरणे तु ।। ६० ।।

वामोर्ध्वकसव्यानां प्रहतो वामः करस्तु कर्तव्यः ।
सव्योर्ध्वकसंयोगात् प्रहतो हस्तप्रचारे तु ।। ६१ ।।

स्वच्छन्दकः2(कं)कराणां प्रहतं शेषेषु मार्गकरणेषु ।
अड्डितगोमुखयोगे समविषमो हस्तसञ्चारः ।। ६२ ।।

Abh

अथ मार्गशेषभूतमेव त्रिप्रचारमिति व्याचष्टे । त्रिविधः प्रचारमि ( इ)ति । वामस्य हस्तस्य वामभागे दक्षिणस्य दक्षिणे प्रचरणं स समप्रचारः । वैपरीत्येन स्वस्तिकवर्तनादिना विषमप्रचारः । मिश्रतायां समविषमः । तेन च वर्णानामेव तीव्रादिरूपजननं न तथा वैचित्र्यान्तरमाधीयत इति मार्गशेषता ।। ५९ ।।

तत्र मार्गभेदेन योजनमाह । वामोर्ध्वकयोरिति । आलिप्ते मार्गे वाद्यक्रियायाः कर्तव्यतायां हस्तप्रभृतिः । तस्याः कर्तव्यतायामयं विधिः । वामोर्ध्वकप्रहार इति । आलिप्त इति तावदुक्तम् । तत्र वामोर्ध्वकयोर्मध्यमाद्वामेऽङ्किके वाममुखे सव्येन गते सति ऊर्ध्वकेनापि दक्षिण एव हस्तः कार्य इत्येकहस्तः समप्रचार आलिप्तेतुरप्यर्थे ।। ६० ।।

अथ यथाग्रहसन्धानमोक्षरचनं तथा विधिमाह । वामोर्ध्वकसव्यानामिति । ग्रहावेशाद्वामोर्ध्वकसंयोगमवलम्ब्य हस्तप्रचारे व्याप्रियमाणे हस्ते हस्तं प्रवृत्ते सति त्रयाणामपि पुष्कराणां प्रघाताय वामो हस्त इति द्वितीय एव हस्तः समप्रचारः ।। ६१ ।।

शेषा ग्रहादिविहीना ये मार्गभेदकरणभेदा मार्गेषु क्रियाभेदास्तेषु करणांशसम्बन्धि हननं यथारुचि तेन तत्र हस्तद्वयप्रचारोऽपि । एवं सम्प्रचारस्त्रिविधः । अड्डितगोमुखयोस्तु समविषमो हस्तप्रचारः । तेषु तु विषम एवेत्यर्थाद् दर्शितं भवति । करणेष्विति बहुत्वं व्यापारभेदात् ।। ६२ ।।

Notes

शृङ्गारहास्ययोगे वाद्यं योज्यं तथाऽड्डिते मार्गे ।
वीराद्भुतरौद्राणां वितस्तमार्गेण वाद्यं तु ।। ६३ ।।

करुणरसेऽपि हि वाद्यं योज्यं ह्यालिप्तकरणमार्गे तु ।
बीभत्सभयानकयोस्तथैव नित्यं हि गोमुख्या(म्) ।। ६४ ।।

रससत्त्वभाव(भावसत्त्व)योगान्(गं)दृष्ट्वाभिनयं1 गतिप्रचारांश्च ।
वाद्यं नित्यं कार्यं यथाक्रमं(यथं)वाद्य(वृत्त)योगज्ञैः2 ।। ६५ ।।

एवं प्रहतविधानं कार्यं मार्गाश्रितं बुधैः सम्यक् ।
वक्ष्याम्यतश्च भूयो दर्दरपणवाश्रितं वाद्यम् ।। ६६ ।।

अतिवादितमनुवाद्यं समवादितमुच्यते पणववाद्यम् ।
तत्रातिवादितं स्यान् मुरजानामग्रतो यत्तु ।। ६७ ।।

यत्त्वनुगतं मृदङ्गैरनुवादितमुच्यते तु तद्वाद्यम् ।
समवादितं मृदङ्गैर्ज्ञेयं साम्येन यद्वाद्यम् ।। ६८ ।।3

Abh

अथैषां विनियोगमाह शृङ्गारेति । शृङ्गारे हास्येऽप्यड्डितःवीराद्भुतयो रौद्रे वितस्तः ।। ६३ ।।

करुणे चालिप्तः । बीभत्सभयानकयोर्गोमुखी ।। ६४ ।।

व्यभिचारादिविषये तु स्वयमूहः कर्तव्य इति दर्शयति । रसभावसत्त्वयोगमिति । रसेषु भावा व्यभिचारिणः सत्त्वमित्युत्तमादिः प्रकृतिः । अभिनयशब्दोऽत्र शाखाव्यापारः । तत्र गतो…….वाद्ययोगः । गतिप्रचारस्तु प्रवृत्ते नाट्ये परभावादित्यनाट्य एव । तदाह । यथायथमिति । वृत्तशब्देनात्र नाट्यमिति ।। ६५ ।।

प्रचारत्रयमुपसंहरति । एवमिति । अथ मार्गवैचित्र्योत्पादनाय करणषट्कं निरूपयिष्यन् तदुपयोगि दर्दरपणवं मन्यमानः पणवं तावदाद्यं लक्षयितुमुपक्रमते । वक्ष्यामीति । सामान्यो(न्येनो)क्तम् । विशेषस्तूच्यत इति भूयः पातस्यः । तच्च त्रिधा ।। ६६ ।।

प्रष्करतः पूर्वमपि वाद्यम् । यद्यनुवाद्यं मृदङ्गैर्हेतुभिर्यदनुगतं व्यपदेश्यतां नीतमित्यर्थः । अन्ये तु विपर्ययेणैतदाहुः । अग्रत इति पश्चादर्धे । तदन्तः सामान्यसमवायं पूर्वोक्ताक्षरेभ्य एव । केचिदनुबन्ध ……(साम्येन) तुल्यतेति दर्शयति ।। ६७-६८ ।।

Notes

कखगा ठठणा देह्वा णरलाः क्रुलिलंध्रणेति किरिकिह्णा ।
1एते वर्णाः पणवातोद्यविधाने विधातव्याः ।। ६९ ।।

धोधोणाधोकिहुलं प्रहुलं ह्वह्णिति रिणिति रिह्णथह्णे ।
कंथित्वाढेढेंढणां पणववाद्यम् ।
ह्णोणिकिमिकिर्लैणोण इति पणववाद्यं तु ।। ७० ।।2

तस्य प्रहतं कार्यं कनिष्ठिकानामिकाग्रकोणेन ।
नानाकरणविभागैः पणवे शिथिलाञ्चिते तज्ज्ञैः ।। ७१ ।।

वादककनिष्ठिकाभ्यां शीघ्रकृताः करेऽथ नेणोहाः ।
3शेषास्तु वादनकृताः स्मृताः प्रहारा विविधाद्याः ।। ७२ ।।

कोणानामिकवाद्यं मध्याङ्गुल्या हि वादनं कार्यम् ।
कोणानामिकवाद्यं शुद्धं प्रहतं भवेदेतत् ।। ७३ ।।

4भ्रान्तकयोगात् क्रिहुलमित्येतत् भ्रान्तवादनाग्रेण ।
रिभितकरणानुविद्धं तत्रा(त्र)भस्तत्र(द्र)कारस्तु ।। ७४ ।।

शीघ्रकरणानुविद्धैर्डकारस्त्वर्धहस्तसंयोगात् ।
स तु वादकेन वाद्ये धुर्येण विशेषतः कार्यः ।। ७५ ।।

Abh

कखगा टढणा इत्यार्यया ।। ६९ ।।

आर्यान्तरेण प्रयोगोपयागि तेषा……माह । थोथोणा इत्यादिना ।। ७० ।।

अस्य पणवस्य कनिष्ठाऽनामिकाऽग्रकोणश्च कोणाग्रमिति सम्बन्धः । अन्ये त्वग्रे मध्यम इत्याहुः । मध्यमाङ्गुल्येत्या(भ.ना.३४.७३) दि वक्ष्यते । पूर्वं तु मध्यमानामिकामाहुः । शिथिलता मार्दवम् । तच्च न गाढीकरणम् । तच्च कक्ष्याश्च स्कन्दारोहिणो वध्राश्च बन्धनरज्जो …….काष्टिकावस्कन्धस्य वादकसम्बन्धिनः । शिथिलीकरणपीडनाभ्यां विचित्रवर्णनिर्वर्तितां क्रियां सम्पादयति । तदाह । नानाकरणविभागैरिति ।। ७१ ।।

वादकः कोणः । कोणश्चानामिका ।। ७२-७३ ।।

अथ तत्कोणानामिकभ्रान्तकयोगः । व्याचष्टे भ्रान्तवादनाग्रेणेति ।। ७४-७५ ।।

Notes

स्वञ्चितकच्छौ (क्षौ) पणवौ कृत्वा धुर्यपरिवादकस्यां(काभ्यां) हि ।
रणणकिकिहिकिणिङ्क इति प्रहारा विधातव्याः।। ७६ ।।

अञ्चितकक्ष्ये पणवे रेफः सोऽर्धे तु हास्योर्ध्वे ग्रहे ।
कार्या मयूरककरा(:) सूक्ष्मौघास्तथा प्रहारा विधातव्याः ।। ७७ ।।

कृत्वा च शिथिलकक्ष्यां कार्यास्तु कनिष्ठिकाग्रकोणेन ।
तेनैव चरे प्रेद्धो भागे इत्यञ्चितेनैव ।। ७८ ।।

अञ्चितशिथिले पणवे कठणानिकिकिणिकिण्णिकृताः ।
प्रहारास्तु वैभ्रान्तककरणेन तथा स्वञ्चितकक्ष्ये च शिथिले च ।। ७९ ।।

अञ्चितकक्ष्ये पणवे कखरटणकृता मताः प्रहारास्तु ।
धिन्ने इति प्रहाराः पणवे तु सदा शिथिलकक्ष्ये ।। ८० ।।

कखरटकृताः प्रहाराः सोच्छ्वासे हि पणवे विधातव्याः ।
शेषा भ्रान्तकयोगाः संयुक्ताः संविधातव्याः ।। ८१ ।।

1टङ्कारेण स्वनजं वाद्यं कक्ष्याञ्चिते तु सम्भवति ।
तेन नकारो युक्तो ह्ण इति च पणवे प्रहारः स्यात् ।। ८२ ।।

तिर्यग्गृहीतवादन2मुखवर्तित इष्यते तकारस्तु ।
3तहुलं तहुलं क्रमशश्चैवं ह्येते प्रहारास्तु ।। ८३ ।।

Abh

स्वस्तिक (ञ्चित)त्वं यदा पणवस्य………… यस्माद् दक्षिणशब्दं स्वयं नृत्यति शङ्करः । तस्माद् यत्नादसौ योज्यो गीतकासारितादिषु ।। ७६–८० ।। सोच्छ्वास इति । मुक्तप्रहारे ।। ८१ ।। स्कन्दकरकं (टङ्कारेण स्वनजं) पवनेन कम्पमान इत्यर्थः ।। ८२ ।। तिर्यक् कृत्वा गृहीतस्य वादनस्य मुखे अग्रे वर्तिताः(तः) परिवर्तनेनोत्पादिताः(तः) ।। ८३ ।।

Notes

1एवं पणवे वाद्यं विधिवत् संक्षेपतो यथाऽभिहितम् ।
वक्ष्याम्यतः परमहं दर्दरवाद्याक्षराण्येव ।। ८४ ।।

रेक्लृतिकुत्खनोत्वनोधन्मोगोणेहधिण्णसंयुक्ताः ।
इति दर्दरे प्रहाराः कार्या मुक्ता निषण्णाश्च ।। ८५ ।।

कार्यास्तत्र निषण्णा रग्रध्रह्णि इति च दक्षिणकरेण ।
वामेन गोमदोत्था न नखस्पृष्टः प्रकारोऽग्रे ।। ८६ ।।

मुक्तौ तीत्रित्रिण भवेन् निपीडने करद्वयेनापि ।
धीमुक्तः प्रहनं स्यादनुस्वने ताडिते चैव ।। ८७ ।।

स्यात् पीडिते च धिह्णेत्येतन्मुक्तं तथा विमुक्तेऽपि ।
शेषा भवन्ति मुक्तास्तक्ना इति चैव निगृहीते ।। ८८ ।।

शीघ्रकरणानुबन्धस्थितिरेव हि निःस्वनः(नं)स्ख(ख)लितकं स्यात् ।
इति दर्दरे प्रहाराः समासतस्तत्र विज्ञेयाः ।। ८९ ।।

एवं त्वसङ्करकृता प्रहारशुद्धिरिह कीर्तिता तज्ज्ञैः ।
दर्दरपणवमृदङ्गैर्मिश्रितवाद्यं प्रवक्ष्यामि ।। ९० ।।

Abh

दर्दरवाद्यं वक्तुमाह । वक्ष्यामीति । दृश्(दृ)विदारणे (पा.धातुपाठः १४९४) इत्यस्य कर्तरि अचि– (क्यचि) यङ्लुकि दर्दर इति पदम् । तथा च पुराणे

तस्य ये मङ्गलान्याहुः श्रुत्वा दर्दरजं ध्वनिम् ।

इति । अन्ये तु (द)र्द इति शब्दं राति ददातीत्याहुः । मुरजपणवदर्दरस्य तु मुनिः स्वयमेव नामनिर्वचनं करिष्यति (भ.ना.३४.२८६) । ततस्तत्रैव व्याख्यास्यामः ।। ८४ ।।

एवमिति संक्षेपात् । निषण्णाः पीडिताः ।। ८५–८८ ।।

शीघ्रकरणानुबन्धस्थितिरेव हि निःस्वनं खलितकं स्यात् ।

इति । शीघ्रक्रियाया अनुबन्धेन चिरकालानुवर्तनेन स्थितिर्यस्य शब्दस्य तत् खलितकं शब्दसंचयरूपत्वात् । खल सञ्चये (पा.धा. ५४५) । यतस्तत्खलितकमिति लोके ।। ८९ ।।

अष्टावसङ्कराः । दर्दरवाद्याक्षराणामेवं सङ्करः । तेन कृता शुद्धिः । अनामिश्रवाद्यम् । इह तु निरूपयति दर्दरपणवमृदङ्गानि पुष्कराणि । लक्षणग्रन्थे विच्छेदः स्फुटो न प्रतीयत इत्यभिप्रायेण कुर्या(त्)

Notes

तत्र व्यक्तीभावं वाद्ये गच्छन्ति मिश्रिताः केचित् ।
केचिद्युगपत्करणं केचित् पर्यायकरणं तु ।। ९१ ।।

एकैकसम्प्रयुक्ता वर्णानुगत(ता)स्तथैव सम्पृक्ता1 (:) ।
2घोंद्रेरेंदोखोकोत्रिहुलं तत्कृता मृदङ्गेषु ।। ९२ ।।

अथ दर्दरेऽप धिंधिंक्लेते पणवयोस्तु संयुक्ताः ।
डणके खोदेदोदे दिधिरे दिधिनि मिश्रास्तु ।। ९३ ।।

3आभ्यो येऽन्ये शेषास्ते मिश्रा एव नित्यशः4 कार्याः ।
पूर्वो(र्वे)ऽपि च मिश्रत्वं व्रजन्ति सर्वे यथायोगम्5 ।। ९४ ।।

6अथ युगपत् करणानि तु हह्णह्णेकुकुनणंध्रलंदोह्णम् ।
ग्रहुलं नह्णादो एवं योज्यास्तु पणवे हि ।। ९५ ।।

धुर्यः(र्य)कृतासु7 (स्तु) क्रमशः करणे परिवादनेन8 कर्तव्या(:) ।
9कोखोदेदोधोणह्णेति किणिकिणिति कृताश्च ।। ९६ ।।

Abh

तत्र मिश्रा एकरूपवर्णा गतयः प्रहाराः । अन्ये तु विविधाः । युगपत् क्रमेण वा । तदाह । व्यक्तीभावमिति । तत्रै(व) नैकशः प्रयुक्ताः पर्यायकरणा वर्णानुगता यौगपद्येन संयुक्ता मिश्रितत्वेनैकैकं कृत्वा सम्यक् प्रयुक्ताः । पर्यायरणना इत्यन्ये पठन्ति ।। ९१ ।।

तत्र मिश्रान् निरूपयितुमेतावत् प्रतिनियता अमिश्रा इति सार्थयाऽऽर्यया दर्शयति । एकैकेत्यादि ।…………आनद्धमृदङ्ग इत्येके ।। ९२ ।।

अन्येऽन्तेन ददरपणवयोः खत्यादिसहितार्यार्धेन पणवेऽमिश्रा उक्ताः ।। ९३ ।।

मिश्रानाह । आभ्यो येऽन्ये इति । षोडशाक्षरादिके मा शङ्का भूदिति निःशेषपदमन्यपदं च । सुशिक्षितवादकवशात्त्वेतेऽपि भवन्ति मिश्रा इत्याह । पूर्वेऽपीति । यथायोगमिति । अभ्यासबलात् ।। ९४ ।।

अथ युगपत्करणानीति । अक्रमा उक्ताः ।। ९५ ।।

पर्यायकरणानाह । धुर्यकृतास्तु क्रमश इति । पूर्वधुर्यस्ततः परिवादकः करोति यः पणवयोरेव क्रमः ।। ९६ ।।

Notes

1पणवानामनुबन्धे कार्यं धुक्दुह्णकेति वाद्यं तु ।
भूयः प्रतिकृतिभेदो मार्दङ्गिकदर्दरिभ्यां च ।। ९७ ।।

यद्यत् कुर्यान् मुरजे प्रहारजातं गतिप्रचारेषु ।
अनुगतमक्षरवृत्तं तदेव वाक्यं तु पणवेऽपि ।। ९८ ।।

न हि चित्रं कर्तव्यं गतिप्रचारेषु वादनं तज्ज्ञैः ।
समविषमं तत्र हि यद् वृ(त् तल्ल)क्ष्यं पादसञ्चारे ।। ९९ ।।

उपरिकरणे यथेष्टं कर्तव्यस्तु पणवो मृदङ्गेषु ।
2तत्र प्रहारकरणैर्मृदङ्गवाद्यं विधातव्यम् ।। १०० ।।

Abh

अनुबन्ध इति । परिवादकेन छिद्रेषु प्रयोज्यमित्यर्थः । अत परस्परं क्रममाह ।

भूयः प्र(ति)कृतिभेदे(दो)मार्दङ्गिकदर्दरिभ्यां वा(च) ।

इति । प्रतिकृतिरनुकारः पश्चादनुकरणम् । स षोढा भिद्यते । यदा मुख्यमृदङ्गं(ङ्गः) ततः पणवस्ततो दर्दर इत्येको भेदः । दर्दरः पणव इति द्वितीयः ।। ९७ ।।

एवं पणवे दर्दरे च मुख्ये प्रत्येकं द्वाविंशतिः षट् । तत्र गतिप्रचारे परिक्रमणादौ मुरजप्राधान्यं क्रमकरणयोग इति दर्शयति ।

यद्यत् कुर्यान् मुरजे प्रहारजातं गतिप्रचारेषु ।
अनुगतमक्षरवृत्तं तदेव वाद्यं तु पणवेऽपि ।।

इति । दर्दरेऽपिअनुगतं रसादिवशायातम् । वृत्तं प्रकारः ।। ९८ ।।

अत्र(गतौ)द्वित्रियुगपत्करणं निषेधति । न हि चित्रं कर्तव्यं गतिप्रचारेषु वादनमिति । अत्र हेतुः ।

समविषमं तत्र हि यत् तल्लक्ष्यं पादसञ्चारे ।

इति । तत्र विचित्रे यत् समं विषमं च प्रकारजातं तत् पादसञ्चारे लक्षणीयं योज्यम् ।। ९९ ।।

न च ताण्डवादि मुक्त्वा गतौ तद्योजनाङ्गमित्या(त्य) कृतशेषः । गतिप्रचारादन्यत्वे तु न शेष इत्याह । उपरिकरण इति । वाद्यप्राधान्य इत्यर्थ ।। १०० ।।

Notes

प्रायेण सर्ववादेष्वादौ पणवग्रहः प्रयोक्तव्यः ।।
1वक्ष्याम्यहमतः परं तु लक्षणं करणजातस्य ।। १०१ ।।

रूपं कृतप्रतिकृतं प्रतिभेदो रूपशेषमोघस्य (श्च) ।
षष्ठी च प्रतिशुक्लेत्येवं ज्ञेयं करणजातम् ।। १०२ ।।2

तत्र रूपं3 नाम विभक्तकरणम् । यथा ।
घं(दें)घंगेघं किटिमा किटिमा घटत्थि घटपत्थि ।
4घदुगुरुकिटिकट कृह्णं दोघे दोघे क्ले ।। १०३ ।।

इति रूपम् ।

कृतप्रतिकृतं नाम यत्रैकं करणं त्रिपुष्कर इत्यु(मप्यु)द्भा(व)यति ।
यथा । दं(धुं-लं) खु(खुं)खुण(मणे)5क्रमधिमदांणेटोटतितोटमत्थिमानक्रम् ।
गुरुखे किहुले दोह्णं दोस्रो दोधोण खे वाद्यम् ।। १०४ ।।

Abh

अथ यदर्थं पणवदर्दररूपमुक्तं तत् करणषट्कं च वक्तुमुपक्रमते । वक्ष्यामीति ।। १०१–१०२ ।।

रूपं नाम विभक्तकरणमिति । मुरजे गुरुद्वयम् । अन्यत्र तत्समकालं लघुद्वयम् । गुरु चेत्यादिना विभक्ता यत्र क्रिया तद्रूपम्देंघं इति मुरजे । किटिमा इत्यन्यत्र ।। १०३ ।।

कृतप्रतिकृतम् । यत्रैकं करणं त्रिपुष्करमप्युद्भावयति ।

सर्ववाद्याक्षरयुक्तमिति यावत् । एकस्मिन् कृतेऽन्यदपि प्रतिकृतं संविभक्तं पुष्करं यत्रेति । धुंखुंखुमणे इति । उपाध्यायास्त्वाहुः । नैतावता पणवादिभिः सह किञ्चिदुक्तं स्यादिति । तदयमर्थः । एकमिति । एकं पणवादिकरणमित्यर्थः । पश्चाद्भावि सपुष्करवाद्यमुद्भावयति अनुकरोति सति प्रतिकृतमिति । वीणावाद्यमित्यनुकृत भवति । न हि सादृश्यमात्रमेतत् । ततोऽर्थत्वादनुबद्धस्येति । उदाहरणमखण्डधा विभजनीयम् । लंखुंखुणै इति मुरजे पञ्चधा । क्रमिमोटं इति पणवे इत्यादि ।। १०४ ।।

Notes

प्रतिभेदो नाम युगपत्कृते करणे मृदङ्गानां यदुपरिकरणेन गच्छन्ति य(त)त् ।1
2दाधा(धोधो) धाणिधा मटगतमधिं घटे घटे ।
दोघे घट मत्थिणह्नको खो ।
(एभिः करणविशेषैः प्रतिभेदो नाम विज्ञेयः) ।। १०५ ।।

इति वाद्यम् ।

रूपशेषं तु3 [रूपशेषं(षो)नाम करणानामविशेषो4 यथा ।
खुखुणं णणणणणां मढाघेव मथिटां घेटां घेदो ।
ये घेटमढिणष्णरवो इति वाद्यं रूपशेषं तु] ।। १०६ ।।5

6प्रतिशुल्कं(ल्को)नामानुस्वारो मार्दङ्गिकदर्दरवादकानाम् । यथा ।
7घटमथि कुणकिटि गखाखा कथिधिजाणणकोखोणाखा ।
कुटकटि कुणकिटि कटखे प्रतिशुल्काख्यं सदा करणम् ।। १०७ ।।

ओ नाम सर्वभाण्डविधेयो द्रुतपाणिलयो नद्योघवत् । ओघो यथा ।
घंकिटिमथकिटिकिटिघे घदघुदेदेण घाण दाधानणोखो ।
घदुगुदुघुदुगुदुपदघेरेणिण एते तथौघे च ।। १०८ ।।8

Abh

मृदङ्गानां युगपदेव करणे क्रियमाणे यदुपरिकरणेन । तद्यथा । लघुद्वये मुरजेन प्रयुयुक्षिते पादस्थे गुरुनियते सदा प्रतिभेदःधोधो इति प्रयोज्यमानः । कुहलमिति ।। १०५ ।।

रूपशेषः करणानामिति । यथा(दा) मौरजिको विरामं करोति तदा तच्छिद्रे पाणविको वा वादयति । एतदन्यदपि क्रियमाण(णं)विच्छेदः । खुखुणं इति मुरजविरामे णंणंणं इति पणवे इत्यादि ।। १०६ ।।

प्रतिशुष्को (ल्को)ऽनुस्वार इति । बहुकं कालं मार्दङ्गिकेन प्रयोगे कृते ध्रुवावर्तितत्कालं पणवस्य दर्दरस्य वा प्रयोगः । घटमधि इत्यादि ।। १०७ ।।

ओधे प्रयुक्ते पणववाद्यं कुटकुटण केटखटखिट । ओघे विलम्बितलये मुख्ये एको द्रुतलयः । एतच्च करणषट्कं (पिण्डी) प्रतिसरादिनृत्तेषु दृश्यते । हुलडुक्का पणवभेद एव ।। १०८ ।।

Notes

1.:(N) यथा

करणानां समायोगः षड्विधः परिकीर्तितः ।
1अनेनैव विधानेन योज्यं वाक्करणं बुधैः ।। १०९ ।।

त्रियति नाम । समा स्रोतोगता गोपुच्छा चेति । लययति2पाणीनां त्रिविधः संयोगः ।
स च त्रिप्रकारो भवति । तद्यथा । राद्धं विद्धं शय्यागतं चेति ।। ११० ।।

त्रिलयं नाम । द्रुतो मध्यो विलम्बितश्चेति ।। १११ ।।

त्रिपाणिकं नाम । समपाणिरर्धपाणिरुपरिपाणिश्चेति ।। ११२ ।।

समा यतिर्द्रुतश्चैव2a लयो यत्र भवेदथ ।
तथैवोपरिपाणिश्च 2bराद्धस्त्वेष विधिर्भवेत् ।। ११३ ।।

स्रोतोगता यतिर्यत्र लयो मध्यस्तथैव च ।
समपाणिस्तथा चैव विद्धं वाद्यं तु तद्भवेत् ।। ११४ ।।

अर्धपाणिस्तु यत्र स्यात् तथा चैव स्थितो लयः ।
3यतिश्चैव तु गोपुच्छा वाद्यं शय्यागतं तु4 तत् ।। ११५ ।।

Abh

उपसंहारं कुर्वन् करणस्य सामान्यलक्षणमप्याह । करणानां समायोगः षड्विध इति । भिन्नानां वाद्यक्रियाणां मिश्रि(श्र)ता येन क्रियते तत् करणमिति यावत् । रूपादीनां चान्वयस्तताध्याये (भ.ना.२९) व्याख्यातः । एतत्करणानुसारेणैवोद्धतिका कार्या इत्याह । अनेनैवेति ।। १०९ ।।

एवं वर्णानुहारवैचित्र्यमुक्त्वा तालप्राधान्येनावनद्धप्रवृत्तं तदुपयोगि यत्यादिकमाह । त्रियतीति । यतित्रयाणां तालाध्याये (भ.ना.३१) उक्तं रूपमितीह परमां मेलनामाह । त्रिविधः संयोगः स च त्रिप्रकार इति । न च तावदत्र सम्भवन्ति भेदाः । इह तत् त्रय उपादेया इति भावः ।। ११०–११२ ।।

समा यर्तिद्रुतो लय उपरिपाणिरिति राद्धः सिद्धोऽनन्यापेक्षो द्रुतादेव समाप्तेः ।। ११३ ।।

स्रोतोगता मध्यः समपाणिरिति विद्धः ।। ११४ ।।

उभयरूपानुवेधाच्छेषवच्छय्यागतः शय्यां विश्रान्तिं प्राप्तो यतः ।। ११५ ।।

Notes

स्थिताल्लयात् प्रभृत्येषां प्रमाणं सम्प्रवर्तते ।
1कार्यहानिं कलानां च शेषेष्वेन्येषु पाणिषु ।। ११६ ।।

यतः पाणयश्चैव लया वै वाद्यसंश्रयाः ।
यथाकामं 2हि कर्तव्या 3नाट्यशक्तिमवेक्ष्य तु ।। ११७ ।।

त्रिमार्जनं नाम ।

मायूरी ह्यर्धमायूरी तथा कार्मारवीति च ।
तिस्रस्तु मार्जना ज्ञेयाः पुष्करेषु स्वराश्रयाः ।। ११८ ।।

गान्धारो वामके कार्यः षड्जो दक्षिणपुष्करे ।
4ऊर्ध्वके पञ्चमश्चैव मायूर्यां तु स्वरा मताः ।। ११९ ।।

वामके पुष्करे षड्ज ऋषभो दक्षिणो तथा ।
ऊर्ध्वके धैवतश्चैवमर्धमायूर्युदाहृताः ।। १२० ।।

ऋषभः पुष्करे वामे षड्जो दक्षिणपुष्करे ।
पञ्चमश्चोर्ध्वके कार्यः कार्मारव्याः स्वरास्त्वमी ।। १२१ ।।

Abh

प्रयोगविधिमाह । स्थिताल्लयात् प्रभृतीति । एषामिति राद्धादीनाम् । हानिरिति न्यूनप्रमाणात् ।। ११६ ।।

उपसंहरति । यतय इत्यादि । संश्रया नियामकाः ।। ११७ ।।

अथ स्वरानुहारभागं निर्णेतुमुपक्रमते । त्रिमार्जनमिति । स्वराश्रया इति । स्वरानुहारभेदा इत्यर्थः ।। ११८ ।।

गान्धारो वामे आलिङ्गके । दक्षिण आङ्गिके षड्जः । ऊर्ध्वके पञ्चमः । त्रिश्रुतिर्मायूरीयम् । मध्यमग्रामे निषादधैवतर्षभानामेतत्पीडनादेव सम्पादितत्वात् स्थितिः । चतुर्थे त्ववशिष्टे मुखे मध्यम इति पूर्वस्वरत्वम् ।। ११९ ।।

वामे षड्जःदक्षिणे ऋषभःऊर्ध्वके धैवतश्चतुः श्रुतिः । अर्धमायूरी षड्जग्रामे ।। १२० ।।

ऋषभो वामे षड्जो दक्षिणे ऊर्ध्वके तु पञ्चमः स त्रिश्रुतिश्चतुःश्रुतिर्वा ।। १२१ ।।

Notes

1aएतेवामनुवादी तु जातीनां यः स्वरो मतः ।
आलिङ्गमार्जनां 1प्राप्तो निषादः स विधीयते ।। १२२ ।।

मायूरी मध्यमग्रामे षड्जे त्वर्धा तथैव च ।
कार्मारवी तु कर्तव्या 2aसाधारणसमाश्रया ।। १२३ ।।

[स्वराः स्थानस्थिता ये तु श्रुतिसाधारणाश्रयाः ।]
त एव मार्जनकृताः शेषाः सञ्चारिणो मताः ।। १२४ ।।

Abh

अत इयं साधारणाश्रया लक्ष्यते । साधारणं तुल्यग्रामद्वयाश्रयणं यस्या इति । स्वरत्रयन्यासेऽपि प्राधान्यस्वरान्तरं भवेदित्याशङ्क्याह ।

एतेषामनुवादी तु जातीनां यः स्वरो मतः ।
आलिङ्गमार्ग (र्ज)नां प्राप्तो निषादः स विधीयते ।

इति । मृत्तिकायाः समं मार्जनाम् । तत्कृतः स्वरयोगोऽपि तथा । तन्त्रीशिथिलीकरणायामनात्मकसाधारणाप्रभवो हि स्वरयोगः । साधारणायोगेत(न)एतेषां स्वराणां मध्ये यः स्वरो जातिध्रुवां गानजात्यङ्गरागादीनां यो वादी अंशस्वरः स (अनुवादि)नेति शेषः । आलिङ्गसम्मार्जनादुत्थितमार्जनं(न)शब्दवाच्यं गान्धारम् । अन्यत् सादृश्यलक्षणेन यं प्राप्नोति निषादस्वरोऽत्र स विधीयते निषादांशत्वे प्राधान्येनाश्रीयते । एष षड्जस्य तु…….मन्तव्यः । अनुवादीह संवादीति । अन्ये तु भिन्नं व्याचक्षिरे ।। १२२ ।।

श्रुतिनियमाद्विभागमाह । मायूरीत्यादि ।। १२३ ।।

जात्यंशकगतस्थायिस्वरप्राधान्यकृतं प्रधानमभिधाय स्थानस्वरकृतमपि भवति प्राधान्यमपि(मिति) दर्शयति ।

स्वराः स्थानस्थिता ये तु श्रुतिसाधारणाश्रयाः ।
त एव मार्जनकृताः शेषाः सञ्चारिणो मताः ।।

इति । इह स्थितः लयः । स्वर इत्यन्ये । स्थानस्वरोऽन्यश्चांशस्वरस्तथा च लब्धो व्यवहारो देवताप्राप्तिककुभषड्जो गीयते इत्यादि । तेन यत्स्थानत्वेन त्वाश्रयणं ग्रहणं येषामित्यर्थः ।। १२४ ।।

Notes

1a.N: एतेषामपिवादी तु

वामके चोर्ध्वके 1कार्या आहार्या लेपतः स्वराः ।1a
शैथिल्यादायतत्त्वाच्चावध्राकोटनयाऽपि च2 ।। १२५ ।।

स्वराणां सम्भवः कार्यो मार्जनासु प्रयोक्तभिः ।
मार्जना तु कृता3 कार्या वामकोर्ध्वकयोः सदा ।। १२६ ।।

लक्षणं मृत्तिकायास्तु गदतो मे निबोधत ।
निश्शर्करा निस्सिकता निस्तृणा निस्तुषा तथा ।। १२७ ।।

न पिच्छिला न विशदा4 न क्षारा न कटुस्तथा ।
नावदाता न कृष्टा च नाम्ला नैव च तिक्तका ।। १२८ ।।

मृत्तिका लेपने शस्ता तया कार्या तु मार्जना ।
नदीकूलप्रदेशस्था 5श्यामा च मधुरा च या ।। १२९ ।।

तोयापसरणश्लक्ष्णा तया कार्या तु मार्जना ।
बधिरा ह्यवदात्ता तु कृष्णा कुर्वीत न स्थिरा ।। १३० ।।

न तुषा न स्वरकरी श्यामा स्वरकरी भवेत् ।
यवगोधूमचूर्णां(र्णं) वा तत्र दद्यात् प्रलेपने ।
एकस्तस्य तु दोषः स्यादे6 कस्वरकृतं भवेत् ।। १३१ ।।

Abh

अथ मार्जनासु स्वरत्वमाह । वामके चोर्ध्वके चेति । लेपत आहरणीयाः स्वराः कर्तव्याः । अन्यत्तु चर्मण एवायतत्वशैथिल्यकृताभ्यां चाह । हननं पातनं वध्राणां वा वध्रकानाशैथिल्यगाढत्वाभ्यामपि द्वित्रि(शस्त्रि) शश्चेति । समुच्चयमाह ग्रहणेन ।। १२५–१२६ ।।

पि(पै)च्छिल्यम् । लेपार्थं मृत्तिकां लक्षयति । निश्शर्करेत्यादिना ।। १२७–१३० ।।

कम्रभावे विधिमाह । यवगोधूमचूर्णेति । मिश्रीकृतमित्याहुः ।। १३१ ।।

Notes

त्रिसंयोगं नाम । गुरुसञ्चयो लघुसञ्चयो गुरुलघुसञ्चयश्चेति ।। १३२ ।।

तत्र गुरुसञ्चयो नाम । गुरुस्थितलयौघवृत्तौ यथा ।
1धंतां केतां धंद्रां धेतं धंधं तथैव केंतांधम् ।
दंदंदेंदेंद्रांर्घेंतांखेंताखेंतामिति च गुरु स्यात् ।। १३३ ।।

2लघुसञ्चयो नाम । गुरुलघुमध्यप्रवृत्तो यथा ।
घटमटघटमथटमथटमधिद्धडगुडघडधत्कृलघु ।
घटमथिघदुगुदुखघदुघंकृतो लघुलयश्च ।
इति संयोगौ ज्ञेयौ मृदङ्गवाद्ये प्रयोगज्ञैः ।। १३४ ।।

गुरुलघुसञ्चयो नाम । गुरुलघुमध्यप्रवृत्तो यथा ।
घटथिम्मथिथिं मथितं किटा ।
घटधिं (मथि) टत्थिमटके ।
इति संयोगो गुरुलघुप्लुतः स्यात् ।। १३५ ।।

3त्रिगतं नाम । तत्त्वमनुगतमोघं चेति ।
अक्षरसदृशं वाद्यं स्फुटपदवर्णं तथैव वृत्तसमम् ।
4सुविभक्तकरणयुक्तं तत्त्वे वाद्यं विधातव्यम् ।। १३६ ।।

Abh

अथ त्रिसंयोगं व्याचष्टे । गुरुसञ्चय इत्यादि स्पष्टम् ।। १३२–१३५ ।।

त्रिगतमाह । तत्त्वमित्यादिना । अनेन सह यद्गमनं मिश्रता तद्गतत्वं त्रिविधम् । अत एव स्वातन्त्र्येण ताण्डवादौ वाद्यप्रयोगे गानाभावे नाट्येऽपि छिद्रछादनाद्योधम्अनुगतं गाने शय्यागतसिद्धराद्धभेदाद्गाने सह मेलनेन कृतं तत्त्वादन्यमि(दि)त्यपौनरुक्त्यम् । तत्र तत्त्वमाह ।

अक्षरसदृशं वाद्यं स्फुटपदवर्णं तथैव वृत्तसमम् ।
सुविभक्तकरणयुक्तं तत्त्वे वाद्यं विधातव्यम् ।।

इति । इह विचित्रे यथाक्षरसादृश्यमपि नास्ति । यदा दुकटरधादिभिरक्षरैः सादृश्यं तदा तत्त्वम् । यथावाद्यमताद्रूप्यस्य सम्भवात् सादृश्यमुक्तं न ताद्रूप्येऽनुगतम् । यथा ।

Notes

समपाण्यवपाणियुतं स्फुटप्रहारकरणानुगं चैव ।
गेयस्य च वाद्यस्य च भवेदवघाताय 1तदनुगतम् ।। १३७ ।।

नैककरणाश्रयगतं2 ह्युपर्युपरिपाणिकं द्रुतलयं च ।
आविद्धकरणबहुलं योज्यं वाद्यं बुधैरे(रो)घैः(घे) ।। १३८ ।।

Abh

अभिहतदर गरहरणकरण
हरललाटोत्थिततरणिभारणि(मारण) काम
क्रमगीतिशि(तीश)शीर्षरणिततम(मो)हते
कुरु त(तं)कुरु त(तं) मम करणगणा(णम्) ।
गिरिगुरुतन्द्रहा द्ध(ध) रोद्धरण–
मि(म)हाति (वि) मलकि(शी) लन्ततुझा (तन्तुधा) रधा—
धमधामहा हाघटितोदित–
कातरकीटककोटिराकर्षक
कदु(कुरु)तडो(ण्डो)रतमकाण्डे ।।

इत्युच्चार्यमाणा(णे) याऽर्थप्रतीतिः सा च तत्त्वादिः स्यात् ।। १३६ ।।

पदे गीयमाने यो वर्णः स्थाय्यादि(:) स्वरानुहारेण यत् तत् स्फुटं वृत्तसमयमित्यष्टौ साम्यानि लक्ष्यन्ते । एतच्च सुविभक्तं कृत्वा प्रहारक्रिया भवतीति गानेन सह ताद्रूप्यम् । तत्त्वसमपाण्यवपाणियुतस्फुटप्रहारस्तु करु()णानुगं चैव गेयस्य वाद्यस्य वा उभयभेदघाताय त……..तत्त्वे गीतं सर्वथा प्रधानम् । इह तु वाद्यमपि तेन समैः पाणिप्रहारैरवपाणिभिः स्ववर्तनादिवैचित्र्यप्रवृत्तैर्यत्तदनुगतमेवाह । त्रिप्रहारक्रियास्फुटनकृत …….पाटनमनुगच्छति ।। १३७ ।।

ननु तत्सर्वात्मनाऽवस्कन्दतीत्युभयं सा(स्या)दनुगतत्वं यस्याप्यघातकं यतः ।

नैककरणाश्रयगतं ह्युपर्युपरिपाणिकं द्रुतलयं च ।
आविद्धकरणबहुलं योज्यं वाद्यं बुधैरोघे ।।

इति । नैकशब्दः प्रातिपदिकान्तरं विविधार्थे । करणं क्रियाघातः । (उ) पर्युपरिपाणेरिति प्रहाराणां न विभक्तत्वम् । अत एवाक्षरसादृश्यमप्यर्थं (र्थ) दुर्लक्ष्यम् । आविद्धा निरुद्धा हि पणवदर्दरकरटादिक्रिया हि । बहुलमिति द्रुतलयमित्येतौ पौनरुक्त्यम् ।। १३८ ।।

Notes

सर्वस्यापि1 हि वाद्यस्य अष्टौ साम्यानि भवन्ति । तद्यथा ।
अक्षरसममङ्गसमं ताललयत्वं यतिसमकं(लययतिसमं) ग्रहसमकम्(मं च) ।
न्यासापन्याससमं पाणिसमं चेति विज्ञेयम् ।। १३९ ।।

2यद्वृत्तं तु भवेद् गानं3 गुरुलध्वक्षरान्वितम् ।
तद्वृत्तं तु4 भवेद् वाद्यं5 तदक्षरसमं भवेत् ।। १४० ।।

ध्रुवाणां ग्रहमोक्षेषु कलान्तरकलासु च ।
यदङ्गं क्रियते 6वाद्यं तदङ्गसममुच्यते ।। १४१ ।।

यच्छरीरं भवेद्गानं कलातालप्रमाणजम् ।
तत्प्रमाणं तु 7तद्वाद्यं तद्वै तालसमं भवेत् ।। १४२ ।।

स्थिते मध्ये द्रुते वापि लये गानं 8तु यद्भवेत् ।
तथा भवेत्तु तद्वाद्यं तद्वै लयसमं भवेत्9 ।। १४३ ।।

समा स्रोतोगता 10चापि गोपुच्छा 11च यतिर्यथा ।
12तथा भवेत्तु यद्वाद्यं तद्वै यतिसमं भवेत् ।। १४४ ।।

Abh

तानि साम्यानि तत्त्वे सूचितान्याह । सर्वस्यापीति । पणवादेरपि ।

अक्षरसममङ्गसमं ताललययतिसमं ग्रहसमं च ।
न्यासो(सा)पन्याससमं पाणिसमं चेति (विज्ञेयम्) ।।

इति ।। १३९ ।।

(अक्षरसमं) पदगतं तावद्गाने गुरुलघुनी वाद्ये समम् ।। १४० ।।

(अङ्गसमं) ताले सामाङ्गानि तु चत्वारि सामानि । तत्राङ्गं ध्रुवाणां स्थितप्रवृत्तादौ । तेन बन्धस्फुटादिसमुदायसाम्यमङ्गसाम्यम् ।। १४१ ।।

तद्भाभूताभिः प्लुतलघुगुरुकलादेः साम्यम् ।। १४२ ।।

लयमतिसाम्ये व्याख्याते ।। १४३–१४४ ।।

Notes

ततावनद्धवंशानामेकश्रुतिकृतोऽपि च ।
ग्रहो गानेन सहितं तत्तु ग्रहसमं भवेत् ।। १४५ ।।

न्यासापन्यासयोगस्तु 1aस्वराणां तु भवेद्यथा ।
1bतद्वद्वाद्यं यदातोद्यो न्यासापन्यासजं तु तत् ।। १४६ ।।

1cसमपाण्यर्धपाणिस्थं तथैवोपरिपाणिकम् ।
1dगीतवाद्यानुगं वाद्यं ज्ञेयं1eपाणिसमं तु तत् ।। १४७ ।।

अष्टादशजातिक1मिति यदुक्तं तदनुव्याख्यास्यामः । तद्यथा ।
शुद्धा 2पुष्करकरणा विषमा विष्कम्भितैकरूपा च ।2a
पार्ष्णिसमा पर्यस्ता समविषमकृता च(व)कीर्णा च ।। १४८ ।।

पर्यवसानोच्चितिका संयुक्ता संप्लुता महारम्भा ।
विगतक्रमा विगलिता वञ्चितिका चैकवाद्या च ।। १४९ ।।

एतासां जातीनां लक्षणनिदर्शनान्यभिव्याख्यास्यामः ।3
एकाक्षरकृतं वाद्यं यद्भवेत् सार्वमार्गिकम् ।
नित्यं करणयोगेन सा शुद्धा नामतो यथा ।। १५० ।।4

Abh

स्वरगतं द्विधा । ग्रहेण न्यासापन्यासयोरितरेतरवृत्तेन । तद्दर्शयितुमेतत् साम्यमुक्तम् । यत्रादौ श्रुतिस्तत्साम्यं ग्रहणम् । विपरीतं वा साम्यं वा ।। १४५–१४६ ।।

तत्र गीतायत्तं यद्वाद्यं तत् पाणिसमम् । इत्येत……….लाङ्गसाम्यमाहुः ।। १४७ ।।

अथोक्तं पूर्वोक्ते समस्तं यज्जायते । जायमानत्वाद्रसभावप्रकृत्यादिविशेषप्रतिपत्तेर्जननहेतुत्वाज्जातिवाच्यं प्रयोगं वक्तुमुपक्रमते । अष्टादशजातिकमिति ।

शुद्धा दु(पु)ष्करकरणा विषमा विष्कम्भितैकरूपा च ।
पार्ष्णिसमा पर्यस्ता समविषमकृताऽवकीर्णा च ।
पर्यवसानोच्चितिका संयुक्ता संप्लुता महारम्भा ।
विगतक्रमा विगलिता वञ्चितिका चैकवाद्या च ।।

इति ।। १४८–१४९ ।।

क्कचिल्लक्षणमेव । क्कचिदुदाहरणमेव । अन्यदूह्यम् । एकस्याक्षरस्य कृता आवृत्तिर्यत्र । सार्वमार्गिकमिति । रसभावौचित्यात् ।। १५० ।।

Notes

1a (N): स्वराणां हि यदा भवेत् (N—११८ b) 1b N: वंशवीणोद्भवं वाद्यं (V.११८C(N)) 1c(N): समपाण्यावपाण्युक्तं 1d (N): गीतवाद्यं तु वाद्यं स्यात् 1e.भ.(N) स्मृतं । 1 N: अष्टादशजातय

धंधंद्रंद्रंक्लाखोखोहाणेति विहितवाक्या ।
सा शुद्धा विज्ञेया मध्यस्त्रीणां सदा जातिः ।। १५१ ।।1

स्वस्तिकहस्तविचारा सर्वमृदङ्गप्रहारसंयुक्ता ।
सा त्रिलयवाद्ययुक्ता पुष्करकरणा भवेज्जातिः ।। १५२ ।।

घेंतांकेंतांखेंतां दीर्घकृतैरक्षरैः कृता या च ।
राज्ञां स्वभावगमने सा विषमा नामतो जातिः ।। १५३ ।।

गुरुयुग्मं लघुयुग्मं तोटकं वाऽपि ।
नित्यं यत्र तु वाद्ये विष्कम्भा नाम सा जातिः ।। १५४ ।।

वामोर्ध्वकप्रवृत्तादोघे क्षिप्तावकृष्टलययुक्ता ।
सा करुणा स(णांश) प्राया जातिः स्यादेकरूपा तु ।। १५५ ।।

थित्थं थिकट् थिंधिकटं मटथिकरणैः सपार्ष्णिकृतैः ।
थेक्लेटाघेग्रथिता पार्ष्णिसमा सा भवेज्जातिः ।। १५६ ।।

Abh

मध्यमस्त्रीणां शुद्धेत्युक्तत्वाद्विपरीतलक्षणा युक्ता ।। १५१ ।।

दु(पु)ष्करकरणेति । दु(पु)ष्करं चित्रं स्वस्तिकादि करणं यस्याः । साधनं…….तस्यामित्याहुः । अस्या उदाहरणमूह्यम् । घटविप्युघटगणणधुंधुं इत्यादि एवमन्यत्र ।। १५२ ।।

दीर्घाक्षररूपात् स्वभावरूपे गमने राज्ञाम्विषमेत्युक्तत्वात् ।। १५३ ।।

गुरुलघुपातौ (तोटकमिति) लघुयुगैकगुरुरूपा राज्ञां त्वरितगतौ विष्कम्भितात्वया मयि ते सत्त्वेन विष्कम्भो माधुर्यमस्यामिति (विष्कम्भिता) ।। १५४ ।।

(वामेत्यादि) । ओघे इत्यादि । करुणेए(णै)करूपा । एकाक्षरसूचनादिति ।। १५५ ।।

(दि(थि)त्धिमित्यादि । पौर्ष्या(पार्ष्ण्या) घातकृता पार्ष्णिसमा । करुणेतरविषयसोपग्रहणोपस्थाने (प्रयोगः) ।। १५६ ।।

Notes

ताघेंतांतांदोघेदोह्णामित्यक्षरैस्तु संयुक्ता ।
पर्यस्ता जातिरियं मध्यमपुरुषेषु कर्तव्या ।। १५७ ।।

कृत्वोपरिपाणिकृतं वाद्यं यद् द्रुतलयं समारूढम् ।
पुनरेव समलयं स्यात् समविषमा सा तु विज्ञेया ।। १५८ ।।

अवकीर्णं यद् द्विगुणैस्त्रिगुणैर्वा करणं मृदङ्गानाम्1 ।
पणवेषु दर्दरेष्वव्यवकीर्णा नाम सा जातिः ।। १५९ ।।

पर्यवगच्छति पूर्वं यस्मिन् वै प्रस्तुतं करणजातम् ।
त्रिविधेऽपि तु लययोगे पर्यवसाना तु सा जातिः ।। १६० ।।

घेंटांदोह्णंण्णुणहामेभिः स्यात्त्वक्षरैर्हि सम्बद्धा ।
साम्यार्धे उच्चितिका जातिर्वाद्ये तु बोद्धव्या ।। १६१ ।।

थंकेटांकेटकिणामेभिर्या त्वक्षरैस्तु संयुक्ता ।
संयुक्तवृता जातिः सा सा(का)चेटगतौ विधातव्या ।। १६२ ।।

Abh

(ताघेमित्यादि ।) गुर्वक्षरत्वेऽपि यत्र स्वरस्य नानाकारोऽनेकगत्यादेर्नैकरूपत्वं सा मध्यमपुरुषेषु पर्यस्ता ।। १५७ ।।

(कृत्वेति) । गुरुत्वेन परितः क्षेपो यस्याः स्थायिनि ह्लादत्वात् तदेव द्रुतलयोपरिपाणितया समविषमा ।। १५८ ।।

(अवकीर्णमिति) अधमानां (समविषगतिप्रचारेषु) तेषामेव सम्भ्रमावकीर्णे यत्र तदेव द्विगुणं द्विगुणीक्रियते । त्थोत्थोमटमट धिधिमटमटधिधीत्यादि ।। १५९ ।।

(पर्या(र्यव)गच्छतीति ।) प्रस्तुतं करणजातं युक्तं यस्याः पर्यवसाने क्रियते सा पर्यवसाना । तेषामेव त्रिषड्गिवधलयेष्विति । नृत्तादियोगलय इत्यर्थः ।। १६० ।।

(द्रोह्णा (घेण्टांदोह्ण) मित्यादि ।) उल्लसिताऽपि निश्चैतन्यमस्यामिति । उदस्यते चितिका उच्चितिका ।। १६१ ।।

(थंकेटांके इत्यादि ।) काचेटानां गतौ संयुक्ता । एकाङ्किमुख एव ।। १६२ ।।

Notes

सर्वाङ्गुलिचलनकृता सर्वमृदङ्गप्रहारसंयुक्ता ।
भीतनभोयानगतौ संप्लुतजातौ विधातव्या ।। १६३ ।।

अवपाणिकरणयुक्तं कृत्वादौ मध्यलयतुल्यम् ।
वाद्यं द्रुतलयमन्ते जातिः स्यात् सा महारम्भा ।। १६४ ।।

ऊर्ध्वाङ्कदक्षिणमुखे क्षिप्तप्रहता वितस्तमार्गा च ।
अङ्कोर्ध्वकप्रवृत्ता दक्षिणवामप्रहारजाचा च ।। १६५ ।।

प्रायेणोद्धतमार्गा1 वितस्तमार्गश्रयेण दिव्यानाम् ।
धंद्रां(घुंघुं)धंद्रांप्राया जातिर्विगतक्लमा नाम ।। १६६ ।।

लघ्वक्षरभूयिष्ठा विचित्रकरणा च सर्वमार्गेषु ।
वाद्याऽविसर्पिकरणा विगलितनामा2 तु सा जातिः ।। १६७ ।।

करणैर्बहुभिश्चितैः(त्रैः)सर्वमृदङ्गप्रहारसंयुक्ताः ।
स्वाभाविकोत्तमगतौ वञ्चितिका सा तु विज्ञेया ।। १६८ ।।

ध्रोध्रोध्रेध्रेधोधं एभिर्या त्वक्षरैश्च संयुक्ता ।
सा ह्येकवाद्यजातिर्वृ(र्नृ)त्तगतिविधानवत् कार्या ।। १६९ ।।

Abh

(सर्वाङ्गुलिति) ।। १६३–१६४ ।।

(ऊर्ध्वाङ्केति ।) दिव्यानामिति । सार्धयार्यया सम्बन्धः । वितस्ता……..खेति । वाद्यग्रहणं दर्शयति । अङ्केर्ध्वक इति । प्रवृत्तेति । उदाहरणदिशं दर्शयति धुंधुं इति ।। १६५–१६६ ।।

(लध्वक्षरेति ।) चित्रलघ्वक्षरवाद्ये अविसर्पि अपुनारूपेण करणं क्रिया यस्याः अपुनरुक्तवाद्येत्यर्थः । सा विगलिता नाम । विटादिपरिक्रमे विशेषेण गलितमनावृत्या ग्रस्तमिवाक्षराणां यत्रेति ।। १६७ ।।

(करणैरिति) । चित्रप्रहाराः सर्वमृदङ्गानाम् । राज्ञोऽन्येषामुत्तमानां गतौ सा वञ्चितिकावञ्चि(ञ्चु) गताविति (पा. धातुपाठः १८९) ।। १६८ ।।

(ध्रो ध्रो इति) एकमेवाक्षरं संयुक्तं पुनरन्येन संयुक्तं पुनरन्येनेति वैचित्र्येण येन वाद्यते नृत्ते (सा) एकवाद्या ।। १६९ ।।

Notes

एवमेतेन विधिना कर्तव्यं वादनं बुधैः ।
गतिप्रचारे गीते च1 दशरूपे विशेषतः2 ।। १७० ।।

सप्तरूपविधानेन 3छन्दकासारितेषु च ।
तत्त्वं चानुगतं चैव4 तद्धौ(दौ)घो वाद्यमिष्यते4a ।। १७१ ।।

वाद्यं गुर्वक्षरकृतं तथाल्पाक्षरमेव च ।
गतिप्रचारे कर्तव्यं गाने सम्यगिहेच्छता5 ।। १७२ ।।

तत्त्वं चानुगतं 6चापि ओघश्चापि कदाचन ।
राज्ञां ललितागामित्वाद्वाद्यं योज्यं स्वभावजम् ।। १७३ ।।

तत्त्वं तु प्रथमे गाने द्वितीयेऽनुगतं भवेत् ।
तृतीये त्वोघसंज्ञं तु वाद्यं गति 7परिक्रमे ।। १७४ ।।

Abh

एतदुपसंहरति । एवमेतेनेति । अस्य जात्यष्टादशकरूपस्य पस्य प्रयोगस्येतिकर्तव्यतां नाट्यनृत्तापेक्षयाऽभिधान(या)स्य प्रथमं तावदुभयरूपतामाह । गतिप्रचारे गीते चेति । उत्तरार्धात् त्रिधाऽस्य मा(गा)नापेक्षया समुच्चये । तेन लययोजना । दशरूपे च गीते ध्रुवागीतविषये ।। १७० ।।

गीतकसप्तकस्य विधाने प्रयोगे च छन्दकासारितप्रयोगे च वादनं कर्तव्यम् । विशेषतो गतिप्रचार इति । पुनरेवार्धश्लोकमावृत्य गीतकादौ तत्त्वादित्रयरूपं स्वातन्त्र्येण वाद्यमिष्यत इति सम्बन्धनीयम् । तत्र हि वाद्यस्यापि प्राधान्यं प्रयोज्यत्वेन भवति । यथोक्तं तुर्याध्यायेगत्या वाद्यानुसारिण्येति (भ.ना.४.२७४) । नाट्ये गत्यपेक्षया नियतं वाय(द्य)म् ।। १७१ ।।

तदाह । वाद्यं गुर्वक्षरकृतमिति । अत एवाल्पवाद्याक्षरम् ।। १७२ ।।

तत्त्वादीनां चान्यतमं कदाचिद्भवति ।। १७३ ।।

तत्रापि यदा नृत्तांशे वा प्रावेशिक्यादौ वा क्रमत्वरायोगे वा त्रयाणामपि तत्त्वादीनां प्रयोगस्तदा क्रममाह । तत्त्वं तु प्रथमे गान इति ।। १७४ ।।

Notes

1aध्रुवासु छन्दतश्चित्रं 1शेषाणां सम्प्रयोजयेत् ।
तथा स्थितावकृष्टायां वाद्यं त्वनुगतं भवेत् ।। १७५ ।।

प्रावेशिकीनां कर्तव्यं तत्त्वं चानुगतं तथा ।
नैष्क्रामिक्यन्तरकृतं कार्यं त्रिलयवाहितम् ।। १७६ ।।

द्रुते प्रासादिकीनां तु द्रुतं चो(चौ)घं च वादयेत् ।
एवं ध्रुवाणां कर्तव्यं वाद्यं प्रकरणान्वितम् ।। १७७ ।।

मात्रांशकविकल्पस्तु ध्रुवापादेषु यो भवेत् ।
स तु भाण्डेन कर्तव्यस्तज्ज्ञैर्गतिपरिक्रमे ।। १७८ ।।

एवं गतिप्रचारेषु कार्यं वाद्यं प्रयोक्तृभिः ।
ताण्डवे सुकुमारे च वाद्यं वक्ष्यामि तत्त्वतः ।। १७९ ।।

अभाण्डमेकं गानस्य परिवर्तं प्रयोजयेत् ।
तस्या(था)न्ते सन्निपाते च कार्यो भाण्डग्रहो बुधैः ।। १८० ।।

Abh

गतौ ध्रुवासु गाने गीतिक्रियायां तद्राजविषयं राज्ञामित्यनुवृत्तौ (भ.ना.३४.१७३) । शेषाणामधः– (थ) प्रकृतीनाम् । छन्दत इति । इच्छातः । विचित्रं तत्त्वादि । (स्थितावकृष्टाया) मनुगतात्मा ।। १७५ ।।

प्रावेशिक्यां तत्त्वौघम् । अन्ये तु तथा शब्दादोघ इत्याहुः । नैष्क्रामिक्यामध्रुवायां च किल ।। १७६ ।।

द्रुतासु प्रासादिकीषु द्रुतलयेनो (नौ) घेन । (प्रकरणेति) प्रकरीमुद्धतमसृणादिसंयुक्तं विचार्येत्यर्थः ।। १७७ ।।

प्राधान्येन ध्रुवासु तत्त्वम् । तत्राऽपि तत्त्वाष्टकमध्ये लयसममक्षरसमं च प्रधानमिति दर्शयति । मात्रांशकविकल्पस्त्विति ।। १७८ ।।

एतत्त्वन्यविषयप्राधान्येनोक्तत्त्वान् नृत्तप्राधान्यमाह । ताण्डवे सुकुमारे चेति ।। १७९ ।।

अभाण्डमेकमित्यादि ।…….तदन्यत्र प्रयोगक्रमसम्पत्तये तूदितम् । तथा चेति । यदि चेत्यर्थः ।। १८० ।।

Notes

1a (N): शेषाणां

अथवा नृत्तशोभार्थमङ्गानां परिवर्तनम् ।
सङ्गीतस्य प्रकर्तव्यं लयस्य च निवर्तनम् ।। १८१ ।।

1यत्राभिनेयमङ्गे तु तत्र वाद्यं प्रयोजयेत् ।
यत्र पाणिवशादङ्गं भूयो भूयो निवर्तते ।
स तत्रार्थोऽभिनेयस्तु शेषं नृत्तेन योजयेत् ।। १८२ ।।

यद्वृत्तं तु पदं गाने तादृशं वाद्यमिष्यते ।
गीतवाद्यप्रमाणेन कुर्याच्चाङ्गविचेष्टितम् ।। १८३ ।।

यथा गुर्वक्षरं चैव तथाल्पाक्षरमेव च ।
2मुखे सोपोहने कार्यं प्रकृतेर्वर्णतस्तथा ।। १८४ ।।

Abh

अङ्गादीनामपि सम्पिष्टकादीनाम् । अनेनैतदुक्तम् । क्वचिदुपर्वतनादौ शास्त्रोक्तमेव परिवर्तनम् । क्वचिदनुक्तमपि नृत्तशोभार्थं क्रियत इति । अत एव सकलस्यापि गीतस्य वस्तुप्रायस्य त्वविलम्बितादेर्गीतशोभार्थं पुनरावृत्तिर्भवतीति । सङ्गीतस्येति । साकल्येऽव्ययीभावः ।। १८१ ।।

एवं स्थिते प्रकृते किमित्याह ।

यत्राधीने त्वभिनयं(त्राभिनेयमङ्गे तु) तत्र वाद्यं प्रयोजयेत् । इति ।। १८२ ।।

ननु नास्ति त(य)त्र वाद्यमिति सम्भवमात्रं तत्र वाद्यम् । न तु प्रधानमित्युक्तम् । तस्य विधिमाह । यद्वृत्तं तु पदं गाने तादृशं वाद्यमिति । अतश्चेदं सम्पाद्यत इत्याशङ्क्याह ।

गीतवाद्यप्रमाणेन कुर्यात् स्वाङ्गविचेष्टितम् ।

इति ।। १८३ ।।

गुर्वक्षरैरेव वाद्यम् । इदं हि गीतकयोगेनावृत्तं भवति । मुखोपवहनम् । यन्मुखं तत् । यदा प्रकृतेति यदा भागमपेक्ष्य वर्ण्यत इति ।। १८४ ।।

Notes

स्थिते 1शुद्धप्रहारं तु मध्येऽक्षरसमं तथा ।
कार्यं तु गीतके2 वाद्यं द्रुते चोपरिपाणिकम् ।। १८५ ।।

समं रक्तं विभक्तं च तथा शुद्धप्रहारजम्3 ।
नृत्ताङ्गग्राहि च तथा वाद्यं कार्यं तु ताण्डवे ।। १८६ ।।

3aसनुत्तेषु प्रयोगेषु तत्त्वं ह्यनुगतं तथा ।
अनृत्तेषु प्रयोगेषु तत्त्वमोघं क्रमेण तु ।। १८७ ।।

स्थिते मध्ये द्रुते 4चापि यथा गानं 5तु गीयते ।
5aतथा नृत्ताङ्गहारेषु तेन चैव क्रमेण तु ।। १८८ ।।

यो विधिर्गानवाद्यानां पदाक्षरलयान्विता(तः) ।
स तु नृत्ताङ्गहारेषु कर्तव्यो नाट्ययोक्तृभिः6 ।। १८९ ।।

एतास्तु जातयः प्रोक्ता दश चाष्टौ च भाण्डजाः ।
अत ऊर्ध्वं प्रवक्ष्यामि प्रकारान् 7वाद्यसंश्रयान् ।। १९० ।।

Abh

वर्णाङ्गात्मकगीतिभागमपेक्ष्य स्थितं विलम्बितलयं भवति । तदा शुद्धजातिगतैः प्रहारैर्वाद्यम् । यदा मध्यलयस्तदाक्षरसमम् । यदा द्रुतलयस्तदोपरिपाणिकं कार्यमिति सम्बन्धः ।। १८५ ।।

सङ्क्षिप्याह । सममित्यादि । एतत्तुरीये (भ.ना.४.२७६) व्याख्यातम् ।। १८६ ।।

अङ्गलक्षणमाह । सनृत्तेष्विति । नृत्तप्राधान्ये तत्त्वमनुगतं च । तदभावे तत्तत्स्वरूपोन्मीलकमन्तमोघः ।। १८७ ।।

यदीह तत् प्रधानं तत्र तदनुसारि वाद्यमित्याह ।

स्थिते मध्ये द्रुते चापि यथा गानं तु गीयते ।
तथा नृत्ताङ्गहारेषु तेन चैव क्रमेण तु ।।

अथ ध्रुवापुष्कराध्यायद्वयं(ये) (भ.ना.३२.३४) नाट्योद्देशेन यदुक्तं तन्नृत्तेऽप्यतिदिशति । यो विधिर्गानवाद्यानामिति ।। १८९ ।।

जायत(तय) एव प्रयोगसमवायिन्यः प्रधानाः । तासामेवेयं प्रयोगेतिकर्तव्यता कथितेत्याशयेन

Notes

तद्यथा । चित्रः समो विभक्तश्चिन्न (श्छिन्न) श्छिन्नविद्धो विदो(द्धो)वाद्यसंश्रयोऽनुसृतः प्रतिविद्युतो दुर्गोऽवकीर्णोऽर्धावकीर्णः परीक्षिप्त एकरूपो नियमान्वितः साचीकृतः1a समलेखश्चित्रलेखः सर्वसमवायः(य)कृतो दृढ1b इति ।। १९१ ।। तत्र ।

रिखितोजकृतश्चित्रो नानाकरणभूषितः ।
प्रसन्नकरणं चैव1 त्रिपाणिलयसम्भवः ।। १९२ ।।

दर्दरपणवमृदङ्गैर्नानाकरणैः समनुयातः ।
तालाङ्गवेणुयुक्तः स तु विज्ञेयः समो नाम ।। १९३ ।।

2नात्यायतस्तथा स्यादिह सास्थानस्थितो विभक्तश्च ।
अक्षरपाणिलयेषु च विभक्तकरणे विभक्तस्तु ।। १९४ ।।

वाद्यं द्रुतलयं यत्र सहसा 3विनिवर्तते ।
सर्वातोद्येषु भिन्नेषु प्रकारश्छिन्न एव सः ।। १९५ ।।

Abh

ता एवोपसंहरति । एतास्तु जातय इति । तुरप्यर्थे । न केवलं स्वरजातयोऽष्टादश यावद्वाद्यजातय इत्यपि । अथ विंशत्यलङ्कारयुतमिति निर्णेतुमाह । अत ऊर्ध्वमिति । प्रकृष्टता क्रियन्ते ये तेषु(क्रियते येषु ते) प्रकारा उत्कर्षहेतवोऽलङ्कारा इत्यर्थः । काव्यगानविषयताशङ्कां शमयति । वाद्यसंश्रयानिति । वाद्यं तावज् जात्यात्मकम् । तस्यैवोत्कर्षहेतव इत्यर्थः । आतोद्यान्तरमेकातिकृतो ह्यत्रोत्कर्षः ।। १९० ।।

तानुद्दिशति । चित्रः समो विभक्तश्छिन्नश्छिन्नविद्धो विद्धो वाद्यसंश्रयोऽनुसृतः प्रतिविद्युतो दुर्गोऽवकीर्णोऽर्धावकीर्णः परिक्षिप्त एकरूपो नियमान्वितः साचीकृतः समलेखश्चित्रलेखः सर्वसमवायकृतो दृढ इति ।। १९१ ।।

सप्तम(मोऽ)लङ्कार इत्यर्थः ।। १९२–१९३) ।।

(नात्यायत इति)। यत्राक्षरपाण्यादौ स्फुटो विभागः स विभक्तः । इत्थं कार्यस्वातन्त्र (न्त्र्य)मुक्तं भागाकारः । एवं सर्वत्र ।। १९४ ।।

वाद्यमिति । अन्यस्मिन्नपि वीणादौ वाद्यमानेऽपि मुरजवाद्यस्य मध्ये तूष्णींभावः । तदाह । भिन्नेष्विति । अविरमत्स्वित्यर्थः । स छिन्नः ।। १९५ ।।

Notes

1a.N: अधिकृतः 1b. ‘दृढ’ not read in ‘N’

अवपाणिमृदङ्गेषु पणवोपरिपाणिकः ।
यदा भवति वाद्येषु छिन्नविद्धस्त्वसौ भवेत्1 ।। १९६ ।।

शुद्धानुविद्धं यद्वाद्यं सर्वातोद्येषु दृश्यते ।
2परस्परानुवेधेन सोऽनुविद्ध इति स्मृतः ।। १९७ ।।

मृदङ्गकरणे वाद्यं पणवानुगतं 3च यत् ।
सूचीविद्धैर्विचित्रैस्तु करणैर्विद्ध4 उच्यते ।। १९८ ।।

विशुद्धवाद्य5 प्रकृतिः समपाणिकृतस्तथा6 ।
स्वरूपानुगतश्चैव विज्ञेयो वाद्यसंश्रयः ।। १९९ ।।

7मुरजः (जं) पणवो वापि पणवो8(वं) दर्दरोऽथवा ।
अनुवादि 9(याति) यदा वाद्ये भवेदनुसृतस्तु सः10 ।। २०० ।।

अनुगम्यं यदातोद्यं गच्छेत् समलयं पुनः ।
श्रान्तवत् समवाद्येषु11 तदा 12स्यात् प्रतिविद्युतः ।। २०१ ।।

Abh

…….(ट)पवर्णमुक्तेषु मृदङ्गेषु पणव उपरिपाणिर्यत्रालङ्कारे स प्रथमं मृदङ्गछेदश्चि (श्छि) न्नविद्धः ।। १९६ ।।

(शुद्धेति) आदौ शुद्धं तत आतोद्यान्तरेणानुविद्धं यत्र वाद्यम् । अनुविद्धं व्याचष्टे । परस्परानुवेधेनेति । सोऽनुविद्धः ।। १९७ ।।

(मृदङ्गेति) मृदङ्गक्रियायां प्रयुक्तायां पणवा यदा वादयन्ति वाद्यं कुर्वन्ति ।……….विचित्रैः सूचीविद्धैरिति । सूक्ष्मसूक्ष्मैरक्षरैर्मध्ये विभागो बहिः करणैः क्रियाभिस्तन्मध्ये योऽसौ विद्धः ।। १९८ ।।

(विशुद्धेति) गीतमनुसरद् वाद्यसंश्रयः । वाद्यस्य गीतसंश्रयणमस्मिन्निति । स्वभावोक्तिश्चालङ्कारः ।। १९९ ।।

(मुरज (मि)ति ।) मुरज(जं)पणवा(वो) यदा दर्दरवाद्यस्य पक्षे दर्दर(रं)पणवा(वो) मुरजस्य सदृशप्रयोग एतदनुसृतः ।। २०० ।।

(अनुगम्येति) अष्टविधसाम्यसंयुक्ते वाद्ये कर्तव्ये (तदनू) त्तरोत्तरानुसृतः । येन वाद्यं कर्तृ । अनुगम्य यदा तु स्ववाद्यम् । श्रान्तवदिति । विलम्बितलयेन प्राप्नुयात् ।

Notes

वाद्ये 1प्रचारविषमः सर्वमार्गप्रबोधनः2 ।
3अविभक्ताक्षरपदः स दुर्ग इति कीर्तितः ।। २०२ ।।

समवृत्तौ तु मुरजाश्छाद्यन्ते पणवैर्यदि ।
नानाविचित्रैः करणैरवकीर्णः स उच्यते ।। २०३ ।।

द्रुतं लयं समारभ्य पणवो दर्दरोऽपि वा ।
अवपाणौ यदा स्यातां तदा त्वर्धावकीर्णकः ।। २०४ ।।

पणवैश्छादितं यत्र वाद्यमल्पमृदङ्गजम् ।
4सुविभक्ताक्षरपदं परिक्षिप्तः स उच्यते ।। २०५ ।।

सर्वातोद्यानि यत्रैकं करणं भावयन्ति तु ।
समवृत्तपदान्येवमेकरूप उदाहृतः ।। २०६ ।।

प्रशान्तनियमोपेतः स्फुटवाद्यसमन्वितः ।
5उपयाति च गीतं यः स ज्ञेयो नियमान्वितः ।। २०७ ।।

Abh

तद्यथा । मुरज(:) पणवस्ततो दर्दरः । तदस्तदेव तदा प्रतिद्योतनम् । विद्योतनात् प्रतिविद्युतःइगुपधके (अष्टा. ३.१.१३५) ।। २०१ ।।

(वाद्य इति) । विषमप्रचारयोगात् सर्वमार्गव्यामिश्रणाच्च दुर्गःअविभक्तत्वादक्षरपं (क्षरपदो) वर्णविच्छेदः । दुःखं नात्र (खेनात्र) गम्यत इति यत् (दुर्गः) ।। २०२ ।।

(समवृत्ताविति) । समवृत्तौ तु तुल्यकालप्रयोगे सति पणववाद्यं यदा मुरजवाद्यस्यावकीर्णतां न्यक्कारं करोति तदाऽवकीर्णः ।। २०३–२०४ ।।

(पणवैरिति) । यदा मृदङ्गोऽल्पयोगः पणववाद्यं प्रधानं तदा परि तस्यैव क्षेपात् परिक्षिप्तः ।। २०५ ।।

(सर्वतोद्यानीति) । सर्वैरातोद्यैरेकस्मिन् प्रयोगे निर्वाह्यमाणे एकरूपः ।। २०६ ।।

(प्रशान्तेति) । प्रशान्तस्य गतिविरामस्य नियममनुवर्तमानो नियमान्वितः ।। २०७ ।।

Notes

चित्रं हि करणं यत्र वाद्येनैकेन वाद्यते ।
वृत्ताङ्गहारानुकृतो ज्ञेयः साचीकृतस्तु सः ।। २०८ ।।

कृत्वोपरिगतं वाद्यं पणवो दर्दरोऽपि वा ।
1प्रयाति मुरजं यत्र समलेखः स कीर्तितः ।। २०९ ।।

चित्रं बहुविधं वाद्यं मृदङ्गपणवादिभिः ।
क्रियते यत्र संरब्धैश्चित्रलेखः स उच्यते ।। २१० ।।

सर्वमार्गगतो यस्तु सर्वपाणिलयाश्रयः ।
1aविचित्रश्च विभक्तश्च तत्समं समवायितम् ।। २११ ।।

यस्तु मध्यलयोपेतः समः सुविहिताक्षरः ।
गतिप्रचारे विहितः प्रकारो दृढ एव सः2 ।। २१२ ।।

एवमेते प्रकारास्तु कर्तव्या वाद्यसंश्रयाः ।
गतिप्रचारे गीते 3वा रसभावानवेक्ष्य च4 ।। २१३ ।।

5aप्रकारा जातयश्चैव सर्वमार्गेषु5 संस्थिताः ।
ये वै गतिप्रचारेषु शुद्धास्ते केवला मताः ।। २१४ ।।

Abh

(चित्रमिति) । एकेनैव मुरजपणवदर्दरस्यान्यतमेन सर्ववाद्योचितान्यक्षराणि यदा प्रयुज्यन्ते तदाऽन्यस्य पराङ्मुखी करणात् साचीकृतः ।। २०८ ।।

(कृत्वेति) । यदेव मुरजेन वहनीयस्तदेवोपरिपाणिनेति प्रथमं दर्दरेन पणवेन वा क्रियते पश्चान् मुरजेन यत्र न (स)समवर्णोल्लेखात् समलेखः ।। २०९ ।।

(चित्रमिति) । अयमेव हि नानाक्षरत्वे चित्रत्वं चित्रलेखः ।। २१० ।।

(सर्वेति) । विभक्तरूपैर्मार्गैर्मिश्रीकृत्य सर्वसमवायकृतः सर्वसमवायितः ।। २११ ।।

(यस्त्विति) । स्वप्राधान्येन वर्तमानो मध्यमलयो येन तेन दृढः ।। २१२–२१३ ।।

एवमुद्देशं परिसमाप्य प्रयोगे नाट्यपरिक्रमे जातिमार्गशुद्धे नृत्ते पुनरङ्कारबाहुल्यमित्येतदाह । ये वै इति । प्रचारेष्विति । अथवाऽन्यस्य ।। २१४ ।।

Notes

1प्रयोगमिदानीं वक्ष्यामः । तत्रोपविष्टे प्राङ्मुखे रङ्गे 2कुतप एव विन्यासः कर्तव्यः । तत्र पूर्वोक्तयोर्नेपथ्यगृहद्वारयोर्मध्ये कुतपविन्यासः कार्यः । तत्र रङ्गाभिमुखो मौरजिकस्तस्य पाणविकदर्दरिकौ वामतः । एष प्रथममवनद्धकेन तस्य ततः कुतपविन्यास उक्तः । तत्रोत्तराभिमुखो गायकः । गायकस्य तु वामपार्श्वे वैणिकः । वैणिकस्य दक्षिणेन वंशवादकौ । गातुरभिमुखं गायिका । इति कुतपविन्यासः ।। २१५ ।। तत्र ।3

प्रयोगेषु प्रणेतव्यो देशस्थानवशानुगः ।
यथास्थानस्थितेष्वेषु वामकातोद्यकेषु च ।। २१६ ।।

एवमचलाकम्पितास्खलितासन्नो(नो)पविष्टेषु मार्दङ्गिकदार्दरिकपाणविकेषु4 शिथिलाञ्चितवध्र5स्तनितेषु यथाग्रामरागमार्जनालिप्तेषु मृदङ्गेषूरुद्वयनिपीडने तेषु निगृहीतार्थनिगृहीतमुक्तप्रका(हा)रकृतेषु दर्दरवादनविन्यस्तैर्देवतानामावाहनविसर्जनार्थं प्रथममेव तावत् त्रिसाम कर्तव्यम् ।। २१७ ।।

Abh

पूर्वरङ्गे तावत् प्रयोगं दर्शयति । प्रयोगमिति । तत्र प्रत्याहारं तावदाह । तत्रेति । रङ्गसामाजिकसङ्गमे प्राङ्मुखरङ्गपराङ्मुख उपविष्टे सति यवनिकादानपूर्वकं कुतपविन्यासः ।। २१५–२१६ ।।

तत्रादृष्टसिद्धये करिष्यमाणस्य त्रिसाम्नामु (णत्रिसामो)पक्रमाय प्रथमं भाण्डानीत्थं परीक्ष्या– णीत्याह । (अचलेति) अचले दृढे अकम्प्ये निष्क्रि ये अस्खलिते उत्तानत एव आसने उपविष्टेषु मार्दङ्गिकादिषु शिथिलादिषु अञ्चितान्यायतानि वाद्यानि वध्राकोटकल्पितस्वरे(ष्वि)त्यर्थः । यथा ग्रामरागमार्जनालप्तेष्विति । ग्रामरागप्रयोगः । तथा वाद्यं जानीते । यथा ग्रामरागश्च गतिप्रधाने मार्जनासिद्धये यवादिचूर्णेषु लिप्तेषुऊरुद्वयेन समुत्पीडितं तस्मिन् सति । मुक्तप्रहारेषु दर्दरेषु । तथा ऊरुद्वयेन पीडनशिथिलं वाध्राण कस्य । किमित्युक्तम् । देवतानां रङ्गे पूजितानामावाहनार्थंन्त्रविसर्जनार्थं त्रिसाम ।। २१७ ।।

Notes

तत्र ।

वामे चान्द्रमसं साम तत् प्रीणयति पन्नगान् ।
दक्षिणे जालजं साम तदृषीन् प्रीणयत्यथ ।। २१८ ।।

उदीच्यामपि चाग्नेयं तद्बृहद्दैवतानि च ।
1त्रिसाम कीर्तितं सम्यक् त्रिसामत्वाद्बुधैरथ ।। २१९ ।।

त्रिप्रकारं त्रिगुणितं तथा चैवाड्डिताश्रयम् ।
त्रिकलं षट्कलं चैव त्रिसाम परिकीर्तितम् ।। २२० ।।

त्रिसामाक्षरपिण्डस्तु गुरुलघ्वक्षरान्वितः ।
यकारश्च मकारश्च त्रिकैस्त्रिगुणितं भवेत् ।। २२१ ।।

समुदायस्तदपेक्षं (त्रिचा साकम्)। त्रिचा दिंग्ले झण्टुं प्रथमं साम । त्रिचा झण्टुं दिंग्ले द्वितीयम् । तिच(त्रिचा) झण्टुं झण्टुं तृतीयमिति । 2तदन्ते पूर्वरङ्गविधानमनुप्राप्य छन्दः–

Abh

तत्र वाम इति । गायतीति । दक्षिण इति । नयेन । जालजं ब्रह्मजालम् । ऋर्षींस्तर्पयति संगायतीति ।। २१८ ।।

आग्नेयं वह्मिमुखवत् । तत्सर्वदेवतातर्पणम् । त्रीणी सत्त्वपूर्वं विसर्जनम् । कं……….त्यत्रेति त्रिसाम । तदाह । त्रिसामत्वादिति ।। २१९ ।।

एक एव गुरुलघुसन्निवेशोऽक्षरवैचित्र्यान्निर्भिद्यते । तदाह । त्रिप्रकारमिति । क्रमेणात्र द्रुतादीत्याह । त्रिगुणितमिति । वाद्यविधिमाह । आड्डिताश्रयमिति । स्वरूपं तस्य त्रिकलं षडक्षरम् । तालस्तु त्रिकलः ।। २२० ।।

तान्यक्षराण्याह ।

त्रिसामाक्षरपिण्डस्तु गुरुलघ्वक्षरान्वितः ।

इति । गुरुलघुविभागमाह । यकारश्च मकारश्च त्रिकैस्त्रिगुणितमिति । यत एवं त्रिकाः ।

समुदाय इति । तदपेक्षं त्रिकैरिति बहुवचनम्। ति(त्रि)चा साकमिति । तद्द्ववयमक्षरपरिवृत्या त्रीन् भेदानाह ।……….त्रिषट् चाह । अज्झलेति स्वरवारम् । झण्टुम् । अस्य त्रिसाम्नोऽन्ते विधिमाह । तदन्त इति । पूर्वरङ्गविधिमाह । प्राप्येति । अनुकृतायां वाद्यविधौ । बहिर्गमनमाश्रवणादावुक्तम् । तद्बाधेन

Notes

समेनाक्षरसमेन वा वाद्येन बहिर्गीतविधानमनुवर्तितव्यम् । आसारितप्रयोगे च तत्त्वानुगतप्रायं वाद्यं विधातव्यम्1 । यत्र त्रिसाम2 स प्रत्याहाराय(रो यां) चासाववतीर्णकोटी त(टिस्त) त्र वाद्यं प्रवर्तते । तत्रादौ तावद्वामोर्ध्वकप्रहारयुतं पश्चादालिङ्गनविमर्दनकरं गोपुच्छां च त्रिसामा विचित्रकरणयुतं मार्दङ्गिकसर्वभाण्डिकमपि वाद्यं पश्चात् प्रवर्तनीयम् । पूर्वं हि भाण्डवाद्येन सिद्धिरुत्पादनीया । स्त्रीबालमूर्खावकीर्णे च रङ्गे कुतूहलजननसमर्थवाद्यमुपपन्नं भवति ।। २२२ ।। अपि च ।

आचार्याः सममिच्छन्ति पदच्छेदं तु पण्डिताः ।
3स्त्रियो मधुरमिच्छन्ति विकृ(क्रु)ष्टमितरे जनाः ।। २२३ ।।

तस्य(स्यैव) चान्ते ताण्डवप्रयोगमधिकृत्य नर्तक्या अवतरणकाले लघुवर्णसञ्चयमङ्किकेऽलिप्रचलनप्रायं वाद्यं योज्यम् । गीतकसन्निपाते च लास्या (स्य)मनुवाद्यम् । तेन नृत्ताङ्गहारानुगतं करणवाद्यं प्रयोज्यम् । आलिप्तमार्गेण जातिकरणान्वितमुत्थापने वाद्यं प्रयोक्तव्यम् । ततः परं परिवर्तनं चातुर्मार्गिकं शुद्धजात्याश्रयं चतुर्थकारप्रवेशेषु वाद्यमङ्गुलिप्रचलनप्रायमिति । नान्दीशुष्कावकृष्टासु करणाश्रितं वाद्यं

Abh

गुरुलघुयोगादनुसरणीयम् । ननु प्रत्याहारस्य लक्षणमकृतम् । कृतमित्याह । यवान (या चासाव)वतीर्णकोटिस्तत्र वाद्यमिति । अवतरणस्य मार्गेऽन्तरसर्वमार्गमिश्रवाद्यम् । अन्ये तु यावदवतीर्णकोटिकोटीति पठन्तस्त्रिसामावतरणयोर्मध्ये सर्वभाण्डे वाद्यमिति मन्यन्ते । तत्र हेतुमाह । पूर्वं हीति । सिद्धं (द्धिं)व्याचष्टे । स्त्रीबालेत्यादिना । कुतूहलजननमेसिद्धिः प्रधानमित्यर्थः ।। २२२ ।।

आचार्या एतत्तत्त्वविदः । पण्डिताः वैय्याकरणादयः स्त्रिय इति यत्र मधुरम्इतरे बालमूर्खादयो विकृष्टन्ति(मिति) प्रतिवृतम् ।। २२३ ।।

तस्यैवेति । बहिर्गीतोत्तेजितस्य वाद्यस्यान्ते तु गीते । अङ्गुलिप्रचलनप्रायमिति । अतीव्रप्रायमित्यर्थः । गीतप्रयोगाभिनये समाप्ते तदन्यसन्निपातात् प्रभृति लास्यनृत्यमनुगतवाद्यं करणधातुयुक्तवीणावाद्यमिश्रम् । अन्ये तु कृतादिषट्कमत्रेत्याहुः । एवमुत्तरत्र । उत्थापने त्वालिप्तमार्गोचितजातिक्रियावाद्यम् । परिवर्तिन्यां सर्वमार्गेषु शुद्धायां जात्यां करणाश्रितमिति । धातूचितं सन्निपाताक्षरयोजना……..स्येति । प्रदेशिनीपातेन

Notes

योज्यम् । रङ्गद्वारे प्ररोचनाया जर्जरे त्रिगते चार्यां चाड्डितमार्गाश्रितं सन्निपातग्रहं प्रयोक्तव्यम् । महाचार्यां वितस्तिमार्गाश्रितं प्रदेशिनीग्रहम् । एवं तावत् पूर्वरङ्गे भाण्डवाद्य– मुक्तम् । नायकानां तु स्वस्थगतिप्रचारं वक्ष्यामः । तत्र घंद्रांद्रांद्रां इति देवतानाम् । घेंतांकेंतां………….कृणकिटिप्रायं विप्राणाम् । व्यञ्जकप्रायं मध्यमानाम् ।। २२४ ।।

एवं स्वस्थावस्थागतिप्रचारे विधीयते वाद्यम् ।
द्विकलाश्च तथैककलाश्चतुष्कलाश्चैव पादविन्यासाः ।। २२५ ।।

तत्र तु साम्यं कार्यं भाण्डे च समं च गानेन ।
पुनश्चावस्थाकृतं वाद्यं वक्ष्यामि त्वरितगमने ।। २२६ ।।

धंधंघेघेटं इत्येवं वाद्यं प्रयोक्तव्यम् ।
रथविषमादिगतमङ्गुलिप्रचलनकृतं विहितम् ।। २२७ ।।

(तत्रै)व पूर्वं सम्यग् लिखितं गतिप्रचारे तु ।
पुनरन्यावस्थायां वाद्यविधानं प्रवक्ष्यामि ।। २२८ ।।

त्वरितगमनेषु भावा ये पूर्वोक्ता गतिप्रचारेषु ।
ध्रंघेंघेंघेंप्रायं तत्र तु वाद्यं प्रयोक्तव्यम् ।। २२९ ।।

नौरथविमाननेपथ्यानिलाकाशजेऽङ्गुलीचलनात् ।
कार्यं हि तच्चतुष्केऽप्यन्योन्यसमाश्रितं वाद्यमिति ।। २३० ।।

दुःखार्दितव्याघितेष्टजनवियोगविभवनाशवधबन्धः ।
व्रतनियमोपवासादियुक्तेष्वालिप्तमार्गबन्धो विधातव्यः ।। २३१ ।।

दैत्यदानवयक्षराक्षसपन्नगादीनां धंद्रंधंद्रांधकुताम् ।
घेधेटाप्रायं खञ्जविकलपङ्गुवामनादीनाम् ।। २३२ ।।

टघटाघेप्रायं चेटकुसत्त्वादीनां थोकटखुखणेत्यादिकम् ।
यतिपाशुपतशाक्यादीनां धहुधहुधेधेप्रायम् ।। २३३ ।।

Abh

यस्य ग्रहणं तत् प्रदेशिनीग्रहणम् । एवं पूर्वरङ्गं इत्युपसंहृत्य नायकविषयमाह । नायकानां त्विति । यद्यपि जातिविनिश्चययोगो गतिप्रचारे कृतस्तथापि ग्रहमोक्षे सन्धानयोगान्येतान्यक्षराणि तत्र मिश्रणीयानीत्येवं योजनामाहुः । अन्ये तु विकल्पमिच्छन्ति ।। २२४ ।।

गतिप्रचार इति गत्यध्याये (.१२) । चतुष्कल(ला) इति । आङ्गिकमुखद्वये ऊर्ध्वकालिङ्गके ।। २२५–२३३ ।।

औपस्थापकनिर्मुण्डवर्षवरादीनां
धेटांघोंटांभांटांण्णाणाप्रायम् ।
वृद्धश्रोत्रियकञ्चुकिस्थूलादीनां
खोंध्रोधोखोखो इति प्रायम् ।।

गजवाजिखरोष्ट्ररथविमानयानेषु वंकिटिप्रायम् ।। २३४ ।।

सर्वत्रोत्तममध्यमाधमेषु पुरुषेष्वित्थं रसभावानभिसमीक्ष्य वाद्यं प्रयोक्तव्यम् । एवं तावत् पुरुषवाद्यम् ।। २३५ ।। स्त्रीणां पुनरभिव्याख्यास्यामः । तत्रोत्तमस्त्रीणां मध्यानां च टोस्वधधिदोघेंटमधिके इति प्रायम् । अथ राजस्त्रीणां धंकिह्णमथिथिदोह्णकखुखुप्रायम् । धंकितिकिथिघटमटमथिथे इति ब्राह्मणीनाम् । अथ मध्यमस्त्रीणां वेश्याशिल्पकारीणां किटिण्णाणं थंकथिंघटमथि– हुणकिटिकिटिप्रायम् । टमथिकुण (केडखुखिखिप्रायं गीतं स्त्रीणाम्) । एवं तावत् सामान्यतोऽभिहितं स्त्रीणाम् । अवस्थान्तरितानां तु त एव पौरुषा वाद्यविशेषा भवन्ति । सामान्यतोऽभिनये भयशोकक्रोधादयो हि भावा आसां समुत्पद्यन्ते । आसामपि रसभावाभिनयापेक्षं मार्गाश्रितं वाद्यं भवति ।। २३६ ।। अपि च ।

जातिमार्गप्रचारैस्तु करणैरक्षरैस्तथा ।
वादयेद्यस्त्वसंकीर्णं स श्रेष्ठो वादको मतः ।। २३७ ।।

अथान्तरवाद्यानि । अनुबन्धो विप्रहारितं सिद्धिर्ग्र(ग्र) हणं परिच्छिन्नमिति ।। २३८ ।।

Abh

औपस्थायि (प)को……..प्रतिनटः । निर्मुण्डो जातिखलतिः ।। २३४–२३५ ।।

सामान्यतोऽभिनये सामान्याभिनये क्रोधादयःआसां स्त्रीणाम् । अपतिशो वादयो दर्शिता इति । तदनुसारेण स्त्रीणामपि वाद्यं न केवलं पुंसाम् ।। २३६ ।।

जातयः शुद्धा या इत्यादि व्याख्यातम् ।। २३७ ।।

गानपरिक्रमं च विना यद्वाद्यं तदुत्तत्त(दन्त) खाद्यम् । तच्चतुर्धा ।। २३८ ।।

तत्रानुबन्धसंज्ञमन्तरवाद्यं यथा धोणाधोक्लघे इति । पाठ्यविरामे विप्रहारितं यथा धंद्रांखोखोणा इति ।। २३९ ।। सिद्धिरपि ।

ऐश्वर्ये विस्मृते शान्ते वस्त्राभरणसंयमे ।
सिद्धिर्वादयितव्या तु नानाकरणसंश्रया ।। २४० ।।

सा च सिद्धिर्यथा समार्गकरणाश्रया कार्या विचित्रकरणा पञ्चकला ।
अवस्थान्तरे पुनरेवमेव कृता भवति ।। २४१ ।।

अपि (च)

साध्यविरामे वाद्यं परिषत्साधनकृते विरामे च । वस्त्राभरणनिपाते प्रकुर्यादभ्यञ्जने काले ।। २४२ ।।

अथ परिच्छिन्नं सार्वभाण्डिकम् । ध्रुवायो(या) ग्रहोपशमने गम्भीरधीरप्रहारमुद्धतं यथारसं च षट्कलम् । तत्रोत्तमानां वितस्तमार्गाश्रितं द्रंद्रंक्लेघेके इति ।। २४३ ।। अथोत्तमस्त्रीणामाड्डितावाद्याश्रयणम् । खो खो खा इति । अधमानां खञ्जनर्कुटक- स्थम् । यथा टेंकखाकिटिकिटिना इति ।। २४४ ।।

Abh

अनुबन्धो नाम यदङ्गानुसारेणाभिनयः । मध्यम एव वर्तना । प्रयोगकालवाद्यम् । अध्यायसमापा(प्त)ववान्तरवाक्यार्थछेदे विप्रहारितम् । यथा यशश्शेषतामित्यत्र विशेषेण प्रहारः ।। २३९ ।।

अशङ्कितविभवलोभेऽभिनयपाठ्यादौ विधिः स्मृतः सिद्धिः । पूरणार्थं सिद्धिग्रहणम् ।। २४०-२४२ ।।

ध्रुवागाने भविष्यति समाप्ते च यद्वाद्यं ध्रुवाषट्कपर्यन्तं नियतषट्कलत्वावधिकृतात् परिच्छिन्नम् । तदन्तरवाद्यमेवोत्तरवाद्यविषये अक्षरैर्विभजति । तत्रोत्तमानामित्यादिना ।। ध्रुवाणां ग्रहणे उपशमने च यत् परिच्छिन्नं नाम चतुर्थमन्तरवाद्यमुक्तम् ।। २४३–२४४ ।।

अथ प्रासादिकीप्रावेशिक्याक्षेपिक्यवकृष्टासु । तत्र प्रासादिकीप्रावेशिक्योः समपाणौ विभक्तकरणं वाद्यम् । द्रुतायामुपरिपाणिर्विचित्रकरणं स्थितावकृष्टायामर्थसन्निपात- कृतमिति । यथा धोण्णेधोधो इति ।। २४५ ।।

एवमेतत् प्रयोक्तव्यं वाद्यं गतिपरिक्रमे ।
प्रासादिक्यां ध्रुवायां च त्वन्तरायां तथैव च ।। २४६ ।।

अभाण्डमेकं गीतं तु परिवर्तं प्रयोजयेत् ।
सन्निपातावसानेषु भाण्डवाद्यग्रहो भवेत् ।। २४७ ।।

अथ द्रुतविलम्बितायां यथा । तलखो तलखो तलखो इति । अथाड्डितायां यथा । धोणखोखोणके……कुखुणाणाणा खोदें क्लखोंके इति ।। २४८ ।। अथोद्धात्यम् ।

सम्भ्रमावेगहर्षार्थे विस्मयोत्साहशोकजे ।
ग्रहे गानस्य यद्वाद्यमुद्धात्यं सम्प्रकीर्तितम् ।। २४९ ।।

मोक्षमिदानीं वक्ष्यामः । तद्यथा । खेन्नांतिकिठिदत्तकित्तकिकिदोत्तगोगोग- घेदोघेटघेघेरादो इति । य(अ)थाड्डितायाम् । घटमथिघंघंखोखोणखो-खोणखोखो चेणं डक्कणिष्कषणुड्डप्प इति । अथ नर्कुटखञ्जयोः । योधंद्रांधंद्रांतकितांगुटुगुटु घे इति । अवस्थितायाम् । धंधंघेटंमटघेघेत्थिमटांकटत्थिमटत्थिकटकिटीथिटी इति । अथावकृष्टायाम् । घटमटत्थिरथिगुटुघेट (धोणवंधणणोंणणं)इति ।। २५० ।।

एवमेते ग्रहा मोक्षा ध्रुवाणां गदिता मया ।
निष्कामे च प्रवेशे च त्वाक्षेपिक्यन्तरासु च ।। २५१ ।।1

Abh

तत्र ग्रहे यद्वाद्यं तदेव षड्ध्रुवाभेदेन स्फुटयितुमाह । अथ प्रासाद(दि)कीत्यादि ।। २४५–२४८ ।।

द्रुतायां ध्रुवायां विप्रहारिततस्य ध्रुवादिविषये नामान्तरेण प्रयोगमाह । उद्धात्यम् । उत्कृष्टं हननं यत्रेति ।। २४९ ।।

एवमुद्दीपनापरपर्याये ग्रहेऽभिधाय प्रशमनप्रलये मोक्षे दर्शयति । मोक्षमिदानीमित्यादिना ।। २५०– २५१ ।।

Notes

एवं तालकलाज्ञाने मार्दङ्गिकेन प्रयतितव्यम् । भवति चात्र ।
अतालज्ञमकालज्ञमशास्त्रज्ञं च वादकम् ।
चर्मघातकमि(इ)त्येवं प्रवदन्ति मनीषिणः ।। २५२ ।।

अनेनैव विधानेन कार्यं वाद्यं प्रयत्नतः ।
अधमानां नर्कुटखञ्जषे(भे)दात् प्रयुक्तं च वर्णान्तरिका ।
अतः परं प्रवक्ष्यामि त्वातोद्यानां तु लक्षणम् ।। २५३ ।।

त्रिधा 1कृतिर्मृदङ्गानां हारीतकयवाश्रया ।
2तथा गोपुच्छरूपा च भवन्त्येषां च3 रूपतः ।। २५४ ।।

हरीतका(क्या)कृतिस्त्वङ्को यवमध्यस्तथोर्ध्वगः ।
आलिङ्गश्चैव गोपुच्छः आकृत्या सम्प्रकीर्तितः ।। २५५ ।।

4तालत्रयं तथार्धं च मृदङ्गोऽङ्किक इष्यते ।
4aमुखं तस्य च कर्तव्यं द्वादशाङ्गुलयोजितम् ।। २५६ ।।

5ऊर्ध्वकोऽपि तथा कार्यश्चतुस्तालप्रमाणतः ।
6अङ्गुलानि मुखं तस्य कर्तव्यं तु चतुर्दश ।। २५७ ।।

Abh

तत्रास्य द्वौ संहननौ । सञ्चरसंहननं यत्र संयोगाक्षराणि बाहुल्येनान्यत्वासरणे समानुसरणं प्रयतितव्यमिति यदुक्तं तण्डुनाऽर्थवादेन तद् द्रढयितुमाह ।

अकालज्ञमतालज्ञमशास्त्रज्ञं च वादकम् ।
चर्मघातक इत्येवं प्रवदन्ति मनीषिणः ।।

इति । शास्त्रज्ञत्वं लक्षणज्ञता । तालज्ञता प्रयोगकौशलम् । कालो द्रुतादिः । तालश्चञ्चत्पुटादिः । चर्म निहन्तीति जुगुप्सोक्ता ।। २५२ ।।

लक्षणमित्याकारः ।। २५६–२५४ ।।

हरीतक्याकृतिरङ्गि(ङ्कि)कः ।। २५५ ।।

सार्धतालत्रयो द्वादशाङ्गुलकः ।। २५६ ।।

ऊर्ध्वाधो यवाकृतिश्चतुस्तालश्चतुर्दशाङ्गुलमुखाकारः ।। २५७ ।।

Notes

आलिङ्गश्चैव कर्तव्यस्तालत्रयम1aथापि च ।
1bमुखं तस्याङ्गुलानि स्युरष्टावेव समासतः ।। २५८ ।।

1दैर्घ्येण पणवश्चैव कर्तव्यः षोडशाङ्गुलः ।
कृशमध्याङ्गुलान्यष्टौ2 पञ्चाङ्गुलमुखस्तथा ।। २५९ ।।

3ओष्ठावस्य तु कर्तव्यौ तज्ज्ञैरध्यर्धमङ्गुलम् ।
मध्यं च सुषिरं तस्य चत्वार्येवाङ्गुलानि च ।। २६० ।।

दर्दरश्च घटाकारो नवाङ्गुलमुखस्तथा ।
विधानं चास्य कर्तव्यं घटस्य सदृशं बुधैः ।। २६१ ।।

द्वादशाङ्गुलविस्तीर्णं पीनोष्ठस्य4 समासतः ।
अतः परं प्रवक्ष्यामि चर्मलक्षणमुत्तमम् ।। २६२ ।।

न ज्वरोपहतं चर्म न च 5काकमुखाहतम् ।
6नापि दोषहतं क्लिन्नं न च धूमाग्निदूषितम् ।। २६३ ।।

एभिर्दोषैर्विनिर्मुक्तं चर्म निर्वर्त्यते गवाम् ।
7शुद्धपल्लवसंकाशं हिमकुन्देन्दुपाण्डुरम् ।। २६४ ।।

8अत्यामिषविहीनं तु क्लिन्नं वा चर्म कर्मणि ।
9विदित्वैव सुवर्णानि चर्माण्याहृत्य बुद्धिमान् ।। २६५ ।।

Abh

आलिङ्गो गोपुच्छाकृतिः । त्रितालोऽष्टाङ्गुलमुखः ।। २५८ ।।

दैर्ध्येण षोडशपरिणाहेनाष्टौ मुखतः पञ्चाङ्गुलः पणवः ।। २५९ ।।

अङ्गु ()ष्ठो यत्र चर्म विश्राम्यति । तेन सोर्ध्वो(र्धो)ङ्गुल्यमध्यतः । अङ्गुलद्वयस्थूलं तु काष्ठमित्यर्थः ।। २६० ।।

नवाङ्गुलमुखो द्वादशाङ्गुलसुषिरः पीनोष्ठो घटाकृतिर्दर्दरः ।। २६१–२६२ ।।

अथ मुखोपयोगलक्षणमाह । न ज्वरोपहतमित्यादि ।। २६३–२६५ ।।

Notes

1a N: -प्रमाणतः 1b.N: -मुखे

शीतोदके निशामेकां स्थापयित्वा समुद्धरेत् । 1
1aवध्रैः सुललितैर्दात्रैर्गोमयैरक्तमार्जि(मर्दि) तैः ।। २६६ ।।

चन्द्रकैस्तनुभिः पश्चात् मृदङ्गान् योजयेद् बुधः ।
पुष्पावर्तस्त(र्तं तं)तः कुर्यात् त्रिवर्तिं चन्द्रकाश्रया(य)म् ।। २६७ ।।

कक्ष्याख्यं वै परिकरं ग्रीवाख्यं स्वस्तिकं तथा ।
2त्रिशतं च प्रकुर्वीत पुष्करे ह्याक्षिकानि तु ।। २६८ ।।

दश तत्र हि वध्रास्तु प्रक्षेप्या वर्तिसंश्रयाः ।
द्व(द्वे ) हित्वा त्वाक्षिके वध्र(ध्रे)तृतीये संप्रवेशयेत् ।। २६९ ।।

सर्वेष्वेवं प्रयोगोऽयमाक्षिकेषु विधीयते ।
तन्त्रीभिः पणवं नह्येत् सुदृढाभिः समन्ततः ।। २७० ।।

वातपुष्करिकां चैव योजयेत्तनुचर्मणा ।
एवं मृदङ्गपणवाः कर्तव्या दर्दरास्तथा ।। २७१ ।।

Abh

पूर्वं गोमयेनाक्तास्ततः सुमर्दिताः ।। २६६ ।।

चन्द्रकैरिति । वध्रा निरवद्यास्तथा कार्या यथा चन्द्रकाकाराः क्वचित् क्कचिद्वृद्धकुसुमवर्तनाकाराः । त्रिवर्तिमिति । त्रयाणां वध्राणामन्योन्ययोजनावैचित्र्येण ।। २६७ ।।

कक्ष्याख्यं वै परिकरमिति । येन स्कन्धे निवेश्यत इत्येतत् पणववत् प्रवेशयेत् ।। २६८ ।।

अक्षके साध्ये सति द्वे वध्रे बन्धयित्वा स्पष्टात्तवध्रेषु मध्ये तृतीये वध्रे(प्र)वेशयेदिति पणवत्वम् ।। २६९ ।।

ततस्त्रिभिर्बध्नीयात् ।। २७० ।।

वातपुष्करिकां चैव योजयेत्तनुचर्मणा ।

इति । घातदार्ढ्यं विनापि लघ्वक्षरपवनवशादेव यथा मधुरशब्दादयो विचित्रा भवन्ति य(त)था कुर्यादिति ।। २७१ ।।

Notes

1a (N): बध्रैः सुविहितैः पात्रैः लोमशैः रक्तचर्मकैः

नवे मृदङ्गे दातव्यं रोहणं सततं बुधैः ।
गव्यं घृतं च तैलं च तिलपिष्टं तथैव च ।। २७२ ।।

1तथा ह्येतेन विधिना त्वाङ्गिकालिङ्गकोर्ध्वकान् ।
देवताभ्यर्चनं कृत्वा ततः स्थाप्या महीतले ।। २७३ ।।

चित्रायामथवा हस्ते शुक्लपक्षे शुभेऽहनि ।
उपाध्यायः शुचिर्विद्वान् कुलीनो रोगवर्जितः ।। २७४ ।।

मतिमान् गीतितत्त्वज्ञो मधुरोऽविकलेन्द्रियः ।
सोपवासोऽल्पकेशश्च शुक्लवासा दृढव्रतः ।। २७५ ।।

मण्डलत्रयमालिप्य गोमयेन सुगन्धिना ।
ब्रह्माणं शङ्करं विष्णुं त्रिषु तेषु प्रकल्पयेत् ।। २७६ ।।

2आलिङ्गं स्थापयेत् पूर्वं कृते ब्राह्मेऽथ मण्डले ।
ऊर्ध्वकं तु द्वितीयेऽस्मिन् रुद्रनाम्नि निधापयेत् ।। २७७ ।।

तिर्यगुत्सङ्गिकं सम्यग् वैष्णवे मण्डले क्षिपेत् ।
बलिपुष्पोपहारैस्तु पूजयेत् पुष्करत्रयम् ।। २७८ ।।

पायसं घृतमध्वक्तं चन्दनं कुसुमानि च ।
शुक्लानि चैव वासांसि दत्त्वा लिङ्गे स्वयंभुवः ।। २७९ ।।

त्र्यम्बकाय प्रदातव्यः सगणायोर्ध्वके बलिः ।
स्वस्तिकैर्लाजिकापुष्परूपपिण्डाष्टकैः सह ।। २८० ।।3

Abh

दातव्यं रोहणमिति । येन चर्मणा(णो) वाद्यं प्ररोहति तद् द्रव्यम् । घृत(तं) तिलतैलं तिलकल्कं चेति । चर्मणि लेपः ।। २७२–२७३ ।।

अथ मुरजपूजां यत्नेन कर्तव्य(व्या)माह । चित्रायामित्यादि । उपाध्याया() इति । मौरजिकाः- (कः) ।। २७४–२७६ ।।

आलिङ्ग(ङ्ग्य)म् ।। २७७–२७ ।।

स्वयम्भुवः ब्रह्मणा(णः) ।। २७९–२८० ।।

Notes

उन्मत्तकरवीरार्कपुष्पैरन्यैश्च भूषितः ।
बलिः कार्यः प्रयत्नेन रक्तकौदुम्बरैः सह ।। २८१ ।।

वैष्णवे मण्डले स्थाप्यः सर्वबीजगतोऽङ्किकः ।
स्रग्वस्त्रालेपनैः 1प्रीतैश्चरुभिश्च सपायसैः2 ।। २८२ ।।

वाचयित्वा द्विजैः स्वस्तिं दत्त्वा पूर्वं च दक्षिणाम् ।
पूजयित्वादिगन्धर्वान् पश्चाद्वाद्यं समाचरेत् ।। २८३ ।।3

दैवतानि च वक्ष्यामि येषां ते च भवन्ति हि ।
वज्रेक्षणः शङ्कुकर्णो ग्रहश्चापि4 तथा महान् ।। २८४ ।।

एतास्तु देवता विप्राः पुष्करेषु प्रकीर्तिताः ।
मृण्मयत्वान् मृदङ्गा(ङ्ग)स्तु भाण्डं भ्रमयतीति च ।। २८५ ।।

मुरजास्तूर्ध्वकरणादातोद्यं तोदनादपि5 ।
भाण्डस्यादौ प्रणीतोऽत्र पणवश्च विधीयते ।
6दारं शब्दं दारयति तस्माद् भवति दर्दरः ।। २८६ ।।

Abh

उन्मत्तं धत्तूरम् ।। २८१–२८३ ।।

वज्रेक्षणादयोऽग्रतः पूज्याः ।। २८४ ।।

अथ निर्वचनमाह । मृण्मयत्वान् मृदङ्ग इति । मुखे चेति सुखं मङ्गलं च करोति । भाण्डम् । भस्य डा आदेशः । तदाह । भ्रमयतीति । रसयतीत्यन्ये पठन्ति । एके भणत इति च भाण्डमाहुः ।। २८५ ।।

मुरजाः सर्वकरणादिषु मुरा(द् वेष्टनाज्)जाता मुरजाःऊर्ध्वकरणमुन्नतं सौषिर्यं च । अन्ये तु मुजि (पा.धा. २५१)ज्जिनति विक्रमः ष (मख)रूपमूर्ध्व समनुकुर्वन्तीति प्रातिपदिकाद् धात्वर्थे (पा.धा.१८१६)णिचि टिलोपे पचाद्यच् (अ.३०१.१३४) मुरजा इत्याहुः । आतोद्यं तोदनात्भाण्डस्यादौ प्रणीतः पणव इति । तेनैव पूर्वं व्यवहाराद् भ(प)ण व्यवहारे (पा.धा.४३९)द्रव्यनिचयः । दर्दरः । तदाश्रयत्वाद् वाद्यमपि । नृणामन्ते(दृ विदारणे) क्यचि रूपमित्युक्तमेव (३४–८४) ।। २८६ ।।

Notes

सृष्ट्वा मृदङ्गान् पणवं दर्दरं च महामुनिः ।
मेघैश्च स्वरसंयोगं1 मृदङ्गानामथासृजत् ।। २८७ ।।

विद्युज्जिह्वो भवेद्वामे मेघः स तु महास्वनः ।
ऐरावतो महामेघस्तथा चैवोर्ध्वके भवेत् ।। २८८ ।।

1a आलिङ्गके तडिद्मांश्च नाम्ना चैव बलाहकः ।
दक्षिणे पुष्करो मेघः पुष्करो वामयोजितः ।2 (कोकिलो नाम विश्रुतः) ।। २८९ ।।

मृदङ्गश्चैव नाम्ना तु ऊर्ध्वके नन्द्य 3थोच्यते ।
4अङ्किकः सिद्धिरित्येवमालिङ्गश्चैव पिङ्गलः ।। २९० ।।

5भूतप्रियो बलिस्तेभ्यो दातव्यः सिद्धिमिच्छता ।
अपूजयित्वा ह्येतान् वै नैव प्रेक्षां प्रयोजयेत् ।। २९१ ।।

करीषस्य तु सङ्घाते मृदङ्गं स्थापयेद् बुधः ।
6सुसम्या(ङ्घा)तानचलिता(तां)स्तथा च(चा)पतिता(न्)पुनः ।। २९२ ।।

आतोद्यपणवैश्चैव नर्तकोपनतास्तथा ।
शान्तिकर्म प्रयुञ्जीत विधिदृष्टेन कर्मणा ।। २९३ ।।

Abh

अथ मेघानां तत्राधिष्ठातृत्वं सूचयन् पुराकल्पमाह । मेघैश्च स्वरसंयोग (मि)ति । मेघगर्जितेन हेतुना ततःस्वरयोजनामाश्रित्य । पुष्करपत्रैस्तु वर्णाः षोडशेति भावः ।। २८७ ।।

तेनोर्ध्वके चैरावतः । आलिङ्गेन वामेन निनादः ।। २८८ ।।

दक्षिणे त्वङ्किके कोकिलः ।। २८९ ।।

ऊर्ध्वके नन्दीआङ्किके सिद्धिःआलिङ्गे पिङ्गलः ।। २९० ।।

इति परमेश्वरगणविशेषाधिष्ठानद्वारेण सूचयन् तेषामप्यत्र पूज्यत्वमाह । भूतान्यन्ताद् वेदनीयानि तर्पणमनुभावनीयानि । येन तामृब्दली(तेषां प्रियो बलिः) ।। २९१ ।।

करीषस्य शुष्कगोमयद्वा(रा)शिशेषमध्ये । यत्रैषां चर्मबद्धविकृतिर्न भवति ।

Notes

चत्वारः पणवाः कार्याः दशरूपविधौ पुनः ।
आतोद्यान्यपि तान्येव नानावस्थासु वादयेत् ।। २९४ ।।

1aनाटके सप्रकरणे 1भाणके(णे) प्रहसने तथा ।
2मृदङ्गं पणवं चैव दर्दरं चैव वादयेत् ।
एवमेतद् बुधैर्ज्ञेयं मृदङ्गानां तु लक्षणम् ।। २९५ ।।3

गतिवाद्यतालपाठ्यग्रहमोक्षविशारदोऽथ लघुहस्तः ।
4छिद्राच्छेदविधिज्ञः सिद्धस्थाने ध्रुवाकुशलः ।। २९६ ।।

कलरिभितमधुरहस्तः सुनिविष्टो रक्तमार्जनो बलवान् ।
5अवहितशरीरबुद्धिर्मृदङ्गवादी गुणैरेतैः ।। २९७ ।।

आलेपनप्रमाणज्ञश्चतुर्मार्गकृतश्रमः ।
प्रतिग्राही च (ग्रहीता) सिद्धीनामङ्गदोषविवर्जितः ।। २९८ ।।

स्वभ्यस्तकरणः सामे गीतज्ञो गुणितग्रहः ।
सुसङ्गीतप्रयोगज्ञो मृदङ्गी तु भवेद् गुणैः ।। २९९ ।।

भ्रान्तोर्ध्वहस्तः कालज्ञश्छिद्रावरणपण्डितः ।
अभ्यस्तकरणश्चैव भवेत् पाणविको गुणैः ।। ३०० ।।

निश्चलो निपुणः शीघ्रो लघुहस्ती विधानवित् ।
वादनान्तरवादी च दर्दरी तु प्रशस्यते ।। ३०१ ।।

Abh

सङ्घातानन्योन्यविश्लिष्टान् ।। २९२–२९३ ।।

कलश्चतुरो रिभितो दीप्तो मधुरः श्रुतिसुखदो हस्तो यस्येति । सुश्लिष्टो दृ(हृ)ष्टो दृष्टा (ढो)सहः ।। २९७ ।।

प्रतिगृ (ग्र)हीता सिद्धीनामिति ।। २९८ ।।

अन्तरवाद्यज्ञः । गुणिता अभ्यस्ता ग्रहा ग्रहमोक्षसन्धयो (ये)न । सुष्ठु सङ्गीतप्रयोगमेलनिकां जानातीति तथोक्तम् ।। २९९ ।।

भ्रान्तेत्यत्र भ्रमणक्रियाचतुर ऊर्ध्वाधः स्थिरश्च हस्तो यस्य ।। ३०० ।।

Notes

एतत् सर्वं नाट्ययोगं समीक्ष्य
प्रोक्तं वाद्यं सर्वलोकानुभावात् ।
नोक्तं यच्चेदागमाद्वस्तुबुद्धया
सद्भिः कार्यं मार्गजातीः समीक्ष्य ।। ३०२ ।।

स्फुटप्रहारं विशदं विभक्तं
रक्तं विकृष्टं करलेपनं च ।
त्रिमार्जनापूरितरागगम्यं
मृदङ्गवाद्यं गुणतो वदन्ति ।। ३०३ ।।

वाद्ये1 तु यत्नः प्रथमं तु कार्यः ।2
3शय्या हि नाट्यस्य वदन्ति वाद्यम् ।
वाद्ये च गीते च हि सु(सं)प्रयुक्ते(क्तो)
नाट्यप्रयोगे(गो)न विपत्तिमेति ।। ३०४ ।।

4इति भारतीये नाट्यशास्त्रे पुष्करवाद्यो नामाध्यायश्चतुस्त्रिंशः ।।

Abh

वादनस्य मुरजवाद्य(द्या)न्तरं मध्यान्तरं चेति विशेषश्च ।। ३०१ ।।

नोक्तं यच्चेदितीति । हुडुक्का विसिसंक्षानशङ्कामात्रमेतत् । वस्तुतस्तु न सर्वमुक्तमिति दर्शयति ।। ३०२ ।।

विकृष्टमिति । आराच्छ्रवणयोग्यम् ।। ३०३ ।।

नाट्यस्य वदन्ति वाद्यमिति । पञ्चधेति सांम्यात् प्रतिष्ठितं भवति । तदाह । गीते । वाचाऽपि तु सम्प्रयुक्तो नाट्यप्रयोगो न विपत्तिमेति । गीतातोद्याभ्यां रामरावणादिविशेषास्पर्शनेनैव रसभावचर्वणौचित्यमाधीयते साम्यं च यतो भवन्ति सर्वाः सिद्धय इति शिवम् ।। ३०४ ।।

नादान्तसादाशिवभक्तिधाम सन्तानकृत्यः कखिलाभिधानः । रात्रिन्दिवं तस्य सुतेन दृष्टा सुपुष्कराध्यायसमाप्तिवृत्तिः ।।

इति श्रीमहामाहेश्वराभि()वगुप्ताचार्यविरचितायां नाट्यवेदवृत्तावभिनवभारत्यां पुष्कराध्यायश् चतुस्त्रिंशः

Notes