॥ श्रीः ॥
अथ त्रयस्त्रिंशोऽध्यायः ।
गुणात् प्रवर्तते गानं दोषं चै (षाच्चै)व निरस्यते ।
तस्माद् यत्नेन विज्ञेयौ गुणदोषौ समासतः ॥ १ ॥
Abh
अथ त्रयस्त्रिंशोऽध्यायः ।
ज्ञानक्रियादिगुणवर्गविधानहेतु-
र्दोषापवर्जनपटुः किल भक्तिभाजाम् ।
आनन्दपूर्णपरशाङ्करसारसिन्धु-
धारास्थितिर्विजयतां परमेश्वरोऽसौ ।
एवं गान्धर्वस्वरूपं यदुपयोगित्वेन प्रदर्शितं तत् प्रकृतनाट्योपयोगिध्रुवागानमभिधाय तत्रैव द्वये परतत्त्वं निरूपयितुमध्यायान्तरमारभ्यते ।
अथ केचित् मन्यन्ते । उपरञ्जनात्मनि गान एव सुतरां गुणग्रहणं दोषाववर्जनं चादृत्य उपरञ्जनप्राणं हि गानम् । उपरञ्जनं न गुणदोषायत्तविवेकायत्तम् । अत एव तद्विवेकस्य गानं प्रति प्राधान्यं प्रयोजयितुं पृथक्त्वं प्रत्यध्यायारम्भः । गान्धर्वे तु रञ्जना न तथा प्रधानमपि तु चञ्चत्प्रयोक्तुरदृष्टफलं तदिति ।
नैतत् । तथाहि । यथास्वरूपं विकलं प्रवृत्तो विधिः फलं प्रसूते । शारीरपौ(दा)रवस्वरस्वरूपसम्पत्तिरेव च रक्तकण्ठस्वदितहस्तत्वादिना विना कथं लयादितत्त्वज्ञानम् । याऽत्र विकृता कालसम्पत्तिरतत्त्वज्ञानस्य च का सङ्गतिरदृष्टफलसङ्गत्या । उक्तं हि ।
वीणावादनतत्त्वज्ञः श्रुतिस्मृति(जाति)विशारदः ।
(या. स्मृ. ३. १. ११५) इति । तालज्ञ इति च । तस्माद् गान्धर्वे सुतरां गुणदोषविवेका (कोऽ)र्थवान् । स्वरस्य हि तावदपरुषमघुररञ्जनात्मकमेव लघुः(घु) तालस्यापि गानं प्राणस्तदुभयमपि गुणायत्तं तदायत्ता वाऽदृष्टसिद्धिः । विशाखिलाचार्यः साम्यादिह सिद्धिः परत्रेति वदन् प्रादीदृशन् (त्)। अथ ब्रूयात् तालादिस्वरूपाविशेषे गान्धर्वाद् गानस्य को भेदः । यद्यनेकलक्षणं तन्त्रतोऽभिपद्यते स्वरूपमिव च तथा च गानाभिमतं गान्धर्वं स्वरूपेणेति
Abh
ततो निगदस्य हि व्यापकं ततो भिन्नलक्षणत्वम् । अन्यथा भेदापातापत्तेस्तु च(तन्) नोपलभ्यतेऽधुनेति व्यापकतानुपलब्धिः । तथाऽसिद्धो हेतुः । स्वरतालात्मकं गान्धर्वमिति (भ. ना. २८.११)गेयाधिकारारम्भ एव मुनिना सङ्गीतगानस्य न(च) तत्स्वररूपादिकं लक्षणनुक्तम् । इदानीं तत्रोच्यते । इहायं गान्धर्वशब्दो लोके शास्त्रे च द्विविधो नाटकशब्दवत् । सामान्यविशेषेणास्य प्रयोगदर्शनात् । गान्धर्विक इति ।
गान्धर्वमेतत् कथितं मया वः पूर्वं यदुक्तं प्रपितामहेन ।
(भ. ना. ३३. २३) इत्यध्यायान्ते नाट्योत्पत्तौ सामान्येन गीतिरित्युक्ते गान्धर्वं गानमपि । अत्र विशेषे तु गान्धर्वः । अत्रेत्यादौ गान्धर्ववेद इति च । तत्राद्ये पक्षे सिद्धसाधनपरमे त्वसिद्धो हेतुः । न ह्येतावदेव गान्धर्वस्य लक्षणं बालगोपालसारमादि (रस) बाला (बलाका) दिगीतेऽपि गान्धर्वापत्तेः । तथा च तत एवादृष्टलाभेऽयं न वैय्यर्थ्यप्रसङ्गो यदा(द)यमग्नेर्दयन्तः(हतः) फलाद् व्यतिरेकाच्चेति ।
नन्वेवं गान्धर्वस्य किं लक्षणमुक्तमध्यायचतुष्टयेषु मुनिना । तथाप्यनुसन्धानवन्ध्यो महाभो (भा)गं
बोधयितुमनुसन्धीयते । स्वरतालपदविशेषात्मकं प्रवृत्तिनिवृत्तिप्रधानदृष्टादृष्टफलसामवेदप्रभवमनादिकाल-
निवृत्तमन्योन्योपरञ्जनगुणताविहीनं गान्धर्वमिति स्वरूपफलात् कालाद् धर्माच्च भिद्यमाना(नम)वश्यं
गानवैलक्षण्यं भेदैकसम्पादनम् । तदुभयानुग्रहयोगाच्च वाद्यानाम् । गाने तु काकल्यन्तरश्रुतिपरिभ्रमणाद्
विचित्रश्रुतिग्रहणम् । स्वराणां मालवकै शिके चतुश्र्श्रु/?/तिकाङ्गस्य दर्शनात् कियद्वा
रागभाषाविभाषादेशीमार्गादिगतानां स्वराणां श्रुतिवैचित्र्यं ब्रूमः । उक्तमपि च प्रतीतमनुचित्रा(त्री)यते ।
प्रतीतानामप्यलक्षणज्ञानां बालविज्ञानवद् वेद्यम् । परतन्त्रतपा(त)याऽविषयो दिग्दर्शनात् । तस्मादपि तथेति ।
किं चान्तरालनियमोऽन्तःप्रमाणस्थानस्वरकालांशवधान्न(शाद)सारतया गान्धर्वेऽवश्यसंवेद्यः । न त्वेवं गाने ।
लोपोऽपि नियतगान्धर्वे दर्शितो ग्रामद्वयभेदेन च जात्यंशभेदेन दर्शितः । गाने तु रक्त्यनुसारेण
प्रवेन्ते(वृत्ते)रसावनियतः । तथापि गान्धर्वे यस्मादनादित्वमेव समर्थितं तस्यापि मध्यमस्य भिन्नषङ्जकालिन्यां
लोपो दृश्यचतुस्स्वरपञ्चगन्धर्वानभ्युपगममपि । अन्तरमार्गो(र्गे)ऽपि विधायिवर्ग(गा)गान्धर्ववेदगीता ये
शोभानुरोध एव तत्र करणम् । नटकैशिकलो(ला)टन(ना)गरादावृषभगान्धारयोर्भूयसाऽनवलोकनात्
सप्तचत्वारिंशदधिकजात्यंशकोचितसङ्गीतवशविचित्रीभवदेकैकस्वरस्वरूपयोगात् त्रिस्वरोनमध्यगतं स्वराणां
गान(मा्)-गान्धर्वे गाने शुद्धभिन्नगौडराग(वेसर)साधारणभाषाविभाषान्तरभाषारूपगीत्यष्टकोचितललित-
Abh
गीतनादि(द)स्वरस्वरूपलाभे प्रत्येकदर्श(श)पूर्णषट्पञ्चचतुःस्वरभेदयोगाद् द्वात्रिंशता सह त्रिंशतेः स्वराणामुक्तसङ्गतिवैचित्र्यात् स्वराणां येऽङ्कनाद्यष्टचत्वारिंशत्तानि तावत् प्राधान्येऽन्यस्व(र)संरवभट्टगान्धर्वे च मूर्छनाश्चतुर्दश तानाश्चतुरशीतिरिति । यदैवं स्वरस्वरूपसम्पत्तिं गाने तु द्विस्वरात् प्रभृति पूर्णस्वरपर्यन्तं द्विधा षोढा चतुर्विंशतिधा तथा विंशसप्तशतधा चत्वारिंशत्पञ्चसहस्रधेति कथितनीत्या यः कूटनभेदस्तत्कृतं स्वरवैचित्र्यं वर्णावृषीणा(त्तीना)मेव च ह्येतत् । बिन्दुप्रभृतीनामलङ्काराणां प्रयोगो न तद्विपरीतानां मन्द्रतारप्रसन्नादीनाम् । एतेन गान्धर्वे स्वरः प्रधानं तदाधारत्वेन गुणभूतं पदमिति यत् तद्विपरीतं गान्धर्वेऽर्थ- संवेदयोगेन पदस्य प्राधान्यात् तदुपरञ्जनाच्च गुणभावात् स्वरस्यैतदपि ह्याकर्णितं भवति । वैणस्वराणां च धातुप्रयोगनियमानपेक्षो रक्त्यतिशयप्रवाहाय न प्रयोगभेदोचित एव प्रयोगो वैणवानामप्ययमेव पन्थाः । एतेन गान्धर्वे देवताविशेषपरिभाषानुसारिणि विनियोगो यथेच्छं वा । गाने तु रसभावनियमौचित्यविशेषो दर्शित एवेति स्वरगते तावद्विशेषः । तालोऽपि गान्धर्वे नियतत्वेन संख्यापरिमाणं भ(र)ञ्जनं परिच्छेदोपायं यतिस्वरैर्वृत्तिमेव मेलनमातोद्ययोगमङ्गाङ्गिभावव्यावरुध्यमानः साम्यमात्रफलमिति न शक्यं वक्तुम् । तथा हि । चञ्चत्पुटादिष्टनियता चतुरादिका कला संख्यापरिमाणाय चित्रादिभेदे मात्रालयादिभञ्जनमपि । एककलाऽपि त्रयस्थित्या चतुष्कलान्तत्वेऽपि । एकरसलघुप्रस्तारयोगोऽपि प्लुतलघुभेद्यप्येकरसगुरुपर्यन्तमेव । परिच्छेदोऽपि वा योऽपि कालायातरूपो नियतो नियतक्रमश्चायतेरपि मध्ये स्रोतोगता यती(तिरि)त्यादावदृष्टोपयोगप्रधानत्वे । परिवृत्तिरपि विशाला सङ्गता चेत्यादावुपवर्तनभेदे च नियतैव । गेयात्मना मेयेन च गान्धर्वतालस्य मेलना । पाणित्रयवैचित्र्येणातोद्यधाटो(द्याधारो)ऽप्यभाण्डमेकं गात्र(न)स्येति(भ.ना.३२.४१५)चतुर्थे सन्निपात(भ.ना.३२.४१५)इत्यादौ विचित्र एवाङ्गानां योगोऽपि । वर्धमानासारिताया वर्धमस्त(मान)बद्धगीतपाणिकादौ नियत एव तु तस्य भेदमुपनिवहनं वस्त्विदं वास्वे(स्ये)दं शीर्षकमिति वैचित्र्यविधिरेव प्रभवति । यतो गाने प्रनरुत्तमादिभेदभिन्नप्रकृतित्रयमतयथोचितमसृणमन्थरोद्धता- दिभेदभिन्नसङ्गीतप्राणवलन एवोपाङ्गपरिस्यन्दितपरिक्रमणाद्यनुसारेण साम्यसम्पादनफलयोगे कलासंख्यादिभेदेन प्लुतगुरुलघुभावभञ्जनद्रुतबिन्दु पर्यन्तभङ्गसम्भवान्न कलापर्यन्तकमप्राधान्यम् । न यतेराकस्मिकत्वेनादृष्टमात्रफलता । नापि परिवर्तितपाणिरुभयभाण्डग्रहणान् न वाङ्गाङ्गिभावेन वितनितं तालमकारारम्भकण(क)मनुरुध्यत इति सोऽपि विलक्षण एव । पदमपि विनियुक्तादिभेदत्रयस्य कुलकादिभेदत्रयगुणनया नवधा भवेद् देवस्तुतौ प्रधानम् । गान्धर्वे तत्रैवार्थानुसारमनवेक्ष्यैव जात्यन्तरविरचितवर्णाङ्गाधारभासं तालप्रमितस्वरप्रधानतया गुणत्वेन प्रतिपाद्यते । गाने पुनश्छेद्यकामे मूल
Abh
एवासम्भवे रसभावोचितवृत्तजातिनिबद्धम् । यत्तु काव्ये तन्नोक्तमित्युक्ते रसपूरणोपयोगात् प्राधान्यमुपस्तुवन् तत एव चित्तवृत्त्युचितजात्यङ्गकविशेषग्रामरागाङ्गभाषाङ्गगीतिमुपरञ्जकतया समाश्रयात् क्वचित् सुरोचितम् । भिण्डिका द्विपदीगानादौ स्वरालङ्कारशोभा इत्येव यत् क्वचिद् वीररौद्रोचित– परिक्रमणादिसरणादुत्तालीकृततालविभ्रमं सम्पादयत् क्वापि च विप्रलम्भशृङ्गारोचितबन्धत्वविचित्रादिगान इव नाट्यायितावकाशमादधानं स्वं वाच्यं प्रोन्मार्जयदवभातीति स्वरतालस्थानेषु यथोचितकारिषु नयस्वामिभावमालम्बमानभागमास्त इति । एवं तावत् स्वरपदतालात्मकस्वरूपवैचित्र्यवैलक्षण्यम् । अनेन च फलवैलक्षण्यमपि व्याख्यातम् । गान्धर्वस्य प्रयोक्तरि प्राधान्येन दृष्टफलत्वाद् । गानस्य तु पात्रवर्गे साम्यसम्पत्तिः सामाजिकजने चोपरञ्जनपूर्वकं प्राग् रसाध्यायो(भ.ना.६) दितसाधारणसन्धिधृत्यात्मकरस– भाववृत्तानुस्यूतिहेतुसूचितसादृश्ययोगश्चेति दृष्टं मुख्यं फलं प्राङ्मुखभोजनवत्त्वदृष्टमप्यस्तु ।
ननु त(य)दुद्दिश्य प्रवृत्तिः सोऽयं कार्यभेदः कारणभेदोऽपि गान्धर्ववेदवत् स्वयमनादिर्वा सामवेदप्रभवत्वेऽपि वा तदर्थादितया तस्येदम्प्रथमतयोत्पत्त्यनुपलब्धेरनाद्ये च गान्धर्वप्रभवस्तु नादोत्पत्तौ तदुपयोगि कल्पितमिति । गान्धर्वं वा नाट्योपकरणभूतमेव सत्फलसम्पत्तये । गानं तु नाट्यसामग्रीमध्यनिमज्जितनिजस्वरं सफलायेति स्वरूपभेदोऽपि । एवं परोक्तो हेतुरसिद्धीकृत इति यदेव केवलं यदसत्पक्षे वैलक्षण्येऽपि साधकप्रमाणज्ञानमाख्यातमेव । यद्यत् स्वरूपेण कार्येण धर्मेण च भिद्यते तत्तु तेन विलक्षणं भावो भावान्तरादिव । भिद्यते च स्वरूपादिना गानम् । गान्धर्वाद् वैलक्षण्यस्य हि तन्मात्रनिमित्तत्वं व्यापारान्तरमिति व्यापकानुपलब्ध्यापि पक्षादपि वैलक्षण्याद् व्यावृत्तो हेतुः पक्षेण वैलक्षण्येन व्यापृत इति । तत्र च गान्धर्ववेदोदितविधिप्रबन्धप्रधानत्वादिदं गान्धर्वम् । गीतिसारत्वाच्चेदं गानमिति । अत एव कठकाठकवद् गान्धर्ववित्त्वाद् गन्धर्वव्यपदेशमेके मन्यन्ते । गन्धर्वाणामिदमिति तु सामान्यशब्दोऽप्ययं भवेदेव । उक्तं हि प्राक् ।
नारदाद्याश्च गन्धर्वा गानयोगे नियोजिताः । (भ.ना.१.५१)
इति । तथा गानशब्देऽपि गीतिः । तत्राश्रयेणास्ति सामान्यवचनता । अभाण्डमेको(कं)गानस्येत्यादौ (भ.ना ३२.४१५)पूर्वरङ्गे गान्धर्वमेव प्रधानम् । न त्वस्य तर्हि तदङ्गत्वे कथमेकान्ततः स्वप्राधान्ये सम्भवमात्रेण तु गानस्यापि तत् । न हि नाट्याद्बहिर्लयभङ्गा(ङ्ग्या) पि ध्रुवागानं गीयमानमुखपादमुत्पादयति । श्रोत्रपुटे चेयं वपुर्निजं वा ज(जा)गदतीति सोऽयमत्र लालित इव गुरुसङ्घसेवावैकल्यादनुसन्धिवर्जस्तथापि न स्मर्यते सुकु(मा)रसतिरे(मे)व हि प्रति प्राय इदं प्रव(प्रा)वृतत् । न पूर्वरङ्गो नामान्यः कश्चित् । अपि तु गीतकान्येवेति
Abh
दर्शितं पञ्चमे । पादभागाः कलाश्चैवेत्यादिना (भ.ना.५.६) । तदेवं सामान्यशब्दत्वेऽपि द्वयोस्तत्रान्तः- पातिपरीक्षकहृदयानुसारेण विशेषशब्दत्वं यत्तन्नायुक्तम् । यत्तु भट्टतोतेन तद्भेदसिद्धये क्रियाभागे तु कालस्ताल इति निरूपितं तत् क्रियातोऽनन्यो वा कालो वा भावप्रबन्धः । एवं सा ताल इत्यादि पदान्तरमानयत् तत्तथा प्रकृतोपयोगीति काव्यकौतुकादेव ज्ञेयमिति च नास्माभिस्तत्परिवर्तनप्रयासः कृतः । इयतैव सिद्धो गान्धर्वगानयोर्भेदः ।
नन्वेवं स्वरतालादिरूपत्वे द्वयोरपि समाने किमिति विवेको ध्रुवागानोपयोगित्वेन दर्शितः । तत्र केचिदाहुः । सत्यं मधुरकण्ठत्वजितहस्ततालगुणोपादानमपि स्वरत्वादिदोषपरिवर्जनं च समानमुभयत्र । किं तु प्रत्यग्रवयस्त्वादिवद् गात्र(तृ)प्रभृतेर्गुणत्वेनोच्यते । तद्गानोपयोगी नाट्यस्य सुन्दरवपुःप्राणत्वात् । न तु गान्धर्वे । तत् पुनरेतदुच्यमानं गेयहेतोरवमर्शस्तस्माल्लब्धेति वचनं स्मारयति । गातरि प्रत्यग्रवयस्त्वं गायिकास्वरूपादियोग इत्येतावदेव ह्यतोऽधिकात् स्यात् । न च तावताऽपि भेदः कश्चित् प्रत्यग्रवयस्त्वेन स्वरसम्पादनोचितबलयोगोऽप्युपलक्ष्यते । यत्राकृतिस्तत्र गुणाः । प्रसिद्धा च रूपादियोगेन प्रकृतकलाव- लक्षण्यस्यापि पादसिद्धता लक्ष्यते । नावं(वाचं) विसृजेदित्यत्र नक्षत्रदर्श(ने)नैव कालविशेषः । गानगान्धर्वोभयविशेषभावप्रतिपादनायैव च पृथगध्यायारम्भः । अन्यथैकता शेषतैव शक्यत इति ।
कथं तर्हि गुणात् प्रवर्तते गानमिति । प्रकृतोपयोगादेवमभिधानम् । सामान्यशब्दत्वाद्वा । उक्तं चैतत् । कलापातनतत्त्वज्ञ(भ.ना.३३.२) इति । चित्रादिवाद्यकुशल(लौ)(भ.ना.)३३.८) इति च । गान्धर्व एवाञ्जस्येन सङ्गच्छत इति सिद्धः पृथगध्यायारम्भोऽपि ।
गुणात् प्रवर्तत इति । प्रकृष्टतयोत्कृष्टतया वर्तन इत्यर्थः । दोषोपहतयोश्चित्तनिश्चयेनास्य विक्षिप्तिः । नत्वेकाग्रं करोति । न रञ्जयतीति यावत् । अनेनैवेदमाह । यद्यपि गुणाभावो दोष एव तथापि भाविकपिम(प)लापस्थितादिदोषाणामभावे च गाता तावत् क्षिपति न तूत्कृष्टदोषयोगे तु तद्गानमेव न किञ्चित् । गर्दभाभाषितं हि तत् । गुणायोगे तूत्कृष्टस्तद्भवति विक्षोदीति नाट्याचार्यस्य गुणवत आदान(तुं) दोषवतश्च त्यक्तुमिति ॥ १ ॥
गाता प्रत्यग्रवयाः 1स्निग्धो मधुरस्वरोपचितकण्ठः ।
लयतालकलापा2तप्रमाणयोगेषु तत्त्वज्ञः ॥ २ ॥
रूपगुण3कान्तियुक्ता माधुर्योपेतसत्वसम्पन्नाः ।
पेशलमधुरस्निग्धानुनादिसमरक्त4 गुरु(शुभ)कण्ठाः ॥ ३ ॥
5सुविहितगमकविधायिन्योऽक्षोभ्यो(भ्यास्)ताललयकुशलाः ।
आतोद्यार्पितकरणा विज्ञेया गायिकाः श्यामाः ॥ ४ ॥
प्रायेण तु स्वभावात् स्त्रीणां गानं नृणां च पाठ्यविधिः ।
स्त्रीणां स्वभावमधुरः कण्ठो नॄणां बलित्वं च ॥ ५ ॥
Abh
तत्र शारीरस्वरपूर्वि(र्व)कत्वाद्वै गुणानां वंश्यानां च क्रमेण गातॄणां विपञ्चीवादको(क)वंशवादकानां च गुणांस्तावदाह । गाता प्रत्यग्रवया इत्यादिना । स्निग्ध इत्यपरुषस्वरः । उपचारान् मधुरशब्देन माधुर्यम् । (तेन युक्तः स्वर)स्त्रे(स्ते)नोपचितः पूर्णः कण्ठ(ण्ठो)ऽस्येति नादोऽत्र कण्ठः । तेनानुद्वेजको विश्रान्तिदश्च यस्य स्वरः । लयो द्रुतादि(:) । (ता)लश्चञ्चत्पुटादि(:) । कला आवापादिः । पातालः (तः)शम्यादिः । प्रमाणं चित्रादिमार्गः । योगो योजना समपाण्यादिः । एकत्वं विवक्षितमित्येके ॥ २ ॥
एवं तन्मध्य(ध्येऽ)सौ केवलं यत्र(त्रा)धारप्राया माधुर्योपेतेति । अत्र चेष्टानुल्बणता माधुर्यं तेनोपेतं सत्वमिति बलम् । पेशलो विकारशून्य(:) । मधुरोल्वणवर्णविभाषि(षी) । स्निग्ध(:)नेत्रतल्लकम् । अनुनादो(दी)विच्छेदाभावयुक्तः । समः परस्परं कीर्णं(र्णो) मिलितः । रक्तः कोमलोऽभिरामः । शुभो गीयमानपदश्रावककर्ण(ण्ठः) । (रू)पाणि यासामिति तावत् ॥ ३ ॥
शक्तिः सुविहितः शक्ता च व्यतिरिक्ता चेति न्यायेन ज्ञानापरपर्यायमन्तर्मार्गतया विदधत इति व्युत्पन्नत्वं गीतवाद्ययोर्लयः शेषाणाम् । तच्चातोद्यविषये करणस्य श्रोतृमनोऽर्पणाद्भवतीत्यभ्यास उक्तः । श्मामा इति तरुण्यः । तद्वर्णा एव च क्लेशसहत्वात् ॥ ४ ॥
गायिकानां बहुत्वे हेतुं दर्शयति । प्रायेण त(तु)स्य(स्व)भावात् स्त्रीणां गानं नृणां च संविधि- रिति । उपमागर्भमेतत् । प्रायेणेति लयं व्याचष्टे ॥ ५ ॥
Notes
यत्र स्त्रीणां पाठ्यात्(ठ्यं)गुणैर्नराणां च गानमधुरत्वम् ।
ज्ञेयोऽलङ्कारोऽसौ न हि स्वभावो ह्ययं तेषाम् ॥ ६ ॥
1सुनिविष्टपाणिलययतियोगज्ञौ सुमधुरलघुहस्तौ ।
गातृगुणैश्चोपेताववहितमनसौ सुसङ्गीतौ ॥ ७ ॥
स्फुटरचितचित्रकरणौ गीतश्रवणाचलौ प्रवीणौ 2च ।
चित्रादिवाद्यकुशलौ 3वीणाभ्यां वादकौ भवतः ॥ ८ ॥
बलवानवहितबुद्धिर्गीतलयज्ञस्तथा सुसङ्गीतः ।
श्रावकमधुरस्निग्धो 4दृढपाणिर्वंशवादको ज्ञेयः5 ॥ ९ ॥
अविचलितमविच्छिन्नं वर्णालङ्कारबोधकं मधुरम् ।
स्निग्धं दोषविहीनं वेणोरेवं स्मृतं वाद्यम् ॥ १० ।।
Abh
यत्(त्र)स्त्रीणां पाठ्यमिति। यत्र बा(ब)लित्वे सति स्त्रीणां गुणपाठ्यात् गुणान् जनरञ्जनमधुरकण्ठत्वे च सति नृणां गानविषये मधुरत्वं सर्वेषामिति स्त्रीणां पुंसा चालङ्कारः कादाचित्कत्वान्नादरणीयः । एवमत्र प्रलघुरलक्ष्यमाणाचारः ।। ६ ।।
गात्र(तृ)गुणैरिति । प्रत्यग्रवया इत्यादिभिः । स्वराङ्गगीतिगीत्तं याभ्यामिति ।। ७ ।।
मेलति(नि)काकुशलेनाहेतुरवसानः । स्फुटमानमगृहीतमूहापोहाभ्याम् । स्वयं न विकृतम् । तत एव च चित्रम् । करणपादिकया ययोरित्यागमानुसारेऽपि वैचित्र्ये(र)से यतनीयमित्युक्तं भवति । यदि वा वैणिकवैपञ्चिकयोस्तुल्यकालवादने परस्परमनुसारिणां वैलक्षण्यं चेत्यनेन दर्शितम् । गीतश्रवणाः फला इत्यभ्यासः प्रकृष्टवीणाविपञ्चीययोश्चित्रादौ मार्गद्वये । यद्वा…..मुक्तं तत्र कुशलेन । आदिग्रहणाद् वैपञ्चिको वैणिकश्च ।। ८ ।।
वंशवाद(क) । इत्युद्देशत्वात् तस्य गुणानाह । बलवानिति । जितप्राणम्(णः) । दृढपाणिरिति । स्वरस्थानादचलाङ्गुलिः ।। ९ ।।
Notes
ज्ञानविज्ञानकरणवचनप्रयोगसिद्धिनिष्पादनानि षडाचार्यगुणा इति । तत्र ज्ञानं शास्त्रावबोधः । य(त)था च क्रियासम्पादनं विज्ञानम् । कण्ठहस्तगौण्यं करणम् । जितग्रन्थता वचनम् । देशादिसम्पदाराधनं प्रयोगसिद्धिः । शिष्यस्वभावमविशेष्योपात्तय उपदेशाच्छिष्यनिष्पादनमिति ।। ११ ।।
श्रावको(णो)ऽथ घनः स्निग्धो मधुरो ह्यवधानवान् ।
त्रिस्थानशोभीत्येवं तु षट् कण्ठस्य गुणा मताः ।। १२ ।।
1उदात्तं श्रूयते यस्मात्तस्माच्छ्रावक(ण)उच्यते ।
श्रावकः(णः)सुस्वरो यस्मादच्छिन्नः स घनो मतः2 ।। १३ ।।
अरूक्षध्वनिसंयुक्तः स्निग्धस्तज्ज्ञैः प्रकीर्तितः ।
मनःप्रल्हादनकरः स वै मधुर उच्यते ।। १४ ।।
स्वरेऽधिके च हीने च ह्यविरक्तो वि(ऽव)धानवान् ।
शिरः कण्ठेष्वभिहितं(हतस्)त्रिस्थानमधुरस्वरः ।
त्रिस्थानशोभीत्येवं तु स हि तज्ज्ञैरुदाहृतः ।। १५ ।।
Abh
अत्र फलमाह । अविचलितमिति ।। १० ।।
स्वस्थानाद् दोषाणां गात्रकुशलं विज्ञानम् । तदुपयोगिनो वागादेः करणवर्गस्य गुणवन्तः(त्ता) करणयुक्ताः (क्ता)करणतेत्यर्थः । जितग्रन्थतेति धारकत्वम् । वचनं धारयन् हि परस्मै ब्रूयात् स(न) विस्मर्ता । देशादिसम्पदाराधनं प्रयोगसिद्धिः । शिष्यबुद्धिमनुसृत्यादेष्ट्टत्वं यद्वैचित्र्यं तच्छिष्यनिष्पादनम् । अथ गीते स्वराणां प्राधान्यमिति दर्शयितुमेतावन्तो गुणा अवश्याह(द)रणीया इति ।। ११ ।।
तात्पर्येण कण्ठस्य नादस्य गुणानाह । श्रावण इत्यादि ।। १२ ।।
एतत् क्रमेण लक्षयति । त्रिस्थानत्वं केचिदाक्षिप्य प्रतिसमादधति । वायुर्नाभेरूर्ध्वमभिहत्योरसि वृत्तः शिरस्यभिहतो मुखेन वृत्तः सञ्छन्नमागच्छन्नयमुरस्यं नाडिकाक्षेपं तथापि तत्रैवायं शब्द इति प्रतिभास्यो यत्नवशादिति तथात्वमिति समाधिः । अस्माभिस्तु यदत्र वक्तव्यं तदुक्तमेव काक्वध्यायादा
Notes
कपिलो ह्य(ऽव्य)वस्थितश्चैव तथा सन्दष्ट एव च ।
काकी च तुम्बकी च (चैव)पञ्च दोषा भवन्ति हि ।। १६ ।।
वैस्वर्यं च भवेद्यत्र तथा स्य(स्या)द् घर्घरायितम् ।
कपिलः स तु विज्ञेयः श्लेष्मकण्ठस्तथैव च ।। १७ ।।
ऊनताऽधिकता चापि स्वराणां यत्र दृश्यते ।
रूक्षदोषहतश्चैव ज्ञेयः स त्वव्यवस्थितः ।। १८ ।।
दण्ड(न्त)प्रयोगात् सन्दष्टस्त्वाचार्यैः परिकीर्तितः ।
यो न विस्तरति स्थाने स्वरमुच्चारणागतम् ।
तथा रूक्षस्वरश्चैव स काकीत्यभिसंज्ञितः ।। १९ ।।
नासाग्रग्रस्तशब्दस्तु तुम्बु(म्ब)की सोऽभिधीयते ।। २० ।।
अन्ये तु ।
समप्रहरणे चैव जविनौ विशदौ तथा ।
जितश्रमौ विकृष्टौ च मधुरौ स्वेदवर्जितौ ।
तथा बृहन्नखौ चैव ज्ञेयौ हस्तस्य वै गुणाः ।। २१ ।। इति ।
Abh
(भ.ना.१७) वित्यलम् ।। १३-१५ ।।
अथ दोषं तद्देशलक्षणाभ्यामाह । कपिल इत्यादिना ।। १६ ।।
कम्पनं कपिस्तं लाल्य(लयतीति)…….ज्यतालं ग(घ)र्घरायितः स्थानाच् च्युतिः श्लेष्मणाऽपि स्थानस्यालाभस्ततो वैस्वर्यम् ।। १७ ।।
अव्यवस्थानादव्यवस्थितो नादः ।। १८ ।।
दन्तयन्त्रसन्दंशात् सन्दष्टः । काकोदुम्बरिकाम(मु)क्तं किन्तु स्व(र)तन्तुवीणाशब्देन च सादृश्यं यस्यास्ति शब्दस्य स काकी तुम्बकी च ।। १९-२० ।।
एते गुणाश्च दोषाश्च तत्त्वतः 1कथितो(ता) मया ।
अत ऊर्ध्वं प्रवक्ष्यामि ह्यवनद्धविधिं पुनः ।। २२ ।।
गान्धर्वमेतत् कथितं मया तत् (वः)
पूर्वं यदुक्तं प्रपितामहेन2 ।
कुर्याद् य एवं तु नरः प्रयोगे
सम्मानमग्यं लभते स लोके3 ।। २३ ।।*
इति ।
इति गुणदोषविचारो नाम त्रयस्त्रिंशः ।। ३३ ।।
Abh
समप्रहरणादिसव्यसाचिवद् द्वावपि प्रयोगसमौ स्वदेहिनस्तन्त्री विसारणयति ।। २१ ।।
अध्यायार्थस्योपसंहारमन्यस्यासूत्रणं करोति । एते गुणाश्चेति । एतदर्थं गानसिध्द्यर्थं गान्धर्वयुक्तमिति समासं केचिदाहुः । अन्ये तु गान्धर्वमिति सामान्यशब्दो लोक इह चामुत्र चेति शिवम् ।। २२-२३ ।।
इति माहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदवृत्तावभिनवभारत्यां
गुणविवेकाध्यायस् त्रयस्त्रिंशः ।। ३३ ।।