॥ श्रीः ॥
अथ द्वात्रिंशोऽध्यायः ।*
1ध्रुवासंज्ञानि यानि स्युर्नारदप्रमुखैर्द्विजैः ।
2गीताङ्गानि तु(नीह) सर्वाणि विनियुक्तान्यनेकशः ॥ १ ॥
या ऋचः पाणिका गाथाः सप्तरूपाङ्ग एव च3 ।
सप्तरूपप्रमाणं हि4 तद् ध्रुवेत्यभिसंज्ञितम्5 ॥ २ ॥
Abh
॥ द्वात्रिंशोऽध्यायः ॥
प्रावेशिक्यपवर्गसन्ततिमहाभागेषु या क्षेपिका
चित्रात् संसृतिरङ्गमण्डलतलादस्माच्च नैष्क्रामिकी ।
सम्भोगान्तरसंप्रसादसुभगश्रीशुद्धविद्यात्मिका
च्छन्दःसारमयी ध्रुवा विजयतां स्वर्धात्मिका सा तनुः ॥
उक्तं तावदनन्तराध्याये (भ. ना. अ. ३१) ध्रुवाणां लक्षणं वक्ष्यामीति । तत्र ध्रुवाशद्बार्थं व्याचिकीर्षुर्युगलकमाह । ध्रुवासंज्ञानि यानि स्युरिति । पूर्वं नारदाद्याश्च गन्धर्वा गानयोग इति (भ. ना. १.५१) । तदयं सम्बन्धः । नारदाद्यैर्यानि गीताङ्गानि वर्णाङ्गानि सप्तरूपाङ्गमात्रा मुखप्रतिमुखानि सप्तरूपप्रमाणं त्र्यश्रचतुरश्रादि याश्चर्च ऋग्गाथा(:)पाणिका इह नियुक्तानि तदेवं ध्रुवेति संज्ञितम् । नान्यत् किञ्चिदिति नपुंसकेन गीताङ्गसप्तरूपप्रमाणानां सम्बन्धः । या इत्य(ने)न ऋग्गाथापाणिकानाम् । इहेति नाट्ये । अनेकश इति व्यस्तसमस्तादिप्रकारवैचित्र्येण विशेषोपरञ्जनाय नियुक्तानि । तद् ध्रुवेति संज्ञितम् । कथं सर्वाणि सन्ति । सर्वशब्दः प्रकृतः कार्त्स्न्येन यावन्ति यत्र रञ्जनातिशयान्नियुक्तानि तावन्ति तत्र समुदितान्येका ध्रुवा ।
ननु कस्मादेतत्समुदायो ध्रुवा । आह ध्रुवासंज्ञानीति । स्त्री(न)पुंसकैकशेषः । तदयमर्थः । गीताङ्गसप्तरूपाङ्गसप्तरूपप्रमाणस्य ध्रुवेति संज्ञा । ऋग्गाथापाणिकानां च ध्रुवा हि मूलप्रकृतिरुच्यते । एतावच्च
Notes
- All corrections/emendations in the gāthās (pp. 309 onwards) in this Chapter follow the suggestions by Dr. V.M. Kulkarni. All foot-notes also follow VMK.
एभ्यस्त्वङ्गान्यथोद्धृत्य1 नानाच्छन्दःकृतानि तु2 ।
3ध्रुवात्वं यानि गच्छन्ति तानि वक्ष्याम्यहं पुनः4 ॥ ३ ॥
Abh
गीतानुपदे सौष्ठवादौ जगद्वर्तिनि गेयमार्गे मूलप्रकृतिः तेन कारणेन गतेन ध्रुवेति व्यपदेशेन कार्यरूपं समुदायेऽपि भवितव्यम् । या ऋग्गाथा यानि गीताङ्गानीति । (ए)वेति भेदोपक्रम उपजीव्यांशस्य विनियोगभेदं ज्ञापयति । तं च यथावसरं दर्शयिष्यामः । अन्ये तु गीताङ्गानि यानि ध्रुवासंज्ञानि नियुक्तानि च तानि ध्रुवासंज्ञानीति तच्छद्बाध्याहारेण श्लोकं प्रथमं योजयित्वा या ऋच इति द्वितीयं पृथगेव योजयन्ति ।
ननु कारणे मूलप्रकृतित्वादुन्मीलिताद्यष्टके तावदस्ति ध्रुवाव्यपदेशम्(शः)। यथोक्तम् ।
उन्मीलिता मा(मृ)ता चैव विश(शा)लाविरले तथा ।
उत्सृष्टा विश्रुता चापि विप्रकीर्णा तथोद्गता ॥
एता ह्यष्टौ ध्रुवास्तत्र वर्णतालेन चित्रवत् ॥
अक्षराणि यथाकु़डयं तद्विद्याद्गुरुलाघवम् ॥
शम्भुं नमाम्यखिललोकपतिम् ।
नमत महेश्वरपदयुगलम् ।
प्रणमाम्यहं शिवं वरदम् ॥
एता (इत्या)दयः ॥ १-२ ॥
मूलप्रकृतौ ध्रुवाव्यपदेश(शो)दृष्टे कार्येऽपि भवतु नाम । कार्यस्य तु स्वरूपं वक्तव्यमित्याह । एभ्यस्त्वङ्गानीति । एभ्य इति सम्परामृश्यते । गीताङ्गेभ्योऽपि प्रथमस्य कस्यचिदंशोद्धारः । स एवेहाङ्गमित्युक्तम् । एतानि गीताङ्गादीनि समुदायरूपाणि या आलम्ब्य यद्व्रित्यन्ते उत्कभाजो भवन्ति । तथा ध्रुवाभवं नानाप्रकारं
Notes
मुखं 1प्रतिमुखं चैव वैहायस (सि)कमेव तु2 ।
स्थितप्रवृत्ते वज्रं च सन्धिः संहरणं तथा ॥ ४ ॥
2प्रस्ता(स्वा)रो माषघातः स्यादुपवर्तनमेव च ।
3उपाघा (पा)तः प्रवेणी च चतुरश्रं सशीर्षकम् ॥ ५ ॥
Abh
रसभावप्रकृत्याद्यौचित्यात् प्रवृत्तं मात्रावृत्तवर्णवृत्तविशेषमाघारमाश्रित्याथैव सङ्घातरूपतां भजन्ते । यानि कार्यरूपाणि ध्रुवात्वं तद्व्यपदेशं गच्छन्ति अथ तानि वक्ष्यामीति वाक्यभेदेन सम्बन्धः । अथेति वाक्यभेदेन सूचकः । उद्धृत्येति । क्रियारूपमिति भिन्नकर्तृताभावः ।
एतदुक्तं भवति । यथाऽभ्यूहात्मनि सङ्घातेन रसनायामङ्गानि पुरुषभद्य(ट)गजादीनि केनचिदुत्कर्षेण स्थितानीति कृत्वा सङ्घातान्तरेण सम्पाद्यमानापूर्वदशावैचित्र्येण कारणकार्यात्मभावोऽभिव्यनक्ति तथा गीताङ्गादीन्यदृष्टप्रधाने गीतकादिरूपसंघातोत्थितानि कुतश्चिद्रसभावकृतान्यौचित्य– समर्पणात्मकरञ्जनायोग्यलक्षणादुत्कर्षादुचितगीयमानवृत्तविशेषाश्रयेण संघातात्मकरूपं प्रतिपन्नकारणत्वं प्रग्द(प्राग् द) शाया अननुभूय कार्यमौत्तरकालिकं भजन्ते कारणशब्दव्यपदेश्यानि च भवन्तीति ॥ ३ ॥
तानि यद्यपि तालाध्याये (भ. ना. अ. ३१)दर्शितानि तथा (ऽपि)विस्मरणशीलायोपलक्षणार्थं पठति । मुखं प्रतिमुखं चैवेत्यादिना । षट्कलाप्रमाणं पूर्वोक्तमिति(न)लिख्यते । न चात्रैतदीयमुपकरोति (तीति) लक्ष्यते । तथाऽष्टकलमानं सङ्गृहीतमिति किं प्रतिमुखादिना । एवं सन्धिप्रस्वारवज्रादौ पौनरुक्त्यं स्यात् । क(स्मिं)श्चिदेवाङ्ग उपजीव्यत्वं वक्ष्यामः । संहरणमन्तम् । चकाराः परिगणनाशङ्कां व्युदस्य नाना गीताङ्गानि वर्णाङ्गादीन्यपि स्वीकुर्वन्ति ।
तदयमर्थः । गीतकानामृग्गाथापाणिकानामङ्गतो यत् किञ्चिदुत्कृष्टमङ्गरूपं लक्ष्यते तत् सामान्यानुगुणैः प्रावेशिक्यादिभिः पञ्चभिः सङ्घातैः स्थापयितव्यम् । स नास्ति सङ्घातो यत्र सप्रा(र्वा)णि तानि व्याप्रियन्ते । रूपरसगन्धस्पर्शा इव…….भावेषु बाहुल्यादल्पवैचित्र्यकृतस्तु विशेषः । तथाहि । प्राधानार्थसूचना मुखात् । तदनु वस्तुसूचनं प्रतिमुखात् । पशुन्या (वस्तुन्य) लङ्कारयोजनं वैहायसात् । यथास्थितप्रस्थितानुबन्ध(:)स्थितानां(त्)। निवृत्तानां सन्धानं प्रवृत्तात् । अर्थापादनं वज्रात्मना (नो) ह्यनुसन्धानं
Notes
1सम्पिष्टमन्ताहरणं माहाजनिकमेव च ।
ध्रुवाणामङ्गसंज्ञानि2 पञ्चानामपि नित्यशः3 ॥ ६ ॥
Abh
सन्धेः । वाक्यार्थसमाप्तिः संहरणात् । वर्णानुत्कर्षः प्रस्वारात् । सम्पिण्डिततात्पर्ययोगो माषघातात् । पुनरावृत्त्या गीतमुपवर्तनात् । पूर्वार्थनिगमनमुपपातात् । एकस्यैवार्थस्य वैचित्र्ययोगो वेणीप्रवेणीभ्याम् । द्वैधीकरणं चतुरश्रकात् । प्रधानार्थविश्रान्तिः शीर्षकात् । छन्दःक्रमायातगुरुलघ्वादिसंपूर्णत्वेन गतिवैचित्र्यं सम्पिष्टकात् । भाव्यर्थान्तरसमाक्षेपोऽन्ताहरणात् । ……मिति पूर्वोक्तं म(मा)हाजनिकात् । एवमन्येभ्यो वाङ्गेभ्यस्तद्रूपमनुसर्तव्यम् । तद्यथा । अङ्गिनोऽङ्गेभ्यो गीयमानमृग्भ्यः पदविच्छेदस्य गीतमध्यविघट्टनम् । तथा चोक्तम् । सामिग्रथितावस्थानेऽवग्रहो भवेत् इति । गाथाभ्यो हृदयाह्लादकवृत्तोपयोगः । यथोक्तम् । नानाच्छन्दःसंस्तुतानि । ह्लादनार्थस्य च्छन्दे च्छ(छन्देश्छ)न्द इति स्मरतः सौकुमार्यादिगुणगणयोगः । पाणिकायास्तालविभागः शम्यादिकमपि हीनसप्तरूपप्रमाणम् । तत्र हि तालोऽन्योन्यैः शम्यादिभिरु– पनीयमानसंसर्गो दृष्ट इति प्रमाणमा(म)त्र एव ध्रुवासु निवेशयति । तदेवं प्रतिध्रुवं गीताङ्गादिभ्य एतदुपजीवितम् । गान्धर्वसंस्कृता नारदाद्या(नारदीयशिक्षा १–२) गानयोगं(ग)चिकीर्षवस्तस्य गान्धर्वप्रकृतित्वेन व्यवस्थापयन्तो भोगोपयोगिनमुक्तपूर्वसंघातं नायमस्माभिः स्वमनीषिकाकृतः किन्तु प्रकृतावपि न दृष्ट इत्यागम– प्रामाण्येनोपोद्बलयन्ना(न्त आ)गमानुरसा(नुसारि) हि दृष्टफलमपि भोजनादि प्राणाः (णायाम) सन्ध्याद्या इत्यागमानुसन्धानेनोपबृंहयन्ति । नैतन्न वाच्यम् । किमिति एते साक्षाद्धर्मार्प(र्थ)साधनोपात्ताः । किमनया……कल्पनयेति । ये त्वेतद्गतं गत्याद्युपजीव्यमित्याहुस्ते किमत्र फलमिति प्रष्टव्याः । भोजनप्राङ्मुखतादिवद् दृष्टफलतायामप्यदृष्टमिति चेत् तत्समस्तानां युगपद्वा विकल्पने वेति सर्वमसमञ्ज– सप्रयासम् । तस्मादुक्तधर्मोपजीवनमेव परमगुरुनिरूपितं युक्तम् । यथोक्तं श्रीमदुत्पलदेवपादैः ।
स्थितात् स्थायित्वसम्पन्नात् प्रस्तुतस्थेमयोजनम्।
ध्रुवासु यद्यदन्येभ्यस्तद्वत् प्रज्ञोप(ज्ञः प्र) कल्पयेत् ॥
इति । भट्टमतेनापि ।
गाथानां पाणिकानां च गानमा (नं म) सृणसम्पदा ॥
इत्यादि ध्रुवाकार्ये कारणवद् धर्मानुगमात् ॥ ४–६ ॥
Notes
एकवस्तु ध्रुवा ज्ञेया द्विवस्तु परिगीतिका ।
त्रिवस्तु मद्रकं ज्ञेयं चतुर्वस्तु चतुष्पदा ॥ ७ ॥
ध्रुवा वर्णास्त्व(ह्य)लङ्कारा यतयः पाणयोः लयाः ।
1ध्रुवमन्योन्यसम्बन्द्धा(न्धा) यस्माद् तस्माद् ध्रुवा(:) स्मृता (:) ॥ ८ ।।
Abh
ध्रुवेति सामान्यव्यपदेशे स्थितेऽपि तालप्रमाणगानगताद् विशेषव्यपदेशेनाह । एकविस्त्विति । यत्रैकेनैव तालेन वर्णाङ्गेन च निर्वहणं तत्र ध्रुवेत्येव संज्ञा । यत्र त्वसमवृत्तपादो (युग्मौज इति नि) यमे द्वाभ्यां तेन परिच्छिन्ना गीतिरत्रेति कृत्वा परिगीतिकेत्यपि संज्ञा । यत्र तु त्रिभिरपूर्वैर्वर्णाङ्गैः स्तुत्याङ्गानां निर्वाहे कृते तुर्यस्य भागस्य तन्मध्यादेव केनचिन्निर्वहणं त्र्यश्ररङ्गोचितपरिक्रमण इव वादिखण्डत्वमेव खण्डनेति ध्रुवासु नियमाभावात् तन्मद्रकगीतकवत् त्र्यङ्गत्वान् मन्द्र(द्र)कम् । विषमवृत्तवत् तुर्येऽपि तालेऽन्यतालवर्णाङ्गयोगे चतुष्पा(प)देत्यपि संज्ञा ।। ७ ।।
अन्ये त्वेकद्वित्रिचतुःखण्डकृता एताः संज्ञा इत्याहुः । गीततालपदान्यत्र । एवं कारणानुगमाद् ध्रुवेति यो व्यपदेशस्तमन्यथाऽपि समर्थयतो
ध्रुवा वर्णा ह्यलङ्कारा यतः पाणयो लयाः ।
ध्रुवमन्योन्यसम्बन्धा यस्मात् तस्माद् ध्रुवाः स्मृताः ।।
इति गीतकादौ…………पातानां स्थाय्यादीनां (द्रुतादीनां) च ब्राह्मणाद्या– (दिष्व)न्योन्यमनुवर्ण्यानुवर्णकभावः कश्चिद् विनियोगमुखेन प्रकृत्या सर्वेषां तत्र भावात् । ध्रुवासु तु रसाद्यनुगुणो यो गीयमानस्य वृत्तस्यार्थस्तत्रानुगुणो यः प्राधान्यात् पातादीनामन्यतमः । तदौचित्येनान्येऽपि प्रवर्तन्ते । यथा रथगत्यौचित्याद् द्रुतरूपे पाते तदनुसारिणो वर्णवर्णाङ्गादयः । करुणरसोचिते वर्णाङ्गे तदनुगुणा गुरुप्लुतादिरूपेण पातादयः । एवं प्रत्येकं वाच्यम् । तत्र ध्रुवा इति पाताद्याः । एतेषां ध्रुवादीनामन्योन्यसम्बन्धेऽव्यभिचारितया ध्रुवरूपे निमित्तं पदम् । आधारत्वाद्यौ(दौ)चित्ययोजनाच्च । न हि निराधारा वर्णादयो (य इति) । दर्शितं चैतत् ।
अन्येऽपि कुड्यचित्त(त्र) दृष्टान्तेन तेन ध्रुवाणामाधारः पदमिति पर्यायात् तद्विद्यते यस्यां वृत्तजातौ सा ध्रुवेति । अत एव लक्ष्ये गीयमानं रूपकमेव ध्रुवेत्याहुः । अक्षरयोजना (च्च)ध्रुवा द्रुताद्या लयाः । तस्या (वर्णा) द्यपेक्षामाश्रित्यान्योसम्बन्धा भवति(न्ति) । ध्रुवं पदं तस्माद्धेतोः प्रावेशिक्यादयो ध्रुवा इति ।। ८ ।।
Notes
ध्रुवास्तु 1पञ्च विज्ञेया नानासंस्थानसंश्रयाः2 ।
एतासां सम्प्रवक्ष्यामि सप्तरूपाङ्गकारणम्3 ।। ९ ।।
उपवृत्तं प्रवृत्तं च प्रावेशिक्यां प्रकीर्त्यते ।4
वज्रं च शीर्षकं चैव शीर्षिकायां विनिर्दिशेत् ।। १० ।।
Abh
तासां विभागा रसाध्याये (भ.ना.अ.६) यद्यपि दर्शितास्तथापि तदवान्तरभेदसम्भवाभिधित्सया तदनुवदति । ध्रुवास्तु पञ्चेति । पञ्चैव प्रावेशिक्यादयस्ता एव……नाना
प्रविशति दयिताविरहजमतिमोहास्थानजगुरुकोपम् ।
जलद्र(द)तटि(डि)त्कृतलक्षणं कुञ्जरनाथो वनम् ।।
इत्यादिकं प्रवेशध्रुवया निमितानुसन्धिः क्रियते । प्रवेशके ह्युन्मतो भविष्यतीति तादृशश्चिरं भवति । ततः प्रविशतीति हि दूरस्थो सामाजिक(का)गोचरः प्रयोगानङ्गत्वात् तदीयं सर्वैव प्रावेशिकी निवृत्तानुसन्धानं प्रवृत्तावुपजीवति तदवकाशदर्शकस्तु ग्रन्थः ।……….द्धि समस्तवस्तुगर्भाधानस्थानीया । (त)च्च वस्तुमात्राख्यशीघ्रता नावश्यमेव युक्तम् । अतिमग्नचित्तवृत्तेरपि सागरिकाया मनोरथकल्पितप्रियतमसमागमाला– पादेवौत्सुक्यप्रवृत्तस्त्वराविषयोऽस्त्येव (रत्नावली) । तथा चित्तद्रुतलयातृ(त् तु) प्रायस्त्र्यंशकं प्रयुञ्जते । चलं हि गुणवृत्तमिति (ब्रह्मसूत्रशाङ्करभाष्यम् । २.२.९ योगभाष्यम् २.१५) नीत्या चित्तव्यभिचारिभावानुसन्धिः स्थायिभावानामित्युक्तमसकृत् । (इ)ति तथाविधचित्रतासूचकः समस्तलय इत्यादिसिद्धये भाव्यं गानेन । तदुपवर्तनानीतमस्थि (स्वस्ति) पूर्वंकैव सर्वा चेति । का गतिरिति दीप्ते विलम्बितादिरेवोचितः प्रयोग इति सर्वा तावत् प्रावेशकी प्रवृत्तोपवर्तनाभ्याम् । अन्ये तु सुखावबोधाय तु विदारिकत्वं वृत्तावित्याहुः । तत्र
शीर्षका चोद्धता चैव अनुबन्धा विलम्बिता ।
अड्डिता चापकृष्टा च षट्प्रकारा ध्रुव स्मृता ।।
(भ.ना.३२.३२७) इति प्रतिध्रुवं षड् भेदा विशेषरूपा रसभावप्रकृतिकथादिभिदा वक्ष्यन्ते । तेन प्रावेशिक्यपि षट्प्रकारा । तस्यां
Notes
प्रस्वारो माषघातश्च माहाजनिकमेव च ।
प्रवेणी ह्युपपातश्च अड्डितायामथापि च ।। ११ ।।
मुखप्रतिमुखोपेता ह्यव(प)कृष्टा विधीयते ।
वैहायसान्ताहरणे स्थितायां सम्प्रकीर्त्यते ।।1 १२ ।।
Abh
सर्वत्र तावत् प्रवृत्तोपवर्ण(र्त)ने उक्ते । अधुना तस्या एव च शीर्षकभेदेऽधिकं कर्तव्यमाह । वज्रं च शीर्षकं चेति । चकारेण प्राक्तनोपजीवनं पृथक्कारेण प्रावेशिक्यामेव शीर्षकभेद इत्याह । तत्र यथाप्रथममन्यत्र पात्रमुपक्रान्तम् । यथा सूत्रधारस्य प्रवेशेच्छादेर्वा प्रवेशने शीर्षकं शिरःस्थानमेव । द्वितीयं तत्र वित(त)तया विभावादिव्याकीर्णनेन सोऽर्थो वर्ण्यमानो दृढीकर्तव्यः सामाजिकानां धियि तदेतदवज्ञाप्रधाने विश्रान्ति (मन्ति)मशीर्षकात् ।
अन्ये तु प्रावेशिकीभेद एव शीर्षकं ध्रुवायामेतदपि तु पञ्चानामपि शीर्षकभेदे विनियोगोऽयमित्याहुरुत्तरत्रापि च ।। १० ।।
अथाड्डिताख्ये ध्रुवाणां भेदे विनियोगमङ्गानामाह । प्रस्वार ३३६२तादि । शृङ्गारप्रधानाड्डिता । तत्र वर्णानुत्कर्षाद्विभावादिसम्पिण्डीकरणमन्यार्थसमर्पणमर्थस्य वैचित्र्योत्प्रेक्षणपूर्वका(कं) चेत्यवश्यकर्तव्या । यद्वक्ष्यति ।
अड्डिता तूत्कटगुणा शृङ्गाररसम्भवा ।
यस्मात् स्थानप्रसन्ना च तस्मादेता(षा)ऽड्डिता स्मृता ।।
(भ.ना.अ.३२ ३३२) इति । तदेतत् प्रस्वारादेरुपद्या (पा)तान्तात् ।। ११ ।।
अथापकृष्टाख्ये भेदमाह । मुखप्रतिमुखोपेतेति । अपकृष्टमाकृष्टं वर्ण(न)म् । मिताक्षराण्येतस्यां प्रधानम् । तदनुगामि सूचनीयम् ।
अथ विलम्बिताभेदमाह । वैहायसान्ताहरण इति । वैहायसान्ताहरणे स्थितायां द्रुतविलम्बितायां शून्यालङ्कारयोगात् विलम्बितत्वादेव सवैहायसकात् । मध्यामानां च सा वक्ष्यते ।
मध्यमानां प्रवेशे तु ज्ञेया द्रुतविलम्बिता ।
(भ.ना.अ.३२.३३७)
Notes
संहारश्चतुरश्रश्च नर्कुटे खञ्जके (नर्कुटे)तथा ।
सन्धिः प्रस्वारसंयुक्ता अ(क्तस्त्व)न्तरायां स्मृता(तस्)तथा ।। १३ ।।1
यान्यङ्गानि कलाश्चैव गीतकान्तर्गतानि तु ।
तानि छन्दोगतैर्वृत्तैर्विभाव्यन्ते ध्रुवास्वथ ।। १४ ।।2
Abh
इति । एषां च प्राधान्यात् प्रधानानुयायित्वमिति भाविक(त)प्रधानार्थस्याक्षेपः । अन्ताहरणात् सैव च द्रुतविलम्बिता । प्रासादिक्या भेदत्वमस्ति तस्यामि ।। १२ ।।
अङ्गविनियोगमाह ।
संहारश्चतुरश्रश्च खञ्जके नर्कुटे तथा ।
इति । हास्यप्रधानत्वात् तस्य मितशरीरत्वाद्वाक्यार्थसमाप्तिः । शृङ्गारानुगमयोगाच्चर्थस्य द्वैधीकरणं ललितभावत्वाद्धास्यशृङ्गारयोग्य इति हि वक्ष्यते (भ.ना.अ.३२.३४०) । तदेतत् संहाराच्च(रश्च)तुरश्राच्च (श्रश्च) । तथेति यथासंख्य उ(मु)पासनाय । उद्धतानुबन्धयोस्तु सामान्यविनियोग एव पूर्वोक्तः । एवं प्रावेशिक्या अतिसामान्यतो विशेषं चेति विनियोग उक्तः । आक्षेपिकाप्रासादिक्यान्तरानैष्क्रामिकीनां चातिसामान्यतो विशेषतश्चेति द्विधा । अन्तरध्रुवायास्तु तृतीयमपि सामान्यविनियोगमाह । सन्धिः प्रस्वारसंयुक्तस्त्वन्तरायामिति । भाविनोऽनुसन्धिर्वर्णानुत्कर्षश्चान्तरध्रुवाभेदेषु सर्वेषु प्राधान्येन योज्यः । यत्र पठिताङ्गविशिष्टतानुविशेषयोजनं रसभावप्रकृतिपरमार्थोद्दीपनमिति टीकाकारैरुक्तं तद्युक्तिमार्गागमातिपातं लक्ष्यते । विरुद्धं च तदुपेक्ष्यमेव ।। १३ ।।
ननु ध्रुवायास्तु(वास्तु)पञ्च विज्ञेया नाना संस्थानसंश्रयाः । (भ.ना.३२.९)इत्यत्र छन्दोवृत्तरूपं संस्थानं यत्सूचितं तत् कुत्रांश उपयुज्यत इत्याशङ्क्याह ।
यान्यङ्गानि कलाश्चैव गीतकान्तर्गतानि तु ।
तानि छन्दोगतै(र्वृत्तै)र्विभाव्यन्ते ध्रुवास्वथ ।।
इति । अङ्गानि विवधादीनि कला गुरुलघुप्लुतद्रुताद्या नी(ना)तिवैचित्र्यात् कृतानीत्यनुसारेण वर्धमानादिगीतकान्तर्गतानि मुखं च (खं) प्रतिमुखं चेति (भ.ना.३२.४.)चकाराल्लययत्यादयः । एवकारो भिन्नक्रमः । तुर्विशेषद्योतकः । तेन कलादयो यावच्छन्दोगीतैरेव वृत्तैर्विरच्यन्ते । निराधाराणां पदेन विना केषाञ्चिद् दर्शयितुमशक्यत्वात् । तद्यथा । मुखप्रतिमुखाद्युपजीवितस्यार्थस्य केचित्तु शक्या अतिरसभाव– प्रकृत्यादिनिरूपकयोग्या न भवन्ति यथा विवधादयः ।
Notes
त्र्यश्रश्च चतुरश्रश्च तालः कार्यो ध्रुवात्मकः ।
षट्कलोऽष्टकलश्चैव यस्तु पूर्वं प्रकीर्तितः1 ।। १५ ।।
2पूर्वेषामेव गीतानां यान्यङ्गानि स्मृतान्यथ ।
तेषां3 वृत्तविधौ कार्यमेककं(को) विवधोऽथवा ।। १६ ।।
Abh
नन्वेवं पदमात्रमस्तु किं वृत्तेनेति तु शब्दवृत्तमपि स्फुटमेव रसभावादिव्यञ्जकमित्युक्तं पूर्वं वाचिकाभिनये (भ.ना. अ.१४.२) । वृत्तग्रहणं च्छन्दसो दण्डकादिगतगुरुलघुनिवेशात्मकवृत्तापा– करणार्थम् । लघुकस्याक्षरसंख्यामात्रस्या…………गायत्र्यादिसदृशस्य व्याकरणार्थम् । मात्रावृत्तेष्वपि च्छन्दस्तदेव मात्रासंख्या । तथाहि गायत्र्यादित एवोद्धृत्य च्छन्दोऽप्यभिप्रेत्य भेदसंकरेण मात्रावृत्तानि दर्शितानि । ध्रुवादिगणावि (ध्रुवास्वि)ति । षण्मात्रा यावत् षड्विंशतिमणीनामादौ कलहललितं चतुर्थाङ्गम् । अन्तरायास्तु हंसास्यादयो दण्डककल्पमात्रावृत्तभेदाः ।। १४ ।।
नन्वङ्गानि तु विविधानीति संज्ञातपूर्वकाणि । कलाः पुनरित्यभिप्रेत्य शम्याद्याशङ्कां परिहर्तुमाह । त्र्यश्रश्चेति । त्र्यश्रचतुरश्रौ यौ ध्रुवात्मकौ च मूलप्रकृतिभूतौ ये(यौ)च पूर्वं तद्विकलभेदौ षट्कलाष्टकलौऽपि कार्यौ तालरूपौ । चकारान् मिश्रभेदौ । चतुष्कलमिति चैतन्यप्रदमिति दर्शितम् । अतिविततचतुष्कलप्रकारोऽपि चकारेण द्वितीयेन सङ्गृहीतः ।। १५ ।।
एवं कलास्वरूपमभिधाय गीताङ्गेषु वक्तव्यमाह । पूर्वेषामेव गीतानामिति । पूर्वेषां सामवेदतुल्यानां मद्रकानां यान्यङ्गानि तेषां मध्यादेकको विवधो वा । अथ शद्बाद् वृत्तं कार्यम् । एकमेव वर्णाङ्गं ध्रुवासु निवेश्यम् । न तु काव्येष्विव । आवृत्या विंशत्यङ्गपरत्वादिति तावदेको विशेषः । विशेषान्तरमप्याह । वृत्तविधाविति । गीतकेषु तालोचितवर्णाङ्गानुसारेण मात्रानियमात्मकं वृत्तम् । यथोक्तम् ।
अक्षरैर्या चतुर्मात्रा द्विमात्रा वर्णतस्तु सा ।
(भ.ना.अ.३१.११८) इति । चत्वारस्तु गुणा (भ.ना.अ.३१.१०६) इत्यादि च । इह तु विपर्ययः । रसभावोचितं वृत्तमेव प्रधानम् । तथा तु गुणेन शय्या बन्धः स्थितो वर्णाङ्गतातो नियो(ज्य)इति । केचिद् वृत्तिविधौ कार्यमिति पठन्तो वृत्तौ वृत्तं वर्णाङ्गशब्दतालिकादिकमाहुः ।। १६ ।।
Notes
एककं तु विदार्येका ते चोभे विवधः स्मृतः ।
षट्परं त्र्यवरं वाऽपि विदार्या वृत्तमिष्यते ।
पदवर्णसमाप्तिस्तु विदारीत्यभिसंज्ञिता ।। १७ ।।
एतेषां चापि वक्ष्यामि विधिं प्रकृतिसम्भवम् ।
1ज्येष्ठानां वृत्तसंयुक्तं कुर्यादादौ तथैव च ।
विवधं चैव मध्यानां नीचानामेककं तथा ।। १८ ।।
Abh
विदा(री)****तियोग(:) कृत एककादिभिरिति सा वक्तव्या । नन्वतिक्रान्तेऽध्याये (भ.ना.अ. ३१)ऽङ्गलक्षणएवा(णा)वसर एव विदारीलक्षणं कस्मान् नोक्तम् । उच्यते । वेदे विच्छेदसम्भवात् । विदारी निवेश्यमाना शोभातिशयं पुष्णातीत्याशयेन ध्रुवाध्यायेन (भ.ना.अ.३२) तल्लक्षणमाह । पदवर्णसमाप्तिस्तु विदारीति । अवान्तरवाक्यस्य समाप्तौ स्थाय्यादिवर्णस्याप्यपन्यासेन न्यासेन वा समाप्तिर्विदारी । विदारण विदारी । विभाषाख्येन बहुना वृत्त्या कृदिकारान्तान् ङीषि (अष्टाध्यायी ४.१.४५) च रूपम् । तदाह । अभिसंज्ञिता अन्वर्थेति । तद्योगाच्च गीतखण्डो विदारी ।। १७ ।।
एवं प्रसङ्गाद्विदारीं लक्षयित्वाऽङ्गानां प्रवृत्तिभागेन विनियोगमाह । एतेषामिति । विधिर्विभागः । प्रकृतिषु सम्भवोऽस्येति । तत्र वृत्तं बहुवैदारिकम् । ज्येष्ठेषु तेषां हि प्राधान्यात् तदवान्तरार्थविश्रान्तिः सम्भवति । यत्र विश्रमोऽलङ्कारयोगः । विचित्रव्यभिचारिकत्वात् स्थायिता(नः) । यथा ।……रो अनुसरइ गुरु अइ च्छिज्ज हण्णेण किणीवणे विणज्झि दइत्ट्टिम । [अनुसरति गुरुमपि शिष्यो दण्डेन केलिवने विनक्ति दृष्टिम् ।] (अत्र) वृत्तं च नियम्यते न तु ज्येष्ठाः । तेषु विवधैककयोरपि सम्भवात् । एकद्विखण्डादाविह तालस्य लक्ष्यते । अधमस्य त्वन्यत्र गुणीभावाद् बहुचेष्टाभाव इत्येकैव विदारी । यथा विदूषकस्य । यथा । महुअर इह सिरिअ [मधुकर इह श्रित्वा] इति । मध्यमस्य तु मध्यमादेकको विवधः सम्भवी । अत्र चोभयतोऽपि न नियमः । अत्र टीकाकारेणाक्षिप्तम् । वज्रं च शीर्षकं चेति (**भ.ना.**अ.३२.१०) विनियोगः प्रागुक्तः । तत्र वज्रादिषु वर्णान्तराङ्गानां तालाध्याये (भ.ना.अ.३१) बहुना बहुशाखिः(खी)पूर्वापरविरोध इति ।
Notes
त्र्यश्रं वा चतुरश्रं वा योगं1 ज्ञात्वा प्रयोगजम्2 ।
तेन प्रमाणयोगेन ध्रुवा कार्याऽवसानिकी3 ।। १९ ।।
4गायत्र्याश्चा (त्र्यां चा) पि शक्कर्याश्चा(र्यां चा)न्तरे वा व्यवस्थिता ।
तेन 5पादप्रमाणेन ध्रुवा कार्याऽवसानिकी ।। २० ।।
Abh
तदेतदस्मदागमव्याख्यायां निरुत्थान(रूपित) मेव । अन्यदेव हि वज्रादिभ्य उपजीव्यमिति दर्शितम् । तेनाऽपि न परिहारमुत्प्रेक्षमाणेन प्रज्ञातयेयमेव दिक् सृष्टा । सदागमाभावात्तु न स्पष्टीकर्तुं पार्यते हि । तथाहि तेनो– क्तम् । प्रकृतिविकारभावमात्रमेतत् । अन्यथा गीतकाङ्गमेवेदं गीयत इति भवेत् । लयभङ्गोत्थानबीजगतं चेदमेवेति ।। १८ ।।
अथ रसप्रसादनोपयोगकृतात् प्र(प्रा)धान्याद्वा प्रासादिकीं ध्रुवां विचारयति । त्र्यंश्रं(त्र्यश्रं)वेति । युज्यते योगो वाक्यम् । प्रयोग उक्तो वक्ष्यमाणो विनियोगस्तज्जम् । त्र्यश्रं चतुरश्रं वा पाठ्यं ज्ञात्वा तत्पदप्रमाणे च प्रासादिकी कर्तव्या । एतदुक्तं भवति । इह त्र्यश्रं चतुरश्रं वा भागेन तावच्छन्दोवृत्तविनियोगो वक्ष्यते । तदनुसारेणैव तत्सदृशवृत्तौ प्रासादिक्यां पाठ्यान्तरभाविन्यां कुर्यात् । एकं हि ध्रुवापाठ्यं योग्य(ग्या)– ङ्गमौचित्येन । अवसायोऽवसानं निश्चय रसः । तत्प्रयोजनमित्यास्या(मस्येत्या)वसान(नि)की ।
अपरे तु न वृत्तमनेन प्रासादिक्यामुच्यते तस्य वक्ष्यमाणत्वात् । अपि तु पद्योचितस्तालरूपश्च विनियोक्ष्यमाणत्वात् । अपि तु या त्र्यश्रा चतुरश्रा । उचितवृत्तापाठ्यानां तु चतुरश्रताल इत्याहुः । इदमेव युक्तमित्युपाध्यायाः । अन्ये तु त्र्यश्रं चेति प्रावेशिकी कार्या । अल्पीयोऽक्षरे च्छन्दसि न विभावानुभावाभ्यां स्फुटनिरूपणा ।। १९ ।।
अथास्य शब्दाङ्गस्याह । गायत्र्यां चाति(पि)शक्वर्यामिति । अन्तरग्रहणात् तयोरुपलक्षणमात्रत्वं न कार्ययोगात् । मैत्रचैत्रयोर्द्विजांस्तद्भोजयेति । तेन उष्णिगनुष्टुप्त्रिष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्यति– जगतीशक्वरीच्छन्दःप्रमाणेन वानैककेन द्वाभ्यां त्रिभिश्चतुर्भिरधिकैर्वा प्रासादिकी कार्या । अल्पीयोऽक्षपे च्छन्दसि न विभावा……नि स्फुटरूपणा । अतिवितते च पाणिकात्वमपि तु योग्य(म)पि न चेदुभयं चैतत् प्रसिद्धिविरुद्धमित्येवम्परमेतत् । तासु यत् प्रमाणं तदुपचारात् सामानाधिकरण्येनोक्तं तेनेति ।। २० ।।
Notes
1शक्कर्याश्चाति(र्यां चाभि)कृत्याश्च (त्यां च)येऽन्तरे चावसानिकी ।
तेषां मात्रार्धविहिता2 ध्रुवा पादमया(यी) स्मृता ।। २१ ।।
3यतिच्छन्दोविधानेन गुरुलघ्वक्षरान्वितः ।
कार्यो मात्राप्रमाणेन ध्रुवापादोऽवसानिकः ।। २२ ।।
मध्यमोत्तमयोः कार्या चतुरश्रावसानिकी ।
मध्याधमानां कर्तव्या त्र्यश्रा चैवावसानिकी ।। २३ ।।
Abh
एवं वर्णवृत्तैः प्रसादिक्यां तालव्यक्तिमभिधाय मात्रावृत्रैरप्याह । शक्वर्यांचाभिकृत्यां चेति । चतुर्दशाक्षरा शक्वरी । एकविंशत्यक्षराऽभिकृतिः । यदन्तरालं यानि मात्रावृत्तानि तत्पादयोगेन प्रासादिकी कार्या । मात्राभूयस्त्वेऽपि ह्यक्षराणि गुरुप्रवेशान्न भूयांसि भवन्ति । मात्रेति मात्रावृत्तादि । तदयं समन्वयः । शक्वर्यभिकृत्ययोरन्तरे मात्रा विहितेति मात्रावृत्तान्युक्तानि । तेषां ये पादास्तन्मयी अवसानिकी ध्रुवा स्मृतेति । ये इत्युपरितनशब्दोपक्रमः । तेषामित्युपचारविषयो यथा समभारो या च ऋतकामाय यो मोदो(दः) तस्मादागत(म)वत् ।
अन्ये तु श्लोकद्वयेऽपि चकारादुपलक्षणमपि संगृह्णते । छन्दोविनियोगमात्रमत्र । न तु श्रव्यतो– पयोगिता । गुरुलघुयतिनियमे नात्र किञ्चित् कृत्यम् ।। २१ ।।
गीतवशादेव यत्याद्यवच्छेदाच्छ्रव्यत्वसिद्धिरिति यो मयोक्त (भ.ना.१४.१) इत्यत्र तं प्रत्याह । यतिच्छन्दोविधानेनेति । छन्दो विधीयते येन प्रयोजनेन तच्छन्दोविधानं श्रव्यत्वम् । तेन ध्रुवापादो यत्या विरामेणोचितेन शुद्धतया चोपलक्षितः कर्तव्यो वर्ण्यत्वे च नियमो गुरुलघुभिरन्वितः कर्तव्यो मात्रावृत्तत्वे यादृशमेव प्रमाणमागमोदितं रूपं यथा वैतालिकी यतिरन्तराणां वा समपादो………दत्तेन युक्तः कार्यः । एवं चावसानिको रसवृत्तिनिश्चयकृद्भवति । यथा गीतियोगेऽप्यवसानिको निश्चययुक्तः कार्यो न वृत्तं यत्यादिसमाच्छादकं कार्यम् । अपि तु तदनुवर्ण्यैव कार्यमिति पूर्वपक्षिकसम्मतं हेतुद्वयमप्यहेतुकृतम् । अवसानिक इति मत्वर्थीयः षच्(यष्ठन्) (अष्टाध्यायी५.२.११५) ।। २२ ।।
एवं पाठ्ययोजनया प्रासादिक्यास्त्र्यश्रादितालविभागं निरूप्य प्रकृतिभागेनाप्याह । मध्यमोत्तमयोः कार्या चतुरश्रेति । गीतकेऽप्यवसानिको निश्चययुक्तः कार्यः ।
Notes
अथ 1पूर्णपदी या तु तस्या वृत्तं प्रवेशजम् ।
तत्रेष्टवृत्तप्रामाण्याद् ध्रुवा कार्या प्रमाणतः2 ।। २४ ।।
ध्रुवास्तु पञ्च विज्ञेया नानावृत्तसमुद्भवाः3 ।
यथास्थानरसोपेता ह्युत्तमाधममध्यमाः ।। २५ ।।
कनीयसीग्रहा काचित् सन्निपातग्रहाऽपरा ।
तथाऽऽकाशग्रहा काचित् त्रिविधा तु ध्रुवा स्मृता ।। २६ ।।
Abh
एवमुत्तमस्य तावच्चतुरश्रतालेन मध्यमस्यापि तदनुगतस्य चतुरश्रैव । अधमस्य तु त्र्यश्रा तद्बाहुल्ये मध्यमत्वे च । एवमेव द्वित्रिचतुरश्रेति…..पादयुक्तानां प्रासादिकीनां वृत्ततालविधिरुक्तः ।। २३ ।।
यासां तु नियमेन पादचतुष्कं तासां विधिमाह । अथ पूर्णपदीति । पूर्णं (र्णः) पादो यो द्वितीयपादस्तावच्चतुर्भाग इति पूर्णत्वमस्य । चतुर्वर्ष(ष्पद)त्वमनेन चतुष्पदी या प्रासादिकी सा प्रावेशिकी वृत्तेनैव कार्या । न तु तत्रैव…..इष्टम् । कविप्रथमस्वीकृतस्य प्रवृत्तस्य प्रामाण्यातृ(त्) प्रमाणीकृतच्छन्दोविशेषाद् ध्रुवा कार्या । न तदेव वृत्तमपि तु तच्छन्दकमिति यावत् । प्रमाणत इति चतुरश्रादिनेत्यर्थः ।
टीकाकार (रा)स्तु परिक्रमणैस्त्रिकोणचतुष्कोणरङ्गापेक्षया त्र्यश्रचतुरश्रतालविभागमाहुः । तदस्मद्गुरुभ्यो न रुचितम् । पादविभागेन बहिरङ्गविभागत्वात् । तत्त्रिकलचतुष्कलविभागेन चाचपुटेऽपि चुल्लवराअय्यज्जाषाज्ज रस्सणीआ (चोलपराजययशोऽद्य रक्षणीयम्) इति पादचतुष्टययोगे मुखचतुष्टयदर्शनात् ।। २४ ।।
एवं प्रासादिकीं विचार्य सर्वध्रुवाविषयं विचारमाह । ध्रुवास्त्विति । या एताः पञ्चापि ध्रुवा यथास्थानरसोपेताः स्थानं प्रवेशादि(दिं) रसं अनतिक्रम्योपेता उचिता(क्ता)स्तथा वक्ष्यमाणा नानावृत्तसमुद्भवास्ता उत्तमाधममध्यमास्तु ज्ञेया यथोत्तमादिप्रकृतिविषये स्वस्वप्रमुख एव ज्ञेयम् । तथा हि कर्तव्यमिति यावत् ।। २५ ।।
तत्रोत्तमविषयं कनीयस्या ग्रहणेन सूच्यते । कनीयस्याश्चाद्यपरिक्षेपप्रवेशात् । अन्यतमदर्शनेनोत्तमविषये यं ध्रुवेति दर्शयेत् कुशीलवानां तदुचितपुष्करवाद्यादिसंविधानावधानसम्पत्तिरित्थं कार्या । मध्यमध्रुवा तु हस्तद्वयसन्निपातेन ग्रहणकालप्रथमभाविना सूच्या ।
Notes
प्रावेशिकी तु प्रथमा द्वितीयाऽऽक्षेपिकी स्मृता ।
प्रासादिकी तृतीया च चतुर्थी 1चान्तरा ध्रुवा ।
निष्क्रामिकी च विज्ञेया पञ्चमी वृत्तकर्मणि2 ।
3आसामेव प्रवक्ष्यामि छन्दोवृत्तसमन्वितम् ।
गान्धर्वं यन् मया प्रोक्तं4 स्वरतालपदात्मकम् ।
5पदं तस्यं भवेद् वस्तु स्वरतालानुभावकम्6 ।। २७ ।।*7
Abh
एतदुभयाभावेन शून्ये च ग्रहणमात्रेणाधमा ध्रुवा । अङ्गुल्यूर्ध्वतया गुणप्रकाशनमुत्तमेषु सन्निपातो मध्यमेषु शून्यत्वं गुणशून्यादधमेष्विति केचिद् यथासंख्योल्लङ्घनेन व्याचक्षते । अन्ये तु कनीयसी प्रहारपातेनोत्तमध्रुवासु भाण्डग्रहः समहस्तप्रहारपातेन मध्यमध्रुवासु शून्यवर्तनामात्रोपक्रमेणाधमध्रुवास्वित्याहुः ।
उपाध्यायास्तु मन्यन्ते । कनीशब्देनाद्य एव पादभागः । तेनोत्तमध्रुवायां गानसमकालं पुष्करवाद्यमित्यर्थः । तेन ध्रुवातुल्यवृत्तत्वं भाण्डवाद्यवृत्तमुत्तमे येन गानं स्फुटमिति यावत् । सन्निपातः प्रथम– पादान्ता कला । ततः प्रथमध्रुवासु भाण्डम् । मध्यमेष्वादावेव भाण्डग्रह इति ।। २६ ।।
ननु गान्धर्वमुखेन भागवद्गानमिह लक्षयितुमारब्धम् । गान्धर्वेऽपि तथैव च स्वरविधिरध्यायत्रयेण (अ. २८. २९.३०) दर्शितः । तालविधिरध्यायेन (अ. ३२) च । तत्रैव पदविधिरिति (रपि) दर्शितः । कुलकच्छेद्यादि नाप्रमाणमिति किमपि कथितम् । द्विगुणाक्षरसंयोगात् (भ. ना. ३१. ८४) कार्यस्त्वक्षरजो विधिः (भ. ना. ३१. १५७) इति । तदभिनयाध्याये (भ. ना. अ. ८.९) ध्रुवाणां प्रवेशादिभेदो रा(र)साद्यौचित्यमात्रं च निरूपणीयम् । किमन्ये(ने)न विततेन च्छन्दोवृत्तिविचारेण । अथोच्यते पदमिह प्रधानं तद्गान्धर्वेऽपि तथैवेतदित्याशङ्क्याह । गान्धर्वं यन् मया प्रोक्तामिति । गान्धर्वं यत् कारकादिवत् प्रोक्तम् । अदृष्टप्राधान्यात्तस्य चापूर्वप्राधान्यं न भवेत् । अभ्युपगतमेतत् । किन्त्वन्यथा तस्य गाने प्राधान्यमन्यथा च गान्धर्वे । तत्र हि स्वरतालौ प्रधानम् । तौ चानाधारौ न शक्यौ प्रयोक्तुमित्याधारतया यदुपयोगि तदाह । स्वरतालानुभावकमिति ।। २७ ।।
Notes
1aयत् स्यादक्षरसम्बद्धं तत् सर्वं पदसंज्ञितम् ।
निबद्धं चानिबद्धं च येन तेन द्विधा स्मृतम्1।। २८ ।।
अतालं च सतालं च द्विप्रकारं तदुच्यते ।
सतालं च ध्रुवाऽर्थेषु निबद्धं 2aसर्वसाधकम् ।। २९ ।।
2यत्तु वाक्करणोपेतं सर्वातोद्यानुरञ्जकम् ।2b
3अतालेन3a निबद्धं च पदतालं प्रकीर्तितम्4 ।। ३० ।।
Abh
नन्वर्थावगतिरत्र प्रधानं गान इव । अतश्चैतत् । अक्षराणि गान्धर्वे पदानीति यावत् । यत् स्यादक्षरसम्बद्धमिति । निबद्धमिति । झुंटुं दिग्लेत्यादि (भ. ना. २९. ९६) । एवं हि प्राक्तना (प्राक् ता)न्यक्षराणि वक्ष्ये यानि पुरा ब्रह्मगीतानि (भ.ना. अ. ३१.१०४) इति । अनिबद्धं देवं शर्वमिति (भ. ना. ३२. ४८) कविभिर्न(रा)देयत्वात् । निबद्धं पद्यमनिबद्धं गद्यमिति तु युक्तम् ।। २८ ।।
अतालमिति । अप्रतिष्ठं च । द्वयमन्योन्यसंगतौ । एवं गतं तावद् गान्धर्वे पदप्राधान्यं गाने स्थितं तदित्याह । सतालं च ध्रुवेति । सतालं परस्परसंगतिप्रधानः(म्) । अर्थेषु च रसोचितेषु निबद्धं यदीदृक् पदं तद् ध्रुवा । अतो नादृष्टार्थं ध्रुवापदं गान्धर्वपदवत् । अत्र हि सम्भवत्पदे च स्त्रोतार्थापेक्षा । नागमापेक्षि देवतापरितोषकृत् । स्तुतिसम्भवमात्रादेव तत्सिद्धेः । गाने तु तदवगमं प्रधानं सामाजिकं प्रति । तदाह । सर्वसाधकमिति ।। २९ ।।
ननु नाट्येषु स्वरालाप्रभृतिगानमनक्षरमेव दृष्टमित्याशङ्क्याह । यत्तु वाक्करणोपेतमिति । वाक्करणं वाक्क्रियामात्रस्वरालापे हुंकार इति तदुक्तं यद्गानं तदतालप्रतिष्ठं यावद्गति यावच्छक्ति च प्रयुज्यमानत्वादनिबद्धं च । स्वरयोजनेऽपि गान इव रसापेक्षकवर्णालङ्कारादिनियमाभावेन यथाकविस्वातन्त्र्यं तदेवंविधमतालं त्र्यश्रमात्रादिरूपविहीनं ध्रुवागानात्मकमेतच्च भवतीति यावत् । ननु किं तथाविधस्य प्रयोगेनेत्याह । सर्वातोद्येति । सर्वातोद्यानां ततसुषिरादीनामनुरञ्जकं स्वाद्यांशस्य भाविध्रुवारञ्जनोपयोगिनस्तद्वीणा– वंशादिवशात् पूरकमिति यावत् ।। ३० ।।
Notes
1a.N: यत् किञ्चिदक्षरकृतं
1नियताक्षरसम्बद्धं छन्दोयतिसमन्वितम् ।
निबद्धं तु पदं ज्ञेयं सतालपतनाक्षरम्2 ।। ३१ ।।
3aअनिबद्धाक्षराणि स्युर्यान्य(नि) जातिकृतानि तु3 ।
आतोद्यकरणैस्तेषां विधानमभिनिर्मितम् ।। ३२ ।।
अपदान्यनिबद्धानि तालेन रहितानि तु ।
4आतोद्येषु नियुक्तानि तानि तानि तु रञ्जयेत्4a ।। ३३ ।।
Abh
ध्रुवाक(ङ्क)मेवंविधगानमिति दर्शयति । नियताक्षरसम्बद्धमिति । नियतानि प्रकृतरसाद्यौचित्याय त(द्)गुणालङ्कारसंघटनादिनि यान्यक्षराणि तैर्युक्तम् । च्छन्दसाक्षरपरिणामे यत्या विरामणे युक्तम् । सह तालेन यत्राक्षराणि सह पतनेनावगमनवत् ।। ३१ ।।
ननु लक्ष्ये वाद्ययोगेऽपि तालप्रधानमिति विगीतं ताल(ला)कारादिनार्थशून्यं दृष्टं तस्य कर्ह्युपयोग इत्याशङ्क्याह । अनिबद्धाक्षराणि स्युरिति । अनिबद्धान्यर्थशून्यानि यान्यक्षराणि जात्या छन्दोरूपया विहितानि तेषां यद्विधानं तदातोद्यगतैः पुष्करवीणादिगतैः करणैः क्रियाऽभिनिर्मितं सम्यग् निर्णीतम् । एतदुक्तं भवति । उद्धतपरिक्रमणादौ भाण्डवाद्यमात्रे प्रधाने तन्मात्रोपदर्शनमात्रम् । तेन तच्चापि ध्रुवारूपं न भवतीति यावत् ।। ३२ ।।
एवंभूतेषु च गायनसावधानत्वं यत्नेन विधेयमिति दर्शयति । अपदानीति । एवंभूतानि यान्यक्षराणि रञ्जयेद् यत्नेन रक्तियुक्तानि सम्पादयेत् । कथमित्याह । आतोद्येष्विति । वीणावंशस्वरादिमिश्रीकरणेन नियोजनेनेत्यर्थः ।
नन्वयमेव तत्र रञ्जनाप्रकार इति कुत इत्याह । अपदानीति । किं…….पदम् । अनिबद्धान्यर्थशून्यानीत्यर्थः । अत एव विद्यमानेऽपि ताले तत्कार्यकरणतच्छून्यानि विना ह्यर्थेन तालोऽपि परिक्रमणादिरूपत्वादकिञ्चित्कर इति यावत् ।
अन्ये तु ततसुषिरगतानां स्वराणां वैचित्र्यं यथा क्रियेत तदनेनोच्यत इति व्याचक्षते । तते सुषिरे च विपदवृत्तानुहीनानि यानि स्वरमात्राणां करणमात्रजनितानि रञ्जयेत् । आश्रित्येत्यध्याहारः । तानि
Notes
यानि चैवं निबद्धानि छन्दोवृत्तविधानतः ।
ध्रुवारूपाणि1 पूर्वाणि2 तानि वक्ष्यामि तत्त्वतः3 ।। ३४ ।।
अत्युक्तं च प्रतिष्ठं च मध्यं गायत्रमेव च ।
एताः स्थिताव(प)कृष्टास्तु(सु)त्र्यस्रा ज्ञेयास्तु जातयः ।। ३५ ।।3a
उष्णिगनुष्टुब्बृहतीपङ्क्तिश्चेतीह जातयः ।3b
एताः प्रासादिकीनां ति त्र्यश्रा ज्ञेया यथाक्रमम् ।। ३६ ।।3c
अनुष्टुब्बृहती चैव जगत्यथ विलम्बिता ।
ध्रु(द्रु)ता च चपला चैवमुद्गता 4कृतिरेव च ।
ध्रुवाणां जातयो ह्येताः प्रयोगेषु प्रकीर्तिताः ।।३७ ।।
Abh
तालपदवृत्तवन्त्यक्षराण्याश्रित्य तन्मेलनीयतां तदनुहारेणेति । अत एव गान्धर्वाद्विलक्षणमत्र पदप्रधानमिति स्थितम् ।। ३३ ।।
ततः प्रकृति…….यानि चैवमिति । वैचित्र्यमिति । पदानीति प्रकरणाद्विशेष्यम् । प्राधान्येन चारब्धानि ध्रुवारूपाणीति सामानाधिकरण्यम् । छन्दोवृत्तिविधानाद्धेतोर्यतो वक्ष्यति तत एव पू्र्वाणि प्रधानानि । अवृत्तपदमात्रापेक्षया तानि रसाद्युपयोगीनीति विशेषत उक्तमसकृत् । अन्ये तु पूर्वाणीति पदं ध्रुवायाः शुष्काक्षराणीति तावन्त्येव पश्चात् कर्तव्यस्यार्थस्य संग्रहार्थमित्याहुः ।। ३४ ।।
एकैकाक्षरैर्नार्थपुष्टिरिति द्विरादि(रक्षरैरि)ति । अत्युक्तादि गायत्र्यन्तं विलम्बिताह्य(स्व)पकृष्टासु च त्र्यश्रभेदः । उष्णिगाद्याश्चत्वारि (तस्रः)प्रासादिक्यां निरूपयति । अत्युक्तं चेति । चकारात् सुप्रतिष्ठा । स्थितासु विलम्बितासु ध्रुवास्वपकृष्टासु छन्दः । जातय इत्युपचारात् सामानाधिकरण्येनोक्ताः । छन्दस्सु जातिशब्दप्रयोगो वक्तव्यः । तदनुयायित्वाद् वृत्तेषु जातिशब्दप्रयोगो ध्रुवाभेदेऽप्यनुगमात् । ध्रुवासु जातिव्यवहारो रसभावकृतभेदस्यान्वयात् । एवमि(म)(त्यु)क्तादि गायत्र्यन्तं विलम्बितास्वपकृष्टासु च त्र्यश्रभेदे । उष्णिगाद्यानि चत्वारि प्रासादिकीषु त्र्यश्रभेदो(दे) ।। ३५-३६ ।।
अनुष्टुब् बृहती जगती प्रावेशिकेषु । तत्रैव विलम्बितादीनि वृत्तानि ।। ३७ ।।
Notes
प्रावेशिकीनां 1जातीनामुद्धतानां निबोधत ।
पङ्क्ति स्त्रिष्टुप् सजगती तथाऽतिजगती पुनः ।
शक्करी चेति निर्दिष्टा उद्धतानां तु जातयः ।। ३८ ।। 1a
सार्वसामेव जातीनां त्रिविधं वृत्तमुच्यते ।2
गुरुप्रायं लघुप्रायं गुरुलघ्वक्षरं3 तथा ।। ३९ ।।
गुरुप्रायाऽव(प)कृष्टा स्याल्लघुप्राया द्रुता तथा ।
गुरुलघ्वक्षरप्रायाः शेषाः कार्या ध्रुवास्तथा ।। ४० ।।
वृत्तान्योजकृतानि स्युर्दुःखे4 यानि भवन्ति हि ।
तानि द्रुतासु5 योज्यानि लघुयुग्मकृतानि तु ।। ४१ ।।
यानि चाल्पाक्षराणि स्युरल्पच्छन्दःकृतानि तु ।
तानि स्थिताव(प)कृष्टासु कार्या 6aह्या(ण्या)क्षेपिकीषु च6 ।। ४२ ।।
Abh
उक्तासु पङ्क्त्यादीनि पञ्च ।। ३८ ।।
जातीनामिति । यावच्छन्दसामिति ।। ३९ ।।
अपकृष्टेति । विलम्बिता(त)लयवती प्रायो गुरुप्राया । शेषे(षा इ)ति । मध्यलयविषया (गुरुलघु)प्रायाः ।। ४० ।।
व्याप्तिं शिक्षयितुमाह । वृत्तान्योजकृतानि । भवन्तीति शत्रन्त(म्)। युतानीत्यन्ये । तत्रार्थे तत्र दुःखे न तत्प्रधाने करणादौ । ओजकृतानि त्र्यश्रभेदविषया (पकृष्टासु)युक्तानि स्युर्वृत्तानि । तानि द्रुतलययोग्यासूद्धतास्वप्यवान्तेरण गुरुस्थाने लघुयुग्मेन योजितानि योज्यानि । तद्यथा । अत्युक्तादीनि त्र्यश्रे स्थितानि स्वरभेदेन यान्युक्तानि तान्येव लघुयुग्मीकृतगुरुरूपाण्युद्धतासु । ईशं वन्दे । देवं शर्वम् । (इत्यत्र लघुयुग्मीकरणे) द्रुतगति गजपतिरिह किल विचरति (इति) ।। ४१ ।।
एतद्विपर्ययेण व्याप्तिमाह । यानि चाल्पाक्षराणीति । ह्रस्वाक्षराणि यानि यानि वृत्तानि तानीति । छन्दोपेक्षयाऽल्पच्छन्दसि तथा स्थाप्यन्ते । युग्मस्य गुरुकरणात्तान्याक्षेपिकीषूद्धतासु द्रुतलयास्वप्युक्तानि । अनया भङ्ग्या स्थितापकृष्टया करणार्हाणि । चोऽप्यर्थे । यथा ।
Notes
गुर्वादिस्तु गुरुः कार्यो लघ्वादिश्च लघुस्तथा ।
ये त्वोजच्छन्दसां युक्ता ज्ञेया ते क्षेपिकी तथा ।
यान्योजयुग्मछन्दांसि ज्ञेयान्याक्षेपिकी तथा ।
लघुयुग्मकृता याऽस्या(:)स्थिता साऽऽक्षेपिकी भवेत् ।। ४३ ।।
[गुर्वादिषु गुरुः कार्यो लघ्वादिषु लघुस्तथा ।
ये त्वोजच्छन्दसां युक्ता ज्ञेया ते क्षेपिकी तथा ] ।। ४४ ।।
Abh
पवणनछन्दोघत्तो भवणिवदे उपक्कम सोवुत्त ।
[प्रवननछन्दौघात्तो भवानीपतेरुपक्रमः संवृत्तः]
लघुयुग्मस्य गुरुकरणे ।
सेव्वणअकाअरा रूपाभाग संणेइ (आ) ।
[सेवानयकातरा रूपाभोगा संज्ञेया ।। ४२ ।।]
अथाक्षेपिक्यां कीदृग् वृत्तं प्राधान्येनेत्याह । यान्योजयुग्मछन्दांसीति । वृत्तान्योजयुग्मगतपृथग्लक्षणत्वाद् योगो युग्मानीत्युच्यते । तेनार्थसमानि वृत्तान्याक्षेपिकेषु पूर्ववद् गुरोर्लघुद्वयस्थाने योजनया स्थितायां विलम्बितायाम् । अन्ये त्वोजे(ज इ)ति सप्तमीं पठन्तश्चतुरश्रविषयाणि च्छंदांसि भङ्ग्यन्तरेण त्र्यश्रेऽपि विधेयानीत्येवं वाक्यस्य तात्पर्यमाहुः ।। ४३ ।।
गुर्वादिषु गुरुः कार्यो लघ्वादिषु लघुस्तथा ।
इति । (न) क्वचिदपि लोके दृश्यते । सद्वृत्तलघुगुरुस्थाने यथासंख्यं तालोचितगुरुलघुयोजनं कार्यमिति ।……..कर्तुं लयादितालजातं संगृह्णीतेत्यथ विरहे मअणो अहिअं दहंद्व (हउं) । (विरहे मदनोऽखिलं दग्धुम्) । अनेन लघुद्वयगुर्वात्मना चर्चरीतालः संगृहीतः ।। ४४ ।।
1विषमांशाक्षराणि स्युः पदैरर्थवशानुगाः2 ।
शम्यातालेन ता योज्या 3वर्णेनाकर्षितेन तु ।। ४५ ।।
जातीनां त्वथ सर्वासां छन्दोवृत्तनिदर्शनम् ।3a
स्थानप्रमाणं4संज्ञाभिर्गदतो मे निबोधत ।। ४६ ।।
Abh
एवं सामार्थसमविषमविचारं कृत्वा विषमवृत्तविषयं तमाह । विषमांशाक्षराणि स्युरिति । विषमांशानि मात्रावृत्तानि । अंशो हि चतुर्मात्रादिः । विषमाक्षराणि च वर्णवृत्तानि विषमाणि वैषम्यसंख्ययाऽवान्तरसंख्यायोगेऽपि गुरुलघ्वात्मना वोभयथा वा ।
ननु तत्र प्रतिपादं तालस्य कथं समत्वेन योजनमित्याह । शम्यातालेनेति । अत्र यास्वित्यध्याहारः । यासु विषमाण्यक्षराणि च पादे हेतुभिस्ता ध्रुवासु चञ्चत्पुटादितालेन योज्यात्(:)। आकर्षितेन च वर्णेन । एतदुक्तं भवति । लघुस्थाने वर्णे वाकर्षणीयो गुरुस्थानेन क्रमणीय इत्येवं वा साम्यमापदयेदिति । शम्यादितालग्रहणेन चञ्चत्पुटादितालो लक्ष्यते । केचितु श्रमपरिहारार्थं भोजनप्राङ्मुखतान्यायेनादृष्टसिद्धयर्थं शम्यातालौ ध्रुवातालेष्वावृत्त्या यावत्संभवं योज्यौ । तथा च भट्टवृद्धदत्ताधि (धीन)पाणितल(ल)य- भङ्गलक्षणपुस्तकेषु सर्वत्र शता इति प्रस्तारो दृश्यते ।
ननुं किं तथाविधैः पादैराश्रितैरित्याह । अर्थवशानुगा इति । अर्थो ह्यत्र प्रधानमित्युक्तम् ।
अपरः श्लोकस्यार्थः । अकल्पितेनापि विकारभाजा वर्णेनोपलक्षितम् । यच्च शम्यातालमिति तालविशेषः कश्चित् प्रतिपादमप्यभ्यस्तेन योज्यः । अर्थसमविषमेष्वयं……भवति श्लोकः । तेन च चतुर्लयद्विलयचतुर्भङ्गे यदुपभङ्गादीनां लक्ष्ये दृश्यमानानामिव तद्वीजमिति साम्यापादनाय शम्यातालावत्र नादृष्टार्थमिति यद्यन्ते (मन्यन्ते) तदसत् । अन्यतरेणान्येनापि वा तत्रोक्तेन वा पा(प)द्यान्यतरेण वा ध्रुवकासर्पिण्यादीनामपि साम्पसिद्धेः ।। ४५ ।।
जातीनामिति ध्रुवाणाम् । छन्दोग्रहणं दण्डकादिव्युदासाय । निदर्शनं ग्रन्थं वक्ष्यामिति । तेन ग्रन्थेन कथं छन्दो वृत्तं प्रदशर्यत इत्याह । स्थानेति । स्थानं विनियोगविषयः स उदाहरणाल्लक्ष्यते ।
Notes
गुरुर्गाथांशको 1यत्(यः) स्यात् सर्वपादेषु दृश्यते ।
श्रीरिति ख्यातनामा सा कीर्तिता प्रथमा ध्रुवा ।। ४७ ।।
यथा ।
देवं शर्वमीशं वन्दे ।1a
2मध्यलघुनाथ विद्युत्पादे 3पादे समं विभक्तेन ।
आदिलघुना धृतिः स्याद्गणेन योज्या हि मात्रेण ।। ४९ ।।
यथा ।
शङ्करः शूलधृ(भृ)त् पातु मां लोककृत् ।। ५० ।।
लघुः स्यात् पदादौ त्रिके या धृतिः सा ।। ५१ ।।
यथा ।
उमेशः सुरेन्द्रस्तवायुः करोतु ।। ५२ ।।
4लघुनी गुरु वा कथिता रजनी (त्रियामा) ।। ५३ ।।
यथा ।
विरहे मदनः अधिकं दहति ।। ५४ ।।
एता नृत्ते च गीते च ज्ञेया वै गीतजातयः ।
प्रतिष्ठासुप्रतिष्ठाभ्यां भूयो वक्ष्यामि लक्षणम् ।। ५५ ।।*5
द्वितीयं लघु सर्वत्र चतुर्णां यत्र दृश्यते ।
सा प्रतिष्ठा बुधैर्ज्ञेया सुप्रतिष्ठा द्वयेत तु ।। ५६ ।।
Abh
तदर्थमेवोदाहरणमिति वृद्धाः । यथा सोअदि तारा अस्सु किलिण्णा (शोचति तारा अश्रुक्लिन्ना)। इत्युदा– हरणम् । भूतलं तन्व्याः श्लोकविषये प्रयोग इति गम्यते । प्रमाणं लक्षण(णम्) संज्ञा श्रीरित्यादिका । तेनोदाहरणलक्षणसंज्ञाभिरिति यावत् ।। ४६ ।।
तत्रायं ग्रन्थः स्पष्ट इति विषमस्थाने व्याख्यायते । सुखग्रहणार्थ इति निजेन श्लोकेन हि तासां संग्रहं ब्रूमः । उदाहरणाच्च पादं लिखामः । यतिविषयः श्रव्यत्वद्विनिबोधसिद्धये ।
Notes
प्रतिष्ठा यथा ।
सोसअन्तो अङ्गआइं वादि वादो पुप्फवाही ।। ५७ ।।1a
[शोषयन्व1ङ्गकानि वाति वातः पुष्पवाही ।]
सुप्रतिष्ठा यथा ।
एदिसुए ऊसु3इआ अज्जइं (इ)मं3हंसवहू ।। ५८ ।।
[ईदृशक उत्सुकितार्चति मां हंसवधूः ।]
4लघुनी प्राग् गुरुणी द्वे यदि पादे भ्रमरी (मत्तालिः)5 ।। ५९ ।।2a
यथा ।
वनसण्डे अदिमजो6वणहत्थी परिखिण्णो ।।६० ।।7
[वनष8ण्डे अतिमत्तो वनहस्ती परिखिन्नः ।]
9प्रथमं च तृतीयं च यस्याः स्याच्चतुरक्षरे ।
पादे लघ्वक्षरे नित्यं सा जये10त्यभिसंज्ञिता ।। ६१ ।।
यथा ।
हिमाहए वणंतरे अअं गओ पविण्णओ (पविट्ढओ ?)11 ।। ६२ ।।
[हिमाहते वनान्तरे अयं गजः प्रविष्टः]
*चतुर्णां यत्र पादानां तृतीयं च भवेल्लघु ।
विज्ञेया सुप्रयोगज्ञैर्विजया नाम नामतः ।। ६३ ।।
Notes
1.Kavi -न्नङ्गकानि. 1 a.N: V. ४५, ४६ read as: सा द्वितीये ह्रस्वमथो यस्य वृद्धिं तद्धि पुष्पानासेवन्ते । अङ्गप्राप्ति वादि वादो पुष्पवाही ।। ४५. N आद्यमिह सान्ततमं यत्तु गुरुः सा ललिता । एइ सरो खिज्जई सा हि सव्वथा ।। ४६–N
विजया1 यथा ।
मारुल्लवो ण2ज्ज(च्च?) 3न्तओ मेहागमे संबद्दओ(संमत्तओ)4 ।। ६४ ।।
[मयूरो5 नृत्यन् 6मेघागमे संमत्तः ।]7
पादे पादे तु स्यात् (स्युः)सर्वैर्दीर्घै (सर्वे दीर्घा)वृत्तेऽस्मिन्
दृष्टा विद्युद्भ्रान्ता8 (विस्मया) ।। ६५ ।।9
10विद्युद्भ्रान्ता यथा–
मेहा11 (एदे)गज्जन्ता लोअं(यं)12छादन्तो(ता)13
तोयं मुचंन्ता संपत्ता मेहा ।। ६६ ।।14
[एते15 गर्जन्तो लोकं छादयन्तस्तोयं मुञ्चन्तः
संप्राप्ता मेघाः]
आद्यपरे द्वे यत्र 16तु ह्रस्वे ना(सा)खलु नाम्ना भूतलतन्वी ।। ६७ ।।
यथा ।
मेहणिरुद्धं पेक्खिअ17 (य)चंदं18 सोअइ(दि)तारा अंसुकिलिण्णा ।। ६८ ।।19
[मेघनिरुद्धं प्रेक्ष्य चन्द्रं शोचति तारा अश्रुक्लिन्ना]
यदि च गुरुः पदनिधने भवति हि सा कमलमुखी (पद्मिनी)।। ६९ ।।20
Notes
यथा ।
पवन(ण)1हदो सलिलघणो भमइ णहे उवकमसो (? अहियमसो)2 ।। ७० ।।
[पवनहतः सलिलघनः3 भ्रमति नभसि अहितसमः4 ।]
प्रथमं च तृतीयं च त्वन्तं चैव यदा गुरु ।
दृश्यते प्रतिपादं तु सा ज्ञेया वागुरा यथा ।। ७१ ।।
मेहणिरु5द्धओ णट्ठजोह्णओ णिच्चणिप्पहो एस चन्दओ ।। ७२ ।।
[मेघरुद्धो नष्टज्योत्स्नो नित्यनिष्प्रभ एष चन्द्रः ।]
द्वितीयं नैधनं चैव यत्र दीर्घाणि सर्वतः ।
सुप्रतिष्ठाकृते पादे शिखा ज्ञेया तु सा यथा ।। ७३ ।।
6शिखा यथा–
वळाहएहिं पगज्जिदेहिं णहं समंता परुण्ण अंव(व्व) (?परुण्णअंव)7
[बलाहकैः प्रगर्जितैर्नभः समन्तात् पूर्णमेव ।]
लघुनी त्वादौ चरणे यस्या गदिता नाम्ना घनपङ्क्तिः सा (ङ्क्तिका) ।। ७५ ।।8
9घनपङ्क्तिर्यथा
तडिसंखुद्वं रवसम्बद्धं जलधाराहिं 10(रुददि व्व ब्भं) ।। ७६ ।।
[11तडित्संक्षुद्धं रवसम्बन्धं जलधाराभी रुदतीवाभ्रम् ।]
Abh
श्रीर्गौ विद्युद्रो यो धृतिः स(सम्) त्रियामा । रगौ प्रतिष्ठा सभगौ मत्तालिः सगौ जया जगौ । विस्मया त(म)गगास्तन्वी भगगा(:)पद्मिनी शन्ल(नल)गाः ।। वन्दे । शङ्करः । उमेशः । मदनो (नः) । वाति (दि) वातो (दो) । हंसवहू । वणहत्थी । पविण्णइ (ओ) । मेहा गज्जानता । सोअदि तारा । भमइ णहे ।। ४७–७० ।।
Notes
एतास्तु जातयो ज्ञेया सुप्रतिष्ठाध्रुवास्वथ ।
अत ऊर्ध्वं प्रवक्ष्यामि गायत्रीपिरकल्पनम् ।। ७७ ।।1
आद्ये पुनरन्त्ये पादे गुरुणी चेत् ।
ज्ञेया तनुमध्या गायत्रसमुत्था ।। ७८ ।।2
3तनुमध्या यथा ।
[वज्जाहअ(द)4कूटो धाऊज्झरसोत्तो एसो रिगिराओ
भूमिंविस (पत) दीव (दिव्य) (? भूमिं विसदिव्व)5 ।। ७९ ।।6
वज्राहतकूटो धातुझरस्रोता एष गिरिराजो भूमिं ।]
आद्यं चतुर्थमन्त्यं च गुरूण्येतानि यस्य तु ।
गायत्र्यधिकृते पादे ज्ञेया सा मालिनी यथा8 ।। ८० ।।9
दीसदि पुण्णओ पुव्वदिसामुहे ।
जोह्णा (ह्ण)समागओ पुण्णिमचन्दओ ।। ८१ ।।10
[दृश्यते पूर्णः पूर्वदिशामुखे ज्योत्स्नासमागतः । पूर्णिमाचन्द्रः ।]
गुरुयुगमन्ते यदि परमस्या इह कथिता सा मकरकशीर्षा ।। ८२ ।।
यथा ।
इह सिसिरंमि(म्मी) 11मदजणणम्भि(म्मी)12 पमदवणंमि(म्मी)13
विलसदि 14(विचरदि) वादो ।। ८३ ।।
[इह शिशिरे मदजनने प्रमदवने विलसति वातः ।]
लघुनी चतुर्थ चरणे तु यस्या ।
भवतीह सा वै विमला तु नाम्ना ।। ८४ ।।
विमला यथा ।15
कमलाअरेसुं भमरालऐसुं 16मदमुव्वहन्तो पविसेइ हत्थी ।। ८५ ।।17
[कमलाकरेषु भ्रमरालयेतु मदमुदवहन् प्रविशति हस्ती ।]
यस्याः स्युश्चकणे त्रीण्यादौ निधनम् ।
दीर्घाणीह तु सा वीची (थिका) नाम ।। ८६ ।।18
वीथिका 19यथा ।
गज्जन्तो (न्ते) जलदा णच्चन्ते सिहिणो णायन्ते भमरा रम्मे पाउसए ।। ८७ ।।
Notes
1.N–च. ध्रुवास्त्वथ,
[गर्जन्तो(न्ति) 1जलदा नृत्यन्ति शिखिनो गायन्ति भ्रमरा रम्ये प्रावृषि (?रम्यायां प्रावृषि ।)2
त्रिलघुरादितो यदि च पञ्चमं2a भवति पादतः प्रकथिता गिरा ।। ८८ ।।
प्रकथिता3 यथा ।
जलदनादअं (णादयं)4 सुणिअ(य)5 कुंजरो णददिकाणणे व(प)6 डिग आउरो (गयाउलो)7 ।। ८९ ।।
[जलदनादं श्रुत्वा कुञ्जरो नदति कानने प्रतिगजातुरः (गजाकुलः)8 ।।]
आद्ये चतुर्थकमन्त्ये(न्ते) तथा गुरु ।
यस्यास्तु पादते ज्ञेया हि सा जला ।। ९० ।।
जला9 यथा ।
एसा हि वाउणा विक्खित्तसु(प)त्तअं(यं)10 ।
दट्ढूण पादवं हंसी परुण्णिआ ।। ९१ ।।
[एषा हि वायुना विक्षिप्तपत्रं11 दृष्ट्वा पादपं हंसी प्ररुदिता ।]
11aत्रीण्यादौ यदि स्युरन्ते द्वे च दीर्घे ।
ज्ञेया सा विधिज्ञै 11bर्नाम्ना वै सुनन्दा ।। ९२ ।।
सुनन्दा12 यथा ।
एदे गज्जमाणा अब्भं छादयन्ता ।
भीमा का(ल)13मेहा उव्वेदं(उव्वेगं)14 जणन्ति (जणेंति)15 ।। ९३ ।।
[एते गर्जन्तोऽभ्रं छादयन्तो भीमाः कालमेघा उद्वेगं जनयन्ति ।]
आद्यं चतुर्थे(र्थं) च त्वन्त्यमुपान्त्यं च ।
यत्र गुरूणि स्युःस(सा) 16ललिता (विद्योतिका) ज्ञेया ।। ९४ ।।
Abh
वागुरा र्लगा जगा(:) शिखा । सगा(:) पङ्क्तिका तयौ च मध्यमे (मा) । भरौ मालिनी न्य (न्यौ) शीर्षिका च । निर्मला स्यौ तु वीथिका मसौ नरौ गिरा ।।
शि(णि)च्चणिव्व(प्प)हो । परुय्या(ण्ण)अव्व । रुददिव्वब्भम् । भूमिं पतदिव्व । पुण्णिमचन्दओ । विलसदि वादो । विहआ णमत्ती । णच्चन्ते सिहिणो । सुणिअ कुंजरो ।। ७१–८९ ।।
Notes
यथा ।
साहसु सव्भावं किं सि पिह(ए) कुद्धा ।
मा चिरसम्बद्धं पेच्छसि सब्भावम् ।। ९५ ।।
[साधय 1सद्भावं किमसि प्रिये क्रुद्धा ।
मा चिरसम्बद्धं प्रेक्षसे सद्भावम् ।।]
लघुनी गुरु च द्विगुणं यदि चेच्चरणे चरणे कथिता नलिनी ।। ९६ ।।
यथा ।
पवणाहतका (हृदया)2 तरुणा तरओ (तरवो)3 कुमुमागमए विअसन्ति (विहसन्ति)4 विअ ।। ९७ ।।
[पवनाहतास्तरुणास्तरवः कुसुमागमे विकसन्तीव (विहसन्तीव) ।5]
त्रीण्यादौ तु यदि चान्त्यं5a चाऽपि गुरु ।
नाम्ना वै कथिता पङ्क्तिः 5bसा तु यथा ।।
पङ्क्तिः6 यथा ।
एषा(एसा)7 हंसवहूविद्धाकाण्णदो(काणणए)8 कान्तं(कन्तं)9 संगहुवा (संगहिआ) 10गन्तुंउत्साहिआ
(उस्सुइया)11 ।
[एषा हंसवधूर्विद्धा काननतः कान्तं संग्रहिता12 गन्तुमुत्सहिता ।]
Notes
स्याद् द्वितीयं ह्रस्वं सर्वमन्त्यं दीर्घम् ।
यत्र पादे पादे नीलतोया(नीला) वै सा ।। ९८ ।।
नीलतोया(नीला)यथा 1यथा ।
मेहवुन्दं वादो विक्खिरन्तो वादि ।
दूसहो आवा(भाट्ट)2दि पादवाणं लासो(वासो?)3 ।। ९९ ।।
[मेघवृन्दं वातो विकिरन् वाति दुःसह आभाति पादपानां लासः ।]
गायत्र्या जातयो ह्येता विज्ञेयाः समवृत्तजाः ।
अत ऊर्ध्वं प्रवक्ष्यामि उष्णिग्जातिविकल्पनम् ।। १०० ।।
गुरु निधनगतं यदि भवति सदा ।
भवति हि चपला द्रुतगतिरपि सा ।। १०१ ।।
यथा ।
सुरुचिरनयणं तव वअणमिदम् ।
रमणि रतिकरं मम मदजणणम् ।। १०२ ।।
[सुरुचिरनयनं तव वदनमिदम् ।4
रमणि रतिकरं मम मदजननम् ।।]
तृतीयं पञ्चमं चैव गुरुर्य(रु य) त्र तु नैधनम् ।
सदा तूष्णिक्कृते पादे तन्वी(तनुः) सा नामतो यथा ।। १०३ ।।5
Notes
तन्वी1 यथा ।
पिअ(य)2 वादिवादओ सुवसन्त काळए(ओ)3 ।
पिअ(य) 4कामु5कओ विअ मदणं जणेंतओ ।। १०४ ।।
[प्रिय वाति वातः6 सुवसन्तकाले (॰कालः?)7
प्रियकामुक इव मदनं जनयन्8 ।]
गुरुणा लघुना चैव समं नीता तु या ध्रुवा ।
छन्दस्युष्णिहि वृत्तज्ञैर्विज्ञेया कामिनी यथा ।। १०५ ।।
कामिनी यथा9–
आद्यमन्तपञ्चमे स्यात् तृतीयमेव च ।
पादतो गुरूणि वै यस्य(स्याः) सा शिखा तु वा ।। १०६ ।।
इत्येके पठन्ति ।
पेक्खिऊण आगअं(यं)10 माहवं च इट्ठओ ।
पादवं वणोळ्ळओ (पणुल्लआ)11 वादि वामवादओ ।। १०७ ।।
[प्रेक्ष्य आगतं माधवं चेष्टः(च इष्टः)12
पादपं प्रणुदन्13 वाति वाम(?दक्षिण)14 अनिलः15]
आद्ये पुनरन्त्ये च यस्या गुरुणी पादे ।
ज्ञेया भ्रमरमाला (षट्पदिका) नाम्ना प्रकथिता सा16 ।। १०८ ।।
Abh
तरौ जला भ्यौ तु सुनन्दिका । भमौ विद्योतिका सौ नलिनी र्म (र्मौ) नीला । द्रुता गतिर्नौ सजौ गुरुस्तनुः । शिखार्जगा(:) षट्पदिका नसौ गुरुः ।। हंसी परुण्णिआ । भीमा काळमेहा । किंसि पिए कुद्धा । कुसुमागमए । विक्खिरन्दी(न्तो)वादो(दी) । रमणि रतिकरम् । पिअवादिवादओ । वादि वामवादओ । रम्मं सरसि तोअम् ।। ९०–१०९ ।।
Notes
भ्रमरमाला1 यथा ।
हंसागमन(ण)2धीरं कासं सुअविचित्रम्(विचित्तम्)3 ।
एवं(एदं)4 सरदि काले रस्मं सरसि तोयम् ।। १०९ ।।
[हंसागमनधीरं काशांशुक5विचित्रम् ।
6एतत् शरदि काले रम्यं सरसि तोयम् ।।]
आद्यचतुर्थगते अन्त्यतमं च गुरु ।
यत्र सदा चरणे सा खलु भोगवती ।। ११० ।।
भोगवती 7 यथा ।
चक्कम(ना)8मवहू का(क)9न्तसहाइणिआ ।
णिम्मलअ(य)म्मि10 जले11 हिंडदि संगदिआ ।। १११ ।।11a
[चक्रसनामवधूः कान्तसहायिनी12
निर्मले13 जले हिण्डती सङ्गतिका (सङ्गता)14 ।।]
आदौ यदि गुरुणी अन्त्यं निधनगतम् ।
ज्ञेया मधुकरिका उष्णिह्यभिकथिता ।। ११२ ।।
मधुकरिका यथा 15 ।
[एसा पिअअ(पिअक)16लदा रम्मा भमरजया(?रम्भाभरण जुदा)17 ।
काले मदजणणे जादा कुसुमवदी ।। ११३ ।।17b
Notes
[एष प्रियकलता रम्याभरणयुता1
काले मदजनने जाता कुसुमवती ।।]
2अन्त्यं च निधनं च गुरूणि स्युः ।
सुभद्रा3 नामतो यथा ।। ११४ ।।
सुभद्रा यथा4 ।
[द्वितीयं च चतुर्थं च अन्त्योपान्त्यं तथैव च ।
पादे यत्र गुरूणि स्युः सुभद्रा(मनोज्ञा) नाम सा यथा ।।]
वणम्मि सुक्खरुक्खे पणट्ठप क्खि5 तोये ।
करेणुया6 विही7णो उवेदि8 मत्तहत्थी ।। ११५ ।।9
[वने शुष्कवृक्षे प्रनष्टपक्षितोये ।
करेणुकाविहीनः उपैति मत्तहस्ती ।।]
यदि तु भवन्त्येवं य(प)दि य(प)दि दीर्घाणि ।
त्रिगुरुरिह प्रोक्ता भवति तु मत्तेयम् ।। ११६ ।।
मत्ता 10 यथा ।
जलभर(हर) 11संभंतो खिदिधरमू लम्मि12 ।।
पिअ(य) 13जुवदीय–सत्तो पविचरिदो हत्थी ।। ११७ ।।
Notes
[जलभरसम्भृतः क्षितिधरमूले ।
प्रिययुवतिसक्तः प्रविचरतो हस्ती ।।]
1यदि हि गुरूण्यन्ते चरणविधौ त्रीणि ।
तत इह विज्ञेया कुसुमवती नामा(म्ना) ।।
[इति पाठान्तरम्।]
2द्वितीयं सतृतीयं तथाद्ये(न्त्ये) इह दीर्घम् ।
यदि त्रयं तु पादे भवेत् सा तु चित्रा(मुदिता) ।। ११८ ।।
[द्वितीये गुरुणी द्वे तथाऽन्ते यदि स्याताम् ।
तदा सा मुदिताख्या ध्रुवेयं प्रविभक्ता ।।]3
मुदिता4 यथा ।
महामेहविदाणं बलाका–कुल–बद्धम् (बलायावलि–बद्धं)5 ।
महाभीमणिणादं पदिण्णं(वलग्ग)6 गगणम्भि ।। ११९ ।।
[महामेघवितानं बलाकाकुलबद्धम् (बलाकावलि बद्धम्)7 ।
महाभीमनिनादं प्रदत्तं(अवलग्नं)8 गगने ।।]
यदि चतुर्थमन्त्यं गुरु तथैव षष्ठम् ।
भवति सा तु नाम्ना निगदिता मनोज्ञा ।।
[चतुर्थं नैधनं चैव षष्ठं चैव गुरूण्यथ ।
यत्र तूष्णिक्कृते पादे नाम्ना साऽभिप्रकाशिनी ।। १२० ।।]
[इति व्याख्यातृपाठः]
Notes
मनोज्ञा1 यथा ।
कुसुमगन्धवाही सलिलरेणुपुण्णो ।
रमणि वादि1a वादो मणसिजं जणन्तो ।। १२१ ।।
[कुसुमगन्धवाही सलिलरेणुचू2र्णः ।
रमणि वाति वातो मनसिजं जनयन् ।।]
द्वितीयं च चतुर्थं च अन्त्योपान्त्ये तथैव च ।
यत्र पादे तु दीर्घाणि उष्णिक् सा तु विलम्बिता ।। १२२ ।।2a
विलम्बिता3 यथा ।
गइंद-तो अ(य)4खोआ(हा)5 पटी(डी)6परत्थहंसा ।
भमन्तचक्कवाआ नदी गआ समुद्दं7 ।। १२३ ।।7a
[गजेन्द्रतोयक्षोभा पटी-परीत-(-व्याप्त)हंसा8 ।
भ्रमच्चक्रवाका नदी गतां समुद्रम् ।।]
प्रथमं यत्र पादे लघुनी पञ्चमं च ।
कथिता सा तु दीप्ता सततं चेद(य)मुष्णिक् ।। १२४ ।।8a
दीप्ता9 यथा ।
पवनो(णो) पुप्फहारी(वाही) अइसीदो समन्ता ।
सिसिरे वादि काले मम सोअं(सोगं ?)10 जणंतो ।। १२५ ।।10a
[पवनः पुष्फवाही11 अतिशीतः समन्तात् ।।
शिशिरे वाति काले सम शोकं जनयन् ।।]
आद्यमथ पञ्चमं दीर्घमथ नैधनम् ।
यत्र यदि नाम चेच्चञ्चलगतिस्तु सा ।। १२६ ।।
12चञ्चलगतिर्यथा ।
मेहमलमुत्थओ(मुक्कओ)13 निम्मलगहाउलो ।
सोहदि णहंगणे णिम्मलकरो ससी ।। १२७ ।।
[मेघमलमुक्तको (= मुक्तो)14 निर्मलग्रहाकुलः ।
शोभते नभोङ्गणे निर्मलकरः शशी ।।]
Notes
एतास्तु जातयो ज्ञेयाः स्थिताः प्रासादिकीष्वथ1 ।
अतः परं प्रवक्ष्यामि त्वनुष्टुब्लक्षणं पृथक् ।। १२८ ।।
लघुनी गुरुलघुनी लघुनी गुरु च यदि ।
चरणे नियतगतौ कथिता विमलजला2 ।। १२९ ।।
3विमलजला यथा ।।
विकचाम्बुजहसिरे भमरावलिमुहले ।
बहुणिम्मलसलिले विहगो सरदि(भमदि)4 सरे ।। १३० ।।
[विकचाम्बुजहसिते भ्रमरावलिमुखरे ।
बहुनिर्मलसलिले विहगो भ्रमति 5भ्राम्यति सरसि ।।]
पञ्चमं नैधनं चैव पादे स्यातां तु यत्र वै ।
नित्यमानुष्टुभे दीर्घे विज्ञेया ललितेति सा5a ।। १३१ ।।
ललिता6 यथा
कुसुमसुअं(गं)7 धिय8ए मणसिज दीवणए ।
प्र(प)9मदवणंगणए विलसदि(विचरदि)10 हंसवहू ।। १३२ ।।
कुसुमसुगन्धिते मनसिजदीपने ।
प्रमदवनाङ्गणे विलसति (विचरति)11 हंसवधूः ।।
Abh
भौ गो भोगवती (मधुकरिका तनगाः) । जरगि मनोज्ञा नरगी मत्ता । मुदिता यसगी प्रकाशी नरगा । जरगा विलम्बा सरिगी दीप्ता । भजगी चञ्चलगतिरमलाम्बु सनलगगणा ।।
चक्कसणामवहू ।। एसा पिअ अलदा । करेणु आ विहूणो । पविचरितो हत्थी । महामेहविदाणम् । रमणि वादि वादो । पडे(टी)परित्थहंसा । पवणो पुप्फवाही । सोहदि न(ण)हंगणे । विहगो भमइ सरे ।। ११०-१३० ।।
Notes
1यदि च खलु 1aषष्ठकाल्लघुगण इहादितः ।
पुनरपि च सप्तमं लघु भवति सा मही ।। १३३ ।।
मही2 यथा ।
बहुकुसुमसोहिए कमलवणसंडए ।
सहअ(य)3रसहाइणी परिसरदि हंसिआ ।। १३४ ।।
[बहुकुसुमशोभिते कमलवनषण्डे(खण्डे)4 ।
सहचरसहायिनी परिसरति हंसिका ।।]
लघुगण इव षट्के यदि भवति मुखे तु ।
चरणगतिविधौ सा मधुरकरसदृशाख्या ।। १३५ ।।
मधुकरसदृशा5 यथा ।
विविधवणविचारी 5aपमदवणसुअंधी ।
कुसुम(कुमुद)6वणविबोधी लसदि (भमदि)7 सरदि वादो ।। १३६ ।।
[विविधवनविचारी प्रमदवनसुगन्धिः ।
कुसुमवनविबोधी 7aभ्रमति8 शरदि वातः ।।]
यदि खलु पञ्चमकं पुनरपि चान्त्यतमम् ।
गुरु चरणे च भवेद् भवति हि सा नलिनी ।। १३७ ।।
बलिनी9 यथा ।
पुलिन(ण)10तलंगणए कमलिल11णिवास(सि) 12णिआ ।
पजब हि (?पिययम) 13 वासगिहं प(वि) 14अरदि सारसिआ ।। १३८ ।।
[पुलिनतलाङ्गणे कमलनिवासिनीः15 ।
प्रियतम16 हि वासगृहं प्रविचरति सारसिका ।।]
Abh
ललिता नजलगि नसलगि धरणी ।।
मधुकरीका नौ गौ नजलगि नलिनी । छनगी(भ्नलगी) च नदी ।। विलसादि हंसवहू । परिसरदि हंसिआ । लसदि सरदि वादो [पअरदि सारसिआ ।] हिण्डदि महुअरिआ ।। १३१-१४० ।।
Notes
1प्राग् यदि निधनगतं स्यादथ गुरुस्त(रु त)तम् ।
यत्र हि चरणविधौ सा खलु भवति नदी ।। १३९ ।।
यथा ।
हंसकुलसंमुदिदे सारसरुदमुहळे ।
मत्तमहुअरगणे हिण्डति महुअरिआ ।। १४० ।।
[हंसकुलसंमुदिते2 सारसरुतमुखरे ।
मत्तमधुकरगणेहिण्डति मधुकरिका ।।]
अनुष्टुब्जातयो ह्येताः प्रावेशिक्यः प्रकीर्तिताः ।
स्त्रीणामुत्तममध्यानामव3कृष्टा निबोधत ।। १४१ ।।
आद्ये चतुर्थमपि चान्त्ये दीर्घाणि यत्र चरणे(तु) ।
प्रावेशिकी तु बृहती सा नाम्ना तथैव रुचिराख्या4 ।। १४२ ।।
यथा ।
राहु (हू) पराअहदसोहं चंदं णहिण्ण समिऊण ।
तारागणे(णो) विहदसोहो तेजस्सुएहि रुददिव्व ।। १४३ ।।5
[राहूपरागहतशोभं चन्द्रं नभसि समीक्ष्य ।
तारागणो विहतशोभस्तेजोऽश्रुभी रुदतीव ।।]
यदि पञ्चमं हि सतृतीयं गुरुणी पदान्तरचिते द्वे ।
प्रमितेति सा भवति नाम्ना 5a ह्यवकृष्टजातिरिह पङ्क्ति ।। १४४ ।।
प्रमिता6 यथा ।
घणगब्भगेहपरिक्खि त्तो अरुणप्पहापिहिदसोहा(सोहो)8 ।
गअ(य)9णंगणेऽपिहिदरस्सि(विहरमाणो)10 ण विभादि जोह्णरहि इन्दू
(? जोहणरहिदेन्दू) 9a ।। १४५ ।।
[11घनगर्भगेहपरिक्षिप्तोऽरुणप्रभापिहितशोभः ।
गगनाङ्गणेऽपिहितरश्मि(विहरमाणो)न 12विभाति ज्योत्स्नारहिते13न्दुः ।।]
यदि खलु षष्ठमथान्त्ये भवतो गुरुणी चरणयोगे ।
स्थितिलयकृता नु जगतीयं भुवि निगदिता विगतशोका ।। १४६ ।।14
Abh
अनुच्छेदा मध्यमोत्तमासु प्रावेशिक्याम् । अथ निकृष्टासु ।। १४१ ।।
Notes
विगतशोका(विशोक)1 यथा ।
जलह(ध)2र विहा (आ ?दा)3ण पिहि अं(दं)गो4रविकिरणजालहृदसोहो ।
4aगहमुहविणिग्गअविवण्णो असु विसदि अत्थगिरिमिन्दू ।। १४७ ।।
[जलधरवितानपिहिताङ्गो रविकिरणजालहतशोभः ।
ग्रहमुखविनिर्गतविवर्ण आशु विशत्यस्तगिरिमिन्दुः]
आद्ये चतुर्थमपि4b चाष्टममक्षरं चैकादशं यदि भवेत्तु गुरु ।
सा त्रैष्टुभे भवति पादविधौ विश्लोकजातिरवकृष्टगता ।। १४८ ।।
विश्लोकः यथा5 ।
मेहत्थिओ रविकराभिहदो तारागणेहि विधुरे 6(रं?)गमिदो ।
अत्थं उवेदि अरुणाभिहदो चन्दो णहम्मि रअणीसहिओ ।। १४९ ।।
[मेघस्थितो रविकराभिहतस्तारागणैर्वेधुर्यंगमितः ।
अस्तमुपैत्यरुणाभिहतश्चन्द्रो नभसि रजनीसहितः ।।]
आद्ये चतुर्थे(र्थं) दशमं नैधनं ह्यष्टमं तथा ।
यत्र दीर्घाणि पादे स्युस्तद्वृत्तं ललितं स्मृतम् ।। १५० ।।6a
वृत्तं ललितं(ललिता)7 यथा ।
एसो पमत्त-ग अ-दूमिदाणणो दीणो पफुल्ल8-वण9वाद-चालिदो 10 ।
वा(प) 11साभिबद्धचल12णो गआणुगो रम्मं(म्मे)वणं(णे) गअवरो
पलाय(अ)दि ।। १५१ ।।12a
[एष प्रमत्तगजदूनाननो दीनः प्रफुल्लवनवातचालितः ।
पाशाभिबद्धचरणो गजानुगो रम्ये वने गजवरो13 पलायते ।। ]
Abh
रुचिरा तभय(:) ।
प्रमिता सजसगि नसना गौ च विशोका ।। तेजस्सुएहि रुददिव्व । ण विभादि जोह्णरवि (हि) इन्दू । जलहरविआणवि(पि)हिअंगो ।। १४२-१४७ ।।
तभजलगा विश्लोका ललितं तभजरि कथितमिदं वृत्तज्ञैः ।
अत्थं उव्वेदि अरुणाभिहदो । रम्मे वणे गअवरो पलाअदी ।। १४८-१५९ ।।
Notes
यदि पञ्चमं हि सतृतीयनैधनं नवमं द्वितीयमपि तस्य तादृशम् ।
1चरणे गुरूणि यदि सातिपूर्विका जगती बुधैर्निगादिता सा
म (ता म) नोवती ।।*
1aमनोवती यथा ।
घणसन्तदायदविदाणमम्वरं अवलि(ल)2म्बिऊ (ण)3 रम(अ)णीमुहे ससी ।
गहगाहसंकुइदमन्दजोह्णओ ण विराजदे सवदि4a किं पधाविओ4 ।।4b
[घनसन्ततायतवितानमम्बरमवलम्ब्य5 न रजनीमुखे शशी ।
ग्रहगाह6सङ्कुचि7तमन्दज्योत्स्को न विराजते सपदि किं प्रधावितः ।]
एतास्तु जातयो ज्ञेयाः स्थितानां हि प्रयोगजाः ।
आक्षेपिक्यवकृष्टानां सम्प्रवक्ष्यामि लक्षणम् ।। १५२ ।।
सुप्रतिष्ठादिकं छन्दस्त्वचकृष्टासु योजयेत् ।
वृत्तान्यन्यानि यानि स्युर्देवस्तुत्याश्रयाणि तु ।। १५३ ।।
अक्षराणां(णि) निवेशं तु (लया वर्णा) यतयः पाणयस्तथा ।
अवकृष्ट स्तु यस्याः स्युरवकृष्टा भवेत्तु सा ।। १५४ ।।
Abh
एतदुपसंहरति ।
एतास्तु जातयो ज्ञेयाः स्थितानां हि प्रयोगजाः ।
इति अन्यथा सूत्रयति । आक्षेपिक्यप(व)कृष्टानां सम्प्रवक्ष्यामीति । आक्षेपिकीत्वे सत्यवकृष्टत्वं यासां ता आक्षेपिक्यवकृष्टयः(ष्टाः) । तेन रसाक्षेपकृतमाक्षेपिकीत्वमनुबध्यते । करुणादौ भवत्येवेति दर्शितम् ।। १५२ ।।
सुप्रतिष्ठादिकमिति । मिताक्षरम् । आस्ववकृष्टास्विति यावत् । न सकलध्रुवागाने नाट्योपरञ्जकेऽवकृष्टानामयं विधिर्यावत् पूर्वरङ्गगते गान्धर्वे कृष्टावकृष्टध्रुवायामिति दर्शयति । वृत्तान्यन्यानि यानि स्युरिति । देवस्तुत्याश्रयाणि निवृत्तान्युक्तानि ईशं वन्दे इत्यादीनि तान्यवकृष्टध्रुवाविधौ पूर्वरङ्गयोगे स्युः ।। १५३ ।।
अवकृष्टत्वं निर्वचनतो दर्शयितुमाह । अक्षराणि लया वर्णा इति ।। १५४ ।।
Notes
स्थायिवर्णा स्थितलया कलान्तरकृताक्षरा ।
समपाणियतिश्चैव ह्यवकृष्टा विधीयते ।। १५५ ।।
अवकृष्टध्रुवाणां हि कलान्तरकलासु1 च ।
अक्षराणां 2निवेशस्तु वृत्तजात्यां विधीयते ।। १५६ ।।
अल्पवर्णान्तरा चैव ह्यवकृष्टा विधीयते ।
प्रावेशिक्यास्तु संक्षेपः क(का)रणानां परिग्रहात् ।। १५७ ।।
Abh
पाण्यवकर्षणादवकृष्टेति यदुक्तं तदेव स्फुटयति । स्थायिवर्ण (र्णा) इति वर्णस्य स्थायित्वमेवापकर्षणं लयस्य विलम्बितत्वं पाणेः समत्वं पातश्च ।
केचिदाहुः । समपाणेः समयतेश्च मध्ये यो विनियोगो विलम्बितलयायामवकृष्टायां संयोगात् सम उचितो यः पाणिः उचिता या यतिः साऽत्र मन्तव्येति ।
अन्ये तु यतिपाणिपरस्परापेक्षया समौ तुल्यौ परस्परानुबन्धाविति ईदृशं साम्यमाहुः ।
उपाध्यायाश्च मन्यन्ते । औचित्यं तन्त्रापेक्षया पूर्वमुक्तम् । मध्यमे लये समपाणिः समा च यति- रित्यादि । वस्तुतः सर्वत्र सर्वस्य विधेः सम्भव इति ।। १५५ ।।
कलान्तरकृताक्षरेति यदुक्तं तद्विस्पष्टयति ।
अवकृष्टध्रुवाणां हि कलान्तरकलासु च ।
अक्षराणां निवेशस्तु वृत्तजात्यामिति ।
वृत्तजात्यां यान्यक्षराणि गुरुलघुरूपाणि तेषामक्षराणां कलान्तरे कलायां च यो निवेशः स सावकृष्टासु विधीयते । एषोऽसावकृष्टाक्षराणामवकृष्ट इति यावत् ।
एतदुक्तं भवति । गुरुणाक्षरेण स्वराधारभूता तालकलया व्याप्ता तदपेक्षया द्विकलाव्यापिनी या तत् कलान्तरमित्युक्तम् । लघुना त्वेकैककला निर्वाह्येति । एवमेव च लक्ष्ये करुणादौ द्विपदीभञ्जकादिप्रयोगो दृश्यते । यत्तु दक्षिणमार्गेण या कलान्तरमात्रेति तदतिविततदर्शनाच्चोपेक्ष्यम् । चत्वारिंशल्लघुकालस्तालकलाध्रुवामनुलक्ष्य लक्षित इति ।। १५६ ।।
मिताक्षरच्छन्दो यद्यवकृष्टायामुक्तं तथापि विततमपि भवति तस्यानिबद्धत्वादिति यो मन्येत तं प्रत्याह । अल्पवर्णान्तरा चैवेति । वर्णविशेषा अल्पस्यान्ते दृश्यन्ते वाऽवकृष्टेति नियमः । भूयोऽक्षरत्वे च भेदातिशयमसम्भवात् । एवं यदा क्षेपिक्यवकृष्टा भवति तद्दर्शयति ।
Notes
एवं ज्ञेयोऽवकृष्टानां 1जातीनां वृत्तसम्भवः ।
अत ऊर्ध्वं प्रवक्ष्यामि द्रुतानामपि लक्षणम् ।। १५८ ।।
मुखे तु दोधकं कृत्वा शेषं ह्रस्वैस्तु योजयेत् ।
2युग्ममोजं विमिश्रं च तथैव लघुसञ्चयः ।। १५९ ।।
जगत्यादिर्भवेत् सा तु तथाऽतिधृतिनैधना ।
तथाभूता च च्छन्दोभिर्नानावृत्तसमुद्भवा ।। १६० ।।
Abh
प्रावि(वे)शिक्यास्तु संक्षेपः कारणानां परिग्रहात् ।
इति । प्रावेशिक्या अपि संक्षेपो मिताक्षरत्वं भवति । कुतः । कारणानामवकर्षणहेतूनामक्षरलयाद्यवकर्षणानां परिग्रहणान्या(दा)श्रयणात् ।। १५७ ।।
एतदुपसंहरति । एवं ज्ञेयोऽवकृष्टानामिति । एवं विलम्बितामभिधाय द्रुतध्रुवां प्रतिजानीते । अत ऊर्ध्वं द्रुतानामिति ।। १५८ ।।
तत्र द्रुतध्रुवासु यावन् मात्रातस्तावत् साधारणं रूपमाह ।
मुखे तु दोधकं कृत्वा शेषं ह्रस्वैस्तु योजयेत् ।
युग्ममोजं विमिश्रं च तथैव लघुसञ्चयः ।।
इति । सन्धिर्मुखमत्रेत्यसत् अप्रकृतत्वात् । किंतु प्रारब्धप्रथमपादे दोधकं कृत्वा शेषं पादत्रयं ह्रस्वैः कुर्यात् । (युग्मं)चञ्चत्पुटमोजं चाचपुटं मिश्रं वा सप्तकला तदिह योजयेदित्यावृत्या सम्बन्धः ।
ननु पादत्रये यानि ह्रस्वानि क्रियन्ते तानि कियन्तीत्याशङ्क्याह । तथैव लघुसञ्चय इति । दोधकमात्राणां पूरक एव लघुसञ्चयः पादत्रय इति यावत् । अन्ये तु
जगत्यादि भ (र्भ)वेत् सा तु तथाऽतिधृतिनैधना ।
(भ.ना.३२.१६०) इति वक्ष्यमाणत्वात् पदत्रये जगतीमारभ्यातिधृत्यन्तं यानि च्छन्दांसि तेन लघुसंख्यां कुर्यादित्याचक्षते ।। १५९ ।।
एवं तावद् द्रुतध्रुवासु सामान्यविधिमुक्त्वा विशेषमाह जगत्यादिरिति । अतिधृत्यन्तादिवृत्तेन द्वादशाक्षरमप्येकोनविंशत्यक्षरं द्रुतासु च्छन्द इत्यर्थः ।। १६० ।।
Notes
अष्टावादौ यस्याः सान्त्यं स्यान्नवमं
दीर्धाणि स्थाप्ये शिष्टे च द्वे लघुनी ।
वृत्तं ह्येतज् ज्ञेयं तज्ज्ञैर्वृत्तविधौ
गीते ह्येव नित्यं विक्रान्ता जगती ।। १६१ ।।
विक्रान्ता1 यथा ।
एसो मेहो ना (णा)2णद्दंतो धूमणिहो
विज्जुज्जुत्तो धाराएहिं भूमिदलं3 ।3a
4आसिंचन्तो भीमाआरो हतिथणिहो हत्थिणिहो
संच्छादन्तो लोआलोअं आवदिदो ।। १६२ ।।
[एष मेघो नानदन् धूमनिभो
विद्युद्युक्तो धाराभिर्भूमितलम् ।
आसिञ्चन् भीमाकारो हस्तिनिभः
संच्छादयन् लोकालोकमापतितः ।।]
अष्टावादौ दीर्घाणि (दीर्घाण्यष्टावादौ) स्युस्त्वतिजगती ।
अन्त्यं दीर्घं सा विज्ञेया मदनवती ।। १६३ ।।
मदनवती5 यथा ।
एसो मेहो(ना)6णाणद्धं(द्दं)तो6aसबइ(अलक?)अचल7णिहो ।
सद्दारन्तो विज्जुज्जोआ (? विज्जुज्जोदो) 8 भमदि दुदम् 8a ।। १६४ ।।
[एष मेघो नानदन् अचलनिभः9 ।
संदारयन् विद्युज्ज्योत्स्नोद्द्योतो10 भ्रमति द्रुतम्]
पञ्च त्वादै(दौ)यत्र हि गुर्वष्टमनवमम् ।
अन्त्यं दीर्घं सा खलु नाम्ना विमलगतिः ।। १६४a ।।
विमलगतिः11 यथा ।
एसो अंसं(?अस्सिं)12 अंसुसहस्सो पवणसखो ।
जालालोलो13 धूमसमिद्धो भमदि14 वणे ।। १६४b ।।
[एषोऽस्मिन्नं शुमहस्रः पवनसखः ।
ज्वालालोलो धूमसमिद्धो भ्रमति वने ।।]
Notes
आद्यचतुर्थे पञ्चकषष्ठे नवदशमे
पादविभक्तौ यत्र तु दीर्घं निधनकृते(तम्) ।
तत्र तु बोध्या पञ्चदशाख्ये भुवि हि सदा
भूतलतन्वी वृत्तविधानेत्यभिविहिता ।। १६५ ।।
भूतलतन्वी 1 यथा ।
पादव2संडं कम्पअ(य)माणो पटु(डु)णिणदो
सेलतडेसुं पक्खल3माणो विसमगदि(दी)4 ।
रेणुसमूहं उद्धुय 5माणो रुणकविलो
वाय6दि वादो चण्डपवाही गगणदले7 ।। १६६ ।।7a
[पादपखण्डं(षण्डं)8 कम्पयमानो पटुनिनदः
शैलतटेषु प्रस्खलमानो विषमगतिः ।
रेणुसमूहमुद्धूय9माणोऽरुणकपिलो
वाति वातो चण्डप्रवाही गगनतले ।।]
[आद्यचतुर्थे पञ्चमषष्ठे नवदशमे ।
अन्त्यमथो दीर्घाणि तु सा स्यात् कुसुमवती ।। इत्यन्ये ।]
आद्यचतुर्थकसप्तममन्त्यं दशमपरे ।
यत्र गुरूण्यथ सा सुकुमारेत्यभिगदिता ।। १६७ ।।
सुकुमारा10 यथा ।
मेहसमूहणिबद्धविदाणं जलमतिदम्(भरिदम्) ।
सोइ (? ह11)इंदधणुज्जलमज्झं गगणदलम् ।। १६८ ।।
[मेघसमूहनिबद्धवितानं जलभरितम् ।
शोभत इन्द्रधनुरुज्ज्वलमध्यं गगनतलम् ।।]
Abh
एतत्विति । द्रुतध्रुबा । तत्र जगत्याः प्रभृति वृत्तानि दृश्यन्ते । दीर्घाण्यष्टावित्यादि । मत्रयसा विक्रान्ता मद्वयतनगाश्च मदनिका तन्वी ।
भमसभसाः सुकुमारा त्रिभतनगा- विझूद्वण्णो पीणाअन्तो णादिगओ । एसो णेहो णाणद्दन्तो अच(ल)कनि(णि)हो । पादपसंडं कम्पयमाणो पडुणिणदो । मेहसमूहणिबद्धविदाणं जलभरिदम् ।। १६१-१६८ ।।
Notes
यदि स्वलु पञ्चममष्टममन्त्यं दशमपरे ।
चरणगतानि गुरूणि तु माला भवति तदा ।। १६९ ।।
माला1 यथा ।
असणिरवाहदपादवकूडो धरणिधरो
पगलिअकंदरनिज्झरसानु(नू?णू)2रवो(व) मुहु(ह)लो ।2a
विव(वि)3हविहंगमसेविअकुंजो जह(?जव)4दलदो
परहुअद(द)5चंपअ(?संचय)6गीअ(द)7सणाहो हसदि विअ ।। १७० ।।
[अशनिरवाहतपादपकूटो धरणिधरः
प्रगलितकन्दरनिर्झरसानू रवमुखरः ।
विविधविहङ्गमसेवितकुञ्जो यत(?जव)8 जलदः ।
परभृतचम्पकगीतसनाथो हसतीव ।।]
तृतीयं च चतुर्थं च सप्तमं चाष्टमं तथा ।
नवमं द्वादशं चैव नैधनं सत्रयोदशम् ।। १७१ ।।
यत्र दीर्घाणि पादे तु ध्रु(धृ)तिच्छन्दःसमाश्रये ।
सा ज्ञेया गीतकविधौ ध्रुवा स्खलितविक्रमा ।। १७२ ।।
स्खलितविक्रमा यथा9 ।
दिवसं सूरसणाहं खे विअ चन्दो कुमुदवणे
उदिदो दीसदि एसो दप्पणबिम्बाकिदिसदिसी(सो)10 ।
गहणे(गगणे)11मेहविमुख्खे12 सोम्मसहाओ रतिसुहगो
वहलं विक्खिरमाणो सारदो(द)जोह्णं पजति (वजति)13 दुदम् ।। १७३ ।।
[दिवसं सूर्यसनाथं खे इव चन्द्रः कुमुदवने
उदितो दृश्यत एष दर्पणबिम्बाकृतिसदृशः ।
गगने मेघविमुक्ते सोऽम्बुसहायो रतिसुभगो
बहुलं विकिरन् शारदज्योत्स्नां व्रजति द्रुतम् ।।]
पञ्चमं ह्यष्टमं यत्र14 त्रयोदशमथापि च ।
15गुरूण्यष्टादशं चैव द्रुता वै चपला तु सा ।। १७४ ।।
Notes
द ्रुतचपला1 यथा ।
पवणविध(धु)ण्णिदपङ्कज(अ)कुसुमं सरसि जलं2
कमलिणिवत्तपसाहिदसुभहं(?सुहगं)3 फलिहणिहं ।2a
वलद(?चलिद)4तरंगविदाहि(रि) 5दकुसुमं (कुमुदं)6चलितगद-
क्खुभिदविहङ्गविकम्पिदमुहलं (मउलं?)7हसदि विअ ।। १७५ ।।
[पवनविधूर्णितपङ्कजकुसुमं सरसि जलं
कमलिनीपत्रप्रसाधितसुभगं स्फटिकनिभम् ।
चलित-तरङ्ग8 विदारित कुसुमं(कुमुदं)9 चलितगत-
क्षुभितविहङ्गविकम्पितमुकुलं हसतीव ।।]
पादे पञ्चममन्त्ये(न्त्यं) च दीर्धं द्वादशमेव च ।
यदाऽतिधृत्यां सा ज्ञेया चपला मुखसहिता ।। १७६ ।।9a
मुखचपला10 यथा ।
पिअसहिआ इअ(?उअ)11गअणदले चपलतर(दर)12मुही ।
पविचरदे मदसुरभिमुही सुरवरयु(जु)13वदी ।। १७७ ।।
[प्रियसखि पश्य14 गगनतले चपलतरमुखी ।
प्रविचरति मदसुरभिमुखी सुरवरयुवतिः ।।]
एता ह्यष्टौ परित्याज्या ध्रुवाणां मूलजातयः ।
आभ्यो विनिस्सृताश्चान्या युग्मौजा विषमाः पराः ।। १७८ ।।
Abh
–नज जयनलगा माला । स्खलिता सभमसभसयुजि चपला नजजनभंसी च । मुखचपला नजनसननगा अष्टावेतानि द्रुतविधौ प्रयोज्यानि ।। असणिरवाहदपादवकूडो धरणिधरो । गहणे मेहविमुक्खे सोम्मसहाओ रतिसुहजो(गो)। पवणविधुण्णिदपंकअकुसुमं सरसिजक(ल)म् । पविचरदे मदसुरभिमुही सुरवरयुवदी ।। १६९-१७७ ।।
सर्वत्रात्र प्रतीयस्या(ता)अमूइति(ऽभूदिति)आसां विषयं निरूपयिष्यस्ततो विषयान्तरेभ्य एव द्रुतध्रुवां कल्पयेदिति दर्शयति ।
Notes
एतास्तु जातयो ज्ञेया द्रुतानां वृत्तसंश्रयाः ।
देवानां पार्थिवानां च ह्यौपम्यगुणसंश्रयाः (भवाः) ।। १७९ ।।
सप्तदशद्वादशकैरेकादशपञ्चमाष्टमतृतीयैः ।
गुरुभिर्यस्याः पादः ता(सा) ज्ञेयाऽऽक्षिप्तिका नाम ।। १८० ।।
Abh
एता ह्यष्टौ परित्यज्य ध्रुवाणां मूलजातयः ।
आभ्यो विनिःसृताश्चान्या युग्मौजविषमाः पराः ।।
इति । यावत जगत्यादावतिकृत्यन्ते च्छन्दसि विक्रान्ताद्या मुखचपलान्ता अष्टौ दर्शिताः । ताः परित्यज्य वर्जयित्वा परा इत्येता वक्ष्यमाणविषयव्यतिरिक्तविषयान्तरागता अन्या एता द्रुतध्रुवाणां मूलजातयः योनिः इति शेषः । कथमन्या……इत्याह । आभ्यो विनिःसृता इति । कथमित्येवं युग्मौजत्वेन विषमाः । एतदुक्तं भवति । एतास्तावदुत्तमविषये अष्टौ तन्मध्यमाधमेषु योज्याः । एतदीयैरेव तु यथेच्छं पादौ(दै)र्मिलितैर्विषमवृत्तस्वभावान् मध्यमाधमविषयाः कल्प्या इति ।। ११८ ।।
नन्वासामष्टानां कोऽसौ विषय इत्याह ।
एतास्तु जातयो ज्ञेया द्रुतानां वृत्तसंश्रयाः ।
देवानां पार्थिवानां च । इति ।
उत्तमानामिति वृत्तवशादपरार्थानुसरणरथगमनादिद्रुतक्रियावतामेव विक्रान्ताद्यष्टौ द्रुतध्रुवा इति । देवपार्थिवादयोऽधिका वर्ण्यन्ते ध्रुवास्वित्याह । औपम्यगुणसम्भवाः । सादृश्यधर्मेण सम्भवो यासां ताः । सदृशं सुरगजहंसादि तत्र वर्ण्यमिति यावत् । देवपार्थिवग्रहणं प्रकरणान् मालविकादेः (मालविकाग्निमित्रम्)। सागरीकादे(रत्वावली)श्चोत्तमत्वेऽपि नियमार्थम् ।। १७९ ।।
आक्षिप्तिका नाम । 1अथ मध्यमाधमविषयसाधारिणीं द्रुतध्रुवामाह । सप्तदशद्वावशकैरिति । सप्तदशाक्षरेयम् । मध्यमाधमसाधारण्येन मुनिनोदाहरणं नास्या दत्तम् । उदाहरणाद्धि विषयसंकोचशङ्का - स्यादिति । सजजयनलगा मध्यमाधमयोर्द्रुतविषया साधारणी भवति प(प्र)वणा । आक्षिपिकेति प्रकरणादेतध्द्रुवेत्यर्थः ।। १८० ।।
Notes
गुर्वादिरथलघ्वादिर्युग्मौजावथवेतरा ।
एतद्द्रुतगता या तु विज्ञेया सा ध्रुवा द्रुता1 ।। १८१ ।।
आदौ द्वे गुरु(द्वे)निधने त्रीणि यस्याः पादेष्वथ चतुर्गुरुणियस्या(थ गुरूणि) स्युः ।
ज्ञेया वृत्ते खलु बृहतीसंस्था(स्थे) नाम्ना सा कथित(नक)लता ।।
कनकलता2 यथा ।
3एसो मेहो सिहरिनि(णि)हो नीलो
(? धारापादेहि अति (इ)भयदो भूमिम्) धारापातैरतिभयगो(दो) भूमिम् ।
आपूरयन्तो पटुतर(?पडुय(द)२-5सन्ना(ण्णा)6दो
तोयापुण्णे(ण्णो)7गगन(ण)8तले (दले)9 आभादि ।।
[एष मेघः शिखरिनभो नीलो
धारापातैरतिभयदो भूमिम् ।
आपूरयन् पटुतरसन्नादो
तोयापूर्णो10 गगनतल आभाति ।]
Abh
अथाऽस्यां बहुविषयत्वमेव यादृच्छिके तालयोजनया प्रकटयति ।
गुर्वादिरथ लघ्वादिर्युग्मौजावथवेतरा ।
एतद्द्रुतगता या तु विज्ञेया सा द्रुता ध्रुवा ।। इति ।
तालगतिरिहोच्यते । ध्रुवाबन्धस्यैव ग्रहचक्रस्य तालस्य गत्यनुबन्धस्य गीतनृत्तवाद्यादिक्रिया(प्र)बन्धस्य (इति)विकटा शङ्का न(अभ्यूहनीया) । एतदुक्तं भवति । द्रुतविषयो गुर्वादिर्लघ्वादिः । अथशब्दात्तन्मध्यतो वा त्र्यश्रचतुरश्रो मिश्रो वा यस्तालविशेषः स एकस्मिंस्तूक्तलक्षणे सप्तदशाक्षरे वृत्ते योज्यमिति । तालभेदश्च लोके भङ्गलयादिर्यः प्रसिद्धः सोऽग्रे मुनेरेव सम्मत इति स्फुटं स्वावसरे दर्शयिष्यामः ।। १८१ ।।
Notes
आद्ये ह्यथ निधने त्रीणि पादेऽथ दि गुरूणि स्युः ।
ज्ञेया खलु बुहती नित्यं नाम्ना कनकलताऽऽक्षिप्तिका ।। १८२ ।।
कनकलताऽऽक्षिप्तिका1 यथा ।
एसो गगणदले मेहो
भीमो भअजणणो दिट्ठो ।
भूमिं नवजलधाराहिं
सिञ्चन्तो 3 भुवनतलं जादि ।। १८३ ।।
[सिंचेदिय सहि गज्जन्तो]4
[एष गगनतले मेघो भीमो भयजननो दृष्टः ।
भूमिं नवजलधाराभिः सिञ्चन् भुवनतलं याति [सिञ्चयित्वा सखि गर्ज्जन्]5 ।।
यदि खलु पञ्चममन्त्ये चरणविधौ च गुरूणि भवन्ति तु ।
सा शशिलेखा भुवि बृहती प्रथिता सा ।। १८४ ।।
शशिलेखा 6 यथा ।
गिरिव(च)रधा(वा)रणरूपं खुभिदमहण्णव(सहस्सप)7णादम् (वणादम्) ।8
पटु(डु)पवणेण विधूदं भमदि बलाहअ(य)9जूह(थ)म् ।। १८५ ।।
[गिरिचरवारणरूपं क्षुभितमहार्णवनादम् ।
पटुपवनेन विधूतं भ्रमति बलाहकयूथम् ।।]
यदि तु खलु षष्ठमन्त्यं (नत्ये) गुरु(रूणि)भवति(न्ति) पादयोगे ।
इति निगदितादिवृत्ते सततमविचालिता सा ।। १८६ ।।
अविचाकिता10 यथा ।
शशि(ससि)किरणलम्बहारा उडुगणक(कि)दावदंसा ।
गहगणक(कि)दङ्गसोहा जुवदि विअ(य)भादि राई ।। १८७ ।।
[शशिकिरणलम्बहारा उडुगणकृतावतंसा ।
ग्रहगणकृताङ्गशोभा युवतिरिव भाति रात्रिः ।।]
Notes
यदि खलु चरणविधौ लघुवसुगणकमिदम् ।
भवति हि खलु बृहती मणिगुणनिकरकृता ।। १८८ ।।
मणिगणनिकरकृता बृहती1 यथा ।
ऋदु(उडु)गणकुसुमवदी गहगणकिदतिल2का(आ/या)3 ।
रजनि(णि)करमभिमुखी(मुही)4च यदि(वजदि) विअ(य) असु णिसा ।। १८९ ।।
[उडुगणकुसुमवती ग्रहगणकृततिलका ।
रजनिकरमभिमुखी व्रजतीवाशु निशा ।।]
चत्वार्यादौ गुरु निधनं ह्रस्वानि स्युर्यदि च तथा ।
नाम्ना ज्ञेया जगति हि सा सिंहाक्रान्ता खलु बृहती ।। १९० ।।
सिंहाक्रान्ता5 यथा ।
आकम्पन्तो गगन(ण)दलं6 विक्खेवन्तो धरणिदल7म् ।
विज्जुज्जोदा अवविहवो (? विज्जुज्जोदयविहवो)8 एसो मेही(हो)पविचरिदो ।। १९१ ।।
[आकम्पयन् गगनतलं विक्षिपन् धरणितलम् ।
विद्युद्योतोदय9विभव एष मेघः प्रविचरितः ।।]
बृहत्या जातयो ह्येता विज्ञेया वै प्रवेशजाः ।
अत ऊर्ध्वं प्रवक्ष्यामि पङ्क्तिजातिविकल्पनम् ।। १९२ ।।
आद्यचतुर्थे पर(ञ्चम)निधने यत्र गुरूणि प्रतिचरणम् ।
गीतविधाने भवति हि सा पङ्क्तिकृता वै सुरदयिता ।। १९३ ।।
सुरदयिता10 यथा ।
पङ्कअ(ज)11सण्डे विमल12जले सारससंघे(केहिं)समणुगदो ।
कुन्दणिकासो ससिधवलो13 हंसजुवाणो परिभमिदो ।। १९४ ।।
[पङ्कजखण्डे (षण्डे)14 विमलजले सारसकैः समनुगतः ।
कुन्दनिकाशः शशिधवलो हंसयुवा परिभ्रमितः ।।]
दीर्घाणि ह्यथ निधनगतं त्रीणि स्युर्यदि चरणविधौ ।
सा ज्ञेया कुसुमसमुदिता पङ्क्तिश्चेदपि च कुमुदिनी ।। १९५ ।।
Notes
कुमुदिनी1 यथा ।
वाजन्तो(वासन्तो)2 कुसुमसमुदितो वाद(स)न्तो कुसुमसुरहिणो ।
सोसंतो पिअ(य)3 रहित(द)4जणं संपत्तो असु णवझ(स)रदो ।।१९६।।
[वीजयन्ती (वासयन्ती ?)5 कुसुमसमुदिता वासयन्ती कुसुमसुरभिः ।।
शोषयन्ती प्रियरहितजनं सम्प्राप्ताऽऽशु नवशरद् ।।]
सप्तममाद्यचतुर्थयुतं यत्र हि नैधनमेव गुरु ।
पादविधौ यदि पङ्क्तिकृता सा कथिता खलु दोधकवत् ।। १९७ ।।
दोधकं6 यथा ।
एस समुण्णअमच्च(समुण्णयमम्बरके)7रके मेहरवं सुणिऊण गओ (गजो)8 ।
रोसवसेणसमुज्जलि9दो हिंडदि काणणए कुविदो ।। १९८ ।।
[एष समुन्नतमम्बरे मेघरवं श्रुत्वा गजः ।
रोषवशेन समुज्ज्वलितो हिण्डति कानने कुपितः ।।]
त्रीण्यादौ तु गुरूणि यदा स्युः षष्ठं चान्त्यमुपान्त्यतमं च ।
सा ज्ञेया खलु पादविधाने पङ्क्तिः सा तु कुतोद्धतनाम्ना ।। १९९ ।।
उद्धता (पङ्क्तिः)10 यथा ।
अब्भं अम्बुधरेहि (हरेहि)11 पिणद्धं विज्जुजोअ(य) 12खणंतरदीवम् ।
वादाघुण्णिदकंपिददन्तं उप्पा(म्मा)देदिव हत्थिसमूहम् ।। २०० ।।
[अभ्रमम्बुधरैः पिनद्धं विद्युद्योगक्षणान्तरदीपम् ।
वाताघूर्णितकम्पितदन्तमुन्माद्यतीव हस्तिसमूहम् ।।]
आद्यचतुर्थे नैधनके न (च) पञ्चमषष्ठे यत्र तु दीर्घे ।
वृत्तसमुत्था सङ्कथिता सा पङ्क्तिरथैषा गीतकबन्धे ।। २०१ ।।
13पङ्क्तिरथा यथा ।
मेहसमूहं पीणबला14कं विज्जू(ज्जु)पलि(ली)15कं(वं)पेक्खिअ एसो ।
उट्ठित(द)16 रोसो भीमणिणादो धावदि हत्थी रुक्खवणम्मि ।। २०२ ।।17
[मेघसमूहं पीनबलाकं विद्युत्प्रदीपं प्रेक्ष्य एषः ।
उत्थितरोषो भीमनिनादो धावति हस्ती रूक्ष(?वृक्ष)18वने ।।]
Notes
यदि खलु पञ्चममन्त्यं चरणविधावपि दीर्घं स्यात् ।
भवति तथाष्टममन्त्ये(नवमे) विपुलभुजा भुवि सा ज्ञेया ।। २०३ ।।
विपुलभुजा 1 यथा ।
जलहरणादसमुव्विग्गो पगलि2त(द)(?गण्ड)3गण्ड्डुमहाणादो ।
वणगहणं कुविदो हत्थी सरभसगव्विदकं याति (?जादि)4 ।। २०४ ।।
[जलधरनादसमुद्विग्नः प्रगलितगण्डमहानादः ।
वनगहनं कुपितो हस्ती सरभसगर्वितकं याति ।।]
एतास्तु जातयः प्रोक्ताः पङ्क्त्यामेव समासतः ।
अतः परं प्रवक्ष्यामि त्रिष्टुब्जातिविकल्पनम् ।। २०५ ।।
आदाविह यदि खलु गुरुणी नित्यं निधनमपि च परतः ।
वृत्ते कविभिरपि निगदिता त्रिष्टुप्चपलगतिरिह सदा ।। २०६ ।।
चपलगतिर् 5यथा ।
एदे खिदिधरवरसदिसा भीमा पडुपडहसमरवा ।
नीला6सिदखगकिदरसणा मेहा णहदल7मभिपडिदा ।। २०७ ।।
[एते क्षितिधरवरसदृशा भीमाः पटुपटहसमरवाः ।।]
नीलासितखगकृतरशना मेघा नभस्तलमभिपतिताः ।।]
यदि खलु मध्ये त्वथ गुरुणी पुनरपि चान्त्यं गुरु चरणे ।
भवति हि नित्यं रुचिरमुखी कमलदलाक्षीति हि कथिता ।। २०८ ।।
कमलदलाक्षी8 यथा ।
परिधुणमाणो किरणपडं अभिरुहमाणो उदअ(य)9गिरिम् ।
उडुगणबन्धू कुमुदसहो उदयति(दि)10 चन्दो गगन(ण)11दले ।। २०९ ।।
[परिधुन्वानः किरणपटमभिरोहमाण उदयगिरिम् ।
उडुगणबन्धुः कुमुदसख उदयति चन्द्रो गगनतले ।।]
यदि खलु पञ्चमकाष्टमके पुनरपि चान्त्यमकं (गतं) तु गुरु ।
चरणविधाविह वृत्ताविधौ भवति हि सा द्रुतपादगतिः ।। २१० ।।
Notes
(द्रुतपादगतिर्)1 यथा ।
गगन(ण)2 तलं(दळं)3 गणहिंडणओ किरणसहस्सविहूसिदओ ।
विहुणिअ(य)4 मेहपडं तमसू विसइ ससी गअ(य)5णे विदुअम् ।। २११ ।।
[गगनतलाङ्गणहिण्डनकः किरणसहस्रविभूषितः ।
विधूनितमेघपटं (विधूय मेघपटं)6 तमस्सु7 विशति शशी गगने विद्रुत8म् ।]
यदि खलु षष्ठं गुरुयुगलं निधनगतं चाप्यथ गुरुकम् ।
भवति हि सैवं चरणविधौ * मुखचपला त्रिष्टु(ब)भिरचिता ।।
(मुखचपला)9 यथा ।
कुसुमसुअन्धी सुअ(?सुह)10पवणो विचरदि रम्मे पलिणिवने(णे)11 ।
तरुवरळासे पमदवणे वहुकुसुमे स्सिंण12वसरदे ।।
[कुसुमसुगन्धी सुखपवनो विचरति रम्ये नलिनीवने ।
तरुवरलास्ये प्रसदवने बहुकुसुमेऽस्यां नवशरदि ।।]
तृतीयमन्त्यं चतुर्थं च पञ्चमं षष्ठमेव च ।
गुरुणी (रूणि) त्रैष्टुभे पादे यत्र सा विमला यथा ।। २१२ ।।
(विमला)13 यथा ।
कुसुमाकिण्णे णिम्मळसळिले णलि14णीसंडे छप्पदमुहळे ।
सबहूमज्झे सारसमुदिते समदो हत्थी सोम(एष) (?एस) 15 विचरिदो ।। २१३ ।।
[कुसुमाकीर्णे निर्मलसलिले नलिनीखण्डे(षण्डे)16षट्पदमुखरे ।]
स वधूमध्ये सारसमुदिते समदो हस्ती एष विचरितः ।।]
चतुर्थं पञ्चमं पूर्वमन्त्योपान्त्ये तथैव च ।
गुरूणि त्रैष्टुभे पादे यत्र सा रुचिरा यथा ।। २१४ ।।
(रुचिरा यथा ।)17
मेहविदाणं अवधुणमाणो कम्पअ(य) 18 माणो सगअ(ल)19 वणाइम् ।
तोअ(य)20 समूहं अवकिरमाणो वाअदि वादो कुविद इवासू ।। २१५ ।।
[मेघवितानमवधूनयमानः मवधूयमानः21 कम्पयमानः सकलवनानि ।
तोयसमूहमवकिरमाणो वाति वातः कुपित इवाशु (?इवासौ)22 ।।]
Notes
- म. कमलनिभास्ये ह्यतिचपला ।
यदि खलु चरणे तु सप्तमं पुनरपि नवमं सनिधनम् ।
गुरु तदपरवक्त्रमुच्यते नियतमिति निदर्शनं यथा ।। २१६ ।।
1(अपरवक्त्रम् यथा ।)
गिरितडविवरे विघुण्णिदो असणिघन (ण)2रवेण कम्पअम् (कम्पिदो)3 ।।
अभिपददि दुदं महीदळं पटुतर(पडुयर)4 णिणा(ण)दो महारवो ।। २१७ ।।
[गिरितटविवरे विघूर्णितोऽशनिघनरवेण कम्पयन् (कम्पितः ।।)5
अभिपतति द्रुतं महीतलं पटुतरनिनदो महारवः (महाघनः)6]
त्रिष्टुभो जातयो ह्येता जगत्यास्तु निबोधत ।
अष्टमं नैधनं चैव (नवमं नैधने द्वे च) गुरूणि चरणे यदि ।
वृत्ते तु जगती सा तु ज्ञेया कमललोचना ।। २१८ ।।
(कमललोचना)7 यथा ।
दिअ(ज)8गणमुनि(णि)9गणविव(णव)(?व) 10डि्ढअतेओ (?वन्दिततेंजो)11
पविततकिरणसहस्सपिणद्धो ।
विधुणिअ(य) 12तिमिरपडं जगदीवो
उदयदि गगणदळे असु(एस)13सूरो ।। २१९ ।।
[द्विजगणमुनिगणवर्धिततेजाः
प्रविततकिरणसहस्रपिनद्धः ।
विधूनित (विधूय)14 तिमिरपटं जगद्दीप
उदयति गगनतले आशु (एष)15 सूर्यः ।।]
Abh
पूर्वं बृहत्याद्यान्यतिजगत्यन्तानि च्छन्दांसि त्रिविधाऽवकृष्टात्मध्रुवांसङ्ग्रहे दर्शितानि । अधुना तु द्रुतध्रुवादिविषयाणि तानि दर्श्यन्ते । आद्ये इति ।
अथ कनकलता तनया(मा) शशिलेखा नजया ह्यविचलिता नसया । मणिकृन्नौ सः सिंहाक्रान्ता मभसाः सुरदयिता भतनगि । कुमुदा मननगि दोधकविषया भत्रयगयुता मससगि चोद्धतिका । भमसगि पङ्क्तिरथा नजयगि विपुलभुजा चपलगतिस्त्नौ नलगा । चप(कम)लाक्षी नज(य)नलगा द्रुतगा नजजलगा समनलगा विमला । रुचिरा भज(त)नगयुग्मा नौरलगापरवक्त्रा कमला नौससगी । अतिचपला नचतुर्गः(र्गा) नजनसगा मदकलिता ।।
Notes
यदि खलु लघुगण इह निहितं
पदि यदि गुरु निधनगतम् ।
भवति हि खलु गतिरतिचपला
त्वरितगतिरधिकमतिजगती1a ।। २२० ।।
(अतिचपला)1यथा ।
विधुणिअ2(य) जळधरमसिदपडं
दिअ(ज)3गणमुनि(ज)4वरपरिपडि(ठि)5दो ।
उदअगिरिसिहरतटमुकुटे (? तड-मडळे)6
विचरदि गगणतळमसु(?दळमसु)7 रवी ।। २२१ ।।
[विधूय जलधरमसितपटं
द्विजगणमुनिवरपरिपठितः ।
उदयगिरिशिखरतटमुकुटे
विचरति गगनतलमसौ8 रविः ।।] ।। २२२ ।।
यदि खलु पञ्चमनिधनगते द्वे चरणविधौ भवति(तो)हि गुरुणी तु । अतिजगती भुवि कथितगुणा सा मदकलितेव निगदितनामा(म्नी) (मदकलिताः)9 यथा ।
[गगन(ण)10त(द) 11लंगणमभिरुहमाणो रजतमहागिरिसिहरसरूवो । रजत(द)12मओ विअ(य) 13पिअकळ(ल)14सोसू पिअ(य)कुमुदोऽसू15 पविचरिदो विअ (दि हि)णिखि चन्दो ।। २२३ ।।
गगनतलाङ्गणमभिरोहन् रजतमहागिरिशिखरसरूपः । रजतमय इव प्रियकलशोऽसौ (?कुमुदोऽसौ) 16 प्रविचरितो वियति हि निशि चन्द्रः ]
Abh
एताः प्रावेशिक्यो द्रुतलयविषयाः ।
एसो गगणदळे मेहो । पडुपवणेण विधूदम् ।
ससिकिरणलम्बहारा । उडुगणकुसुमवदी ।
आकम्पन्तो गगणदळम् । पंकअसण्डे विमळजळे ।
Notes
1a. N: अतिचपला । Kavi,- अतिजगती.
एतास्तु जातयो ज्ञेयाः प्रावेशिक्यो द्रुतास्तथा ।
समवृत्तपदानां तु वर्धमानं निबोधत ।। २२४ ।।
एतासां लक्षणं पूर्वं सर्वमुक्तं विधानतः ।
प्रतिष्ठादि यथाच्छन्दः सम्यक् पदविभागतः ।। २२५ ।।
प्रतिष्ठा1 यथा
मेहरवं णवसरदे ।
णिसमिअ(य)2 कुद्धो भवइ गअ(य)3वरो ।। २२६ ।।
[मेघरवं नवशरदि निशम्य क्रुद्धो भवति गजवरः ।]
Abh
संपतो(त्तो) असु णवसरदो । मेहरवं सुणिऊण गओ ।
अब्भं अम्बुहरेइ पिणद्धम् । मेहसमूहं पीणबळाकम् ।
जलहरणादसमुव्विग्गो । एदे खिदिधरवरसदिसा ।
परिधुणमाणो किरणपडम् । गगणतलंगणहिंडणओ ।
कुसुमाकिण्णे णिम्मळसळिळे । मेहविदाणं अवधुणमाणो ।
गिरितडविवरे विघुण्णिदो । पविततकिरणसहस्सपिणद्धो ।
दिअगणमुनिवरपरिपडिदो । गगणतळंगणमभिरुहमाणो ।। १८२-२२३ ।।
एतदुपसंहरन् सहदिशं शिष्याणां दर्शयति । एतास्तु जातयो ज्ञेयाः प्रावेशिक्यो द्रुता इति । एताः प्रावेशिकीनां जातयः । एतन्मध्यादेव चान्या अविशङ्क्योत्प्रेक्षाद्य(क्ष्या य)था विश्रान्तान्मुखचपला । पा- (दगता)न्यक्षराणि गृहीत्वा वृत्तान्तरं निर्वर्त्यते । तथा च विक्रान्तायाः । विण्णविज्जो (विज्जुद्वण्णो) पीणा अंतो णादिगओ । (भ. ना. ३२. १६२) (विद्युद्वर्णः पीतान्तो नातिगतः) । इत्यत्रा- ष्टा(ष्ट)भिरक्षरैराद्यैश्चतुर्भिर्वृत्तान्तरं कल्प्यम् । तदाह ज्ञेया इति । अन्यदधुना प्रतिजानीते । समवृत्तपदानां तु वर्धमानमिति । समवृत्तेषु ये पादास्तेषां क्रमेणाक्षरे वृद्धिं गते यद्रूपं तन्निबोधतेति । शानच् तद्वयापारमभिदधद्वीप्सां सूचयति ।। २२४ ।।
तत्र चतुरक्षराणां या प्रतिष्ठाया आरभ्य जगत्यन्तमक्षरस्योत्तराधिक्येन वृद्धिरुदाहरणे दर्शिता । तत्रोष्णिग्गतं वर्धमानं त्र्यश्रे । अन्यच्चतुरश्रे । एवं यान्येतानि वर्णवृत्तान्युक्तानि तेषां तालयोजनां त्रिभिरभिधाय मात्राविभागो वक्तव्य इति तमाह । अत ऊर्ध्वमिति । गणश्चतुर्मात्रः । मात्राग्रहणं द्वयत्रयादिसंग्रहार्थम् ।
Notes
सुप्रतिष्ठा यथा ।1
विज्जुकसाहि अभिहतं व ।
रुददिव गगअं पसमिअगहतारम् ।। २२७ ।।
[विद्युत्कशाभिरभिहतमिव ।
रुदतीव गगनं प्रशमितग्रहतारम् ।।]
गायत्री ।
मेघरवधातुकर(रवातुरं)(रवाउलं)2न ट्ठगु (ग)हचन्दअं सकरं ।
रुददि किअ (किळं)3णहदश्ल4म्(सं) ।। २२८ ।।
[मेघरवातुरं (?खाकुलं)5नष्टग्रहचन्द्रकं (= चन्द्रं)6 सकलम् ।
रुदति किल नभस्तलम् (= नभः):7]
उष्णिक् ।
पु(ळु)8ल्लिअ(य)9तरुसण्डे सुरभि(हि) 10 पवणहदे ।
विअ(य)11रदि पमदवणे हंसो सहअ(य)12रिपरिवुदो ।। २२९ ।।
[फुल्लतरुषण्डे(खण्डे)13सुरभिपवनहते ।
विचरति प्रमदवने हंसः सहचरीपरिवृतः ।।]
वर्धमानं मयैवं तु त्र्यश्राणामपि कीर्तिंतम् ।
पुनश्च चतुरश्राणामेवमेवं निबोधत ।। २३० ।।
अनुष्टुप् ।
ताराबन्धवसणाहो विक्खिरमाणो मेहपडम् ।
किरणसहस्सविहूसिदी (दो)14 उदयदि एसो रअणिअ(य)15रो ।। २३१ ।।
[ताराबन्धवसनाधो विकिरन् मेघपटम् ।
किरणसहस्रविभूषित उदयत्येष रजनिकरः ।।]
बृहती ।
16एसो सुमेरुवणत(क)म्मि दिअ(ज)17 देवसिद्धपरिगीदो ।
सुरहिसुअं(णं)18धवणचारी पविचरदिवि (?)19 णहंगणदूतवातो ।। २३२ ।।
Notes
[एष सुमेरुवनकम्पी(?वने) 1दिवि(?द्विज)2देवसिद्धपरिगीतः ।
सुरभिसुगन्धवनचारी प्रविचरतीव नभोऽङ्गणदूतवातः ।। (?)3]
पङ्क्ति ।
पादप(व)4सण्डं कम्पअमाणो सुरहिसुअ(ग)5न्धसुवासिदओ ।
उपवणतरुगणलासगओ विअरति (विचरदि)6वरतणु वणपवणो ।। २३३ ।।
पादपषण्डं7 (खण्डं)कम्पयमानः सुरभिसुगन्धसुवासितकः ।
उपवनतरुगणलासको8विचरति वरतनु वनपवनः ।।
त्रिष्टुप् ।
कुमुदवन(ण)9स्स विहूसणओ विधुणिअ(य) 10तिमिरपडं गगणे ।
उद्रअं(य)11गिरिसिहरमहिरुहन्तो रअणिकरो उदयदि विमल12करो ।। २३४ ।।
कुमुदवनस्य विभूषणो विधूनित(विधूय)13तिमिरपटं गगने ।
उदयगिरिशिखरमधिरोहन् रजनिकर उदयति विमलकरः ।।
जगती ।
दिअ(य)14वरमुनि(णि)15गणसंवुदओ(संथुदओ?)16 तविअ(द)17सुवण्णपिण्डसमदेहओ ।
गगणदलंगणमभिरुहमाणो विअरदि (विचरदि)18 एस दिवसकरो ।। २३५ ।।
[द्विजवरमुनिगणसंवृतक(संस्तुतक?)19स्तप्तसुवर्णपिण्डसमदेहः ।
गगनतलाङ्गणमभिरोहन् विचरति एष दिवसकरः ।।]20
एतास्तु जातयो ज्ञेयाश्चतुरश्रविवर्धिताः ।
अत ऊर्ध्वं प्रवक्ष्यामि गणमात्राविकल्पनम् ।। २३६ ।।
त्र्यश्रायां तु(यास्तु)गणाः पञ्च सन्निपातो विधीयते ।
अष्टौ च चतुरश्रायाः सन्निपातो भवेत्तथा ।। २३७ ।।
Abh
गणद्वारेण विधानविभागार्थकल्पनं वर्णवृत्तानामेव योजनं वक्ष्यामीति ।। २२५-२३६ ।।
तत्र त्र्यश्रायास्तालजातेः पञ्च गणाश्चतुर्मात्राः । सन्निपातः परिच्छेदः । चतुरश्राया अष्टौ ।। २३७ ।।
Notes
द्वौ पादौ सन्निपातश्च ध्रुवाणां परिकीर्तिताः ।
द्रुतं च शीर्षकं चैव हित्वान्यानि भवन्ति वै ।। २३८ ।।
अक्षरपिण्डस्त्र्यश्रे पञ्चादिर्नवपरश्च विज्ञेयः ।
अष्टादिश्चतुरश्रे त्रयोदशपरस्तु विज्ञेयः ।। २३९ ।।
सर्वगुरुश्चाष्टादिस्त्रयोदशपरश्च सर्वलघुः ।।
एष त्र्य(त्व)क्षरपिण्डो विज्ञेयो वै ध्रुवाविधानज्ञैः ।। २४० ।।
Abh
तत्र पञ्चाक्षरा सुप्रतिष्ठा । तदवसानं त्र्यश्रभेदो दर्शितः । तत्र सर्वगुरौ पादद्वये दश गुरवो भवन्ति । त एव मात्राविभागेन पञ्चगण इति पादद्वये तालसमाप्तिः । तदाह । द्वौ पादौ सन्निपातश्च ध्रुवाणामिति । अत्रापवादमाह । द्रुतं च शीर्षकं हित्वेति । तयोस्तु गणविधिरन्य एव वक्ष्यते । एवमेतद् गण्यम् । यान्यन्यानि वृत्तानि तान्यनेन क्रमेण भवन्ति । एवं वर्णवृत्तेषु मात्राविभागेन तालयोजने दिग्दर्शनं कृतम् । न त्विदमेव तावदेवेति मन्तव्यम् । तेनाष्टाक्षरायामनुष्टुभि सर्वगुरुणा पादद्वये गणाष्टकम् । भवति तावत् त्रिचतुरश्रतालः । एवं गुरुलघुव्यतिकीर्णेषु वृत्तेषु गणविभागकल्पनया पादे वा द्वये वा त्र्यश्रचतुरश्रयोजनं कल्प्यम् । तद्यथा । वसन्ततिलकं (भ.ना.१५.८७) मात्राविभागे पञ्चगणमिति त्र्यश्रे ।। २३८ ।।
एवं विभागेन तालच्छेदं वर्णविभागेनैवाह । अक्षरपिण्डस्त्र्यश्रे पञ्चादिर्नवपर इति । बृहत्यन्त इति यावत् । अष्टादिश्चतुरश्रे त्रयोदशपर इति । अनुष्टुभो जगत्यन्तः ।। २३९ ।।
ननु यदा पञ्चाक्षराणि त्र्यश्रे तालच्छेदस्तदा कीदृग् गुरुलघुविभाग इत्याह । सर्वगुरुश्चाष्टादी (दिरी)त्याह । पञ्चशब्देन पञ्चकोऽक्षरपिण्डः सर्वगुरुः । तेन देवं वन्दे शर्वं त्वामिति त्रिकले तालः । अन्यकला हि विश्रान्त्या गुरुणैकेनैव । पर इति । नवकपिण्डो यः परः सर्वलघुः । जय जय शशिमकुटा(ट) । तृतीया कला ह्रस्वेनैव विश्रान्त्या । चतुरश्रे तु गौरीदेहार्धम् तावत् वन्दे यावत् जय जय भुवननत शशिधर । एतदन्तरालस्त्वित्थमेव गुरुलघुविभागेनोह्यः । यथा त्र्यश्रे षडक्षरे द्वौ लघू चत्वारो गुरवः ……मां त्वामिति । एतन्निगमयति । एष त्वक्षरपिण्ड इति । द्रुतं शीर्षकं च हित्वेति तद्विषयं रूपान्तरं सूचितम् ।। २४० ।।
गणमात्रांशविकल्पं व्याख्यास्यामि द्रुतायाश्च(स्तु) ।
अर्धषष्ठगणैः(ण)पादैः(दः) सन्निपातो द्रुतास्वथ ।। ३४१ ।।
मात्रा द्वाविंशतिश्चैव गुरुलघ्वक्षरान्विताः ।
शीर्षकाणामनियमो भवेत् पादविधानतः ।। २४२ ।।
नानावृत्तसमुत्पन्नं कुर्याद्वै शीर्षकं बुधः ।
गुर्वादिरथ लघ्वादिर्युग्मः सर्वलघुस्तथा ।। २४३ ।।
चतुर्मात्रा(त्रो) गणो ज्ञेयः पूर्वच्छन्दो विकल्पितः ।
अर्धाष्टमगणाः पादाः शीर्षकस्य भवन्ति वै ।। २४४ ।।
Abh
तत्र द्रुतविषयं प्रतिजानीते ।
गणमात्रांशविकल्पं व्याख्यास्यामि द्रुतायास्तु ।
अर्धषष्ठगण इति ।
द्रुतलये बहूनां वर्णानां गीत्या ग्रासः कार्य इत्यर्धगणोऽत्राधिको भवति । तेन त्र्यश्रायां द्रुतध्रुवायां सार्धपञ्चगणाः कार्याः ।। २४१ ।।
अत्र द्वाविंशतिर्मात्रा भवन्ति प्रतिगणं चतस्र इति कल्पनया । गुरुलघुनिवेशस्तु यादृच्छिकस्थानमात्रम् । द्रुतायामर्धाधिक्याभिधानेन चतुरश्रद्रुतायां सार्धा अष्टौ गणा इति दर्शितमेव भवति ।। २४२ ।।
एवं द्रुतानां विधिमुक्त्वा शीर्षकाणामाह । नानावृत्तसमुत्पन्नः(न्नं) कुर्याद्वै शीर्षकमिति । शीर्षकं ध्रुवोचितं वृत्तशीर्षकं नानावृत्तेभ्यः समुत्पन्नमुक्तपूर्वेभ्यो वृत्तेभ्यो गणविभागौचित्येन कल्पनमिति यावत् । तत्र च तालविधिमाह ।
गुर्वादिरथ लघ्वादिर्युग्मः सर्वलघुस्तथा ।
इति शीर्षकाणामुत्तमविषये विनियोग इति युग्म एव चञ्चत्पुटः । चतुरष्टषोडशात्मकभेदास्त्रयः । तथेति । तेन वृत्तप्रकारेण योज्यम् । अन्येन चञ्चत्पुटस्य कलापाद(दि)वैचित्र्ये ये प्रभेदा भवन्ति तेषु दिग् दर्शिता । तदाह । गुर्वादिरित । प्रथमप्रस्तारभेदः । तथा लघ्वादिः । प्रस्तारान्तरप्रकारः । सर्वलघुरिति । सर्वान्त्यभेदेन प्रस्तारसमाप्तिरिति पिशुनतया……कोहलादिप्रदर्शितमिति भवति ।। २४३ ।।
एवं तालविधिप्रस्तारं
गुर्वादिरथ लघ्वादिर्युग्मः सर्वलघुस्तथा ।
चतुर्मात्राश्च विज्ञेया युग्मौजाक्षरकैः पदैः ।
शीर्षकस्यैकविंशत्या षड्विंशतिपरस्तथा ।। २४५ ।।
अक्षराणां भवेत् पिण्डः पादे ह्येकत्र निश्चयात् ।
युग्मा ओजा मिश्रा वादौ कार्या गणास्तु चत्वारः ।
नियतं शीर्षविधाने पश्चाल्लघुसंचयः कार्यः ।। २४६ ।।
Abh
इत्यनेनाभिधाय नानावृत्तसमुत्पन्नं शीर्षकं कुर्यादिति यदुक्तं तद्गणविभागेन सामान्येन निर्णेतुं चतुर्मात्रो गण इति गणस्वरूपाभिधानपूर्वकमाह । अर्धाष्टमगणाः पादाः शीर्षकस्येति । एवं च गणानामेव प्राधान्यं न तु वर्णानामिति दर्शयति ।। २४४ ।।
युग्मौजाक्षरकैः पदैरिति । युग्मानि सामान्योजानि विषमाणि येषु सन्ति तैः । मत्वर्थीयष्ठञ् । पदशब्देन पादः । एतदुक्तं भवति । अक्षराणि समानि विषमाणि वा एकादशप्रभृतीनि चतुर्मात्रा गणा योजयितव्या इत्यवधातव्यमिति । अथ शीर्षके वर्णवृत्तिविषयं सामान्यलक्षणमाह । शीर्षकस्यैकविंशत्या षड्विंशतिपर इति । शीर्षकस्यैकत्र पादे अक्षरश्रुतिरकर्तव्यः । एषा यदि परसंख्या कार्या आहरेः । एकविंशत्येति लक्षणे तृतीया ।। २४५ ।।
निश्चयादिति । एतावानेव परवान् नियम इत्यर्थः । तेन सर्वलघुत्वे षड्गणा मात्रा द्वयाधिका इत्युक्तं भवति ।
अथात्रैव विशेषमाह ।
युग्मा ओजा मिश्रा आदौ(?वादौ) कार्या गणास्तु चत्वारः ।
(नियतं शीर्षविधाने) पश्चाल्लघुसंचयः कार्याः ।।
इति । अक्षरपिण्डविषयमेतत् । तेनादौ चतुर्मात्राश्चत्वारो युग्मा गुरुद्वयलघुचतुष्टयरूपाः। ओजा द्विलघुस्वरूपाः । मिश्ररूपा……लघव इत्ययमक्षरपिण्डः परिपूरयितव्य इति । वक्ष्यमाणमत्ताक्रीडादि (भ.ना.३२.२६८) विषयमिदमिति केचित् । युग्मौजमिश्रत्वं तालकृतम् । तच्च समुदायस्य शीर्षके । तथोत्तमविषये तु युग्मत्वमन्यं त्वन्यविषयमिति केचित् । उदाहरणम् । भगवन् परमशिव त्वां वन्दे सपदि । इति ।। २४६ ।।
त्रीणि गणा यस्य मुखे त्रीण्येव हि यस्य चावसानानि ।
मध्ये चेद् गुरुणी द्वे तच्चपलं शीर्षकं भवति ।। २४७ ।।
पूर्वार्धेऽथ(र्वे ह्यर्धे)चतुर्ह्नस्वा मिश्रा गणास्तु चत्वारः ।
पादे भवन्ति नियतं पश्चाल्लघुसंचयः शेषः ।। २४८ ।।
एकद्विकल(लं) त्रिकला च(श्च) तुष्कलाः षट्कलास्तथो(तोऽ)ष्टकला(:) ।
कार्या ध्रुवाविधाने प्रासादिक्यन्तराक्षेपैः ।। २४९ ।।
Abh
त्रीणी गणा यस्य मुखे त्रीण्येव हि यस्य चावसानानि ।
मध्ये चेद् गुरुणी द्वे तच्चपलमिति ।।
अवसानापेक्षया नपुंसकत्वम् । अन्ते निर्वहन्तीत्याशयेन सामान्योपक्रमात् प्रथमं तेनैव निर्देशः । यतिश्च प्राप्याः । अक्षरपिण्डविषयमेवोदाहरणम् । शिव तव पुरमिह नन्दे सकलजनहृदयकृतमिति । द्रुतेऽपि यथा पादः शीर्षकस्य ।। २४७ ।।
अस्यैव पूर्वव्यामिश्रणेन भेदान्तरमाह । पूर्वे ह्यर्धे इति । चतुर्ह्नस्वाश्चतुर्मात्राश्चत्वारः पूर्वेऽर्धे । मिश्रा इति । सम्भवेत् ततो लघु इत्याद्ये पादद्वये लक्षणमित्यस्मिंस्तु पादद्वये य(व)स्त्वन्यदुक्तं त्रीणि गणा यस्येति कृतलक्षणं योज्यम् । पाद इति जातौ । पादयोरिति यावत् । एकवचनानुरोधात् त्रिपदीयं वृत्तजातिरिति केचित् ।। २४८ ।।
अथात्र तालविधिवैचित्र्यमाह ।
एकद्विकला(लं) त्रिकलाश्चतुष्कलाः षट्कलास्तथा(तोऽ)ष्टकलाः इति । प्रासादिकीत्वेनाक्षेपिकीत्वेनोपलक्षिते ध्रुवाविधाने त्रिचतुःषडष्टकलाः क्रियन्ते । ततस्कारेण एककलद्विकलौ यौ विधी उक्तौ तदनुसारेणैककला कार्या । एककलानुसारश्च यथाक्षरविधिना विचित्ररूप इति प्लुतगुरुलघुद्रुतात्मेत्युक्तं भवति । एककलप्रस्तारात् पञ्चद्विकलो विधिः । अत एव चतुष्कलः पुनर्नोक्तः । द्विकलप्रस्तारस्य तदीयस्य लाभात् आवापादिभेदस्य चानुपयोगात् । अनेन प्रावेशिकीनैष्क्रामिक्योरेव गुर्वात्मा
त्र्यश्रे विरामस्त्रिकलश्चतुरश्रे चतुष्कलः ।
प्रावेशिक्या ध्रुवायास्तु नैष्क्रामिक्यास्तथैव च ।। २५० ।।
1विरामो 2द्विकलोऽप्य(त्य)न्तमन्तरायाः समासतः ।
पादान्ते द्विविरामस्तु क्षिप्तायाश्च प्रकीर्तितः ।
स्थितायाश्च तथा ३३४५र्थेप्रासादिक्यास्तथैव च ।। २५१ ।।
कलाकलार्धयोगेन गुरुलघ्वक्षरान्विताः ।
त्रयो ध्रुवाणां विज्ञेयाः संयोगा वृत्तसंश्रयाः ।
सर्वदीर्घः सर्वलघुर्गुरुह्रस्वाक्षरस्तथा ।। २५२ ।।
Abh
प्रस्तार इत्युक्तं भवति । शीर्षकप्रकरणेऽपि प्रसङ्गादयुग्मतालोऽपि (प्रतिपादितः) ।। २४९ ।।
अथ प्रावेशिकीनैष्क्रामिक्योर्वक्तव्यशेषमाह । त्र्यश्रे विरामस्त्रिकल इति । समस्तविवक्षिततालान्ते विरामः कार्यः । न तु मध्ये (इति) तात्पर्यम् ।। २५० ।।
अथान्यासु विरामनियममाह । विरामो द्विकल इति । अन्तरध्रुवायाः पदसमाप्तौ कलाद्वयपरिमाणालंकारवैचित्र्येण वा तूष्णीकतया विश्रान्तिः कार्या । अत्यन्तमिति ततोऽधिकेत्यर्थः । तुश्चार्थे । आक्षेपिक्या अप्येवमेव । द्विविराम इति । द्विकलो विराम इति मध्यमपदलोपे द्विविराम इति । स्थितायाः प्रासादिक्याश्च पादद्वये समाप्ते तावती विश्रान्तिः । न तु त्रिपादमिति यावत् ।। २५१ ।।
अथ वृत्तविभागेनापि यथाक्षरस्थित्या तालवैचित्र्यमस्तीति दर्शयितुमाह ।
कलाकलार्धयोगेन गुरुलघ्वक्षरान्विता(:) ।
इति । कलासहितं कलार्धं प्लुतं कला च गुरुरूपा कलार्धं लघु कलार्धं चेत्येकशेषं(षो) युज्यते । आद्यावस्थायां लघुभावेन नियोगे द्रुतकला कलार्धादियोगश्चेति समाहारः । तदयमर्थः । प्लुतगुरुलघुद्रुतोपलक्षिततत्समूहरूपा वक्ष्यमाणा ये ध्रुवाणां त्रयः संयोगास्ते वृत्ताश्रयाः कार्याः । वृत्ताश्रयं त्वाह । गुरुलघ्वक्षरान्विता इति । गुर्वक्षरे लघ्वक्षरे च द्वि(कल)ता लग्ना । एतदुक्तं भवति । यत्र छन्दो गुरु तत्र तालगुरु(तालो गुरुः) । एवं लघु निवार्यम् । यत्र च लघुगुरु(रू) तत्र तालप्लुतं तथापि च तालद्रुतम् । तद्यथा । षट्कलमित्यत्र गुरुलघुगुरूणि गुरुद्रुतगुरूणि प्लुतगुरुणी गुरुप्लुते इति चतुर्धा प्रस्तारः स्थापनीयः । एवं सर्वध्रुवासूह्यम् । एष एव समवृत्तेऽपि
Notes
गुरुप्राया स्थिता कार्या लघुप्राया द्रुता तथा ।
गुरुलघ्वक्षरप्राया प्रासादिक्यन्तरा तथा ।। २५३ ।।
एवं ध्रुवाणां कर्तव्या जातयो वृत्तसम्भवाः ।
अत ऊर्ध्वं प्रवक्ष्यामि शीर्षकाणां तु लक्षणम् ।। २५४ ।।
आद्यमन्त्यं तृतीयं च पञ्चमं सप्तमाष्टमे ।
गुरूणि यस्याः पादे तु सा श्येनी तु कृतौ (? प्रकृतौ)1a यथा ।। २५५ ।।
(श्येनी) 1 यथा ।
सागरं समुधु(द्धु)णंतो रप(व) इव लघुगदिरभिभवदि
पव्वदा समाहणंतो तरुसु ज जणअ(य)2दि भयमतुलम् ।
रेणुजालमुक्खिवन्तो दिवसकरकिरणो [ण उप (व)3कलितो(दो)]4
बोधअं(यं)5पजासु कामं विचरदि वरतनु(णु)6 सुहपवणो ।। २५६ ।।
Abh
चतुर्लयादेर्विषयः । तत्र त्रयः संयोगा इत्याह । सर्वदीर्घ इति । यत्र सर्वे प्लुताः । सर्वलघुरिति । यत्र सर्वे द्रुताः । गुरुह्रस्वाक्षर इति । प्लुतगुरुलघुद्रुतमय इत्यर्थः । प्लुतद्रुतयोश्च गुरुलघुत्वमुक्तपूर्वम् ।। २५२ ।।
अस्य वृत्ताश्रयस्य तालस्य विभागमाह । गुरुप्राया स्थितेति । यथा….। लघुप्राया द्रुतेति । यथा खरनखर । गुरुलघ्वक्षरप्राया तु यथा अनन्तादि । प्रासादिक्यन्तरे प्रत्येकं सम्बध्य(ध्ये)ते ।। २५३ ।।
प्रासङ्गिकमुपसंहरति । एवमिति । वृत्तसम्भवा वृत्तगीतगुरुलघ्वाश्रया ध्रुवाणां जातयः । तालप्रकार एवं कार्याः । अथ प्रकृतमेव शीर्षकविधिमनुबध्नन्नाह । अत ऊर्ध्वमिति ।। २५४ ।।
लक्षणविशेषं तत्प्रकृतेराद्यमुत्कृत्यन्तमाहाद्यमित्यादिना । र्जौ गौ श्रुतिमं(नं)गश्च श्येनी । न्जौ ज्यौ नौ लो गुरुरिति चपला । मतयां(यं) श्रुतिनं गयुतं क्रौञ्चम् । भमसागं श्रुतिनं गं पुष्पसमृद्धा ।।
नयभं गौ श्रुतिनं गं सम्भ्रान्तम् । भत्रयमथ गौ श्रुतिनं गं स्खलिता । मौ गौ शरनं लगि चेन् मत्ताक्रीडा । नजनसभं श्रुतिनं लगि वेगा । अष्टौ शीर्षक जातय एता उत्तमविषये युग्मताले ।।
Notes
1a.(——-) Not read by Kavi
[सागरं समुद्धुन्वन् रव इव लघुगतिरभिभवति
पर्वतान् समाघ्नन् तरुषु च जनयति भयमतुलम् ।
रेणुजालमुत्क्षिपन् दिवसकरकिरणोपकलितो
बोधयन् प्रजासु कामं विचरति वरतनु सुखपवनः ।।]
प्रकृत्यां पञ्चमान्त्ये तु ह्यष्टमैकादशे गुरू ।
द्वादशं चेति विज्ञेयं नामतश्चपला यथा ।। २५७ ।।
(चपला यथा)1
मुनि(णि)2गणमण्डवि(लि)बन्धि(वन्दि)दओ(ते)जो विधुणिअ(य)3तिमिरपडम्
कमलवणाइं विबोधि(ध)4अ(य)5माणो गहगणपरिगण(णि)6दो ।
भुजगसहस्सविबन्धिदपासो(पादो?)7वितवित(द)8वितकणकवपू ।
उदअ(य)9दि संपदि ताविदलोओ वरतनु(णु)10 दिवसकरो ।। २५८ ।।
[मुनिगणमण्डलि(ली)11वन्दिततेजा विधूय तिमिरपटं
कमलवनानि विबोधयमानो ग्रहगणपरिगणितः ।
भुजगसहस्रविबन्धितपार्श्वो विद्यो( ?वि(सु) )12तितकनकवपुः ।
उदयति सम्प्रति तापितलोको वरतनु दिवसकरः ।]
Notes
1.(——-) Not read by Kavi; 2.(——-) Not read by Kavi; 3.(——-) Not read by Kavi; 4.(——-) Not read by Kavi; 5.(——-) Not read by Kavi; 6.(——-) Not read by Kavi, 7.(——-) Not read by Kavi; 8.(——-) Not read by Kavi; 9.(——-) Not read by Kavi;
पञ्च त्वादौ यत्र तु दीर्घं नवममपि च गुरुसमयकृतं
दीर्घं चान्त्यं चाष्टममन्यल्लघु विरचितमिह चरणविधौ ।
वृत्ते ज्ञेया जग (जा) तिरपीयं बहुविधनिचयचितविहिते
क्रौञ्चं (?क्रौञ्चा)1नाम्ना छन्दसि चोक्ता द्विजगणमुनिगण(परि)पठिता ।। २५९ ।।
(क्रौञ्चा)2 यथा ।
एसो चन्दो णिम्मलजोह्णा (ह्णो)3विधुणिअ(य)4घणमसिदपट(ड)5णिहं
लोकाण6न्दो लोकपदीवो उडुगणगहप्प (ग) णसमणुगदो ।
वा(पा)7सादाणंकारअ(य)8माणोसित(द)9पडणिणिवसन(ण)10मिव विपु(?उ)11लम् ।
लोकालोकं रञ्जअमाणो विचरदि वरतणु गगणमसू ।। २६० ।।
एष चन्द्रो निर्मलज्योत्स्नो विधूय घनमसितपटनिभं
लोकानन्दो लोकप्रदीप उडुगणग्रहगणसमनुगतः ।
प्रासादानां कारयमाणः सितपटनिवसनमिव विपुलं
लोकालोकं रञ्जयमाणो विचरति वरतनु गगनमाशु (?मसौ)12 ।।
Notes
आद्यचतुर्थं पञ्चमषष्ठं नवममथ च (मथ दशमं) निंधनगतं
ये च ततोऽन्ये येषु लघुत्वं यदि भवति च चरणम(ग)तिविधौ ।
सा विकृतिः स्यात् पुष्पविवृ(समृ)द्धा द्विजगणमुनिगणपरिपठिता
1नामविकल्पाद् वृत्तकृता 1a 1bबुधजनबहुमत पदनियमा ।। २६९ ।।
(पुष्पसमृद्धा) यथा ।
पुप्फविदाणं उद्धुणमाणो रव2 इव पटतुर(द्रुत)गतिरभिपत(ड)ति(दि)3 ।
पक्खळमाणो मेहतडेसुं4 तरुसु च जणयदि भयमतु(ल)5म् ।
अम्मिसहस्सं उद्धुणमाणो 6सरसखुभिदसलिलकलकतो
भीमणिणादो चण्डपवाही विअरदि वरतणु 8सुहपवणो ।। २६२ ।।
[पुष्पवितानमुद्धूनयमानः (मुद्धुन्वन्)9 रव इव पटुगतिर (द्रुतगति)10भिपतति
प्रस्खलमानो मेघ(शैल)11 तटेषु तरुषु च जनयति भयमतुलम् ।
ऊर्मिसहस्रमुद्धूनयमानः (मुद्धुन्वन्)12 सरसक्षुभितसलिलकलो
भीमनिनादश्चण्डप्रवाही विचरति वरतनु सुखपवनः ।।]
अन्त्यं च पञ्चमं षष्ठं सप्तमं दशमं परम् ।
वृत्ते सङ्कृतिसंज्ञे तु सा(सं)भ्रान्ता नामतो यथा ।। २६३ ।।
Notes
(संभ्रान्ता)यथा ।1
किरणसहस्सं विक्खिरमाणो फलि(टि)ह(क) [? फलिइ]2 मणिरुचिरधवल3णिहो
कुमुदवणाइं वोहअ(य)4माणो कुमुददळनिअ(य)5रसदिसवपू ।
गहगणबन्धू लोक6पदीवो उडुगणगहगणसमणुगदो
उदयदि चन्दो रोहिणिकन्तो णवसरद(दि)7मुदितसुख(इ)8 जणणो ।। २६४ ।।
सरदि कुमुदि गण सुहदो
[किरणसहस्रं विकिरन् स्फटिकमणिरुचिरधवलनिभः
कुमुदवनानि बोधयमानः कुमुददलनिकरसदृशवपुः ।
ग्रहगणबन्धुर्लोकप्रदीप उड्डगणग्रहगणसमनुगत
उदयति चन्द्रो रोहिणीकान्तो नवशरदि मुदितसुखजननः ।।]
आद्यमन्त्यं चतुर्थं च सप्तमं दशमं तथा ।
गुरूण्येकादशं चैव संकृतौ वृत्तसंश्रयम् ।। २६५ ।।
लघून्यन्यानि शेषाणि पादे यस्मिन् भवन्ति तु ।
तज्ज्ञेयं शीर्षकं तज्ज्ञैः स्खलितं नामतो यथा ।। २६६ ।।
Notes
स्खलितं यथा ।
*वात(द)समुद्धत(द)वीचितरङ्गो फडिअ(फलिह?)मणि-णिकर [रुचिर?सदिस] जले
वीचिपरम्पर -घोर-णिणादो षटु(पडु?)पवण-लुलिद प-विहग-कुलो ।
मीणकुलाकुलभीमतरङ्गो खुभिद-घण-णिवह -सदिस-रवो
तुङ्गमहीधर-माण-णिरुद्धो रुसिदो इव सपदि सलिल-णिधि(णिही) ।। २६७ ।।1
[वातसमुद्धतवीचितरङ्गः स्पटिकमणिनिकर(रुचिर?)सदृशजलो
वीचिपरम्परघोरनिनादः पटुपवनलुलितविहगकुलः ।
मीनकुलाकुलभीमतरङ्गः क्षुभितघननिवहसदृशरव-
स्तुङ्गमहीधरमाननिरुद्धो रुषित इव सपदि सलिलनिधिः ।।]
अष्टावादौ दीर्घाणि स्युर्यदि च पुनरपि हि भवति बहु लघुगणो
भूयश्चान्ते दीर्घं त्वेकं यदि भवति पदि पंदि पुनरपि च तथा ।
मत्ताक्रीडा विद्युन्मालेत्यपि च विविधकविभिरपि बहुभिरुदिता
नाम्ना छन्दोवृत्ते देवीत्यभिकृतिगतिविधिषु च नियतमभिहिता ।। २६८ ।।
Notes
*The example of Skhalitam (skhalita) Dhruvā which according to Bharata should have been in ś aurasenī Prakrit, is given here in Sanskrit ! The text and its Sanskrit Chāyā are itdetical !!! very strange indeed ! See however, G.-p. 123, V.No.316 and U.p. 959 V.No.279
मत्ताक्रीडा (विद्युन्माला)1 यथा-
एसो मेहो सेलाभोगो(ओ) असणिमुरजपटु(डु)पट(ड)ह [ख]2सम(द)रओ
णाणाविज्जुज्जो आलोओ घणपडळ निचयजकळधरसम(रम)णुगदो ।
णाणाष(व)3ण्णो तोउग्गारी चरित(द)4द (ध)5वलरवगविचरित(द)6कुंमु(सु)7मपभो
संजा(च्छा)8अ(य)9न्तो लोअं(यं)10याते(तो) गिरिरिव(चल)11
गिरिणिवह इव सुभसळिळो ।। २६९ ।।
सागरं समुद्धणन्तो रह(व) इव लघुगदिरभिभवहि(दि) ।
मुनिगणमण्डलिबन्धि(वन्दि)द ओ (ते)जो विधुणिअ तिमिरपडम् ।
एसो च्छ(च)न्दो णिम्मकजोह्णा विधुणिअ अणुतमवन्धमिदम् (घणमसिदपटणिहम्)।
पुप्फविदाणं उद्धुणमाणो रव इव दुतगति अभिपडदि ।
[एष मेघः शैलाभोगोऽशनिमुरजपटुपटहरवसमरवो ।12
नानाविद्युद्योगालोको घनपटलनिचयजलधरमनुगतः ।
नानावर्णस्तोयोद्गारी चरितधवलखगविचरितकुसुमप्रभः
संछादयन् लोकं यातो गिरिरिव [चल]13गिरिनिवह इव शुभसलिलः ।।]
Notes
- समदरवो;
पञ्चमं द्वादशं चैव दीर्घमन्त्यं त्रयोदशम् ।
उत्कृत्यां तु भवेत् पादे वृत्तं वेगवती यथा ।। २७० ।।
वेगवती यथा1 ।
गगणतलंगणमभिरुहमाणो उडुगणगहगणसमणुगदो
यु(जु)2वति(इ)3जणाणं(जणाणत)4सुरुचित(र)5रूवो सुखितदयितजणमदणकरो ।
किरणसहस्सवि(दि)सुरचितबन्दो(न्धो)6रजतगिरिसिहरसदिसवपू
उदअ(यु)7दि संपदि असु जगदीवो कुमुदवणरुचिरविमल8करो ।। २७१ ।।
[गगनतलाङ्गणमभिरोहन्नुडुगणग्रहणसमनुगतो
युवतिजनानतसुरुचितरूपः सुखितदयितजनमदनकरः ।
किरणसहस्रदिग्राचितबन्धो रजतगिरिशिखरसदृशवपु-
रुदयति सम्प्रत्याशु जगद्दीपः कुमुदवनरुचिरविमलकरः ।।]
एता ह्यष्टौ बुधैर्ज्ञेयाः शीर्षकाणां तु जातयः ।
पुनर्नर्कुटकानां तु सम्प्रवक्ष्यामि लक्षणम् ।। २७२ ।।
Abh
किरणसहस्सं विख्खि(क्खि)रमाणो फकलि1 (? फलिह)2 मणिरुचिरधवल3 णिहो ।
वातसमुद्धतवीचितरङ्गे स्फटिकनिकरसदृशजले ।
एसो मेहो सेलाभोओ असणिमुरजपडहसम (द) रवो ।
गगणतलङ्गणमभिरुहमाणो उडुगणगहगणसमणुगदो ।
अथाधमविषयाः प्रासादिक्यादयो ध्रुवा उच्यन्ते । पुनर्नर्कुटकानामिति । नटोऽधमप्रकृतिः । तत्र भवानि नर्कुटानि वृत्तानि । ततः संज्ञायुं (यां)कः (कन्) (अष्टा. ५.३.७५) । अधमविषयाच्च त्र्यश्रोऽत्र तालः ।। २५५-२७२ ।।
Notes
अष्टौ नर्कुटकानां तु विज्ञेया जातयो बुधैः ।
दर्शनं लक्षणं त्वासां नामानि च निबोधत ।। २७३ ।।
रथोत्तरं बुद्बुदकमुद्गतं वंशपत्रकम् ।
शिवाक्षरा हंसवती हंसास्यं तोटकं तथा ।। २७४ ।।
प्रथमं च तृतीयं च सप्तमं नवमान्त्यके ।
गुरूणि त्रैष्टुभे यत्र नर्कुटं तद् रथोत्तरम् ।। २७५ ।।
(नर्कुटं रथोत्तरं)1यथा ।
एसिका कमलगब्भगेहके
रेणुपिञ्जरित(द)चारु गति(त्ति?)2या (आ)।
सारदे मदकलोपकूजिदा
हिण्डदे सरवरम्मि छप्पदी ।। २७६ ।।
एषका(=एषा)3कमलगर्भेगेहके (=गेहे)4
रेणुपिञ्जरितचारुगात्री5 ।
शारदे मदकलोपकूजिता
हिण्डति सरोवरे षट्पदी ।।
पञ्चमं सप्तमं चैव नैधनं च गुरूण्यथ ।
पादे तु बृहतीसंस्थे यत्र बुद्बुह्य(द)कं यथा ।। २७७ ।।
(बुद्बुदकं)6 यथा ।
तडिगुणबन्धणिद्धओ(अद्धो)(?णिबद्धो )7 सिदखगपंतिसोहिदो ।
णहसि गजो समुग्गओ विचरदि एस मेहओ ।। २७८ ।।
[तडिद्गुणबन्धनिबद्धो सितखगपङ्क्तिशोभितः ।
नभसि गजः समुद्गतो विचरति एष मेघकः ।।]
अन्ये तु ।
सतृतीयपञ्चमनवमं त्रयोदशं षोडशं तथा
दशमात्परं च निधनं चतुर्थगम् ।
यत्र वै गुरु भवतीह शेषलघुसंयुतं
वृत्तौ स्याच्च संश्रितं प्रवदन्ति बुद्बुदकमेव नर्कुटं तद्धि नामतः ।।
Notes
- चिरकालमभिसम्भरन्त(न्तं)पिअं गाणत्त मुहिदं ण रोद्धम्
मुदिमाणइत्तडिदिदो काणणे घणे परिखेदिदे बहुविधे हि अणुगो वासराहरो ।
तरुसन्धुवज्जुहिअए संचसि(लि)ओ भीदभीदओ
असु कोधरं विसरइ(सइ) पासवा(पा)दवेच्छ दीणदीणओ ।।
[चिरकालमभिसम्भरन्तं प्रियगानान् मुदितं न रोद्धुं
मोदमानायां तडितीतः कानते घने परिखेदिते बहुविधे ह्यनुगो वासराहरः ।
तरुसन्धुवनं दृष्ट्वैतच्चषको भीतभीतक
आशु कोटरं विशति पार्श्वपादपस्थो दीनदीनकः ।।]
तृतीयं पञ्चमं चैव नवमैकादशे तथा ।
द्वादशं षोडशं चैव चतुर्दशमथापि च ।। २७९ ।।
अस्मिन्नष्टिकृते पादे गुरूण्येतानि सर्वशः ।
छन्दोज्ञैर्ज्ञेयमेतत्तु नर्कुटं ह्युद्गतं यथा ।। २८० ।।
उद्गतं यथा 1
वणखण्डं (ण्डकं)जहदि कोसिको वायसाहदो
भयभीदओ अवदि(भजदि)पादपं(वं)2 दीणदीणओ ।
तरुकोटरं वसदि सम्पदं ळोळणेत्तओ
समभिद्व(द्दु)3दो णिसिअ(य)रो अअं एदि सोहिदो ।। २८१ ।।
[वनखण्डकं जहाति कौशिको वायसाहतो
भयभीतको भजति पादपं दीनदीनकः ।
तरुकोटरं वसति साम्प्रतं लोलनेत्रकः
समभिद्रुतो निशिचरोऽयमेति शोधितः ।।]
अन्ये तु ।
प्रथमे यदा तु गुरु यत्र चान्तं
तृतीयकं यदि च द्वितीय…..ता गुरु ।
अथ षोडशाक्षरे कृते तु पादे
चतुर्थकं त्रिकमिहोद्धटम् ।।
Notes
- This verse as given here is very corrupt and therfore obscures. G. (P. 125, V.No. 327)gives the text which hardly agrees with the text as presented above in the Vadodara edn. U. completely leaves out the preceding prose “अन्ये तु” and the alternative definition of बुद्बुदकम् along with the example given above.
नर्कुटं हि तदिति यत्तु चतुर्दशमनिधनगै-
र्भूषितमक्षरैर्गुरुकृतैः श्रवणसुखकरैः ।
तत् खलु वंशपत्रपतितं मुनिगणगदितं
नर्कुटकं वदन्ति नियमादतिधृतिरुचितम् ।। २८२ ।।
(वंशपत्रकम्)1 यथा ।
चूदवणं पफुळ्ळतिळकं कुरवअ(य)2सहिअं(यं)3
चारुअसोअ(य)4साळकळिदं कुसुमसमुदिदम् ।
माधवकाणणं जुवदिआ [जण]मदजणणं
हिण्डति(दि)5कोकिला फळरसासवमहुररवा ।। २८३ ।।
[चूतवनं प्रफुल्लतिलकं कुरबकसहितं
चार्वशोकसालकलितं कुसुमसमुदितम् ।
माधवकाननं युवतिजनमदजननं
हिण्डति कोकिला फलरसासवमधुररवा ।।]
तृतीयं पञ्चमं चैव नवमं नैधनं तथा ।
गुरूण्येतानि पादे तु यत्र तत् प्रमिताक्षरा ।। २८४ ।।
(प्रमिताक्षरा)6 यथा ।
[कमळाअरेसु भमि7रु(ऊ)ण बुडं (? चिरं)
भमरीमुहासवसुकक्खणओ (? पिवासुअओ)8 ।
मधुभूसिदं सुरहि चूदवणं
परिहिण्डिदो सुतणु छप्पदओ ।। २८५ ।।
[कमलाकरेषु भ्रान्त्वा चिरं
भ्रमरीमुखासवसुखक्षणकः ।
मधुभूषितं सुरभि चूतवनं
परिहिण्डितः सुतनु षट्पदः ।।]
Notes
नवमान्त्यपञ्चमतृतीय–
गुरुलघुशेषमक्षरगतम् ।
भवति चरणं तु यस्य सततं
विविधं प्रमिताक्षरेति कथिता खलु सा ।।
तृतीयपञ्चमान्त्यानि प्रथमं सचतुर्थकम् ।
षष्ठं च नैधनं(ने) चाथ गुरूणि ध्वजिनी यथा ।। २८६ ।।
(ध्वजिनी)1 यथा ।
विलसन्तिअ(या) (विलसन्ती या ?)2 कमलष(स)3ण्डे
पुप्फसुअ(ग)4न्धके(ए)5 कुसुमलुद्धा
तुरिअं(यं)6 पतीतमधुमत्ता छप्पदिका(या)7कुळं समुपयाति(दि)8 ।।
[विलसन्ती9 या कमलषण्डे(खण्डे)10 पुष्पसुगन्धके कुसुमलुब्धा ।
त्वरितं प्रपीतमधुमत्ता षट्पादिका कुलं समुपयाति(दि)11 ।।
दशमं सप्तमं यत्र चतुर्थकमथ षष्ठम् ।
तृतीयं निधनं गुरु कथितं (हंसास्यं)नर्कुटं जगतीगतम् ।।]
(हंसास्यम्)12यथा ।
*दिंअहंसा वसन्ते सळिळासए
कुसुमासादळुद्धां कमळाअरे ।
णाळिणीपत्तमज्झे परिहिण्डिदा
गमणाआसखिण्णा भमरावली ।।
[दिव्यहंसा(द्विज-हंसा ?)वसन्ते सलिलाशये कुसुमास्वादलुब्धा कमलाकरे ।
नलिनीपत्रमध्ये परिहिण्डिता गमनायासखिन्ना भ्रमरावली ।।]
यदि चान्त्यतृतीयकषष्ठगतैर्नवमेन च भूषितमेवम् ।
गुरुभिः सततं त्विह तद् घटितं तोटकमेव हि नर्कुटकम् ।।२८८ ।।
Notes
(तोटकम्)1 यथा ।
रमणीसहिदो रअ(ज)2णीविरमे
गगणंगणए खगकोसिअ(ग)3 ओ ।
अनु(णु)4वायसएहि विघट्टिदओ
परिमण्टदि कोटरंअं सुरि(हि)दम् [तुरिदम्]5 ।। २९८ ।।
[रमणीसहितो रजनीविरमे गगनाङ्गने खगकौशिकः
अनुवायसैर्हि विघट्टितः परिमण्ठति कोटरं सुहितम्(सुखितम्)6 [त्वरितम्] ।।
[दिव्यहंसा वसन्ते सलिलाशये कुसुमास्वाददलुब्धा कमलाकरे ।
नलिनीपत्रमध्ये परिहिण्डिता गमनायासखिन्ना भ्रमरावली ।।]
एतास्तु जातयः प्रोक्ता नर्कुटानां समासतः ।
पुनश्च(स्तु) खञ्जकानां च सम्प्रवक्ष्यामि लक्षणम् ।। २९० ।।*
Abh
रनर(भ)लगी तु रथोद्धतिरथ नजरं बुद्बुदकम् । संजस (य) जगुरुरुद्गतिं वंशपत्रमथ भरनभनलगम्
अथ मध्यमाधमं विषयं खञ्जकं जातीयेन प्रतिजानीते । पुनस्तु खञ्जकानामिति । प्रासादिक्यादि– ध्रुवा एवोत्तमाधमविषयतया शीर्षकमिति नाम्ना नर्कुटखञ्जकनामा(म्ना) च व्यवह्रियते । तासां चोक्तरूपमिदं वैचित्र्यान्तरेणोच्यत इति पुनः शब्दार्थः ।। २९२ ।।
Notes
आमोदं कञ्जनी(खञ्जकं) पूर्वं भावनी मत्तचेष्टितम् ।
एतास्त्रिस्रः समाख्याताः खञ्जकानां तु जातयः ।। २९१ ।।
आद्यचतुर्थषष्ठदशमं सषोडशमथान्त्यमेव च ।
यदि द्वादशमेव यत्र चरणेषु सप्तदशकात् परं च विहितम् ।। २९२ ।।
छन्दसि चेत्तथा गुरु चेदथाकृतिगतं भवेत्तु सततम् ।
भद्रकमेव खञ्जकमिदं पुनश्च कथितं प्रमोदकमिदम् ।। २९३ ।।
(आमोदम्–प्रमोदकम्)1 यथा ।
माहवमाससोहित(द)2समग्गके उववणम्मि फुळळकुसुमे
णिच्च(प) मत्तजुत्त(जुट्ठ)3बहुपक्खिसंघपरिबुद्ध(घुट्ट)णादमुहळे ।
फल्लि4दचूदसण्डसहआरमंजरिविळोळनादपवणे
हिण्डदि छप्पदानु(णु)5गदमग्गओ परहुदो(निणि6)विट्ठवअणो ।। २९४ ।।
[माघवमासशोभितमसग्रक उपवने फुल्लकुसुमे
नित्यप्रमत्तजुष्टबहुपक्षिसङ्घपरिघुष्टनादमुखरे ।
फलितचूतषण्ड(खण्ड)7सहकारमञ्जरीविलोलनादपवने
हिण्डति षट्पदानुगतमार्गकः परभृन्निविष्टवदनः ।।]
आद्यपञ्चमान्त्यसुप्तमं स्यात् तृतीयमेव दीर्घकम् ।
यस्य पादयोगतो हि सा भाविनीति खञ्जकं तथा ।। २९५ ।।
(भाविनी–भाविकम्)8 यथा ।
जातिफुल्लपाणमत्तओ चूदरेणुगुण्ठिदग्गओ(दंगओ)7
फुळ्ळपङ्कउ(जो)व्वसोहिदो छप्पओ मुदं(?दुदं)10 पधाविदो ।। २९६ ।।
[जातिपुष्पपानमत्तश्चूतरेणुगुण्ठिताङ्गकः ।]
फुल्लपङ्कजोपशोभितः षट्पदो मुदं(द्रुतं)11 प्रधावितः ।।]
यदा तृतीयसप्तमं तदाद्यपञ्चमं लघु ।
तदा तु मत्तचेष्टितं वदन्ति खञ्जकं बुधाः ।। २९७ ।।
Notes
(मत्तचेष्टितम्) 1यथा ।
पफुळ्ळपुप्प(प्फ)पादवं विहङ्गमोप(व) 2सोहिदम् ।
वणं पगीदछप्पदं उवेइ एस कोकिला (?कोकिलो) [?कोइलो]3 ।। २९८ ।।*
[प्रफुल्लपुष्पपादपं विहङ्गमोपशोभितम् ।
वनं प्रगीतषट्पदमुपैत्येष कोकिलः ।।]
नर्कुटानां तु खञ्जानामेता वै मूलजातयः ।
आभ्यो विनिस्सृताश्चान्या युग्मौजा विषमास्तथा ।। २९९ ।।
चतुष्पष्टिर्ध्रुवाणां तु विज्ञेया मूलजातयः ।
समवृत्ताक्षरकृता अतोऽन्या विषमा मताः ।। ३०० ।।
Abh
भरनरनरनगि रजरी जरलगि मोदकभाविकमत्तविचेष्टा (:) खञ्जक इति गतिवैकल्याद्वृद्धः । अन्ये तु युवाऽपि विकलाङ्गोऽन्तः पुरोचित इति तद्विषयत्वात् प्रमोदादित्रयं खञ्जकमित्युच्यते ।
णिञ्च(च्च) (प)मत्तजुत्त(जुट्ठ) बहुपक्खिसंघपरिघुट्टणादमुहले ।
जातिफुल्लपान (ण)मत्तओ । पफ(फु)ल्लपुप्फपादवम् ।
अन्ये तु त्वाकृते(तौ) छन्दस्यधमविषयत्वं न युक्तामिति मन्वानाः प्रमोदकस्थाने बुद्बुदगवर्ग पठितमपि वंशपत्रपतितं पठन्त्युभयपठितमित्युभयविषयता सिद्ध्यर्थमिति ।। २९१–२९८ ।।
आभ्यो विनिसृता इति । अर्थसमविषमरूपतयेति भावः ।। २९९ ।।
अथ सर्वध्रुवासु गायत्रमेव प्रधानमिति दर्शयति । चतुःषष्टिर्ध्रुवाणां त्विति । षडक्षरे गायत्रे चतुःषष्टि भेदाश्छन्दोऽध्याये(भ.ना.अ.१४. ५५) दर्शिताः । समवृत्ताक्षराद् गायत्रादेव च पादक्रमेण नीवृदि भुञ्जि द्विभागेन च सर्वच्छन्दोभेदसिद्धिः । तथाहि । पादचतुष्टयोपरि पूरिते षड्विंशत्यक्षरोत्कृतेश्चतुःषष्टिमूलजातयः । ते (ता) अनन्ताः । अत एव गायतस्त्राय (ते) इति गायत्रमाहुः ।। ३०० ।।
Notes
समवृत्तास्तु(त्तु) जायन्ते ध्रुवास्तिस्रस्तु नित्यशः ।
युग्मौजाश्चापि मिश्राश्च विषमाश्च समा मताः ।। ३०१ ।।
सुप्रतिष्ठादिकानि स्युर्बृहत्यादीनि यानि तु ।
छन्दांसि तेषां मानेन त्र्यश्रा कार्या ध्रुवा बुधैः ।।
उष्णिगादीनि यानि स्युः शक्वर्यन्तानि चैव हि ।
छन्दांसि तेषां मानेन चतुरश्रा ध्रुवा मता ।।
त्रिष्टुबादीनि यानि स्युरुत्कृत्यन्तानि चैव हि ।
छन्दांसि तेषां मानेन चतुरश्रा द्विपादिका ।।
इत्यन्ये ।
तत्रार्धविषमाणां तु षट्पञ्चाशे शते स्मृते1 ।
एतदेव परीमाणं विषमाणां प्रकीर्तितम् ।। ३०२ ।।
Abh
एतदेव स्फुटयति । समवृत्तादि त गायत्रतालसमवृत्तादन्या समार्धसमविषमभेदात् त्रिधा ध्रुवा जायते । तासां च प्रत्येकं तालभेदस्त्रिधा । युग्म ओजो मिश्रश्चेति नवत्वम् । एतावताऽनन्तो लक्ष्ये लयभङ्गोदाहरणेषु यो ध्रुवावृत्तप्रपञ्चो दृश्यते सोऽपि सङ्गृहीत एव ।। ३०१ ।।
केचित् पठन्ति ।
त्र्यश्रायां सुप्रतिष्ठादिबृहन्त्यन्तादियुग्मकः ।
उष्णिग्भ्यः शक्वरी यावत् त्रिष्टुभो यावदुत्कृतिः ।
युग्म एव विधातव्यः किन्तु कार्या द्विपादिका ।।
इति । तत्रत्यचतुरश्रविकृष्टात्मकता विविधमण्डपभेदो विषयत्वमस्य ग्रन्थस्य व्याचक्षिरे । तत्र हि परिक्रमे विषमार्थयोगेन बहुधा मतिपूरणमिति ।
अथार्घसमादेः संख्यामाह । तत्रार्धविषमाणां तु षट्पञ्चाशे शत इति । षट्पञ्चाशदादिकानि यत्र ते द्वे शते ।। ३०२ ।।
Notes
सामान्यौजाश्च जायन्तो ध्रुवा विषमपादिकाः ।
स्वेन नाम्ना तु नामानि तासां कार्याणि वृत्ततः ।। ३०३ ।।
एवं तु जातयः प्रोक्ता नानावृत्तसमुद्भवाः ।
अत ऊर्ध्वं प्रवक्ष्यामि विकल्पान् पञ्चहेतुकान् ।। ३०४ ।।
जातिः स्थानं प्रकारश्च प्रमाणं नाम चैव च ।
ज्ञेयो ध्रुवाणां गानज्ञैर्विकल्पः पञ्चहेतुकः ।। ३०५ ।।
वृत्ताक्षरप्रमाणं हि जातिरित्यभिसंज्ञिता ।
समार्धविषमाभिश्च प्रकारः परिकीर्तितः ।। ३०६ ।।
षट्कलाष्टकले चैव प्रमाणे द्विविधे स्मृते ।
यथागोत्रकुलाचारैर्नृणां नामाभिधीयते ।। ३०७ ।।
Abh
स्वेन नाम्नेति । यत एव समवृत्तद्वयादर्धसमं तदेव तस्या नामेत्यर्थः । यथा श्रीशङ्करभक्तिशालिना भट्टशङ्करेणार्धसमवृत्तप्रकरणे दर्शितम् । उद्धता सभोजसमौ वलिता जवन इत्यादि ।। ३०३ ।।
पञ्चहेतुकानिति । निमित्तकृतान् पञ्चप्रकारान् वक्ष्यामीति ।। ३०४ ।।
तत्र निमित्तपञ्चकमाह । जातिः स्थानं प्रकारश्च प्रमाणं नाम चैवेति ।। ३०५ ।।
वृत्तेऽक्षरप्रमाणं जातिः । स्वरूपजननात् । स्थानं बहु वक्तव्यत्वादग्रतोऽभिधास्यते । समार्धसमविषमता प्रकारः ।। ३०६ ।।
षट्कलाष्टकलप्रमाणे द्विकलाभिधाने नाम । जात्यादीनामत्र प्रयोजनमाह । कलाधिक्येऽपि समुदायताले हि त्र्यश्रता विभाति । अवयवताले बहुधेति । अन्ये तु नात्यल्पत्वान्नातिवि(स्तृ)तत्वाच्च षट्कलाष्टकले वक्तव्ये इत्याहुः । उपलक्षणमात्रमेतादित्यपरे । अथ नामाह । यथागोत्रकुलाचारैरिति । आश्रयणेनान्वर्थयोगेनोपेतम् ।। ३०७ ।।
एवं नामाश्रयोपेतं ध्रुवाणामपि चेष्यते ।
प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम् ।
गानं पञ्चविधं विद्याद् ध्रुवायोगसमन्वितम् ।। ३०८ ।।
नानारसार्थयुक्ता नॄणां या गीयते प्रवेशे तु 1 ।
प्रावेशिकी तु नाम्ना विज्ञेया सा ध्रुवा तज्ज्ञैः ।। ३०९ ।।
अङ्कान्ते निष्क्रमणे पात्राणां गीयते प्रयोगेषु ।
निष्क्रामोपगतगुणां विद्यान्नैष्क्रामिकीं तां तु ।। ३१० ।।
क्रममुल्लङ्घ्य विधिज्ञैः क्रियते या द्रुतलयेन नाट्यविधौ ।
आक्षेपिकी ध्रुवासौ द्रुता स्थिता वाऽपि विज्ञेया ।। ३११ ।।
Abh
ध्रुवाणामपि चेति । न केवलं रसभावानामित्यर्थः । किं तन्नामेत्याशङ्क्य पूर्वोक्तं स्मारयति । प्रवेशापेक्षे (क्षेपे)ति । रसाध्याये (भ.ना.अ.६.२९.३०) व्याख्यातः श्लोकः ।। ३०८ ।।
एतेषु नामान्वर्थं योजयति । नानारसार्थयुक्तेति । नाना रसा भावा अर्थाश्च विभावादयः तेषां युक्तं (क्तः) सामाजिकानां हृदयेषु प्रवेशो ययेति प्रयोजनम् । नॄणामिति । एकशेषे नारीणां च ।। ३०९ ।।
प्रविष्टस्यावश्यं निष्क्रमणं न त्वेवमाक्षेपादित्याशयेन नैष्क्रामिकीमाह । अङ्कान्त इति । अङ्कस्य समाप्तौ । असमाप्तेऽप्यङ्के यदा पात्राणां निष्क्रमणं तदा चेत्यर्थः । निष्क्रमणक्रियायामुपगतो वर्ण्यत्वेनाङ्गीकृतो गुण इत्युपचरितार्थो हंसराजादिर्यस्याम् ।। ३१० ।।
अथाक्षेपिक्याः समर्थेन स्वरूपमाह । क्रममुलङ्घ्येति । प्रस्तुतं रसम् । द्रुतलयेनेति । खलु खंलकादिवाक्यप्रयोगे (?) या रसापेक्षयोजना तद्विषयः(या) प्रयुज्यते(सा) आक्षेपिकी । तत्राक्षिप्यमाणरसस्य दीप्ततया द्रुता । यथा उदात्तराघवे रामस्य प्रस्तुतशृङ्गारक्रमोल्लङ्घनेन
अरे तापस स्थिरी(रो)भव । क्वेदानीं गम्यते ।
स्वसुर्मम पराभवप्रसव एकदत्तव्यथ ।*
Notes
या च रसान्तरमुपगतमाक्षेपवशात्1 कृतं प्रसादयति ।
रागप्रसादजननीं विद्यात् प्रासादिकीं तां तु ।। ३१२ ।।
विषण्णे मूर्च्छिते भ्रान्ते वस्त्राभरणसंयमे ।
दोषप्रच्छादना या च गीयते सान्तरा ध्रुवा ।। ३१३ ।।
Abh
इत्यादिना (रावणवाक्येन) । यथा (द्रुता)वाक्याकर्णनेन वीररसस्याक्षेप्यस्य तु रसस्य मासृण्ये । स्थितेति विलम्बिता । यथाऽश्वत्थाम्नो युद्धवीरे क्रमोल्लङ्घनेन
कुतोऽद्यापि ते तातः । (वेणीसंहारम् ३.८)
इथि नेपथ्यश्रवणादि तस्य करुणरसस्य ।। ३११ ।।
अथ प्रासादिकीमाह । या च रसान्तरमुपगतमिति । उपगत मभ्युपगतं प्रस्तुतं रसविशेषं यदा प्रसादयति निर्मलीकरोति । कथम् । अनुक्तस्य विभावानुभावव्यभिचारिवर्गस्य आक्षेपवशात् स्थिरीकरणसमर्थत्वादिति । काव्यगतेनोत्कर्षेण रागप्रसादस्य जात्यंशकगीतिवर्णालङ्कारस्य सौभाग्यकृतस्य सामाजिकहृदयं तन्मयीभावापत्तियोग्यतामात्मनो जननमिति गीतिशोभया वा प्रासादयोजनः । प्रासादिकीं विद्यात् । विशेषमस्या द्योतयति । इयं हि प्रावेशिक्याक्षेपिक्या अनन्तरमवश्यप्रयोज्या भवति ।। ३१२ ।।
अथान्तरागानमाह । विषण्णे मूर्च्छिते भ्रान्त इति । अन्तरे छिद्रे गीयत इत्यन्तरा ध्रुवा । तदाह । दोषप्रच्छादन(ना) इति । तान् दोषानुदाहरति । विषण्ण इति । अनुकर्तुर्यदनाशङ्कितधनविषयादत्युद्धतप्रयोगश्रमवशाद्वा भ्रमादिदोषसम्भावना । वस्त्राभरणाव–काशदित्सया (या)गीयते सान्तरा ध्रुवा । तत्र च प्राक्तनं भावि वा रसस्वरूपमनुवृत्तमित्यवश्यं द्रुतमध्यवपिलम्बितान्यतमेन भाव्यं(व्यम्) । श (स)एव च ताल(भ.ना.३१.५)इत्युक्तत्वात् तदाधारभूतया छन्दोनिबद्धया भाव्यम् । केवलं छिद्राच्छादनमात्रप्रयोजनायामस्यां न सार्थकपदकम्बयोजनमुपगीतिशुष्काक्षरैरेवेयं लक्ष्ये च लतिकादिनाम्ना प्रसिद्धा गीयत इति नाट्यधर्मी(र्म) प्रायेयम् । यद्यपि प्रावेशिक्यादेरपि नानुकार्यविषयसम्भवस्तथापि काव्यवाक्यैकवाक्यतायां
तरलयसि दृशं किमुत्सुकाम् ।
इत्यादि काकतालीयश्रुतिशकुनन्यायेन लौकिकस्य सम्भवं नात्यन्तं नाट्यधर्मभावः । एवं नाम व्याख्यातम् ।। ३१३ ।।
Notes
ध्रुवाणां चैव सर्वासां रसभावसमन्वितम् ।
यथास्थानं प्रवक्ष्यामि यत्र गेयं प्रयत्नतः ।। ३१४ ।।
द्विविधं तु स्मृतं स्थानं परसंस्थात्मसंश्रयम् ।
यत्त्वाक्षेपसमायुक्तं तच्च मे सन्निबोधत ।। ३१५ ।।
बद्धे निरुद्धे पतिते व्याधिते मूर्च्छिते मृते ।
अवकृष्टा ध्रुवा कार्या भावे च करुणाश्रये ।। ३१६ ।।
Abh
अथ जातिः स्थानं प्रकारश्च प्रमाणं नाम चेति श्लोके (भ.ना. ३२–३०५) यत्प्रमाणमुद्दिष्टं तल्लक्षयन्नुपक्रमते । ध्रुवाणां चैव सर्वासामिति । तत्र स्थानस्य सामान्यलक्षणमाह । यत्र गेयं प्रयत्नत इति । रसोपयोगी पात्रविशेषः स्थानमित्यर्थः ।। ३१४ ।।
ननु प्रवेशनिष्क्रमाक्षेपप्रसादच्छिद्राण्येव गेयस्थानानि । तानि च नामनिर्वचनेन लब्धानि । तत् किमिदानीं स्थानं नाम्ना विशिष्यत इत्याशङ्क्या । द्विविधं तु स्मृतं स्थानमिति । न प्रवेशादिस्थानमत्र लक्ष्यते किन्तु प्रधानभूतो यो रसभावादिरर्थस्तदुपयोगी तावद्गानम् । तत्र कदाचिद्यत्रैव योऽर्थस्तदुद्देशेनैव गीयते । यथा रामस्य सीतादिप्रयुक्तविप्रलम्भे तदाश्रयमेव कदाचित् पात्रान्तराश्रयणेन । यथा तस्यैव विप्रलम्भे लक्ष्मणाश्रये ति(नि)तराम(मा)हुरित्यत्र । तदाह । परसंस्थात्मसंश्रयमिति । परस्थगतं लक्ष्मणस्य । आत्माश्रयं रामस्य । तेन स्थानमिति स्थानाश्रयं गानं द्विविधमित्यर्थः । नन्वपरस्यासौ करुण एव भवति । न हि रामे विप्रलब्धे लक्ष्मणस्य विप्रलम्भः । केवलं तद्दुःखदुःखितस्यास्य करुण इत्याशङ्क्याह । यत्वाक्षेपसमायुक्तमिति । यदिति यस्मात् । आक्षेपः तद्रसोपक्षेपित्वेनोपयोगः । तेन आसमन्तात् युक्तं स्वपरसंस्थं समिति सम्यक् अवैकल्यपूर्णता तेनायुक्त्याऽऽत्मसंश्रयम् । एतदुक्तं भवति । लक्ष्मणस्य करुणे विनयोचितं(ते) मसृणमन्थरं (रे) गान(ने) प्रयु्क्तेऽपि तु रामविप्रलम्भ एव तत्र प्रयोदकीभवति । तथा च लक्ष्मणस्य तदुपसर्पणैव परैव तत्परा गानं प्रयोजयति । परस्थोऽप्यसौ प्रयोजको भवति । स वायं प्रयोगो विधिनोपदेशदिशा न शक्यं(क्यः) प्रतिपादयितुमिति दर्शयति । तच्च मे सन्निबोधतेति ।। ३१५ ।।
तत्राक्षेपिक्यां तावत् स्थानद्वयोचितं लयविभागेन विशेषं यथायोगं निरूपयितुमाह । बद्ध इत्यादि । बद्धो निगडादिना निरुद्धोऽवष्टब्धः । पतितो महापातकयोगात् । मृत इति मुमूर्षा । अवकृष्टेति विलम्बिता । करुणाश्रय इति निर्वेदादौ ।। ३१६ ।।
औत्सुक्ये ह्यवहित्थे च चिन्तायां परिदेविते ।
श्रमे दीने1(दैन्ये) विषादे च स्थिता कार्या ध्रुवा बुधैः ।। ३१७ ।।
एतेष्वेव तु भावेषु करुणावेदितेषु च ।
ध्रुवा द्रुता च कर्तव्या करुणे भावसंश्रया ।। ३१८ ।।
यत्र प्रत्यक्षजं दुःखं मृताभिहतदर्शनम् ।
स्थिता तत्र हि कर्तव्या करुणे तु रसे बुधैः ।। ३१९ ।।
उत्पातदर्शने चैव 2प्रहर्षेऽद्भुतदर्शने ।
विषादे च 3प्रसादे च रोषे सत्त्वस्य दर्शने ।। ३२० ।।
वीररौद्रभयाद्येषु प्रत्यक्षावेदितेषु च ।
ध्रुवा द्रुतलया कार्या ह्यावेगे सम्भ्रमे तथा ।। ३२१ ।।
प्रसादे(द)याचने चैव तथाऽनुस्मरणे पुनः ।
तथाऽतिशयवाक्येषु तथा च नय(व)सङ्गमे ।। ३२२ ।।
हर्षेऽथ4 प्रार्थने चैव शृङ्गाराद्भुतदर्शने ।
ध्रुवा प्रासादिकी कार्या तज्ज्ञैर्मध्यलयाश्रया ।। ३२३ ।।
Abh
स्थितेति । मध्या विलम्बिता च ।। ३१७ ।।
एतेष्वेव तु भावेषु करुणेति । तदाश्रयेषु भावेषु द्रुता ध्रुवा कार्या । केषु पात्रेष्वित्याह । करुणेति । करुणस्यावेदनं येषु स्वयमुत्पन्नकरुणस्यावेदनं येषु । तेन शोकस्थायिभावपरिपोषकादिव्यभिचारिसंवलितेषु परिजनादिष्विति यावत् । अत एवाह । भावसंश्रयेति । भावप्राप्तितस्तन्निकटप्राप्तिर्निमित्तं वा द्रुता ध्रुवेति ।। ३१८ ।।
तर्हि परदुःखे सर्वत्रैव ध्रुवा । नेत्याह । यत्र प्रत्यक्षजं दुःखमिति । दुःखज्ञानम् । कुत्रेत्याह । मृतेति । मृतस्यापमृत्युना अभिहतस्य आकस्मिकतीव्ररोगशोकादिना अभिघातस्य च दर्शनं यस्मिन् तत् प्रत्यक्षजं दुःखम् । तत्र विलम्बिता कार्या । करुणे त्विति । परसंस्थे ।। ३१९ ।।
उत्पातो भूकम्पादिः । विषादे वृत्ते सति । (प्रहर्षे) झटिति यः प्रमोदस्तत्र ।। ३२० ।। द्रुताव्यापकं लक्षणमित्याह । आवेगे सम्भ्रमे च द्रुतेति ।। ३२१ ।। प्रसादविषये याचने ।। ३२२–३२३ ।।
Notes
शरीरव्यसने रोषे पुनः सन्धानकर्मणि ।
सानुबन्धा 1 बुधैः कार्या गीतज्ञैरन्तरा ध्रुवा ।। ३२४ ।।
अध्रुवास्तु प्रवेशाः स्युर्गायतो रुदतस्तथा ।
सम्भ्रमे प्रेषणे चैव ह्युत्पाते विस्मये तथा ।। ३२५ ।।
Abh
सानुबन्धेति । अनुबन्धः त्वरा तेन सानुबन्धेति द्रुतलयेत्यर्थः । क्व सा क्रियते । आह । शरीरस्य व्यसने रोषे प्रवृत्ते सति । यत्पुनः सन्धानकर्म तस्मिन् । एतदुक्तं भवति । शरीरव्यसनवशाद् दो(रो)षवशाद्वा यदा नटे(टो)ऽपसर्पति तदा तस्थानेऽन्यस्य तद्भूमिका(यां) द्वितीयस्य योजनं त्वस्याः कर्तव्यम् । तत्र चान्तरा ध्रुवा द्रुतेति ।। ३२४ ।।
अथ यत्र प्रावेशिकीशून्यं तदाह ।
अध्रुवास्तु प्रवेशाः स्युर्गायतो रुदतस्तथा ।
सम्भ्रमे प्रेषणे चैव ह्युत्पाते विस्मये तथा ।।
इह प्रावेशिकी नाम प्रवेक्ष्यतः पात्रस्य स्वरूपं सामाजिकमनसि संक्षेपेण समर्पयितुं गीयते । तत्र गायता यदा प्रविशति तदा प्रावेशिक्यां गीयमानायां प्रकृतगानं रोदनं च व्यदीय(र्य)त । सम्भ्रान्तस्य परेण त्वरया प्रेषितस्य तूत्पातविस्मायावावेदयितुमायातस्य त्वरयैव प्रवेश उचित इति ।
अन्ये त्वाहुः । पूर्वप्रविष्टस्य च प्रधानपात्रस्य देवीप्रायस्य गायतो रुदतो वा सम्बन्धी परिजनो यदा प्रविशति तदा ध्रुवाऽस्य प्रवेशे मा भून् मुख्योपरोधकत्व इति । कार्यान्तरव्यग्रे च प्रधानपात्रे उत्पातविस्मयाद्यावेदनाय तन्निकटमुपसर्पतो मध्यमपात्रस्यापि स(अ)ध्रुवः प्रवेशः । प्रधानपात्रस्याऽपि सम्भ्रमे सत्यध्रुव एव । शङ्खचूडस्येव जीमूतवाहनभक्षणाकुलगरुडनिकटमुपसर्पतः (नागान्दम् ५.१७) । प्रेषणग्रहणं नैष्क्रामिकीविषयं प्रसङ्गात्तेन त्वरयता प्रतीहार्यादेः प्रेषितस्याध्रुवनिष्क्रामणम् ।
अत्र तु प्रविष्टपात्रेण गायता रुदता वा सह यदा प्रविशतो झटिति नास्ति सम्बन्धस्तदा प्रकृतासु(सू)परमो मन्तव्यः ।
उपाध्यायास्त्वाहुः । गायतो रुदत इत्यनेन हर्षवीरक्रोधशोकविपत्स्वेव क्रमेण लक्ष्यते । तेन च सम्भ्रमो विशेष्यते । तेन क्रोधशोकहर्षाविष्टस्य सम्भ्रमे अध्रुवः प्रवेश इति । तथा चाग्रे वक्ष्यति अपटाक्षेपकृता चात्ययिकी
Notes
एवमर्थविधिं ज्ञात्वा देशकालमृतुं तथा ।
प्रकृतिं भावलिङ्गं तु ततो योज्या ध्रुवा बुधैः ।। ३२६ ।।
शीर्षका चोद्धता चैव ह्यनुबन्धा(द्धा) विलम्बिता ।
अड्डिता चापकृष्टा च षट्प्रकारा ध्रुवा स्मृताः(ता) ।। ३२७ ।।
शिरः स्थानीयमेतद्धि यस्मात् तस्मात्तु शीर्षि(र्ष) का ।
उद्धता तूद्धता यस्मात् तस्मात् ज्ञेया ध्रुवा बुधैः ।। ३२८ ।।
Abh
हर्षरो(रा)गकार्येषु (भ. ना. ३२. ४११)। एतच्च स्वस्थान एव व्याख्यास्यते । तच्च प्रकृतरसस्योपरोधिका ध्रुवा न प्रयोज्यैवं परमिति मन्तव्यम् ।। ३२५ ।।
अथ कविशिक्षार्थमाह । एवमर्थविधिमिति । अर्थविध्यादिकं ज्ञात्वा ध्रुवा बुधैः कविभिर्योज्या । तत्रार्थविधिराक्षेपप्रसादनादिप्रयोजनप्रकारं हंसगजादिरित्यन्ये । देशः सरोऽख्यादिः । कालं रात्र्यादिकम् । ऋतुर्वसन्तादिः । प्रकृतिरुत्तमादिः । भावो रत्यादिः लिङ्गमनुभाववर्गः । येषां मध्ये यदेव प्रधानमन्ते वार्धं द्विंश्स्त्रिंबशः सामान्येव वा कविना ध्रुवायां व्यावर्णनीयमिति यावत् ।। ३२६ ।।
अथ प्रावेशिक्यादिषु पञ्चस्वपि प्रत्येकं प्रकारषट्कं सम्भवतीति दर्शयितुमाह ।
शीर्षका चोद्धता चैव ह्यनुबद्धा विलम्बिता ।
अड्डिता चापकृष्टा च । इति ।
विलम्बितेति। द्रुतविलम्बिता ध्रुवाणामनियताक्षरका । सा गानप्रयोगमपनयन्ती काव्यस्वरूपं परिपूरयितुं प्रयुज्यते तत्पूरणं च प्रकृतिमुखेन वा रसभावचेष्टितमुखेव वा । तत्रोत्तमप्रकृतिः प्राधान्येन प्रवर्तमाना हि शीर्षका । उत्तमसमाश्रयो हि रसभावादिरनन्तपरिजनादिगतचित्तवृत्त्यन्तरजीवितकल्पः । अतोऽस्य शिर इति व्यपदेशः । विचित्रप्रकृतिचित्रवृत्तिकल्पत्वेन प्राधान्यात् । चेष्टितप्राधान्येनोद्धतसङ्गतां समस्तविभावानुभावव्यभिचारिसम्पदं सूचयत्यनुबद्धा । अधममध्यमनीचैरित्यादिस्थिता तु भिन्नां प्रकृतिचित्तवृत्तिं भिन्नं च तद्गतं चेष्टितं सूचयति द्रुतविलम्बिता । सापेक्षभावरूपं संविद्विकाससुन्दरं रसमाश्रयत्यड्डिता । तद्विपरीताऽपकृष्टेति प्रतिध्रुवं षोढा विभागः ।। ३२९ ।।
तस्माद्धेतोरेतत् संगतं शिरःस्थानीयं प्रधानं भवति । तस्माच्छीर्षकेति सङ्गतिः । उद्धता तूद्धतेति गमागमभ्रमणादिप्राधान्यात् । अन्ये तु वीररौद्रविषयेयमित्याहुः ।। ३२८ ।।
यतिं लयं वाद्यगतिं पदं वर्णान् स्वराक्षरम् ।
अनुबध्नाति यत्रैवमनुबद्धा भवेत्तु सा ।। ३२९ ।।
आक्री(पी)डितप्रवृत्तो यश्चतुर्थलयकारकः ।
नाट्योपचारजनितः सोऽनुबन्धः प्रकीर्तितः ।। ३३० ।।
Abh
यतिं लयं वाद्यगतिं पदं वर्णान् स्वराक्षरान् (रम्)।
अनुबध्नाति यत्रैवमनुबद्धा भवेत्तु सा ।।
इति । यतिः समाद्या । लयो द्रुतादिः । वाद्यगतिश्चतुर्विधातोद्यवैचित्र्यम् । पदं वृत्तगो यत्यात्मा विरामः । वर्णो वृत्तगत एव गुरुलघुभेदः । स्वर्यते यथोचितं गीतक्रियायां विस्तीर्यते यतः स्वरशब्देन वर्णाङ्गरूपा गीतिः । अक्षरं गीयमानं पदम् । अन्ये तु चञ्चत्पुटादितालमक्षरमाहुः । न क्षरति न साम्याच्च्यवते गीतवृत्तादिकं येनेति । एतद्यत्याद्यक्षरान्तम् । यस्यां ध्रुवायामेवमिति प्रयोगौचित्येन कविर्नाट्याचार्यौ वर्णकविर्गाता नटो वा यत्रानुबध्नाति सा ध्रुवा अनुबद्धा ।। ३२९ ।।
अनुबन्धनं व्याचष्टे ।
आपीडितप्रवृत्तो यश्चतुर्थलयकारकः ।
नाट्योपचारजनितः सोऽनुबन्धः ।। इति ।
अनुबन्धमापीडितमन्योन्यसंश्लिष्टं कृत्वा प्रकर्षेण प्रवर्तनं यत्यादीनामक्षरान्तानां यतो भवति तदा क्रियाविशेषोऽनुबन्धः । स च कवेस्तथोचितध्रुवार्थयोजनम् । उचितश्च ध्रुवार्थः । तत्र विभावादिपूर्णसंविद्रूपः । तस्मिन् योजना पानकमिव रसं प्रसूते । तद्योजनार्थश्च यत्यादेरक्षरान्तस्य व्यामिश्रीकरणात्मा वर्णकवेः क्रियाविशेषः । गातुश्च तथैवाविकलो लयात्मा । आचार्यस्य सम्यक् तदर्थयोजने किमपि तत्त्वान्तरमिव विद्यत आत्मा । पात्रगतपात्रस्य तदा पात्राङ्गेन निर्वहणम् । अत एव परस्परयतीनां योजने अन्येच(न) यतिवस्तु । यतिलयानां च योजने द्रुतादिव्यतिरिक्त एव लयो भवेत् । एवं पाकविद्यादीनामपि स्वतः परस्परतश्च योजने किमपि तत्त्वान्तरमिव विद्यत आत्मा । पात्रगतपात्रस्य तदा पात्राङ्गेन निर्वहणम् । अत एव च परस्परयतीनां गुडमरीचादिरसयोजनमयेऽपि पानक इव रसान्तरत्वम् । तदाह चतुर्थेति । चतुर्थलयो द्रुतादिभ्योऽन्यं करोति स्फुरयतीति । लयग्रहणं प्राधान्यात् । लय एव हि तालमित्युक्तमसकृत् । लयेन सर्वं वैचित्र्यं लक्ष्यते । अत एवायमनुबन्धो नाट्यव्यवहारेणैव जनितः । सर्वथैवातिलौकिकत्वान्नाट्यस्य च रसस्योपचरणहेतुः ।
नाट्ये त्वरितसञ्चारा नाट्यधर्ममनुव्रता ।
सविलम्बितसञ्चारा भवेद् द्रुतविलम्बिता ।। ३३१ ।।
अड्डिता तूत्कटगुणा शृङ्गाररससम्भवा ।
यस्मात् सा न (स्थाने) प्रसन्ना च तस्मादेषाड्डिता स्मृता ।। ३३२ ।।
अन्यभावेषु कृष्टश्च (ष्टा च) कृष्टहेतुषु1 गीयते ।
यस्मात् कारुण्यसंयुक्ता ह्यवकृष्टा भवे्त् ततः ।। ३३३ ।।
Abh
विभावादिसम्पत्तिजनितं नाट्योपचारं च नाट्यायितमुपचारादिसामान्याभिनयकथितम् । तैर्जनितो लब्धसत्ताको नाट्यायितप्रयोजनबहुल इति । ईदृक् क्रियाविशेषोऽनुबन्धनमित्युच्यते । तद्योगाद् ध्रुवाऽनुबद्धेति ।। ३३० ।।
एवमनुबद्धां व्याख्याय द्रुतविलम्बितामाह । नाट्ये त्वरितसञ्चारेति । त्वरितो द्रुतः सञ्चारो यस्यां सह कि२३म्बतेन सञ्चारेण वर्तते प्रकृतिभेदात् । अत एव नाट्यधर्मीकृत्य चित्रं रसादिवैचित्र्यं च अनु तदौचित्येन व्रतं नियमो विद्यते । तस्येति मत्वर्थीयोऽच् (अष्टा. ५. २. २७) तेन कृत्प्रयोगान्ता वा द्वितीयैव ।। ३३१ ।।
अड्डिता तूत्कटगुणेति । उत्कटोऽतिस्फुटो गुणोऽनुभाववर्णः शृङ्गाररससम्बन्धी यस्यां व्यावर्ण्यते सा उत्कटगुणा । अत् (त) (पा. धा. पा. ३८) अतिक्रमे । अतिशयेन क्रमणमाक्रमणं व्यापारं च रसस्य (विभावादिभिः सञ्चितम्) । उक्तं शरीरं व्याप्यते तेन (भ. ना. ७.७.) इत्यत्र । अन्तरे शृङ्गारग्रहणं सुखप्रधानं हास्याद्भुताद्युपलक्षणम् । तेन हृदयस्थेन विवक्षारूढेन सम्भवो निर्माणं यस्या अस्याः । अड्डितत्वे निर्वचनं स्फुटयति । यस्मात् स्थाने प्रसन्नेति । स्थानस्य चित्तवृत्त्यवस्थात्मनः प्रकृष्टं सन्नं व्यापनं यस्माद् भवतीति ।। ३३२ ।।
अन्यभावेषु कृष्टा चेति । कारुण्ये सम्यगु (ग्यु)क्ता उचिता प्रकृष्टा यस्मात् कृष्टमुत्थानं कृत्वा गीयते । किं करुण एवेत्याह । अन्येषु च कृष्टहेतुषु । कर्मणि चित्तवृत्त्यवसादरूपे मान्थर्यकारणेषु भावेषु विप्रलम्भभयानकादिषु व्यभिचारिभूतेषु निर्वेदग्लानिशमचिन्ताप्रभृतिषु । चो भिन्नक्रमः ।। ३३३ ।।
Notes
या तु प्रावेशिकी दीप्ता सा कार्या तूद्धता नृणाम् ।
या तु प्रासादिकी नाम स्त्रीणां कार्याऽड्डिता तु सा ।। ३३४ ।।
या स्थिता साऽवकृष्टा तु या द्रुता सा विलम्बिता ।
याऽन्तरा सानुबन्धा च प्रकारास्तु प्रवेशजाः ।। ३३५ ।।
शीर्षका चोद्धता चैव देवपार्थिवयोर्भवेत् ।
दिव्यपार्थिववेश्यानां स्त्रीणां योज्या तथाड्डिता ।। ३३६ ।।
मध्यमानां प्रवेशे तु ज्ञेया द्रुतविलम्बिता ।
नीचानां चैव कर्तव्ये नॄणां ये खञ्जनर्कुटे ।। ३३७ ।।
1खञ्जं च नर्कुटं चैव स्थाने प्रासादिकी तु सा2 ।
कस्माल्ललितभावत्वाद्धास्यशृङ्गारयोर्यतः ।। ३३८ ।।
Abh
अथ सम्भवानुसारेण विष(य)दिशमासां दर्शयति । या तु प्रावेशिकीत्यादि । प्रावेशिकीग्रहण– मुपलक्षणार्थम् । नृणामिति चेष्टाबाहुल्यसम्भवात् । अन्ये तु नियमपरत्वं व्याचक्षते । तच्चेद(दृ)ष्टाङ्गं लक्ष्यविरुद्धमित्युपेक्ष्यमेव । परसंस्थत्वाशयेनायं ग्रन्थ इतीतरे । प्रासादिकी नामाड्डित्यु(तो)पलक्षणम् ।। ३३४ ।।
प्रकारस्तु प्रवेशजा इति । स्त्रीणाम(मि)ति वर्तत इति केचित् । या द्रुता सा विलम्बिता याऽन्तरा सा स्त्रीणामनुबन्धेति । अन्ये तु नियमपरत्वं व्याचक्षते । अवकृष्टेत्येतच्च शीर्षका चोद्धता चैव देवपार्थिवयोरित्युत्तरग्रन्थेन योजयन्ति । वक्ष्यते इत्यध्याहार्यः(म्)।। ३३५ ।।
दिव्यपार्थिववेश्यानामिति । अप्सरसां गणिकानां च । स्त्रीणामिति । कुलाङ्गनानामपि ।। ३३६ ।।
मध्यमानां नीचानां च सम्प्रवेशे द्रुतविलम्बिता । तस्यां च खञ्जनर्कुटे कृते कार्य इति सङ्गतिः । तुरप्यर्थे ।। ३३७ ।।
प्रासादिक्यपि स्थानेऽवसरे खञ्जनर्कुटरूपा । अवसरमाह । हास्यशृङ्गारयोरिति । अत्र हेतुर्ललितभावत्वादिति । तौ रसौ सुन्दरस्थायिभावौ । खञ्जनर्कुटे च ललितभावे । लालितभावे लालित्यं भावयतः श्रव्ये इति ।। ३३८ ।।
Notes
कुर्यान्नीचे मृते चैव त्वनुबन्धं1 लयाश्रयम् ।
स्त्रीणां राजन्यवैश्यानामब(प)कृष्टां तथैव च ।। ३३९ ।।
सन्निपातास्तु चत्वारः प्रावेशिक्या भवन्ति हि ।
शेषा हि सन्निपातास्तु शीर्षि(र्ष)काः षट्पराः स्थिताः ।। ३४० ।।
स्थितं चाप्यड्डितं चैव नीचानां न हि कारयेत् ।
सर्वभावाश्रयगतैस्तेषां कार्यं तु नाटकम् ।। ३४१ ।।
त्रयो भावा भवन्त्येषां हासशोकभयात्मकाः2 ।
एवं भावान् विदित्वा तु ध्रुवा कार्या प्रयोक्तृभिः ।। ३४२ ।।
Abh
मृते कस्मिंश्चिन्नीचपात्रविषयः । तथा स्त्रीणामनुबन्धं लयाश्रयम् । चतुर्थलयकारकं कुर्यात् । नीच एव हि करुणे बहुविधेति दर्शितम् ।
स्थैर्येणोत्तममध्यानां नीचानां परिदेवितैः ।
(भ. ना. ७. ६३) इति । राजन्यवैश्यानामिति । उत्तममध्यमानामपि अपकृष्टा करुणे ।। ३३९ ।।
मानमाह । चत्वारः सन्निपाताः प्रावेशिक्या इति । चत्वारस्तालपरिवर्तना इति यावत् । शेषा नैष्क्रामिक्यादेः सन्निपातः । अत्रैवमपवादमाह । शीर्षका षट्पदे(रा इ)ति । द्वौ परिवर्तौ । तत्रावरता षट्परता ।। ३४० ।।
अथ मन्थरभावावसरे प्राप्तमपि स्थिताड्डितयोः प्राप्तमभिदध्यात् (धत्) पूर्वोक्तं स्मारयति ।
स्थितं चाप्यड्डितं चैव नीचानां न हि कारयेत् ।
इति । नाट्यो(ट्या)चार्योऽत्र प्रयोजकः । तेषां तु यन्नटनं प्रयोगसम्पादनं तदाश्रिता(त)विषयत्वेनोचितैः खत्र्जनर्कुटैः कार्यः(र्यम्)। कीदृशैः सर्वे भावा येषां व्यङ्ग्यत्वेन तैः । उद्धतप्रयोगे तैरेव द्रुतलयैर्ध्रुवाप्रयोगे तैरेव विलम्बिते (तैरि)त्यर्थः ।। ३४१ ।।
तत्र किम्भावरूपैरेषां प्रधानपदाश्रयेण भूयसा मानमित्याह । त्रयो भावा इति । हास्यशोकभया ओजःप्राचुर्येणेत्यर्थः ।। ३४२ ।।
Notes
वस्तु प्रयोगं प्रकृतिं1 रसभावानृ(वृ)तुं वयः2 ।
देशं कालमवस्थां तु ज्ञात्वा योज्या ध्रुवा बुधैः ।। ३४३ ।।
3वस्तूद्देशसमुत्थं तु पुन(नाग)रारण्यसम्भवम् ।
प्रयोगश्चैष विज्ञेयो दिव्यमानुषसंश्रयः ।। ३४४ ।।
उत्तमाधममध्या तु त्रिविधा प्रकृतिर्मता ।
रसभावौ तु पूर्वोक्तावृतुः कालकृतस्तथा ।। ३४५ ।।
4शिशुयौवनवृद्धत्वं वयश्चैव प्रकीर्तितम् ।
5कक्ष्यादिग्भागजनितो देशस्तु द्विविधो मतः ।। ३४६ ।।
कालो रात्रिन्दिवकृतो6 यामकालविनिर्मितः7 ।
अवस्था चैव (या तु) विज्ञेया सुखदुःखार्थसम्भवा8 ।। ३४७ ।।
Abh
पूर्वमुक्तं लक्षयितुं पूर्णं चाभिधातुं स्मारयति । वस्तु प्रयोगमित्यादि ।। ३४३ ।।
एतत् क्रमेण लक्षयति वस्तूद्देशसमुत्थमित्यादिना अवस्था या तु विज्ञेया सुखदुःखार्थसम्भवा इत्यन्तेन । उद्देशसमुत्थं यदुद्दिश्य गानकार्यस्य समुचितमुत्थानं प्रसरणम् । नागरः कीरहंसादिः । आरण्यो हिंस्रादिः । प्रयोगो दिव्यमानुषाश्रया इत्येकशेषेण । तं वेति दिव्यमानुषाद्या तृतीयाऽपि स्वीकृता । तद्भेदेन गजादेर्भेदः । काव्ये तद्यथा । दिव्ये सुरगजे इत्यादि । ।। ३४४ ।।
उत्तमादिका प्रकृतिः । तद्भेदाद् रथाङ्गचक्रवाकमधुकरादिवर्णनम् । रसभावौ तु पूर्वौक्ताविति । रसाध्यायोक्तौ (भ. ना. ६) । जातिवाचिनोरेकवचनं तयोरद्व(योर्द्व)न्द्वः। कालकृतः कालवशात् कुसुमादिविशेषोद्भेदरूप ऋतुरित्यर्थः ।। ३४५ ।।
वयः शिशुयौवनवृद्धत्वमिति । शिशुशब्देन निःशेषे समाहारे द्वन्द्वः । कक्ष्याविभागेन जनितः कल्पितः । पर्वते चाग्रहादतिदेशः । दिग्भागजनितः पूर्वोत्तराविति द्विविधो देशः ।। ३४६ ।।
रात्रिःदि(त्रिन्दि)ना(व)कृत इति । सामान्यविषयः कालः । यामकालकृतस्त्वहरष्टधा विभज्य रात्रिमष्टधेत्यनेन । येन राजादिविशेषविषया सुखदुःखादर्थ(खार्थ)नारूपा चार्थिता । व(त)त्सम्भवोऽस्या इति त्रिधाऽवस्था सुखित्वं दुःखित्वमर्थित्वं चेति यावत् ।। ३४७ ।।
Notes
स्थानान्येतानि तु बुधैर्नानावस्थानि नित्यशः ।
प्रयोगे सम्प्रयोज्यानि रसभावौ समीक्ष्य तु ।। ३४८ ।।
यानि वाक्यैस्तु न 1ब्रूयास्ता(त्ता)नि गीतैरुपा (दा)हरेत्2 ।
न तैरेव तु वाक्या(काव्या)र्थैरन्यैः प्रवकेवला (न्यैरौपम्यसं)श्रयैः3 ।।३४९ ।।
ध्रुवाणामाश्रयाः कार्या औपम्यगुणसम्भवाः ।
उत्तमाधममध्यानां नॄणां स्त्रीणामथापि च ।। ३५० ।।
4आदित्यसोमपवना देवपार्थिवयोर्मताः ।
दैत्यानां राक्षसानां च मेघपर्वतसागराः ।। ३५१ ।।
Abh
एतदुपसंहरन्नेव योजयति । स्थानानीति । स्थानानि त्वनिमित्तानीत्यर्थः । नानावस्थानीत्यपरिसंख्येयावान्तरभेदानीति यावत् । यस्त्वादिमध्ये च रसभावौ प्रधानमित्याह । रसभावौ समीक्ष्य त्विति । तुरन्येभ्योऽनयोर्विशेषकः । न केवलं गीतिभावोऽत्र रुञ्जनोपयोगित्वात् प्रधानं यावत् कार्यभावो– ऽविकृतरसगतस्य वाच्येनास्पष्टस्यानुभावस्य व्यभिचार्यादेः पूरणमिति दर्शयति ।। ३४८ ।।
यानि वाक्यैस्तु न ब्रूयात्तानि गीतैरुदाहरेत् ।
इति । यस्त्वशक्यो वर्णयितुमित्यर्थः । काव्यवाक्यैर्वर्णयितुं कुतश्चिन्निमित्तवशान्न शक्यन्ते ते गीतवाक्यैरुदाहर्तुं कथयितुं शक्याः । तर्हि नाटककाव्यवद् गीतकाव्ये सन्धितदङ्गनिर्वहणादिप्रयाससम्भवः । (न) तैरेवेति । राजादिवर्णनया न तानि गानेऽपि तत्सदृशरसादिवर्णने
न तैरेव तु काव्यार्थैरन्यैरौपम्यसंश्रयैः ।
इत्युक्तम् ।। ३४९ ।।
तत्र कस्य केनौपम्यमिति प्रस्तावयितुमाह । ध्रुवाणामाश्रया इति । वर्णनीयाः । वौ(औ)पम्यं सादृश्यं तदेव गुणः । प्रकृतोपयोगसम्भवप्राप्तिरौचित्यं येषामित्यर्थः ।। ३५० ।।
कस्य किमुचितमिति दर्शयति । आदित्यसोमपवना इत्यादि । अत्रापि प्रतापाह्लादकत्वशैध्र्याद्यवस्थान्तरं राजादेरन्वेष्यम् । एवं सर्वत्र ।। ३५१ ।।
Notes
सिद्धगन्धर्वयक्षाणां 1ग्रहोडुवृषभा मताः ।
तपःस्थितानां सर्वेषां सूर्याग्निपवना मताः ।। ३५२ ।।
हव्यवाहस्तु विप्राणां ये चान्ये तपसि स्थिताः ।
2एतेषामेव या नार्यस्तासामौपम्यसंश्रयाः ।। ३५३ ।।
विद्युदुल्कार्करशम्याद्या3 विद्या (दिव्या)नामपि च स्मृताः ।
देवानां तु प्रयोज्या ये नृपाणामपि ते स्मृताः ।। ३५४ ।।
नागासिंहवृषार्थाश्च4 नैते दिव्येषु कीर्तिताः ।
महिषारुरुसिंहाश्च5 क्रव्यादाः पशवश्च ये ।। ३५५ ।।
6हिंस्रसत्त्वेषु ते कार्या यक्षराक्षसजातिषु7 ।
उत्तमानां प्रयोक्तव्या नानारससमाश्रयाः ।। ३५६ ।।
मत्तमातङ्गसहिता राजहंसाश्च योक्तृभिः ।
शिखिनः सारसाः क्रौञ्चाश्चक्राह्वाः कुमुदाकराः ।
मध्यमानां प्रयोक्तव्या8 औपम्यगुणसंश्रयाः ।। ३५७ ।।
कोकिलं षट्पदं ध्वाङ्क्षं कुररं कौशिकं 9बकम् ।
पारावतं 10सकादम्बमधमेषु प्रयोजयेत् ।। ३५८ ।।
एवमेषां प्रयो(यु)क्तानां स्त्रियो यास्तु भवन्ति हि ।
उत्तमाधममध्यानां तासां चैव निबोधत11 ।। ३५९ ।।
Abh
ग्रहा जीवादयः । उडुवृषभास्तिष्यादयः काला इति सम्यगाहुः ।। ३५४ ।।
ये चान्य इति । क्षत्रियाद्याः ।। ३५३ ।।
रश्मिः प्रकृतेः स्त्रीलिङ्गतात्पर्यापवादिदीधितिमरीचिप्रभाद्या अचेतनाः । अधमा विषयास्ते सहकाराद्या अपि ।। ३५४-३५५ ।।
हिस्रंसत्त्वेष्विति । हिंसाप्राधान्ये विवक्षिते क्रव्यादः(दाः)। अत एव राक्षसेषु ।। ३५६ ।।
Notes
शर्वरी च सुधा ज्योत्स्ना नलिनी करिणी नदी ।
नृपस्त्रीणां भवन्त्येता औपम्यगुणसंश्रयाः ।। ३६० ।।
दीर्घिका कुररी वल्ली सारसी शिखिनी मृगी ।
मध्यमानां भवन्त्येता वेश्यास्त्रीणां1 च नित्यशः ।। ३६१ ।।
षट्पदीं कुररीं ध्वाङ्क्षीं परपुष्टां च योजयेत् ।
2अधमाः स्युर्ध्रुवा ह्येताः प्रयोक्तव्याः प्रयोक्तृभिः ।। ३६२ ।।
3गत्यर्थोपमिता याश्च चलनार्था भवन्ति हि ।
प्रावेशिक्या बुधैरेव नैष्क्रामिक्यास्तथैव च ।। ३६३ ।।
प्रावेशिक्याश्रया यास्तु4 पूर्वाह्णार्धे तु5 ताः स्मृताः ।
नक्तन्दिव6समुत्थास्तु नैष्क्रामिक्याः 7स्वकालजाः ।। ३६४ ।।
सौम्याः पूर्वाह्णकाले तु मध्याह्णे दीप्तिसंश्रयाः ।
अपराह्णे तथा मध्याः [ससोकाश्च] सन्ध्यायां करुणाश्रयाः ।
8चलनार्था हि ये प्रोक्ता 9आक्षेपिक्या भवन्त्यपि10 ।। ३६५ ।।
Abh
(कुमुदाकराः) समुद्राः (?)। तदभावविषया उक्ताः ।। ३५९–३६४ ।।
गत्यर्थोपमिता इत्यादिना क्रियात्विति(विषय)त्वं प्रावेशिक्यादिविषयमाह । गत्यर्थस्तूमितं सामाजिकहृदयसमीपे प्रक्षेपो यैश्चलनार्थैर्धातुभिस्तेऽत्रापि प्रवेशे । दर्शनीयमिति । तथैव चेति । प्रदर्शनप्रवेशादि– प्रकारेणैवेत्यर्थः । कामिभिर्दर्शयितुमात्मानं गूहयितुमित्यादिभेद इत्यर्थः ।। ३६३ ।।
भूयस्त्वाभिप्रायेण कालौचित्यमाह । **प्रावेशिक्याश्रया यास्तु(पू)रा(र्वा)ह्णा(र्ध)**इत्यादि । तत्काले कार्याभ्युत्थानस्य भूयसा दर्शनात् । तदाह । नक्तन्दिवेति । तुर्यद्यपीत्यर्थे । प्रावेशिक्यामर्थत्वेनाश्रीयमाणायां कार्यविशेषा यद्यपि रात्रौ दिने च समुत्तिष्ठन्ति । तथाहि(पि) भूयस्त्वाश्रयेणेदमुक्तम् । एतदुक्तं भवति । प्रकृतं कार्यं यत्र काले भवत्युपमानं तु पूर्वाह्णे योज्यम् । एवमौचित्यात् प्रवेशः स्फुटं सूचयतीत्यर्थः ।। ३६४ ।।
एवं सौम्या पूर्वाह्णे दीप्तिर्मध्याह्ने शोकाद्यपराह्णे वर्णनीयमित्याह ।
Notes
आक्षेपा एवमेव स्युर्द्रुतस्थितगता1स्तथा ।
रोषामर्षादिसम्पूर्णाः2(म्भूताः) शोकाद्भुतभयानकाः ।। ३६६ ।।
यद् द्रव्यं वसुधासंस्थमृते दैवतमानुषान् 3।
तत्सर्वमुपनेयं4 तु गानयुक्त्योपमाश्रयम् ।। ३६७ ।।
Abh
अन्ये सौम्यं वस्तु पूर्वाह्णकाले प्रयोज्यमिति प्रयोगकालनियमोऽयमिति मन्यन्ते । अन्ये तु बन्दिमागधादीनां सौम्या (म्य)दीप्तादिवस्तुविषय (:स्तुत्यादिते(:)कालनियमोऽयमिति । प्रतिपन्ना जलक्रीडाऽक्षक्रीडादयोऽर्था आक्षेपिक्याः।। ३६५ ।।
अत्र हेतुः । आक्षेपा एवमेव स्युरिति । एवमेव लयभिन्ना अ(इ)त्याक्षेपाः । सामञ्जस्ये द(त्विय) मुद्धता क्रिया । एवमेवेति । चलनादिरूपकतयैव भवतीति सम्भाव्यते । कुतस्त इत्यादिविशेषा भवन्तीत्याह ।
रोषामर्षादिसम्भूताः शोकाद्भुतभयानकः ।
इति । पु(ल्लिङ्ग)…..त्वान् मत्वर्थीयोऽच् (अष्टा. ५.२.२७) शोकः पुत्रशोकादयः कारणत्वेन येषां सन्ति । अत एव शोककृताक्षेपमध्ये विलम्बितलयस्य सम्भवः ।। ३६६ ।।
यदुक्तमस्माभिरादित्यसोमेति (भ. ना. ३२. ३५३) । एवं स्थितिरि (ते इ) त्यादि (भ. ना. ३२. ३७४) दिक्प्रदर्शनमिति । तदर्थमाहं । यद् द्रव्यं वसुधासंस्थमृते दैवतमानुषांश्च (षान् । तांश्च) वर्जयित्वा । आदित्यादयस्तु परिदृश्यमानस्वभावा एवोपमानत्व उचिताः । मनस्त्वधिष्ठातृदेवतास्वरूपं दैवतम् । तद्वर्ज्यम् ।
ननु किमतो नियमाद् दृष्टं भवतीत्याशङ्क्य हेतुमाह । तत्सर्वमुपनेयं त्विति । तुर्हेतौ । यस्माद् गजेन्द्रपवनादीनां विशिष्टे प्रवेशादिके श्रूयमाणे स्वयमनधिकारिशरीरत्वादव्यग्रत्वाच्च न तावन्मात्र एव वाक्यार्थे सामाजिकस्य प्रतीतिर्विश्राम्यति । अपि तु प्रस्तुतप्रशंसिन्यायेनाधिकारिणि प्रकृते चित्तवृत्तिर्धावति । अतश्च तद्वस्तूपनेतुं प्रकृतार्थं प्रति सङ्गमयितुं शक्यं भवति । किञ्च नाट्योत्पत्तौ रसाध्याये (भ. ना. ६) प्रतीतिविश्रान्ता आहार्यादे (रधिकं) न प्रयोज्यत्वमपि तु चित्तवृत्ति (त्ते)रिति वितत्य दर्शितम् । तत्राधिकारशरीरव्यतिरिक्तस्याद्यस्य पुस्तचित्रालेख्यप्रख्यस्य चित्तवृत्तिं प्रति ग्रासीकारयोग्यत्वादुत्तानतया भासमानाऽसौ सर्वत्र विशेषेणोपनेतुं शक्या यदुपनयाद्रसास्वादः । यथोक्तं भट्टतोतेन ।
संविशिष्टेन केनाऽपि ग्रासीकारादपह्नुतिः ।
प्रकाशतेऽत उत्ताना सर्वस्यास्वादनिर्भरम् ।। इति ।
Notes
1स्थावरैः स्थावरं कुर्याद्गत्यर्थैश्चपलाश्रयम्2 ।
सुखदुःखकृतैर्भावैरौपम्यगुणसंश्रयात् 3 ।। ३६८ ।।
भूमिस्थ4वाजिकुञ्जरमृगपशु4शिबिकाविमानानाम्6 ।
गतिविभ्रमं हि दृष्ट्वा कर्तव्या तु ध्रुवा तज्ज्ञैः ।। ३६९ ।।
7रथपत्रवाजिवारणाविमानशिबिकास्थपक्षियानेषु ।
द्रुतपदवर्णावर्णैः8 कर्तव्या तु ध्रुवा तज्ज्ञैः ।। ३७० ।।
ओजस्कृता तु सा वै गुरुवर्णा वृषगजेन्द्रसिंहेषु9 ।
सारसवानरहंसे10 तथा मयूरे विधातव्या ।। ३७१ ।।
Abh
इन्द्रादेरर्जुनादेश्च गानकाव्यार्थनेतुः स्वयमेवाधिकारित्वावन्मात्रविश्रान्तिसम्भावान्नोपमेयत्वमिति । गानयुक्त [काव्यगी]तिनाटकगानोभयकाव्यार्थोचितस्य गीतिविशेषस्याभियोजना तु संवित्साधारणी भवति । गीतेश्चितवृत्तिमात्रद्योतका [कृत्वा]दिति ।। ३६७ ।।
अत्रापि शिक्षान्तरमाह । स्थावरैः स्थावरमिति । एकोऽर्थशब्दोऽपरो रूढिशब्दस्तेनावस्थानशीले सहकाराद्युपमानं भवति । सहकारतरुः शोभत इति । न धावतीति । तत्र तेषु स्थानेष्ववश्य(श्यं)स्थायिनी गतिः ।। ३६८ ।।
सा च विभज्य वर्णनीया । उपमानं च तत्रोचितमाश्रयणीयं सत्कविभिरिति दर्शयति । भू(मि)स्थेत्यादि । भू(मि)स्थः पादचारी । गतिविभ्रमो गतिवैचित्र्यम् ।। ३६९ ।।
तदुदाहरति रथपत्रेति । पत्रं युग्यादि । पक्षिभिर्गरुडाद्यौर्यानं येषाम् । रथादिशिबिकाश्च(स्थाः) पक्षियान(ना) श्चेति द्वन्द्वः । काव्ये पद(दं)द्रुत(तं)लघुवर्णम् । वर्णो गीतिः । साऽपि द्रुतवर्णा इति । स्फुटवर्णपर्युदासेन तत्सदृशा अवर्णा पौष्करा वर्णानुहाराः तेऽपि द्रुता लघुबहुलाः । द्रुतैः पदवर्णावर्णैरुपलक्षिताः । द्रुतेति सम्बन्धः ।। ३७० ।।
ओजस्कृतेति । दीप्तार्था तेभ्यः । गुरुवर्णेति । वर्णशब्दोऽत्राग्रे वर्णयेदि(र्ण्येते) ति तालाक्षरेषु । सेति ध्रुवा ।। ३७१ ।।
Notes
द्रुतगमने लघुवर्णा विलम्बितगतौ च दीर्घवर्णकृता ।
एवंस्थितद्रुतानां ज्ञात्वा भावं ध्रुवा1कार्या ।। ३७२ ।।
नास्ति किंञ्चिद् वृत्तं तु 2पदं गानसमाश्रयम् ।
3तस्माद्गीतिमभिप्रेक्ष्य तद्वृत्तं(त्तां)योजयेद् ध्रुवाम् ।। ३७३ ।।
तस्माद्वाहनगत्यर्थैर्ध्रुवा कार्याक्षरैस्तथा ।
अङ्गानां समता यत्र 4भाण्डवाद्ये करिष्यति ।। ३७४ ।।
यद्धृत्तौ (त्तो)वाहनगतौ ध्रुवापादो विधीयते ।
तद्वृत्तं तु 5भवेद्वाद्यमङ्गवाद्यसमं तथा ।। ३७५ ।।
Abh
एतदेव व्याप्त्या दर्शयति ।
द्रुतगमने लघुवर्णा विलम्बितगतौ च दीर्घवर्णकृता । इति ।। ३७२ ।।
यस्मादविद्यमानं गुरुलघुवर्तनं यत्र पदे सादृश्यस्य नास्ति तस्माद् गानस्य गीतिस्थानगतस्योद्धतमसृणादेराश्रयणाद्या गीतिर्वर्णाङ्गरूपा विलम्बिताद्यौचित्येनायाति तां विचार्य तद्वत्यां तदुचितगुरुलघुनियमां ध्रुवां वृत्तमिति योजयेद् गीतावसानतया सम्बन्धयेदिति ।। ३७३ ।।
त्रितयसाम्यमेव स्फुटयति ।
तस्माद्वाहनगत्यर्थैर्ध्रुवा कार्याक्षरैस्तथा ।
अङ्गानां समता यत्र बा(भा)ण्डवाद्ये करिष्यति ।।
पुष्करवाद्याक्षरैः सेति । अङ्गानां वर्णानां गानमेककादीनां श्येनविन्द्वाद्यलङ्काराणां च समतामुचितलयत्वं करिष्यतीति चिकीर्षितम् । तस्मादिति । भाण्डवाद्यं हृदयेनावलम्ब्य वाहनगत्यर्थैरक्षरैः पदैरुपलक्षिता ध्रुवा । तथेति । तत्प्रकारैरेव कार्येति सम्बन्धः ।
एतदुक्तं भवति । इदमत्र वाहनगत्यादि वर्णनीयम् । ईदृशेनात्र वर्णाङ्गेन भाव्यम् । तत्र चेदृशेन भाण्डवाद्येन तत्र चेदमुचितं ध्रुवावृत्तमिति पर्यालोचनम् । कवि(ता)ध्रुवाङ्गमत्र पदत्रयस्य साङ्गोपाङ्गमुत्तर (क्तं) श्रवणादिति केचित् ।। ३७४–३७५ ।।
Notes
पूर्वं गानं ततो वाद्यं ततो नृत्तं प्रयोजयेत् ।
गीतवाद्याङ्गसंयोगः प्रयोग इति संज्ञितः ।। ३७६ ।।
हृदयस्थस्तु यो भावः 1सोऽङ्गाभिनयनैरथ ।
निवृत्त्यङ्कुरसूचात्तु(सु) कार्यस्त्वभिनयान्वितः2 ।
तत्र प्रासादिकी योज्या 3प्रहर्षार्थगुणोद्भवा ।। ३७७ ।।
आकाशपुरुषो4 यत्र यत्र चाकाशभाषणम् ।
अन्वर्था तत्र कर्तव्या ध्रुवा ह्याभाष(काश)संश्रिता5 ।। ३७८ ।।
Abh
अथ साम्यकलमाह । पूर्वं गानमिति । पूर्वं प्रधानमपि रञ्जकत्वसाधारणीकरणाभ्यां रसस्यान्तरङ्गत्वाद्यत्र लयसाम्यार्थं वाद्यं तदनुवर्ति च पात्रस्य गत्यादिरूपं गात्रविक्षेपात्मकं वृ(नृ)त्तम् । यद्यपि गत्या वाद्यानुसारिण्या (भ.ना. ४.२७४) इत्यत्र नाट्येऽङ्गविक्षेपं (पस्ततो) गीतवाद्यं न तु विपर्यय इत्युक्तम् । तथापि सिद्धे प्रयोगे न तदत्रोचितमिति प्रतिवक्तुः प्रतीपंभिप्रायं (यो) मन्तव्यम् (व्यः) । प्रयोगस्य तु सिद्धिरेतद्यदा क्रियते तदा प्रयोक्तृव्यवहारस्थिता (ते) गीतावाद्ये पूर्ववद् व्यव(हार)स्थापितो(ते)ऽपि रूपे यदा भवतस्तदा द्रुतं तदपेक्षी भवत्येवेत्यलं बहुना ।
एवं गीतानां सम्यग् योजनं प्रयोगं प्रकृष्टं योजनमिति कृत्वा ये तु ताण्डवाभिप्रायमेतद्यथाश्रुतं नाट्यविषये पूर्वं नृत्तं प्रयोज्यमिति वर्णयन्ति न ते प्रकरणं प्रयोगहृदयं च पराम(म)र्शुरित्यास्ताम् ।। ३७६ ।।
अथ प्रासादिक्यां वक्तव्यं विशिष्टं पूरयितुमाह । हृदयस्थं तु (स्थस्तु)यो भाव इति । तुरेवार्थे । अथेति चार्थे । हृदयस्थ एवं गतिर्भू(भू)त एवं (व)न तु पृथग् वाच्यार्थतां प्रायोभावचित्तवृत्त्यात्मिका(को)चेष्टात्मा वा । अत एवैभिरङ्गाभिनयैरेव साध्य इत्यङ्कुराभिनयेषु सूचाभिनयेषु च यो भावोऽभिनयात्मकोऽभिनयमात्रसारस्तत्काले काव्यस्य व्यापारात् । तत्रैतेष्वङ्कुरनिवृत्त्यङ्कुरसूचाविषयेषु भावेषु प्रासादिकी ध्रुवा योज्या योजनमर्हति । प्रहर्षलक्षणः प्रीतिलक्षणः सामाजिकानां योऽर्थः प्रयोजनं स एव गुणो यत्र साध्यं तस्योद्भवो यस्या इति प्रयोजनमन्वर्थत्वं चोक्तम् ।। ३७७ ।।
विषयान्तरमप्यस्य दर्शयति । आकाशपुरुषो यत्रेति । प्रविष्टेनाऽपि सता येन सम्भाषणमादौ ततः
Notes
1प्रा(प्र)सादिक्या(दना)श्रया चापि हीर्ष्याक्रोधाश्रयाऽपि वा ।
शृङ्गाररसमासाद्य ध्रुवाऽन्वर्था प्रयोगतः ।। ३७९ ।।
यानि प्रासादिकानि स्युः स्थानानि रससंश्रयात् ।
अन्वर्था तत्र कर्तव्या ध्रुवा प्रासादिकी तथा ।। ३८० ।।
भाषां तु शौरसेनीं हि ध्रुवाणां सम्प्रयोजयेत् ।
2यदाऽपि मागधी यत्र कर्तव्यं नर्कुटं तथा ।। ३८१ ।।
Abh
प्रवेक्ष्यमाणता या साऽऽकाशभाषणेनेह लक्षिता । यस्तु नैव प्रवेक्ष्यति भाणादाविवोन्मादादि कल्पन्त(ल्प्यत) एव सा स आकाशपुरुष उक्तः (भ.ना.२२.३२१) तत्राकाशसंश्रयाव्यवधानं सूचिकैवार्थानुगता ध्रुवा कार्या ।
कम तुं तरिअं णिअ सहअरिअ सग्गइ सामु
पुरिओसु अरसु अयदि ।। (?)
(किं त्वं तरिरिव सहचरि स्वगते स्वामिनि पुरीष्वरसमयसि ।।) (?) ।। ३७८ ।।
अपि सर्वप्रासादिकी भवति । तथापि धीरदौ भाण्डवाद्यकोल(ला)हलादिप्राधान्यमिति शृङ्गारे सा प्रधानभूतेति दर्शयितुमाह । प्रा(प्र)सादनाश्रया वा(चा)पीति ।। ३७९ ।।
अन्यरसविषयत्वात् सम्भवत्येवेति दर्शयति । यानि प्रासादिकानीति । रसप्रसक्तिः प्रयोजनं येषां काव्यस्थानां तेषु प्रासादिकी अन्वेक्ष्यति । सा हि तत्प्रयोजनेति भावः ।। ३८० ।।
अथ प्रकृतिषु भाषा ध्रुवाविषयत्वाद् विभजति । भाषां तु शौरसेनीमिति सामान्यविधिः । **मागध्यां
**
Notes
दिव्यानां संस्कृतं गानं 1प्रमाणैस्तु विधीयते ।
अर्धसंस्कृतमेवं तु मानुषाणां 2प्रयोजयेत् ।। ३८२ ।।
ये त्वौपम्यकृता दिव्या यदि तेषां प्रयोगतः ।
प्रवेशो नाटके तु स्याच्छृणु तेषां समाश्रयम्3 ।। ३८३ ।।
यस्त्वेषां सात्त्विको भावः कर्मसङ्कीर्तनं च यत् ।
तत् कार्यं गानयोगेऽपि प्रमाणगु4ण संश्रयम् ।। ३८४ ।।
Abh
तु नर्कुटमिति साधर्म्यविषयेयमित्युक्तं भवति । नर्कुटस्यैतद्विषयत्वेनाभिधानात् ।। ३८१ ।।
दिव्यानां तु देवनृपाणां प्रमाणैर्व्याकरणादिलक्षणैरुपेतं संस्कृतं गानं शुद्धम् । मनुष्याणा– मर्धसंस्कृतम् । (अन्यत्) त्रिगर्व (वर्ग)प्रसिद्धं पदमध्ये संस्कृतं मध्ये देशभाषादियुक्तं तदेव कार्यम् । दक्षिणापथे मणिप्रवालमिति प्रसिद्धम् । काश्मीरे शाटकुलमिति । अन्ये तु सकललोकप्रसिद्धैर्व्याख्यानानपेक्षिभिः संस्कृतैः कृतमर्धसंस्कृतमाहुः । अपरे वररुच्यादिप्रणीतप्राकृतलक्षणान्वितं शौरसेन्यादिदेशभाषाद्यतिरिक्तं प्राकृतमेवार्धसंस्कृतमिति मन्यन्ते । यस्या या पाठे भाषा तयैव तस्य गीतमिति मुनिमतमित्य(त्यु)पेक्ष्यम् ।। ३८२ ।।
ननु ये पूर्वमादित्याग्निसोमादय उपमानत्वेनोक्तास्तेषां यदा प्रयोगवशादिवृत्तौचित्यात् साक्षादेव प्रवेशो भवति यथ रामाभ्युदये मेदकस्तथा ध्रुवायां किं वर्णनीयमित्याशङ्क्याह । ये त्वौपम्यकृता इति । गणिकास्तेषां समाश्रयं वर्णनीयत्वे शृण्वित्यवधारयेति मुनीन् प्रति प्रत्येकं भरतमुनिराह । न तेषामुपमानमुखेन वर्णनमपि तु स्वरूपेणैव ध्रुवा । तदन्यः(न्य)पात्रवदेव त्रयेष्पपीति केचित् । अन्ये त्वधिष्ठान देवतायाः प्रवेश एवाश्रयो लोकपरिदृश्यमानभूतरूप उपमानमिति प्रतिपन्नाः । अभियुक्तास्तु स्वयमाश्रय इत्युपमागत वर्ण एवाश्रय उचितत्वादाश्रयेणे(त्य)र्थः । उपमानत्वेन सजातीयत्वाच्च स्वतन्य(न्त्र)ता । अग्नेर्मध्याह्नादित्यः स एवोपमानतया कार्य इति वर्णयन्ति स्वेनोपमानाश्रयमिति । अन्ये तु गानध्रुवा तावदन्यपात्रपदै(रन्य)– त्रैतद्दृष्टेत्याधिशा(धीश)स्तुतिर्ध्रुवा प्रयोज्येति । एतदनेन ग्रन्थेनोच्यत इति । एतदेव च युक्ततरं देवस्तवसूचनात् ।। ३८३ ।।
यस्त्वेषां सात्त्विक इत्यादिना विकलं तत्स्वरूपं च वर्ण्यमिति दर्शयति । प्रमाणगुणसंश्रयमिति । सकललक्षणोपेतमित्यर्थः । स्वरूप(त)स्तु प्रमाणं गान्धर्वशास्त्रं तद्गणैरविकृतैरेव जात्यंशकैरदृष्ट– प्रमाणकथनैस्तथाविधेषु गानं कार्यम् ।। ३८४ ।।
Notes
छन्दःप्रमाणसंयुक्तं दिव्यानां गानमिष्यते ।
1पुण्याश्रयं च तत् कार्यं कर्मसङ्कीर्तनादपि ।
ध्रुवा2 पदविधौ कार्यं यच्च पुण्यं गुणाश्रयम्3 ।। ३८७ ।।
4माला वक्त्रं पुटं वृत्तं विश्लोका 5चूलिका तथा ।
उद्गताऽपरवक्त्रा च कर्तव्या वै 6प्रयोक्तृभिः ।। ३८६ ।।
विधानं चन्दसामेतन्7 मया पूर्वमुदाहृतम् ।
जयाशीर्वादयुक्तानि 8कार्याण्येतानि दैवते9 ।। ३८७ ।।
ऋग्गाथाः पाणिकाश्चैव 10द्रष्टव्यास्तु प्रमाणतः ।
11सुश्रवश्चैव यस्मात्तु तस्माद्गीतं प्रयोजयेत् ।। ३८८ ।।
12गान्धारमध्यमयुताः पञ्चमयुक्तास्तु जातयो यास्तु ।
ताभिः प्रमाणगानं कर्तव्यं दैवतोपेतम् ।। ३८९ ।।
Abh
एवं पुण्यनिमित्तत्वं लक्ष्यत इत्याहुः । कर्मसंकीर्तनादपि पुण्यनिमित्तं केवलं गान्धर्वयोगादित्यपि शब्दार्थं वर्णयति ।। ३८५ ।।
माला वक्त्रमित्यादिना विकलं प्रवृत्तिविधिमाह । स च उक्तभावे(व इ) त्याह । पूर्वमिति । अन्ये आत्मि(चूलि)केत्यत्र चूर्णिकेति पठन्ति । वृत्तान्तगं वृत्तचूर्णिकेत्याहुः । जयाशीर्वादेति । स जयतु पायादित्यादियुक्तानि । तदर्थमेव हि तेषां (विधिः) । तमिह वदेदिति नाप्रकृतमेतदिति शङ्कितव्यम् । आ(अ)र्हेति कार्याणीति अर्हे कृत्यः (अष्टाः ३.३.१६९) । गान्धर्वमपि योज्यमानं सुकुमारमेव योज्यम् । रञ्जनार्थत्वाद् (ग)न्धर्वाणामिति ।। ३८६–३८७ ।।
ऋग्गाथाः पाणिका इति । चकारोऽन्यदपि सुकुमारं च चतुष्पदां सङ्गृह्णाति । (? व्यवच्छिनत्ति)एवकारः सुकुमारं व्यवच्छिनन्ति (? व्यवच्छिनन्ति) । सुश्रव इत्ययं हेतुः । इत्ययमृग्गाथादिसम्बन्धी तालविधिः ।। ३८८ ।।
स्वरविधिस्तर्हि वक्तव्य इत्याह । गान्धारमध्यमयुताः पञ्चमयुक्तास्त्विति । गान्धारी मध्यमा पञ्चमी
Notes
प्रासादिकं स्थितं चैव 1नैष्क्रामं सप्र(म्प्र)वेशनम् ।
प्रमाणमपि कर्तव्यं चतुःस्थानसमन्वितम् ।। ३९० ।।
प्रायशः संस्कृतं योज्यमनुष्टुप्च्छन्दसा कृतम् ।
नानादैवतकार्येषु 2ह्यन्तरा या विना तथा ।। ३९१ ।।
वक्त्रं चापरवक्त्रं च माला चेति प्रवेशजम् ।
पुटं च चूलिका चैव नैष्क्रामिकमथेष्यते ।। ३९२ ।।
प्रासादिक्युद्गता3वृत्ति(:)स्थितं चानुष्टुभीष्यते4 ।
स्थानान्येतानि बोध्यानि5 प्रमाणस्य बुधैरथ ।। ३९३ ।।
Abh
चेति । अत एव गान्धारपञ्चमे भिन्नं यत् पञ्चमं न चोक्षपञ्चमेन प्रयोक्तृगीतिः ।। ३८९ ।।
दिव्यविषये चतस्रो ध्रुवा इत्याह । प्रासादिकं स्थितं चेति । प्रमाणमिति तालपरिच्छिन्नं गानम् । तदपेक्षमेव प्रासादिकमित्यादौ नपुंसकम् । स्थितस्य रसान्तराक्षेपः कार्यमिति स्थितमत्राक्षेपिकं गानम् । अन्तरत एवान्तरगतविषयस्याभावाच्च स्थान(स्थिति) गानं स्यात् ।। ३९० ।।
यदा बहुतरं तदङ्गं प्रविष्टस्य रङ्गे स्थितिस्तदाऽन्तरध्रुवाऽपि भवति । तत्र च संस्कृतमनुष्टुब्गानम् । मार्गदीर्घकलायां तु स्थितौ सा नैव भवतीत्याह । विना तथेति । अन्तरध्रुवापीत्यर्थः । गुरवस्तु मन्यन्ते । नैष्क्रामिकं सम्प्रवेश(न)मिति । साहित्यसूच(चि)तेन प्रावेश(शि)की नैष्क्रामिकी च दिव्येष्ववश्यं भाविनी । कृतेआ(ताबा)पदासम्भ्रमादेर्ध्रुवान्तरं तु कालपर्या(य)सापेक्षमिति ।। ३९१ ।।
अथ वृत्तानि विभजति । वक्त्रं चेति । वक्त्रापरवक्त्रमालाः प्रावेशिक्यो देवानाम् । पुटचूलिके निष्क्रामे ।। ३९२ ।।
प्रासादिक्य(क्या)मुद्गता । आक्षेपिक्यामनुष्टुम् ।। ३९३ ।।
Notes
यदनुष्टुप्कृतं गानं स्थितस्थानसमाश्रयम् ।
1स्वप्नभ्रंशाश्रयकृतं चिन्तादुःखसमन्वितम् ।। ३९४ ।।
गुरुप्रायाक्षरकृतं 2करुणश्रुतिजातिकम् ।
3प्रकृष्टवर्णबहुलं स्थितस्थानं तु तद्भवेत् ।। ३९५ ।।
4उत्पादनार्थं नॄणां तु तथा विहरणेष्वपि5 ।
दिव्यान्वयं तु कर्तव्यं गानं पात्रसमाश्रयम्6 ।। ३९६ ।।
मानुषेष्ववतीर्णेषु मर्त्यस्य7 स्मरणाश्रयम् ।
8प्रायेण गानं कर्तव्यं दिव्यस्य स्मरणाश्रयम् ।। ३९७ ।।
9अस्यैव दुःखविषयं शोकचिन्ताविनाशजम् ।
प्रमाणगानं कर्तव्यं शोकावस्थान्तराश्रयम्10 ।
नरान्वयेन कर्तव्यं गानं मानुषकादिषु ।। ३९८ ।।
Abh
नत्वाक्षि (न्वाक्षे) पिकी स्थितिलया यदा भवत्येषां सा का(ला)वकाशवशादित्याशङ्क्याह । स्वप्नभ्रंशाश्रयकृतमिति । यथा क(श्चिदा)श्चर्यार्थः कश्चिदेव स्वामिनां भगवद्रुद्रविष्णुविरिञ्चादीनां परवश एव भ्रष्टदिव्यभावो बहुतरं कालं विभज्यते । तथोग्रदुःखयोगे स्थितलयस्य शोकोचितस्यान्तरा स्वस्थानशरणाद्युपवर्णनेष्वस्त्यवकाश इति तात्पर्यम् । नत्वत्र शापादिना स्वर्गभ्रंश इति भ्रमितव्यम् । तदानीं दिव्यत्वव्यपगमे करुणेऽस्मिन्न वक्तव्यं स्यात् ।।३९४–३९५ ।।
ननु किमर्थं दिव्यानां मा(म)नुष्यमध्ये प्रवेश इत्याशङ्क्येतिहासवृत्तान्तस्मरणयो (णेनो) त्तरं ददाति । उत्पादनार्थमिति । इन्द्रस्यावतरणमर्जुनजन्मनेत्यादि । विहरणं क्रीडन(ना)यानुसरणम् ।। ३९६ ।।
योऽपि दिव्यो मर्त्यधर्मेण वर्तते यथा भगवान् कृष्णो रामो वा तदा*स्वं स्वरूपं स्मरति तदास्य दिव्योचितप्रमाणेन शास्त्रविधिना तु लौकिकस्य च्छन्द(न्दो)रीतिक्रियया गानं कार्यम् ।। ३९६–३९८ ।।
Notes
ध्रुवाणां हि विधान(कार)स्य 1ह्याश्रयस्य विशेषतः ।
यथा प्रयोगः कर्तव्यस्तच्च मे सन्निबोधत ।। ३९९ ।।
स्थापिते भाण्डविन्यासे त्रिसाम्नि परिकीर्तिते ।
आश्रावणाद्यं कर्तव्यं बहिर्गीतप्रयोगजम्2 ।
प्रयुज्य च बहिर्गीतं पूर्वरङ्गं प्रयोजयेत् ।। ४०० ।।
पूर्वरङ्गे 3प्रयुज्ये(क्ते)तु नाट्याचार्यसमाश्रये ।
ध्रुवा तत्र प्रयोक्तव्या प्रकृतीनां प्रवेशजा ।। ४०१ ।।
गत्याश्रयेण नाट्यज्ञैः पादैरनुगतैस्तथा4 ।
परिक्रमेण रङ्गस्य 5गानेनार्थवशेन च ।। ४०२ ।।
Abh
अन्यदा तूत्तरप्रयोगिन्यो ध्रुवा उत्थाप(पि)न्यादिकाः पञ्चमाध्यायवर्णितस्वरूपा वक्तव्यशेषेण पूरणीयाः । तत्प्रस्तावप्रयोगे सम्बन्धे च दर्शनव्याजेन भणाही(नी)ति ध्रुवाणां विकारस्य प्रकारपञ्चकस्य च आश्रयो नाट्यप्रयोगस्तस्य पूर्वेण (पूर्वरङ्गे) सहायः प्रकृष्टो योगः स यथा कर्तव्यस्तं निबोधत । चकारोऽत्र वक्तव्यशेषं सूचयति ।। ३९९ ।।
स्थापिते भाण्डविन्यासे इत्यर्थेन प्रत्याहारावतरणे सूचिते आश्रावणाद्यमित्यर्धेनान्तर्यवनिकाङ्गानि पूर्वरङ्गे प्रयोजयेदिति बहिर्यवनिकाङ्गजा तत्प्रसङ्गेन गानान्तरिता ध्रुवा सोप(वर्णिता) ।। ४०० ।।
नाट्याचार्यकलितानां तु पूर्वरङ्गाङ्गवदनादिगान्धर्ववेदपरिदृष्टा (नाम्) । प्रकृतीनामिति । उत्तमादिपात्राणां प्रवेशः प्रावेशिकी ।। ४०१ ।।
अथ पूर्वरङ्ग उत्थापनादिषूक्तं परिवर्तास्तु चत्वारः पाणयस्त्रयः (भ.ना.५.४१) इत्यादि तच्चानुद्भिन्नमुद्भेदनीयमित्याशयेन पूर्वरङ्गविषये वक्तव्ये शेषा अभिधानार्थमुत्तमाङ्गक्रमस्या (प्रा) यास्तं) (तान्) निरूपयति । गत्याश्रयेणेत्यादि । ये परिवर्तास्तस्त्रोक्तास्तैः पादैरनुगतैरिति चारीभिस्तालप्रमिता– भिर्गतेराश्रयणेन तथैव परिवर्ताः प्रयोज्याः । कथम् । रङ्गस्य त्र्यश्रचतुरश्रविकृष्टभेदत्रयस्य य उचितः परिक्रमः(स)किन्निमित्तः परिवर्तकानामित्याह । गानेनार्थवशेन चेति । गान इ(मि)ति सामवेदम्(दः) । अथ(र्थः)प्रयोजनम् ।
Notes
परिवर्ताः प्रयोक्तव्याः पादैरनुगतैरथ 1।
ध्रुवा तत्र प्रयोक्तव्या देवताभिर्युता बुधैः ।। ४०३ ।।
तत्र पाताः प्रयोक्तव्या एकविंशतिरेव च ।
त्र्यश्रा वा चतुरश्रा वा ध्रुवा नाट्ये प्रयोगतः ।। ४०४ ।।
त्रिकलं पादपतनं त्र्यश्रायास्तु(यां तु)विधीयते ।
चतुष्कलं तु पतनं चतुरश्रागतं भवेत् ।। ४०५ ।।
उत्तमे चतुरश्रा च त्र्यश्रा चैव तु मध्यमे ।
2त्र्यश्रं नर्कुटकं चैव ह्यधमेषु प्रयोजयेत् ।। ४०६ ।।
Abh
एकस्मिन् परिवर्ते तु गते प्राप्ते द्वितीयके ।
(भ.ना. ५.३९) इत्यादि पञ्चमाध्याये दर्शितम् । तेन परिवर्तबहुलगतिः । सामवेदप्रभवत्वं जर्जरग्रहणं तन्मन्त्रजपनादिकं च प्रयोजनं परिवर्तेषु निमित्तमित्यर्थः ।। ४०२ ।।
तत्र च ध्रुवा देवताभिर्युता । देव(ता)बहुवचनेन मत्राङ्गे(? मन्त्राङ्गे) यादृशी क्रियमाणत्वेन देवतोक्ता सैव तत्र ध्रुवायां स्तुत्येति दर्शयति । वन्दे पितामहमित्यादिना (भ.ना. ३२.४०५) ।। ४०३ ।।
गतिं स्मारयति । तत्र पाता इति । पादपाताः पञ्चमेऽध्याये वामवेधस्तु (तत्रापि) विक्षेपो दक्षिणस्य च (तु) (भ.ना.५.८४) इत्यादि षङ्विंशतिः । एकविंशतिः त्र्यश्रा वा चतुरश्रा वा द्विप्रकारतां पूर्वरङ्गस्य स्मारयति । नाट्यविषयात् प्रयोगात् प्रागयं क्रमः । अन्ये तु ध्रुवा नाट्ये ध्रुवेति च । (नाट्या) भिनयप्रक्रमादावयं विधिरिति ।। ४०४ ।।
त्रिकलं त्र्यश्रायां पादपतनम् । अन्यत्र चतुष्कलम् ।। ४०७ ।।
अत्रोत्तमत्वं देवताविषयम् । मध्यमत्वं राजादिविषयम् । प्रशास्त्विमां महाराजः पृथिवीमित्यादौ । अधमत्वं विदूषकादेः । त्रिगतकथितकादौ । अन्ये तु देवतानामेव प्रकृतित्रयं योज्यमित्याहुः । मध्यमाधमस्य(योः) स्यान्न तेन विशेषः । त्र्यश्रता तुल्यतै(तयै)व तयोः ।। ४०६ ।।
Notes
विधिः1स्वस्थगतो ह्येष भवेच्चारणपातने ।
सम्भ्रमोत्पातरोषेषु कलार्धकलमिष्यते ।। ४०७ ।।
त्रिकलद्विकलैकलाश्र्चतुष्कला 2यत्र पादविन्यासाः ।
तत्र च साम्यं कार्यं भाण्डेन समं च3 गानेन ।। ४०८ ।।
न ह्येककला द्विकला ध्रुवाविरामा भवन्ति गानविधौ ।
तस्मात्(एवं) साम्यं कार्यं (कुर्यात्) भाण्डेन समं च4 गानेन ।। ४०९ ।।
Abh
चारीमहाचारीरङ्गद्वारादिषु रसावेशवैवश्येन गतिस्त्रिकलाधिकेति दर्शयति । स्वस्थगतो ह्येष इति । अनादेशे त्रिकलचतुष्कला वा गतिः । सम्भ्रमोत्पातरोषेषु महाचार्यादौ कलिकं वा पादपतनमिति संभ्रमादसमं स्यात् ।। ४०७ ।।
भाण्डादीनां सङ्गतिरवश्यमेव तत्सूचकमुचितमिति यो विपर्यस्तस्तस्य भ्रान्तिमपसारयितुं तालसाम्यमेव सर्वत्र वि(हि)तमिति दर्शयति । त्रिकलद्विकलैककलेत्यादि ।। ४१० ।।
नन्वर्धकलिका कलिका च गतिरुक्तेति तावत्यपि स्याद् ध्रुवेति भ्रमं वारयति । न ह्येककला द्विकला ध्रुवाविग(रा)मा इति । कलायं निषिद्ध…..मार्गस्वरूपनिरूपणा…….पञ्चलघ्वक्षरपरिमाणं लघ्वक्षर- मिति । इत्थं ध्रुवस्य प्रतिपादितं तेन प्लुतो गुरुरेव । गुरुस्तदपेक्षया लघुः । लघ्वपेक्षया ल(घुर्ल)घुरेवेति प्रस्तारे विभागः । तत्र प्रस्तारविधिरुच्यते ।
आद्यगुरोर्लोपः स्यात् पर(द)मुपरि पदादितो गुरुः पूर्णे ।
लघुना पूरणमत्र च यावद्गति गुरुलघुत्वं स्यात् ।।
तेन प्लुतस्तद्भङ्गेऽष्टादशभेदास्तेन सह षड्भेदः । लघू द्वौ । तद्यथा । एतेषां प्रत्येकं विरामभेदतुल्यो द्विगुणस्त्रिगुणश्चतुर्गुण इति पञ्चधा विरामभेदः षष्ठकलायाः कलार्धस्य सार्धकलायां(या)वा । अत एव च विरामो मध्यविरामो मूलं भवत्येव । आद्ये सन्धानादिति हि कोहलाचार्यः । तेन प्लुतभेदाश्र्चतुर्दशाधिकं शतम् (११४)। गुरुभेदाः षट्त्रिंशत् । लघुभेदा द्वादश । तेन चञ्चत्पुटस्य तावता गुणने (५३७७) तस्य द्वादशभिर्गुणने तस्याङ्कस्य चतुर्दशोत्तरेण शतेन (गुणने ७७५५७३६)। एते गुणकृता भेदाः । अवान्तरभेदानां तु निस्सङ्ख्यत्वमेव । चञ्चत्पुटवत् चाचपुटादिभेदेन भेदान्तराण्यपि दर्शनीयानि । यथोक्तम् ।
Notes
ये पूर्वोक्ता भावाः 1स्थिताश्रया वा द्रुताश्रया वापि ।
तेषां पात(द)निपातं ज्ञात्वा सम्यग् बुधैः कार्यम् ।। ४१० ।।
Abh
असङ्ख्यानि सहस्राणि कोटीनामयुतानि च ।
तालद्वयप्रभेदेन पुरा प्रोक्तानि शम्भुना ।।
इति । एवं मिश्रभेदोऽप्यनुसर्तव्यः । अत एव त्र्यश्रचतुरश्रमिश्राणां षट्पितापुत्रकस्य च मूलप्रकृतितया ध्रुवाशब्दवाच्यानां भञ्जिनाट्ये प्लुतगुरुलघुद्रुतमयास्ताला विरामभेदा विचित्राः । तथा भङ्गव्यपदेशेन यदाहुः । ध्रुवाणां भञ्जनाद्भङ्गा इति । एवं त्रिचतुष्ष(ड)ष्टकध्रुवातालभञ्जनं भङ्गानां रूपस्य । उपभङ्गास्तु सङ्कीर्णस्वरूपेभ्यः कलाः पञ्चे (भ. ना. ३१. २४)त्यादिनोक्तस्य भञ्जनादपि भवन्ति । तथाऽभिनयनकाले त्र्यश्रा । त्र्ययगत्र्यद्वैगुण्या । मिश्रा च दशकलाचतुष्कं वलयमथ गत्रयमित्येव(वं)रूपी(पिणी) । यत्र तु द्विविधत्वाद् गुरुलघुप्लुतद्रुतविरामादिरूपेण भञ्जनं तेऽपि भङ्गाः । लयभेदेन तु यत्र वैचित्र्यं तद्यथा द्विविधानां चित्रपदानां गुरुरूपप्रस्तारसाम्येऽपि लयकृतविभेदः । एवं भङ्गोपभङ्गविभङ्गलयरूपा तावच्चतुर्धा तालजातिर्गोबलीवर्दवृत्त्या लक्ष्यते । तद्वयपदेशाद्विभक्ताः संव्यवहारसिद्धये कोहलाचार्यप्रभृतिभिः । भट्टगोपाल- भट्टलोल्लटप्रभृतिभिस्तु तथाविभागं विनियोगशेषं च दूषितम् । तद् द्वयं तु नास्मभ्यो रुचितम् । पूर्वप्रसिद्धिर्हि यथोपपद्यते तथा मतिचतुरिमा संहरणीयः । एवमेव गणभेदभङ्गस्तस्य च प्रस्तार आचार्यप्रस्तारवद्यथोक्तया दण्डापूपाचरितै(तयै)व । कथं तर्हि कु(क)लिकं पादपतनमि (भ. ना. ३१.४१०)त्याह ।
एवं साम्यं कुर्याद् भाण्डेन समं च गानेन ।
इति । भाण्डवाद्यगानाभ्यां सहगतेः । एवमिति । कलाद्वयकलार्धकलारूपेण साम्यं कार्यम् । तत्र ध्रुवा समवायितव्या । तथा हि । हितार्थस्य षष्टिः । तालगतभेदद्वयगत्या गतं च । अपि तु गीतवाद्ययोस्तावत्यवान्तरविदारीयोगः कार्य इति तत्र तात्पर्यम् ।। ४०९ ।।
लयत्रयवैचित्र्यमपि चात्र भवतीति दर्शयति । ये पूर्वोक्ता भावा इति । पूर्वरङ्गमहाचार्यादौ यथामन्थरत्वरितरूपा चित्तवृत्तिस्तत्सम्बधिनं तत्सूचितं पादपाताद्वा परिक्रमणं कार्यम् ।। ४१० ।।
अथानेन प्रसङ्गेन सामञ्जस्यं न क्वचिदपि युक्तमिति दर्शयति ।
Notes
1अपटाक्षेपकृता चेदात्ययिका(की) हर्षरागशोकाद्याः2 (कोत्थैः)।
3विच्छेदस्तत्र समः कार्यस्तज्ज्ञैः प्रवेशे तु4 ।। ४११ ।।
एवमेते बुधैर्ज्ञेयाः प्रयोगपरिवर्तकाः ।
अतः परं प्रवक्ष्यामि भाण्डग्रहविकल्पनम्5 ।। ४१२ ।।
अभाण्डमेव6 गानस्य परिवर्तं प्रयोजयेत् ।
चतुर्थे 7परिवर्ते तु तस्य भाण्डग्रहो भवेत् ।। ४१३ ।।
सन्निपातग्रहाः काश्चित् काश्चिद्वै तर्जनीग्रहाः ।
तथाऽऽकाशग्रहाः काश्चित् ध्रुवा गाने भवन्ति हि ।। ४१४ ।।
Abh
अपथा(टा)क्षेपकृता चेदात्ययिकीहर्षरागशोकोत्थैः ।
यो वि(वि)च्छेदस्तत्र समः कार्यस्तज्ज्ञैः प्रवेशे तु ।।
इति । चेदिति यद्यप्यर्थे । तुरप्यर्थे । करणं कृत् । अत्यये भवे (वा)आत्ययिका(की) । अप्रयुज्यमानं तदीयं योजनाहर्षादिभिरुपलक्षिते पात्रप्रवेशे पदाक्षेपकस्याकरणेन यद्यपि प्रावेशिकी ध्रुवा सम्भवति । अध्रुवास्तु प्रवेशजा (भ. ना. ३२. ३२७) इत्युक्तत्वात्तत्रेत्यविद्यमानध्रुवास्थानेऽपि प्रविशतः पादस्तालेन समीकर्तव्यः । एवं वलनिकादिना ततः कलिकेनापीति ।। ४११ ।।
एवं प्रसङ्गादुक्तम् । प्रकृतं पूर्वरङ्गमेवानुसरन्नुक्तमुपसंहरन्नन्यदासूत्रयति । एवमेते [बुधैर्ज्ञेयाःप्रयोग] परिवर्तका इति । भाण्डग्रहविकल्पनं प्रवक्ष्यामीति च ।। ४१२ ।।
अभाण्डमेव गानस्य परिवर्तनं प्रयोजनम् । चतुर्थे सन्निपातम् । भाण्डग्रहणे सन्निपातः । परिवर्तनेन तुर्ये परिवर्तने भाण्डग्रहाद्यास्त्रयः शून्या इति । अन्ये त्वाद्य एव परिवर्तो भाण्डशून्यः । तदानीं यावत्यः सन्निपातकलाः सन्धीनां त्रयोऽन्ये भाण्डवाद्यमुक्ता इति ।। ४१३ ।।
सन्निपातग्रहाः काश्चिदिति । ध्रुवा हस्तद्वयहननजैरक्षरैस्तर्जनीप्रहतिभिः कृते लक्षणशून्यवर्तनामात्रेण वा भाण्डवाद्यस्य ध्रुवानुग्रह इति त्रिधा । अन्ये त्वाहुः । एककले ताले सन्निपातान्त्यकलातो द्विकले चतुष्कले च ध्रुवायास्तित्व तर्जन्या इति । तदुपलक्षिततुर्यपादे
Notes
ध्रुवायास्तु ग्रहो यस्मात् कलाकाललयान्वितः ।
स तु भाण्डेन योक्तव्यस्तज्झैर्गतिपरिक्रमे ।। ४१५ ।।
1शीर्षकोद्धतयोश्चैव प्रदेशिन्या ग्रहो भवेत् ।
विलम्बितास्थितायोगे सन्निपाते तृतीयके ।। ४१६ ।।
नर्कुटस्याड्डितायां च प्रासादिक्यास्तथैव च ।
सन्निपातग्रहः कार्यो द्रुतायाश्चोच्चके2ग्रहः ।। ४१७ ।।
नैष्क्रामिक्यनुबन्धानां ग्रहे(हो)गानसमो भवेत् ।
3नत्वसौ परिवर्तस्तु कार्यो गाने प्रयोक्तृभिः ।। ४१८ ।।
Abh
भागप्रथमकलान्तः । एककलादिनियमाभावे तु आकाशाच्छून्याद् गीत एव नामभाण्डग्रह इति । अस्मत्परमगुरुभिश्च श्रीमदुत्पलदेवपादैरयमेव प्रतिपन्नोऽर्थः ।। ४१४ ।।
गानसम(भ.ना. ३२. ४२२) इति सन्निपातश्च शम्याचे(भ. ना. ३२.४२१)त्यकारणं भाण्डस्यैव साक्षीति । भाण्डवाद्यशा(शी)ले च गतिपरिक्रम इति दर्शयति । ध्रुवायास्त्विति । कला(काललयान्वितः)। कालश्चित्रादिभेदेन त्रिधा । तथा लयो द्रुतादिः । तदन्वितो यः । भाण्डेन साहित्यग्रहसङ्गतिः परिक्रमविषये योजनीया ।। ४१५ ।।
शीर्षकोद्धतयोः प्रदेशिन्या द्रुतविलम्बितार्थस्थितयोस्तृतीयपातान्त्यात् ।। ४१६ ।।
नर्कुटादीनां प्रासादिकी । द्रुतानामूर्ध्वके आद्ये वा देयः सन्निपातः । तत ऊर्ध्वके मुरज इति केचित् ।। ४१७ ।।
नैष्क्रामिकमित्यनुबन्धयोर्गानसम एव ग्रहः सन्निपातादेतस्माज्जायते गानकाले । एवं तर्जन्यादिग्रहणोक्तः । न मुरजाक्षराणि । अनयोश्च परिवर्तो न कार्यः ।। ४१८ ।।
Notes
नर्कुटस्यापि चत्वारो ग्रहाः कार्याः प्रयोक्तृभिः ।
सन्निपातश्च शम्या च तालश्चाकाशजस्तथा ।। ४१९ ।।
सम्भ्रमावेगहर्षेषु प्रवेशा ये भवन्ति हि ।
ग्रहो गानसमस्तत्र सोद्धात्यः सम्प्रकीर्तितः ।। ४२० ।।
भूषणवासः पतने वैकल्ये विस्मृते परिश्रान्ते ।
दोषाच्छादनहेतोरुद्धात्यः1 सम्प्रयोज्यस्तु ।। ४२१ ।।
एवं प्रयोक्तृभिः कार्यं ध्रुवाणां सम्प्रवेशनम्2 ।
यथास्थानाश्रयोपेतं यथानृत्तकृतं तथा ।। ४२२ ।।
यथा वर्णादृते चित्रं न शोभोत्पादनं भवेत् 3।
एवमेव 4विना गानं नाट्यं 5रागं न गच्छति ।। ४२३ ।।
Abh
नर्कुटस्य शम्यायास्तालः । सन्निपाताच्छून्यादेव भाण्डग्रहः । शम्यातालाभ्यां सव्यापसव्यहस्तप्रहारजान्यक्षराण्येवेति । अन्ये एतत् पूर्वरङ्गविषयं परिवर्ताद्युत्थापनादि ध्रुवासु तत्तल्लक्षणाङ्गदर्शनेन शीर्षकोद्धतादिव्यवहारयोगास्त्विति । अन्ये तु दृष्टप्रयोजनेऽपि नियमाददृष्टप्रयोजनेऽपि नियमाददृष्टं भोजनप्राङ्मुखत्ववदिति ।। ४१९ ।।
स्थितानां भागानां विषयं(य)प्रसङ्गादेतदुक्तम् । (द्रुतायां नोक्त)मित्याशङ्क्याह । सम्भ्रमेत्यादि । सम्भ्रमादौ प्रवेशे गानसमो ग्रहः । उद्धात्येन उद्रेकहननार्हेण खलखलकेन ।। ४२२ ।।
भूषणवासः पतनादावपि खलखलकस्य प्रयोगः ।। ४२१ ।।
एतदुपसंहरति । एवं प्रयोक्तृभिरिति । यथास्थानं यथाश्रयं च प्रवेशादावुत्तमादौ नाट्यध्रुवागानं यथानृत्तगतं पूर्वरङगध्रुवागानं कुर्यात् ।। ४२२ ।।
ननु पूर्वरङ्गगतं त्वदृष्टसिद्धये नाट्ये तु किं तेनेत्याशङ्क्योपरञ्जकत्वेन रसोपयोगीतामप्याह । यथा वर्णादृते चित्रमिति । वर्णो हरितालादिः । वैचित्यान्निवेशितमिति । घटिकामात्रादिनेति भावं(वः) रसभावोक्तिरनेन सूचितेति टीकाकाराः । अस्माभिस्तु रसतत्त्वं विमृष्टपूर्वमेव ।। ४२३ ।।
Notes
पूर्वरङ्गविधाने तु कर्तव्यो 1रागजो विधिः ।
देवपूजाधिकारस्तु तत्र सम्परिकीर्तितः ।। ४२४ ।।
ततश्च काव्यबन्धेषु नानाभावसमाश्रयम् ।
ग्रामद्वयं तु कर्तव्यं (यगतं कार्यं)2यथासाधारणाश्रयम् (स्थानरसान्वितम्) ।। ४२५ ।।
मुखे तु मध्यमग्रामः षड्जः प्रतिमुखे भवेत् ।
साधारितस्तथा गर्भे 3वि(ऽव)मर्शे चैव पञ्चमम् ।। ४२६ ।।
कैशिकं च तथा कार्यं गानं निर्वहणे बुधैः ।
4सन्निवृत्ताश्रयं चैव रसभावसमन्वितम् ।। ४२७ ।।
5तथा रसकृता नित्यं ध्रुवाः प्रकरणाश्रिताः ।
नक्षत्राणीव गगनं नाट्यमुद्योतयन्ति ताः ।। ४२८ ।।
Abh
पूर्वरङ्गेऽदृष्टेऽप्यप्रयोजनं तदाह । देवपूजाधिकारस्त्विति । तुरप्यर्थे ।। ४२४ ।।
ननु किं तत्र स्वरगतमित्याह । ग्रामद्वयगतमिति । अष्टादशजात्यात्मकमित्यर्थः । यथास्थान- रसान्वितमिदमिति चारीमहाचार्यादौ यत्र रसं प्रत्यनुल्बणत्वं यथा…….यौगन्धरायणप्रवेशे रत्नावल्याम् (अङ्कः 1)।। ४२५ ।।
तत्र शरदाश्रयं गानमिति दर्शयन् तत्र युक्तं परमतमप्रतिषिद्धमनुमतं अंशो…..सुगतं चेति नीत्या काश्यपमुनिप्रभृतिभिर्निरूपितमपि ग्राम(राग)नागरगानं स्वीकरोति । मुखे मध्यमग्रामः । षड्जः प्रतिमुखे । गर्भे साधारितः । पञ्चमोऽवमर्शे ।। ४२६ ।।
प्रधाननिर्वहणे कैशिकमिति । गानापेक्षया नपुंसकप्राचुर्यम् । शुद्धानां ग्रहणमित्यन्ये । भिन्नं गौडानामपीत्यपरे ।
पूर्वरङ्गविधाने तु कुर्याद्वै चोक्षषाडवम् । (भ. ना. ३२.४२६) (?) इति ।४२७ ।।
अवश्यप्रयोज्या ध्रुवा इति दर्शयति । य(त)था रसकृता इति । प्रकरणं प्रवेशादिपदार्थस्य वर्णयितुम् ।। ४२८ ।।
Notes
मागधी प्रथमा गीतिस्तथा चैवार्धमागधी ।
सम्भाविता तृतीया स्यात् पृथुला च तथा परा ।। ४२९ ।।
त्रिनिवृत्त्या पदानां तु मागधी समुदाहृता ।
चित्रेऽर्धमागधी चैव द्विनिवृत्तपदाश्रया ।। ४३० ।।
वृत्तौ सम्भाविता प्रायो लघुवाद्याक्षरान्विता ।
पृथुला दक्षिणे तु स्यात् गुरुवाद्याक्षरान्विता ।। ४३१ ।।
गानयोगे चतस्रस्तु योज्याः सर्वत्र गायनैः ।
यथाक्षरकृता ह्येताः प्रयोज्यास्ते(ज्यन्ते)ध्रुवास्वपि ।। ४३२ ।।
पूर्णस्वरं चाऽथ 1 विचित्रवर्णं
त्रिस्थानशोभि त्रिलयं त्रिमार्गम् ।
रक्तं समं श्लक्ष्णमलङ्कृतं च
सुखं 2प्रशस्तं मधुरं च गानम् ।। ४३३ ।।
Abh
पूर्वरङ्गे पूर्वरङ्गध्रुवा गाने गान्धर्वे चित्रं गीतिचतुष्टयमिति प्रयोगानुसारेणावश्ययोजनीयमित्याशयेन स्थानान्तरपूर्वोक्तमपि तत् पुनरिह दर्शयति । मागधीत्यादि ।। ४३१ ।।
आद्याविति । अर्धमागधी निवृत्तावृत्तौ ।। ४३२ ।।
सम्भाविता लघुवाद्याक्षरा । दक्षिणे पृथुला गुर्वक्षरा । वीणामुरजयोर्यथारूपादि करणानीति । ….विधयश्च नाममात्रेण तद्वत्स्थानान्तरोक्ता गतयो गुणदोषसम्बन्धार्थमिहोक्ता न गीतिभिः परमार्थतो भेदे- ऽपीति केचित् । तदयुक्तम् । दृष्टान्तदार्ष्टान्तिकयोर्लक्षणभेदासिद्धेर्यथा पुष्कराध्याये (भ. ना. ३४)वक्ष्यामः ।। ४३३ ।।
एताश्च गीतयो न केवलं पूर्वरङ्गे यावन्नाट्यध्रुवागानेऽपीत्याह । गानयोगे चतस्रस्तु योज्याः सर्वत्रेति । तत्र हेतुमाह । यथाक्षरकृता इति । अक्षर शब्देन तदर्थ उच्यते । नार्थानुसारात् परिवर्तयोगोऽपि विलम्बितादियोगोऽपीति ।। ४३४ ।।
अथ गुणनिरूपणाध्याय (भ. ना. अ. ३३) स्तत्रार्थमुद्दिशन्ति । पूर्णस्वरमित्यादि । पूर्णः स्फुटो
Notes
गीते प्रयत्नं (त्नः) प्रथमस्तु1 कार्यं (र्यः)
शय्यां हि नाट्यस्य वदन्ति गीतम्2 ।
गीतेऽपि वाद्येऽपि च सम्प्रयुक्ते
नाट्यप्रयोगो न विपत्तिमेति ।। ४३४ ।।
एतदुक्तं मया सम्यग् ध्रुवाणां लक्षणं महत् ।
अत ऊर्ध्वं(तः परं) प्रवक्ष्यामि गातृवादकयोर्गुणान् ।। ४३५ ।।
इति भारतीये नाटयशास्त्रे ध्रुवाविधानो नाम 3द्वात्रिंशोऽध्यायः ।।
Abh
वर्णः स्थाय्यादिः । स्थानत्रयमुरः प्रभृति । समं तालयुक्तश्लक्ष्णमस्फुटितम् । मधुरं श्रोत्रयोः । रक्तं तु नाट्यो- परञ्जकम् । एवंभूतं गानं प्रशस्तम् ।। ४३३ ।।
यतः सूचयति शय्यामिति । रसस्य गानेन प्रथमं ततः प्रभृत्यासूत्रणात् । तदस्य भित्तिकल्पमित्यर्थः ।। ४३४ ।।
अथाध्यायमुपसंहरन्नन्यं(न्यत्)सूचयति । एतदुक्तमिति । अतः परमिति ।। ४३५ ।।
ध्रुवाया विवृतिर्लघ्वी वस्तुनिर्देशिनीकृता ।
कृताऽभिनवगुप्तेन शिवदास्यैकशालिना ।।
इति महामाहेश्वराभिनवगुप्तविरचितायां नाट्यवेदवृत्तावभिनवभारत्यां
ध्रुवाध्यायो द्वात्रिंशः समाप्तः ।।