३१ तालाध्यायः

श्रीः

अथैकत्रिंशोऽध्यायः1a

1वाद्यं तु यद्धनं प्रोक्तं 2कलापातलयान्वितम्3 ।
4कालस्तस्य प्रमाणं हि5 विज्ञेयं तालयोगतः6 ॥ १ ॥

Abh

॥ एकत्रिंशोऽध्यायः ॥

यस्यां कलाकाललया (य)प्रभावात्
साम्यं परं भाति जगत्क्रियाणाम् ।

मायात्मिकां तां तनुमष्टमूर्ते– र्वन्दे त्रिधा भोगपदं दधानाम् ॥

ननु स्वरकृतं रूपं वीणांशयोरिवावनद्धेऽप्युपलभ्यते तद्ध(द्वद् घ) नेऽपि । नादात्मना स्वरस्य शब्दत्वेन नित्यव्याप्यत्वात् । अतश्चैवं तदाऽवनद्धे मार्जनानां स्वरविशेषयोजनात्मना वक्ष्यमाणत्वात् । सत्यम् । अनुहारेण परं स्वराणामवभासोऽत्र न स्फुटो नाक्षरात्मना । तथात्वे हि रसभावाद्यभिव्यक्तिरपि न भवेत् । तेन ह्यनुहारमात्रेण केवलमत्र स्वरात्मका(कता)ऽक्षरषोडशवत् । अक्षराणां हि यद्यपि स्फुटत्वं स्यात् करन(ज)– करततकरथ(ट)गतकरिकरटकतटकटकाभरणकेलिकाल इति श्रूयमाणानां च यथा वाद्यप्रतिपत्तिर्भवति तथा वाद्यमानादपि स्यात् । तस्मादनुहारमा(स्या) त्मवृत्तित्वादन्यत्र स्वराणां वंशनिरूपणानन्तरमेवोपसंहारो युक्तः । तदुपसंहारानन्तरं चोक्तम् । घनातोद्यविकल्पनं वक्ष्यामीति (भ. ना. अ. ३०–१२) । तत्र हन्यत इति घनः कठिनतैकरूपः । तत एव नमनोनम (न्म)नन्(न)मै(शै) थिल्यादियोगाभा(वा)दक्षरवैचित्र्यं स्वरवैचित्र्यं चानुरुध्यमानमात्रेणोपयोगी कांस्यतालिकादिरुच्यते । मूर्तो घन इति मूर्तिकाठिन्यमिति युक्तम् । तस्य घनस्य यदातोद्यं तोदनं हननं तस्य विधिवच्चरतः शीघ्रत्वसमत्वादिरूपं यद्विकल्पनं विभागस्तत्र चञ्चत्पुटादिगतद्रुतलघुगुरुप्रविभाग एव निमित्त इति स एव चातोद्यविकल्पनशब्देनोक्तोऽत्राध्याये वक्ष्यमाणतया प्रक्रान्तः । तस्य सङ्गतिं कर्तुमाह ।

Notes

1a. N: त्रिंशोऽध्यायः

Abh

वाद्यं तु यद् घनं प्रोक्तं कलापातलयान्वितम् ।
कालस्तस्य प्रमाणं हि विज्ञेयं तालयोगतः ॥

इति । अत्र क्रिया च तालः कालो वा । ताल इत्याक्षिप्य गान्धर्वनाट्यभेदेन यो विषयविभागः कृतः स तुच्छ इत्यस्मभ्यं न रोचते । इदमत्र । न कालः क्रियाव्यतिरेकः अपि तु सर्वेषां परिच्छेदहेतुः काल इत्युच्यते । परिच्छेदश्च क्रियैव । क्रियैव क्रियान्तरस्य कालाभ्युपगमेऽपि वा कालावच्छिन्नेन कालं द्रव्यमिति । तदभावेन चापि क्रियाविच्छित्तिः । तेन घनेनेति किमत्र निबन्धे(न्धने)न । सर्वथाऽभावे ह(गा)ने गान्धर्वे वा क्रियया विना परिच्छेदो न सम्भवत्येव । एतावांस्तु विशेषोऽत्र सङ्गच्छते यद्गान्धर्वे कुत्रचित् परिच्छेद्ये परिच्छेदविधेयस्य साम्येऽप्याकुञ्चनाद्यन्यतमा काचिदेव क्रिया कस्मिंश्चिदेवाङ्गुल्यादिप्रवेशे वर्तमाना परिच्छेदहेतुत्वेनाश्रीयते तथैवादृष्टसिद्धे गाने तत्परिच्छेदमात्रस्य साम्यादायातं तद्द्वारेण सम्पादनस्योद (त्त)रनिदानस्य साध्यत्वाद् या काचित् क्रिया गानवादनसंवादिनी परिच्छेदहेतुरुपादीयत इति । तत एवाह । तलप्रतिष्ठाकरण इति । अप्रतिभापरिच्छेदाद्रागालपनगत्यादिक्रियावच्छेदभावेनारभ्योऽपवर्ग इवाभिनेयोऽन्योन्यं च विशीर्णविश्वरूपतया एकपरिच्छेदात्मकसाम्यादाशा (काङ्क्षा) भावे शास्त्रस्य प्रतिष्ठानविशेषेण यत् प्रतिष्ठानसम्पादनं तत्र हेतुः क्रियाखण्डस्ताल इति तात्पर्यम् । तत्र च घनातोद्यमति (रि)च्यत इति । यद् घनं नाम वाद्यमातोद्यं

प्रोक्तमुद्दिष्टं तस्य तालेन भाविना शम्यादिसशब्दावापनिःशब्दक्रियाविशेषणयोगेन सति यस्तालः परिच्छित्यात्मककालखण्डे क्रियारूपो द्रव्यात्मा स एव गीतक्रियाप्रमाणपरिच्छेदोपायः । एतदुक्तं भवति । कांस्यनालिकानुरणक्रियायाः प्रसिद्धाया आवापशम्यादीनां साम्ये तदेतदावापादिपरिच्छिन्नं गीतं गेयमिति न तत्रावापादयः सत्परिच्छे– दकाः । किं चास्य तालयोगेनेत्याशङ्क्याह । कृताभिप्राये सविशेषमाह । कलापातेति । कलाऽऽतोद्याऽऽत्मना न विषयतया । कालः परिच्छिद्यते आवापादिक्रियया सा कला । पात्यते शब्दश्रवणादिको (तो)ऽपरत्र चाड्डितादिष्वागमगोचरीक्रियते स कालविशेषो येन शम्यादिपाते……..। लीङ् श्लेषणे (पा. धा. ११३९) इत्यस्य लय इति रूपम् । तेन स्वरो वर्णोऽन्यो वा यस्यापादितस्तत्रैव या लीनता विश्रान्तिः तत्सम्पादनेऽप्यन्तेऽपि तदनु रसानुरूपवैकृतध्वनिसम्भवासम्भवकृतः स लयः । यथाह । अशक्त्या पादन्यासं विधाय मध्ये विश्राम्यतीति विलम्बितं गच्छतीत्युच्यते । एवं च कार्य (शब्द)मुच्चार्य तदनुरणने तावन्तमेव कालं विश्रम्य यस्तु शब्दमुच्चारयति स विलम्बितं वक्तीत्युच्यते । यस्तु तद्वर्णकालं विश्रम्य स समलयेन वक्तीति । यस्तु वर्णमुच्चार्यानुरणे (णने)ऽविश्रम्यैव वर्णान्तरोच्चारणं करोति स द्रुतलयेनेति । अत एव द्रुतायां वृत्तौ यत्र न च

या (सा) लौकिकी कला काष्ठा निमेषश्च स्मृता 1 बुधैः ।
न सा तालकला ज्ञेया ह्यन्यैषां2 तालगाः(गा) कलाः3(ला) ॥ २ ॥

Abh

तालिकास्तत्र मध्यमायां द्वादश विलम्बितायां षोडशेति पादान्ताधिकत्वं जानीयादिति । वृत्तानामशेषं तु तत्त्ववेदी भगवानेवाह भाष्ये । द्रुतमध्यविलम्बितेषु तत्र सर्वत्र तत्परम् । मार्न(न)भेदेषु अध्यायान्ते च प्रकर्षातिशयेन वक्ष्यते । स तु मध्यलयं प्राप्य सन्निपातद्वयम् । (भ. ना. अ. ३१. ३६७) इति । एतदपि तत्पार्श्वे वक्ष्याम इत्यास्तां तावत् ।

तदेवमेतेषु कलापातलयेषु अन्वितमनुयातीत्युपयोगी । ततो गानवाद्यस्य तालेन योग इत्याशयः । तेषां तथापि प्रतिष्ठारूपत्वात्तालव्यपदेशः । अत एव तालयोगोऽभिव्यङ्ग्यः । तले भवस्ताल इत्यपि निरुक्तमुक्तम् । येन प्रधानेनैव । एतदुक्तं भवति । यथा पूर्वरङ्गादावदृष्टसिद्धयै संयतगीतकवर्धमानादि प्रयुज्यते । यो गायको यतीनामा (वा) पविक्षेपप्रयोगं करोति । नर्तकवादकादयस्तदवलोकनं विना तत्परिमाणसमं च लयं कथञ्चिच्चरति (न्ति) । प्रयोगस्य साम्यं न स्यात् । सशब्देऽपि पाते करशब्दस्य तथा स्फुटमाकर्णनं न भवति यथा घनशब्दस्य । एकलयविधौ निरनुपातयोगेऽपि द्विकलचतुष्कलविधौ तु कलाद्यवहितपातयोगे परिच्छे– दकारी । पतदूर्जत इति सर्वपरिच्छेदो घना….उक्तं प्रयोगसाम्योपयोगीति च । अनेन च गीतकादिनाना (गान)प्रवृत्तादन्य एव कालपरिच्छेदकारी कांस्यतालघट इति धर्मि (ध्वनि)तम् । ध्रुवागाने तु दृष्टफले गायनस्येव सोऽस्तु व्यापारः । आवापादीनां तत्रानुपयोगात् । गीतकादौ गानात् कांस्यतालिका क्वचिदुपयुज्यते । दक्षिणपातादयश्चोटिका या हस्ततलाभिघातेन वा सम्पन्नत्वान्नोपयुज्यन्ते । कनिष्ठाङ्गुलिनियमितं गीतेन चावापादेः सम्यक् सम्पादनं तद्धस्तेनाशक्यमेव । वाद्यनृत्तगीतादिप्रयोगानुभावेऽनुगामिदृष्टफलसिद्धौ गीतके गायकैश्च यथा न प्रमाणतयावापिन एव(पेनैव)प्रयोगसिद्धिः । तत्र घनापेक्षयायुतैव । विशाखिलाचार्यादयोऽस्यानुवृत्ति– तालसाम्यं सुसम्पादमित्याशयेन कुत्रापि पृथगेव तालकलानां विच्छेदे लये वाऽवधानवत्तामात्रक्रियाया आवापादिक्रियया च सम्पादनया प्राणीभूतस्य गातुः प्रसादपरीक्षणप्रयोजनं कांस्यतालं मन्यन्ते । इत्यलं बहुना । अत एव तद्विशेषं तदवधानैकसारत्वं क्रियान्तरावधानव्यग्रत्वात् सूचयति । हि यस्मादर्थः । यस्मादेवमुपयोगि घनातोद्यं तस्मात् तद्विकल्पनं वक्ष्यामीति युक्तमुक्तम् ॥ १ ॥

तत्र कलाहिते तत्रत्यकालस्वरूपजिज्ञासायामाह । सा लौकिकीति । लोके तावद् या कालस्य

Notes

1त्रिविधा सा च विज्ञेया त्रिमार्गनियताद्भुतैः ।2
चित्रे द्विमात्रा कर्तव्या वृत्तौ3 सा द्विगुणा स्मृता4 ॥ ३ ॥

चतुर्गुणा दक्षिणे5 स्यादित्येवं त्रिविधा कला ।
[6निमेषाः पञ्च मात्रा स्यात् मात्रायोगात् कला स्मृता]
7निमेषाः पश्च विज्ञेया गीतकाले कलान्तरम् ॥ ४ ॥

ततः कलाकालकृतो लय इत्यभिसंज्ञितः ।
त्रयो लयास्तु विज्ञेया द्रुतमध्यविलम्बिताः ॥ ५ ॥

Abh

काष्ठा परा सौक्ष्म्यसमा सा कला । सा च कियतेत्याह । निमेष इति । स एव हि लोकेऽतिसूक्ष्मः कालः । सा यदि तालकला । अपि त्वन्यैव ॥ २ ॥

शास्त्रीया (अ)स्या न निमेषा (अ) तिप्रसिद्धा निमेषषट्काष्टकदशकं कलेति वा स्यादित्या– शङ्क्याह । निमेषाः पञ्च इति । गीतकालस्य परिच्छेदकालान्तरं प्रमाणं पञ्च निमेषा ह्नस्वाक्षरपञ्चकं यावत् । कखगघङ इति व्यञ्जनकास्य पृथगवभास इति प्रतिपादनात् कलाविशेषत्वमेवेत्याशयेन तदन्तर्वर्तित्वात् पुनः पुनः (नर्ल)क्षणमिति ॥ ४ ॥

कलापातलयान्वित इ(मि)त्यत्र (भ. ना. अ. ३१.१) यो लयशब्दः स व्याख्येय इत्याशयेन कलाया एव च लयं विना न स्वरूपलाभो लय एव हि ताल (भ. ना. ३१. ३७०) इत्यग्रे वक्ष्यामीत्यभिप्रायेणाह । ततः कलाकालेति । ततो विस्तीर्णः कलानां कालकृतो विलम्बितादिकाभेदसम्पादकः सोऽभिसंज्ञितः । ततो विश्रान्त्या संज्ञासमज्ञानं रूढिगतोऽर्थो लयानां मध्यविश्रान्तिः । तदवस्थमेव विराममिति यावत् । अथ लयानां विभागमाह । त्रयो लया इति । न च विशेषलक्षणमेषां वक्तव्यमित्याह । विज्ञेया इति । लोकत एव । विभागश्चानिर्व्याख्यात एव । अग्रतो लक्षणं तालसामान्यलक्षणप्रसङ्गे वितत्य भविष्यति । इह तु कलापातलयान्वित इति सूत्रार्थोद्भेदकमात्रमेतदित्यपौनरुक्त्यमात्रम् ॥ ५ ॥

Notes

यस्तत्र तु1 लयो मध्यस्तत्प्रमाणा कला भवेत् ।
कलाकालप्रमाणेन ताल इत्यभिसंज्ञितः2 ॥ ६ ॥

3[त्रिविधा सा च विज्ञेया त्रिमार्गनियताद्भुतैः ।
चित्रे द्विमात्रा कर्तव्या वृत्तौ सा द्विगुणा स्मृता ।
चतुर्गुणा दक्षिणे स्यादित्येवं त्रिविधा कला ।]
4त्र्यश्रश्च चतुरश्रश्च स तालो द्विविधः स्मृतः ।4a
5द्विविधस्यापि तालस्य त्वेका प्रकृतिरिष्यते ।
तथा योनिद्वयं चात्र कीर्त्यमानं निबोधत ॥ ७ ।।

Abh

लयान्तरेण कलापातप्रयोगार्हात्तत्र विशेषाभिधाने प्राथम्याद्द्र/?/तलयप्रसङ्गादिदमाह । यतस्तत्र (यस्तत्र तु) लयो मध्यः । तत्प्रमाणकालमितेषु लयेषु मध्ये स्थातेति । लोक एवं प्रसिद्धिरित्यर्थः । तालयोगत (भ. ना. अ. ३१.१.) इत्यत्र यस्ताल उक्तः स चेह कलाभ्योऽन्यस्तथा तद्योगे सति कलादिषु चान्वितं घनमिति कालं वदति । अथान्यः शब्दस्तालशब्देनाधिकं किञ्चिदित्युक्तमित्याशङ्क्याह । कलाकालप्रमाणेन ताल इति । कलानां यः कालो लयत्वसंज्ञितस्तस्य यत् प्रमाणं परिच्छेदस्तेनोपलक्षितस्तालः । एतदुक्तं भवति । घनपरिच्छेदव्याप्तकलासमूह एव चञ्चत्पुटदिस्तालो नान्य इति समूहाभिप्रायेण प्रथमसूत्रे (लक्षित) स्तालशब्दः । उपात्तकालशब्देन सङ्ख्योपादानम् । मानाधिक्येऽपि कलासङ्खया कालदन्यत इति दर्शयितुं प्रमाणशब्देन व्यवच्छेदं सूचयता षोडशकलाचञ्चत्पुटोत्कर्षहेतुस्तालयोग इति स एवावधार्यते । एवं सूत्रे तालशब्दस्यार्थः । पुनरुपादानं समर्थयतश्चिन्तितं सामान्यलक्षणं तत् तालस्य (स्या)ध्या (या) न्ते स्थापयिष्यते । क्रियाविशेषावच्छेदाद् यो नियमोऽनुवर्तमानः स्थिरशीघ्रमध्यमरूपो लयस्ताल इति । इति ।। ६ ।।

एवं कलैवात्र क्रियासमूहरूपतां गता ताल इति प्रसङ्गादुपपाद्य कलामेव तेव(न) विभागान्तरितां विभजति । त्रिविधा ना(सा)चेति । चकाराल्लयत्रयभेदोऽपि समुच्चरतस्तस्य त्विह तावन् मार्गनियमो न दर्शितः । मार्गत्रयेण यो नियमात् त्रैविध्यहेतुरुक्तस्तमाह । चित्रे द्विमात्रा कर्तव्येति । मात्राशब्देन तत्रोक्तनियम– परिमाणमुच्यते । यथा तैलस्य स्तोकं स्त्रोकं पततः षोडशबिन्दुपातकालः । इयं……मा……..

Notes

चञ्चत्पुटश्च1 (स्तु) विज्ञेयस्तथा चाचपुटो बुधैः ।2
चतुरश्रस्तु विज्ञेयस्तालश्चञ्चत्पुटो बुधैः ।। ८ ।।

Abh

..हुतिजापादीनामागमेषु यतिमाहेति । इतश्च नियतं परिमाणमुक्तम् । पञ्चलघ्वक्षरं तदेव द्विगुण तद्द्विगुणं क्रमेण मार्गत्रयमाविर्भावयति । तेन मात्रासंज्ञा कर्तव्येति नाशङ्कनीयम् । यत्र तु न द्वैगुण्यांशमूलभूतत्त्वाद् ध्रुवकमार्गमुच्यते । तत्र पञ्चलघ्वक्षरद्वैगुण्यं खण्डकलया गान्धार्यामन्यत्र च दृश्यते । धकहि दुहिगिं दुहिगिं तुहिगिमित्यभ्यस्य गुरुत्वात् केवलं द्रुतचतुष्कविभागतो गान्धार्याः सिद्धये पञ्चमं विश्रान्ताऽप्यस्य विदारित्वेनोपकल्प्य चतुर्भिः स्वरैस्तावद्भिश्च ह्नस्वैर्वर्णाङ्गताल इति व्यवस्थामकार्षुरिति सैव व्यवस्था (ना)न्या लोके प्रसिद्धा । तथापि च द्विपदीवर्णाङ्गादौ पञ्चस्वरैव कला वक्ष्यते । वर्णलेख्येषु नोपलभ्यते ।

एवं कलां विभज्य तत्समूहात्मकं तालं विभजति । त्र्यश्रश्चेति । त्र्यश्राया भागा यत्रेति । यस्य मत्वर्थीयोऽकारः । इति पूर्वपक्षितः । द्विविधस्यापि तालस्य त्वेका प्रकृतिरिति । अनेनेदमाह । यदि कश्चिद् द्वयोरप्यनयोश्चत्वार एव भागा भविष्यन्ति तत् कथमेतद् वक्ष्यति । तत्रोत्तरम् । एका प्रकृतिरिति । गुरुरूपो यो भेदः सोऽत्रैकस्वभावे लघुप्लुतादिच्छेदविभागशून्यः सोऽत्र प्रकृतिर्मूलभूतः । तदपेक्षया च त्र्यश्रेतरविभागम् । विशाखिलाचार्यस्त्वाह । द्वयेऽपि पादानामक्षराणां च सङ्ख्यासाम्यादेवात्र प्रकृतिरिति ।

ननु यदि गुरुद्वयं गुरुचतुष्कं चात्र मूलप्रकृतिर्वक्ष्यमाणं तर्हि रूपं न प्रधानमित्याशङ्क्याह । तथा योनिद्वयं चेति । चोऽप्यर्थे । तथेत्यनन्तरम् । तथापि योनिरूपमदृष्टविशेषस्य हेतुभूतं कीर्त्यमानमागमे प्रसिद्धं यद् वक्ष्यमाणभेदद्वयमत एव प्राधान्यं तदेव मूलप्रकृतितयेह निरूप्यमाणं गुरुलघप्लुतद्रुतबिन्दुवैचित्र्यादीनां सङ्ख्याभेदस्य द्वैगुण्यादिना च तालभेदस्य योनिभूतं जानीत यद्यपि मूलभूतं गुर्वेकघनप्रस्तारे इत्यर्थः ।। ७ ।। तदाह ।

चञ्चत्पुटे(ट)त्वि(स्त्वि)ति ।
देवश्चतुर्भिर्निश्वासैरक्षराणां चतुष्टयम् ।।

उदीर्य तस्यातीते तु विश्रान्तो गिरिजापतिः ।
प्लुतान्तन्यासतो नायमुत्तमानां विधीयते ।
द्वितीयो न तथा तेन ह्यधमानां प्रतीयते ।।

चतुरश्रस्तु विज्ञेयस्ततश्चाचपु(स्तालश्चञ्चत्पु)टों बुधैः ।

Notes

1त्र्यश्रश्चाचपुटः1a प्रोक्तो गुरुलघ्वक्षरान्वितः ।
2आदौ गुर्वक्षरं ज्ञेयं लघुनी गुरु चैव हि3 ।
4aत्र्यश्रः स खलु विज्ञेयस्तालश्चाचपुटो बुधैः4 ।। ९ ।।

5aआदौ द्वे गुरुणी यत्र लघु च प्लुतमेव च5 ।
स विज्ञेयः प्रयोगज्ञैस्तालश्चञ्चत्पुटाश्रयः ।। १० ।।

सन्निपातस्ततः शम्या तालः शम्या तथैव च6 ।
एवमेककलं (लः) शुद्धौ (द्धो)योज्यश्चञ्चत्पुटो बुधैः ।। ११ ।।

Abh

त्र्यश्रश्चाचपुटः प्रोक्तो गुरुलघ्वक्षरान्वितः ।।

आदौ गुर्वक्षरं ज्ञेयं लघुनी गुरु चैव हि ।
त्र्यश्रः स खलु विज्ञेयस्तालश्चाचपुटो बुधैः ।।

आदौ द्वे गुरुणी यत्र लघु च प्लुतमेव च ।
स विज्ञेयः प्रयोगज्ञैस्तालश्चच्चत्पुटाश्रयः ।।

सन्निपातस्ततः शम्या तालः शम्या तथैव च ।
एवमेककलः शुद्धो योग्य(ज्य)श्चञ्चत्पुटो बुधैः ।।

इति । पुराणे चागमादौ भगवतो महेश्वरस्य वक्त्रचतुष्कोद्भूतमेतदक्षरचतुष्कमेतदावर्त्यमानमभ्युदयदायी– त्युक्तम् । तदभिप्रायेण चञ्चत्पुटचा (श्चा)चपुटे(ट इ)त्याचार्यैर्निर्दिष्टम् । तत्प्रस्तारमार्गसिद्घये तस्यान्यतो लाभात् तत्स्वरूपं वितत्य निरूपयति । चतुरश्रस्तु विज्ञेय इत्यादिना तालश्चञ्चत्पुटाश्रय इत्यन्तेन श्लोकत्रयेण । ततश्चाचपुट इत्यक्षरोदीरणमभ्युदयाय । चञ्चत्पुटस्यात्र प्लुतस्वभावस्तद्वक्तव्यताप्रसङ्गेन गुर्वादिनिरूपिते चाचपुटेऽपीति शङ्काशमनार्थं पुनस्तन्निरूपणम् ।। ८–१० ।।

अथानयोर्भेदेनं प्रत्येकं त्रैविध्यमुपयोगं सन्निपाताद्युद्देशनिदेशाभ्यामाह । सन्निपातस्ततः शम्येत्यादिना चाचपुटे पृथ (गि)त्यन्तेन सार्धचतुष्टयेन । शम्यादिचाचपुट (चञ्चत्पुट) भेद आसारितप्रयोगेषु शिष्टे

Notes

शम्यातालौ द्विरभ्यस्तौ तालः शम्या तथापि वा ।
सन्निपातादिके ज्ञेयः शम्यादिश्च तथा परः1 ।। १२ ।।

2तालादिश्च त्रिभिर्भेदैर्युतश्चञ्चत्पुटो भवेत्3 ।
शम्यादिकस्तु विज्ञेयस्तज्ञैरासारितादिषु ।। १३ ।।

4तालादिकस्तथा प्रोक्तो विद्वद्भिः पाणिकादिषु ।
चञ्चत्पुटस्य ये भावाः5 सन्निपातादयश्च ये6 ।
त एव भेदा विज्ञेया बुधैश्चाचपुटे पृथक् ।। १४ ।।

सन्निपातादिकस्त्वस्य बलवानितरौ7 तथा ।
षट्कलोऽष्टकलश्चैव तालो ह्यस्मात् प्रवर्तते ।। १५ ।।

Abh

सन्निपातादिरित्युपयोगकथनम् । एककल इति । एका असहाया निष्क्रामादिकनिःशब्दविहिता कला पातात्मिका । यः शुद्ध इत्युत्कृष्टो नाम्नाऽपि निरूप्ये (प्यत इ)ति यावत् । तेन मात्राविशेषोपादानम् । तद्यथा । चञ्चत्पुटपरिवर्तः शम्यादि (भ. ना. ३१–९५) रित्यादौ । तत्रैककलस्यैव ग्रहणमित्युक्तं भवति । द्विरिति वा अभ्यस्ताविति केवलोपादाने प्रत्येकमपि द्विर्भावः । शता शता ताल इत्येवंरूपोऽस्या इत्यनयो(रु)पादानम् । अभ्यस्तो यथाक्रमं समुदितो द्विरित्यर्थः ।। ११–१४ ।।

एवं च सन्निपातशम्यातालादिभेदानां नि(वि)धानं चञ्चत्पुटचाचपुटप्रस्तारः । स ता सा सं ता सं सं ता संता संता सं सं सं ता संताता सं सं तासम् । द्विकः । तस्य द्विकः । तस्य सन्निपातादिकस्त (स्त्व)स्य बलवानिति । चाचपुटः सन्निपातादि(दे)रेवभेदः प्रचुरप्रयोगः । तत्रैव निष्क्रामप्रवेशौ । एवं भेदत्रयसम्भवेन चाचपुटस्येतरेण साम्यमुत्पाद्य विशेषं दर्शयति । सन्निपातादिविक्षेपैर्द्विकलचतुष्कलसिद्धिः । तथाऽऽचार्यविशाखिलादिभिः स एवास्य भेदो दर्शितः । एक ओजः प्रथमवारो द्विविधकृतो युग्मेति यदुक्तं चञ्चत्पुटचाचपुटयोर्भेदान्तरप्रसूतित्वं दर्शयति । षट्कलोऽष्टकलश्चेति । चकारो विशिष्टभेदान्तरसूचकः । अस्मादिति । द्विविधादिति सम्बन्धः ।। १५ ।।

Notes

1.N . तथा शम्यादिरेव च

द्विःप्रकारः पुनश्चायं निःशब्दः शब्दवांस्तथा ।
अनयोर्मिश्रभावात्तु मिश्रस्तालः प्रकीर्तितः ।। १६ ।।

शम्यातालप्रवेशेन ञ्यश्रोऽन्योऽपि विधीयते ।
षट्पितापुत्रककृतः पञ्चपाणिरुदाहृतः ।। १७ ।।

आद्यं प्लुतं द्वितीयं च1 लघु यत्राक्षरं भवेत् ।
तृतीयं च चतुर्थं च गुरुणी पञ्चमं लघु ।। १८ ।।

प्लुतान्तः षट्पितापुत्रो गुरुलाघवसंयुतः ।
2पञ्चपाणिः स विज्ञेयः षट्पाता (त)स्तु3 षडक्षरः ।। १९ ।।

सन्निपातस्ततस्तालः शम्यातालस्तथैव च ।
शम्या चैव हि तालश्च षट् पातास्तस्य कीर्तिताः ।। २० ।।

तालादिस्त्यश्रभेदोऽन्यः सम्पक्वेष्टकसंज्ञितः4 ।
5गुरुपञ्चाक्षराद्यन्तप्लुतमात्रासमन्विता(तः) ।। २१ ।।6

Abh

निःशब्द इति । आवापादियोगादेतेन तु न किञ्चित् सं(गृ)हीतं भविष्यतीत्याशयेनोपाध्याया मन्यन्ते । शब्दवानिति । गीतवाद्याङ्गत्वेन ।…..स्वकण्ठेनादशि(र्शि)तः । भेदश्च प्रेक्षणकादिताल भङ्गलयकलानिष्क्रामादियोगेऽपि सूच्यते ।। १६ ।।

षट्पितापुत्रक इति । अक्षरे या संख्या क्रियत इति । षट्पात इति यावत् । उदाहृत इति । संज्ञामात्रम– (त्र)ध्येत्य(य)म् । नत्वत्र प्रपच्चनार्थो नापि ना (चा)न्व(या)र्थ इति ।। १७ ।।

शम्यातालप्रवेशेनेति यत् सूत्रं तदेव स्पष्टयति भाष्येण श्लोकत्रयेण आद्यन्त (द्यं)प्लुतमित्यादिना षट्पातास्तस्येत्यन्तेन । षट्पितापुत्रकोऽन्वर्थः । संताशताशता ।। १८–२० ।।

भेदान्तरं ञ्यश्रस्याह । तालादिस्ञ्यश्रभेदोऽन्य इति । सम्पक्वेष्टा(ष्ट) इति । संज्ञामात्रमेतदित्याह । संज्ञित इति । सम्पक्वा इष्टताला (ष्टका) अत्रेति । सम्पक्वेष्टक इत्यत्राक्षराणीत्येके । अन्ये पाकश्चात्र मिश्रित

Notes

त्र्यश्रं सर्वगुरुं कृत्वा निष्क्रामं त्वत्र योजयेत् ।
शम्याद्वयं ततस्त्वेष उद्धट्टः कथितो बुधैः1 ।। २२ ।।

2व्युदस्य युग्ममोजश्च पञ्च ताला भवन्ति हि ।
मिश्रा गीताङ्गसंयुक्ता ज्ञेया ह्युद्धट्टकादयः ।। २३ ।।

कलाः पञ्च तथा सप्त पुनर्नव च कीर्तिताः ।
दशैकादश चैवैते सङ्कीर्णाः समुदाहृताः ।। २४ ।।

Abh

इति । तथाहि । पञ्चपाणौ लघ्वात्मनामश्लिष्टात्मत्वं यदभूत्ततस्तदभिहितं ययोर्गुरुषु पञ्चस्वक्षरेषु स्थितेष्वाद्यन्तयोः प्रथमपञ्चमस्थानयोः प्लुतकारिण्या मात्रया समन्वितः । गुरुपञ्चग्रहणात् पञ्चपाणिपदं सन्निपातभेदेनेति तावत्या– (ता) मात्राभिधाने असन्निपातनियमो लब्धः । तेन तासं तासं ता तालस्यैव भेदः ।। २१ ।।

तमाह । ञ्यश्रं सर्वगुरुं कृत्वा । पक्षद्वये चाचपुटस्यैकं……गुरुभूतं कृत्वेत्यर्थः । यद्यप्येककलोचितो निष्क्रामस्तथाप्यत्र यथाक्षरेऽपि तं कुर्यादिति तुशब्दस्यार्थः । योजयेदिति । निष्क्रामं यद्यपि न स्वमार्गोक्तं तथापि प्रकर्षाक्षेप एव प्रथममार्गे चित्र एवोक्तो यथा हि तथा निर्वपयेदित्यर्थः । प्रस्तार उद्धट्टस्त्रिगुरुभराद्वायमक्षरौघः । अतश्च गुरुत्रयात्मना वाद्योपभेद इति ।। २२ ।।

उद्धट्टसंज्ञस्य व्युदस्य युग्ममोजश्चेति कलाः पञ्चेति चास्य श्लोकद्वयस्य केचिदर्थमाहुः । चञ्चत्पुटचाचपुटयोरुक्तं गुर्वादिसन्निवेशं त्यक्त्वा कलासङ्रव्याव्यामिश्रणया वक्ष्यमाणप्रवृत्ताङ्गस्य सप्त पञ्च नव दशैकादशेति पञ्च ये तालास्ते उद्धट्टयौ(का)दय इति प्रत्येकं संज्ञां परित्यक्तुं विभज (ज्य)न्ते इत्येतन्न मनोज्ञं तद्विदाम् । तथाहि । पञ्चानामिति संज्ञाकरणे प्रयोजनं न किञ्चित् । आवर्तिन्यो हि संज्ञाः । न चानया क्वापि व्यवहारः । पञ्चकले कथं मिश्रता । न हि द्विकले तालकर(ण)स्य किञ्चिदुपयुक्तम् । सङ्कीर्णा इति चाभिधानं न समर्थितमेव । उक्तं च न ह्येषामुपयोग इति । न क्वचित् प्रयोजनमस्य स्यात् । तस्मादनयोः श्लोकयोर्भिन्न एवार्थः । तत्र गम्यस्तावदयमर्थः । चञ्चत्पुटचाचपुटपञ्चपाणीनां तावद् गीतकेषु बहुलप्रयोगः । तद्द्वारेण ध्रुवास्वपि । सम्पक्वेष्टाकस्यापि पूर्वरङ्गे विनियोग उक्तः । उद्धट्टप्रयोगस्य क्वेत्याशङ्क्याह । व्युदस्य युग्ममित्यादि । इहोल्लोप्यको नाम यो गलाद(गीतविशेषस्त)स्य त्र्यश्रचतुरश्रमिश्रभेदेन त्रित्वम् । त्रिष्वपि च

Notes
Abh

प्रकारेषु प्रवृत्तकम् । त्रीण्यङ्गानि स्थितं प्रवृत्तं माहाजनिकमिति । तत्र चतुरश्रके प्रवृत्तं नाम यदङ्गमष्टकलं तस्योद्धट्टाख्यकलात्रयमादौ वक्ष्यते ।

आदावुद्धट्टकः कार्यः परिवर्तक एव च

(भ. ना. अ. ३१-२६५) इति । आवेणकेऽपि द्वादशकलान्तरेऽप्यन्त(र)लक्षणास्याङ्गस्याभ्यनुज्ञानं भविष्यतीति । चत्वारस्तावदेते प्रवृत्ताख्याङ्गतां गतास्तालभूतमवेक्ष्यन्ते । उद्धट्टकादयश्चतुरश्रकाख्यं च यदङ्गं तस्य चतुरश्रान्तर्गतप्रवृत्त– ताललक्षणमेवातिदेक्ष्यते ।

अन्तस्य चतुरश्रस्य प्रवृत्ते यो विधिः स्मृतः
विवधाङ्गेन तेनैव चतुरश्रकमिष्यते ।।

(भ. ना. अ. ३१-२८७) इति । एवं पञ्चडा(ता)ल उद्धट्टकादयो भवन्ति । ननु

सप्ताङ्गे द्वादशकं(कलं)द्वादशाङ्गे दशैव तु
निष्क्राममादितः कृत्वा शम्यास्तिस्रः प्रयोजयेत् ।।

(भ. ना. अ. ३१-२८८-२८९) इति वक्ष्यते । तेन तत्राप्यायातमुद्धट्टकादित्वमित्याशङ्कयाह । व्युदस्येति । यत्र कथञ्चिदपि युग्मौजभेदो नानुप्रविशति तत्कलापसरणे उद्धट्टमा(का)दित्वं वक्तव्यम् । मा भूदनन्तर्भावकृता लक्षणवाच्यत्वेनासाधुत्वांशकेन सम्पिष्टके च कलात्रये व्य(व्या)प्तास्ते सप्ता(ङ्गा)नां मिश्रत्वं नवाद्यानां त्र्यश्रत्वं च तासां भाव्यमिति । न तत्रोु/?/द्धट्टादित्वेनोक्तेन किञ्चित् । प्रवत्ते(षु) चतसृषु पृथक् क्रियासु पञ्चकलांशैकि(श)कस्य पुनर्भावनामर्हतीति स्यादसाधुत्वाशङ्का । न त्वेवमस्तु । न तथाप्युद्धट्टि(ट्ट)पृथक्त्वातीते स(ति) स्यादाशङ्का । तस्यैव पुनरुु/?/द्धट्टस्य पृथक्कालता किमर्थम् । उक्तौ प्रवृत्तो ह्यष्टकल एव विशेषः स्यादित्याशङ्कयाह । मिश्रा इति । यथा हि पुनरुद्धट्टकेनाभिधास्यते तदैकरसा वा । असावष्टकलस्ताले गीयते । यदा पृथगुक्तं तथापि ध्रुवां च कलां पञ्चधा विच्छिद्य तत्र सामान्याभावाय यद्भिन्नसङ्गतं तं मिश्रीकृत्य प्रयोगार्हता कर्तव्या ।

ननु भवतु विशेषलक्षणबाह्यत्वाशङ्का । ततः को दोषः । सम्यग्रूपता तु सामान्यलक्षणेन सङ्गृहीतत्वादित्याशङ्क्याह । गीताङ्गसंयुक्ता इति । गीतेषु यद् द्रव्यं वृत्तं तत्रैते शम्या उक्ताः (संयुक्ताः) ।

न ह्येषामुपयोगोऽस्ति सप्तरूपे ध्रुवासु वा ।
प्रवृत्तादिषु कर्तव्या एते भूयः प्रयोक्तृभिः ।। २५ ।।

Abh

न च तालसामान्यलक्षण(णं) सङ्गृहीतं विशिष्टोपयोगवस्तुप्रयोगार्हं यथा वाचकसामान्यलक्षणयोटक्तो(योक्तो)पि तत्कर्ता सा(सो) पि पात्रं वैदिकेषु कर्मसु । ततो विशेषलक्षणेनावश्यं सङ्गहीतव्योऽयमर्थ इति तात्पर्यम् । तत्रैव त्रिपञ्चसप्तनवदशैकादशचतुर्दशेत्येवंरूपताभावे (विशाला)यां च सप्तकलं मध्यमे सुनन्दायां चोपोहनं नवकलं विशालाख्यबन्धमातोद्यकण्डिका दशकला सम्पिष्टकमेककलं मद्रके द्वादशकले द्विर्भावादौ वस्तुन्येककलत्वात् प्रत्युपोहनस्य तच्छिष्टमेकादशकलं तालरूपमास्थितम् । तस्यापि विशेषलक्षणं चञ्चत्पुटादिपच्च पृथक् संज्ञा कस्मान्न कृतेति चोद्यत्वे प्रथमं परिहरति । कलः पञ्चेत्यादि । समुदाहृता इति । सम्यग् लक्षणक्रमेणोदाहृताः । ननु नोक्ताः। तच्चात्रावसरे कस्मानोक्ता इत्याशङ्क्याह सङ्कीर्णा इति ।। २३-२४ ।।

न ह्येषामुपयोग इति । नात्रैवोपयोगिनः । तल्लक्षणस्यामिश्रत्वेनैव तेषां कल्पिता इति । न विशेषसंज्ञाकरणं तेषां नोपयोगीति । न ह्योषां वस्तूपयोगोऽस्तीति संज्ञाकरणं व्यवहाराय यदि कल्पितं विषयादन्यत्रापि चञ्चत्पुटादीनामिव गीतकेषु सम्पिष्टकवेण्यादीनां ध्रुवासु तव(त्वावा)पयोः शम्यालाघवेन येणि(वेणी)लक्षणोपयोगितया पृथक् संज्ञाः क्रियेरन् । तत्त्वेन न तदस्ति तत् किं विशेषसंज्ञाभिः । एतदेव व्यतिरेकेणाह । प्रवृत्तादिषु कर्तव्या एते भूय इति । आदिशब्दः प्रकारे । गीत- कवर्धमानासारितपाणिका- गाधा(था)च्छन्दकनिर्गीतादिषु भूयः कृत्वैते च चञ्चत्पुटादयः कर्तव्या इति । भूयो भूयो (य उ)पयोगादतस्तेषां व्यवहाराय विशेषसंज्ञाभिः प्रयोजनमिति । भट्टसुमनसा तु श्लोकद्वयस्यायं वाक्यैकवाक्यतया महता प्रबन्धेनार्थो व्याख्यातो मिश्रणामिश्रणात् । तद्यथा । तिस्रो द्वे इति पञ्चधा ह्यत्र त्र्यश्रजातीयमिति तैर्विवक्षिता । चतस्रस्तिस्र इति सप्त । तिस्रस्तिस्रस्तिस्र इति नव । यद्वा तिस्रःसप्त इति दश । अष्टौ तिस्र इत्येकादश । तत्र प्रवृत्तस्योद्धट्टकादयो नोद्धातस्य । दशकलस्य तद्योगे सप्त । द्वादशकलस्य नव । यद्यपि दशानामेकादशानां चोद्धट्टादिकत्वं नास्ति तथापि बहुवचनात् तावत् सिद्धत्वाद् द्वादशकलावधि च तद्भावाद्भेदादेकादशेत्युक्तम्एके च गीतकेषु ध्रुवा नोपयुज्यते तदा

यथाक्षरोऽथ द्विकलस्तथा चैव चतुष्कलः ।
(एवमेककलो ज्ञेयः शुद्धश्चञ्चत्पुटा बुधै (दिकः) ।
त्रयो भेदा हि तालस्य द्विगुणाद् द्विगुणाः स्मृताः ।। २६ ।।

Abh

एके(ते) न भूयसोपयोगिन इत्याह ।
यथाक्षरोऽथ द्विकलस्तथा चैव चतुष्कलः ।

इति । एककलशब्देन चञ्चत्पुटस्यैव व्यवहारो युक्तः । एकैव साधारणी कला यस्येति । चाचपुटस्यापि पादभागकल्पा(ल्प)ना[या]मपि कलाद्वयचतुष्टादिरूपतयाद(द्वि)युगरूपतयेव स्फुरति । तत एव चञ्चत्पुटस्य प्राधान्यं प्रथमं निर्देशः । तथा हि । एक()मेवैककलः शुद्धच(श्च)चञ्चत्पुट इति । शुद्धशब्दोऽत्र यथाक्षरशब्दः । स सर्वत्र साधारणात्(णः) । चञ्चत्पुटश्चाचपुटः षट्पितापुत्रको(क उ)द्धट्टः सम्पक्केष्टक इति । सर्वत्राक्षरसङ्ख्या तु तुल्या । अर्थात् पातानाम् । चञ्चत्पुट इति । अमुना च गुरुद्वयेन कलाद्वयलक्षितचञ्चत्पुटरूपं द्विर्यत्र चञ्चत्पुटःचाचपुट इत्यनेनाप्येवं कला लक्षिता सा चाचपुटरूपेण द्विरिति त्रिकलः । अक्षरशब्देन प्रकृतिरूपा अतस्ताश्च कला लक्ष्यन्ते । …..ति स तथा । तस्यैव पञ्चपाणिरिति हि तालः । तथा हि । करतकपरिच्छेदरूपत्वात्तले भवतीत्यपि तालशब्दः । कैश्चिन्निरुक्तः । ……दत्तिलोऽप्याह । तत्र तालं च पाणिं च प्राहुरेकमिति (दत्तिलम् -१५३) । ते पञ्च ताला यते (था) । तथाहि । षड् द्वादश चाष्टचत्वारिंशत् षण्णवती(तिरि)ति त्र्यश्रस्य भेद एषः । एवं प्रकारषट्केऽपि षट्कलत्वं सन्निधीयते । इयतीत्यस…….इति तस्य व्याप्तिगु(र्गु)रुत्रयरूपे च घट्टनं प्रकृतिरूपत्वात् पूर्वभावीत्युद्धट्टमानत्वादुद्धट्टनं वाद्यम् ।

नन्वेवं सम्भाव्यस्त्र्यश्रभेदः पूर्वं वाच्यश्चतुरश्रभेदस्तु गुरुचतुष्टरूपं(पः) परं वाच्यमि(इ) ति । अत्रैके स्रु(ब्रु)वते । इह पातविभागस्यैतत् प्रयोजनम् । यावन्तः पातास्तावन्त्य एव कला वाद्याक्षराणि परिमाणेन भवन्तीति । तेन यावन्त्येव वाद्याक्षराणि चञ्चत्पुटगतानि चाचपुटे तावन्त्येव । अतो यावन्त्येव गुरूणि तावन्त्येव लघूनि पाताश्चेति ।

नन्वेवं च त्र्यश्रचतुरश्रविभागौ गुरुलघुप्लुतविभागश्च विगलित इत्युच्यते । लयभेदकृतो ह्यसौ । विलम्बिते प्लुतो मध्यमे गुरुर्द्रुते लघुरिति । चञ्चत्पुटे च प्राधान्यमुक्तं वक्ष्यते च । तत्र चेत्थं सत्यप्रधानता निर्व्यूढा भवति यदि समस्तं तालसर्वस्वं तत्रैव झटिति प्रदर्शितं भवेत् । तालसर्वस्वं तालसारमात्रा । अत्र मध्यलयस्य

Abh

सम्प्रतिष्ठानत्वात् प्राथम्यम् । प्राधान्याच्च द्विरुपादानमिति । प्रथमं गुरुद्वयं प्लुतस्य च च्छन्दोमध्याप्रसिद्धत्वाद् गुरुलाघवामिश्रणे लभ्यत्वाल्लघुस्वरूपमिति । पूर्व(वज्)ज्ञेयमिति । गुरुद्वयान्तरं तत् । ततो हि द्रुतलयविलम्बिप्लुता इति । ते चञ्चत्पुटे । पाटाक्षराणि धिधिटधिसधिधिगुधिङ् । मध्यलयेन गुरुद्वयं करजद्रुतेन लघुः । रहधिङ्धिट । लघुविलम्बितेन प्लुतः । एवं चञ्चत्पुटे चतुष्पाते तदनुपपत्तिः । अट्टभेदोऽपि चतुष्पात एव पूर्वमुक्तः । तेनोद्धट्टकस्यादौ नाभिधानादपि गुरुचतुष्कात्मकस्य चतुरश्रस्य तच्च(त्र) चाद्याक्षरजातो ध्रुवकमार्ग इति । एतदपरेऽलक्ष(क्ष्य)मित्याहुः । दर्शनान्तरसमुन्मिषितेन पुनरेवमाहुः । लय एक एव चञ्चत्पुटस्य वाद्याक्षरा न्न्यूनाधिकतया गुरुलघ्वादिविभागः ।

अत्र प्राधान्यमित्थं प्रदर्शितं भवति । यदि सर्वसम्भवी प्रकारस्तत्र सूत्रेण शास्त्रेण दृश्यते । असम्भवी यदीयानेव प्रकारो गुरुलघुप्लुता इति । द्रुतो नाम लयपातः । तस्य यथाक्षरमूलभूतेन मानमात्रेण प्रदर्शनम् । अस्य प्लुतः कथं धर्मस्त्विति संस्थित एव । ननु हल्मात्रस्य….(त्वं) न द्विलघुपरिमाणत्वाद् यथाक्षरेऽप्यस्ति द्रुतः । मैवम् । हल्मात्रं सन्निधीयमानं पूर्वस्याधो गुरुपरिमाणं दर्शयति ।

ननु स्वात्मीयं कालं ज्ञाने वाचि व्यज्यत इति व्यञ्जनमिति उकाराकार(रादय) एव गुरुकाले लघ्व(भ्य)न्ते । अत एव भगवत्(वान्) भाष्यकारस्तत्रभगवद्भर्तृहरिप्रभृतयः स्वरकालानतिरिक्तावभासत्वं व्यञ्जनकालस्य तत्र कथयन्तीति गुरुलघुप्लुतानामंशभवो यथाक्षर इति शिष्टप्राक्पक्षेण समानत….तलाभग्ना लघु…..तावन्य(न्तो)क्षरभेदाः । अथेत्यानन्तर्ये । एतद्धि यथाक्षरारम्भकमूलतयालम्ब्य तद्द्विगुणकालतया लयभेदादिकालभेदः । द्वे कला(ले) यत्रेति (द्विकलः) । तत्रैव च यथाक्षरप्रकारेण लयभेदाच्चतुर्गुणभूतेन चतुष्कलो भेदः । (न वा) द्व्यष्टगुणादिभेदत्वेनानवस्था कस्मान्न भवतीत्याशङ्क्याह । त्रयो भेदा हि तालस्य । तालस्य (द्विगुणाद्) द्विगुणा इति ।

अयं तावद् वाक्यार्थः । यत्र या(ता)वदन्यप्रकारो नास्ति विलम्बं शीघ्रमिति हि तत्तद्व्यवहारो लोके । न च मध्यापेक्षः । तत्र शीघ्रताद्रुतत्वानुग्राहकतेनापेक्ष्यै(तापेक्ष )ककलः । मध्यापेक्षो द्विकलः । विलम्बितापेक्षश्चतुष्कलः । न चास्य लयरूपस्य मार्गत्रयात्मकत्वमेनव । न हि लये तूत्तरोत्तरद्वैगुण्यम् । त्रिभागाधिकत्वमस्य तत्र दर्शितत्वात् । मार्गभेदे तु द्वैगुण्यमेव केवलम् । तत्र तद्भव इति वीप्सा । तद्यथाक्षरस्यापि द्वैगुण्यं प्रसक्तम् । न च त्रिषट्प्रकारस्तु कर्मधा(र)यत्वादद्विगुण इति पठितव्यः ।

चतुरश्रस्त्रिभिर्भेदैस्तालस्तु परिकीर्तितः ।
चतुष्कलो ह्यष्टकलः कलाः षोडश चैव हि1 ।। २७ ।।

Abh

तत्र केचिदाहुः । द्विगुणास्तु गुणाः(स्मृता इ) ति । द्विगुण द्विगुणाः । तत्रैवाक्षेपः । सङ्घाते व्यपदेशः । तद्यथा । अक्षा भक्ष्यन्तामिति । तत्र हि प्रथमप्रकारस्तावद् द्विगुणः । अन्यौ क्रमद्विगुणौ । एवं सति सर्वे गुण(णा)द्विगुणा इत्युपक्रमः ।

उत्पलदेवपाद(दा)स्त्वस्मत्परमगुरवो व्याचक्षते । तालस्य यस्मात् त्रयो भेदास्त्रिगुणा इति त्रिगुणपरस्परलक्षणधर्माणस्तस्मात् त्रयः स्मृताः । द्विगुणत्वे हेतुर्द्विगुणा इ(दि)ति । यथाक्षरस्य व्याख्या गुणगुणनीयत्त्वाद् द्विकलत्वम् । तस्यापि द्वाभ्यां गुण्यमानत्वाच्चतुष्कलत्वम् । चतुष्कलत्वाद् भेदाभावाच्च नास्य पुनर्गुण्यमानत्वमस्तीति ।

वयं तु मन्महे । वीणायामपि यथाक्षरे द्वैगुण्यस्यासम्भवाभावः । असम्भवस्यापेक्षितत्वाद् द्वैगुण्यस्येति । नन्वासारितवर्धमानगीतकपाणिकाच्छन्दकप्रभृतीनां तावत् तालात्मकत्वम् । तालस्य चामी त्रयो भेदा इति । सर्वं यथाक्षरत्वं वक्तव्यम् । ध्रुवागुरुप्रस्तारवर्धनाद् द्विकलचतुष्कलादिचञ्चत्पुटादिवदक्षरकल्पना कस्मान्न कृतेत्याशङ्कामवधृत्य त्रयो भेदा हीति । आसारितादयस्तावच्चञ्चत्पुटादिपाताः । परमार्थतस्तत्र पुनर्यथाक्षरक्लृप्त्या तस्यैव च द्विगुणकालत्वेन द्विकलचतुष्कलादुदित(वुदित) इति तयोरपि नान्याक्षरकल्पनावकाशः । एतच्चाग्रे वितत्य भविष्यतीत्यास्तामेतत् ।। २६ ।।

अथ प्रयोगभिप्रायेण तालयोर्ज्याप्तिमाह चतुरश्रै(श्र)स्त्रिभिर्भेदैरिति । /?/ ह । चतुष्कलो ह्यष्टकलः कलाः षोडश चैव हीति । नियते कलाद्यभिप्रा/?/ मन्तव्यम् पुरुस्क्तं हि /?/ /?/ऽभ्यधिकस्य भेदत्रयस्याभेधानम्सङ्घतं स्याप्त् । वक्त्रपाण /?/द्यपेक्ष/?/ /?/एव चतुष्कको भेदः स्यात् न द्विगुणः । भेदद्वयोपादानं त्वसङ्गतमेव । तस्मात् प्रयोगाभि- प्रायमेतत् । प्रयोगश्च न सर्वसमुदायात्मकतया । असौ वाक्यस्थानीयैरवान्तरसमुदायैरारब्धतया प्रकरणशब्देन जात्यध्याय (भ. ना. अ २८)उद्दिष्टः । एवं ह्यासारितेषु द्वाश्रिं/?/च्चतु षष्टिकलायोगोऽप्युक्तं । /?/ सचिवोऽस्तीति षोडशादेव विरतिर्न स्यात् । प्रकर्याः षण्णवतित्रिगुणिताद्यर्थानि चत्वारि क वस्तूनि वपुरिति

Notes

त्र्यश्रस्तालस्तु षडभेदस्त्रिकलः षट्कलस्तथा ।
1aकला द्वादश चैव1 स्यात् चतुर्विशतिरेव2 च ।। २८ ।।

3चत्वारिंशत्तथाष्टौ च तथा षण्णवतिः कलाः ।
तालो नवविधश्चायं समासात् परिकीर्तितः4 ।। २९ ।।

Abh

समावसमावेव । कथं विरतिः । शीर्षकान्ते अङ्गव्यामिश्रणतपांऽऽसारितकण्डिका दशपरिवर्तादिव्याकलनया च पिण्डीकरणेन कश्चित् सङ्ख्याया नियम इति कस्मादवान्तरसमुदायरूपः प्रयोगाभिमतः । तेनेदमुक्तं भवति । चतुरश्रषोडशकलाविभागो यावच्च सम्भवति ताले तावदवश्यं चतुरश्रभेद एव कल्पनीयः । तेनाष्टकलोऽपि तावत् प्रयोगे चतस्रः कलाश्चञ्चत्पुटे । न बाह्यानुत्तिका त्वेका कलैव वकारेणावगृहीता । एवं नवकले द्विकलच(श्च)ञ्चत्पुटः । सप्तदशकले चतुष्कलः । ततो द्विगुणे चतुष्कलस्यैव द्वैगुण्यमिति मन्तव्यं नान्यताइ(थे)त्येवकारेणोक्तम् । हि हेतो(हेतु)पर(रः) । एवं तालस्य त्रयो भेदा इति तावच्चतुरश्रस्य व्याप्तिः ।। २७ ।।

त्र्यश्रस्य तूच्यते । त्र्यश्रतालंतु(लस्तु) षड्भेद इत्यादिना तथा षण्णवतिः कला इत्यन्तेन । तथेति । द्विकलतयेत्यर्थः । कला द्वादश चेति । यथा चाचपु/?/स्य चतुष्कलो भेदान्तरं समुच्चिनोति चकारेणैवकारेण (च) । तत्र व्याप्तिं समापयति । चतुर्विंशतिरितिचकारेण पञ्चपाणिश्च षट्कलभेदान्तरं समुच्चिनोति । एव- कारेण तस्यापि परिसमाप्तिं दर्शयति । अष्टचत्वारिंशत्ताला इति । तालस्तु यो मद्रक्स्य प्रस्तुतः प्रयोगः । तत्र लयस्यावान्तरविभागे षोडशकलात्मनि मात्राभिधाने चतुरश्रयोग एव । एवं हि पादभ/?/मात्रादिति चेद् भेदस्य चतुरश्रपर्यवसानाच्चतुरश्रस्यैव प्राधान्यम् । तथापि तण्दृशैस्त्रिभिः खण्डैरवान्तरविच्छिन्नः । तत एवभ्भप्वस्य विदारीविच्छेदे(दै)राब्धो यः सोऽपि माननीयः । विदार्या अवश्यमेव विधेय इति तस्य समुदायस्य भागतया कृत्वाऽष्टचत्वारिंशत्कलत्र्य(स्त्र्य)श्रभेद इत्युक्तम् । एवं षण्णवतिकले प्रकर्याः प्रयोगे बहिरवान्तरभागैः षोडशकलाभेदैरारम्भ इति सोऽपि त्र्यश्रभेद एवेत्यावान्तरे चतुर्विशतिकला वस्त्विति /?/वद्वस्तुनिबन्धेषु नाधिका /?/ । चतुर्विंशतिरेव द्विगुणा द्विगुणे वस्तुत्वाद्विक्षेपणत्वं मार्गश्च तिसृणां षण्णां द्वादशानां चैककलद्विकलचतुष्कलो/?/ चतुर्विंशत्यष्टचत्वारिंश/?/षण्णवतिक्लासु निष्पजये त्र्यश्रभेदतैव युकति षण्णवतिकलावधित्वात् व्यश्रस्य व्याप्तिरिति युक्तमुक्तम् । अङगनिषिद्धेऽप्युल्लोप्यकोत्त(र)रोविन्दकत्रयेणाङ्गेऽपि

Notes

*a. N. तथा कलाद्वादशैव चतुर्विंशतिरेव च

1aतत्रावापोऽथ निष्क्रामो विक्षेपोऽथ प्रवेशनम्1 ।
चतुर्विकल्प इत्येव2 निःशब्दः परिकीर्तितः3 ।। ३० ।।

Abh

व्यवहार इति वक्ष्यते । तावन्मात्रा च षोडशकला । ततो यदि यथास्वमङ्गविभाग एव कलातिरिक्तः पूर्वे(र्वै)रेवेति । ओवेणकेऽपि चतुर्विशतिकलः पादस्ततश्चैतदुक्तरूपतालातिरेकेण न क्वचित्ताले कश्चिदस्तीत्युपसंहरति ।

तालो नवविधश्चायं समासात् परिकीर्तितः ।

इति । चो भिन्नक्रमः। नवचतुरष्टषोडशत्र्यश्रेति । षड्द्वादशचतुर्विं शत्यष्टचत्वारिंशत्षण्णवतिरूपो नवविधचञ्चत्पुटचाचपुटषट्पितापुत्रकाणां त्रयाणां द्विकलचतुष्कल रूपः परिकीर्तितश्च नवविधःसमासादिति संङ्क्षेपात् । शिष्टत्वेन द्विकमष्टात्मकं तालवैचित्र्यमित्युक्तं भवति । अत एवैतेषामेव प्रकीर्यमाणतया प्रक्रियमाणतया च मन्द्रकादित्वेन स्थितिरिति मन्द्रकादिप्रकरणं श्रुत्योद्दिष्टपूर्वकं मात्राप्रकरणाङ्गानीति (भ. ना. २८. २९) । तेन दक्षिणमार्गेण षण्णवतेः कलानामन्ते त्र्यश्ररूपेऽपि ततात्मनि द्वादशकलासङ्ख्यापर्यवसानमिति कृत्वा यदि त्र्यश्रस्य षण्णवत्यन्ता व्याप्तिरुक्ता तर्ह्यष्टाविंशच्छतान्ता चतुरश्रस्यापि व्याप्तिर्वक्तव्येति ।। २८-२९ ।।

तन्निराकरोति तत्रेत्यनेन । स्थिते प्रयोग इत्यर्थः । एतदुक्तं भवति ।……मानवैर्गन्धर्वेः स- (सा)र्वलौकिकः । इत्युक्तानुसारेण-

द्राद् दूराभिगन्तव्या नियमात् ताल (गाः) कलाः

सङ्ख्याया अनियमाद् गान्धर्वस्य वेदवदनादिसिद्धत्वेन नियतप्रयोगाङ्गत्वात्तत्र च षण्णवतिकलावान्तरसमुदायः षोडशकलात्मकपादभागसमुदायान्तरभागषट्कलप्रधानप्रत्ययाख्यमहता तालरूपसंहताऽन्तरान्तराऽऽरम्भको यथाऽस्ति तदेवमष्टविंशत्युत्तरशतात्मक इति ।

एवं नवविधस्ताल इति तावत् तालस्वरूपे व्यवस्थिते तदुपयोगि यत्तालगतमुद्दिष्टवं भवति गेयाधिकारारम्भेऽष्टाविंशत्यध्याये

ध्रुवस्त्वावापनिष्क्रामौ विक्षेपोऽथ प्रवेशनम् ।
शम्यातालः सन्निपातः परिवर्तः सवस्तुकः ।।

मात्राप्रकरणाङ्गानि विदारी यतयो लयाः ।
गीतयो लयमार्ग(ऽवयवा मार्गाः) पादभागाः(मार्गाः) सपाणयः ।।

Notes

1a. N: V. 30 ab (GOS): V. 22 cd (N). But before this (N) reads- V. 21 (cd (N) द्विप्रकारः त्वयंतालोनिःशब्दः शब्दर्वांस्तथा ।। & V.22 ab (N): नैकान् प्रयोगांश्चास्याथ कीर्त्त्यमानान्निबोधत

1aशम्या तालो ध्रुवश्चैव सन्निपातस्तथा परः ।
1इति शब्देन संयुक्तो विज्ञेयोऽपि चतुर्विधः ।। ३१ ।।

एतेषामेव 2वक्ष्यामि हस्ताङ्गुलिविकल्पनम्3 ।
4उत्तानाङ्गुलिसङ्कोच आवाप इति संज्ञितः ।। ३२ ।।

Abh

इत्येकविंशतिविधं ज्ञेयं तालगतं बुधैः ।

इति । (भ. ना. अ. २८-१८-२०) तन्निर्णेतव्यम् । तत्र क्रिया चात्र परिच्छेदोपयोगिनीत्युक्तमस्माभिः । सा च गान्धर्वे विशिष्टैवेति दर्शनात् । यथाक्षरद्विकलचतुष्कलविभागोपयोगि तदुद्दिष्टानुवादकपूर्वमाह । - (तत्रा)वापोऽथ निष्क्राम इत्यादि ।

एतेषामेव वक्ष्यामि हस्ताङ्गुलिविकल्पनम् ।

इत्यन्तम् । ध्रुवस्य सर्वकालान्तऋतत्त्वादुद्देश(शे) पूर्वोपादानमिति वामदक्षिणकरान्यतरप्रयोज्यत्वात् । सशब्द- त्वाच्च तज्जातीयशम्यातालान्तरमुपादानं पातमार्गयोश्च वस्तुत उद्देश एवेत्याख्यास्यते । संज्ञासाम्य…..लोकस्य तावत् क्रमहेतुकलानां चतुष्कलमार्गस्यैव प्रचुरप्रयोग इति तदुपक्रमवादित(न)……प्रयोगस्य तस्यैव प्राधान्यमित्यावापादीनामानन्तर्यमथेत्युक्तम् । दत्तिलाचार्योऽपि

अनादेशे तु सर्वत्र कर्तव्यः स चतुष्कलः ।

(दत्तिलम् १५९) इति परिबभाषे । चत्वारो विकल्पा भेदा अस्येति (चतुर्विकल्पः) । तालात्मकक्रियासामान्यरूपो ह्यस्य पदार्थः निःशब्द इति । शब्दशून्य एव । एते चत्वार इति प्रयोज्या इतिकर्तव्यान्तं निरूपणम् । शब्देन संयुक्त इति । अनेनापि शम्यादेश्चतुष्टयस्येतिकर्तव्यताशेष उक्तः । तत्र हस्तक्रियेति परिच्छेदसुलभ उपायः तयोर्हस्तयोः क्रियैव ताल इति सामान्यलक्षणं तले भव इति कृत्वा । तत्र चाष्टावेव विभागरूपा(श्चित्रादि)दक्षिणमार्गपर्यन्तोचिता इति भावः । स चावापादिभिरेव क्रियाभिः सकलाभिर्भवति । (यथा)ध्रुवकापेक्षया हि चित्रवार्तिकदक्षिणानां क्रमाद् द्वैगुण्यादष्टगुणत्वम् । दक्षिणस्यैकक्रिया सकलात्मकतालकला । विषयश्च ध्रुवकमार्गो ध्रुवस्थानीयत्वादिति वक्ष्यते । अत एवात्रापि चतुष्टयसङ्ख्येति क्रियाकलापेन परिमिततालकालिकलितमेव दर्शितम् । तत्र

Notes

1a. N: ध्रुवो शम्या च तालश्च सन्निपातस्तथैव च

ध्रुवकापतिता चित्रे ध्रुवकासर्पिणी यथा ।
पताकापतिता चेति वार्तिके गुरवः स्मृताः ।।

ध्रुवकासर्पिणी कृष्या वर्तिन्यथ विसर्जिता ।
विक्षिप्ता च पताका च पतिता चेति दक्षिणे ।।

इति । तथाऽन्यत्र ।

अङ्गुलिप्रथमावापो विक्षेपस्तर्जनीकृतः ।
प्रसारणं कनीयस्या विक्षेपः स्यास्त्व(त्त्व) धोगतिः ।।

क्षेपः प्रो(त्)क्षपणं त्वन्या…..वामके ।
अधोगतिस्तु विक्षेपस्तर्जन्यां तिसृणां समम् ।।

निष्क्रामस्त्वथ….प्रवेशस्तदधोगतिः ।
एवमष्टौ समासेन मात्र(त्रा)भेदास्तु दक्षिणे ।।

आद्यद्वयं तथान्त्ये वृत्तौ नित्यं चतुष्टयम् ।
आद्यन्तद्वितयं चात्र

Abh

केवलमदृष्टप्राधान्यभावाभावाद्यनादरेणाङ्गतोदनाविरहोपनतं सुकरललितरुचिरकरक्रियात्मकत्वं दर्शितम् इति । गान्धर्वे त्वदृष्टप्रधानतया शम्यातालगणनायानामिकाङ्गुलिसन्निवेशवामदक्षिणकरविभागादभ्युदयिनी- (दयी)ति नियता एवावापादयो दर्शिताः । हस्ताङ्गुलेः क्रियात्मकताल इति तद्विशेषाभिधानमेवावापादीनां विशेषलक्षणमित्युक्तम् । हस्ताङ्गुलिविकल्पनम् । तद्गतायां क्रियायां हस्ताङ्गुलिशब्द उपचरितः । हस्तस्य हस्तयोः अङ्गुलेः अङ्गुल्योः अङ्गुलीनां चेति समासः । एवकारेण ध्रुवकासर्पिण्यादीनामदृष्टहेतुकत्वाभावान्न लक्षणं वाच्यम् । परिच्छेदमत्र हि शिरः परिवाहादिनाऽपि गाने सामान्यस्य च साम्यादिसिद्ध्युदयात्मना क्रियतां को दोष इति भावः । तेन यत् टीकाकारैर्गानेनैव तत्पूर्वकत्वात् सर्पिण्याद्यपि सङ्गृहीतं भवतीत्युक्तं तत्प्रयासमात्रमेव । अत्र तद्विशेषलक्षणमाह । उत्तानाङ्गुलीति । जात्येकवचनान्तेन समासः । तेन सङ्ख्याया अनैयत्यम् । उत्तानपदेनोर्ध्वाद(ध) स्तिर्यत्का(कत्व)व्युदासः । संज्ञितमि(त इ)त्यनेनेदमाह । यत्रोत्पत्तिक्रमे यथाक्षरे द्विकलः ततश्चतुष्कल इति व्यवस्था तत्र(चित्रे) इति व्याप्तिमर्यादा वा । ततोऽपि वृत्ते रूपमाह । तेन द्विकलान्तरख्याप्त्यर्थमपि तदधिक……..वचनम् । अत्र प्रयोगवशात् सम्पादकतया बीजतया सन्तननतुल्यनिरूपणम् । तदेवंभूतया करक्रियया दर्शनीय इति समयोऽदृष्टसिद्ध इति ।। ३०-३२ ।।

1निष्क्रामोऽधोगतस्य स्यादङ्गुलीना प्रसारणात् ।
तस्य दक्षिणतः क्षेपो2 विक्षेप इति संज्ञितः ।। ३३ ।।

3निवर्तनं च हस्तस्य प्रवेशोऽधोमुखस्य तु ।
यदा चतुष्कलो योगस्तदा त्वेष विधिः स्मृतः ।। ३४ ।।

Abh

निष्क्रामोऽधोगतस्येति । अनागतावेक्षणं तन्त्रयुक्तिरिति वा सूत्रेषु सम्भाव्य लौकिकन्यायो (वा) वेदितव्यम् । व्यवस्थया वर्तितं च । हस्तस्येति । अधोहस्तस्येहापेक्षणीयम् । तेनाधोगतस्य हस्तस्य या अङ्गुल्यस्तासां साम्यमर्थान् मुष्टीभूतानां यत् प्रसारणं स्वावयव…..तलिकासंयोगकारणभूतपूर्वोक्तसंकोचनक्रियाविपरीतरूपं कर्म स निष्क्रामः स्यादिति । अस्यायमाशयः । यथाक्षरगताया एव कलाया यद्वैतत्यद्विकलसम्पादनमुक्तं तन्निष्कमणमुच्यते । निष्क्रान्ता नटीति यथा । तच्च समुचितेनैव तेनाङ्गुलिनिष्क्रमणेन यद्यो(द्योत्य)त इति । तस्य दक्षिणतः क्षेप इति । तस्येति । प्रसारिताङ्गुलीकस्योत्तानभूतस्येति । तस्य ग्रहणं दूरस्थोत्तानत्वाद् वामस्यान्यथा निष्क्रान्ताङ्गुलीकस्याधोमुखस्वदक्षिणपार्श्वेन विक्षेप इति स्यात् । द्विकलगता कला क्षिप्यते विस्तार्यतेऽत्रेत्यनेन सामयिकेनाभिधानेन सूच्यत इति संज्ञितं()ग्रहणम् ।। ३३ ।।

निवर्तनं च हस्तस्य प्रवेशोऽभि(धो)मुखस्य तु ।

अङ्गुलीनामिति वर्तते । अधोमुखग्रहणेन निष्क्रामवैपरीत्यं प्रवेशनस्य प्रकाश्यते । अन्यथा दक्षिणतो निवर्तनं प्रतीयते । तेनेत्थं प्रयोजनम् । निष्क्रामकालेऽधोमुखस्य हस्तस्य या अङ्गुल्यः प्रसारिता अभूवन् तासां यन्निवर्तनं सम्प्रवेशनं तत्पूर्वस्याव्यतिरिक्तसूचनायेदं सामयिकं विक्षेपवत् संज्ञामात्रं विक्षेपाभिधानमित्याह । यदेति । योऽधिकायाः कलाया अनुप्रवेशः तत्प्रवेशेनैवोचितमित्यौचित्यमस्ति । चतुर्णां कलाभिनयानां विषयमाह । चतुष्कलो योगस्तदा त्वेष विधिरिति । एकैव कला गुरुरूपा चतस्रः कला विततीभाववशाद् यदा सम्पद्यते तदा एष अ(आ)वापनिष्क्रामविक्षेपप्रवेशात्मको यथाक्रमं कलाप्रमाणाभिव्यञ्जकश्चचुर्धा विधिरिति सामान्यरूपलक्षण इत्यर्थः ।। ३४ ।।

Notes

निष्क्रामश्च प्रवेशश्च द्विकले परिकीर्तितौ ।
आवापनिष्क्रामकृतो द्विकलो योग इष्यते ।। ३५ ।।

एषामन्तरपातास्तु पातसंज्ञाः प्रकीर्तिताः ।
शम्या तालस्तु विज्ञेयः सन्निपातस्तथैव च ।। ३६ ।।

Abh

निष्क्रामश्च प्रवेशश्च द्विकल इति । या त्वेकैव गुर्वात्मका वा कलाद्वयपरिमाणं वैतत्यमेवैति तदा प्रथमकलाकालो निष्क्रामेण द्वितीयकलाकालप्रवेशेन व्यङ्ग्य इति सामान्यलक्षणम् ।

अन्ये पठन्ति ।

अ(आ) वापनिष्क्रामकृतो द्विकलो योग इष्यते

इति । तत्र व्याख्यातम् । पार्यन्तिको वितर्को भवेत् । चतुष्कलात्मकशङ्काभावादावावो(पो) यदाऽतिव्याप्तस्तदाऽऽवापोन्योऽप्यत्र युक्तः । तथाभूतपार्यन्तिकविततीभावसूचिते चावापनिक्षेपकलेऽत्र पार्यन्तिकमवधिकं सूचयतः । तत आवापशब्देनोक्ते तयोर्निष्क्रामोऽपसरणं तदोपलक्षितमेष यदा विधिर्भवतीति तदा द्विकलो योग इति ।

अन्ये तु पूर्वशेषत्वेन श्लोकार्थमाहुः । यो द्विकलगतो योगो निष्क्रामरूपः स एवाहितो यतः समाङ्ग्न्यायतया च प्रवेशो विक्षेपसहितः । ततो द्विकलद्वैगुण्याच्चतुष्कलोऽयं विधिरिति । अत्र तु निष्क्रामो द्वे कले इति । ततो विशेषोऽनुवादाभावेऽपि स्यात् । प्रवेशस्य नामाऽपि न श्रूयत इति । न किञ्चिदेतत् ।

अन्ये त्वेककले आहते यथा निष्क्रामस्तथा द्विकलनायामपि भवत्वावाप इति मन्यमाना यथाश्रुतमेवावापनिष्क्रामात्मकद्विकलं मन्यन्ते । तेऽपि पूर्वापरशास्त्रान्तरगुरुपरम्परालक्ष्यविरोधादुपेक्ष्या एव ।। ३५ ।।

अथ सशब्दताविषयप्रदर्शनं तावत् करोति ।

एषामन्तरपातास्तु पाठ(त)संज्ञाः प्रकीर्तिताः ।

इति । एतच्छेषा ये प्रकीर्तिताः । शम्यादयस्तेषाम(मा)वापादीनामन्तरे समये प्रसङ्गे मध्ये च । एतदस्यापवादरूपतयेति । अतः पाता उच्यन्ते । अनेन द्विकलचतुष्कलविषयेष्वेतेऽपवादत्वाद्भवन्तीत्युक्तम् । तथा येषामावापादीनां यदन्तरं कालपरिणामं तत् पात्यते ऊनाधिकभावं गम्यते येषु गुरुलघुषु तषु ते पाद– (त)संज्ञाः पादैः(तैः)स व्यवहार उभयकरनिपतनस्वभावात् संज्ञा अत इति द्योत्यते(न्ते) आनीयन्त इति

1सव्यहस्तनिपातः स्याच्छम्या तालस्य वामतः ।।
2हस्तयोस्तु समः पातः सन्निपात इति स्मृतः ।। ३७ ।।

Abh

यावत् । आवापादीनां चतुर्णामभिनानामेकरूपैव कला परिच्छेदनीया द्विकलचतुष्कलमार्गयोः सर्वत्र कलापरिच्छेदस्य सम्मतत्वाद्यथाक्षरे तु नैवमिति यथाक्षरात्मा एककलः पातानामेवेत्युक्तं भवति । यथा य एते पातास्ते द्विकलस्य चतुष्कलस्य वा यदि योगः शाश्वतो नास्ति तत्रेयं परिभाषा । तदुपपत्तिलिङ्गत्वं चास्याः पाठे द्विकल इति तदाऽनन्तरपाताः । एषां निष्क्रामादीनां मध्ये पतन्तीति ज्ञेयमिति परिभाषेयम् । तेन

शम्या तु द्विकला कार्या तालो (ऽपि)द्विकल एव च (लः स्मृतः) ।

(भ. ना. अ. ३१–२६२) इत्यादौ पूर्वरङ्गोक्ते भाविनि निशनिता इत्यादिप्रस्तारे लभ्यते । यत्र द्विकलचतुष्कलोपपत्तिर्नास्ति न तत्रेयं परिभाषा । तदुपपत्तिलिङ्गत्वं चास्या आद्ये पाठे द्विकल इति चेति । चतुष्कलमूलकस्यानुवृत्त्या द्विकलो योग इति पाठेऽपि योग इत्यनुवृत्त्यै तत् । त्रिःशम्योपरिपाणौ इति (भ.ना. अ. २९–८७) तथा तालस्त्रिकलस्त्वा (श्चा) दौ शम्यैककला (भ.ना.अ.२९–९१) इत्यादौ च तदुपपत्तिर्नास्ति । तत्रेदमान्तरपातत्वम् । एतच्च दर्शितं दर्शयिष्यते च ।। ३६ ।।

एवं पातानां विषयमुकत्वा लक्षणमाह । सव्यहस्तः सन्निपात (स्तनिपातः स्यात्) इत्यादि । सव्योऽत्र दक्षिणो वामशब्दसन्निधानात् । निपात इत्यधोगमनम् । अत्रेदमुच्यते । तत्र सशब्दमनागतेऽपि लक्षणादपिनोक्तपूर्वाच्च शब्देन संयुक्त इति वचनात् । तत्र संयोगश्चोटिकापातस्यैवासाधारणो भवति । मुख्यतया स एव ग्राह्यो हस्तान्तरसंयोगतो ह्यसौ भवेद् द्वयोरपि साधारणः स्यात् । अन्ये तु सव्यस्तोत्तानत्वाधारतोचिते शब्दहेतुसंयोगकारणत्वसन्निपातनमिति व्याचक्षते । एवं तालोऽपि द्विविधः शम्याव्याप्यः शम्यापिः । यद्यपि तालो हस्ततलनिर्वर्त्यत्वाद्दक्षिणदिशोऽमङ्गलसूचने शम्यायाः । यद्वा शमीत्यत्रार्थे साधुः । शम्येति व्युत्पत्तिकृतेन शब्देन तस्या अभिधानात् तलद्वयनिपातनस्य चासाधारणेन सन्निपतनादिति निर्वचनादनेन सन्निपातेन शब्देनाभिधास्यमानत्वात् परिशेषाद् वामहस्तसन्निपात एव तालः । सम इति । तुल्यकालमधोगमनम् । अनधोगतयोस्तिर्यक्स्थितयोः सम्मुखयोरुभयकर्मजशब्दहेतुः संयोगः । समः पात इति संशब्दः समार्थे ।। ३७ ।।

Notes

1कला या2 त्रिविधा प्रोक्ता तस्याः पातो ध्रुवः3 स्मृतः ।
यथाक्षरस्य तालस्य 4स च गुर्वक्षरः(रे) स्मृतः ।। ३८ ।।

Abh

तत्र ध्रुवपातस्य मूलभूतत्वं संज्ञाध्यायोद्देशे (भ. ना. ३२–२) प्राथम्याद् दर्शितम् । एतदध्याय– पठितानुवादश्लोके तु शम्यातालादनन्तरमभिधानाद् वामदक्षिणान्यतरकरप्रयोज्यता न तूभयसंवाद्यत्वं प्रयोजनाभावादिति सूचितम् । सर्वपश्चाल्लक्षणकरणेन तु यथाक्षरद्विकलचतुष्कलविषयोक्तपूर्व– शम्यानिष्क्रामावाहिपा (वापाः दिमध्यपातित्वमस्य नास्ति । अपि तु तद्विविक्त एव । उपोहनध्रुवागतिरस्य विषय इति सूचितम् । तथा च वक्ष्यते ।

अत्र तत्र मुखप्रतानं (खं तालं) ध्रुवापातैरेव नियमितात्मा (न्मा) नम् ।

(भ. ना. ३१–१००) इति । ध्रुवत्वं यत्र गच्छति तद् ध्रुवे (वमि) त्यदि च वदन्ति । दत्तिलाचार्येणापि

उपोहनत्वाद्वैतस्याः(नं च तत्राद्यं)स्मृतं ताल(चार्थ)विवर्जितम् ।

(दत्तिलम् १९९) इत्युक्तम् । अतो ध्रुवस्य लक्षणमाह ।

कला या त्रिविधा प्रोक्ता तस्याः पातो ध्रुवः स्मृतः । इति । इव(ह) तावत् कालस्य यस्य विपरिमाणो (णामो) परिमाणान्तरोद्देशाद् देशाद्यपसर्पणं तदभिव्यङ्ग्यो– पलक्षणो नाम स एव प्रयत्नपरिच्छेदरूपत्वात् समुदायात्मकत्वाच्चान्यस्य कलापरिच्छेदव्यवहारस्य प्राधान्या– दनपेक्षितातज्जातीयत्वेन च स्थैर्यात् परमास्थितो ध्रुवकस्तथापि नासौ व्यवहार्य इति न तेनास्माकं प्रयोजनम् । ह्नस्वस्य च व्यवहार्यत्वमतज्जातीयत्वं च निरंशत्वात् । यथोक्तम् । अल्पीयसाऽपि यत्नेन शब्दमुच्चारितमिति । यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटमिति । वर्णाश्च ह्रस्वा एव । दीर्घादेर्यान्ति धर्मत्वादिति । तथापि न तस्य ध्रुवत्वम् । संयोगादिपरस्य तत्कालेन यस्य प्रतिभासाभावात् व्यञ्जनवल्लघुकालेन नास्ति व्यवहार इति गुरुकाल एव ध्रुवः । तदाह । कला या त्रिविधेति । यस्याः कलाया द्वैगुण्यक्रमेण चित्रवार्तिकदक्षिणमार्गगतत्वेन त्रैविध्यमुक्तं तस्या इति । लघुरेव(क)कलात्मकत्वात् कालपरिच्थेदमयीं तामाश्रित्य यः पातश्छोटिकापूर्वकमधोगमनं तस्या लक्षणभूता(या) ध्रुवो नाम लक्ष्यभूतः स्यात् । अतो ध्रुव स्थैर्य (पा. धा.

Notes
Abh

पा. १४०१) इति स्मृतिलक्षणभावो हीत्थमेवावतिष्ठते । सामानाधिकरणनिर्देशात्तु लक्षणप्रायेण छोटिकाशब्देनास्य पुनरुक्तिरित्यतो लभ्यते । पूर्वत्वं चास्य विशेषणत्वादेव गम्यते । शाक(साकं)– ज्ञानावलम्बनत्वेऽपि विशेष्योरेकविकल्पग्राह्यत्वे वृत्तेरौचित्यस्य च विशेषणस्य पूर्वनिपातात् तस्यैवोचितं पूर्वत्वं युक्तमिति छोटिकाशब्द एवोचितोऽत्र न तालशब्द इत्यभियुक्ताःअन्ये तु दिग्योगे तु पञ्चमीप्रकरणा– त्तच्छब्दग्रहणमाहुः । पातात् पूर्वं यः शब्दः स ध्रुव इति । सर्वं चैतद् व्यक्तम् । या लघ्वक्षरकालमध्ये छोटिका शब्दपूर्वकं हस्तपतनमाश्रित्य वामदक्षिणविभागो ध्रुवपात उच्यत इति ।

ननु यत्तु लघुपरिमाणत्वात् कथं ध्रुवत्वम् । गुरुकालो ध्रुव इत्युपपादित इत्याशङ्क्याह ।

यथाक्षरस्य तालस्य स च गुर्वक्षरः(रे) स्मृतः ।

इतीह गुरुरेव ध्रुवः । तस्य केवलमर्धमात्राविश्रान्त्या विना प्रयोगान्तरगमनं न सम्भवति । सर्वत्र हि विशेषान्तरावगाहेन मध्यै(ध्ये) तदुभयविशेषशून्यविश्रान्तिसम्भवो विशेषतस्ताले तदवधानादेवोच्यते । तालज्ञश्चाप्रयासेन मोक्षमार्गमिति (याज्ञवल्क्यस्मृतिः ३–११५) । तेन गुरुद्वये मात्राचतुष्कलात्मनि संमील्य मात्राकालो विश्रान्तिरिति । एवं कालपरिमाणकला व्याख्याता । सा च पञ्चमी मात्रामध्ये श्वासविरामादिविश्रान्तिसिद्धये शून्यरूपैव तावद्गीता(ते) वाद्ये (चं) क्रियते । चतुर्भिः स्वरैश्चतुर्भिरेव च मात्राविशेषैर्गानं वाद्यं च विदधते । गीयमानं यदवगन्तव्यं व्यञ्जनयोगाद् वाद्याक्षरमवश्यम्भावि हकारादिव्यञ्जनवशाच्च । तत्रापि सा पञ्चमी मात्रा चतुष्कलात्मस्फुटतयाऽन्तर्वाहित्वेन भात्येव । स्फुटा न च । सा हि व्ज्यनकालानवभास उच्यते । न त्वनवभासपूर्वा । अस्य मार्ग इत्यनयोरभ्युच्चारणरणे वादने वा स्वसंवेद्य एव कालभेदः । अत एवास्फुटावभासविलक्षणस्फुटाभासतत्स्वरूपलाभाय लक्ष्ये स्फुटा एव । क्वचन पञ्च मात्रा वाद्याक्षरेषु लक्ष्यते(न्ते) । यथा खण्डकेट टिटुटु चचुचाचां गिगिगिनिगि इति । यद्यपि त(ता)नप्रसा(स्ता)रे लघुत्वमस्य तथापि चित्रापेक्षया न । ध्रुवकाश्रयं तु गुरुत्वमेव केवलमत्र विश्रान्त्य– भावात् । प्राणायामवन्निरन्तरवाहित्वातद् गात्रवादकयोः प्रयन्तविशेषो योगः । खण्डके टटिटुटी इत्यत्र विश्रम्यैव द्वितीयो लघुः प्रयुज्यते । मुटिटटिहसनीति विश्रान्तिकालस्यैव…..पलक्षणसिद्धये चटुलायां निगिनिगगि इत्येतल्लघुप्रस्तारादिकामात्रलघुद्वयोचितं कालविशेषावधि शून्यकलोपक्रमं गिगिं इतीयता मात्रान्तरेण लघ्वन्तपूरणं ततो विटत् इति गुरुत्वे मात्राद्वयं विश्रान्त्या च मात्रे त्रिमात्रायोगिभिन्ना धी इथि (रिति) मात्रासम्पर्केण मात्रादशरूपं भवति । एवं तु चतस्र एव वाद्याक्षरमात्राः । तत्र स्फुट एव विश्रान्तिकालः । यथा हेलाकुटिलादौ

Abh

ग्रं हेलाकुटिलादौ ग्रं विश्रम्भमभ्य…..तुङ्गहिडुममङ्व्ययस्मटिकाषिद इत्यादौ । एवं स्थिते गुरुरेव यद्यपि ध्रुवस्तथापि गुरौ ग्रं इत्युदिते गीयमानेऽवश्यं गीतवशादेवाकर्षणेन भाव्यम् । आकर्षणं च सृष्टः(ष्टि)– प्रलयवद्दुच्चारणसमकालमेवेति शक्यं नियन्तुम् । अ(आ)वापादीनां कियदा(द)पकर्षणं शम्यादेः कियत्पातं चित्रादिवशादित्युक्तौ किं चित्रै (क) कला……वार्तिके दक्षिणे वेति मूले पर्येष्यमाणे ध्रुवागान एवोपलक्षितकान्तत्वान्न नियमे हेतुः । अत एव ध्रुवपातनियन्त्रितकलाकलास(लित)स्वभावत्वात् तन्मार्गोऽपि ध्रुवक इत्युक्तो मूलभूतश्च । दत्तिलादिभिः प्रथममार्गायोद्दिष्टमूलं तेषां (अथ मार्गा य उद्दिष्टास्तेषां मूलं) ध्रुव इति (दत्तिलम् २४०) । तेन ध्रुवकद्वयं चित्रेत्यादिनियमलाभः । मुनिना चैतद्ध्रुवकाभिधानमूलमार्गसिद्धये निमेषाः पञ्चे (भ. ना. ३१–४) त्युपक्रम्य द्विमात्रा स्यात् कला चित्रे (चित्रे द्विमात्रा कर्तव्या) (भ.ना.अ. ३१–७) इत्येवमाद्युक्तम् । अत्रान्यथा निमेषदशमात्रा स्यात् कला चित्रे द्विगुणा वार्तिक इत्यादि ब्रूयात् । निमेषाः पञ्चे– (भ. ना. ३१–४)त्यादिनिबन्धनमूलादेव ध्रुवत्वं लब्धमिति मार्गचतुष्कं सिद्धम् । तदनुसारेणैव बिन्दुद्रुतलघुगुरुप्लुतव्यवहारो लक्ष्यवेदिभिः कृत एव । एतदाह । यथाक्षरस्येत्यादि । (द्वितीय) चञ्चत्पुट चाचपुटेत्यादेर्यथाक्षरस्य तालस्य ये द्वे गुरुरूपलक्षिते अक्षरे चञ्चदिति पुट इत्याद्येव स ध्रुवकः । तत्काल…….लित्वा त्रिवेद्यर्धमात्रा अ इत्यत्रापि । अत एव तु हल्परत्वाद् द्वे मात्रे । एवं द्वितीयेऽपिं चकारे तस्य च ध्रुवस्थानकस्य न पृथक् कला । साहित्येन हि पूर्वो लघुर्गुरुत्व प्राप्त इत्येव । अन्तर्यामिस्थानीयत्वान् मुक्तस्फुटाश्चतस्रो ह्यमात्रा ध्रुवकलाः । तत्रेह कलेति परिच्छेद्यापरिच्छेद्येषु त्रिष्वपि मुनिना प्रयुज्यत इति दर्शयिष्यामः । नियतकालकलासम्पातश्च मार्ग उच्यते । परिच्छेदोपयोगिक्रियामात्रपात इति ध्रुवाया आतोद्य एव मार्गाद् ध्रुवकादि । एतस्मिन् गुर्वक्षरे सति गीयमानक्रिये कियद्विश्रम्यतामिति पुनरपि ध्रुवकस्य मूलमात्रपात्र(त) इत्याशङ्क्याह । स्मृत इति । स्मरणं स्मृतं तत्रास्तीति । एतदुक्तं भवति । यथा (चित्रतो) वार्तायामतश्चतुर्गुणं देहीत्युक्ते स्फुटस्मरणं न भवति । एतदेव त्वन्यद् देहीति स्फुटमेव स्मरणं भवति । एवं नियतं छोटिकाशब्दं कृत्वैतावदेव पातनं हस्तस्येति स्फुटमेव स्मरणं भवति । ध्रुवो मूलभूत इत्युच्चारण एव त्रिगुणम् । एतत् सप्तगुणम् । एतेन पञ्चगुणम् । हस्ताङ्गुल्या कृत्वा ना(दा) दिकं कुर्वीतेत्युदन्तमनुस्मरणं भवतीति ध्रुव एव मूलभूतः । तेन परमार्थत एको गुरुर्ध्रुवो भवति । अत एवगुरुकाल निरन्तरचोटिकापातपरम्परात्मा बलीति कदापि च ध्रुवपात एवोच्यते । अक्षरानुसारित्वाच्चात एव यथाक्षर त्वं भवति । एव(ष) एव च गभीराभिप्रायो मुनिना गुर्वक्षर

1यथाक्षरकृतैः पातैस्तालो ज्ञेयो यथाक्षरः2 ।
गुर्वक्षरैश्च विश्लिष्टैः स एव द्विकलो3 भवेत् ।। ३९ ।।

4द्विर्भावाद् द्विकलस्यापि विज्ञेयोऽथ 5चतुष्कलः ।
6त्र्यश्रश्च चतुरश्रश्च षट्कलोऽष्टकलः स्मृतः ।। ४० ।।

Abh

इति प्रथमाद्विवचने सप्तम्येकवचने च श्लिष्टं प्रयुञ्जानेन प्रकटित इत्यलं प्रकटितलक्ष्यलक्षणोपलक्षणमित(र)जनहृदयावर्जकेन बहुना प्रसक्तानुप्रसक्तप्रसङ्गेन । गुर्वक्षरः स्मृत इत्यन्ये पठन्ति । गुर्वक्षरस्मृतस्मरणं यत्र तु नानुभवपूर्वकं च तदिति द्वितीयमनुभूयमानमपि लभ्यत एव ।। ३८ ।।

एवं कलापातस्वरूप इति निर्णीय यदर्थमेतदुक्तं तद्यथाक्षरादिपूर्वोद्दिष्टं लक्षयितुमाह । यथाक्षरकृतैः पातैरिति । यावन्त्यक्षराणि तावत्सङ्ख्याकैस्तथाऽक्षरसदृशकलोपेतैरिति बाहुल्याभिप्रायेण । उद्धट्टे हि यथाक्षरे निष्क्रामोऽप्यस्ति । अनतिवृत्तौ सादृश्ये च यथाशब्देनाव्ययीभावः । तेन चञ्चत्पुट इति चतुर्भिः पातैर्गुरुद्वयलघुप्लुतकृतकालैर्यथाक्षरं चञ्चत्पुट आस्तेऽत्र परत इत्युक्तम् । एवं चाचपुट इति वाच्यम् ।

गुर्वक्षरैश्च विश्लिष्टैः स एव द्विकलो भवेत् ।

केचिदक्षरकृतस्य विश्लिष्टत्वं स्यादित्याशङ्क्य कलासगुरुप्रस्तारात्मककलमभिप्रेत्य तदुक्तमिति व्याचक्षते । तेन गुरुषु चतुर्षु त्रिषु षट्सु पञ्चसु स्थापितेषु विश्लेषो यदा क्रियते तदा सप्तकलनवद् द्विकलवद् द्विकलविरामस्य प्रकृतितादात्म्येनावभासो यथा तदेवेदं काष्ठं भस्मेत्याशयेन सएवेति निर्देशः । स तु कथम् । विश्लिष्टैरित्याह । विभावातीतैः श्लिष्टैरिति । यावद् द्विकपञ्चकमतीते वैगुण्यं द्विर्भावशब्देनोपलक्षितं तस्यैकस्य पुनरावृत्तिरेकाद्विकलस्यापि गुर्वक्षरे विभागाद् द्वैगुण्येन वितततया श्लिष्टैः स एव यथाक्षरश्चतुष्कलः । अव्यवहिते कार्येऽपि कारणतादात्म्यकापदेशात् तदेवेदं क्षीरं तक्रमितिवदेकैव कला द्वे चतस्रश्च यत्र भवति स द्विकलश्चतुष्कलश्च ।। ३९ ।।

एतदाह ।

द्विर्भावाद् द्विकलस्यापि विज्ञेयोऽथ चतुष्कलः ।

इति । अन्येत्वाहुः । विशिष्टैर्द्विकलस्तत्र विश्लेषो विभागपदेन दत्तश्चतुर्गुरुप्लुतविषयमेव सम्भवति । तयोरल्पीयसेति

Notes
Abh

न्यायेन विभागासम्भवादनेन गुरोवि(र्वि)भागे द्वौ लघू प्लुतस्य त्रयो लघुरविभक्तः स एव । तदुक्तं दत्तिलेन

गुरुप्लुतादि हित्वाथ द्विमात्रान् परिकल्पयेत् ।

(दत्तिलम् १३०) पादभागदीनि त्रीणि हित्वैव मात्राकालत्वद्विकलचतुष्कलं न प्राप्तमिति । (अथ) ये च ते विश्लिष्टात्मानो लघवस्ते गुर्वक्षरस्वभावकलापरिमाणाः कर्तव्याः । लघुर्यद्यपि स्वात्मनि विभावाभावान् न विश्लेष्यस्तथापि समयन् नत एवासौ विश्लिष्टरूपत्वेऽस्यापि गुरुत्वमेव लब्धम् । एवं द्विकलस्य चतुष्कलतापादनेऽपि मन्त– व्यम् ।

ननु स्पष्टमेव कस्मान् नोक्तमेताभिर्गुरुकलाभिः षड्दशमिश्चचतुष्कल इति । मैवम् । विभागसिद्धेर्ह्येवं भवति । तया च मात्राविभागाः । चकारपदेनागममात्रेऽपीति /?/ वस्तुविभागश्च । एतच्च गीतकलक्षणे स्पष्टयिष्यामः ।

किञ्च गत्यध्याये (भ. ना. अ. १२) गतेर्विचित्रकत्वेनोक्तत्वात् तदनुसारेण लक्ष्ये प्लुतगुरुलघुद्रुतकल्पना या चतुर्धा साप्यनेन विशेषेण सूचिता तथापि यथाक्षरे तावद् गुरुलघुप्लुतानां सम्भवः । ततो द्विर्भावाद् द्विकलाद् द्रुतो लभ्यते । योगाक्षराणीष्टलब्धपूर्वं ततोऽपि द्विर्भावाच् चतुष्कलाद् बिन्दुर्नाम द्रुतार्थभूतो लभ्यते । य आद्याख्यां न लब्धः स एतदर्थमेव । यं चाहुः स्वा कलेति ध्रुवकेऽपि विभक्तः । एको हि मात्रे विश्रान्तावित्युक्तम् । तेन मात्राकालो बिन्दुः द्रुतकालो द्रुतः तद्द्वयकालो लघुः चतुष्कलकालो गुरुरिति चेष्टसिद्धिः । एतदाह ।

त्र्यश्रश्च चतुरश्रश्च षट्कलोऽष्टकलः स्मृतः ।
ध्रुवाणां च भवेत् तालः ।

इति । त्र्यश्र इति । यथाश्रित एव यत्र त्रयः पाताः । षट्कल इति । द्विकद्विगुणलघुपातः । चकाराद् द्वादशकलः । तद्द्विगुणद्रुतपातश्चतुर्विशतिकलश्चतुर्दिगुणपातः । तत एव नास्ति भञ्जनं पञ्च । चतुरश्रोऽपि स एवंविधस्तालः प(प्र) सादाक्षेपान्तरनिष्क्रामादिगानेष्वस्ति । तत्र क इति चेदाह । तं च वक्ष्यामि तत्त्वत इति ध्रुवाध्याये । (भ.ना.अ.३२)

ध्रुवाणां च1 भवेत्तालस्तं च2 वक्ष्यामि तत्त्वतः ।
कनिष्ठाङ्गुलिनिष्क्रामः शम्या चैव ततो भवेत् ।। ४१ ।।

कनिष्ठानामिकाभ्यां तु निष्क्रामोऽतो विधीयते ।
3ततश्च तालः कर्तव्यः शम्या चैव तु पञ्चमी ।। ४२ ।।

प्रवेशो 4मध्यमाषष्ठः कर्तव्यस्तर्जनीकृतः ।
निष्क्रामः सन्निपातोऽन्ते5 नित्यमष्टकलो भवेत् ।। ४३ ।।

एष युग्मे कलापातविकल्पोऽङ्गुलिभिः कृतः ।
कनिष्ठाङ्गुलिनिष्क्रामः प्रथमा तु कला भवेत् ।। ४४ ।।

शम्यापातो द्वितीया च6 तृतीया ताल एव च ।
शम्या 7ततश्चतुर्थी तु पञ्चमी तर्जनी क्रमात् ।। ४५ ।।

षष्ठश्च सन्निपातः स्यादेष वै षट्कलो विधिः ।
एष त्र्यश्रे कलापातविकल्पोऽङ्गुलिभिः कृतः ।। ४६ ।।

Abh

एवं प्रसङ्गतो………..द्विकलचतुष्कलविषयो यः पूर्वमुक्तक्रमो निष्क्रामश्च प्रवेशश्च द्विकले इति (भ.ना. ३१.३५) यदा चतुष्कलो योगस्तदा त्वेष विधिरिति (भ.ना.३१.३४) च (य) देवं विभक्तं ग्रन्थान्तर………स्तु निष्क्राम इति तत्प्रयोज्य इति यावत् ।

अन्ये तु त्र्यश्र (श्च)चतुरश्रस्ये (श्चे) त्यस्यामुमर्थमाह (हुः) । यस्त्र्यश्रो द्विकलत्वात् षट्कलश्चतुर (श्र)श्च द्विकलत्वादष्टकलःध्रुवाणां गीतकादिसमुदायारम्भकाणां वर्गाणाम् । यस्यास्तालो भवति तस्यास्तं कनिष्ठाङ्गुलिनिष्क्राम इत्यादिना वक्ष्यामि । प्रसङ्गतश्चतुष्कलमपि हेतुरत्र……..ध्रुवत्वात् स्थैर्येण या कला क्रिया ध्रुवमुच्यते । अङ्गिन्यवयवविभागेनावयवरूपमेवं यदङ्गं परमाणु वदित्याशयेन ध्रुवमङ्ग– मुच्यते । तदङ्गं ताले युक्ते गीतकादीनि व्याप्तानि न तद् द्विकलं वक्तव्यम् । तत्र त्र्यश्र इति सामान्यलक्षणम् । द्विकले यावद्भागचतुष्काख्यां च चतुरश्रस्तत्र प्राथम्यं कनिष्ठयाऽभिव्यङ्ग्यं पादभागस्येत्यादौ यद्यपि मुख्यं नियमादृष्टजपाङ्गुलिपर्य(न्त) कमपि शेषवत्तया न्यायादत्राङ्गइ(मि) त्याहुः । कनीयसी हि प्रथमा लोके गणनायां वे (वै) दिके…….यणीया यजुषि ऋचि वा स्वरितप्रदर्शने कनिष्ठात आरभ्य स्वराणां कुर्वते । एवं

Notes

कनिष्ठाङ्गुलिनिष्क्रामः प्रवेशश्च ततो भवेत् ।
कनिष्ठानामिकास्थानं1 ततस्तालस्तृतीयकः ।। ४७ ।।

शम्या ताल3 श्चतुर्थी तु निष्क्रामो मध्यमाकृतः ।
षष्ठस्तालस्ततो ज्ञेयो निष्कामस्तर्जनीकृतः ।। ४८ ।।

शम्याष्टमी ततस्तालो नवमी तु कला स्मृता ।
कनिष्ठिकाप्रवेशस्तु दशमी तु3 कला भवेत् ।। ४९ ।।

निष्क्रामश्चैव तर्जन्या तदन्तरमिष्यते ।
सन्निपातस्तथान्ते च कलाद्वादशके भवेत्4 ।। ५० ।।

Abh

यावत्त्वर्थ(व)त्वेनान्यत्वं पादभागस्य तर्जन्याऽभिव्यज्यते पादभागत्रयं तु चञ्चत्पुट इति प्राथम्यं कनीयस्या द्वितीयमनामया नान्यतस्तृतीयत्वेन न कश्चिदर्थ इत्यत्राभिव्यक्तोऽदृष्टसामर्थ्यात् तर्जन्येव गृह्यते । मध्यमा तु त्यज्यते । पञ्चपाणौ तु षट् पादभागाः । तत्र चतुर्थतर्जनीभिरङ्गुलीभिर्द्योत्यते । पुनः पुनः प्राथम्यात् पञ्चमे कनीयस्येवाङ्गुल्यन्तराभावात् प्रतिष्ठेति । एके वदन्ति(मध्यमां)त्यक्त्वाऽन्यत्वाभिव्यक्तो

आद्या द्वितीयमाद्यन्तात् पादभाग(गा)द्विदुः क्रमात् ।
कनिष्ठानामिकाय(यु)क्तमध्यमाद्दे(दे)शिनीकृतान् ।
अयं मध्यमहीनः स्यादाद्यन्ताधिक उत्तरः ।।

(दत्तिलम् १३६) इति । विदुरिति क्रमादिति स्यादिति पदैरेवान्तिमत्वं सूचितम् । यत्र तु पातोपपादत्वेन गच्छति तत्र साङ्गुलिर्व्यज्यते ।

अन्ये तु तदङ्गुल्यङ्गुष्ठस्य हस्तान्तरस्य वा संयोगाच्छम्यादिपातो विधेय इत्याहुः । एवं चतुष्कलेऽपि मन्तव्यम् । तदेतदाह । कनिष्ठाङ्गुलीत्यादिना प्रागुक्ताङ्गुलिभिः कृत इत्यन्तेन । तत्र भाविपातानुसारेणावापनिष्क्रा(मा)दिषु वामदक्षिणविभागः । तद्यथा । शम्यायां भाविन्यां दक्षिणेनैव निष्क्रामो मध्याङ्गस्तुल्यप्रयोगे स्तु(तु)ल्य इति मध्यमपदलोपी तर्जनीनिष्काम इति सम्बन्धः ।

(उपसंहरति । पञ्चस्वेवं कलानां निष्क्रामादीनां पातानां च शम्यादीनां विकल्पं प्रथमादिरूपत्वमङ्गुलीभिरुपलक्षणभूताभिर्निरूप्य द्विकलचञ्चत्पुटद्वितीयरूपेण प्रवेशनसूचिका कला

Notes

एष त्वावापविक्षेपव्यवधानेन पण्डितैः ।
विधिश्चतुष्कलो ज्ञेयः प्रागुक्ताङ्गुलिभिः कृतः1 ।। ५१ ।।

द्विकलश्चतुष्कलश्च पादभागः प्रकीर्तितः ।
चत्वारः पादभागास्तु मात्रेति परिचोद्यते ।। ५२ ।।

Abh

शम्यापातरूपा कार्या प्रवेशनं तयैव सूच्यमित्यर्थः) एवं सर्वत्र । पञ्चमी तर्जनीक्रमादिति । क्रमप्राप्तो(प्ते) निष्क्रामे तर्जन्यत्र युक्तेत्यर्थः । उपसंहरति । एवं त्र्यंश (त्र्यश्र) इति । प्रस्तारः निश नाश निसं इति द्विकलं चाचपुटम् । कलाद्वादशैरि (शक इ) ति द्विकलपञ्चपाण्युपसंहारः । तदयं प्रस्तारः– निप्र ताश निश ताप्र निसं इति ।। ४०–५० ।।

एवं चञ्चत्पुटचाचपुटपञ्चपाणीनां द्विकलस्वरूपमुक्त्वा तत्रैलादिमध्ययोर्यथासाङ्ख्यमावापविक्षेपौ यदि क्षिप्येते तच्चतुष्कलत्वं भवतीति संक्षेपेणाह । एष त्वावापविक्षेपव्यवधानेनेति । एष त्विति । एष एवेत्यर्थः । यो(यौ) निष्क्रामप्रवेशादिकौ तत्सथानिकौ वानिप्रशप्रनिताताप्रेत्यादीनामन्यतयोपाधिरितिरि(ती)होक्तः स पादः । यदाऽऽवापविक्षेपाभ्यां व्यवधीयते स्थानादपसार्यते तदा पण्डितैः पूर्वानुसन्धानकुशलैश्चतुष्कलविधिर्ज्ञेयः ततश्चावापेनान्यस्थानमाक्रम्यता निष्क्रामोऽपसार्यते द्वितीयस्थानं नीयत इति व्यवधानार्थः । प्रयोगस्य च व्यवधानं विस्तरीकरणमिति । अदा(आ)वापयोगेन निष्कामस्य विक्षेपप्रयोगेण प्रवेशस्य च प्रयोगो व्यवहितः कार्यः । आवापविक्षेपाभ्यां तयोश्च व्यवधानमिति व्याख्यातम् । सर्वथा नावापविक्षेपौ निरन्तरौ निष्क्रामप्रवेशयोर्मध्ये(अन्ते आदौ वा क्षेप्यौ) इति मन्तव्यम् । तथा च दत्तिलाचार्यः स्पष्टमवोचत् ।

विन्यस्य मध्ये विक्षेपमादावा(वा)पमेव च । (दत्तिलम् १३४) इति ।। ५१ ।।

ननु द्विकले चञ्चत्पुटे चत्वारः पादभागा इत्युक्तम् । प्रोक्ताङ्गुलिविभागे तु चतुष्कले तद्द्वैगुण्यमतः कथमुक्तं प्रागुक्ताङ्गुलिभिः कृत इत्याशङ्कां शमयन् पादभागलक्षणं व्याकरोति । द्विकलच(श्च)तुष्कलश्च पादभाग इति । तेन चतुष्कलेऽपि चत्वारः पादभागा इति यावत् ।

ननु पादात्मा भागः । पादश्चतुर्भागः । तस्य…….विति निर्णीय त्र्यश्रेऽपि चतुरश्रस्यैव प्राधान्यं दर्शयति । मात्रालक्षणं चत्वारः पादभागास्तु मात्रेति ।

Notes

चञ्चत्पुटस्य तालस्य तथा चाचपुटस्य च ।
पञ्चपाणेश्च विहिता भेदा ह्येते पृथक् पृथक् ।। ५३ ।।

एवमेष कला1 तालः समासात् परीकीर्तितः2 ।
आसारिते वर्धमाने 3गीतेष्वपि हि (तकेषु च)यः स्मृतः ।। ५४ ।।

Abh

तेनाष्टौ द्विकले चतुष्कले च षोडशकला इति मात्रा । तस्या अयं तुर्यो भागः । त्र्यश्रेऽपि च प्रकर्यादौ मात्रा षोड– शकलैव भवतीति । तस्याश्चतुष्कलविधिना स्वरूपलाभात् । गीतकादिवस्त्वात्मनैककलद्विकलाभावे प्रकरीगीतकत्वचतुष्कलत्वव्यवहार उपपन्नगानः । त्र्यश्रत्वं च तत्र तथाभूताङ्गषट्कायोगादित्युक्तचरम् ।। ५२ ।।

न चैवं त्र्यश्रचतुरश्रयोः साङ्कर्यादभेदस्वरूपो भेदस्योक्तत्वादित्याशयेन समर्थयितुमाह ।

चञ्चत्पुटस्य तालस्य तथा चाचपुटस्य च ।
पञ्चपाणेश्च विहिता भेदा ह्येते पृथक् पृथक् ।।

इति । यथाक्षरनिरूप(प्या) इत्यर्थः । उद्धट्टोऽपि यथाक्षरस्य चाचपुचस्यैव रूपं क्वचित् प्रयोगाद् रूपभेदेनोक्तः । एवं सम्षक्वेष्टाको भेदः पञ्चपाणेरेव । इत्येवं च तयोर्न पृथग् द्विकलभावो लक्षणे लक्ष्ये च दृश्यते । इत्येवमेतत्तालाभिधाने सर्वमध्याहारेणोक्तं भवति । तेन यदन्यत्राप्युक्तम् ।

ऋचो वै ब्रह्मगीताश्च ब्रह्मणाभिहिताः किल ।
दक्षेण पाणिकाश्चापि गाधा(था) वै कश्यपेन तु ।।

मातृभिश्च कपालानि सामान्युक्तानि नन्दिना ।
गीतकाधि(दि) तु सप्तैव नारदेनोदितानि वै ।। ५३ ।।

तदिदं रूपसप्तकमत्रापि नासङ्गृहीतं भवतीत्याह । एवमेव(ष) कलातालः समासादिति

षष्ठाष्टगुणपर्यन्तं द्वात्रिंशच्चतुरादितः ।
ऋग्गाथा ब्रह्मगीताश्च कपालानि त्रयोदश ।।

षष्णवतिपादं साम तद्भेदेनापि च क्वचित् ।
मुखं प्रतिमुखं चैव द्वात्रिंशत् समुदाहृतम् ।।

Notes

1.N. मया

गीतं द्वादशकं प्रोक्तं द्विगुणाविग्रहे यतः ।
अष्टषष्टिकलोपेता ह्येकैका पाणिका स्मृता ।।

इत्यनेवैव सङ्गृहीतं सर्वम् । जातिताला अप्यनेनैव स्वीकृताः । यथा च ।

स्याद् द्वादशकला षाड्जी षड्जोदीच्यवती तथा ।
मध्यमा रक्तगान्धारी कैशिकी षड्जकैशिकी ।।

इतरा षोडशाभिश्च यथाऽऽन्ध्री दै(धै)वती तथा ।
गान्धारोदीच्यवाचान्या तथा गान्धारपञ्चमी ।।

मध्यमोदीच्यवाच्या(न्या)ऽपि तथा कार्मारवी मता ।
आर्षभी चैव गान्धारी तथाऽन्या षड्जमध्यमा ।।

द्वात्रिंशत्कलिका चापि नन्दयन्ती प्रतिष्ठिता ।
अष्टाभिः पञ्चमी ज्ञेया कलामानं तु जातिषु ।।

तेषु च स्वररूपत्वेऽपि क्वचिदन्योऽसौ प्राग्वददृष्टकलविहित इत्याशयेन य(प)दप्रक्षे(प)वत्तालयोजनं कार्यं गान्धंर्वरूपतासिद्ध्यर्थमिति (न) केवलं सत्रस्वरूपमवधिकमदृष्टोपयोगि । यथोक्तम् ।

सकृत् प्रयुक्तौ(क्ता)ऽपि हि नन्दयन्ती
यथाविधि ब्रह्महणं पुनाति ।
यतश्च तालोऽनुकलाङ्गमात्रः

तेन विना गान्धर्वत्वमिति समनीचकलाधिक्येऽपि न तालस्य हानिः । सप्त(कल)दशकलासारि(त)वत् । तत् सर्वमनेन सङ्गृहीतम् । तत्कथमिदमाह ।

आसारिते वर्धमाने गीतकेषु(च)यः स्मृतः ।

इति । न ह्यनेन ब्रह्मगीतादि व्यावर्तयितुं शक्यम् । ननु युक्तम् । न चेह शास्त्रमेतावल्लक्षणीयमात्रम् । अत्रा (त्र– ताला)देरपि लक्षणदर्शनमुपलक्षणार्थमेव । अन्यतमस्योपादानं युक्तं न त्रयाणामिति । उच्यते । यावदिदं जगति कालविजृम्भितं तत् सर्वमुक्तं पूर्वादेव तालमार्गात् । तत्र तथा परमाणुचतुष्कात्तु गुणत्रयादन्यतोऽप्यवश्यमेव । आवर्तकादिक्रमेणान्योन्याभिभवादिक्रमेण वा प्रसृतमिति स एव क्रमः प्राधान्यात् स्वकण्ठेन वचनार्हः । इहाऽपि

1अथासारितकानां तु सम्प्रवक्ष्यामि लक्षणम् ।
2छेदश्च(भेदं च) 2aञ्चत्पुटस्यादौ कृत्वा तु गुरुलाघवम्3 ।। ५५ ।।

Abh

तथाविधसन्निवेशेनावस्थानां विधातव्यमधिकप्रक्षेपणादासारमित्युच्यते । आङ्मर्यादाभिविध्योः (अष्टा. २.१.१३)। स च वैतत्यात् तया सारणं स्थापनं मर्यादायां च क्षेपणं…….नाधिक्यमिति न तदासारितदिशा दर्शितम् । चञ्चत्पुटपञ्चपाण्य्योर्मर्यादया स्थापनं मार्गभेदादिना चैतत् प्रागुक्तस्य चाधिक्यस्य क्षेपात् । षट्कले च सर्वान्तर्भावः परिवर्तितादीनां च वृद्धिगमनमिति वर्धमानेन सूचितम् । अत्राऽपि चासारणं स्थितमेव । तथा विजातीयसजातीयबहुप्रकारविचित्रशकलक्रमोत्तानभेदरूपवैचिञ्यं गीतकमार्गेण प्रकटितम् । एवममुना त्रिशाखेनासारितक्रमेण समस्तजगद्वर्ति भेदसूचनमित्याशयेन त्रयणामेव प्राधान्येनोपादानं कृतम् । प्राधान्यादेव च वृत्ते पूर्वरङ्गतया तस्यैवोपयोग उक्तः । गीतानां मद्रकादीनाम् । (भ. ना. ५.१३) इत्यादि । वर्धमान एवासारितं प्रविष्टमिति त्रितयं तावदिह लक्ष्यते निर्गीतस्य पूर्वरङ्गे प्रयोगात् । लक्षणं पाणिकादिषूपयोगो वक्ष्यत इति त्रयस्योपादानं कृतम् । यथा च पार्थिवपरमाणुतया घटपटनीरग्रावाण इति तैषामस्य रूपसाङ्कर्यमवान्तरभेदात् त्रिभेदभिन्नता । त्रित्वेऽपि गीतकवर्धमानासारितादीनामिति सर्वं सुस्थम् । किञ्च ञ्यश्रचतुरश्रावेककलाभिन्नौ (अनुगतिकालं) केवलमाह । कणात्मक्रियासारितेष्वासारकृत्यं स्थानेऽन्यस्य सञ्चारणं चतुष्कले चञ्चत्पुटे षोडशकलभूते एककलतासञ्चारणरूपमासारणमात्रमिति सकल– तालानुप्रवेशसहिष्णुचतुष्कलचञ्चत्पुटमात्ररूपत्वप्रधानमेतदिति । तदलं बहुना ।। ५४ ।।

तत्र ताण्डवे (वं) यत्र युज्यते (भ. ना. ५. १३)इति वर्धमानप्रयोगस्य प्राधान्यात् तदुपयोग्यासारितलक्षणं पूर्वमिह वक्तव्यम् । दत्तिलादिभिस्तु गीतकलक्षणानन्तरं तल्लक्षणमुक्तमवयवयव (वावयवि) भेदत्वादिति । तल्लक्षणं प्रतिजानीते । अथासारितकानां त्विति। वर्धमानानां बहिर्भूतानां वेत्यर्थः । प्रकर्षेण व्याससमासादिना तहाह । भेदं चञ्चत्पुटस्येति । इदं ननु वर्धमानादबहिर्भूतस्य कनिष्ठासारित– प्रसृतेरासारितत्रयस्य लक्षणं वर्धमानबहिर्भूतं किं लयान्तरं किं लयान्तरं न सम्भवतीति वक्ष्यामः । तत्र चञ्चत्पुटस्यैव प्राधान्यं पूर्वमुपदिष्टम् । तस्य यो विततभावः स एवासारितत्रिकविततभावश्चतुष्कलत्वेनेति षोडशकले तावदायातः । तासां च सकलस्वरूपसन्निवेशमहत्त्वप्रतिपादनं कर्तव्यं नान्यदिति भेदं चञ्चत्पुटस्येत्यादिना दर्शितम् । तथाहि । चञ्चत्पुटस्य तावद्भेदे विभागश्चतुष्कलरूपः षोडशकलात्मकः । स हि छेदः । एवं तत्र द्विकलविभागान्तरे

Notes

1.N: इत्यस्मिन्नपि नास्ति । इदं श्लोकार्धं डादिषु नास्ति ।

पञ्चपाणिं ततः कुर्याद् द्विरभ्यस्तं प्रयोगवित्1 ।
यथाक्षरं तु सर्वत्र2 यथावद् विनिवेशयेत् ।। ५६ ।।

शम्या तालः(लं)पुनश्चैव शम्यातालमथापि च ।
आद्येऽक्षरे3 सन्निपातं पञ्चपाणेश्च योजयेत् ।। ५७ ।।

Abh

सम्भवाच्छेद्योऽपि । तस्य च षोडशकलस्य षोडशकलागुरुप्रस्तारात्मनाऽऽविष्टमध्रुवं तदित्याह तच्छेदम् । तत्कथमष्टौ । अष्टासु चतसृषु कलासु गुरुभ्यां लघुना पातेन चोपलक्षितं कुर्यात् । चञ्चत्पुटशब्दस्य प्रस्ताराच्चतस्रः कला लभ्यन्ते । आदाविति सामान्योक्तावपि समये पतितेऽपि च गुरुशब्दे (न) मध्यपतितत्वात् सङ्ख्यालाभः । एवं षोडशानां मध्यादन्यासु चतसृषु कलासु गुरुभ्यां विकारः कृतः ।। ५५ ।।

शिष्टासु द्वादशसु तत् करोति । पञ्चपाणिं ततः कुर्याद् द्विरभ्यस्तं प्रयोगवित् । यथाक्षरं त्विति । तद्विशेषे चाचपुटः पाणौ सत्यपि त्र्यश्व (श्र)त्वे चान्यो न य इति तेन हि चाचपुटः स्वीकृतोऽधिकात् । अयमर्थः । यद्यपि षोडशकलासु तावत्तालद्वयात्मा विकारो दर्शनीयः । तत्र चञ्चत्पुटादि……र्मितत्र्यश्रः पञ्चपाणिरेव दर्शनीयः । उक्तचतुष्कलात्मा(त्मिका)सु द्वादशकलासु यथाक्षरपञ्चपाणिगतप्लुतलघु– गुरुद्वयप्लुतात्मा (त्मकः) सन्निवेशः । ननु तेन षण्णां विकारः कुतो भवतीत्याशङ्क्याह । द्विरभ्यस्तमिति । स्थानीयासु गुरुकलासु प्राप्तास्वतिव्याप्त्यादेशत्वेन षष्ठाक्षिप्तोऽयं पञ्चपाणिस्तद् द्विः कुर्यादिति सम्बन्धः । तेन द्विशब्दस्याभ्यस्तशब्दस्य च न पुनरुक्तार्थत्वम् । अभ्यस्तग्रहणेन स्थान्यादेशभावमभिदधन् मूलो(ल)भूतोऽयं चतुष्कलचञ्चत्पुटो मात्रारूप इति दर्शयति । एवं चतुष्कलमात्रस्वभावत्वादस्य प्रकर्याः षोडशकलात्मिकात्वस्य प्लुतस्य त्रिमात्रै (त्रमे)व केवलमेतत्तालयोगीति लभ्यते । एतच्च प्रकरीलक्षण एव व्याख्यास्यामः

कनिष्ठासारितेनास्याः कार्यं संहरणं तथा। (भ. ना. ३१.२८१) इत्यत्र । प्रयोगविदिति। प्रकृतिविकारां (र)भावा(व)ज्ञाने यत्नः कार्यः । लक्षणज्ञानं न ह्यत्रोपयुज्यते दृष्टलक्ष्यं लक्षणसम्पत्त्येति । यथाक्षरग्रहणं शिष्टद्वादशकलोचितस्य द्विकलपञ्चपाणिहस्तस्याविशिष्टगुरुकत्वस्य प्रत्यापत्तये शङ्क्यमानाभिधानस्य निवृत्त्यर्थमेव तावत् । षोडशानां कलानामादेशाद् गुर्वादयः कृताः । तत्र लोके प्रकृतिधर्मके विकारस्य दृष्टौ…..। सर्वत्र यथावद् विनिवेशयेत् । शम्यातालमित्यादि । सर्वत्रग्रहणं स्थानिवद्भावप्राप्तकलानामेतावच्छम्यादिकलादेर्विकल्पसमुच्चयगमनार्थं सर्वेष्वेतेषु षोडशत्वम् । यथावदिति ।

Notes

तालं शम्या(म्यां)च तालं च शम्यातालौ ततः परम् ।
एष एव द्वितीयेऽपि पञ्चपाणौ विधिः स्मृतः ।। ५८ ।।

1प्लुतच्छेदे तु तस्येष्टः सन्निपातः प्रयोक्तृभिः ।
एवं यथाक्षरं ज्ञेयं कनिष्ठासारितं बुधैः ।। ५९ ।।

Abh

पाठक्रमेण चेदमित्थं निवेशयेत् । किं तदित्याह । शम्यातालमित्यादि । पुनश्चैवेति । यस्यापि मुख्ययथाक्षरावस्थायामयं विधिरुक्तस्तथापि वस्तुदशायां न प्राप्नोतीति पुनरस्याभिधानम् । न च क्रमान् नामेय(मानी)त्येवकारः । अथापि चेति । अथ अनन्तरं पञ्चपाणेरादेशत्वेन न कृतस्यस्य यदाऽन्यमक्षरं प्लुतरूपमत्र सन्निपातं योजयेदिति सम्बन्धः ।। ५६–५७ ।।

शिष्टासु पञ्चकलास्वपि तालं शम्यां चेत्यादि । द्वितीयेऽपि पञ्चपाणाविति । विकारारूप इत्यर्थः । एष एवेति । यः प्रथमे वस्तुन्याद्याक्षरे सन्निपातमित्यादेः ।। ५८ ।।

एवं षोडशैव कला आसारितस्य स्वरूपम् । या तु सप्तदशकला सा अधिका वा पातः । तस्मात् तत एव मध्यमज्येष्ठदशायां तासामेव द्विगुणानामिति न त्यागा इति दर्शयति । प्लुतच्छेद इति । छेदे ग्रहणे प्रयोक्तृभिरिति प्रयोगः । अयमितिकर्तव्यतातच्छरीरमाक्रामति । यथा परमेश्वरवन्दनप्रयोगे एवं क्रमः । तच्चरणोपरि निजशिरोनिवेशनम् । न तु तावता तच्छिरस्तदङ्गमे(वे)ति । एवमपोहनमप्यक्रमरूपेणेतिकर्तव्यतारूपं मन्तव्यम् । येनोपक्रमोपसंहारवज्रः (द्यः) षोडशकलाधर्म एवं मन्तव्यः । एतदुपसंहरति । एवं यथाक्षरं ज्ञेयमिति । एवमिति । परिदृश्यमानविकाररूपयोगम् । यथाक्षरं प्रकृतिदशोचितचतुष्कलरूपम् । तत्प्रकारभूतए(मे)तत् कनिष्ठा– सारितम् । अन्यद् द्विकलचतुष्कलरूपसम्भवत्वाद् बालमल्पं च भवति । प्राकृतरूपौचित्यादासारः । तदासर एवमङ्गत्वादितः सरति । ज्ञेयं लक्षणमात्रमथोपयोगि च । यतस्तस्यायं प्रकारः कनिष्ठासारिते

अत्र केचित् शम्यातालं च इत्यादिकं यथाक्षरस्याक्षरैः इत्यन्तं ग्रन्थमुपेक्षन्तेऽस्य दर्शनपरमार्थत (तो) वर्धमानेऽन्तर्भावेनोत्तानतया पौनरुकत्यं मन्यमानाः । तत्र प्रथमो ग्रन्थः शम्यातालमित्यादिरपुनरुक्त एवेति व्याख्यातम् । ग्रन्थान्तरं तु योज्यते ।

Notes

इह तावत् परमार्थतस्त्रीण्येवासारितानि भवन्ति । तथाप्येककलद्विकलचतुष्कलप्रयोगोपपत्तिर्नायाता । अत एवान्यतालमध्येऽनुप्रवेशान्तं तत् सम्भवतीत्येव तावत् त्रिधैवासारितक्रिया । तथा च पूर्वरङ्गे बहिर्गीतलक्षणे स्वकण्ठेन त्रयाणामेव नामग्रहणम् । लयान्तरं तु रागप्रयोगवैचित्र्यमात्रसम्भवम् । तच्च प्रयोगवैचिञ्यं तात्कालिकप्रयोगान्तरापेक्षया समाश्रयितुं युक्तम् । अन्यथा द्विगुणत्वमक्षरलयादीनामवश्यं ध्रुवापेक्षया चित्र इत्यादिना लघ्वपेक्षया गुरोरित्यादिना च न्यायेन सर्वमस्तीति सर्व(र्वं)लयान्तरं भवेत् । तात्कलिकत्वप्रयोगान्तरं यदपेक्षणीयं तद्वर्धमानान्तर्भाव एव भवतीति तदपेक्षया यदि नाम तथाप्यप्रत्ययेन वा मनसश्च नान्योन्यविक्रियमाणेन वा व्यवहारयोगेन बहिर्भावेऽपि लयान्तरव्यवहारः । अर्थतस्तु वर्धमानमुख्यस्तद्व्यवहारो युक्तः । अत एव वर्धमानमासारितानां कारणमिति प्रतीयते । तथापि नवकलाविशालाचित्रगतार्थकलाऽन्त्यवर्जं ध्रुवकप्रयोगवैचित्र्यं यदि नान्तर्भ(रभ)विष्यत् ततः कनिष्ठासारितं स्यात् । तदभावेऽष्टकलो द्वितीयाप्रथमाकण्डिकासाहित्येन । अत्रापि त्रिखण्डत्वमेव गीततालयोः । द्वादशकला आद्यखण्डे । द्वितीये षट्कलाः । तृतीये चतस्रः कलाः । आसां तालविधिमाह । तालस्त्रिकलश्चेति (भ. ना. २९.९१) । आदौ तृतीयस्यां कलायां तालम् । एकस्यां शम्याम् । द्वितीयस्यां तालम् । द्वितीयस्यां शम्याम् । द्वितीयस्यां तालम् । अन्ये तु तालोऽपि ह्येककात्मकः स्यादिति पठन्ति । ते शम्यानन्तरमेव तालमाहुः । तृतीयस्यां तन्निपातम् । शेषं तु विप्रा इति परिपाट्या द्विकलपादभागानुसारेण युता । पितापुत्रकश्च षट्पूर्व (भ. ना. २९.९२) इति द्विकल एव पञ्चपाणिः । चञ्चत्पुटस्तथा द्विकल एव । तेन नीप्रताप्रशतादसतानिप्रतिसप्रसतिस इति केचिद्व्याचक्षते । अत्र क्रमादयः शब्दाः मा(सा)रणार्थे वर्तयितव्यास्तावन्त्यः यो(तेष्वन्तिमो)ऽस्ति तत्र मध्यं च विकलोचितेन पूर्यते । ननु चाचपुटच(श्च)तुष्कलोचितेनेति प्रामाणाभावः । षट्पितापुत्रकोऽत्र द्विक (भ. ना. २९.९२) इति प्रकरणं प्रमाणमिति चेदन्योन्याश्रयः । द्विकलो द्विः पञ्चपाणिरितित्रिकलश्च सन्निपात (भ. ना. ३१. १६६) इत्यतोऽनन्तरं भूय एवमिति बाधकत्वे त्रिकलश्च सन्निपात (भ. ना. ३१. १६६) इत्यतोऽनन्तरं पितापुत्रकं च(कश्च)षट्पूर्व (भ. ना. २९.९२) इति च न प्रयोजनम् । तथा चासारितेषु चञ्चत्पुटपरिवर्तः शम्यादी द्वे (द्वौ) च पञ्चपाणियुताविति (भ. ना. ३१. ९५) वक्ष्यति । द्वात्रिंशति(त्) कलास्तद्भारतीये यद (दा)पदगणविभागाः । तस्मात् तालस्त्रिकण () (भ. ना. २९. ९१) इत्यादौ त्रिशम्योपरिपाणाविति (भ. ना. २९–८७) निरन्तराये च कलाद्वादशके पाताः । तानांताशं ताताशंशं ताताशंशम् ।

यथाक्षरस्याक्षरैश्च तालपातान्निबोधत ।
1चत्कारे तु भवेच्छम्या द्वितीये2 ताल एव च ।। ६० ।।

Abh

तालो द्विकलश्चेदिति (श्चेति)तु (भ. ना. २९.९१) पाठे संनि (पात)द्वयम् । अत्र त्वन्ये तु तमेकेनैव सन्निपातेन भार्य (व्य) मिति । यदि सा विशालपरिवर्तक्रमेण न स्यात् कुतो लयान्तरम् । एवं द्वितीयाचतुर्थीभ्यां साहित्यात् तत्पूर्वकण्डिकाप्रयोगे मध्यमषष्ठयोरुद्भव इति । तथाऽऽसारितानि यदि भवेयुस्तस्य परिणामापेक्षया कण्डिकाविभागस्य तदभावेऽष्टकलः । द्वितीया च(श्च)कथं दश परिवर्ताः । एकस्मिन् मूलवृद्धिकृतः कलापरिवर्तकलावृद्धिभ्यां साहित्यात् कृतं वर्धमानमित्यनयोर्बीजाङ्कुरवदन्योन्यकार्यकारणतासातिशयस्य वर्धमानस्य……….अनयोर्वर्धते । इह तदेवं स्थिते वर्धमानान्तर्गते आसारितविधावुत्पत्तिसिद्धये तावद्वर्ज्यते ।

प्रथमां कण्डिकां कृत्वा बालतालप्रयोजनम् (जिताम्) ।
अन्तिमार्धकलाहीनं (कुर्यादेवं)कनिष्ठिकम् ।।

द्वितीयां कण्डिकां कृत्वा(प्रथमा सकला यदि)।
योज्यते पूर्वतालेन तदा(तत्)स्याल्लयान्तरम् ।

(भ. ना. ३१.८१.८२) इत्यादितश्चैतावतैव कनिष्ठलयान्तरितरूपसिद्धिः । बालस्य हि यस्तालः शम्यादिचञ्चत्पुट इत्यादि । स एवाष्टासु चित्रगतासु । ध्रुवकाद्या षोडशीकृताश्च तेन तुल्येन गुरुरूपेण युक्तासु न पुनर्गुरुलघुप्लुतकोट (द्धट्ट) ने ।। ५९ ।।

नियममाह ।

यथाक्षरस्याक्षरैश्च तालपातान् निबोधत ।

इति । च एवकारार्थे । तदयमर्थः । यथाक्षरस्य कनिष्ठलयान्तरितात्मन आसारितस्यैव बालतालप्रयोजितामित्यादौ (भ. ना. ३१. ८१) तान्()शब्दवाच्या पाता वक्ष्यन्ते तानक्षरैश्च चञ्चुत्पटप्रभृत्यक्षरगतगुरुलघुप्लुतैरेव संयुक्तान् निबोधत । न तु केवलं गुरुरूपकलामात्रेण प्रदर्शयितव्याः । अक्षरैश्च संयुक्तास्तेऽपि च प्रयोज्या इत्युक्ते चञ्चत्पुटचाचपुटषट्पितापुत्रकोद्धट्टम्पक्केष्टाक्षराणां च बहूनामसम्भव इति न निश्चयः कश्चित् प्रकरणात् चञ्चत्पुटषट्पितापुत्रकयोर्लाभेऽपि……न्याय्यः ।

ननु पादस्याप्रामाण्यादिरेव प्रापकत्वेन प्रामाण्यादिति यदि क्रमव्यत्ययो भवतीत्याशङ्क्य वचनेनैव

Notes

पुकारे तु पुनः 1 शम्या र(ट) कारे ताल एव च ।
एवं चञ्चत्पुटो ज्ञेयः पञ्चपाणिरतः परम् ।। ६१ ।।

षट्कारे सन्निपातः स्यात् पिकारे ताल एव च ।
ताकारे तु भवेच्छम्या पुकारे ताल एव च ।। ६२ ।।

त्रकारे तु भवेच्छम्या ककारे ताल एव च ।
द्वितीयोऽप्येवमेव स्यात् सन्निपातस्ततः परम् ।। ६३ ।।

गुर्वक्षराणां विश्लेषादेवमेव2 तु2a मध्यमम् ।
विश्लेषितानामेषां3 तु द्विर्भावे या कला भवेत् ।
पातान्ते सा प्रयोक्तव्या यथावदनुपूर्वशः ।। ६४ ।।

Abh

क्रममाह । चका(त्का)रे तु भवेच्छम्येत्यादिना द्वितीयोऽप्येवमेव स्यादित्यन्तेन । द्वितीय इत्यवशिष्टे कलाषट्क इत्यर्थः ।

ननु सप्तावशिष्यन्त इत्याशङ्क्याह । सन्निपातस्ततः परमिति । एवमासारितस्यापि लक्षण (णं)कृतं भवतीति केवलस्वकण्ठेनास्याभिधानं वर्धमानान्तर्भाव एव । तदुभयस्य स्फुटत्वं यदुक्तन्यायादित्यलं बहुना ।

तुरेवकारार्थे । चका(त्का) एवेयमनुक्रान्ता शम्या गुरावेवत्यर्थः । एवं तावद् द्वितीये गुरावेव शम्या । पुनः प्रकारे । पुनः शब्देन पूर्वतो विशेषो द्योतितः । तालस्त(ष्ट)कार एव प्लुते । एवमेवेत्यन्योन्यं योज्यम् । अन्ये तु

चका(त्का)रे तु भवेच्छम्या द्वितीये ताल एव च ।

इति पठित्वा चञ्चत्पुटसम्बन्धिनश्चतुरः पातान् पठित्वा एवं चाचपुटे ज्ञेय इति पठन्ति । पञ्चपाणेस्तु पुटशब्दानन्तरं चतुष्पातानाहुः । ते विशालाया आद्यत्वं मध्यमानामेव पठन्ति । लयान्तरमेव केवलमभिप्रेत्य तत्र द्वितीयस्यां कण्डिकायामष्टकलायां च चञ्चत्पुटषट्पितापुत्रक इत्यक्षरयोजनया समाप्तया प्रथमं विशालतो गृह्यते । तत्र च (चञ्चत्) इत्याद्यक्षरद्वयम् । तेन चञ्चत्पुटशेषभूतमेव कृतमिति पूर्वकस्तु पाठः । कनिष्ठलयान्तरोमयानुग्राहिप्रयोगमेवोचितं चेत्यलं बहुना ।। ६०-६३ ।।

एवं कनिष्ठे लक्षिते मध्यमस्य लक्षणमाह ।

गुर्वक्षराणां विश्लेषादेवमेव तु मध्यमम् ।

Notes

1द्विर्भावान् मध्यमस्यैव ज्येष्ठमित्यभिधीयते2 ।
3मध्यमस्य विधानेन न्यसेच्च द्विगुणाः कलाः4 ।। ६५ ।।

Abh

इति । आदौ तावद् विश्लेषः कार्यः । स च योग्यत्वाद् गुरुप्लुतगत एव । तत्र गुरुणो द्विधा विश्लेषणम् । प्लुतस्य त्रिधा । तत्र विश्लेषणं (णे) कृते द्विर्भावाद् द्विकलोचितेन पादभागविभाग (उक्त)दिशा कार्यः । कृते च पादभागविभागे द्विर्भावे द्विकले चोचिताऽनुपूर्वशः परिपाट्याऽऽयाता निष्कामकला प्रवेशकला सा (चादौ) पादस्य यथाक्षरतालश(स)म इति तस्यान्ते प्रयोक्तव्या । यथावदनुपूर्वश इति । तत्रेदं मध्यमं गुरूणां सन्बन्धि । विश्लेषकलाः सर्वा अविश्लिष्टगुरुरूपा इति यावत् । अन्ये सन्निपातश्चानन्तर्भावाद् यथास्थित एव । एवं च श्लोकयोजना । विशेषाद्धेतोर्मध्यमन्तं च गुर्वक्षराणां सम्बन्धि ।। एवमेवेति विकारे प्रकृतिरूपप्रत्यभिज्ञानात् तत्र च तालविधिः । द्विर्भावे द्विकलविभागे भागरूपे कृते द्विर्भावे वा कलादेः शब्दरूपा सा पातस्यान्ते प्रयोज्ये ते(ति)। तदयं प्रस्तारः । शनितानिशतासनिप्रनिताशनितानिशातप्रनिसंनि प्रतासंनितासताप्रनितंप्रतासम् । सन्निपातोऽन्त इति वचनाच्च । सामान्येन प्रनि इत्यादि प्रस्तीर्य विशेषतयान्त आदौ प्रयोज्य इत्येतदाह यथावदिति । ज्येष्ठे च प्रआनिवि इति पादभागे प्रस्तारः ।…..। ततो विशेषपातः । गुरुणि च पादभागो लघुन्यथ पादभागः । प्लुत सार्ध इते स्थिते पादे चेवा(चैवे)तस्ततः कला एवं च क्रममु (म उ)त्तरत्रानुवादे स्पष्ट इति ।

ये पूर्वमङ्ग(ङ्गु)लिकृताः प्रवेशनिष्क्रामसंज्ञया गदिताः ।

(भ. ना. ३१. १६८) इति । व्याख्यास्यते चैतदग्र एव ।। ६४ ।।

अथ ज्येष्ठं लक्षयति । द्विर्भावान् मध्यमस्येति । एवं तेषामित्यभिधीयते । गुर्वक्षराणाम (मि)– तिवर्तते । मध्यलयानि गुरूणि तेषां द्विर्भावात् ज्येष्ठमभिधीयते इति । अतो हेतोश्चतुष्कलत्वादिति यावत् । अस्य तालविधिमाह ।

मध्यमस्य विधानेन न्यसेच्च द्विगुणाः कलाः ।

द्विकलापेक्षया द्विकलश्चतुष्कलो विधिः । तद्विषयाश्च कला अपि द्विगुण (णा)इत्युक्ताः । ताश्चावापनिष्क्रामविक्षेपप्रवेशात्मिका उत्सर्गतः । ताश्च मध्यमस्य । यद्विधानक्रमः पातास्ते सम्प्रयोक्तव्ये (व्या इ)ति तेन क्रमेण न्यसेत् । तदयं प्रस्तारः ।…………………।। ६५ ।।

Notes

1सन्निपातैर्निपातैश्च तेषां वस्तु प्रकीर्तितम् ।
समासलक्षणं चैव गदतो मे निबोधत ।। ६६ ।।

अष्टौ तालास्तु षट् शम्या(:) सन्निपाता 1aस्त्रयस्तथा ।
2आसादि(रि)ते विधिर्ह्येष एकैकं परिकीर्तितम् ।। ६७ ।।

चत्वारस्तु गुणा युग्मे त्र्यश्रे षट् परिकीर्तिताः ।
द्वितीये पञ्चपाणौ तु सार्धाः षट् परिकीर्तिताः ।
अन्ते च सन्निपातः स्यात् सर्वेषामप्ययं विधिः ।। ६८ ।।

Abh

अत्र विभक्ताभङ्गे सन्निपातस्य मुक्तकमार्गरूपत्वे चञ्चत्पुटे चतुर्भिः पञ्चपाणिवन्न षड्भिः पातैरिति (त्यासारे) विंशतिः पञ्चपाणौ शम्ये (म्यै)वेति पुनः प्रथमशम्यायामुक्तकल्पनां व्रजन्त्यां पञ्चपाण्यां (णौ) च सन्निपातयोश्च पूर्वपूर्वं तालविशेषत्वं व्रजतोर्मुक्तके च पञ्चपाणिशेषभूते सा प्रवेशकला षड्भवा तत्त्वात् पञ्चपाणेरिति वक्ष्यते । ननु कनिष्ठ(ष्ठं) मध्यमं ज्येष्ठमिति च या सप्तांशी निरूपिता निःशब्दा कृताऽन्या कनिष्ठकेवला मध्यमज्येष्ठयोर्निपातसहिता । वस्त्विति विशेषरूपलक्षणमित्यर्थः । सप्तांशेन सामान्येन यं(यल्)लक्षणं तन् निबोधत ।। ६६ ।।

अष्टौ तालास्तु यच्छ(षट् श)म्याः सन्निपातास्त्रय इति । एवं त्रैस्वर्यरूपं तद्रूपमिति यावत् । संख्यावत्त्वाद् बलवत्त्वमिति न्यायादेष क्रम आश्रितः । नात्र चञ्चत्पुटपञ्चपणिबुद्धिः कर्तव्या । अपि तु वर्तनविधिः कार्यो यथा । अष्टौ ताला इत्यादिना क्रमेणासारितरूपसिद्धिरित्युक्तमप्यन्येन ।। ६७ ।।

केचि(कैश्चि)दत्र(त्रा)स्थितं (म् ।) चत्वारस्तु गुणा युग्म मि (इ)ति (भ. ना. ३१. १०६)श्लोके आसारि(त)पदविधिः स्पष्टस्मरणार्थं विधीयते । तत्तु स्वस्थान एव व्याख्यास्यामः ।

Notes

आसारितानां संयोगो वर्धमानकमुच्यते ।
उत्पत्तिं लक्षणं चास्य गदतो मे निबोधत ।। ६९ ।।

Abh

अन्ते च सन्निपातः स्यात् सर्वेषामप्ययं विधिः ।

इति केचिदर्धश्लोकमप्यत्र सन्निपातस्यौत्सर्गिकमन्त्यत्वं दर्शयितुं पठन्ति ।। ६७ ।।

ननु नृत्तोपयोगे प्राधान्याद् यदुद्देशेन लक्षणं तद् वर्धमानस्यैव प्रथमलक्षणं वाच्यम् । अथासारितानां समूहात्मकं तदिति । एषामादौ वर्धमानस्य कथं पृथगुपादानम् । पूर्वमकारिते आसारिते वर्धमानहितैव च चित्रतेत्याशङ्क्याह । आसारितानां संयोगो वर्धमानकमिति । इह न प्रत्येकमासारिते वर्धमानरूपता । न समुदितेषु । तथाहि । त्रीण्यासारितानि सप्तदश त्रयस्त्रिंशत् पञ्चषष्टिरिति पञ्चदशोत्तरं शतम् । कलानां वर्धमानं तु दशपरिवर्तक्रमेण चतुर्विशत्युत्तरं शतम् । नवाष्टौ ततो नवाष्टौ नव षोडश द्वात्रिंशत् षोडशाष्टौ नवेति । यथा (दा)परिवर्तविहीनकण्डिकामात्रगणनं तदा यद्यपि पञ्चषष्टिकला त्वाद्येष्वा(आद्यास्वा)सारितरूपता सम्भाव्यते तथापि नवाष्टौ षोडश द्वात्रिंशदित्येवम्भूतस्य विच्छेदस्यात्राभावात् त एव रूपतायाः पाताः केवलज्येष्ठा- सारिते । अभग्नपदकल्प्यमानरूपविशेषे वैचित्र्याश्रयभावन्यायेन खण्डिकाश्रयत्वाद् वर्धमानाश्रयत्वं स्यात् । नन्वेवमासारितानां किमादौ लक्षणेनेत्याशङ्क्याह । सम्यग् विचित्रेण प्रयोगेणायोगः परस्परङ्गतिः । तत्प्रमाणं वर्धमानम् । तथाहि कनिष्ठे गीयमाने कण्डिकाद्वयं संयुक्तं भाति । तस्मिन्नेव कला……नान्या खण्डिका । मध्यमे च त्रयम् । ज्येष्ठे चतुष्टयम् । एवं परिवर्तदशखण्डिकासम्मितिर्याऽऽसारितेषु भाति गगनतलभ्राम्यदभ्र(भ्रां)शकसंस्त्यानसिंहव्याघ्रादिवैचित्र्यन्यायेन ततोऽद्भुतत्त्वादासारितानामादौ लक्षणं कृतम् । वर्धमानस्य च पृथगेव वक्तव्यम् । तत्र नृत्ताश्रयत्वेनास्य भगवदुपज्ञमेव प्रवृत्तिरिति पूर्वमुत्पत्तिर्वाच्येति दर्शयति । उत्पत्तिं लक्षणं चास्येति । तत्रोत्पत्तिस्ताव (दा)दौ नवमिति ताण्डव (प्रयोगो)……ऽस्माभिस्ताण्डवाध्याये (भ.ना.अ.४)दर्शित इत्यर्थः ।। ६९ ।।

निहत्य दानवं घोरं रुद्रेणामिततेजसा ।
नृत्तमुत्पादितं पूर्वं चित्रं ताण्डवसंश्रितम्1 ।। ७० ।।

अथ भूतगणैः सर्वैस्तस्मिन् काले महात्मभिः ।
वर्धमानमिदं दृष्टं पिण्डीबन्धैर्विभूषितम् ।। ७१ ।।

परितुष्टश्च तद् दृष्ट्वा सपत्नीको वृषध्वजः ।
प्रददौ च वरं श्रेष्ठं सह देव्या2 गणाधिपैः ।। ७२ ।।

लक्ष्यलक्षणसम्पत्त्या3 मार्गयुक्तिविधिक्रमैः ।
वर्धमानप्रयोक्तारो यास्यन्ति शिवगोचरम् ।। ७३ ।।

Abh

ननु नृत्तं यद्युपपादितं वर्धमानस्य किं तत इत्याशङ्क्याह । अथ भूतचरै (गणै) रिति । अनुचरगणैरित्यर्थः । तस्मिन् काल इति । नृत्यप्रयोगकाले । इदमित्युक्तपूर्वासारितसङ्गतिप्रयोजनात्मकं दृष्टमालोचितम् । आलोचने हेतुः पिण्डीलब्धै (बन्धै)रिति । तदुत्थाननिदानभूत- करणाङ्गहारप्रयोगसहे(हिते)ष्विति यावत् । एतदुक्तं भवति । भगवा(न् वि)द्यया विचित्रं नृत्तमकार्षीत् । न चानुचरवर्गसमुचितं विचित्रं गीतमुत्प्रेक्षाञ्चक्रे । विचित्रत्वादेव परिवर्तादिवैचित्र्यमुक्तम् । तत्र वैचित्र्योत्प्रेक्षणेऽङ्गपरिवर्तादिवैचित्र्यमेव पर्यालोच्यमानं हेतुरिति भगवता वस्तुतो वर्धमानमुत्पादितम् । न तु ……..।। ७०–७१ ।।

किमिदानीं तदत्र प्रयोगेण । यदुक्तं

वर्धमानमथापीह ताण्डवं यत्र युज्यते । (भ. ना. ५–१३) इत्याशङ्क्याह । परितुष्टश्च तं (तद्)– दृष्ट्वेति । सपत्नीकः सगणश्च परितुष्टः सन् तादृशमेव वरं ददौ ।। ७२ ।।

कथमित्याह । लक्ष्यलक्षणसम्पत्त्येतिमार्गाश्चित्रादयः । युक्तिर्योजनम् । परिवर्तामिका (त्मको) विधिः । यथाक्षरद्विसङ्ख्यातत्रिसङ्ख्यातरूपक्रमपरिवर्तनेष्वासारितोत्पत्तिलक्षणाः(णः) । एतैर्लक्षणस्य च सम्पदा घटितैरुपलक्षणं वर्धमानं ये प्रयुञ्जते ते शिवगोचरं दृष्टादृष्टपरःश्रेयःप्राप्तिलक्षणं यास्यन्ति । भविष्यप्रयोगेण विविधफलानां धियः फलमुन्नतत्वकारणमित्याह । बहुवचनप्रयोगेण गातृवादकनर्तकानां तुल्यफलत्वमाह

Notes

एवमेतन् मया दृष्टं पिण्डीबन्धनिमित्ततः ।
अधुना तु प्रवक्ष्यामि लक्षणं शृणुत द्विजाः ।। ७४ ।।

वृत्तिदक्षिणचित्रेषु मार्गेषु विनियोजितम् ।
द्विविधं वर्धमानं स्यात् स्वप्रमाणविनिर्मितम् ।। ७५ ।।

अतालं च सतालं च वर्धमानं द्विधा1 स्मृतम् ।
चतस्रः कण्डिकाश्चैवं तावन्त्यासारितानि तु ।। ७६ ।।

Abh

।। ७३ ।।

एवमेतदिति । यतो भगवद्वरदानादेव(वं)भूतं नृत्तमतो हेतोः पिण्डीबन्धस्याङ्गहारप्रयोगवैचित्र्यात्मनस्ताण्डवस्य निमित्तेन तत्पूर्वेण रूपसमुत्पत्तये मयेति भरतमुनिनैतन्नृत्तं दृष्टम् । पूर्वरङ्गे मयाऽऽलोचितमित्येवमुत्पत्तिमभिधाय लक्षणस्यावकाशमाह । अधुना तु प्रवक्ष्यामि लक्षण- मिति । जाते पूर्वरङ्गे योगे युक्तमस्य लक्षणमित्यधुना(नेत्य)स्याभिप्रायः । तुर्भिन्नक्रमः । यद्यपि सम्पत्तिरप्युपयोगिनो(न्यु)क्ता तथापि साध्याकारेण प्रतिनियोजितम् ।। ७४ ।।

द्विविधं वर्धमानं स्यात् स्वप्रमाणविनिर्मितम् ।

मार्गानुभवसूचने आसारितानामाधाराधेयभावस्तावदस्ति । सा (स)च न स्वतन्त्राणाम् । अपि तु वर्धमानरूपं गतानाम् । तथाहि । वर्धमानरूपादुन्मीलिते पञ्चषष्टिकले ज्येष्ठासारितान्तरमासारिते आधारभूते कनिष्ठाधि(ष्ठि)ताऽऽधेयताऽवतिष्ठते ।। ७५ ।।

नन्वेवमासारितानां द्वैविध्यमाधाराधेयभावेन वर्धमानमित्याशङ्क्याह । यस्मिन् वर्धमानरूपत्वे यत्प्रमाणप्रक्षेपोऽन्तर्भावः कण्डिकाङ्गकलाशम्याविभागश्च तेन यतो विनिर्मितमिदं द्वैविध्यं ततो वर्धमानस्यैव चतूरूपम् । न हि वर्धमानरूपत्वानासादने पञ्चषष्टिकले ज्येष्ठे आसारितान्तरमाधीयते । तस्य विशिष्टतालयुक्तत्वादन्यरूपासहिष्णुत्वात् ।

ननु वर्धमानतायामपि कथं तस्यैवाधारत्वम् । आधेयतश्चोपाधिकृताद्भेदादित्याह । अतालम् । चो हेतौ । चेत्यादि । यतस्तस्य वर्धमानस्य यतः प्रमाणं कालविभागस्तदतालम् । केवलसङ्ख्याभेदपरिच्छिन्नस्वशम्यादिविहितकण्डिकाचतुष्कमात्रं रूपं सतालम् । शम्या तालं पुनः शम्या (भ. ना. ३१.१४४) इत्यादि वक्ष्यमाणस्वरतालयुक्तं श्रुतम् । तस्मादाधाराधेयभावोपपत्तिः । एतदुक्तं भवति । कण्डि चले (कडि भेदने पा. धातुपाठः १५८३) कण्डिका । चतुष्कलमात्रे पञ्चषष्टिकलेऽनुल्लिखित-

Notes

ध्रुवकेण कलाभिश्र1 कण्डिका देवकल्पिताः ।
वर्धमानशरीरे तु क्रियते मार्गयोजना ।। ७७ ।।

आद्या नवकला तु स्यादष्टाभिस्तत्परा स्मृता ।
दश षट् च तथा चैव तृतीया कण्डिकेष्यते ।। ७८ ।।

चतुर्थी कण्डिका चैव द्वात्रिंशत्तु कला(:)2 स्मृताः ।
कलाभिरेवं निर्दिष्टाः कण्डिका वर्धमानके ।
केवलं मार्गसम्भूतास्तालयोगाङ्गवर्जिता (:) ।। ७९ ।।

Abh

स्वकतालवैचित्र्ये अभग्नपदभित्तिप्रख्ये चत्वार्यासारितानि पूर्वोक्तस्वकतालयोगेन प्रयोगे योग्यानि । तेन कण्डिकामात्रत्वाधारताऽऽसारिततालप्रयोगसहितयाऽवधे(ताऽऽधे)यता । अन्ये तूपोहनाङ्गस्याथ तत्र मुखतालमित्या(त्य)तालत्वमेकत्वात् प्रतिमुखादेकसतालत्वादङ्गवैचित्र्याद् द्विविधमित्याहुः । एतत्तु न युक्तमित्यत्रैव वक्ष्यामः । तत्र यदतालरूपं तालं दर्शयति । चतस्रः कण्डिकाश्चैवमिति । कण्डानां नियतविभागात्मिका कण्डिका । अन्ये तु काण्डमवान्तरप्रकरणमिति मन्यमाना दीर्घं पठन्ति काण्डिका इति । कण्डिकैव केवला न तु तद्गतशम्यादि । चतस्र एव नाडिकाः । अतो हेतोस्तावन्त्येव चत्वार्यासारितानि तत उपपन्नाधाराधेयतेति यावत् । तुर्विशेषं द्योतयति । वर्धमानान्तर्गतानि यदि तानि तदा चत्वार्यन्तर्बहिभूर्तानि पुनस्त्रीण्येव । एतच्च प्राग् दर्शितम् ।। ७६ ।।

न च कण्डिकानां स्वकतालाभावे स्वरूप एव लोप एवेत्याशङ्क्याह । ध्रुवकेण कलाभिश्चेति । देवेन कल्पिता भगवता योजिताः । कण्डिका इति तावन्मात्रमासां रूपम् । ततो ध्रुवपातयोगः शम्यादिकलाविशेषयोगो वा ।

एतदुक्तं भवति । नियतकालकला कला चास्य………कण्डिका धर्मरूपा धर्मस्थानीयं(यः)तत्र पातयोग इति ।। ७७ ।।

ननु शम्याद्यभावे रूपसंयोजनबलेनोत्पत्तिः क्रियते । किं तत् कण्डिकात्मकं वर्धमानशरीरं यत्रैवं मार्गयोजनेत्याह । आद्या नवकला तु स्यादिति । दशपरिवर्तदशाहा (द्या)सारितरूपतायां यद्यप्यनियतमादित्वमासां तथापि कण्डिकारूपे प्रयोगेऽयमेव क्रम इति दर्शयितुमाद्येति तत्परेति चोक्तम् । तृतीया तथैवेति । तत्परेत्यर्थः ।। ७८ ।।

चतुर्थी कण्डिका चेति । तत्परेति यावत् । एवकारः क्रमं नियमयति । एवं नवाष्टौ षोडश द्वात्रिंशदिति चतसृणां स्वरूपम् । एतच्चासारिते । आसां स्वरूपमुपसंहरति । कलाभिरेवमिति । एवमित्युक्तसंख्याभिः

Notes

एकद्वित्रिचतुर्योगात्ताभिरासारितानि तु ।
वर्धमाने प्रसूयन्ते मार्गतालाङ्गयोगतः ।। ८० ।।

प्रथमां कण्डिकां 1कृत्वा बालतालप्रयोजिताम् ।
अन्तिमार्धकलाहीनं कुर्यादेवं कनिष्ठकम् ।। ८१ ।।

Abh

कलाभिर्लक्षिता मार्गेषु चित्रादिषु सम्भूतानां सम्भाव्यमानस्वभावं केवलं कृत्वा निर्दिष्टाः शब्देन स्वेन रूपेणोक्ता(:)। अत एव तालयोगेन स्वैरङ्गैश्चासारितमुखप्रतिमुखदेहसंहरणविभागयोगैरासारित- तालैर्वर्जितास्तत एतदवस्थाया आधाररूपता उक्ता इति भावः ।। ७९ ।।

नन्वाधेयत्वं तर्हि कथमित्याह ।

एकद्वित्रिचतुर्योगात्ताभिरासारितानि तु ।
वर्धमाने प्रसूयन्ते मार्गतालाङ्गयोगतः ।।

इति । ताभिः कण्डिकाभिर्हेतुभूताभिरासारितानि जायन्ते । कथम् । योगात् । योगो मार्गतालाङ्गतः । ततो हेतोः ।

एतदुक्तं भवति । एकयोगा त्रिमात्राश्रिता कनिष्ठासारितोत्के (तके)ते (ता)लेऽङ्गेषु च योजितेषु कनिष्ठासारितं प्रसूयत एव । द्वियोगान्तेष्वेव तालेषु लयान्तरम् । क्रिया(त्रि)योगात्तु वार्तिकाश्रितमध्यासारितोचिततालयोगयोजने मध्यः । चतुर्योगाद् दक्षिणता स्वोचिता । तालाङ्गनिवेशने ज्येष्ठम् । बहुस्वभावेत्यनया त्वव्यवस्थेत्याह । वर्धमान इति । प्रयोगापेक्षा गगनतलविचरज्जल- दशकलघटनसिंहादिबुद्धिवदद्भुतफुल्लकल्पां (ल्पा)तदानीन्तना चेयमासारितबुद्धिरिति चेत् (च) प्रसूयत(न्त)इत्यनेनोक्तम् । प्रसूय(न्ते)प्रयोगक्रमे सत्येवं ज्ञायते(न्ते)इति यावत् । अत एव लक्ष्यमेव प्रधानं न तु लक्षणम् । नेदं सुष्ठुतमं बुद्धावारोहतीति लक्ष्यसम्पत्तिरुक्तपूर्वाऽपि पुनरत्र सूचिता ।। ८० ।।

नन्वेकयोगान्न कस्यचिदासारितसंवादं पश्यामः । एकत्र च कीदृशो योग इत्याशङ्क्याह ।

प्रथमां कण्डिकां कृत्वा बालतालप्रयोजित(ता)म् ।
अन्तिमार्धकलाहीनं कुर्यादेवं कनिष्ठकम् ।।

इति । नात्र द्वित्रि (द्विस्त्रिः) षट्कृत्वा कुर्यादिति वचनार्थितप्रयोग (:)। किन्त्वयमर्थचि(श्चि)त्रमार्गेण ।

Notes

द्वितीयां कण्डिकां कृत्वा प्रथमा सकला यदि ।
योज्यते पूर्वतालेन तदा तत् स्याल्लयान्तरम् ।। ८२ ।।

Abh

नत्वहि(त्वादिमा) भिरकला हि कार्या । प्रथमा(मां)()ण्डिकानां(कां)कृत्वेति बुद्धौ गृहीत्वाऽऽश्रयत्वेनालम्ब्य । कस्येत्याह । बालेति । कनिष्ठासारिते यस्ताल उक्तश्चञ्चत्पुट (:) पञ्चपाणिर्वेत्येवंरूपां चे (चै)वंरूपः । ध्रुवकानि मार्गचतुष्कदशावा(बाला)द्यान्यवस्थाभिर्व्यव(प)देशः । ततश्च बाले ताले ध्रुवकतालः । एवं चित्रमार्गगा न च कला प्रतिकलद्रुतमात्रेण द्वाभ्यां पाताभ्यां योज्यं शब्दकालत्वं यथा हि बालदशायां कनिष्ठकमभूत् । तद्वद् वर्धमानान्तर्भावे । एवमिति । इमा ध्रुवकमार्गाश्रयलक्षणावस्थां (स्था) प्रा (ह्ना)सं कुर्यात् । तत्रान्तिमां कलां चित्रमेव केचिदाहुः । अन्ये मार्गभेदमसहमाना न शम्या अधे(र्धे)सन्निपातोऽर्था(र्धा)न्तरे च पातस्यानुक्तत्वादर्थः(र्धः)स्यादित्याह(हुः)। एवात (अत एव)एवमित(एव)मित्याचक्षते । अत एव तत् कनिष्ठासारित(ते)यच्चित्रमभूत् तदस्यां दशायामर्थ(र्ध)भूताभिः कलाभिर्हीनं न भवति । विचित्रस्य ध्रुवकवैगुण्यात् तथा विकलानां मद्य(ध्य)माद्यभागत्वे शम्यादिरूपेण स्थितमेवैतत् । पृष्ठरूपं मन्त्रिमत्रे (पमन्तिममे)व कलानामर्थं (र्धं) हीयते । ततोऽप्याह । अन्तिमार्थ (र्ध)कलाहीन(म्) इति । आदिमाभिरर्थ(र्ध)कलाभिः कलानामर्थ (र्ध)हीनमित्यर्थः । एवं च बालशब्द(:)कनिष्ठ एव व्याख्येयो न ध्रुवके । तेन व्यस्तस्य द्रुत एव लब्धत्वात् । एवमेकस्यामपि कण्डिकायां योजनात्मकयोग उपपादितः । तथा हि । चित्रे तावद् हीयमाने एकस्मिन् पादे पदं तदेवात्र ध्रुवकाश्रितो(ते)पातद्वये इत्येकयोगात् कनिष्ठप्रसवो व्याख्यातः ।। ८१ ।।

अतियोगः कीदृक् ततश्च कस्योत्पत्तिं(त्तिः)कथं चेत्याशङ्क्याह ।

द्वितीयां ख(क)ण्डिकां कृत्वा प्रथमा सकला यदि ।
योज्यते पूर्वतालेन तदा तत् स्याल्लयान्तरम् ।।

बाल इति वर्तते । बालश्च कनिष्ठ एवेत्युक्तम् । वक्ष्यति च बालं नवकलं ए(ये)षाम्(भ. ना. ३१. ९९) इत्यत्र । एवं कनिष्ठस्य यस्ताल उक्तश्चचञ्चत्पुटपञ्चपाणिद्वयात्मा स सन्निपातः । तन्मध्यावद (ध्याद)ष्टासु कलासु सामि चञ्चत्पुटः षट्पितापुत्र इत्यन्तोऽक्षरपातो विद्धि(धिः)। तावता बालतालेन प्रयोजिता स्थिता यामष्टकलां ख(क)ण्डिकां प्रयुज्य प्रमाणव(त्)कला अभग्नाभिरेव नवभिः कलाभिर्युक्ता यदि पूर्वेणोपक्रान्ता समाप्तेन तालेनावशिष्टेनात्र षट्पितापुत्रकमुक्तं सन्निपातं चेत्येवं रूपेणोपोह्यते । तदेति । तस्यामेव दशायां न हि बहिर्भावयेदिति कनिष्ठं यदभूत् तल्लयकृताद्विशेषाल्लयान्तरवाच्यं सम्भाव्यते । तदाह । स्यादिति ।। ८२ ।।

वर्धमानं विना चित्रे न हि वृत्तौ लयान्तरम् ।
बहिर्वा वर्धमाने वा कनिष्ठं न हि दक्षिणे ।। ८३ ।।

Abh

नन्वक्षरपातविधौ तावन्न कश्चिद्विशेष उक्तः । कण्डिकाऽपि भावोऽपि यः पूर्व(र्वं)द्वितीयप्रथमेति सोऽप्येकासारितप्रयोगत्वे हस्ताभावत्वाल्ललितकल्पं(ल्प)तत्कनिष्ठत्वभेदेन नेतुर्वाच्य इत्याशङ्क्य तयोर्भेदं

वर्धमानं विना विचि(चि)त्रे न हि वृत्तौ लयान्तरम् ।
वहिर्वा वर्धमाने वा कनिष्ठं न हि दक्षिणे ।।

टीकाकृत् तावदाह । लयान्तरमितिकनिष्ठमेवोच्येत तदाश्रयत्वादुपचारेण । तदयमर्थः । वर्धमानं विना ततो बहिर्भावे कनिष्ठं चित्र एव भवति । ननु का (कदा)चिद्वृत्तौ वर्धमाने लयान्तरत्वं धर्मा(न्तर)वति (र्ति)बहिर्भावेन कदाचन लयान्तरमिति तात्पर्यम् । कनिष्ठं तत् स्वतन्त्रं वा वर्धमानगतं वा न जातु दक्षिणे ध्रुवयति । किं ने…..स्या स कनिष्ठादपि ज्येष्ठस्य व्यक्तिः स्यात् । चातुर्गुण्यसहत्वान्न त्वेव । सा हि मध्यमासारितादिति । अन्ये तु शेषवृत्ति(त्ती)श्चान्यथा व्याचक्षते । कनिष्ठं स्वतन्त्रं वा वर्धमानस्यान्तरं च । अन्तरत्वं दक्षिणेनापि वृत्तेः । वर्धमानं तु विना चित्रम् । चित्रं तु वर्धमानान्तर्गतध्रुवकेणैव च । स्वातन्त्र्येण तु चित्रमार्गेण भवनीयम् । लयान्तरं च स्वतन्त्रवर्धमानगतं वा चित्रेण दक्षिणे किन्तु वार्ता एव वेल (वृतिरेव वा लय)एव च मध्यमज्येष्ठयोर्मार्गत्रयविधेयत्वमित्युक्तं भवतीति । एवं च मार्गभेदादनयोर्भेद इति तात्पर्यमिति ।

गुरवस्तु स्पष्टमेव व्याचक्षते । एको हिशब्दश्चार्थे । अपरः शब्दार्थे । इत्थं च योजना । लयान्तरं नाम तद् वर्धमानं विना न चित्रेवृत्तौ नदक्षिणे भवति । मार्गत्रयेऽपि स्वतन्त्रं तत्रास्ति । वर्धमानान्तर्गतं हि चित्रेऽपि हि भवति यदा चित्राऽऽश्रिता नवकला विशालध्रुवकेण कनिष्ठं व्यनक्ति । वृत्तावपि यद्वा यद्वा(दा)सद्वृत्तिमार्गाश्रिता चित्रेण कनिष्ठाभिव्यज्य (ञ्ज)का । दक्षिणेऽपि भवति यदा सा दक्षिणमार्गाश्रिता वार्तिकेण कनिष्ठं व्यनक्ति । न हि कण्डिकानां मार्गभेदनियमः कश्चित् । तथा हि सामान्येनोक्तम् । वृत्तिदक्षिणचित्रेषु विनियोजितं वर्धमानमिति (भ. ना. ३१-७५)। एवं विना चित्रे वृत्तौ लयान्तरं नापि दक्षिणेकनिष्ठं बहिर्वा भवति वर्धमाने वा भवतीति पारतन्त्र्यनियमादनियतस्य कनिष्ठस्य सिद्धौ लयान्तराद्भेद इति ।। ८३ ।।

द्विगुणाक्षरसंयोगादन्यमार्गनियोजनात् ।
नृत्तकालविशेषाच्च बालादन्यल्लयान्तरम् ।। ८४ ।।

तृतीया स(च) द्वितीया च प्रथमा चैव तत्कला1 ।
द्विकलं योगमाश्रित्य मध्यमासारितं तु तत् ।। ८५ ।।

Abh

ननु भवत्वेवं तथापि यदा वर्धमानान्तर्भावदशाकृता(त)पारतन्त्र्यं तदातो भेद इत्याशङ्क्याह ।

द्विगुणाक्षरसंयोगादन्यमार्गनियोजनात् ।
नृत्तकालविशेषाच्च बालादन्यल(ल्ल)यान्तरम् ।।

यावन्त्यक्षराणि पदसम्बन्धीनि कनिष्ठासारितकलायां तलो(तो) द्विगुण(णानि)लयान्तरगतायाम् । ध्रुवके यदि कनिष्ठलयान्तरश्चित्रे नृत्ते च विशेषोऽस्ति । यत्रान्तरे गीयमाने न द्विकलाय(याः)कनिष्ठाया आवृत्तिर्भवतीति । यदा गीतवशादङ्गं भूयो निवृ(व)त्त(र्त)ते तत्राद्यमभिनेयं स्याच्छेषं नृत्ते तद्योजयेदिति । यथाक्षरवैगुण्या(न्) मार्गभेदाच्च कोऽन्या(न्यः)कालविशेषः । अक्षरद्वैगुण्यमपि लयवशात् । स एव कालो न तु मार्गभेदे तस्मात् कालोऽत्र नर्तकीप्रवेशवाद्यग्रहणादिरवसरः ।। ८४ ।।

अथ कथं स्त्रि(त्रि)योगः किं च ततं प्रयोगत इत्याशङ्क्याह ।

तृतीया च द्वितीया च प्रथमा चैव तत्कृता(त्कला)।
द्विकलं योगमाश्रित्य मद्य(ध्य)मासारितं तु तत् ।।

गुर्वक्षराणां त्रिस्तेषामि(विश्लेषादि)ति (भ.ना. ३१-६४)पूर्व(र्वं)यो द्विकला(लो)योगा(ग)उक्तः समाश्रित्य षोडशाष्टौ नवेति यदि काकुतालमद्य(ध्य)मासारितं तेन सनिसासनिदावनि इति चञ्चत्पुटम् । शनिप्रताशनितामीति पाणिगता षन्ता इत्येवं षोडशकला(य)त्यादौ कण्डिका । ततः षट्काल(कला)दिशयां(या) शतात्रम् इति प्राच्या वि(वी)चिषु का(क)लाश्च । चतुष्कं पञ्चपाण्यन्तरगतं च कलाचतुष्कं शनिव्रता इति ततो नवकलायां शनिव्रतानि शनिशानि प्राच्यवशिष्टं कलाष्टकमुक्तकं च सन्निपात इति ।। ८५ ।।

Notes

चतुर्थीमादितः कृत्वा चतस्रः कण्डिका यदा 1 ।
चतुष्कले नियोज्यन्ते ज्येष्ठमासारितं तु तत् ।। ८६ ।।

प्रयोगस्तु यदा त्वेषां पिण्डीबन्धैर्विकल्प्यते ।
प्रत्येकं 2ह्यङ्गविन्यासस्तदा तेषां पृथक् पृथक् ।। ८७ ।।

Abh

अथ चतुर्योगतालं चाह ।

चतुर्था(र्थी)मपा(मा)तिनं(दितः)कृत्वा चतस्रः कण्डिका यदा ।
चतुष्कले ति(नि)यु(यो)ज्यते(न्ते) ज्येष्ठमासारितं तु तत् ।।

चतस्र एव कण्डिकाश्चतुर्थद्वात्रिंशत्कलाका(क)ण्डिकादित्वेनाश्रित्य षोडश(शा)ष्टादशेत्यनयाऽऽनुपूर्व्या चतुष्कलातालेन

द्वितीयमद्य(द्विर्भावान्)मद्य(मध्य)मस्यैव ज्येष्ठमित्यभिधीयते ।

(भ. ना. ३१-६५) इत्यत्र निरूपितेन प्रयुज्यते । तथा ज्येष्ठस्य व्यक्तिते (व्यक्तित्वे) न स आनिवि आव्रनिवि स आनिव इति चञ्चत्पुटः । सआनिः सवि आता शआनिविश सआनिवि इति पञ्चपाणः(णिः)। षोडशेति द्वात्रिंशत्कला तुर्यां (स्तुर्यायां)कण्डिकायामादौ प्रयुज्यमाना(नः)पातविधिस्ततोऽपि षोडशकलायां सआताविवश सआनिव इति प्राप्य पञ्चपाण्यवशिष्टं कलाष्टकं शआनिविव्र आतावित्यपरपञ्चपाणिगतं कलाषट्कं प्रयोज्यम् । ततो षट्कलां कण्डिकायामारो(प्य) प्रयुज्यमानायां तस पञ्चपाणिविशिष्टमध्या कलाष्टांश (शेन)अन्विता अनिविनितो नवकलायां विशिष्टं कलाषट्कमुक्ते(क्त)कऽसन्निपातश्च शआताविव्रआव्र अनिविश एवं मार्गताला(ल)योगः । आसारितान(नि)प्रसूयन्त (भ. ना. ३१-८०) इति यदुक्तं तस्य मार्गस्यैककलास्ता (ता) लस्य च शम्यादेर्योन(ग)ज्ञातमङगयोगं च विशिष्यते ।। ८६ ।।

तत्प्रयोजनं तत्स्वरूपं च दर्शयितुमाह ।

प्रयोगस्तु यदा त्वेषां पिण्डीबन्धैर्विकल्प्यते ।

इत्यादिश्लोकत्रयम् । तत्र मुखमित्यङ्गना(म) । ता(त) मिति । उपोहन(नं)मुखमित्यादि । स्वरूपमाप्रयोगस्थित्यादि अप्रयोजनं तम् । इदमत्र तत्त्वम् । यद्यपि मुखादीनामाविर्भूतत्वेले(नै)वान(त्र न) कश्चिद्विशेषस्तथापि नृत्तेऽस्त्येव विशेषः । तत्र तूपयोग(ज)नं कृत्वा तन्त्रीगानसमसन्वितमिति यो विधिरुपायोऽ-

Notes

मुखं प्रतिमुखं चैव देहं संसरणं 1तथा ।
अङ्गान्येतानि चत्वारि सर्वेष्वासारितेषु च2 ।। ८८ ।।

उपोहनं मुखं तेषां युग्मं प्रतिमुखं भवेत् ।
ओजः शरीरसंहारावयमङ्गविधिः (धि)क्रमः ।। ८९ ।।

3इत्येवं चतुरङ्गानि ज्ञेयान्यासारितानि तु ।
चतुरासारितैर्बद्धं विज्ञेयं वर्धमानकम् 4 ।। ९० ।।

Abh

(य उ)पोहने समूहसंज्ञया गा(कया)प्यभिनेयपदार्थवत्यार्थगते(:)। स खल्वित्यादिवशादिति प्रकटितमुपक्रम उपत्वाद्धि मुखमिव मुखम् । प्रतिमुखसंज्ञे चञ्चत्पुटे वैशाखस्थानकेनेति यो नर्तकीप्रवेश उक्तः सोऽपि च विचित्र एवाभिनयोप्रकमः । प्रथमं पञ्चपाणेस्तु शरीरसंज्ञया प्राधान्याभिनयभूयस्त्वं सर्वथैव तन्मयीभावात् । द्वितीये तु यथा पाणौ संहरणरूपत्वम् । अत्यन्तवत्यभि(न)यतोऽभिनयन्यूनतापादने नृत्तप्राधान्यमिति । तदाह । प्रयोगस्त्वितिएषामासारितानां पिण्डीबन्धे(न्धैः)र्नृत्ताङ्गहारैरुपलक्षितो यः प्रयोग(:) पूर्वोक्तः स यतो हेतोर्विचित्रतया पृथक् पृथक् कल्प्यते ततो हेतोः प्रत्येकमङ्गविन्यासस्तेषामुच्यत इति शेषः । इति हे(ही)ति वर्धमानान्तर्गततया नृत्ताश्रयत्वे एतान्यङ्गानि न तु स्वातन्त्र्येण प्रयोगः । तेन तत्रोपोहनाभाव एवान्ये । तत्रापि तञ्च श……त्येव तदर्थ एतदभावाय इति हि वते (उक्ते) पृथक् पृथगिति सर्वं स्वरवाचकीकृतं भवति । अङ्गचतुष्काभिप्रत्यङ्गनर्तकीप्रवेश इत्यादिक्रमोऽवतिष्ठते । ताण्डवाध्याये (भ. ना. अ. ४) च स्वतन्त्रासारितेष्वपि प्रयोगोऽतिदिष्टः । एवमेतेष्विति गीतेष्वासारितेष्विति (भ. ना. ४-३०२) ग्रन्थेन वर्धमानं तथापीति (भ. ना. ४-१३) चापिर्वैर(रा)सूयाश्रितमपि प्रयोगस्थानत्वेनोक्तमिति । एतच्चात्र विचारयिष्यते । युग्मइ(मि) ति । चञ्चत्पुटः औज्ञावि……च पञ्चपाणि(:)। ओज(:)शब्दोऽकारान्ते(न्तो) विषमार्थश्चतुरङ्गतायां च । वस्तुमत्र मयात्यनिविष्टसन्निपातचञ्चत्पुटादिका नीयते(न्ते)कनिष्ठे । अन्ययोस्तु पञ्चास्यादिभूत इति स्वरूपेऽप्यस्ति विशेषः ।। ८७-८९ ।।

एतदुपसंहरति । इत्येवं चतुरङ्गानीति । उक्तपूर्वेण प्रयोजनेन प्रत्येकमासारितप्रयोगेष्विव एकार्तत(किमेकताल)स्ततो योगे(ग)तो कण्डिकाचतुष्कम् । दश तु ……परिवर्तते ते प्रसारितप्रसादा वर्धमानतेति स्पष्टरा(का)यत्वं दर्शितम् ।। ९० ।।

Notes

वर्णताललयग्रन्थवा 1द्यादिनयवर्धनात् ।
पात्राणां वृद्धियोगाच्च वर्धमानकमुच्यते ।। ९१ ।।

2वर्धमानशरीरस्य भवेदासारितस्य च ।
कार्यकारण भावेन परस्परविकल्पनम् ।। ९२ ।।

यथा वृक्षाद्(क्षो)भवेद् बीजं (जाद्)बीजाद्वृक्षस्य(वृक्षाद्बीजस्य) सम्भवः ।
अन्योन्यहेतुसंयोगात्3 प्रत्येतव्यस्तथेह तु ।। ९३ ।।

Abh

ननु यदि नाम चतुरासारितैर्निर्वहन् न णीयता (र्निर्वहणीयता)वर्धमानता [सा का] र्या कुत इत्याशङ्क्याह । वर्णतालेति । सा तत्र दशा येयमासारितानां तदपेक्षया वर्धमानीभावदशायां वर्णादिवृद्धियोगः । तथाप्युपयोग(त्वे)न योगान् नृत्तवृद्धिरिवाभिनयवृद्धिः । अक्षराणां नर्तकीनां वृद्धियोगश्च । चतुर्थेऽध्याये दर्शितमेऽका तु प्रथमं युज्याद् (योज्या) द्वे (भ. ना. ४. २८६) इत्यादिना । वर्धमानकमिति संज्ञायां कः ।। ९१ ।।

एवमियन्त्या(ता)यत् फलं सम्पन्नं तद्दर्शयति । वर्धमासत्त()शरीरस्येति । वर्धमाने कण्डिकानां सर्वासामेव चतुरस्रतालयोगेन कदाचित् प्रयोग इति वर्धमानशरीरं चतुरस्रमासारितशरीरमप्येव । पञ्चपाणि हि(र्हि) त्रिविकारया कृतोपवस्तु षोडशकलत्वमस्य रूपमित्युक्तम् । प्रागासारितस्येत्येकवचनभूमौ चतुःषष्टिरिति न परमार्थभेद इति दर्शयति । स एव हि निष्कामकलया विकलीभवतीत्युक्तमेव । ज्येष्ठासारितमध्ये च सर्वमेतत् स्थितमिति । अतोऽप्येकवचनम् । एवमासारितस्य वर्धमानस्य देहस्य योऽन्योन्यकार्यकारणभावस्तेन वैचित्र्यरूपकल्पना जायते । तथा हि । वर्धमानदशाप्रभावादासारित अङ्गचतुःषष्टिरिति न परमार्थभेद इति दर्शयति । स एव हि निष्क्रामकलया वर्धमानदशायाः प्रभावादासारितमङ्गं चतुष्कला(ल)याङ्कनयोगनृत्तं प्रयोगिवैचित्र्यादासारितं भवति । आसारितप्रयोगरहितसन्धानबलाच्च परिवर्तयोर्द्वन्द्वान्तता जायते । अन्यथा कण्डिकाचतुष्कलया मात्र(त्रा)रूपमेवेति रसभावगतपरस्परभाव्यभावकभाववदत्रापि मन्तव्यम् ।। ९२ ।।

अन्योन्याश्रयदोषानुभयासिद्धिरित्याश्रयदृष्टान्तद्वारेणापवादयति । यथा वृक्षो भवेद्बीजादिति । यावन्मात्रानुप्रविशति वृक्षमेव बीजमेव स्थितेरेव पूर्वसिद्धमासारितमवेक्ष्य वर्धमानता जायते । वर्धमाने च निरूप्यमाणे पुनरासारितवृद्धिर्जायते ।। ९३ ।।

Notes

योगादेककलात्(लां) सूत्रे(ते) कनिष्ठकलयान्तरे ।
द्विकलान्मध्यमं चैव ज्येष्ठं चैव चतुष्कलात् ।। ९४ ।।

चञ्चत्पुटपरिवर्तः शम्यादि द्वौ(र्द्वौ) च पञ्चपाणिकृतौ ।
अन्ते च सन्निपातः पात(काल)विधिरयं कनिष्ठस्य ।। ९५ ।।

Abh

आसारितात् सन्धा (वर्धमा) नमपि यं(यज्) जनयति सैव । तृतीयवृद्धेरभावादन्यहेतुकत्वमुक्तमिति तदेव दर्शयितुमाह । योगादेककलामित्यादि । एतत् पुनरुक्त(त)योपकारकरूपमिति केचित् । युक्तम् । पूर्वं हि वर्धमाना(दा)सारितप्रसृ(वृ)त्तिरुक्ता । प्रथमां कण्डिकामिति । (भ. ना. ३१.८१)तृतीया सद्वितीया चेति (भ. ना. ३१.८५) । चतुर्थीमादितः कृत्वेति (भ. ना. ३१. ८६) च । अनेन त्वासारिता (द्) वर्धमानोत्पत्तिरुच्यते । कथम् । यथा प्रजावता(ती) प्रसूके(ते)ति पुत्रवत् प्रमुच्यते । एवमिहापि ।

तदयमर्थः । कनिष्ठकं कलांसूते फले कृतो त…….आह । योगादेककलामिति । एककला आधारभूतं(ता) यस्य योगस्य पातपतदद्वन्द्वसम्बन्धरूपस्य तत्कार्यभूताद्धेतोः ।

एतदुक्तं भवति । यदि सप्तदशकलि(क)कनिष्ठासारितं प्रयक्ति(युक्त)तमन(म)भविष्यं(ष्यन्) नच कलाकण्डिकासप्तदशपादयोगलक्षणं(णा) वृद्धिना(र्ना)ऽभविष्यद् यदि च लयान्तरम् । यो(लया)ऽन्तरं नाभिसन्धीयेत कण्डिका प्रथमकण्डिका नाना भा(भ)वेदिति प्रथमकण्डिकायां परिवृद्धिलक्षणे कथं वृद्धिर्भ- वेदिति । एवमेते(षु) वृद्धिरासारिताभ्यां सङ्घातैर्द्विव(श्च)कलावका(वत्का)र्यभूताद्धेतोर्मध्यमासूक्तं सफल(म्)। एवं चतुष्क कलाज्येष्ठम् । इदमत्र (त)त्त्वम् । यद्यत्र मध्यम(मा)सारितस्य प्रयोग(गो) नाभीष्टो भवे(द्) द्विकलं योगमाश्रित्य (भ.ना. अ. ३१. ८५) यदुक्तं सतृतीया द्वितीया च प्रथमा चेति (भ.ना. अ. ३१.८५) द्वितीयाप्रथमयोरेकद्वितीयपराद्विलक्षणः कुतो वृद्धिः स्यात् । ज्येष्ठानभिसन्धौ च कथं चतुष्कलं योगमाश्रित्य कथितं चतुर्थीमादितः कृत्वेति (भ. ना. ३१. ८६)। तृतीयाद्वितीयाप्रथमानामेकद्वित्रिपरावृद्धिरूपत्वं सत(:) स्यादिति सा वृद्धिराभ्यां जाता द्विकलचतुष्कलशब्दवत् सहचारिण्यामृ(ण्यां वृ)द्धौ मन्तव्यौ ।। ९४ ।।

अतो वर्धमानान्तर्भूतानं यद्यपि स तत्र दशाविहित एव वान्तवि(र्वि) धिस्तथाप्यस्ति कश्चिद् विशेष इति दर्शयितुं कनिष्ठासारितस्य तावदाह । चञ्चत्पुटपरिवर्त इति ।

अयमेव तालयोगो विशेषसिद्धिस्तु पूर्वनिर्दिष्टा ।
भवतीह लयान्तरिते शब्दाद्भेदो लयाच्चैव ।। ९६ ।।

उत्तरता(का)लान् कृत्वा द्वौ1(त्वादौ)तिस्रः संकलाः(कलाः) परित्यज्य ।
एतत्पातविधानं मध्यमकासारिते प्रोक्तम् ।। ९७ ।।

Abh

शब्दो यद्यपीत्यत्रा(स्या)र्थे । तेन यद्यपि कनिष्ठस्यायमेव कालविधिस्तथाप्यस्ति कश्चिद्विशेष इति दर्शयितुं कनिष्ठासारितस्य वक्तव्यप्रतिमुखदेहसंहाररूपाङ्गविभागेन नृत्तविशेषसिद्धये विदारि(री)विच्छेदस्तत्कालविरामे वर्णाङ्गसमृद्धयुचितस्वापन्यासं(स) योजनं पृथक् स(स्वी)कार्यमिति यावत् । तथा चोदाहरणादेवम् । देवैः संस्तुतनमितमित्येको विच्छेदश्च चञ्चत्पुट (टे)। दैत्यैर्यक्षैर्नागैः पितृभिः प्रणमितचरणामिति पञ्चपाणौत्रैलोक्यहेतुमीशं रुद्रं शरणमहमुपगत इति समुद्गकेतन्द्रे यारि(चा)सारिते नानियम इत्युक्तं भवति ।। ९५ ।।

लयान्तरेऽप्येव(वं) दर्शयति । अयमेव तालयोग इति । परिच्छ(च्छि)न्नरूपवृद्धिरिति यावत् । कस्तर्हि अनयोर्भेद इत्याह । विशेषसिद्धिरितिद्विगुणाक्षरसंयोगादित्यत्र (भ. ना. ३१. ८४) श्लोकार्धमेवं संक्षिप्य च । शब्दाद् भेदो लयाच्चेति । अस्यापि यः शब्दपातस्तत्कृतो भेदः कनिष्ठेऽभ्य(ध्य)र्धकलायां शम्यां (म्यायां) लयान्तरे तु कलायामेव । अत्यन्तलयान्तरितं कस्मादित्याह । लयाच्चेति । लयकृताद्भेदाल्लयान्तरितमित्यर्थः । एवकारेणेदमाह । लयान्तर्वशादेव कनिष्ठस्य दक्षिणप्रयोगाभावो लभ्यते ततो गुणलयस्य मार्गान्तरस्याभावो लयान्तर इव स्यादुभयापत्तेरिति ।। ९६ ।।

एवं कनिष्ठस्य स्वतन्त्रभेदमुपदर्श्य मध्यमस्यापि दर्शयितुं उत्तरकाला(न्)कृत्वा तिस्रः कलाः परित्यजेदिति । (त)मन्तरा द्विकलपञ्चपाणिबहुवचने प्राथम्यात् त्रित्वक(कत्वम)पि नालभेत्(त) इतिवद् द्विकलपञ्चपाणित्रयादाद्यकलात्रयमपास्य त्रयः खण्डाः करणीयाः । ते नवकलो आद्यखण्डो द्वितीयो द्वादश तृतीयोऽपि द्वादश ततच(श्च)चञ्चत्पुटो…….निष्ठा(क्रा)मादि सन्निपातान्त एव । आद्या केवलमधिका शम्या मुक्तकसन्निपातकला । अन्यापविट्वा(द्धा) र(के)वलौ खण्डनिष्क्रामादिसन्निपातान्तावेव । अत एककल-

Notes

ज्येष्ठस्य भवति नियमादादौ सैका 1चतुष्कला चात्र2 ।
मात्राद्वन्द्वयुताऽन्यत्3 कृत्वा तौ द्वौ च परिवर्तौ ।। ९८ ।।

बालं नवकलं येषां न तेषां साधु सम्मतम् ।
सन्निपाताङ्गविन्यासो घटेत(टते) न हि शास्त्रतः ।। ९९ ।।

Abh

द्विकलौ (लो) विधिरनुगृहीतो भवति । तत्र निष्क्रामस्याद्यत्वेन दर्शनात् स्वातन्त्र्ये तु शम्यादिनिष्क्रान्ता- वखण्डौ द्वौ । सन्निपातादिनिष्क्रामादितामन्तकं च(कश्च) सन्निपात इति विशेषतो न सन्निपाताः । अत्र त्रयाच्छेदार्या (र्थात्) सन्निपातादो(दु)च्चभाण्डाहे न(देर्न)र्तकीप्रवेशादेरपि भेद इति ।। ९७ ।।

अतः स्वातन्त्र्यावस्थातो नव(निय)मान्तर्भूतस्य ज्येष्ठस्य विशेषमाह । ज्येष्ठा(ष्ठस्य) भवति नियमादादौ सैका चतुष्कलासा चेति चतुष्कला या मात्रा चतुष्कलरूपा षोडशकलेति यावत् । स ता (सैका) भवति । सारसंघरेके(संग्रहे)ण न वर्तते । कला चैकपात इत्याहादौ ।

एतदुक्तं भवति । आवापादिसन्निपातः षोडशकलारूपोऽत्र । चतुष्कलचच्चत्पुटादौ तु शम्या मुक्तककल्पाऽन्तरवद् द्वौ परिवर्तौ चतुष्कलामात्रा (त्रौ) नो(तौ)षोडशकलावै(वेव) कुर्यां (त्)। तौ च कृत्वा तयोर्मात्रा अस्याः(स्यां) क्षेपणीयाः सा तु सकला । कथमित्याह । द्वन्द्वेन परिवर्तद्वयेन युक्ता ।

एतदुक्तं भवति । क्षुत्(क्षिप)क्षेपे (प्रेरणे) (पा. धातुपाठः ११२१, १२८६, १९४२) (इ)त्याद्याह । आदावष्टकला(:) क्षेपा इति । नो कं वीथी शंकिनि(नी) । एवं तु विंशत्कलः । आवा(पा)द्यादौ सन्निपातौ द्वावन्यौ खण्डादित्युक्तं भवति । स्वतन्त्रेषु तु ज्येष्ठासारिते शम्यादिविक्षेपतश्चत्पुटखण्डसन्निपाताद्विधिक्षेपान्तौ पञ्चपाणिखण्डौ मुक्तकश्च सन्निपात इति विशेषः । पात्रादस्वे(दिष्वि)यता स्यादिति तु पातै(र)था(थ) कार्यादित्यध्याहार्यम् । अन्यथा कृत्वा तदन्तेन तुल्यकर्तृकं स्यादिति । एवमयं ग्रन्थः सर्वथैवापुनरुक्तार्थो लक्ष्यलक्षणपरिचयवर्जितौ(तैः) पुनरुक्त इत्युपेक्ष्य सङ्ग्रहीकृतः स्मारकीकृतो न च पुनरुक्त(क्ती)कृत इत्यास्तां तावत् । एवं कार्यकारणता च दर्शिता ।। ९८ ।।

अधुना कनिष्ठस्य यद्रूपं प्रथमां कण्डिकां कुत(कृत्वा)(भ.ना. ३१. ८१)इत्यनेन दर्शितं तदेव पूर्वपक्षशङ्काशमनद्वारेण स्फुटीकर्तुमाह । भा(बा)लं त()वकलमिति । तत्रेयं पूर्वपक्षशङ्का । कश्चिद्धि ब्रूयात् । इह चतुरासारितौ वली(बालं)वर्धमानं चतस्रः कण्डिकाश्चैव । वर्धमान एकद्वित्रिचतुर्यामान्तान्या- सारितानि ।

Notes

पुनश्चैवाङ्गविन्यासः कलानियमतः कृतः ।
अथ तत्र मुखं तालध्रुव(यति)पातैरेव नियमितान् मानम् ।। १०० ।।

Abh

प्रथमां कण्डिकां कृत्वा बालतालप्रयोजितास् ।
अन्तिमार्धकलाहीनं कुर्यादेव(वं) कनिष्ठकम् ।।

(भ. ना. ३१.८१) इत्युक्तम् । तत्र स्पष्टमेव यथासङ्ख्ये (ङ्ख्यमि)ति नाश्रीयते । नवकण्डिकाकनिष्ठमिति सप्तदशपातानां षोडशद्धत्रिम(शार्धहीनं) पातयित्वा म(न)वपातमिह कनिष्ठमुध्य(मूह्य)तामिति । अत्राह । न तेषां साधु सम्मतमिति । अत्र हेतुः । सन्निपातेति शब्देन वस्तूच्यते । भूयसा तस्य सन्निपातान्तत्वात् । तेन वस्तुनो विन्यासस्त्रित्वेन कल्पनं तन्न घटते । अङ्गविन्यासश्च प्रतिमुखादिरूपो न घटते

ननु किं तेन घटितेनेत्याह । शाश्वतं हि लक्षणं मन्त्रमधमाणीअ (णमत्र वर्धमानमिव) कर्तव्यम् । तत्र चतुर्द्वन्द्वमु(यु)क्तमिति ।

ननु कलैका द्वे तिस्रः समुद्गका(ता) इति । क्रियतां विभाग इति । नेत्याह । पुनश्चैवेतिअङ्गविन्यासोपि पुनः शास्त्रत एव कलानियमेन कृतो नाम । विभागे न स्वेच्छा प्रमाणमिति यावत् ।

केचित् घटते तत्र शास्त्रत इति पठन्ति । तेन बालान्न(लं न)वकलं ए(ये)षां ते(ने)ह्य(त्य)त्र च्छेदं कृत्वा ते()षां साधु सम्मतमित्यभ्युपगम्यते । तदिदमत्र हेतुः । सन्निपाताङ्गविन्यासो न घटते । तत्र शास्त्रत इति व्याचक्षते ।। ९९ ।।

उपोहनं मुखं तेषामिति (भ.ना. ३१. ८१) यदुक्तं तदिदानीं वक्तव्यम् । अङ्गविन्यासो हि शास्त्रेण चतुर्थः कृत(:)। तत्त्रीण्यन्यानि ज्ञातानि । चतुर्थं तु ज्ञातव्यम् । तदाह । अथ तत्र मुखं ना (ता)लयतितालोऽत्र मुखः (ख्यः) । षोडशकलं तत्रान्तर्भूतत्वात् तालमुखम् । तत्र ध्रुव एताः शम्यादिविशेषहीनाः । यद्योगेऽपि च ध्रुवकमार्गेण कृताः ।। १०० ।।

तस्य कलामात्राक्षरगुरुलघुवर्णस्थितिं वक्ष्ये ।
ज्येष्ठस्य कला ह्यष्टौ मुखं भवेन् मध्यमस्य सप्तकलम् ।। १०१ ।।

षड्भिर्लयान्तरे स्यात् पञ्चैव कलाः कनिष्ठस्य ।
आदावन्ते गुरुणी मध्ये च लघूनि बालतः प्रभृति ।। १०२ ।।

अष्टौ द्वादश षोडश विंशतिरपि चाक्षराणि स्युः ।
आसारितोपवहनेष्वादावा(सा)रणानि1युक्तानि ।। १०३ ।।

तान्यक्षराणि चक्ष्ये यानि पुरा ब्रह्मगीतानि ।
झण्टुं जगति यदि गिनिगि झण्टुं प्रथम(मे)लयान्तरं(रे)वा(चा)पि2 ।
तितिझल कुचझल मध्ये तितिकुचवृद्धं भवेज्जयेष्ठे ।। १०४ ।।

Abh

तस्य मुखस्य का()लादि वक्ष्ये । तत्र कलानां प्राधान्यात्ताल एव तावदाह । ज्येष्ठस्य कला ह्यष्टावित्यादि । अष्टा(ष्टौ) सप्त षट् पञ्चेति । क्रमेणोपोहनं कलानां ध्रुवनमाने (वानुपाते)सति ज्येष्ठ(स्य) पञ्चषष्टिः क(ष्टिक)ल (ला)स्तच्च कण्डिकाचतुर्षु रूपवर्धमाना शरीरान्तर्गतस्य चैव चा(वा)सारिता चास्याङ्गविभागो नृत्तोपयोगादेव स्वतन्त्र(त्रा)सारितेषु नोपवहनमिति कथयितुं ज्येष्ठात् प्रभृत्युपक्रान्तम् । तालमालामात्रा सङ्ख्येयाक्षरोपयोगोऽस्ति ।। १०१ ।।

तालप्रथमे(प्रमे)यं गीत्याधारत्वादक्षरेषु च लघुभेदादिति मात्राक्षराश्रयगतगुरुलघुवैचित्र्यमाह । आदावन्ते गुरुणीति । एतच्चतुर्ष्वपि । आदौ सिद्धम् । अच्च(न्ते) रुद्रः । मध्ये त्वक्षराणि कियन्तीत्याह । बालतः प्रभृति ।। १०२ ।।

अष्टौ द्वादश षोडश विंशतिरिति । तालकलायां चतुर्मात्रो गण इत्यनया स्थित्या मात्र(त्रा)विभागोऽन्त्ये तु कलाद्वयेनार्धत्वम् । एका कला डुम्बितीया । एव(वं) सर्वत्र । अथ दुष्टविशेषेऽपि हेतवो ब्रह्मप्रोक्ता वर्णा एषा पङ्क्तिक्रमो वक्तव्य इत्यत आह । आसारितेषु आदावासारणानि युक्तानि ।। १०३ ।।

तान्यक्षराणि वक्ष्ये । आसारितोपवहनेषु यान्य(नि)कर्तव्यान्यक्षराणि तानि वक्ष्ये । कानीत्याह । आसारणे आसमन्तात् स्वररूपविकारो लाघवेन भविष्यति । उप(व)हनं तदर्थं यानि नियुक्तानि । तथा चोक्तम् । उपोह्यन्ते स्वरा येनेति ।

नन्वेवं भिन्नाकारादिरपि क्रियतामित्याशङ्क्यानादिशास्त्रं बन्धप्रसिद्ध्यवशिष्टाभ्युदये हेत्वर्थं

Notes

इत्यक्षरपतनकलागुरुलघुवर्णस्थिति1 विभक्तः ।
आसारितमुखसंज्ञित उपवहनविधिर्विनिर्दिष्टा(ष्टः)2 ।
एवमेतत् सविस्तारं कथितं वर्धमानकम्3 ।। १०५ ।।

चत्वारस्तु गु(ग)णा युग्म ओजे षट् परिकीर्तिताः ।
द्वितीये पञ्चपाणौ तु सार्धाः षट् परिकीर्तिताः ।
कनीय एवं 4कर्तव्यमक्षरैस्तालमानतः ।। १०६ ।।

Abh

केषाञ्चिदेवेत्याह । यानि पुरा ब्रह्मणा गीतानि । ब्रह्मरूपत्वेन च वेदमन्त्र वद्गीतानि । क्रमोऽपि चैषां नियतो वेत्याशयेनाह । झण्डं(ण्टुं)जगति यदि शिदि(गिनिगि) झण्डुं(ण्टुं) प्रथमे कनिष्ठे लयान्तरे चापि । इदमेव विशेषं त्वाह । ती(ति)तिकुचवृद्ध(द्धं) सम्य(ग)धिकीभूतम् । मध्ये च लघु(घू)नीत्युक्तत्वाद्धसि……न्यनन्तरं सहि(ही)ति सचेति लयान्तरे । तदनन्तरं रु(कु)चच्छ()लेति मध्ये मध्यमासारिते वृद्धं तद(न)न्तरं तीति कुचेति ज्येष्ठवृद्धं सर्वत्र त्वन्ये कलाद्वये संघटितुमिति ।। १०४ ।।

एतदङ्गमुपसंहरति । इत्यक्षरपतनकलेति । अक्षरेषु पतनं प्राप्तिर्यासां कलानां तन्निमित्ते गुरुलघुरूपेणोपलक्षिता ये वर्णा झण्डु(ण्टु)मादयस्तेषां या स्थितिर्नियतक्रमतया प्रविभक्ता । प्रत्यासारितमन्योन्यरूप उपोहनविनियु (धिरु)क्तो यस्यासारितेषु मुखसंज्ञेति सम्बन्धः । न चासारितानां लक्षणं चञ्चत्पुटपरिवर्ते (भ. ना. ३१. ९५) (र्त इ)त्यादिना कृतं येन पुनरुक्तं स्यादपि तु वर्धमानस्यैव विद्धि(धि)प्रतिपादनमित्थं कृतमिति दर्शयति । एवमेतदिति । सविस्तारमिति । वृद्धा(विधि)युतमित्यर्थः । वर्धमानस्ये(स्या)यं विधिरुक्तेति(क्त इति) यावत् ।। १०५ ।।

नन्वत्र वर्धमानलक्षणस्योपसंहारोऽयमन्यस्य समाप्तवा(त्वा)त् । अथाऽत्र पदगतं भेदं दर्शयितुमाह । चत्वारस्तु गु()णा युग्म इति । तुर्विशेषद्योतकः यद्यप्यन्यत्र सामगीता (दा)वपवादगतो नियमस्नाबा (स्थाना)नन्दमस्यां सो(स) इत्यक्षरेण बहुतरं व्याप्तम् । तथापि नृत्ते अभिनयस्य कर्तव्यां तस्य च गीत्या च गीत्यर्थे भाविते प्रवृत्तेरर्थस्य चातिप्रकर्षावगमाभावादत्याधत्तौ च भि(न)त्ययं(लं)कारवैधुर्यापत्तेरयं

Notes

यथा ।
देवं देवैः संस्तुतनमितम् ।
दैत्यैर्यक्षैर्नागैः पितृभिः प्रणमितचरणम् ।
त्रैलोक्यहेतुमीशं रुद्रं शरणमहमुपगतः ।। १०७ ।।

अष्टावेव 1गु(ग)णाः कार्याः पूर्वं(र्व)ताले2 यथाविधि ।
द्वादशैव तु कर्तव्याः षट्पितापुत्रके गणाः ।। १०८ ।।

अर्धत्रयोदश 3गणास्तृतीये वस्तुसंज्ञके4 ।
एवमक्षरविन्यासो मध्यमासारिते स्मृतः ।। १०९ ।।

Abh

मध्यमक्रमो हृदयहारी सहा(दा)नुग्राहको नु स(से)व्यन्ते(स्ते)न प्रतिकलं चतुर्मात्रोगु(ग)णः । अन्या(न्त्या)यां तु कलायां विश्रान्तियोगात् स (द् गान्) धर्वगुणत्वमासादयति । अस्मान्ते(न्नैव) लघुरिव गुरुत्व(त्वं) छन्दा(न्दो)व्यवस्थाया(:)। तदाह । द्वितीये पञ्चपाणौ तु सार्धमि(र्धा इ)ति । षोडे (ढै)वेत्युदाहरणान्निरुक्तन(त्वा)दपोहनवन्नियताक्षरनियम इत्याह तदुदाहरणा(नि) ।। १०६ ।।

देवमित्यादि । भगवान् महेश्वर एवात्र स(से)व्यस्तत्परिवारत्वेन तत्प्रवणतया च देवान्तराणां वर्णनम् । येन पिण्डीबन्धानां तार्क्ष्यपिण्डी भवेद् विष्णोरित्येवमादीनां (भ. ना. ४. २५४) सर्वेषां निवृत्तः(त्त)प्रति (ज्ञ)तांच(चा)वान्तरविच्छेद इति तथाविधान्यक्षराणि रचनीयानीत्युदाहरणा- नीत्य(स्या)भिप्रायः । उदाहरणादेव गणविभागे सिद्धे किं लक्षणेनेति चेद् गुरुलघुनियमोऽपि वर्णवृत्तवत् सम्भाव्येत । न त्वसाविष्टः । मात्रागणनयैवेष्टत्वा(त्) । न चोदाहरणादियती प्रतिपत्तिर्भवति । कियति भागे कियत्यो मात्रा इति लक्षणमपि करणीयमेवेति ।

ननु मुक्तकसन्निपात आद्ये चञ्चत्पुटखण्डेन तस्य सन्निपातान्यत्वाद् वस्तुत्रयस्य । तत्कथमुक्तं द्वितीये पञ्चपाणौ सार्धाः षडिति । (भ. ना.३१-१०६) । अत्राह तालविभागभेदसिद्धये ग(एता)वदेव चैवमवश्यकर्तव्यम् । अनन्तरं तु गीतनृत्तादिवशा(:) सन्तु वीदरस्ता(न्तु)त्वितराः । (ता)लविभागस्य चेदमुदाहरणम् । अन्त्या च कला विश्रान्तिनाहरणीयकला प्रकर्षव(त्)सम्भाव्यमानपरिपूरणेनार्धगणेन कर्तव्यता इयतीति तात्पर्यमत्र ।। १०७ ।।

एवमेककले निरूप्य द्विकले यतिविधिं सोदाहरणमाह । अष्टामेव गणा इति ।

Notes

यथा ।
भूताधिपतिं भगनेत्रहरं देवैर्वन्द्यं सुरमख1 मथनम् ।
रौद्रं भयदं गजचर्मपटं2 शम्भुं त्र्यक्षं ज्वलननिभजटम् ।
भुजगपरिकरं त्रिदशगणवरं दैत्यैर्नित्यं परिपठितचरितम् ।
3उमापतिं नमितमभिमत4सुखदं शरणं सुरनुतमहमिह 5समुपगतः ।। ११० ।।

कार्याः षोडश युग्माख्ये ताले तु प्रथमे गणाः ।
चतुर्विंशतिरोजाख्ये द्वितीये वस्तुसंज्ञके6 ।। १११ ।।

चतुर्विंशतिरर्धं च तृतीये वस्तुसंज्ञके ।
ज्येष्ठेऽप्यासारिते कार्य एवमक्षरसञ्चयः ।। ११२ ।।

यथा ।
7अमरं प्रवरं मदनाङ्गहरं भुवनैकनाथमभयप्रदम् ।
8त्रिपुरनाशकरं देवं तमहं प्रणमत(णत)सुरपितृगणनतचरणम् ।

Abh

पूर्वताले चञ्चत्पुटे । अर्धत्रयोदशमेषां ते गणा इति बहुव्रीहिगर्भकर्मधारया(त्) त्रयोदशानां गणानां च गणयतः स तथा ।। १०८-११० ।।

अथ चतुष्कलगणलक्षणमुदाहरणं चाह । कार्याः षोडशेति । वस्तुसंज्ञक इत्यनेनेदमाह । एष तावत् सर्वत्र विभागकलायां गणो न्यायान्त(न्ता) र्धग इति तत् त्रयोदशत्वाद्वस्तुनश्च सन्निपातान्तत्वात् । आद्ये भागेऽभ्यधिको यः सन्निपातात् प्रणमत । तद्बलाच्चत्रैवैको गुणः प्रविशति । तेन दैत्यैरित्यन्तम् । चञ्चत्पुटांशमध्यमे विझण्टुमित्यन्त(म्) । ज्येष्ठेति पृथिवीत्यन्तम् । स्वतन्त्रेष्वासारितेषु यथास्थित एव क्रमः ।। १११-११२ ।।

स्वतन्त्रपूर्वकं च पारतन्त्रयमिति स्वातन्त्रयोरभिप्रायेणेत्थमप्युदाहरणम् । अमरमित्यविद्यमानम्….। प्रवरमुत्कृष्टम् ।……तत् । पृथिवीमित्यादि व्योमाख्यामित्यन्ते द्वन्द्वेऽपि ज्वलन इत्यादावलुठः (ग्) ब्रह्मगीतत्वात् । अन्ये त्वसमस्तमेव वदन्ति । यजमानो व्योमाख्यः कार्यो यस्येति । विद्या(निलयं)

Notes

पृथिवी सलिलं ज्वलनं(नः) पवनं(नः) सूर्यश्चन्द्रो यजमानो व्योमाख्यः कार्यः ।
मुनिभिर्यस्य प्रोक्तस्त्रैलोक्यगुरुं तमचिन्त्यमजं (तमजं) विद्यानिलयं भैरवरूपम् ।
खट्वाङ्गकपालधरं (खट्वाङ्गधरं)स्थित्युत्पत्तिप्रलयनिमित्तम् ।
चन्द्रार्धधरं तिलकार्धधरं मुण्डार्धधरं रशनार्धधरम् ।
बहुभिर्विकृतैः विविधैर्विकटैर्वेद्यं त्रि(विधैर्) विमुखैः(खैरपि) तैः ।
प्रमथैः परिवृतमहमीशं(तमीशं) सुखदं सततं प्रणतः ।। ११३ ।।

आसारितानां सर्वेषां 1त्रयो भेदाः प्रकीर्तिताः ।
यथाक्षरं द्विसंख्यातं त्रिसंख्यातमथापि च ।। ११४ ।।

तालच्छेदाद् द्विगुणितैः समवर्णगणैः कृ(णैर्हृ)तम् ।
अनिवृत्ताक्षरपदं यथाक्षरमिति स्मृतम् ।। ११५ ।।

Abh

चन्द्रार्धधरमित्यादिना गौरीश्वररूपत्वमस्य । अत एवोक्तं सपत्नीको वृषध्वजः सह देवगणाधिपैरिति । पूर्वं चोक्तम् ।

वर्धमाने प्रयुक्ते तु रुद्रस्तुष्यति सानुगः ।

(भ. ना. ५.४८) इति । अत एव गणानां स्तुतिर्बहुभिर्विकृतैरिति । इयमेव चैषां स्तुतिर्यत् परमेश्वरप्रकरणम्(णे) स्तुत्यन्त (न्ते)गणन(गण)प्रकाशनं हि स्तुतिः । अत्र देवैः सन्तुतनमि(संस्तुतमि)त्यादौ(भ. ना.-१०७) देवानामपि स्तुतिरेव कृत्या(ता) मन्तव्येति । विकृतैरिति दिगम्बरैरित्यर्थः ।। ११३ ।।

अस्यैव पदगतं विशेषान्तरं वक्तुमुपक्रमते । आसारितानामिति । न केवलं वर्धमानान्तर्भाव इदं त्रैविध्यं किन्तु स्वतन्त्रेपीत्युक्तं सर्वेषामपीति ।। ११४ ।।

तालच्छेदादित्यादि । इह(हा)निवृत्तिरावृत्तिरुच्यते । सा च पदैकदेशस्य पदस्य तत्समुदायस्य वा । सर्वथा यत्र सा नास्ति तद्(त्र) गीताक्षराणां नातिक्रमणवर्तमानत्वाद् यथाक्षरम् । तदाऽनिवृत्तौ(त्ताक्षर) पदमिति । अक्षरं द्वे त्रीणि । एवं पदान्तनिवृत्तमावृत्तिशून्यस्य । अत एव ()वर्णगणैर्हृतम्गणाश्चतुर्मात्रास्ते

Notes

निवृत्त्या यत् समायुक्तं द्विसंख्यातं तदुच्यते ।
निवृत्तिद्वयसंयुक्तं1त्रिसंख्यातम2पीष्यते ।। ११६ ।।

चतुष्कादौ चतुर्मात्रा यथोक्तगुरुलाघवाः ।
यथायोगं गणाः कार्या गीतिष्वासारितेषु च ।। ११७ ।।

अक्षरैर्या चतुर्मात्रा द्विमात्रा वर्णतस्तु सा ।
चित्रे कला 3बुधैर्ज्ञेया वृत्तौ सा द्विगुणा स्मृता ।। ११८ ।।

Abh

सर्वे समवर्णाः । समा(मा) स्तुल्यास्थाल्या (य्या)दिवर्णा येषु । तुल्यं (ल्यत्वं)तस्य सदृशाक्षरत्वात् ।

नन्वेतन्त्र ज्ञायते किपति तालभागे कियदक्षरजोनमित्याह । तालच्छेदाद् द्विगुणितैरिति । तालश्चञ्चत्पुटादि(:) तस्य छेदो भागो गुरुलघुप्लुतादि(:) तमु(म)पेक्ष्य द्विगुणितानि यान्यक्षराणि तैरुपलक्षिता ये गणाः ।

एतदुक्तं भवति । वदन्ति या(यो) गुरु(:)स्तो (सो)त्र गुरुद्वयम् । एवं द्वितीये ए (रे)कार (रे) लघुद्वयं गकारे प्लुतद्वयम् । एवं पञ्चपाणौ वाच्यम् । एवं तालभागद्विगुणितवर्णोपलक्षितैर्गु (ग)णैर्ह(र्हृ)तमिति वाहिति(द्विर्हृतं) स्वरूपं यथाक्षरमिति तात्पर्यम् ।। ११५ ।।

अथ द्विसंख्याने (तं)लक्ष्यते । नि(वृ)त्या यत् समायुक्तं तद् द्विसंख्याता (तम्)निवृत्तिद्वयसंयुक्तमिति । निवृत्तिरावृत्तिः । तया युक्तं द्विसंख्यात(म्) । तदा (द्वा)भ्यां त्रिसंख्यातम् ।। ११६ ।।

ननु तालच्छेदाननुगुणैरित्युक्ते गुरुद्वयं लघुनी प्लुतद्वयमिति प्राप्तम् । तच्चैतन्न दृश्यत इत्यत आह । चतुष्कादाविति । चत्वारस्तु गणा इति (भ. ना. ३१.१०६)चतुष्कमधिग्रहः । ओजे षडष्टावेव गणा इत्यादि च । तत्र चतुष्कादौ ये गणा उक्तास्ते चतुर्मात्राः कार्याः । न तु गुरुलघुनियमोऽत्र । तदाह । यथोक्तेति । उक्तेन विवक्षा वक्ष्यते । यथाभीष्टगुरुलघुभावा इति यावत् । तच्च यथायोगं चञ्चत्पुटादिताले योज्यम् ।। ११७ ।।

यथायोगमित्युक्तं तन्मार्गत्रयेऽपि स्फुटीकर्तुमाह । अक्षरैरित्यादि । अक्षरैर्या चतुर्मात्रा द्विमात्रा वर्णतस्तु सा । चित्र कलेति छेद उच्यते । तेनाक्षरैर्मात्राचतुष्कोपलक्षितो योगो भवति । स एव गीतात्मकवर्णमवेक्ष्य

Notes

वृत्तौ या वर्णमात्राभिश्चतुर्मात्रा प्रकीर्तिता ।
द्विगुणा दक्षिणे सा तु कला ज्ञेया प्रयोक्तृभिः ।। ११९ ।।

न मार्गभेदोऽक्षरेषु कश्चिदप्युपपद्यते ।
वर्णमात्राद्विगुणनाद्वर्णभेदः प्रकीर्तितः ।। १२० ।।

यथाक्षरेषु भूयिष्ठं गीतेष्वासारितेषु च1 ।
विधिरेष2 समुद्दिष्टो वर्णतालस3माश्रयः ।। १२१ ।।

Abh

द्विमात्रो भागो भवति । चतुर्मात्राक्षरांशे दशलघ्वक्षरपरिमाणगुरुवाह्यस्तदर्धरूपो लघुस्तदर्घे षण्मात्रात्मके तु भागे प्लुत इति यावत् । चतुर्मात्र एवं त्वक्षरभागे विंशतिलघुपरिमाणो गुरुभाग एव लघ्वादिषु । यथायोगमिति वार्तिके चतुर्मात्रे चत्वारिंशल्लघुमिति (त) तालगुरुसार्धप्लुतमित्येवं सर्वत्र तदाह । वृत्तौ सा द्विगुणेति । साक्षा (क्षर) योगाक्षिके (प्त)चतुर्मात्राकालवृत्तौ तालकला चित्रापेक्षया द्विगुणा(णां) बिभर्तीत्यर्थः ।। ११८ ।।

या च सा चतुर्मात्रकलावृत्तौ वर्णमात्राभिरुपलक्षिता कृता सैव वार्तिकापेक्षया द्विगुणां कलां दक्षिणां बिभर्ति । तदाह ।

वृत्तौ यावद्(या) वर्णमात्राभिश्चतुर्मात्रा प्रकीर्तिता ।
द्विगुणा दक्षिणे सा तु ।।

इति ।। ११९ ।।

तदेव स्थिरीकरोति । न मार्गभेदोऽक्षरेषु कश्चिदपि इति । मार्गेषु सर्वेषु च तावन्त्येवाक्षराणीति यावत् ।

ननु तावत्स्वेवाक्षरेषु कथं प्रतिमार्गं कालभेद इत्याह । वर्णमात्राद्विगुणनाद्वर्णभेद इति । वर्णाक्षरस्य भेद इत्यादेः । मात्रास्वरूपा येऽकारादिकाः । तस्या द्विगुणनात्वर्णस्येति । गीते भेदो मार्गंवैचित्र्यमिति यावत् । स तेन दैवेदिति चिते(त्रे)ए एति वृत्ते (त्तौ)देएएएएएएएए इति दक्षिणे ।। १२० ।।

तदुपसंहरति । यथाक्षरेषु भूयिष्ठमिति । बाहुल्येनायं विधिः । अन्यथाऽपि कश्चिदस्तु मध्यमस्तावदयं प्रकार इति भावः । एतच्चोक्तं प्राक् ।। १२१ ।।

Notes

द्विसङ्ख्याते निवृत्तिस्तु कार्य यस्यार्थ(र्ध)योगतः ।
द्विसङ्ख्यातार्थ(र्ध)योगेन त्रिसङ्ख्यातेऽपि चेष्यते ।। १२२ ।।

न चित्रे द्वित्रिसङ्ख्यातं कदाचिदपि योजयेत् ।
न च वृत्तौ1 त्रिसङ्ख्यातं गीतं वासारितं बुधः2 ।। १२३ ।।

त्रिसंख्यातं दक्षिणे स्याद् द्विसंख्यातं च वार्तिके ।
चित्रे यथाक्षरं प्रोक्तमिति मार्गविनिश्चयः ।। १२४ ।।

यथाक्षरं तु सर्वेषु मार्गेषु परिकीर्तितम् ।। इति केचित् ।
दक्षिणेनैव गत्वादौ निवृत्तौ वृत्तिवद् व्रजेत् ।। १२५ ।।

Abh

एवं यथाक्षरस्य परीक्षां कृत्वा द्विसंख्यातत्रिसंख्यातयोस्तामाह ।

द्विसंख्याते निवृत्तिस्तु कार्या यस्यार्धयोगतः ।
द्विसंख्यातार्धयोगेन त्रिसंख्यातेऽपि चेष्यते ।।

इति । आद्यस्य यथाक्षरस्यार्धयोगे द्विसंख्याते निवृत्तिरावृत्तिः । तस्यार्धयोगेन त्रिसंख्यातेन (पि) देवं देवैः संस्तुतमिति (भ. ना. ३१. १०७) यथाक्षरे चतस्रः कलाः । द्विसंख्याते देवमेका कला देवं देवैरिति द्वितीया सप्लुते तृतीया संस्तुतमिति चतुर्थी । एवं यावता चतस्रः कलास्तावतैव वर्ध(मान) योगः । यदा तु देवं देवैः संस्तुतनमितमित्यनेनैककलापाते यावता द्विसंख्या द्वे कले तदा त्रिसंख्यापातं द्वे संख्याने त्रीणि च त्रयस्तथा ।। १२२ ।।

कियन्त्यक्षराणि तालकलायामित्याशङ्क्याह । न चित्रे द्वित्रिसंख्यातमिति । चित्रमार्गे यथाक्षर– मिति । वार्तिके तु यथाक्षरं **द्विसंख्यातम्(म)**त्र । तत्र तु त्रिसंख्यातं न मा(भा) ति । दक्षिणे तु त्रयमपि । तदा तत् त्रिसंख्यातं दक्षिणे स्यादिति ।। १२३–१२४ ।।

तत्र त्रिसंख्यातस्य स्वरूपं स्फुटयति । दक्षिणेनैवेति । दक्षिणमार्गोचितं देव इत्यस्य शब्दस्य वर्णप्रकर्षं कृत्वा वृत्तौ(त्तिः) कर्तव्या । तस्यैव देव इति शब्दस्य ततोऽर्धप्रकर्षं कुर्यात् । तदाह । वृत्तिवत् पुनरावृत्तौ च ।। १२५ ।।

Notes

चित्रवच्च यथान्यायं त्रिसंख्याते विधिः स्मृतः ।
अनेनैव विधानेन द्विसंख्यातमपीष्यते ।। १२६ ।।

वृत्तौ वा दक्षिणे वापि प्रयोगस्य सदैव तु ।
वस्त्वादौ वस्तुमध्ये वा1 वस्त्वन्ते वा निवृत्तयः ।। १२७ ।।

प्रयोक्तव्या 2बुधैर्नित्यं विचार्याङ्गबलाबलम् ।
निवृत्तौ तु कला न्यूना यदा वस्तुवशाद् भवेत् ।। १२८ ।।

3अकलापातनात्तस्या वर्णः कार्यो निवृत्तिमान् ।
वर्णालङ्कारसौभाग्यं विच्छेदं करणस्य च ।। १२९ ।।

Abh

ततोऽप्यर्धप्रकर्षस्तदाह । चित्रवच्चेति । अनेनैव विधानेनेति । यथान्यायमिति । तेनैवात्रैक एवातिदेशः । वार्तिकेनैव गत्यादौ निवृत्तौ चित्रवद् भ(व्र)जेदिति वार्तिके । दक्षिणेनैव गन्धा(त्या)दौ निवृत्तौ वृत्तिवदिति दक्षिणे । केचिद् ध्रुवकमार्गापेक्षया चतुस्संख्यातमपीच्छन्ति। तत्तु मुनिना देहावृतमार्गत्रयस्यैव बाहुल्येन प्रयोज्यत्वात् तेन देव इति देवैरिति देवं देवैरिति देवं देवैः संस्तुतनमितमिति त्रिसंख्यातम् । देवमिति तं देवैरिति संस्तुतेति द्विसंख्यातम् ।। १२६ ।।

ननु चित्रे तावता द्विसंख्यातं नास्ति । यत्र स्व (त्व)स्ति तत्र निवृत्ताश्रयरूपम् । निवृत्तिश्च तस्मिन् स्थाने कार्येति निरूपयति । वृत्तौ वा दक्षिणे चेति । प्रयोगस्य गीतकासारितादेर्यद्वस्तु तस्यादौ मध्येऽप्यन्ते वा निवृत्तयः कर्तव्याः ।। १२७ ।।

अङ्गानां विविधादीनां बलाबलं विचार्यम् । विदारीवशाद्धि निवृत्तयो भवन्तीति यत्र विविधो विशेषत उपदिष्टस्तत्र सामुद्गसिद्धयै आदावन्ते चावश्यं निवृत्तिः । तत्र निवृत्ताश्रयं (तद्रूप निवृत्तिश्च कस्मिंस्थाने कार्येति निरूपयति । (वृ) ) उपवर्तने मध्यनिवृत्तिरिति । अथात्रोपदेशान्तरमाह । निवृत्तौ तु कला न्यूनेति । निवृत्ताविनिवृत्तौ च चतुर्थः । अस्य प्रयोगस्यालङ्कारादेर्वा सामर्थ्याद् यदा चतुर्मात्रा भवन्ति तदा न्यूनभाग एव कालप्रकर्षवर्णस्वरो निवृत्तिमानावर्तमानः कायो (र्यो)ऽवतील (शिष्ट)कलायां पूर्णता वर्णव्यवस्था (का)र्या (य)दि का(त)स्य निवृत्तिस्तत्रैव । न्यूनो(ना)प्यङ्गेऽवस्थानात्मनि वृत्तिर्निर्नावा(मा) निवृत्तिः । तामेव न्यूनां

Notes

तत्त्वादीनां प्रयोगश्च निवृत्तीनां प्रयोजनम् ।
वर्णतालाक्षराणां तु संयोगोऽयं मया स्मृतः ।। १३० ।।

आसारितेषु गीतेषु वर्धमानेषु चैव हि ।
वर्धमानं तु विज्ञेयं चतस्रः कण्डिका बुधैः ।। १३१ ।।

Abh

कलामाश्रित्य यत् कला(लो)नतालकलपूरणं तद्व्याप्यवर्णस्थाय्यादिनिवृत्तिमान् परिसमाप्ति (प्तः)कर्तव्य इति । तद्यथा चञ्चत्पुटे दाहिपवणांदोळइआ (दक्षिणपवनान्दोलिता) इत्यत्र योगाल्ल(घुः) इत्यनेन सहितः (तं)प्लुतः (तं)पूरयति । तुल्यार्थे अनिवृत्तिमपि समुच्चिनोति ।

ननु यथाक्षरे पाठे सौकर्यम् । अर्थावबोधसौकर्यं च द्विसंख्यातात् । धौ(धा)तुको गुण उक्त एव दोषा न्य(अ)त इत्याशङ्क्याह । वर्ण्यो(र्णा)लङ्कारसौभाग्यमिति । गीतिशोभाकरणस्य तदनुसारिणस्तन्त्रीपाठ्योदर्विच्छित्तिवि(र्वि)चित्राच्छेदास्त्वतो सानुगतानां चोत्कृ(ष्ट)लक्षणानां प्रकृष्टयोजनानिवृत्तीनां द्वित्रिस(त्रेष्व)न्तग (र्ग)तानां प्रयोजनं यथाक्षरे हि वैचिञ्यान्तरं न किञ्चिद् ग(गी)तवाद्ययोरिति ।

ननु पादयोजनया किमत्र प्रयोजनमित्याशङ्क्याह । वर्णतालाक्षरन्तु(राणां तु) संयोगोऽयमिति । वर्णः स्थाय्यादिः । अक्षराणि पदानीति । संयोग इति सम्यग् योजना । स्वरतालपदात्मकं गान्धर्वमिति । प्रागुक्तमिति भावः ।। १२८–१३० ।।

गीतेष्विति संयोगादुक्तम् । वर्धमानेष्विति बहुवचनम् । यथाक्षरं द्विसंख्या(ता)पेक्षया । तथाहि । चित्रे यथाक्षरं वर्तते । द्विसंख्यातं तच्च दक्षिणे । त्रीण्यधीति षोढा वर्धमानम् । एवमासारितस्य वर्धमानान्तर्भूतस्य स्वरूपं वर्धमानशरीरमेव तु वाच्यम् । किञ्च वर्धमानपदासारितान्यासारितेभ्योऽपि वर्धमानोत्पत्तिर्व्याख्येया । तत्र ज्येष्ठा वर्धमानशरीरमन्वेति । तद्द्वारेणेतरेभ्यः । ज्येष्ठान्या(स्वा)सारितानामनुप्रवेशात् । तत्र कीदृश्यो ज्येष्ठस्य खण्डनया तज् ज्ञायत इति वाच्यम् ।

ननूक्तं चतस्रः कण्डिकाश्चैवेति (भ. ना. ३१. ७६) । सत्यं तनु(त्तु)ध्रुवके हि कलादिभिश्चेत्याद्या न च काले…..द्या चतुर्भिर्न प्रायमेवोक्तमिति प्रस्फुरयितुं ग्रन्थान्तरं वर्धमानान्त(नं तु) विज्ञेयं चतस्र इत्यादि । चतुर्धावतः खण्डनमतश्चतस्रः ख(क)ण्डिकाः ।। १३१ ।।

विशाला सङ्गता चैव सुनन्दा सुमुखी तथा ।
उपोहनं विशालायाः कलाः पञ्च भवेदिह ।। १३२ ।।

षट् सङ्गताया विज्ञेयाः सुनन्दायास्तु सप्तकम् ।
सुमुख्याश्चोपवहनं नित्यमष्टकलं भवेत् ।। १३३ ।।

आदौ गुरुद्वयं कार्यं चतुर्दश लघून्यथ ।
उपोहने विशालायाः पुनरन्ते गुरुः स्मृतम् ।। १३४ ।।

यथा ।

झण्टुं जगति यवलितकादिगिनिगिकुचकुलतिति (निगितिति) चा ।
चतुर्भिरधिकैर्ह्नस्वैर्गुरुत्रसमन्वितैः ।
सङ्गतायास्तु विज्ञेय उपोहनविधिः क्रमात् ।। १३५ ।।

यथा ।।

झण्टुं जगति य वलितकदिगिनिगितितिझलतितिचा ।
चतुर्भिरधिकैरेवं लघुभिर्गुरुसंयुतः ।
सुनन्दाया अपि ज्ञेयो ह्युपोहनविधिर्बुधैः ।। १३६ ।।

यथा ।

झण्टुं जगति यवलितकदिगिनिगितितझलकुचझलतितिचा ।
षट्त्रिं (विं)शतिर्लघूनि स्युः सुमुख्याश्च गुरूणि तु ।
उपोहनविधाने तु1 ज्ञेयानि मुनिसत्तमाः ।। १३७ ।।

Abh

तत्र दशपरिवर्ते आद्यायाश्चतुरावृत्तिरिति सा विशाला । द्वितीया ततः प्रभृति संगते रूपक्रमात् संगमे वात्र लयान्तरनिवृत्तेः संगता । वितति हाहाभावात् सममृद्धिकला उपक्रम्यते हि कला–तालप्रमाणं च मध्यमासारित(त)स्तृतीया न……..सा सुनन्दा । चतुर्दशपरिवर्तप्रमुख एवास्त्विति सुमुखी । तासां चासारित (व)देवो (पो)हना । पञ्च षट् सप्ताष्टौ कलाक्षराणि त्वत्रान्यानि । तदाह । उपोहनं विशालाया इत्यादि वाक्यम् । नाकं वा गुरुत्रयमाद्यम् । झण्टुं अन्त्यं वा । गुरुसंयुते(त) इति गुरुणी(रूणि) च । एतान्येव गुरुणी(रूणि) ।। १३२–१३७ ।।

Notes

यथा ।

झण्टुं जगति यवलितकदिगिनिगितितिजलकुचजलतिति (झलतिति) चा ।
उपोह्यन्ते स्वरा येन तेन1 गीतं प्रवर्तते ।
तस्मादुपोहनं ज्ञेयं2 शुष्काक्षरसमन्वितम्3 ।। १३८ ।।

अथवोपोह्यते यस्मात् प्रयोगः सूचनादिभिः ।
तस्मादुपोहनं ह्येतद्गानभाण्डसमाश्रयम् ।। १३९ ।।

शम्यातालौ द्विरभ्यस्तौ सन्निपातोऽन्त्य एव च ।
उपोहने विशालायास्तालोऽयं परिकीर्तितः ।। १४० ।।

Abh

नन्द(तत्र)किमर्थमुपोहनं कस्मान्नो वचनमुच्यत इत्याशङ्क्याह । उपोह्यन्ते स्वरा येनेति । गात्रवीणायां येन वा का(क)रणमात्रेण स्वरा उपोह्यन्ते भाविनीत्युपारम्भिण ऊहविषयाः क्रियन्ते ऊह्यन्ते च धार्यन्ते उत तदुपोहनमुपवहनइ(मि)त्यपि दृश्यते । व्यवहारा येऽत्र च । दारव्यां वीणायां गीतं प्रवर्तते । तस्माद् व्यक्तवाक्क रणानुकाररूपे गीतप्रतिपत्तिः ।

ननु व्यक्तार्थरुद्रादिपदद्वारेणैवेत्येवं गात्रदारुवीणागतं यद्वाक्करणमात्रं तदेवोपोहनम्। तच्च हरेति ष्ट(ह)काराद्यन्यतमाऽव्यक्तार्थवर्णयोजनाय प्रक्रम्ये(मे) प्राप्तेऽभ्युदयसिद्धौ न यतते । झण्डु(ण्टु)मादिभिर्योज्यते । न तु ताद्येव । तदाह । शुष्काक्षरसमन्वितम् ।। १३८ ।।

एवं गात्रदारुवीणाभिप्रायेण सप्रयोजनं निर्वचनमुक्त्वा ग्रन्थ(थ्य)मानं नृत्यमाश्रित्याह । अथै (थ)वोपोह्यते यस्मात् प्रयोगः सूचनामिति (दिभिः) । सार्थवेदविषयोऽयम् । प्रयोगमाश्रित्यैवेत्यादिसूचनाभिनयेन शुष्काक्षरगाने भाण्डसहिते यदुक्तं

येऽपि चान्तरमार्गाः स्युस्तन्त्रीवाक्करणैः स्मृताः ।
तेषु सूचा(ची) प्रयोक्तव्या भाण्डेन सह ताण्डवम् (वे) ।।

(भ. ना. ४–३१८) इति । तेनोपोह्यते प्रयोगसूचनाभिनयद्वारेण सूचि(च्य)ते यत्र तदुपोहनम् ।। १३९ ।।

अथवा विधिमाह । शम्य(म्या)तालाविति । द्विरित्युक्तेऽभ्यस्तात्वि(त्त्रि)कयुक्तेऽपि प्रत्येकं स्यादिति । ससता इति स्यात् तदर्थमाह । अभ्यस्तौ समुदितौ ।

Notes

द्विकलः सङ्गतायाश्च तालश्चञ्चुपुटो भवेत्1 ।
2त्रिकलो युक्ततालादिः सुनन्दायास्तथैव च ।। १४१ ।।

चञ्चत्पुटश्च द्विकलः सुमुख्याः स्यादुपोहने ।
उपोहने 3द्विरभ्यस्तैस्ततः कार्या तु कण्डिका ।। १४२ ।।

एतान्युपोहनानीह चत्वारि गदितानि तु 4 ।
आनुपूर्व्यात्(र्व्या) प्रयोगं तु कण्डिकानां निबोधत5 ।। १४३ ।।

शम्या तालौ(लः) पुनः शम्या ततस्तालो यथाक्रमम् ।
त्रिकलः सन्निपातश्च विशालायाः प्रकीर्तितः ।। १४४ ।।

Abh

द्वित्रिकाल उद्धट्टतालादिर्युक्ता (क्तश्)चञ्चत्पुटः । तथैव चेति । न विशालायां शम्यादि– चञ्चत्पुटगतगुरुलघ्वादिविभागः । अत्र तु तद्गतो गुरुलघुप्लुतविभागो न स्वरगुरुप्रस्तारं कलासप्तकमिति यावत् । तदयं प्रस्तारः । शंतंशंताशंनिशिताश निशनिताशप्रश । अथ विप्रयोगमाह । न द्विरभ्यस्त इति सूच (यन्) नृत्यप्रयोगभेदद्वारा वृत्ति(:) । अतालसतालभेदादित्यन्ये । कथं खण्डी(कण्डिका)कार्येत्याह । आनुपूर्व्येति । न त्वासारितसम्पाद इव व्युत्क्रमेणेति ।। १४०–१४३ ।।

तत्र गुरुकण्डिकारूपत्वे योग्यतापरं वर्धमानशब्दवाच्ये तालविधिमाह ।

शम्या तालो पुनः शम्या ततस्तालो यथाक्रमम् ।
त्रिकलः सन्निपातश्च ।

इति इसनितानि इसताप्रनि इस इति तापनकलायां प्रस्तारः । यथाह ।

मध्यमासारितान्यस्य वस्तुनो यदुदाहृतः ।

इति । अक्षरार्थस्तु इह कलादिकद्विकलयु्ग्मता दृश्यते । तत्र तिस्र इति प्रस्तारे प्राप्ते आह । प्रकीर्तित(:) । प्रस्तारस्य प्रवेशश्च कीर्ति (तः)। प्राधान्यमादित्वं प्रतीति । तत्राष्टासु कलासु नृत्तापवादौ शम्यतालौ

Notes

चञ्चत्पुटस्य1 (श्च) द्विकलः सङ्गताया अपि स्मृतः ।
चतुष्कल्पः (लः) सुनन्दायाः स एव गदितो बुधैः ।। १४५ ।।

सन्निपातद्वयोपेतो द्विमात्रस्तु प्रयोक्तृभिः ।
कार्यश्चतुष्कलो युग्मः सुमुख्याश्च यथाक्रमम् ।। १४६ ।।

वर्धमानस्य तालोऽयं कण्डिकानां पृथक् पृथक् ।
मया प्रोक्तः पुनश्चैव संहतानां2 निबोधत3 ।। १४७ ।।

Abh

किमविच्छेदेनेत्याह । पुनरिति । विच्छेदः पुनरर्थस्य दर्शनम् । ततेह (त इह) कण्ठोक्तशम्यातालान्तरबाधितेन विच्छेदो लक्ष्यते । तेन विच्छिन्नौ तावित्यर्थः । ते सनिता पुनरस्ति काकाक्षिवत्तेन प्रनिशम् । एवमर्थं केचिद– क्षररूढं कर्तुमशक्ताः प्रकरणादिबलदमुमेवार्थमाहुः ।। १४४ ।।

चञ्चत्पुटश्च द्विकलः सङ्गत(ताया) इति । चतुष्कलः सुनन्दी(न्दा) यः(याः) स एवेति । चञ्चत्पुट एवेत्यर्थः । आनिविश आनिवित आसविव आनिविशं सन्त चतुष्कलत्वात्मकसा(स)मृद्धियोगः । दुनदि समृद्धाविति (पा. धा. ५७)हि स्मृतः । इयमेव द्विगणिकमुख्यारोपमत एव द्वौ सन्निपातौ भवतः ।। १४५ ।।

षोडशकले तावद् द्वे मात्रे सम्पद्येते । तदाह ।

सनिपातद्वयोपेतो द्विमात्रस्तु प्रयोक्तृभिः ।
कार्यश्चतुष्कलो युग्मः समुख्य(सुमुख्या)श्च ।

इति । किमिति द्वि(:) सुनन्दा इति । सुमुखीति सन्देहप्रयोगस्य प्रागुपक्रान्तखण्डिकात्मन उपोहनस्य च भेदादपसार्यते तदा प्रयोक्तृा/?/भिरिति ।। १४६ ।।

एतदुपसंहरति । यथाक्रमं

वर्धमानस्य तालोऽयं कण्डिकानां पृथक् पृथक् ।
मया प्रोक्तः ।

Notes

पूर्वं विशाला कर्तव्या सङ्गता तदानन्तरम् ।
सङ्गताया ग्रहं कृत्वा विशाला पुनरिष्यते ।। १४८ ।।

कनिष्ठासारिते तालो यो मया परिकीर्तितः ।
स एव सर्वः(सर्व एव) कर्तव्यः प्रथमे कण्डिकाद्वये ।। १४९ ।।

Abh

इति । वर्धमानस्य वृद्धियोगस्य पञ्चषष्टिकलस्य याः कण्डिका भागास्तेषां पृथक् पृथगेवायं तालविधिरुक्तो न चैक (त्र)स कदाचिदेताः प्रयोगार्हा इति । यथाक्रममिति क्रमेण चतुष्टयप्रयोग इत्यर्थः । तत्र पञ्चषष्टिकलत्वाज्ज्येष्ठासारितवदवभाति । अत्र तदनु प्रविष्टानि चासारितान्तराणि तन्नान्तरीयकानि च भवन्ति । एवमासारितचतुष्टयोचितकलासंख्ये चोभये चाहतचतुष्के प्रयुज्यमाने स्फुट एव तन्निरासः । एवं कण्डिकारूपं वर्धमानमासारिताभासवर्धमानं चोक्तम् । अथ वर्धमानासारितस्य स्वरूपं वक्तुमुपक्रमते । पुनश्चैव संहतानामिति । संहतविषयः पूर्वविधिरुक्तः । प्रथमां कण्डिकां कृत्वा (भ. ना. ३१. ८१)…द्वितीयां कण्डिकां कृत्वेत्यादिना (भ. ना. ३१. ८२) । अधुनाऽपि तद्विषयोऽपीति पुनर्ग्रहणम् । न च पौनरुक्त्यमात्रमाशङ्क्यम् । अनवगतपूर्व इहात्रार्थो यथोच्यते तदाह । निबोधतेति ।। १४७ ।।

संहतत्वे चान्योन्यापेक्षवृत्तित्वे दशपरिवर्तयोगे इहोच्यत इत्याशयेनाह । पूर्वं विशाला कर्तव्येति । तस्यां च पञ्चकलोपोहनयोग (गो)क्तनिष्ठासारितधीस्तावयुङ्क (दङ्कु)रीभवति । तदनन्तरं न केवलेऽपि प्रयोगकलायां कलाद्वयं पिण्डीकृतनून(तनू)मयं कनिष्ठासारितप्रयोग इति धीर्भवति । दृढरूढप्राच्यप्रत्ययप्रभावानुवर्तिनि हि दृष्ट उत्तरप्रत्यये प्रसारितधीनाशकबाधाविशेषो दृश्यते । इह पुनः संवर्ती तद्रूपोपरिगतस्तद्विशेषो दृश्यते बुद्धौ । अत एव वक्ष्यते । बालं नवकलं ज्ञेयमिति । (भ. ना. ३१. १५५) । एवं षट् परिवर्तास्ततोऽपि सङ्गताः । तद(न)न्तरं किमित्याह । सङ्गताया ग्रहं कृत्वेति । आदौ गृह्यमाणत्वाद्ग्रहः उपोहनम् । तेन षट्कलमुपोहनं कृत्वा तदनन्तरं सङ्गता प्रयोज्या । तत्समनन्तरमेव च विशालेति । लयान्तरमेतत् क्रियापा(सा)र्वकाल्यमात्रे प्रतीयते । न तु समनन्तर्य(र)मिति तदनन्तर्य(र)मित्युक्तम् ।। १४८ ।।

ननूक्तं एवायं परिवर्तविधिरित्याशङ्क्याह ।

कनिष्ठासारिते ताले(लो) यो मया परिकीर्तितः ।
स सर्व एव कर्तव्यः प्रथमे कण्डिकाद्वये ।

सुनन्दा सङ्गता चैव विशाला च यथोदिता ।
सुनन्दाया ग्रहं कृत्वा ततश्चैवं प्रयोजयेत् ।। १५० ।।

मध्यमासारिते तालो यो मया परिकीर्तितः ।
1सोऽस्य त्रयस्य कर्तव्यः सुनन्दाद्यस्य योक्तृभिः2 ।। १५१ ।।

3सुमुखी च सुनन्दा च सङ्गता प्रथमा तथा ।
सुमुख्यास्तु ग्रहं कृत्वा यथोक्तं सम्प्रयोजयेत् ।। १५२ ।।

Abh

इति । कनिष्ठासारिततालः कण्डिकाद्वयतालविषयस्तदवबन्धस्तद्रूपत्वं प्राप्तः कर्तव्यः तेन सङ्गताविशालातालकृत्येऽन्यया(नेन) चायं (चेदं) लयान्तरम् । अत एव वर्धमानरूपाङ्कु– रितत्वाद्वर्धमानासारितमिदमुच्यते । कण्डिकाद्वयशब्देन तज्जातस्तालः । अन्ये(ने)न प्रथमे कण्डिकाद्वये यो मया ताल उक्तः स सर्व(:) कनिष्ठासारिते कार्य इति योजयति ।। १४९ ।।

एवं त्रयः परिवर्ता उक्तास्ततोऽपि

सुनन्दा सङ्गता चैव विशाला च यथोदिता ।

इति षोडशाष्टौ नवेति यावत् । क्रममात्रमेतदुक्तमित्यत्र प्रयोगमाह । सुनन्दाया ग्रहमिति । सप्तकलमुपोहनं कृत्वैवं तूक्तक्रमं यत्र का(कु)र्यादिति ।। १५० ।।

अत्र…….तालविधिमाह । मध्यमासारित इति । मध्यमासारिते यस्तालः सोऽस्य सुनन्दाद्यत्रयस्य सम्बन्धिनस्तदधितिष्ठस्तदाक्रान्तस्तालः कार्य इति । शम्यादिरत्र स्थानीयः सम्पद्यते । यदि वा ताल इति तत्स्थानभूतकलास्वस्याधारो भवति । यदि वा ज्स्य(य)त्र यत्र ताल उक्तस्तेषु मध्यमः कार्य इति ।। १५१ ।।

एवं षट् परिवर्तास्ततस्तु सुमुखी चेत्यादि । प्रथमेति । विशालक्रममुक्त्वा प्रयोगमाह । सुमुख्यास्त्विति । ग्रहः उपोहनमष्टकलं कृत्वा चतस्रः प्रयोज्यन्ते । ज्येष्ठासारितं निष्पाद्यते । उचितोपवहनसिद्धय एवं चेत्थं क्रम

Notes

ज्येष्ठासारितके तालो निःशब्दः शब्दवांस्तथा ।
स सर्व एव कर्तव्यो बुधैश्चतसृणामपि ।। १५३ ।।

संयोगे कण्डिकानां तु तालोऽयं परिकीर्तितः ।
एवमासां समायोगाद् वर्धमानकमिष्यते ।। १५४ ।।

बालं नवकलं ज्ञेयं दशसप्तलयान्तरम् ।
1मध्यमं तु त्रयस्त्रिंशत् पञ्चषष्टिस्तथोत्तरम् ।। १५५ ।।

Abh

उक्तोऽप्युपोहने तु कर्तव्ये सुमुख्या आदिभावो यस्मादेव येन षष्ट्यसंख्यापूरणं त्वन्यथापि सम्भवत्येव । एवं पूर्वत्रापि मन्तव्यम् ।। १५२ ।।

अत्र तालमाह । ज्येष्ठासारितक इति । ज्येष्ठतालस्य (श्च) तिसृणां सम्बन्धीत्ययत्नः कार्यो (र्यः) । यद्वा चतसृणां यस्ताल उक्तः स ज्येष्ठासारितके कार्य इति प्रागु (ग्व) द्योजना ।। १५३ ।।

अत एवाह । संयोगे कण्डिकानां तु तालोऽयमिति । तुरवधारणे । आसारितात्मनि संयोगे योजनाविशेषाधीने प्रयोगे कण्डिकानामेव सम्बन्धी ताल उक्त इति दश परिवर्ताः । आद्ये कनिष्ठमत एव रूपान्तरेणासारितात्मना परिवृत्तिसहिष्णु (व)त् प्रथमे परिवृत्तिव्यवहारः । न तु केवलमावृत्ति– बलोचितव्यपदेशद्वितीयादिपरिवृत्तिसाहचर्यमात्रादेवैकत्वाभ्यावृत्तिकृतसकृच्छद्बव्यवहारवद् द्वयोर्लयान्तरम् । त्रिषु मध्यमं चतुर्षुज्येष्ठमिति विभागः । ततोऽपि समुदिता वर्धमानोत्पत्तिरित्याह । एवमासामिति । एवमिति दशसु । आसामिति कण्डिकानाम् । प्रधानमत्र तत्तालयोगः । सर्वत आसमन्ताद् योजनया दशरूपिपरिवर्तरूपाया वर्धमानं चतुर्विशत्युत्तरकलाशतात्मकमित्यर्थः ।। १५४ ।।

दशसु परिवर्तेष्वासारितविभागं स्फुटयति । बालं नवकलमिति । नवकले प्रयोगे सम्पिण्डिततद्रूपप्रतिपत्तिरूपोपोहनयोगाद्भूताद् भविष्यतश्च प्रयोगौचित्यादित्येतदाह ज्ञेयमित्यनेन । तदनन्तरप्रयोगोपस्कारादेव सप्तदशकलयानान्तरं कञ्चक(कण्डिका)रूपं ज्ञेयमित्यत्रापि प्रयोज्यम् । अन्यथा

Notes

कलानां वृद्धिमासाद्य त्वक्षराणां च वर्धनात् ।
लयस्य वर्धनाच्चापि वर्धमानकमुच्यते ।। १५६ ।।

आसारितेषु गीतेषु 1वर्धमानेषु चैव हि ।
द्विगुणस्तालयोगेन कार्यो2 ह्य (र्यस्त्व) क्षरजो विधिः ।। १५७ ।।

समाप्तावन्तरचितः3 सन्निपातो यदा भवेत् ।
अन्त्या कला द्विमात्रा तु तदा ज्ञेया प्रयोक्तृभिः ।। १५८ ।।

Abh

पूर्वानपेक्षायां कनिष्ठमेव स्यात् । मध्यमं तु त्रयस्त्रिंशत् । परिवर्तत्रयेणेत्यर्थः तुर्विशेषं द्योतयति । पूर्ववदपेक्षाऽ– स्तीति । पञ्चषष्टिस्तथोत्तरम् । ज्येष्ठं परिवर्तचतुष्केणेत्यर्थः । तथेत्यपेक्षाविरहोऽत्र मध्यमादेव ।। १५५ ।।

ननु कण्डिकाचतुष्कमात्रमेव वर्धमानमस्तु । किमनेन परिवर्तक्रमेणेत्याशङ्क्याह । कलानां वृद्धिमासाद्य त्विति । तालस्वरूपविशेषो वर्धमानं तालस्य च कलात्मकमिति तद्वृद्ध्यैव मुख्यं वर्धमानत्वत् । तद्रूपान्तरमाह सहिष्णुत्वमात्रादेव । सा चेत्थं प्रदर्शितेन यथा भवति । चतुर्विंशत्युत्तरशतरूपतापत्तेः । तद्वृद्धेरेव च प्राधान्यम् । क्रियादर्शितसामान्येति तदायत्ता चाक्षराणां पदवाक्योभयात्मनां वृद्धिः । तद्वृद्धौ यस्य वृद्धिरिति तद्वृद्धिरिति ।। १५६ ।।

नन्वासारितेषु पदविधिरुक्तः । चत्वारस्तु गणा इति (भ.ना.३१.१०६) । अत आसारितवर्धमानद्वि(वि)भागे कण्डिका न लभ्यतां नाम । पदविधिकण्डिकाप्राधान्ये तु कथमसावित्याशङ्क्य पदविधेर्व्यापकं लक्षणमाह । आसारितेष्विति । सर्वत्र बहुवचनम् । उक्तवक्ष्यमाणभेदात् तालयोगेन द्विगुणाक्षरविधिस्तेन तालमात्रायाः पदमात्रे द्वे । तालमात्राद्वयोर्न(न) रूपो च(पश्च)तुर्मात्रो गणः । अक्षरग्रहणं समर्थानर्थकसर्वसंग्रहार्थम् ।। १५७ ।।

अत्रापवादमाह । समापा(प्ता)वन्तरचित इति । तालकलायां चतुर्मात्रो गणस्तावदिति सर्वस्योत्सर्व(र्ग)स्तस्याहं(यं)विशेषोऽपवादः । अन्त्य(न्त्या) असमस्तस्य गीतकासारितवर्धमान– पाणिकाकण्डिकादेर्गेयस्य या परिसमाप्तिस्तत्काले कला सा द्विमात्रे (त्रा) त्विति द्विमात्रैवेति चेत्येवमादिरूपपदगते(ति)र्यस्यां सा तादृशी ज्ञेयातुश्चार्थे । योऽसावन्तरचित इत्यन्तरे मध्ये चितः……दितः

Notes

एवमेतन्मया प्रोक्तं वर्धमानस्य1 लक्षणम् ।
आसारितानां वक्ष्यामि विस्तरं लघुलक्षणम् ।। १५९ ।।

Abh

सन्निपातः । तद्यथा । आसारिते प्रथमार्धपञ्चपाणावाद्यस्य यदा समाप्ता भवेत् मुख्याङ्गविभागपरिकल्पने तदा चासा……सन्निपातकलान्तरसमाप्तगतावितिमात्र इव भवति । अपरथा विभक्ताङ्गस्य विभक्ताङ्गविशेषो दुरुपलक्ष एव स्यात् । मुनिना तूदाहरणं देवं देवैरित्यादि (भ.ना.३१.१०७) यदुक्तं तदविभक्ताङ्गमाङ्गमाद्यम् । अन्त्य(न्त्या) कला द्विमात्रेति मन्तव्य इ(व्ये) त्युपाध्यायाःटीकाकृतस्तु सन्निपातव्युत्पत्त्या शम्यादिव्याख्ययाऽवान्तरतालसमाप्तौ नायं विशेषविधिरिति प्रतिपन्नाः । तेषामन्या(न्त्या) कला द्विमात्रेतीयता सिद्धेः शिष्टश्लोकभागो व्यर्थ एवेत्यलमनेन । प्रयोक्तृभिरिति । प्रयोगविश्रान्त्याऽऽयासविदलीभावे सति शेषप्रयोगसौकर्यमिति भावः ।। १५८ ।।

एवमेतदिति । अपौनरुक्त्यमाह । एवमिति पूर्वोक्तेन प्रकरणेन वर्धमानस्य लक्षणं विच्छित्त्यन्तरेणेति यावत् । अथेदानीं ध्रुवकासारितलक्षणं वक्तुं ध्रुवकस्य सकलमार्गभूतस्य स्वरूपे तालतत्त्वमार्गान्तरस्वरूपं च सुज्ञातं भवति । किन्तु तथाऽऽसारितरूपेण साकं वर्धमानस्य कार्यकारणभावाधाराधेयताभिज्ञातेयं वर्धमानस्य ध्रुवकमार्गस्याधारात् । उक्तं हि प्राक् ।

वृत्तिदक्षिणचित्रेषु मार्गेषु विनियोजितम् ।

(भ.ना.३१.७५) अत आधेयभावाद् वर्धमानलक्षणमुपसंहृत्य ध्रुवकासारितलक्षणमासूत्रयति । आसारितानामिति । वस्त्वादयो वृत्तौ भावप्रधानाः । आसारितानां ध्रुवकलापातानां ज्ञापकं ध्रुवकमार्गस्य लक्षणं वक्ष्यामीति । नित्यसापेक्षत्वादसमासः । तच्च लक्षणं विस्तरं कृत्वा वक्ष्यामि । प्रतिपदं शम्यादिपाते निष्क्रामावापादिनाङ्गुलिविभागस्तु विस्तीर्णता । अत्रैव सकलं निरूपितम् ।………त्याशयेनासारितानां च वर्धमानबहिर्गीतानां ताण्डवाध्याये (भ.ना.४१.४) प्रदर्शितः प्रयोगविधिरित्यतिदेशेन–

एवं प्रयोगः कर्तव्यो(एवमेषविधिः कार्यो) गीतेष्वासारितेषु च (तेष्वति) (भ.ना.४.३९२) इति । तेनाऽयं ध्रुवासारितविधिः स्वतन्त्रोऽप्युपदेश्य एव । सकलमार्गमूलभूतरवा (स्य) चाऽस्याभिधानार्हता ।। १५९ ।।

Notes

अन्यूनायां कलायां तु ध्रुवं प्राज्ञो निवेशयेत्1 ।
अथ तालाक्षरवशाच्छेषान् पातांश्च योजयेत् ।। १६० ।।

प्लुते लघ्वक्षरे चैव ध्रुवे साम्यं न विद्यते ।
न विद्यते त्रिभिः पातैः समत्वमुपनीयते2 ।। १६१ ।।

तालैश्च सन्निपातैश्च शम्याभिश्च ध्रुवेण च ।
कनिष्ठासारितं कार्यं मध्यमं ज्येष्ठमेव च ।। १६२ ।।

द्विगुणोत्तरया वृद्ध्या ह्यस्यैव तु मध्यमं विधातव्यम् ।
प्रस्तारेण कलानां शम्यातालान्तरोपेतम् ।। १६३ ।।

Abh

तत एव न्यूनाधिकतालकलाप्रयोगोऽत्र कलासाम्यलाभे तदर्धादिभेदलाभात् तदाह । अन्यूनायां कलायां तु ध्रुवमिति । तुरेवार्थे । ध्रुवमार्गेऽन्यूनायामेव कलायां कुर्यात् । एवं हि कलामाने लब्धे तद्द्वैगुण्यादिना चित्रादिमार्गविभेदो ज्ञातुं शक्यस्तदाह । प्राज्ञ इति ।

ननु यद्येकरसगुरुप्रस्ताररूपता तर्हि चञ्चत्पुटादिरूपत्वम् । यदासारितप्राणि(ण)त्वेनोक्तं तद्वत् सुज्ञानमित्याशङ्क्याह । अथ तालाक्षरवशाच्छेषान् पातानिति । यद्यपि परः प्लुतादिविभागोऽत्र नास्ति तु चञ्चत्पुट–इत्यादि–तालक्षरकृतस्तदापि तदाया (य)ता येऽत्र पाताः शम्यादयः शिष्यन्ते ताने(त ए) व योज्यन्ते न च चञ्चत्पुटादिक्षिप्तः (प्ताः) । अथेति यद्यपीत्यर्थे । चोऽवधारणे ।। १६० ।।

एतेष्वपि शेषं स्फुटयति । प्लुते इत्यादि । ध्रुव इति गुरुः । तेन प्लुते लघ्वक्षरे गुरुणि च प्रयुज्यमाने साम्यं न विज्ञायते । तेन शम्यादिभिस्त्वेभिः पातैरुपलक्षितं समत्वमुपनीयते बुद्धौ निवेश्यते । अनेन ध्रुवकमार्गेणेति भावः ।। १६१ ।।

एवं हि सत्येवंभूतोऽयमासारितप्रयोगो भवतीत्याह । तालैश्चैत्यादिध्रुवेण चेत्यन्तेन । एकरसगुर्वात्मना ये शम्यातालसन्निपाताश्चकारव्यावृत्तिस्तत्र कण्डिकोपोहनगमितो ध्रुवश्च तैः कनिष्ठमध्यज्येष्ठादि कर्तव्यम् । एवशब्दो ध्रुवेणेत्यन्तो(तो)ऽनन्तरं द्रष्टव्यः । कारोऽस्य वृत्तिं द्योतयति । विशेषाश्चकाराः समुच्चये ।। १६२ ।।

ननु कनिष्ठे तु योगक्षेमता कथमितरयोरित्याशङ्क्याह । द्विगुणोत्तरयेति । द्विगुणोऽप्यन्तादेव द्विगुणत्वं गुणः पु(पू)ज्य अण्वन्तानामिति । भिन्नं मुनीनां मतम् ।

Notes

1aपूर्वं शम्या कार्या द्विगुणस्तालः 1कलाद्वये शम्या ।
पुनरेककलस्तालस्त्रिकलः स्यात् सन्निपातश्च ।। १६४ ।।

त्रिकलोऽन्यस्मिंस्तालः शम्यैककला कलाद्वये तालः ।
द्विकला च पुनः शम्या तालः कलिकश्च कर्तव्यः ।। १६५ ।।

2aत्रिकलश्च सन्निपातो भूयो विधिरेष एव कर्तव्यः ।
द्वादशकलास्तृतीये तस्यान्ते सन्निपातश्च2 ।। १६६ ।।

प्रथमस्त्वष्टकलः स्याद् द्वादशकलिका(कौ) 3aतथा परे(रौ) ज्ञेये3 (यौ) ।
अन्त(न्त्य)श्च सन्निपातो मध्यस्यासारितः प्रो(तस्यो)क्तः4 ।। १६७ ।।

ये पूर्वमङ्गुलिकृताः प्रवेशनिष्क्रामसंज्ञया गदिताः ।
ते सर्वे कर्तव्या मध्ये त्वासारिते तज्ज्ञैः ।। १६८ ।।

Abh

आभ्यां गुण्यन्ते नोत्तरा प्लवमाना वृद्धिमनुधावन्ति । या वृद्धिस्तयोपलक्षितः । यस्मान् मध्यमं विधेयं तस्माच्छम्यादयो ह्युक्ताः ।

नन्वेवमेकशम्यास्थाने द्वे शम्ये स्यातामित्याशङ्क्याह । प्रस्तारेणेति । कलानां निःशब्दरूपाणां यः प्रस्तारो विकल्पविधौ प्रवशनिष्क्रामात्मा तेनोपेतं शम्यातालयोरन्तरे मध्ये ।। १६३ ।।

ततश्चायं प्रस्तारो भवतीत्याह । पूर्वं शम्या कार्येत्यादि । द्विगुणस्ताल इति । द्विकले यस्याधिष्ठेये । तेन द्वितीयस्यां कलायां स स्वयं तालस्तिष्ठति । पूर्वस्यां निष्क्रामं निवेशयति स्वरतालेनाधितिष्ठत इति वामहस्तेन भवति । एवं त्रिकलः षट्कल इत्यादयोऽपि मन्तव्याः ।। १६४–१६५ ।।

एवं ज्येष्ठेऽप्यन्यस्मिंश्चेत्यनेन सन्निपातस्य चञ्चत्पुटशेषता ध्रुवेण विभक्ताङ्गत्वेन सन्निपातान्तवस्तुत्रयोपेतत्वमस्याह । त्रिकलश्च सन्निपात इति । एते द्वितीयवस्तुपञ्चपाणिना । भूयो विधिरेष एवेति । तृतीयं तु । तदेव स्पष्टयति । द्वादशकलास्तृतीय इति ।। १६६–१६७ ।।

ननु प्रथमपञ्चापाणेराद्या सन्निपातकला प्रथमवस्तुनापहृता पञ्चपाणिना च द्वीतीयस्येति कथं द्वादश कला भवन्तीत्याशङ्क्याह । ये पूर्वमङ्गुलिकृते (ता इ) त्यादिना प्रवेशो निष्क्रामो() इत्यन्तेन क्रमेण

Notes

1a.N: कार्या द्विकलास्तालाकलाद्वयं शम्या । (५९ ab N)

अथ ज्येष्ठे तु कर्तव्यं शम्यातालकलान्वितम् ।
शरीरं हि बुधैर्नित्यं पञ्चषष्टिकलान्वितम् ।। १६९ ।।

तस्यावापोऽथ निष्क्रामो विक्षेपोऽथ प्रवेशनम् ।
अङ्गुलीनां तु कर्तव्यं कलामानं चतुष्कलम् ।। १७० ।।

पूर्वं शम्या कार्या चतुष्कलोऽन्त्यो भवेत्ततस्तालः ।
शम्या चतुष्कला स्यात्तालो द्विकलस्तथा चैव ।। १७१ ।।

कार्यस्य(श्च) सन्निपातोऽपि षट्कलः षट्कलश्च1 तालः स्यात् ।
द्विकला च पुनः शम्या चतुष्कलः स्यात् पुनस्तालः ।। १७२ ।।

Abh

ये गदितास्ते पूर्वं कृत्वा क्रमेण कनीयस्यां द्वयङ्गुलीभिः कृताः सम्पादिताः कर्तव्याः । तेनाविभक्ताङ्गे चञ्चत्पुटे द्विकले पादभागे प्रथमे कनीयसीति यावत् । अन्त्ये तर्जनीं प्रति पञ्चपाणौ आद्ये कनीयसीं स(प्र)ति चतुर्थे तर्जनी(नि)कादि(दी)नि । पञ्चमे कनीयसी शता । षष्ठे तर्जनीं प्रतीति । एवं द्वितीये मुक्तसु(क)सन्निपातः । विभक्ताङ्गे तु आद्या शम्या मुक्तिकास्थानीया । ततो नितानिशता प्रनिशता प्रनिश इति पादभागः । चतुष्के कनीयस्यादयस्तर्जन्यन्ताः निप्रनाशनितानिप्रतिप्रतिशिसं पादभागषट्कः पञ्चपाणेः कनीयस्याश्चतस्रः पुनः कनीयसी तर्जनी चेति ।। १६८ ।।

एवं ज्येष्ठे । एवं द्विधा चाङ्गुलिविभागो मन्तव्यः । तदाह । अथ ज्येष्ठे कर्तव्यमिति । प्रनीति । एवं द्वितीये मुक्तस्तत्सन्निपातः । विभक्ताङ्गे ज्येष्ठेऽप्येकमेव द्वैविध्यं कर्तव्यमिति यावत् ।। १६९–१७० ।।

तत्र विभक्ताङ्गं तावत् प्रस्तारद्वारेण स्वकण्ठोक्तेन दर्शयति । पूर्वं शम्या कार्येति । कृतविभक्ताङ्गे शम्याद्या मुक्तप्राये (या इ)ति । प्रथमवस्तुन्यष्टकले पञ्चपाणेराद्यः सन्निपातः प्रविशति । तत्र पञ्चपाणौ द्वितीयस्याद्यः सन्निपातोऽत्यन्तं भजते । द्वितीये तु मुक्त इति शम्याद्वयेन……न्त्या बोध्यते । तेनायं प्रस्तारः । स आनिविता आनिविस्स आताविप्र आनिवसं आनिविप्र आताविश आनिविता आनिविश आताविप्र आनिविशम् तदाह । पूर्वं शम्येत्यादिना कार्यश्च सन्निपातोऽपि षट्कल इत्यन्तेन ।। १७१–१७२ ।।

Notes

शम्या चतुष्कला स्यात्तालो द्विकलस्ततश्च कर्तव्यः ।
पुनरेव सन्निपातश्च षट्कलः संविधातव्यः ।। १७३ ।।

विधिरेष एव कृत्स्नः पुनस्तृतीयेऽपि सन्निपाते तु ।
पुनरेवैषामङ्गुलिविक्षेपान् सम्प्रवक्ष्यामि ।। १७४ ।।

पूर्वं शम्या तथाऽऽवापो निष्क्रामश्च ततः पुनः ।
1aविक्षेपोऽथ पुनस्तालः पुनरावाप एव च ।। १७५ ।।

अनामिकाकनीयस्योर्निष्क्रामश्च पुनस्तयोः ।
1द्वाभ्यां सहैव विक्षेपः शम्या चावाप एव च ।। १७६ ।।

मध्यमायां ततस्तालो विक्षेपोऽथ प्रवेशनम् ।
आवापश्च ततः 2कार्यस्तर्जनीनिष्क्रमः पुनः ।। १७७ ।।

विक्षेपश्च पुनः कार्यः सन्निपातस्तथैव च ।
कलाः सप्तदशोपेताः3 सन्निपातो भवेदयम् ।। १७८ ।।

Abh

प्रथमं वस्तूक्तं सन्निपातश्च षट्कः(ट्कलः) संविधातव्य इत्यन्तेन । द्वितीयं विधिरेष एव कृत्स्नः पुनस्तृतीयेऽपि सन्निपाते तु इत्यन्तेन । द्वितीयं सन्निपात इति । सन्निपाते त्विति यावत् । अत्र स्वकण्ठेनाङ्गुलिविभागो नोक्तः स नो (चो) हनीयः । तेनाद्या शम्या मुक्तमेकीकृत्य पादभागव्यवस्था । तदनुसारेण कनीयस्यादिविभागः । एतच्च सूचितं तच्चा(स्या) वापोऽथेत्यादिना (भ.ना.३१.१७०) । अथ विभक्ताङ्गेऽपि प्रकारान्तरमस्ति । यत्र शम्या मुक्ता क्रियते अपि तच्छम्यान्त एव प्रतिभागविभागः । प्रथमवस्तुन्येव यस्तु सन्निपातो मुक्तमेकीक्रियते स च सपञ्चपाणिसम्बन्धेऽत्र कल्पनीय इति पञ्चपाणावावापादिक एव पादभागकल्पनेति तदेतत् प्रकारान्तरमङ्गुलीद्वारेण दर्शयति । पुनरेवैषामिति । एषां विभक्ताङ्गानामिति कलानामङ्गुलीनां विक्षेपो विभागेन न्यासः शम्यादिः ।। १७३–१७४ ।।

विक्षेपान्ते कनीयसीति छेदकारिणा अथशब्देनाह । एवं द्विकलात्मनि चतुष्कलात्मनि पादभागे आद्याङ्गुलिः । द्वितीये यावच्चतुर्थे च तर्जनी । ततो मुक्तकत्वात् पादभागगणनायामनुप्रविष्ट एव सन्निपातः । तदाहं । कलाः सप्तदशेति । सन्निपात इति । द्विकलेऽपि । एवंविधकल्पना सन्निपातान्त एव कार्य इ(र्ये)ति यावत् ।। १७५–१७८ ।।

Notes

1a. N विक्षेपश्च

आवापश्च पुनः कार्यः 1aकनीयस्या च निर्गमः ।
विक्षेपश्च प्रवेशश्च 2aत्वावापश्च ततः पुनः ।। १७९ ।।

3aअनामिकाकनीयस्योस्ततस्तालो भवेत् पुनः ।
विक्षेपश्च पुनस्ताभ्यां ततः शम्या प्रकीर्तिता ।। १८० ।।

4aआवापश्च पुनः कार्यो मध्यमानिष्क्रमात् पुनः ।
विक्षेपश्च पुनः कार्यस्ततस्तालं नियोजयेत् ।। १८१ ।।

आवापश्च पुनः 5aकार्यस्तर्जनीनिर्गमः पुनः ।
विक्षेपश्च (पः पञ्चदशकः शम्यया सह कीर्तितः) ।। १८२ ।।

6aआवापश्च कनीयस्यास्ततस्ताल नियोजयेत् ।
विक्षेपश्च प्रवेशश्च पुनरावाप एव च ।। १८३ ।।

7aप्रदेशिन्या च निष्क्रामो विक्षेपश्च पुनः स्मृतः ।
सन्निपातस्तत8श्चैव 8aचतुर्विंशतिको भवेत् ।। १८४ ।।

तृतीयः सन्निपातस्य9a त्वेष एव विधिः स्मृतः ।
एवं ज्येष्ठस्य विज्ञेयस्तालोऽङ्गुलिविकल्पितः ।। १८५ ।।

प्रथमः षोडशकलश्चतुर्विशतिकस्तथा ।
द्वितीयश्च तृतीयश्च सन्निपातकलाधिकः ।। १८६ ।।

Abh

अथ पञ्चपाणौ पादभागषट्कविभागमाह । आवापश्च पुनरित्यादिना । निर्गमो निष्क्रमः । चतुर्षु पादेषु भागेषु चतस्रोऽङ्गुल्यः । कनीयसी (अनामिका मध्यमा) तर्जनीति तात्पर्यम् ।। (१७९–१८५) ।।

अथाऽविभक्ताङ्गेऽङ्गुलिविभागं सूचयितुं पादभागविभागमाह । प्रथमः षोडशकलः । तेन चतस्रोऽङ्गुल्यः । चतुर्विंशतिकस्तथा द्वितीयश्च । तेन तत्र सन्निपातादि । एवं पादविभागः । तत्रैकविंशतितमा शम्यैव भवति षट्पातत्वात् । स च पञ्चपाण्यात्मा द्वितीयश्च । तथेति स्वोचितेन पादभागविभागेनाङ्गुलिषु संविभक्तव्य इत्यर्थः । तृतीयश्च सन्निपातादेव । तस्य त्वन्ते मुक्तकलेत्याह । सन्निपातकलाधिक इति ।। १८६ ।।

Notes

1a. N: कनिष्ठायाश्च (७४ b(N) ) 2a. N: पुनरावाप एव च 3a.N: कन्यसागमनिष्क्रामः सतालश्च भवेत्पुनः । ताभ्यां पुनश्च विक्षेपः ततः शम्या प्रकीर्तिता ।। ७५ –N ।। 4a. N: कार्यो मध्यमानिर्गमः पुनः । विक्षेपश्च प्रवेशश्च शम्यायाः सह कीर्तिताः ।। ७६–N) 5a.N: तदनन्तरमेव च 6a. N: निष्क्रामं तु कनिष्ठायास्ततस्तालं नियोजयेत् ।। (७७ cd-(N) 7a.N: प्रदेशिन्या निर्गमश्च

1aप्रत्येकं पतनान्येषु दश सप्त भवन्ति हि 1 ।
शम्यातालकृतानीह1b सन्निपातकृतानि च ।। १८७ ।। 1c

षट्शम्यमष्टतालं त्रिसन्निपातं त्रिवस्तु चाप्येवम् ।
सप्तदशयुग्म 2युक्तं विद्यादासारितं सर्वम् ।। १८८ ।।

आसारितानामित्येवं गदितं लक्षणं मया ।
गीतानां वस्तुकानां च प्रयोगपरिकल्पनम्3 ।। १८९ ।।

Abh

नन्वेवं भूयसि वैचिञ्येऽन्यदेव किमपि गीतकपाणिकादिवक्तव्यमेकरसमासारितरूपत्वमित्याशङ्क्याह । प्रत्येकं पतनान्येषु दश सप्तेति । हि यस्मात् सर्वे सप्तदश पातास्तस्मात् । सामान्यकृतमेकरसमासारितत्वं वैचित्र्यान्तरयोगेऽपि । एवं ज्येष्ठादिभेदेऽपि वक्तव्यम् ।

ननु सप्तदशपाताः शास्त्र एव न श्रुता इत्याशङ्क्याह । शम्यातालकृतानीति । त्रय एव । वृत्त्या वस्तुत्रितये साप्तदृ(द)श्यं तत् पूरयति ।। १८७ ।।

तात्पर्यं कथमिति चेदङ्गषट्कत्वमष्टतालत्वं त्रिसन्निपातं चेति । सर्वमिति । कनिष्ठादिभेदभिन्नं स्वतन्त्रं वर्धमानतालयोगेन सप्तदशपातत्वम् । तत्र स्वतन्त्रासारितं त्रिधा । लयान्तरमपीति चतुर्धेति । अन्येषां प्रत्येकं मार्गे चतुष्टयभेदाच्छोडशत्वम् । तत्राप्यविभक्तविभक्ततया द्वात्रिंशत् । वर्धमानं तु मार्गभेदेन षोढा कृतम् । तत्र चासारिततालेन विभक्ताविभक्ताङ्गतया द्वादश भेदाः । एतदासारितवर्धमानम् । आसारिताभासवर्धमानमप्येवं द्वादशधा । एवं वर्धमानासारिते विभेदाः । कण्डिकावर्धमानं चेति सप्तपञ्चाशदमी भेदा भवन्ति । उक्तं च पुराणे

आसारितं वर्धमानं सप्तपञ्चाशदात्मना ।
सन्ध्यासु प्रथमथैर्देव्या सह नृत्यति शङ्करः ।।

इति ।। १८८ ।।

आसारित एकपाणिश्चेति सप्तकलस्तालमार्ग आसारितानामेव । इतिकर्तव्यता– विशेषाद्वर्धमाननिष्पत्तिरित्यासारणायाः प्राधान्यात् कनिष्ठमेवोपसंहरन्नाह । आसारितानामित्येवमिति । इति समाप्तौ । एवं शब्देन भेदात् प्रयोगे वैचित्र्यं चाह । कस्मादेषामादौ लक्षणमुक्तमित्यतोऽत्र हेतुमाह । गीतानां

Notes

1a.N: एकैकपतनानीह सप्तदश भवन्ति ह ।। (८१ cd (N) )

अतः परं1 प्रवक्ष्यामि गीतानां वस्तुकेष्वपि2 ।
विवधैककवृत्तानि त्रीण्यङ्गानि समासतः ।। १९० ।।

सर्वेषामेव गीतानां वस्तुष्ववयवेष्वपि ।3a
विवधैककवृत्तानि त्रीण्यङ्गानि भवन्ति हि3b ।। १९१ ।।

Abh

वस्तुकानामिति । गीतानां मद्रकादीनां यानि वस्तुकादीनि षण्मात्रादीनी कारादङ्गादीनि येषां प्रयोगस्तालवैचित्र्यपरिकल्पितेनासारितलक्षणेन । आसारितपूर्वं हि तालवैचित्र्यमित्युक्तमसकृत् । एवं केवले ताण्डवे प्राधान्ययोगादासारिताभिधानः । तस्मादिति हेतावित्युक्तं भवति । अन्ये तु वस्तुकशब्देन पाणिकालस्यगानादीनां संग्रहमाहुः ।। १८९ ।।

अथ वक्तव्यान्तरमाह । अतः परमिति । गीतका(ता)नां वस्तुकेषु अपिशब्दादङ्गेषु च कर्माणि । त्रीण्यङ्गानि यद्वशाद्गीतिकल्पनमिति व्यज्यते तानि वक्ष्यामि । विवि(व)धस्य प्रथमोपादानमाद्ये मद्रकगीते प्राधान्यात् । तथा च वक्ष्यति ।

विवधैक(क)योपायो (योः प्रायो) मद्रके तु प्रयोजनम् ।

(भ.ना.३१.११३) इति । यद्यपि चोद्देशविधावुद्देशो विधा(दा)री यतयो लयाः (भ.ना.२९–१९) इति प्रकरणोपयोगात् तदन्तरमङ्गानां विदा(र्या)द्या(दे)श्चे(श्चो) द्देशः । तथापि लक्षणावसरेऽङ्गनिरूपणपूर्वमङ्गिनिरूपणं वक्तव्यमिति प्रोक्तं तन्निरूपणम् । ततो ये स्थूला आरम्भकविभागास्ते विदारीत्वेन वक्ष्यन्ते ।

त्र्यपरैकादशपरा विदार्यः परिकीर्तिताः ।
चतुर्विंशतिरेतासां प्रमाणं परमं स्मृतम् ।।

(भ. ना. ३१—१९७—१९८) इति । अत्र वस्त्वारम्भकानामप्यारम्भो विदारीभेदः सोऽत्वेनेह निर्दिष्टः । अङ्गसंज्ञा च प्रयोजनगीतकरूपतासिद्धिप्रतिपादनमेव । तथाहि । स्थाय्यादयो ये वर्णास्तन्निष्प(ष्पा)द्यमानं गीतं गीतकमिति तदनुवर्ती विच्छेदः कर्तव्यः । परिच्छेदस्य परिच्छेदतनुत्वाद्विदार्याश्च साम्यात्मतया परिच्छेदनरूपत्वम् । अत एवेयं तालगीतैर्निर्दिष्टा । एवं च वर्णानुवृत्तित्वादेव वर्णाङ्गकमिति तालाङ्गेभ्यः पृथगेव गीतिवैचित्र्यात्मनाभिधानेन प्राधान्यतयोक्तम् । तदवधारणेन व्यपदेशेन गीतकमित्युच्यते । तत्र तु तालाभिघात आसारणाप्रसादादेवेत्यङ्गत्वादेव

Notes

एककं तु विदार्येका ते चोभे विवधः(धं) स्मृतः(तम्) ।
षट्परं 1त्र्यवरं वृत्तं 2द्वयङ्गं संहरणं च तत् ।। १९२ ।।

2aविवधैककयोः प्रायोर्म(म)द्रके तु प्रयोजनम् ।
प्रकर्याश्चापि3 वस्त्वर्धे पादे रोविन्दकस्य च ।। १९३ ।।

Abh

गीतकत्वसिद्धिः । आरम्भकाणां च वस्तूनां मुखप्रतिमुखादीन्येवमप्यङ्गसंज्ञा एव(मेव) लभते(न्ते) । तथा च दत्तिलाचार्येणोक्तम् ।

वक्ष्यमाण(णं)मुखाद्यङ्गं विज्ञेयं तच्चतुर्विधम् ।।

(दत्तिलम् १४३) इति । वस्तुनिबद्धानां वस्तुषट्कनिबद्धानां वा द्वयं वायव(वयव) षट्केषु यतो भवन्ति तत एतान्यङ्गानि । अत एवंविधेन संदिह्यते किं द्वावेककौ द्विवि(व)धौ वेति । अङ्गसंस्था विदारी तद्विवि(व)ध एवेति निश्चयात् । अस्मिन् विषये तावता(त्ता)नि भवन्ति सम्भाव्यन्ते यद्य(द्वय)पहदो(देशे)नोच्यत(न्त)इति यावत् ।। १९०– १९२ ।।

अथैषां विशेषलक्षणान्याह । एककं तु विदार्येकेति । एको विच्छेदः । एककं दौ (द्वौ) विवधं विशिष्टौ वधो हननं विभक्ततापादनमिति यावत् । त्रयश्चत्वारः । पञ्चविधेष्वपि छेदावृत्तं वर्तते । भूयानेव भेदो यत्रेति वृत्तम् । षट्परं त्र्यप(व)रं वृत्तमिति । तस्य चावान्तरभेदद्वयहिमित्याह । द्वयङ्गं तच्चेति । त्रिविधमपि संहरणं कर्तव्यम् । संह्नियते परिसमाप्यते गतिरत्रेत्यत एव वर्णाङ्गत्वम् । स्वगीतिपरिसमाप्तिश्चान्या । सस्वरेण तन्त्र्या वाद्येषु वाद्य(द्या)न्तरेण न्यासापन्यासेन विन्यासेनेति तत् स्वरान्तरमुक्तं भवति । संहरणमिति । न्यासापन्यासौ तदन्तत्वात् संहरणमित्यन्ये ।। १९२ ।।

अथैषां विशेषतो विनियोगमाह । विवक्षया युज्यन्त(त)एव व्यपदेशः । प्रकर्या अपि षण्मात्रं वस्तु । तत्र तत्रापि षडेककानुवृत्तमिति वा यदुच्यते तदङ्गिनः सम्भवत्येव । प्राग्वत् तेनापि विवधैकके तिसृषु मात्रासु विभज्यते । तदाह । प्रका(क)र्याश्चापि वस्त्वर्थ(र्ध) इति । एवं षण्मात्रे रोविन्दकपादे वाच्यम् । तदा पादे रोविन्दकस्य चेति । एतच्च सम्भवमात्रेणोक्तम् । न चैष नियमः कश्चित् । अत ये (ए) वापरान्तस्यो(स्यौ) वेणकस्य योऽति(चाभि)धानेऽपि न दोषः कश्चित् ।। १९३ ।।

Notes

रोविन्दकोत्तराभ्यां 1तु वृत्तमुल्लोप्यके तथा ।
1aपाणिकायां 2बहिर्गीते लास्ये चैवं प्रकीर्तितम् ।। १९४ ।।

प्रवृत्तमवगाढं च द्विविधं वृत्तमुच्यते ।
3aआरोहि 3त्वादवगाढं प्रवृत्तमवरोहतः4 ।। १९५ ।।

आरोहणं च द्विविधं प्रवृत्तमवरोहतः ।
4aआरोहणं च द्विविधं तथा चैवावरोहणम् ।। १९६ ।।

5aन्यासापन्यासविहितं5 मार्गान्तरकृतं तथा ।
त्र्यवरैका दशवरा(कादशपरा)विदार्यः6 परिकीर्तिताः ।। १९७ ।।

Abh

अपवृत्तस्य विषयमाह । रोविन्दकशरीरे पादोऽङ्गी । तस्य विवधैककयोरुक्तः । तेन रोविन्दकशरीरेणोत्तरशरीरेण च सहोल्लोप्यके वृत्तं प्रयोज्यम् । तथा पाणिकायां बहिर्गीते । आरम्भादावुक्तलक्षणे लास्य इति च लास्यगाने उक्तवक्ष्यमाणलक्षणे वृत्तमेव । पाणिकालास्यगानोपयोगादिहो….ता गीतकमध्ये तत्परिगणनाद्वा गीतकसमानयोगक्षेमत्वज्ञापनार्थम् । मद्रकादीनामिति (भ.ना.५.१३) वचसा पूर्वरङ्गे पाणिकाऽपि प्रयोज्यत्वेनोपदिष्टा । तत एवासो (सौ) ऋग्गाधा(था) दिपरिहारेण वक्ष्यते । ध्रुवोपयोगसूचकलक्षणेऽइभिधाने प्रयोजकस्य ऋग्गधा(था)दिभिध्या…..।। १९४ ।।

प्रवृत्तमिति यदुक्तं तदिदानीं विभजति । प्रवृत्तमवगाढं चेति । आरोहणे गात्रसङ्कोचनमित्यवगाढव्यपदेशः । अवरोहणे सुखा(त्) प्रवृत्तिरिति प्रवृत्तसंज्ञा ।। १९५ ।।

आरोहणावरोहणे च प्रत्येकं द्विधा ।। १९६ ।।

न्यासयोगेनेत्येक(:) प्रकारः । अपन्यासो विन्यास एवेति तन्मध्य एव निक्षिप्तो न तु पृथक् सङ्ख्यया गणितः । अनन्तरमार्गेण संवाद्यनुवाद्य (दि) बलयोगेनेति द्वितीयः । न्यासापन्यासावंशस्य वादिनो वारोहणावरोहणं चेति यावत् । मार्गान्तरमन्तरमार्गो जात्यध्याये (भ.ना.अ.२८) सञ्चारांशे(श) बलस्थानां (भ.ना.२८.७५) इत्यत्रोक्तम् । एवं वृत्तस्येत्यादि षडवरविदारीकस्यारोहणेन प्रतिकल(विच्छेदेन)चतुर्विधेनावरोहणेन भेदात् त्रिंशद्भेदा भवन्ति । अत्र कश्चिद्विशेष उक्तः ।

Notes

चतुर्विंशतिरेतासां प्रमाणं परमं स्मृतम् ।
अध्यर्धाच(र्ध)तृतीयाश्च सन्निपाताः1 प्रमाणतः ।। १९८ ।।

Abh

शुद्धास्वंशबलात्तत्र ज्ञेयमन्तरमार्गतः ।
न्यासापन्यासयोगेन विकृतासु च जातिषु ।।

(दत्तिलम् १४७–१४८) इति दत्तिलाचार्यः । एवं वस्तुनिबद्धेष्वङ्गनिबद्धेषु स(श)म्याव्यापेक्षया वान्तरविदारीं समभिधाय ततो गीतिवैचित्र्याद्वर्णाङ्गभेदो निरूपितः ।

नन्वेवं सर्वेऽङ्गनिबद्धा एव स्युः । सत्यम् । किन्तु तेषां वस्तुकल्पनात्मनि भागयोगे तदाश्रयाण्यङ्गानि निवेश्यन्ते । वा(व)स्तुप्राधान्यं वात इति तत्कृतो व्यपदेशे(शो)युक्तः । उल्लोप्यकादौ तु वर्णाङ्गनिबन्धनैव भागपरिकल्पना । तथा हि । संहरणादीनां तालसाम्येऽपि वर्णाङ्गभेदादेवान्यत्वमित्यङ्गान्येव प्रधानानीति तन्निबन्धनताऽप्यानीयेत । इत्येवं वर्णाङ्गकृतमङ्गनिबन्धनत्वमिति मन्यन्तेअन्ये तु तालाङ्गकृतमङ्गनिबन्धनत्वं न वर्णाङ्गकृतमित्याहुः । तदेतदिह तावदास्ताम् । प्रकृतं तु ब्रूमः ।

अवान्तरविदारीस्वरूपं तावदुक्तम् । अधुना महाविदारीस्वरूपं वस्तुनिबन्धेष्वर्धश्लोकेनाह । त्र्यवरैकादशपरा इति । अत्र वस्तुन्येका महाविदारी तत्र त्रिवस्तुत्वं गीतकानां……। तद्यथा । मद्रकस्य प्रकर्या वा तावत्तत्र तिस्रो महाविदार्य इत्यनुयोगः । भूयोवस्तुत्वं त्वर्थ(र्ध) चतुर्थवस्तुत्वप्रभृति यावत् साप्तवस्तुत्वं यदपरान्तके । तत्र प्रतिवस्तु विदारी सप्त विदार्य इति शाखा । अर्थ(र्धं) चतुर्थेषु वस्तुषु प्रतिशाखेति । तद्गताश्चतस्रो विदार्य इत्येकादशेति परयोगः । तेन चत्वारि (एका) दशान्तमत्र मध्यमयोगेन संगृहीतम् ।। १९७ ।।

मतान्तरमप्याह । चतुर्विंशतिरेतासां प्रमाणमिति । अनेनेदमुच्यते । त्रिमात्रे वस्तुनि मात्रार्धे यावद् विदारी कर्तव्या । येन चतुर्थवस्तुके मद्रके पिण्डीकृत्य चतुर्विशति(:) । प्रतिवस्तु षडिति गणनया । षण्मात्रे तु प्रकृते वस्तुनि नार्धमात्रायां विदारी कार्या । एवं हि त्रिवस्तुके षड्विंशद्विदारिकाऽधिकत्वेऽधिकविदारिकाऽपि प्रकरी स्यात् । एतस्मान्नियमात्तु न भवतीति ज्ञातमात्रायां तत्र विदारीत्युक्तं भवति ।

अपरे सामान्यकालाभिप्रायेण यथासम्भवं विच्छेदसंख्याप्रतिपादनं श्लोकार्धस्य तात्पर्यमाहुः ।

Notes

1aउल्लोप्यके विदारी तु स्मृता वैहायसे तथा ।
1bविवधेन च1 ताः कार्या युग्मवृत्तेन2 चैव हि ।। १९९ ।।

Abh

तथाहि । चञ्चत्पुटे समुदायविच्छेद एका विदारी । प्रतिकलविच्छेदे चतस्रः । कलार्थविच्छेदेऽष्टौ । तदर्धेऽपि च त्रिचतुष्कलदक्षिणादियोगेऽपि चित्रेऽपि च ह्नस्वमानमित्युक्तम् । तेन कलार्धार्धापेक्षया षोडश । एवं त्र्यश्रे वाच्यम् । यावत् पञ्चपाणौ चतुर्विशतिः । एवं……या……त्येव कला…..तावत्स्वेव पदेषु वर्णानुकर्षाद् द्विकलचतुष्कलयोगः शम्य(म्या)प्रि(प्रा)यः(शक्यप्रायः) । यथा रु….द्रः…..इत्येकस्यामपि कलायां चत्वारो विच्छेदाः । यावद्वर्णानुकर्षेणेति चतुष्कलयोगेऽपि यदेव परं भवतीति गणाधिक्याभावेऽपि द्विकलत्वादिप्रकारान्तरमुक्तं भवतीति ।

अथोल्लोप्यके विदारीस्वरूपमाह ।

अध्यर्धार्धतृतीयाश्च सन्निपाताः प्रमाणतः ।
उल्लोप्यके विदारी तु स्मृता वैहायसे तथा ।।

इति । इहोल्लोप्यकमपरतः सप्ताङ्गं प्रकर्षं पुनर्विशत्यर्थे तत्रोल्लोप्यकमिति मात्रैवाङ्गीति कथ्यते । न च षोडशकलासु तावन्ति वर्णाङ्गानि निवेशयितुं शक्यानि । परिमिते हि तत्र मात्रारूपे कथमेककादीनि पौनःपुन्यनिवेशनया प्राप्तामनेकसंख्यामनुवर्तितुमुत्सहन्ते । एवं वैहायसे द्वादशकले कथमङ्गानां निवेशनमिति । तत्रानेनोपाय उच्यते । तत्र यथा सप्ताङ्गत्वं चिकीर्षितं भवति तथा षोडशैव कलाः । तथा वर्णप्रकर्षेण कला सार्धकलारूपेत्यनेन येन गातव्या यथा फलतश्चतुर्विंशतिः कला भवन्ति । तत्र सप्ताङ्गानि निवेशनीयानि । कलात्रयेऽङ्गके चतुष्कलाषटक् इति कृत्वा यथा तु विंशत्यन्तो विधिः स्मृतस्तथा षोडशसु कलास्वेका कलाऽत्यर्थ(ध्यर्ध) कलाद्वयमिति । इयता वर्णप्रकर्षेण गानं कर्तव्यम् । यथा मात्रैवमध्यर्धतृतीया मात्रा फलतश्चत्वारि षट्कलारूपाणि भवति । तत्र कलाद्वयेऽङ्गमिति विंशतिर्मात्राः परा…..स्तीति । तथाऽऽध्यर्धार्धतृतीयाश्च सन्निपाता इति । सन्निपातोऽत्र मात्रा । तत्कृतविच्छिन्नरूपत्वात् । तेनाध्यर्धश्च सन्निपातः । अध्यर्ध(अर्ध)तृतीयश्च सन्निपात इति द्वन्द्वः । एवं सप्ताङ्गे च परापरयोगेन व्याख्यायते । सपादो सन्निपातत्वमित्यादिरपि भेदो लभ्यते । अन्ये तु प्रतिकलमङ्गमित्यध्यर्धसन्निपातेऽप्यस्ति विंशत्यङ्गतेत्याहुः । एवं वैहायसेऽपि वाच्यम् ।

Notes

1.a.N:. विदार्यमुल्लाप्यकं तु वैहायसकमेव वा ।। (९३ cd-(N)) 1.b.N: विविधैश्च

न ह्यर्धसन्निपातेऽस्या1 भवेदङ्गसमापनम्2 ।
(गीतानि सप्त ।) 3मद्रकोल्लोप्यके चैव तथा चैवापरान्तकम् ।। २०० ।।

Abh

एवं महाविदारीमुक्त्वा यदर्थमयं विधिरुक्तस्तान्यङ्गान्यत्र दर्शयति ।

विवि(व)धेन च ताः कार्या युग्मवृत्तेन चैव हि ।

इति । ता इत्यध्यर्धसन्निपातप्रमाणाः । अर्धतृतीयसन्निपातप्रमाणाश्च महाविदार्यः ।। १९८—१९९ ।।

न ह्यत्र(र्ध)सन्निपाते(ऽ)स्या द्भ(भ)वेदङ्गसमापनम् ।

एकैव तावन् मात्रा मुखप्रतिमुखरूपतयोल्लोप्यके विभज्यते । तत्रार्धमात्रायां मुखरूपायां कथमङ्गानां समाप्तिः । विंशतीनां समाप्तिर्विंशतिरूपत्वम् । अर्धसन्निपात इत्यर्धमात्रा । अन्ये त्वर्धसन्निपाते चेत्याहुः । अकृत इति चाध्याहरन्ति । तेनार्धतृतीयमात्रत्वेऽङ्गेनाङ्गसमाप्तिर्भवेदित्यर्थः ।

केचित्तु युग्मवृत्तिसमाश्रयणे हेतुमाहः । त्रिविदारीकत्वे चासमच्छेदो न भवतीति तात्पर्यम् । अस्या विदार्याः सन्निपाते विषमे विच्छेदाङ्गसमाप्तिरूपं समापनं भवेत् । अर्धकेनात्रापूर्णतावैषम्यं लक्ष्यते । अर्धस्य सन्निपातैर्विच्छेद इति षष्ठीसमासः । एवमेतेनावान्तरमहाविदारीभेदेन यत् फलं तदाह । गीतानि सप्तेति । विदारीवैचित्र्यशून्ये हि गीतव्यवहारे स्वरालापः पुस्तकवाचनादाविव । तत्र

मद्रकोल्लोप्यके चैव तथा चैवापरान्ति(न्त)कम् ।

इति । तथा चैवेति । एककलारूपमेतेषां त्रयाणामिति । एवकारेण प्रातिस्विकं नियतमेषां रूपमित्याह ।। २०० ।।

Notes

1aप्रकर्यो वेणु(वेण)कं चैव रोविन्दकमथोत्तरम् ।
द्विविधं मद्रकं ज्ञेयं1चतुर्वस्तु त्रिवस्तु च ।। २०१ ।।

शीर्षकेण समायुक्तं तत्तु ज्ञेयं त्रिवस्तुकम् ।
पञ्च षट् सप्त तानि 2स्युः शीर्षकं चापरान्तके ।। २०२ ।।

प्रकर्यामथ चत्वारि त्रीणि चाभ्यधिकानि वा ।
प्रकर्यास्तु प्रकीर्णत्वात्ताद्रूप्यमिति वर्णितम् ।। २०३ ।।

रोविन्दकं तु सप्ताङ्गं षोडशाङ्गं परं स्मृतम् ।
पादौ द्वौ समवर्णौ तु एककावत्र3 कीर्तितौ ।। २०४ ।।

Abh

प्रकर्यो वैणकं चैव रोविन्दकमथोत्तरम् ।

इति । तत्र चतुष्कलत्वमेव । अत्र च कानिचिद् वस्तुनिबद्धानि । अपराण्यङ्गैरिति ताण्डवाध्याये (अ.४) सूचितम् । तत्र तालाङ्गमेवाङ्गम् । तत्र महाशरीरत्वे वस्त्विति व्यवह्नियते । अल्पायां (विदार्यां) त्वङ्गमिति केचित् । अन्ये तु वर्णाङ्गप्राधान्यलब्धविभागैस्तालैराब्धान्यङ्गनिबद्धान्याहुः । तत्रैकं त्वङ्गविभागं विवक्षुर्वस्तुनिबन्धादि सूचयति । द्विविधं मद्रकमिति । संज्ञयैव मद्रकांशग्रहत्ववस्तुना लभ्यते गीतकमिति ।। २०१ ।।

शीर्षको यद्वदसंकीर्णरूपज्ञप्तिहेतुस्तद्वत् पञ्चपाणिः । असंकीर्ण त्र्यश्रकत्वं मद्रस्यावेदयत इति शीर्षकत्वेनोक्तम् । शीर्षकस्तु त्रिवस्तुक एव । न चतुर्वस्तुकत्वेऽपरान्तके पञ्चवस्तुनि षट् सप्त वा । अन्ते शीर्षकोऽपरो द्वितीयोऽन्तोऽवयवः प्रतिशाखात्मा यत्रेत्यपरान्तकम् ।। २०२ ।।

प्रकर्यास्त्रीणि सार्धानि वस्तूनि चत्वारिप्रकीर्णत्वाद् विक्षिप्तत्वात् । विक्षिप्तत्वं च वस्तुनः षण्मात्रमेव क्रियत इति । प्रकरी गौरवादि….ङीषः (गौरादित्वान् ङीष्) (पा.अ.४.१.४१) । वस्तुनिबन्धेषु वस्तुविभागः ।। २०३ ।।

अथाङ्गनिबन्धेष्वङ्गविभागमाह । रोविन्दकस्त्वि(कं त्वि)ति । इहाङ्गनिबद्धेषु क (कि ञ्चिदेव तालरूपं प्रधानं वस्तुनिबद्धेष्विव वस्तु तावत् । व्यवस्थितेन रोविन्दकशब्देन प्रस्वारात्मकं शरीरम् । प्रकृष्टस्वराणां

Notes

1a. N प्रकरीणां वेणुकं मुल्लाप्यमुत्तरं तथा ।। (९५ cd–(N)

प्रवृत्तं विवधश्चापि तस्य 1चादौ प्रयोजयेत् ।
ततो देहं ततोऽङ्गानि यथायोगं नियोजयेत्2 ।। २०५ ।।

आकारश्चास्य मध्ये स्यादाकरश्चान्ततः स्मृतः ।
अविकल्पितमङ्गे 3ऽस्य शीर्षकं सम्प्रयोजयेत् ।। २०६ ।।

सप्ताङ्गं द्वादशाङ्गं वा प्रोक्तमा(मो)वेणकं बुधैः ।
तत्र द्वयन्तं तु सप्ताङ्गं त्र्यन्तं द्वादशकं स्मृतम्4 ।। २०७ ।।

5पादः सन्धिर्माषघातो वज्रं सम्पिष्टकं तथा ।
6एककं चतुरस्रं च तथा चैवोपवर्तनम्7 ।। २०८ ।।

Abh

वर्णानुकर्षरूपं च प्रस्वारं च जीवितम् । तेन रसनं शब्दनम् । रसनस्य बिन्दे लब्धे रसे दक्षिकपिविन्देषु(शः) । ततः समासात् संज्ञायां कन् (पा..५.३.८७) । एवमेतद् रोविन्दकं सप्ताङ्गमपरतः षोडशाङ्गं यथायोगमित्युच्यते ।। २०४–२०५ ।।

न कला द्वादशकले य इति सप्तपराणि षोडशपराण्यङ्गानि…..त्याशङ्क्य वर्णानुकर्षेण कालभूयस्त्वसिद्धार्थमाह । आकारश्चेति । आकरणं विततीकरणम् । आकारः शुष्काक्षररूपः । आकार(श्चा)स्य मध्ये चेति । शीर्षि(र्ष)कं शिर इव प्रधानम् । तत एवाविकल्पितम् ।। २०६ ।।

अथौवेणकाङ्गविभागमाह । सप्ताङ्गं द्वादशाङ्गं चे(वे)ति । तत्र माषघात एवात्र प्रधानम् । तथा च दत्तिलाचार्यः

असमानत्वनित्यत्वे तस्य प्राधान्यकारणे । (दत्तिलम् २०३)

इति । स च द्वादशकल इति कलयाङ्गमासूत्रयन् द्वादशाङ्गानि यावत् क्रोडीकृत्यावतिष्ठते । तत एव माषेण द्वादशभागात्मना हननं गुणनं यास्य(यस्ये)ति स माषघातः । स एव चौवेणकम् । अस्यते इत्यसमाङ्गसुभेदात् । असु वेणयति वेणीरूपा यानेकसन्धारूपाः करोतीति असोः क्विप् । वेणी प्रातिपादिकार्थजणिजन्तात् ण्वुल् षष्ठीसमासः । तत्र यदा सप्त तस्य या एककादीनि तदा द्विविधोऽन्तः । तत्र यदा द्वादश तदा त्र्यश्रचतुरश्रमिश्रात्मना त्रिविधः ।। २०७ ।।

तत्र पाद इत्यादीन्यप्येवं द्वादशाङ्गादीनि । तालङ्गावादिन एत एव । एतन्मध्यात् संपिष्टकमुपपातं प्रवेणीद्वयमुपवर्तनं च हित्वा स(प्ता)ङ्गता कार्येति । वर्णाङ्गवादिनश्च तालाङ्गाच्च । पादद्वययोगेनान्तादभेदगणनया

Notes

1aउपपातः प्रवेणो(ण्यौ) च द्वयङ्गं संहरणं तथा1 ।
अङ्गानि द्वादशाङ्गस्य स्मृतान्योवेणकस्य च2 ।। २०९ ।।

सम्पिष्टकोपपाताभ्यां प्रवेणीभ्यां च वर्ति(र्जि) तम्3 ।
उपवर्तन हीनं च सप्ताङ्गं 4परिकीर्तितम् ।। २१० ।।

निवर्तनं 5च सप्ताङ्गे तुल्यवर्णपदं स्मृतम् ।
अन्तयोर्द्वादशाङ्गे6 तु तथान्यपदमिष्यते ।। २११ ।।

उल्लोप्यकेऽपि चाङ्गानामेष एव विधिः स्मृतः ।
7अवगाढं प्रवृत्तं च माहाजनिकमेव च ।। २१२ ।।

त्र्यङ्गोऽन्तः स्यात्तथा द्वयङ्गो माहाजनिकवर्जितः ।
स्थितप्रवृत्तसंयोगादेकाङ्गो8 वापि कीर्त्यते ।। २१३ ।।

Abh

चाधिक्यसंख्ययान्तर्भावे वा ऊनत्वं मन्यमाना वर्णाङ्गान्येकप्रतिपत्तिबन्धनीयानि । तानि च द्वादश सप्त वा । तालङ्गानि तु तदाश्रयभूतानि सम्पिष्टकादीनि । वर्जनं च वर्णाङ्गेषु सप्तसु विधीयते न तु तस्मादेव सप्ताङ्गमित्याहुः । एककं चतुरस्रमिति । एकाश्रयभूतं चतुरश्रमित्यनियमः । यद्यन्तर(रं) (द्वयङ्गं)संहरणमिति । अन्ताहरणेनान्तेन च युक्तमिति यावत् । एवं द्वादशाङ्गे पादादयः सप्ताङ्गे त एव सम्पिष्टकतालांशा इति विशेषः ।।२०८–२१० ।।

विशेषान्तरमप्याह ।

निवर्तनं च सप्ताङ्गे तुल्यवर्णपदं स्मृतम् ।
अन्तयोरिति ।।

अन्तयोरिति यदावर्तनं तत्र गीतिः पदादि चेत्याह । यत्तुल्यसप्ताङ्गद्वादशाङ्गे तु गीतात्मा वर्णपरः । तुल्यपादानि त्वन्यानि । तदाह द्वादशाङ्गे तु तथान्यपदमिति । एवमन्ते विचारयितुं प्रक्रान्ते तस्यान्यमपि विशेषमाह ।। २११ ।।

तत्प्रसंगादुल्लोप्यकेऽप्यतिदिशति । उल्लोप्यकेऽपीति । तदेवैकप्रकरणमेव पुनरिदं मन्तव्यम् । अङ्गानामित्यन्तसम्बन्धिनाम् । एष एव य ओवेणके । तत्र तावत् को विधिरित्याह ।

Notes

1.a N: उपवातः प्रवेणी च द्वयंगं संहरणं तथा

एकाङ्गे संविधातव्यं माहाजनिकमेव 1तु(च) ।
द्वयङ्गं स्थितं प्रवृत्तं वाऽप्येकाङ्गं वा2 प्रकीर्तितम् ।। २१४ ।।

द्वयङ्गे व्याससमासाभ्यां 3बहुधा तु विधिः स्मृतः ।
ओवेणकस्य संहारो द्वयङ्ग एकाङ्ग एव च4 ।। २१५ ।।

एकको विवधो वापि कार्यो द्वयङ्गे ततः सदा ।
उल्लोप्यके तु चान्तानामेष एव विधिः स्मृतः ।। २१६ ।।

स्थितं प्रवृत्तं च तथा माहाजनिकमेव च ।
त्र्यङ्गोऽन्तः स्यादथ द्वयङ्गो 5माहाजनिकवर्जितः ।। २१७ ।।

Abh

अवगाढं प्रवृत्तं च माहाजनिकमेव च ।।
त्र्यङ्गोऽन्तःस्यात् ।।

इति । अन्त अवगाढमिति वर्णाङ्गस्थिततालाश्रयम् । अन्येषां पाठः । स्थितप्रवृत्तं च तदेति । तथा द्वयङ्गो माहाजनिकवर्जितः स्थितप्रवृत्तसंयोगाद् । रूपस्याह । एकाङ्गो वेति ।। २१२–२१३ ।।

कथमित्याह ।

एकाङ्गे संविधातव्यं तथा(माहा)जनिकमेव च ।

इति । अथैषां त्रयाणां वर्णानामङ्गविधिमाह । द्वयङ्गं स्थितमिति । वापीति भिन्नक्रमेण । तेन स्थितं प्रवृत्तं च द्वयङ्गमेकाङ्गं चेति ।। २१४ ।।

के ते तयोरर्थे अंशाङ्गा इत्याह । द्वयङ्गे व्याससमासाभ्यामिति । यदा एककद्वयं तदा समसा(सोऽ) ल्पत्वात् । यदा प्रवृत्तं विवधं तदा व्यासो विदारीणां बहुत्वात् । माहाजनिकत्वनियमादङ्गानां स्थित एवार्थत्वमेककं नामेत्युक्तं भवति । एवमन्तविधिस्तावद् व्यपोदितम्(तः) । इदानीं प्रकृते ओवेणके उपदिशति । ओवेणकस्येति । योऽयं संहारोऽतः उक्तः । ओवेणके यदा क्रियते तदाऽऽभ्यामङ्गाभ्यामेककेन द्वयङ्गेन द्वयङ्गे । एकद्वयं विवधद्वयं चैकाङ्गत्वनियम इत्युक्तं भवति । एवमोवेणक उपदिश्य प्रागुपक्षिप्तमनुदेशमनुसन्धत्ते । उल्लोप्यके तु चान्तानामित्यादिना चतुरश्रस्तदा (था) त्र्यश्रो मिश्रश्चान्तः प्रकीर्तित

Notes

एकाङ्गोऽपि विधातव्यो माहाजनिकसंयुतः ।
एवं व्याससमासाभ्यां बहुधाङ्गविधिः स्मृतः ।। २१८ ।।

चतुरश्रस्तथा त्र्यश्रो मिश्रश्चान्तः प्रकीर्तितः ।
ओवेणकस्य संहारो द्वयङ्ग एकाङ्ग एव च ।। २१९ ।।

नादौ न मध्ये संहारे नित्यं चैव प्रयुज्यते ।
एकको विवधो वापि कार्यो ह्यन्ते प्रयोक्तृभिः ।। २२० ।।

उल्लोप्यकं षडवरं विंशत्यङ्गं परं स्मृतम् ।
तच्च संहरणे 1कार्यं मुखप्रतिमुखाचितम् ।। २२१ ।।

2वैहायसकसंयुक्तं 3तेनापि च विवर्जितम् ।
त्रिष्वङ्गेष्ववरं ज्ञेयं परं स्याद् द्वादशस्वपि ।। २२२ ।।

Abh

इत्यन्तेन । कस्मादयमन्त उच्यत इत्याह । ओवेणकस्य संहार इति । आदौ मध्ये वायमन्ते न प्रयुज्यते । अपि तु नित्यं संहारे । व्रतेनायन्तः संहार(उ)क्त इत्यर्थः ।

नन्वन्तः कस्मादङ्गानि । वर्णाङ्गमध्योऽयं पठित इत्यत आह ।

एककं(को)विवधं(धो)वापि कार्य(र्यो)ह्यन्ते प्रयोक्तृभिः ।

इति । हिर्यस्मादर्थे । अङ्गाश्रयत्वादङ्गमेतदिति यावत् । अन्ये त्वतिदेशात् सन्धानग्रन्थं (स्थितमित्यादि) चतुःश्लोकात्मकं प्रयोक्तृभिरित्यन्तं नाधीयते । अन्ये द्विपाठत्वेन पाठः । एके श्लोकं विभज्य उल्लोप्यकेऽङ्गानि विभजन्ति । उल्लोप्यकं षडवरं विंशत्यङ्गं परमिति । वर्णाङ्गानामियं परतोक्ता । तत्रोल्लोष्यमिति मात्रा लुप्यते । ऊर्ध्वं शून्यतारूपेण यतः । एतच्च वक्ष्यामः । तच्च मात्रारूपं संहरणेऽन्ते कार्यम् । तावन्मात्रमेवोल्लोप्यकं कार्यमिति यावत् । तत्र मात्रारूपं मुखमर्धतः प्रतिमुखमर्धत इति विभजनीयः(यम्) । अत एवोर्ध्वं यद्वैहायसकादि तद्यतो लोप्यकमतोऽपि भवति ततोऽप्युल्लोप्यकम् ।। २१५–२२१ ।।

तच्च द्विधा वैहायसकेन संयुक्तं रहितं च । प्राक्पक्षे त्रीण्यस्याङ्गानि वैहायसकेन संयुक्तानि । द्वादशैककानीत्यावृत्त्या वैहायसके एकमङ्गं षट्परं कार्यमिति यावत् । अस्य स्थानमाह । अस्य चाङ्गत्रयेऽतीत इति । टीकाकारास्तावद् व्याकुर्वन्ति । इह चतुरश्रेऽस्मिन् प्रधानाङ्गो न वैहायसिकेन तादृश(शं)भाव्यम् ।

Notes

एकाद्यं(ङ्गं) षट्परं ज्ञेयं वैहायसिकमेव च ।
अस्य 1चांश(चाङ्ग)त्रयेऽतीते प्रयोगमुपपादयेत् ।। २२३ ।।

उल्लोप्यकोत्तराभ्यां तु मुखप्रतिमुखे स्मृते2 ।
ततोऽङ्गानां समासो वा विस्तरो वा विधीयते ।। २२४ ।।

मुखप्रतिमुखे चैव ज्ञेये 3aविवधसंज्ञके3 ।
वृत्तं प्रतिमुखे4 च स्यादनयोस्तु समासतः ।। २२५ ।।

उल्लोप्यके तथा शाखा5 सोत्तरा6 सापरान्तके ।
प्रतिशाखा तथा चैव7 सवर्णाऽन्यपदा स्मृता ।। २२६ ।।

Abh

द्वादशकलाश्रितं तत्कृतं चतस्रः कलामात्रानन्तरशून्यप्रयोगेन वर्णानुकर्षणान्निर्वाह्यम् । तत्र चैककान्य– ङ्गत्रयम् । तदाह । अस्य वैहायसिकस्याङ्गत्रये ततः शून्यरूपे प्रयोगं कुर्यात् । अत एव विहायसि शून्ये भवमिति वैहायसमिति लक्ष्यं चेत्थं वक्तव्यम् । यत्तु तत्र हितं तत्तालान्तराद् द्रष्टव्यमिति मन्तव्यमिति ।

अन्ये लक्षणमित्थं पश्यतो(न्तो)ऽङ्गत्रय इति । तन्मर्यादामात्रायामतीतायां वैहायसकं कुर्यात् । तच्च द्वादशकलत्वेऽपि चत(तु)रश्रमेवेति द्विकलैककलत्वं चञ्चत्पुटप्राधान्यात् । अत एव तु द्वादशकलतोक्ता । न वा तच्चातुश्र्यमावृतमस्य । तस्या नानारूपमपारमार्थिकम् । तत एव शून्ये भवमिति वैहायसकमिति मन्यते(न्ते) ।। २२२–२२३ ।।

प्रसङ्गादुत्तरस्याप्येतद्रूपं तुल्यकक्ष्यात्वसलक्षणभङ्ग्याऽतिदिशति । उल्लोप्यकोत्तराभ्यां तु मुखप्रतिमुख इति । चतुर्थीयं तादर्थ्ये । तत इति । मुखप्रतिमुखरूपाया मात्राया परतोऽङ्गानि (नां) वैहाय (स) कान्ताहरणादीनां संक्षेपेण विकासेन वा प्रयोगः ।। २२४ ।।

ननु मुखप्रतिमुखाङ्गविभक्तमात्रत्वे ञ्यङ्गत्वमुक्तं त्रिष्वङ्गेष्ववरमिति (भ. ना. ३१. २२२) वचसा । तत्र कानि त्रीण्यङ्गानीत्यत आह । मुखप्रतिमुखे (इ)ति । मुखे विवधः प्रतिमुखे स च वृत्तं चेत्यङ्गत्रयम् ।। २२५ ।।

उल्लोप्यके शाखाप्रतिशाखा(खे) विधातुमपरान्तरयोश्चातिदेष्टुं तुल्ययोगित्वेनाह । उल्लोप्यक इति ।

Notes

उत्तरं द्वादशपरं षडङ्गोऽ(ङ्गा)वरमिष्यते ।
आकारपाद(त)हीनेन 1समं रोविन्दकेन च2 ।। २२७ ।।

अन्ते चाप्यविशेषेण स्थाप्यमस्य तु 3 (प्यं मध्ये च) शीर्षकम् ।
एवमङ्गविधिः कार्यः4 सप्तरूपे प्रयोक्तृभिः ।। २२८ ।।

अतः 5परं प्रवक्ष्यामि स गीतानां6 वस्तुकल्पनम् ।
7गुरुच्छे 8द्या(दा)ष्टकं कृत्वा न्यस्येल्लघ्वष्टकं पुनः ।। २२९ ।।

तत्रोपवहनं कार्य प्रथमे तु गुरुद्वये ।
गुर्वक्षरे तृतीये तु ततः स्यात् प्रत्युपोहनम् ।। २३० ।।

Abh

शाखैव प्राधान्यात् । शाखातुलना तु प्रतिशाखा च । सा सवर्ण शाखा(ख)या तुल्या गीतिः । अस्याः पादानि तु गीत्याधारभूतान्यन्यानीति वृद्धैः स्मृतम् ।। २२६ ।।

उत्तरमङ्गैर्विभजति । उत्तरं द्वादशपरं षडङ्गावरमिति । आकारपातौ च वर्जयित्वाऽन्यद्रोविन्दकतुल्यमत्र ।। २२७ ।।

अन्ते च मिश्रादीनां (अन्तादीनां) अन्यतरेऽविशेषेण स्थिते सतीति वाक्यशेषः । शीर्षकं चास्य कार्यम् । अत एव मध्य इति । अन्यो (न्ये)ऽङ्गनिबद्धे च क्वाप्यत्र न शीर्षकम् । अत्र तदस्तीति वैलक्षण्यादुत्तरव्यपदेशो लोकोत्तरोऽयमिति यथाऽत्रोत्तरं सर्वपश्चादस्य लक्षणम् । यतः पूर्वोपजीवकत्वेनेत्यत आह । तच्चासत् । लक्षणस्वे(स्ये) च्छाधीनत्वेन पौर्वापर्यानियमात् । अत एव तमुपसंहरति । एवमिति सप्तस्वङ्गानि यद्यपि तथाऽङ्गकृते तालवैचिञ्ये तन्निबद्धता (ल)व्यवहारो न सर्वत्रेत्युक्तम् ।। २२८ ।।

एवं यथाश्रयगीतत्वं तद्वर्णाङ्गवैचित्र्यमुक्त्वा वर्णाङ्गेन यद्गेयं तन्नियतप्रमाणावच्छिन्नं निरूपयितुं प्रतिजानीते । अतः परमिति । असति(वसतो) वर्णाङ्गतालाङ्गे क(य)स्मिन्निति वस्तु । तस्य कल्पनं परिमाणवैचित्र्यं वक्ष्यामीति । तत्र मद्रकस्य तावत् प्राथम्यादेककलस्वरूपमाह । गुरुच्छेदाष्टकमिति । छेदो भागः ।। २२९ ।।

आद्ययोर्गुरुणोरुपोहनम् । तृतीये प्रत्युपोहनमिति । प्रत्युपोहनं नाम प्रथमवस्तुव्यतिरिक्ते वस्त्वन्तरे

Notes

गुर्वक्षरे चतुर्थे तु शम्या कार्या तु पञ्चमे ।
षष्ठसप्तमयोस्तालः शम्या गुर्वक्षरेऽष्टमे ।। २३१ ।।

ततोऽर्धकलिकान् पातान्1 कुर्याल्लघ्वक्षरेषु तु ।
गुर्वक्षरे तालगते पातास्तु कलिका मताः2 ।। २३२ ।।

शम्यातालौ तालशम्ये तेषु कुर्यात् क्रमेण तु ।
तालं शम्यां च तालं च सन्निपातं तथैव च ।। २३३ ।।

3एवमेककले4 ज्ञेयं 5कलायोगस्तु मद्रके ।
गुरुविश्लेषणादेतद् द्विकलं परिकीर्तितम् ।।२३४ ।।

विश्लेषणे कला यत्र6 7पूर्वं निवेशयेत् ।
द्विकले मद्रके चैव 8त्रिकलं स्यादुपोहनम् ।। २३५ ।।

Abh

प्रसिद्धः (द्धम्)। तत्र त्रिभिश्चतुर्भिर्वा मद्रकमिति पूर्वमुक्तम् । तदेककलेऽपि भवतीति द्वितीयवस्त्वादौ प्रत्युपोहनं गुरुमात्रमित्युक्तम् । अनेन तद्धि प्रथमवस्तुगतोपोहनापेक्षया तृतीयां भवति । प्रथमस्य प्राधान्यात् तदपेक्षयैव व्यवहार इति तृतीयतुरीयेऽपि तृतीय इत्युक्तमिति चेदन्ये तु तृतीये वस्तुनि यद् गुर्वक्षरं तत्प्रत्युपोहनमिति वैयधिकरण्येन व्याचक्षाणा द्वितीययोस्तन्नेच्छन्ति । केचित्त्वेकस्य सङ्कोचस्वभावत्वादेकवस्तुकमेव । तत्रैव तूपोहनं कलाद्वयम् । चतुष्कले तस्य तावत्कलत्वात् प्रत्युपोहनं चतुष्कलं तालदवश्यं भवति । चञ्चत्कलाचतुष्टयवस्तुपर्यन्तं तच्चेह तृतीयाया कलाया आसूत्रितम् । गर्भाधानस्थानीय एककले यन्नास्ति तच्च चतुष्कलेऽपि कृतं (कथं)स्यात् । तेन फलतस्त्रीणि स्याद् गुरूणि इ………षेरित्युक्तं भवति । तत्रैवोपोहनप्रत्युपोहनव्यवहार इति प्रतिपन्नाः । लघूनि कलार्थं(र्धं) गुरूणि कलेति ये ते प्रमाणम् । प्रस्तारोऽस्य प्रदर्शयते । ऽऽऽशशताशशशताताशताशतासम् । एवं द्वादशकलोऽयं मद्रकतालः । एतद्द्विगुणस्तु द्विकल इति दर्शयति । गुरुविश्लेषणादेकं (तद्) द्विकलमिति ।। २३०–२३४ ।।

गुरुणा विभिन्नेन द्वितीयेन गुरुणाऽऽश्लेषणं सम्बन्धः । स चादौ निवेश्यते । तदुचिता निःशब्दा कला प्रथमं भवतीति यावत् । अतश्च विशेषणवचनाल्लघुना मिश्रीभूतेन सम्बन्ध इत्युक्तं भवति । द्विकलसामान्याद् द्विलघूनामत्र कलिकत्वमेव । तेन चतुर्विशतिकला इत्युपोहनम् ।। २३५ ।।

Notes

कलिकं द्विकलं वापि नैव वा 1प्रत्युपोहनम् ।
द्विर्भावाद् द्विकलस्यैव विज्ञेयं तु चतुष्कलम् ।। २३६ ।।

सप्तमे लघुनि त्वन्ते द्विर्भावोऽस्मिन् विधीयते ।
चतुष्कलेऽत्र2 विहितः कलाष्टकमुपोहनम् ।। २३७ ।।

एका द्वे 3वा(च)चतस्रो वा(सश्च) तथा स्यात् प्रत्युपोहनम् ।
यथाक्षरस्य कर्तव्यं मद्रकस्य तु शीर्षकम् ।। २३८ ।।

चतुष्कलः पञ्चपाणिर्द्विकले द्विकलः स्मृतः ।
चतुष्कलस्तु कर्तव्यो मद्रके तु चतुष्कले ।। २३९ ।।

Abh

द्वे एका वा नैव वा । त्रिषु गुरुषु पातो नोक्त इति पादभागत्रये तदभावः । ऽऽऽ प्रनि

अनया परिभाषया सप्तमे एककलादर्शनदर्शितकलाच (तुष्टय)योगे लघुन्यादावावाप्रयोजना न प्राप्ता आयाता इति । अतोऽप्यष्टमे सन्निपातालघुन्यादौ विक्षेपकलेत्यन्ये(न्ते) पादभागे अताविशामिति प्राप्ते तदपवादमाह । सप्तमे लघुनि त्वन्ते द्विर्भावोऽस्मिन्निति । द्विर्भवतीति द्विर्भावोऽसाव्य(व)धिक आगतः स चान्त्य इति चतुष्कले ह्याद्य आवापस्तदपेक्षयान्त्यो निष्क्रामः स विधीयते । सोऽपिं किं तालात् पूर्वं निवेश्य(:) नेत्याह । अस्मिन्निति । अङ्ग एव स्थान इति यावत् । तेन तानि विंशतिपादभागोऽन्यो जायते । अन्ये तु द्विर्भावशब्देन तालं व्याचक्षते । सोऽन्त्यः प्राप्त आवापस्थाने विधीयते । तदनन्त(र)न्त्वर्थान्निष्काम इति । फलादेवाद्यामित्यन्ये स्पष्टमेव पठन्ति । अष्टौ कला आद्ये वस्तुन्युपोहनम् ।। २३७ ।।

शेषेषु यथाक्रममेका द्वे च चतस्र इति । अन्ये च स्थाने वाशब्दं पठन्तः प्रत्युपोहने सर्वेषु वस्तुष्वेकद्विचतुःसंख्या विकल्पितामाहुः ।। २३८ ।।

एककले मद्रके चतुष्कलेन पञ्चपाणिना द्विकलमिति विश्लेषणमिति । चकाराच्चतुष्कलेन मिश्रेण वा । अन्ये त्वेककले एककलेन द्विकले द्विकलेन चतुष्कले चतुष्कलेन । एवं संकुलवद् रूपस्फुटीकरणात् सुष्ठुतः शीर्षरूपतां निर्वहतीत्याहुः ।। २३९ ।।

Notes

त्रिवस्तु त्रिप्रमाणं च त्र्यश्रतालसमुद्भवम् ।
इत्युक्तं मद्रकं पातैस्त्रयोदशभिरन्वितम् ।। २४० ।।

गुर्वक्षराणि चत्वारि चत्वारि च लघून्यथ ।
तृतीये च चतुर्थे च शम्यातालौ लघून्यपि1 ।। २४१ ।।

तालं शम्यां च तालं च सन्निपातं च योजयेत ।
लघ्वक्षरैककलिकैः पातैः सम्यक् प्रयोजयेत् ।। २४२ ।।

यथाक्षरं बुधैरेतद्विज्ञेयमपरान्तकम्2 ।
आदौ कलोपवहनं विश्लेषाद् द्विगुणं भवेत् ।। २४३ ।।

Abh

एतदुपसंहरति । त्रिवस्त्विति । चतुर्थमपि हि वस्तु तच्छीर्षकाङ्गसन्निविष्टम् । तथा च दत्तिलाचार्यः । भवेद्वस्तु कलासंख्येत्याहुः (ह) (दत्तिलम् १६५) । इहापि मिश्रकत्वेन तदुक्तमेव । चतुर्वस्तुकत्वेन शीर्षकं शीर्षकमन्यत् प्रागेव निषिद्धम् । तेन त्रिवस्त्वित्युक्तम् । त्रीणि प्रमाणानि (इति त्रिप्रमाणम्) । ननु तालान्तरण्येवैतानि सन्तु किं तदनुयायिरूपं यतो मद्रकतेत्याशङ्क्याह । पातैस्त्रयोदशभिरिति । अद्वैतरीत्यैतत् त्रिष्वनुरूपेष्वङ्गानि वस्तुनो रूपं तदेव च मद्रकमिति यावत् ।। २४०।।

अथापरान्तकम् । अथ गुर्वक्षराणि चत्वारि । चतुर्णा गुरूणां तृतीये तुर्ये च शम्यातालौ । लघुचतुष्टये तालशम्यातालसन्निपातानाचक्षाण आद्यं गुरुद्वयमुपोहनप्रत्युपोहनबीजकध्रुवप्रयोज्यमिति दर्शयति । लघ्वक्षरा एककलिकापाता यत्रेति स्मारयन् गुर्वक्षराणि ताश्च कलिका इत्यपि स्मारयति ।। २४१–२४२ ।।

एतदुपसंहरति । यथाक्षरं बुधैरेतदिति । एककलमिति यावत् । अपरान्तकनिर्वचनलब्धा च प्रतिशाखा सर्वत्रेति लक्ष्यविदः । एतदपि च त(म)द्रकष्ट्कलत्र्यश्रतालमेव । प्रस्तारः उडशंताताशंताशम् । अथैतद् द्विकलीकर्तुमाह । आदौ कला(लो)पवहनं विश्लेषाद् द्विगुणमिति । तत्र न(म)द्रकवदेव गुरूणां द्विर्भावं लघूनामेव कलारूपत्वं विश्लेषणे कलाश्चात्र यथापूर्वं निवेशयेत् (भ. ना. ३१. २३५) इति सर्वे पूर्वोक्तम– नुस्मरेत् । आदौ यावच्छायत्वादुपोहनत्त्वेनोक्ता ध्रुवा वा पातत्वेनैव कार्या । तेन प्रथमे पादभागे न विश्लिष्टा कलेत्युक्तं भवति ।। २४३ ।।

Notes

द्विकले कलिकं ज्ञेयं द्विकलं चाप्युपोहनम् ।
कलिकं कलिकं चेष्टं तथैव प्रत्युपोहनम् ।। २४४ ।।

एतदेव द्विगुणितं विज्ञेयं तु चतुष्कलम् ।
लघ्वक्षरे तृतीये (द्वितीये) तु द्विर्भावेऽन्त्या कला स्मृता ।। २४५ ।।

त्र्यश्रतालसमुद्भूतं पातैः षड्भिर्विभूषितम् ।
1चतुःशाखाख्यमित्येतद्गदितं चापरान्ति(न्त) के ।। २४६ ।।

यथा शाखा तथैवास्य प्रतिशाखा विधीयते ।
पश्चिमार्धसमा सा तु तथैवान्यपदा स्मृता ।। २४७ ।।

शिरश्चैककलेनापि2 कर्तव्यं पञ्चपाणिना ।
वृत्तौ निवृत्तयोगश्च3 गते वस्तुचतुष्टये ।। २४८ ।।

Abh

तत्र द्विकले कला द्वेधा । उपोहनं कलिकम् । कलिकं प्रत्युपोहनमिति । द्वयादिवस्तुभूयस्त्वात् । एवं द्विकलस्य प्रस्तारः । डडनिप्रनिशनिताताशंताशतासम् । द्विकलमपरान्तकम् ।। २४४ ।।

अथ चतुष्कलमाह । एतदेव द्विगुणितमिति । अ(आ)वापविक्षेपयोजनयेति भावः । अत्रापि मद्रकवदन्त्यः पादभागः प्राप्तः । पूर्वं पूर्वं निवेशयेदिति (भ. ना. ३१. २३५) वचनात् । तदपवादमाह । लघ्वक्षरे द्वितीये तु द्विर्भावेऽन्या (न्त्या) कलेति । तेन तानिविशसमित्यन्त्यापवादो न तु अनिविशमिति । एतच्च श्लोकार्धं प्राग्वदेव व्याख्येयम् । तदयं प्रस्तारः । अनिविद्रअनिविश आनिविता आताविश तानिविसम् ।। २४५ ।।

गणयन्तस्तस्यापि प्रतिशाखामाहुः ।। २४६–२४७ ।।

गतेवस्तुचतुष्टये पञ्चमस्यारम्भेन निवृत्तिरावर्तनं कार्यम् । सा च वृत्तौ मार्गे चकारात् पञ्चपाणिना ।

एतदुक्तं भवति । चतुर्थवस्त्वन्ते यान्येव द्वादशकलासु गीयन्ते पादानि तान्येव शीघ्रोच्चारणेन पञ्चमवस्त्वादिभूतकलाषट्के गेयानीति तत्र च न्यासोऽर्धसमाप्तिश्चेत्याचार्याः ।। २४८ ।।

Notes

1शाखायां प्रतिशाखायां विशेषः पश्चिमे त्वयम् ।
षट्कलपातसंयुक्ते2 तालिके तु ततः स्मृते ।। २४९ ।।

तथैककलयुक्तेऽस्ति विधिवत् पञ्चपाणिना ।
यथाक्षरेणैव भवेदनयोरुपवर्तनम् ।। २५० ।।

उपोहनं च3 वस्त्वर्थे(र्धं) द्विकलं प्रत्युपोहनम् ।
4दक्षिणे तु तथा वृत्तौ चतुष्कलमपीष्यते ।
(द्विकलं दक्षिणे कार्यं वृत्तौ चैव चतुष्कलम् ) ।। २५१ ।।

[त्र्यश्रतालसमुद्भूतं पातैः षड्भिर्विभूषितम् ।
चतुःशाखाख्यमित्येतद् गदितं चापरान्ति(न्त) के ।।

Abh

पञ्चमस्य विशेषमुक्त्वा द्वे वस्त्वित्याह । शाखायामिति । शाखायां यत् पश्चिममन्त्यं वस्तु प्रतिशाखायां च द्वयोर्वस्तुनोर्या अन्त्याः षट्कला विशतानिविसमित्येवंरूपास्तास्तु (सु)संताशताशता इति पञ्चपाणिपाताः । अन्ये तु पाणिपातास्त एव पञ्चपाणिगतस्तु प्लुतं च प्लुतलघुगुरुद्वयलघुप्लुतरूपतात्र केवलपरिवर्ते पञ्चपाणिअ(णिग)तः पातविधिरिति मन्यन्ते । अज्ञातस्तालस्तालिकाज्ञाता च वस्तुरूपग्रासीकारात् पञ्चपाणि(रुन्ने)न(त)व्यः ।। २४९–२५० ।

अथोपोहनविधिमाह । उपोहनं च वस्त्वर्धमिति । आद्ये च वस्तुनि द्वादशसु कलास्वन्येषु द्वयोर्यदि दक्षिणमार्गे वार्तिकेषु चतसृष्वपि । अन्ये तु वस्तुनिबद्धपश्चिमे समाप्ते पृथग्भूतामेव षट्कलां तालिकामाहुः । दत्तिलादयस्तु द्वितीयं पादविभागं आनिविशरूपं चतुर्थं आनिविप्ररूपमाहुः ।

अष्टमी विंशिका चैव द्वे शम्ये परिकीर्तिते ।
द्वादशाष्टादशौ तालावेकविंशस्तथैव च ।।

(दत्तिलम् १७२–१७३) इति वदन्तः । एवश्चेत्यर्थः ।। २५१ ।।

वस्तु भवतीत्याह । त्र्यश्रतालेत्यादिना वस्त्वित्यन्तेन । वस्तुन एव च भाविप्रतिशाखापेक्षया शाखेति

Notes

यथा शाखा तथैवास्य प्रतिशाखा विधीयते ।
पश्चिमार्धसमा सा तु तथैवान्यपदा स्मृता ।।

शिरश्चैककलेनापि कर्तव्यं पञ्चपाणिना ।
वृत्तौ निवृत्तयोगश्च गते वस्तुचतुष्टये ।।]

उल्लोप्यकं तु द्विगुरु द्विलघ्वन्तेऽथ गुर्वथ ।
शम्या 1तालो द्विरभ्यस्तो सन्निपातोऽन्त्य एव च ।। २५२ ।।

प्रत्यक्षरकृतैः पादैः2(तैः) पञ्चभिः समलङ्कृतम् ।
चतुरश्रं 3सुविच्छेदमेतज् 4ज्ञेयं यथाक्षरम् ।। २५३ ।।

Abh

व्यपदेशः । प्रतिशाखायां च स एव प्रस्तार इत्याह । यथा शाखेति । प्रतिशाखात्वेन च प्राधान्यात् कदाचिद् भागोऽप्यस्या इत्याचार्याः । प्रतिशाखायाः स्वरूपमाह । पश्चिमार्धसमेति ।

विशाखिलाचार्याः प्राहुः । पश्चिमं वस्तु सप्तकादिरूपत्वमिति तस्यैव यत् पश्चिममर्धं तत् पृथक् प्रतिशाखात्वेन चतुर्विंशतिकलं वस्तुगत्या तद्नतान्त्यद्वादशकलात्मा प्रतिशाखेति वस्तुनि मन्तव्यम् । अत्र च लिङ्गं यदोवेणके एककेन पादे लक्षितव्ये आद्यः पादः समः शाखायाः परस्तु प्रतिशाखाया इति वक्ष्यति (भ. ना. २८१–२८२) । उपपातस्य प्रतिशाखातालाः षट् द्वादश कलातालिका मध्यपतितेऽप्युपपातो न ततोऽधिको भवितुमर्हति । तत्राद्यतुल्यगीतित्वे चान्यपदार्थमिति । अग्रे निर्णेष्यते चैतत् । यदि तदेवं तत् कथं साम्यमित्याह । (अन्य) पदेति । गीतितालाभावे चाक्षराण्यस्यामन्यानीति । अनन्तर ए(मे)ककलेन पत्र्चपाणिना शिरः । केचित् तदपि शाखामध्ये ।

अथ शाखाप्रतिशाखाप्रसङ्गागतं वस्तुनिबद्धप्रकरीपरित्यागेनाप्युल्लोप्यकं वा(व्या)चिकीर्षुराह । उल्लोप्यकं त्विति । अनेन पूर्वत्र्यश्राभ्यामचातुरश्र्येणाविशेषं सूचयति । शताशता इति । यथाक्षरमुल्लोप्यकं यथाक्षरं वैहायसकादन्यन्न किञ्चिदिति तत्रोक्तम् । अत एवोर्ध्वं सर्वं लोप्यमत्रेत्युल्लोप्यकम् ।। २५२ ।।

एतदुपसंहरति । प्रत्यक्षरकृतैरिति । ननु यदि पञ्चभिः पातैरयं तर्हि कथं चतुरश्रता । आकारविच्छेदगुरुरेकोऽत्र लघुद्वयेन शोभते । तेनापूर्वेण चञ्चत्पुटपरिवृत्तौ विभक्त इति यावत् ।। २५३ ।।

Notes

पूर्वोक्तेन विधानेन द्विचतुष्कलमिष्यते ।
1अस्य चाङ्गत्रयेऽतीते2 3वैहायसकमिष्यते ।। २५४ ।।

तदेकाङ्गावरं ज्ञेयं द्वादशाङ्गपरं स्मृतम् ।
4प्रमाणाद्(णं)द्वादशकलं 5तथा पातमथापि च ।। २५५ ।।

अस्य तु 6द्विकला शम्या तालस्त्रिकल(द्विकलस्ताल) एव च7 ।
द्विकला च पुनः शम्या तालश्चैककलः8 स्मृतः ।। २५६ ।।

ततः शम्या ततस्तालः सन्निपातस्ततः पुनः9 ।
शाखेयं प्रतिशाखा10 तु नित्यमन्यपदा11 स्मृता ।। २५७ ।।

Abh

अथ द्विकलचतुष्कलयोगमुपपादयति । पूर्वोक्तेनेति । द्वैगुण्येन कलाः पूर्वं निवेशयेदिति च । विधेनेत्यर्थः । तेन निशनिताशनानिसं द्विकलः । अनिविश चतुष्कलः । अस्य चेति । अस्यैव द्विकलचतुष्कलात्मनो वैहायसकम् । अङ्गत्रयेऽतीत इति टीकाकारः पठति व्याचष्टे च शून्यरूपे परं गीतमात्रात्मनि कलाचतुष्कनिष्ठे वर्णाङ्गत्रये प्रयुङ्क्त उपपादनमिति । लक्ष्यानुसारिणस्तु मात्रागत एव मुखप्रतिमुखगते वर्णाङ्गत्रयेऽतीतेऽद्य प्रयोग इत्युक्तवन्तः । वैहायसकत्वं तु यथाक्षरापेक्षया शून्ये स्थानेऽस्य परता ।। २५४ ।।

तदिति वैहायसकमेकाङ्ग (ङ्गा)वरं द्वादशपरं प्रोक्तम् । षडङ्गपरमित्युक्तं (प्राक्) । तेन विकल्पोऽत्र व्रीहियववत् । अस्य स्वरूपमाह । प्रमाणं द्वादशकलमिति । तथा पातमिति । द्वादशपातमिति यावत् ।। २५५ ।।

पातानाह । अस्य तु द्विकला शम्या द्विकलस्ताल इति । त्रिकलत्वमनयोः । द्विकला शम्येति । निष्क्रामानन्तरगा । तत्र द्विकलत्वे चञ्चत्पुटे अन्त्या सन्निपातकला । अन्तस्थानादेव (क) कलश्चञ्चत्पुटगताद्यशम्यायाऽपसारितद्विकलैककलयोर्ह्ययं तत्र मध्ये सन्निपातः स्यात् । एकः संता एकोऽयं ताल इति न स्यात् । प्रशस्त……..द्विकलगता सप्तकानन्तरं मध्ये शम्यादिरेककलचत्र्चत्पुटाक्षिप्तस्तदनन्तरं सा सन्निपातकला । अष्टम्यपि द्वादशसंस्थानता । तदेतदाह ।

Notes

यदा त्वस्य भवेदन्तस्तदन्ता1हरणं बुधैः ।
यथाक्षरेण नियमात् संहार्यं पञ्चपाणिना ।। २५८ ।।

स्वतालेनान्तहीनस्य 2संहार्यः परिकीर्तितः3 ।
4त्रि(द्वि)प्रकारनिवृत्तस्तु(श्च) 5त्र्यङ्गोऽन्तस्त्रिविधः स्मृतः ।। २५९ ।।

त्र्यश्रश्च चतुरश्रश्च 6मिश्रश्च परिकीर्तितः6a ।
स्थितप्रवृत्ते7 तस्याङ्गे माहाजनिकमेव च ।। २६० ।।

Abh

द्विकला च पुनः शम्या तालश्चैककलः स्मृतः ।
ततः शम्या ततस्तालः सन्निपातः ।।

इति । (प्रस्तारः) निविशनिवितानिशताशता वैहायसम् । शाखेयमिति वैहायसम् । केचित् प्रतिशाखेति यावत् । नित्यमिति यदि भवति तत् सर्वथैवान्यपदेति यावत् । अन्त्ये ती(त्वि)ह नित्यमिति लिङ्गं प्रतिशाखाया अन्यत्रानित्यत्वस्येत्याहुः ।।२५६-२५७ ।।

यदा त्विति विशेषो द्योत्यते । अन्तेन हि संहितेनान्ताहरणम् । तद्धि संहारमर्हतीति संहार्यम् । अन्तस्याहरणं सूचकमिति यावत् । तच्चैककलेन पञ्चपाणिना ।। २५८ ।।

यदि त्वन्तो न क्रियते तदायं विधिरित्याह । स्वतालेनेति । स्वतालो वैहायसम् । तेनैव संहारः समाप्तिः । तदपि यदा न क्रियते तदा स्वतालेन प्रथममात्रारूपैव न समाप्तिरित्यावेदयितुं स्वतालेनेति साधारण्योक्त्या व्यवहृतः । यदा त्वस्य(स्या)न्त इत्युक्तं ततस्तदाह । द्विप्रकारनिवृत्तश्च त्र्यङ्ग इति ।। २५९ ।।

एतत् स्वयमेव निर्णिनीषुस्त्रिविधत्वं तावदाह । त्र्यश्रश्च चतुरश्रश्च मिश्रश्चेति त्र्यङ्गत्वमाह ।

स्थितप्रवृत्ते तस्याङ्गे माहाजनिकमेव च ।

इति ।। २६० ।।

Notes

स्यात् पञ्चपाणितालेन तदन्ताहरणं यदा ।
तदा स्थितं भवेद्युग्मं1 तस्य 2पातविधिस्त्वयम् ।। २६१ ।।

शम्याऽपि द्विकला कार्या तालोऽपि द्विकलः स्मृतः ।
चतुष्कलः सन्निपातः प्रवृत्तमत इष्यते ।। २६२ ।।

अस्य तु द्विकला शम्या तथा चैककला पुनः ।2a
चञ्चत्पुटस्तु तालादिः सन्निपातस्ततः परम् ।। २६३ ।।

3स्थितं तालेन कर्तव्यं माहाजनिकमस्य तु ।
4निवृत्ततालः कर्तव्यः 5प्रवृत्तस्यापि तत्त्वतः ।। २६४ ।।

Abh

त्रिविधस्य प्रयोगपौर्वापर्यमाह ।

स्यात् पञ्चपाणितालेन तदन्ताहरणं यदा ।
तद्रा स्थितं भवेद्युग्मम् ।

इति । यदेति यतः । तदेति ततः । यत्तद(यदातदोर)यमर्थः । आदौ युग्मस्थितं कार्यं चात्रान्ताहरणे पञ्चपाणिः । अयुग्ममिति परभागे न विच्छित्तिर्भवति ।

अन्ये तु यदेति यस्मिन् ताल इति व्याचक्षाणा अन्ताहरणमन्तेन नियतमपि तु विपर्यय इति । ततश्चान्ताहरणाभावे यदान्तस्तदायं नियमः । आदौ युग्ममिति स्थिरमिति नामबलात् स्थायिवर्णप्रधानमेतत् ।

अन्ये त्वेकस्याभेदत्वात् स्थितत्वमित्येकक्र(म)मुक्तमित्याहुः ।। २६१ ।।

शम्या द्वे चेति । द्विकलचञ्चत्पुटोऽयम् । निशनिताशनि प्रनिसंस्थितम् । प्रवृत्तवर्णाङ्गयोगाच्च प्रवृत्तम् ।। २६२ ।।

अस्य तु द्विकलेति । निशताताशताशसं वृत्तम् ।। २६३ ।।

स्थितस्य तालः । स एव माहाजनिकस्य किन्तु निवृत्तिरन्ते कर्तव्या । अत एव पुनः प्रवर्तनादपि प्रवृत्तम् । तदाह । अस्य तु निवृत्ततालः कर्तव्य इति । निवृत्तिरस्यास्तीति मत्वर्थीयः । अनि(नि)वृत्तस्ताल इति तालान्तो भागः कलाचतुष्टयात्मा स पुनरावृत्तः कर्तव्यः । आद्यासु चतसृषु कलासु यानि निष्पन्नानि तान्येव पातानि यावत् । न केवलं माहाजनिकमेव निवृत्या युक्तम् । यावदुक्तलक्षणं प्रवृत्तमपि । द्विप्रकारो निवृत्तोऽन्त इति । अत एव हि पूर्वमुक्तमित्येतदित्याह । प्रवृत्तस्यापि तत्त्वतः ।। २६४ ।।

Notes

1अत्र 1aतालविधिश्चेष्टः प्रायशस्तूपवर्तने2 ।
आदावुद्धट्टकः कार्यः परिवर्तक एव च ।। २६५ ।।

3युग्मे हि मिश्रतालत्वाद् युग्मे(ग्मो)ह्यन्तः4 प्रयुज्यते ।
विवधैककसंयुक्तः 5पूर्वं पश्चा5aद्विधिः स्मृतः ।। २६६ ।।

यथावदन्त(न्त्य)तालोऽयं 6युग्मो मिश्रश्च कीर्तितः ।
अतः परं प्रवक्ष्यामि 7aत्र्यश्रमन्यविधिं7 पुनः ।। २६७ ।।

Abh

अत्रेति । अत्र यत् प्रवृत्तमुक्तं न तु वर्णाङ्गरूपं तस्यापि यस्तालविधिरुक्तः सोऽपि प्रायश उपवर्तने निवृत्तविषये कर्तव्यः । अन्यत्रभावो विषयार्थः । प्रायश इति । प्रकर्षगमनेनेत्ययमत्रार्थो विवक्षितमि (त इ)त्यभिप्रायमाविष्करोति । आदावुद्धट्टकस्तालः कार्य इत्यनयात्मनि युग्मरूपक्रमवशेन द्विकल- चञ्चत्पुटेऽपि । अत एव प्लुतलघुविभागहीनेऽपवादतयाऽकर्तव्यत्वेनोक्तः । परिवर्तकव्यपदेशश्च द्विकलेऽपि परिवृत्यागतत्वा दन्यस्तालादिश्चञ्चत्पुटतालः कर्तव्यत्वेनोक्तः । चकारात् सन्निपातश्च नोपवर्तने प्रयुज्यत इति प्राच्येन सम्बन्धः । तत्र पृथक् सामान्येन चोपवर्तनमिति बहवो भेदाः ।। २६५ ।।

ननु तालसमुदायरूपं प्रवृत्तं पश्यामः । तत्र कथमेकरसच्छलमुपवर्तनमित्याशङ्क्याह । युग्मो ह्यन्त इति । अन्ताङ्गप्रवृत्तमात्रान्तःसकलचञ्चत्पुटत्वादेक एव ताल इति यावत् । विशेषे किं प्रमाणमित्याह । युग्मे हीति । हि यस्माद्युग्मोऽन्तविधिरत्रोपक्रान्त इति । प्रकरणमात्र इति यावत् । तच्चैकरसो यद्ययमष्टकलस्तालः । कथं तर्ह्युद्धट्टकादिव्यपदेशो भवता न व्यधायीत्याशङ्क्याह । मिश्रतालत्वादिति । उद्धट्टकचञ्चत्पुटोचितव्यामिश्रतामात्रमत्रेति यावत् ।

अन्ये तु परिवर्तकमित्येन चञ्चत्पुटसङ्ग्रहविशेषसन्निपातोऽन्तः प्रयुज्यत इत्यनेन स्वीकृत इत्याहुः । एवमयं श्लोकः प्रवृत्तस्योपवर्तनमिति विधिपर्यवसायी रुद्र(उद्भ)टादिभिस्त्वेकमर्थमबुध्यमानैरुक्तः । स श्लोकपाठविप्रलब्धैः सर्वत्रैवाष्टकलस्योक्तः । प्रस्तारस्य वृत्तस्यादौ पृथग्भूत उद्धट्टः । कर्तव्यं नाम्ना तदा तत्तु लक्ष्ये चिरन्तने न दृश्यते प्रक्रान्तयुग्मायुग्मविभागं च विध्वंसयतीत्यनपेक्ष्यमेव । विवधैककसंयुक्तः पूर्वं पश्रादिति । उपवर्तनस्येति विशेषः ।। २६६ ।।

एवं चतुरश्रमुपसंहरति । यथावदन्त्यतालोऽयं युग्म इति । अथ मिश्रः संकीर्ण इति यावत् । उद्धट्टयोगेन संकीर्णतायां शक्यत्वे साप्यपसारितेति भावः । अन्ये त्वकारप्रश्लेषं नेच्छन्तो

Notes

शम्या तु द्विकला पूर्वं ततस्तालो विधीयते ।
त्रिकलः सन्निपातश्च प्रवृत्तं वाप्यतः परम् ।। २६८ ।।

प्रवृत्तमस्य कर्तव्यं यथावत् परिवर्तनम् ।
1aयथाक्षरप्रयुक्तेन1 नियमात् पञ्चपाणिना ।। २६९ ।।

2अस्या(त्रा)पि स्थिततालेन माहाजनिकमिष्यते ।2a
3निवृत्ततालः कर्तव्यस्तथाऽत्रापि4 निवृत्तिमान् ।। २७० ।।

युग्मौजमिश्रतालत्वान् मिश्रोऽप्यन्तः प्रयुज्यते5 ।
विवधैककसंयुक्तः सर्वश्चान्तविधिः स्मृतः ।। २७१ ।।

5aद्वयङ्गमेकाङ्गमपि वा स्थितं कार्यं समासतः ।
तत्र युग्मं भवेद् द्वयङ्गं 6त्र्यश्रमेकाङ्गमेव7 च ।। २७२ ।।

Abh

यद्यप्यन्यतालेन मिश्रस्तथापि उक्तयुक्त्या युग्म उक्त इति व्याचक्षते ।। २६७ ।।

त्र्यश्रे स्थितमांह । शम्या त्विति । निशताप्रनिसंस्थितम् । प्रवृत्तमतः परमिति वचनात् स्थितमेतदिति ज्ञायते ।। २६८ ।।

परिवर्तनमिति । परिवर्तनयोगात् तत्र चैककलः पञ्चपाणिः ।। २६९ ।।

स्थिततालेनैव निवृत्तियुङ् माहाजनिकम् । तदाह । अत्रापीत्यादि निवृत्ततालः कर्तव्य- स्तथेत्यन्तम् । एवं प्राधान्यादादौ युग्मस्ततस्त्रयश्रोऽन्तः कर्तव्य इत्युक्त्वा तद्द्वयपूर्वकत्वात् सर्वपश्चात् कर्तव्यमिश्रान्तमाह । अत्रापि निवृत्तिमान् ।। २७० ।।

युग्मौजमिश्रतालत्वादियुग्मौजरूपाणां स्थितादीनां वैचित्र्याद्बहुप्रकारमिश्र इत्यर्थः । सोऽपि च पृथक् प्रयुज्यते । न तु पौनरुक्त्याऽशङ्कया न प्रयोज्य इतिं । अत्रापि निवृत्तिस्थाने आवृत्तिरित्यत्रापीत्यर्थः । अथ तस्याङ्गान्याह । विवधैककेति । स्थितादित्रयेऽप्येतद् । उत्सर्ग इत्यर्थः ।। २७१ ।।

विशेषं त्वाह । द्वयङ्गमेकाङ्गमपि वेति । व्यवस्थितविभाषाविषयमिति दर्शयति । तत्र युग्मं द्वयङ्गं- त्र्यश्रमेकाङ्गमिति ।। २७२ ।।

Notes

1a.N: यथाक्षरप्रसङ्गेन समासात्पञ्चपाणिना

प्रवृत्तमपि विज्ञेयं द्वयङ्गमेकाङ्गमेव वा1 ।
1aमाहाजनिकमेकाङ्गं 2त्र्यङ्गं संहरणं स्मृतम् ।। २७३ ।।

स्थितादिकः प्रवृत्तान्त एवमन्तविधिर्बुधैः ।
उल्लोप्यके 3समायोज्य ऊहापोहविशारदैः ।। २७४ ।।

प्रकरी वस्तु षण्मात्रं पाताश्चैकान्न(कोन) विंशतिः ।
3aवस्तु प्रमाणं कर्तव्यं तथैव च चतुष्कले 4।। २७५ ।।

न यथाक्षरयोगेन न चापि द्विकलं 4aस्मृतम् ।
5आद्यमात्राद्वयस्यान्तः शम्यातालान्वितो भवेत् ।। २७६ ।।

मात्रात्रयस्य6 चान्तस्य शम्यैकैकान्ततः स्मृता ।
चतुर्थ्यां द्वादशस्तालः पञ्चम्यां 7चाष्टमो मतः ।। २७७ ।।

Abh

प्रवृत्ति(त्त)विशेषमाह । प्रवृत्तमपीति । प्रवृत्तेऽपि पूर्ववव्द्यवस्थितविभाषैव मन्तव्या । महाजनिकस्तू(कं तू) भयमप्येकाङ्गं संहरणरूपं सर्वसमाप्तिकालेऽयं माहाजनिकः । तद्द्वयङ्गं मध्यवर्ति त्वेकाङ्गमेवेत्यर्थः । अन्ये तु संहरणमित्याहरणं त्र्यङ्गमिच्छन्ति ।। २७३ ।।

एतदुपसंहरति । स्थितादिकः प्रवृत्तान्त इति । यावदङ्गानां विवधादीनां चैकव्द्यादिरूपतया भूयांसोऽत्र सन्ति प्रकारा इति सूचयति । ऊहापोहेति । ऊहनमनुक्तस्योपवर्तनभेदादेः कल्पनम् । अपोहनं तूक्तस्यान्तविध्यादेरपसारणम् ।। २७४ ।।

एवं वस्तुनिबद्धमपरान्तकमभिधाय शाखाप्रतिशाखाप्रसङ्गबद्धमुल्लोप्यकमुक्तम् । अधुना तु यथाप्रस्तुतां प्रकरीमाह । प्रकरी वस्तु षण्मात्रमिति । प्रकर्या वस्तु प्रकरीरूपं वाऽत(व)स्त्विति समान(ना)कृतौ भाषितपुंस्कत्वमिति यावत् । पाता एकोनविंशतिः । अन्यं(न्त्यं)तु चतुष्कलमात्रासमुचितमाहिद्यपादी(द इ)त्युक्तम् ।। २७५ ।।

पातानाह । आद्यमात्राद्वयस्यान्त इति । षोडशी कला शम्या मात्रायामाद्यायां द्वितीयस्यां तु तालः ।। २७६ ।।

अन्यत्र त्रयेऽपि षोडशी शम्या । तुर्यमात्रायां द्वादशतालःपञ्चम्यामष्टम इति पञ्च मात्रास्तावदुक्ताः ।। २७७ ।।

Notes

षष्ठयां तु द्विकला शम्या तालश्च द्विकलो भवेत् ।
पुनश्च द्विकलस्तालः सम्या च द्विकला पुनः ।। २७८ ।।

शम्या तालश्च तालश्च शम्या तालस्तथैव च ।
शम्या तालः सन्निपात इति वस्तु प्रकीर्तितम् 1।। २७९ ।।

यदा त्वर्धचतुर्थानि वस्तूनि प्रकरी भवेत् ।
पश्चिमार्धपदस्यैव तदर्धं प्राङ् निवेशयेत् ।। २८० ।।

Abh

षष्ठ्यां तु चतुष्कलत्वोचितौ प्राप्तावावापविक्षेपौ न कार्याविति दर्शयति ।षष्ठ्यां त्वित्यादि । द्विकलेति । द्विकलोचिताधिनिष्क्रामानन्तरभाविनीत्यर्थः ।। २७८ ।।

इति वस्त्विति । मात्राषट्कमिति यावत् । तेनायं प्रस्तारः । आनिविप्र आनिविप्र आनिविप्र आनिविप्र आनिविप्रता आनिविता आनिविता आनिवा आनिविप्र आनिवि…..आनिविप्र आनिविप्र आनिविता आनिवित निशता निता नितानि शशताशता (२८) ।।२७९ ।।

एतदुक्तमन्यैरतो द्वैकलमद्रक्य इति यदा त्वर्धचतुर्थानीति सार्धवस्तुत्रयपक्षे प्रागित्याद्यं यदर्थं वस्तुनो मात्रात्रयरूपं तत् पश्चिमाद्यन्तद्वितीयेनार्धेनान्येन मात्रात्रयेण तुल्यंनिवेशयेत् । तेन चतुर्थ्या मात्राया यस्तालः प्रथमाया पञ्चमगतो द्वितीयायाः षष्ठ्यास्तु यस्तालः स एव तृतीयस्या इत्येवं वस्तुत्रये गीते ततो वस्त्वर्धं पश्चिमार्धरूपं प्राधान्यादित्यर्धचतुर्थवस्तुमित्यमुं केचिद्ग्रन्थमनैषुः ।

टीकाकारास्तु पश्चिमार्धं यन्मात्रात्रयं तदादौ कुर्यात्। तस्य चोपोहनमन्ते न(न्तरेण) द्वैकलमद्रकीर्भिर्युक्तं यन् मात्रात्रयं तस्य चोपोहने(नं)कुर्यात् । यदाऽर्धचतुर्धा(र्था)नि वस्तूनि प्रकरी तदर्धमिति । तेनाऽर्धचतुर्धा(र्था)नि यदा तदादौ कुर्यात् । तस्य च यस्तालविधिरा(ह)पश्चिमार्धशब्देन तत्तालस्त- मर्हतीति । अत्र तु पक्षे उपोहनत्वं यदुक्तं तत् कथमिति न विद्मो मुनिनोक्तत्वात् ।दत्तिलादिभिरेव हि

उपोहनं च तत्राद्यं स्मृतं चार्धविवर्जितम् ।

(दत्तिलम् १९९) इत्युक्तम् । तेनाधिकं यद्वस्त्वर्धं तस्य स्थाने तालविधिः (उपोहने)नोच्यत इत्येतावदेतत् ।। २८० ।।

Notes

कनिष्टासारितेनास्य(स्याः) कार्यं संहरणं ततः1 ।
पादः पूर्वः समः 1aकार्यस्त्वपरान्तकशाखया ।। २८१ ।।

ओवेणके 2द्वितीयेऽ(यो)पि तस्यैव प्रतिशाखया ।
अनित्यः शीर्षके तालो माषघातस्ततः परम् ।। २८२ ।।

षट्पातो द्वादशकलस्त्वस्य पातविधिस्त्वयम् ।
कर्तव्या द्विकला शम्या तालो द्विकल एव च ।। २८३ ।।

Abh

कनिष्ठासारितेति । अस्या इति । चतुर्थवस्तुकायाः सार्धवस्तुरूपायाश्च प्रकर्याः संहरणं नामाङ्गं कार्यम् । कनिष्टानासा(ष्ठासा)रितेति । आ(अ)ब्रह्मदत्ते ब्रह्मदत्तव्यवहारवत् । वस्त्वर्धोऽत्र य(ग)म्यते । तेन तदीयसा(ता)लोऽतिदिश्यते ।

ननु गुरुलघुप्लुतविभागेनाप्युपोहनमन्त्यसन्निपातस्य च मुक्तत्वादत्रानतिदेश एव । आद्यमात्रावत् षोडशकलामात्रैवेयमिति …..मत्रार्धेन प्रकर्यां ……….सङ्गता । एषा च मात्रा द्वैकलमद्रकतालः षष्ठमात्रास्थाने कार्येति केचित् । अन्ये त्ववस्तुनि सप्तम्यैवेयं मात्रेति मन्यन्ते च पञ्चपाणितालानुप्रवेशात् त्र्यश्रत्वसूचिकाप्रकर्या इयमेव शीर्षकरूपेत्याहुः ।

अथौवेणकं लक्षयति । पादः पूर्व इति । अपरान्तकं यद्वस्तु सैव शाखाय(खा तया)चोक्तं वस्तु शाखाख्यमिति । तेन चतुर्विशतिकलाः पादः ।। २८१ ।।

द्वितीयोऽपि तस्यैव प्रतिशाखयेति । विशेषवचनं तुल्यगीतित्वे अन्यपदत्वाभावः । यथाह दत्तिलः

अथ नान्यपदौ पादौ तुल्यगीत्यादिलक्षणौ ।
पृथगोवेणकस्यादावपरान्तकवस्तुवत् ।।

(दत्तिलम् २०१-२०२) इति । अनित्यमिति । शीर्षकमस्य भवति वा न वा । माषघातस्ततः परमिति । उद्धट्टस्तत एव चाविकल्पित इति यावत् ।। २८२ ।।

तस्य स्वरूपमाह । कर्तव्या द्विकला शम्येति । तानि तानि शता प्रनिशसम् ।। २८३ ।।

Notes

पुनश्च द्विकलस्तालः शम्या च द्विकला पुनः ।
1aपुनश्चैककलस्तालः सन्निपातः कलात्रये ।। २८४ ।।

प्रायेण माषघातश्च विवधाङ्गः प्रकीर्तितः ।
सन्निपातश्च(स्य)पश्चार्धे कदाचिदुपवर्तनम् ।। २८५ ।।

1अस्य स्यात् कलिकेनैव तद्योज्यं पञ्चपाणिना ।
सन्धिर्यथाक्षरेणैव कर्तव्यं(व्यः) पञ्चपाणिना ।। २८६ ।।

एककं विवधो वापि तस्याङ्गं समुदाहृतम् ।
2अन्तस्य2a चतुरश्रस्य प्रवृत्ते यो विधिः स्मृतः ।
3विवधो(धा)ङ्गेन तेनैव चतुरश्रकमिष्यते ।। २८७ ।।

Abh

सन्निपातस्येति । तदुपलक्षितस्यास्य माषघातस्य पश्चिमेऽर्धे पाक्षिकमुपवर्तनम् ।। २८४-२८५ ।।

तत्र चैककलः पञ्चपाणिस्तालः ।

अत्र केचिदाहुः कदाचित् पूर्वार्धे कदाचित् पश्चिमार्धे । तेन माषघाते यान्यक्षराणि द्वादशकलासु तान्येव लयशीघ्रतया षट्कलासु प्रयोज्यानि । तच्चा(तान्या)दौ पश्चाद्वा माषघातस्येति ।

अन्ये तु माषघातस्य षट्कलासु तैरेवान्तरैरन्याः षट्कलाः पञ्चपाणिगतप्लुतादि विभागेन गेयाः । तालस्तु माषघातीय एव क्रमायात इति ।

अपरे त्वाहुः । सन्धिस्तावदेककलेन पञ्चपाणिना कार्यः । तत्र माषघातीयानामेवाक्षराण्यन्यानि चेति कदाचिच्छब्दस्यार्थ इति ।

त्र्यश्ररूपे भाविन्यङ्गद्वये वा सन्धायत्वेन सन्धिः ।। २८६ ।।

तस्याङ्गमेकको विवधो वाअन्तस्येति । चतुरश्रं तस्य यत् प्रवृत्तमङ्गं द्विकलचञ्चत्पुटमुक्तं तदेव विवधाङ्गं चतुरश्रम् ।। २८७ ।।

Notes

1a:N: अतश्चैक कलस्तालः सन्निपातकलात्रये

1सन्धिवद् वज्रतालश्च द्विधा सम्पिष्टकं मतम् ।
सप्ताङ्गे द्वादशकलं द्वादशाङ्गैर्द(ङ्गे द)शैव तु2 ।। २८८ ।।

निष्क्राममादितः कृत्वा शम्यास्तिस्रः प्रयोजयेत् ।
तालत्रयं ततश्चैव शम्यातालौ ततः परम् ।। २८९ ।।

शम्यातालौ ततः कार्यौ सन्निपानोऽन्त्य एव च ।
ओवेणके 3तु सप्ताङ्गे सम्पिष्टकमिदं मतम् ।। २९० ।।

द्विः शम्यातालयोगेन द्वादशाङ्गेऽपि चेष्यते ।
पाता नवैकादश वा सम्पिष्टकमुदाहृतम् ।। २९१ ।।

वज्रवत् सम्प्रयोक्तव्यमुपवर्तनमेव च ।
4युक्ता विवधवृत्ताभ्यां प्रवेणी द्विविधा स्मृता ।। २९२ ।।

Abh

तन्नामाङ्गं पुनरपि च सन्धिताल इव वज्रमेककाङ्गतं विवधाङ्गत्वं च । अत्र वज्रस्यान्तेनैककलैककमात्राङ्गम् । तत एवाभञ्जनीयत्वाद्वज्रत्वम् । चतुरश्रव्यवहिता त्र्यश्रधीः पुनर्वज्रलेपेनेवानेन वृद्धिकृतेऽपि वज्रम् । सप्ताङ्गे ओवेणके सम्पिष्टकं दशकलं द्वादशकलं वा ।। २८८ ।।

तत्राद्यस्य प्रस्तारमाह । निष्क्राममिति । निशशशसससताताशताशसम् ।। २८९ ।।

सम्पिष्टकं चञ्चत्पुटचाचपुटादिरूपस्य स(र्व)वासचूर्ण इवात्र द्विदलवास सम्पेषणमिव ।। २९० ।।

द्वादशाङ्गे दशकलमाह । द्विःशम्यातालयोगेनेति । शम्यायास्तालस्य च यत् त्रित्वमुक्तं तदपसार्य द्वित्वं कार्यम् । अत एव नव पाता भवन्ति । निष्क्रामश्चाद्यः । प्रागेकादशपाताः । निशशताताशताशः…..दशकलसम्पिष्टकम् ।। २९१ ।।

सम्पिष्टकाक्षरैरेवैककलपञ्चपाणिनापवर्तनं वज्रवद्भावादेकाङ्गं तथा वज्रवदिति । आद्या प्रवेणीति विवधेन । अपरा तु वृत्तेन ।। २९२ ।।

Notes

पञ्चपाणिस्तु1 कर्तव्यं(व्यः) प्रवेण्याश्च1a यथाक्षरः ।
द्विकलो वापि मिश्रो वा प्रयोगो द्वाद(ऽङ्गव)शानुगः2 ।। २९३ ।।

3अन्ते चा(वा)स्याः प्रकर्तव्यं कदाचिदुपवर्तनम् ।
पञ्चपाणिविधानेन यथोक्तेनैव तद्भवेत् ।। २९४ ।।

द्वितीयपादतालेन4 ह्यवपातश्च कीर्त्यते ।
वज्रतालेन कर्तव्यमन्ताहरणमस्य तु ।। २९५ ।।

Abh

तत्राद्यायास्तालः पञ्चपाणिर्यथाक्षरः । अपरस्याः स एव द्विकलः । यदि वा मिश्र इति । एककलद्विकलचञ्चत्पुटसमुदायरूप इति लक्ष्यते । प्रकृष्टा वेणीति प्रवेणी । वेण्या शिरो लक्ष्यते । अनेन प्रधानमिदमङ्गम् ।

ननु यदि द्वयोरपि तालस्तुल्यतर्हि को विशेष इत्याह । प्रयोगोऽङ्गवशानुग इति । आद्यायां विवधोऽन्यस्यां च वृत्तमित्यङ्गभेदाद्भेद इति यावत् ।। २९३ ।।

पाक्षिकं भेदान्तरमप्याह । अन्ते वाऽस्या इति । द्वितीयस्याः पर्व(प्रवे)ण्या अन्ते उपवर्तनमावृत्तिः कार्या । कदाचित्तत्र च यथाक्षरः पञ्चपाणिः ।। २९४ ।।

द्वितीयपादतालेन ह्यवपात इति । अत्र वज्र इति द्वादशकलावधिकेन तावदनेन भाव्यम् । तथाभूतात् प्रकरणात् तन्त्रान्तरेषु च स्वकण्ठोक्तेनैवास्या द्वादशकलत्वोक्तेः ।

प्रवेण्या अवपातश्च द्विकले स्युरिहोत्तरे ।

इति । तदत्रान्तस्य द्वितीयपादस्य तावद् द्वादशकलत्वम् । तच्चापरान्तकप्रतिशाखाया द्वादशकलत्वे लिङ्गमिति तदेतत् प्रतिज्ञानं(न) सहन्ते । प्रकरणं द्वादशकलतां निश्चिन्वत् द्वितीयप(पा)दतालेनेत्यस्यैव विशिष्टे विग्रहे स्थापकम् । यतो द्वितीयं पादस्य द्वितीयपादः । अपरमर्थं द्वादशकलापादस्य । द्वितीयतृतीयेति (अष्टा.२.२.३) समासः । तत्र पञ्चपाणिना द्वितीयपादतालेन द्वादशकलेनेति सम्बन्धे द्विकलपञ्चपाणिताल एव लभ्यत इति । प्रताशनितानिशताप्रनिस उपपातः ।

अन्ये तु पञ्चपाणिग्रहणं नानुवर्तयन्ति । तत्राद्यपादद्वितीयार्धतालमुपपातं प्राहुः । अनिविता आताविशतानिविश उपपातः । तदुक्तं दत्तिलाचार्येण

Notes

रोविन्दके तु षण्मात्राः पाताश्चैकान्नविंशतिः ।
1अथार्धेऽन्ते च मात्राणां 2पञ्चानां पात उच्यत ।। २९६ ।।

तालः शम्या 3च तालश्च शम्या तालस्तथैव च ।
पञ्चानामपि मात्राणां विधिरेष यथाक्रमम् ।। २९७ ।।

4aचतुर्दशोऽपि4 पञ्चम्या मात्रायास्ताल उच्यते ।
चतुष्कला5aऽन्त्यया5 तुल्या षष्ठी मद्रकमात्रया ।। २९८ ।।

Abh

उपपातद्वितीयस्तु तालः कैश्चिदुदाहृतः ।

(दत्तिलम् २०८) इति द्वितीय इहान्यपातद्वितीयार्धनिविष्ट इत्यर्थः एतत्त्वबुद्ध्वा दत्तिले विवरणकृतो भ्रान्तास्तालं विशेषं व्याख्यातवन्तः । वज्रतालेनान्ताहरणग्रहणादेककलपञ्चपाणिरेकाङ्गत्वं च लभ्यते । चतुर्विंशे यद्यन्तं चिकीर्षितं तदेदं कार्यमिति । अन्येऽपि नोच्यते नात्रान्ताहरणमित्ययमसौ विशेष इत्याहुः ।। २९५ ।।

अथ रोविन्दकं लक्षयति । रोविन्दके त्विति । षण्मात्रा इति । चतुर्दशे(शो)ऽपि पञ्चम्या(भ.ना.३१.२९८) इति वक्ष्यमाणत्वात् । चतुष्कला त्रिमात्रा षोडशभिः कलाभिः । तत्र षट्सु पातानाह । अथार्धेऽन्ते चेतियथाक्रममिति । तालोऽर्धोऽन्ते च । अन्यस्यान्ते द्वितीयस्तालः । द्वितीयस्यां मात्रायामर्धे । त्रिष्वेव चेति वचनाच्छम्यान्ते । एवं पञ्च चतुर्थ्यां पञ्चम्यां च । तथैव चेति यथाक्रममिति वचनात् सर्वासु मात्रास्वर्धे तालान्ते शम्येति । आचार्यान्तरमतानुसारेण व्याख्या चेति यत् टीकाकारेण कल्पितं तालोऽर्धोऽन्ते चान्यासां शम्यार्धेऽन्ते न तुर्यस्यां तालोऽर्धोऽन्ते पञ्चम्यामिति तदुपेक्ष्यमेव । तथा हि दत्तिलाचार्यः

तथाऽर्धेऽन्ते च मात्राणां तालः शम्ये यथाक्रमम् ।

(दत्तिलम् २११) इति । पश्चम्यां चतुर्दशोऽपि ताल इत्येकादश पाताः । पञ्चसु षष्ठी त्वष्टपाता मात्रेत्याह ।

चतुष्कलाऽन्त्यया तुल्या षष्ठी मद्रकमात्रया ।

इति । चतुष्कलमद्रकमन्त्या योक्ता मात्रा तुल्ल(ल्य) तालात्र षष्ठीति । ।। २९६–२९८ ।।

Notes

इति पाद(त)स्तथा चाष्टौ कला ह्याद्या ह्युपोहनम् ।
ततश्चैव प्रयोक्तव्यं द्विकलं प्रत्युपोहनम् ।। २९९ ।।

1घातश्चेत्1a (पाताश्च)सन्निपात(ता)श्च विवधैककयोजिताः ।
वर्णानुकर्षोऽष्टकलस्त्वन्यः 2aप्रस्वार उच्यते2।। ३०० ।।

तुल्यवर्णोपवहनो द्वितीयः पाद इष्यते ।
शरीरतालः3 कर्तव्यः प्रस्वारोऽस्य विशेषतः ।। ३०१ ।।

Abh

पात इति षण्मात्रः । अत्राष्टकलमुपोहनम् । अङ्गनिबद्धकेन पातस्यैव प्राधान्यात् मात्राविभागस्य तत्सम्पादनकृतित्वेन गलितत्वात् । प्रत्युपोहनं द्विकलं यदन्यैः कल्पितं तन्नाट्यमितिक्रमतीति मुनेर्भावः ।। २९९ ।।

प्रतिपातमेकैके क्रियमाणे सति मात्रान्तात् सन्निपातः । स च विदारीकत्वाद्विवधनिबद्धो भवति । पातद्वयापेक्षिका हि मात्रा । अतस्तदाह ।

पाताश्च सन्निपाताश्च विवधैककयोजिताः ।

इति । एतच्च बाहुल्यातिशयेनोक्तम् । पञ्चम्या हीति पातत्वं षष्ठयाऽष्टपातत्वमिति कथं विवि(व)धयोगात् । तत्र पादेऽयं प्रस्तारः । ओ ओ ओ ओ ओ ओ ओ ओ (८) आनिविप्र आनिविश आनिविप्र आनिविता आनिविप्र आनिविश आनिविप्र आनिविता आनिविप्र आनिविश आनिविप्र आनिविश आनिविप्र आनिविता आनिविप्र आनिविश आनिविप्र आनिविता आनिविप्र आनिविश आशालिता आतालिश आताविश तानिविश संता ।

अथ द्वितीयं पादं निरूपयिष्यंस्तस्याद्यं भागं तावदाह । वर्णानुकर्षोऽष्टकल स्त्वन्यः प्रस्वार इति । वर्णस्य गीतिवर्णस्य गीतिलक्षणस्यानुकर्षात् प्रत्यनयनप्रत्यासत्त्या प्राप्य पादान्त्यमात्रापर्यन्तं कलाष्टकनिविष्टस्य द्वितीयपादप्रथममात्राद्यकलात्मकोपोहनात्मनि पुनर्योजनं सोऽन्य इतर गीतकासाधारणः प्रस्वारो नामाङ्गम् । प्रकर्षेण स्वरणं शब्दस्येति । सामान्यत्वं हीति त्रिगीता (तो) भवति प्रथमपादस्यान्ते द्वितीयस्याद्यन्तयोरिति ।। ३०० ।।

द्वितीयपादस्य स्वरूपमाह । तुल्यवर्णोपवहन इति । सैव गीतिस्तदेवोपोहनं स्तुतिपदानि त्वन्यानीति यावत् । एतत् पादद्वयं शकुनिशरीरस्येवावश्यं सञ्चारकमिति शरीरं वक्तव्यम् । तदाह । शरीरतालः कर्तव्यः

Notes

द्विकलेनैव कर्तव्यो विशेषात् पञ्चपाणिना ।
कलाद्वादशनिर्दिष्टं प्रमाणं चास्य तत्त्वतः ।। ३०२ ।।

रोविन्दकशरीरं तु षट्कलोपोहनं स्मृतम् ।
विवधो वाऽपि वृत्तं वा तस्यादौ परिकीर्त्यते 1।। ३०३ ।।

आकारवृत्तमस्य स्याच्चतुष्कं त्रिकमेव वा ।
त(अ) स्योपरि यथेष्टं स्यादधस्तादङ्ग 2योजनम् ।। ३०४ ।।

3आ (अ) विशेषनिवृत्तं तु शीर्षकं सम्प्रयोजयेत् । 3a
यथाक्षरेण तच्चैव4 कर्तव्यं पञ्चपाणिना ।। ३०५ ।।

Abh

प्रस्वार इति । प्राच्यगीतानुकर्ष इति यावत् । अस्य विशेषत इत्यसाधारणेनोक्ता(क्तः)।। ३०१ ।।

ननु कोऽसौ शरीरतालो यः पूर्ववर्णाकर्षणेन प्रस्वाररूपः क्रियत इत्यत आह । द्विकलेनैव पञ्चपाणिना कर्तव्य इति । शरीरताल इति विशेषः । प्राच्यवर्णानुकर्षात् प्रस्वारक्रिया क्रियत इत्याह । कलाद्वादशेतिअस्येति प्रस्वारस्य ।

एतदुक्तं भवति । द्वितीयपादस्य षष्ठ्यामल्पासु द्वादशकलासु या गीत्या द्वादशकला द्विकलपञ्चपाणितालेन गीयमाना उपोहनं च षट्केन प्रागुक्ता । यतः प्रधानभूतास्ताः शरीरमित्युच्यत(न्त)इति ।। ३०२ ।।

तदाह । रोविन्दकशरीरन्तु षट्कलोपोहनमिति । तस्य शरीरस्यादिरुपोहनाख्यस्तत्र विवधो वृत्तं वेति प्राक्तनं स्मारितम् ।। ३०३ ।।

आकारवृत्तमिति व्याख्यातम् । वृत्ताख्यं वर्णं आ इत्येवंभूतैः स्तोभैस्त्रिश्चतुर्वा प्रयुक्तैः कार्यम् । यदाह । चतुष्कं त्रिकमेव चे (वे)ति । नातो न्यूनमिति यावत् । अस्येत्याकारवृत्तस्य मध्यस्थितस्याङ्गचतुष्कृतस्योपर्यधश्चान्योन्यविशिष्टान्यङ्गानि कुर्यात् । शरीरे प्रस्वारः षोडशाङ्गता चेत्यवधानं सम्पाद्यमित्यत्रावन्या(श्यं) विधेयम् ।। ३०४ ।।

तत्रैककलपञ्चपाणिना वर्णाङ्गैर्यथारुचि द्विस्त्रिर्वा या(आ)वृत्तमनावृत्तमेव कार्यम् । तदाह । अविशेषनिवृत्तं तु शीर्षकमिति ।। ३०५ ।।

Notes

1aआकारैककमस्यान्ते प्रवृत्तं नियमाद्भवेत् ।
इति रोविन्दकं प्रोक्तं स्यादुत्तरमतः परम् ।। ३०६ ।।

मुखप्रतिमुखे(खौ) स्यातामुल्लोप्यकवदुत्तरे ।
1उत्तरं संप्रवक्ष्यामि यथाविहितलक्षणम् ।। ३०७ ।।

अस्येदमुत्तस्याथ मुखं प्रतिमुखं भवेत् ।
उल्लोप्यकवदस्यादौ मात्रा चैका चतुष्कला ।। ३०८ ।।

रोविन्दकवदाकारगणवर्जं प्रयोजयेत् ।
शाखा षडङ्गाऽधरा स्याद् द्वादशाङ्गा परा स्मृता ।। ३०९ ।।

षट्पाता द्वादशकला शाखा ज्ञेया प्रमाणतः ।
2aतस्यां तु द्विकलस्तालः शम्या चैककलाः भवेत् ।। ३१० ।।

2पुनश्चै(तथैवै)ककलस्तालः सन्निपातः कलात्रये ।
शाखावत् प्रतिशाखा तु भवेदन्यपदा तु सा ।। ३११ ।।

Abh

अस्य विशेषमाह । आकारैककमस्यान्त इति । वृत्तस्यावरोही प्रवृत्ताख्यो भेद उक्तः । सोऽस्य शीर्षकस्यान्ते नियमात् कार्यः । एकाकिन्याकारे स्तोभपदे आकार(रे) एकको यस्याकारस्तदाकारैककमिति बहुव्रीहिः । एककशब्दोऽशब्देन संख्येति नास्य पूर्वनिपातः ।। ३०६ ।।

एतदुपसंहृत्यान्यदासूत्रिकं दर्शयति । मुखप्रतिमुखौ स्यातामुल्लोप्यकवदिति । उत्तरे आदो (दौ) मुखप्रतिमुखविभक्ता षोडशकला मात्रा ।। ३०७–३०९ ।।

अनन्तरं द्वादशभिः कलाभिः शाखा । तत्र पाताः षडुच्यन्ते । तस्यां तु त्रि(द्वि)कलस्ताल इति कला । द्वादशकलेन प्रकरणं द्विकलः पञ्चपाणिराक्षिप्तः । न ह्य/?/ प्रकरणे चाचपुटचतुष्कलः क्वापि श्रुतः । तेनात्र त्रि(द्वि)कलं विभागोपलक्षणमेव द्विकलत्वादिप्रकर्यन्तमात्रावदिति । चतुष्कलत्वमप्याह । तथैवेति । प्रतिदशनिशताप्रनिसं शाखा । प(पा)ठतोऽत्र वर्णाङ्गानि षट् परतो द्वादशः । एवंभूतैव प्रतिशा(खा)न्यपदा । अत्र च रोविन्दकानन्तर्याच्छरीरत्वमुपजीव्यत इति वर्णानुकर्षात्मा प्रस्वारः प्रतिशाखायाः कार्य इत्याहुः ।। ३१०–३११ ।।

Notes

1a.N: आकारैककमप्यस्य प्रवृत्तनियमो भवेत्

अविशेषनिवृत्तिश्चाप्यस्यान्तो नियतो भवेत् ।
1अन्ते चास्य विशेषेण मध्ये चैव तु शीर्षकम् ।। ३१२ ।।

तालोऽयं दक्षिणे मार्गे सप्तरूपस्य कीर्तितः ।
य एव दक्षिणे 1aतालो वृत्तावपि स कीर्त्यते ।। ३१३ ।।

कलार्धं तु कला तत्र विशेषोऽन्त्य (न्य)श्च 2कीर्त्यते ।
अर्धयोगस्तु तत्कालादर्धकालः प्रकीर्तितः ।। ३१४ ।।2a

Abh

तर्हि प्रस्वारस्यात्र कियन् मानमित्याह । अविशेषनिवृत्तिश्चाप्यस्यान्तो नियत इति । प्रतिशाखात्मक एवात्रान्तः संहरणकारित्वात् । स चाविशेषेण वर्णनिवृत्तिरूपवर्तनात्मा यस्यास्तादृक् कार्यः । स च नियतः । अन्ये तु दत्तिलाद्यनुसारिणो व्याचक्षते । शाखाप्रतिशाखात्माऽन्तः पृथग्भूतः सन्नियतः । चकारेणावृत्याऽन्तश्च स्थित आदिभूतो यदि भवेत् तन्नियतम् । अनियतोऽन्तस्त्रयश्रादीनामन्यतमो यथारुचि कर्तव्य इति । अस्येति । शाखाप्रतिशाखामपश्यन्त इति प्रतिशाखायाः समाप्तौ । मध्य इति शाखाप्रतिशाखे । अन्तराशीर्षकमिति शीर्षकद्वयम् । अन्ये त्वेकमेव शीर्षकं तथा कार्यं यथा….ऽन्ते मध्ये च कृतं भवतीति व्याचक्षते । तेन शाखान्ते शीर्षकं कार्यमित्युक्तं भवति ।। ३१२ ।।

अथाऽत्र मार्गंवैचित्र्यनिरूपणार्थमाह । तालोऽयं दक्षिण इति । सप्तरूपतालः परिकीर्तितः । स दक्षिणे तावद् बाहुल्येन चतुष्कलत्वात् तद्गतत्वाच्च दक्षिणस्य दक्षिणेन चात्र विलम्बितो लयो वक्ष्यते । तेन विलम्बिते लये तावदयं प्रयोगः । अथ मध्यद्वयमप्यनुजानीते । य एव दक्षिण इति । विलम्बितलयनिष्ठोऽयं ताल उक्तः । स वृत्तावपि । न तु दक्षिणेऽसौ तालः ।। ३१३ ।।

तस्य तर्हि वृत्तविषयता विदग्धा । सा हि द्विकल एवोचितेत्याशङ्क्याह । कलार्धं तु कला तत्रेति । दक्षिणे यत् कलार्धं तत्तु वार्तिके कलारूपं कर्तव्यम् । न च सार्वत्रिकमेतदिति दर्शयति । विशेषोऽन्यश्च कीर्त्यत इति । वर्तमानसामीप्येऽपवादोऽत्र वक्ष्यत इति यावत् । कलार्धं तु कलेत्युक्तम् । तत्र स्तुतिपदवर्णाङ्गादेरङ्गीकरणं प्रतिकलमिति यो विपरीतं बुध्येत् तं प्रति बोधयितुमाह । अर्धयोगस्तु तत्काला- दिति । योऽयमर्धयोगः प्रकीर्तितः कलार्धं तु कला तत्रेत्यमुना वचनेन स दक्षिणकलादर्धकालो मन्तव्यः । स्तुतिपदवर्णाङ्गादिसर्वखण्डमेव केवलं कालमात्रमेव भिद्यते । अत एव लयभेदमात्रमिति तात्पर्यम् ।। ३१४ ।।

Notes

उल्लोप्यकोत्तरमुखे हित्वा युग्मैककं तथा ।
चतुष्कलं स्याद् द्विकलं त्रिकलं च यथाक्षरम् ।। ३१५ ।।1

रोविन्दकोल्लोप्यकयोर्मद्रकोत्तरयोस्तथा ।
शरीरेषु विधिर्ह्येष शेषेषु प्रकृतिर्भवेत् ।। ३१६ ।।

Abh

अपवादो वक्ष्यत इत्युक्तम् । तमाह ।

उल्लोप्यकोत्तरमुखे हित्वा युग्मैककं तथा ।

इति । इह परिमितेऽपि तालशरीरे यत्र वर्णाङ्गभूतस्वतन्त्रविलम्बितलयेन विना तत् संवादम् । एवं स्थिते उल्लोप्यकस्य यद्विंशत्यङ्गपरत्वमुक्तं तत् प्राधान्यान् मुखे तावन्निवेश्य तच्च परिमितं मात्रार्धरूपात्वादुत्तरेऽप्युल्लोप्यकवद्भावादयमेव विधिः । युग्मशब्देनात्रौवेणकाङ्गं च चतुरश्रं नाम । तत्र च स्वरूपेण विवधाङ्गमुक्तं लक्षणम् । तस्य चतुरश्रस्य प्रवृत्ते यो विधिः स्मृतो(तः) । विवधाङ्गेन तेनैव चतुरश्रकमिष्यत (भ. ना. ३१. २८७) इति । तस्यैव च सप्ताङ्गं द्वादशपर (कल) मि । (भ. ना. ३१. २८८) त्यत्रोद्देशे पादः सन्धिर्माषघात (भ. ना. ३१. २०८) इत्यत्रैकं चतुरश्रं चेत्युक्तम् । तदेतदतीतग्रहेणावपाणिना वा तत्स्वरूपातिरिक्तं कार्यम् । तच्चेत् मध्यलये न क्रियते तद्विषमीभवेत् प्रयोगः । तथाहि । प्रवृत्तसम्बन्धी तत्र तालः । प्रवृत्ते चोद्धट्टचञ्चत्पुटयोगस्तालोपलक्षणमात्रम् । न तु त(य)थाक्षरम् । तथापि द्विकलमन्यथात्वेन चतुरश्रं स्यात् । द्विकलमपि तच्चतुष्कलत्वादङ्गिनस्तदौचित्याद्विलम्बितमेव प्रयुज्यते । एषा च सर्वाङ्गेष्वेककलद्विकलतायोगेऽपि व्यवस्था । ने(ना)त्र यदावेणकपादे मध्यमलयेन क्रियते तदेककं तल्लयानुवर्ति चेत् तदङ्गिनस्तदङ्गताङ्गस्येति । तस्मात् पूर्वोपात्तां च स्थितिं चेच(द)ज(मु)ज्झु(ज्झ)तीति । उल्लोप्यकं च भूयोऽङ्गानतीतशरीराणामुपलक्षणम् ।

उत्तरं तु तस्याङ्गान्यप्राप्यातिदेशादिकं स्पष्टमिदमुपात्तम् । युग्मैककमङ्गानामुपलक्षणम् । एवं विलम्बिते मध्ये च सप्तरूपं प्रयोज्यम् । तथाहि । यस्तत्र तु लयो मध्यस्तत्प्रमाण(णा)कलेति (भ. ना. ३१.६)तावन् मध्यमः । अत एव तत्र वर्तमानत्वाद्वृत्तिव्यवहारः । विधिरपि भर(व)तु । समस्तं वर्णतालपदादि (कं दृष्टफले) केवलवैचित्र्यां (या)यमस्य प्रयोगो न चादृष्टफले वैचित्र्यं शासितुमुचितमिति । अथान्यथा मार्गभेदमाह ।

Notes

1प्रकृतावपि नेयं स्याद् द्विकले तु (लेन)चतुष्कलम् ।
कालैनैवं भवेद्वृत्तावर्ध(र्थ)योगश्चतुष्कले ।। ३१७ ।।

Abh

चतुष्कलं स्याद् द्विकलं त्रिकलं च यथाक्षरम् ।
रोविन्दकोल्लोप्यकयोर्मद्रकोत्तरयोस्तथा ।
शरीरेषु विधिर्ह्येष ।। इति ।

केचित् यस्य येनार्थसम्बन्ध इतीत्थं योजयन्ति । रोविन्दकोत्तरयोः प्रस्वारात्मकं शरीरं द्वादशकलम् । तद् द्विकलमपि तद्यथाक्षरं स्यात् । स(प्रस्वारः)। उल्लोप्यकमद्रकयोस्तु चतुष्कलं शरीरं तद् द्विकलं स्यात् । न त्वेककलतां तन्नेयम् ।

नन्वेककलं तयोरुक्तमेव । सत्यम् । इदं त्वन्यद्रूपं यद्विका(रा)त्मकं नाम । चतुष्कलगतान्यन्यदे(दै)व हि वर्णाङ्गस्तुतिपदानि द्विकलीक्रियन्ते । तथाहि । देवं रुद्रं प्रणमामि सदा इति यश्चतुष्कलः पादभागः स एव । नैव गीत्यान्तरिकयोगेन द्विकलः पादभागः क्रियते ।

नन्वसावेककलीकर्तव्य इत्युक्तः । द्विकलं त्वेककलीकर्तव्यमित्युक्तमेव । रोविन्दकोत्तरयोस्तु विकाररूपमेककलमस्ति न तु प्रतिरूपमिति ।

अन्ये त्वाहुः । द्वादशकलत्वे चतुष्कलत्वमेव । यदाह ।

अनादेशे तु सर्वत्र कर्तव्यः स चतुष्कलः ।

इति । द्विकलता केवलतालपातोपलक्षणाय । तेन चतुर्ष्वपि चतुष्कलं यदपरान्ते तु वाचानिक एवाविकारः । तदाह । शेषेषु प्रकृतिरिति । चतुष्कलत्वे चेत्यर्थः ।। ३१५–३१६ ।।

ननु प्रकृतिर्नाम स्वरूपमुच्यते । तच्च माषघातस्य द्विकलं द्वादशकलत्वादा(वा)वापविक्षेपाभावाच्च न चाचपुटगता येन चतुष्कलता स्यादित्याशङ्क्याह । प्रकृतावपीति । द्विकलेन । अपिशब्दादेककलेन च । उपलक्षितायामपि प्रकृतौ चतुष्कलमेव नेयम् । निर्वाह्या स्यादिति न्यायत एव सम्भाव्यत एतत् । प्रधानानुविधानमङ्गानामिति ।

नन्वपादान्तप्रकर्षणमोवेणकेषु सर्वथैव वृत्तियोगे नास्तीति कथमविशेषेणोक्तम् । य एव दक्षिणे तालः स एव । वृत्तावपि स इत्याशङ्क्याह । कालेनैवं भवेदिति ।

Notes

1aवृत्तौ चतुष्कलो योगो दक्षिणे स्यात् कदाचन ।
न मद्रकोल्लोप्यकयोर्मुखोपवहनेषु तु ।। ३१८ ।।

यो दक्षिणे तालविधिर्वृत्तौ च समुदाहृतः ।
चित्रे व्यस्ते समस्ते वा तावुभौ परिकीर्तितौ ।। ३१९ ।।

शाखानिवृत्तादन्यत्र चित्रं तूभयमार्गिकम् ।
इति मार्गत्रयेऽप्येतत् सप्तरूपं प्रकीर्तितम् ।। ३२० ।।

Abh

चतुष्कले मार्गस्थितानामपरान्तकादीनाम(नां)वृत्तिविषयो योऽर्थयोगः । एवमिति पूर्वमुक्तः । सकलार्थात् करणाद् भवेत् । एवं संख्या तु कलानामन्यूनैवेति न विकारयोगः ।। ३१७ ।।

वैचित्र्यान्तरमप्याह । वृत्तौ चतुष्कलो योगो दक्षिणे स्यादिति । चतुष्कलेऽपि प्रयोगे वचनेन यो वृत्तिमार्ग उक्तः । तद्यथा अपरान्तके

वृत्तौ निवृत्तियोगश्च गते वस्तुचतुष्टये ।

(भ.ना. ३१. २४८) इति । स कदाचिद् दक्षिणे स्यात् । यच्छेदमर्ध(र्थ)योगेन दक्षिणस्यापि वृत्तरूपत्वमुक्तम् । तन्मुखानाम्न्यङ्गे उपोहनप्रत्युपोहनेषु च न भवतीति सोदाहरणं दर्शयतीति । न मद्रकोल्लोप्यकयोरिति । न मुखोपोहनेष्वयं विधिः । मुख उदाहरणमुल्लोप्यकमुपोहनेषु मद्रकम् ।। ३१८ ।।

अथ चित्रमार्गस्थितस्यैककलस्य विकारमाह । यो दक्षिण इति । दक्षिणे यस्तालविधिश्चतुष्कलवृत्तौ च द्विकलस्तौ चित्रे एककले क्रमेण युगपद्वा भवतः । एतदुक्तं भवति । एककले यान्यक्षराणि तान्येव द्विगुणतालयोगेन । तावत्ये(न्त्ये)व कलारूपे निष्क्रामप्रवेशने कदाचिद् द्विकलतया कदाचिदावापाद्यध्यावापेन चतुष्कलतया गेयानीति व्यस्तपक्षः । क्वचिद्भागे द्विकलतया क्वचिच्चतुष्क (ल)त्वनेति समस्तपक्षः । ए(अ)त एव चित्रमार्गेण ।। ३१९ ।।

वैचित्र्यात् सामस्त्यस्यापवादमाह । शाखानिवृत्तादिति । शाखानिवृत्तं प्रतिशाखातन्त्रेण च निवृत्तमुखपवर्तनं तेन प्रतिशाखायामुपवर्तने च चित्रमुभयमार्गयुक्तं भवतीत्यर्थः । उपसंहरति । इति मार्गत्रयेऽपीति । उक्तेन वैचित्र्येण सप्तापि वितस्तादिमार्गत्रयभाञ्जीति यावत् ।। ३२० ।।

Notes

1aद्विविधा प्रकृतिश्चास्य कुलकं छे(भे)द्यकं तथा ।
एकार्धं कुलकं तत्र पृथक् छे(भे)द्यकमिष्यते ।। ३२१ ।।

निर्युक्तं पदनिर्युक्तमनिर्युक्तं तथैव च ।
त्रिविधं चापि विज्ञेयं सप्तरूपं प्रयोक्तृभिः ।। ३२२ ।।

बहिर्गीताङ्गशाखाभिर्युक्तं निर्युक्तमिष्यते ।
बहिर्गीताङ्गहीनं चाप्यनिर्युक्तमिति स्मृतम् ।। ३२३ ।।

बहिर्गीतविहीनं तु पदनिर्युक्तमिष्यते ।
इत्येतत् सप्तरूपस्य प्रकृतं त्रिविधं स्मृतम् ।। ३२४ ।।

1अष्टाङ्गात्(ङ्गा)षोडशाङ्गा2aच्च(ङ्गा च) युग्मौजौ(जा) वा प्रमाणतः ।
2इति युक्ते (स्तुतियुक्ता) तु कर्तव्या मात्रायुक्ता तु पाणिका3 ।। ३२५ ।।

Abh

अथ भेदान्तरमप्याह । द्विविधा प्रकृतिश्चेति । अस्येति सप्तरूपस्य स्वभावः । एकार्थपरस्परान्वितार्थवस्त्वङ्गयुक्तं कुलकम् विपरीतं भेद्यकम् ।। ३२१ ।।

तत्रापि प्रत्येकं त्रयो भेदा इत्याह । निर्युक्तमित्यादि ।। ३२२ ।।

बहिर्गीतेनोपोहनप्रत्युपोहनात्मनाऽङ्गैः शाखाप्रतिशाखाभ्यां च युक्तं निर्युक्तम् । निःशेषस्वरूपयोगाद्वस्तुशाखामात्ररूपमुपोहनान्तैरङ्गैश्च हीनमनिर्युक्तम् ।। ३२३ ।।

उपोहनैरेव हीनं पदनिर्युक्तम् । अर्थप्रतीतिनिबन्धनपरिश्लेषतायोगात् । एतदुपसंहरति । इत्येतदितिप्रकृतं प्रकारो भेद इत्यर्थः । ते सप्तानां भेदाः तद्यथा मद्रकादिति (दीनि) चत्वारि त्रिधैककलादिभेदात् । प्रत्येकं पुनर्विकारभेदात् त्रिधा । पुनर्मार्गभेदात् त्रिधा । पुनर्नियुक्तादिभेदादिति त्रीणि शतानि चतुर्विंशत्यधिकानि वस्तुसंख्यया । अङ्गपरावरवैचित्र्यसङ्ख्यायाश्च भेदाद् भूयांसो भेदाः । ते त्वनुपयोगान्न प्रतिपदं लिखिताः । अन्येषु त्रिषु मार्गभेदाद्विकारभेदाः । सनिर्युक्तादिभेदास्वयस्त्रयो (दास्त्रयो) भेदा इत्येकाशीतिः । तत्राप्युक्तवद् भूयांसः प्रकाराः । पञ्चाधिकानि चत्वारिशतानि प्रधानभेदाः । ते च सर्व एवोपभेदा अप्यदृष्टोपयोगिनः । अङ्गभूयस्त्वं तु फलभूयस्त्वायेति न्यायः ।। ३२४ ।।

अथ सुकुमारप्रायाल्लास्यद्वारेण पूर्वरङ्गोपयोगिनीं पाणिकां लक्षयति । अष्टाङ्गेति । अवरतः षोडशाङ्गेति परतः । अङ्गानि शीर्षकादीनि तालाङ्गानि चैककादीन्यङ्गगात्रेभ्यस्तु…….देहावयववाचिनो ग्रहणान्निर्दिष्टम् ।

Notes

1.a.N: त्रिविधा;

सर्वेषामपि गीतानामान्ते छन्दकमिष्यते1 ।
चतुरश्रस्तु सत्(स)त्र्यश्रो नवाङ्गो युक्त एव तु ।। ३२६ ।।

Abh

मुखत्वमस्याः शरीरमात्रायाः षोडशकलायास्तदाह । मात्रायुक्तेति । सा च मात्रा ओजा भवति यदा सादयो युग्माः द्विगुणाः । एवमस्या असंख्या भेदाः ।

अन्ये त्वाचार्यास्तां (आन्तिकी चैव पाणिकेति पठन्तः भ.ना. N.S. Edition P. 521) सङ्कुचितमतयो व्याचक्षते । आदौ मात्रायुक्ता मात्रया युक्त(क्तं)द्वयमस्यां तेन रोविन्दकमात्रकलमुखं चेति द्वे मात्रे । ततो देहमाह । ओजस्त्रयश्रो युग्मः षट्कल आद्यत्वात् पञ्चपाणिर्यस्याः । कियानसौ प्रमाणतः । प्रमाणानि चत्वारि न्यायप्रजापतेरक्षपादस्येति (न्यायसूत्रम् १. १.३) चत्वारः पञ्चपाणयो देह इति यावत् । अष्टाङ्गेत्यादौ वर्णाङ्गं षोडश पञ्चाङ्गे यस्यां तेनौवेणके पदे शीर्षकमाषघातप्रायस्ततोपवर्तनसन्धिचतुरश्रकवज्रानन्तरं यदष्टमं सम्पिष्टकं तद्विद्यते यस्मात् । षोडशं वान्ताहरणम् । कस्मादियं पाणिका । आह स्तुतियुक्ताः(क्ता)। तेन पा(प)णि स्तुतानि(वि)त्यतो (पा. धा. ४३९) भावे घुडि (ठक्)मत्वर्थाः (र्थः)। पठन्ति च रूपमिति । स्तुतियुक्तेत्यनेन च(क)क्षीयत्वमस्याः कथयति । सुकुमारप्रयोगे हि पूर्वरङ्गे तदङ्गे वा चारीप्राये नियमे च प्रधानं सुकुमार– त्वात् । एवं च गीतकतुल्यकक्ष्यतयैवेयं लक्षयितुं युक्ता । एवं तावत् प्रधानयोगो व्याख्यातः । तदनन्तरं तदनुयायिन एव रञ्जनाप्रधानस्याप्रयोगेन भाव्यम् । तत्र यथाकथञ्चिदत्रे (त्रै)वाद्यानुषक्तमेव वैचित्र्यं प्रायः । तत्र गीतकासारितादीनां छन्दकरूपमनुयायि । पाणिकायास्तु चतुष्कलालास्याङ्गानम् ।। ३२५ ।।

तत्रान्यस्य लक्षणमाह । सर्वेषामिति । आसारितवर्धमानगीतानामित्यर्थः । आसारितवर्धमानयोरपि हि वर्णाङ्गकृत (तो)योगम(गोऽ)स्त्येव । गीतत्वं केवलमासारणवृद्धिभ्यां व्यपदेशः प्रयोगे प्राधान्यम् । अत एतन्नुत्तप्रयोगश्र्छन्द(गे छन्दत)इच्छातः प्रवर्तितत्वाच्छन्दकम् । जातावेकवचनम् । तस्य च यदा यदा त्र्यंश शरीरं क्रियते तदा तालाङ्गानां वर्णाङ्गानां चान्यतमानि चत्वार्यङ्गानि । अथ चतुरश्रमेव तत्र चैवकारेणानाधिकव्युदासः । चतुरश्रविशेषमाह । (त्र्यश्र इति) । प्रधानत्र्यश्रचतुरश्रभावस्यानुवर्तनं विशेषः ।

अन्ये तु वैचित्र्यातिशयेन वैपरीत्यं विशेष इत्याहुः । अन्यत्राप्युक्तम् ।

Notes

चतुष्पदा तथैकाङ्गा त्र्यङ्गा1 वा परिकीर्तिता2 ।
अङ्गैर्व्यस्तैः समस्तैर्वा युग्मौजा वा प्रमाणतः ।। ३२७ ।।

एकस्या वा बहूनां वा द्वयोर्वाथ प्रयोजितम् (ता) ।
तथा शृङ्गारभूयिष्ठा त्रिविधा स्याच्चतुष्पदा ।। ३२८ ।।

प्रवृत्ताख्या द्रुतलया स्थिताख्या तु विलम्बिता ।
स्थितप्रवृत्तसंज्ञा च ज्ञेया मध्यलया तथा ।। ३२९ ।।

लास्यमित्येव यत् पूर्वं मया वः परिकीर्तितम् ।
लक्षणं तस्य वक्ष्यामि प्रयोगं च यथाक्रमम् ।। ३३० ।।

Abh

मुखपादाः शीर्षकसंहरणान्ता यथारुचि छन्दके पूर्वगीतानुवर्तिन्यथ विपर्यय इति ।। ३२६ ।।

अथ सुकुमारप्रयोगोपक्रमप्रधानपाणिकानन्तर्भाविप्रयोगलास्यगानं दर्शयितुं चतुष्पदां लक्षयति । चतुष्पदा तथैकाङ्गा त्र्यङ्गा चे(वे) ति । तथेह स्वरुच्या तस्या एकमङ्गं त्रीणि वाङ्गानि च व्यस्तान्यनन्वितानि तावन्त्यन्तराभिधेयपदानि तस्या यदा छेदकरूपा यदा कुलकरूपा तदा विपरीतानि । तदाह । अङ्गैर्व्यस्तै(समस्तै)र्वेति ।। ३२७ ।।

शरीरं चास्यां चतुरश्रं वा शृङ्गारभूयिष्ठमिति भूयिष्ठग्रहणात् कामावस्थादावपि परिग्रहो न हि तदेकरूपत्वे भूयिष्ठव्यवहारः । स्थितभूयिष्ठं भोजनमिति द्रुतादिलयशद्बाच्च वृत्यादिसंज्ञा । तत्करचरणप्रयोगभेदः पक्षे पा(स्या)त् प्रयोजनम् । तथाहि । द्रुतानां प्रयोगस्य प्रकर्षेण वर्तनं करचरणक्रियाबहुलत्वाद् विलम्बिता नाम विपर्यये मध्यमानां तु द्वयमिति । तत्र द्रुत त्र्यश्रा खण्डा । चतुरश्रा नकरग……..कमध्यापये । आक्षिप्तिका परिगीतिके विचलितेऽपकृष्टोत्थित इति षोढाऽङ्गभेदा द्वादशधा भेद्यककुलभेदाच्चतुर्विंशतिधा । पदे चतुष्कयोगाच्चतुष्पदीति । अनया च विशाखिलादिलक्षितं सर्वमेव लास्यगानं स्वीकृतमुपलक्षितं च ।। ३२८–३२९ ।।

अन्ये तु चतुष्पदा तथेति (भ. ना. ३१. ३२७)वचनाद्गीतककारि……स्कन्दकप्रक…………कादीनि मन्वते । न तु तत्र प्रयोगे चतुष्पदे युगपत् प्रयुज्यत इति मनसि कृत्वा तद्द्विषयं तद्वैचित्र्यं तत्काव्यबन्धं च दर्शयितुमुपक्रमते । लास्यमित्येवेति । यदिति यस्मादिति तस्मात् । एवाकारो यथाक्रममित्यस्यानन्तरः ।

Notes

लसनाल्लास्यमित्युक्तं स्त्रीपुम्भावसमाश्रयम् ।
एकार्धं(र्थं) पृथगर्धं(र्थं) च तदङ्गैस्तु प्रकीर्तितम् ।। ३३१ ।।

भाणवच्चैकहार्यं स्यादूह्यवस्तु तथा भवेत् ।
तत्र गेयपदं तावत् प्रथमं परिकीर्त्यते ।। ३३२ ।।

Abh

तदयमर्थः । यस्माल्लास्यं पूर्वं कीर्तितं लक्षणं च तस्माद्यथाक्रममेव प्रयोगमधुना वक्ष्यामीति ।। ३३० ।।

तत्र पूर्वं यत्ताण्डवाध्याये (भ.ना.अ.४) दशरूपके (भ.ना.अ.१८) इह च तदेकीकुर्वन् स्मारयति । लसनाल्लास्यमिति । लसनं क्रीडा चित्तसंश्लेषः स्त्रियः पुंसि तस्य वा तस्यां भावः । स्त्रीपुंसेत्यभिधाने तु शृङ्गार एव सङ्गृहीतो भवेत् । तेन लासमर्हति तत्र साधु लास्यम् । अनेन तुर्याध्यायोक्तं स्मारितम् । स्त्रीपुंसयोस्तु संलाप इति । एकार्थः पृथगर्थश्चेत्येतदध्यायोक्तम् ।

ननु पृथगर्थत्वेऽन्योन्यसम्बन्धे वैरस्यं स्यादित्याशङ्क्याह । तदङ्गैः पृथगर्थ इति । वचनस्य पश्चात् परिपाट्या वचनान्तरमित्यनेन क्रमेण यद्यपि सङ्गतिर्नास्ति तथापि स्त्रीपुंसभा(पुंभा)वरूपे प्रधानेऽर्थे सर्वमन्वित– मेव । तथा च डोम्बिकास्वेका (कासु स एवा)र्थः प्रधानभूत इति चूडामणौ स्पष्टमेवोक्तम् । चोरिअमिकुणभवं मह सा कुकुहे मितइ (चौर्यमैथुनभवं महत् सा ककुदे मित्रे) इति । तथा च चिरन्तनोऽयं……दयप्रवाद(दः) पडमचूडामणिया (प्रथमचूडामणिना) इति । (तदेतद्) भट्टतोतेन काव्यकौतुके वितत्य दर्शितं च आसारैस्तु न…..ष्यत इति श्लोक । शास्त्रान्तरे चैवं प्रधानाङ्गान(नां) प्रधानानुयायिनामन्योन्यमनुनयः सन्मत एवेति यावत् । तत्र स्त्रियाः पुंसि भावो यथा फलादि तरुणी अणसंछओ (फलादि तरुण्यनुसंक्षयः) इत्यादयः ।। ३३१ ।।

पुंसः स्त्रिया अन्योन्यं यथा सिद्धा कटकेषु यथा वा सोल्लासा मल इत्यादौ । भाणवच्चैकहार्यं स्यादित्यनेन संध्यध्यायोक्तं (भ.ना.अ.१९) स्मारितम् । भाण इवैकप्रयोज्यमिति । एकेन पात्रेण हरणीयं निर्वाह्यमिति यावत् । ऊह्या(ह्य)वस्त्विति । स्वशब्दाभिहितव्यङ्ग्योऽर्थः । प्रधानाभिद(ध)छेकोक्तिबहुलमिति यावत् । यथा ।

सन्तउपच्छइ विहुवि(पि)कअइवेच्च अळज्जिआए हुइ पञ्च ।
सन्तव करुणा कलजि(पी)अमकुविन्दोपउख्खेख्खाण ।
वेरणुलो अओ वासलति वेझिमिमअरनयसरगुणिहतं महअम् ।।

[सन्तापपक्षे विधुपिकालिवच्चालज्जिताया भवन्ति पञ्च ।
सन्तापः करुणा कलपीतमधुवत् दोषोत्प्रेक्षणम् ।
वैरानलस्ततो विलसति वैरिणमिममनवसरगुणहतं महान्तम् ।।]

Abh

इति । अत्र हि दूत्याः स्वशब्देन भावी भाव उक्तः । छेकोक्त्या तु नायिकान्तरोद्भेदेन नायकस्य मूर्खत्वं स्वसख्याः अनुरागित्वं सौभाग्यं सुरक्षितत्वं चेति । यदिदं सोल्लासामला इत्यत्र सोत्प्रेक्षयाऽन्योन्यमवियोगः शोभावहत्वमौचित्यं च (चेति तत्) वस्तूत्पाद्य वस्त्विति वा । एकहार्यमिति । पात्रान्तरमत्रोक्तं पूर्वं नेति भावः । अत्र दश लास्याङ्गानि सन्ध्यध्याये (अ.१९) वैचित्र्या(द्यङ्गोपजीवेन) नाट्यसंस्काराय निरूपितानि । इदं तेषां लक्षणम् । क्षेत्रमारुह्यासारितवर्धमानगीतिकवर्गस्योद्धतपूर्वरङ्गोपजीविकाभिनययोगिनो यथालक्षणमध्याये यथासुकुमारपूर्वरङ्गोपयोगिनो लास्याङ्गवर्गस्येति । न ह्यत्र गान्धर्वमात्रं लक्ष्म । सामकपालादेरलक्षणात् । सापि ध्रुवोपयोगी(गिनी)मागध्यादीनां लक्षणाभावात् । न च स्वतंत्रं गान्धर्वमिव लक्षणार्हम् । न तु वेदत्वात् तत्र गेयपा(प)दं लास्यम् । पूर्वरङ्ग इत्यनुद्भिन्नतत्वं वाक्यं टीकाकृतः

इदं त्वत्र तत्त्वमुपाध्यायैर्निरूप्यते । इदं द्विविधं हि नाट्यम् । उद्धतं सुकुमारं च । वीरशृङ्गारयोरेव नायकगतयोरशेषपुरुषार्थसिद्धिषु व्यापारात् । तत्र प्रथमे समुद्यतः पूर्वरङ्गो महेशचरितप्राधान्येन । यथोक्तं पञ्चमे(चतुर्थे) । माहेश्वरैरङ्गहारैरुद्धतैरिति (भ.ना.४.३११) महेश्वरस्य चरितमिति (भ.ना.४.३१९) च । शृङ्गारप्रधाने तु नाट्ये सुकुमार एव पूर्वरङ्गो यदि हि प्रायेण पञ्चमे लास्यं सूचितम् । तं वागङ्गनिरूपणेन तत्र ह्युद्धतः समवकारः सूचितः । पूर्वरङ्गो मुनिना भगवदग्रे प्रयुक्तः । तस्यैव परमेश्वरेण चित्रता कृता । तदभिप्रायेणाह । गीतानामि(ति) श्लोके (भ.ना.५.१३) । इह समुद्धते गीतकं वर्धमानं तत्र सुकुमारमिति दर्शयितुमिहेत्युक्तम् । तेन साधारण्यं चारीमहाचार्योः समुद्धताङ्गानां निरूपणेनौद्धत्यं च वर्धमानादिप्रयोगेण पूर्वरङ्गस्य पञ्चमे निरूपितम् । तदुपयोगी चाङ्गसार्थस्तत्र तन्निरूपेण निर्णीतः । अधुना सुकुमारोपयोगि दर्शयितुं ग्रन्थान्तरमिति ।। ३३२ ।।

स्थापिते भाण्डविन्यासे पटे चैवापकर्षि(सारि)ते ।
ब्रह्मणस्त्रिषु पार्श्वेषु चासने सम्प्रकल्पिते ।। ३३३ ।।

मार्जितेषु मृदङ्गेषु प्रयुक्ते च त्रिसाम्नि तु ।
मार्गासारितकं कुर्यात् तन्त्रीवेणुविभूषितम् ।। ३३४ ।।

भाण्डवाद्येन संयुक्तं ततश्चासारितं बुधैः ।
परिवर्तैस्त्रिभिर्युक्तमतश्चोपोहनं भवेत् ।। ३३५ ।।

त्र्यश्रेण द्विकलेन स्यात् ततश्च परिधावन(नक)म् ।
प्रयोक्तव्यं प्रयोगज्ञैः परिवर्तनमेव च ।। ३३६ ।।

Abh

तत्र गेयपदं तावदित्युपक्षिप्तस्य दर्शयति । स्थापित इति । पटेऽपसारिते सति भाण्डस्य त्रिपुष्करस्य विन्यासे यथास्थानं कृते ब्रह्मस्थानमवेक्ष्य पूर्वदिशि नर्तकीनां पार्श्वद्वये च वैणिकानां गायन्तीनां च ।। ३३३ ।।

मृदङ्गेषु दत्तमार्गेषु चकाराद्वीणायामासारितायामितीयता प्रत्याहारादीनां दृष्टार्थानामवश्यकर्तव्य– तोक्ता । यत् पुनरेव तत्परितोषार्थमदृष्टार्थ च बहिर्गीतविधानं तत् सङ्कोचयतीति त्रिसाम्नि प्रयुक्ते तन्त्रीवेणुयुतं मार्गासारितकं कुर्यादिति । आद्यन्तप्रयोगेन मध्यप्रयोगपूरणमाह । अनेन च लास्यात् परमेश्वराराधनेऽन्तरङ्गं समस्तादृष्टसिध्यै विष्क(घ्न) प्रशान्त्यै च पर्याप्तमिति सूचयति ।। ३३४ ।।

ततो मध्यपातीय आसारितविधिः । तं कर्तव्यत्वेन दर्शयति । तस्य कलापातोत्पत्तिमूलहेतुकत्वात् समुत्क्षिप्तस्य प्रयोग इत्याह । भाण्डवाद्येन संयुक्तमासारितमिति । ए(क)कलं विवक्षितम् । तत्र प्राथम्यात् कनिष्ठस्यैव प्रयोगः । बुधैरित्यनेन गीतकविध्याख्यस्यान्यस्य बहिर्यवनिकाङ्गन्यस्थ (स्त)स्य पाणिकाप्रयोगः । ललितैर्देवीकृते(तै)रङ्गहारैरित्याह (भ.ना.४.३१२) । उक्तं हि पूर्वमं । गीतकेषु प्रयुक्तेषु देवास्तुष्यन्ति (भ.ना.अ.५.४७) । वर्धमाने प्रयुक्ते तु रुद्रस्तुष्यतीति (भ.ना.अ.५.४८) कीर्तनान् । देवतानां च यो ज्ञेयो (च ज्ञेयो) गीतविधिः (भ.ना.५.२१) । इह चोक्तम् । स्तुतिप्रयुक्ता पाणिकेति (भ.ना.३१.३२५) । तदेतद्वाक्यार्थसंमितेन स्थान्यादेरन्तर्भावसम्बन्धत्वमिति ।। ३२५ ।।

एवं गीतकविधिस्थाने पणिकां तदनन्तरं गेयपदं संक्षेपेणोत्थापनपरिवर्तनयोः स्थानमित्यवसरमस्याभिधाय लक्षणमाह । त्र्यश्रेण द्विकलेनेति । चाचपुटेन द्विकलेन परिधानकं नामाङ्गम् ।

परिवर्तनके चैव पुंवाक्यं प्राक् प्रयोजयेत् ।
पुरुषोऽत्र त्रिवाक्यः स्याच्चतुर्वाक्यङ्गना स्मृता ।। ३३७ ।।

1कार्यं तथाऽवसानं च प्रत्यर्थं परिधानके ।
इत्येतत् प्रथमं त्वङ्गं लास्ये गेयपदं स्मृतम् ।। ३३८ ।।

स्थितपाठ्यस्य वक्ष्यामि विधानं चाप्यतः परम् ।
वृत्तमेकमथ द्वे वा योजयेत् पञ्चपाणिना ।। ३३९ ।।

Abh

परितो धीयते बुद्धौ धार्यते प्रतियोगोऽनेनेत्यर्थापन्नत्वं दर्शितम् । अनेन कैरपि परिधान(क)लक्षणं कृतम् । परिधानकं त्र्यश्रमपकृष्टमेकावरं चतुर्वस्तु वा द्विगुणलयोपवहनमिति यावत् । अपरैस्तु अष्टचत्वारिंशत्कलं वस्तु द्वादशोपोहनं मध्यो लय इति । तेनैवावर्तमाने दिग्वन्दनाय परिवर्तनं कार्यम् ।। ३३६ ।।

ननु किं तत्र काव्ये गीयमाने निबध्यत इत्याह । पुरुषोऽत्र इति । स्त्रीपुंसयो(सो)स्तावदत्र संल्लापो निबध्यते । तत्रादौ परिवर्तने पुंवाक्यं तत्प्रेरणारूपं ततः स्त्रीवाक्यं तदनन्तरं पुंवाक्ये द्वे स्त्रीवाक्यानि त्रीणि । त्रिभिः कैशिक्यङ्गैर्नर्मस्पञ्जो(न्दो) ह्यवसानात्मक इति मङ्गलप्रधानेऽत्र निबध्यते । निवृत्त्यावृत्त्युपवर्तना– चोयुक्त्या गीतावर्तनम् । न तत्र प्रसिद्धमपीह परिवर्तनमित्युक्तम् ।। ३३७ ।।

परिवर्तनाङ्ग इत्यासूचनाय प्रत्यर्थमिति । वस्त्वन्ते निर्वहणमुत्थापनीयवस्तुविषयाभिवन्दन– विषयवाक्यान्तरवाक्यार्थसिद्धिसमाप्तिरूपं कार्यं स्त्रीपुंभावसमाश्रयत्वं न त्यजेत् । निर्वहणमन्ताहरण– मित्यन्ये। गेयादिपदान्यत्रेति पाठ्याशङ्कां व्युदस्य निर्वचनमेव । प्रथमग्रहणादङ्गाभिधानाच्च सुकुमारपूर्वरङ्गलास्यस्याङ्गित्वम् । अन्यथा किं तल्लास्यं यस्येदमङ्गं स्यात् । काव्यरूपं किञ्चिदिति चेत्ताव(द्)दृष्टार्थम् । तथात्वे प्राथम्यतालादिभेदं नियमस्यानभिधेयत्वात् । अदृष्टार्थत्वे तु पू्र्वरङ्गद्वारं किञ्चित् त्यज्यते । अत एव वस्तुप्रधानत्वं परमेश्वरशृङ्गारवर्णनं चात्र प्रधानम् ।। ३३८ ।।

स्थितपाठ्यस्येति । ततः परमित्यनेन नान्दीस्थानिकत्वमस्य । इह वृत्तमेकश(कमथ)द्वे वा योजयेदिति पठेदिति यावत् । वृत्तस्य नान्दीस्थानकत्वात् तद्धर्मकवाच्यार्थ मन्तव्यम् । एकं द्वे वेति दीर्घाल्पापेक्षया । अनन्तरं त…….पञ्चपाणिना चञ्चत्पुटेन वा गीयमाने अभिनयनृत्ताभ्यां वा योजयेत् ।। ३३९ ।।

Notes

ततः परं ते भूयोऽपि युग्मतालेन वा स्मृते ।
अवसानं 1च कर्तव्यं त्वरितं पञ्चपाणिना ।। ३४० ।।

द्विकलेनेति 2विज्ञेयं स्थितपाठ्यं प्रयोक्तृभिः ।
उपोह्य तालं त्र्यश्रं तु बृहद्वृतं3समैस्तथा ।। ३४१ ।।

आसीनपाठ्यं युञ्जीत सर्वैर्भावैस्तु पौरुषैः ।
गेयं चतुर्भिः पादैस्तु समैरर्ध(र्थ)वशानुगैः ।। ३४२ ।।

आसीनपाठ्ये(ठ्यं)कर्तव्यं विधिवत् पञ्चपाणिना ।
अतीते युग्मतालेन श्लोकः कार्यस्तथाऽपरः4 ।। ३४३ ।।

Abh

अनन्तरमवसानं तदर्थनिर्वहणं कार्यम् । द्रुतलयेन द्विकलेन पञ्चपाणिना गातव्यं नर्तितव्यम् ।। ३४० ।।

इति करोति क्रियासामान्यमिह विशेषनिष्ठीकरोति । अवसानमङ्गसमाप्तिमन्ताहरणं च । इतीत्येके मन्त्रवर्णाङ्गम् । वाशब्दः समुच्चयार्थ इति केचित् । प्रविश्य स्थितयैव भूचारीस्थया नर्तक्या पठ्यतेऽत्रेति स्थितपाठ्यम् । अथान्यत् पूर्वरङ्गे प्रा(प्र)धान्य(न)मिति तत्रैवान्तरङ्गमाह । उपोह्य तालमिति । चाचपुटेन शुष्कमुपोहनं कुर्यात् । प्रकरणाद् द्विकलेनेति केचित् ।। ३४१ ।।

तेन चोपवहनेन स्थानके आसने वा आसित्वाऽऽसीनपाठ्यं युञ्जीतपौरुषैर्भावैर्लक्षणालङ्कारादिगीतस्पर्शैरिति यावत् । उक्तं हि पूर्वं पुरुषस्य पाठेऽत्रैव स्त्रिया गीतमिति । तत्पठेदित्याह । (बृहदिति) बृहतो न चाक्षरस्य छन्दसः समैः संवृत्तगतैः पादैरुपलक्षितम् । ततस्तत्समुचितार्था चतुष्पदां(दीं)पञ्चपाणिना गायेत् । तस्याश्च नृत्ताभिनयादिप्रयोगः । तदाह । गेयं चतुर्भिरित्यादि ।। ३४२ ।।

ततोऽपि चञ्चत्पुटेनैकश्लोकोऽष्टभिर्द्वादशभिः पादैरवान्तरवाक्यैर्नात्यु(त्यनु)चितैर्युक्तः प्रयोज्यः । सोऽतीत इत्यतीतग्रह उपरिपाणिः कार्य इति यावत् । अतीत इति वृत्ते पञ्चपाणाविति केचित् ।। ३४३ ।।

Notes

1अष्टौ दश द्वादश वा पदानि तु ततः परम्2 ।
कुर्यादुत्तरतालेन ततो निर्वहणं पुनः3 ।। ३४४ ।।

एतदासीनपाठ्यस्य वधानं परिकीर्तितम् ।
स्यात् पुष्पगण्डिका नाम यदङ्गं तन्निबोधत ।। ३४५ ।।

तत्रैकं पौरुषं श्लोकं समवृत्तं प्रयोजयेत् ।
चतुर्भिः सन्निपातैश्च ज्ञेयं चञ्चत्पुटाश्रयम् ।। ३४६ ।।

पादे पादे तु तस्येष्टं वाद्यं नृत्तं तथैव च ।
अ(त)तश्चान्ये स्मृतं(ते)वृत्ते खञ्जनर्कुटसंज्ञिते ।। ३४७ ।।

अन्ते 4निर्वहणं चास्याः शीर्षकं पञ्चपाणिना ।
आविद्धचार्यङ्गहारैरुद्वतैस्तत्र5 योजयेत् ।। ३४८ ।।

Abh

दशग्रहणं मिश्रपूर्वरङ्गसूचनार्थमिति दीर्घदर्शिनःअन्ये त्वष्टद्वादशान्तरालवर्तिनी दशसंख्यैवोभयानुग्राहिणी ग्रा(गृ)ह्यते(इति) । एवमन्ये उपान्ते इत्याचक्षते । अपरे पृथगन्यरूपाण्येवैतानि पदानीति मन्यन्ते । ततः पञ्चपाणिना पाणिसन्धिप्रतिपादकं कार्यम् । लास्यप्रस्तावात् सर्वत्र स्त्रीपुंसयो(सो)स्तु संल्लाप इत्यादि योज्यम् ।। ३४४ ।।

एवं नान्दीस्थानेऽङ्गद्वयमुक्त्वा शुष्कापकृष्टाप्रसङ्गे पुष्पगण्डिकामाह । स्यात् पुष्पगण्डिकेति ।। ३४५ ।।

समवृत्तं पुरुषभावाढ्यं जनस्तुतिसमुचितश्लोकं चतुर्भिः पादैः प्रतिपदं चञ्चत्पुटेन युक्तमत एव चतुःसन्निपातं तावद् गायेत् । सामान्योक्तिः समासव्यासवशादाचार्यबुध्यैककलं(ल)द्विकलानां यथेच्छं प्रयोग इथि सूचयति ।। ३४६ ।।

अस्य प्रयोगमाह । पादे पादे त्विति । एकं पदमभिनीय तदनन्तरं तावदेव शुष्कागानम् । तत्र च विचित्रं वाद्यं नृत्तं च । एवं सर्वेषु पादेषु । अत एवोक्तं माल्यग्रथनवत् पुष्पगण्डिका इति (भ.ना.१९.१२६) । ततश्च खञ्जनर्कुटकवृत्ते प्रयोज्ये । ध्रुवाध्याये (भ.ना.अ.३२) लक्षणं भवति बहुभेदत्याग (त्वाद)स्यास्माभिरिह न लिखितम् ।। ३४७ ।।

ते चान्ते शुष्कापकृष्टायास्ते रङ्गद्वारोक्तप्रयोगसूचके नर्तितगातव्ये इति यावत् । तेन रङ्गद्वारमित्युक्तं भवति । एवं शुष्कापकृष्टा रङ्गद्वारेऽतिरसप्राया रसवति पुष्पगण्डिकाङ्गे निवेशिते ।। ३४८ ।।

Notes

ज्योत्स्नायां मदिरायां वा सलिले दर्पणेऽपि वा ।
1छायां सन्दृश्य कान्तस्य प्रहर्ष्या (हृष्या) थ विभूषितम् ।। ३४९ ।।

नृत्तं प्रा(प्र)सादक्रीडार्थ2 हेलादिभिरलङ्कृतम् ।
त्र्यङ्गं प्रच्छेदकं तत्र विद्याल्लास्य3 प्रयोगवित् ।। ३५० ।।

चञ्चत्पुटस्य तालेन तस्य प्रक्रीडितं भवेत् ।
मात्रावृत्तसमैः पादैः श्लोकबन्धो भवेदथ ।। ३५१ ।।

बह्वक्षरार्थसंयुक्तं तोटकं पञ्चपाणिना ।
द्विकलेन प्रकर्तव्यं मिश्रेणैककलेन वा ।। ३५२ ।।

Abh

अथ चारीप्रस्थाने प्रच्छेदकमाह । ज्योत्स्नायामित्यादि । एतत् सम्भोगोचितकालोपलक्षणं प्रत्येकं सम्बध्यते । प्रियतमप्रतिबिम्बदर्शनेन तदवियोग उपलक्ष्यते । तेन स्वाधीनभर्तृकोचितमत्र पानगोष्ठीजलक्रीडाऽन्योन्यप्रसाधनविषयमत्र गेयकाव्यमित्युक्तं भवति । निवृत्तार्थं तदवकाशसिद्धये यत् ।। ३४९ ।।

प्रसादो मानभङ्गः । तत्र या क्रीडा भङ्गी तत् पाठ्यम् । उक्तं ह्येत (त्) ।

यस्मिन्नङ्गे प्रसादं तु गृह्णीयाद् युवतिः स्वयम् ।

(भ.ना.४.३१०) इत्यादि । हेलादयः सामान्यभिनयोक्तः (क्ताः) । अङ्गजाः स्वाभाविका यत्नजाः सर्वे धर्माः । आदिशब्दो ह्यत्र प्रकारे ।। ३५० ।।

त्रीण्यङ्गान्यस्य व्याचक्षाण आद्यमाह । चञ्चत्पुटेनास्य प्रकीडिताख्यमङ्गमन्वर्थात् काव्यलाभार्थलाभः । वृत्तमस्य मात्रावृत्तं समं च । नन्वत्र समविषमो(म)पादग्रहणे (णं) आर्याद्यर्थनिवृत्यर्थम् ।। ३५१ ।।

अथास्य द्वितीयं तोटकाख्यमङ्गमाह । बह्णक्षरार्थसंयुक्तमिति । अक्षरमिति तद्ग्रन्थोपलक्षणम् । बहुवि(र्वि)पुलो गम्भीरः । तेन गम्भीरोऽक्षरेषु योऽर्थो यथा ।…..अत्र हि मितैरक्षरैः कपोलतलसंक्रान्तसखीप्रतिबिम्बावलोकनपरत्वं गम्भीरार्थो दर्शितः । तेन संयुक्तं तोटकमिति भेदनाद्धर्षयोगादीर्ष्याप्रायेऽत्र काव्यार्थ इति मन्तव्यम् । तत्र द्विकलः पञ्चपाणिस्तालः । एककलमिश्रो वा द्विकलःअन्ये तु द्विकलैकमिश्र एककल इति व्याचक्षते ।। ३५२ ।।

Notes

1नाराचकं च कर्तव्यं गुरुप्रायाक्षरान्वितम् ।
यथाक्षरेण त्र्यश्रेण सन्निपातैस्तथाष्टभिः ।। ३५३ ।।

विवि(व)धैककसंयुक्तं कैशिकीजातिमाश्रितम् ।
त्र्य(अ)ङ्गवि(प्र)च्छेदकं विद्याद्युक्तं प्रक्रीडितादिभिः ।। ३५४ ।।

अनिष्ठुरश्लक्ष(क्ष्ण) पदं गान्धारीजातिमाश्रितम् ।
चञ्चत्पुटेन योक्तव्यं त्रिमूढं द्विकलेन तु ।। ३५५ ।।

Abh

नाराचकाख्यं तृतीयम् । शक्त्या शराभं नाराचरं(कं)चेत्यन्वर्थान् मदनशरः । प्राधान्येन मारपरं स्यात् ।…….इति लभ्यते । गुरुप्रायाक्षरं चात्र वृत्तम् । ताल एककलश्चाचपुटः । स चाष्टकृत्वस्तदाक्षरसन्निपातैरष्टभिरिति ।। ३५३ ।।

विवधैककावत्र वर्णाङ्गौ । कैशिकीजातिमि(मा)श्रितमिति । शृङ्गारप्रधाना वृत्तिरत्र गेयकार्याख्यमादिशति । केचिल्लास्यलक्षणादेतद्विशेषणाच्चैकार्थमेतादित्यभियुक्ताः । तेन कैशिकी जातिरत्र । तेन तदंशरूपेण मलवकैशिकेनात्र मानमित्युक्तं भवति । प्रकरणमप्यत्रार्थे साक्षी लक्ष्यते । अग्रे हि गान्धारीजातिमाश्रितमिति भविष्यति । यद्यपि च पूर्वरङ्गे षाडवेन गानं स्वरवाक्यकलां तथापि लास्येन यथा(दा)भवत्यपरितोषणं तदाऽन्यदेव प्रधानम् । रागविनियोगादि तु रञ्जनातात्पर्येण । तथा हि । स्वादकः स्वरुचितेन हृद्येन कुसुमधूम(प)विलेपनेनैवेत्यादिना भगवन्तं भवानीपतिमाराधयेदिति विधौ कण्टककुसुमकन्दुरिक(न्दलित)पूतिकेन नखादीनां तु प र(रि) वर्जनं हृद्यतयाक्षेपात् । एवमिह लसनाल्लास्यमित्येवमाक्षिप्तो(प्तं)परं च कवर्गलास्यमेवादृष्टहेतुरिति मन्तव्यम् । अनेनैवाशयेन देवगृहेषु प्रेक्षणीयकयोजनया परमेश्वरतोषणं सर्वत्र प्रसिद्धमिति । अयमेवोद्धतपूर्वरङ्गे विचित्रतया मन्तव्यः । उपसंहरति । अङ्गप्रच्छेदकमिति । अस्यान्वर्थतां व्याचष्टे । युक्तं प्रक्रीडितादिभिरिति । प्रकृष्टच्छेदोऽङ्गविभागस्येति । भावजिज्ञासोः पृष्ठस्थितस्य मदिरादौ निपतितप्रतिबिम्बमवलोक्य नायिकायास्तन्मदनविकारवर्णनमप्यत्र काव्यार्थम् । तदेव प्रतिबिम्बयोगात् प्रच्छेदकम् । प्रच्छेदो हि प्रतिबिम्बमप्याचित(चष्ट)इति ।। ३५४ ।।

अथ महाचारीस्थानकं त्रिमूढकमाह । अनिष्ठुरेति । प्रयतोद्युक्तकान्तस्य पौरुषप्रधानं गुणनिकरं वर्णयेत् । यत्र काव्यार्थ उत्साहो वा स्या(द)थवेति रौद्रस्थानिकत्वकृतौद्धत्याल्लब्धम् । तत्र च कार्यं पुरुषानुप्रासप्रायं

Notes

चतुष्षष्टिः सन्निपातास्तस्मिंश्चैव प्रकीर्तिताः ।
यथामार्गकलोपेता विदारीविवधान्विताः ।। ३५६ ।।

अङ्गहारान् सविष्कम्भान् नैव चात्र प्रयोजयेत् ।
केवलं पौरुषैर्भावैर्वाक्यं नाट्यायितेन यत् ।। ३५७ ।।

नर्कुटं खञ्जकं चैव त्रिविधं न प्रयोजयेत् ।
सैन्धवीमाश्रितां भाषां ज्ञेयं सैन्धवकं बुधैः ।। ३५८ ।।

Abh

सम्बध्यत इति तत्परिहारार्थमनिष्ठुरेत्यादिश्लक्ष्मादि व्याख्यातुं माधुर्यश्लेषगुणप्राधान्यत्र पदानि । तालोऽत्र द्विकलश्चञ्चत्पुटः ।। ३५५ ।।

षोडशकृत्व आवृत्तश्चतुर्भिः पादैः । तदाह । चतुःषष्टि सन्निपाताइति । ते च यथामार्गम् । ध्रुवकादिचतुष्कला…..मार्गो गृहीतः । तदुचितेन पञ्चलघ्वक्षरादिना कलामानेनोपनीताः ।

अन्ये तु यथोचितो मार्गो यथामार्ग इति विग्रहेण सुकुमारत्वाद् ध्रुवक एवात्रोह्य इत्याहुः । यथा हि भट्टगोपालेन स्वाभिप्रायेण ध्रुवके वधिरिति भेदः (प्रोक्तः) । तेन भेदे विवधे विदारिकेना (णा) न्वितास्तु सन्निपाताः । तेन प्रतिपादं:/?/ सन्निपाते विदार्यात्युक्तं भवति ।। ३५६ ।।

पौरुषोचितादुद्धाताअ(द)ङ्गहारा अर्थे ये प्राप्नुवन्ति तेषां कञ्चिद्विशेषमाह । अङ्गहोरान् सविष्कम्भानिति । विष्कम्भो विस्तारः । तेनातिविस्तीर्णानङ्गहारानत्र कुर्यात् । लास्यसामान्यलक्षणमनुवर्ण्यमनुगच्छेदिति ।

अन्ये तु विष्कम्भाख्यं करणमङ्गहारांश्चात्र न कुर्यादित्याहुः । तेन करणैरेव मसृणैरेतत् प्रयुञ्जीतेति ।

नन्वेवं पौरुषशङ्कि । आह । केवलमिति । पौरुषसूचका भावाः सात्त्विकादयोऽत्र वाक्यार्थे योज्याः । तेन नाट्यायिता नाट्यकल्पा न तु सर्वथा नाट्यरूपा एव । प्रतिबिम्बप्राणप्रस्तावनाकल्पं हि नाट्यस्य नृत्तगीतमित्युक्तं प्राक् । तन्नाट्यायितं वा । स्थेने(तेने)ध्रुवास्वभिनय इति तत्सादृश्याच्चात्र तद्व्यपदेशः । यदित्यभिनये नित्यप्रवृत्तिविधिमाह ।। ३५७ ।।

नर्कुटं खञ्जकं चैवेति । नर्कुटखञ्जकवृत्तबन्धं काव्यम् । त्रिविधोऽभिनयो जायेत । आहार्यस्यात्राभावात् । भाव्यं तु किञ्चिद् भवतीति ज्ञापयिष्यते न पाठ्यं स्वल्पमित्यत्रेति (भ.ना.३१.३८०) । तेन वाचिकोऽप्यभिनयोऽस्त्येव ।

रूपवाद्यादिसंयुक्तं युग्मतालकृतं तथा ।
वितस्ताऽऽलिप्तमार्गेण सैन्धवं वाद्यमिष्यते ।। ३५९ ।।

Abh

उपाध्यायास्त्वाहुः । नर्कुटखञ्जके च नायकस्य व्यलीकवन् नायिकास्वेष्टा (स्विष्टे) । वे(ई)र्ष्याप्रणयभङ्गलज्जादिस्त्रिवधोऽत्रो(त्र) वर्णनीयः । अत एव त्रयाणां मोहात् त्रिमूढसंज्ञः । नानारूपस्य शृङ्गारररस्योपपत्तिरत एवेति लास्यसुकुमारत्वाच्चारी लक्षणद्वयप्रधानंसरसत्वादित्याशयेन तद्गतमङ्गद्वयमन्यदाचक्षाणो मुनिश्चार्याङ्गसम्बन्धं तावत् सैन्धवकमाह । सैन्धवीमाश्रिता भाषामिति । सरससुकुमारतावर्जितम् । भाषेति सैन्धवी । अत्रामिश्रिता सैन्धवीशब्दान् मत्वर्थीयेति(ऽणि)सैन्धवमिति रूपम् । एत दुपजीवनादेव लोके प्रेक्षणीयाख्यानि डोम्बिकावि(बी)जकप्रस्थानादीनि जात्यैव भाषया कविभिर्निबद्धानि । तत्र त्वङ्गानामेषां दशानां सम्बन्धि काव्यार्थवैचित्र्यमिति रूपकं तत् प्रकृतं प्रति…..त्यादि यत् तदातोद्यविधौ निरूप्य च पुष्कराध्याये (भ.ना.अ.३४) वक्ष्यति । तेन युक्ततालोऽत्र चञ्चत्पुटः ।। ३५८ ।।

पुष्करवाद्ये विशेषान्तरमप्याह । वितस्तालिप्तमार्गेणेति । वीराद्भुतरौद्राणां वितस्तमार्गेण वाद्यम् । योज्यं त्वालिप्तमार्गेण इति वक्ष्यमाणत्वात् तदर्थबन्धोऽपि छाययाऽत्र योज्यः । तथा हि ।

रसालूणिकझल्लि ण तु पइमुद्वहि चरु तुझ कपत्थी ।
रझरा मम रूपराइणिआ ताराअ सासराअ च ।
अत्वरमुपविजइ इण हणगणकारि विपरिपण्डि ।
[रसालनिर्मललहरि न तु पतिमुद्वहेश्चारु तव कल्पस्त्रि ।
रक्ताया मम रूपरागिण्यास्तारायाः स्वाश्रयाय च ।
सत्वरमुपव्रजामि शृणु धनगणकार्ये विपरिपन्थिनि ।।]

इत्यादि क्रोधशोकविस्मयोत्साहछायया निबद्धं गीतवाद्यप्रधानं च लास्यं न काव्यार्थप्रधानमिति । काव्यार्थः स्त्रीपुंभावाप्राधान्ये वितस्तालिप्तयोरविरोध इत्याभियुक्ताःअन्ये तु सप्तमीं न प्रोचुः पठन्तः । उद्धतगोमुखगतमत्र वाद्यमिति मन्यन्ते ।

शृङ्गारहास्ययोगे वाद्यं योज्यं तथाऽङ्डिते मार्गे ।
बीभत्सभयानकयोद्वाढयं (र्वाद्यं) कार्यं तु गोमुख्याम् ।। ३५९ ।।

ना(न)पाठ्यं स्वल्पमप्यत्र प्रकुर्वीत विचक्षणः ।
मुखप्रतिमुखोपेतं तथा चाचपुटाश्रयम् ।। ३६० ।।

यथाक्षरैः सन्निपातैस्तथा द्वादशभिर्युतम् ।
नैकयुक्तिविचित्रार्थं पौरुषं भावमाश्रितम् ।। ३६१ ।।

एकाङ्गं शीर्षकं गत्या द्विमा(मू)ढं परिकीर्तितम् ।
उत्तमोत्तमके त्वादौ नर्कुटं सम्प्रयोजयेत् ।। ३६२ ।।

श्लोकं विचित्रार्थपदं तथा चैवोपपादयेत् ।
ततश्च वस्तुकं कार्यमपरान्तकशाखया ।। ३६३ ।।

Abh

अत्र च मनागपि पाठ्यं न कार्यम् । अङ्गान्तरेषु स्वल्पं कार्यमिति भावः । तथा च लक्ष्येऽपि भाणकादौ तदल्पशब्दवाच्यं प्रसिद्धम् । अथ महाचार्यङ्गमाह । मुखप्रतिमुखोपेतमिति । मुखप्रतिमुखे अङ्गे सन्धी (न्धा)य इत्यन्ये । पादचतुष्कं चाचपुटकुतम् ।। ३६० ।।

त्रिरावृत्तं तालोऽत्र । तदाह । सन्निपातैर्द्वादशभिरिति । नैकशब्दः प्रातिपदिकान्तरमनेकपर्यायः । अनेककार्ययुक्त्या योज्यमानेन आन्तरछायाबन्धेऽतिविचित्रः प्रकृतोऽर्थो यत्र । प्राधान्येन च त्रिमूढ उत्साहः । उत्साहेनात्र वर्ण इत्याह । पौरुषं भावमाश्रितमिति ।। ३६१ ।।

एककेन वर्णाङ्गकेन च युक्तमत्र शीर्षकम् । तच्च गन्येति नाभिनयप्रधानम् । अपि तु परिवृत्तिप्रधानमिति गतिप्रमाणम् । तेन पञ्चपाणिरत्र तालः । प्रकरणात् प्रमाणमित्याहुः । द्वयोश्चात्र नायिकानायकयोर्व्यामो- हाद्यम् । तत् त्रिमूढकमेव हि तालकाव्यवशात् स्वल्पशरीरं द्विमूढकम् । अथ त्रिगतस्थानिकमुत्तमोत्तमकमाहा आदौ नर्कुटमिति । वृत्तविशेषं तच्च नर्कुटवृत्तम् ।। ३६२ ।।

शेषविचित्रेण वाऽन्यादिप्रधानेनार्थेन युक्तं कुर्यात् । तं च तथैवेति पाठमार्गेणोपपदायेत् । न तु गायेदित्यर्थः । अनन्तरं द्विपदीयोजनया यद्वस्तुकाख्यं वृत्तं तच्चतुर्विंशतिकलेन तालेन योज्यम् । तदाह अपरान्तकशाखयेति । तेन तद्गत एव कलायोगोऽत्र ।। ३६३ ।।

यथाक्षरेण कार्यं तु शीर्षकं पञ्चपाणिना ।
उत्तमोत्तमकं प्रोक्तं हेलावृत्ति1 विभूषितम् ।। ३६४ ।।

कोपप्रसादबहुलं सविक्षेपैरूपक्रमैः ।
संलापरचितैर्नित्यमुक्तप्रत्युक्तमिष्यते ।। ३६५ ।।

वज्रार्धेन प्रकर्यास्तु 2तस्य तालविधिः स्मृतः ।
ततस्तु शीर्षकं कार्यं संयुक्तं पञ्चपाणिना ।। ३६६ ।।

उक्तप्रत्युक्तमेवं हि यथोक्तं परिकीर्तितम् ।
एवमेतद् बुधैर्ज्ञेयं 3गानं तालप्रमाणतः ।। ३६७ ।।

ऋग्गाथापाणिकादीनां सप्तरूपं प्रकीर्तितम् ।
यस्तु तालं न जानाति न स गाता न वादकः ।। ३६८ ।।

Abh

शीर्षकमेककलपञ्चपाणिनाउत्तमेभ्यो लास्याङ्गेभ्य इदमुत्तमं हेलादियोगेनोत्कृष्टतमत्वात् । अन्ये तूत्तमस्यान्त्यस्योत्तमं लास्यमित्येवमिति । यत्र भावा नियम(मे)नोक्तं(क्ता)स्तत्र प्राथम्यात् संस्कृतैव । यथेच्छमित्यन्ये । स्त्रीपुंभावाश्रयत्वात् प्राकृतभाषैवेत्यपरे । सैन्धव्येति प्रकरणादिति भट्टतोतः । तदाह काव्यकौतुके । न भाषानियमः पात्रे काव्ये स्यात् सैन्धवी मि(इ)ति । एवं लास्यपूर्वरङ्गोऽयम् । भेदान्तरमपि च पुष्कराध्याये (भ. ना. अ. ३४) भविष्यति । ताण्डवपूर्वरङ्गतः पुष्करतालगतमनुसन्धीयते मुनिना । द्विरङ्गविधौ प्रकरणषट्कत्वं परिनिश्चीय कुशलमिति । साम्यं तावद् यच्चेदमासारितवर्धमानगीतकछन्दकलास्याङ्गरूपं तालवैचित्र्यं तत् मानरूपत्वान् मेयरूपपर्यवसायीति दर्शयंस्तालगानस्य काल(रूप)तामाह । एवमेतदिति । एवं तालरूपप्रमाणमुक्तं तेन प्रमाणेन गानं स्वरात्मकं ज्ञेयम् । बुधैरिति मानमेय (ज्ञै)रिति ।। ३६४-३६७ ।।

अथाऽत्र कमप्यधिकमृगादितालस्वरूपमस्ति । तत् कस्मान्नोक्तमित्याशङ्क्याह । ऋग्गाथापाणिकादीनां सप्तरूपमितिऋगादीनां यद्रूपं तत् सप्तैव । गीतकसप्तरूपानतिरिक्तमेवेति यावत् । त्र्यश्रचतुरश्रतालप्रकारातिरिक्तं हि (ऋगा)दिः । उक्तं हि प्राक् । षड्भ्योऽष्टगुणपर्यन्तमित्यादि । आदिर्येषामित्युपलक्षणाद्विनियुक्तेन सामकपाला(लापा)दिना (ऋग्गाथा)पाणिकादि हि स्वरुपेणैव लक्षिते(तमि)ति ।

Notes

तस्मात् सर्वप्रयत्नेन कार्यं तालावधारणम् ।
अङ्गभूता हि तालस्य यतिप्रा(पा)णिलयाः स्मृताः ।। ३६९ ।।

त्रयो लयास्तु विज्ञेया द्रुतमध्यविलम्बिताः ।।
छन्दोक्षरपदानां हि समत्वं यत् प्रकीर्तितम् ।। ३७० ।।

कलाक(का)लान्तरकृतः स लयो 1मान(नाम)संज्ञितः ।
श्री(स्त्रो)तोगता च गोपुच्चा(च्छा)समा चात्र विधाय च ।। ३७१ ।।

Abh

अथास्य ताल(विधेः) बहुमानास्पदत्व(त्वं)माशङ्कीत्याशयेनाह । यस्तु तालं न जानातीति ।। गायन्नपि न गाता । वदन्नपि ()वादकः । प्रयोगो हि तालसूत्रस्यूतो हि नटप्रवेशयोग्यो भवतीत्युक्तमसकृत् । गेयादितालवद् गीतमन्योन्यविषयि । तालस्य प्राधान्यात् । असकृन् नटोऽप्यतालज्ञः । अत एव तालस्य सामान्यलक्षणं वाच्यम् ।। ३६८ ।।

चञ्चत्पुटादिभिर्विशेषस्तस्येत्याह । अङ्गभूता हि तालस्य यतिपाणिलया इति । यतिपाणिलयसमूह इति तालस्य सामान्यलक्षणम् । तत्र ताल एव तावत्क्रियाणां सर्वासां परिच्छेदक इति प्रसिद्धम् । अतो नटानामपि च क्रियाकालस्य चिरक्षेपणादिति परमार्थः । सोऽपि च (लयः)न (काल)स्य पारमार्थिकी(क्रिया)। अपि तु काल्पनिकी । तथात्वेऽपि चान्योन्यापेक्षया तत्कल्पने द्वयोरप्यवकल्पनं स्यादिति मध्योऽवधिभूतः । अत्र तृतीयोंऽशः प्रकीर्तनीयः । ते चैवं न त्रयो लयाश्चिरं विलम्बितं शीघ्रं द्रुतं मध्यं मध्यममेवेति ।। ३६९ ।।

लया(य)एव ताल इति मनसि कृत्वा तस्यैव प्राग् लक्षणमाह । त्रयो लयास्तु विज्ञेया इति । लोकसिद्धत्वादिति भावः । उक्तो विभागो लयस्य लक्षण(णं)त्वान्न(त्वत्र)।

छन्दोक्षरपदानां हि समत्वं यत् प्रकीर्तितम् ।
कलाकालान्तरकृतः स लयो नाम संज्ञितः ।।

इति । ह्नस्वरूपा तस्या(स्ये)यमुच्चारणा कला प्राकृतव्यपदेश्यतया प्रसिद्धा । अन्योन्यमध्यवर्ती कालः । तत्कालानन्तरं तत्कृतः सम्पादितोऽत एव वैकृतस्वभावो लयो नाम संज्ञितोऽन्वर्थलब्धात्(ब्धः)। श्लेषविश्रान्त्यात्मार्थः स लयः । तस्य च स्थूलसूक्ष्मकार्यगम्यं स्वरूपमाह । छन्दोक्षर इति । यदिति

Notes

लयप्रवृत्तवर्णानामक्षराणामथापि वा(च) ।
नियमो या(यो)यतिः सा तु गीतवाद्यसमाश्रया ।। ३७२ ।।

Abh

यस्माद्विश्रान्तिलक्षणाच्छन्दश्र्छन्दोन्तरेण समं तुल्यकालं प्रयुक्तमिति व्यपदेशो जायते तेनाक्षरगतः पदगतः सकलवाद्यगतश्च लय इत्युक्तं भवति । अनेन च यतिभेदस्यास्यावकाशो दत्तः । न च लयमात्रस्तालः । सकलक्रियासु तद्भावेऽपि तालाभिमान(ना)भावादिति । तद्विशेषणभूतां यतिं निरूपयति । स्रोतोगता च गोपुच्छा समा चात्रेति । त्रिधा यतिः । अत्र लये विशेषणतया या यतिः सा त्रिधा ।। ३७०-३७१ ।।

ननु विभागोऽयम् । अस्या लक्षणं तु वाच्यमित्याह ।

लयप्रवृत्तवर्णानामक्षराणामथापि च ।
नियमो या(यो)यतिः सा तु गीतवाद्यसमाश्रया ।।

इति । गीतवर्णानां स्थाय्यादीनां वाद्ये चाक्षराणां झुण्टुकटकथादीनां सम्बन्धिनां या लयप्रवृत्तिर्लयविशेषो द्रुतादिस्तयोपलक्षितो यो नियमः सा यतिः । क्रमेण गीताश्रया वाद्याश्रया च । पूर्वं यद्गेयाधिकार एवमुक्तं शिरःकर्मादिवर्तनाचार्यादीनां लयप्रवृत्त्या नियमो नित्यवाद्यमात्राश्च सा यतिरिति तन्मन्तव्यम् । एतदुक्तं भवति । लयस्य यः कश्चित्तालनियमोऽनुवर्तनं तत्र चरितप्रध्वंसित्वेन सा……लघुमपि गुरुमपि लघू…..त्स विचित्रे नियमः । तत्र प्रथमभागे विलम्बितस्य यावदन्ते द्रुतस्य नियम इति स्रोतोवद्गमनात्तथा यतिरुक्ता । एतद्विपर्ययाद् गोपुच्छा ताद्रूप्यादेव । यस्तु प्रथमे तावद्यतिनिर्वाहपर्यन्ता स एव लयो नियमः सा समा । तत्रासां क्रमेण द्रुतविलम्बितमध्याःप्राधान्याशयेन विषय उच्यते । परमार्थतस्त्रिष्वपि तिस्र इति । एवं नियमविशिष्टो लयस्ताल इति तावत् । अत एव नियमांशस्यैव प्राधान्याल्लोके यतिरिति ताद्रूप्यव्यवहारः । एवं साक्षाद्यत्र साम्यं वक्ति फलं फलसाम्यद्वारेण दृष्टमपवर्गान्तमपि तस्य लौकिकस्यैव लक्षणं यद्यवच्छिन्नलयं तालमिति । यत्र तु साक्षाददृष्टमपि फलं तत्रान्यदपि रूपं वक्तव्यम् । तत्र चिरशीघ्रतादौ क्रिया यद्यपि या काचिदप्युपायस्तथा नियमादृष्ट(फल)सिद्धये विशिष्टहस्ताङ्गुलक्रियैवोपयोगिनी । सा च पाणिशब्देनोक्ता । तदाह दत्तिलः । तत्र तालं ()पाणिं च प्राहुरेकमिति (दत्तिलम् १५३) । तद्गतया क्रियया क्रियान्तरमपि वीणापुष्करवादनानि (दि)स्वीक्रियते । तेन विशिष्टक्रियापरिच्छेद्यो यद्यवच्छिन्नो लयस्ताल इति गान्धर्वीयताललक्षणादेर्वीणावाद्यादेश्च क्रियायाः प्रदेशान्तरे लक्षितादिह न पाणेः सामान्यलक्षणं कृतं विशेषलक्षणं वा ।। ३७२ ।।

समपाणिश्च विज्ञेयो ह्यवपाणिस्तथैव च ।
तथैवोपरिपाणिश्च गीतवाद्यसमाश्रयः (याः) ।। ३७३ ।।

लयेन यत् समं वाद्यं समपाणिः प्रकीर्त्यते ।
ध्रुवाद् यदवकृष्टं स्यात् सोऽवपाणिः1 प्रकीर्तितः ।। ३७४ ।।

लयस्योपरि यद्वाद्यं पाणिः स उप(सोपरि)इ(रि)ष्यते ।
ततः(त्र) स्थिति(त)लयो यो वै सन्निपातो विधीयते ।।३७५ ।।

Abh

यस्त्वविशिष्टविशेषस्तमाह । सम(पाणि)श्चेति । ननु साम्यं पश्चाद्भाव्युपर्युपरिभावित्वं च । एतदेवात्र विश्राम्यतीत्याशङ्क्याह । गीतवाद्यसमाश्रया इति ।। ३७३ ।।

पृथग्विशेषलक्षणान्युच्यन्ते । लयेन यत्समं वाद्यमित्यादिना । काचिन्नियमादृष्टा रक्त्यतिशया वाऽन्या क्रियाऽवच्छेदिका तथा गीतस्य समकालता पूर्वकालताऽऽगन्तुककालता वा । तत्रेहावापादिकाऽऽयात(काल) ता । तया सह यथायोगं समकालताऽसमकालत्वे मन्तव्ये । यथाह दत्तिलाचार्यः

समं वोपरि वा तस्य यद्वाधः संस्थितं भवेत्
वाद्यं पदाति(नि) पाणौ वा तदेवमभिधीयते ।।

(दत्तिलम् १५३-१५४) इति । तत्र लय इति तात्पर्यत्वाद्गीतमुच्यते । तथा च त्रिशम्योपरि पाणौ (भ. ना. २९.८७)इत्याश्रावणकाले आदौ वीणादिवाद्यग्रह इति प्रदर्शितमभियुक्तैर्यथायोगं क्रियान्तरेण सह सामर्थ्यस्य चिन्तनात् । तेन गीतक्रियायां नाट्यक्रियातुल्यकाला(लः)समपाणिः । स चोद्वेजिन्यात्ममध्यमेव । यथा(दा) तु गीतक्रियाप्राधान्यात् …….तृक्रिया पश्चात् तथा(दा)(ऽव)पाणिः ।। ३७४ ।।

द्रुतलयोचितो यस्यातिशीघ्रं गच्छति स प्रथममेव निर्याति स चापरमपि न प्रतीक्षते गीतक्रिया तु यदा न तावत् प्रवर्तते प्रथममेव वाद्यानि क्रियान्तरं तदोपरिपाणिः । स चौचित्याविलम्बिते लये दीर्घसूत्रो हि सहचरेषु प्राङनिर्गतेषु गतिमारभत इति । सोपरीति । सोऽचि लोपे चेत्पादपूरणमिति (अष्टाध्यायी ६.१.१३४) लोपः । एवं यतिपाणिभ्यामुपक्रियमाणो लय एव ताल इति तस्यैव प्राधान्यं दर्शयितुं पुनस्तद्विषयमेव वक्तव्या-

Notes

स तु मध्यलयं प्राप्य सन्निपातद्वयं भवेत् ।
द्रुतं चापि लयं प्राप्य सन्निपातचतुष्टयम् ।। ३७६ ।।

यावत् तत्रोन्त(त्त)रकृता1 (कला)द्रुतमध्य(एव)लयो हि सः ।
सोऽ2वपाणिस्तु विज्ञेयस्तज्ज्ञैर्द्रुतलयाश्रयाः (श्रितः)।
अत ऊर्ध्वं प्रमाणं तु कलानां न विधीयते ।। ३७७ ।।

Abh

न्तरमाह । तत्र स्थितलयो यो वै इति । वैशब्दोऽतिशये । तदयमर्थः इह द्रुतमध्यविलम्बितः क्रमेणाधिका इति तावदुक्तम् । तत्र यद्यतिशयो भवति द्वैगुण्यं न ततः परं वक्ष्यते । ऊर्ध्वं प्रमाणं तु कलानामिति (भ.ना. अ. ३१.३७८) । सन्निपात इति । हेयरूपकम् ।। ३७५ ।।

तदेको यदा येन विलम्बितेन लयेन गायतीति तदा तावतैव कालेन परो द्विर्गायति मध्यलयम् । तदाह । सन्निपातद्वयमिति । तृतीयस्तु चतुर्गायति द्रुतलयः । तदाह । सन्निपातचतुष्टयमिति । ।। ३७६ ।।

ननु तत्राऽपि किञ्चिदष्टकृत्वस्तदेव नि(यमरहिता)दित्यादिलयानवस्थेत्याशङ्कयाह ।

यावत्तत्रान्त(त्रोत्त)रकला द्रुत एव लयो हि सः ।

एवकारोऽभि(भिन्नक्रमः)। उत्तरैव या कला अहेत्या (आहत्य) द्रुतलयाश्रयत्वाद् द्रुतो लयः । एतदुक्तं भवति । यत् कलावर्णाङ्गस्वरूपे तद्यतः परं न निर्वहति एव द्रुतलय इति । तेन(न)काचिदनवस्था । अथात्र प्रसङ्गादवपाण्यौचित्यं दर्शयति ।

सोऽवपाणिस्तु विज्ञेयस्तज्ज्ञर्द्रुतलयाश्रिताः (तः)।

इति । लयादवकृष्टं स्यादिति यतो लक्षितः । एतच्च दिग्दर्शनं मन्तव्यम् । अन्ये त्ववपाणिं विलम्बिते (उ)परिपाणिं द्रुते विनियुञ्जते । तत्तु वाद्ये प्रधाने गीते चानुयायीति मन्तव्यम् । तत्तु प्राधान्ये ।

अथ प्रकृतमेवाह । अत ऊर्ध्वमिति । द्वैगुण्यादूर्ध्वं विलम्बितादिषु यत् प्रमाणं तत्र विधीयते विधिना शास्त्रेणोच्यते इत्यत्र दृष्टप्रधाने गान्धर्वे इति भागाधिकत्वादारभ्य द्वैगुण्यं द्रुतादीनामुत्तरोत्तरमित्युक्तं भविति । स्वच्छन्दप्रयोगे तु न नियमः कश्चिदिति यावत् । अतस्तत्र लययतिपाणिभेदानामन्योन्याश्रयानुगुणपौर्वापर्यस्य भावप्रसृतिर्लोष्टप्रस्तरेण भेदः । अत एव लयत्रयस्यैव परमार्थ(तः) प्लुतलघुगुरुलघुरूपताऽविलम्बितेऽपि

Notes

इत्येष लक्षणविधिर्निर्दिष्टो गानयोक्तृभिः ।
अत ऊर्ध्वं प्रवक्ष्यामि ध्रुवाणामङ्गकल्पनम् ।। ३७८ ।।*

इति भारतीये नाटयशास्त्रे तालाध्याय एकत्रिंशः ।

Abh

त्रिभागाधिकत्वप्लुते गुरौ च लघौ द्वैगुण्यमिति मूल एव सकलतालतानप्रधानभूते भगवत्पार्वतीपतिवक्त्रचतुष्टयोद्गीते चञ्चत्पुटे सुरचितमेव । तथा च गीतकादावदृष्टफले तैरेव व्यवहारः साम्यमात्रोपयोगिता तालव्याप्ते तु लयवर्ध(ना)त्तेन तदर्थेन बिन्दुना सार्धेन वा द्रुतेन विरामवता सबिन्दुकेन वा सद्रुतेन वा गुरुप्लुताभ्यामेवंभूताभ्यां वा भवन्ति विचित्रास्तालगतयः । तत एवापरिसंख्येयत्वान् मुनिना दर्शिताः । लक्षणकारेण प्रतिपदं लक्ष्यं कथं दर्शनीयम् । लक्षणेन [च ते गता(त्य)ध्याये (भ.ना. १२)चतुरर्धेकक(र्धक)लं(वा)स्यात्तथा()र्धकलं वा(लमेव च)(भ.ना. १२-३१)(इ)ति । अपरार्धानुसरण..धृतो तथा एतेष्वधगतिप्रज्ञविलक्षीत्यादिना]

[अपराद्धानुसरणे श्वापदानुगतौ तथा ।
एतेष्वेवं गतिं प्राज्ञो विकलां सम्प्रयोजयेत् ।।]

(भ. ना. १२.३९) इत्यादिना] च संगृहीताः (पुष्करा)ध्याये (भ.ना.अ. ३४)च संग्रहीष्यन्त इत्यास्तां तावत् ।। ३७७ ।।

वृत्तमध्यायमुपसंहरन् भाविनमासूत्रयन् सङ्गतिं करोति । इत्येष लक्षणविधिरिति । लक्ष्यतेऽनेनेति लक्षणं तालः । तत्र विधि(धिः)दृष्टोपयोगी सास्ति(म्य)त्वक्रममानता(स्ता)लः । अत ऊर्ध्वमिति । एतदध्यायोक्तवस्तुताया(ला)दे[व ध्रु ] वा इति प्राप्तावसरत्वात्ताल(ला)इदानीं लक्षणीयाः । इति शिवम् ।

पोप्लूयन्ते यदुपरि [परे] पारलाभानवाप्ते
य(र्य)त्प्रोक्तानां विमलमपि सन्देहमेवावहेत ।
मायोपाधिप्रकटगहनात्तालतत्त्वादमुष्मात्
प्रोत्तीर्णाः [स्मः] स्मरदमनममी संस्मरामो ध्रुवार्थम् ।। ३७८ ।।

इति महामाहेश्वराचार्याभिनवगुप्तविरचितायां नाट्यवेदवृत्तावभिनवभारत्यां
तालाध्याय एकत्रिंशः समाप्तः ।।

Notes
  • Ch 30 (N) has many irregularities so. V.194 (N) to V. 299 (N) are given for comparision in appendix-I