॥ श्रीः ॥
अथ त्रिंशोऽध्यायः1
2आतोद्यं सुषिरं नाम ज्ञेयं वंशगतं3 बुधैः ।
वैण एव4 विधिस्तत्र स्वरग्रामसमाश्रयः ॥ १ ॥
Abh
॥ त्रिंशोऽध्यायः ॥
रागात्मकं स्थायिपदं नियच्छ-
न्नच्छिन्नवंशस्वरलब्धसारः ।
कालात्मकोऽसौ परमेश्वरस्य
स्याद्विग्रहोऽस्मद्भवबन्धनाय ॥
एवं प्राक्तनेनाध्यायेन प्रस्तुतनाट्यविषयगान्धर्वोपयोगप्रतिपादनपरतया जातिविनियोगो वर्णालङ्कारादिलक्षणं ततातोद्यस्वरूपं प्रसङ्गतः शुष्कस्वरूपं प्रतिपादितम् । तत्र ततादनन्तरं यद्यप्यवनद्धस्यैवोद्देशो युक्तस्ततावनद्धयोर्गेयमानकक्षयोद्वहनहेतुत्वात्तथापि विनियोगे वैणानां स्वराणां वंश्यस्वभावमार्ग उपयोगं गच्छतीति ततानन्तरं सुषिरस्यैव लक्षणं युक्तमित्याह । आतोद्यं सुषिरं नामेति । नामशब्देनेदमाह । वंशातोद्यमिति पूर्वं भगवन्महेश्वराराधनसाधनं मतङ्गमुनिप्रभृतिभिर्वेणुनिर्मितं ततो वंश इति प्रसिद्धम् । वस्तुतस्तु छिद्रात्मकसुषिराभिव्यक्तस्वरविशेषरूपतयैवास्योपयोग इति । खदिरादिनिर्मितोऽप्यसौ भवत्येव । तथा चोक्तम् ।
वंशे सृष्टा यदा पूर्वं वंशसंज्ञा तु वैणवी ।
वंशास्तु खदिरा रौप्याः कांस्यजा वा सकाञ्चनाः ॥
इति । अत एव सुषिरयोगात् प्राणसंयोगेनातोदनीयत्वादातोद्यं वाद्यम् । तोद्यते आतुद्यते हन्यते वाद्यत इति चतुर्णां वपुः । केवलमस्य तोदननिष्पन्नैः स्वरैस्ततसुषिरयोरुपकारित्वं वर्णानुसाम्ययोगेन त्ववनद्धधनयोः शरीरं तु संवदनशक्तिक्रोडीकृतं समुल्लसितशक्तिकर्तृकमिति तत्तत्स्थानाभिघातजातस्वरद्वारलब्धोपयोगमपि
Notes
*[ नव वंशास्तु विज्ञेयास्त्रिस्थानस्वरगोचराः ।
तेषां चैव हि वंशानां1 स्थाने स्थाने त्रिकत्रयम् ।
यथा 2बन्धलयस्तेषां स्वरा ज्ञेयाः समासतः । ]
Abh
तदातोद्यमुच्यते । तदा तुदति अभिहन्ति वादयति चेत्यकृतककर्मशक्तिमुद्रितस्वातन्त्र्यमवभाति । ज्ञेयमिति । वीणातो विलक्षणतया । कक्ष्या च स्वरतत्त्वस्य नातो लाभात् ।
टीकाकारैः पूर्वरङ्गे वंशस्य फूत्करणवैकल्यादसंस्कार्यता तत्र चेह चानुपयोग इति महता प्रयत्नेन पूर्वपक्षायित्वा पूर्वरङ्गे कुतपस्य तु विन्यास (भ. ना. अ. ५–१७) इत्यादौ वंशस्याप्यस्ति संस्कार्यत्वमित्युत्तरपक्षीचक्रे । तत् केवलं ग्रन्थभूयस्त्वकरणरसिकताविजृम्भितम् । अस्मभ्यो न खलु शुष्कवादेनाभिरुचितमित्यास्ताम् ।
वंशगतमिति । वंशप्रकाररूपं (लोह)खदिरादेरपि संग्रहः । ननु व्द्यधिष्ठानाः स्वरा वैणाः शारीराश्चे– (भ. ना. अ.२८–१२) त्यत्र वंशानां नामापि तत् किं न श्रावितं वंशाभिधानेनेत्याह । बुधैरिति । यथाश्रुतमेव तदन्यनिरोधनपरं वचः किं च शारीरस्वरवैपरीत्यं वैणानामिति तथाभिधानमेतच्च तत्र व्याख्यातम् । ननु यदि ज्ञेयं तर्ह्यस्योच्यतां लक्षणम् । आह । वैण एव विधिस्तत्रेति । स्वरग्रामग्रहणमुपलक्षणार्थम् । यत् किञ्चिदुक्तं प्राच्येऽध्यायद्वये तत्सर्वं वंशेऽपि बोद्धव्यामित्यर्थः । तथाहि मतङ्गमुनिना चत्वारो धातवो वंश इत्यादिना धातुविनियोगोऽपि प्रदर्शित एव ।
यत्त्वत्र टीकाकृता स्वगतपरगतत्वे धर्मस्यातिदेशस्य विकल्पलक्षणाभिधानलाघवोपयोगि– त्वमतिदेशस्याभ्यधायि तदेवमेव । सर्वत्र ब्राह्मणवद्राजा द्रष्टव्य इत्यादावप्यतिदेशस्वरूपनिर्वाह इवेहापूर्वतया मन्तव्यम् । यत्त्वतिदेशेन न सिध्यति तत्प्रातिस्विकम् ॥ १ ॥
Notes
*सार्धः श्लोको मयमातृकयोरेव वर्तते । वृत्तिकारस्तु तं न व्याख्यातवान् प्रक्षिप्त इति वा वंशानां संख्यामितेरनङ्गीकाराद्वा । तथापि स तु मुनेरेवेति नान्यकुम्भकर्णवेमप्रभृतिभिरुक्तम् । यथाह नान्यः । एवं नवैव वंशाञ् छुद्धान् ब्रूते त्रिकक्रमेणेह । भरताचार्यो वंशानां स्थाने स्थाने त्रिकत्रयमिति । इति ॥ कुम्भकर्णः । स्थानत्रयस्य निष्पत्त्यै केचित कीर्तिधरादयः ॥ नवैवात्र जगुर्वंशान् व्यवस्थातस्तथोच्यते ॥ इति । वेमभूपालः । अथान्यथाऽब्रवीत्तारमन्द्रमध्यव्यवस्थितम् ॥ अत्र कीर्तिधरो राजा स्वराणां वंशभेदतः ॥
द्विकत्रिकचतुष्कास्तु ज्ञेया वंशगताः स्वराः ।
1कम्प(म्प्य)मानार्थ(र्ध)मुक्ताश्च 2व्यक्तमुक्तास्तथैव च3 ॥ २ ॥
Abh
अस्य लक्षणमाह । द्विकत्रिकचतुष्कास्तु ज्ञेया वंशगता इति । आननच्छिद्रेष्वाधारेषु गान्धारादि (दी)त्याशयेन स्वरोत्पादकस्वरूपमुक्तम् । कम्प्यमानार्थमुक्ताश्च व्यक्तमुक्तास्त्वित्यनेन छिद्रोपरि दीयमानाङ्गलिगतच्छिद्रनिवेशिताङ्गुलिना क्रियया तीव्रातीव्रमध्यरूपप्राणपूरणप्रभवो हि वंशे स्वरविभागः । तत्र गान्धारादितया मध्यमस्वरोऽन्त्यो भवति । 1तदपेक्षया गान्धारे द्वितीयम् (यत्वम्) । तत एव च सामसु गान्धारो द्वितीयो मध्यमो हि तत्र प्रथमः । आह च ।
यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरः ॥
(नारदीयशिक्षा १.५.१.) इति ।
यद्यपि न च षट्सु कृष्टादिषु भव इति क्रमो युक्तस्तथापि षड्जस्य चतुःश्रुतित्वान् मध्यमत्वेन प्रत्यभिज्ञानम् । नन्वत्र वंशे कःस्वरविभाग इत्येवमाशयेनाह । द्विकत्रिकचतुष्का इति । स्वरस्वरूपोपयोगिषु छिद्रेष्वत्र स्वरशब्दः । तेन सर्वतोऽत्र नवच्छिद्राणि । वर्गशोऽभिधाने वायमाशयः । मुखि(ख) गतमन्त्यं च यच्छिद्रं तत्तावत् पूरकतया पूर्यतया च मुखमारुतप्रवेशप्रतिघातोपयोगीत्येव नालच्छिद्रं स्वरविभागाय नोपयुक्तम् । तत्सप्तकं तु स्वर विभागकृतम् । अत्रापि हि वर्गशोऽभिधानध्वन्यो भावः । वामहस्तेन त्रयः स्वराः । दक्षिणेन चत्वार इति । तथा चोक्तम् ।
2षड्जस्त्वनामिकाङ्गुल्यामृषभो मध्यमाङ्गुलौ ।
निरङ्गुल्यां च गान्धारो मध्यमः कम्पितो यथा ॥
वामहस्ते त्रयो ह्येते चत्वारो दक्षिणे पुनः ।
पञ्चमोऽनामिकायां तु धैवतो मध्यमाङ्गुलौ ॥
प्रदेशिन्यां निषादस्तु मध्यमः कम्पितो यथा ।
पञ्चमोऽनामिकायामिति वचनात् मध्यमस्वरे कनीयसीत्याह । निरङ्गुलीति । कनीयसी तर्जनी वा । स्थानं चाङ्गुलीनामुक्तम् । कर्कन्धूफलबीजवदङ्गुलीनां निवेशनमिति । अन्ये बहिरष्टमं कार्यं छिद्रादन्यादनन्तरमिति
Notes
तत्रोपरि यथा ह्येकः स्वरो1 वैणस्वरान्तरे2 ।
प्राप्नोत्यन्यत्वमेवेह3 तथा वंशगतोऽपि हि ॥ ३ ॥
Abh
नवच्छिद्राणीच्छन्ति । तत्त्वेवं भवतु च्छिद्राङ्गुलीयोजनम् । अङ्गुलीनां तु कः क्रियाभेद इत्याह ।
कम्प्यमानार्थ(र्ध)मुक्ताश्च व्यक्तमुक्तास्यथैव च ।
इति । नैव द्विकादिक्रमेण कम्प्यमानादियोगः । अपि तु तेनैव प्रकारेणार्धेन समत्वं येन तत्र व्यक्तमुक्ता इति पृथगन्तेऽभिधानादन्ते चतुःश्रुतौ तावदयं विनियोगः । तदुक्तम् ।
ये चतुःश्रुतयोऽप्येषां पूर्णा रन्ध्रात्तु ते स्वराः ।
इति । ततो द्विश्रुतेरधस्तादर्धमुक्ताङ्गुलित्वमध्यवस्यन् पारिशेष्यात् त्रिश्रुतेः । कम्प्यमानाङ्गुलियोगः तदुक्तम् ।
कम्प्यमानार्धमुक्ताश्च विज्ञेयास्ते त्रिकद्विकाः ।
इति । एवं वंशस्य स्वरः प्रथमोत्पत्तिक्रमश्च स्वराणां दर्शितः । यत्त्वन्येषां तु साङ्गुलादिक्रमेणाङ्गुलीनिर्ह्लासदिशा च ब्राह्मणक्षत्रियादिजातिविभागस्तदनुसारेण चोक्तप्रकृत्यादिविषयो नाट्योपयोगः कथितः स निस्वर इति हृदये गृहीत्वा मुनिना दर्शितः ॥ २ ॥
नन्वेवं छिद्रेषु स्वराणां व्यवस्थितत्वमुक्तम् । दृश्यते चैवैकत्र स्वरसप्तकोपलम्भः । तत्कथमित्येतदाशङ्क्याह ।
तत्रोपरि यथा ह्येकस्वरो वैणस्वरान्तरे ।
प्राप्नोत्यन्यत्वमेवेह तथा वंशगतोऽपि हि ॥
इति । शारीरे दाख्यां च यथैक एव स्वर आधारभूतः स्वरान्तरविषयमन्यन्वं प्राप्नोति यथोक्तं द्विविधैव मूर्च्छनासिद्धिरिति (भ. ना. २८-३४) यथा स्वराणां सततं मध्यमस्वरा (मध्यस्वरं) विदुर्बुधा इति तथैव वंशगतस्वरोऽपि स्वरान्तरविषयमन्यत्वं प्राप्नोति । तथा च धैवतांशकृतोऽपि । गीयमानेऽपूर्णवाचः प्राहुः । धैवताद्वा निषादाद्वा स्थायी…….वांशिका इति । पूर्णवाचस्तु षड्जर्षभगान्धाराः स्वराणामन्यतमात् । एतदाह । तत्र यथा वीणायां सार्यमाणायां प्रतिक्षणं मार्दवाय तत्त्वसम्पादनेन सैवान्या सम्पाद्यते । तेन तथावदिति दर्शयति । तत्रोपरि(रीति) । न सामानाधिकरण्यतया विभक्तिनिर्देशः । अन्यथा तस्योपरि तस्यां तेन
Notes
द्विकस्त्रिकश्चतुष्को वा 1श्रुतिसंख्यो भवेत् स्वरः ।
अनीरणात्तु शेषाणां स्वराणां श्रुति(मपि) संभवम्(वः)2 ।
[3स्वराणां तु श्रुतिकृतं चतुर्द्विस्त्रित्व4(स्त्व) लक्षणम् ।]
अङ्गुलीवादनकृतं तच्च मे5 सन्निबोधत ॥ ४ ॥
Abh
तत्रैवोर्ध्वरूपतयाऽऽधेयरूपतयाऽवस्थिते स्वरे सतीत्यर्थः । एतदुक्तं भवति । प्रथममभ्यासकाले शूत्कारपूरणतया स्वरोत्पत्तिक्रमो य उक्तस्तत्रैव स्थिते सति स्वरान्तरस्यात्र बलनम् । यथा वचनादत्र विपञ्च्यामिव श्रुतिक्रमलाभः प्रस्फुटः । षड्जं वदन्ति(ति) मयूरा(र) (नारदीयशिक्षा १.५.३) इत्यादिवत् स्वगमकमध्यमवच्छारीरवदेव वा विशिष्टध्वनिस्वभावत्वात् । अत एव शारीरवद्वंश्यानामारोहणमवरोहणं चेति विशाखिलाचार्यः ।
ननु यद्येवं दृष्टं स्याद्वंशस्य पृथगभिधानं शारीरे(ऽप्येवमेव स्यात्तत्र स्वरैः) अन्यविधिः (धेः) स्वीकृतत्वादित्याशङ्क्याप्रकरत्वे(ङ्क्य प्रकारत्वे) नाह । तत्रोपरीति । शारीरविषयादप्यस्योपरिभाव उत्तीर्णत्वादनन्तर्भाव इति यावत् । यथा च वाद्यरूपतयाऽत्र लालित्यं नाम स्वाभाविको धर्मो न स त्व (नु)षक्तः शारीरके भावाभावमार्दवपारुष्ययोगात् । तथा हि वदन्ति । वंशे गीतमिति । ततः शारीरतोऽप्यस्योत्कर्षो वीणातश्च । उभयं ह्यनेन पूरय(र्य)ते वंशेन गीतिं भावयतीति च व्यवहारः शारीरमारुतस्यान्तरबाह्यप्रयत्नाच्च व्यापारयोगात् । शारीरे तु गायत्येवेति व्यवहारः । आन्तरस्यैवात्र प्रयत्नस्य भावात् । वंशच्छिद्रपूरणप्रयत्नो हि बाह्येऽसम्भवी । वीणायां तु वादयत्येवेति बाह्यस्यैव तन्त्रीहननकारिणः प्रयत्नस्य भावात् । इत्युभयविलक्षणमुभयधर्मानुगतं च वंशस्य रूपमित्यवश्यं वक्तव्यमिति तात्पर्यम् ॥ ३ ॥
द्विकस्त्रिकश्चतुष्को वा श्रुतिसङ्ख्यो भवेत् स्वरः ।
अनीरणात्तु शेषाणां स्वराणामपि सम्भवः ॥
अस्यार्थं टीकाकारस्तावदाह । इह वंशस्य च्छिद्रपिधानं मुखवाय्वादिसंयोगादङ्गलिसंयोगक्रियायाश्चेति यत्तावत् स्वरनिष्पत्तौ कारणम् । तथा चाहुः ।
वांशी त्रिधा मूर्च्छना स्याद् द्विप्रयुक्ता हि सर्वतः ।
तारमन्द्रादिका चान्या मुखमारुतमूर्च्छना ।
तृतीया करशाखात्मा(त्म)स्वरोत्पत्तिप्रदायिनी ॥
Notes
1व्यक्तमुक्ताङ्गुलिस्तत्र स्वरो ज्ञेयश्चतुःश्रुतिः । 1a
कम्प(म्प्य) मानाङ्गुलिश्चैव त्रिश्रुतिः परिकीर्तितः ।2
द्विकोऽर्धाङ्गुलिमुक्तः स्यादिति3 श्रुत्याश्रिताः4 स्वरा ॥ ५ ॥
Abh
इति । तत्रेयतापि स्वरजाताः प्रथमं न ग्रामविभागं भजन्ते । स हि च श्रुतिचर्चामपेक्षते । सा च प्रथमोत्पत्तौ नास्ति । अनेनैव क्रमेण यावता च गान्धार इति । एष चार्थ(:) फल्गुप्रायः । न हीयता वीणायां श्रुतिचर्चा काचिद्दर्शिता भवति । मुखवलनगतिस्वरतादि तु प्रयत्नबलेन भवदपि न श्रुतिभेदमाधत्ते
तस्मात् प्राक्तनश्लोकोक्त एवार्थोऽनेन परिष्क्रियते । तत्र ह्युक्तं तत्रोपरि स्वरान्तरेऽन्यत्वमेवेति । तच्च कथं क्रियतामितीदमारभ्यते । यः स्वरो द्विक(स्) त्रिक(श्)चतुष्को वेति नियतः स्वरस्थापनया छिद्रविशेषः प्रसिद्ध इत्यर्थः । आधारतां वाशब्दोऽप्यर्थे । नयति व्युत्पादयति । तदयमर्थः । तत्राप्यन्यस्वच्छिद्रे शेषाणा- मेषामप्यर्धस्वराणामिव या श्रुतिसंख्या भवेत् । कथं सा भवेत् । आपूरणादानयनादीरण अनादररन्ध्रपूरणाच्च । तत्र नयनमुभयोस्तीव्रातीव्रतया । रणनं तु प्रपूरणेन शब्दोत्पादनम् । पूरणं वायोः शीघ्रस्थिरतोदेन वदनजात् । वाय्वनुसारसम्पादकतीव्राद्यापूरणादिशैघ्य्रादिनिषेधात् क्रियते । तत्रान्येषामपि स्वराणां तत्र नियतस्वरेऽपि छिद्रेऽस्ति सम्भवः । (तुकारेण द्विकत्रिकस्वराणामितरेऽप्येतत्पूर्यतया पूरणनिषेधः ।) न चेयतैव स्वरसम्भव इत्याह । अङ्गुलीवादनकृतं चेति । अत्र द्रष्टव्यः अङ्गुलीभिर्वादनं शब्दोत्पादनप्रकारः । सम्यगित्याह । तच्च मे संनिबोधतेति ॥ ४ ॥
व्यक्तमुक्ताङ्गुलिस्तत्र स्वरो ज्ञेयश्चतुःश्रुतिः ।
कम्प्यमानाङ्गुलिश्चैव त्रिश्रुतिः परिकीर्तितः ।
द्विकोऽर्धाङ्गुलिमुक्तः स्यादिति श्रुत्याश्रिताः स्वराः ॥
इति । स्वराणामनेन प्रागुक्त एव क्रम उक्तः । न च पुनरुक्तानां पूर्वनिष्पत्त्यभिप्रायेणाधारस्वरविषयत्येन परमार्थतोऽस्यानि(स्त्यभि)धानम् । अधुना तु तत्रोपरीत्येतत्प्रसङ्गायाततदुत्पत्तिस्वरविषयस्तत्र वीणायां यथा मूर्छनान्यत्वं तथा छिद्रेष्वङ्गुलिसारणाविशेषोत्कर्षेणेव छिद्रेष्वङ्गुलिवैचित्र्यात् स्वरसप्तकविभागो वर्णयिष्यते । अन्ये त्वङ्गुलिशब्देनात्रोर्ध्वमन्द्रमाहुः ॥ ५ ॥
Notes
एते 1स्युर्म (तु म) ध्यमग्रामे भूयः षड्जाश्रिताः पुनः2 ।
व्यक्तमुक्ताङ्गुलिकृताः3 षड्जमध्यमपञ्चमाः ॥ ६ ।।
4ऋषभो धैवतश्चापि कम्प(म्प्य) मानाङ्गुली4aकृतौ ।
5अर्धमुक्ताङ्गुलिश्चैव गान्धारोऽथ निषादवान् ।। ७ ।।
Abh
ननु कुत्रायं श्रुतिविभाग इत्याह । एते तु मध्यमग्राम इति । मध्यमस्वर स्तावत् प्रसिद्ध इति तदपेक्षया चतुस्रिद्विसंख्यासारेण मध्यपञ्चमधैवतनिषादानामेव सम्भवति । षड्जग्रामे तु न तारगत्या न मन्द्रत्येति मध्यमादिश्रुतिसंख्याक्रमानुरोधाच्चादौ मध्यमग्राम उक्तः ।
अथ षड्जग्रामेऽप्याह । भूयः षड्जाश्रिताः पुनरिति । पुनः शब्दः पूर्वस्माद्विशेषद्योतकः । भूय इत्यनेनेदमाह । मध्यग्रामे यदुक्तं तद्यथा द्विश्रुतिर्गान्धार इति तत् षड्जग्रामेऽपि न सुसङ्गच्छत इति तामाह ।
व्यक्तमुक्ताङ्गलिकृताः षड्जमध्यमपञ्चमाः ।
चतुश्शुतिरत्र पञ्चम इति यावत् । षड्जमध्यमयोस्तु दृष्टान्ततया विवक्षितसमकक्ष्यतया निर्दिष्टः(र्देशः) ।। ६ ।।
ऋषभो धैवतश्चापि कम्प्यमानाङ्गुलीकृतौ ।
धैवतस्रिश्रुतिरित्यर्थः ।
अर्धमुक्ताङ्गुलिश्चैव गान्धारोऽथ निषादवान् ।
चकारेण मध्यमग्रामेऽपीत्थंभूतमनयोरित्याह । अत एव ग्रामापेक्षया रूपान्तराभावादेव कार्त्स्न्येन । अथवा नोक्तगीतपञ्चककार्त्स्न्यपरिग्रहात् । उक्तमन्यत्र ।
मध्यमं पूरयेतत्र सप्ताङ्गलिविधानतः ।
पञ्चस्वरगप्तिं कुर्यात् पञ्चभेदविकल्पनात् ।
कम्पितां चलितां मुक्तामर्धमुक्तां निपीडिताम् ।
यत्र……….वंशमधरस्थं प्रकम्पयेत् ।
Notes
स्वरसाधारणे1 चा(णश्चा)पि काकल्यन्तरसंज्ञके(या) ।
निषादगान्धारकृते2(तौ) षड्जमध्यमयोरपि ।। ८ ।।
Abh
कम्पिता या गतिः प्रोक्ता वर्णालङ्कारगामिनी ।
अङ्गुल्याश्चलता यत्र स्वरसम्पादने यथा ।
सञ्चारिवर्णसंयुक्ता चलिता नाम सा स्मृता ।
स्वरमुक्तेन रन्ध्रेण मुक्ता नाम प्रवर्तते ।
अर्धमुक्तेन चाप्यत्वा(स्या)र्धमुक्तानुजायते ।
सुषिरैः सर्वधानेकैः(पिहितैः सर्वै) रङ्गुलीभिः समन्ततः ।
यदा पूरयते वंशं ज्ञेया सा तु निपीडिता ।।
इति ।। ७ ।।
अथ स्वरसाधारणोत्पत्तिं दर्शयति ।
स्वरसाधारणश्चापि काकल्यन्तरसंज्ञया ।
निषादगान्धारकृतौ षड्जमध्यमयोरपि ।।
इह स्वरसाधारण……आधेयरूपतया पृथक्छिद्रता न संभवति केवलमाधारस्वररूपतया……भवेत् । तत्र वीणायां पूर्ववत् स्थितसाधारणायां स्वरसाधारणे क्रियमाणे गान्धारनिष्पादनतन्त्र्योरेव द्विश्रुतिकतायामायतत्त्वेन पीडनं क्रियते न तु मध्यमषड्जतन्त्र्योः । शैथिल्यमुपयोगि । गान्धारनिषादोत्कर्षाए(दे)व त- (द)पेक्षस्योभया(यौ) । वंशे तु शरीरैरेव न पूर्वसिद्धा । कैश्चिन्न तन्त्रीष्विव स्वरा अपि तावतैव प्रयत्नेन निष्पाद्येत्यु(द्या इत्यु)त्कृष्ट गान्धारे निषादे हीयमानेऽवश्यं निकृष्टो मध्यमोऽयत्नेन निष्पद्यते । अन्यथा षड्विंशतिश्रुतयो भवेयुः । तेन व्यक्तमुक्ताङ्गुलिस्वरौ अर्धमुक्ताङ्गुलिश्च मध्यम इत्येवमन्तरस्वरो निष्पद्यते । एवं काकल्यामपि वाच्यम् । तदेतदाह । निषादगान्धारकृतौ विकारकरणे षड्जमध्यमयोरपि चेद्विकारस्तत् साधारणं सम्पद्यते । चशब्दोऽप्यर्थे । नत्वेके त्वेकस्मिन् स्वरेण विकरणयोर्द्वयोः किमर्थं विकृतिरित्याशङ्क्याह । न स्वरसाधारणत्वेन तस्य काकल्यन्तरत्वमात्रस्वरद्वयस्य सम्यक् स्थितिर्यतो भवति द्वयोर्विकारः । एतदुक्तं भवति । एतदेव च स्वरसाधारणत्वं यदेतस्माद्रूपाद्ध्वंसनं स्वरान्तररूपोपजीवनमिति ।। ८ ।।
Notes
1विपर्ययः सन्निकर्षे श्रुतिलक्षणसिद्धितः2 ।
वैणकण्ठप्रवेशेन सिद्धा 3एकाश्रिताः स्वराः ।। ९ ।।
यं यं 4गाता स्वरं गच्छेत् तं तं वंशेन वादयेत् ।
शारीर5वैणवंश्यानामे6कीभावः प्रशस्यते7 ।। १० ।।
Abh
ननु समन्द्रमध्यतारविभागः कथम् । ननु च स्वराणां न ह्येकविंशतिरत्र वीणायामिव स्वराः स्थानत्रयं च शरीरवदुपलभ्येतेत्याशङ्क्याह ।
विपर्ययः सन्निकर्ष श्रुतिलक्षणसिद्धितः ।
वैणकण्ठप्रदेशेन सिद्धा एकाश्रिताः स्वराः ।।
इति । सम्भावितस्तावद्वर्णे चाविद्धगतिभावो यावदभ्यासान्तर्गतो धार्यस्तावदन्तस्वरं जनयति । प्रथमं छिद्रकस्य संस्कारमात्रं जायते । न स्वरः । तत्र….वस्थानेन यः स्वरो निष्पद्यते स तावन् मध्यमः । तदाह । सिद्धाः सन्तो ये स्वराः कण्ठाश्रिता मध्यमसप्तकरूपा इत्यर्थः । अत्र हेतुः । वेणुषु प्रधानसप्तककृतेषु मूर्च्छनानिर्देशकारिषु मध्यमेषु कण्ठेषु शारीरेषु मध्यमसप्तककृतेषु प्रदेशादेकीभावापत्तेरेव । वंशे बन्ध इति लक्ष्यवतां व्यवहारः । तारमन्द्रसप्तकं तु कथमित्याह । तच्चासाधारणे स्फुटत्वं तस्य सिद्धिर्यतो भवति स श्रुतिलक्षणसिद्धिः ओष्ठमुद्राविशेषः । तमवेक्ष्यः यो वंशस्य सन्निकर्षो….तेन छिद्रान्तर्गतमावरणं वंशस्य स्वोत्कर्षत्वेन छिद्रस्य स्पष्टत्वं तस्मिन् सति विपर्ययः कण्ठ्यसप्तकान्तर्गतलक्षणमुखसंयोगेन सङ्कटे छिद्रे विकारोदयो विकटेनामन्द्रसम्पत्तिरिति यावतैवं (यावत् । एवं) त्रिस्थानसिद्धिपादे त्रिवंशे । अतः शारीरवैणस्वरविषयलक्षणपोषणमनेन सम्यक् क्रियतात् ।। ९ ।।
यं यं गाता स्वरं गच्छेत् तन्तद्(तं तं) वंशेन वादयेत् ।
शारीरवैणवंशा(श्या)नामेकीभावः प्रशस्यते ।।
गच्छेदिति । यं गमिष्यति यो न च गच्छति स च गतवानिति कालसामान्येन दर्शितम् । अतो वंशस्य प्रदर्शकत्वं पूरकत्वादयो धर्मा दर्शिताः । गातेति । ध्रुवागानस्याप्यत्र प्राधान्येनोपयोग उक्तः । शारीरवैणवंश्यानामिति । तद्धितेनाप्यनावेक्षेऽप्येकत्र स्वरनिष्पत्तिर्दर्शिता । इतरेतरयोगभूतभेदत्वं सूचयता पृथगुपयोगो दर्शितः । तथा च श्रीमन्मतङ्गमुनिना वंशवाद्यस्य स्वरसाम्याश्रयो विनियोग उक्तः ।
अध्वन्यागमने चैव कामिन्या निर्जितस्य च ।
शोकार्तस्य प्रकुर्वीत मध्यमं मृदुमिश्रितम् ।।
Notes
अविचलितमविच्छिन्नं1 वर्णालङ्कारसंयुतं 2विधिवत् ।
ललितं मधुरं स्निग्धं वेणोरेवं स्मृतं3 वाद्यम् ।। ११ ।।
4एवमेतत् स्वरगतं विज्ञेयं गानयोक्तृभिः ।
अतः परं5 प्रवक्ष्यामि 6घनातोद्यविकल्पनम् ।। १२ ।।
इति भारतीये नाट्यशास्त्रे सुषिरातोद्यलक्षणं7 नामाध्ययस्त्रिंशः ।।7a
Abh
शृङ्का(ङ्गा)रे वा वियोक्तव्यमत्यन्तललितं द्रुतम् ।
क्रोधे चैवाभिमाने च स्फुरितद्रुतकन्पितम् ।।
इत्यादि । एकीभाव इति । अनेकरूपस्यैव शारीर्यादिरस्ति रूपस्यैव स्वरत्रयस्य निपुण- निर्मितसचित्रपानगन्धवदेकतयावभास इत्ययं तत्र भावशब्देन दर्शितः । प्रशस्यत इति । दृष्टादृष्टविभवसिद्धिप्रदत्वादिति भावः ।। १० ।।
अथास्य वंशवाद्य (स्य) सर्वथोपयोग इति दर्शयति ।
अविचलितमविच्छिन्नं वर्णालङ्कारसंयुतं विधिवत् ।
अविचलितमिति । स्थिरो ह्यत्र स्वर इत्युक्तम् । अविच्छिन्नमिति । वीणातन्त्रीवद्दुष्प्रहतार्थसम्भावनेन साधारणक्लेशाभावेन् निर्विघ्नम् । वर्णालड्कारः सर्व एव . . . . . शारीरान्तर्गतैः संयुक्तम् । अत एव सर्वान् वाद्याविधीन् तत्त्वानुगतान् लययतिप्रभृतीनर्हतीति विधिवत् । एवं तावद्गीतिभागोऽनेन पूर्यत इत्युक्त्वा हृद्यतमं त्वेतदेवेत्याह ।
ललितं मधुरं स्निग्धं वेणोरेवाश्रितं(वं स्मृतं) वाद्यम् ।
इति । ललितमिति । स्वभावतो हर्षोद्दीपनेन रसचर्वणोपयोगि । मधुरमिति । गात्रप्रयुक्तं परुषमपि स्वरं स्वावस्थापनया हृद्यतामापादयतीति । वेणोरिति सुषिरोपलक्षणम् ।। ११ ।।
अध्यायत्रयार्थमुपसंहरन् भाविना सह सङ्गतिं करोति । एवमेतत् स्वरकृ(ग)तमिति ।
Notes
Abh
शारीरवैणवंश्यादिस्वरा एवेति तैर्गानं स्वरपूरणमिति । स्वरगतस्यैवोपसंहारः । गानप्राधान्याच्च गानयोक्तृभिरित्युक्तम् । रूपे च स्वरे निरूपिते मनस्यनिरूपणावकाश इत्याह । अतः परं घनातोद्यविकल्पनं प्रवक्ष्यामीति शिवम् ।
आक्षेपयोजनवचस्करकल्पमेव
यद्वंशरन्ध्रचरणं तदुपास्य सम्यक् ।
स्पष्टीकृतोऽभिनवगुप्तपदाभिधेन
तस्यैव लक्षणविधिः स गभीरभावः ।। १२ ।।
इति महामाहेश्वराभिनवगुप्ताचार्यविरचितायां भारतीयनाट्यवेदविवृतावभिनवभारत्यां सुषिरातोद्यविधिर् अध्यायस् त्रिंशः ।।