॥ श्रीः ॥
अथैकोनत्रिंशोऽध्यायः1
षड्जोदीच्यवती चैव षड्जमध्या तथैव च ।
2मध्यपञ्चमबाहुल्यात् कार्या 3शृङ्गारहास्ययोः ॥ १ ॥
4षाड्जी 4aत्वथार्षभी चैव स्वरस्वरांशपरिग्रहात्5 ।
6वीररौद्राद्भुतेष्वेते6a (वीरेऽद्भुते च रौद्रे च) प्रयोज्ये7 गानयोक्तृभिः ॥ २ ॥
Abh
॥ एकोनत्रिंशोऽध्यायः ॥
जातिविनियोगकल्पं भूषणवैचित्र्यमपि हि जनयति या ।
वन्दे ततभेदकरीं तां नियतिं शाङ्करीं शक्तिम् ॥ १ ॥
अस्य योनिर्भवेद्गानम् । (भ. ना. २८–१०) इति गानसमन्वयेनास्य गान्धर्वलक्षण– स्यार्थस्यागतत्त्वाज्जात्यात्मको यो गान्धर्वभाग उक्तस्तस्य भागे केनांशेनोपयोग इत्यभिप्रायेणाध्यायान्ते पूर्वमुक्तं यथा यस्मिन् रसे योज्य (याश्च भ. ना. २८–१४१) इति । गान्धर्वशेषतैव चार्थस्य मा सम्भावीत्येतदर्थमध्यायच्छेदः । तथा च वक्ष्यति । एवमेता बुधैर्ज्ञेया जातयो नाट्यसंश्रयाः । (भ. ना. २९. १३) इत्थं नाट्योपयोगिन्य इत्यर्थः । तत्र षड्जग्रामाश्रितास्तावद्रसेषु विनियोक्तुमाह । षड्जोदीच्यवती चैवेति । षड्जोदीच्यवत्या मध्यमेन योंऽशकः षड्जमध्यमायाः षण्(ड्जो)मध्यमपञ्चमाभ्यां ते त्रयोंऽशकाः । शृङ्गारहास्ययोरित्येव मध्यपञ्चमबाहुल्यादिति यथासम्भवं विनियोज्या ॥ १ ॥
षाड्ज्यां षड्जेन योंऽशक आर्षभ्यामृषभेण तौ वीराद्भुतरौद्रेषु । तदाह । स्वरस्वरांशपरिग्रहादिति । स्वो नाम स्वरस्तस्य योंऽशत्वेन परिग्रह इत्यर्थः ॥ २ ॥
Notes
1.N: र. अष्टाविंशातितमः । भ. सप्तविंशतितमः । च. य. त्रिंशोऽध्यायः
1निषादेंऽशे तु नैषादी गान्धारे षड्जकैशिकी ।
करुणे तु रसे कार्या जातिगानविशारदैः ॥ ३ ॥
धैवती धैवतांशे तु2 बीभत्से सभयानके ।
ध्रुवाविधाने कर्तव्या3 जातिर्गाने4 प्रयत्नतः ।4a
[ 5रसं कार्यमवस्थां च ज्ञात्वा योज्या प्रयोक्तृभिः । ]
षड्जग्रामाश्रिता ह्येताः प्रयोज्या6 जातयो बुधैः ।। ४ ।।
अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः7 ।
गान्धारीरक्तगान्धार्यौ8 गान्धारांशोपपत्तितः ।
करुणे तु रसे कार्ये निषादेंऽशे9 तथैव च ।। ५ ।।
मध्यमा पञ्चमी चैव नन्दयन्ती तथैव च ।
10गान्धारपञ्चमी चैव मध्यमोदीच्यवा तथा ।
मध्यपञ्चमबाहुल्यात् कार्याः शृङ्गारहास्ययोः ।। ६ ।।
Abh
निषादिन्या यो निषादांशकः षड्जकैशिक्याश्च गान्धारांशकस्तौ करुणे ।। ३ ।। धैवत्यां धैंवतोंऽशको बीभत्सभयानकयोः ।। ४ ।।
अथ मध्यमग्रामजातीनां विनियोगमाह । गान्धारीरक्तगान्धार्याविति । एतयोर्द्वयोरपि गान्धारनिषादांशकौ करुणे ।। ५ ।।
मध्यमाद्याः पञ्च मध्यमपञ्चमांशकाः शृङ्गारे हास्ये च ।। ६ ।।
Notes
1.N: ड. निषादवत्यद्भुते च निषादांशपरिग्रहात् ।। गान्धारांशोपपत्या च करुणे षड्जकैशिकी ।। र.N: निषादी त्वद्भुते कार्या । भ. परिग्रहे । प. निषादिन्युद्भुते कार्या
कार्मारवी तथा चान्ध्री गान्धारोदीच्यवा तथा ।
वीरे रौद्रेऽद्भुते(तथा) कार्याः षड्जर्षभांशयोजिताः ।
कैशिकी धैवतांशे तु बीभत्से सभयानके ।। ७ ।।
1एकैव षड्जमध्या ज्ञेया सर्वरससंश्रया2 जातिः ।
तस्यास्त्वंशाः3 सर्वे 4स्वरास्तु विहिताः प्रयोगविधौ ।। ८ ।।
Abh
कर्मारव्यादयस्तिस्रो वीररौद्रयोः षड्जर्षभांशकयोर्योगे । कैशिकी धैवतांशा बीभत्सभयानकयोः ।। ७ ।।
अत्र टीकाकारः शङ्कते । योऽयं जात्यंशकानां विनियोग उक्तः स कश्यपमुनिमतङ्गादिभिर्विरुध्यते । तथाहि तैरुक्तम् ।
सम्भोगे चैव शृङ्गारे प्रेङ्खोलितकमेव च ।
कामभूतेषु सर्वेषु कुर्यान् मालवकैशिकम् ।
भिन्नषड्जो मानदैन्ये चैकान्ताजीवितस्य च ।।
इत्यादि । न च ते रसाजातय एतेषु मतेषु । रसेषु विनियुक्ताः । येन विरोधः स्यात् ।
अत्राहुः । कश्यपाद्यैस्तावन् मालवकैशिकादीनां तत्तच्चित्तवृत्या जीवनौचित्यं दृष्ट्वा विनियोग उक्तः । न तस्यानध्यापकत्वादङ्गीकर्तव्यम् । मुनिना जात्यंशकविनियोग आधाराभिप्रायेणोक्तः । तथाहि । यावन्तः परमार्थतः स्वरा इति सप्तचत्वारिंशत् स्वराः । यदाहुः । त्रिरूपविश्वरूपा इति । (३+४४=४७) सङ्क्षेपेण ह्युदात्तातस्त्रय एव स्वराः । विस्तरविवक्षायां तु जात्यंशकग्रामरागभाषादेशीमार्गवैचित्र्येणानन्ता एव स्वराः ।
अन्ये हि षड्जः षाड्ज्यामन्यश्चार्षभ्यां समाने जीविभिः पाणिपादादियोगे यथा स एव चैत्राद(दि)यो (र्यो)ऽश्वपतित्वं महामात्रत्वं सेनापत्यं मन्त्रित्वं पौरोहित्यमिति विचित्रधर्मयोगित्वमुद्वहंस्तत्परिवारमध्यान्निष्क्रान्तोऽप्येकैको विग्रहावस्थितेनाविभिन्नमेवाभिमानं बिभर्ति तद्वत् तत्तदंशकवैचि़त्र्ययोग्यंशस्वर एव केवलो रूपी विचित्राकारः । तथाहि । तुल्ये च श्रुति(त्ये)कत्वेऽन्यादृशो मालवकैशिके षड्जो भाति । टक्करादे त्वन्यादृशः । तथापि वेगस्वरसैन्धवभेदेन भिन्न एवावभाति च । कर्ण्यः
Notes
Abh
षड्जध्वनिमात्रएव(क)श्रुतिष्टक्करागोऽयं सैन्धवो वेगस्वर इति मालवकैशिको वा गीयत इति । सोऽयं सकलकरणोपजीवनप्रतिस्वभावभेदस्य त्र्यंशकस्वर इह वंशो स्थायी तत्र तत्र रसे कर्तव्यो मालवकैशिकादावपि गीयमाने स्मरणानुदय एव । पश्चादिति(दपि) दृष्टतदाधारमभि(मि)माना आधेयस्यापि वैचित्र्यसिद्धिरिति।
उपाध्यायास्त्वाहुः । एवम्भूतस्तावदाधारधेयभावो लक्ष्ये न लक्ष्यते । न च तस्य वैचित्र्यकारित्वं किञ्चिदस्ति । नापि मुनेः कश्यपादीनां वचनमत्र किञ्चिदस्ति । न च नियमादृष्टस्यायं विषयः । तस्मादयमभिप्रायो मुनेः । इह जात्यंशका एव परमार्थतः समस्तगीतसर्वस्वम् । तत्र हि रागभाषादयोऽप्यन्तर्भूताः । न चायं नियमः। एकेनैव जात्यंशकेन भवितव्यम् । अत्रैव रस इति । तथा ह्याह । एकैव षड्जमध्या सर्वरसेषु जातिः । सप्तांशा हि सेति। तत्र यथा मालवकैशिकविनियुक्ते षड्ज(ड्जे)श्च(च) रञ्जनातिशयसिद्धये सैन्धविकाहर्षपुरिकादीनां भाषाणां गानमाविरुद्धम् । तस्मात् तत्र तत्रांशके गीते सति तद्रत्त्क्यतिशयस्वा(स्या)वश्य(श्यं) मालवकैशिकोदेर्गानं भविष्यति रक्त्यतिशययोगात् । अत एव ह्येते ग्रामरागा इत्युक्ताः । ग्रामो हि जातिसमूहस्तस्य सम्बन्धिनो रक्त्यतिशाया इति ।
एतदप्यपरे नानुमन्यन्ते । न हि षड्जोदीच्यवत्या मालवकैशिको हिन्दोलको हि रक्तत्वेन जातिजातः। (सा हि) भिन्नषड्जस्य कारणत्वेनोक्ता । भिन्नषड्जहेतुरपि जातिस्ताभ्यां रक्तिमती सम्पत्स्यते । को विरोध इत्यपरे ।
अन्ये मन्यन्ते । यथा स्थायिसूत्रस्य यदा व्यभिचारिभ्यः सकाशादुद्रेको लक्ष्यते तदा रसदृष्टीनां प्रयोग उक्तः । तद्वज्जात्यंशकानां सञ्चारिभावास्तु व्यभिचारिसम्पाते भावदृष्टीनामिव ग्रामरागादीनामिति ।
युक्त्यन्तरं त्विदं लक्ष्यते । किमनेन तन्त्रान्तरशीले(लने)न । कश्यपादिभिस्तावान् यो(वद्यो)विनियोग उक्तः सोऽप्यत्र । अयमपि मुनिविनियुक्तोऽस्तु । परमतमप्रतिषिद्धमभिमतमिति स्थित्या हि न्यायात् । वैकल्पिकत्वे को विरोधः । प्रत्युत कोहलस्तद्वदिष्यतीति (भ. ना. ३७–१८) सर्वमनुज्ञातमेव मुनिना । एतत्प्रसिद्ध्ये तत्र तत्रोक्तं रक्त्यतिशययोगाच्च । लोके कोहलकश्यपादिमतमेव प्रसिद्धिमुपगमित्यलं बहुना ।। ८ ।।
यो यदा बलवान् यस्मिन् स्वरो जातिसमाश्रयात्1 ।
तत्प्रवृत्तं2 रसे कार्यं गानं (गानं कार्यं) 3गेये प्रयोक्तृभीः ।। ९ ।।
4मध्यपञ्चमभूयिष्ठं गानं शृङ्गारहास्ययोः ।
षड्जर्षभप्रायकृतं 5वीररौद्राद्भुतेषु च ।। १० ।।
गान्धारः (र) सप्तमश्चायं6 (प्रायं) करुणे 7गानमिष्यते ।
तथा धैवतभूयिष्ठं बीभत्से सभयानके ।। ११ ।।
8एकैव षड्जमध्या 9विज्ञेयाऽखिलरसाश्रया जातिः ।
10तस्यास्त्वंशाः सर्वे स्वराश्च विहिताः प्रयोगविधौ ।। १२ ।।
Abh
न चायमेव नियम इति दर्शयितुं समस्तलक्ष्योपसंग्राहकं च सामान्यलक्षणं वक्तुमाह ।
यो यदा बलवान् यस्मिन् सर्वे(स्वरो)जातिसमाश्रयात् ।
तत्प्रवृत्तं रसे गानम् ।। इति
यस्मिन्निति । ग्रामरागभाषादौ । तेनेदमुक्तं भवति । क्वचिद्विशेषविनियोगस्तावदुक्तो यथा मालवकौशिकादौ । तत्रापि सर्वांशकायोगे भाषाद्वारेण भावनेन नियम्यते । एतदुक्तिर्विशेषप्रधानोऽयम(व)लम्बनीयो यथा पञ्चमप्रधानतया सैन्धव्या भाषया शृङ्गारः सम्यगुद्दीपितो भवति मालवकैशिकेनेति ।। ९ ।।
एवं तावद्विनियोगे सति विनियोगशेषोऽयं ग्रन्थो यत्र तु नोक्तस्तत्र जात्यंशकस्वरपर्या– लोचनयाऽभ्यूहनीयो विनियोगः । तेन ककुभश्च करुणे यद्यपि निषादगान्धारप्रधानया भोगवर्धनिकया समुपरक्तोऽसौ सम्यक् करुणमभिव्यनक्ति । तदेतदाह । मध्यमपञ्चमभूयिष्ठमित्यादि । ये त्वेनमग्रग्रन्थ– जातिविनियोगस्य शेषत्वेन व्याचक्षते तैः पौनरुक्त्यं दुष्परिहरम् । तस्य प्रथमए(मे)वोक्तत्वात् ।। १०–११।।
ननु एकैव षड्जमध्या विज्ञेयाऽखिलरसाश्रया जातिः । इत्यार्या पुनरुक्तार्था । नैतदिदं ह्यनयोच्यते। जातिभिः सर्वं व्याप्तम् । जातयश्च सर्वाः षड्जमध्यमायाम् । तथाहि । षड्जग्राममध्यमग्रामयोर्ये– (या)प्रधानभूते(ता)आद्यजातीनां या चेयद्भूतेति सर्वस्वरांशा तदेवास्यामंशाः । एतेन यावत् किञ्चिद्रक्तिसर्वस्वं
Notes
1सर्वेष्वंशेषु रसा 2नियमविधानेन सम्प्रयोक्तव्याः ।
काकल्यन्तरविहिता विशेषयुक्तास्तु(श्च) बलवन्तः ।
एवमेता बुधैर्ज्ञेया जातयो3 नाट्यसंश्रयाः ।। १३ ।।
Abh
संसारेऽस्ति तत्तत् षड्जमध्यमायां पिण्डीभूतमिति तदंशकेष्ववधातव्यम् । रक्तिलाभे सर्वे स्वराश्च विहिताः प्रयोगविधाविति विन्यासादिभावेन चेत्यर्थः । किञ्च ये केचित् प्रयोगस्य गेयस्य विधौ प्रकारभेदे गीतिसप्तके ते स्वरा(के स्वरा)स्तेऽस्यामेव जातौ विहिता एकीकृता इत्यर्थः ।। १२ ।।
यदि नामास्यां जातावपि पिण्डीभूतः सर्वप्रयोगस्ततः प्रकृते किमित्याशङ्क्याह । सर्वेष्वंशेषु रसा नियमविधानेन सम्प्रयोक्तव्या इति । षड्जमध्यमयोः सम्बन्धिनो येंऽशकास्तेषु सर्वेषु रसा यथोचितं सम्यक् प्रयोक्तव्याः ।
काकल्यन्तरविहिता विशेषयुक्ताश्च बलवन्तः ।। इति ।
स्वरविशेषः(ष)षड्जमाश्रित्य बलवत्त्वम् । काकल्यन्तरयोरपि न प्रयोगमात्रमादरणीयमपि तु बलवत्त्वमेव । जातीनां नान्योपयोगं कथयन् रसादियोगे जातीनामनुद्दिष्ट एव किमिति कथित इत्याशङ्कां शमयति ।
एवमेता बुधैर्ज्ञेया जातयो नाट्यसंश्रयाः ।। इति ।
इत्थमेता नाट्योपयोगिन्यो ध्रुवागानोपयोगदिशोत्यर्थः ।। १३ ।।
तत्तल्लक्ष्यप्रबन्धगानोपयोगि कश्यपाद्युद्दिष्टं विनियोगजातं कथ्यते ।
ध्रुवागानन्निजावेशे त्यक्ते निष्कलधीजुषाम् ।
सामाजिकानां हृदये सङ्क्रामेत् प्रस्तुतो रसः ।। १ ।।
तत्र शुद्धरसेनोक्ता भाषा रक्त्यंशसम्भवात् ।
अतोऽनुल्बचिद्वृत्तौ सन्धिशेषे नियोज्यताम् ।। २ ।।
मुखे तु मध्यमग्रामः षड्जः प्रतिमुखे स्मृतः ।
गान्धारो गर्भसन्धौ स्यादवमर्शे तु पञ्चमः ।। ३ ।।
कैशिकः स्यान्निर्वहणे प्रशस्त्यन्ते तु मध्यमः ।
षाडवः पूर्वरङ्गे स्याद्विष्णोर्ग्रामद्वयं विदुः ।। ४ ।।
Notes
1[ पाठ्य2प्रयोगविहितान् स्वरांश्चापि3 निबोधत ।
4हास्यशृङ्गारयोः कार्यौ स्वरौ मध्यमपञ्चमौ ।
षड्जर्षभौ च कर्तव्यौ5 वीररौद्राद्भुतेष्वथ ।।
गान्धारश्च निषादश्च 6कर्तव्यौ करुणे रसे 7 ।
धैवतश्च 8प्रयोगज्ञैर्बीभत्से सभयानके ।। ]
Abh
गौर्यास्तु पञ्चमं कुर्यात् साधारं स्कन्दसूर्ययोः ।
मध्यमं कैशिकं विद्यात् साधारं च भयानके ।। ५ ।।
ललित(तादि)रियं शुद्धा गीतिः स्यान्नाट्यवृत्तयोः ।
दैन्यावमानभूयिष्ठे रसे षड्जो विधीयते ।। ६ ।।
कामिनीजनितेऽस्यापि भाषास्तदव्यभिचारिषु ।
शुद्धावहित्थे गोप्यत्वे दाक्षिणात्या सधैवते ।। ७ ।।
चिन्तायां कणिकौत्सुक्ये पौराली धूर्तजालिके ।
बाङ्गाली खेदप्रणययोः सैन्धवी तापसाम्बरे ।। ८ ।।
कालिन्दी सम्मदे कुत्से पुनिन्द्यात्मप्रवासिनि ।
त्रावणी शोकभूयिष्ठे षड्जाख्याऽतीतसम्मदे ।। ९ ।।
मालवी गुर्जरी चाथ चिन्ताप्रशमयोः क्रमात् ।
मतिधृत्यवहित्थेषु गीयते बाह्यषाडवा ।। १० ।।
कौसला कौशले कुर्याद्गान्धारी षड्जवर्जिते ।
मृदौ सौवीरललिते लालिते लवितासमे ।। ११ ।।
तुम्बुरावश्यकैशिक्यौ गा(क्योर्गा)न्धारललिता भवेत् ।
कर्णाटी बन्धनिर्विण्णा(ण्णे) चित्रकर्मणि वा भवेत् ।। १२ ।।
कालिङ्ग्यमर्षावेशे तु लिङ्गिनां कपटात्मनाम् ।
मध्यमा स्मृतिशङ्कासु निर्विण्णे पार्वती भवेत् ।। १३ ।।
Notes
Abh
निषादिनी विमोहादौ भिन्नषड्जे गणस्त्वयम् ।
स्थापकीये सभोत्साहे भिन्नपञ्चम उच्यते ।। १४ ।।
सम्भ्रमे नर्तरागस्य मले(दे) कैश्चिदथाद्भुते ।
श्रमाद्यसूयामर्षेषु शुद्धाभिन्नां(न्ना) नियुञ्ज(ज्य)ते ।। १५ ।।
वराटी वर्षसंवेगविस्मयेषु विधीयते ।
धृतिस्मृत्यवहित्थेषु भवेद्धैवतभूषिता ।। १६ ।।
आलस्यदैन्यमोहेषु विशाला व्रीडितेऽपि च ।
गर्वौत्सुक्यवितर्केषु दृढमापरिगीयते ।। १७ ।।
त्रासशङ्कासम्भ्रमेषु कौसल्या विनियुज्यते ।
बाङ्गाल्यमर्षवेगेषु धृतिस्मृतिषु च स्मृता ।। १८ ।।
उत्तमे करुणे भावे सू(त) ये व्यभिचारिणि ।
कार्यान्तरा (तुरोद्) भूते भाषा कामोद्भवा मता ।। १९ ।।
छन्नेऽभिलाषे शृङ्गारे वीरे धर्मात्मके तथा ।
कृतकर्तव्यतायां च कर्तव्यो भिन्नकैशिकः ।। २० ।।
दृढौचित्याद्भुतोत्साहे भिन्नकैशिकमध्यमः ।
अनयोर्भिन्नयोर्बालाकैशिक्यै व्यभिचारिणी(णि) ।। २१ ।।
सूक्ष्मवक्त्रा स्वरैर्जात्या श्रुत्या भिन्ना निरुपिता ।
अतत्स्वभावो यो रौद्र उत्साहो धर्मवर्जितः ।। २२ ।।
गौडपञ्चमिच्छन्ति तत्रैके कश्यपादयः ।
चिन्तादैन्यधृतिश्रद्धामर्षादौ द्रामिडी स्मृता ।। २३ ।।
दुःखे दुरन्तेष्वभये पताकादेर्नियुज्यते ।
गौडकैशिकमेकस्य भाषां तन्नामिकामपि ।। २४ ।।
भयानके मध्यमः स्याद्भिन्ना चोत्साहयोगिनि ।
नन्दयन्तीव तद्भाषा भवेत्तु व्यभिचारिषु ।
गौडगीतिरियं प्रायो वेगस्वरविचित्र(त्रि)ता ।। २५ ।।
टक्करागस्तु कर्तव्यो रसयोर्वीररौद्रयोः ।
दीप्ते च हृदयेऽस्यार्धं स्याद्गाढविषयेऽपि सः ।। २६ ।।
Abh
हर्षे वाऽप्यथ चिन्तायां त्रवणा त्रवणोद्भवा ।
वैरञ्जिका हिता वन्ध्या छेवाडी रणकल्पने ।। २७ ।।
मालवेसरिका कार्या समराङ्गणकल्पने ।
गुर्जर्यमर्षावेगेषु सौराष्ट्री निष्ठुरात्मके ।। २८ ।।
सैन्धवी परितोषे स्याद्वैरस्ये वेसरी मता ।
पञ्चमाख्या विहसिते रविचन्द्रा विषादिनि ।। २९ ।।
अम्बाभे(ही)री मदोन्मादे ललिता दर्पविप्लवे ।
कोलाहलिः कलकले मध्यमग्रामिका धृतौ ।। ३० ।।
शङ्कासूयाश्रमे भाषा गेया गान्धारपञ्चमी ।
धृते(ता)वेता मतिस्मृत्योः स्याद्दिवाकरवर्धिनी ।। ३१ ।।
पौराली दीप्तभावेषु सादृतौ(त्वते)तानतूलिका ।
महानिर्वेदभावानां……………….।। ३२ ।।
चिन्ताविषादनिर्वेदे शार्दूली शोकसंश्रया ।
जये हर्षे वितर्के च मालवी परिगीयते ।। ३३ ।।
स्वाध्यायादिप्रसक्तेषु तद्भावस्थे च गीयते ।
सौवीरी मतिधृत्योस्तु सौवीरी वेगमध्यमा ।। ३४ ।।
साधारिता च हर्षे स्यादगान्धारी शोकचिन्तयोः ।
आभिलाषिकशृङ्गारे मध्यस्थे हृदयेऽथवा ।। ३५ ।।
संसार(वि)तथा(ता)वाथ गेयो मालवपञ्चमः ।
निर्वेदग्लाविशङ्कासु भ्रमे वा भेरिका भवेत् ।। ३६ ।।
आवेगशस्त्रसामर्षगर्वौग्र्ये भावनी मता ।
पाङ्काली च मदोन्मादे सैन्धव्यौत्सुक्यनिद्रयोः ।। ३७ ।।
गुर्जरी धृतिहर्षादावन्धाली मदवृद्धिषु ।
कामावस्थां दाक्षिणात्या सर्वामुद्दीपयेत् किल ।। ३८ ।।
श्रान्तावहित्थमतिषु तर्के तानोद्भवा मता ।।
त्रवणी मदनावस्था शोकोत्कण्ठासु कथ्यते ।। ३९ ।।
Abh
नीचानां मदशङ्कोग्यगर्वालस्येषु कौशिकी ।
करुणे दैन्यभूयिष्ठे आहुर्वेदवतीं बुधाः ।। ४० ।।
पौराल्यध्वश्रमे हर्षे गर्वे त्व(त्वा)न्ध्रीं प्रचक्षते ।
औग्र्येक्रोधे च गान्धारी सङ्गमे च विभाविनी ।। ४१ ।।
भिन्नकैशिकमध्यस्य स्थाने वेसरषाढ(ड)वः।
पुष्पमोक्षे चावहित्थवृत्त्यादौ बाह्यषाढ(ड)वः ।। ४२ ।।
रवान्धा हास्ययोगे तु म(मा)ङ्गल्ये वोट्टरागतः ।
मङ्गलाख्योत्सवे हर्षे रागशोभाविधायिनि ।। ४३ ।।
रतेः कामदशानां वा भिन्नत्वे टक्ककैशिकः ।
भिन्नषड्जस्य वा स्थाने चिन्ताव्रीडासु मालवी ।। ४४ ।।
अन्ये तु कथयन्त्येनां चेटिकाशबरादिषु ।
रोषे स्यात् कैशिकी बन्धे भये स्याद् द्रामिली शुचिः ।। ४५ ।।
विप्रलम्भे कामदशायोगे मालवकैशिकः ।
शुद्धा स्याच्छुद्ध(गान्धारी)पौराली शोकगोचरे ।। ४६ ।।
हर्षे हर्षपुरी ख्याता चिन्तायामर्धवेसरी ।
जुगुप्सायां तु पाङ्गाली सैन्धवी मोहगोचरे ।। ४७ ।।
नर्मस्फञ्जे(स्पन्दे)ऽपि चाभीरी खञ्जनी गीयते शुचिः ।
अमर्षे गुर्जरी रौद्रे कैशिकी च सुरार्चने ।। ४८ ।।
धृतौ मतौ श्रमे पोता स्यात् सिन्धुवनिता भये ।
शार्दूली यज्ञकर्मादौ धृतिस्मृतिमतिष्वपि ।। ४९ ।।
प्रेङ्खा सम्भोगश्रृङ्गारे विदूषकपरिक्रमे ।
आवेगे वेसरी दैन्यचिन्तयोश्चूतमञ्जरी ।। ५० ।।
औत्सुक्ये विश्रमे खेदे छेवाडीं सम्प्रयोजयेत् ।
षड्जमध्यमिका हर्षधृत्योर्मधुरिका तथा ।। ५१ ।।
शोके च हविचन्द्राख्या मदोन्मादेषु पिञ्जरी ।
व्रीडायां भिन्नवलिता चापले च विधीयते ।। ५२ ।।
Abh
कर्तव्या भिन्नपौराली हासासूयावितर्कगा ।
द्राविडी स्यात् परिभ्रष्टे पार्वत्युत्साहहर्षयोः ।। ५३ ।।
अष्टधा रागगीतिः स्याद्दोषाला(दा)वित्यजीविता ।
शोकेऽवेक्षे तु ककुभो धृतौ काम्भोजिका मता ।। ५४ ।।
मध्यमग्रामिका गर्वे चिन्तालस्येषु माधुरी ।
सालवाहनिका चिन्ताश्रमक्षीबेषु गीयते ।। ५५ ।।
भोगवर्धनिका शोके दैन्ये निर्वेदचिन्तयोः ।
निद्रोन्मादजडत्वेषु साकाङ्क्षे वलिता तथा ।। ५६ ।।
भिन्नपञ्चमिकां कुर्यात् स्मृतौ धृत्यवहित्थयोः ।
भोगवर्धनिकास्थाने मदे वाऽऽभीरिका भवेत् ।। ५७ ।।
विषादचिन्तानिर्वेददैन्यखेदप्रजागरे ।
उरगन्ती च पौराल्या धीवराद्य(ह्य)वहित्थगा ।। ५८ ।।
प्राकृतेषु सचिन्तेषु गातव्या शकमिश्रिता ।
उक्ते रहुदिक(रहसि च)स्थाने योज्यते किरणावली ।। ५९ ।।
रेचयन्ती बन्धुवदे(धे) विच्छदे प्रयबान्धवे ।
ललिता धैर्यगाम्भीर्ये हर्षे बाङ्गालकेसरी ।। ६० ।।
नर्तरागमिहेच्छन्ति यत्र मालवकैशिकः ।
ककुभो वा दैन्यचिन्तालस्यमोहेषु नर्तकी ।। ६१ ।।
वीराभासे तु हास्येन निर्वाहे शक इष्यते ।
शङ्कावहित्थनिर्वेदश्रमे तद्वलिता स्मृता ।। ६२ ।।
नारीलास्यदिदृक्षायामाहुः पञ्चमषाढ(ड)वम् ।
अस्ये(स्य) भाषे(षा) रेवगुप्ता शकस्याथ स्वतन्त्रका ।। ६३ ।।
रागो हर्षमदोत्साहधृतिस्मृत्यादिगोचरः ।
मार्गभ्रष्टेऽथ बीभत्से नीचे भम्माणपञ्चमः ।। ६४ ।।
श्रमशङ्कावितर्केषु कार्या मध्यमभूषिता ।
रूपसाधारितष्टक्करागस्थाने स्वरूपतः ।। ६५ ।।
Abh
गान्धारपञ्चमः सा च नीचस्याद्भुतहास्ययोः ।
बीभत्से हास्यवीरोगे कर्तव्यः षड्जकैशिकः ।। ६६ ।।
चिन्तावितर्कयोः सा स्यात् स्त्रीणां मालवपञ्चमा ।
औत्सुक्ये प्रोषिते पत्या शङ्कासूयासु भावनी ।। ६७ ।।
इति साधारगीतिः स्यात् सर्वगीतिविमिश्रणात् ।
भूयस्त्वल्पत्वतो भाव(वो)व्यभिचारिगतो भवेत् ।। ६८ ।।
गानं रसेषु यत्रोक्तं विषयस्यैकतास्थितिः ।
ध्रुवादौ मध्यमग्रामषड्जौ षाडवपञ्चमौ ।। ६९ ।।
गान्धारमध्ये कैशाख्या पगौ गान्धारपञ्चमः ।
सूर्ये सौवीरकश्चण्ड्याः कैशिकः पञ्चमेऽपि ह ।। ७० ।।
सर्व एव सुरारातौ भवेन् मालवकैशिकः ।
सर्वे रागा महादेवे सम्यक् सन्तोषपोषकाः ।। ७१ ।।
गीती(तिः)साधारगौडीये नाट्ये तु प्रहरद्वये ।
भिन्ना न चरमे सैव पूर्वस्मिन् न तु जातुचित् ।। ७२ ।।
नाट्यादभावात्तानः स्यादमङ्गलतमो ह्यसौ ।
चरमे रागगीतिः स्यान् नाट्ये न नियमः स्वयम् ।। ७३ ।।
प्रेङ्खोलितो वसन्ते स्यात् तथा मालवपञ्चमा(मः ) ।
टक्करागो गौडककुभो भिन्नषड्जोऽथ कैशिकः ।। ७४ ।।
भिन्नपञ्चमकश्चेति ग्रीष्माद्यृतुषु संमता(ताः) ।
इत्येष कश्यपाद्युक्तो विनियोगो निरूपितः ।। ७५ ।।
ननु शान्तरसे न केनचिदंशकेन गानुमुक्तम् । विस्मरणशीलोऽसि । स्मर्यसे(ते) । उक्तं हि । न शान्तरसप्रधानता प्रयोगस्य भवति । सतोऽपि हि रसान्तरोपरक्त एव प्रयोगयोग्यो नान्यथेति । एवं विनियोगजात्यंशकानभिधायाधुना वक्तव्यान्तरं वक्तुमुपक्रमते । अत ऊर्ध्वं प्रवक्ष्यामि वर्णालङ्कारलक्षणम् । इति ।
1अत ऊर्ध्वं प्रवक्ष्यामि 2वर्णालङ्कारलक्षणम् ।
3आरोही चावरोही च 4स्थायिसञ्चारिणौ तथा ।
वर्णाश्चत्वार एवैते 5ह्यलङ्कारास्तदाश्रयाः ।। १४ ।।
Abh
ननु वर्णादेर्जातिशरीरानुप्रवेशाज्जातिलक्षण एव निरूपणं युक्तं दृश्यते । लब्धात्मलाभस्य हि विनियोगो युक्तः । दशलक्षणादपि वा पूर्वं विनियोगो वक्तव्यः । विनियुक्तस्य लक्षणमित्यपि दृश्यते । पृष्ठे तु तदभिधानमयुक्तमिव । उच्यते । जातिर्नाम स्वरसमूहमात्रम् । पदसम्बन्धाधीनस्तु वस्तुवर्णव्यवहारः । तदायत्ताश्चालङ्काराः । न चार्थविशेषाभिधायिना पदेन सम्बन्धो विनियोगमन्तरेण भवति ।
नन्वेवं न्यासापन्यासावपि तत्रावाच्यौ । तयोर्हि समस्तविद्यासमाप्तिः । असाववान्तरविदारी समाप्तिश्च स्थानम् । विदारी चावान्तरपदसमूहविच्छेदरूपा । यद्येवमत्स(ल्प)त्वमिदुमुच्यते । ग्रहांशादयोऽपि पदापेक्षा एव । तर्हि गीयमानपदाभावे कश्चिदपि स्वतः स्वरोपयोगोऽस्ति गाने गान्धर्वे वा । समवाये गान्धर्वमिति विशाखिलाचार्यः । तस्मात् पदसम्बन्धः सर्वत्र प्रयोजकः । किं तु वर्णो नाम पदसम्बन्धमन्तरेण लक्षयितुमेव न शक्यते । तथाहि वक्ष्यते । पदं लक्षणसंयुक्तमिति (भ. ना. २९. १८)। ग्रहादयः स्वरारम्भबाहुल्यतरा वा हीनत्वसमाप्तिलक्षणाः । तथा च पदनिरपेक्षेऽप्यन्तरालापादावपि भवत्येव तौर्विना जात्यंशका रागस्वरूपमेव न किञ्चिदुन्मूलयन्ति । अलङ्कारस्तु परमार्थतः पदग्राम्यैवालङ्कार्यत्वादंशकयोगाद्धि गीयमान एव सम्पद्यते । अर्थयोगादिव सार्थकं वृत्तबन्धयोगादिव च श्रव्यं प्रसन्नादिप्रभृत्यलङ्कारसम्बन्धातु तदेव गृह्यतममित्यलङ्कृतं सम्पद्यते । उपमानप्रसादिकायोगादिवालङ्काराणां च ( जीवभावः प्रसन्नादिभावे) नाश्रयो वर्ण इति पदाधीनस्वभावत्त्वादेषां विनियोगानन्तरमेव युक्तमभिधानम् ।
टीकाकारास्त्वाहुः । आश्रयस्वरस्वरूपेण जातीनां गान उपयोगो न तु रक्तिसम्पादकत्वेन । तत्तु ग्रामरागाणामेव । तेऽप्यन्यैरेवोक्ता इति न मयोच्यत(न्त) इति । मण्डपो दीपयोगी वास्तु……….वदित्यत्रार्थे ज्ञापकमिदम् । वाक्यानां पश्चादभिधानम् । एतच्च पूर्वमेव विचारितमित्यास्ताम् । एतच्च (वं च) क्रियाविस्तारवाची वर्णशब्दः । तथाभिनयक्रिया एकस्वरमात्रावस्थानेन वा आरोहणेन वा अवरोहणेन वा व्यामिश्रतया वा सम्पद्यत इति चत्वार एव वर्णाः । (तदधिका) न भवन्ति । तदाह । आरोही चेत्यादि अलङ्कारा–
Notes
1.N: र. अर्थ वर्णाः
1आरोहन्ति स्वरा यत्रारोहीति स तु संज्ञितः2 ।
3यत्र चैवावरोहन्ति4 सोऽवरोही प्रकीर्तितः5 ।। १५ ।।
5aस्थिराः स्वराः समा यत्र स्थायी वर्णः स उच्यते 6।
सञ्चरन्ति स्वरा यत्र स सञ्चारीति कीर्तितः7 ।। १६ ।।
शारीरस्वरसम्भूतास्त्रिस्थानगुणगोचराः ।
चत्वारो लक्षणोपेता वर्णास्तत्र8 प्रकीर्तिताः ।। १७ ।।
Abh
स्तदाश्रया इत्यन्तम् । सामान्यमेवाश्रयमित्युक्तं पूर्वमेव बुद्धावाश्रीयमाणत्वात् । एकस्वरेणैव गायामीति यावत् स्वरविशेषान् स्रग्धरायां गायामीत्यभिसन्धाय गायन् प्रयोक्ताऽलङ्कारान् प्रयुङ्क्ते तावत् । स्वरालङ्कारेषु यत् सामान्यं स वर्णः । तेनारोहणावरोहणावस्थानसञ्चरणान्येव परमार्थतो वर्णः । तद्योगात्तु गीयमानं पदमपि वर्णक इत्युच्यते ।। १४ ।।
तदभिप्रायेणैव आरोहन्ति स्वरा यत्रेति लक्षणम् । तुरवधारणे । आरोहन्त्येव न त्ववरोहन्ति । आरोहण एवावरोहणमिश्रीभाव एव गान्धारः स्यात् । एवमवरोहन्त्येवेति ।। १५ ।।
समा इति तुल्यजातीयाः । तेन मन्द्रतारमध्यमरूपतया तस्यैव स्वरस्य प्रयोगः । स्थाय्येव वर्णः । विच्छिद्य विच्छिद्य पुनः प्रयोगः कर्तव्यो न तु दीर्घदीर्घेणाविच्छेदेन घण्टास्वनवदिति दर्शयितुं स्वरा इति बहुवचनप्रयोगः । स्वरा उपस्वराश्चेति सर्वैकशेष इति केचित् । एतत्तु गान्धारिण्यक्त– स्वरद्वयमप्यारोहणावरोहस्थिरत्व(तद्)व्यतिरेकेण कथं प्रतियोज्यम् । अलङ्कारविशेषयोगेनाप्य– लङ्कारगमनमेकस्वरायत्तमेव ।। १६ ।।
नन्वारोहणावरोहाभ्यां तारमन्द्रस्वीकारस्तावद् दर्शितः । कण्ठ्यस्वरस्वीकारस्तु कथमित्याशङ्कयाह ।
शारीरस्वरसम्भूतास्त्रिस्थानगत(गुण)गोचराः ।
चत्वारो लक्षणोपेता वर्णाः ।। इति
एतदनेनाह । नात्रारोहणं शिरस्यस्वरनिष्ठमेव लक्षितमवरोहणं वाऽवकृष्य(ष्ट)स्वरनिष्ठम् । किञ्चैकैके तस्यैकविषयतामाह । त्रिस्थानेति । त्रिषु ये गुणा गुण्यमाना उच्चार्यमाणानि स्थानानि वा गुणाश्रया येषामिति
Notes
1एवं (पदं)लक्षणसंयुक्तं1a यदा 2वर्णोऽनुकर्षति ।
तदा वर्णस्य निष्पत्तिर्ज्ञेया स्वरसमुद्भवा3 ।। १८ ।।
Abh
स्वरास्ते गोचरो विषयो येषाम् । न त्वारोहणावरोहणे एकतन्त्रिकायां वीणायां बहुतन्त्रिकायां वा विपर्यये वंशे च । अत एव न संवेद्येते मल्लकवीणादौ न च भवतः । तत्र वर्णसङ्करोपलम्भः । तत् कथमिदं लक्षणमित्याह । शारीरस्वरसम्भूता इति । शारीरस्वरेषु मुख्येष्वाश्रितेषु लक्षणमिदमुक्तम् । तत्सदृशस्वरोपलम्भ एवान्यत्र वीणादाविति तत्रापि पर्यवस्यतीति न तु वीणादावलङ्काराभावः । अत एवोक्तम् ।
शारीर्यां त्वस्फुटा ये तु दारव्यां ते व्यवस्थिताः ।
दारव्यां चलिता ये तु शारीर्यां ते सुनिश्चलाः ।।
इति ।। १७ ।।
नन्ववधिविशेषश्चेदारोहणादौ त…….कश्चित्तदा सर्वत्र सर्वं स्यात् । यथाऽऽरोहणेऽप्येकत्र स्वरेऽवस्थानमवश्यम्भावीति स्थायित्वसम्भवः । एवमन्यत्रापि वाच्यमिति स्वरसाङ्कर्यमित्याशङ्क्यावधिनियमार्थं वर्णशद्बस्य च निरुक्तख्यापनार्थमेकबुद्धिग्राह्यत्वे च निमित्तमाह ।
एवं (पदं) लक्षणसंयुक्तं यदा वर्णोऽनुकर्षति ।
तदा वर्णस्य निष्पत्तिर्ज्ञेया स्वरसमुद्भवा ।।
इति । विविक्षितसंज्ञानिर्देशो लक्षणसंयुक्तवचनेन दीर्घेऽपि समासपदे भागशः पदनियममाश्रित्यावधिनियम इति दर्शयति । सकललोकप्रसिद्धमेव तदेवोपलक्षणं ग्राह्यमिति लक्षणसंयुक्तवचनेन सूचयन् कृष्टादिष्विति पदलक्षणं पराकरोति । अनिट्ट्वन्तं (सुप्तिङन्तं) पदं विभक्त्यन्तं पदमिति हि तत्र प्रसिद्धम् । तेन पदमेकं यदा यतो वर्णगीतिक्रियाऽनुकर्षति दीर्घकालं करोति तदा ततो वर्णस्तस्यैकस्य सङ्कीर्णस्य निष्पत्तिः । तेनावधिनियमादसङ्कीर्णत्वम् । यतश्च पदं कर्षति विस्तारयति ततो हेतोर्वर्णस्येति वर्णसंज्ञाया निष्पत्तिरिति निरुक्तम् ।
यद्यपि चोच्चारितः प्रध्वंसितः स्वरो न सञ्चयेन वर्तते येन तद्विषय एकोऽयं वर्ण इति धीः स्यात् । तथाप्यथै(र्थै)कत्वादिना निमित्तेनैकधीरोपकं पदं यतोऽनुकर्षति तत एकपदनिष्ठत्वाद्धेतोरेकानुच्छ्वासनसामान्या
Notes
एते वर्णास्तु 1विज्ञेयाश्चत्वारो गीतयोजकाः2 ।
3एतान् समाश्रितान् सम्यगलङ्कारान् निबोधत ।। १९ ।।
4प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च ।
प्रसन्नमध्यश्च तथा क्रमरेचित एव च ।।
5प्रस्वा (स्ता)रश्च प्रसादश्च सप्तैते स्थायिवर्णगाः6 ।। २० ।।
Abh
एकादिनिष्पत्तिधीरनेकस्वरविषयाऽपि न वि (रु)ध्यति(ते) । तदाह । स्वरसमुद्भवा निष्पत्तिरिति । स्वराः केवलास्तेभ्य उद्भूताः स (रिगादय इ)त्या (द्या) वर्णस्य निष्पत्तिरित्यर्थः । मा (प्रा)दीनां च निपातानां पदत्वमेव स्वरलाभादिषु तु यद्वर्णतालङ्काराणां स्वरूपनिर्धारणं तत्पदगतदर्शनं संस्कृतस्वरकल्पानुकृतं श्वासविरामकृतविच्छेदा(र्पणादि)गतं चेति ।। १८ ।।
एतदुपसंहरन्नन्यदासूत्रयति । एते वर्णा इति । तुः समुच्चये । वि………(यागादिषु) तानप्रयोगे वर्णाः सर्वे एवं भवन्ति । तदलङ्काराः सर्वे इति भावः । एतेषामेव भवन्ति । एवकारेण वर्णालङ्काराणामन्योन्यमव्यभिचारो दर्शितः । सम्यङ्निबोधतेति । स्वराणा (वर्णाना)मुपयोगः कार्योऽलङ्कारवत् तेषामियत्ता नियमेनाभिधातुमशक्यत्वाद् वर्णोत्पत्यैव च तेषां परमार्थतः ख्यापनान् मया यथापि सर्वे न लक्षितास्तथापि शास्त्रान्तरवक्ष्यमाणनिरुक्तपरस्यसों(स्यो)पायेनैनाञ्जानीतेत्यर्थः ।। १९ ।। तान् वर्णविभागेन प्रदर्शनार्थमुद्दिशति ।
प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च ।
प्रसन्नमध्यश्च तथा क्रमरेचित एव च ।
प्रस्तारश्च प्रसादश्च सप्तैते स्थायिवर्णगाः ।।
इति । प्रसन्नत्वं मन्द्रभावः । तत्र बिन्दुर्लोकेऽभिज्ञानम् । तारत्वे रेखोर्ध्वा शिरोगता । सा सा इति । अत्रैव यदा षड्जस्यैवोपक्रमसङ्कराभ्यां प्राधान्यं मध्ये तु स्वरान्तरानुप्रवेशो भवन्नपि न स्थायिवर्णधियं बाधते तदालङ्कारान्तराणि । सम्प्रति संक्रमेणात्र तारगतेरसंक्रमो रेचितः । अयं प्रस्तारः प्रकृष्टशब्दस्तारता यत्रेति ।
Notes
1अथ सञ्चारिजान् भूयः कीर्त्यमानान्निबोधत ।
2मन्द्रस्तथा प्रसन्नादिः प्रेङ्खितो बिन्दुरेव च ।2a
3सन्निवृत्तः प्र (त्तप्र) वृत्तश्च रेचितः कम्पितः समः ।। २१ ।।
कुहरश्चैव वेणुश्च रञ्जितो ह्यवलोकितः 4 ।
5आवर्तकः परावृत्तः सञ्चारिण्यश्चतुर्दश5a ।। २२ ।।
Abh
अयं मन्दश्रुत्या प्रसादयति प्रक्र(सा)मो(दो)ऽस्ति । अयं स्वराणां संख्यायां चाक्रमत्वे यद्यपि भेदजातं सम्भवति संक्रमसंसृष्टादिवत्त्वे भेदानामसंख्येयता । अत एवालङ्काराणामनियम इत्युक्तम् ।। २० ।।
मन्द्रस्तथा प्रसन्नादिः प्रेङ्खितो बिन्दुरेव च ।
सन्निवृत्तप्रवृत्तश्च रेचितः कम्पितः समः ।
कुहरश्चैव वेणुश्च रञ्जितो ह्यवलोकितः ।
आवर्तितः(र्तकः) परावृत्तः सञ्चारिण्यश्चतुर्दश ।।
(इत्यादि) । मन्द्र इति । मन्द्रो येषां यस्य मध्ये तेषां तस्य ग्रहणम् । प्रसन्नादिरिति । आदिशब्दो(द्ब उ)– पादानपदम् । प्रेङ्खितो तो (दो)लाबन्धवत् । तैले बिन्दुः । चिरकालमवस्थाने स्वरान्तरोपरञ्जकस्तैलबिन्दुवत् प्रसरणात् । निवर्तनमवरोहः । सम्यगिति दूरम् । अवरुह्य यदारोहणं तदा य (स)न्निवृत्तप्रवृत्तः । यद्यपि चैवं तेऽलङ्काराः पत्रर(यत्र वि)हितास्तत्त्वेन भाति(न्ति) तथापि प्रतीतस्य गीतसमयप्रविष्टस्याभिज्ञानदानार्थं लिखिताः । रेचितकम्पितकुहरास्तु शिरोवक्षः कण्ठनिविष्टस्य त्रिःश्रुतेः स्वरस्य कम्परूपा इत्यभिज्ञानेनापि दर्शयितुमशक्या इति न विलिखिता इति । यत्रारोहणमे (मि)वावरोहणं च समं स समः । काकल्या यद्गीतवद् गीतं मुक्तकण्ठं तत्र वेणुः । अन्ये तु सौषिर्येण छिद्रोपलक्ष्यान् मध्ये ।।०२३७चित्रं हृद्यं च विच्छेदरूपं तद्वेणुरित्याहुः । यथा (दा) जातिषु मध्ये द्विश्रुतिसूचितान्त इति लिख्यते (तदा) रञ्जितः । यदा स्वरान्तरमुच्चारितमप्यूर्ध्वाधारस्वरतां नानुरक्तं प्रतीयते तदाऽवलोकितः । यत्र विद…….तत्राप्यवलोक एव । आसमन्ताद्वर्तमानादावर्तकः । अस्यैवालङ्कारान्तरप्रायोविच्छिन्नस्यापि पुनः प्रयोगे परावृत्तिः । अत्र चालङ्कारचतुर्दशके विशेषो द्विरूपो वर्णानुगस्थित्यारोहणादवरोहणनियमाभावात् ।। २१-२२ ।।
Notes
1aनिष्कर्षोऽभ्युच(च्च)य1 श्चैव हसितो बिन्दुरेव च ।
2aप्रेङ्खोलितस्तथाक्षिप्तो 2विस्ती (शी)र्णोद्ध (घ)टितस्तथा ।। २३ ।।
3ह्नादमानः सम्प्रदानः 3aसन्धिः प्रच्छादनस्तथा ।
प्रसन्नादिः प्रसन्नान्त 4इत्यारोहे त्रयोदश4a ।। २४ ।।
5विधूतश्च त्रिवर्णश्च तथोद्वाहित एव च ।
उद्गीतश्च तथा 6वेणिर्विज्ञेया ह्यवरोहिणः7 ।। २५ ।।
Abh
निष्कर्षोऽप्यु (भ्यु)च्चयश्चैव हसितो बिन्दुरेव च ।
प्रेङ्खोलितस्तथाक्षिप्तो विशीर्णो घटितस्तथा ।।
ह्नादमानः सम्प्रदानः सन्धिः प्रच्छादनस्तथा ।
प्रसन्नादिः प्रसन्नान्त इत्यारोहे त्रयोदश ।।
एकस्वरं प्रयुज्यैतदविच्छेदेनैव (स्वरान्तरै) रूर्ध्वगमनं निष्कर्षः । अभित ऊर्ध्वं चयनमभ्युच्चयः । सगमसा ।
एकत्यागेनारोहणावरोहणाद् विधूतः । सस(ग)मरि(प ग रि)। ओ(आरो)हादिक्रमेण कम्पपूर्वोऽवरोहो विधूत इत्यन्ये । अधरस्वरे त्रिर्विश्रान्त्या त्रिवर्णः । स नि ध ध ध । एतद्विपर्ययेणोद्गीतः । ऊर्ध्वस्वरे गानक्रियाया विश्रान्तेः । स स स स नि । मध्यैकविश्रान्तेरुद्वाहितः । स नि नि नि ध ध ध । इति वेणिः ।। २५ ।।
Notes
1a.N: निष्कूर्दिता महत्का च संहितं बिन्दुरेव च
सप्तरूपगता1 ज्ञेया 1aअलङ्कारा बुधैस्त्विमे ।
2नैते (सर्वे) ध्रुवास्विष्टाः श्रुति(श्रोतृ)वर्णप्रकर्षणात्3 ।। २६ ।।
Abh
अथैषां प्रयोगविषयं नियमयितुं तत्र च हेतुनिरूपणद्वारेणालङ्कारालङ्कार्यभावं दर्शयितुमाह ।
सप्तरूपगता ज्ञेया अलङ्कारा बुधैस्त्विमे ।
नैते साकं (सर्वे) ध्रुवास्विष्टाः श्रुति(श्रोतृ)वर्णप्रकर्षणात् ।।
इति । सप्तरूपग्रहणं सकलगान्धर्वो पलक्षणम् । तेन गान्धर्वे गीतस्वरूपसम्प्रभेदरूपे आश्रयमात्रोपयुक्तेष्वर्थप्रतिपत्तिसम्पादनात् । तात्पर्यविरहगात्रसमुच्चारणमात्रफलेषु पाठेषु यथेष्टमलङ्काराः ।
ननु वा (चा)र्थस्यैव हि तत्र प्राधान्यम् । वर्णे वा(चा)लङ्कारबलेन प्रकल्प्यमानार्थप्रतीतिविघटिते- ऽप्यतीतेष्वक्षरेष्वनुसन्धानमसम्भावि । यतः श्रोतॄणां वर्णे प्रकर्षणादिति च ध्रुवत्वं वर्णस्यालङ्कार्यतामाह । न च वर्णारवेन (ख्येन) स्यादित्युच्यते । तस्य सकलपदविश्रान्तस्य गानक्रियासम्पत्यै प्रस्तुतरूपस्येत्थं शोभाः कृता भवन्ति । यद्येकश उक्तपूर्वं वैचित्र्यमभिधीयते यथा प्रस्तुतस्य वदनस्य चन्द्रोपमानेन । अत एव गीतिरलङ्कारहीना (भ. ना. २९-४५) इत्यत्र व्यतिरेकद्वारेण गीतेरेवालङ्कार्यता लक्ष्यते । गीर्वर्ण इति च पर्यायौ ।
अत्र चोदयन्ति । चत्वारो(रस्तु)ग (गु)णायुग्म(भ. ना. ३१. १०६)इत्यादिना तालकलाविषये पदमात्रापरिमाणनियमस्य लक्ष्यमाणत्वान् निमेषाः पञ्च मात्रा स्यात् (भ. ना. ३१.४) इति कलापरिमाणस्य कथमभिवर्णप्रकर्षणं शक्यम् ।
अत्राहुः । वर्धमानासारितविषयोऽयं पदमात्रापरिणामनियमो न प्रगीतिकादौ तन्नियमाभावात् । अत एव सप्तरूपगता इत्युक्तम् । तत्र यथेष्टं वर्णप्रकर्षणमिति लक्ष्येऽपि च जातिगीतादौ यथेष्टं प्रकर्षणमुपलब्धमेव ।
अन्ये त्वाहुः । आसारितद्वारेण सर्वविषयं यत्पदमात्रापरिमाणनियमोऽतिवर्णप्रकर्षणं प्रत्यक्षमहमहमिकयाऽलङ्कारपरम्परायोजनं तच्चेदमयुक्तमिव । न हि ध्रुवासु क्रियमाणं तदर्थप्रतीतिं विहन्ति । प्रत्युत सालङ्काररञ्जनायैव स्यात् ।
Notes
1न हि वर्णप्रकर्षस्तु ध्रुवाणां सिद्धिरिष्यते ।
2श्येनो वाऽप्यथवा बिन्दुर्ये चान्येऽति(तु) प्रकर्षिणः ।। २७ ।।
ते ध्रुवाणां 2aप्रयोगेषु न कार्याः स्वप्रमाणतः3 ।
4तद्धुणां प्रयोगे तु(ऽपि) कार्या ह्यारोहिणः स्वराः ।। २८ ।।
Abh
बिन्दुरेककलो ज्ञेयः कम्पितं तु(तश्च) कलाद्वयम् । (भ. ना. २९.३८) इत्यादि यदुच्यते त… रविषयं न…..तथा दृश्यते इति प्राच्य एव परिहारो युक्तः ।
एत इति । सर्वसम्भवो निषिध्यते । एते सर्वे नेष्टाः । यथापि वर्णः प्रक्षेपः कर्षिणः कम्पितादयो नात्र वहन्ति तथा । सर्व इति । समष्टिरूपा इत्यर्थः । तत एकत्रैवाक्षरे बहवोऽलङ्काराः क्रियमाणा अतिप्रकर्षं कुर्वत इति नेष्टाः ।। २६ ।।
ननु यम(द)तिप्रकर्षिणस्तत्किमिति ध्रुवासु नेष्टा इत्याह । न हि वर्णप्रकर्षस्तु ध्रुवाणामिति । के तस्यालङ्कारा इत्याह । श्येनो वाप्यथवा बिन्दुरिति । श्येन इत्यनेन तन्त्रान्तरलक्षितेन व्यवहारेणालङ्काराणां सङ्ख्यानियमं प्रत्यनादरं दर्शयति । तत्र श्येनलक्षणम् ।
श्येनश्चैकान्तरो जातः कलामात्रान्तरे स्थितः ।
तस्मिंश्चैव स्वरे वृद्धिं गृह्णात्येव विलक्षणम् ।।
अन्ये तु वेणिवेणि(:)श्येन इत्याहुः । ननु बिन्दुश्येनावेव निषिद्धौ । नेत्याह । ये चान्ये तु प्रकर्षिणः । तेऽपि (न) ध्रुवाणां प्रयोक्तव्याः । तुरपिशद्बस्यार्थे ।। २७ ।।
आरोहिणो वर्णस्य सम्बन्धिनः । अपिशब्दादवरोहिणोऽपि । ये स्वरा इत्यलङ्काराः । ते प्रयोक्तव्याः । यदि वाऽऽरोहिणः स्वरा इति सावरोहा न तु विश्रान्त्या प्रकर्षिणः प्रयोक्तव्याः ।
अन्ये त्वाहुः स्वरा इत्यलङ्कारैकदेशाः प्रयोज्या येऽनुज्ञाताः ।
श्रीमदुत्पलदेवपादास्तथा मन्यन्ते । आरोहिणः स्वरा इत्यनेनातिप्रकर्षिणः स्वरूपमुक्तम् । प्रत्यक्षरमारोहो विद्यते येषां स्वराणां ते आरोहिणः । तेन प्रतिस्वरमक्षरं प्रत्यक्षरं स्वरमित्येवंरूपमतिकर्षणम् ।
Notes
1aयस्मादर्थानुरूपा हि 1ध्रुवा कार्याऽर्थदर्शिका ।
वर्णानां तु पुनः2 कार्यं कृशत्वं पदसंश्रयम्3 ।। २९ ।।
4येऽत्र प्रयोगे गच्छन्ति तांश्च वर्णान् निबोधत4a ।
प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च ।। ३० ।।
Abh
यथा कुसुमव(प)राध(ग)पुञ्जपरि(पि)ञ्जरहंस(दर्श)नीया इत्यत्र चञ्चत्पुटभङ्गेन (दर्श)नीयेत्यस्मिन्नक्षरेऽनेकस्वर आरूढः कर्तव्य इति यावत् ।। २८ ।।
अत्र हेतुमाह । यस्मादर्शानुरूपा हि ध्रुवा कार्येति । ननु क्रियतां नाम । तथाभूता प्रवेशाक्षेपनिष्क्रामणप्रसादनान्तरवैचित्र्यान्तरयुक्ता कविना सूच्या । अतिप्रकर्षणवर्जनं तु किमर्थमित्याह । अर्थदर्शिकेति । अभितो दृष्टार्थो गान्धर्व इवार्थबद्धोऽपि तु सामाजिकानां तत्प्रतीतिसिद्धये प्रकृतिभेदो विभावादिभ्यस्ततः साधारणीभूतस्तयावगतो रससम्पत्युपयोगी भवतीति यावत् ।
नन्वेवमर्थमर्पणप्रधानत्वाद्येन केनचित् पदेनार्पणीयोऽर्थः । नेत्याह । वर्णानां तु पुनः कार्यं कृशत्वमिति । स्थाय्यादिशङ्कापरिहारार्थमाह । पदसंश्रयमिति । कृशत्वमित्यस्थूलत्वं बहुतरदर्शनसंयोगदर्शनहीनत्वमित्यर्थः । एतदुक्तं भवति । यथा हि गीतिरर्थार्पणमनवधारयन्ती कर्तव्या तथैव पदगतान्यक्षराण्यपि दुर्भणसंयोगादिहीनाङ्गान्यधिकानि कर्तव्यानि । तेनौचित्येन पदगीतिः कर्तव्येति । टीकाकारैस्तु श्लोकार्धस्यास्य प्रतिकर्षणत्वमस्य(त्वं) व्याख्यातं पुनरुक्तप्रायमित्यास्ताम् ।। २९ ।।
ननु बिन्दुश्येनादयोऽलङ्काराः । तेषामियत्तालक्षणादि वक्तव्यमित्याशङ्क्याह ।
येऽत्र प्रयोगे गच्छन्ति तांश्च वर्णान् निबोधत ।
इत्यादि । येऽलङ्काराःस्वरा (ग्राम)मात्ररागस्वरूपोत्थापकाश्च त(ते)त्र पूर्वे (प्रयोगे) । धातुवाद्यं वर्णाङ्गलक्षणा- देव गम्यते । ये त्वन्ये गीतप्रयोगविषयास्तान् निबोधतेति । त्रिवर्णाश्रितत्वाद्वर्णा इति टीकाकृदभ्यधात् ।
परमगुरुश्रीमदुत्पलदेवपादा मन्यन्ते । वर्णानां पदनिबन्धनत्वे तदाश्रितालङ्कारा गीतप्रयोगरहितकेवलस्वरालापमात्रगामिन इति शङ्कापदानमेव । तत्रालङ्कारताप्रतिभासस्तत्संस्कारजो न मुख्यः ।
Notes
1a. N: तस्माद्
1aप्रसन्नमध्यमश्चैव बिन्दुः कम्पितरेचितौ ।
तारश्चैव हि मन्द्रश्च तथा तारतरः पुनः ।
1bप्रेङ्खोलितस्तारमन्द्रौ मन्द्रतारः समस्तथा ।। ३१ ।।
1cसन्निवृत्तः प्रवृत्तश्च प्रसादोऽपाङ्ग एव च ।
1dऊर्मिः प्र(प्रे)ङ्खोऽवलोकश्च इत्येते सर्ववर्णगाः ।। ३२ ।।
स्थायिवर्णादृते 1चैषां सम्प्रवक्ष्यामि लक्षणम् ।
2क्रमशो दीपितो यः 3स्यात् प्रसन्नादिः स कथ्यते3a ।। ३३ ।।
व्यस्तोच्चारित एवैष प्रसन्नान्तो विधीयते4 ।
आद्यन्तयोः 5प्रसन्नत्वात् प्रसन्नाद्यन्त इष्यते ।। ३४ ।।
प्रसन्नमध्यो मध्ये तु प्रसन्नत्वादुदाहृतः ।
सर्वसाम्यात् समो ज्ञेपः स्थितस्त्वेकस्वरोऽपि यः6 ।। ३५ ।।
Abh
वक्ष्यमाणा एव गीतिप्रयोगोपयोगिनो नान्ये इत्यत्र लक्ष्यदर्शनादिप्रमाणं पश्यामः । श्येनादयश्च लक्षयितव्याः । प्रयोगोपयोगान्न चाग्रतो लक्षित(ता)इति ।
तस्मादेषोऽत्रार्थः । वर्णस्व (रूप) वर्णाङ्गैर्धातुवाद्यं चोभयमपि हि क्रियाविस्तारात्मकम् । जातावेकवचनम् । तदयमर्थः । ये स्थाय्यादयो वर्णा उक्ता यानि वर्णाङ्गानि धातुवाद्यादीनि वस्तूनि लक्ष्यन्ते तेभ्यः प्र(यो)ज्याः । अत्र ध्रुवाप्रयोगे ये गच्छन्त्युपयुज्यन्ते तान् निबोधत स्वयमूहध्वं वर्णलक्षणं तावत् । ऊहो व्याख्यातः । वर्णोऽत्र धातुवाद्यादिगतस्तत्रैव व्याख्यायते । ननु कुत्राप्यविवक्षितेनैव प्रवर्तत ऊहशक्तिरित्याशङ्काशमनायात्रेति । चकारेण लक्षणमपि कर्तव्यमिति सूचयति । अत एवोद्दिशति प्रसन्नादिरित्यादि सर्ववर्णगा इत्यन्तेन । न प्रत्येकं मन्तव्यमपि तु समुदायापेक्षमेतत् । तेन यथायोगं कश्चिदेकत्र वर्णे कोऽपि द्वयोरित्यादि मन्तव्यम् ।। ३०-३२ ।।
स्थायिवर्णादृते चैषां सम्प्रवक्ष्यामि लक्षणम् । इति । स्थायी(ति) । यथारुचि श्येनादयः प्रयोज्या इति तात्पर्यम् । तत्रालङ्कारस्वरूपमेवमुक्तम् । अस्माभिः पूर्वगन्थेतु यदनुक्तं तद् व्याख्यायते । दीपनं तारता प्रसादो मन्द्रता । दीप्तिर्नाम श्रावकश्रोतृ(निष्ठो)विशेषो धर्म
Notes
1a.N: प्रसन्नमध्यश्च तथा 1b.N: प्रेङ्खोलितस्तानमन्द्रो मन्द्रतालः समस्तथा ।। 1c.N: स्यान्निवृत्तः 1d. N: अवलोकस्तथोर्मिश्च इत्येते सर्ववर्णयोः ।। 1.N: ड. त्वन्ये सर्ववर्णाः प्रयोगिणः ।
1आदिमध्यलयो यत्र स चोर्मिरिति संज्ञितः ।
2श्रुतयोऽन्त्याद्(न्या) द्वितीयस्य मृदुमध्यायताः स्वराः (स्मृताः) ।। ३६ ।।
आयतत्वं भवेन्नीचे मृदुत्वं तु विपर्यये ।
स्वे स्वरे मध्यमत्वं च मृदुमध्यमयोस्तथा ।
दीप्तायते करुणानां श्रुतीनामेष निश्चयः ।। ३७ ।।
बिन्दुरेककलो 3ज्ञेयः कम्पितश्च कलाद्वयम् ।
गतागतप्रवृत्तो4 यः स प्रेङ्खोलित इष्यते ।। ३८ ।।
Abh
इत्यनुक्तसमं स्वरसाधारणम् । सामवेदे च रामसासोमे इति च यदुच्यते तदिहानुपयोगीत्यास्तामेतत् । दीपनप्रसङ्गात् समः पश्चादुद्दिष्टोऽप्यत्र लक्षितः । सर्वसाम्यात् समो ज्ञेय इति । दीपनस्य सर्वत्र साम्यादिति यावत् । समस्यैव विशेषोऽनुगीतिरिति स लक्ष्यते । स्थितस्यै(स्त्वे)कस्वरे(रो)ऽपि यत् (य इति) ।
आदिमध्यलयो यत्र स चोर्मिरिति संज्ञितः ।
श्रुतयोऽन्या द्वितीयस्य मृदुमध्यायताः स्मृताः ।
आयतत्वं भवेन्नीचे मृदुत्वं तु विपर्यये ।
स्वे स्वरे मध्यमत्वं च मृदुमध्यमयोस्तथा ।
श्रुतीनां निर्णयो ज्ञेयः ।। इति ।
विकल्पमनुस्वारं तमाहुः । गान्धारस्यैकाक्षरगतस्य नीचे ऋषभे परे आयता श्रुतिः कार्या । मध्यमे परे मृद्वी । गान्धार एव तु परतो मध्या ।।३३-३७।।
एवं प्रसङ्गादूर्मिं लक्षयित्वोद्देशानुसारेण बिन्दुमाह । बिन्दुरेककल इति । एककल आयतो मृदुर्वा विपर्यासेन वर्तुलीभाव एव बिन्दोर्लक्षणम् । आर्चिकस्वरलक्षणविषयतैककल इत्यनेनोक्ता । तदेव तु रूपं दीर्घस्वरनिष्ठं कम्पितम् । बिन्दुकम्पितोभयलक्षणोपजीवित्वात् प्रेङ्खोलितं लक्षयति । गतागतप्रवृत्तो यः स प्रेङ्खोलित इति । बिन्दुकम्पितान्दोलनादित्यर्थः । मृद्वायतगमनाभ्यासादित्येके ।। ३८ ।।
Notes
यस्तु 1कण्ठे स्वरोऽधः स्यात् स तु तारः प्रकीर्तितः ।
उरोगतस्तथा मन्द्रो 2मूर्ध्नि तारतरस्तथा ।। ३९ ।।
क्रमागतस्तु यस्तारः 3षष्ठः पञ्चम एव वा ।
तारमन्द्रप्रसन्नस्तु ज्ञेयो मन्द्रगतः स च4 ।। ४० ।।
लङ्घयित्वा 5परान् मन्द्रात् परां (त्) तारगतिं गतः ।
मन्द्रतारप्रसन्नस्तु विज्ञेयो ह्यवरोहणात्6 ।। ४१ ।।
प्रसन्नान्तः स्वरो यत्र प्रसादः स तु संज्ञितः ।
अपाङ्गिकस्तु विज्ञेयः स्वराणामथ सञ्चरात् ।। ४२ ।।
Abh
ऊहसिद्धव्यापकं लक्षणोपयोगितावद्रूपं वक्तव्यमित्याशयेन तारमन्द्रतारतराणां लक्षणमाह । यस्तु कण्ठे स तार उरसि मन्द्रो मूर्ध्नि तारतर इति ।। ३९।।
एतत्त्रितययोजनेनान्येऽप्यलङ्कारा ऊहितुं शक्या उद्दिष्टा इत्याशयेनाह । क्रमागतस्तु यस्तारः षष्ठः पञ्चम एव वा । तारमन्द्रप्रसन्नस्त्विति । न चायमप्युद्दिष्टो मन्तव्य इत्याह । ज्ञेयो मन्द्रगतः स चेति । मन्द्रशब्दोनोद्दिष्टोऽयमिति यावत् । ऋषभस्तारषड्जस्ततो निषादस्ततः षड्जर्षभः पञ्चमो वा गान्धारः । एवमन्ये ।। ४० ।।
मन्द्रतारसमशब्देन तु य उद्दिष्टो मन्द्रतारप्रसन्नस्तं लक्षयति ।
लङ्घयित्वा परान् मन्द्रात् परात्तारगतिं गतः ।
इति ।। ४१ ।।
एतदलङ्कारद्वयेनान्दोलनात् त (स) न्निवृत्तप्रवृत्तस्य लक्षणमूहितुं शक्यत इत्याशयेन तदुल्लङ्घ्य प्रसादं लक्षयति । प्रसन्नान्तः स्वरो प्रसादः स त्विति । आदौ स्वरस्य भर्त्सनरोधनदीपनवेदन– कम्पनवलनलयननयनस्फुरणधर्मि मरणादि यथायोगं विधायान्ते दीप्तायतादिस्वरश्रुतिविशेष एव विश्रान्तेः प्रसादादपाङ्गं लक्षयति ।
अपाङ्गिकस्तु विज्ञेयः स्वराणामथ सञ्चरात् ।
इति । यथाऽपाङ्गनिरीक्षणमन्यैर्न लक्ष्यते तद्वद् यद्भ्रमणवैचित्र्येण दुरवधारस्वरूपः सोऽपाङ्गिकः । तथाविधप्रयोगेऽन्तर्भावे यदा विश्रान्तिविभ्रमभयादन्तरवीक्षितं लौकिक इति प्रसादापाङ्गाभ्यां समं जनित
Notes
रेचितः शिरसि ज्ञेयः कम्पितं तु (तश्च) कलात्रयम् ।
कण्ठे निरूद्धपवनः कुहरो नाम जायते ।। ४३ ।।
Abh
इति पृथग् लक्षितः ।। ४२ ।।
एवमुद्दिष्टा लक्षिता अलङ्कारा ऊहसिद्धये । तत्र दीप्तायतादि मन्द्रतारदिकं वा कम्पादिस्थानभेदनिरोधनतोदनादिः कालदीर्घत्वादुद्दिष्टधर्मे अलङ्काराश्रितं त्त्वियदिति तत्र दीप्ताद्युक्तमन्यतु प्रदर्शयितुमाह ।
रेचितः शिरसिः ज्ञेयः कम्पितश्च कलात्रयम् ।
कण्ठे निरुद्धपवनः कुहरो नाम जायते ।
इति । ततश्चाति (श्चत्रि) श्रुतेरेव कम्पितमिच्छतः (न्तः) कलात्रयमिति श्रुतित्रयं व्याचक्षते । अन्ये तु चतुःश्रुतेरेव श्रुतित्रये कम्पनं कार्यमित्याहुः । इतरे तु सर्वस्वरविषयं कम्पनमिच्छन्ति । कलात्र न श्रुतिः । अपि तु कालकला । तत्र त्रित्वोपादानं परप्रकर्षसूचनाय सामर्थ्याच्च । उरसि कम्पनात् कम्पितो लक्ष्यत इत्याह । (कण्ठे निरुद्धपवन इति ।) एते च शरीरे प्राधान्येन लक्ष्यन्ते । धातुवाद्यं तु वीणायामित्याशयेन भेदेनाभिधानम् । वस्तुतवस्तूभयत्रापि सर्वं तस्य योजनमिति लक्षणं निपुणमतीनां मत इत्य…….मयं भरतग्रन्थे तु सञ्जात एवेति मन्तव्यम् । टीकाकृद्भिस्तु सदाशिवमतादिग्रन्थान्तरालिखितं त्रयस्त्रिंशदिमे प्रोक्ता अलङ्कारा इत्यादि तन्न लिखितम् । ग्रन्थान्तरपरिवर्तने अनिष्टप्रसङ्गात् । श्रीवायुप्रोक्तादि तु स्वगुरुमतनारदमता (नारदीयशिक्षा)र्जुनमतादिषु श्रीसंहिता…….न्योन्यदर्शनात् कियल्लिखनीयम् । न चापि किञ्चित् । तेन (न) किञ्चित् प्रयोजनम् । वर्णेभ्यः सर्वेषु सिद्धिरिति ह्युक्तं प्राक् । ये तु लक्ष्ये दृश्यन्ते तल्लक्ष्म पठमानम् (पठ्यते) ।
अवरोहारोहकृतो वेणुः पञ्चकलः क्रमात् ।
यथा–निधधनि रिससरिपसनिनिसा ।
एकस्वरेऽधिरोहात् प्रस्तारोऽन्यथा प्रसादस्तु ।
यथा–सगारिगागमपमधपनिगमा –प्रस्तारः ।
सधानिधापसापधामरिगसा –प्रसादः ।
समनन्तरस्वरौ द्वौ (विचर)त्युद्वाहितस्तथा द्विकलः ।
आरोहत्येककलोऽसौ ।।
1एवमेते त्वलङ्कारा विज्ञेया वर्णसंश्रयाः ।
अथ गीतीः प्रवक्ष्यामि छन्दोऽक्षरसमन्विताः ।। ४४ ।।
शशिना रहितेव निशा विजलेव नदी लता विपुष्पेव ।
अविभूषितेव च स्त्री गीतिरलङ्कारहीना स्यात् ।। ४५ ।।
Abh
विधूतस्तु एकस्मिन् लघुवर्णे स्वरचा (द्व) यमिलिता (ते) लघुपरिमाणं प्रयुज्यते । तत्र च द्वयोः स्वरयोः शीघ्रकालोच्चारणेन सकलं पदं प्रयुज्यते । पुनस्तदुपरितनात् स्वरद्वये । एवमेवान्ये । कालकलाविधूतः स्वररूपविधूननात् ।
दीर्घाक्षरमारोहे तदनन्तरस्वरं कलान्तरयोः ।
कम्पौ प्रसन्नरूपौ (ज्ञेयः) पुनर्गात्रवर्णोऽयम् ।।
ससरिसाससससंसारि–इत्येवं दीर्घमक्षरं पर्वगतं प्रयुञ्जीत । इति गात्रवर्णः ।। ४३ ।।
एवमलङ्कारा व्याख्याताः । अथ तानुपसंहरन् यत्र तेषामुपयोगस्तां गीतिं सूचयति । एवमेते इति । अथ गीतीरिति च । वर्णसंश्रया इति च वर्णानुक्रान्त्या गीतीनामन्तरेणैतेऽलङ्काराः प्रतिपद(दं) जन्मनां (ना) न वक्तुं शक्या इति भावः । गीतिशब्देन स्वराणां पदानां च यः परस्परमाश्रयाश्रयिभावाः सा पृथग् गीतिः । ननु गीतिर्वर्णरूपैवेति पुनः कस्मादभिधानमित्याशङ्क्याह । छन्दोऽक्षरसमन्विता इति । पदाश्रया गीतिर्वर्ण इत्युक्तम् । पदं च प्रवृत्तनिरुद्धच्छन्दोमयं गद्यरूपं चाक्षरात्मकम् । तत्र यथा सम्यग् ग(गी) तयो भवन्तीति गीतीनां (लक्षणं) तथा वक्ष्यामीति यावत् ।। ४४ ।।
अतालङ्काराणामुपयोगमाह ।
शशिना रहितेव निशा विजलेव नदी लता विपुष्पेव ।
अविभूषितेव च स्त्री गीतिरलङ्कारहीना स्यात् ।।
इति । कश्चिदलङ्कारो वर्णमुज्ज्वलयति कश्चित् सूत्रयति कश्चित् स(सु) विकासयति कश्चिद् रञ्जयतीति दृष्टान्तचतुष्केण सूचिता (तम्) ।। ४५ ।।
Notes
प्रथमा मागधी ज्ञेया द्वितीया चार्धमागधी ।
सम्भाविता तृतीया तु चतुर्थी पृथुला स्मृता ।। ४६ ।।
त्रिनिवृत्त (त्ति) प्रगीता या गीतिः सा मागधी स्मृता ।
अर्धतः सन्निवृत्ता च विज्ञेया ह्यर्धमागधी ।। ४७ ।।
सम्भाविता च विज्ञेया गुर्वक्षरसमन्विता ।
पृथुलाख्या च विज्ञेया नित्यं लघ्वक्षरान्विता ।। ४८ ।।
Abh
गीतीरुद्दिशति प्रथमा मागधीत्यादिना । तत्र यतिकालविभागेन वर्णालङ्कारनियमेन लयगानक्रियाविशेषो गीतिरिति सामान्यलक्षणम् ।। ४६ ।।
तत्रासां क्रमेण विशेषणलक्षणान्याह । सन्नि (त्रिनि)वृत्तिप्रगीता या गीतिः सा मागधीति । या पदानां निवृत्तिरावृत्तिस्तया प्रकृष्टं विततं गीतं गानक्रिया यस्यां सा गीतिः । विशेषसामान्यभावेन पत्ति(वृत्ति)पदार्थोऽस्य च विभागः । एतदुक्तम् । देवमिति पदं गीत्वा प्रथमकलां निर्वाह्य विलम्बितेन लयेन यदा द्वितीयां कलां मध्यमलयेन देवमिति (त्ये)तेन पदेन शर्वमिति शब्दसहितेन गायति ततोऽपि तृतीयां कलां द्रुतलयेन देवं शर्वमिति पदद्वयेन च वन्दे शर्वमिति पदान्तरसहितेन निर्वाहयति तत एव देव इत्ययं शब्दः कलात्रयव्यापनात् त्रिनिवृत्तिनिर्वाह एव । एवं शर्वमित्यादयोऽप्युत्तरोत्तरकलाव्यापिनस्तदा मागधीती गीतिः । मगधेषु तथा गाननिर्वाहोपलम्भात् । यदाह । विदर्भादिषु दृष्टत्वात् समाख्या इति । उदाहरणम् । मासासससा मासं समं ससम समसरिरीति । अर्धत इति । परस्य सम्बन्ध्यर्धपदाद्यदावर्तस्तदाऽर्धमागधीति । न चात्र पादार्धप्रवृत्तौ निवर्तनहेतुर्मन्तव्यः । यतः सामवेदे गीतप्रधाने आवृत्तिष्वर्धो नाद्रियते । एवमादि तु जातवेदसमिति । (सामवेदसंहिता १.१.३.११) हि अत्र जाशब्दपर्यन्तमावृत्तिपर्यन्तपरम्परया गीत्वा तवेदसमिति गीयते । तत्र जातवेदसमिति पदस्य षड्जनादार्धभङ्गो भवत्यपि । अन्ये तु त्रिनिवृत्तिप्रवृत्तेति मागध्या लक्षणं पठन्तोऽर्धमागध्याः सपदावृत्तिं व्याचक्षाणा अर्धभञ्जनमपि परिहरन्ति ।। ४७ ।।
एवं निवृत्तिकृतौ द्वौ गीतिभेदावभिधाय निवृत्तिहीनमपि गीतिद्वयं लक्षयितुमाह ।
सम्भाविता च विज्ञेया गुर्वक्षरसमन्विता ।
पृथुलाख्या च विज्ञेया नित्यं लघ्वक्षरान्विता ।।
इति च । नित्यशब्द आभीक्ष्ण्यवाची । उभयत्रापि सम्बन्धनीयस्तेन बाहुल्यतो यत्र गुरूणि ।
एतास्तु गीतयो ज्ञेया ध्रुवायोगं विनैव हि ।
गान्धर्व एव योज्यास्तु नित्यं गानप्रयोक्तृभिः ।। ४९ ।।
1गीतयो गादिताः सम्यग् धातूंश्चैव निबोधत ।
विस्तारः करणश्च 2स्यादाविद्धो व्यञ्जनस्तथा ।
चत्वारो धातवो ज्ञेया वादित्रकरणाश्रयाः ।। ५० ।।
Abh
सम्भावितं सङ्क्षिप्तं पदानां भावानां यत्रेति । लघुप्रायत्वे तु पृथुला । भूयस्त्वात् पदग्रामस्य ।। ४८ ।।
ननु कुत्र का गीतिः प्रयोज्येत्याशङ्क्याह ।
एतास्तु गीतयो ज्ञेया ध्रुवायोगं विनैव हि ।।
इति । ध्रुवाश्रयो योगस्तद्वर्जमेता गीतयो गान्धर्व एव प्रयोज्या न तु गान इति तात्पर्यम् । मागध्यर्धमागध्यौ सामनामध्रुवास्तु (सु) प्रयोजितौ (ते) । सम्भावितापृथुले…..तेनापसारित्वेनैतद्धुवासु हि करुणरौद्रादिम– (रसा) नुसारेण गुरुलघ्वक्षरविनियोगो गीतिषु यथेष्टमेवेति विशेषः । अत एव विनियोगवर्जमि (भ. ना. २९–४९) त्युक्तम् । हिर्यस्मात् । गीतय एव गदिता न त्वासां विषयविशेष उक्तः ।। ४९ ।।
अस्य गीत्यंशे भेदमाह । यदन्यैर्लक्षणं गीतीनामुक्तं तन् मह्यं न रुचितमिति । तथा हि । यदन्यैर्लक्षिताः ।
द्विगुरुर्द्विनिवृत्ता च चित्रे गीतिस्तु मागधी ।
लघुप्लुतगता चैव तदर्धे चार्धमागधी । (बृहद्देशी –मतङ्ग १७७)
सम्भाविता (पृथुला च) यथाक्रमं चतसृभिर्द्वादशभिश्च मात्राभिः प्रयोगादिति । अर्धमागधिर्द्वि (धी द्वि) कलचतुष्कलयोगयोस्त्विति । एतच्च लक्षण (विरुद्धं न)स्फुटमेव व्याप्नुयात् । नान्यथैतदनुसारेणान्यत्रापि योजना तथापि मार्गोपयुक्तं भवति तद्गीतिवैचिञ्यमिति । यस्मात्त्वासां मार्गभेदाभिधानं तस्माद्युत्त्कं सम्यगिति ।
एवमलड्कारप्रसड्गेन गीतय उत्त्काः । अलङ्कारानन्तरं च दारव्या कृता उदिष्टालङ्कारा सन्धातव्या इति धातुभ्यश्च दारव्या वा लक्ष्यमाणशोभातिशये अन्यो (न्ये) वैचिञ्योपजीवनेन शारीर्यामप्यलङ्काराः शक्ययोजना इत्यभिप्रायेणाह । धातूंश्चैव निबोधतेति । चकारेणालङ्कारत्वमप्येतेषां समुच्चिनोति । एवकारेण चतुष्प्रहरणं
Notes
1सङ्घातजोऽथ (जश्च) समवायजश्च विस्तारजोऽनुबन्धकृतः2 ।
ज्ञेयश्चतुष्प्रकारो धातुर्विस्तारसंज्ञश्च3 ।। ५१ ।।
विधयस्तु (श्च) स्मृतास्तस्य पूर्वं विस्तार एव च4 ।
सङ्घातसमवायौ तु 5विज्ञेयौ तौ द्विकत्रिकौ ।। ५२ ।।
Abh
त्रिप्रहरणमङ्गुलीनां विभागो द्वै वृत्ती समलेखा चित्रलेखेत्यादिकं विशाखिलाचार्यप्रोक्तं सर्वथैव ध्रुवागानज्ञानवैकल्योपयोगान् मया नोक्तमिति सूचयति । दधत्यदृष्टं विशिष्टं दृष्टं रक्तिं च तरन्ति धारयन्ति च वीणावाद्यस्वरूपमिति धातवः । प्रहारविशेषजन्याः स्वराः । तत्समुदायोऽपि जन्यंशकल्पमानो धातुः । तत्रो– द्देशमाह । विस्तार इत्यादि । वाद्यतेऽनेनेति वादित्रमङ्गुलीकोणादि । तस्य यत् करणं प्रयत्नम् (त्नः)। तदाश्रयाः प्रहारविशेषजन्या इति यावत् । अंशेन सामान्यलक्षणं धातूनामुक्तम् ।। ५० ।।
तत्र हि विस्तारधातोश्चतुर्दशविधत्वं निरूपयिष्यते । भेदान्तर्गतभेदचतुष्टयं तावदवतारयन् साधर्म्यनिबन्धनमुद्दिशति । सङ्घातजा (ज)श्चेति ।। ५१ ।।
तत्र विस्तारजो नाम भेदो य उक्तस्तस्य भेदान्तरभावेन मितवक्तव्यतया प्रथमं विशेषलक्षणमाह ।
विधयश्च स्मृतास्तस्य पूर्वं विस्तार एव च ।
इति । चकारः स्ववृत्तित्वमेवकारोऽन्वर्थतां सूचयति ।
तदयमर्थः । विस्तारो नाम यो विस्तार एव । विस्तीर्णत्वमेवास्य लक्षणमित्यर्थः । एतदुक्तं भवति । अनेकोऽपि स्वरप्रकारणो यथा पृथगनुपलक्ष्यमाणविभागो विश्रान्तस्थानभूतपर्यन्तिकस्वरस्वरूपं (पमेकी) कुर्वन्नन्तरीभवञ्चित्रवचनान्तरेणैव विनिर्भासमानसूतत्व (स्वरत्व)विकीर्णस्तथासौ । अन्यत्र स एवं विस्तार उक्तः । तस्य च ये विधयो भेदास्तेषु पूर्वमुक्ता अलङ्कारनिरूपणावसरे विचित्रप्रकाराः सन्दर्शिता इति यावत् ।
अन्ये तु मन्यन्ते पूर्वमुक्ताः स्वरास्त एव । तेषां विधयो भेदाः स्वरान्तरोपयोगादेकविस्तारवाच्या इति । द्विकत्रिकाविति ।। ५२ ।।
Notes
पूर्वश्चतुर्विधस्तत्र पश्चिमोऽष्टविधः स्मृतः ।
करणानां विशेषेण1 विज्ञेयौ तौ पृथक् पृथक् ।। ५३ ।।
अघश्चौर्ध्वं च विज्ञेयावधरोत्तरजौ स्वरौ ।
सङ्घातजो विधिस्त्वेष विज्ञेयो वादनं प्रति2 ।। ५४ ।।
3द्विरुत्तरो द्विरधरस्त्वधरादिश्चोत्तरावसानश्च ।
ज्ञेयस्तथोत्तरादिः पुनरप्यधरावसानश्च ।। ५५ ।।
4समवायजस्तथा स्यात् त्रिरुत्तरस्त्रिरधरश्च विज्ञेयः ।
5द्विरधरोत्तरा(रो) धरान्तो(द्यो) द्विरधरश्चो (रोऽथो)त्तरविरामश्च ।। ५६ ।।
Abh
(सङ्घातजस्तूत्तरभेदद्वयेन) चतुर्धा । अन्यस्त्रिकः सोऽष्टधा । तदा वा पूर्वं चतुर्विध इति द्विकत्रिकौ द्वे तुल्ये । किं कृतो वोत्तरभेद इत्याह ।
करणानां विशेषेण विज्ञेयौ तौ पृथक् पृथक् ।
इति । क्रियाविशेषादवान्तरभेदा इति यावत् ।। ५३ ।।
स च विशेषो हस्तस्व (स्थ) तन्त्रीभेदादित्याशयेनाह । अधश्चोर्ध्वं चेति । नात्र विकृतमौत्तराधर्यम् । किन्तु शरीरे यावदधरोत्तरजौ मन्द्रतारस्वरौ वीणायामधरोत्तरजौ । यथाह दत्तिलः । वीणायां त्वधरोत्तर (दत्तिलम् । ९) इति । एवमधरोत्तरस्वरूपभिधाय तत्कृतसङ्घातजस्य भेदचतुष्कं सूत्रयति सङ्घातज इति । विधिभे (र्भे)द इति । एष इति ।। ५४ ।।
आर्यया वक्ष्यमाणं तदाह ।
द्विरुत्तरो द्विरधरस्त्वधर(रादि)श्चोत्तरावसानश्च ।
ज्ञेयस्तथोत्तरादिः पुनरप्यधरावसानश्च ।
पुनः शब्देनाभ्यावृत्त्या प्रयोगे ह्यद्यता भवतीति सूचयति ।। ५५ ।। इति । अथ समवायस्य भेदाष्टकमाह । समवायजस्तथा स्या (दिति) । तथाऽऽवृत्या यावद् द्विरधरश्च
Notes
1उत्तरमुखो द्विरधरो द्विरुत्तरावसानश्च ।
मध्योत्तरो द्विरधरो द्विरुत्तरोऽप्यधरमध्यश्च ।। ५७ ।।
अनुबन्धस्तु ज्ञेयो व्याससमासाच्च नियतमेषां हि ।
एवं चतुर्दशविधो विस्तारो2 धातुराख्यातः ।। ५८ ।।
रिभितोच्चयनीरिभितो3 (ता) ह्नाद(द्यः) स्तु तथानुबन्धः स्यात्4 ।
पञ्चविधो विज्ञेयो वीणावाद्ये करणधातुः ।। ५९ ।।
Abh
विज्ञेयः । स द्विरधरोत्तरोऽधराद्यः । अथेत्यानन्तर्यवाचिना सह समागमः । द्विरुत्तर उत्तरौ यत्रेति । द्विरधरश्चान्त– (रोथोत्त)रविरामश्च । उत्तरमुखो द्विरधरादिः । द्विरुत्तरा प(द)शा द्विष्ठा व्युत्क्रमेणोत्तरावसाने तु यत्रेति प्राग्बहुव्रीहिः ।
मध्योत्तरो द्विरधरः(रो) द्विरुत्तरोऽप्यधरमध्यश्च ।
समवायो विषयो रूढोऽनेक इति त्रिकः समवाय उक्तः । द्विकस्तु सङ्घात इति ।। ५६–५७ ।। अथानुबन्धमाह ।
अनुबन्धस्तु ज्ञेयो व्याससमासाच्च नियतमेषां हि । इति । व्यासो भेदानां मिश्रत्वेन प्रयोगः । तस्य पुनरपि सक्तं समूहनापीडनं न (निय)त (तम्) । एषामिति । स्वभेदपरभेदनिष्ठानामित्यर्थः । अनुबध्यते मिश्रीक्रियते भावो यत्रेत्यनुबन्धः । एवमुपसंहरति । एवं चतुर्दशविधो विस्तारो धातुरिति । एको विस्तारः सङ्घातश्चतुर्धा समवायोऽष्टधाऽनुबन्धश्चैक एव । एवं विस्तीर्णभेदयोगादुदात्ततानहृदयविस्तारणाच्च विस्तारधातुः ।। ५८ ।।
अथ करणधातुभेदान् पञ्चोद्दिशति ।
रिभितोच्चयनीरटि(रिभि)तो(ता)ह्नादश्च (द्यस्तु) स्यात्तथाऽनुबन्धः
(तथाऽनुबन्धः स्यात्)।।
इति ।। ५९ ।।
Notes
त्रिकपञ्चसप्तनवकैर्यथाक्रमं1 संयुतो भवेद्वाद्ये ।
सर्वैरनुबन्धकृतैर्गुर्वन्तः स्यात् करणधातुः ।। ६० ।।
क्षेपः प्लुतोऽतिपातोऽतिकीर्णम(र्णोऽ)नुबन्धसंज्ञितश्चैव ।
आविद्धो विज्ञेयो धातुर्वै पञ्चविध एव ।। ६१ ।।
द्विस्त्रिश्चतुष्कनवकैः प्रहारैः क्रमशः कृतैः ।
आविद्धधातुर्विज्ञेयः सानुबन्धविभूषितः ।। ६२ ।।
व्यञ्जनधातोः पुष्पं कलतलनिष्कोटितं तथोद्धृ(न्मृ)ष्टम् ।
रेफोऽनुबन्धसंज्ञोऽनुस्वनितं बिन्दुरवमृष्टम् ।। ६३ ।।
Abh
एषां क्रमेण लक्षणमाह । त्रिकपञ्चसप्तनवकैरिति । आदौ द्वौ प्रहारौ लघू तृतीयो गुरुरिति रिभितः । पञ्चम इत्युच्चः (च्चयः) । सप्तम इति नीर(रि)भितः । नवमो गुरुरन्ये लघवः । ह्नाद्यो लङ्घ्य इति । एतद्भेदानुबन्धनादनुबन्धः इति । पञ्चधा क्रियाबाहुल्यात् करणधातुः ।। ६० ।।
अथाविद्धधातुभेदान् पञ्चाह ।
क्षेपः प्लुतोऽतिपातोऽतिकीर्णम(र्णोऽ)नुबन्धसंज्ञितश्चैव ।
इति ।। ६१ ।।
एषां लक्षणमाह ।
द्वित्रै(स्त्रि)श्चतुष्कनवकैः प्रहारैः क्रमशः कृतैः ।
इति । क्रम(श) इति । लघुरिति द्विकं लघुश्चतुर्लघुरित्येके । एवं यावन्नवकः । अन्ये तु क्रमशब्दलक्षण– लक्षणालघुसञ्चयरूपत्वमेव प्रहाराणां मन्यन्ते । लघुत्वप्रहारत्वादेव भास(त) आविद्धधातुः ।। ६२ ।।
अथ व्यञ्जनधातोः सप्त(तोर्दश)भेदानाह ।
व्यञ्जनधातौ(तोः) पुष्पं कर(ल)तर(ल)निष्कोटितं तथोन्मृष्टम् ।
रेफोऽनुबन्धसंज्ञोऽनुस्वनितं बिन्दुरवमृष्टम् ।।
इति ।। ६३ ।।
Notes
कनिष्ठाङ्गुष्ठसंयुक्तं पुष्पमित्यभिसंज्ञितम्1 ।
अङ्गुष्ठाभ्यां समं तन्ञ्योः स्पर्शनं यत् कलं तु तत् ।। ६४ ।।
2वामेन पीडनं कृत्वा दक्षिणेनाहतिस्तले ।
सव्याङ्गुष्ठप्रहारस्तु निष्कोटितमिहोच्यते ।। ६५ ।।
3प्रहारो वामतर्जन्या उद्धृ(न्मृ)ष्टमिति संज्ञितम् ।
सर्वाङ्गुलिसमाक्षेपो रेफ इत्यभिसंज्ञितः ।। ६६ ।।
तलस्थानेऽध4स्तन्त्रीणामनुस्वनितमुच्यते ।
5गुर्वक्षरकृता तन्त्री बिन्दुरित्यभिसंज्ञितः6 ।। ६७ ।।
Abh
एतान् क्रमेण लक्षयति । कनिष्ठाङ्गुष्ठसंयुक्तं पुष्पामिति । त्रि (अत्र)विशेषाभावेऽप्यङ्गुष्ठौ । तेन क्रममे– (मेणै)वैकस्यां तन्ञ्यां प्रहारत्रयात् पुष्पम् । यथोक्तं भट्टमातृप्तेन ।
पुष्पं च जनयत्येको भूयः स्पर्शात् स्वरान्वितः । इति । अङ्गुष्ठाभ्यां समं तन्ञ्यौ तु (न्ञ्योस्तु) नानास्थानस्वर(राः) तन्त्रीद्वयं(ये) युगपज्जन्याः । अङ्गुष्ठद्वयेनेत्यर्थः ।। ६४ ।।
वामेन पीडनं कृत्वा दक्षिणेनाहिस्तले । वामेनाङ्गुष्ठेन तन्त्रीः पीडयित्वा दक्षिणेन हन्यादिति तलम् । सव्याङ्गुष्ठप्रहारस्तु निष्कोटितम् । ऊर्ध्वाधरहननेन कुटिलोऽयं प्रहार इति निर्वचनबलादित्युपाध्यायाः ।। ६५ ।।
प्रहारो वामतर्जन्या तु तनु (दु)मृ(न्मृ)ष्टम् । तन्ञ्यां तथा प्रहरणयोगादनाहतप्रायं मधुरतस्वरजननं तन्त्रीषु मार्जनामात्रमेव भवतीत्युन्मृष्टम् । सर्वाङ्गुलिसमाक्षेपाद्रेफः । सर्वाभिरङ्गुलिभिरेकस्वरतादयः । पर्यायेण विचित्रः । एकत्र विश्रान्तिः । रेफविस्तारे नन्वे(त्वे)ते(ता इ)ति विशेषः ।। ६६ ।।
तलस्थानेऽधस्तन्त्रीणामनुस्वनितम् । तलनिष्पत्तौ सत्यां तदवच्छिन्नेऽवम (न) तस्त्रि– (तन्त्री)प्रहारपरम्परे (रा)ऽनुस्वनितम् । गुर्वक्षरकृता तन्त्री बिन्दुः । गुर्वक्षरो विलम्बितकाल एकस्यामेव तन्ञ्यां प्रहार इत्यर्थः ।। ६७ ।।
Notes
कनिष्ठाङ्गुष्ठकाभ्यां तु दक्षिणाभ्यामधोमुखम् 1 ।
तन्त्रीषु त्रिप्रहारं चाप्यवमृष्टं प्रकीर्तितम् ।। ६८ ।।
व्याससमासादेषामनुबन्धः सार्वधातुको ज्ञेयः ।
इति दशविधः प्रयोज्यो वीणायां व्यञ्जनो धातुः ।। ६९ ।।
इत्यत्र2(त्येते) धातवः प्रोक्ताश्चत्वारो लक्षणान्विताः ।
तिसृणामपि वृत्तीनां येषु3 वाद्यं प्रतिष्ठितम् ।। ७० ।।
तिस्रस्तु वृत्तयश्चित्रादक्षिणावृत्तिसंज्ञिताः ।
वाद्यगीतोभयगुणा निर्दिष्टास्ता यथाक्रमम् ।। ७१ ।।*4
Abh
कनिष्ठाङ्गुष्ठकाभ्यां तु दक्षिणाभ्यामधोमुखम् ।
तन्त्रीषु त्रिप्रहारं चाप्यवमृष्टम् । इति ।
त्रिषु स्थानेष्वेकस्वरतन्त्रीत्रयं प्रत्येकं कनिष्ठाङ्गुष्ठद्वयेनाधोगतं कृत्वा हन्यादित्यवमृष्टम् ।। ६८ ।।
व्याससमासादेषामनुबन्ध इति स्पष्टम् । ननु सार्वधातुको ज्ञेय इति किमनेन । प्रतिधातुनिरूप(ण)तोऽप्यनुबन्धः सम्यक् । स तु प्रातिपदिकधातुभेदमिश्रणात्मा दर्शितः । अनेन तुल्यः अ- (ल्योऽन्यधातुगतान्य(न)पि भेदान् धात्वन्तरभेदैर्मिश्रीकृत्य प्रयोज्या(ज्य) इति कथ्यते । सर्वेषु धातुषु भव इति (सार्वधातुकः) ।। ६९ ।।
उपसंहरति । इत्येत इति । लक्षणान्विता इति । शास्त्रोक्ततयाऽदृष्टोपयोगिनोऽपीत्यर्थः । अशास्त्रान्विता हि तन्त्रीवाद्यभेदाः कियन्तो गण्यन्ते तेऽपि चैतत्पद एवांशभूता अवगन्तव्याः । तिसृणां लक्ष्णमाणानां वृत्तीनां सम्बन्धेन वृत्तिगतं यत्किञ्चिद्वाद्यं वीणावाद्यादन्यद् विपञ्चकालाबुवीणादि सरिकारावणहस्तादिगतं ततवाद्यादन्यदपि चावनद्धवाद्यजातं तद्येषु धातुषु भेदेषु विश्रान्तम् । एतत् प्रकृतिकं हि सर्ववाद्यानाम् । तच्च पुष्कराध्याये (अ. ३४) वक्ष्यते । धातव इति प्रोक्ता एवं लक्षिता इति सम्बन्धः ।। ७० ।।
उक्तां वृत्तिं निरूपयति । तिस्रस्तु वृत्तय इति । वृत्तिर्गुणप्रधानभावात्मा व्यवहार इति सामान्य– लक्षणम् । ततवाद्यप्राधान्ये गीतगुणतेति चित्रा वृत्तिः । गीतमुखेऽपेक्षताविरहितं हि वाद्यं यथाविधि वैचित्र्यचर्चितं क्रियते । एतद्विपर्ययस्तु दक्षिणा वृत्तिः ।
Notes
[ तिस्रो गीतिवृत्तयः प्राधान्येन ग्राह्याः । चित्रा वृत्तिर्दक्षिणा चेति । तासां तालगीतिलययतिमार्गप्राधान्यानि यथास्वं व्यञ्जकानि भवन्ति । तत्र चित्रायां सङि्क्षप्तवाद्यतालद्रुतलयसमायतिरनागतग्रहाणां प्राधान्यम् । तथा वृत्तौ गीतवादित्रद्विकलतालमध्यलयस्त्रोतोगतायतिः समग्रहमार्गाणां प्राधान्यम् । दक्षिणायां गीतिचतुष्कलतालविलम्बितलयगोपुच्छायत्य(तिः। अ) तीतग्रहमार्गाणां प्राधान्यम् । ]1
सर्वासामेव वृत्तीनां ललिताद्यास्तु2 जातयः ।
धातुभिः सह 3संयुक्ता भवन्ति गुणवत्तराः ।। ७२ ।।
Abh
गीतं हि विशिष्टं(ष्ट)स्थानीयं प्रधानं तदनुकूलश्चायं व्यवहारः । यत्र सममेव द्वयोर्व्यवहारस्तत्र साम्येन वर्तनाद् वृत्तिर्नाम । वृत्तिसंज्ञितशब्दस्यायमाशयः । वृत्तिरिति सामान्ये विशेषे च प्रयुक्तोऽत्र । ब्राह्मणाख्या ब्राह्मण इति यथा । गुणशब्दोऽत्रोत्कर्षवाची न त्वप्रधानवाची तेन वाद्यस्य गीतस्य च गुण उत्कर्षो यत्र प्राधान्यमिति यावत् । तथा च दत्तिलाचार्यः ।
दक्षिणावृत्तिचित्राश्च वृत्तयस्तास्वयं विधिः ।
प्रधानं गीतमुभयं वाद्यं चेति यथाक्रमम् ।। इति ।
(दत्तिलम् –४३)
अन्ये तु मन्यन्ते । द्रुतमध्यविलम्बितात्मकं यत्कालत्रयमानं तदेवानेन विशेषेणोक्तं वृत्तित्रयम् । तच्च स्वरगतो(तमु)पदिष्टस्वरमनेन विशेषेणाहेति । आवापादियोगो हि तालो मुख्यतया । तथाह । आसारितोपर(व) हनमाद्यता ( (तेष्वादावासारणानि) भ. ना. ३१.१०३) तालादि । तत्र मुख्यता ध्रुवादेरेव नियमिता गानमिति च वक्ष्यते । न चात्रापि सम्भव इति च तत एवेति च तालविधावुपदेक्ष्यमाणान् मार्गत्रयादिदं वि(भि)द्यत इत्यलमतिप्रसङ्गेन ।। ७१ ।।
ननु कस्मादादौ चत्वारो धातव (भ. ना. २९.५०) इति निरूपिते तेषां चतुर्दश पञ्चदशेति भेदा निरूपिताः । त(क)स्मान् मूलत एव चतुर्विं(स्त्रिं)शद्धातव इति नोक्तमित्याशङ्क्यावान्तरजातिविभागं तावद्भेदानुगतपरिहारान्तरं तेन दर्शयति सर्वासामेवेति । सर्वासां वृत्तीनां सम्बन्धिनः । ताः शुद्धाः । न तु सर्वे चतुर्विं(स्त्रिं)शदपि । एवकारो यथासङ्ख्यमसम्भाव्यमे (ए)व । तैर्धातुभिस्त्रयद्वय…..सम्भूय ललिता
Notes
एतेषां धातूनां समवायाज्जातयस्तु जायन्ते ।
स्वात् स्वादुदात्तललितरिभितघनसंज्ञाश्चतस्रस्तु ।। ७३ ।।
तत्रोदात्ता विस्तारधातुविषया ह्युदात्तत्वात् 1।
ललिता व्यञ्जनधातोर्ललितत्वादेव सम्प्रयोक्तव्या 2।। ७४ ।।
आविद्धधातुविषया रिभिता लघुसञ्चयाद् विनिर्दिष्टा ।
करणविषया च घनसंज्ञा गुरुलघुसञ्चयात्तु स्यात्3 ।। ७५ ।।
Abh
जायन्ते संयुक्ताः सम्बद्धा भवन्ति । गुणवत्तरा इति । व्यञ्जनधातावप्याविद्धत्वं क्वचिदस्ति तथापि ललिता– प्रधानमेव । अन्यत्राप्यन्यदिति यावत् । वीणावाद्ये सौकुमार्यं प्रधानमिति पश्चान्निश्शेषव्यञ्जनधातुनिर्दिष्टापि ललिता जातिरिहादावुक्ता ।। ७२ ।।
ननु कुत्र धातौ का जातिरिति वाच्यम् । किञ्चैकैकत्र धातुभेदे लालित्याद्यभिव्यक्तिरस्ति । तत् कथमिमा जातय इत्याशङ्क्याह ।
एतेषां धातूनां समवायाज्जात यस्तु जायन्ते ।
स्वात् स्वादुदात्तललितरिभितघनसंज्ञाश्चतस्रस्तु ।।
इति । एतेषां धातूनां मध्ये तस्यां तस्यां जातौ यश्चोचितस्त (स्माद्) एतज्जा(ता जा)यन्त इति । अभिव्यज्यन्त इत्यर्थः । तत्र विस्तारधातावुदात्ता जातिरौचित्यात् । तत्र ह्येकविस्तारादिप्रोगे ईहादिबाहुल्यात् प्रयोगस्य चित्तवृत्ति(: ) सुभगीभवति । व्यञ्जनधातौ ललिता सौकुमार्यात् प्रयोगस्य । अत एव च श्रीहर्षेणाङ्गनासमुचितं वाद्यमित्याशयेन व्यक्तिव्य (र्व्य)ञ्जनधातुना दन(श) विधेनात्र प्रलब्धात्म(मु)ना(नागानन्दम्१.१४ प्रियदर्शिका ३.१०)इत्युक्तम् । आविद्धधातो रिभिताल्ल(ल)घुप्रयोगाद् रिभो (फे) र्हि वर्णप्र (व्य) त्यय एतद्रूपम् । रिभि(फि) श्च कत्थनयुद्ध(निन्दा) हिंसानादरेष ु(हिंसादानेषु) (हिंसादानेषु) पठ्यते । (पा. धातुपाठः १३९०) अनादरश्चा (आदानं) विश्रान्तिः। युद्धादावपि च चातुर्ययोग एवोचितः। करणधातौ घना । गुर्वन्तरविश्रान्त्या निषिद्धत्वम् । अन्ये तु विपर्ययमाहुः । आविद्धे घना । लघुभिर्निरन्तरत्वात् । करणे लघूपक्रमत्वाद्गुरुविश्रान्तेश्चैकत्रानादरात् । यत्पुनरेत– दुक्तमेकैकत्र भेदेन तज्जात्यभिव्यक्तिरिति तदेवमेतदाह समवायादिति । बहुभिर्भेदैर्युक्तैः सा जातिर्व्यञ्जनमिति यावद्भेदैरित्याशङ्क्याह । स्वादिति । यावती भेदकलाप्रयुक्ते तथाविधाभिव्यक्तिरिति यावद्
Notes
त्रिविधं 1गीते कार्यं 2वाद्ये वीणासमुद्भवं तज्ज्ञैः ।
2aतत्त्वं ह्यनुगतमोघः स्थानैककरणसमायुक्ताः ।। ७६ ।।
लयतालवर्णपदयतिगीत्यक्षरभावकं3 भवेत् तत्त्वम् ।
गीतं तु 4 यदनुगच्छत्यनुगतमिति तद्भवेद्वाद्यम् ।। ७७ ।।
आविद्धकरणबहुलं ह्युपर्युपरिपाणिकं द्रुतलयं च ।
अनपेक्षितगीतार्थं वाद्यं त्वोघे विधातव्यम् ।। ७८ ।।
Abh
ग्रामरागाभिव्यक्तिरुत्क्षेपणत्वादभिव्यक्तिश्चैवमेव दृष्टा बाह्यन्त एव ह्येष्वप्यन्य एव (बाह्यान्तरेष्वप्यन्यैव) । अस्यापि शतधापि पुनस्तथोपकारिण इत्यर्थः ।
अन्ये त्वित्थं योजयन्ति । यस्मात्ता जायन्त इति प्रश्न उत्तरमिदं समवायादिति । अथेत्याह नोदात्तादिकाया वार्ताया जातयश्चेति किं न वृत्तयस्तेन धातवो धातुभेदसञ्चयात् सा चित्तवृत्तिर्जायत इति तावतो भेदकलापस्यैककरणादेकरूपतया परिगणनं जातिश्च । स्पष्टार्थोऽत्र व्याख्याने । कस्मात्ताश्चित्तवृत्तयो जायन्त इत्यत्रैकैकैवोत्तरं जायत इति । यत इति रिभिते च चित्तवृत्तिरपि भवतो (ति) विश्राम्यत्वात् । प्रविभागनियमे जातिभेदनिमित्तमभिधाय दक्षिणादिवृत्तित्रयेऽपि साधारणं वाद्यविधिं त्रिविधमाह । त्रिविधं गीत इति । विधाशब्दो विधिवाची । तथा चाह । तत्त्वौघानुगताश्च वाद्यविधय1 इति । गीत इति । गीतविषयो वाद्यस्य मेलनप्रकारः स विधिरिति सामान्यलक्षणस्य वृत्तिः । स तु गुणप्रधानभाव इति भेदगुणत्वेऽपि हि तत्त्वादित्रयं प्रधानत्वेऽपि हि स्वातन्त्रयेऽपि ।। ७३–७६ ।।
अथैषां विशेषलक्षणं क्रमेणोच्यते ।
लयतालवर्णपदयतिगीत्यक्षरभावकं भवेत् तत्त्वम् ।
गीतं तु यदनुगच्छत्यनुगतमिति तद्भवेद्वाद्यम् ।।
आविद्धकरणबहुलं ह्युपर्युपरिपाणिकं द्रुतलयं च ।
अनपेक्षितगीतार्थं वाद्यं त्वोघे विधातव्यम् ।।
इति । लया द्रुतमध्यविलम्बिता वक्ष्यमाणलक्षणाः । तालश्चञ्चत्पुटादिकृतः साम्यविशेषो वा श(म्या)तालादि(स)हितवीणया शक्यप्रयोगः। वर्णः स्थाय्यादिः । पदं विरामरूपो विच्छेदः । यतिः स्रोतोगतादिः। गीतिर्ग्रामविभागतः । जात्यंशविशेषोचितदशकभेदवैचित्र्यसम्भावितो(ता)वा गीतिः । अक्षराणि देवं शर्वमित्यादि (दीनि) । एतच्च समस्तं गीतं वीणायां शक्यप्रयोगः(गं) स्वरपदतालनिष्ठुर (निष्ठित) प्रपञ्चं दर्शयति । भू प्राप्तौ (पा. धातुपाठः –१८४५) । अत्र तेन लयादिभेदं भावयते प्राप्नोति स्वीकरोति यद्वान्यत्तत्त्वं न
Notes
एवं ज्ञेया वैणे वाद्यविधाने तु धातवस्तज्ज्ञैः ।
वक्ष्याम्यतः परमहं निर्गीतविधानसमवायम् ।। ७९ ।।
आश्रावणा तथाऽऽरम्भो वक्त्रपाणिस्तथैव च ।
सङ्खोटना तथा कार्यं1 पुनश्च परिघट्टना ।। ८० ।।
मार्गासारितमेतत् स्याल्लीलाकृतमथापि च ।
आसारितानि च तथा 2त्रिप्रकारकृतानि तु ।। ८१ ।।
एतानि तु बहिर्गीतान्याहुर्वाद्यविदो3 जनाः ।
सतालानि ह्यतालानि चित्रवृत्तौ4 कृतानि तु ।। ८२ ।।
प्रयोजनं च विज्ञेयं5 पूर्वरङ्गविधिं प्रति6 ।
एतेषां सम्प्रवक्ष्यामि लक्षणं सनिदर्शनम्7 ।। ८३ ।।
Abh
स्वभावव्यतिरिक्तत्वात् । तेन तथाविधगीतेन सह समवायः सम्मेलना स तत्त्वाख्यो वाद्यविधिः । एवमन्यत्र मन्तव्यम् । अनुगच्छति न सर्वं तद्रूपमनुहरत्यपि तु किञ्चिद्यथा विलम्बितेऽपि लये नूनं प्रयोगं मध्ये करोति देवमिति । वर्णद्वये गीयमाने त्रिचतुरान् प्रहारान् करोति । यत्र पुनः समवायात् प्रत्यक्षमेवमनुसरणं न भागशब्दः स ओघः। आविद्धं चतुरं कृत्वा प्रहारक्रियानेन(तेन)बहुलम् । उपर्युपरीति सामीप्ये । तेन निरन्तराः पाणयो घाता यत्र । गीतं (तस्य), च योऽर्थे(र्थः) प्रवृत्तिर्विदारीलक्षणो विच्छेदः सोऽनपेक्षितो यत्र । गीतविदारीष्वप्यविच्छित्तिमिति यावत् । अत एवौद्य इवौघः । केचिदाविद्धकरणवदत्र धातू निर्दिष्टाविति मन्यन्ते । अन्ये तु निर्देशादेव पूर्वो वाद्यविधिर्व्यञ्जनविस्तारधातुविध (ष)यो मन्यन्ते । तत्पक्षे न व्यक्तिव्य (र्व्य)ञ्जनधातुनेत्युपक्रम (म्य)वाद्यविधयः सम्यक् त्रयो दर्शिता (नागानन्दम् १. १४, प्रियदर्शिका ३. १०) इत्यसमीचीनं स्यादिदम् । न तु वाद्यविधित्रयस्योपदेशेनादावपि केनचिद्विकारभेदेनावनद्धवाद्येऽपि । अत इत्थमुद्दिष्टम् । ७७–७९ ।।
तन्निरूपयितुमुपक्रमते । वक्ष्याम्यतः परमिति । निर्गीतं बहिर्गीतं शुष्कमिति पूर्वरङ्गाध्याये (भ. ना. अ. ५ श्लो. ३०–५७) निर्णीतमेव । तस्य विधानादिभेदस्तेषां सम्यगवगमो येन भवति तं समवायलक्षणं वक्ष्यामीत्यर्थः ।। ७९ ।।
तत्रैषामुद्देशमाह । आश्रावणेत्यादि ।। ८०–८३ ।।
Notes
आश्रावणा नाम ।
विस्तारधातुविहितैः करणैः प्रविभागशो द्विरभ्यस्तैः ।
द्विश्चापि सन्निवृत्तैः करणो (णा)पचयैः क्रमेण स्यात् ।। ८४ ।।
गुरुणी त्वादावेकादशकं चतुर्दशं सपञ्चदशम् ।
सचतुर्विंशकमेवं द्विगुणीकृतमेतदेव स्यात् ।। ८५ ।।1
1aलघुनी गुरु चैव स्यादथाष्टमं गुरु भवेत्तथा च पुनः ।
षट् च लघूनि 2ततोऽन्त्ये गुर्वाद्याश्रावणायां तु ।। ८६ ।।
Abh
तत्राश्रावणामेव लक्षयति । विस्तारधातुविहितैरिति । विस्ताराख्ये धातौ यानि विहितानि शास्त्रकारेणेति । एकविस्तारादयश्चतुर्दश प्रभेदास्तैः प्रविभागश इति । एकैकं द्विरभ्यस्तैर्वारद्वयं प्रयुक्तैः । पुनर्भेदान्तरेऽपि तथैव द्विः प्रयुक्तो(क्तै) द्वि(र्द्वि)रावृत्तैस्तस्यां च पुनरावृत्तैः । करणस्य स्वगतायाः क्रियाया अपचयाः पूर्वयुक्तिमुज्झितभेदेनान्तरनिमज्जन(त)या तेषां तैरेवंविधैरुपलक्षिता स्यादाश्रावणा नामेति । सन्निवृत्तः (त्तैः)। तद्यथा । एकविस्तारो द्विः प्रयुज्यते ततो वा द्विरधर इत्ययं भेदो द्विः । पुनरेकविस्तारो द्विरुत्तर इत्यत्र भेदे गुणनयापि लापितस्वरूपो द्विस्ततो द्विरत(धर)इत्ययं भेदो द्विः । ततो द्विरुत्तर इत्ययं भेदो द्विरधर इत्ययं भेदः । द्विरधर इत्यत्र भेदनिमग्नस्वभावो द्विरित्येवमेतदप्यनुसर्तव्यम् । 1विशाखिलमतानुसारिणस्तु (प्राहु)रंशस्य स्वरविस्तारणेऽस्यापचयातालप्रभेदेषु तैर्वस्तु(त) एकविस्तारान् मात्राभेदः कर्तव्यः। तस्यानेकस्वरकलानुपदेश्यमानत्वात् ।। ८४ ।।
एवं वीणावाद्यमुक्त्वैतद्गतं शुष्कध्रुवाकर्मप्रस्तारमाह । गुरुणी त्वादाविति । गुरूणि शेषाणि भवन्ति। न च लघ्वक्षरम् । ईदृशमेव द्वितीयखण्डम् । ततः पञ्चदशाक्षरे तृतीयखण्डे त्रयो गुरवोऽन्ये लघवः । लक्षणरक्षणार्थं सार्थकपदोदाहरणानीह लिख्यन्ते । खण्डप्रस्तारकं लक्षणपूर्वकम् । तनौजयनौस (तननजयननसाः ।। २ ।।) सनजनस(साः) । समस्तमात्रा (आ) श्रावणानुसार(रेण) इति त्रिखण्डा । (यथा) ।
शम्भुं प्रणमत मम किल मानसमाश्रावणा(ण)मिह कृतहृदये ।
Notes
1 N: ‘N’ reads this verse as: गुरुणी आदावेकादशं सचतुर्दशं स्यादपि । चतुर्विंश द्विगुणीकृतमेतदेव स्यात् 1a. भ. लघू गुरुणी तत्र । च. लघु गुरुणी च ततः ।
1त्रिःशम्योपरिपाणौ तालावप्येवमेव चैकि(क) कवान् ।
समपाणौ द्वे शम्ये तालावप्येवमेवाथ ।। ८७ ।।
भूयः शम्यातालाववपाणावुत्तरस्तथा चैव2 ।
चञ्चत्पुटस्तथा स्यादेवं ह्याश्रावणातालः ।। ८८ ।।
Abh
भद्रं वसति (पदकमलपूजन) योगादितिसुतनतमकुटे ।
वरदं स हि शरणं भवति वनपद(म्) ।।
(इति) ।। ८५–८६ ।।
अत्र तालविशेषमाह । त्रिःशम्योपरिपाणाविति । एवमेवेति । न सोऽपि त्रिरुपरिपाणौ च तेन शम्यात्रये आदौ वीणादिवाद्येऽनुगतं गीतम् । एककवानिति । एकया विदार्या इयद्वक्ष्ये । तालत्रयपयन्ते गीते विच्छेद एकः कर्तव्य इत्यर्थः ।
अन्ये तु एककवानिति न पठन्ति । एवमेवार्थे(र्थ इ)ति ते पठन्ति । तेषामाशये उपरिपाण्यभिधानादेव शम्यात्रयं विदारीविच्छेदो (द उ)पलब्ध एव । तेनादौ वीणावाद्यप्रयोगः शम्यावाद्यमतोऽपि वीणावाद्यं ततस्तालत्रयमिति तद्वक्ष्यते । लयस्योपरि यद्वाद्यं पाणिस्तस्योपरीति । ततो वाद्यस्य (द्येन)समं गीतिः । द्वे शम्ये । योजनावपाणौ तालोपरीति प्रयुक्तम् । समे चेति । प्रयुज्यमाने (न इ)ति । असमे च प्रयुज्यमाने तालावप्येवमिति । द्वौ समपाणौ तेन शम्या तालद्वये च गीतवाद्ययोः सङ्ग्रहः ।। ८७ ।।
ततश्च यौ शम्यातालौ तत्र पूर्वं गीतं ततो वाद्यमित्यवपाणिः । उत्तरस्तथा चैवेति । तेनौव रक्षणे– (लक्षण)प्रकारेण उत्तरः पञ्चपाणिः षट्कलः । चञ्चत्पुटः षट्चतसृभिः कलाभिरिति द्वाविंशतिकलाः । द्विस्तत्र तथा चैवेति वचनात् पञ्चपाणौ च चञ्चत्पुटे चार्धपाणिरेव । तेन सप्त विदार्योऽत्र द्वयोरुपरिपाणिर्द्वयोः समपाणिस्तिसृष्ववपाणिः । वाचनिकश्चायं तालविशेष इति युग्मौजविभागापेक्षणं मनःखेदमात्रम् । अन्ये तूत्तरस्तथा द्विकल इति पठन्ति । तेऽष्टाविंशतिकला(मा)श्रावणामाहुः । अपरे चञ्चत्पुटस्तथेति (भ.ना. २९– ८८) वचनात् सोऽपि द्विकल एवेति व्याचक्षाणा द्वात्रिंशत्कलामिमां मन्यन्ते । द्वात्रिंशति(त्) कलत्वमेव सूचितं पूर्वापरविचारेण लक्ष्यते । तथा हि । चत्वारस्तु गुणा युग्म (भ. ना. अ. ३१–१०६) इति वक्ष्यते ।
Notes
[1अत्रोदाहरणम्।
झण्टुं जगति यवलितक जम्बुक झण्टुं तिति च लघु च झण्टुं (तिति चा) ।
दिङ्ग्ले गणपतिपशुपतिजम्बुक दिङ्ग्ले वरभुज दिगिनिगि चा ।
तिति चादिनि निगिचा पशुपति नितिचा ।। ]
अथारम्भः ।
दीर्घाण्यादावष्टौ द्वादश च लघूनि नैधनं चैव ।
चत्वारि गुरूणि2 तथा ह्नस्वान्यष्टौ च दीर्घं च ।। ८९ ।।
Abh
खण्डद्वयान्ते च मात्राद्वयं कलायां यद्वक्ष्यति । एककलापि मात्रेति । एवं खण्डद्वयेऽष्टादशकलाः । तृतीये चतुर्दश । अन्त्ये गुरुर्द्वयोश्चतुष्कलयोः । वक्ष्यते हि । निवृत्तौ हि कला न्यूना यदा वस्तुवशाद्भवेत् । आकलापातमात्रेति ।। (भ. ना. ३१.१२८) ।। स्पष्टः क्रमः ।
अन्यैस्तु ध्रुवा त्रिखण्डा कृता तालस्त्रिखण्डः कृतः । तत्र प्रथमखण्डे उपरिपाणियोगाच्च तस्य कला पदशून्या शेषास्वष्टासु पदानि । द्वितीयेऽवपाणियोगाद् द्वौ गुणौ तु ताले तु प्रवेशेन लभते (भ्येते)शेषः पदग्रामः षष्ठ(ट्सु) कलास्विति पञ्चपाणिः । तृतीये तु खण्डे चतस्रः कला इति पृथगेव खण्डत्रये तालयोग इति । कतमदेतत् । अतन्त्रमिति न चोद्यम् । न ह्यत्र समुदायाश्रयं मानम् ।। अपि तु प्रतिखण्डभेदे च भवति गानवैचित्र्यमिति लक्ष्यते ध्रुवाध्याये (भ.ना.अ. ३२) । एकवस्तु ध्रुवा ज्ञेया इत्युपक्रम्य द्विवस्तु परिगीतिका (भ.ना. अ. ३२. ७) इत्यादि । चतुर्विशतिकलात्मकेऽर्धयोगादेकादशकलिकत्वात् सङ्कीर्णं मानं तच्च तालाध्याये (भ.ना. अ. ३१) सङ्ग्रहीष्यते कलाः पञ्चेत्यादिनेति (भ.ना. अ. ३१. २४) व्याचक्षते तदसत् । तत्र योगेऽत्र विच्छेदाभावात् खण्डत्रयेणैवापृथक् तालः । तदुपभङ्गचतुर्लघ्वादि यदिति मान……पि स्फुट एव । तदर्थमेव खण्डत्रयविभागो मुनिना कृतः । ताले पदेषु च प्रथमखण्डे च सङ्कीर्णः ताले यद्वक्ष्यते कलाः पञ्च तथा सप्त पुनर्नव च कीर्तिताः ।। दशैकादश चैवेति (भ. ना. अ. ३१. २४) एवं च गीततालविषयः पदेषु यो गुणविभागो वक्ष्यते तालाध्याये चत्वारश्च गुणा युग्म (भ. ना. ३१. ६८) इत्यादिना सोऽपि नात्यन्तायेहापि न भवतीत्यलं बहुना । इत्याश्र(श्रा)वणा ।। ८८ ।।
अथारम्भः । आरम्भे तावद्गीतपदं प्रस्तारमाह । दीर्घाण्यादावष्टावित्यादि । नैधनं गुर्वित्यर्थः । चत्वारि
Notes
लघुसंज्ञानि चतुर्धा निधनं1 द्विगुणीकृतानि दीर्घे द्वे ।
अष्टौ लघूनि नैधनमित्यारम्भेऽक्षरविधानम् ।। ९० ।।
[ अत्रोदाहरणम् ।
झण्टुं झण्टुं झण्टुं झण्टुं जगति यवलितक दिगिनिगिचा ।
दिङ्ग्ले दिङ्गले तिति झझलकुचझ(कुझ)लजम्बुक तितिचा ।
गणपति (झण्टुं झण्टुं)सुरपति पशुपति चा ।। ]
1aअस्य तु वाद्यम् ।
कार्यं त्रिपर्वर(वि)हितैरुद्वहनै2रप्यथ समवरोहैः ।
तल3रिभितह्नादयुतैः4 करणैर्विस्तारभूयिष्ठैः ।।
Abh
लघूनीति । निधनमिति । गुरुं चान्ते गुणीकृतानि । ।।२२०२। द्विगुणं पुनर्गुरुद्वयम् । मौ त्नौ नौ स इति । म्भौ नौ भ्यौ इति । म्भौ नौ ग (इति) । आरम्भे तृतीयखण्डः ।
तं वन्दे नाथं त्वामारम्भ इह निधनविरहितमहसम् ।
गौरीकान्त (न्तं)हुतवहरविशशिय (दृक्)त्रितयमिदं(मम्) ।
नेत्रं ध्व(त्राध्य)स्तं हृदि विदलितत(मस)म् ।।
अत्रापि त्रिखण्डत्वमेव । गीततालयोर्दश कला आद्यखण्डद्वितीये षट्कलाः……यमे खण्डे……मैथुनग्रहणादेकविंशतितमे गुरोर्विश्रान्तिकलाप्रयोगः पुन….शतितमे इति पञ्च ।। ८९–९० ।।
(अ)क्षरेषु द्वादश कलास्तासां तालविधिमाह । तालस्त्रिकलश्चादौ । तृतीयस्यां कलायां तालमेकस्यां शम्या द्वितीयस्यां तालः । द्वितीयस्यां शम्या द्वितीयस्यां तालम् । अन्येऽपि तालोऽपि ह्येकका(कला)त्मकः स्यादिति वदन्ति । ते शम्यानन्तरमेव तालमाहुः । तृतीयस्यां सन्निपातं शेषं तु विप्रा इति परिपाट्या । द्विकलपादभागानुसारेण युता(पुनः)पितापुत्रकश्च षट्पूर्व (भ.ना. २९–९२) इति द्विकल एव पञ्चपाणिः। चञ्चत्पुटस्तथा द्विकल एव । के(ते)न तीरवताप्रशतादसतानि प्रतिसप्रसतिस इति केचिद् व्या(च)क्षते । अत्र क्रमादयः शब्दाः पूरणार्थे वर्तयितव्यास्तावन् न्यायोऽस्ति यत्र मध्यं च विकलोचितेन पूर्यन्ते(ते)।
Notes
अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैर्द्विरभ्यस्तैः ।
1आरम्भोऽप्यवतरणस्त्रिपर्वयुक्तैश्च कर्तव्यः ।।
1aतालस्त्रिकलस्त्वा (श्चा)दौ शम्यैककला कलाद्वये तालः1b ।
द्विकला च पुनः शम्या तालो द्विकलश्च कर्तव्यः ।। ९१ ।।
2त्रिकलश्च सन्निपातः पुनः पितापुत्रकश्च षट्पूर्वः ।
चञ्चत्पुटस्तथा स्यादारम्भे तालयोगस्तु ।। ९२ ।।
Abh
ननु चञ्चत्पुटश्चतुष्कलोचितेनेति प्रमाणाभाव (:) । षट्पितापुत्रगो(को)ऽत्र द्विकल (भ. ना. २९– ९२) इति प्रकरणं प्रमाणमिति चेदन्योन्याश्रयः । द्विकलो द्विः पञ्चपाणिरिति चारित्र (च त्रि) कलं च (लश्च)सन्निपात(भ. ना. २९–९२)इत्यतोऽनन्तरं भूय एवमिति बाधकत्वे त्रिकलं च(लश्च) सन्निपात (भ. ना. २९–९२) इत्यतोऽनन्तरं पितापुत्रकं च(कश्च)षट्पूर्व(भ. ना. २९–९२) इति वचनप्रयोजनं तथा चासारितेषु चञ्चत्पुटपरिवर्तस्य शम्यादि(दी)द्वे(द्वौ)च पञ्चपाणियुताविति (भ. ना. ३१–९५ वक्ष्यति । द्गात्रिंशति(त्)कलास्तद्भारतेयपदगणविभागस्तस्मात् का(ता)लत्रि(स्त्रि)कल(भ. ना. २९– १९)इत्यादौ त्रिःशम्योपरिणाणाविति (भ. ना. २९–८७:) । निरन्तरा ये च काला द्वादशिकपाताः तातासंताताः संसंता(ता) संसंता । तालो द्विकलश्चेति (भ. ना २९–९१) तु पाठे सन्नि(पात)द्वयम् । अत्र त्वन्ये तु तमेकेनैव सन्निपातेन भाव्यते(वयन्ते) ।
ननु प्राची कल्पनेति चेदेकेनैव भाव्यमिति वचनादृते किमत्र प्रमाणम् । तथापि च तद्द्विकलत्वे चतुष्कलत्वपरिहारे वा प्रमाणमस्ति । एकेन सन्निपातेन भाव्यम् । प्राथमा(म्या)च्चतुःका(ष्का)रणभूतो द्विकल एव विधिरित्यपि यदुच्यते तत्रापि चाचपुटः प्रथम इति तदीयचतुष्कलविध्याश्रयेण सर्वं युक्तमित्यलं बहुना ।
सर्वथाऽऽश्रावणादिवद् द्वाविंशतिकल एवारम्भः । प्रथमखण्डे केवलं पाठभेदः स च दर्शितः । द्वितीयखण्डे यथाक्षर(:)पञ्चपाणिः । तृतीये चञ्चत्पुटोऽपि यथाक्षर एव । स ता ता ता स स ता ता । न च शास्त्रान्तरप्रामाण्यादपि द्विकलादिविभागाश्रयं (यत्वं) युक्तमेव । तादात्म्ययोगेऽत्र न स्यादारम्भश्च…..ति विशाखिलाचार्यः ।।९१–९२।।
Notes
[1अस्य तु वाद्यम् ।
कार्यं त्रिपर्वर(वि)हितैरुद्वहनैरप्यथ समवरोहैः ।
तलरिभितह्नादयुतैः करणैर्विस्तारभूयिष्टैः ।। ९३ ।।
अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैद्विरभ्यस्तैः ।
आरम्भोऽप्यवतरणस्त्रिपर्वयुक्तैश्च कर्तव्यः ।। ९४ ।।]
Abh
अस्य तु वीणावाद्यविधिः प्रदर्श्यते । कार्यं त्रिपर्वविहितैरित्यादिना । उद्वहन (नैरप्यथ समव)रो(हैः)। एकविस्तारसङ्घातसमवायात्मिकानि त्रीणि पर्वाणि । अस्य(त्रयो) भेदा यस्येति विस्तारधातुस्त्रिपर्वा । अनुबन्धभेदस्य चञ्चत्पुट(स्य) पृथग्भावात् । तेन त्रिपर्वणा विस्तारधातुना विहिता ये आरोहावरोहास्तेऽपि च व्यञ्जनाविद्धोरधावु(विद्धैरध उ)क्तैस्तलरिभिड(त)ह्नादभेदैर्मिश्रीभूतास्तथा करणधातुभेद एकविस्तारबहुलेनापचययुक्ता न्यग्भूता इव ते च द्विस्त्रिरावर्तमानाः पुनरित्यन्तरप्रयोगव्यवधानेऽप्यगताः ते च द्विरभ्यस्ताः प्रयुक्तास्यैरुपलक्षित आरम्भः । व्यवधानेनावृत्तिनिवर्तनाभ्यामितिह वृत्तिविशेषो मन्तव्यः । पृथक् प्रसङ्गाल्लाघवेनावतरणं पूर्वमनुक्तमाह । आरम्भ इति । अपिशब्द इवशब्दस्यार्थे । आरम्भवद– वतरेणऽप्यङ्गैस्त्रिपर्वयुक्तैर्विस्तारधातुभेदैर्वाद्यविधिः कर्तव्य इति यावत् ।
नन्वस्य शुष्काक्षरैर्विधिस्तालविधिश्च कस्मान्नोक्तः । तत्रैक मन्यन्ते । चकारोऽवधारणे । तेनास्य वाद्यविधिनैव प्रयोगः । तथापि पुष्कराध्याये (भ. ना.अ. ३४) (प्रत्याहाराया)साववतीर्णकोटी (टिः)। तत्र वाद्यं सार्वमर्जितं सार्वभाण्डिकं सकलस्त्रीबालमूर्खादिरञ्जनं प्रयोक्तव्यमिति । तदेवमवतरणं वाद्यप्रधानमेवेति तावन् मुनेः ।
तन्त्रान्तरे तु यस्य रूपं सप्तरूपात्मकमुक्तम् । तदपि दृश्यते ।
चञ्चत्पुटोत्तरैर्मिश्रा सुगत्यास्तु यथाक्षरै ।
सुगधि……मुत्तरांशमुपाश्रिता ।।
विकटोत्तरयुग्म(ग्मा)भ्यां रौद्री स्याद्विंशातिः कलाः ।
पञ्चदश्यास्तु कर्तव्या वार्तिके द्विकलेन च ।।
चच्चत्पुटे चतुष्षष्टिव (र्व)र्तनेत्यर्ध–….. ।
उद्धट्टचञ्चत्पुटयोः पाञ्चाली सप्तका चतुः ।।
Notes
अथ वक्त्रपाणिः ।
1गुरूणि पञ्च ह्नस्वानि षड्गुरुश्च चतुर्गुणः1a ।
गुरुणी द्वे लघु त्वेकं चत्वार्यथ गुरूणि हि ।। ९५ ।।
Abh
दक्षिणे चोत्तरेण स्याच्चैव
युजाश्विनी दक्षिणेन ध्रुवासप्तकमित्यथ ।
सूर्यादितो षडङ्गेयं षड्जग्रामादिसप्तकम् ।
इति । एवमगस्त्यादिचतुष्केण गुरुलघुर(घवो)न्यक्रमेण यथाक्रमं सप्तसु ध्रुवासु गीतास्व- परिग्रहात्माऽवतरणप्रयुक्तं भवति । अव्यवधानेन भवतीति कीर्तिधराचार्येण लिखितम् । प्रत्याहारोऽपि यस्त्रिसाम स्यात षट्कल इति वक्ष्यते । तत्रैककलादिना गुरुस्त्रिकले (ल इ)ति प्राह्णं साम । सा नि नि सा आ (सा)नि वि (नि) सा । षट्कला चैककला द्विकला चतुष्कलना (लात्रा)पि पिण्डीकरणम् । अत्र क्रमेण चित्रवार्तिकदक्षिणानां द्रुतादीनां च विधिः पञ्चकलाद्वयमाने सं सां स सा नि सा नि ता आ नि ता ता स नि वि सं । एवं तिस्रः । सौरउद्धटे(ट्टे)न चाचपुटो वि(द्वि)कलोऽथ चतुष्कलः । श श श नि स मा नि स नि सं आ नि वि स सा आ नि वि स सं । एतदुक्तम् ।
प्राह्णमेककलं साम द्विकलं वह्निजं तथा ।
चान्द्रं तु द्विकलं शुष्कं पूर्वयोः सार्थकं पदम् ।।
इति कीर्तिधराचार्यः । तदेतदपि पुष्कराध्याये (भ.ना.अ.३४) निरूपयिष्यते । तत्र त्रिपर्वाभिधानमेव ज्ञापयति पूर्वरङ्गाध्यायं (भ. ना. अ. ५) पुष्कराध्यायं (भ.ना. अ. ३४) चोपजीव्य पूर्वरङ्गरचना कार्या । आस्तां तावत् । नन्वारम्भः पूर्वरङ्गाध्याये (भ. ना. अ. ५) प्रथममुद्दिष्टः । इह त्वाश्रावणेति किमेतदुक्तम् । तत्रैव वैकल्पिकमनयोः प्राथम्यं समकालत्वाद् द्वयोः ।। ९३-९४ ।।
अथ प्रकृतं वक्त्रपाणिं लक्षयितुमाह । गुरूणि पञ्चेत्यादि । गुरुणी द्वे लघू (घुनी) द्वे इति केचित् पठन्ति । अन्ये लघु त्वेकमिति । प्राच्यं तु युक्तं मन्यन्ते यतिशोभाकरत्वात् । म त न लघु गुरु नयनं गुरु । ननलं गुरु ।
Notes
1.N:. पञ्च हृस्वानि षट्गुरु स्याच्चतुर्गुणं 1a. र. गुणम्
चत्वार्यथ1लघूनि स्युस्त्रीणि दीर्घाणि चैव हि ।
लघून्यष्टौ च दीर्घं च वक्त्रपाणौ भवेद्विधिः ।। ९६ ।।
[अत्रोदाहरणम् ।
दिङ्गले झण्टुं जम्बुक जगति य झण्टुं दिङ्गले ।
घेन्दुं (च) घेटो घाटो मट्टु (टु)नकिटि इनं (टिनं) दुङ् ।
घदुगदुकिटमटनम्2 ।]
2aअस्य वाद्यम् ।
आविद्धकरणयुक्तो व्द्यङ्गःस्यादेककप्रवृत्तौ (त्तो)वा ।
अल्पव्यञ्जनधातुर्वाद्यविधिर्वक्त्रपाणौ तु ।। ९७ ।।
3द्विकले मन्द्रके (मन्द्रके द्विकले) यत्तु4 शम्यातालादिपातनम्5 ।
तत्सर्वं वक्त्रपाणौ तु कार्यमष्टकलान्वितम्6 ।। ९८ ।।
Abh
वक्त्रै गौर्या ।
स्म दादह(दन्दही) तु दुरितभरम् ।।
तत्र र च च इत्यर्थे चञ्चत्पुटो द्विकल (भ.ना.अ. ३१.१४२–१४५) इति वक्ष्यते । शेषः पञ्चपाणिरेककलस्तस्यात्तेत्ययपरिषत्तता ।। ९६ ।।
अथास्य वीणावाद्यविधिरुच्यते । आविद्धकरणयुक्त इति । आविद्धधातुना करणधातुना सर्वथैव च युतो वक्त्रपाणौ वाद्यविधिः स्यादिति सम्बन्धः । तत्र च द्वे अङ्गे वक्ष्येते । मुखं प्रतिमुखं चेति वर्णाङ्गावत्र । एकं विदार्यात्मकम् । अपरं षट्पदविदारीकम् । यद्वृत्तं तस्यावरोहित्वलक्षणोऽयं प्रवृत्ताख्यो भेदोऽपि वक्ष्यते तं वा कुर्यात् । एवं तावदङ्गं स्यात् । एककप्रवृत्तौ(त्तो) वेति पाठे व्याख्या । यदा तर्ह्येकेनोपयोक्तव्य इति पाठस्तदा विवक्ष्यमाणैकविधैकवृत्तमध्याद् द्वे एकमङ्गमस्मिन् प्रयोक्तव्यमिति व्याख्या ।। ९७ ।।
अथास्य तालविधिमाह । मद्र(न्द्र)क इति । कलाकालंपरिच्छेदं येन तत्पातनं ……शम्यादिना परो द्विकलापरिच्छेद्यं गीतस्यैकेन्द्रियग्राह्यतयाऽवधारयति । चत्वार्यावापादिना परं प्रत्यस्य चक्षुर्ग्राह्यत्वात् स्वात्मन्यवधानकलातिशयेनाक्षरत्रयगणनाया इवादृष्टमात्रमुपयोगः । तत एव कालत्वेन स्वस्यादेः स्वकलोपयोग
Notes
1तस्याधस्तात् पुनः कार्यं पञ्चापाणिचतुष्टयम् ।
वक्त्रपाणेरयं तालो मुखप्रतिमुखाश्रयः ।। ९९ ।।
[इति।]
अथ सङ्खोटना2 ।
गुरुणी लघून्यथाष्टौ दीर्घं 3द्विगुणं तथा कर्तव्यम्3a ।
लघुदीर्घे लघु च पुनश्चतुर्गुणं सम्प्रकर्तव्यम ।। १०० ।।
पुनरष्टौ ह्नस्वानि स्युरिह4 तथा नैधनं च कर्तव्यम् ।
5सङ्खोटनवस्तुविधौ ह्नस्वगुरुविधिः समुद्दिष्टः ।। १०१ ।।
[सङ्खोटनाया उदाहरणं प्रकल्प्य कृतम् । दिङ्गले जगति य वलति कतेचातिचातितिझ लघु चझल पशुपतिचा ।]
Abh
इति न । नास्तीति कलात्वमपि न तु द्विकलमद्रकगतः । किमत्रन्या (त्रान्य)सप्ततालेनेत्याह । अष्टकलान्वित- मिति । अनु पश्चाद्भागमितं प्राप्तम् । तेन द्विकलमन्द्रकस्या……त मात्रा गतः । अत्र तालविधिः । श ता ता श ता (सम्) ध्रुवाया अन्ते चास्य ताल इति दर्श्यते ।। ९८ ।।
तस्याधस्तादित्यष्टकलस्य मुखस्य पश्चात् पञ्चपाणिचतुष्कं प्रतिमुखात्मकं कुर्यात् । तस्य पुनरप्यन्ये (न्यस्ये)त्यर्थः । न तदेव गीतं चतुरंशकं(रावृत्तं)गेयमिति कथयति ।
वक्त्रपाणेरयं तालो मुखप्रतिमुखाश्रयः ।
इति । मुखमष्टकलं शिष्टं प्रतिमुखम् । एकदा ह्यत्र तालःकेवलं परिवर्तमात्रभेद इति भावः । अन्ये त्वष्टकलामात्रा त्रिरावृत्या
अथ सङ्खोटनामाह । गुरुणीत्यादिना । नैधनमिति । गुर्वित्यर्थः । तेन सङ्खोटना त न न य ज न न न ग (स इति) ।) । विधिभावातत्तु(वात्तु) । ये तु
Notes
अस्या वाद्यविधिः1 ।
अधिदण्डं हस्ताभ्यां वीणां विनिगृह्य2 दक्षिणाङ्गुल्या ।
अङ्गुष्ठाभ्यां च तथा कार्यं सङ्खोटनावाद्यम्3 ।। १०२ ।।
3aसङ्खोटयेत् स्वरं वादिना तु 4संवादिना तथाधिबलम् ।
5समवायिभिश्च शेषैरनुवादिभिरल्पकैश्चांशैः ।। १०३ ।।
विस्तार6 चित्रकरणैर्द्विस्त्रिर्विनिवर्तितैर्द्विरभ्यस्तैः ।
7उपचययुक्तैः क्रमशो8 वदन्ति सङ्खोटनावाद्यम् ।
तालोऽस्या गदितस्तज्ज्ञैः शीर्षवत् पञ्चपाणिना ।। १०४ ।।
Abh
अथ वीणावाद्यविधिः । अधिदण्डमिति । वीणाशब्देनेह तन्त्री । अधि समीपे । यथा बिन्दुर्वाद्यते तथाऽऽपीड्य दक्षिणतर्जन्याऽङ्गुष्ठाभ्याम् । वादिना संवादिनः (ना) तेन च सहाधिबलं वादिनोंऽशस्वरं च खोटयेत् चन्द्रचामेप्रये (बिन्दु मेलयेत) । अनुवादिस्वरास्तत्र मेलनायां समवायिनो गुणभावेन निर्भासमानाः प्रयोज्याः । एतत्त्रयापेक्षया ये चापि वादिनस्तेऽल्पका अल्पगानादितरस्वरापेक्षयाऽल्पा इव नातिपुनरुक्ताः । तन्मेलनान् मध्ये प्रयोक्तव्याः ।। १०२-१०३ ।।
केन धातुभेदेनेत्याह । विस्तारचित्रकरणैरिति । विस्तारधातुजा ये विचित्रा यथा तुल्यव्यामिश्रणया करणा (ण) भेदास्तैः । द्विस्रि र्निवर्तितैश्चभ्यस्तैः । त्रिरावृत्या(त्त्य)भ्यासयोर्व्यवधानैर्वा प्रधानीकृतो विशेष इत्युक्तं प्राक् । उपचययुक्तैरन्यथा भेदविस्तारधातुमग्नैरिति यावत् ।
अथास्यास्तालविधिमाह । तालोऽस्या गदित इति । शीर्षवदिति सिद्धे पञ्चपाणिग्रहणं शीर्षगतं परिवर्तनं व्यावर्तयितुम् । मद्रकरोविन्दकोत्तरेषु हि शीर्षकं लक्ष्यते । तत्रेह विशेषाभिधाने विशेषकवत् सर्वमति- दिश्यते । रोविन्दकशीर्षकमपि विशेषातिप्रवृत्तत्वमिति वक्ष्यते । पञ्चपाणिनेत्येतावता सिद्धे शीर्षकवदिति वचनं द्विकचतुष्कयोः प्रतिपत्त्यर्थम् ।
यथाक्षरस्य कर्तव्यं मद्रकस्य तु शीर्षकम् ।
Notes
अथ परिघट्टना ।
1दीर्घाण्यादावष्टौ लघूनि कुर्यात पुनर्द्विगुणितानि ।
2ह्नस्वान्यपि चत्वारि द्विगुणानि स्युः3 सदीर्घाणि ।। १०५ ।।
षोडश लघूनि च4 स्युः सह 5निधनेनैव कार्याणि 5a ।
एष परिघट्टनायां गुरुलघुवस्तुक्रमः प्रोक्तः ।। १०६ ।।
[एतस्यामप्युदाहरणं प्रकल्प्य कृतम् ।
दिङ्ग्ले दिङ्ग्ले दिङ्ग्ले दिङ्ग्ले जगति य वलति क ।
तितिझलकुचझलदिगिनिगि गणपति चा ।
चलति क गणपति पशुपतिसुरपति चा ।]
वाद्यं चास्यास्त6(स्यां त)ज्ज्ञैः सोद्वहनं हस्तलाघवात् कार्यम् ।
व्यञ्जनधातुसमुत्थं नानाकरणाश्रयोपेतम् ।। १०७ ।।
Abh
चतुष्कलः पञ्चपाणिर्द्विकले द्विकलस्ततः ।
चतुष्कलस्तु कर्तव्यो मद्रके तु चतुष्कले ।।
(भ. न. अ. २३८-२३९) इति । वक्ष्यत इति । अन्यथा प्राथम्यादेककल एव प्रतीयते । तत्र च ये च लय(या)ल्लयनवेदगा इति ध्रुवामाहुस्तेषां द्विकलः । अन्येषां चतुष्कल इति ।। १०४ ।।
परिघट्टनाध्रुवाविभागमाह । दीर्घाण्यादावष्टावित्यादि । सो म न स सा न स र ला । परिघट्टना यथा ।
सर्वेषां पाशानामेव(वा)घटनमवघटनपरमलहक(ति)रसि ।
परिचितहृदय हतं(ता)निकृतनिऋतिगु(ग)णकृतनुतित(ति)भगवन् ।। १०५-१०६ ।।
अथात्र वीणावाद्यविधिमाह । वाद्यं चास्यामिति । अस्य त्विति । शुष्कभेदस्येति योज्यम् । सोद्वहनमिति । आरोहप्रधानम् । हस्तलाघवादिति । तत्तद्धतिरूपपारुष्यं न भाति केवलमनाहतैः पदलक्षणमात्रं श्रूयत इति यावत् । तथा चाह । व्यञ्जनधातोरुत्थित(धातुसमुत्थ)मिति । तस्य च ललिता जातिरित्युक्तम् ।
Notes
1सम्पिष्टकवच्चास्यास्तालः करणैस्तु धातुसंयुक्तैः । 1a
2गुरुलघुयोगादेवं विहितः कार्यो बुधैर्नित्यम् ।। १०८ ।।
Abh
नानाप्रकारा ये करणधातोर्भेदा उक्तास्तेषां यदाश्रयणं व्यञ्जनभेदप्राधान्यापदनं एतेनोपेतम् ।। १०७ ।।
सम्पिष्टकवच्चास्यास्तालः करणैस्तु धातुसंयुक्तैरिति केचित् पठन्ति । सम्पक्केष्टकवच्चास्यास्ताल इति यावत् । तथा चाह ।
निष्क्राममादितः कृत्वा शम्यास्तिस्रः प्रयोजयेत् ।
तालत्रयं ततश्चैव शम्यातालौ ततः परम् ।।
शम्यातालौ ततः कार्यौ सन्निपातोऽन्त्य एव च ।
ओवेणके तु सप्ताङ्गे सम्पिष्टकमिदं मतम् ।।
द्विः शम्यातालयोगेन द्वादशाङ्गे(ऽपि चेष्यते) ।
(भ. ना. अ. ३१ श्लो २८९-२९१/१) इति तत्र शीर्षकवदिति प्रकरणाद् द्वादशकं सकलम् । एवं हि सम्पिष्टकताल इत्याचक्षते । अन्ये तूभयमिति द्वाविंशतिकलत्वं परिघट्टनाया आहुः नी स स ता ता सं ता सं (१२) नि स स ता ता सं सा सा स ता सा सा (ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ) अत्र च पक्षे वत्करणवाचकमित्युक्तं पूर्वरङ्गाध्याये (भ. ना. अ. ५) । सम्पक्केष्टकस्य लक्षणं वक्ष्यते ।
तालादिस्त्र्यश्रभेदोऽन्यः सम्पक्केष्टकसंज्ञितः ।
गुरुपञ्चाक्षराद्यन्तप्लुतमात्रासमन्वितः ।।
(भ.ना. अ. ३२-२१)
अन्ये पठन्ति । अन्ते चतुर्मात्राद्वयान्विता(तः) इति । ता स ता स ता यदि वा सो स ता सो ता । अन्ये तु द्वादशकलं चासाविति । विकलीकृत्य निष्कामप्रवेशयोर्योगेनात्र सम्पक्वेष्टकश्च योज्यते । ता प्र सं प्र ता प्र स ता प्र सा प्र नि सं । वत्करणं चात्र पक्षे न वाचकम् । यथाक्षरं विकलं मिश्रीकृत्य सम्पक्वेष्टमष्टेच्छन्ति । ते चाष्टादशकलत्त्वमासामाहुः । एवं ह्यनुसृतं भवतीति । गुरुलघुयोगादेवं विहितः कार्यो बुधैर्विधेय- (र्नित्य)मिति च ग्रन्थो वाचको भवति । गुरुशब्देन यथाक्षरं लघुशब्देन वकलद्विकलो योगशब्देन प्लुतः
Notes
मार्गासारितवाद्यं विस्ताराविद्धकरणसंयुक्तम् ।
सकलैः सतलैः करणैरथ गुरुलघुसञ्चयश्चायम् 1।। १०९ ।।
चत्वारि गुरूणि स्युर्लघूनि चत्वारि च द्विगुणितानि ।
2गुरुणी लघून्यथाष्टौ गुरुणी चेत्येतत् त्रिधा योज्यम् ।।
[अथवा3
चत्वारि तु गुरूणि स्युर्ह्रस्वान्यष्टौ भवन्ति हि ।
गुरुणी नव ह्रस्वानि दीर्घमन्त्यमथापि च ।।
Abh
सङ्गृहीतः । सम्पक्केष्टकपक्षे तु गुरुलघुयोगात् ध्रुवागतवीणाप्रतिगतो वा मन्तव्यः ।। १०८ ।।
अथ मार्गासारितं वक्तव्यम् । तस्य च चित्रपूर्वरङ्गपक्षे ताण्डवाद्युपयोगेऽपि सर्वत्र पक्षे तन्त्रीवाद्यप्राधान्यं
तन्त्रीभाण्डसमायोगान् मार्गासारितमिष्यते ।
(भ. ना. अ. ५-२०) इत्यन्तं प्रतिपादितम् । तदेव वक्तुं प्रथम स्य वीणावाद्यविधिमपि विधत्ते । मार्गासारितवाद्यमिति । व्यञ्जनधातुवर्जं धातुत्रयमप्यत्र प्रयोज्यम् । व्यञ्जनधातुभेदौ तु तालकलौ प्रयोज्यावित्याह । सकलैः सतलैः करणैरिति । उक्तैर्धातुभेदैरित्यर्थः । अन्ये तु करणधातुभेदो एवं कलतलाभ्यां मिश्रणीया इत्याहुः । वीणावाद्यविधिमभिधाय तत्र प्रत्याहारभेदोपयोगिगुरुलघुवैचित्र्यसम्पादकध्रुवाभिधेयायोपक्रमते । अथ गुरुलघुसञ्चयश्चायमिति । वक्ष्यत इति शेषः ।। १०९ ।।
तमाह । चत्वारि गुरूणि स्युरित्यादि । म्भौ नौ त्नौ सलग अशेषमार्गः । द्विधा यदि वा ऽऽऽ । एतच्च त्रिधा योज्यमेककलचञ्चत्पुटे द्वौ पञ्चपाणौ ।
यक्षैर्या(यो)द्य स्तुतिपर इति हि र (हर)कृत्यार्थं विरचयसि शिवपुरान् । अर्वाध्मातत्रिभुवन भयकरहेतुत्रिपुरसदन(वि)दलनान्त(न्तः)पाशा(शांस्ते)वि(द)लयतु(हि)शिवमार्गं(र्गे) रणघटितनिजमनसः ।।
Notes
अत्रोदाहरणम् ।
दिङ्ग्ले झण्टुं जगति य ।
वलितक झण्टुं तिति ।
झलकुच झलतितिचा(लति चा) ।]
1बालासारितवच्चैव तालोऽस्य परिकीर्तितः ।। ११० ।।
श्रवणमधुराणि लीलाकृ2तान्यभिसृतपरिसृतान्तरकृतानि ।
तान्यप्यर्थवशादिह कर्तव्यानि प्रयोगविधौ3 ।। १११ ।।
Abh
अस्य तालविधिमाह । बालासारितवादिति । कनिष्ठासारितस्य तालो वक्ष्यते ।
चञ्चत्पुटपरिवर्तः शम्यादि द्वौ च पञ्चपाणिकृतौ ।
अन्ने च सन्निपातः ।।
(भ. ना. अ. ३१-९५) इति सप्तदशकलः सोऽत्रापि मन्तव्यः । स ता सं सा ता स ता स मा तं सा स ता स ता साः ।। ११० ।।
अथ लीलाकृतमुद्दिष्टं तल्लक्षणं वक्तव्यम् । ननु पूर्वरङ्गाध्याये (भ.ना.अ.५)ऽस्य नामापि नोक्तम् । तत्र वैकल्पिको मार्गासारितलीलाकृतयोः प्रयोगः । आसारितमध्य एव चास्य सङ्ग्रह इति तस्य लक्षणमाह । श्रवणमधुराणि लीलाकृतानीति । अभिसृतं परिसृतं चासारितभेद एव । आसारिततालयोगेनैव गीयमानं वार्तिकमार्गगतत्वाद् द्विगुणाक्षरं षड्जग्रामगीतजात्यंशकगीयमानमभिसृतम् । तदेव ग्रामान्तरे परिसृतम् । अन्ये त्वभिसृतमपदान्तकं माषघातादितालरचितं सप्ताङ्गं त्र्यश्रम् । परिसृतं तु (द्वि) युजमन्ये (न्य)प्रदानादिनवाङ्गमित्याहुः । अन्तरशब्देनात्र लयान्तरम् । तच्च कनिष्ठासारितापेक्षया द्विगुणपदलयमार्गवाद्याक्षरम् । तदीयशक्त्या तालादि । उक्तमेवोपक्रमं तल्लयद्वैगुण्येन मध्ये मध्ये गीयमानं भवति । तैरभिसृतपरिसृतान्तरैर्बालासारितैर्यानि वाद्यानि कृतानि । लीलया सौकुमार्यमाधुर्यरूपया कृतानीति लीलाकृतानि । तथा तैरपसारितैः कृतानि प्रयुक्तानि गीयमानपदानि नियमस्य वा तालात्मकानि वस्तूनि ।
Notes
1अथासारितानि ज्येष्ठमध्यकनिष्ठानि तालप्रमाणनिर्दिष्टानि तानि तालविधाने वक्ष्यामः2 ।
3एवमेतत् स्वरगतं ज्ञेयं वीणाशरीरजम् ।
विपञ्चीवाद्ययुक्तानि करणानि निबोधत ।। ११२ ।।
Abh
चत्वारस्तु गणा युग्मे ओजे षट् परिकीर्तिताः ।
द्वितीये पञ्चपाणौ तु सार्धाः षट् परिकीर्तिताः ।।
(भ. ना.अ.३१-१०६) इति । तथा ।
चञ्चत्पुटपरिवर्तः शम्यादि द्वौ च पञ्चपाणिकृत्यौ ।
अन्ते च सन्निपातः ।।
(**भ. ना.**अ. ३१-९५)
इत्येवंरूपाणि तैः कृतानि लीलाकृतानीति त्रीण्येतानि भवन्ति । इह चोद्देश एतानि पृथग् गीतानि । उद्दिष्टं
तत् कथमेतदित्याशङ्क्याह । तान्यप्यर्थवशादिहेति । शुष्केऽपि प्रा(प्र)यो(ग)विधौ अपक्रान्ते अर्थमर्थ्यमवलम्ब्य
तान्यपि प्रयोज्यानि । अपिशब्दाज्ज्येष्ठाद्यपि । तेन द्विरेषां प्रयोग इत्युक्तं भवति । एवमासारितविधावित्यव-
गन्तव्यम् । तानि यद्यपि अर्थ……व(अर्थवन्ति) पदानि तथापि बहुप्रयोगनिर्वहणकर्तव्यतासामर्थ्या
कर्तव्यतयासारितविधावप्ययमेव मार्गः । तत्र सतालानि चित्रवृत्तौ कृतानीत्युद्देशान्तर(रं) निरूपितम् ।
तत्र केचिद्वीणावाद्यप्रयोगस्तालशून्यो ध्रुवाप्रयोगस्तु सतालो वीणावाद्ये शम्यात्मकतालयोगेऽपि शम्यातालानि विध्ययोगादिति मन्यते । अन्ये तु विशाखिलाचार्यमतानुसारतः सर्वथैव तालम(लाद)न्यत्र वीणावाद्यमाहुः । अपरे तु ध्रुवागानमेवोभयथा तालयोगाभ्यामन्त्रेच्छन्ति ।। १११ ।।
अथासारितानां तन्त्रयुक्त्या ता(ल)गतावेक्षणया लक्षणया लक्षणमाह । ज्येष्ठमध्यकनिष्ठानि तालविधान इति । वर्धमानात् त्रिविधैकककलादियोगादासारितानि । नात्र लयान्तरस्य नामापि गृहीतम् । वर्धमानान्तर्भावे हि तदिति केचित् ।
उपाध्यायास्त्वाहुः । बहिर्भावेऽपि तात्कालिकापेक्ष(क्षा)भावे हि वर्धमानान्तर्गतरूपप्रतिज्ञा स्वतन्त्रेऽपि भवति । बहिर्गीतेऽप्यस्ति लयान्तरस्य लीलाकृत एवानुप्रवेशात् त्रीण्येवात्र मन्तव्यानि न तु चत्वारि । यथा
Notes
Abh
कीर्तिधरोऽभ्यधायत् (धात्) । प्रत्याहारादीनि यानि पञ्चमेऽध्यायेऽन्तर्यवनिकान्तानीत्युक्तानि तत्प्रत्याहारावतरणयोः पुष्कराध्याये (भ. ना. अ. ३४) लक्षणं भवति । शेषाणां त्विह लक्षणं कृतम् । एवमनन्तरं तु यानि बहिर्यवनिकाङ्गानि तेषामस्माभिः पञ्चमेऽध्याये यथास्वागमं स्वरूपं प्रदर्शितम् । यत् कीर्तिधरेण नन्दिकेश्वरमतागमित्वेन दर्शितं तदस्माभिः साक्षान्न दृष्टम् । तत्प्रत्ययात्तु लिख्यते सङ्क्षेपतः ।
तत्र मार्गासारितप्रयोगे नर्तकीचतुष्कं पटान्तर्हितं पुष्पपिण्ड्या पुष्पाञ्जलिमादाय प्रविश्याष्टाभिः षोडशभिर्द्वादशभिर्वा (ऽङ्गहारैः) प्रतिक्षेपो (प) गीयमानस्थितलयेन तदर्थं भावयेत् । अवकृष्टे तु पदे स्थितलयेन परिवर्त्य पूर्वरङ्गमध्ये पुष्पं त्यक्त्वा मध्यगतलयं परिवर्तद्वयमङ्गहारैः कुर्यात् ।
तत्र प्रथमं पञ्चकलमुपोहनं पुष्पपिण्ड्या सूचया भावयेत् । एतदेव तमङ्गहारैः कुर्यात् । ततः प्रथमवस्त्वभिनयेत् । ततः सर्वा मिलित्वा तदेव देवताराधकं पिण्डीबन्धं कुर्युः । तच्चोपोहनमङ्गहारैर्नृत्येयुः । ततो द्वितीया प्राग्वदुपोहनं प्रयुज्य द्वितीयवस्तुनश्चञ्चत्पुटात्मकेनार्थमुपनयेत् । तदेव चास्य प्रतिक्षेपेना(णा) ङ्गहारं पर्यस्तकाख्यं कुर्यात् । ततः सर्वाः शृङ्खलां कृत्वा पुनरुपोहनं कुर्युः । तत आद्या प्रतिक्षेपं कृत्वा प्रथमवस्त्वर्थं पुनरभिनयेत् । द्वितीया चाङ्गहारं कुर्यात् । ततः प्रथमपिण्डस्योपोहनं कुर्युः । ततस्तृतीया प्रविश्योपहारं कृत्वा तृतीयवस्तुनः पञ्चपाणेरर्थमभिनयेत् । आद्येऽङ्गहारौ कुर्याताम् । ततो लतापिण्डीस्थमुपोहनं कुर्युः । ततो द्वितीया द्वितीयस्यार्थमभिनयेत् । ततोऽङ्गहारान् कृत्वा शृङ्खलया सोपोहनं कुर्युः । प्रथम(त) आद्यस्याभिनयं कृत्वाऽऽद्या पिण्डीबन्धं कुर्यात् । ततः सर्वा नार्य उपोहनं कुर्युः । पुनश्चतुर्थी यावत्तुर्यवस्तुनः पञ्चापाणेरर्थमभिनयेत् । ततः सर्वा भेद्यकस्थास्तृतीयोपोहनं रचयेयुः । पुनस्तृतीया तदेव भावयेत् । ततो लतास्था द्वितीयोपोहनं सूचयेयुः । पुनर्द्वितीया द्वितीयस्यार्थमभिनयेत् । अन्याङ्गहारं कृत्वा शृङ्खलयोपोहनं कुर्यात् । आद्या प्रतिज्ञेयार्थम– भिनयेत् । अन्या अङ्गहारं कृत्वा विदध्युर्यदाचतुर्थवस्वन्तम् । तृतीयद्वितीयप्रथमवस्तूनि केवलैरेवाङ्गहारैः कुर्युः । तदेव हि पुनर्वस्त्वन्याश्रयेण । तेन प्रतिक्षेपान्ते आद्या (:) पिण्डीबन्धं कृत्वा रङ्गपीठं परीत्य पुष्पपिण्ड्या पुष्पाणि कृत्वाऽपसरेयुः । एवमन्याश्चतस्रो द्वितीयमासारितं प्रयुञ्जीरन् । एवं चतस्रश्चतस्रो यावच्चतस्रः । उक्तं हि । एवं पदे पदे कार्यो विधिरिति । पिण्डीबन्धकाले तु द्वादशपुष्पमालाभिर्विकिरेयुः । तत्र षोडश सम्भूय शैवमन्यं वा पिण्डीबन्धं कृत्वा पुष्पवीथ्यां पुष्पं प्रतिक्षिप्य निष्क्रामये (मे)युः । अभावे त्वासरितचतुष्कं ता एव
Abh
चतस्रस्तत्र प्रतिक्षेपार्थवद्भिः पदैर्दर्शितमुपोहनं चञ्चत्पुटपञ्चपाणिद्वयसन्निपाताश्चेति तालाध्याये (भ.ना. अ. ३१) पदैः सह भविष्यति । एवमासारितक्रिया ततो वर्धमानं प्रयुञ्जीरन् । एकप्रघट्टकेन चतुर्भिर्नयैः परिवर्तं प्रयुज्य पटेऽपकर्षिते पुष्पवीथ्यां चतसृणां नर्तकीनां प्रवेशः । ततो ब्राह्मीपरिवर्तेन पुष्पाञ्जलिं क्षिपेयुः । तत एका ब्राह्मीमभिनयेत् । ततः सर्वाः शिवपिण्ड्या आसीरन् । तद्यथा । एकस्या आलीढमर्धवन् मण्डलिवत् खटकामुखेन तत्पार्श्वगतयोर्वा षोडशकला (:) सम्भाविता(:) गीतको……शम्यातालैश्चतुःषष्टया करणं तुर्या चाहुः । …….समपदा तिष्ठेत् । ततोऽत्रस्था एव द्वितीयखण्डिकाङ्गेन सूचयेयुः । ततस्तुर्या चतुर्थभिनयेत् । तिस्रो नर्तक्यः सशैलपिण्ड्या । तृतीयार्थं भावयेयुः । ततः सर्वा स्तृतीयामङ्गहारैः प्रयुज्य तथा द्वितीयार्थं भावयित्वा नृत्तेन प्रदर्श्य शृङ्खलया प्रथमा(मां) सूचयित्वाऽङ्गहारैस्तदर्थ प्रयुज्य शिवपिण्डीं कृत्वा परिक्रम्य पुनः प्राग्वदासारितानि प्रयुञ्जीरन् । ततः पादान्तर्वर्धमानप्रतिक्षेपमतः पुष्पपिण्ड्यां प्रतिक्षेपस्य द्वितीयगानं प्रयुज्य पुष्पाणि क्षिप्त्वा तृतीये तुरीये तद्गानेनान्त्येनोदन्त्यपुष्पपू……स्या(:) कृत्वा पुष्पाणि क्षिपेयुः ।। तत एकान्तमुपोहनं नृत्तेनोदन्त्यविशालार्थमभिनयेत् । ततः पिण्डीबन्धेन सङ्गतोपोहनं सर्वाः । ततो द्वितीया । तदेव दृश्येन स्यात् सङ्गतामभिनयेत् । ततः शृङ्खलायाः सुनन्दोपोहनं कुर्यात् । ततस्तृतीया तन्नृत्तेन प्रयुज्य सुनन्दार्थमभिनयेत् । ततो लताबन्धेन सुमुख्योपोहनं कुर्युः । तुर्या नृत्तेन स्वसुमुख्यर्थमभिनयेत् । ततः सर्वाः पिण्डीबन्धं कृत्वा नृत्तेन सर्वा एव पिण्डिकाबन्धं कृत्वा भेदकेन तृतीयोपोहनं कृत्वा तृतीया नृत्तेनायोज्य लताया द्वितीयोपोहनं प्रयुज्य द्वितीया नर्तिका शृङ्खलयान्त्योपोहनं सूचयित्वाऽऽद्यार्थमङ्गहारैः प्रयुज्येष्टदेवतापिण्डिकां कृत्वा परिक्रम्य रङ्गे पुष्पपिण्ड्या पुष्पाणि क्षिप्त्वा पटान्तरिता निष्क्रामेयुः । इति वर्धमानप्रयोगो यथोक्तमेकादिप्रथम…..खण्डिकातालं चाऽदूरत एव तालाध्याये (भ.ना. अ.३१) भविष्यतीति न लिखितम् ।
ततो गीतकविधिः । तत्र च ध्रुवे प्रावेशिकीमादिकां च प्रयुज्याङ्गहारविधिः । ततो वाद्यचतुरस्रकम् । ततः पुष्पपिण्ड्या ध्रुवकस्यैकं गीतम् । द्वितीयतृतीययोरङ्गहारक्रमः । ततो वस्तुप्रयोगः । शीर्षकान्ते वन्दनेन नैष्कामिकीवस्तुनिबन्धेषु तद्वदङ्गहारेषु वा गीतेषु वा…….षोढा……चाड्डिता प्रत्येकं चास्याः प्रावेशिकी आक्षिप्ता ध्रुवा नैष्क्रामिकीति चतुर्धा विधिः । तत्र नन्दिभद्रा चौक्षषाडवेन । पिण्डीकृता चौक्षपञ्चमेन । भुसुण्डिनी चौक्षकौशिकेन । कपिलोद्भवा चौक्षपञ्चमेन । दाक्षी चौक्षकैशिकमध्यमेन । पौष्पदन्ती चौक्षसाधारणेन । सर्वासामुपरञ्जनं भिन्नवक्त्रेण । षड्भिर्नर्तकीभिरयं प्रयोगः कार्यः ।
Abh
तत्रार्धाः…..वृत्तपाठस्यान्तराले शुष्कवृत्तं विद्युद्भ्रान्ताऽतिक्रान्तनिशुम्भितादिकरणैः कुर्यात् । ततः परिवर्तनी प्रावेशिका आक्षिप्तिका ध्रुवा अन्तरगीतमिति विधिः । दिग्देवतानाममिध्यायि च शार्दूलविक्रीडितादिवृत्तशुद्धगीत्यादिगानम् । एवं नान्द्यामपि चित्रत्वे प्रावेशिक्यादि । एवं रङ्गद्वयेऽपि वैष्णवबालक्रीडादियोगेन तत्र च क्रमेण नर्तकीनां प्रवेशेन सिद्धिः । ईर्ष्याविरहशोकविस्मयादिविचित्रं काव्यं गीतं च नृत्तताल…..चार्यामपि प्रावेशिक्यादिविधिः । तत्र……व्यसनेर्ष्याकोपादिकाव्यार्थगानं चौक्षसाधारणेन रञ्जनं हिन्दोलकेन महाचार्यामुद्धतकैलासोद्धरणं…..विजनितरोषसत्त्वप्रकृतिरर्थे रावणे शक्तिरूपः । प्रावेशिक्यादि तु प्राग्वदेव । शुद्धा च गीतिरूपरञ्जना पाटाक्षरात्म (त्मि) का आवापादियथोचितकालस्य मानेन चतुष्पदादिगीतक्रमात्मकेनोपरञ्जनम् । तत्र च प्रावेशिक्यादिविधिः प्राग्वदेवेत्येव (वं)नन्दिकेश्वरमतानुसारेणायं चित्रपूर्वरङ्गविधिरिति न बद्धः ।
अथ प्रकृतमनुसरामः । इह वीणावाद्यविधिः प्रसुतः । तत्प्रसङ्गेन पूर्वरङ्गाङ्गानि तत्प्रधानानि दर्शितानि । तत्रेह मुख्यैव वीणा । अङ्गास्तद्भेदास्तु प्रत्यङ्गानि । अन्यत्र च ।
वक्रा कूर्मा ह्यलबुश्च वीणाद्या त्रिविधा मति (ताः) ।
विपञ्ची वल्लकी मत्तकोकिलैन्द्री सरस्वती ।।
गान्धर्वी ब्राह्मिका सप्त वक्र्यास्तन्त्र्यः (न्त्र्याः)कला नव ।
एकद्वित्रिचतुरिति चतुर्धा दश वा कलाः ।।
संवादिनी च तन्त्री च किन्नरी परिवादिनी ।
वैशेषिका पञ्चकलाश्चतुरस्त्य (स्त्र्य)श्रमङ्गले ।।
पिञ्जनो नकुलश्चेति द्विधाऽलाबूः प्रकीर्तिता ।
एकया पिञ्जनस्तन्त्र्या परो द्वाभ्यां सुमङ्गला ।।
वितन्त्रीका विशोकेति चेश्वरी परिवादिनी ।
सदाशिवागमाज्ज्ञेया यथागमनिदर्शनम् ।।
शततन्त्री विशोकाख्या सप्तमन्त्रीश्वरा तथा ।
इति । तत्र मत्तकोकिला प्रधानभूता । एकविंशतितन्त्रीकत्वेनान्यूनाधिकं त्रिस्थानगस्वरसारणा जातिगीतिवीणाशरीरमुच्यते । तद्गतश्च धातुप्रयोग उक्तः । तदुपजीवकत्वेनापरा भवन्तीति तदेनद् दर्शयति ।
एवमेतत् स्वरगतं ज्ञेयं वीणाशरीरग (ज)म् ।
विपञ्चीवाद्ययुक्तानि करणानि निबोधत ।।
रूपं कृतं प्रतिकृतं प्रतिभेदो रूपशेषमोघश्च ।
1षष्ठी वै प्रतिशुष्का त्वेवं ज्ञेयं करणजातम् ।। ११३ ।।
वीणावाद्यद्विगुणं गुरुलाघववादनं भवेद्रूपम् ।
रूपं प्रतिभेदकृतं प्रतिकृतमित्युच्यते वाद्यम् ।। ११४ ।।
युगपत्कृतेऽन्यकरणं1aप्रतिभेदो दीर्घलाघवकृतः स्यात् ।
2कृतमेकस्यां तन्त्र्यां प्रतिशुष्का3 नाम विज्ञेया ।। ११५ ।।
वीणावाद्यविरामेऽप्यविरतकरणं तु रूपशेषः स्यात् ।
आविद्धकरणयुक्तो4 ह्युपर्युपरिपाणिकस्त्वोघः ।। ११६ ।।
Abh
इति । विपञ्चीति प्रत्यङ्गोपलक्षणम् । तेन विपञ्च्यो वाद्ये वाद्यन्ते यान्युक्तरिभितादिकरणमुख्यवीणा– वाद्योपरञ्जकानि वादनवैचित्र्याणि तानि बुध(ध्य)ध्वमिति सम्बन्धः ।। ११२ ।।
तान्युद्दिशति । रूपमित्यादि ।। ११३ ।।
तारक्रमेण लक्षणमिति वीणावाद्यद्विगुग(ण) मित्यादिना यदैकेन वीणायां गुरुः प्रयुज्यते तदैव पञ्च (वैपञ्चि) केन (विपञ्चयां) लघुद्वयं यदा लघुस्तदा द्रुतद्वयमित्येवं समवायवैचित्र्येण प्रायो रूपमुच्यते । तद्वदेव अनु पश्चाद् यद्यु (दु) च्यते तत्समकालं तदा(था) कृते सति तत्प्रतिबिम्बतया प्रतिकृतमिति ।। ११४ ।।
युगपत्कृत इति । प्रतिकृतसमकालः प्रयोग एवान्यत्वेन प्रकारः प्रतिभेदः । स च गुरुलघुकृतो न तु लेख्यादिस्वरप्रयोगप्रतिभेदनकृत इति तेन गानवैचित्री । यदा लघुद्वयं प्रयुङ्क्ते तदा स गुरुः । यदा वैणिको गुरुद्वयं तदा स प्लुतलघुरूप इत्यादिरूपे तु भञ्जनमुक्तम् । इयति विपर्यय इति विशेषः । तदेव पुनर्वैचित्र्यं वैपञ्चिको यदैकस्यामेव तन्त्र्यामंशसंवादिन्यां साल्पतादि करोति तदा (प्रतिशुष्का ।) प्रतिशुष्कपदस्यैषाऽवस्थे– त्यन्ये ।। ११५ ।।
यदा तु वैणिको क्षणे विदारीवशाच्छेदं करोति तदा छिद्रे वैपञ्चिको यदा तद्रूपशेषम् । विभक्तितल (य) एवमपि वैचित्रिकप्रयोगे हस्तचातुर्यादो (र्यतो)ऽतिद्रुतो वैपञ्चिकप्रयोगः स ओघः । एवं विपञ्चीध्रुवास्वपि वक्तव्यम् । नियमोऽदृष्टसिद्धय एव । गान्धर्वे विपञ्चयेवोपरञ्जिका ध्रुवागाने त्वनियमः ।। ११६ ।।
विपञ्चीवाद्यस्य प्राधान्यमाह । कार्यं ध्रुवाविधाने प्रायेण हि कोणवादनमिति । केचिदाहुः ।
Notes
कार्यं 1ध्रुवाविधाने प्रायेण हि कोणवादनं तज्ज्ञैः ।
स्थानप्रार्प्त्यं 1aचेद्यत्तत्र भवेदयं नियमः ।। ११७ ।।
2[तच्चौघतुल्यकरणं वाच्यं कार्यं विपञ्च्यास्तु ।]
सप्ततन्त्री भवेच्चित्रा विपञ्ची तु भवेन्नव ।
कोणवाद्या विपञ्ची स्याच्चित्रा चाङ्गुलिवादनात् (ना) ।। ११८ ।।
Abh
पूर्वरङ्गतोत्थापनाध्रुवाविधावुत्थानस्यातोद्यरञ्जनार्थमिति वा । प्रवृत्तिविभागार्थमाह । तन्त्योजस्क– (तच्चौघतुल्यक)रणमिति । वाद्यवृत्तिविभागार्थमि (भ.ना. ५–१९) त्यादिना कथितस्य प्रयोजनस्य द्वयोर्वीणयोरुत्तराधरस्थित्या सर्वा एव वीणा कोणवाद्येन वादयेदिति । तदिदं न विद्मः कोणवाद्ये का स्थान– प्राप्तिः । कोणवाद्ये(द्या)विपञ्ची स्यादिति च वक्ष्यमाणत्वात् कथं सर्वासां कोणवाद्यतेति । तस्मादेवमेता इह ध्रुवाविधाने वाद्योपरञ्जनध्रुवागानमित्युच्यते (न्ते) । तत्राल्पेन बाहुल्येन वा कोणवादनं कर्तव्यम् । प्रायोग्रहणाद् द्व्यङ्गुलिवादनमुभयवादनं च । वाद्ये हि त्रिप्रकारके सव्याङ्गुष्ठकनीयस्योः स्थाने वादकं भवेदिति कोणोऽत्र प्रहारम(रोऽ)ङ्गुल्यगुष्ठप्रहरणतया चतुष्प्रहरणं कोणाङ्गुलिप्रहरणं ध्रुवासु वाद्यं कुर्यात् । यदा तु करणं तु लीनं भवति तत्र लीनानामलङ्काराणां कोणवादनेन सम्यक् स्थानप्राप्तिः । मर्दनमोदनधारणकम्पनावर्तनादि कोणस्य भवतीति नियतिः । तथाभूतस्थानप्राप्त्यर्थं वीणावाद्यं तदा यत्रोचितमेकतन्त्र्यादिप्रान्तं तत्रायमेव नियमः कोणैकवाद्यप्रयोग इति ।। ११७ ।।
अथ त्रिप्रकारवाद्यविषयमाह ।
सप्ततन्त्री भवेच्चित्रा विपञ्ची तु भवेन् नव ।
कोणवाद्या विपञ्ची स्याच्चित्रा चाङ्गुलिवादना ।।
इति । चकारेणोभयवादनमुभयोरुक्तम् । अन्ये तु चकार ए(मे)वार्थे वर्णयन्तः कोणं विपञ्च्यामङ्गुलीं च चित्रायां नियमयन्ति । अन्ये तु कोणाङ्गुलिवाद्या विपञ्ची अङ्गुलीमात्रवाद्या चित्रेत्याहुः ।। ११८ ।।
एतदुपसंहरति । ततवाद्येति । सर्वमिति । गान्धर्वं गानविषयमङ्गप्रत्यङ्गगतं चेति यावत् ।
Notes
1a N: ध्रुवाप्रयोगे 1a. र. N: यत्र तु सैवायमिष्यतेऽभिनयः । नानौघधातुकरणं विपञ्चिवाद्यं च तत्र स्यात्
ततवाद्यविधानमिदं सर्वं प्रोक्तं समासयोगेन 1 ।
2वक्ष्याम्यतश्च भूयः सुषिरातोद्यप्रयोगं तु ।। ११९ ।।
इति भारतीये नाट्यशास्त्रे ततातोद्यविधानं नामाध्याय एकोनत्रिंशत्तमः ।3
Abh
भाविनोऽध्यायस्यार्थमासूत्रयति । वक्षाम्यतश्चेति । भूयश्शब्दस्यायमाशयः शारीरेणैव वैणविधौ भणिते तु चिरप्रयोगो वैतावदुक्त एव तत्राभ्यधिकं तद्वक्ष्यते पूर्णीकरणायेति शिवम् ।। ११९ ।।
परमेश्वरचन्द्रचूडनित्यस्तुतचिन्तामणिलब्धिदप्रकाशः ।
स्फुटमभिनवगुप्तनामधेयस्ततवाद्ये कृतवान् विचारकमित्थम् ।।
इति महामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यां ततातोद्यविधानमेकोनत्रिंशोऽध्यायः ।।
एकोनत्रिंशोऽध्यायः ।
भिन्नपाठक्रमः1 ।
षड्जोदीच्यवती चैव षड्जमध्या तथैव च ।
2षड्जमध्यमबाहुल्यात् कार्यं(र्ये)शृङ्गारहास्ययोः ।। १ ।।
आर्षभी चैव षाड्जी च षड्जर्षभस्वरग्रहात् ।
वीरेऽद्भुते च रौद्रे च रसे कार्ये प्रयोक्तृभिः ।। २ ।।
निषादवत्यद्भुते च निषादांशपरिग्रहात् ।
गान्धारांशोपपत्त्या च करुणे षड्जकैशिकी ।। ३ ।।
धैवती धैवतांशा च बीभत्से सभयानके ।
ध्रुवाविधाने कर्तव्यं जातिगानं प्रयत्नतः ।। ४ ।।
रसं कार्यमवस्थां च ज्ञात्वा योज्या प्रयोक्तृभिः ।
षड्जग्रामाश्रिता ह्येता विज्ञेया जातयो बुधैः ।। ५ ।।
Notes
1 N: च. मया समासेन ।
Abh
अतः परं प्रवक्ष्यामि मध्यग्रामसमाश्रयाः ।
गान्धारीरक्तगान्धार्यौ गान्धारांशोपपत्तितः ।
करुणे तु रसे कार्ये जातिगाने प्रयोक्तृभीः ।। ६ ।।
मध्यमा पञ्चमी चैव नन्दयन्ती तथैव च ।
मध्यमपञ्चमबाहुल्यात् कार्याः शृङ्गारहास्ययोः ।। ७ ।।
मध्यमोदीच्यवा चैव गान्धारोदीच्यवा तथा ।
षड्जर्षभांशनिष्पत्त्या कर्तव्या(व्ये)वीररौद्रयोः1 ।। ८ ।।
कार्मारवी तथा चान्ध्री निषादांशोपपत्तितः ।
अद्भुते तु रसे कार्ये 2जातिगाने प्रयोक्तृभिः ।। ९ ।।
कौशिकी धैवतांशत्वात् तथा गान्धारपञ्चमी ।
प्रयोक्तव्ये बुधैः सम्यग् बीभत्से सभयानके ।। १० ।।
एकैव षड्जमध्यात्र ज्ञेया सर्वरसाश्रया जातिः ।
तस्या ह्यंशाः सर्वे रसास्तु विहिताः प्रयोगविधौ ।। ११ ।।
यो यदा बलवान् यस्मिन् स्वरो जातिसमाश्रयात् ।
तत्प्रयुक्ते रसे गानं कार्यं गेयप्रयोक्तृभिः ।। १२ ।।
मध्यपञ्चमभूयिष्ठं हास्यशृङ्गारयोर्भवेत् ।
षड्जर्षभप्रायकृतं वीररौद्राद्भुतेषु च ।। १३ ।।
गान्धारसप्तमप्रायं करुणे गानमिष्यते ।
तथा धैवतभूयिष्ठं बीभत्से सभयानके ।। १४ ।।
सर्वेष्वंशेषु रसा नियतविधानेन सम्प्रयोक्तव्याः ।
काकल्यन्तरविहिता विशेषयुक्तास्तु बलवन्तः ।। १५ ।।
एवमेता बुधैर्ज्ञेया जातयो रससंश्रयाः ।
3वाद्यप्रयोगविहितान् स्वरांश्चापि निबोधत ।। १६ ।।
हास्यशृङ्गारयोः कार्यौ स्वरौ मध्यमपञ्चमौ ।
षड्जर्षभौ च कर्तव्यौ वीररौद्राद्भुतेष्वथ ।। १७ ।।
Notes
Abh
गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे ।
धैवतश्च प्रयोगज्ञैर्बीभत्से सभयानके ।। १८ ।।
अत ऊर्ध्वं प्रवक्ष्यामि वर्णानामथ लक्षणम् ।
आरोही चावरोही च स्थायिसञ्चारिणौ तथा ।
वर्णाश्चत्वार एवैते अलङ्कारास्तदाश्रयाः ।। १९ ।।
आरोहन्ति स्वरा यत्र आरोहीति स भण्यते ।
यत्र चैवावरोहन्ति सोऽवरोहीति संज्ञितः ।। २० ।।
स्थिराः स्वराः समा यत्र स्थायी वर्णः स संज्ञितः ।
सञ्चरन्ति स्वरा यत्र 1स सञ्चारीति संज्ञितः ।। २१ ।।
शारीरस्वरसम्भूतास्त्रिस्थानगुणगोचराः ।
चत्वारो लक्षणोपेता वर्मा ह्येते प्रकीर्तिताः ।। २२ ।।
एवं लक्षणसंयुक्तं यदा वर्णोऽनुकर्षति ।
तदा वर्णस्य निष्पत्तिर्विज्ञेया स्वरसम्भवा ।। २३ ।।
एते वर्णास्तु विज्ञेयाश्चत्वारो गानयोगतः2 ।
एतान् समाश्रितान् सम्यगलङ्कारान् निबोधत ।। २४ ।।
प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च ।
प्रसन्नमध्यश्च तथा समोऽन्यः स्थिर एव च ।। २५ ।।
स्यान्निवृत्तिः 3प्रवृत्तिश्च कम्पितः कुहरस्तथा ।
रेचिताख्यस्तथा चैव प्रेङ्खोलितक एव च ।। २६ ।।
मन्द्रतारप्रसन्नश्च तारमन्द्रप्रसन्नकः ।
प्रस्वादश्च प्रसादश्च तथोद्वाहित एव च ।। २७ ।।
अवलोकितस्ततश्चैव निष्कूजितक एव च ।
उद्गीतो ह्नादमानश्च रञ्जितश्च तथा परः ।। २८ ।।
आवर्तकाख्यो विज्ञेयः परिवर्तक एव च ।
उद्धट्टितस्तथाक्षिप्तः सम्प्रदानस्तथाऽपरः ।। २९ ।।
Notes
Abh
हसिताख्योऽथ हुङ्कारः सन्धिप्रच्छादनस्तथा ।
विधूननाख्यश्च तथा गात्रवर्णस्तथैव च ।। ३० ।।
प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च ।
तथा प्रसन्न एवं च समोऽनुचित एव च ।
प्रस्तारश्च प्रसादश्च स्थायिवर्णसमाश्रयाः ।। ३१ ।।
अथ सञ्चारिजान् भूयः कीर्त्यमानान् निबोधत ।
मन्द्रतारप्रसन्नश्च बिन्दुः प्रेङ्खोलितस्तथा ।। ३२ ।।
तारमन्द्रप्रसन्नश्च स्यान्निवृत्तप्रवर्तकः ।
कुहरश्चैव वेणुश्च रञ्जितो ह्यवलोकितः ।। ३३ ।।
आवर्तकपरावृत्तौ 1ज्ञेयाः सञ्चारिजास्तथा ।
निष्कूजितः सहुङ्कारं हासितं बिन्दुरेव च ।। ३४ ।।
प्रेङ्खोलितमथाक्षिप्तं विधूमोद्धट्टिते तथा ।
ह्नादमानः सम्प्रदानं सन्धिप्रच्छादने2 तथा ।। ३५ ।।
प्रसन्नादिः प्रसन्नान्त इति चारोहिजाः स्मृताः ।
विधूमो गात्रवर्णश्च तथोद्वाहित एव च ।। ३६ ।।
उद्गीतश्च तथा वेणुरित्येते ह्यवरोहिजाः ।
सप्तरूपगता ज्ञेया अलङ्कारास्त्विमे बुधैः ।। ३७ ।।
नेष्यन्ते हि ध्रुवास्वेते जातिवर्णप्रकर्षणात् ।
बिन्दुर्वापि हि वेणुर्वा ये चान्येऽतिप्रकर्षिताः ।। ३८ ।।
ते ध्रुवाणां प्रयोगेषु न कार्याः स्वप्रमाणतः ।
यस्मादर्थानुरूपा हि ध्रुवा कार्याऽर्थदर्शिका ।। ३९ ।।
वर्णानां तु पुनः कार्यं कृशत्वं तु ध्रुवाश्रयम् ।
ये तु प्रयोगं गच्छन्ति तांश्च वर्णान् निबोधत ।। ४० ।।
प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च ।
तथा प्रसन्नमध्यश्च बिन्दुः कम्पितरेचितौ ।। ४१ ।।
Notes
Abh
तारश्च तारमन्द्रश्च तथा तारतरः पुनः ।
प्रेङ्खोलितस्तथा तारमन्द्रस्तारसमस्तथा ।। ४२ ।।
स्यान्निवृत्तः प्रवत्तश्च प्रसादोऽपाङ्ग एव च ।
अवलोकस्तथा वेणुरित्येते सर्ववर्णगाः ।
स्थायिवर्णादृते त्वन्ये सर्ववर्णाः प्रयोगिणः ।। ४३ ।।
अत ऊर्ध्वं प्रवक्ष्यामि वर्णालङ्कारलक्षणम् ।
क्रमशो दीप्यते यस्तु प्रसन्नादिः स कथ्यते ।। ४४ ।।
न्यस्तोच्चारित एवैष प्रसन्नान्तोऽभिधीयते ।
आद्यन्तयोः प्रशमनात् प्रसन्नाद्यन्त इष्यते ।। ४५ ।।
प्रसन्नमध्यो मध्ये तु प्रसन्नत्वादुदाहृतः ।
सर्वसाम्यात् समो ज्ञेयः स्थिरस्त्वेकस्वरोऽपि हि ।। ४६ ।।
बिन्दुरेककलस्तारं स्पृष्ट्वा तु पुनरागतः ।
स्यान्निवृत्तप्रवृत्तश्च मन्द्रं गत्वा समागतः ।। ४७ ।।
आक्रीडितलयो यश्च स वेणुः परिकीर्तितः ।
कण्ठे निरुद्धपवनः कुहरो नाम जायते ।। ४८ ।।
त्रिकलं कम्पनं तद्वद्रेचिताख्यः शिरोगतः ।
उरोगतः कम्पितः स्यात् कम्पनात्तु कलात्रयम् ।। ४९ ।।
1गतागतप्रवृत्तो यः स प्रेङ्खोलित उच्यते ।
यस्तु कण्ठस्वरोऽधस्तात् स तु तारः प्रकीर्तितः ।। ५० ।।
उरोगतस्तथा मन्द्रो मूर्ध्नि तारतरः स्मृतः ।
क्रमागतस्तु यस्तारश्चतुर्थः पञ्चमोऽपि वा ।। ५१ ।।
तारमन्द्रप्रसन्नस्तु ज्ञेयो मन्द्रगतस्तु सः ।
लङ्घयित्वा परान् मन्द्रात् क्रमात्तारगतिं गतः ।
मन्द्रतारप्रसन्नस्तु ज्ञेयो ह्यारोहणाद्बुधैः ।। ५२ ।।
Notes
Abh
[एकस्वराधिरूढः क्रमशः प्रस्वारसंज्ञितो ज्ञेयः ।
प्रस्वारस्तु निवृत्तः शनैः प्रसन्नः प्रसादः स्यात् ।। ५३ ।।
समनन्तरौ स्वरौ द्वौ विचरत्युद्वाहितो द्विकल1 एव ।
आरोहत्येककलां पुनरेककलां प्रसादयति ।। ५४ ।।
उद्वाहित एव स्यादवलोकितसंज्ञितो द्विरभ्यस्तः ।
एकं द्वौ त्रीन् गच्छन् स्वरान् क्रमेण सङ्क्रमो ज्ञेयः ।। ५५ ।।
एकान्तरमारुह्य प्रत्येत्येकान्तरं स्वरं यस्तु ।
निष्कूजितसंज्ञोऽसौ ज्ञेयोऽलङ्कार उद्गीतः ।। ५६ ।।
क्रमयोगेनानेन तु सञ्चार्येकान्तरस्वरो द्विकलः ।
व्द्यवरः षट्पर एवं ह्यारोही ह्नादमानः स्यात् ।। ५७ ।।
अथ रञ्जितस्तु समनन्तरस्वरे द्वे कले पुनः स्थित्वा ।
अर्धकलामारोही पुनरेव तथावरोही स्यात् ।। ५८ ।।
आवर्तकश्चतुर्षु स्वरेषु समनन्तरेषु सञ्चरति ।
आरोहणावरोहणविधिना चैकान्तरेष्वपि च ।। ५९ ।।
ज्ञेयो निरन्तरकृतस्त्वष्टकलः 2सान्तरस्तथा कार्यः ।
तज्ज्ञैः कलाश्चतस्रस्त्वावर्त्या 3 वर्तको भवति ।। ६० ।।
अधिरुह्य तु स्वरांस्त्रीन् स्वरान्तरं लङ्घयति यद् वृत्तौ ।
पुनरपि च परावृत्त्या स स्यात् परिवर्तकोऽष्टकलः ।। ६१ ।।
यस्य स्वरावतीतौ तथा परं ह्यन्तरस्वरो भवति ।
एककलश्चैव तथा स भवेदुद्धट्टितो नित्यम् ।। ६२ ।।
आक्षिप्तकस्त्रिस्वरजः कर्तव्यः षड्विधः कलामात्रः ।
एककलस्त्वधरः स्याद्विज्ञेयः षट्कलस्तु परः ।। ६३ ।।
आक्षिप्तवच्चतुर्भिः स्वरैस्तु कालः कलान्तरोपेतैः ।
एकान्तरस्वरक्रम इह गदितः सम्प्रदानस्तु ।। ६४ ।।
द्विरपि द्विकलं गदितं हसितमिवोच्चारितं तथा हसितम् ।
समनन्तरस्वरकृतं तज्ज्ञैराक्षिप्तकं ज्ञेयम्4 ।। ६५ ।।
Notes
Abh
समनन्तरस्वरेषु तु हसिताद् व्द्यवरश्चतुष्परो वापि ।
आरोहत्येककलां हुङ्काराख्यः स विज्ञेयः ।। ६६ ।।
स्थानान्तरमारुह्य प्रत्येति ततश्चतुष्कलं1 क्रमशः ।
नोर्ध्वपरिक्षेपः स्यात् सन्धिप्रच्छादनो नाम ।। ६७ ।।
आदौ पदमुच्चार्य तु यत्र स्याद् द्विस्वरे लघुनि वर्णे ।
समनन्तरमारोहत्येककलं तद्विधूतं तु ।। ६८ ।।
आदावारोही स्यात् प्रस्वारो2ऽन्तेऽवरोही तु ।
3यत्राद्यन्तकलासु च वदन्त्यलङ्कारमुद्गीतम् ।। ६९ ।।
ओङ्कारवदारोहेदनन्तरं तु स्वरात्4 कलान्तरयोः ।
द्वौ द्वौ प्रकम्पमानौ स्वरौ ततश्च प्रसन्नौ द्वौ ।। ७० ।।
एषोऽलङ्कारविधौ विज्ञेयो गात्रवर्ण इत्येव ।
एकारौकारकृते दीर्घाक्षरमन्यदपि योज्यम् ।। ७१ ।।
गीतालङ्काराणां करणविधिरयं यथावदुपदिष्टः ।
एभिरलङ्कर्तव्या गीतिर्वर्णाविरोधेन ।। ७२ ।।
स्थाने चालङ्कारं कुर्यान् न ह्युरसि काञ्चिकां बध्येत् ।
अतिबहवोऽलङ्कारा वर्णविहीना न योक्तव्याः ।। ७३ ।।
अलङ्कारास्त्रयस्त्रिंशदेवमेते मयोदिताः ।
नोदिता ये तु तेऽप्यत्र प्रत्येतव्या मनीषिभिः ।। ७४ ।। ]
अथ गीतीः प्रवक्ष्यामि च्छन्दोक्षरसमन्विताः ।
शशिना रहितेव निशा विजलेव नदी लता विपुष्पेव ।
अविभूषितेव च स्त्री गीतिरलङ्कारहीना स्यात् ।। ७५ ।।
अत ऊर्ध्वं प्रवक्ष्यामि गीतीनामपि लक्षणम् ।
प्रथमा मागधी ज्ञेया द्वितीया चार्धमागधी ।
सम्भाविता तृतीया च चतुर्थी पृथुला स्मृता ।। ७६ ।।
Notes
Abh
भिन्नवृत्तिप्रगीता या 1 सा गीतिर्मागधी मता ।
अर्धकालनिवृत्ता च विज्ञेया त्वर्धमागधी ।। ७७ ।।
सम्भाविता च विज्ञेया गुर्वक्षरसमन्विता ।
लघ्वक्षरकृता नित्यं पृथुला सा प्रकीर्तिता ।। ७८ ।।
एतास्तु गीतयो ज्ञेया ध्रुवायोगं विनैव हि ।
गान्धर्व एव योज्यास्तु नित्यं गानप्रयोक्तृभिः ।। ७९ ।।
अतः परं प्रवक्ष्यामि धातुवाद्यस्य लक्षणम् ।
विस्तारः करणश्चैव आविद्धो व्यञ्जनस्तथा ।
चत्वारो धातवो ज्ञेया वादित्रकरणाश्रयाः ।। ८० ।।
सङ्घातजश्च समवायजश्च विस्तारजोऽनुबन्धश्च ।
ज्ञेयश्चतुष्प्रकारो धातुर्विस्तारसंज्ञस्तु ।। ८१ ।।
2विधयस्तु स्मृतास्तस्य पूर्वं विस्तर एव तु ।
सङ्घातसमवायौ तु विज्ञेयौ तौ द्विकत्रिकौ ।। ८२ ।।
पूर्वश्चतुर्विधस्तत्र पश्चिमोऽष्टविधः स्मृतः ।
करणानां विशेषेण विधिश्चैव पृथक् पृथक् ।। ८३ ।।
अधश्चोर्ध्वं च विज्ञेयावधरोत्तरजौ स्मृतौ ।
सङ्घातजो विधिस्त्वेष विज्ञेयो वाद्ययोक्तृभिः ।। ८४ ।।
द्वावुत्तरौ द्विरधरस्त्वधरादिश्चोत्तरावसानश्च ।
ज्ञेयस्त्वथोत्तरादिः पुनरप्यधरावसानश्च ।। ८५ ।।
समवायजस्तथा स्यात् त्रिरुत्तरस्त्रिरधरश्च विज्ञेयः ।
व्द्यधरोत्तरावसानौ द्विरुत्तरश्चाधरान्तस्तु ।। ८६ ।।
प्रागुत्तरो द्विर्द्विरधरस्त्वधरादिर्द्विरुत्तरावसानश्च ।
उत्तरमध्यश्च तथा मध्ये त्वधरः पुनर्ज्ञेयः ।। ८७ ।।
व्यञ्जनधातोर्ज्ञेयं 3कलतलनिष्कोटितान्यथोन्मृष्टम् ।
रेफावमृष्टपुष्पानुस्वनिनं बिन्दुरनुबन्धः ।। ८८ ।।
Notes
Abh
अङ्गुष्ठाभ्यां तु तन्त्रीणां स्पर्शनं यत् कलं तु तत् ।
1वामे निपीडनं कृत्वा दक्षिणेनाहतिस्तलम् ।। ८९ ।।
सव्याङ्गुष्ठप्रहारश्च निष्कोटितमिहोच्यते ।
सव्यप्रदेशिनीघातमुन्मृष्टमिति संज्ञितम् ।। ९० ।।
सर्वाङ्गुलिसमाक्षेपाद्रेफ इत्याभिधीयते ।
कनिष्ठाङ्गुष्ठकाभ्यां तु दक्षिणाभ्यामधोगतम् ।। ९१ ।।
तन्त्रीषु त्रिप्रकारं वाप्यवमृष्टमिति स्मृतम् ।
कनिष्ठाङ्गुष्ठसंयुक्तं पुष्पमित्यभिधीयते ।। ९२ ।।
तलस्थानेऽधर 2न्यासस्त्वनुस्वनितमुच्यते ।
गुर्वक्षरैकतन्त्र्यां तु बिन्दुरित्यभिसंज्ञितः ।। ९३ ।।
व्याससमासादेषामनुबन्धः 3सार्वधातुको ज्ञेयः ।
इति दशविधः 4 प्रयोज्यो वीणायां व्यञ्जनो धातुः ।। ९४ ।।
रिभिताह्नादश्च तथाऽनुबन्धसंज्ञः 5 करणधातुः ।
पञ्चविधो विज्ञेयो वीणावाद्ये करणधातुः ।। ९५ ।।
त्रिकपञ्चसप्तनवकैर्घातैर्युक्तो यथाक्रमं विहितः ।
सर्वैरनुबन्धकृतैर्गुर्वन्तः स्यात् करणधातुः ।। ९६ ।।
क्षेपः प्लुतोऽतिपातोऽतिकीर्णानुबन्धसंज्ञिताश्चेति ।
आविद्धो विज्ञेयो धातु 6 र्वाद्यप्रयोगे तु ।। ९७ ।।
द्वित्रिचतुष्कैर्नवकैः प्रहारैः 7क्रमशः कृतैः ।
आविद्धधातुर्विज्ञेयस्त्वनुबन्धविभूषितः ।। ९८ ।।
इत्येते धातवः प्रोक्ताश्चत्वारो लक्षणान्विताः ।
तिसृणामपि वृत्तीनां यासु वाद्यं प्रतिष्ठितम् ।। ९९ ।।
तिस्रो गीतवृत्तयः प्राधान्येन ग्राह्याः । चित्रा वृत्तिर्दक्षिणा चेति । तासां वाद्यताललयगीतियतिमार्गप्राधान्यानि यथास्वं व्यञ्जकानि भवन्ति । तत्र चित्रायां
Notes
Abh
सङ्क्षिप्तवाद्यतालद्रुतलयसमायतिरनागतग्रहाणां प्र(प्रा)धान(न्य)म्1 । य(त) था वृत्तौ गीतिवादित्रद्विकला2तालमध्यलयस्रोतोगतायतिसमग्रहमार्गाणां प्राधान्यम् । दक्षिणायां गीतिचतुष्कलतालविलम्बितलयगोपुच्छिकायत्यतीतग्रहमार्गाणां प्राधान्यम् ।
सर्वासामेव वृत्तीनां ललिताद्या हि जातयः ।
धातुभिः सह संयुक्ता भवन्ति गुणवत्तराः ।। १०० ।।
त्रिविधं वैणं3 वाद्यं कर्तव्यं गीतसंश्रयं तज्ज्ञैः ।
तत्त्वं तथानुगतमोघश्चानेककरणसंयुक्तम् ।। १०१ ।।
लयतालवर्णपदयतिगीत्यक्षरभावकं भवेत् तत्त्वम् ।
गीतं च यदनुगच्छेदनुगतमित्युच्यते वाद्यम् ।। १०२ ।।
आविद्धकरणबहुलं ह्युपर्युपरिपाणिकं द्रुतलयं च ।
अनपेक्षितगीतार्थं वाद्यं चौघं बुधैर्ज्ञेयम् ।। १०३ ।।
स्थिते तत्त्वं प्रयोक्तव्यं मध्ये चानुगतं भवेत् ।
द्रुते चौघं प्रयुञ्जीयादेष वाद्यगतो विधिः ।। १०४ ।।
तत्त्वं तु प्रथमे गाने द्वितीयेऽनुगतः स्मृतः ।
ओघस्तृतीये कर्तव्यो लयतालविचक्षणैः ।। १०५ ।।
एवं तज्ज्ञैर्ज्ञेया वीणावाद्ये तु धातवः प्रोक्ताः ।
वक्ष्येऽधुना विपञ्ची वाद्यविधाने तु करणार्थम् ।। १०६ ।।
रूपं कृतं प्रतिकृतं प्रतिभेदो रूपशेषमोघश्च ।
षष्ठी च प्रतिशुष्का ह्येवं ज्ञेयं करणजातम् ।। १०७ ।।
वीणावाद्यद्विगुणं गुरुलाघववादनं भवेद्रूपम् ।
रूपं प्रतिभेदकृतं प्रतिकृतमित्युच्यते वाद्यम् ।। १०८ ।।
युगपत्कृतेऽन्यकरणं प्रतिभेदो दीर्घकाघवकृतः स्यात् ।
वीणावाद्यविरामेऽप्यविरतकरणं तु रूपशेषः स्यात् ।। १०९ ।।
Notes
Abh
आविद्धकरणयुक्तोऽप्युपरिपाणिकस्त्वोघः ।
प्रतिशुष्का विज्ञेया वाद्ये तु सहैकतन्त्रिकृता ।। ११० ।।
1कार्यं ध्रुवाप्रयोगे प्रायेण हि2 कोणवादनं तज्ज्ञैः ।
द्वाभ्यामपि वीणाभ्यां गाने वा वादने वाऽपि ।। १११ ।।
स्थानप्राप्तं वा स्यात् तन्त्रीषु विभावयेत् समं गानम् ।
तच्चौघतुल्यकरणं 3वाच्यं कार्यं विपञ्च्यास्तु ।। ११२ ।।
सप्ततन्त्री भवे चित्रा विपञ्ची नवतन्त्रिका ।
विपञ्ची कोणवाद्या स्याच्चित्रा चाङ्गुलिवादना ।
एवं वीणा तज्ज्ञैर्नानाकरणाश्रया विपञ्ची तु ।। ११३ ।।
अत ऊर्ध्व व्याख्यास्ये लक्षणयुक्तं बहिर्गीतम् ।
आश्रावणारम्भविधिर्वक्त्रपाणिस्तथैव च ।। ११४ ।।
परिघट्टना च विज्ञेया तथा सङ्खोटनैव च ।
मार्गासारितमेव स्याल्लीकाकृतमथापि च ।। ११५ ।।
आसारितानि च तथा त्रिप्रमाणानि चैव तु ।
एतानि 4च बहिर्गीतान्यादौ योज्यानि योक्तृभिः ।। ११६ ।।
सतालानि ह्यतालानि चित्रवृत्तिगतानि5 तु ।
प्रयोजनं हि पूर्वोक्तं पूर्वरङ्गविधौ मया ।
तेषां चैव प्रवक्ष्यामि लक्षणं सनिदर्शनम् ।। ११७ ।।
तत्राश्रावणा नाम ।
विस्तारधातुविहितैः करणैः प्रविभागशो द्विरभ्यस्तैः ।
6द्विश्चापि सन्निवृत्तैः करणोपचयैः क्रमेण स्यात् ।। ११८ ।।
गुरुणी त्वादावेकादशकचतुर्दशकसपञ्चदशकम् ।
सचतुर्विशकमेवं द्विगुणीकृतमेतदेव स्यात् ।। ११९ ।।
लघुगुरुणी च स्यातामथाष्टमं गुरु भवेत्तथा च पुनः ।
षट् च लघूनि तथान्त्यं7 गुरु ह्याश्रावणायां तु ।। १२० ।।
Notes
Abh
त्रिः शम्योपरिपाणौ तालोऽपि ह्येव निर्दिष्टः ।
समपाणौ द्वे शम्ये तालावप्येवमेव स्यात् ।। १२१ ।।
भूयः सम्यातालानुपाणादुत्तरस्तथा द्विकलश्च ।
चञ्चत्पुटस्तथा स्यादेवं ह्याश्रावणातालः ।। १२२ ।।
अथारम्भः ।
दीर्घाण्यादावष्टौ द्वादश च लघूनि नैधनं चैव ।।
चत्वारि गुरूणि तथा ह्नस्वान्यष्टौ च दीर्घं च ।। १२३ ।।
लघुसंज्ञानि चतुर्धा 1 निधनं द्विगुणीकृतानि दीर्घे द्वे ।
अष्टौ लघूनि नैधनमित्यारम्भेऽक्षरविधानम् ।। १२४ ।।
अस्य तु वाद्यम् ।
कार्यं त्रिपर्वहीनैरुपवहनैरथ समवरोहैः ।
तलरिभितह्नादयुक्तैः करणैर्विस्तारभूयिष्ठैः ।। १२५ ।।
अपचययुक्तैर्द्विस्त्रिः कृत्वा च निवर्तितैर्द्विरभ्यस्तैः ।
आरम्भे वाद्यविधिः कार्यस्त्वेवं प्रयोगज्ञैः ।। १२६ ।।
तालश्चास्य ।
तालस्त्रिकलस्त्वादौ शम्यैककलाद्वयं यतौ तालः ।
द्विकला च पुनः शम्या तालो द्विकलश्च कर्तव्यः ।। १२७ ।।
द्विकलश्च सन्निपातः पुनः पितापुत्रकश्च षट्पूर्वः ।
चञ्चत्पुटस्तथा स्यादारम्भे तालयोगस्तु ।। १२८ ।।
अथ वक्त्रपाणिः ।
आविद्धकरणयुक्तो व्द्यङ्गं स्यादेककं प्रवृंत्ते वा ।
2अल्पव्यञ्जनधातुर्वाद्येऽप्यथ वक्त्रपाणिस्तु ।। १२९ ।।
गुरूणि पञ्च ह्नस्वानि षड् गुरूणि चतुर्गुणम् ।
गुरुणी द्वे च लघुनी चत्वार्यथ गुरूणि च ।। १३० ।।
Notes
Abh
चत्वारि च लघूनि स्युस्त्रीणि दीर्घाणि चैव हि ।
लघून्यष्टौ च दीर्घं च वक्त्रपाणौ विधीयते ।। १३१ ।।
द्विकले मन्द्रके यस्तु शम्यातालनिपातनम् ।
तत्सर्वं वक्त्रपाणौ तु मुख्ये ह्यष्टौ कलाः स्मृताः ।। १३२ ।।
शम्यातालौ तालशम्ये तेषु कुर्यात् क्रमेण तु ।
तालं शम्यां च तालं च सन्निपातं तथैव च ।। १३३ ।।
तस्याधस्तात् ततः कार्यं पञ्चपाणिचतुष्टयम् ।
वक्त्रपाणेरयं तालो मुखप्रतिमुखाश्रयः ।। १३४ ।।
अथ सङ्घोटना ।
अधिदण्डां (ण्डं)हस्ताभ्यां वीणामुपगृह्य दक्षिणाङ्गुल्या ।
अङ्गुष्ठाभ्यां च सदा कार्यं सङ्घोटनावाद्यम् ।। १३५ ।।
सङ्घोटने स्वराणां संवादिविवादिन(नो)श्चापि ।
सङ्घोटना त्वभिहिता शैषैरनुवादिभिश्चैव ।। १३६ ।।
विस्तारधातुकणैस्त्रिभिश्च चित्रैस्तथा निवृत्तैश्च ।
त्रिभ्यश्चाभ्यस्तोपचयैर्वदन्ति सङ्घोटनावाद्यम् ।। १३७ ।।
गुरुणी लघून्यथाष्टौ दीर्घद्वितयं तथा च कर्तव्यम् ।
लघुदीर्घे लघु च पुनश्चतुर्गुणं चापि कर्तव्यम् ।। १३८ ।।
पुनरष्टौ ह्नस्वाः स्युस्त्वथ गुरु निघनं तथा कार्यम् ।
सङ्घोटनवस्तुविधौ विज्ञेयं गुरुलाघवविधानम् ।
अस्यास्तालः शीर्षकवत् पञ्चपाणिविहितः ।। १३९ ।।
अथ परिघट्टना ।
परिघटट्नासमुत्थं वाद्यं त्वथ हस्तलाघवात् कार्यम् ।
व्यञ्जनधातुसमुत्थं नानाकरणाश्रयोपेतम् ।। १४० ।।
दीर्घाण्यादावष्टौ लघूनि च द्वे गुरूण्यपि च कुर्यात् ।
लघुनी द्वे सर्वाणि द्विगुणानि सहेव दीर्घेण ।। १४१ ।।
Abh
षोडश लघूनि च स्युः सगुरूण्यन्ते तथैव कार्याणि ।
एष परिघट्टनाया गुरुलघुवस्तुक्रमःप्रोक्तः ।। १४२ ।।
सम्पिष्टाकवदस्यास्तालः करणैश्च धातुसंयुक्तैः ।
सकलैः सतलैर्वाद्यं विस्तारविद्धकरणसंयुक्तम् ।
मार्गासारितवाद्ये गुरुलाघवसंचसयाच्चैव ।। १४३ ।।
चत्वारि गुरूणि स्युर्लघूनि चत्वार्यथ द्विगुणितानि ।
गुरुणी लघूनि चाष्टावन्त्यं गुरु चेति कर्तव्यः ।। १४४ ।।
गुरुणी लघूनि नव च स्युर्मार्गासारिते वस्तुनि ।
कनिष्ठासारितविधौ चास्य तालः (प्रकीर्तितः) ।। १४५ ।।
श्रवणमधुराणि लीलाकृतानि चाभिकृतपरिसृतानि ।
तान्यप्यर्थवशादिह कर्तव्यानि प्रयोगज्ञैः ।। १४६ ।।
अथासारितानि ।
ज्येष्ठमध्यकनिष्ठानि तानि च तालप्रमाणनिर्दिष्टानि तानि तालविधाने यथाक्रमं व्याख्यास्ये ।
एवं स्वरगतं ज्ञेयं वीणाशारीरसम्भवम् ।
अत ऊर्ध्वं प्रवक्ष्यामि सुषिरातोद्यलक्षणम् ।। १४७ ।।
इति भारतीये नाट्यशास्त्रे ततातोद्यविधानं नामैकोनत्रिंशोऽध्यायः ।