२८ जातिविकल्पः

श्रीरस्तु

भरतमुनिप्रणीतं

नाटयशास्त्रम्

अष्टाविंशोऽध्यायः1

आतोद्यविधि1aमिदानीं वक्ष्यामः ।2
3ततं चैवावनद्धं च घनं सुषिरमेव च ।
चतुर्विधं तु विज्ञेयमातोद्यं लक्षणान्वितम् ॥ १ ॥

Abh

अभिनवभारती

अष्टाविंशोऽध्यायः

॥ अतः परं गेयाधिकारः ॥

मध्यमस्वरमुशन्ति यद्वशान्नादषट्कमुदितं श्रुतिक्रमात् ।
सोऽपि यद्विलसितं कलात्मकं तं नमामि शिशिरांशुमण्डनम् ॥

आतोद्यानां विकल्पनमित्युक्तं पूर्वाध्यायसमाप्तौ, तेन सङ्गतिं कर्तुं षष्ठाध्यायपठितमपि श्लोकं पुनः पठति–ततं चैवेत्यादि । ननूद्देशे (६–१०) “सिद्धिः स्वरास्तथातोद्यं गानं रङ्गं च संग्रहः” इत्युक्तम् । ततं च (ततांशो) नटानां रामादिविशेषरूपतया शङ्क्यमानानां तन्मयीभावप्रत्यूहभूताशयनिवारणाय ‘नाथो वनं विशति’ इत्यादिना, तालांशोऽपि प्रयोगं सूत्रकल्पतया समीकुर्वन् स्वरं लयं च स्वप्रेक्षकहृदयं तत्रैवानुस्यूतं तिरोदधत्साम्यं च रागनिबन्धनं विदधद्रसं प्रति परममङ्गलम् । तत्र स्वरांशे ततसुषिरयोरुपयोगः । तौ हि स्वरस्य परमार्थ रक्तिलक्षणं वितरतः । गातॄणां हि वाक्पारुष्यादिदोषशतोपहतानां स्वरस्तन्त्रीवेणुस्वरेण सुस्वरतां नीयते, स्वभावत एव तन्माधुर्यात् । वाङ्माधुर्य यावद्धीनं तदाहार्य मधुरं निरोपितं माधुर्यमभ्यासादहरेयुः । ततानुबद्धत्वात्स्वरस्य न न्यूनाधिकभावाशङ्का काचित्, तत्र मूर्च्छितायां वीणायामशिक्षितेनाप्यभिहननेन स्वरत्त्वोपलम्भः । नत्वेवं वंश इति ततातोद्यस्यैव प्राधान्यम् । अत एव वीणा शारीरिकी चैवाचार्यैर्निर्दिष्टा

Notes

ततं तन्त्रीकृतं1 ज्ञेयमवनद्धं तु पौष्करम् ।
2घनं तालस्तु विज्ञेयः सुषिरो3 वंश उच्यते ॥ २ ॥

Abh

“दारवी गात्रवीणा च” इति । तथा च प्रतिबिम्बं वीणेति व्यवहारः । इहापि पूर्वं वैणा एव स्वरा उद्दिश्यन्ते द्वयधिष्टानाः स्वरा वैणाः शरीराश्चेति । गान्धर्वेऽपि (हि ?) प्रयोक्तुः फलमिति तदनुसारेण शारीरप्राधान्यं फले दर्शितम् । गाने तु श्रोतृफलरक्तिप्रधानतेति गानस्य (गान्धर्व) उपकरणीकृतो मुनिना । तालभारो तु घनावनद्धयोर्निवेशपदांशे ध्रुवाध्यायस्योपयोगः । न चैतद्गान्धर्वसाराभिष्यन्दत्वमनेन निर्मितम् । सामभ्यो गीतमिति हि पारम्पर्येण सामवेदोद्भूतं न ब्रह्मगीतप्रभवत्वाद्गीतस्य सामकरणत्वमुक्तम् । तेन प्रथमं जात्यादिलक्षणं निरूपितम् । अतस्ततातोद्यस्यैव प्रथममभिधानं, स्वराणामिति तत्रैव स्वरलाभ इत्युक्तम् । तेषां तु पृथगुद्देशे प्रयोजनमन्तरायोपसंग्रहो नाम काक्वध्याय एषां पूर्वमुदितानामेव । किंच ।

…द्रूपमित्यातोद्यस्यैव स्वरूपं वाच्यमिति न कदाचिदसंगतिः । लक्षणान्वितमिति तदन्यस्य निरासादनुचितस्यापि वाद्यान्तरस्य तस्माल्लक्षणं न कृतमित्याह । यस्मादिदमेवं विज्ञेयं– एतन्मध्य एव सर्वमन्तर्भवति, तदेतदङ्गत्वं किंचिद्याति, किंचित्पुनरन्यस्मिन् सति तदुपयोगि । तथाहि पाटादिपुष्पकरवाद्यस्यैवाङ्गादन्यत्र डोम्बीश्चाटुकादीनां नास्ति । अन्यन्नाट्योपयोगि मार्जनामार्गानुयातः स्वरवर्णसंबोधेनात्यन्तव्यञ्जकत्वायोगाज्ज्वालापट्टफलकवादादपे………….वमार्ज्यमयः सर्वं हि चतुर्विधस्येहैवोक्तस्य किंचिदंशमनुसरेदेतत्प्रकृत्येभ्यो वेति मन्तव्यः ॥ १ ॥

चातुर्विध्यं पूर्वोक्तमेव स्मारयति ततं तन्त्रीकृतमित्यादि । तन्त्रीणां (कृतं ततम्) चार्मबन्धवादवनद्धम् । मूर्तिकाठिन्येन घनं तदनुसारेण रसभावोपयोगि विशिष्टवर्णद्वारेण च नोपयुज्यत इति साम्यमात्रोपयोगित्वात्ताल इत्युक्तम् । घनं सुषिरमिति पाठे आतोद्यापेक्षं नपुंसकं, विशेषापेक्षया तल्लिङ्गेन केचित्पठन्ति ।

सुषिरस्य स्वारात्मकत्वेऽपि तदनन्तरं तस्यानभिधानमितिचेन्न, वीणाया एव स्वरभागे प्राधान्यात् । धातुवाद्यशेषशुष्कप्रकृतिकत्वाच्चावनद्धस्य तन्मानोपकारित्वाच्च घनस्य, वीणेव सुषिरस्य तत एवानुप्रवेशः । ततस्तु वंशः तत्र चतुर्विधातोद्यमुपरञ्जकम् । उपरश्चानीयाश्चाभिनय इति तयोरेकसन्निवेशात्मकः समूहः कर्तव्यः । तत्र चतुर्विधमप्यातोद्यं स्वरतालप्राधान्याद्द्विविधं कृतं ततमवनद्धं चेति । सुषिरघनयोः क्रमेण तदङ्गत्वात् । अभिनयेन च पात्रवर्ग आक्षिप्त इति त्रयः समूहाः कुतपशब्दवाच्याः । कुतं शब्दं पाति, कुं च रङ्गं तपत्युज्ज्वलयति (वा) ॥ २ ॥

Notes

प्रयोगस्त्रिविधो ह्येषां1, विज्ञेयो नाटकाश्रयः ।
2ततं चैवावनद्धं च तथा नाट्यकृतोऽपरः3 ॥ ३ ॥

4ततः कुतपविन्यासो 5गायनः सपरिग्रहः ।
5aवैपञ्चिको वैणिकश्च वंश6वादस्तथैव च ॥ ४ ॥

मार्दङ्गिकः पाणविकस्तथा दार्दरिकोऽपरः7 ।
अवनद्धविधावेष 8कुतपः समुदाहृतः ॥ ५ ॥

उत्तमाधममध्याभिस्तथा9 प्रकृतिभिर्युतः ।
10कुतपो नाट्ययोगे तु नानादेशसमुद्धवः11 ॥ ६ ॥

Abh

तदेतदाह प्रयोगस्त्रिविधो ह्येषामिति । एषां चतुर्णामातोद्यानां नाटकाश्रयो नाटकगतपात्रवर्गसहितस्त्रिप्रकारः प्रकर्षेण योगः समूहीभावः, यतः स्वयं द्वौ समूहौ नाट्योपयोगी पात्रवर्गात्मा च तृतीयः । तदाह नाट्यकृतोऽपर इति । यद्यपि तननावहननसौषिर्यनिबद्धत्वेन संकीर्णत्वादि । तखाप्येकोपयोगकृतान्यपदेशः । तननेन हि स्वरप्राधान्यं, तच्च न पुष्करादवहननेन वर्णानुस्वारः सम(न)तन्त्र्यायादौ । एवमन्यत्रापि वाच्यम् । तत्र तताभिधानः कुतपः क्रियतां समूह इत्याह ततः कुतपविन्यास इत्यादि । परिग्रहो गायकस्य(भार्या)। तद्यथा गायकः कांस्यतालिकाहस्ताद्विपञ्ची अपूर्णतन्त्रीका कोणवादनीया वीणात्वेकविंशतितन्त्रीका । चकारादन्यासां वीणानां संग्रहः ।

तथैव चेति अपरसुषिरपरिग्रहः । अथावनद्धराशिमाह मार्दङ्गिक इत्यादि मृदङ्गानीति पुष्कराणि, पणवोऽन्तस्तन्त्रीको हुडुङ्काकारः । दर्दुरो महाघटाकारः । तथैव चेति वचनान्मर्दलकरटादिसंग्रहः । कांस्यतालिकास्तु गीतवाद्ययोः साम्यापादनार्थाः, तत्कुतप एव युक्ताः ॥ ३-५ ॥

अथ नाट्यकुतपमाह अत्तमाधममध्याभिरिति । उत्तमादिप्रयोक्तव्योचितः पात्रसमूह इत्यर्थः । तुः पूर्वतो विशेषः, ततावनद्धयोः कुतपयोर्नियतदेशता पुष्कराध्याये वक्ष्यते । नाट्यकुतपस्य तु प्रयोगे माभूदव्यद्या( दव्य) वधिरिति सन्निधिमात्रमुपयोगि न तु देशनियमः । तदाह नानादेशेति प्रत्युपयोगोऽनेन कथित इत्यपरे ॥ ६ ॥

Notes

1एवं गानं च वाद्यं च नाट्यं च विविधाश्रयम् ।
अलातचक्रप्रतिमं कर्तव्यं नाट्ययोक्तृभिः2 ॥ ७ ॥

Abh

नन्वेते त्रयः समूहाः किं परस्परमनपेक्षा एव, नेत्याह एवं गानं च वाद्यं चेति । त्रयोऽप्येते समूहा एकीभावं नेया इति यावत्, न पुनरेको गायको मार्दङ्गिक उत्तमपात्रमित्यादिना पुरुषा एव दर्शिताः ।

ननु गानादीन्याशङ्क्याह विविधा आश्रया यस्येति । नहि प्रयोक्त्रनपेक्षित्वं गानादीनां वदति । उक्तं च…….यत्नमिति संपाद्यमिति यावत् । तस्मादत्र यत्न इत्येतदेवाह । यस्माद्द्विविधाश्रयं भिन्नेन्द्रियग्राह्यविविधक्रियारूपं, तस्माद्यत्नेनास्यैकता तत्संपाद्या, येनैकबुद्धिविषयता सामाजिकस्य गच्छेत् । अलाततेजःकणो हि न वस्तुतो युगपदनेकदेशसम्बन्धी, लाघवयत्नेन तु तथा तथा साम्यमापादितम् । एवं प्रयोगोऽपि तथापि नैकक्रियात्मा साम्यापादनाय……. त्नेन तु तथा सम्पादित इत्येतदाह अलातचक्रप्रतिममिति ।

ननु सामान्याभिनयेऽध्याये एतदुक्तं, सत्यं, तत्त्वभिनयविषयं, इदं तु गीतवाद्यनाट्यानां परस्परस्य विषयम् । ननु कस्मात्त्रयो राशयः कृताः इत्याशङ्कमानेन नैवापसारयति एवंगानं चेति नाट्यं तावदुपरञ्जनीयम् । सामान्याभिनयेऽभिनयबलादेकत्वं नीत एको राशिरिति । नात्र विवादः । स्वरगतिराशिश्चान्योन्य- संमिलितोऽलातचक्रवत्कायः । विविधाश्रयोऽपि वीणावंशगात्रगतोऽपि वाद्यविधिरेकीभावं नेय इति त्रयाणामप्यथ ग्रासीकरणमिति युक्तमुक्तम् ।

नन्वेवं राशित्रयेऽस्मिन्नेकीभूते प्रयोगसम्यक्त्वापतितलक्षणासिद्धिर्भवति, तथा च गीतवाद्यदोषा अपि सिद्धिविघातका उक्ताः । ततश्च सिद्धिस्वरूपं गेयाधिकारस्य पश्चाद्वक्तव्यम् । अत एव हि गीतवाद्यनाट्यकृतासिद्धिरित्युक्तेति किं प्रधानं किमङ्गमिति भागे संशय्यते । पूर्वमेव तु सिद्धिनिरूपणे एतावता प्रयोगत्वमिति परिज्ञातम् । तस्योपरञ्जनीयतोक्ता भवति, मध्यावस्थितेन च सिद्धिनिरूपणे आकाङ्क्षिवदुपरञ्जाकवर्गोऽपि स्पष्ट एव भवति ।

अन्ये तु मन्यन्ते-गीतातोद्यविहीनादपि प्रयोगात्पठ्यमानादपि दशरूपकाद् भवति सिद्धिरित्यनेन सूचितमिति । तत्तु न सम्यगिव, तावती ह्यपरिपूर्णता नाट्यस्य, परिपूर्णं च सर्वानुग्राहि नाट्यस्वरूपमभिधित्सितं मुनेः । तत्र च गीतवाद्ययोरेव प्राधान्यमित्यवोचाम ।

Notes

1यत्तु तन्त्रीकृतं प्रोक्तं 2नानातोद्यसमाश्रयम् ।
गान्धर्वमिति 3तज्ज्ञेयं स्वरतालपदात्मकम् ॥ ८ ॥

Abh

किं चैवं सति सिद्ध्यध्याये गीतवाद्यवैषम्यादि किमर्थमुच्यते, प्राक्तन एव समाधानमार्गो युक्तः । उपरञ्जकोपकृतस्य नाट्यस्य नाट्यतेति भेद्यत्वात्तत्पश्चादुपात्तम् । गानं त्वादौ तच्छेषभूतं तु मध्ये वाद्यमिति क्रमः नाट्यानुसारेण त्र्यश्रचतुरश्रविनिर्णयः, अपि तु गानानुसारेणेति गानमुपरञ्जकमपि सन्नाट्यं व्यवस्थापयदेवोपरञ्जयतीति युक्त एष एव रङ्ग इति टीकाकारः । तदेतन्न विदामः । नहि नाट्यमनाश्रित्य किंचिदपि प्रवर्तते । गानस्यापि नाट्यानुसारेणोपयोगादिति गत्यध्यायदिशैव त्र्यश्रादिव्यवस्था भेदादित्यास्ताम् ॥ ७ ॥

तत्र ततातोद्यस्वरूपं प्रधानवदभिधातुं पीठबन्धं करोति यत्तु तन्त्रीकृतं प्रोक्तमिति । विपञ्ची- वीणादिभेदानां नातोद्यतेति टीकाकारः । तदयुक्तम् । सामान्येन तन्त्रीकृतत्वेन सर्वसंग्रहे तदनुक्तसमत्वादस्यार्थस्य तस्मादेवमित्यस्मत्सम्प्रदायः । नानातोद्यनिरूपणसमाश्रयं यस्य, तानि हि तद्गतं रूपमुपाकारतया आश्रयन्ते, तेन तदेव प्रधानं तच्च गान्धर्वमिति । गान्धर्वो मितिर्मानं वर्तनमन्तर्भावो यस्य गान्धर्वे तदन्तर्लीनमिति यावत् । क्रम इत्याह स्वरतालपदलक्षणं हि तद्गान्धर्वम् , एवं भूतक्रममेव स्वराद्यात्मम् । एवं ततमध्य–एव गायको गणितः सपरिग्रहः । इह चैतदर्थमेव तन्त्रीकृतमित्युक्तं तन्त्रीप्रधानमित्यर्थः । गान्धर्वशास्त्रं च प्रमाणमस्येति गान्धर्वमिति॥ ८ ॥

सामभ्यो गीतमिति कथितं सामानि चात्र कारणकारणानि । गान्धर्व हि सामभ्यस्तस्माद्भवं गानं न तुल्ये स्वराद्यात्मकत्वे गानं गान्धर्वेऽन्तर्भूतमिति का भाषा । विपर्ययोऽपि कस्मान्न भवति, तादाम्यमेव वा कथं न स्यादित्याशङ्कां शमयितुमाह अत्यर्थमिष्टं देवानामिति । अनेनादित्वं सूचितम् । देवा हि कथमिष्टं विजह्युः । तथेति तेन देवतापरितोषद्वारेण प्रीतिं ददातीत्यदृष्टफलत्वं दर्शितम् ।

यस्मात् यद्रूपाच्च देवानामींश्वराणामिन्द्रियमनस्संवेदनप्रभृतीनां, आतोद्यमानत्वेन व्यवहारेण गच्छतानेनेति देववाद्यानां, अत्यर्थमर्थातिक्रमेण बाह्यशब्दादिविषयोल्लङ्घनेन ……मिष्टमिच्छायजनं च परसंवित्संगतिलाभलक्षणमुपलक्षणम्, तथा तेन प्रकारेण प्रतीतेरपवर्गोचितानन्द– स्वभावविशेषेणावर्जितमित्यपवर्गफलत्वं दर्शितम् । तथातिक्रान्तं धनादिनिरपेक्षं चेदं देवानां यजनं

Notes

अत्यर्थमिष्टं देवानां 1तथा प्रीतिकरं पुनः2 ।
गन्धर्वाणां3 च यस्माद्धि तस्माद्गान्धर्वमुच्यते ॥ ९ ॥

अस्य4 योनिर्भवेद्गानं5 वीणा वंशस्तथैव च ।
एतेषां चैव वक्ष्यामि 6विधिं स्वरसमुत्थितम् ॥ १० ॥

Abh

पुराणयोगादिभ्योऽधिका प्रीतिर्गान्धर्वाच्छंकरस्येति । गन्धर्वाणामिति प्रयोक्त्रुपलक्षणं, तेन ह्यत्यन्तं संवित्प्रवेशलाभेन तु गातुः फलयोगो गन्धत्वात् । तदाह– ‘सकृत्प्रयुक्तापि हि नन्दयन्ती यथाविधि ब्रह्महणं पुनाति’ इति प्रयोक्त्तृगतमत्र मुख्यं फलम् ।

ननु गान इव मुख्यतया श्रोतृनिष्ठं तेन गन्धर्वाणां प्रीतिवर्धनमिति सम्बन्धः । तथापि च श्रूयमाणं प्रीतिवर्धनमित्येवमनादित्वाद्दृष्टादृष्टफलत्वाच्च प्रधानं गान्धर्वं गन्धर्वाणां प्रयोज्यमिति व्युत्पत्त्या, एवं देवानामिष्टं प्रीतिकृद्गन्धर्वाणां गान्धर्वमिति सम्बन्धः । तस्माच्च प्रीतिमेव विशेषेण वर्धयति यत्तद्गानमित्यध्याहारः । गानं हि केवलं प्रीतिकार्ये वर्तते । तेन तादात्म्यं तावदयुक्तम् । नवमहाफलस्यानादेः स्वतः फले कल्पिते तदन्तर्भाव इति विपर्ययोऽपि निरस्तः । स चायं गान्धर्वविवेको ध्रुवाध्याये नृत्तेऽस्माभिर्दर्शयिष्यते । इह इव तु दर्शितो वाचोयुक्त्यन– भिज्ञानमधुनैव हि संमोहे हेतुः स्यादिति ।

अत्यर्थमिष्टं देवानामित्यनेन गां वाचं धारयतीति गान्धर्व, गन्धर्वाणामिदमिति च । यथाह विशाखिलाचार्यः– “पुरा स्वर्गप्रनष्टा (वाचं) देवेभ्यः” इति तन्निदर्शनेनैव दर्शितम् । प्रीतिवर्धनमिति च नारदीयनिर्वचनं सूचितम् । “गेति गेयं विदुः धेति धातुः प्रवादजमिति, वाक्यस्य संज्ञेति, रेफस्तु वाद्यस्योपलक्षणं काकुप्रवादनमिति वा’ तदेवं निर्वाचनात्पर्यायेण श्लोक इति टीकाकारः । अत्र तु न करोतु व्याख्यात एव । तस्मादुपाध्यायैरिदमुक्तं–नन्विदं गान्धर्व कुत उद्भूतं गानस्य च सामहेतुकत्वात्कथं पूर्वमुक्तम् । किं च गानस्यैवोपयोगाल्लक्षणं वक्तव्यं न तु गान्धर्वस्येति शङ्कां शमयितुमाह अस्य योनिर्भवेद्गानमित्यादि । अस्य गान्धर्वस्य । गानमिति सामयोनिगीतिषु समाख्या । वीणेति महाव्रतोपयोगिनी औदुम्बरी, वंश इति नारदादिगुरुसंतानानुयायीति गान्धर्वस्य प्रभवः । किंच, गानवीणावंशादयोऽयं तत्कुतपभेदो वक्तव्यत्वेनोपक्रान्तः, स एवास्य गान्धर्वस्य योनिर्हेतुः, इहाभिधास्यमानत्व इति शेषः । तत्कुतपोपयोगित्वादिह गान्धर्वमभिधास्यत

Notes

गान्धर्वं त्रिविधं विद्यात्स्वरतालपदात्मकम् ।
त्रिविधस्यापि1 वक्ष्यामि लक्षणं कर्म चैव हि ॥ ११ ॥

Abh

इति यावत् । ब्रह्मगीते लोकप्रवाहसिद्धं प्रगीतगातृगेयमेव प्रसूतिहेतुरिति श्लोकार्थस्य तात्पर्यमित्यन्ये । टीकाकृत्तु गानं प्रधानं तदुपकारकौ वीणावंशाविति । गुणप्रधानतानिर्णयोऽस्य तात्पर्यं व्याख्यानाद्रथन्तरं गायत्रीमत्र गायन्तीत्येतत्समर्थने तु यो महान् संरम्भः टीकाकारेण कृतः स प्रकृतोपयोवैकल्यादनेकार्थत्वेन गायते उपचाराश्रयेण सुसमर्थत्वात्सिकताचर्वणप्रायः । न रथन्तरमिति यदि यदा निरूपाणि तदा स्वरसंनिवेशेन

ननु यदुक्तं गान्धर्वं कथं तस्य गानादावुपयोग इत्याह एतेषां चेति । चोऽप्यर्थे । तथेति पूर्वारब्धात्सम्बध्यते । तेन हि गान्धर्वप्रकारेणैषां भावादीनां स्वरसमुत्थितं स्वरविषयमेव विधिं वक्ष्ये न त्वन्यम् ॥ १० ॥

ननु कोऽन्योऽस्तीत्याशङ्क्याह गान्धर्वं त्रिविधं विद्यादिति । त्रिभ्यः स्वरादिभ्यो विधा विधानं यस्य । आश्रितवाची विधाशब्द इति चिरन्तनाः न त्वत्रविधाशब्दः प्रकारार्थः । एवं हि सति पृथक्पृथग्गान्धर्वव्यवहारो भवेत् । न चैवं, तथा च विशाखिलाचार्यः “स्वरपदतालसमवाये तु गान्धर्वम्” इति । आत्मग्रहणेनैषां मिश्रीभावः । पदं स्यात्कारणमवधानं सूचयति । एतदेव युक्तं, नहि स्वरतालपदतुल्यतया, इदं भागनिविष्टमवधानं भाति, येन समूहमध्ये गण्येत । इति कर्तव्योपयोगि हि तत्तत्र मिश्रीभावः प्रधानगुणभावे नैव भवति । तत्र पूर्वनिपातादेव प्राधान्यं सूचयति । तेन स्वराः प्रधानं, तालो नामात्मा तत्साम्येनोपकारकः “तल प्रतिष्ठाकरणे” इति ताल एवैतदाह । ततोऽपि दूरं पदं पदशब्देनैव तस्याधारतालाभः । तदुक्तं दत्तिलाचार्येण– “पदस्थः स्वरसंघातस्तालेन सुमितः” (I.3) इति तेन पदताला यादृशा गान्धर्वेण तादृशा गाने स्वरत एव तु भूयसा ततोपयोगीति तात्पर्यम् । अवधानं योगरूपं तच्चात्र नोपयोगि । परिवर्तकेष्ववनद्धे–पूर्वरङ्गे तत्र हि देवतापरितोषादेव सिद्धिः । तदेतदुक्तं–

गीतिज्ञो यदि योगेन नाप्नोति परमं पदम् ।
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते । इति केचित्

Notes

1द्वयधिष्ठानाः स्वरा 2वैणाः शारीराश्च प्रकीर्तिताः ।
3एतेषां संप्रवक्ष्यामि विधानं लक्षणान्वितम्4 ॥ १२ ॥

5स्वरा ग्रामौ मूर्च्छनाश्च तानाः स्थानानि वृत्तयः6 ।
7शुष्कं साधारणे8 वर्णा9 ह्यलङ्काराश्च धातवः10 ॥ १३ ।।

श्रुतयो 11यतयश्चैव 12नित्यं स्वरगतात्मकाः ।
दारव्यां समवायस्तु13 वीणायां समुदाहृतः ।। १४ ।।

Abh

तस्यार्थस्य अशब्दत्वादवधानाद्विना कुत्रापि सिद्धेरयोगात् । लक्षणं चतुःश्रुत्यादिस्वरूपम् । कर्मेति योजनात्मिका क्रिया ग्रहांशादिरूपतया, यतो जात्यादि योगोद्भवस्तत्र, तत्कुतपस्य सात्मकत्वेऽपि रङ्गभागस्य गानवृत्तान्तत्वं यद्वीणाशरीरवंशानामारोहणमवरोहणं च । प्राणाभिहननेनैव हि तीव्रातीव्रेण शरीर इव वंशेऽपि स्वरनिष्पत्तिः । वीणायान्तु आदर्शे वामदक्षिणविपर्यासवत्तारमन्द्रविपर्यास इत्याशयेनाह द्वयधिष्ठानाः स्वरा वैणाः शारीराश्चेति । वैणानां प्राधान्यात्पूर्वमुद्देशः । दर्शितं च तद्विधानमिति संपादनम् । लक्षणेन गान्धर्वलक्षणेनानुगतम् ।। ११–१२ ।।

तत्र वैणानां स्वराणां प्रकारानुद्दिशति स्वरा ग्रामावित्यादि । संक्षिप्यावगमो यतः इति समवाय उद्देशः । स च स्वरगतः स्वरविषय आत्मा यस्य व्यस्तसमस्तादिरूपं हि स्वराणामेवेष्टमुद्दिष्टम् । दारुणोऽपत्यं वीणा वाग्रूपा भगवतीति दारवी । तेन तत्र न

शारीर्यां दारव्यां च तुल्या मूर्च्छना । तानं तु शारीर्यां संभवदपि न प्रयोगार्हमसुखावहत्वात् । अभ्यासार्थं च तत्प्रयोगेष्वन्यूनाधिकवैणस्वरवशेनैव तत्सिद्धेः । अत एव शारीरस्वरप्रयोगा–

Notes

स्वरा ग्रामावलङ्कारा 1वर्णाः 2स्थानानि जातयः ।
साधारणे च शारीर्यां वीणायामेष संग्रहः ।। १५ ।।

व्यञ्जनानि स्वरा वर्णाः सन्धयोऽथ विभक्तयः ।
नामाख्यातोपसर्गाश्च निपातास्तद्धिताः कृतः ।। १६ ।।

छन्दो3 विधिरलङ्कारा ज्ञेयः पदगतो विधिः ।
निबद्धं चानिबद्धं च द्विविधं तत्पदं स्मृतम् ।। १७ ।।

4ध्रुवस्त्वावापनिष्क्रामौ विक्षेपोऽथ प्रवेशनम् ।
शम्या तालः सन्निपातः परिवर्तः सवस्तुकः ।। १८ ।।

Abh

शक्तोऽपि हृदयापरिगृहीतः स्वरविशेषः शक्नोति वैणस्वरान् प्रयोक्तुम् । वृत्तयश्च धातूनाम् । शुष्कस्य वानुग्राहक आधारः, धातुशुष्कप्रयोगस्य वीणायामेव सुखावहः । ततो (धातुभिः शारीरस्वर) उपजीव्यते । (तत्तु) अलङ्कारजातमिति वक्ष्यते । श्रुतयश्च वीणायामेवोपयोगिन्यः, साधारणास्तन्त्र्युत्कर्षणापकर्षणस्य तन्मूलत्वाच्च। तथा च वीणैरुपस्रुति….संख्यालाभे प्रमाणत्वेन वक्ष्यते । अत एव वीणेवीनं समस्तस्य स्वरगतस्य प्रकारस्याभ्यासे प्रयोगे चोपयोगिनस्तत्र संक्रान्तस्य चारुत्वात्स्वतः शब्दात्मकं पदमपि । तत्स्थमित्यभिप्रायेण ।। १३–१५ ।।

एवं विशिष्टः स्वरतालेन मेय इत्याशयेन च पदगतमुद्दिशति । तालगतं पृथक्कृत्य व्यञ्जनानीत्यादि । व्यञ्जनानि-अज्झल्रूपाणि उपादेयत्वेनात्र ज्ञेयानि । पदजातेन स्वरप्रयोगो व्यवसीयेताक्षरधर्मत्वात्स्वरस्य ।

अन्ये त्वाहुः व्यञ्जनानीति द्योतकानि निपाता गृह्यन्ते झण्टुमित्यादि । अकारादयस्तु पाणिकासुर– क्तगान्धार्यादिजातिषु च दृश्यमानाः स्वराः अचः वर्णाः अज्झल्समुदायाः, सन्धयः संहिताकार्याणि । विभक्तयः सुप्तिङ्गः, उपसर्गाश्च प्रादयः निपातः

Notes

मात्रा 1प्रकरणाङ्गानि विदारी यतयो लयाः ।
गीतयोऽवयवा मार्गाः पादमार्गाः सपाणयः ।। १९ ।।

2इत्येकविंशातिविधं ज्ञेयं तालगतं बुधैः ।
गान्धर्वसंग्रहो ह्येष विस्तरं 3तु निबोधत ।। २० ।।

तत्र स्वराः

षड्जश्च ऋषभश्चैव गान्धारो मध्यमस्तथा ।
पञ्चमो धैवतश्चैव 4सप्तमोऽथ निषादवान् ।। २१ ।।

Abh

नोहापोहकौशलशालिनी बुद्धिरत्र भवतामुपयुज्यत इति दर्शयन्नुद्देशक्रमो लक्षणादौ मया नादृत इति । तथाहि– ग्रामानन्तरं श्रुतिः, स्थानान्तरं साधारणे जातिं च लक्षयिष्यति न चैष उद्देशस्तवोद्देशो नामापि नानुसृतः । उद्देशे तु प्रयोजनं न लक्षणावकाशवितरणम् । अत्रापि तु व्युत्पत्त्या अन्यासां सुखेन विधिसाधारणमात्रमिति तेन स्वरादीनामुद्देशक्रमेणातन्त्रत्वं यद्वयाख्यातं टीकाकारेण तन्मन्दफलत्वं शक्यं दूषणमश्लिष्टं च । तथापि स्वरेषु सत्स ग्रामौ तदाश्रया मूर्च्छना ताना इति युक्तम् । यत्तु स्थानानां तदनन्तरमभिधाने कारणं निरूपितम् । न स्थानं स्वरस्य स्वरापोहकारी किन्तु तारादि संज्ञामात्रे …….यदि तत्र स्थाने निष्पत्त्या तथा संज्ञा । तर्हिं तारमन्द्रमध्यमव्यतिरिक्तस्वरस्वरूपाभावात्स्वरूपोपकारत्वमेव कथितं स्यान्नवेति निबन्धने कृतं स्यात् । शुष्कानन्तरं साधारणमुद्दिष्टं, शुष्क….र्तित्वख्यापनायेत्यपि न किञ्चित् । न हि काकल्यन्तरयोः शुष्क एव प्रयोगोऽल्पनिषादगान्धारादिजातिषु तद्धिनियोगात् । जातिसाधारणं तु जातीनां किंचिदैकाग्र्यं मन्यन्ते । सदृशं रूपमित्यस्यापि कः शुष्केऽवसरः । श्रुत्यपेक्षिणः स्वराः तात्किमकाण्डे ता उद्दिष्टा इति चोदयित्वा यत्प्रत्युक्तं शारीरापेक्षयैव तु न दारव्यां ते स्वरा इति तदसंगतप्रायम् । एतावता हि दारव्यां नास्ति श्रुत्युपयोग इत्युक्तम् । तात्किं ताभिरुद्दिष्टाभिःग्रामविभागाय ता इति चेत्तत्सविध एवोद्देश्या इत्यलम् । तन्नात्र क्रमसमर्थनेन प्रयसितव्यः ।। १६–२० ।।

तत्र स्वरान्वक्तुमाह तत्र स्वरा इति । तेषूद्दिष्टेषु मध्ये स्वरा उच्यन्त इति शेषः । न….वोपतापयोः स्वर आक्षेप इत्यनयोः स्वरशब्दः, तेन शब्दस्वभावां चित्तवृत्तिमध्यस्थता– रूपस्वास्थ्यावस्थापरित्याजनेनोपतापयन्तो हृद्यतातिशयवशात् स्वतामाक्षिपन्तः स्वविषये अभिधानं कुर्वतः

Notes

1.डरज विदार्यलङ्गुयो यतिः प्रकरणं तथा

Abh

स्वरा इत्युक्ताः । वर्णसाम्यादपि निरुक्तिमाहुः । स्वयं स्वेष्वेव जातिरागभाषाभेदेषु राजन्त इति स्वराः । अथ स्वरैर्नियतमानन्तर्य द्योतयति ऋषभ इति । एतदनन्तरमेव शब्दस्तु निकटगान्धार…..अन्तराभिधानभेदान्तरसम्भवादत्र भेदो नास्त्येव ऋषभ इति दर्शयति । काकल्यन्तरस्वरवशा त्तु कथंचिद्भवतीति च शब्दश्चैवश्च, धैवतश्चैवेत्यत्रापि निपातौ योज्यौ । एतच्च स्वरसाधारणमिति तदभिधानावसरे तन्निदर्शयिष्मामः । तत्रान्तरालश्रुतिषु नियतसंख्याकासु ईर्षद्यो वायुना स्पर्शस्तन्महिम्ना यः स्वरः श्रुतिस्थाने स्निग्धत्वरक्तत्वलक्षणो धर्मः तस्याश्रयभूतायाः श्रुतेरुपरञ्जाकः स एव स्वर इति केचित् । षड्जश्रुतिरेवेत्यपरे, समूह इत्येके । वयं तु श्रुतिस्थानाभिघातप्रभवशब्दप्रभावितोऽनुरणनात्मा स्निग्धमधुरः शब्द एव स्वर इति वक्ष्यामः । अत्र नारदाद्या नामनिर्वचनमकार्षुः–

“नासां कण्ठमुरस्तालु जिह्वां दन्तांश्च संश्रितः ।
षड्भ्यस्तज्जायते यस्मात्तस्मात् षड्ज” इत्यादि (१–५७)

तदनुपयोगान्मुनिना न स्वीकृतम् । वीणायां च तथा भावाभावेऽपि षड्जादिदर्शनात् । यत्तु केचित्प्रतिसमादधते– वीणायाः प्रतिबिम्बत्वात्तत्र समानेन्द्रियग्राह्यो यः शारीरस्वरसमूहस्तमेव प्रतिबिम्बमर्पयितुमर्हतीति, तदत्यन्तमसाम्प्रतम् । वीणा हि देहस्य प्रतिबिम्बमिति केयं भाषा, न हि दर्पणसंक्रान्तप्रतिबिम्बशरीरप्रतिच्छन्दकसदृशी वीणा वीणेत्युपालम्भः । न च मुकुरवद्देहस्य प्रतिबिम्बनस्थानं, न हि स्वरस्य वीणायां स्वरेणैकेन्द्रियग्राह्यत्वायोगात् । नभसीव च तत्र प्रतिश्रुत्यात्मनः शब्दप्रतिबिम्बस्यासंक्रमणात् । न च वीणास्वरे शारीरस्वरं प्रतिबिम्बमर्पयतीति दृष्टम्, द्वयोः स्वरयोरनुपलम्भात् । शारीरस्वराभावेऽपि वैणस्वरप्रवृत्तेः शारीरस्वरः वैणस्वरप्रतिबिम्बमित्यसदेव पृथक्प्रयत्ननिष्पाद्यम् । एवं हि नियमितपीडितं ञ्यङ्गुलिसमभिघातोत्थितशब्दानन्तरसंभवाद्रणनात्मा स्वरः । तत्र न च तत्र नासादिकरणषट्कमस्तीत्युक्ते प्रतिबिम्बत्वोत्तरीकरणमसदेव, केवलमौत्तराधर्यविपर्यासात् । स्वगतशरीरस्वरानुसारेण च सारणोपयोगिन उत्कर्षापकर्षणसंभवात् प्रतिबिम्बत्वमुक्तम् । सप्त इति वचसा काकल्यन्तरस्वरौ न पृथक्स्वराविति दर्शयति । सप्त स्वरा इति च संभववशादिति च वक्ष्यामः । अन्ये तु ‘तत्सवितुर्वरेण्यं’ इति सप्तवर्णा ‘नि ग रि ध म प स’ स्वरैर्ब्रह्मणा पूर्वमुदीरिता इति साप्तस्वर्येऽभिप्रायमाचक्षते । निर्णेष्यामश्चैतत् ।

अत्र केचित् चोद्यं प्रति समादध्युः–श्रुतिक्रमाभिव्यङ्गयाः स्वरा इति श्रुतय एवादौ वाच्या इति चोद्यम्, तत्रोतरं–भवेदेवं, यदि ध्वनिनादसंज्ञिताः श्रुतय एव नियत– श्रुत्यन्तरत्वेन गृह्यमाणा स्वरा (इति) । न ह्येवं, श्रुतयो ह्युच्चनीचतया अपि स्वराश्रया एव प्रतीयन्ते । यथा

Abh

भट्टमातृगुप्तः–

(जायते) सहजेनैव समस्तः श्रुतिविस्तरः ।
स्वराधिष्ठानतो याति श्रीत्रपीयूषसारताम् ।। इति ।।

श्रुतेरेव च स्वरत्वे चतुर्थस्वररूपोपलक्षितो यः षड्जग्रामे पञ्चमः स मध्यमग्रामे यदि तृतीयः श्रुतिरूपस्तदा स पञ्चमस्वर इति कथं, न हि तृतीयं चतुर्थमेकमेव ग्रामद्वयस्य, धैवतस्यायमेव न्यायः काकल्यन्तरयोश्च निषादगान्धारता कथम् ।

पुष्पसाधारणे काले कोकिलो वक्ति पञ्चमम् । (नारदीयशिक्षा १-५-४) इति एतच्च कथं भवेत् । (नासाकण्ठा)दौ नियता श्रुतिरूपा अभावात् । भावे हि सर्वे स्वरा स्युः । श्रुतिक्रमापेक्षिणि च स्वराणामात्मलाभे- ऽन्योन्याश्रयं कस्याचिदवधिभूतस्य प्रागसिद्धेः तस्मात् ग्रामविभागार्थमेव श्रुतिकीर्तनं तद्गतसंवाद्यादि वि(वेचनं) कथं तद्गतेषु रागेषु नैव स्वराणां नियतोर्ध्वादिकमनया शरीरसाम्यं भवतीति दर्शयितुमिति श्रुतयः स्वरेभ्योऽनन्तरमुक्ताः । एतदाश्रयेणैव विशाखिलाचार्यो ग्रामानन्तरं श्रुतीरुद्दिशाति स्म । ता हि परं यो…अत एवं सामवेदे ग्रामविभागाभावात्तदुपयोगिन्यां नारदीयशिक्षायां तदभिधानमौत्तराधर्यमात्रमेव तूक्तम् (–) यः सामगानां (नार १-५-१) इत्यादिना । दीप्तायताद्यश्च पञ्चश्रुतयः पृथक्स्वरादीनां प्रयुक्तिविशेषसाध्या उक्ताः । अन्ये त्वाहुः–श्रुतेरेव स्वरत्वाभावात् श्रुतिक्रमाभिव्यड्ग्याः स्वभावेन पूर्वं उद्देश्या भवेयुरिति । अत्रोच्यते- यदि श्रुतिशब्देन समीरणसंयोगी स्थानविशेषो विवक्षितो, “व्यस्तानि तानि षट्षष्टिं विद्यात्” इति नीत्या तत्सर्वमेत …..नमेव । कश्चित् स्थानं स्वरं मन्यते । न चास्य रूक्षता वा स्निग्धता वा धर्मः समीरणः तदभिघातयोरेष एव न्यायः । अथ श्रुतिभिरिति न स्थानविशेषसमीरणसंयोगी प्रभवो विवक्षितः, तद्गतश्च रक्तताख्यो धर्मःस्वर इति । तदा तत्रापि पञ्चमधैवतानुपपत्तिरिति समानत् । न हि तुर्यस्थानसंयोगोद्भूतस्य ध्वनेर्यो धर्मः स तृतीयस्थानसंयोगोद्भूतस्य धर्मिवदेव, तद्धर्माणां नैयत्यात् । नह्यन्यधर्मोऽन्यस्य धर्मः । एतेन काकल्पन्तरौ व्याख्यातौ । कोकिलो वक्ति पञ्चममित्यादि चात्र सुतरामुपपन्नम् ।

ननु तथाभूतस्थानाभावे तत्स्थानप्रभवस्य शब्दस्य यो धर्मः स भावितुमर्हति धर्मिणोऽसद्भावो हि तत्र कारणाभावात् । तुच्छं चैतत् उज्जोता अभिघातजाच्छब्दादनन्तरं योऽनुरणनलक्षणोऽन्यः शब्द उपजायते स तावन्निसर्गस्निग्धमधुराकारः । तर्हि रज्ज्वा तन्त्र्यामाहतायां पाषाणे कांस्ये वा हते तद्भावाभावौ स्फुटं लक्ष्येते ।

Abh

तदेवायमसौ समुदायापेक्षः स्वरांशो नाम प्रयोगात्समुदायापेक्षादपर एव । ततश्च य एवानुरणनात्मा चतुर्तस्थानसंयोगोद्भवेन शब्देन जनितः स एव तृतीयस्थानोद्भूतेनापि जनयिष्यते । केवलमुच्चजनितत्वादुच्चत्वं तस्यैव लक्ष्यते । मन्द्रषड्जो मध्यतालषड्जस्येव । एवं तदेवानुरणनं कोकिलादिशब्देन जनितेन तन्त्र्यङ्गुलीसंयोगमल्लककोटिघातादिप्रभवेनापि शब्देन जन्यत इति युक्तम् ।

ननु कारणभेदाज्जातेन शब्देन कथं तज्जातीयोऽनुरणनशब्दः क्रियते । मैवं, कारणे नियमादर्शनाद्वा, अयःस्फटिकारणिविद्युदादिकारणभेदसंजातोऽपि ह्यग्निर्धूममेकजातीयं जनयति । बीजकन्दोदितकदलीद्वयादौ वा कारणभेदेष्वप्येककार्यता दृष्टा । वृश्चिकादौ च । तत्राप्यस्ति सूक्ष्मो भेदः, धूमत्वं तु, तदेवेहाप्यस्तु । लक्ष्यते च वीणास्वरोऽयं मल्लकस्वरोऽयमिति, षड्जत्वेन त्वभेदः । अत एवैषां गातॄणामभिघातृशब्दो नानुरणनं जनयति । तेन शब्दं सममपि कुर्वाणा अपरिपूर्णा इत्युच्यन्ते । घातशब्दस्यानुरणनशब्देन तीव्रत्वाभ्यधिकेऽतिरक्तता, साम्ये साम्यं वैपरीत्ये वैपरीत्यम् । यस्य च षाष्टिस्थानसमीरणाभिघातप्रभवा अपि शब्दा अनुस्वारस्वरूपं स्वरात्मकं शब्दं जनयेदेवं परिपूर्णोत्कृष्टशारीरकमूर्त्ततारतम्ये तु निकृष्टता । अनेन च कारणा भेदोद्धोषेणेतरेतराश्रयमपि प्रयुक्तम् ।

यदि स्वरेषु श्रुतयः सर्वथैवोपकारिण्यः ग्रामयोर्विभागोऽपि कल्पनीयत्वात् ग्रामयोगितयैव ग्रामोपयोगित्वात्पश्चादभिधानम् । न तु ध्वानिक्रमनिरपेक्ष एव शरीरे प्रयत्नः, प्रगीतस्य परं क्रमो लक्ष्यते, आशुभावितत्वात् । स तु नास्ति, अप्रगीते क्रमस्य संवेदनात् तथा ह्यप्रगीते षड्जं निर्वि

“षड्जत्वेन गृहीतो यः षड्जग्रामे ध्वनिः”(I–२२) इति ।

श्रुतिनिदर्शनं तु वीणायां स्फुटम् । तदपि षड्जग्राममध्यमग्रामयोः क्रमोपक्रमपञ्चमस्वरेणेत्याशयेन पञ्चाच्छुतयो निर्दिष्टाः । तत्र प्रयत्नवशात्कस्मिंश्चिदभिहते स्थाने जातेऽभिघातजाच्छब्दाच्छब्दान्तरेऽनुस्वानात्मनि स्वरे तदध्यवहितस्थानाभिघातो यदि स्यात्संकीर्ये (या?)ताम् । पूर्वापरे स्वरे स्थानगतो यथा तत्र संकीर्णभावस्तथा

चतुर्विधत्वमेतेषां विज्ञेयं गानयोक्तृभिः1 ।
2वादी चैवाथ संवादी विवादी चानुवाद्यपि 3 ।। 22 ।।

Abh

स्वरगतोऽपि तद्विभागलाभार्थं मध्ये वर्जनीयस्थानभागोऽन्यत्र स्वर इति द्विश्रुतिकस्य सम्पत्तिः । स्थानद्वयेन व्यवधौ त्रिश्रुतिकस्य, त्रयेण चतुःश्रुतिकस्य, ततः परं चतुरादिव्यवधानेऽतिप्रयत्नवशाद्द्वैस्वर्यमिति पञ्चश्रुतिकादेरसंभवः । तत एव श्रुतिद्वयोत्कर्षो द्विश्रुतिकयोरेव गन्योरुक्तः । एकश्रुत्युत्कर्षस्तु नोक्तः, स्थानसांकर्येण स्वरसांकर्यप्रसङ्गादिति ह्युक्तम् । चतुःश्रुतित्रिःश्रुतिर्द्विःश्रुतिरिति क्रमेणानर्थश्रुतिरेव । ततोऽपि चतुःश्रुतिस्त्रिःश्रुतिरिति षड्जप्रधानत्वात् षड्जग्रामः सरिगमपधनि, मपधन्यादिमध्यमग्रामः । चतःश्रुतिस्त्रिः- श्रुतिर्द्विःश्रुतिरिति । तथा हि-एकस्मिन्नेवोरसि ऊर्ध्वाधरतया सप्तस्वराः तथा हि चतुःश्रुतिकात्पूर्णांदाद्यात्, तद्रुतरूपादेकैकं निस्कासं प्रक्रमेण पुनश्च प्रकृतिभूतपूर्वरूपस्पर्शैश्चत्वारः सरिगमाः । तथैव स्थाने ऊर्ध्वस्पर्शे पधनिसाः, केवलं षड्जेन द्वितीयं स्थानं स्पृश्यत एव । मन्द्रस्पर्शवतः स्थानं स्वराणाम् । एवं कण्ठस्थाने शिरसि च । तेषु सर्वथा ताद्रूप्यसंक्रमणात्त्वंशादिव्यपदेश एव, तत्स्थानगतानां तु सादृश्यपरत एवं संवादत्वं वक्ष्यते । तेन परमार्थतः तत्र एव स्वराः -सरिगाः, पधनयः । मध्यमस्तु ध्रुवकस्थानीयो मध्यमत्वादेव । चतुः- श्रुतिरुदात्तः उच्चत्वात्, द्विःश्रुतिरनुदात्तः नीचैस्त्वात् । त्रिश्रुतिःस्वरितः मध्यवर्तितया समाहारत्वात् । तथा हि -स्वरित एव कम्पितत्वं व्यवहारन्ति श्रोत्रियाः । इहाप्यलङ्कारेषु त्रिश्रुतेः कम्पनं वक्ष्यते । तस्योर्ध्वाधः स्वरस्य स्पर्शनेऽपि स्वरताक्षमत्वाच्चतुःश्रुतेर्हि नोर्ध्वमस्ति, द्विःश्रुतेर्नाधरमिति कं पथं कम्पः ।। २१ ।।

अथ सार्वप्रयोगसाधारणं स्वराणां योजनां ज्ञातुं चातुर्विध्यं दर्शयितुमुपक्रमते चतुर्विधत्वमेतेषामित्यादि । एवकारेण वा न्यायतोदितस्य स्थितिप्रयोग इत्याह । चशब्देन संवादिनस्तत्स्पृष्टे संभवमाह । एवशब्देन संवादिनो हि नियतःसंभवः । अथशब्देनानन्तर्यद्योतकेन संवादिनो वादिनश्चानुपलपनम् । विवादी चेति चकारेण विवादिनं प्रत्यवज्ञा, अनुवाद्यपीत्यपिशब्देनानुवादिनः संवादिधर्मोपजीवनम् । अत एवास्य सर्वपश्चादुपादानम् । तथा हि-अनुवादिवादिसंवाद्यनुपलपनं सहते, न च भूयस्तरोऽस्य प्रयोग इति ।। २२ ।।

ननु प्रयोगात्मरागा धर्मा ग्रहादयश्च अल्पत्वादयः,…….अन्ते तद्गृहप्रसङ्गभेदोऽपि वक्तव्यः ।

Notes

1.–ज

Abh

1तत्र यो यदंशः स तदा वादी । ययोश्च 2नवकत्रयोदशकमन्तरं तावन्योन्यं संवादिनौ । तद्यथा–षड्जपञ्चमौ, ऋषभधैवतौ गान्धारनिषादवन्तौ 3षड्जमध्यमाविति षड्जग्रामो । मध्यमग्रामेऽप्येवमेव । षड्जपञ्चमवर्जं पञ्चमर्षभयोश्चात्र संवादः । अत्र श्लोकः-

संवादो मध्यमग्रामे पञ्चमस्यर्षभस्य च ।
षड्जग्रामे तु4 षड्जस्य संवादः पञ्चमस्य च ।। २३ ।।

5विवादिनस्तु ते येषां 6द्विश्रुतिकमन्तरं तद्यथा–ऋषभगान्धारौ, धैवतनिषादौ7 । वादिसंवादिविवादिषु स्थापितेषु शेष8स्त्वनुवादिनः [अनुवादिसंज्ञकाः यथा– षड्जस्यर्षभगान्धारधैवतानिषादाः,ऋषभस्य मध्यमपञ्चमनिषादाः, गान्धारस्यापि मध्यमपञ्चमधैवताः, मध्यमस्य धैवतपञ्चमनिषादाः पञ्तमस्य धैवतस्य षड्जमध्यमपञ्चमाः षड्जग्रामे । मध्यमग्रामेऽपि मध्यमस्य धैवतनिषादर्षभषड्जगान्धाराः, पञ्चमस्य धैवतनिषादर्षभगान्धाराः धैवतस्य षड्जर्षभगान्धाराः, निषादस्य षड्जभौ, षड्र्जषभगान्धारौ ।।] 9तत्र वदनाद्वादी 10संवदनात्संवादी, 11विवदनाद्विवादी, 12अनुवदनादनुवादीति । एतेषां 12aच 13स्वराणां 14न्यूनत्व14aमधिकत्वं वा 15तन्त्र्युपवादनदण्डेन्द्रियवैगुण्या15aदुपलभ्यते 16स्वरविधान17 मेतच्चतुर्विधत्व18मिति ।

अथ द्वौ 18aग्रामौ19षड्जग्रामो मध्यमग्रामश्चेति । अत्राश्रिता द्वाविंशातिश्रुतयः 20aस्वरमण्डलसाधिताः20 । 21तद्यथा–

Notes
Abh

स्यादेतत् । ग्रहन्यासापन्यासास्तावद्वादिनैव प्रायेण गृहीताः । तद्गृहादन्यास्सन्यापसापन्यासाः इति हि शुद्धासु वक्ष्यामः । षाडवौडुविताल्पत्वानि विवा (द्यनुवादिभिन्ना) नि, बहुत्वं संवादिना, तारमन्द्रस्य न्यासापेक्ष इति । इदं चासत् । शुद्धासु जातिषु भवेदेवं, अन्यत्र तदभावात्कथमनेन संग्रहः । अनुवादी सर्वत्रावधिरित्यवश्यं वक्तव्यः । तर्हि ग्रहः सुतरां वाच्यः, तेन विना हि न कोऽपि (रागव्यापा)रः प्रवर्तते । उच्यते –उत्तमे तत्साधारणयोजनोपयोगीदमुच्यते । एतावतैव च जातिवर्गे भाषाद्युन्मीलनं भवति ग्रहापन्यासादि वैचिञ्यमन्तरेणापि । तथा हि –कुत्रचित्स्वरे भूयस्तूच्चार्यमाणे संवादिनि च तदनुवर्तिनि च तदनुचयना (वदन ?) शालिनि चानुवादिनि च किंचित्प्रयोगभाजि विवादिनि कृतस्वरूपमासीदेति रागस्याभिव्यक्तिः । यथा “साधपा पसपा सनिरिपा सनिसास मासासं पापासा धानिनिरीनिनीसारि” इत्यत्र षड्जवादिनी (गान्धार) निषादयोः संवादिनि, मध्यामादावनुवादिनि, अभिव्यक्तो मालवकैशिकः । एतदेव हि (प्रयोग) सर्वस्वम्, ग्रहादियोजनं तु वैशिष्टयावहं, गान्धर्वे तु विशिष्टादृष्टसिद्धये । एतच्च वक्ष्यामः ।

तत्र वादिनं लक्षयति यो यदांशस्तदा वादीति । यदेति यत्र प्रयोगात्मनि काले वदते स एव स्फुटत्वेन भासमानः शब्दा….वादिनं बाहुल्येनोच्चारणमस्यास्तीति च वदति च तारमन्द्रादिव्यवस्थादीनिति च लक्षणं त्वत्रैव सूचितम् । अन्ये त्वंश इति पर्यायमाहुः । अपरे तत्सिद्धये “यो यदांशं स्पृशती” ति पठन्ति । तच्चासत् । –अंश एव हि वादीति दत्तिलाद्याः (I–18) न चांशलक्षणं पृथगुपयोगीति तत्रैव वक्ष्यते । अ…..भावप्रधानान्निर्देशः ।

संवादिलक्षणमाह नवकत्रयोदशकमन्तरमिति । एतच्च स्वराभिधानम् । अन्ये त्वाहुः –अल्पा (ष्टौ) नवेति नवका अष्टका उच्यन्ते । स एव त्रयोदशका द्वादश । एतावत्यः श्रुतय (स्तयो) रन्तरं ययोस्तौ संवादिनाविति । उपाध्यायास्त्वाहुः –अन्तरमिति स्वरूपं नान्तरालं, तेन नवश्रुतिकं यस्य स्वरूपं स्वरस्य, यस्य च त्रयोदशश्रुतिकत्वं स्वरूपं, तौ स्वरौ परस्परसंवादिनौ । सव……यथा द्वाविंशतिः षड्जोऽनन्तरश्रुतित्रयेणान्तरश्रुत्या तथेहोच्यते । एवं नवश्रुतिस्त्रयोदशश्रुतिश्च ।

नन्वेवं चतुःश्रुतेरधिकोऽप्यस्ति । किं बहुना, षड्जान्निषादः प्रयुज्यमानोऽष्टादशश्रुतिकः स्यात् । मैवं, तावतीनां श्रुतिलाभे….तत्स्पर्शिपवनाभिहननजनितनादांशोपयोगः । ततः स्वरे तत्कृतश्च श्रुतिसंख्यानियमः । अत एव निरन्तरध्वन्यंशश्रवणे विरूपस्वरश्रवणम् । तत एव तिस्रः श्रुतयः ऋषभ इत्यादि वक्ष्यते, न तु तृतीया

Abh

श्रुतिरिति । तत्र विशाखिलाचार्यप्रभृतिभिः, ‘स्वसंवेद्ये परमे श्रुतिधाम्नि समवधानं जपवद्दीयमानं विशिष्टादृष्टाय प्रयोक्तुर्भवति” इति दर्शितम् । तदुक्तं भट्टतोतेन “श्रुतिः स्वरः स्वसंवेद्या” इति, गाने श्रोतॄणां सर्वत्रापि स्वरूपावभासः । तदाह. “श्रूयमाणास्तु गृह्यन्ते गंभीरा इव” इति । न चावयवैः स्वरः, नापि संचयः यौगपद्याभावात् । क्रमिकत्वेऽपि हि नैरन्तर्यात्, नाशुभविकृताद्यौगपद्याभिमानः क्रमिकश्रुतिजनितसंस्कारविशेषे चान्ये श्रुतिस्थाने स्वरसमुदाय इत्यास्तां तावत् । प्रकृतं ब्रूमः ।

इहोल्लङ्घनीयस्वीकरणीयश्रुत्यपेक्षया नवत्रयोदशश्रुति च स्वरूपमुक्तम् । अन्योऽन्यस्येति वचनं तावद्यस्य संवादिनौ मा भूतामिति समानश्रुतिकत्वेन संवदनात्संवादिनौ । वीणायां च षड्जादिस्थानेऽङ्गुल्यन्तरपीडनपूर्वकमभिहन्यमाने तत्सम्पाद्यमिति व्यवहारः, संवादिनः तत एव न जातुचिल्लोपः कार्यः । अन्वर्थसंज्ञा (याः स्वरयोरेव न श्रुत्योः परस्परसंवादित्वं) यता मध्यमनिषादयोर्न संवादित्वं सत्यपि त्रयोदशनवान्तरत्वे अत एव षड्जमध्यमायां (जातौ) मध्यमेंऽशे न षाडवस्य निषादलोपकृतस्यापवादः । मध्यमग्रामे च न ऋषभधैवतयोः, तेन कैशिक्यां धैवतेंऽशे ऋषभकृतस्य न षाडवस्यापवादः । ननु च संज्ञात एव लब्धिरूपेति लक्षणेन, मैवं, एवं हि षड्ज (मध्यम) ग्रामयोरन्यत्र समयोः संवादिता स्यात्, सधयोश्च, साधारणप्रयोगे च निसयोः गमयोरित्यपि न दोषः । तस्मादुभयसंवादित्वे प्रयोजकम् । अमुमेवाभिप्रायं प्रकशयितुं स्वकण्ठेनोदाहरणोपन्यासं करोति यथेत्यादि । सम, सप, ऋध, गनि, षड्जग्रामे । अन्यत्र तु ऋधप इत्यपास्य ऋध ननु परिगणनं चेत्किम् । यथेति वचनस्य सिद्धिसादृश्येनोदाहरणान्तरसङ्ग्रहाय स्यात् । स चेह नास्ति । तत्राहुः – उभयमनेन क्रियते, येन प्रकारेणायं संवादिक्रमो न लुप्यते स यत्नो गान्धर्वे कर्तव्यः । तेन काकल्यन्तरप्रयोगेऽपि षड्जादीनां न श्रुत्यपहारः कार्यः । अत एवाल्पत्वम् । यत्र निगयोस्तत्र साधारणप्रयोगः षड्जमध्यमान्तर्गमनमिव हि तयोः, तदा गाने तु साधारणवशात् संचारः श्रुतानां कैश्चिदेव चेत्संवाद्यस्ति ततः संवाद्यनुपलपनमंशेन स्वधर्मोपलब्ध इति संवाद्यन्तरं लुप्यतां नाम । तथा च षड्जादिव्यपदेशः षड्जेऽप्यंशे पञ्चमलोपकृतमौडुविकं भजत एव । तस्मान्न षड्जमध्यमौ……सामिति बिन्दुप्रयोगे च समं वदनं निषादतन्ञ्यामस्यास्तीति तयोरपि (वि) संवादित्वमेवेति । यथेत्युदाहरणप्रदर्शनार्थमङ्गे तु परिगणनमिति । एतदेव युक्तमित्यभियुक्ताः। श्रुतिसंचरणवशाल्लब्धेऽपि चित्रसंवादो दृश्यते, यतः………..।। २३ ।।

Notes

*. उच्यतेऽ त्रान्तरः कार्यः संवादिधैवतस्य सः । न चान्तरोल्पप्रयोगादसंवादी भवेदिह । काकल्यन्तरयोरल्पप्रयोगत्वं मतं सताम् । (कुम्भ–II)

Abh

अथ विवादिनो लक्षयति विवादिनस्तु त इति । अन्तर्हितस्वरूपतो गनिद्विश्रुति श्रुतिरूपं तेन द्विःश्रुति (गान्धा)रो निषादश्च स्वरान्तराणां विवादिनौ सर्वेषामेव तथा बहुवचनम् । स्वरान्तराण्यपेक्ष्य विवादित्वाभिधानं धर्मभेदात् । ऋषभगान्धारौ धैवतनिषादाविति चतुर्विधयोरुपादानं नैकटयात् । अन्ये तूदाहरणत्वलाभाद्यथापेक्षयैव श्रुत्योर्विवादित्वमाहुः । तच्चासत् । सर्वस्वरस्य विवादिनः सतो भाव्यं सपक्षविपक्षमध्यस्थैः । तथापि षड्जेंऽशे तस्य मपौ संवादिनौ, ऋधावनुवादिनौ, ऋषभे धमनिगाः पमसाः गान्धारे निः (वादी)त्येतु, नास्ति विवादी, निषादस्य संवादित्वात्, पञ्चास्यानुवादिनः । एवमन्यदनुसर्तव्यम् ।

यत्र वादी स्वामी, अमात्य इवेतरोऽनुयायी संवादी, अरिवद्विवादीत्वल्पः, अनुसारिपरिजन इव योगवादी चेति विभागः । अनुवादिनं लक्षयति वादिसंवादीत्यादि । स्पष्टम् । अथैषां नामभिर्वचसां निर्वचनान्याह वदनाद्वादीत्यादि

ननु वीणायां तावत्सरीधेति श्रुतिक्रमविरामाच्च संवाद्यादिविभागस्य च वीणायामनियतोऽपि दृशयत इत्याशङ्कयाह–एतेषामित्यादि । एतच्च संवाद्यादीनां स्वराणामिति । यथा संवादित्वाभिमतयोरपि षड्जमध्यमयोः समत्वमधिकत्वं वा त्रयोदशकनक्कान्तरापेक्षया । विवादिनश्च यदुपयोगिन्यन्तरं तदपेक्षयैव विवादकत्वं, अनुवादित्वमपि ऊनाधिकत्वेऽपि घटते । तथा हि ऋषभेंऽशे न्यूनश्रुतिः षड्जस्यानुवादी स्यात् । गान्धारश्चाधिकश्रुतिर्विवादितां जह्यात् । संवाद्यादीनां च षड्जमूलत्वे वादित्वमप्यसमञ्जसं भवेत् । संवाद्यादिषु प्रभुत्वमेव हि वादित्वम् । एवमूनाधिकत्वे नामुना विघटितं चे…..तत्कारणदोषे कृशा तन्त्रीस्वरितभरिताप्युत्कर्षमपकर्ष वा याति, आर्द्रत्वशोषत्वादिदोषात् उपवादतन्त्रीबन्धनस्थानं तदपि शिथिलतादिदोषाणां सारणानामतः ? दण्डोऽपि नमनोन्नमनस्वभावः तथैवेन्द्रियं वागिन्द्रियं च तादृशमेव तच्चोपलक्षणं सारिकाङ्गुल्यादीनामपि दोषेण तथोपलभ्यात् ।

एवं स्वरा उक्ताः । तत्र स्वरमात्रं कुत्रचिद् दृष्टादृष्टयोरुपयोग्यपि तु तत्समूह एव तु प्रयो [ग उपयोगी । तत्स्वराणां समूहो ग्राम] इत्युच्यते । स एव च द्विविधः पञ्चमभेदादिति दर्शयितुमाह–अथ द्वौ ग्रामाविति गान्धारग्रामं निरस्यति । मध्यमस्यानाशित्वमिति तावत् प्रधानं नियतं च, तत्संवादित्वं षड्जस्येति सोऽपि प्रधानः । पञ्चमस्तु न मध्यमस्य संवादी कदाचित्तुल्यश्रुतिकत्वा…..क्तमेव । दत्तिलाचार्यस्तु मूर्च्छनानां

तिस्रो द्वे च चतस्रश्च चतस्रस्तिस्र एव च ।
द्वे चैवाद्य 1चतस्रश्च षड्जग्रामे भवेद्विधिः ।। २४ ।।

2चतुःश्रुतिर्भवेत् षड्ज ऋषभस्त्रिश्रुतिः स्मृतः ।
द्विश्रुतिश्चैव गान्धारो मध्यमश्च चतुःश्रुतिः ।। २५ ।।

पञ्चमस्तद्वदेव स्यात् त्रिश्रुतिर्धैवतो मतः ।
द्विश्रुतिश्च निषादः स्यात् षड्जग्रामे विधिर्भवेत् ।। २६ ।। 3

Abh

षड्जस्वरप्राधान्येन च प्रथमादिव्यपदेशलाभात् षड्जमध्यमयोर्व्यपदेशहेतुत्वमाह–

स्वरौ यावतिथौ स्यातां ग्रामयोः षड्जमध्यमौ ।
मूर्च्छना तावतिथ्येव तद्ग्रामावत एव तौ ।। इति

एतत्तु फाल्गुप्रायं प्रथमादिव्यपदेशस्य कुत्रचिदप्यनुपयोगादागममात्रसारत्वात्प्राधान्यम्, गणनादित्वाच्च प्राधान्यादितरेतराश्रयापत्तेः ।

अत्रिश्रिता इति ग्रामस्वरूपलाभहेतव इत्यर्थः ।

ननु स्थानभेदेन षड्षष्टिः तत्कथं द्वाविंशतिरित्याह–स्वरमण्डलस्य स्वरसमूहस्य सप्तकस्य द्वाविंशत्येव सिद्धिः । तत एव स्थानान्तरे स्वरमण्डलत्वामिति चक्र मुच्यते । तच्च परिमण्डलं () ङ्गिरसकाश्यपादिभिर्मुनिभिर्दिर्शितम् । श्रुतिश्च नाम श्रोत्रगम्यं वैलक्षण्यं यावता शब्देनोत्पद्यते । ननु कालंशः श्रुतिः चतुःश्रुतिकस्यापि बिन्द्वाद्यलङ्कारादौ मितकालावस्थानाद् द्विश्रुतिकस्यापि स्थायिवर्णप्रयोगे– ऽनल्पकालत्वादेशः स्यात्, घण्टाशङ्खादि श्रुतेश्च चिरकालत्वात् । एतन्न, शब्दावयवो न श्रुतिरित्युक्तमेव ।

ननु यद्युभयत्रापि द्वाविंशतिः श्रुतयः तर्हि को विभाग इत्याशङ्क्याह–तिस्रो द्वे चेत्यादि । विधिरिति श्रुतिविभाग इत्यर्थः ।। २४ ।।

अत्र विनियोगेन स्वरान्विनियोक्तुमाह–चतुःश्रुतिः स्यात् षड्ज इत्यादि स्मृत इत्यन्तेन ।। २५ ।।

नामधेयानां विभाग आप्तप्रसिद्धयेनि दर्शयति । धैवतो मत इति नास्य कदाचन षड्जग्रामे लोप इति यावत् ।

तत्र गान्धर्वे श्रुतावेवान्त्यां स्वरस्फुटतां दायिन्यामवघातव्य इति विशाखिलाचार्यप्रभृतय ऊचुः । “श्रुतयः

Notes

मध्यग्रामे तु 1aपञ्चमः श्रुत्यपकृष्टः कार्यः । 1bएवं 1स्वश्रुत्युत्कर्षादपकर्षाद्वा 2यदन्तरं 3मार्दवादायतत्वाद्वा तत्प्रमाणं श्रुतिः निदर्शनं4त्वासामभिव्याख्यास्यामः । 2a यथा द्वे वीणे तुल्यप्रमाणतन्ञ्युपवादनण्डमूर्च्छने कृत्वा5षड्जग्रामाश्रिते कार्ये । तयोरन्यतरस्यां6 पञ्चमस्यापकर्षे7 श्रुतिं मध्यमग्रामिकीं कृत्वा8 तामेव च पञ्चमस्य श्रुत्युत्कर्षवशात् षड्जग्रामिकी कुर्यात् । 9एकश्रुतिरपकृष्टा भवति । पुनरपि तद्वदेवापकर्षेत्10 यथा गान्धारनिषादवन्तावितरस्यामृषभघैवतौ11प्रवेक्ष्यतः द्विश्रु12त्यधिकत्वात् पुनरपि तद्वदेवापकृष्टायां धैवतार्षभावितरस्यां पञ्चमषड्जौ प्रवेक्ष्यतः त्रिश्रुत्यधिकत्वात् । तद्वत्पुनरपकृष्टायां पञ्चममध्यमषङ्जा इतरस्यां मध्यमगान्धारनिषादवन्तः प्रवेक्ष्यन्ति चतुःश्रुत्यभ्यधिकत्वात् । एवमेतेन श्रुतिनिदर्शनेन द्वौ ग्रामिक्यौ द्वाविंशतिश्रुतयः प्रत्यवगन्तव्या ।13 अथ मूर्च्छनाः द्वैग्रामिक्यश्चतुर्दश–13a

आदावुत्तरमन्द्रा स्याद्रजनी चोत्तरायता ।
चतुर्थी शुद्धषड्जा तु पञ्चमी मत्सरीकृता ।। २७ ।।

Notes

1a N: श्रुत्यपकृष्टः पञ्चमः 1b.N: तस्यापकर्षणं मध्यमग्रामे पञ्चमस्य श्रुत्युत्कर्षाद्वा यदनन्तरमार्दवत्वादायतत्वाद्वा तत्प्रमाणं श्रुतिनिदर्शनं तासामभिव्याख्यास्यामः ।

Abh

स्वरान्तरगता” इति, “सप्ताश्रयतया स्वरगता” इति, “अन्तरगतास्त्वन्या” इति, गाने तु श्रोत्रसुखावहोऽनेन विभागेन प्रयोजनम्। तदाह मातृगुप्तः

हीयमाने स्वरे श्रोतुः स्वसंवेद्योऽणुशः क्रमः ।
श्रूयमाणः पुनर्नाद एक एवाद्य रञ्जितः ।। इति ।।

तेन गाने प्रधानतयेह विवक्षिते चतुरश्श्रुतिरिति साधारण्युक्तिः कृतायां तु गान्धर्वपक्षमपि स्वीकुर्वते । तिस्रश्चतस्रः श्रुतयः आश्रयान्तराद्वोभयात्मकतया यस्येति ।। २६ ।।

अथ मध्यमग्राममाह मध्यमग्रामे त्विति । चतुश्श्रुतौ पञ्चमे षड्जस्यैव द्वावमात्यकल्पौ मध्यपञ्चमौ संवादिनौ भवत इति। मध्यमस्यापि संवादिनोऽपि संविदिव व्यपदेशहेतुता । पञ्चमे तु श्रुतिन्यूने मध्यमस्याप्येकः संवादी षड्जस्यापीति । इदं तावत्….मध्यमस्य त्वन्यदस्ति प्राधान्यं (अपि) विना शुद्धत्वकृतमिति तत्र नैव व्यपदेशो मध्यमग्रामनियमेन इति न किं चतुश्श्रुतिकेनानेकेन तावत्प्रधानेन भवितव्यम् । पूर्णत्वात् तच्च स्वरद्वयमेव पञ्चमस्य चतुश्श्रुतिकत्वविरमात्काकल्यन्तरयोश्चतुश्श्रुतिकत्वं विकारो न स्वभावः । तुल्यं चानाशित्वमिति द्वावेव ग्रामौ । तत्र मध्यमा तृतीयस्यामपि श्रुतौ तथाविधानुरणनव्यञ्जनात्मकनादनिष्पत्तिः यथाविध पड्जग्रामे चतुर्थ्यां माभूत् । केवलसंस्थाननीचत्वान्नीचा । तल्लक्ष्यते । तत एव श्रुत्यपमान एवासौ पञ्चमो भवति । श्रुतेर्हि कम्पो भवतीत्युक्तम् । तथा चाहुः–

वेदश्रुतिः पक्वकपित्थकल्पः कृशप्रवातोन्मुखतां प्रपन्नः ।
यतिश्रुतिः कम्प इवैष भाति यद्वा श्रुतिः स्वाद्भुतरागानिष्ठः ।। २ ।।

तत एवाल्पपनिषादगान्धार…..ति…..काकल्यन्तरयोः प्रयोगः ।। त्रिश्रुतेश्च कम्पितकुहरितरेचितयोगः । निगयोश्च विवादित्वं रक्त्यन्तरानुवृत्तेः । एवं श्रुत्यपकृष्टः पञ्चम इति मध्यमग्रामस्य लक्षणम् । स च पञ्चमः प्रधानः न तु मध्यमग्रामे कदाचिदपि लोप्यत इत्यर्थः । अन्ये तु ग्रामयो र्धै वतपञ्चमावलोप्याविति । एतदाश्रयत्वान्मध्यमगतेरित्यत्राह ।

अथ केयं श्रुतिर्नामेत्याशङ्क्याह–एवं श्रुत्युत्कर्षापकर्षाच्चेति । मार्दवं तन्त्र्याः शिथिलीकरणं विपरीतत्वमायतत्वं क्रियत इत्याह । श्रुतेः शब्दस्य श्रोत्रग्राह्यस्य उत्कर्षस्तीव्रता अपकर्षो मन्दता, तद्धेतुत्वान्मार्दवायते तु द्वे अपि तथोक्ते । एवं तीव्रमन्दत्वहेतुभ्यां मार्दवायतत्वाभ्यां यदन्तरं यो विशेषावबोधः प्रमाणं निश्चायकं यस्याः सा श्रुतिः । प्राक्तनस्य ध्वनेर्वैलक्षण्यं यावता हीनेनाधिकेन या तीव्रमन्दात्मना रूपेण लक्ष्यते सा श्रुतिरित यावत् । यद्यपि परमाणुतोऽप्युत्कर्षापकर्षो वा भवेद् ध्वनेर्विशेषस्तथापि नासौ गृहीतुं पार्यते । अत एव यत्रोत्कर्षापकर्षो न कौचिद् ध्वनीनां ग्राह्येते तत्रैका श्रुतिरिति, यदाह परमाचार्यः

Abh

“एकश्रुतिदूरात्सम्बुद्धौ” इति ।

नन्वलाबूवीणादौ तथाभूतानां श्रुतीनां विशेषलेशानामनैयत्यं दृश्यते । ततः किं नियतश्रुतिविभाग उक्तः । न तु वीणायामसौ निश्चीयते (इति) । तन्न, तन्नाप्यसौ नियत एव, अनैयत्यग्रहणं तु मिथ्या । यत्तु दण्डविभागस्य दूरादूरत्वविभागविप्लव इति चेयं नैयत्यालक्ष्यते, तत्रापि वामनोऽनन्तपुरुषविभागविशेषोपलक्षणीया श्रुति…..नैवास्तु को विरोधः अत एव लक्षणीयस्यैव विशेषस्य श्रुतिरूपतामिति ग्रहणं विशेषणमुपात्तमुत्कर्षशब्देन, प्रकरणाच्चापकर्षस्यापि लभ्यत इति । वीणाद्वये स्थिते एकस्यां वीणायां तन्त्र्यामुत्कृष्टायां स्वरस्योत्कर्ष (र्षो) परस्याः स्थितवीणातन्त्रीस्वरस्यापकर्षो लक्ष्यते । तस्मिंश्च लक्ष्यमाणेऽपकर्षे द्वितीयवीणास्वरस्योऽत्कर्षो लक्षणीयो भवति । आयतत्वादुत्कर्षापकर्षौ लक्ष्यौ भवतः । एवं मार्दवादपि वीणाद्वयायत्तमेवेदमुत्कर्षापकर्षेत्वं दर्शयितुं यथासङ्कख्यं शङ्कां निराकर्तुं मार्दवायतत्वाद्वेत्युक्तम् । अन्यथोत्कर्षायतत्वमार्दवाभ्यामिति ब्रूयात् । प्रमाणेति वदन्न न कालकला श्रुतिर्नापि नादांशो न चायुर्न स्थानं च करणमिति दर्शयति । तेन वक्ष्यमाणोच्चनीचविभागो ध्वनिरेका श्रुतिरिति तात्पर्यम् । एवमेकस्याः श्रुतेः स्वरूपमभिधाय श्रुतिसंख्यास्वरूपं यथालक्षणीयं यथा भवति तथा दर्शयितुमुपक्रमते निदर्शनं त्वासामिति । आसामिति बह्वीनां, निदर्शनमिति निश्चिततया दृश्यन्ते येनोपायेन तन्निदर्शनम् । यथा हि –प्रथमदर्शनेन रक्तयोर्जात्याजात्ययोरेव चोत्कर्षापकर्षवतोर्विशेषो गृहीत एव । किं तु परस्परविशेषादिदृक्षावधानप्रयत्नबलात्तद्विलोक्य द्वितीयस्य विलोकनं पुनः प्रथमस्य पुनद्वितीयस्येत्यनेनानुसन्धानबलेन निश्चितस्तद्विशेषप्रत्ययो जायते योऽसावभ्यधिक इति भण्यते । प्रकृतेऽपि तन्त्रीद्वये उत्कर्षापकर्षवति (कस्मिंश्) चिदाकृतेः यः शब्दः प्रतीयते, तस्य परस्परविवेका– यावधारयिष्णोर्दोलागमनवद्यत्पुनः पुनराकर्षणं तत्कृतोऽनुसन्धानबलेन……..परमः प्रत्ययः स्फुटं तद्गतविशेषग्राही जायेत । तन्निदर्शनमित्युक्तम् । तत्र प्रथमा (सारणा) साधुकारं ध्रुवकवीणां साधयति, द्वितीया श्रुतेरियत्तां, तृतीया श्रुतिचतुष्कं बोधयति, चतुर्थी श्रुतिषट्कं पञ्चमी द्वादशकमिति सारणापञ्चकमिति तात्पर्यम् । ग्रन्थस्तु व्याख्यायते । प्रमाणं आनाहपरिणाहौ, तन्त्रीणां तुल्यात्वं सङ्ख्यया स्थौल्यादिना चेति केचित् । अतश्चतुर्दण्डशब्दः पुनरुक्तः । तस्मादयं विग्रहः । तुल्यप्रमाणतन्त्र्युपपादनदण्डमूर्च्छना ययोर्वीणयोरिति । मूर्च्छनायां च प्रमाणसङ्ख्यैव मन्तव्या दण्डतन्त्र्यादिसाम्यं स्वरस्वरूपं व भिनत्ति केनाप्यंशेन तेन तथा कर्तव्यम्, येन द्वयेऽपि एकविंशद्भासेते । स्वराणां कस्यचिदपि वैलक्षण्यं यस्य प्रतिभासनात्तत्रैका ध्रुवकस्थानीया अचलसारणा वीणायामपरस्यां

Abh

पञ्चमतन्त्री श्रुतिमात्रं शिथिलीकार्या । तदा मध्यमग्रामो जायते । अनन्तरं मध्यमादीनां सर्वस्वराणां श्रुतिमेकां पातयेत्, येन षड्जग्राम एव भवति । एवं ध्रुवकवीणायां चलवीणायां वा स्वरेषु भण्यमानेषु श्रुतिरधिका न्यूना च प्रत्यक्षेणानुसन्धानबलाल्लक्षणीया भवति । तदाह पञ्चमश्रुतिरपकृष्टा भवति सर्वस्वरेभ्य इति शेषः । सा च प्रत्यक्षगम्या गुणवतीति भावः । यद्यपि परमाणुमात्रेंऽपि स्थानान्तरे योगिप्राय (समाधि)समधिगम्यध्वनिवैलक्षण्यं भवति, तथापि यद्बैलक्षण्यं श्रुतिशब्दवाच्यमिति दर्शयन् श्रुतिसङ्ख्यापरिज्ञानार्थं श्रुतिचतुष्टयोपलब्धं दर्शयति । पुनरपि च तद्वदेवापकर्षेदिति चलवीणायां पञ्चमोपक्रमं सर्वस्व(राणा) मेकां श्रुतिं पातयेत् येषु चलवीणागतौ गान्धारनिषादौ ध्रुववीणागताभ्यां धैवतर्षभाभ्यां समस्थानतयापकर्षत्वं गच्छतः यतो ध्रुवकवीणायां द्वाभ्यां श्रुतिभ्यां सर्वे स्वरा अधिकाः । एवं धैवतवैलक्ष्येण गान्धारनिषादयोरन्यवीणागतधैवतर्षभसाम्यं जायते । तदेव श्रुतिरित्युक्तं भवति । अत एव श्रुत्यादिव्यवहारोऽपि लक्ष्यो यो दृश्यते न स निर्मूलः । तथाहि तावन्न्यूनाधिकत्वे……रे विनाशो भवतीति विशिष्टप्रत्युपयोगाच्छुतिरित कथ्यते । पूर्वादिषु नैवमिति । एवं श्रुतेश्च स्वरूपं ज्ञातम् । गान्धारनिषादगं प्रत्येकं यच्छुतिद्वयं तच्च धैवतर्षभमिश्रीभावाभिज्ञानेन स्फुटमेवोपलब्धमिति तच्छुतयः प्रत्यक्षीभूता भवन्ति । पुनरपि चलवीणायां श्रुतिर्यदापकृष्यते सर्वस्वरेभ्यस्तदा च वीणागतौ धैवतर्षभौ ध्रुववीणागताभ्यां पञ्चमषड्जाभ्यां यथाक्रमं साम्यं गच्छतः । यतो ध्रुववीणायां स्वरास्तिस्रः श्रुतिभिरधिकाः । एवं स्वरद्वये प्रत्येकं श्रुतित्रयं स्फुटीकृतमिति षट् श्रुतय उपलब्धाः । त्रयो ध्रुववीणायां सर्वस्वरेभ्यः श्रुतिमवकर्षणेन तद्गताः पञ्चममध्यमषड्जा ध्रुववीणागतैर्यथाक्रमं मध्यमगान्धारनिषादैः स्थानसाम्यं मिलन्ति । यतस्तस्या वीणायाः सर्वे स्वराश्चतसृभिः श्रुतिभिरधिकाः । एवं स्वरत्रये प्रत्येकं चतस्रः श्रुतयः स्फुटीकृता इति द्वादश श्रुतय उपलब्धा भवन्ति । तेन चतस्रः षट् द्वादशेति द्वाविंशतेः उपलभ्यो जातः । ऋषभ (धैवता) भ्यां च गनी द्विश्रुत्यधिकाविति श्रुतिद्वयपातनेऽवश्यं तयोस्त (त्र) प्रवेशः । रिधौ च सपाभ्यां द्विश्रुत्यधिकौ, धमपाश्च निगमेभ्यः चतुश्रुत्यधिका इति तावतीकानां श्रुतीनां…..परवर्तिनि स्वरे प्रवेशयेत् । स तु द्विश्रुत्यधिकत्वादित्यादयस्त्रयो हेतवः प्रवेशनीयस्वरविशेषादपि व्याख्यात एव । तदाह एवमेतेन श्रुतिनिदर्शनेति । त………स्यादित्येव द्विश्रुतिः । एवं श्रुतेःस्वरूपमुपलब्धम् । अत्र द्वे द्वयोरिति ताः श्रुतिषु त्रिपु । एवं ध्रुववीणाश्रुतेरियत्तात्र (स्फुटीकृता) भवति । द्विश्रुतिमिस्त्रिश्रुतिचतुश्रुतिस्वरस्वरूपं च श्रुतेरियत्ता (निर्धारणा) स्फुटीकरणार्थं प्रस्तारादेव दृश्यते । तत्र दण्डप्रस्तारेण केचिद्दर्शयन्ति द्वाविंशता रेखाणाम् । अन्ये तु मण्डलप्रस्तारमाहुः ।

1अश्वक्रान्ता तथा षष्ठी सप्तमी चाभिरुद्गता ।
षड्जग्रामाश्रिता ह्येता विज्ञेयाः सप्तमूर्च्छनाः ।। इति ।। २८ ।।

आसां षड्जनिषादधैवतपञ्चममध्यमगान्धारर्षभा आनुपूर्व्या आद्याः स्वराः ।2

षड्जे चोत्तरमन्द्रा स्यादृषभे चाभिरुद्गता ।
अश्वक्रान्ता तु गान्धारे मध्यमे मत्सरीकृता ।। २९ ।।

पञ्चमे शुद्धषड्जा स्याद्धैवते चोत्तरायता ।
निषादे रजनी च स्यादित्येताः षड्जमूर्च्छनाः ।। ३० ।।

अथ मध्यमग्रामे–

सौवीरी हरिणाश्वा च स्यात्कलोपनता तथा ।
शुद्धमध्या तथा मार्गी पौरवी हृष्यका तथा ।
मध्यमग्रामजा ह्येता विज्ञेयाः सप्तमूर्च्छनाः ।। ३१ ।। 3

Abh

तिर्यगूर्ध्व च पञ्चषड्रेखा इत्येकादशोभयतो द्वाविंशतिः ।

एवं ग्रामद्वयं तदुपयोगि च श्रुति सद्भावे स्वराणां श्रुतिनियमप्रामाण्यमभिधाय क्रमप्राप्तां मूर्च्छनामाह– अथेति सम्यगिति क्रमानतिक्रमेणोर्ध्वं यच्छूयमाणमवरोहणं तदुपलक्षितस्वरसप्तकस्वरूपवहो मूर्च्छना । मूर्च्छना हि समुच्छ्राये पठ्यते । अत एवोपसंहारे स्वराः क्रमयुक्ता इति विशेषयिष्यति । अक्रमत्वे मूर्च्छनात्वं मा भूदिति । तथा हि षड्जादारोहणं निषादान्तं, धैवतात्पञ्चमान्तं, पञ्चमान्मध्यमान्तं, मध्यमाद्गान्धारान्तं, गान्धारादृषभान्तमृषभात् षड्जान्तं, षड्जश्च द्वितीयसप्तकान्तरतारस्पृष्टो भवति ।

नन्वेवं सप्त मूर्च्छनाः, सत्यम्, पञ्चमस्य श्रुत्यपकर्षे सप्ताद्याः, तदाह द्वैग्रामिक्य इति । पञ्चमे चापकृष्टे संवाद्यनुवादिव्यवस्था लोप्या लोप्या स्वरव्यवस्था चान्यैव सम्पाद्यत इति भूयानेव भेदो जायते । तत्र मध्यमाद्गान्तं, गादृषभान्तं, ऋषभात्सान्तं सान्निषादान्तं, निषादाद्धान्तं धात्पान्तं, पान्नान्तमिति सप्त । तत्र नामनिर्देशो वैदिककर्माङ्गमिति दर्शितम् । तथा हि श्रूयते, “उत्तरमन्द्रया स्वत्वं संहृतास्तिस्रो गाथा गायेत् ।” ताः पत्यो वां पाटालिकाभिरुपगायन्ति” इत्यादित इति । षड्जग्राम इति ।। २७–२८ ।।

मध्यमग्रामे सप्त । तत्र प्रत्येकं मूर्छनायाश्चत्वारो भेदाः । षड्जादिपूर्णाः सप्तस्वराः, षट् स्वराः षाडवः, षट्

Notes

1 N: अश्वक्रान्ता च विज्ञेया तथा चैताभिरुद्भवा । 2 N: reads इति after स्वरा । 3 N: reads two verses: सौवीरी हरिणाश्वा (च) स्यात्कलोपनता तथा । शुद्धमध्या तथा चैव मार्गवी पौरवी तथा ।। १० ।। हृष्यका चेति विज्ञेया सप्तमा द्विजसत्तमाः । मध्यमग्रामजाः ह्येता विज्ञेया सप्तमूर्च्छनाः ।। ११ ।।

आसां मध्यमगान्धारर्षभषड्जनिषादधैवतपञ्चमा आनुपूर्व्या आद्याः स्वराः1 ।। मध्यमेन सौवीरी, गान्धारेण हरिणाश्वा, आर्षभेण कलोपनता, षड्जेन शुद्धमध्यमा, निषादेन मार्गी, धैवतेन पौरवी, पञ्चमेन हृष्यकेति । एवमेताः स्वरक्रमयुक्ताः संपूर्णाः षाडवौडवीकृताः स्वरसाधारणकृताश्चेति मूर्च्छनाश्चतुर्दश भवन्ति । अपि च1a–

क्रमयुक्ताः स्वराः सप्त मूर्छनेत्यभिसंज्ञिताः ।
2aषट्पञ्चस्वरकास्तानाः षाडवौडुविताश्रयाः2 ।। ३२ ।।

साधारणकृताश्चैव काकलीसमलङ्कृताः ।
अन्तरस्वरसंयुक्ता मूर्छना ग्रामयोर्द्वयोः ।। ३३ ।।

Abh

अवन्ति ये प्रयोगं ते स्वराः षाडवाः । तेषु भवः प्रयोगः षाडवाः । तत्प्रयोगात् पञ्चस्वरा औडुविकाः, उडवो नक्षत्राणि, वान्ति गच्छन्त्यस्मिन्निति उडुवमाकाशं, तेन पञ्चसंख्या, तैः सप्त लक्ष्यन्ते । पञ्चमं महाभूतं हि तत्र सा संख्या सञ्जाता । येषां कृते औडुविताः स्वराः, तेषु भवत्प्रयोगः औडुवितः । तद्योगान्मूर्छना तथा । यदि वा तन्नवकस्येयं संख्या औडुवी सा येषां संजाता मध्यस्थीयः पञ्चम आकाश उडुव इत्यपि प्रयुज्यते, तथा च प्रयोक्ष्यते । कदाचिच्चौडुवे एता इति स्वरलोपे चैकदेशविवृतत्वेऽप्यनन्यतया भासना सैवासौ मूर्च्छना । अल्पनिषादगान्धारप्रयोगे तु काकल्यन्तरस्वरयोगात्साधारणकृत एत वै कारिकाद्वयेन संग्रहीतुमाह–

क्रमयुक्ताः स्वराः सप्त मूर्छनेति समाहिताः।
षट्पञ्चस्वरकास्तानाः षाडवौडुविकाश्रयाः ।। इत्यादि ।

सप्तेति पूर्णा इत्यर्थः । क्रमयुक्ता इति क्रमेणारोहणं तथैव स्वराणामवरोहेणेन च पुनप्याहरणमिति क्रमः । तेन युक्ताः सम्यगाहिताः । तन्यते विचित्रीक्रियते प्रयोगविस्तरो यैस्ते ताना इति । मूर्छतिता ? परिविशिष्टं नामैवं भेदत्रयं संगृह्य तुरीयभेदमाह साधारणकृताश्चेति। एवकारेण विकृतत्वेऽप्यनन्ततामाह कार उत्तरत्र संबध्यते । तल्लक्षयति काकलीसमलंकृता। अन्तरस्वरसंयुक्ता इति चकार एतदनन्तरं द्रष्टव्यः । उपसंहरति मूर्च्छना

Notes

1 N: र–तत्र षड्जग्रामे षड्जेनोत्तरमन्द्रा, निषादेन रजनी, धैवतेनोत्तरायता, पञ्चमेन शुद्धषड्जा, मध्यमेन मत्सरीकृता, गान्धारेणाश्वक्रान्ता, ऋषभेणाभिरुत्कृतेति । अथ मध्यमग्रामे– 1a. N: च not read in ‘N’. 2a. N: षड्जपञ्चकाः स्वराः तत्र

द्विविधैव1 मूर्च्छनासिद्धिः 2तत्र षड्जग्रामे द्विश्रुत्युत्कर्षाद्धैवतीकृते गान्धारे मूर्च्छनाग्रामयोरन्यत्वम् । तद्वशान्मध्यमादयो यथासंख्येन निषादित्वं प्रतिपद्यन्ते । तद्वन्मध्यमग्रामे धैवतमार्दवाद द्वैविध्यं तुल्यश्रुत्यन्तरत्वाच्च संज्ञान्यत्वम् । मध्यमग्रामे हि चतुःश्रुतिकमन्तरं पञ्चमधैवतयोः तद्गान्धारोत्कर्षाच्चतुःश्रुतिकमेव भवति । शेषाश्चापि मध्यमपञ्चमधैवतनिषादषड्जर्षभा निषादषड्जर्षभगान्धारमध्यमपञ्चमत्वं प्राप्नुवन्ति तुल्यश्रुत्यन्तरत्वादन्तरनिदर्शनमपि श्रुतिनिदर्शने प्रोक्तम् ।

Abh

ग्रामयोरिति ।। ३३ ।।

अत्र वैणिकस्योपदेशार्थमाह द्विविधैकमूर्च्छनायाः षड्जग्रामिक्या द्विविधाया मध्यमग्रामिक्यो द्वितीयेन प्रकारेण युक्ताया यथासिद्धिर्भवति तथोच्यते । विविधेनोत्कर्षेणापकर्षेण भाजा एकस्वरेण मूर्च्छनानां विचित्राणां सिद्धिः । तत्र षड्जग्रामे मूर्छना यावतिथी जाता तावतिथ्यैव मध्यमग्राममूर्च्छना यथा संपद्यते तथा दर्शयति तत् षड्जग्रामेऽपि श्रुत्युत्कर्षाद्धैवतीगान्धार इति गान्धारतन्त्र्यां द्विश्श्रुत्युत्कर्षपर्यन्तश्चेत्पीडनम् । अतस्तदेतदेव सर्वं संपन्नम् । स हि तदा चतुश्श्रुतिको मध्यमग्रामिको धैवतो भवति । पमधनिस स्वराणि ? समगस्वराः सम्पद्यन्ते । मध्यमो द्विश्श्रुतिको जातश्चेन्निषादोऽसौ पञ्चम एव ऋषभस्त्रिश्रुतिकत्वात् । गान्धारे संपन्नः स ऋषभः । सस्वरा? मपसनिसरिसरूपत्वं याति ? । अत्र हेतुमाह तुल्यश्रुत्यन्तरत्वादिति । संज्ञान्यत्वमित्यनेन प्रयत्नान्तरमत्र न किञ्चिदिति दर्शयति । संज्ञान्तर स्वरे ग्रामे मूर्च्छनायाश्च तुल्यश्रुत्यन्तरत्वं स्पष्टयति अन्तरनिदर्शनमपीति ।। अपि शब्दाद्वक्तव्यमपि सदित्यर्थः । श्रुतिनिदर्शनमिति । द्वे वीणे इत्यत्रैव मूर्छनानां पूर्णावस्थोक्ता ।। तानावस्थामाह–

तत्र मूर्च्छिताश्रिता इति । मूर्च्छिनामाश्रिता यतस्तासामेव तेऽवस्थाविशेषाः । तत्र सरिनिप

Notes

तत्र मूर्च्छनाश्रितास्तानाश्चतुरशीतिः । तत्रैकान्नपञ्चाशत् षट्स्वराः पञ्चत्रिंशत् पञ्चस्वराः । लक्षणं तु 1षट्स्वराणां सप्तविधं षड्जर्षभनिषादपञ्चमहीनाश्चत्वारः षड्जग्रामे । मध्यमग्रामे तु षड्जर्षभगान्धारहीनास्त्रयः । एवमेते 2षट्स्वराः सर्वासु मूर्च्छनासु क्रियमाणा भवन्त्येकान्नपञ्चाशत्तानाः । पञ्चस्वराणां तु पञ्चविधमेव । लक्षणंषड्जग्रामे षड्जपञ्चमहीनः, आर्षभपञ्चमहीनः, निषादवद्गान्धारहीन इति त्रयः । मध्यमग्रामे तु गान्धारनिषादवद्धीनः, ऋषभधैवतहीन इति द्वौ । एवमेते पञ्चस्वराः सर्वासु मूर्च्छनासु क्रियमाणास्तानाः पञ्चत्रिंशद्भवन्ति । द्विविधा च तानक्रिया तन्त्र्यां प्रवेशान्निग्रहाच्च । तत्र प्रवेशनं 3मधुर– स्वरविप्रकर्षादुत्तरमार्दवाद्वा4 । निग्रहस्त्वसंस्पर्शः मध्यमस्वरेणैव5 तु मूर्च्छनानिर्देशः कार्यो भवति 6अनाशित्वान्मध्यमस्य निग्रहे7 पर्यग्रहे वा । इदं च प्रयोक्तृश्रोतृसुखार्थं च मूर्च्छनानानात्वम् । मूर्च्छनातानप्रयोजनमपि स्थानप्राप्त्यर्थम् । स्थानं च त्रिविधं पूर्वोक्तलक्षणं काकुविधाविति ।8

Abh

इत्येषामन्यतमेन हीनाः षट् (स्वर) मूर्च्छनाः सप्त चतुर्भिर्गुणत्वे अष्टाविंशतिस्तानाः । सरिग इत्येतेषामन्यतमेन हीना मध्यमूर्च्छना एकविंशतिस्ताना इत्येकान्नपञ्चाशत् षाडवाः । औडुविकास्तु षड्जग्रामे एकविंशतिः अन्यत्र तु चतुर्दशेति पञ्चत्रिंशत् । उभयतश्चतुरशीतिः वीणायां यदा तानक्रिया तदालोप्य स्वरतन्त्रीत्वं क्रियते यदि तावत्कौशलं न स्पृश्यते यदि वा शिथिलीकरणे समस्वरसाम्यं पीडनेन चोत्तरस्वरसाम्यं नीयते । तदाह द्वि(वि)विधेति तानार्थक्रिया उपाय इत्यर्थः । अपरस्य ऋषभापेक्षया षड्जस्य विप्रकर्षः । पीडनमृषभतापादनम् । तस्यैव निषादापेक्षयोत्तरमन्द्राया निषादतापादनं तदत्र यो बलवान् प्रयोगे भवति तत्र अलपोप्योन्तर्भावः स हि घृष्टतामेवं व्रजेत् ।

ननु त्रिषु स्थानेषु सप्तस्वरा इत्युक्तं काकुविधाने (तत्र कतमं स्वरसप्तकमवलम्ब्य) मूर्छना कार्येति ये संशेरते तान्प्रत्याह मध्यमस्वरेण त्विति जातावेकवचनम्, मध्यैरेव स्वरैरित्यर्थः । वैणग्रहणं शरीरे अप्रगीतस्यापि स्थानलाभार्थम् । अन्ये तु वीणायां

Notes
Abh

एवं कृतेऽपि तानत्वे गणयित्वा विनाशिनम् ।
विद्वानेतावतिथ्येषा मूर्च्छनेत्यवधारयेत् ।। (१–३७)

ननु प्रथमायां सप्तभ्यां च मूर्च्छनायां षड्जे लुप्ते रिगमपधनिरूपं भवतीति दुर्ज्ञातो विशेषः । सत्यं, लेख्यभेदो नास्ति । एषु न पुनरस्त्वेव तथा हि–यदि तावत्सरिगमपधनि इति मूर्छनान्तरं निसरिगमपधानीति मूर्च्छना निषादेन पूर्वकेणैव क्रियते, नतु सप्तकानन्तरं गतस्य स्वरस्यानुप्रवेशः । तदात्वे षड्जलोपे प्रथमासप्तभ्योर्न भेदः । न च तदा दत्तिलाचार्यकथितं क्रमरूपत्वं निर्वाहकम् । तानत्वापत्तेश्च मूर्च्छनासु भूयसी स्यात् । यदा तु सरिगमपधनीति प्रयुज्य द्वितीयमूर्च्छना षड्जाधरवर्तिना मन्द्रसप्तकगतेन निषादेनारभ्यते निसरिगमपध इति पुनर्निषादाधोवर्तिना धैवतेन, ततस्तदधरेण पञ्चमेण यावदृषभेण, तदा मन्द्रसप्तके क्रमेणाक्रम्यमाणे मध्यसप्तके वापचीयमाने मन्द्रगतेषु षर्ड्जभादिषु निषादान्तेषु श्रुतेषु सप्तमी लुप्तमूर्च्छनेति ज्ञायते । मध्यगतेषु ष षट्सु प्रथमं तारसप्तकेन मूर्च्छनायां क्रमेण….म

Abh

जानात्येव तारषड्जेनात्र भवितव्यम् । स च न श्रूयत इति सप्तमीयं मूर्च्छना लुप्तषड्जेति । अत्र च पक्षद्वयेऽपि क्रमरूपतासिद्धस्थानप्राप्तिश्च स्फुटैव । निग्रहश्च मध्यमग्रामे पञ्चमस्य श्रुतिहानेः । एवं पञ्चमेन ऋषभ इत्यस्य पर्यग्रहणं, असंवादित्वाद्यस्मिन् स पर्यग्रहः षड्जग्रामस्तत्रोभयत्रापि न मध्यमो विनाशी । मध्यमाद्गतेः प्राप्तिरस्य पञ्चमस्य, तस्य निग्रहे मध्यमग्रामे नाशः । तथा पर्यग्रहे मध्यमग्रामे अनाशः षड्जग्रामे नातिन्यूनो नात्युच्चमध्यमागतिस्त्रिश्रुतिस्तस्माद्विनाशः ।

ननु ऋषभस्याप्यनाशित्वं स्यादित्याशङ्क्याह–निग्रहे निषादस्य ग्रहणे कर्तव्ये यस्त्रिश्रुतिः स धैवत इति यावत् । तदुक्तं दत्तिलाचार्येण

पञ्चमं मध्यमग्रामे षड्जग्रामे तु धैवतम् ।
अनाशिनं विजानीयात्सर्वत्रैव तु मध्यमम् ।। (१–२०)

ननु रि इति व्यञ्जनं कथं स्वरस्यानुकारः । ननु सकारादयोऽपि किंरूपाः । ननु ऋषभशब्दस्य नापमाद्यः तर्हि षड्जशब्दस्य सकारो न प्रथम इति । सङ्केतमात्रं हि तत् । रिऋइत्युभयथाप्यदोषः ।

अन्ये तु दत्तिलादिमतं मुनेर्नेष्टं, मध्यम एवालोप्योऽस्य मध्यम इत्याचक्षते । ननु च मूर्च्छनास्तावत् जाज्जतिग्रहभाषवन्न प्रयोगोपयोगिन्यः, तानाश्च कुतप उपयुज्यन्ते, तानोक्तस्वरातिरिक्तानामपि जातिषु लोपाभावाद् दृष्टत्वात् । तथा हि षड्जमध्यमा षड्जग्रामे जातिः, तस्या षाडवो गान्धारेण । न च षड्जग्राम –तानेषु गान्धारो गणितः, सरिनिपानामेव लोप उक्तत्वात् । तानेषु च परिगणितेषु पञ्चमस्य मध्यमग्रामेऽन्यत्र धैवतस्योभयत्रमस्यालोपित्वं पुनः किमर्थम् ? कूटतानाश्च ये प्रदर्शिताः पूर्वं पञ्चसहस्राणि त्रयस्त्रिंशच्चेति, तथैतेषां प्रस्तारो नष्टोद्दिष्टे संख्या चेति वितत्याचार्यैः कथिताः । तत्र नष्टोद्दिष्टसंख्यापरिज्ञानयोरवगमे करणमुपदर्शितम् । तस्य च लक्षणं यथा ‘अन्त्यस्यैकान्त्याद्भेदसंख्याम्’ इति । शङ्करोक्तकरणास्तु साधारणा इति टीकाकारैर्दर्शिताः ।

अथ नष्टोद्दिष्टज्ञानार्थश्लोकाः तत्र पूर्वमुद्दिष्टम् ।

मूलक्रमान्तस्थानं यत्पूर्वेण तदपेक्षया ।
क्रान्तं यावतिथेनैव लोष्टं तावतिथं त्यजेत् ।।

ते चेह न दर्शिता इति सर्वं गर्भीकृत्य मुनिः साधारणं वचनमाह प्रयोक्तुं/?/ श्रोतुसुखार्थं च

Abh

अधःस्थानं तदङ्कस्थान्मौलेरङ्कैः परिस्थितः ।

पुनर्निर्दिष्ट एतस्य पूर्वान्त्या–तथा वदेत् ।।

एवमुद्दिष्टतो ज्ञेया संख्या नष्टक्रमः पुनः ।
ज्ञायते संख्यया तत्र मौलैकाङ्कोपरिस्थया ।।

एककोष्टक एवाधःस्थाने यावतिथस्ततः ।
तस्य तावतिथेनैव पूर्वेणाक्रान्तिमादिशेत् ।।

अनेककोष्टके त्वर्थे संख्यायाः प्रतिबोधकः ।

मूर्च्छनाताननानात्वमिति । यत्तावदुक्तं मूर्च्छना तानानां कुत्रोपयोग इति तत्रेदमुक्तं मूर्च्छनार्थं च तानरूपं, यदुक्तं प्रयोक्तॄणां सुखार्थं, यतस्ते श्रोतार आगमार्थविद इत्यर्थः । एतदुक्तं भवति–मूर्च्छनानां यद्यपीहागमे नास्त्युपयोगः, तथापि दृष्टसामक्रियायां वा स्फुट एवोपयोगः । तथा हि दर्शितं, ‘उत्तरमन्द्रया तिस्रो गाथाः" इति, तानानां, “अग्निष्टोमीयमाद्यं स्याद् द्वितीयं वाजपेयिकं” इत्यादिनामनिरूपणद्वारेणैव वायुपुराणादौ यज्ञोपयोगी सामऋग्गाथोपयोगः प्रदर्शितः । अग्निष्टोमिकसामेन शिवं स्तुत्वा तत्फलमिति च प्रयोक्तृरदृष्टं श्रूयते । तथा “सदस्यमग्निष्टोमसाम शृण्वतः” पातकैर्मुच्यते लोकान् जयति" इति,

दक्षप्रोक्तं पठेद्यश्च शृणुयाच्छृद्धषड्जया ।
प्रत्यहं सन्ध्ययोस्तौ तु रुद्रलोकं गमिष्यतः ।।

इति च प्रयोक्तॄणां चादृष्टद्वारेण सुखोत्पादकं प्रत्युपयोगो दर्शितः ऋग्गाथा सामोपयोगादेव नारदीयशिक्षायां पुराणादौ च तानपर्यन्तमेव स्वरमण्डलं दर्शितम्, मूर्च्छनानां च यन्नानात्वं तदुपनियमद्वारेण दर्शितं तच्छ्रोतृसुखलक्षणं अर्थं प्रयोजनं कर्मभूतं प्रयोक्तृयुक्ते तच्छीलम् । एतदुक्तं भवति– यद्यापि जातिषु षाडवौडुविका नियता एव गणितास्तथा च रागभाषावैचित्र्यं श्रोत्रसुखजनकमुन्मूलयितुं स्वातन्त्र्येण स्वरलोपो मध्यमवर्जः प्रदर्शितः ।

यच्चोक्तं कूटतानाः किमिति नोक्ता इति । तत्र कूटत्वं तावन्न किंचित्प्रयोक्तृसुखार्थत्वं तेषामपि समानम् । केवलं परिगणितचतुरशीतिन्यायेन, नियते कर्मणि विशिष्टदेवतापरिपोषणाय । एवं मा भूदुपयोगः सामान्यात्मना तु दृष्टोपयोगोऽस्त्येव । यच्चोक्तं गणाना न कृतेति तत्रानन्त्यात्का गणाना । यदाह– ‘अनन्ता वाङ्मयस्याहो गेयमध्ये च चित्रता इति (माघ–II–3) (पूर्णस्वराणां षाडवौडुविकादीनां)

साधारणमिदानीं व्याख्यास्यामः।1तत्र साधारणं नामान्तरस्वरता, 2कस्मात्, द्वयोरन्तरे3 भवति यत्तत्साधारणम् । यथा–

छायासु भवति शीतं प्रस्वेदो भवति चातपस्थस्य ।
न च नागतो वसन्तो न च निः 4शेषः शिशिरकालः ।। ३४ ।।

इति कालसाधारणता5 । तत्र द्वे साधारणे जातिसाधारणं स्वरसाधारणं च ।

Abh

अन्योन्यमेलने द्वात्रिंशोत्यादिक्रियमाणे वाचस्पतेरप्यशक्यं परिगणनम् । स्यादेतत्–तेन किं प्रयोजनमिति । तन्न, यतस्तदपि सम्यक्प्रयोक्तरि सति श्रोतॄणां तु सुखजनकमेव । युक्तं चैतदिति दर्शयति मूर्छना तानप्रयोजनमपीति । मूर्च्छना तानानां ऋग्गाथासामभ्य आनीय यदि प्रकर्षेण योजनं स्थानानां विशेषरक्तिदायिनां प्राप्त्यर्थं

स्थानप्राप्तर्थमित्युक्तं, तत्र किमिदं स्थानं नामेत्याशङ्क्याह–स्थानं त्विति । पूर्वमुक्तं पूर्वोक्तं विस्पष्टम् । यत्त्रिविधत्वेनोक्तं काकुविधानेन तच्च षट्षष्टिभेदः, संक्षेपतस्त्रिधा सद्वर्णाङ्गालङ्कारयोगः प्रयोक्ष्यते।

एवं मूर्च्छनातानानां स्वस्थानं व्याख्याय साधारणकृतं नाम चतुर्थं तद्भेदं व्याख्यातुमुपक्रमते साधारणमित्यादि । अन्तरे भवः अन्तरः स्वस्थानच्युतपरस्थानसंक्रान्तः स चासौ स्वरक्तत्वं न तु विस्वरं, तस्य भावः साधारणमिति । भावप्रधानो निर्देशः साधारण्यमिति यावत् । तथा अन्तरे भवं जातिविभागसाधारणत्वात्स्वरा यत्र प्रयोगे तद्भावो जातिसाधारणः स्वस्य सामान्यलक्षणम् । कस्मादिति किमत्र लौकिकेऽनुगमो अस्ति तेनेति प्रश्नः अस्तीत्याह द्वयोरन्तर इत्यादि। छायायामुपविष्टस्य शीतं भवतीति वसन्तस्य पूर्णत्वं,

Notes

स्वरसाधारणं काकल्यन्तरस्वरौ । तत्र द्वि1श्रुत्यत्कृष्टो निषादः काकलीसंज्ञो भवति । तद्वद्गान्धारोऽन्तरस्वरसंज्ञो भवति ।

जातिसाधारणमेकांशानामविशेषाज्जातीनां समवायात्प्रत्यंशं लक्षणसंज्ञानमिति। स्वरसाधारण द्विविधं द्वैग्रामिकं कस्मात् साधारणोऽत्र स्वरविशेष इति कृत्वा षड्जत्वासाधारणमुच्यते । एवं मध्यमेऽपि । अस्य तु प्रयोगसौक्ष्म्यात्कैशिकमिति द्वितीयं नाम निष्पद्यते । 2कलत्वाच्च काकलीसंज्ञो भवति, विकृतत्वाच्चानंशः आप्तोपदेशाच्च सप्तभ्यो नान्यो निषादवानेव । यथा हि षण्णां रसानामन्यतमः क्षारसंज्ञितस्तथा निषादः काकलीसंज्ञो गान्धारश्चान्तरस्वरसंज्ञो भवति। भवतश्चात्र–

अन्तरस्वरसंयोगो नित्यमारोहिसंश्रयः ।
कार्यो ह्यल्पो विशेषेण नावरोही कदाचन ।। ३५ ।।

क्रियमाणोऽवरोही स्यादल्पो वा यदि वा बहुः ।
जाति़रंग श्रुतिं चैव निहन्यादन्तरस्वरः3 ।। ३६ ।। इति ।।

Abh

आतपे स्वेद इति शिशिरस्य स्वरूपात्प्रच्यवनम् । एतदेवाह न च नागत इति । अनागमनमात्रव्यावृत्तिर्न तु पूर्णतेत्यर्थः । निश्शेष इत्यनेन नष्टः न वा संपूर्ण इत्यर्थयोः स मध्यवर्तीकालः साधारणः, तद्वद्द्वयोः स्वरयोः मध्यवर्ती सस्वरसाधारणः।। ३४ ।।

एतमेव विभागं दर्शयति डु इति । तेन तानश्रुतिसाधारणं यदेके प्राहुस्तन्न सोढं भवति । निषादस्य षड्जग्रामे षाडवौडुवितत्वेन लोपः, गान्धारस्य त्वौडुवित्वेन, विपर्ययौ मध्यमग्रामे तद्विशेषानाश्रयणे लोप्यत्वमात्रात्। यदि तानसाधारणं तन्न, किञ्चिदेतेनोक्तं स्यात् । श्रुतिसाधारणं न किञ्चिन्निषादगान्धारव्यतिरेकेण हि नान्यपरो लोपदशायाः श्रुत्युत्कर्षं भजते ।

प्रथमं व्याचष्टे तत्र साधारणमिति । एतौ क्रमेण लक्षयति श्रुत्युत्कृष्टो निषाद इति । तत्र संज्ञावग्रहणे भेदमाह व्यवहारार्थमिमे भिन्ने संज्ञे परमार्थतस्तु द्वयोरपि तीव्रतरत्वात्काकलीत्वम् । यद्वक्ष्यति “कलत्वाच्च काकली संज्ञा” (ज्ञ) इति । द्वयोरपि चान्तरस्वरत्वम्, यदुक्तं–"साधारणं नामान्तरस्वरता" इति ।

Notes
Abh

द्वितीयं लक्षयति जातिसाधारणमेकांशानामविशेषादिति । एकोंऽशो यासां जातीनां तासां यो विशेषहीनः प्रयोगः स वाद्यंशानुलपनलक्षणान्तरमार्गरूपस्तुल्यः । कमवलम्ब्य जातिसाधारणं स्थितं नत्वेवं तस्मिन् भागो जात्योरभेद एवैकोऽसाधारणोत्याशङ्क्याह जातीनां तु समवायात्प्रत्यंशलक्षणसंज्ञानमिति । ग्रहन्यासादिदशकस्य यः समवायस्ततो हेतोर्जातीनामंशे विचित्रेऽपि लक्षणमसाधारणं शक्यं ज्ञातुम् , यदाह न्यासान्तरभागौ तु विशेषकाविति । तुर्व्यतिरेकमाह, तेन नाभेद इति भावः । ग्रहादिभागानां लक्षणपरिज्ञानं जातिसाधारणमिति केचिदेव प्रघट्टके व्याचक्षते स्वरसाधारणं द्विविधमित्यादिना । काकल्यन्तरयोर्ग्रामद्वये प्रयोगमुजानाति, निषादगान्धाराल्पत्वदशायां नामान्तरं च विधत्ते । स्वरद्वयं षड्जग्रामे षड्जसाधारणं, अन्यत्र मध्यमसाधारणमिति। तच्चेदं फल्गुप्रायं लक्ष्यते, मूर्च्छना हि स्वरसाधारणकृता भवतीत्युक्ते किमनेनाभ्यधिकमुक्तं भवति । अन्ये तु ग्रामद्वये व्यवस्थां प्रदर्शयितुमिदं, तथा हि, षड्जग्रामे षाडवकरत्वेन निषादः काकली, औडुविते गान्धारोऽन्तरस्वर इति षड्जसाधारणं मध्यमग्रामे विपर्ययेणेति प्राहुः । तदनेनापि किञ्चिदाशयितं भवति । यच्चेदमुच्यते यस्य कैशिकमिति तद्यदि काकल्यन्तरयोस्तथापि निषादगान्धारगतस्य ग्रामभेदे षाडवौडुविचतप्रकारस्य तदुचितप्रकारस्य तदुभयथापि षड्जकैशिक्यां पूर्णस्वरायां कैशिक्यां च ऋषभधैवतलोपोजातषाडवौडुवितायां न दृश्यते । शुद्धभिन्नगौडमालवषड्जकैशिकानामपि कैशिकीजातिसम्भवमुद्देशा…..भ्यां समयाश्च काश्यपमुनिप्रभृतिभिश्च दर्शितम् । तस्मादित्थमेतदित्यस्मत्परमगुरव उत्पलदेवपादा मन्यन्ते इह तावत्तिस्रो द्वे चतस्र इत्यादिना स्वस्थानस्वरूपमुक्तं तच्चरा

Abh

निषादस्त्रिश्रुतिः, षड्जो द्विश्रुतिः, ऋषभस्तु चतुश्श्रुतिरिति, तदा षड्जसाधारणौ द्वाभ्यां निषादर्षभाभ्यामुपजीवितो यतः सम्पन्नः ततः षड्जसाधारणम् ।

गान्धारो यदैकां श्रुतिमुत्कृष्यते पञ्चमश्च मध्यमग्रामिको मध्यमश्रुतिमेकां गृह्णाति धैवतस्तु चतुश्श्रुतिक एव मध्यमग्रामतायां हानिः, तदा मध्यमस्योपजीव्यत्वान्मध्यमसाधारणम् ।

ननु निषादगान्दारयोर्द्विश्रुत्युत्कर्षणे साधारण मुक्तं कथमधुनैकश्रुत्युत्कर्ष इत्याशङ्क्याह साधारणमस्येति। स्वरस्वयः (?) प्राक्तनरूपाद्विशेषो वैलक्ष्यण्यात्मा स एव स्वरसाधारणतायां प्रयोगः । अनेन चैतत्सूचयति सर्वेषां स्वराणामुच्चनीचत्ववैचित्र्यकृतोक्तिविशेषात्केवलं गान्धर्वे नियमं (म) दृष्टसिद्ध्यै एकश्रुतित्वं स्वराणां दर्शितम्, वैचित्र्यन्तरं तु रागभाषादौ लक्ष्ये दृश्यत एव । तथा च वृद्धकाश्यपः

**काकल्यन्तरयोगेन चतुस्त्रिद्वयेकतः श्रुतीन् ** ।
स्वरान्सर्वान्प्रयुञ्जीत रागाभाषासु सर्वथाः ।।

स्वराः षड्जादयः सप्त तथा चोत्कृष्टपञ्चमः
अथ धैवततश्चान्यः काकल्यन्तरसंज्ञकौ ।।

षड्जमध्यमगान्धाराश्चत्वार इति सर्वथा
**जातिष्वेते प्रयोक्तव्याः स्वराः पञ्चदशैव तु ** ।।

अस्य लक्ष्येऽसंभवं दर्शयितुं संज्ञां करोति अस्य तु प्रयोगस्य सौक्ष्म्यादिति । तुस्त्ववधारणे, अस्यैव षड्जमध्यमसाधारणस्येत्यर्थः) । सौक्ष्म्यवैचित्र्यनिपुणसाध्यता च । कैशिकमिति सुकुमारहृद्यप्रयोगात्मिका हि कैशिकी सा विद्यते यत्रेत्याकारः । कशेर्वा कैशिकम् । पाताग्रसौक्ष्म्याद्वेति पृथक्प्रयासोऽयं तत्र षड्जगान्धार्याश्च षड्जकैशिकी जातेति । मध्यमग्रामांशोऽप्यस्या उपजीव्यत इति चतुःश्रुतिकधैवतं प्रतिपद्यते । दौर्बल्याच्च ऋषभधैवताभ्यां चतुश्श्रुतिकाभ्यां भवितव्य यथाकल्पं निषादगान्धाराभ्याम् । (।) वक्ष्यति हि–

दौर्बल्यं चात्रकर्तव्यं धैवतस्यर्षभस्य च । इति (२८– ) स्वयं चैष षड्जग्रामेणेति पञ्चमेन चतुःश्रुतिकेन भवितुं युक्तमिति । कैशिकप्रयोगे षड्जसाधारणगमनायोगात् षड्जकैशिकीकैशिक्यपि स्वयंमध्यमग्रामगा, तेनात्र चतुश्श्रुतिर्धैवतः, ऋषभोऽपि चतुश्श्रुतिः, दौर्बल्यं ऋषभस्यात्रेति वक्ष्यते, लोप्यत्वं चर्षभधैवतयोरिति चतुश्श्रुतिकतया भाव्यम् । धैवत्यार्षभीवर्जाश्च सर्वजातयोऽसाधारणमिति

1जातीरिदानीं वक्ष्यामः ।

स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जातयः ।
मध्यमी पञ्चमी चैव षड्जमध्या तथैव च ।। ३७ ।।

आसामंशास्तु विज्ञेयाः षड्जमध्यमपञ्चमाः ।
यथा स्वदु2र्बलतरव्यत्यासात्पञ्चमे तथा ।। ३८ ।।

जातयोऽष्टादशेत्येवं ब्रह्मणाभिहितं पुरा ।
तास्त्वहं वर्तयिष्यामि ग्रहांशादिविभागतः ।। ३९ ।।

Abh

षड्जग्रामानुप्रवेशाच्चतुश्श्रुतिकत्ववशात्पञ्चमेन । भवितव्यमिति कैशिकापरपर्यायं षड्जमध्यमसाधारणं तत्स्थानमप्यस्ति, तद्गतातिदेशात्तु कैशिकभिन्नकैशिकादिग्रामरागोष्विति सर्वं सुस्थम् । एतदेव मतङ्गाचार्यादिभिर्ग्रामसाधारणमित्युक्तम् ।

श्रुतिसाधारणं तु सर्वस्वराणामनियतश्रुतिकत्वम् । ननु निषादस्य काकलीति कस्मान्नाम, आह कलत्वाच्चेति । चकार ईषदर्थे नैको सादेशः । (?) ईषत्कलस्तीव्रभावोऽस्मिन्निति काकली इति, यदि वा गौरादित्यादीकारः काकलीसंज्ञे इति पाठे निषाद एवं षड्जत्वं नाप्राप्तः छिन्न पुच्छ एव श्वेव । अत एव विकृतत्वेन प्राधान्याभावादनंशः । ननु सप्तभ्यो माभूत्, अन्यो निषादस्तु विकृतोऽसौ न षड्ज इति । किमत्र कारणम् । आह । आप्तोपदेशाच्चेति । चकारो हेत्वन्तरगतिकारं द्योतयति । पूर्वं हि निषादधीप्ररूढायां तद्बुद्धिर्जातेति प्राथम्यात्तेनैव व्यपदेशः । अत्र दृष्टान्तमाह लवणरस एव तीव्रः क्षार इति कथ्यते चाणक्यादिभिस्तु मधुररसं, मध्यमादृषभगतौ चान्तरास्य प्रयोगादान्तरस्वरत्वम् ।

अथात्र साधारणे उक्ते शेषं कारिकावल्यामाह भवति चात्रेति । साधारणे अन्तरस्वराद्य आरोही मध्यमस्तं संश्रित्य तत ऋषभं जिगमुषुणा यदि आन्तरस्वरः प्रयुज्यते तदासौ सम्यक्छ्रतौ योगो भवति । सदाल्पकार्यस्तु विषय एव तस्य विनियोगः । नावरोहीति तस्यादाविति शेषः । तेनान्तरस्वरो प्रयुक्ते न नयावरोही ऋषभः, स मे……न योज्य इति । अन्तरस्वरेण संयोगो यस्य मध्यमस्य तादृग्यदाप्रयुक्तस्तदा आरोहणमेवकार्यम्। मध्यामादन्तरस्वरं प्रयुज्य मध्यम अन्यत्र वा आरोहणमेव कार्यम ।। ३५ ।।

नन्वारोहणं कदाचिन्नावरोहीति यदुक्तं तदेव दृढयति क्रियमाणोऽवरोही स्यादितिअल्पो बहुभिरिति।……विपुलो वा विस्तरकालस्थिति…..त्रादर इत्यर्थः । जातीत्यदृष्टं, रागमिति रात्रिदृ (रक्तिर्दृ)ष्टफलं, श्रुतीति प्रत्युपकारवैरस्यं नयत इति नाशयतीत्यर्थः । अन्तरस्वरशब्देन चात्र काकल्यपि संगृहीत इति कृतोऽप्यमेव क्रमः ।। ३६ ।।

Notes

षाड्जी चैवार्षभी चैव धैवत्यथ निषादिनी ।
षड्जोदीच्यवती चैव तथा वै षड्जकैशिकी ।। ४० ।।

षड्जमध्या तथा चैव षड्जग्रासमाश्रयाः ।
अत ऊर्ध्वं प्रवक्ष्यामि मध्यमग्रामसंश्रिताः1 ।। ४१ ।।

गान्धारी मध्यमा चैव गान्धारोदीच्यवा तथा ।
पञ्चमी रक्तगान्धारी तथा गान्धारपञ्चमी ।। ४२ ।।

मध्यमोदीच्यवा चैव नन्दयन्ती तथैव च ।
कर्मारवी च विज्ञेया तथान्ध्री कैशिकी मता ।। ४३ ।।

स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जायतः ।
मध्यमा षड्जमाध्या च पञ्चमी चैव सूरिभिः ।। ४४ ।।

आशामंशास्तु विज्ञेयाः षड्जमध्यमपञ्चमाः ।
यथास्वं दुर्बलतरं व्यत्यासात्त्वत्र पञ्चमी ।। ४५ ।।

Abh

षड्जं काकलीं प्रयुज्य तमेव स्वरान्तरं वारोहो–….किमित्युक्तम् । तत्प्रसङ्गादाह। जातीरिदानीमिति। जायते शुद्धभिन्नगौडरागसाधारणभाषाविभाषात्मकं रीतीसप्तकं दृष्टसिद्धिर्भावरसोपरेञ्जनं च यतस्ततो जातयः। ब्रह्मणेति आप्तागममसस्यानन्यथाभावमाह । वर्तयिष्यामि हृदये वर्तमानाः प्रविशन्ति लक्षणक्रमेण ग्रहांशतारमन्द्रषाडवौडुविकादि विभागोक्तेन प्रकाशयिष्यामीत्यर्थः। षड्जग्रामगतं श्रुतिविभागं सम्पद्यते चोपजीवतीति तदाश्रयाः । एवं मध्यमग्रामाश्रया अपि स्थिताः । तिस्रः स्वरगता एव । तासु हि नाषादगान्धारयोः षाडवौडुवितकरत्वमिति पूर्वावस्थायां वक्रावपि तौ दुर्बलत्वाद्विकृतौ काकल्यन्तरात्मानौ भवतः । तेन स्वरसाधारणस्यायतितत्वादत्रापि प्रयोगः ।। ३७–४४ ।।

तथाहि (शुद्धषड्जा) यां काकलीप्रयोगो दृश्यते(इति) निदर्श्य अनंशत्वे दौर्बल्यात्तत्रासां कोंऽशः साधारणविषय इत्याह आसामंशा इति । यथास्वमिति षड्जमध्यमसप्तांशास्तत्र निषादगान्धारयोस्तावदंशयोः नास्ति साधारणं समपेषु सातिशयस्तत्प्रयोगः, मध्यमाया अप्येष विधिः, स हि द्विश्रुतिवर्जं पञ्चांशांशाः । पञ्चम्यास्तु ऋषभपञ्चमावंशौ आद्ये……वितं येन पञ्चम एवास्यां काकल्यन्तरयोगप्रसंगादस्यामन्यदाह दुर्बलतरस्य व्यत्यासे दुर्बलत्वगात्रं कर्तव्यम् । तेन षाडवकारिणो गान्धारस्य स्थाने दुर्बलेनान्तरस्वरेण यत्र भाव्यं तत्रासौ दुर्बलतरः कर्तव्यः । औडुवितकारिनिषादस्थाने दुर्बलतरकालीसङ्गो दुर्बलः काकली कर्तव्यः इति ।। ४५ ।।

Notes

1aस्वरजातयः शुद्धा विकृताश्च । तत्र शुद्धाः षाड्जी, आर्षभी, धैवती, निषादिनी च षड्जग्रामे । गान्धारी मध्यमा पञ्चमीती मध्यमग्रामे । एताश्चान्यूनस्वराः1 स्वस्वरांशग्रहन्यासापन्यासाश्च ।

विकृता लक्ष्यन्ते तेभ्योऽन्यतमेन द्वाभ्यां बहुभिर्वा लक्षणैर्विक्रियामुपगता न्यासवर्जं विकृतसंज्ञा भवन्ति। न्यासविधावप्यासां2 मन्द्रो नियमः विकृतास्वनियमः। तत्रैकादशसंसर्गजा विकृता अपरस्पर3 संसर्गादेकादश निर्वर्तयन्ति । यथा–

शुद्धा विकृताश्चैव हि समवायाज्जातयस्तु जायन्ते ।
पुनरेवाशुद्धकृता भवन्त्यथैकादशान्यास्तु ।। ४६ ।।

Abh

अथासां जातीनां विभागमाह स्वरजातय इति स्वरनाम्न्य इत्यर्थः। तासां ग्रामविभागमाह तत्र शुद्धाः षड्जेत्यादि। शुद्धानां लक्षणमाह ता इति । अन्यूनस्वराः पूर्णस्वराः यो (?) नामकारी स्वरांशादिरूपो (?) यासाम् । चकारः समुच्चये । विकृतानां नैतल्लक्षणमित्याह विकृता लक्ष्यन्ते एभ्य इति । पूर्णग्रहोपन्यासेभ्यः । तदाह न्यासवर्जमिति । विकृतसंज्ञा इति विकारे सम्यग्ज्ञानं विशेषतो यासां, तेन षाडवविकृता, ग्रहविकृता, अंशविकृता, ग्रहांशोपन्यासविकृता इति विभागः ।

नन्वेवं (ग्रहाप) न्यासभागे शुद्धेतरविभागः कथमित्याह न्यासविधावपीति । तासां जातीनां मध्येऽ पि याः शुद्धास्तासु नामकरी यो न्यासः नियमेन मन्द्रो भवति, विकृतासु त्वनियमः। न्यासान्तरमार्गलक्षणेन….छायायिना रूपेण विकृत्वेऽपि तद्रूपाविभासः ।

नन्वेवं सप्तानां विभाग उक्तः, अष्टादश चोद्दिष्टा इत्याशंक्याह तत्रेति । एवं सप्तसु स्थितास्वित्यर्थः । तासां संसर्गादित्याह विकृता इति न तु शुद्धा इत्यर्थः । एकादशेति कर्मपदम् । एतदेव संक्षेप्तुमार्यामाह–

शुद्धा विकृताश्चैव हि समवायाज्जातयस्तु जायन्ते इति । निर्हेतौ समवायात् श्रुतिस्वरग्रहादिसमूहाद्यतो जायते ततो जातय इति निर्वचनम् । शुद्धा विकृताश्चेति विभागः । एवकारेण शुद्धानामेव हि विकृतत्वम् । न तु जात्यन्तरत्वमुक्तम् । पुनरवेति शुद्धाभिर्विकृताः कृताः, ताभिस्त्वेकादशेति पुनः शब्दो व्यतिरेकार्थः।

Notes

1a. N: एतासां अष्टादशानां सप्तस्वरा….ताश्च द्विविधाः शुद्धाः विकृताश्च । तत्र शुद्धा षड्जग्रामे षाड्जी ऋषभी धैवती निषादी च षड्जग्रामे । गान्धारी मध्यमा पञ्चमी इति मध्यमग्रामे । एतश्चान्योन्यस्वरत्वात् स्वस्वराः । संग्रहोपन्यासन्यासो अन्यतमेन द्वाभ्यां बहुभिर्वोपलक्षणैः। विक्रियामुपगता न्यासवर्जं विकृतसंज्ञा भवन्ति । न्यासविधानमप्यासां मन्द्रो नियमः विकृतास्वनियमः । तत्रैकादशसंसर्गजा विकृता अपरस्परसंसर्गादेकादश निर्वर्तयन्ति ।

1तासां यन्निर्वृत्ताः स्वरेष्वथांशेषु जातिषु च जातिः ।
2तद्वक्ष्यामि यथावत्संक्षेपेण क्रमेणेह ।। ४७ ।।

3षाड्जीमध्यमाभ्यां निवृत्ता ज्ञेया षड्जमध्यमा4 5षाड्जीगान्धारीभ्यां6 7ष्डजाकैशिकी, 8गान्धारीषड्जधैवतीभिः षड्जोदीच्यवा, षड्जागान्धारी मध्यमाधैवती – भिर्गान्धारोदोच्यवा, धैवतीपञ्चमीमध्यमागान्धारीभिर्मध्यामोदीच्यवा, गान्धारीमध्यमापञ्चमीनिषादवतीभी रक्तगान्धारी, गान्धार्यार्षिभ्यामान्ध्री, पञ्चम्यार्षभीगान्धारीभिर्नन्दयन्ती, निषादवत्यार्षभीपञ्चमीभिः कार्मारवी, पञ्चमीगान्धारीभ्यां गान्धारपञ्चमी, धैवत्यार्षभीवर्जाभिः कैशिकी ।।

[ स्यात्षड्जमध्यमाभ्यां निर्वृत्ता षड्जमध्यमाजातिः ।
गान्धारीषाड्जीभ्यां संयोगात्षड्जकैशिकी चापि ।।

षाड्जीगान्धारीभ्यां धैवत्या चापि या विनिष्पन्ना ।
संसर्गाद्विज्ञेया सा षड्जोदीच्यवा जातिः ।।

षाड्जी गान्धारी9 पञ्चमी तथा धैवती च खलु जातिः ।
गान्धारोदीच्यवतीं जातिं निर्वर्तयन्त्येताः ।।

Abh

एकादशैव नाधिकाः । तुर्व्यतिरेके, तासु परव्यतिरिक्ता नाम वाच्याः, न तु शुद्धाः भूतविकृतवत्कारणनामधेया एव । अथेति समुच्चये कारणनामानुगमांशेन समुच्चितिः । तथाहि षड्जमध्यमयोश्च संसर्गजातिः षड्जमध्यमेत्युक्तम्। अन्यास्तु भवन्तु जातय इति अंशरागविभाषादेशीमार्गादिषु प्रधानभूतान्तरमार्गन्यासाद्यनुगमबलेनानुगत– प्रत्ययकारित्वादष्टादशमार्गन्यासानीत्यर्थः । अंशग्रहादिशतयोजनाया जायन्त इति जातय इत्यन्ये । जातेरसंप्रति आभ्य इति वा सकलस्य रागादेर्जन्महेतुर्जातिरिति टीकाकारः।। ४६ ।।

ननु कया विकृतया का जातिरित्याशङ्काप्रसंगादन्यदप्यभिधास्यन् प्रतिज्ञां करोति तासां यन्निर्वृत्तेति तयोः निर्वृत्तयोर्निर्वृत्ता तस्यामियं निर्वृत्तेति पञ्चमीसमासः कर्मधारयश्च । तत्रैकशेषावृत्त्यादिभिः यां निर्वृत्तेत्यन्यप…..तत्र यत इत्यध्याहारः । स्वरेषु ग्रहापन्यासादिषु यथावदिति यत्प्रकाररूपमर्हति तद्वक्ष्यामि। एवमंशेषु स्वरग्रहणेन लब्ध्या अंशाः प्रधानात्पृथगुक्ताः । हानिषु च षाडवौडुविकात्मसु यथावदिति तत्प्रकाररूपं तत्क्रमेणेत्युद्देशमप्यनादृत्य, इहेति जातिनिर्णये वक्ष्यामि ।। ४७ ।।

Notes

1.N: –यासां यां ।

1aगान्धारपञ्चमाभ्यां मध्यमया विरचिता 1bच धैवत्या ।
जातिस्तु मध्यमोदीच्यवेति सद्भिः सदा ज्ञेया ।।

गान्धारीपञ्चमयोः सप्तम्याश्चैव रक्तगान्धारी ।
गान्धार्यार्षाभिकाभ्यामान्ध्री संजायते जातिः ।।

योनिस्तु नन्दयन्त्यास्त्वार्षभिका पञ्चमीं सगान्धारी ।
कार्मारवीं निषादी सार्षभिका पञ्चमीं कुर्युः ।

धैवत्यर्षभिकाभ्यां हीनां खलु कैशिकीं कुर्युः ।।]

1परस्परविनिष्पन्ना ज्ञेया ह्येवं तु जातयः ।
पृथग्लक्षणसंयुक्ता द्वैग्रामिकाः1c स्वराश्रयाः ।। ४८ ।।

2चतस्रो2a जातयो नित्यं ज्ञेयाः सप्तस्वरा बुधैः।
चतस्रः षट्स्वरा ज्ञेयाः स्मृताः पञ्चस्वरा दश ।। ४९ ।।

मध्यमोदीच्यवा चैव तथा वै षड्जकैशिकी ।
कार्मारवी च संपूर्णा तथा गान्धारपञ्चमी ।। ५० ।।

3षाड्ज्यान्ध्री नन्दयन्ती च गान्धारोदीच्यवा4 तथा ।
चतस्रः षट्स्वरा ह्येताः ज्ञेयाः पञ्च स्वरा दश ।। ५१ ।।

Abh

तत्र निर्वृत्तीस्तावदाह षाड्जीमध्यमाभ्यामित्यादि धैवत्यार्षभवर्जाभिः कैशिकीत्यन्तेन । आदौ तिस्रः षड्जग्रामे, एतच्च षड्जपूर्वपदत्वादेव लब्धम् । ग्रहादिसंर्गेऽपि ग्रामयोरसाङ्कर्यम् । ग्रामसाधारणस्य कैशिकस्य तत्र बाहुल्येन प्रयोगः । स्पष्टमन्यत् ।

एतदुपसंहरति अपरस्परनिष्पन्ना इति संसर्गजा अन्योन्यं जनिताः । नन्वेवं षड्जमध्यमायां पृथग्ज्ञाप्यते लक्षणमित्याह पृथग्लक्षणेति । ननु किं तेनेत्याह स्वरा ये ग्रहादिविभागस्तत्र नेयास्ते यत आश्रीयते लक्षणबलेन द्वैग्रामिक्यमिति तिस्रः षड्जग्रामे अष्टावन्यत इत्यर्थः । यदि वा द्वैग्रामिकजात्युद्भवत्वात् तथेति, यदि वा संसर्गजात्य एव स्वराश्रयास्तु स्वरमान्यः पृथग्लक्षणं शुद्धापेक्षया जात्यत्वं संसर्गदजापेक्षया च जनकत्वं भजन्ते ।। ४८ ।।

अथ हानिप्रकारं पूर्णषाडवौडुविकविभागं विवक्षुः पूर्णाः तन्नियमं तावदाह चतस्र इति । तत्र पूर्णाश्चतस्र आह मध्यमोदीच्यवेत्यादि । तत्र षाडवा आह षाड्जीत्यादिना । तद्व्यतिरिक्ताः शिष्यन्ते

Notes

1a. N: गान्धारीपञ्चमीभ्यां 1b. N: स 1.c.N:द्वैग्रामिक्यः (N)

नैषादी 1 चार्षभी चैव धैवती षड्जमध्यमा ।
षड्जोदीच्यवती चैव पञ्च षड्जाश्रिताः स्मृताः ।। ५२ ।।

गान्धारी रक्तगान्धारी मध्यमा पञ्चमी तथा ।
कैशिकी चैव पञ्चैता मध्यमग्रामसंश्रयाः ।। ५३ ।।

यास्ताः 2सप्तस्वरा ज्ञेया याश्चैताः षट्स्वराः स्मृताः ।
कदाचित् षाडवीभूताः कदाचिच्चौडुवे मताः ।। ५४ ।।

षड्जग्रामे तु संपूर्णा विज्ञेया षड्जकैशिकी ।
षट्स्वरा चैव विज्ञेया3 षाड्जी गान्धारयोगतः ।। ५५ ।।

संपूर्णा मध्यमग्रामे ज्ञेया 4कार्मारवी तथा ।
गान्धारपञ्चमी चैव मध्यमोदीच्यवा5 तथा ।
पुनश्च षट्स्वरा ज्ञेया गान्धारोदीच्यवा 6बुधैः ।। ५६ ।।

Abh

दशैव तान् पञ्चस्वरा इति दर्शयति ज्ञेयाः पञ्चस्वरा दशेति ।। ४९–५१ ।।

पञ्चस्वराणां विभागमाह निषादिन्यार्षभी चेत्यादि । षड्जाश्रिता इति षड्जग्राममाश्रिताः ।। ५२–५३ ।।

एवं मध्यमग्रामं अथ तदेव रूपताय निराकांक्षं करोति । यास्ताः सप्तस्वरा इत्यादि । याः सप्तस्वरा मध्यमोदीच्यवाद्याश्चतस्रस्ता ज्ञेयास्तथैव नियमेनेति शेषः । तेन तासां न जातु हीनस्वरता । यास्तु षड्जाद्याश्चतस्रस्ताः षाडवे चतारात् पूर्णत्वे ना [औ]डुविकाः कदाचिदौडुवे पञ्चात्मके तत्प्रयोगे या दशोक्तासाः [?] कदाचित् षाडवे, चकारात्पूर्णत्वेऽपि । मता इति पाठे न छन्दोभङ्गः इति ।। ५४ ।।

पूर्णानां षाडवानां च ग्रामभेदेन स्वरूपमाह षड्जग्रामे त्विति । गान्धारयोगत इति गान्धारस्य योगमंशत्वेन प्राधान्यमवलम्ब्य षाड्जी षड्जस्वरत्वेनोक्तापि सती पूर्णैव विज्ञेया । निषादो ह्यासां षाडवकृत्। स च गान्धारांशे तत्संवादित्वादलोप्य एव । चोऽप्यर्थे, एवकारः पूर्णशब्दानन्तरम् । कार्माख्याद्यास्तिस्रो मध्यमग्रामे पूर्णस्वरा एव, गान्धारोदीच्यवाद्यास्तु तिस्रः षाडवा, औडुविकाः कदाचित् । ।। ५५–५६ ।।

Notes

1.N: –निषादवत्यार्षभी च । –निषादिन्यार्थभी चैव ।

आन्ध्री च नन्दयन्ती च मध्यमग्रामसंश्रयाः ।
एवमेता बुधैर्ज्ञेया द्वैग्रामिक्योऽपि जातयः ।। ५७ ।।

अत ऊर्ध्वं प्रवक्ष्यामि तासामंश1विकल्पनम् ।
षट्स्वराः सप्तमे ह्यंशे नेष्यते(न्ते) षड्जमध्यमाः ।। ५८ ।।

संवाद्यलोपाद्गान्धारे तद्वदेव हि नेष्यते ।
गान्धारीरक्तगान्धारीकैशिकीनां तु पञ्चमः ।। ५९ ।।

षड्जायां चैव 2गान्धारमंशकं विद्वि षाडवम्3 ।
षाडवं धैवते नास्ति षड्जोदीच्यामथांशके ।। ६० ।।

संवाद्यलोपात्सप्तैताः षट्स्वर्येण विविर्जिताः ।
गान्धारीरक्तगान्धार्योः षड्जमध्यमपञ्चमाः ।। ६१ ।।

सप्तमश्चैव विज्ञेयो येषु नौडुवितं भवेत् ।
4द्वौ षड्जमध्यमांशौ तु गान्धारोऽथ निषादवान् ।। ६२ ।।

ऋषभश्चैव पञ्चम्यां कैशिक्यां चैव धैवतः ।
5एवं तु द्वादशैवेह वर्ज्याः पञ्च स्वराः सदा ।। ६३ ।।

Abh

अंशविकल्पनमिति । अंशस्वरा विकल्प्यन्ते येन । अस्यां जातावयम् । अंशाः षा(ष)डवरोहिता इति मीलनग्रन्थेन विचार्यते । तं वक्ष्यामः । अङ्गविकल्पनमिति पाठे अङ्गस्य षाडवौडविकरूपस्य विकल्पनं कथनम् । अस्मिन्नंशे तन्नास्तीति । सप्तम इति । निषादे गान्धारे चांशे तद्वति ( ? ) षट् स्वरा नेष्यन्त इत्यर्थः। अत्र हेतुः संवादिनो लोपाभावान्निषादेन न स्यात् षाडवः । स च गान्धारस्य संवादी । गान्धार्यादीनां तिसृणामृषभेण षाडवत्वमुक्तम् । स च मध्यमग्रामे पञ्चमस्य संवादिती । तत्रांशे षाडवाभावे धैवतेंऽशें षड्जोदीच्यवायां न षाडवः । ऋषभेण हि तत् । स च धैवतस्य संवादी षड्जग्रामे । एकीकृत्योपसंहरति सप्तैता इति । नि ग प प प ग ध इत्येतेंऽशाः । अषाडवाः क्रमेण षड्जमध्यमादिषु षड्जोदीच्यवाद्येषु । अथौडुवितशून्यानंशानाह । गान्धारीरक्तगान्धार्योरित्यादि । सप्तम इति । निषादः षड्जमध्यमाया यौ द्वावंशौ गान्धारनिषादौ तावन्नौडुविकौ । उपसंहरति एवं तु द्वादशैवेति । गान्धारीरक्तगान्धार्योरष्टौ षड्जमध्यमायां द्वौ पञ्चम्यां कैशिक्यां द्वाविति । अत्र क्वचिदंशसंवाद्यलोपो युक्तिर्लभ्यते । तदालाभे तु तथानिरूपणमेव हेतुः ।। ५७–६३ ।।

Notes

तास्त्वनौडुविता नित्यं कर्तव्या हि स्वरा1श्रयाः ।
2सर्वस्वराणां नाशस्तु विहितस्त्वथ जातिषु 3।। ६४ ।।

Abh

इयती असंख्या भवतीति षष्टिस्तावदंशाः, तत्र चतसृणां जातीनां नित्यपूर्णानां नवांशाः अषाडवा इति चतुःपञ्चाशत् । तेभ्योऽपि सप्त षाडवा

अथोच्यते । तत्तद्ग्रामोचितश्रुतिकस्वरपरिवारादिदर्शनमात्तन्मुख्यात्मकत्वलौकिकयोर्ग्रामरागयोरिति तद्भवेत् । यदि षड्जमध्यमप्रधानता क्रमेण लक्ष्यते श्रुतिविशेषस्य च नौडुवितत्वमित्यलमवान्तरेण । तुर्हेतौ । यतो द्वादश स्वरा वर्ज्या अत एव स्वरा आश्रीयमाणाः प्राधान्येनांशकाया यदा आशुगान्धार्यादिषु भवन्ति तदा नित्यमेव नौडुविता जातय इति संबन्धः ।

इदानीं वैचित्र्यार्थं प्रयोगकरणनियममाह सर्वस्वराणामिति । जातिष्विति समुदायापेक्षया सर्वस्वराणामिति च । तथा हि कस्यांचिज्जातौ कस्यांचिज्जाचौ कस्यचिन्नाश उक्तः । यद्यपि च धैवतपञ्चमौ षङ्जमध्यमग्रामयोः क्रमेणालोप्यौ तथाप्यन्यग्रामे लोपित्वमस्त्येव तयोरिति मध्यमव्यतिरिक्ताः सर्वे स्वरा नाशिनः मध्यमस्य तु न क्वचिद्विनाशः । अन्ये तु धैवतपञ्चमयोर्ग्रामविभागेन यदनाशित्वं विशाखिलाचार्यादिभिरुक्तं नामुमन्यन्ते मुनेर्मध्यम एवाविनाशी मत इत्याहुः ।

श्रीमदुत्पलदेवास्त्वाहुः । जातिलक्षणे वक्ष्यमाणे मध्यमस्य लोपो न क्वचिद्वक्ष्यते । तन्मध्यमस्य नाशो न कर्तव्य इति किं प्रतिषेधेन । प्राप्तेरभावात् । सर्वस्वराणां नाश इत्यनेनापि न किंचित्कृतम् । नियमस्वरलोपस्य

Notes

1.N: सदा बुधैः । 2: N: सर्वस्वराणामें (मं?) शास्तु विहितास्त्वथ जातिषु ।।

न मध्यमस्य नाशस्तु कर्तव्यो हि 1aकदाचन ।
सर्वस्वराणां प्रवरो ह्यनाशी 1bमध्यमः स्मृतः ।
गान्धर्वकल्पे विहितः 1सामस्वपि1c च मध्यमः2 ।। ६५ ।।

3दशकं जातिलक्षणम्–

4ग्रहांशौ तारमन्द्रौ च न्यासोऽपन्यास एव च ।
अल्पत्वं च बहुत्वं च षाडवौडुविते तथा ।। ६६ ।।

Abh

यथास्वं जातिषु वक्ष्यमाणत्वात् । तस्मादयमत्र भावः । यथा वैचित्र्यार्थरागयोर्ग्रामरागत्वं नीयन्ते तदा षडपि स्वराः षाडवौडुवितविधिना सर्वासु जातिषु स्वबुध्द्या ग्रामविभागे क्रमाल्लोप्याः । न तु मध्यमः कदाचनेत्यत्र ग्रामरागवैचित्र्यमनेन सूचिनम् । अत्र युक्तिः । स्वरस्वराणामिति । सर्व एव मध्यमत्वादेव तुल्यस्थाननिविष्टः । स्वर इहोच्चावचस्वव्यवस्थाहेतुः मध्यम एकं नाम द्वितीयमर्थरूपम् । गान्धर्वकल्प इति । गान्धर्वशास्त्रं ईषदसमाप्ते गांधर्वे ग्रामरागरूप इति वानेन भाषादेशीमार्गादिषु मध्यमस्यापि विनाशित्वमभ्युपगतं भवति । विहित इति । मङ्गलत्वात् । तथा हि मातृगुप्तः

प्रथमं मध्यामादेव वाग्देवी सर्वदेहिनाम् ।
मङ्गल्यार्थं तदंशः स्यादारम्भे चौक्षषाडवः ।। इति ।।

सामस्वपीति । तत्र ह्यसौ प्राथम्यान्नियतप्रयोगः । यदाह नारदमुनिः

यः सामगानां प्रथमः स विशेन्मध्यमस्वरः । इति ।

वेणोर्मध्यमइत्यन्ये पठन्ति । अन्ये तु जातावेकवचनमिति मध्यमे कण्ठस्थाने यत्स्वरसप्तकं तदविनाशी सर्वस्य तत्सम्भवात् । तारमन्द्रस्वरास्तु सर्वे पित्तश्लेष्माद्युपहतशिरोवक्षसामसुलभप्रयोगा इति व्याचक्षते ।। ६४–६५ ।।

ननु जातिष्वित्युक्तम् । तत्र केयं जातिर्नाम । उच्यते । स्वरा एव विशिष्टसंनिवेशभाजो रक्तिमदृष्टाभ्युदयं च जनयन्तो जातिरित्युक्ताः । कोऽसौ सन्निवेश इति चेदाह । दशकं जातिलक्षणमिति । ग्रहांशाविति। द्वन्द्वेन प्रायोंऽशस्यैव ग्रहत्वमुत्सुष्टम् । तारमन्द्रस्वरावित्यन्योन्यापेक्षा । षाडवौडुविते यत्र संभवतस्तत्र लक्षणं न सर्वत्रेति दर्शयति । तथेति । ते तत्सम्भवप्रकारेणेत्यर्थः । अष्टकं तु सर्वत्राव्यभिचारि । तथा हि प्रथममध्यमान्यपि

Notes

1.a N: कर्तव्यंस्तु कथञ्चन 1.b: N: चैव मध्यमः । 1c. N: सामगेष्वपि मध्यमः ।

1aअथ ग्रहाः ।
ग्रहास्तु सर्वजातीनामंशवत्परिकीर्तिताः ।
यत्प्रवृत्तं भवेद्गेयमंशो1 ग्रहविकल्पितः ।। ६७ ।।

तत्रांशो नाम–

2यस्मिन् भवति रागश्च यस्माच्चैव प्रवर्तते ।
3मन्द्रश्च तारमन्द्रश्च योऽत्यर्थं चोपलभ्यते ।। ६८ ।।

Abh

भावन्न विना कः सन्निवेश इति ग्रहापन्यासान्यासाः । गुणप्रधानभावेन रक्तिर्नोपपद्यते इति प्रधानभूतोंऽशश्च तदमात्यकल्पश्च । तत्संवादी पर्यायांशो नियति…..बहुत्वमुपयोगि । तदीयं तच्चाल्पापेक्षमिति विभावादिलोप्यस्वरगतमल्पत्वमागच्छति । मूर्च्छनानिर्देशोपदिष्टमध्यमसप्तकस्वरमात्रे चैकरसे प्रयुज्यमाने रक्तेरभाव इति तारमन्द्रोपयोग इत्यष्टकं तावदव्यभिचारि । लोपभागिन्यां तु स्वरलोपोऽपि लक्षणं भवति ।। ६६ ।।

एवं मात्रैस्तु दशकनिर्णीतेषु ग्रहस्य भावा संख्या । लक्षणमाह । ग्रहास्त्विति । सर्वजातीनां संबन्धिनो ग्रहाः । मिलित्वा अंशवद्भवन्तीति त्रिषष्टिरित्यर्थः । कश्चासौ ग्रहः । आह तस्यैव नामान्तरम् । कथमुच्यते यत्प्रवृत्तं भवेद् गेयमिति । गृह्यते जातिप्रयोगो यत इति ग्रहः । तेनांशस्यैव धर्मान्तरयोगान्नामान्तरम्। तदाह ग्रहविकल्पित इति । ग्रहधर्मेण एतद्विधतया कल्पितेन द्विस्वभावीकृतः । न त्वत एव प्राधान्याद् ग्रहत्वं लप्स्यते । तत्सामर्थ्यसिद्धो ग्रहः । किं स्वकण्ठेनोक्तमित्याशङ्क्यैतदेवाह ग्रहविकल्पितः । अंशोऽपि हि कदाचिद् ग्रहो न भवति । नन्दयन्त्यामिव पञ्चमः । तस्या हि ग्रहो गान्धारः । तद्ग्रहस्य पृथगभिधानं कर्तव्यमेव। न तु नैकमुदाहरणमित्यत्र न्यायः । शक्यं न ग्रामरागादावंशव्यतिरिक्तस्यापि ग्रहत्वाभ्यनुज्ञानं भूयस्तरलक्ष्य एकं पृथग्ग्रहलक्षणे प्रयोजनम् । तथा हि मालवकैशिकेन यद्रूपकं गीयते न तत्सर्वं नियमेन षड्ग्रहः । एवमन्यदपि वाच्यम् ।। ६७ ।।

अंशमाह यस्मिन्भवति रागश्चेति । यस्मिन् विद्यमाने रागो रक्तिर्जाति स्वरूपं च भवति शिरसीव पुरुषस्वरूपम् । एवं यमाश्रित्य स्थितः स्वरः प्रकर्षेण वर्तते । यस्मादिति ल्यब्लोपे पञ्चमी । एतदुक्तं भवति । यस्य संवादी वानुवादी वा प्राधान्यं प्रति वाद्यते मन्द्रीव ग्रामविषये । तत एव विनाप्यंशत्वमंशः संवाद्यनुवादिनोरेव। ननु जातिर्विवादितः । तदर्थमेव तारावधिमवेक्ष्य च वक्ष्यमाणपञ्चमादित्यादिना तारमन्द्रस्थितिः । यश्च

Notes

1a.अथ……।। ६७ ।। not read in ‘N’

[ अनेकस्वरसंयोगे योऽत्यर्थमुपलभ्यते
अन्यश्च बलिनो यस्य संवादी चानुवाद्यपि ]

1ग्रहापन्यासविन्याससंन्यासन्यासगोचरः ।
2अनुवृत्तश्च यस्येह सोंऽशः स्याद्दशलक्षणः ।। ६९ ।।

पञ्चस्वरपरा तारगतिर्यथा–

अंशात्तारगतिं विद्यादा चतुर्थस्वरादिह ।
आ पञ्चमात्पञ्चमाद्वा नातः परमिहेष्यते ।। ७० ।।

Abh

समस्त ( प )द्ये स्वरस्वरापेक्षया बाहुल्येन भाति । यश्च स्वयमेव स्वसंवाद्यनुवादिरूपं वा ग्रहादिपञ्चकरूपं वा करोति न तु कदाचिद्विवादिनम् । ग्रहादयो गोचरो नियन्तव्यो विषयो यस्य स तथा ।। यश्चान्या (न) पि स्वरान् स्वपराङ्मुखवच्छादनेनानुरञ्जयन्निवर्तते। सोंऽशः प्रधानभागवत्वाद्दशलक्षण इति सर्व एते धर्मा मीलिताः सन्तो अंशत्वे प्रयोजकाः । अत एवादिलक्षणमंशलक्षणात्पृथगेवोक्तम् ।। ६८–६९ ।।

अथ तारमाह । पञ्चस्वरापरा तारगतिरिति । ननु यद्यंशस्वरादारोहक्रमेण तावदारोहणीयं यावत्तत्तत्पञ्चमसंख्यस्य स्वरो न तु तत्परमिति नियमः । (एतन्न) तदा महान् लक्ष्यविरोधः । षड्ज्यां हि षड्जांशे पञ्चमस्वरात्तमेवारोहणीयं स्यात् । दृश्यते च लक्ष्ये षड्ज्यां…..न्न धाधा– निसनिधपानिधपा इति। आर्षभ्यां च धैवतान्तः स्यात् । दृश्यते च निषादान्तं न धरिनिमगम इति । निषादवत्यां च पञ्चमान्तमारोहण दृश्यते पापारिगा इति। एवमन्यत्रापि विचार्यम् । तस्मान्नायं व्याख्याप्रकारः । किं तर्हि । श्रूयताम् । इह मध्यमसप्तकेन तावन्मूर्च्छनादंशः कार्य इत्युक्तेरेवलब्धम् । तत्सप्तरकनिविष्टाः स्वराः सर्व एव प्रयोज्या इति । सप्तकान्तरगतस्वरप्रयोगेषु कियद् दृष्टादृष्टाभ्युदयदापि भवतीति तारमन्द्रतामनादृत्य शिरस्यौरस्यस्वरनिष्ठैव सा इह निरूप्यते ।

ननु मध्यमसप्तके स्थिते सति तत्पृष्ठे तारसप्तकनिविष्टाः किं सर्वे स्वराः प्रयोज्याः । सर्वत्र तेनेति निरूप्यते । तत्र यदा षडजोंऽशो भवति तदा तारसप्तक (कं) रिमग () इत्येतत्पर्यन्तं ग्राह्यं यदि शक्तिरस्ति । न तु ततः परं शक्तियोगेऽपि । ऊनग्रहणे तु न दोष इति परशब्देन दर्शितः । ऋषभेंऽशे पुनर्धैवतान्ताः स्वरास्तारसप्तर्षभं ग्राह्या भवन्ति । गान्धारे त्वंशे निषादान्ताः सप्त । मध्यमपञ्चमधैवतनिषादेषु निषादान्ता एव ते ग्राह्या इति पञ्चस्वंशेषु समस्त एकस्तारसप्तकः संगृहीतो भवति । मध्यमः पुनर्यदि शक्तिः चतुस्स्वरपरनारोहणम् ।

Notes

1 .N: ग्रहोपन्यासः 2 .N: परिवार्य स्थितान्यश्च

  • (लोप्यस्वरोऽपि गण्यः स्याद्बुधैस्तारविधौ पुनः)
    1त्रिधा मन्द्रगतिः । अंशपरा न्यासपरा 2अपरन्यासपरा चेति ।
    3मन्द्रस्त्वंशपरो नास्ति न्यासौ तु द्वौ व्यवस्थितौ ।
    गान्धारन्यासलिङ्गे तु दृष्टमार्षभसेवनम् ।। ७१ ।।†
Abh

नन्दयन्त्यां तु परावधिक एव तारनिष्ठो भविष्यति “तारगत्या तु षड्जोऽपि कदाचिन्नातिवर्तते” एतच्च तत्रैव व्याख्यायते। तेन आ चतुस्स्वरादिति । यदन्यैर्नन्दयन्तीविषयं व्याख्यातं न तथा । अत्रैवार्थे कारिका अंशात्तारगतिं विद्यादिति। इहेति। मध्यमसप्तके मूर्च्छनाकारिणी स्थिते सति अंशस्वरमवलम्ब्य तारगतिं तारसप्तकगतस्वरपर्यन्तं वा आरोहः सर्वत्र स कर्तव्यो न ततः पर इत्यनेनोच्यते । तैः इहेत्यंशग्रहणं नेता च तारमन्द्रणामिति पूर्वोक्तमंशलक्षणं (च) न पर्यालोचितं (न) शिष्यस्य [ऋषभगान्धारयोः] धैवतनिषादावप्रयोज्यौ तयो रक्त्यभावे स्वरतानुपपत्तेः शक्त्यभावं त्वप्रयोक्तरि इत्यसदेतत्।

यत्त्वन्यैर्व्याख्यातम्। अंशस्वरेण सह तावत्तारसप्तगताः पञ्च चत्वारो वा स्वराः कार्याः । यथा षड्जेंऽशे सरिगमप ऋषभे रिगमपध गान्धारे गमपधनि मध्यमे एवं पञ्चमधैवतनिषादेषु । एत एवेति तल्लक्ष्येण (स्थाप्यते) तथा हि । निषादवत्यां निषादें (ऽशे) तारषड्जो दृश्यत एवांशेन साधनेन इति । अलं बहुना उक्तैव च व्याख्या लक्षणसंग्राहिणीत्यादरणीयम् ।

नातः परमिति । तारगते ऊनत्वे कामचारमाह । इहेति । जातिषु ग्रामरागादौ नायं नियम इति विभावः। बुधैरिति । लोप्यमिति स्वरं ये बुद्ध्यन्ते तैरपूर्णत्वेऽपि लोप्यस्वरविधो गणनीय इत्याह । तथा च विशाखिलाचार्यः। नाशिस्वरस्तारविधौ संख्यायते इति । तारयति प्लावयति वेगेन वाचमिति तारः ।। ७० ।।

अथ मन्द्रमाह । त्रिधा मन्द्रगतिरिति । मदीह मोदने नम्रत्वाल्ललितो मन्द्रः । योऽसावंशस्वरो मध्यमे सप्तके तदन्तमेव मन्द्रसप्ककाद्ग्राह्यः न्यासस्वरान्तं वा तत्परो वेत्त्येकः परशब्दो लुप्तनिर्दिष्टः

Notes
  • एतदर्थव्यञ्जको ग्रन्थभागः न कस्यांचिदपि मातृकायां दृश्यते । व्याख्यानात्स एव पतितः स्यादिति श्लोकार्धं रचयित्वात्र निवेशितम् । 1 .प–विधा ।

अथ न्यास एकविंशतिसंख्यः । अङ्गसमाप्तौ न्यासः । तद्वदपन्यासो ह्यङ्गमध्ये षट्पञ्चाशत्संख्यः । यथा– न्यासोऽङ्गसमाप्तौ स चैकविंशतिसंख्यस्तथा । (१६ अक्षराणि षट् पञ्चाशत्संख्योऽपन्यासोऽङ्गमध्ये भवेत् ।। ७२ ।। *१४ अक्षराणि सन्न्यासाविन्यासावप्यङ्ग(प्यंश)मध्य एव । अनियतत्वाच्च बहुत्वमिति ।

Abh

न्यासस्वरात् यः परस्तात् परा…..त्यर्थः । परग्रहणं ततः ऊनस्य ह्यनुज्ञा वा कामचारमाह । नन्वेवं षाड्ज्यां धैवतस्य मन्द्रस्य कथं प्रयोगः कथं न यावता षड्जान्तं तत्र मन्द्रसप्तकेन पूर्णेन वितस्य कामचारात्तु धैवतान्तो मन्द्रप्रयोगः । यो हि तद्ग्रहन्यासरूपषड्जेनासौ मन्द्रसप्तकात् अपि तु मध्यगता मध्यगतादेव सा…मन्द्रो नियमात् इत्यत्र हि तारनिवृत्तिपरं वचनं न हि षाड्ज्यां यत्र षड्जः स्थानत्रये श्रूयते इति । तत्रैव कारिकां पठन्ति । मन्द्रस्त्वंशात्परो नास्तीति । तथा हि निषादवत्यां निषाद एव मन्द्रो नासौ दृश्यते अंशग्रहस्वरस्य मध्यगतत्वन्यासे तु सति द्वौ मन्द्रौ न्यास एव तत्परे वा । अत्रैवोदाहरणं तद्व्यवस्थितविषया लक्ष्येति नियममाह गान्धारलक्षणे न्यासपरत्वादेव मन्द्रत्वं सिद्धम् । तत्किं पुनर्वचनेन । अस्ति च यद्वक्ष्यते । लङ्घनं ह्यृषभस्यापि तच्च मन्द्रगतं स्मृतम् । इति । तद् ज्ञापयति व्यवस्थितविषयोऽयं विकल्प इति । ननु वचनमेव मुनिर्ज्ञापकत्वेनोपन्यस्यतीति किमेतदगान्धर्वचनमेवेदं पूर्वं सिद्धमित्यदोषः । तुरवधारेण अवस्थितावेवेत्यर्थः ।। ७१ ।।

अथ न्याससंख्यया लक्षणेन चाह । न्यास एकविंशतिसंख्य इति । षड्जमध्यमायां द्वे कैशिक्यास्त्रयः शिष्टानां षोडशेति । अस्यां जातिशरीरसमाप्तौ कर्तव्यतायां वा स्वरः सन्यासः ( नि ) तर्हि अस्यते प्रयोगे येनेति ( न्यासः ) ।

अपन्यासमाह । तद्वदिति समाप्तौ तर्हि न्यासात् कोऽस्य विशेषः । आह । अङ्गमध्य इति । अवान्तर– समाप्तवित्यर्थः । तथा च दत्तिलाचार्यः । विदारी मध्यगस्तथा इति । तत्र षड्जग्रामे षड्जमध्यमायाः सप्तापन्यासाः । षड्जोदीच्यवायां द्वौ पञ्चानां प्रत्येकं त्रय इति चतुर्विंशतिः । शेषास्तु मध्यमग्रामे । एतदेवापन्यासस्वरूपं वितानवृत्तेनानुष्टुब्भेदेनाह । यथा–

न्यासोऽङ्गसमाप्तौ स चैकविंशतिसंख्यस्तथा ।
षट्पञ्चाशत्संख्योपन्यासोऽङ्गमध्ये भवेत् ।। इति ।। ७२ ।।

अथानुद्दिष्टमप्यंशलक्षणापेक्षितं प्रसङ्गाल्लक्षयति संन्सासविन्यासावप्यंशमध्य एवेति। विदारीमध्य इत्यर्थः । अथानियतयोः का संख्येत्याह । अनितयत्वाच्च बहुत्वमिति । न्यासापन्यासांशवत्तयोः

Notes
  • इदमनुष्टुब्वितानवृत्तमिति वृत्तिकारः ।

तत्र प्रथमं (म) विदारीमध्ये न्यासस्वरप्रयुक्तस्तु ।
विवदनशीलं मुक्त्वा सन्न्यासः सोऽभिधातव्यः ।
कृत्वा पदावसाने विन्यासात्क्वपि विन्यासः ।। ७३ ।।

द्विविधमल्पत्वं लङ्घनादनभ्यासाच्च । तत्र षाडबौडुवतव (का) 1aराणामनंशानां च गीतान्तरमार्गमुपगतानां स्वराणामनभ्यासः लङ्घनादनभ्यासाद्यथा जात्यल्पत्वं तद्बहुलत्वं च ।

तथा–अल्पत्वेऽथ बहुत्वे बलवदबलता विनिश्चया1देव ।
जातिस्वरैस्तु नित्यं जात्यल्पत्वं द्विविधमेतत् ।। ७४ ।।

Abh

प्रतिजातिप्रयोगनियमोऽस्तीत्यर्थः । तत्र संन्यासमाह ।

तत्र प्रथमविदारीमध्ये न्यासस्वरः प्रयुक्तस्तु ।
विवदनशीलं मुक्त्वा संन्यासः सोऽभिधातव्यः ।।

अंशस्य विवादी यो न भवति स चेत्प्रथमविदार्यन्ते प्रयुक्तस्ततस्तदा संन्यासः समीपभूतो न्यास इति ।

कृत्वा पदावसाने विन्यासात्क्वापि विन्यासः ।

अंशस्य संवाद्यनुवादी वा कापि विदारीभावरूपस्य पदस्य पदान्ते विन्यस्यते तदा विन्यासः ।। ७३ ।।

एवमसंन्यास्यैव प्रक्रान्तरूपं संन्यासविन्यासद्वयं लक्षयित्वा अंशकप्रस्तावे प्रकृतमल्पत्वं विभागद्वारेण लक्षयति । द्विविधमिति । लङ्घनं स्पृष्ट्वैवाविश्रम्यैव तत्स्वरान्तरगमने तस्य स्वरस्य स्वप्रधानीकरणम् । यथा न रागे गान्धारी स्व…..विदा इति श्रान्ता…..वप्यनावृत्तिरनभ्यास यत्त्वावर्जनमेव लङ्घनमिति तदसत् । अल्पत्वभाषायां वा योगात् षाडवौडुवितविधेश्चाल्पत्वं पृथङ्न तत् स्यात् । नन्दयन्त्यां च पञ्चमांशो यावत्संवादिनः ऋषभस्य लङ्घनीयत्वं युक्तं न चास्य संवादिनो लोपो युक्तः । न चैवमित्यषाडवा संवाद्यौडुवितस्यापत्तेः (लङ्घना) नभ्यासयोर्विषयं विभजति । तत्र षाडवौडुवितव काराणामिति । लोप्यस्वरपूर्णावस्था या यदा प्रयुज्यते तदा

Notes

1सञ्चारांशे (श) 1aबलस्थानामल्पत्वे2 दुर्बलासु च ।
3न्यासश्चान्तरमार्गस्तु (श्च) जातीनां व्यक्तिकारकः ।। ७५ ।।

षट्स्वरं 4षाडवितं(वं) चतुर्दशविधं सप्तचत्वारिंशत्प्रकारं पूर्वोक्तविधानं यथाजात्यंशप्रकारमिति ।5

Abh

तस्य बाहुल्येन लङ्घनम् । क्वचिदनभ्यासोऽपि । येऽत्र तु स्वराः पर्यायांशा न भवन्ति यथा षाड्जयां निषादर्षभौ तौ यदाऽन्तरमार्गे प्रयुज्येते तदाऽनभ्यासः । तेषां क्वचिल्लङ्घनमपि गीते ग्रहसंवाद्यस्थानं मुक्त्वा नी…….क्त योगगतिन्यासनिक (च) ये भवेत् । अन्तरमार्गणमित्यन्तरमार्गणस्य (र्गस्य) लक्षणम् । यथाजातीति। क्वचिद्वाऽनंशोऽपि नाल्पः । तथा च कार्माख्यां गान्धारस्य सर्वस्वरसङ्गत्या बहुत्वेनान्तरमार्गो प्रयोग इति वक्ष्यते गान्धारस्य विशेषेण सर्वतो गमनं भवेत् । (भ. ना. २८– १३६) इति । अथ बहुत्वमाह । अल्पत्वं तद्वद्बहुत्वमिति । लक्षयतीति शेषः । कथमित्याह । बलवदबलवतोऽपि(र्तोर्वि)पर्याये । अबलमल्पं तद्विपर्ययाद्बलविदित बहुत्वाल्लक्षणं गम्यत एव । अत एवाह ।

जातिस्वरैस्तु नित्यं जात्यल्पत्वं द्विधा चैत (त्) ।।

इति । जातिगमल्पत्वमिव तद्बहुत्वमपि द्विधा । तच्च जातिस्वरैः पर्यायांशैरसंवादिभिश्चोपलक्षितः (क्ष्यते) । तेनैषामलङ्घनम (भ्यास) श्चेति द्विधा बहुत्वमित्युक्तं भवति ।। ७४ ।।

तथाल्पत्वबहुत्वयोरुपयोगं दर्शयन् प्रसङ्गादन्यदप्याह ।

सञ्चारांशो (श) बलस्थानामल्पत्वे दुर्बलासु च ।
न्यासश्चान्तरमार्गश्च जातीनां व्यक्तिकारकः ।।

इति । सञ्चारेण पर्यायेण योंऽशस्तद्विषयं तत्र तिष्ठन्तीनां जातीनां(न्यासः)सान्तरमार्गः स्वरूपाभिव्यञ्जको नान्यथेति वस्तुत्व(तस्त्व)स्योपयोगः । अल्पत्व इति । अल्पत्वविषयस्वरकृते लोप्यानंशस्वरविषये या दुर्बला हीनबला जातयस्तासु स्वरीभवति नान्यथेति । अन्ये त्वन्तरमार्गस्य सर्वत्र प्रधानस्याल्पत्वबहुत्वाभ्यां विना स्वरूपलाभ एव (न) भवतीति तात्पर्यं मन्यमाना अन्तरमार्गलक्षणत्वेन श्लोकं व्याचक्षते । कथम् । चो हेतौ । यस्मादन्तरमार्गो जातीनां व्यक्तिकृत् स चाल्पत्वबहुत्वजीवी तस्य हि लक्षणम् । सञ्चारेति । सञ्चारे

Notes

पञ्चस्वरमौडुवितं विज्ञेयं दशविधं प्रयोगज्ञैः ।
त्रिंशत्प्रकारविहितं पूर्वोक्तं लक्षणं चास्य ।। ७६ ।।

षट्स्वरस्य प्रयोगोऽस्ति तथा पञ्चस्वरस्य च ।
चतुःस्वरप्रयोगोऽपि ह्यवकृष्टध्रुवास्विह ।। ७७ ।।1

Abh

अनुवादिस्वरे अंशस्वरे च प्रधानभूते दलकल्पे स्थिते बलस्थानां सतां संवादिनां स्वराणां बलवत्तयाऽल्पत्व (त्वे दुर्बलासु)….स्वराणां दुर्बलप्राणकत्वेऽविलङ्घनेन न्यसनं यः (करोति) सोऽन्तरमार्गस्तस्मादल्पत्वबहुत्वे वक्तव्य इति । अन्ये त्वत्रेयं जातिर्जातिदुर्बल इ (लास्वि) यं बलवतीति नीत्या न्यासान्तरमार्गाभ्यां ज्ञेयं बहुत्वप्रयोज्ये पर्यायांशो सति न्यासान्तरमार्गवशादिति श्लोकस्यार्थमाहुः ।। ७५ ।।

अथ षाडवं पूर्वमुक्तामपि दशकलक्षणाभिधानप्रसङ्गशय्यावैषम्यशान्तये पुनराह षट्स्वरं षाडवमिति । चतुर्दश जातिगताश्च (विधाः) तच्चतुर्दशजातिविधयः (चतुर्दशविधं) चतसृणां नित्यं पूर्णत्वेन तदभावात् । सप्तचत्वारिंशत्प्रकारमिति । त्रिषष्ठेति (त्रिषष्टिरिति) पूर्णाशा न च पात्यन्ते । अपवादाश्च सप्त । तदाह । जात्यंशप्रकारमिति । जातौ येंऽशस्वरास्तेषु यः प्रकारोऽपवादविधिरुक्तस्तदतिक्रमेण । पूर्वाभिप्रायेणौडुवमाह। पञ्चस्वरमिति । दशविधमिति । दशस्वेव हि जातिषु । तत्र त्रिंशत्प्रकारमिति । त्रिषष्टेश्चतस्रो नित्यपूर्णा इति तदीया नवांशाः पात्यन्ते । चतस्रो नित्यषाडवा इति तदीया द्वादशेति । अनेन शिष्टा द्वाचत्वारिंशत् । अत्र हि द्वादशोपादानीया इति शिष्टास्त्रिंशत । तदाह । पूर्वोक्तं लक्षणं चास्येति ।। ७६ ।।

अथैतदव्यतिरिक्तं किंन (कि़ञ्चिन्) मार्गप्रसङ्गाद्धु (स्व) स्तीति वदन् गान्धर्वे तदभावमाह ।

षट्स्वरस्य प्रयोगोऽस्ति तथा पञ्चस्वरस्य च ।
चतुःस्वरप्रयोगोऽस्ति (पि) कृष्टासु द्वादशस्विह (ह्यवकृष्टध्रुवास्विह) ।।

इति । तथेति समुच्चये च समुत्थितावधारणे । तेन षड्जा….स्वरयोः पूर्णस्यैवास्ति प्रयोगः । अस्तीति….तामाचक्षमाणो गान्धर्वे तन्नियममाह । इहेति । यदिमं नाट्योपयोगि ध्रुवगानं तत्र चतुःस्वरप्रयोगोऽपि । अपिशब्दात् पूर्वोऽपि त्रिविधः । (कु) त्रेत्याह । अवकृष्टासु करुणोपयोगिनीषु गुरुप्रायासु ध्रुवासु ।। ७७ ।।

Notes

द्वैग्रामिकीनां (णां) जातीनां सर्वासामपि नित्यशः ।
1aअंशास्त्रिषष्टिर्विज्ञेयास्तेषां चैवांशवद् ग्रहाः ।। ७८ ।।

1अंशग्रहमिदानीं वक्ष्यामः । तत्र
मध्यमोदीच्यवायास्तु नन्दयन्त्यास्तथैव च ।
तथा गान्धारपञ्चम्याः 1bपञ्चमोऽशो ग्रहस्तथा ।। ७९ ।।

2धैवत्याश्च तथा ह्यंशौ विज्ञेयौ धैवतर्षभौ ।
पञ्चम्याश्च तथा ज्ञेयौ ग्रहांशौ पञ्चमर्षभौ ।। ८० ।।

गान्धारोदीच्यवायास्तु2a ग्रहांशौ षड्जमध्यमौ ।
3आर्षभ्याश्च ग्रहा अंशा धैवतर्षभसप्तमाः4 ।। ८१ ।।

5गान्धारश्च निषादश्च ह्यार्षभश्च तथापरः ।
निषादिन्यास्त्रयो ह्येते ग्रहा अंशाश्च कीर्तिताः ।। ८२ ।।

षड्जश्चमगान्धारैस्त्रिभिरेव प्रकीर्तिताः ।
6अंशैर्ग्रहैस्तथा चैव विज्ञेया षड्जकैशिकी ।। ८३ ।।

7षड्जश्च मध्यमश्चैव निषादो धैवतस्तथा ।
8षड्जोदीच्यवतीजातेर्ग्रहा अंशाश्च कीर्तिताः ।। ८४ ।।

Abh

अथ ग्रहांशानां सङ्ख्यां निरूपयितुं प्रतिजाति विभागमाह । **द्वैग्रामिकीणां जातीनामित्यादि **।। ७८ ।।।

तत्र सङ्ख्यानुरोधाद् ग्रामविभागक्रममनादृत्यैवैकांशस्यांशादियोगं सप्तांशपर्यन्तमाह । मध्यमोदीच्य– वायास्त्वित्यादि । तत्र तिसृणामेक एकोंऽशः । तिसृणां द्वे द्वे (द्वौ द्वौ) । तिसृणां त्रयः। तिसृणां चत्वारः । चतसृणां पञ्च । एकस्याः सप्त (षट्)। (एकस्याः) सप्तेति (त्रि)षष्टिः । त एव यो (स एवांशो) ग्रहः।

Notes

1a.N: त्रिषष्टिरंशा विज्ञेयाः तेषां चैवांश संग्रहः ।।

पञ्चमश्चार्षभश्चैव निषादौ धैवतस्तथा ।
1aकार्मारव्या बुधैरंशा ग्रहाश्च परिकीर्तिताः ।। ८५ ।।

गान्धारश्चार्षभश्चैव 1पञ्चमोऽथ निषादवान् ।
चत्वारोंऽशा भवन्त्यान्ध्र्या ग्रहाश्चैव तथैव हि ।। ८६ ।।

षड्जश्चाथर्षभश्चैव मध्यमः पञ्चमस्तथा ।
मध्यमाया ग्रहा ज्ञेया अंशाश्चैव सधैवताः ।। ८७ ।।

2निषादषड्जगान्धारमध्यमाः पञ्चमस्तथा ।
गान्धारीरक्तगान्धार्योर्ग्रहा अंशाः प्रकीर्तिताः ।। ८८ ।।

3षाड्जी धैवतगान्धारषड्जमध्यमपञ्चमैः ।
ग्रहैरंशैश्च विज्ञेया विकृता स्वरयोगतः ।। ८९ ।।

4कैशिक्याश्चार्षभं4a हित्वा ग्रहांशाः षट् स्वराः स्मृताः ।
5सप्तस्वरग्रहांशा तु विज्ञेया षड्जमध्यमा ।। ९० ।।

6एते त्रिषष्टिर्विज्ञेयाः 7सर्वास्वंशास्तु (स्वत्र तु) जातिषु ।
अंशवच्च ग्रहास्तासां सर्वासामेव नित्यशः ।। ९१ ।।

सर्वासामेव जातीनां त्रिजातिस्तु गणः स्मृतः ।
8ते च सप्त गणा ज्ञेया वर्धमानस्वरा बुधैः ।। ९२ ।।

Abh

नन्दयन्त्यामंशस्वर एव ग्रहयुक्तो निजलक्षमाद्गान्धारो लक्ष्यत इति विकल्पो मन्तव्यः । मुनिना ग्रहत्वमंशस्योक्तमिति तदेव मुख्यम् । अन्यत् संवादिविवाद्यादिर्यदा ग्रहः क्रियते तदा विकृतत्वमासाम् । तदाह। विकृतः (ता) स्वरयोगत इति । ग्रहविकारः सर्वासामेव जातीनामस्तीति या (सर्वा)स्वत्र ।। ७९– ९१ ।।

अथास्य सप्तचत्वारिंशदधिकस्य जात्यंशविभागस्य यत्नपरेक्षणीयत्वमभिधातुं प्रधानमेव सङ्ख्याविभागं संक्षिप्याह । सर्वासामेव जातीनां त्रिजातिस्तु गण इति

Notes

1a.N: कर्माख्या

एकस्वरो द्विस्वरश्च त्रिस्वरोथ(रश्च)चतुःस्वरः ।
1aपञ्चस्वरश्चतुर्धा1 स्यादेकधा सप्तषट्स्वरौ ।। ९३ ।।

2एतदुक्तं मया2a त्वासां ग्रहांशपरिकल्पनम् ।
3पुनश्चैव3a प्रवक्ष्यामि न्यासापन्यासयोगतः4 ।। ९४ ।।

Abh

गणः समूहः स च सर्वासां जातीनां मध्ये यास्तिस्रो जातयस्ताभिः कर्तव्यः । ननु समूहः के(कां)चिदेकस्या(देका) मुद्दिश्य क्रियते । इह तु समूहकरणे कोऽर्थ इत्याशङ्क्याह । ते च सप्त गणा ज्ञेया वर्धमानस्वरा इतिते एको जातिस्वरप्रयुक्तो गण एकस्वरांशो यावत् सप्तस्वरांश इति । स हि करणे अंशसङ्ख्यो विभागप्रयोजनमित्युक्तं भवति । ननु यदि जातित्रयेण सप्तगणस्तर्ह्येकविंशतिर्जातयः स्युः । तच्च (ताश्च न) तथा । पूर्वं ह्युक्तं जातयोऽष्टादशेत्येवं ब्रह्मणाभिहितमिति (भ. ना. २८–३९) तदेतदाशङ्क्यापवादं वक्तुं तत्त्रिकमुक्तम् ।। ९२ ।।

त्रिजातित्वोत्सर्गस्य विषयमाह ।
एकस्वरो द्विस्वरश्च त्रिस्वरश्च चतुःस्वरः ।।

इति । एते चत्वारो गणास्त्रिजातय इत्यर्थः । एवं द्वादशजातयः । एकः स्वरोंऽशो यत्र गणे । एवं यावच्चत्वारः स्वरा अंशा यत्रेति । अपवादं दर्शयितुमाह । पञ्चस्वरश्चतुर्धास्यादिति । यत्र पञ्चांशस्वराः स गणश्चतसृभिस्त्रिभिर्नाति….भि……..(श्चतसृभिर्जातिभिः ।) । तेन पूर्वाभिः सह षोडश जातयः । एकधा सप्तषट्स्वरैरेकैव जातिः । सप्तस्वरो गणः षट्स्वरश्च । एकस्या अपि जातेर्गणस्य व्यपदेशिवद्भावेन स्वरांशकभेदे निबन्धनमित्यष्टादशजातयः । त्रिषष्टिरंशाः । त एव ग्रहा इति ।। ९३ ।।

एतदुपसंहरति । एतदुक्तं मयेति
पुनश्चैव प्रवक्ष्यामि न्यायापन्यासयोगतः ।।

इति । अयं भावः । अंशग्रहाश्चोक्ता एवं न्यासापन्यासास्तथा येऽन्येयोगा दशलक्षणेष्वन्तः पातिनो लक्षणभागाः षाडवौडुवितादयः पूर्वमनुक्तत्वात् कथ्यमानाः कथ्यमानत्वेनोपयोगो……..स्तस्तावत् प्रतिजाति वक्तव्याः । न्यासाश्चो(श्चा)पन्यासाश्च योगाश्चेति द्वन्द्वः ।

Notes

1a. N: पञ्चस्वरः षट्स्वरौ द्वौ एकः सप्तस्वरो गुणः

पञ्चांशा तु भवेत् षाड्जी निषादर्षभवर्जिता1 ।
अपन्यासो भवेदत्र गान्धारः पञ्चमस्तथा ।। ९५ ।।

न्यासश्चात्र भवेत् षड्जो लोप्यः सप्तम एव च ।
2षड्जगान्धारसञ्चारः षड्जधैवतयोस्तथा ।। ९६ ।।

षाडवं सप्तमो(मा)पेतमल्पौ वै सप्तमर्षभौ ।
गान्धारस्य च बाहुल्यं त्वत्र कार्यं प्रयोक्तृभिः ।। ९७ ।।

Abh

….न्यतो (थो) द्दिश्य वक्तव्यतयोक्तमपि ग्रहांशविकल्पनं पुनर्वक्ष्यामि । तदभिधाने हि सुस्पष्टमन्यज्जा (ज्ज्ञा) तुं शक्यमिति भावः । अंशापेक्षो हि प्रायशोऽन्यलक्षणमप्यहारं(व्यवहारः)। एकस्थानं च जातिलक्षणं ज्ञातुं स्पष्टतरं भवति । अतिशयशेषा यदा तु त एवंविध………लक्ष्यं प्रपञ्चश्चेति । दृष्टादृष्टोपयोगी वायं जातिसन्धिः । अन्ये त्वंशग्रहमित्यादीनां लक्षणमित्यादिग्रन्थं तत्र पठन्ति ।। ९४ ।।

षाड्जीं लक्षयति । पञ्चांशास्त्वि (त्वि)ति । सगमपधा इत्यंशाः । गप इत्येतावपन्यासौ । सं(सो)न्यासः। निषादेन (हीना) षाडव(वी)इति । अन्योन्यमनयोः सञ्चारः । (सगयोः ) तथा सध इत्यनयोः । गान्धारोऽतिबहु– लोऽपि वादित्वाद(त्र) प्राप्तः । (ऋषभस्य) तथात्वं विवदनान् मन्तव्यम् । ऋषभस्यानंशत्वं निषादस्य लोप्यत्वात् । पूर्णावस्थायां तु सं….तं सिद्धमिति स्वकण्ठेनोक्तं मुनिना । अंशाश्च दशकाः । तद्यथा शुद्धा विकृताः पञ्च पूर्णाश्चत्वारः षाडवाः । गान्धारेंऽशे षाडवा एवापवादात् ते चांशका लुप्तकात् स्फुटं ज्ञायन्ते । तेन लालिता अत्र स्वरभागे जात्यंशकास्ता(न)पहास्य आसारितांशं निगदा(द) स्तुति स(सा)मिध्यसु(धेनीषु) स्पष्टं गान्धर्वफलं यद्यपि तथापि स्वरत एव क्वचन मुदि……..स्थेम दृष्टः । यथोक्तम् । सकृत् प्रयुक्ताऽपि हि नन्दयन्तीति । तत्प्राधान्यप्रसिद्ध्य एव । तालविशेषमनादृत्य सामान्यतालेन चञ्चत्पुटादिना लोके वार्तिकमार्गेण जातिगानं प्रसिद्धम् । तत्र तु यत् चञ्चत्पुटादि न तद् विकल्पः । चतुष्कलाद्यनुसारेण कलापातविधिः कर्तव्योऽपि लोके न प्रसिद्धः । स्वरभागप्राधान्यात् । पहादि…….तत्र ब्रह्मप्रोक्तविसंस्कृतप्राकृतरूपाण्येव प्रसिद्धानि । गीतकादौ तालभागस्यैव प्राधान्यम् । यथोक्तम् ।

Notes

1आर्षभ्यामृषभस्त्वंशो निषादौ धैवतस्तथा ।
एत एव ह्यपन्यासा न्यासश्चाप्यृषभः स्मृतः ।।
2षट्पञ्चस्वरता 3चात्र षड्जञ्चमयोर्विता ।। ९८ ।।

धैवत्यां धैवतो न्यासस्त्वंशावृषभधैवतौ4 ।
अपन्यासा भवन्त्यत्र धैवतार्षभमध्यमाः ।। ९९ ।।

षड्जपञ्चमहीनं तु पाञ्चास्वर्यं विधीयते ।
पञ्चमेन विना चैव षाडवं परिकीर्तितम् ।। १०० ।।

आरोहिणौ च तौ कार्यौ लङ्घनीयौ तथैव च5 ।
6निषादश्चर्षभश्चैव गान्धारो बलवांस्तथा ।। १०१ ।।

Abh

वर्धमानप्रयु(यो)क्तारो यास्यन्ति शिवकेतनम् ।।

इति । तत् प्राश (स्त्यबोध)नाय । त्रोटिकागीतकादीनी जात्यंशकोद्भूतशुद्धभिन्नानि ग्रामरागक्रमेण प्रसिद्धानि । मुख्यतस्तु जात्यंशकैर्गीतिरागादिना तालः संस्कृतानि पदानि स्फुटमवधानमिति सम्मिलितगान्धर्वं तदर्थमेव । तदा तादृश्येव गीतकवर्धमानादि पुरा विरम्यत इत्यलं वस्तुतः ।। ९५–९७ ।।

अथ (थार्षभीं लक्षयति) । आर्षभ्यामित्यादि । ऋधनि अंशाः (नयोंऽशाः)। ऋधनि अप (नयोऽप) न्यासाः । ऋषभो न्यासः । षड्जहीने षाडवः । षड्जपञ्चमयोर्ही(र्हा)ने औडुवितत्वम् । सधौ रिगौ च सङ्गच्छेते । तत्र केचित् पञ्चमस्य लङ्घनमाहुः । पूर्णावस्थायां षड्जगान्धारपञ्चमा अल्पत्वं भजन्ते । औडुविते च गमयोरल्पता । दशांशकाः । मूर्च्छना पञ्चमादिः । चञ्चत्पुटस्तालः । प्रायशो नैष्क्रामिकीध्रुवायां विनियोगः ।। ९८ ।।

अथ धैवतीमाह । धैवत्यामिति । ऋषभधैवतावंशौ । विकृतावस्थायां रिधमा अपन्यासाः । धैवतो न्यासः । पलोपे षाडवः । सपहानावितरत् । पूर्णदशायां च पस इत्या(सावित्या)रोहवर्णगतौ कार्यौ । लोप्यत्वाल्लङ्घनं सिद्धमपि पुनः प्रकर्षलाभत्वमुक्तम् । अस्याः सप्तांशकाः । शुद्धविकृतौ पूर्णौ द्वे(द्वौ) षाडवौडुपवितौ च ।। ९९–१०१ ।।

Notes

निषादिन्यां निषादोंऽशो सगान्धारर्षभ1a स्तथा1 ।
एत एव ह्यपन्यासा न्यासश्चैवात्र सप्तमः ।। १०२ ।।1b

धैवत्या इव कर्तव्ये षाडवौडुविते तथा ।
तद्वच्च लङ्घनीयौ तु बलवन्तौ तथैव च ।। १०३ ।।

अंशास्तु षड्जकैशिक्याः षड्जगान्धारपञ्चमाः ।
2अपन्यासा भवन्त्यत्र षड्जपञ्चमसप्तमाः ।। १०४ ।।

गान्धारश्च भवेन्न्यासो हैनस्वर्यं न चात्र तु ।
दौर्बल्यं चात्र कर्तव्यं धैवत(मध्यम)स्यार्षभस्य च ।। १०५ ।।

षड्जश्च मध्यमश्चैव निषादो धैवतस्तथा ।
3स्युः षड्जोदीच्यवांशास्तु3a न्यासश्चैव तु मध्यमः ।। १०६ ।।

Abh

अथ निषादवती । निषादिन्यामिति । निगर्षभा अंशा अपन्यासाश्च । निन्या(र्न्या)सः । षाडवादि धैवतीव । पञ्चमेनैव लोपे षाडवम् । सपलोपेऽन्यत् । सपौ च लङ्घनीयाववरोहिणावनंशाववलम्बिल (बबहुला) विति । अंशा दशकाः शुद्धास्त्रयस्त्रयो विकृताः पूर्णाः षाडवा औडुवश्च ।। १०२–१०३ ।।

अथ षड्जकैशिक्या इति । सगप(पा) अंशाः । अपन्यासास्तु सपनि(नयः)। न्यासो ग(गः)। नित्यपूर्णा चेयम् । मध्यमर्षभयोर्दौर्बल्यमंशत्वात्सिद्धं पुनराधिक्यार्थं ज्ञापयति । निधयोरत्र किञ्चिदाधिक्यमिति । अस्याः शुद्धत्वं नास्तीति त्रय एवांशकाः पूर्णाः ।। १०४–१०५ ।।

अथ षड्जोदीच्यवाषड्जश्चेत्यादि । समनिधा अंशाः । धस(सा) अ(व)पन्यासा(सौ)। म(मो)न्यासः । अंशानामन्योन्यसङ्गतिः । रिलोपे षाडवः (म्)। ऋपलोप औडवम् । ऋषभः संवादी धैवतस्य षड्जग्रामे न लुप्यमाने यतः । सरिगा बलिनः ।

Notes

1a. (N). सगान्धारर्षभः स्मृतः 1 . गान्धारश्चर्षभस्तथा ।। एत एव ह्युपन्यासाः षड्जमध्यमपञ्चमाः ।। निषादश्च भवेन्न्यासो हीनस्वर्यं च नेष्यते । दौर्बल्यं चात्र कर्तव्यं धैवतर्षभयोस्तथा ।। 1b. V.102 (G.O.S.): V. 77(N). But (N) reads vs. 71–76, not read in (G.O.S.). They read as: पञ्चांशा तु भवेत्षाड्जी निषादर्षभवर्जिता । अपन्यासो भवेदत्र गान्धारः पञ्चमस्तथा ।। ७१ ।। न्यासश्चात्र भवेत् लोप्यः सप्तम एव च । गान्धारस्य च बाहुल्यं त्वत्र कार्यं प्रयोक्त्तृभिः ।। ७२ ।। आर्षभाभ्यां भवत्यंशो धैवतार्षभसप्तमाः । एत एव ह्यपन्यासा न्यासश्चाप्यृषभः स्मृतः ।। ७३ ।। धैवत्यां धैवतत्रषभा वंशो न्यासश्चधैवतः । अपन्यासा भवन्त्यत्र धैवतार्षभमध्यमाः ।। ७४ ।। षड्जपञ्चमहीनां च रञ्चस्वर्यं प्रवक्ष्यते । पञ्चमेव विना चैव षाडवं परिकीर्तितम् ।। ७५ ।। अंशाश्च षड्जकैशिक्याः………………। निषादो ऋषभश्चैव बली गान्धार एव च ।। ७६ ।।

अपन्यासो भवत्यस्य धैवतः षड्ज एव च ।
1परस्परांशगमनमिष्टतश्च2 विधीयते ।। १०७ ।।

षाट्स्वर्यमृषभापेतं कार्यं गान्धर्ववेदिभिः ।
पञ्चमार्षभहीनं तु पाञ्चस्वर्यं तु तत्र वै ।। १०८ ।।

2aषड्जश्चाप्यृषभश्चैव गान्धारश्च बली भवेत् ।
गान्धारस्य च बाहुल्यं मन्द्रस्थाने विधीयते ।। १०९ ।।

2bसर्वेंऽशाः षड्जमध्यायामपन्यासास्तथैव च3 ।
3aषड्जश्च मध्यमश्चापि न्यासौ कार्यौ प्रयोक्तृभिः ।। ११० ।।

गान्धारसप्तमापेतं 4aपाञ्चस्वर्यं विधीयते ।
4षाडवं सप्तमापेतं कार्यं चात्र 4bप्रयोगतः ।। १११ ।।

सर्वस्वराणां सञ्चार इष्टतस्तु 5विधीयते ।
षड्जग्रामाश्रिता (श्रयाः)ह्येता(सप्त) विज्ञेयाः सप्त जातयः (या जातयो बुधैः) ।। ११२ ।।

Abh

अन्य(षड्ज)स्यांशत्वात् सिद्धं बलित्वं पुनराधिक्यार्थमुक्तम् । ऋषभस्यात्यल्पत्वं प्राप्तं प्रतिषेद्धुं गान्धारस्य मन्द्रस्थाने बाहुल्यम् । अस्या एकादशांशकाः । पूर्णाश्चत्वारः । षाडवास्त्रयः । धैवतांशे तदप्यपवादात् । औडुविताश्चत्वारः । शुद्धस्तु नास्ति । तत्र कैशिके पूर्वं निर्वचनमुक्तम् । तद्योगाज्जातिः कैशिकी । उदीच्यवन्या (वायां) त्वाहुः । उदीच्याः प्रयोक्तारो बाहुल्येन सन्त्यस्यामित्युदीच्या । वान्ति गच्छन्तीति । उदीच्येऽपि च दृश्यते । गीतं च देशनामधेयैर्बाहुल्यादिभिरुचितत्वापेक्षया व्यपदिश्यत एव । टक्करागो मालवपञ्चमो गौडी मालवी काम्भोजीत्यादि ।। १०६–१०९ ।।

अथ षड्जमध्यमा । सर्वेंशाः षड्जमध्यायामिति । सप्तांशा अपन्यासाश्च । समौ न्यासौ । निलोपे षाडवः । निगलोप्य (पे)न्यः । निरल्पतरो यदाऽन्य अंशाः । सञ्चारे यथेष्टम् । अस्याः सप्तदशांशकाः। तत्र सप्त पूर्णाः । पञ्च षाडवा औडुविताश्च । यो…रिसयोस्तदपवादात् । एतदुपसंहरति । षड्जग्रामाश्रयाः सप्तेति ।। ११०–११२ ।।

Notes

अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः1 ।
2गान्धार्याः पञ्च एवांशा धैवतर्षभवर्जिताः ।। ११३ ।।

3षड्जश्च पञ्जमश्चैव ह्यपन्यासौ प्रकीर्तितौ ।
गान्धारश्च भवेन्न्यासः षाडवं चर्षभं विना ।। ११४ ।।3a*

4aधैवतर्षभयोर्हीनं तथा चौडुवितं भवेत् 4।
लङ्घनीयौ च तौ नित्यमार्षभाद्धैवतं व्रजेत् ।।
4bविहितस्त्विति गान्धार्याः स्वरन्यासांशगोचरः ।। ११५ ।।

लक्षणं रक्तगान्धार्या गान्धार्या एव यत्स्मृतम् ।
5धैवतो बलवानत्र दौर्बल्यं तस्य लोपतः ।। ११६ ।।

गान्धारषड्जयोश्चात्र सञ्चारश्चा6aर्षभाद्विना 6।
7अपन्यासस्तथा7a चैव मध्यमस्तु विधीयते ।। ११७ ।।

Abh

अन्यद्रुपक्रमते । अतःपरमिति । अत्र गान्धारी तावत् । गान्धार्या इति । समगपनि(नयों)अंशाः (ऽशाः)। सपावपन्यासौ । ग(गो) न्यासः । रिलोपे षाडवः । रिधलोपेऽन्यत् । पञ्चमस्य ग्रामे ह्यलोप्यत्वम् । तयोर्लङ्घनं पूर्णावस्थायामृषभाद्धैवतगमनम् । अन्येषां स्वराणां न्यासस्वरविषयोंऽशस्वरविषयश्च सञ्चारः । तदाहञ्चा । स्वरन्यासांशगोचर इति । स्वराणां न्यसनस्वां(स्यां)शगोचर उक्त इत्येतदर्थमन्ये व्याचक्षते । एवं चैतदनुक्तसमः(मं) स्यात् । अस्यामेकां (स्यां त्रयोदशां)शकाः शुद्धा विकृताः । पूर्णाः पञ्च । चत्वारः षाडवाः। पञ्चमे तदपवादात् । औडुविते गान्धार एवांशेऽन्यत्र तदपवादात् ।। 113–115 ।।

अथ रक्तगान्धारी । लक्षणं रक्तगान्धार्या इति । सगमपनि(नयः) पञ्चांशाः । ऋलोपे षाडवम् । ऋधलोपेऽन्यत् । कस्तर्ह्यस्यास्ततो विशेषः । आह । धैवतो बलवानत्र । तस्य हि लोप्यत्वाद्दौर्बल्यं स्यात् ।

Notes

1गान्धारोदीच्यवांशौ तु विज्ञेयौ2 षड्जमध्यमौ ।
3पाञ्चस्वर्यं न चैवात्र षाट्स्वर्यमृषभं विना ।। ११८ ।।

4कार्यश्चान्तरमार्गश्च न्यासोपन्यास एव च ।
5षड्जोदीच्यवतीवत्तु पाञ्चस्वर्येण जातुचित् ।। ११९ ।।

मध्यमाया भवन्त्यंशा 6विना गान्धारसप्तमौ ।
एत एव ह्यपन्यासा न्यासश्चैव तु मध्यमः ।। १२० ।।

7गान्धारसप्तमापेतं पाञ्चस्वर्यं विधीयते ।
षाडवं चाप्यगान्धारं कर्तव्यं तु प्रयोगतः ।। १२१ ।।

षड्जमध्यमयोश्चात्र कार्यं बाहुल्यमेव हि ।
गान्धारलङ्घनं चात्र कार्यं नित्यं प्रयोक्त्तृभिः ।। १२२ ।।

Abh

ऋषभं चोल्लङ्घ्य सगेत्यनयोरन्योन्यनैकट्यं मेलनं च । अपन्यासो मध्यमः । अस्या द्वादशांशकाः । पूर्णाः पञ्च । चत्वारः षाडवाः। पञ्चमेऽप्यपवादः । त्रय औडुविताः । मध्यमषड्जयोस्तु तदपवादात् ।। ११६–११७ ।।

अथ गान्धारोदीच्यवा । गान्धारोदीच्यवांशाविति। द्वौ समावंशौ । ऋषभेण षाडवः औडुवितस्याप्येव– (म्) । षड्जोदीच्ये(च्यवाया)वान्याः(मन्यत्) । अस्यामन्तरमार्गः परस्परमंशस्वरयोः सञ्चारः । सध(धा)अ– (व)पन्यासौ । षड्जेनांशोऽपि बहुतरः । ऋषभो लोप्योऽपि पूर्णावस्थायामल्पः । मन्द्रस्थाने गान्धारस्य भूयस्त्वमिति सर्वमतिदेशात् । अस्याश्चत्वारोंऽशाः । द्वौ पूर्णौ द्वौ षाडवौ ।। ११८–११९ ।।

अथ मध्यमा । मध्यमाया भवन्त्यंशा इति । सरिमपधा अंशाः । अपन्यासास्त एव । न्यासो मः । गलोपे षाडवः । गनिलोपे चापरम् । समयोः पर्यायांशत्वात् सिद्धं बहुत्वम् । पुनर्वचनात् प्रकृष्टं मन्तव्यम् ।

Notes

1मध्यमोदीच्यवा1a पूर्णा ह्यंश एकस्तु पञ्चमः ।
शेषो विधिस्तु कर्तव्यो 1bगान्धारोदीच्यवां गतः2 ।। १२३ ।।

द्वावंशावथ पञ्चम्यामृषभः पञ्चमस्तथा3 ।
स(ऋ)निषादावपन्यासौ न्यास श्चैव तु पञ्चमः ।। १२४ ।।

3aमध्यमावत्तु कर्तव्ये षाडवौडुविते तथा ।
दौर्बल्यं चात्र कर्तव्यं षड्जगान्धारमध्यमैः ।। १२५ ।।

कुर्यादप्यत्र सञ्चारं पञ्चमस्यार्षभस्य च ।
गान्धारगमनं चैव4 कार्यं त्वल्पश्च(ल्पं च) सप्तमः(मात्) ।। १२६ ।।

अथ गान्धारपञ्चम्याः पञ्चमोंऽशः प्रकीर्तितः ।
तारगत्या तु षड्जोऽपि कदाचिन्नातिवर्तते ।। १२७ ।।

Abh

गान्धारस्य लोप्यत्वाल्लब्धमल्पत्वम् । पूर्णावस्थायामपि पश्चाल्लभ्यते । अस्या अष्टावंशकाः । शुद्धाः पञ्च । विकृतास्तावन्त एव षाडवौडुविताः ।। १२०–१२२ ।।

अथ मध्यमोदीच्यवेति । अंशः (पञ्चमः)। नित्यपूर्णता । गान्धारोदीच्य(वा)वद् विधिनिर्देशा । अपन्यासौ सधौ । मध्यमगान्धारब(बा)हुल(ल्य)म् । न्यासो मः । अस्या एकोंऽशकः पूर्णः ।। १२३ ।।

अथ पञ्चमी । द्वावंशावथ पञ्चम्यामिति । रिपावंशौ । ऋनी अपन्यासौ । पो न्यासः ।। १२४ ।।

गलोपे षाडवं गनिलोपे औडुवमिति मध्यमावत्त्विति शेषः । षड्जमध्यमयोरंशत्वाद् गान्धारस्य लोप्यत्वात् सिद्धेऽल्पत्वेऽल्पतरार्थं वचनम् ।। १२५ ।।

रिम(प)इत्यनयोरन्योन्यसंगतिः । पूर्णावस्थायां च निषादाद् गान्धारगमनम् । तच्च परिमितम् । तस्याः षडंशकाः शुद्धाः । द्वौ पूर्णौ द्वौ षाडवौ एक औडुवितम् (तः) । ऋषभेंऽशे (धैवतस्या) पवदनात् ।। १२६ ।।

अथ गान्धारपञ्चम्या इति । अंशः पः । ऋपावपन्यासौ । गो न्यासः

Notes

ऋषभः पञ्चमश्चैव ह्यपन्यासौ प्रकीर्तितौ ।
1न्यासश्चैव तु गान्धारो सा च पूर्णस्वरा सदा ।
2पञ्चम्या यश्च गान्धार्याः सञ्चारः स विधीयते ।। १२८ ।।

3पञ्चमश्चार्षभश्चैव गान्धारोऽथ निषादवान् ।
चत्वारोंऽशा भवन्त्यान्ध्र्यामपन्यासा4aस्त एव हि4 ।। १२९ ।।

गान्धारश्च भवेन्न्यासः षड्जापेतं तु षाडवम् ।
5गान्धारार्षभयोश्चापि सञ्चारस्तु परस्परम् ।। १३० ।।

6सप्तमस्य च षष्ठस्य न्यासो गत्यनुपूर्वशः ।
षड्जस्य लङ्घनं चात्र नास्ति चौडुवितं सदा ।। १३१ ।।

नन्दयन्त्याः(न्त्यां) 7क्रमान् न्यासापन्यासांशाः प्रकीर्तिताः ।
गान्धारो मध्यमश्चैव पञ्चमश्चैव नित्यशः ।। १३२ ।।

Abh

नित्यपूर्णता । धैवतगमनमृषभादिति गान्धार्या(र्याः) सञ्चारः । उक्तं मध्यमर्षभसङ्गतिर्निषादाद्गान्धार इति पञ्चम्याम् । असावुभयोऽप्यस्यां कार्यः । एक एवास्यां अंशकः ।। १२७–१२८ ।।

अथान्ध्री । पञ्चमश्चेति । ऋगपनीत्यंशाः । त एवापन्यासाश्च । ग(गो)न्यासः । सलोपे षाडवः । औडुविताभावः । ऋग अ(इत्य) नयोः संगतिः । निषादधैवतयोश्च न्यासो गत्यनुपूर्वशः । यो यदंशः प्रधानभूतस्तेन तेन स्या( न्या) सागमनं कार्यम् । तदुक्तम् । अंशानुपूर्व्या न्यासमगमनमिति । अन्ये चाहुः । येनैव क्रमेणांशाः स्वराः पठितास्तेनैव क्रमेण ते कार्या यावदपन्यासस्वर इति । अस्यामष्टावंशकाः । चत्वारः पूर्णाः षाडवाः ।। १२९–१३१ ।।

अथ नन्दयन्ती । नन्दयन्त्यां क्रमादिति । प(पो)न्यासो ग्रहश्चेति वक्ष्यते ।

Notes

षड्जो लोप्यश्च लङ्घ्यश्च नान्ध्रीसञ्चरणं भवेत् ।
लङ्घनं ह्यृषभस्यापि तच्च मन्द्रगतं स्मृतम् ।। १३३ ।।

तारगत्या तु षड्जस्तु (ड्जोऽपि) कदाचिन्नाति1aवर्तते ।
1bगान्धारो वा ग्रहः कार्यस्तथा न्यासश्च नित्यशः ।। १३४ ।।

कार्मारव्याः स्मृता ह्यंशा आर्षभः पञ्चमस्तथा ।
धैवतश्च निषादश्चाप्यपन्यासास्त एव तु ।। १३५ ।।

पञ्चमश्च भवेन् न्यासो हैनस्वर्यं न चात्र तु ।
1गान्धारस्य विशेषेण सर्वतो गमनं भवेत् ।। १३६ ।।

Abh

अपन्यासः अ(सो मः) । प अं(पोंऽ)शः सोप्यपन्यासः पश्चादुक्तः । षड्जेन षाडवम्। लोप्यत्वाल्लङ्घ्यत्वं सिद्धम् । पुनर्वचनादल्पतरत्वमपीति मन्तव्यम् । नान्ध्रीसञ्चरणमिति । गान्धार्यार्षभीभ्यामान्ध्री पञ्चम्यार्षभीगान्धारीभिर्नन्दयन्तीति संसर्गजप्रकरणे निरूपणं जातिवयस्यकारणतुल्यत्वादान्ध्रीवत् संगतिः प्राप्तेति वचनेन निपीड्यते । एतच्चारक्तातुल्यजातिकारणिकानां जातीनां सङ्गतिरतुल्यैव कर्तव्येति सूचयति । ऋषभस्य लङ्घनं मन्द्रगतस्येति धर्मिस्वरूपं धर्म उपचरित इ(मि)ति । मन्द्रगतं लङ्घनमित्युक्तम् । तारगत्या षड्जो नातिवर्तते नातिशय्यते ।…..गत्या षड्जो नातिवर्तते नातिशय्यते । तत ऊर्ध्वकं न शिरस्यसप्तकस्वराः प्रष्टव्या इत्यर्थः । अन्ये त्वाचक्षते । षड्जेव (ड्ज एव) कदाचिन्नातिवर्तते नारोहं भजते तारं न किञ्चित् प्रष्टव्यमित्यर्थः । कदाचिदिति । वैकल्पिकोऽयं तार इत्यर्थः । अस्यामेकः पूर्णांश एकः षाडव इति द्वौ ।। १३२–१३४ ।।

अथ कार्मारवीकार्मारव्या इति । ऋपधनि(नयों) अंशा(ऽशा) अपन्यासाश्च । पन्यासता । नित्यपूर्णता । विशेषेणेति । अन्ये त्वनंशा इहाभूयस्त्वभाजः । सर्वेभ्योऽपि विशेषेण तु गान्धारस्य यथाशक्ति सङ्गति । यदाह विशाखिलाचार्यःबाहुल्यादनंशानां विशेषतः सर्वतो गान्धारगमनमिति । अस्याश्चत्वारोंऽशाः पूर्णा एव ।। १३५–१३६ ।।

Notes

1a. N: न्नाधिवर्तते 1b. गान्धारश्च ग्रहः कार्यस्तथा

1aकैशिक्यास्तु तथा ह्यंशाः 1सर्वे चैवार्षभं विना ।
एत एव ह्यपन्यासा न्यासौ गान्धारसप्तमौ ।। १३७ ।।

धैवतेंऽशे निषादे च न्यासः पञ्चम इष्यते ।
अपन्यासः कदाचित्तु1bऋषभोऽपि विधीयते ।। १३८ ।।

आर्षभे षाडवं चात्र धैवतर्षभवर्जितम् ।
तथा चौडुवितं कुर्याद् बलिनौ चान्त्यपञ्चमौ2 ।। १३९ ।।

3दौर्बल्यमृषभस्यात्र लङ्घनं च विशेषतः ।
अंशवत् कल्पितश्चान्यैः षाडवे तु विधीयते ।
4षड्जमध्यावदत्रापि सञ्चारस्तु भवेदिह ।। १४० ।।

Abh

अथ कैशिकी । कैशिक्यास्त्विति । सगमपधनि(नयों)शा अपन्यासाश्च । गनी न्यासौ । पर्यायेण धैवतनिषादौ यदांशौ तदा पञ्चमो न्यासः । कदाचित्तु ऋषभोऽपीति । लोपावस्थायां तन्ना(तु ना)सौ । तथा पूर्णतादशायां तु वा भवतीति । दौर्बल्यमृषभस्य । यतः कदाचिल्लोप(प्य)त्त्वात् । ऋलोपे यथा षाडवम् । ऋधलोपे त्वन्यत् । बलिनौ चान्त्यपञ्चमाविति । पञ्चमनिषादयोः पर्यायांशानन्यापेक्षं बलवत्तरत्वमिति यावत् । षड्जमध्यमायां च यथा चाह । धैवतस्वरांशायां यथेष्टं सञ्चारस्तद्वदिह । षडंशा ह्येषेति । किञ्चिन्न्यूनसञ्चारेयमिति ।। १३७–१४० ।।

अथ जात्युद्भवग्रामरागादिसम्भावनासूचनार्थामार्यां केचित् पठन्ति ।

मिश्रं गेयं यदि यत्तदर्थितज्ञेयमधिकबाहुल्यम् ।
सङ्करभूषणसन्ततिवैचित्राण्यत्र रञ्जनातिशयात् ।।

इति । मिश्रमिति । जात्यंशगतानि यानि दशकरूपाणि लक्षणान्युक्तानि तत्सङ्कीर्णतया यन् मिश्रम् । गेयं ग्रामरागादिलक्षणम् । तद्यदि कस्यापि जात्यंशकस्य सम्बन्ध्यंशोऽन्यस्य न्यासोऽन्यदीयोऽपन्यास इत्यादि बहुतरवैचित्र्यम् । तदेवंभूतं यन्मिश्रगेयं तदस्या जातेरर्थितमिति यन्नियम्यते मतङ्गनन्दिकश्यपयाष्टिकादिभिस्तदधिकेव रूपबाहुल्येन । यथा (विहि) तं पानकमिदमिति न तु क्रममिश्रितम् ।

Notes

1a.N: कैशिक्यांशस्तु षड्जै या स्वरा ह्यर्षभं विना ।।

Abh

आह । सङ्करोऽसंङ्कीर्णतायां तस्यां भूषणसन्ततेर्वक्ष्यमाणह्य(स्या)लङ्कारवर्गस्य बहूनि विचित्राणि जायन्ते तानि कथमाद्रियन्त इति चोदना । रञ्जनातिशयादिति । तत्र ह्यधिका रक्तिरिति । तेन नात्र वागादौ सातिशयोऽस्योपयोग इति भावः । तत्र सङ्करे रूपबाहुल्याज्जातिनिर्देश (दत्तिलम् ९६) इति दत्तिलाचार्योऽप्याह । षड्जोदीच्यवतीसमा भिन्नषड्ज इत्युच्यते नन्दयन्तीभिन्नरूपबाहुल्येन ।…..धैवतोंऽशः। मध्यमो न्यासः । ऋषभपञ्चमहीनतेति । अत एव ग्रामरागाणां लक्षणं मुनिनोक्तम् । कश्यपादयोऽपि सम्प्रणेतारः प्रसिद्धास्त्विति छलयन्ति लोकान् सर्वथाऽर्थेऽनभिज्ञाताः । व्यावृत्तिस्तावदस्त्वित्याशयेन तल्लक्षणं सङ्क्षिप्य पठामः क्रमेण ।

षड्जा(षाड्जी)मध्यमयोर्मध्यमोदीच्यायाश्च सङ्करात् ।
मान्तौ स्यातां (क्रमात्) षड्जमध्यमग्रामसंज्ञकौ ।।

मांशान्तो मध्यमोद्भूतो रागः स्याच्छुद्धषाडवः ।
यांशान्तोऽल्पगनिर्मध्यमापञ्चम्योस्तु पञ्चमः ।।

सांशौ मान्तौ तयोश्चैको धैवतीषड्जमध्ययोः ।
कार्यः कैशिकमध्योऽन्यो जातः साधारितः स्मृतः ।।

1विगनिः कैशिकः पूर्णः सांशः पान्तश्च कैशिकी ।
कार्मारव्यस्य हेतुः सा सप्तधा शुद्धगीतिका ।।

षड्जोदीच्याद्भिन्नषड्जो धांशो मान्तः परी(गतः)।
पांशो मान्तो भिन्नतागः पञ्चमीमध्यमोद्भवः ।।

सांशो मान्तोऽल्पगनिको ज्ञेयः कैशिकमध्यमः ।
षड्जमध्योद्भवो धांशः पान्तोऽसौ भिन्नपञ्चमः ।

दुर्बलो रिश्च मन्द्रांशौ पञ्चमीमध्यमोद्गतः ।
कार्मारवी षड्जमध्यासम्भूतो भिन्नकैशिकः ।।

Notes
Abh

सांशः पान्तः पञ्चभेदभिन्नगीतिरि(र)यं मता(तः) ।
धैवतीषड्जमध्योत्थो 1विपनिर्गौडपञ्चमः ।।

धांशो मान्तः सांशमान्तो 2निष्पः कैशिकमध्यमः ।
धैवतीमध्यमोद्भूतः सांशः पान्तस्तु कैशिकः ।।

कार्मारवीषड्जमध्याजात्योस्त्रेधा तु गौडजः ।
सौवीरः षड्जमध्योत्थो………….।।

…………….टक्कः सांशान्तो बहुसङ्गतिः ।
सांशानः(न्तः) षड्जमध्योत्थः सौवीरो गनिवर्जितः ।।

यांशान्तो विगनिर्मध्यपञ्चम्योर्मालवेसरः ।
मांशान्तः षड्जमध्योत्थोऽगनिर्वेसरषाडवः ।।

धपमध्योद्भवा(वो)पांशो मान्तो (बोट्टः) ।
हिन्दोलकश्च सांशान्तो रिधजात्यन्यसम्भवः ।।

धांशान्तोऽल्पनिगष्टक्ककैशिको मधजातिभाक् ।
कैशिक्युत्थो विधिः सांशन्यासो मालवकैशिकः ।।

अष्टधा वेसरागीतिः

आर्षभ्युत्थ

पूर्णस्तु (पान्तो) धान्तो वा सांशो भम्माणपञ्चमः ।
मान्तोऽल्पगनिकः षड्जमध्यमोत्थनिषादजः ।।

सन्यंशो रूपसाधारो मान्तो 3गान्धारसम्भवः ।
गान्धारपञ्चमो गांशन्यासस्त्रिश्रुतिदुर्बलः4 ।।

Notes

एवमेता बुधैर्ज्ञेया जातयो दशलक्षणाः1 ।
यथा यस्मिन् रसे याश्च गदतो मे निबोधत ।। १४१ ।।

इति भारतीये नाट्यशास्त्रे जातिविकल्पं2 नामाध्यायोऽष्टाविंशतितमः ।2a

Abh

1रंशो मान्तश्चार्षभीजो रेवगुप्तो 2विषड्जकः ।
द्विश्रुत्यल्पो…..सांशः कैशिक्याः षड्जैशिकः ।।

सांशान्तः सधजातीजो निगो(गा)ल्पः(ल्पोंऽ)शकपञ्चमः ।
इतीयं नवधा गीतिः साधारण्याख्यया स्मृतः(ता)।।

एषा विभाषा गीती तु ग्रामरागाश्रिते मते ।
ध्रुवागानोपयोगाय तदेतद्गीतिसप्तकम् ।।

एतत्सङ्ग्रहायेयमार्या कैश्चित् पठिता । अस्मत्पुस्तकेषु न तथा दृश्यते । न च तया विना स सङ्गृहीतमेतद्भवति जात्यंशके हि सर्वं स्वीकृतम् । तत्रापि चा(मा)र्जनोपयोगिनो वैचित्र्यह्य(स्या)भ्युनुज्ञानं मुनिनैव कृतम् । चतुःस्वरप्रयोगोऽपि अप(ह्यव)कृष्टध्रुवास्विह । (भ. ना. २८–७७) इति वदतोत्तरत्र चालङ्कारवैचित्र्यं विभजतेति ।।

अध्यायार्थमुपसंहरन्नर्थान्तरं प्रस्तावयति । एवमेता इति । दृष्ट(दश)लक्षणव्यभिचारिणी द्वेतु– (चारिहेतु) सम्भवमात्रत इत्याशयेनाह । बुधैरिति । यथा यस्मिन्निति । यत्र रसे येनांशन्यासादिना प्रकारेण या इत्यर्थः । गदतो मे इत्यनादरे षष्ठी । तेन मद्वचनमेवात्र न केवलं प्रमाणम् । यावत् कश्यपमुनिप्रभृतिभिरपि यन्निरूपितं तदपीति शिवम् ।। १४१ ।।

शिशिरकरकलाशेखरचरणाम्भोजाश्रयाकलिततापः ।।

अभिनवगुप्तो गुप्तं जात्यध्यायं विचारितवान् ।।

इति श्रीमहामाहेश्वराचार्याभिनवगुप्तविरचितायां नाट्यवेदवृत्तावभिनवभारत्यां
जातिविकल्पाध्यायोऽष्टाविंशः समाप्तः ।।

Notes