२७ सिद्ध्यध्यायः

श्रीः

नाट्यशास्त्रम्

सप्तविंशोऽध्यायः

(सिद्धिव्यञ्जकः)

सिद्धीनां तु प्रवक्ष्यामि लक्षणं नाटकाश्रयम् ।
यस्मात्प्रयोगः सर्वोऽयं सिर्द्धयचर्थं संप्रदर्शितः1 ।। १ ।।

सिद्धिस्तु द्विविधा ज्ञेया 2वाङ्मनोऽङ्गसमुद्भवा ।
3दैवी च मानुषी चैव 4aनानाभावसमुत्थिता4 ।। २ ।।

Abh

अभिनवभारती –सप्तविंशोऽध्यायः

सत्त्वमित्यमलङ्गमण्डलै दैवमानुषविभेददिता ।
सिद्धिमानयति यः स्वविद्यया तं नमामि गिरिजार्धधारिणम् ।।

इह यो यथाभिनये यस्मिन् योक्तव्यः सिद्धिमिच्छतेति सर्वमभिनयानां तावत्सिद्धिपर्यन्तक्तम् । अभिनयप्रक्रमेणैवोपाङ्गाभिनयाध्याये सप्तमे । तथाभिनयसमानीकरणात्मकमेलनिका– संपादनात्मकसामान्याभिनयस्यापि सिद्धिफलत्वमेव दर्शितम् । चित्राभिनयाध्यायान्ते “एवमेते ह्याभिनया वाङ्नैपथ्याङ्गसंभवाः । प्रयोगज्ञेन कर्त्तव्या नाटके सिद्धिमिच्छतेति” श्लोकेन तत एव “रसा भावा” (ना. शा. ६/१९०) इत्यत्र सिद्धिरुद्दिष्टा तत्र केयं सिद्धिर्नामेति भवितव्यमधुना जिज्ञासया तदभिप्रायेणानन्तरवृत्तावध्यायपर्यन्ते दर्शितः ।

Notes

दशाङ्गा मानुषी सिद्धिर्दैवी तु द्विविधा स्मृता ।
नानासत्त्वाश्रयकृता वाङ्नैपथ्यशरीरजा1 ।। ३ ।।

स्मितापहासिनी हासा2 साध्वंहो 3कष्टमेव च ।
प्रबद्धनादा च तथा सिद्धिर्ज्ञेयाथ वाङ्मयी ।। ४ ।।

3aपुलकैश्च सरोमाञ्चैरभ्युत्थानैस्तथैव च ।
चेलदानाङ्गुलिक्षेपैः शारीरी सिद्धिरिष्यते ।। ५ ।।

किञ्चिच्छिष्टो रसो हास्यो नृत्यद्भिर्यत्र युज्यते ।
स्मितेन 4स प्रतिग्राह्यः प्रेक्षकैर्नित्यमेव च ।। ६ ।।

किञ्चिदस्पष्टहास्यं यत्तथा वचनमेव च ।
अर्थहास्येन तद्ग्राह्यं प्रेक्षकैर्नित्यमेव हि ।। ७ ।।

Abh

अत ऊर्ध्वं प्रवक्ष्यामि सिद्धीनामपि लक्षणम् ।। इति । तत्र सिद्धिर्नामासाध्यप्रयोजनसंपत्तिः । सा च नटानां सामाजिकानां च । तत्र कतरा वक्तव्येत्याशङ्क्याह –

सिद्धीनां तु प्रवक्ष्यामि लक्षणं नाटकाश्रयमिति ।

तुर्व्यतिरेके । यद्यपि सामाजिकाश्रयं नाटकाश्रयं च सिद्धीनां लक्षणं वक्तव्यं तथापि नटाश्रयमेव वक्ष्यामि । नेतरदिति । नाटकोऽत्र नटः नटतीति अपि हि व्युत्पत्तिः । कस्मात्पुनरितरं नोच्यत इत्याशङ्क्याह–

Notes

विदूषकोच्छेद1 कृतं भवेच्छिल्पकृतं च यत् ।
अतिहास्येन तद्ग्राह्यं प्रेक्षकैर्नित्यमेव तु1a ।। ८ ।।

2अहोकारस्तथा कार्यो नृणां प्रकृतिसंभवः ।2a
2bयद्धर्मपदसंयुक्तं तथातिशयसंभवम् ।। ९ ।।

तत्र साध्विति यद्वाक्यं प्रयोक्तव्यं हि साधकैः ।
3विस्मयाविष्टभावेषु 3aप्रहर्षार्थेषु चैव हि ।। १० ।।

3b करुणेऽपि प्रयोक्तव्यं कष्टं शास्त्रकृतेन तु ।
प्रबद्धनादा च तथा विस्मयार्थेषु नित्यशः ।। ११ ।।

4साधिक्षेपेषु वाक्येषु प्रस्पन्दिततनूरुहैः ।
कुतूहलोत्तरावेधैर्बहुमानेन साधयेत् ।। १२ ।।

Abh

यस्मात्प्रयोगः सर्वोऽयं सिद्ध्यर्थं संप्रदर्शितः (२७.१) ।। इति ।

सामाजिकानां सिद्धयर्थो यः प्रयोगः स इति विशेषणभागे विश्रान्तिः । दण्डीप्रेषादस्याह लोहितोष्णीषाः प्रचरन्तीति । यथा विधिविवक्तेः तेनायमर्थः । यथा सिद्ध्या प्रयोगः सप्रयोजनः सामाजिकगतया तदुद्देशेनैव नाट्योत्पत्तौ न वेदव्यवहारोऽयं संश्राव्यः शूद्रजातिष्वित्यादेशेषु प्रयोगदर्शित्वात् सा सिद्धिः पूर्वं दर्शितैव । तदुपयोगेनान्तरीयकतया य परा सिद्धिः । अनेनाध्यायेन दर्श्यते । एतदुक्तं भवति । सामाजिकानां तावदभि-

Notes

दीप्तप्रदेशं यत्कार्यं छेद्यभेद्याहवात्मकम् ।
सविद्रवमथोत्फुल्लं 1तथा युद्धनियुद्धजम्1a ।। १३ ।।

2aप्रकम्पितांसशीर्षं च साश्रं सोत्थानमेव च2 ।
तत्प्रेक्षकैस्तु कुशलैस्साध्यमेवं विधानतः3 ।। १४ ।।

एवं साधयितव्यैषा तज्ज्ञैः सिद्धिस्तु मानुषी ।
3aदैविकीं च पुनः सिद्धिं संप्रवक्ष्यामि तत्त्वतः ।। १५ ।।

या भावातिशयोपेता सत्त्वयुक्ता तथैव च ।
4सा प्रेक्षकैस्तु कर्तव्या दैवी सिद्धिः प्रयोगतः ।। १६ ।।

न शब्दो न क्षोभो न चोत्पातनिदर्शनम् ।
संपूर्णता च रङ्गस्य दैवी4a सिद्धिस्तु सा स्मृता ।। १७ ।।

Abh

संहितफलाप्तिलक्षणा सिद्धिः । व्रीह्यात्मिका व्रीह्यादिष्वधिगच्छन्तीत्यादौ तत्र स्थाने निरूपितपूर्वैव । सा च मानुषेण सामाजिकेनाभिसंहितत्वान्मानुषीत्युच्यते । तत्रापि तया न संहितोऽसौ यथा निर्विषयस्वकपरमानन्दाविर्भावस्वरूपापत्तिवर्गब्रह्मचारिणी गीतादेर्विषयस्य नाट्यान्तरोपरञ्जकतया निमग्नस्य विषयसमत्वान्नटादेः निह्नुतत्वाद्रामादेस्तुच्छत्वाद्देशकालनिर्यन्त्रणतया एव विषयत्वापादनात्तस्याश्चात्र असंभवस्योपादानात् सोऽप्ययं सिद्धयंशो दैवशान्त्याः समस्तरसप्रकृतितां

Notes

1दैवी च मानुषी चैव सिद्धिरेषा मयोदिता ।
अत ऊर्ध्वं प्रवक्ष्यामि घातान्दैवसमुत्थितान् ।। १८ ।।

दै1aवात्मपरसमुत्था त्रिविधा घाता बुधैस्तु विज्ञेयाः ।
औत्पातिकश्चतुर्थः कदाचिदथ संभवत्येषु ।। १९ ।।

वाताग्निवर्षकुञ्जरभुजङ्ग2मण्डपनिपाताः ।
कीटव्यालपिपीलिकपशु2aप्रवेशनाश्च दैवककृताः ।। २० ।।

घातानतः परमहं परयुक्तान् संप्रवक्ष्यामि ।
[वैवर्ण्य चाचेष्टं विभ्रमितत्वं स्मृतिप्रमोहश्च ।। २१ ।।*

अन्यवचनं च काव्यं तथाङ्गदोषो विहस्तत्वम् ।
एते त्वात्मसमुत्था घाता ज्ञेया प्रयोगज्ञैः ।। २२ ।।]*

Abh

“स्वं स्वं निमित्तमासाद्य शान्तादुत्पद्यते रसः” *इति वदतामुचित एव स्पष्टतयानुरोधो रहस्यार्थस्यान्यपरत्वाच्च शास्त्रस्य । तदुक्तं भट्टनायकेन-

प्रधाने सिद्धिभागेऽस्य प्रयोगाङ्गत्वमागताः ।
गेयादयस्तथैवैते त्रैधैनं (?) ह्युपयोगिनः ।।

सोपानपदपङ्कक्तया च सा च मोक्षस्पृशात्मिका ।
सा तु मोक्ता यतो गुह्यमृषयोऽन्यपदे कथम् ।।
शास्त्रे प्रकटयेयुर्हि तालमानकृते यथा ।। इति ।।

Notes

मात्सर्याद्द्वेषाद्वा तत्पक्षत्वात्तथार्थभेदत्वात् ।
एते तु परसमुत्था ज्ञेया घाता बुधैर्नित्यम् ।। २३ ।।

1aअतिहसितरुदितविस्फोटितान्यथोत्कृष्टनालिकापाताः
गोमयलोष्ट1पिपीलिकवि(नि?)क्षेपाश्चारिसंभूताः2 ।। २४ ।।

औत्पातिकाश्च घाता मत्तोन्मत्तप्रवेशलिङ्गकृतः ।
पुनरात्मसमुत्था ये2a घातांस्तांस्तान् प्रवक्ष्यामि ।। २५ ।।

वैलक्षण्यमचेष्टितविभूमिकत्वं स्मृतिप्रमोष2b श्च ।
अन्यवचनं च काव्यं तथार्तनादो विहस्तत्वम् ।। २६ ।।

3अतिहसितरुदितविस्वरपिपीलिकाकीटपशुविरावाश्च ।
मुकुटाभरणनिपाताः4 पुष्कर5जाः कव्य(?काव्य)दोषाश्च ।। २७ ।।

Abh

यस्तु प्रस्फुटो दैवसिद्धयंशः पुरुषार्थव्युत्त्पत्तिलक्षणः सोऽपि “धर्मो धर्मप्रवृत्तानां कामं (?कामो)कामोपसेविना” (ना.शा. १.१०९) मित्यादिना प्रदर्शित एवेति सामाजिकाश्रया सिद्धिर्न वक्तव्या । लक्षणतस्तदाह सम्यक् प्रकर्षेण प्रकटित इति । नटस्य तु या सम्यक् प्रयोगनिष्पत्तिलक्षणा सिद्धिः सा प्रयोगसिद्धिरुपयोगिनी प्रयोगनिष्पत्त्या हि विना नाटयतयैव नेति कुतः सा भवेत्(?)प्रयोगनिष्पत्तिश्च सामान्याभिनयस्यैव सम्यक्त्वापत्तिः । परमार्थतस्तु परकीयप्रोत्साहनतारतम्योदितप्रकृतिभानप्रत्ययबलेन वा स्वतः प्रतिभानमाहात्म्येन वा तत्र पूर्वा मनुष्यनिष्पादितत्वान्मानुषीत्युच्यते । दृश्यतेऽपि प्रोत्साहनबलेना (? बलेन) प्रबोधो हनूमत

Notes

1aN. अनवरतहसितविस्फोटिता.

अतिहसितरुदितहसितानि सिद्धेर्भावस्य दूषकाणि स्युः1 ।
कीटपिपीलिकपाताः सिद्धिं सर्वात्मना ध्नन्ति ।। २८ ।।

2विस्वरमजाततालं वर्णस्वरसंपदा च परिहीणम् ।
अज्ञातस्थानलयं स्वरगतमेवंविधं हन्यात् ।। २९ ।।

मुकुटाभरणनिपातः प्रबद्धनादश्च नाशनो भवति ।
3पशुविशसनं तथा स्याद्बहुवचनघ्नं प्रयोगेषु ।। ३० ।।

विषमं मानविहीनं विमार्जनं चाकुलप्रहारं च ।
अविभक्तग्रहमोक्षं पुष्करगत(गीत?)मीदृशं हन्ति ।। ३१ ।।

पुनरुक्तो ह्यसमासो विभक्तिभेदो 4विसन्धयोऽपार्थः ।
त्रेलिङ्गजश्च दोषः प्रत्यक्षपरोक्षसंमोहाः ।। ३२ ।।

Abh

एव सागरलंघने । तत्र प्रोत्साहनं वाचिकम् । पञ्चधा सा त्वहो कष्टमित्येकं स्थानं शारीरं पञ्चधेति दशधा । अन्ये तु विभागमाहुः । तथा हि प्रोत्साहनं वचसा वा सात्त्विकदर्शनेन वा शरीरव्यापारेण वा । वचनं सप्तधा । तद्यथा मध्यमारूपतत्प्ररोहात्मकं सामान्यवैखर्यात्मकं तत् प्ररोहात्मकं विशेषशब्दात्मकं वैखरीस्वभावम् । आवेशोचितविशेषवैखरीरूपं तत्प्रबन्धं विच्छेदं च । तदाह । स्मितं हदृन्तः सञ्जल्परूपां मध्यमां सूचयति ।

Notes

छन्दोवृत्तत्यागो गुरुलाघवसङ्करो यतेर्भेदः ।
एतानि यथा स्थूलं घातस्थानानि काव्यस्य ।। ३३ ।।

ज्ञेयौ तु काव्यजातौ द्वौ घातावप्रतिक्रियौ नित्यम् ।
प्रकृतिव्यसनसमुत्थः शेषोदकनालिकत्वं च ।। ३४ ।।1

1aअप्रतिभागं स्खलनं विस्वरमुच्चारणं च काव्यस्य ।
अस्थानभूषणत्वं पतनं मुकुटस्य विभ्रंशः ।। ३५ ।।

1bवाजिस्यन्दनकुञ्जरखरोष्ट्रशिबिकाविमानयानानाम् ।
आरोहणावतरणेष्वनभिज्ञत्वं 1bविहस्तत्वम् ।। ३६ ।।

प्रहरणकवचानामप्ययथाग्रहणं विधारणं चापि ।
अमुकुटभूषणयोगश्चिरप्रवेशोऽथवा रङ्गे ।। ३७ ।।

एभिः स्थानविशेषैर्घाता लक्ष्यास्तु सूरिभिः कुशलैः ।
यूपाग्निचयनदर्भस्रग्भाण्डपरिग्रहान्मुक्त्वा ।। ३८ ।।

Abh

संविदो हि हासविकासानुरूपः सुन्दरस्पन्दो यदाहं वृत्रहणं (?) स्मितेनेति । सात्त्विकं तु पुलकादिरूपमेकं चैव । शरीरविकारोऽपि द्विधा । अनभिसन्धिपूर्वक एव यथा झटिति हयुत्थानः । अभिसन्धानकृतो वा यथा चेलादिप्रक्षेपं चेलाद्यभावे चोर्ध्वागुलिकरणादिभिस्तेनेयं दशविधा मानुषी सिद्धिः तत्र तत्र प्रयोगौचित्यात्सभेदेन प्रवर्तते । यदाह हास्यं स्मितेनेत्यादि । स्वप्रतिभानतारतम्यकृता तु सिद्धिर्द्विविधा । कदाचित्तु प्रतिभवन्त्यपि

Notes

1.N V. 34 is read as V. 30 (N) But (N) reads: विस्वरविगलितरागं वर्णस्वरसंपदा च परिहीण(न)म् । अज्ञातस्थानलयं स्वगततमेवंविधं हन्यात् ।। (N.33) 1aN. अप्रतिभानं स्खलनं निस्वनमुच्चारणं च काव्यस्य ।

सिद्धया मिश्रो घातस्सर्वगतश्चैकदेशजो वापि ।
1a नाटयकुशलैः संलेख्या सिद्धिर्वा स्याद्विघातो वा ।। ३९ ।।*

1नालेख्यो बहुदिनजः सर्वगतोऽव्यक्तलक्षणविशेषः ।
यस्त्वेकदिवसजातस्स प्रत्यवरोऽपि2 लेख्यस्स्यात् ।। ४० ।।*

जर्जरमोक्षस्यान्ते सिद्धेर्मोक्षस्तु नालिकायास्तु3 ।
कर्तव्यस्त्विह सततं नाट्यज्ञैः प्राश्निकैर्विधिना3a ।। ४१ ।।

दैन्ये दीनत्वमायान्ति ते नाट्ये प्रेक्षकाः स्मृताः ।
ये तुष्टौ तुष्टिमायान्ति शोके शोकं व्रजन्ति च ।। ४२ ।।

Abh

स्वप्नयोगादतीव मन्दीभवति । तत्संभाव्यमानमध्यात्मिकाधिदैविकानां शरीरादिगता व्याधिरूपप्रक्षोभ- बाह्मभूंतजनितकलकलशब्दादिभूकम्पवातवर्षादीनां विघ्नानां दैवापरपर्यायादृष्टकृताददृष्टप्रेरितं न पुरुषव्यापारोपनतादपसारणाद्वा भवति । यत्रेदमाह न शब्दो यत्र न क्षोभ इत्यादि । मूलत एव विघ्नानामसंभवाद्वा यदाशयेनाह यो भावातिशयोपेतेति

तदेतदाहुर्यन्मुनिराह सिद्धिस्तु द्विविधा ज्ञेयेति । अत एवास्या रसः प्रत्यङ्गत्वान्नाट्याङ्गमध्ये रसा वा इत्यत्र गुणाङ्गयुक्तं सामाजिकाश्रिता तु फलमाहुः ।

यत्तु भट्टनायकेनोक्तं “सिद्धेरपि नटादेरङ्गत्वं व्रजन्त्यास्तत्पक्षेऽयमिति” तेन नाट्याङ्गता समर्थितफलञ्च

Notes

1aN. सिद्धिः कुशलैः न लेख्या ।

योऽन्यस्य महे मूर्धो (मूर्खो?) नान्दीश्लोकं पठेद्धि देवस्य ।
स्ववशेन पूर्वरङ्गे सिद्धेर्घातः प्रयोगस्य1 ।। ४३ ।।

2यो देशभा3वरहितं भाषाकाव्यं प्रयोजयेद्बुद्धया ।
तस्याप्यभिलेख्यः स्याद्घातो देशः प्रयोगज्ञैः ।। ४४ ।।

कः शक्तो नाटयविधौ यथावदुपपादनं प्रयोगस्य ।
4कर्तुं व्यग्रमना वा यथावदुक्तं परिज्ञातुम् ।। ४५ ।।

5तस्माद्गम्भीरार्थाः शब्दा ये लोकवेदसंसिद्धाः
सर्वजनेन ग्राह्यास्ते योज्या नाटके विधिवत् ।। ४६ ।।

Abh

पुरुषार्थत्वादिति केवलं जैमिनिरनुसृत इत्यलमनेन । वाङ्मनोऽङ्गसमुद्भवेति सर्वाभिनयैकीकारसंपत्तिरपीत्यर्थः मनोरूपत्वात् ।

अन्ये तु वाङ्मनोंङ्गसमुद्भवा दशाङ्गा मानुषीति संबन्धयन्ति । तदन्येऽप्यभिनयविषयैवेति दर्शितं नानासत्त्वाश्रयकृता वाङ्मयय्थ शरीरजेति । विदूषकच्छेदकृतमिति । च्छेदोऽत्र वचनभङ्गी प्रकम्पितस्कन्धना…श्रयोच्छाटनं च कृत्वा तत्साध्यं प्रोत्साहने बृंहितव्यमिति संबन्धः । अथानेन साभ्युत्थानै–

Notes

न च किञ्चिद्गुणहीनं दोषैः परिवर्जितं न 1aचाकिंचित् ।
तस्मान्नाट्यप्रकृतौ दोषा नाट्या (त्य?)र्थतो ग्राह्याः ।। ४७ ।।

1न च नादरस्तु कार्यो नटेन वागङ्गसत्त्वनेपथ्ये ।
रसभावयोश्च गीतेष्वातोद्ये लोकयुक्त्या च ।। ४८ ।।

एवमेतच्च विज्ञेयं सिद्धीनां लक्षणं बुधैः ।
अत ऊर्ध्वं प्रवक्ष्यामि 2प्राश्निकानां तु लक्षणम् ।। ४९ ।।

चारित्राभिजनोपेताः शान्तवृत्ताः कृतश्रमाः3 ।
3aयशोधर्मपराश्चैव मध्यस्थवयसान्विताः।। ५० ।।

षडङ्गनाट्यकुशलाः 3bप्रबुद्धाः शुचयः समाः ।
चतुरातोद्यकुशला 4वृत्तज्ञास्तत्त्वदर्शिनः ।। ५१ ।।

देशभाषाविधानज्ञाः कलाशिल्पप्रयोजकाः।
चतुर्थाभिनयोपेता रसभावविकल्पकाः5 ।। ५२ ।।

Abh

रिति नवमो भेदो व्याख्यातः । प्रकम्पितांसशीर्षमित्यनेन वचनाङ्गुलिक्षेपात् दशमोऽपि भवेदस्पृष्टो मन्तव्यः सास्त्रमिति वदन्नेवं सूचयति ।

यद्यपि भेदान्तरमप्यत्रानुप्रविष्टं तथापि बाहुल्यादभ्युत्थानेन व्यपदेश इति । एवं भेदात्क्रियते । द्वेषः सहजैवाप्रीतिर्मात्सर्य तु कार्यार्थमेकद्रव्याभिलाषात् । पिपीलिकानिक्षेपः सुकुमारप्रकृतेः स्त्रीपात्रप्रायस्य त्रासनोत्पातेन सिद्धिविघातः “औत्पातिकाश्च घाताः पशुवेगोन्मत्तलिङ्गकृता” इति । अशंकितं

Notes

1aN. न कदाचित्

शब्दच्छन्दोवि (भि?) धानज्ञा नानाशास्त्रविचक्षणाः ।
एवंविधास्तु कर्तव्याः प्राश्निका दशरूपके1 ।। ५३ ।।

अव्यग्रैरिन्द्रियैः शुद्ध ऊहापोहविशारदः ।
1aत्यक्तदोषोऽनुरागी च स नाट्ये प्रेक्षकः स्मृतः ।। ५४ ।।

न चैवैते गुणाः सम्यक् सर्वस्मिन् प्रेक्षके स्मृताः2 ।
विज्ञेयस्याप्रमेयत्वात्संकीर्णानां च पर्षदि ।। ५५ ।।

यद्यस्य शिल्पं नेपथ्यं कर्मचेष्टितमेव वा ।
तत्तथा तेन कार्यं तु स्वकर्मविषयं प्रति ।। ५६ ।।

नानाशीलाः प्रकृतयः शीले नाट्यं विनिर्मितम् ।
उत्तमाधममध्यानां वृद्धबालिशयोषिताम्2a ।। ५७ ।।

तुष्यन्ति तरुणाः कामे विदग्धाः समयान्विते ।
अर्थेष्वर्थपराश्चैव मोक्षे चाथ विरागिणः ।। ५८ ।।

शूरास्तु वीररौद्रेषु नियुद्धेष्वाहवेषु च ।
धर्माख्याने पुराणेषु वृद्धास्तुष्यन्ति नित्यशः3 ।। ५९ ।।

न शक्यमधमैर्ज्ञातुमुत्तमानां विचेष्टितम् ।
तत्त्वभावेषु सर्वेषु तुष्यन्ति सततं बुधाः ।। ६० ।।

Notes

बाला मूर्खाः स्त्रियश्चैव 1हास्यनैपथ्ययोः सदा ।
यस्तुष्टो (ष्टौ?) तुष्टिमायाति शोके शोकमुपैति च ।। ६१ ।।

क्रुद्धः क्रोधे भये भीतः स श्रेष्ठः प्रेक्षकः स्मृतः ।
एवं भावानुकरणे यो यस्मिन् प्रविशेन्नरः ।। ६२ ।।

स तत्र प्रेक्षको ज्ञेयो गुणैरेभिरलंकृतः।
एवं हि प्रेक्षका ज्ञेयाः प्रयोगे दशरूपतः।। ६३ ।।

संघर्षे तु समुत्पन्ने प्राश्निकान् संनिबोधत ।
यज्ञविन्नर्तकश्चैव छन्दोविच्छब्दवित्तथा ।। ६४ ।।

अस्त्रविच्चित्रकृद्वेश्या गान्धर्वो राजसेवकः ।
यज्ञविद्यज्ञयोगे तु नर्तकोऽभिनये स्मृतः ।। ६५ ।।

छन्दोविद्वृत्तबन्धेषु शब्दवित्पाठ्यविस्तरे ।
इष्वस्त्रवित्सौष्ठवे तु नेपथ्ये चैव चित्रकृत् ।। ६६ ।।

कामोपचारे वेश्या च गान्धर्वः स्वरकर्मणि ।
2सेवकस्तूपचारे स्यादेते वै प्राश्निकाः स्मृताः ।। ६७ ।।

Abh

पशोः सिंहादेर्वेषं कृत्वा सुकुमारं प्रयोक्तारं भीषयति सामाजिकं वा । एवं मात्सर्यादुन्मत्तलिङ्गमपि कश्चित्करोति हासानयनेन प्रकृतप्रयोगविप्रसंवादनायेति (विसंवादनाय(?)इति) वैलक्षण्ये लक्षणविस्मरणमन्यभूमिकोचितसत्त्वस्वीकारोऽपि विभूमिकस्तूष्णीकता । अन्येन पठनीयमन्यः पठतीत्यन्यवतनं काव्यमिति बहुव्रीहिः (२६)। आर्तनाद (२६)। इति । इतःप्रभृति परद्वेषप्रयुक्ताः सिद्धिविघाताः ।आर्तत्वं हि छद्मना प्रदर्श्य नादं सिद्धिविघातकं करोति । एवं व्याधिदर्शनेन मकुटाभारण– निपात (२७) इति नेपथ्यभ्रंशः

Notes

1 N. हास्यशोकभयादिषु

1एभिर्दृष्टान्तसंयुक्तैर्दोषा वाच्यास्तथा गुणाः ।
अशास्त्रज्ञा विवादेषु यथा प्रकृतिकर्मतः ।। ६८ ।।

अथैते प्राश्निका ज्ञेयाः कथिता ये मयानघाः ।
शास्त्रज्ञानाद्यदा तु स्यात्संघर्षः शास्त्रसंश्रयः ।। ६९ ।।

शास्त्रप्रमाणनिर्माणैर्व्यवहारो भवेत्तदा ।
भर्तृनियोगादन्योऽन्यविग्रहात्स्पर्धयापि भरतानाम् ।। ७० ।।

अर्थपताकाहेतोसंघर्षो नाम संभवति ।
2तेषां कार्यं व्यवहारदर्शनं पक्षपातविरहेण ।। ७१ ।।

3कृत्वा पणं पताकां व्यवहारः स भवितव्यस्तु ।
4सर्वैरनन्यमतिभिः सुखोपविष्टैश्च शुद्धभावैश्च ।। ७२ ।।

5यैर्लेखकगम (ण) कसहाया(यैः?) सह सिद्धिभिर्घाताः ।
नात्यासन्नैर्न दूरसंस्थितैः प्रेक्षकैस्तु भवितव्यम् ।। ७३ ।।

तेषामासनयोगो द्वादशहस्तस्थितः6 कार्यः ।
7यानि विहितानि पूर्वं सिद्धिस्थानानि तानि8 लक्ष्याणि ।। ७४ ।।

Abh

। अन्यः पुष्करावाहितदोषा इत्यनेनेदमाह न केवलमभिनयानामेव समानीकरणं सामान्याभिनयानां यावदातोद्यगीतयोरप्यन्योन्यमभिनयैश्च समं मीलनं सोऽपि सामान्याभिनयः । अन्यदिति । गीतादि । तच्चाभिनयाश्चेति द्वन्द्वः । समशब्देन कर्मधारयः तत्र भवः प्रयोग इति ।

Notes

1N. एभिर्धर्ममभिप्रेक्ष्य 2N. तथा काव्य (कार्य)व्यवहारदर्शनं पक्षपातमुत्सृज्य 3N. कृत्वा पणं पताकां व्यवहारोऽसौ समयितव्यः (सभवितव्य ?) 4a N. नवरात्रभावमतिभिः सुखोपविष्टैर्विशुद्धभावैश्च । 5 N. लेखकगणक– सहायैः लेख्या सह सिद्धिभिर्घाता । 6 N स्थितो ज्ञेयः 7 N यान्युक्तानि हि पूर्वं 8 N does not read तानि

घाताश्च लक्षणीयाः 1प्रयोगतो नाट्ययोगे तु ।
दैवाद्धातसमुत्थाः परोत्थिता वा बुधैर्न वै लेख्याः ।। ७५ ।।

घाता नाट्यसमुत्था ह्यात्मसमुत्थास्तु लेख्याः स्युः ।
घाता यस्य त्वल्पाः संख्याताः सिद्धयश्च बहुलाः स्युः ।। ७६ ।।

विदितं कृत्वा राज्ञस्तस्मै देया पताका हि ।
सिद्ध्यतिशयात्पताका समसिद्धौ पार्थिवाज्ञया देया ।। ७७ ।।

अथ नरपतिः समः 2स्यादुभयोरपि सा तदा देया ।
3एवं विधिज्ञैर्यष्टव्यो व्यवहारः समञ्जसाम् ।। ७८ ।।

4स्वस्थचित्तसुखासीनैः सुविशिष्टैर्गुणार्थिभिः ।
विमृश्य प्रेक्षकैर्ग्राह्यं सर्वरागपराङ्मुखैः ।।

साधनं दूषणाभासः प्रयोगसमयाश्रितैः ।
समत्वमङ्गमाधुर्यं पाठ्यं प्रकृतयो रसाः ।।८०।।

Abh

नन्वञ्जितादिभिः को दोषो जायते इत्याह । भावस्य प्रयोगस्यानुभावादिरूपस्य दूषणानि तेषु सत्सु तदववस्थावचनात् तत्र सर्वात्मने रसादिदोषाः । प्रथमेऽध्यायेऽत्राह –

त्रासं सञ्जनयन्ति स्म शेषा विघ्नास्तु नृत्यताम् । (ना. शा. १.७६)

इति तत्र स एव सिद्धिविघाते प्रधानत्मत्वेनोक्तः । विस्वरमजातताल (२९)मित्येव स्पष्टीकृतं वर्ण(२९)इत्यादिना । एतत्स्वरूपं च वितत्य गेयाधिकारे निरूपयिष्याम इतीह नोक्तम् । एवंविधं स्वरगतं कर्तृहन्याद्विहन्ति प्रयोगं नाशयन्तीत्यर्थः । एवं पुष्करगतं कर्तृनियोन्यं ( ?नियोज्यं) विधिप्रयोगं

Notes

1N. यथोत्थिता नाट्यवादे तु । 2N. स्यादुभावपि हि लङ्घनीयौ तौ । 3 N. एवं हि प्राश्निकैः कार्यं व्यवहाराभिदर्शनम् 4 N. सुखोपविष्टैः स्वच्छन्दैश्च साधनं दोष एव वा ।

वाद्यं गानं सनेपथ्यमेतज्ज्ञेयं प्रयत्नतः1 ।
2गीतवादित्रतालेन3 कलान्तरकलासु च ।। ८१ ।।

4यदङ्गं क्रियते नाट्यं समन्तात् सममुच्यते ।
अङ्गोपाङ्गसमायुक्तं5 गीतताललयान्वितम् ।। ८२ ।।

6गानवाद्यसमत्वं 6aच तद्बुधैः7 सममुच्यते ।
8सनिर्भुग्नमुरः कृत्वा8a चतुरश्रकृतौ करौ ।। ८३ ।।

ग्रीवाञ्चिता 9तथा कार्या त्वङ्गमाधुर्यमेव9a च ।
पूर्वोक्तानीह शेषाणि 10यानि द्रव्याणि साधकैः ।। ८४ ।।

11वाद्यादीनां पुनर्विप्रा लक्षणं सन्निबोधत ।
वाद्यप्रभृतयो गानं वाद्य(लक्ष्य ?)माणानि निर्दिशेत् ।। ८५ ।।

Abh

हन्तीत्यकाव्यकृतधातस्य स्थानानि निमित्तानीत्यर्थः । काव्यजातामिति सप्तमी । प्रकृतिव्यसनेति। प्रकृतकृतमनौ चित्यमिति यावत् । तदुक्तम् -

अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । (ध्वन्यालोक ३.१४वृत्तौ) इति ।

शेषोदकनालिकया (३४)काल उपलक्ष्यते । तस्य शेषत्वमन्यकालव्याप्तियोग्यता तेन यत्र काले यदनुचितं तत्र तन्निबन्धनम् । यथा प्रभाते सङ्गीतकदर्शनादि राज्ञः। चकारादेशादौचित्यमपि । तेन देशकालस्वभावकृतं

Notes

यानि स्थानानि सिद्धीनां तैः सिद्धिं तु प्रकाशयेत् ।
हर्षादङ्ग1 समुद्भूतां नानारससमुत्थिताम् ।। ८६ ।।

वारकालास्तु विज्ञेया नाट्यज्ञैर्विविधाश्रयाः ।
दिवसश्चैव रात्रिश्च तयोर्वारान् निबोधत2 ।। ८७ ।।

पूर्वाह्णस्त्वथ मध्याह्न स्त्वपराह्णस्तथैव च ।
दिवा समुत्था विज्ञेया 3नाट्यवाराः प्रयोगतः ।। ८८ ।।

प्रादोषिकार्धरात्रिश्च तथा प्राभातिकोऽपरः4 ।
नाट्यवारा भवन्त्येते रात्रावित्यनुपूर्वशः ।। ८९ ।।

एतेषां यत्र यद्योज्यं नाट्यकार्यं रसाश्रयम् ।
तदहं संप्रवक्ष्यामि वारकालसमाश्रयम् ।। ९० ।।

Abh

यदनौचित्यं कार्ये तत्सर्वमेव सिद्धिविघातकमिति । उत्तमव्यतिक्रियामीति । स्थानविशेषै(३८)रिति । स्थानविशेषैरिति निमित्तैरित्यर्थः । *यूपाग्निचयन(३८) इति । तच्छिह्नात् नटो दुर्लभश्च तत्र यथात्वं सर्वजनेन सुज्ञातं न च लोकवृत्तोपयोगिनीति भावः । सर्वगत(४०)इति । सर्वत्र प्रयोग एकदेशज इत्यंशे बहुदिनजा……..वरुद्धत्यसौ सिद्धिविघातकः । अव्यक्त(४०) इति । प्रयोगान्तेऽस्य प्रयोगान्तरेण संबन्धो रङ्गे कार्य इत्यर्थः । एकदिवसजात (४०) इति । एकप्रयोगो लक्षणं प्रत्यपर इत्यन्वेति । जर्जरमोक्षस्यान्त(४०)इति पूर्वरङ्गप्रयोगोऽपि परीक्ष्य इति दर्शयति । नाट्यविधौ यथावदुक्तं ज्ञातुं प्रयोगस्य

Notes
  • यूपाग्निपावन (अ.भा.)

यच्छ्रोत्ररमणीयं स्याद्धर्मोत्थान1 कृतं च यत् ।
पूर्वाह्णे तत्प्रयोक्तव्यं शुद्धं वा विकृतं तथा ।। ९१ ।।

सत्त्वोत्थानगुणैर्युक्तं वाद्यभूयिष्ठमेव च ।
पुष्कलं 2सत्त्वयुक्तं च अपराह्णे प्रयोजयेत् ।। ९२ ।।

कैशिकीवृत्तिसंयुक्तं शृङ्गाररससंश्रयम्3 ।
नृत्तवादित्रगीताढ्यं प्रदोषे नाट्यमिष्यते ।। ९३ ।।

यन्नर्महास्यबहुलं4 करुणप्रायमेव च ।।
प्रभातकाले तत्कार्यं नाट्यं निद्राविनाशनम् ।। ९४ ।।

अर्धरात्रे नियुञ्जीत 5समध्याह्ने तथैव च ।
सन्ध्याभोजनकाले च नाट्यं नैव प्रयोजयेत् ।। ९५ ।।

Abh

चोपपादनं कर्तुमशक्तोऽपि व्यग्रमनस्कत्वात् देशवेषाद्यनौचित्येन यो यं प्रयोगं कुर्यात्तस्य सर्वस्य घाताः । नन्वज्ञस्यैवेत्यार्याद्वयस्य योजना दोषप्रत्यर्थं न ग्राह्या (४७)इत्युक्ते प्रयोक्तुरवलेपोऽवतरेदित्याशयेनाह न च नाद (२/४८)स्त्विति । तज्ज्ञैरित्युक्तम् । तान् वशीकर्तुमाह अतः ऊर्ध्वं प्रवक्ष्यामि प्राश्निकानां (४९) त्विति । प्रश्ने भवा मध्यस्थत्वेनाभिनयचतुष्कगीतातोद्ये चेति । षडङ्ग(५१)त्वान्नाटयं सन्तोष इत्यादिना विमलाशयत्वेन सहृदयत्वमेषां परमो गुण इति दर्शयिति कार्य(५६)मिति । तेन सह विचार्यमित्यर्थः । शीलमेव दर्शयति । तुष्यन्ति तरुणाः काम(५८) इत्यादिना । (योऽस्मिन्)प्रविशे (६२)न्नरः साधारणीभावमेवं सूचयति तत्समीपे भवेदिति यावत् । एवं वस्तुमात्रविचारे विधिरुक्तः । प्रयोक्तॄतिणां परस्परकलहहेतुविधिर्वक्तव्यः । स च कदाचिल्लक्ष्यमात्रविषयो भवति । कदाचिल्लक्षणविषयोऽपि पूर्वमधिकृत्याह ।

Notes

1aएवं कालं च देशं च 1समीक्ष्य च बलाबलम् ।
2नित्यं नाट्यं प्रयुञ्जीत यथाभावं यथारसम् ।। ९६ ।।

3अथवा देशकालौ च न परीक्ष्यौ प्रयोक्तृभिः ।
यथैवाज्ञापयेद्भर्ता तदा योग्यमसंशयम् ।। ९७ ।।

तथा समुदिताश्चैव विज्ञेया नाटकाश्रिताः ।
पात्रं 3aप्रयोगमृद्धिश्च विज्ञेयास्तु त्रयो गुणाः ।। ९८ ।।

बुद्धिमत्त्वं सुरूपत्वं लयतालज्ञता तथा ।
रसभावज्ञता चैव वयःस्थत्वं कुतूहलम् ।। ९९ ।।

ग्रहणं धारणं चैव गात्रावैकल्यमेव च ।
4जितसाध्वसतोत्साह इति पात्रगतो विधिः ।। १०० ।।

सुवाद्यता सुगानत्वं सुपाठ्यत्वं तथैव च ।
शास्त्रकर्मसमायोगः प्रयोग इति संज्ञितः ।। १०१ ।।

Abh

संघर्षे(६४)त्वितिउपचार इति । राजोचित इति भावः । द्वितीयमधिकृत्याह शास्त्रज्ञाना (६९) त्त्विति । भर्तृनियोगा(७०) दिति । लेखको लिखति गणकः पिण्डयति । द्वयोरपि यथैकस्य न घातः तेनायमस्याधिकारसिद्धिः । स चेत्याह सिद्ध्यतिशयात्पताका(७७) । यदि तु न कुत्रचिदतिशयः । तदा कथमित्याहा इति शब्दोऽध्याहार्यः । तत्तद्रसप्रधानं नाट्यं तत्र तत्र कालेषु रसः संभवतीत्यभिप्रायेणाह देशकाला(९७)विति । नेपथ्ये पाठः यत्कर्तुं जानाति तेन योग इति पात्रसंपाद्येऽन्तर्भावोऽस्य । पात्रं हि रसप्रविष्टमेव । यदा समुदिता

Notes

1a.N:. एवं देशं च कालं च पर्षरं च सकृत् सकृत् ।

शुचिभूषणतायां तु 1माल्याभरणवाससाम् ।
विचित्ररचना चैव समृद्धिरिति संज्ञिता ।। १०२ ।।

यदा समुदिताः सर्व एकीभूता भवन्ति हि ।
अलङ्काराः सकुतपा मन्तव्या नाटकाश्रयाः ।। १०३ ।।

एतदुक्तं द्विजश्रेष्ठाः सिद्धीनां लक्षणं मया ।
अत ऊर्ध्वं प्रवक्ष्याम्यातोद्यानां1aच विकल्पनम् ।। १०४ ।।

2aइति भारतीये नाट्यशास्त्रे सिद्धिव्यञ्जको नाम
2सप्तविंशोऽध्यायः

Abh

इति सामान्याभिनयत्वमाह । अध्यायपञ्चकेन हि तदेवोक्तम् । नाट्योत्पत्तिरिव पूर्वरङ्गान्तेनेत्युक्तम् । वक्ष्यति च अलङ्कार इति शोभापूर्णतायाश्चतुरित्यर्थः ।

वक्तव्यशेषं सूचयति अत ऊर्ध्व(१०४) मित्यादि । शिवम् ।।

नृसिंहगुप्तापरनामधेय-
विद्यावदातः सुखलाभिधानः ।
यं देहविद्याभिरयूयुजत्सः
प्रयोगसिद्धिं कृतवान् महार्थाम् ।।

इति श्रीकाश्मीरमहामाहेश्वराचार्याभिनवगुप्ताचार्यविरचितायां
अभिनवभारत्यां नाट्यवेदवृत्तौ सिद्ध्यध्यायः सप्तविंशः ।।