२६ प्रकृतिविकल्पाध्यायः

श्रीः

नाट्यशास्त्रम्

षड्विंशोऽध्यायः

(प्रकृतिविकल्पः)

अनुरूपा विरूपा च तथा रूपानुरूपिणी ।
त्रिप्रकारेह पात्राणां प्रकृतिश्च विभाविता ॥ १ ॥

नानावस्थाक्रियोपेता भूमिका प्रकृतिस्तथा ।
भृशमुद्योतयेन्नाट्यं स्वभावकरणाश्रयम् ॥ २ ॥

Abh

॥अभिनवभारती–षड्विंशोऽध्यायः ॥

यस्मिन् सति प्रकृतिभूमिविकल्प एष
स्त्रेधास्य याति हृदयादरणीयभावः ।
रागः स यस्य महिमा महनीयधाम्नि
भूयात्स नित्यमपि तत्र च रागवन्तः ॥

समानीकरणलक्षणः सामान्येऽभिनयः प्रस्तुतः । तत्र यथाभिनयानामन्योन्यं समानीकरणमुपदेश्य तथाभिनेतुरभिनेयस्त च । एवं सोऽभिनेयद्वारेणाभिनयोऽभिनेत्रा समानीकृतो भवति । तदेतदिति । अभिनेत्रभिनेययोः समानीकरणं सामान्याभिनयरूपमनेन प्रकृत्यध्यायोऽभिधीयते । तदर्थसूचनायैव सङ्गतिप्रदर्शनाभिप्रायो वृत्ताध्यायपरिसमाप्तौ यः प्रयुङ्क्त इति प्रयोक्तेति प्रयोगज्ञेति च निरूपितम् । स एव हि प्रयोगं जानाति यः प्रयोज्यप्रयोजकस्वरूपवित् । तत्र कृतिः प्रयोज्यानुकरणीयो अनुकीर्तनीय इति

बहुबाहूबहुमुखास्तथा च विकृताननाः ।
पशुश्वापदवक्त्राश्च खरोष्ट्राश्व गजाननाः ॥ ३ ॥

एते चान्ये च बहवो नानारूपा भवन्ति ये ।
आचार्येण तु ते कार्या मृत्काष्ठजतुचर्मभिः ॥ ४ ॥

स्वाभाविकेन रूपेण प्रविशेद्रङ्गमण्डलम् ।
आत्मरूपमवच्छाद्य वर्णंकैर्भूषणैरपि ॥ ५ ॥

यादृशं यस्य यद्रूपं प्रकृत्या तत्र तादृशम् ।
वयोवेषानुरूपेण प्रयोज्यं नाट्यकर्मणि ॥ ६ ॥

यथा जीवत्स्वाभावं हि परित्यज्यान्यदेहिकम् ।
परभावं प्रकुरुते परभावं समाश्रिताः ॥ ७ ॥

एवं बुधः परं भावं सोऽस्मीति मनसा स्मरन् ।
येषां वागङ्गलीलाभिश्चेष्टाभिस्तु समाचरेत् ॥ ८ ॥

Abh

पर्यायाः । तत्र प्रयोक्ता प्रयोज्यसदृशो वा भवति विसदृशो वा उभयत्मको वा । तत्र सदृशोऽनुरूपः उभयात्मरूपारूपः स्वलक्षणं तेना तदेतौ तवैव (?) सादृश्यं लक्षितम् । आनुरूप्यं सादृश्यात् । तदुभययोगाद्रूपानुरूपा यद्यपि कथंचित् सर्वत्रैव त्रैविध्यं संभवति । तथाप्युद्रिक्ता सकललोकसंवादिनी अस्मादृशबुद्धिर्यथा पुरुषस्य प्रयोक्तुः पुरुषेण प्रयोज्येन योषिता योषिता तत्र सदृशव्यवहारः । स्त्रिया पुरुषस्य तु वैसादृश्यम् । सा सिंहवदनदशवदनादिर्यस्तु प्रयोज्यैरन्यसादृश्यमेव । तदपि प्रकृतित्रैविध्यं दर्शयितुमाह अनुरूपेत्यादि । पात्राणामिति । धीयते रसो यत इत्यनेन नटबुद्धितिरोधानं सूचयन्नटबुद्धे –

सुकुमारप्रयोगो यो राज्ञामामोदसंभवः ।
शृङ्गाररसमासाद्य तन्नारीषु प्रयोजयेत् ॥ ९ ॥

युद्धोद्धताविद्धकृता संरम्भाभटाश्च ये ।
न ते स्त्रीभिः प्रयोक्तव्याः योक्तव्याः पुरुषेषु ते ॥ १० ॥

अनुद्भटमसंभ्रान्तमनाविद्धाङ्गचेष्टितम् ।
लयतालकलापातप्रमाणनियताक्षरम् ॥ ११ ॥

सुविभक्तपदालापमनिष्टुरमकाहलम् ।
ईदृशं यद्भोवेनाट्यं नारीभिश्च प्रयोजयेत् ॥ १२ ॥

एवं कार्यं प्रयोगज्ञैर्भूमिकाविनिवेशनम् ।
स्त्रियो हि स्त्रीगतो भावः पौरुषः पुरुषस्य च ॥ १३ ॥

यथावयो यथावस्थमनुरूपेति सा स्मृता ।
पुरुषः स्त्रीकृतं भावं रूपात् प्रकुरुते तु यः ॥ १४ ॥

Abh

रप्यपायतामाह । प्रकर्षेण क्रियते साक्षात्कारकल्पनानुव्यवसायगोचरत्वमीयत इति प्रकृतिः । सेयं त्रिप्रकारप्रकृतिप्रविभागेन भाविना सती नाट्यं भृशं द्योतयेदिति ज्ञानस्य प्रयोजनमुक्तम् । कुतः सामान्यं द्योतयेदिति विशेषणद्वारेण हेतुमाह स्वभावेति । प्रयोज्यस्वभावो हि नाट्यकर्तव्याः । तत्र सुकुमारस्वभावे पुंसि प्रयोज्ये लालित्यसौकुमार्ये स्त्रीजनस्यायत्नसिद्धे इति स एव तत्र योक्तः युक्तो रूपानुरूपाणि वा सा तस्य प्रकृतिः, उद्धते तु प्रयोज्ये पुमानेव प्रयोक्ता युक्तः सानुरूपा प्रकृतिरूपायां तु प्रकृतौ कथंचित् यत्नेन संपाद्यमनुकीर्तनमिति तत्र सावधानेन प्रतियोक्त्रा भाव्यम् ।

रूपानुरूपा सा ज्ञेया प्रयोगे प्रकृतिर्बुधः ।
छन्दतः पौरुषीं भूमिं स्त्री कुर्यादनुरूपतः ॥ १५ ॥

न परस्परचेष्टासु कार्यौ स्थविरबालिशौ ।
पाठ्यप्रयोगे पुरुषाः प्रयोक्तव्या हि संस्कृते ॥ १६ ॥

स्त्रीणां स्वभावमधुराः कण्ठाः पुंसां तु बलवन्तः ।
यद्यपि पुरुषो विद्यात् गीतविधानं च लक्षणोपेतम् ॥ १७ ॥

माधुर्यगुणाविहीनं शोभां जनयेन्न तद्गीतम् ।
यत्र स्त्रीणां पाठ्याद्गुणैर्नराणां च कण्ठमाधुर्यम् ॥ १८ ॥*

प्रकृतिविपर्ययजनितौ विज्ञेयौ तावलंकारौ ।
प्रायेण देवपार्थिवसेनापतिमुख्यपुरुषभवनेषु ॥ १९ ॥

Abh

नन्वनुरूपैव प्रकृतिर्युक्तेत्याशङ्क्याह नानेति (२श्लो)। नानाप्रकाराभिरवस्थाभिः विलासलालित्यौद्धत्यादिभिर्धर्म्यैः क्रियाभिश्च सुकुमारोद्धतात्मिकाभिरुद्यानगमनयुद्धसन्नाहनादिभिरुपेता तस्मान्नानारूपैव प्रकृतिर्युक्ता । तस्याः प्रकृतेः पर्यायेण स्वरूपं स्पष्टयति भूमिकेति । भूमिखष्टम्भस्थानं । यथा च ध्यानपटगते दशभुजपञ्चवक्त्रादिरूप एव भगवति सदाशिवे धिषणानिवेशः क्रियते न तु तत्र तद्देशत्वतत्कालत्वे आदर्तव्यम् । नापि तत्सिन्दूर– हरितालादिकृतं तद्द्रव्यं केवलमवष्टम्भस्थानम् । तदेवं रामादयोऽवष्टंभस्थानमात्रम् । एतच्च1रसाध्यायादौ वितत्य निरूपितम् । तेन भूमिरिव भूमिका । इवार्थे अण् । अरूपायाः प्रकृतेरसंभाव्यत्वात् । तत्संपाद्यत्वाच्च पूर्वं स्वरूपमाह बहुबाहु इत्यादि । विकृताननाः2 तेष्वप्रावरणादयः 3पशुवक्त्रा यथा

Notes

1 एतञ्च– Kavi

स्त्रीजनकृताः प्रयोगा भवन्ति पुरुषस्वभावेन ।
रम्भोर्वशीप्रभृतिषु स्वर्गे नाट्यं प्रतिष्ठितम् ॥ २० ॥

तथैव मानुषे लोके राज्ञामन्तः पुरेष्विह ।
उपदेष्टव्यमाचार्यैः प्रयत्नेनाङ्गनाजने ॥ २१ ॥

न स्वयं भूमिकान्यासो बुधैः कार्यस्तु नाटके ।
स्त्रीषु योज्यः प्रयत्नेन प्रयोगः पुरुषाश्रयः ॥ २२ ॥

यस्मात्स्वभावोपगतो विलासः स्त्रीषु विद्यते ।
तस्मात्स्वभावमधुरमङ्ग सुलभसौष्ठवम् ॥ २३ ॥

ललितं सौष्ठवं यच्च सोऽलंकरः परो मतः ।
प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः ॥ २४ ॥

Abh

गोमुखाः अश्वमुखाः सिंहवक्त्राः श्वापदवक्त्राः यथा सिंहवक्राः खराष्ट्रेत्यादिना सर्ववपुषा1तत्तुद्रूपान् कार्या इति। आवश्यकेनेति शेषः । अत्र हेतुमाह स्वाभाविकेनेति । अनुकीर्तनीयस्य यः स्वभावः तदुचितेन रूपेणेति यावत्। आत्मरूपमिति । नटरूपमिशब्दात् । मृत्काष्टादिनिर्मितबाहुवक्त्रादिरपि । अवष्टम्भयोगस्य प्राधान्यं दर्शयितुमेकविंशत्यध्यायोक्तं हेतु स्मारयति यथा जीव (जीवत् स्वभाव) (श्लो. ७) मिति । परं भावं रामादिकं वेषादिभिः समाचरेदिति संबन्धः । सोऽस्मीत्यनेन स्वात्मावष्टंभस्यात्याज्यतामाह । अन्यथा लयाद्यनुसरणमशक्यम्। अथ “रूपानुरूपिणी प्रकृतिः क्व” इ त्याशंक्याह सुकुमारप्रयोग इति राज्ञामित्युपलक्षणम् आमोदो विभावपरिपूर्णता । तन्नारीष्विति । प्रयोक्त्रीषु प्रयोज्यतयात्र शङ्क्या विषयत्वेन विवक्षितः । प्रयोजयेदिति । नाट्याचार्यः ।

Notes

1 तद्द्रूपान् कार्य Kavi

सुकुमारस्तथाविद्धो नानाभावरसाश्रयः ।
नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च ॥ २५ ॥

ज्ञेयानि सुकुमाराणि मानुषैराश्रितानि तु ।
सुकुमारप्रयोगोऽयं राज्ञामामोदकारकः ॥ २६ ॥

शृङ्गाररसमासाद्य स्त्रीणां तत्तु प्रयोजयेत् ।
युद्धोद्धताविद्धकृता संरम्भाभटाश्च ये ॥ २७ ॥

न ते स्त्रीणां प्रकर्तव्याः कर्तव्याः पुरुषैर्हि ते ।
यथाविद्धाङ्गहारं तु भेद्य (छेद्य? ) भेद्याहवात्मकम् ॥ २८ ॥

Abh

नन्वेवमनुरूपा पुरुषविषये प्रकृतिः किं नास्तीत्याशड्याह युद्धोद्धता विद्धकृता (श्लो १०) विति। प्रयोगा इति शेषः । युद्धोद्धतैराविद्धैश्च कृताः व्याप्ताः अत एव संरम्भप्रधाना आरभटादयः । स्त्रीपुरुषभूमिकेत्यस्यार्थस्य व्यापकत्वमाह अनुद्भट (श्लो १९) मिति । अनुरूपां प्रकृतिं लक्षयितुमाह स्त्रिया हीति । प्रयोकत्र्यानूरूपानुरूपां लक्षयति पुरुषस्त्रीगतमिति । यत्र पुरुषत्वमालम्ब्य स्त्री वर्तते यथा सांकृत्यायिनी। न तु सर्वत्रेत्यर्थः । स्त्रीपुरुषं प्रयुक्तमित्यतेत् सर्वत्र युक्तमिति दर्शयति छन्दत इति । स्थविरबालिशाविति । संबन्धिशब्दाः संबन्ध्यन्तरमाक्षिपन्तीति स्थविरोः युवभूमिकायां युवा च वृद्धभूमिकायां न योज्यः । बालिशोऽत्र विरूपः स विरूपभूमावायोज्यः ।एतच्चोपलक्षणम् । यत्र यत्प्रयोजनो न श्लिष्यति न स तत्र योज्य इत्यर्थः। पाठ्यप्रयोग इति । संस्कृतपाठ्यप्रधाने सुकुमारप्राकृतपाठ्यप्रधाने । गीत इति गीतप्रधाने प्रयोग इत्यर्थः । अत्र हेतुमाह प्रायः प्रकृतिरिति । बलवन्त ( श्लो १७) इति । रङ्गपूरणोचितगम्भीरस्वरा । ननु पुमांसोऽपि भावयन्त्येव तत्कथमुक्तं स्त्रीणां गेयं प्रकृतिरित्याशङ्क्या यद्यपि पुरुष (श्लो १७) इति ।

मायेन्द्रजालबहुलं पुस्तनैपथ्यदीपितम् ।
पुरुषप्रायसंचारमल्पस्त्रीकमथोद्धतम् ॥ २९ ॥

सात्त्वत्यारभटीयुक्तं नाट्यमाविद्धसंज्ञितम् ।
डिमः समवकारश्च व्यायोगेहामृगौ तथा ॥ ३० ॥

एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयक्तृभिः ।
एषां प्रयोगः कर्तव्यो देवदानवराक्षसैः ॥ ३१ ॥

उद्धता ये च पुरुषाः शौर्यवीर्यसमन्विताः ।
योग्यः स च प्रयत्नः कर्तव्यः सततमप्रमादेन ॥ ३२ ॥

Abh

ननु विपर्ययोऽपि दृष्ट इत्याशङ्क्या तावलङ्कारा(श्लो. १९)विति । कदाचित्कापीति यावत् । तत्र स्त्रीपुरुषप्रयोगमनुकरोतीत्ययमेव प्रचुरः प्रकार इति दर्शयति । प्रायेण (श्लो. १९) इति । पुरुषस्वभावेन प्रयोज्येनोपलक्षितोऽयं स्त्रीभिः कृताः प्रयोज्याः । अत्रानुवादं दर्शयति रम्भोर्वशीप्रभृतिष्विति । अत्र हेतुमाह उपदेष्टव्यमिति । उपदेष्टुं शक्यमित्यर्थः । स्वयमिति पुरुषैः न्यासोऽत्र प्रयोगः ।

ननु पुमानपि भावबुद्धिमाश्रित्याशङ्क्य हेत्वन्तरमाह यस्मादिति । पुरुषसंबन्धिबलितं च यद्वस्तु तदतीवहृद्यं प्रतिभाति । तदाह सोऽलंकार (श्लो २४) इति । यदुक्तमनुद्भट इत्यादिना युद्धोद्धना इत्यादिना प्रयोगद्वैविध्यं तद्रूपकभेदेन विभजंस्तद्रूपके सप्रयोग उचित इति दर्शयति नाटकमित्यादिना । शौर्यवीर्यसमन्विता इत्यनेन श्लोकसप्तकेन प्रायः प्रकृतिः स्त्रीणां गेयं नृणां तु पाठ्यविधिरित्युक्तम् । तत्रायत्नसिद्धेऽर्थे को नाट्याचार्यप्रवर्तितस्य गुणनिकाभ्यासव्यापार इत्याशङ्क्याह संगीतपरिक्लेश इति । मधुरत्वं स्वभाविक

न हि योग्यया विना भवति च भावरससौष्ठवं किंचित् ।
संगीतपरिक्लेशो नित्यं प्रमदाजनस्य गुण एव ॥ ३३ ॥

यन्मधुरकर्कशत्वं लभते नाट्यप्रयोगेण ।
प्रमदाः नाट्यविलासैर्लभते यत् कुसुमैर्विचित्रलावण्यम् ।
कामोपचारकुशला भवति च काम्या विशेषेण ॥ ३४ ॥

गीतं नृत्तं तथा वाद्यं प्रस्तारगमनक्रिया ।
शिष्यनिष्पादनं चैव षडाचार्यगुणाः स्मृताः ।। ३५ ।।

Abh

कर्कशत्वं सविघ्नत्वं कलाभ्यासकृतः । अथ नाट्याभ्यासप्रोत्साहनार्थमाह प्रमदा नाट्यविलासैरिति ।

न स्वयं भूमिकान्यासो बुधैः कार्यस्तु नाटके इत्युक्तम् । तत्र नाट्याचार्यः किं बुद्ध्यते येन बुधा इति संशये स इत्याह गीतं नृत्तमित्यादि । स्वरज्ञोंऽग्रहारक्रियापि चतुर्विधातोद्यकुशलस्तालज्ञः लोकोपकारविच्चेत्यर्थः। प्रस्तारोऽत्र तालः । गमने क्रियाङ्कस्य कीदृशी गतिरित्यनेनोपचारकौशलं तद्वक्ष्यते । एतैर्विना नाट्याचार्यनामापि न लभत इत्यर्थः । ऊहादायस्तत्पृष्ठे भवन्तस्तदुत्कृष्टं कुर्वन्तीति ते गुणा इति विभागेनोक्ता । ऊहोऽनुक्तस्य कल्पनमपोहा अनुक्तस्य अनुसरणमिति पूर्वोन्मेषरूपा प्रतिभा स्मृतिरुपदिष्टस्याविस्फुरणं मेघाः उपदिष्टस्य झटिति ग्रहणं शिष्यनिष्पादनं शिष्याशयौचित्यान्नोपदेश्यत्वं गुणप्रख्यानोद्यमः प्रगल्भते इत्यर्थः । राग इति । प्रयोजनानभिसन्धिना तत्र कलायाश्चासंघर्षाभ्यधिकं प्रतिपत्तिः

एतानि पञ्च यो वेत्ति स आचार्यः प्रकीर्तितः ।
ऊहापोहौ मतिश्चैव स्मृतिर्मेधा तथैव च ।। ३६ ।।

मेधा स्मृतिर्गुणश्लाघा रागः संघर्ष एव च ।
उत्साहश्च षडेवैतान् शिष्यस्यापि गुणान् विदुः ।। ३७ ।।

एवं कार्यं प्रयोगज्ञैर्नानाभूमिविकल्पनम् ।
अत ऊर्ध्वं प्रवक्ष्यामि सिद्धीनामपि लक्षणम् ।। ३८ ।।

इति भारतीये नाट्यशास्त्रे प्रकृतिविकल्पो
नाम षड्विंशोऽध्यायः ।।

Abh

स्पर्धा । एतदुपसंहरन्नध्यायान्तरमासूत्रयति एवमिति । अत ऊर्ध्वमिति चेति । सिद्धेर्द्वैविध्येऽप्यवान्तरभेदेन बहुत्वमिति सिद्धीनामित्युक्तमिति शिवम् ।।

प्रकृतिविकल्पाध्याये विषमपदालोचनं समारचितम् ।
अभिनवगुप्तेन मया विषमविलोचनपदाब्जभृङ्गेण ।।

इति श्रीमहामाहेश्वराचार्याभिनवगुप्तेन विरचितायां भारतीयनाट्य–
वेदवृत्तावभिनवभारत्यां प्रकृतिविकल्पाध्यायः षड्विंशः।।