श्रीः
नाट्यशास्त्रम्
पञ्चविंशोऽध्यायः
(चित्राभिनयः)
अङ्गाद्यभिनयस्यैव यो विशेषः क्वचित् क्वचित् ।
1अनुक्त उच्यते चित्रः2 स चित्राभिनयस्स्मृतः ।। १ ।।
Abh
अथ पञ्चविंशोऽध्यायः
वागङ्गसत्त्वचेष्टाचित्राभिनयप्रयोगरचनचणः ।
संसारनाट्यनायकपुरुषाकारः शिवो जयति ।।
सामान्याभिनयस्य चित्राभिनयः शेष इत्युक्तम् । केवलसामान्याध्याये रसात्मकप्रधानं पदार्थविशेषमभिनयानां समानीकरणम् । इह तु तदुपयोगी विभावादिविषम् । किञ्चैक एवाभिनयः पूर्वं यो निरूपितः स एव कार्यान्तरालाभे तद्विरुद्धमर्थमभिनयतीति चित्र उच्यते । तद्वैग्ध्यमध्याये निरूप्यत इति सङ्गतिः । तदेतदाह अङ्गाद्यभिनयस्यैवेति । अङ्गमिति करणाङ्गहारास्तेषामभिनयत्वं नोक्तम् । तर्हि वक्ष्यते–
शिखिसारसहंसाद्या स्थला ये च स्वभावतः ।
रेचकैरङ्गहारैश्च तेषामभिनयो……..(भवेत्) ।।(ना.शा. २५. ६८, ६९ इत्यादि । )
आदिग्रहणे विभावादि विभावोऽपि विभावस्याभिनय इति वक्ष्यते । अभिनीयतेऽनेनेत्यभिनयः । तस्य च विशेषः उत्तमोत्तमेत्यादिना वक्ष्यते । अभिनीयत इति चाभिनयः । यो ह्यन्येनाभिनय उक्तः स इहाभिनयान्तरस्याप्यभिनयत्वेनोक्तो यथा “अलपद्मकपीडाभिः सर्वार्थग्रहण” (२५.१३ द्वितीयार्ध) मिति। अङ्गाभिनयस्येति समाहारे वृत्तिस्तस्य विशेषो य उच्यत इति संबन्धः । क्वचिदिति । न सर्वत्र ।
Notes
1.भ–अव्यक्त 2.ज –यस्मात्त
उत्तानौ तु करौ कृत्वा स्वस्तिकौ पार्श्वसंस्थितौ1।
उद्वाहितेन शिरसा तथा चोर्ध्व2निरीक्षणात् ।। २ ।।
प्रभातं गगनं रात्रिः प्रदोषं दिवसं तथा ।
ऋतून् घनान् वनान्तांश्च विस्तीर्णांश्च जलाशयान् ।। ३ ।।
2aदिशो ग्रहान् सनक्षत्रान् किञ्चित् स्वस्थं च यद्भवेत्3।
4तस्य त्वभिनयः कार्यो नानादृष्टिसमन्वितः5।। ४ ।।
6एभिरेव करैर्भूयस्तेनैव शिरसा पुनः ।
अधो निरीक्षणेनाथ भूमिस्थान् संप्रदर्शयेत् ।। ५ ।।
स्पर्शस्य 7ग्रहणेनैव तथोल्लुकसनेन च ।
चन्द्रज्योत्स्नां सुखं वायुं 8रसं गन्धं च निर्दिशेत् ।। ६ ।।
Abh
अत्राभेदतः अस्मात्क्वचिदनुक्तोऽसौ विशेषः क्वचित्तूक्त एव “स्वस्तिकविच्युतिकरणा” (९–२२) दित्यादि। य एवासावधिको विशेषः तदेव चित्रमभिनयम् । यतः संपादयति तत उपचारात् । चित्राभिनयस्तत्र तत्र प्रभातादयः सर्वलोकसाधारणा इति तद्विषयस्याभिनयस्य सहकारियोगेन चित्रत्वं दर्शयितुमाह उत्तानौ तु करौ कृत्वेति । “स्वस्तिकविच्युतिकरणाद्दिशो घनाः खं वनं समुद्राश्च ऋतवो महीतलोच्चं विस्तीर्ण चाभिनेयं स्या” (९.१३६)दित्युक्तम् । संयुक्तहस्ते स्वस्तिके । अत्रोत्तानत्वं पार्श्वस्थता शिरसो उद्वाहनं दृष्टेरूर्ध्वता इत्यादिर्विशेष उच्यते । एवमुत्तरत्र योज्यम् । नानादृष्टीति । कदाचिद्विस्मिता क्वचिच्च विहीनेत्यादिक्रमेण ऊर्ध्वं स्वविरुद्धमधस्स्थं त्वित्थमभिनेयमित्याह अधोनिरीक्षणेनेति । स्वस्थमित्युक्तं गगने च मृगाङ्कादयः पदार्थास्ते कथमभिनेया इत्याह स्पर्शस्य ग्रहणेनैवेति ।
Notes
वस्त्रावकुण्ठनात्सूर्यं रजोधूमानिलांस्तथा1 ।
भूमितापमथोष्णं च कुर्याच्छायाभिलाषतः ।। ७ ।।
ऊर्ध्वाकेकरदृष्टिस्तु मध्याह्ने सूर्यमादिशेत् ।
उदयास्तगतं2 चैव विस्मयार्थैः प्रदर्शयेत् ।। ८ ।।
यानि सौम्यार्थयुक्तानि सुखभावकृतानि च ।
गात्रस्पर्शैस्सरोमाञ्चैस्तेषामभिनयो भवेत् ।। ९ ।।
यानि स्युस्तीक्ष्णरूपाणि तानि चाभिनयेत्सुधीः ।2a
असंस्पर्शैस्तथोद्वेगैस्तथा मुखविकुण्ठनैः ।। १० ।।
गम्भीरोदात्तसंयुक्तानर्थानभिनयेद्बुधः2b ।
3साटोपैश्च सगर्वैश्च गात्रैः सौष्ठवसंयुतैः ।। ११ ।।
Abh
“किञ्चिदाकुञ्चिते नेत्रे कृत्वा भ्रूक्षेपमेव च । तथांसगण्डयोः स्पर्शादिति ।।” २२–८३) उलूकवदंसना यस्योर्ध्वं विधूननम् । रज इति धूलिः । उदयास्तमयोः पूर्वपश्चिमयोः पर्वतयोः गतं सूर्यं स्मयोऽभिनयोऽर्थोऽभिनयत्वेन प्रयोजनं येषामिति विस्मयाभिनयैर्निदर्शयेदिति यावत् । सर्वग्राहकं लक्षणमाह यानि सौम्यार्थयुक्तानीति । सौम्यं येषां प्रयोजनं एतदेव स्फुटयति सुखप्रधानस्य भावस्य कृतं संपत्तिर्येभ्यः सुखप्रधानो भावः सोम इव सौम्यसुखायेत्वाद्यः । विकुण्ठनैः सङ्कोचनैः। गम्भीरोदात्तसंयुक्तानिति भावप्रधानो निर्देशः । तेन यद्विषयं गाम्भीर्यमुदायुक्तत्वं च । आदावत्र शाखाविस्तरः गन्धर्व इत्यात्मनिर्देशादिगम्भी– रोदात्तप्रसंगाद्राजोचितहारा–भिनय…….पवीतदेशस्थमरालमिति । आद्या धनुर्नताकुञ्चितोऽङ्गुष्ठकः शेष
Notes
यज्ञोपवीत1देशस्थमरालं 2हासमादिशेत् ।
3स्वस्तिकौ विच्युतौ हारस्रग्दामार्थान् निदर्शयेत् ।। १२ ।।*
भ्रमणेन प्रदेशिन्या दृष्टेः परिगमेन च ।
4अलपद्मकपीडायाः सर्वार्थग्रहणं भवेत् ।। १३ ।।
5श्रव्यं श्रवणयोगेन दृश्यं दृष्टिविलोकनैः6 ।
आत्मस्थं परसंस्थं वा मध्यस्थं वा विनिर्दिशेत् ।। १४ ।।
विद्युदुल्का घनरवा विस्फुलिङ्गा7र्चिषस्तथा ।
त्रस्ताङ्गाक्षिनिमेषैश्च तेऽभिनेयाः प्रयोक्त्तृभिः ।। १५ ।।
Abh
भिन्नोर्ध्ववलिता ह्यन्तराले भारो देहस्य भूषणमपहारो वक्षसः पुनरपि तमेव गत्या सर्वग्रहणं तथैव लोकस्येति कर्मोक्तं सूचीमुखस्य तादृशः परितो भ्रमणेन गमनविशेषमाह । भ्रमणेन प्रदेशिन्याः दृष्टेः सर्वार्थेऽभिनयेऽभिनयान्तरमप्याह अलपद्मकपीडादिरिति । अलपद्मकशब्देन तदङ्गुल्यः पीडा करतलेन तासां संयोगः, तत्र च बहुत्वं विवक्षितं तेनायमर्थः “आवर्तिन्यः करतल” (९–९१) इति यः अलपल्लव उक्तस्तस्य क्रमेण कनीयः स्यादिति काङ्गुलीति हस्ततलेन संयोजयेदिति । सर्वार्थाभिनयः । एतच्च रूपमलपद्यस्य प्राङ्नोक्तम्। अथ यदा कार्त्स्न्येन सर्वशब्दः प्रवर्तते । तद्यथा सर्वः शब्द इत्यादौ तदा विशेषसहकारिणमाह ‘श्रव्यं श्रवणयोगेन’ (२५. १४) इति “कृत्वा साचीकृत्वा तां दृष्टिं शिरःपार्श्वानत (२२.८२)” मित्याश्रवणयोगः तत्सहितशब्दविषयः सर्वाभिनंयः विद्युदादिविषये येऽभिनया उक्ताः । तद्यथा “सूची विरला्ङ्गुली विद्युति चक्रं च तटिल्लता” (९.६६?) इत्युक्तत्वात् । तेषां विशेषमाह त्रस्तेति । वस्तुत्रासाभिनयोऽङ्गानामक्ष्णोश्च
Notes
उद्वेष्टितपरावृत्तौ करौ कृत्वा नतं शिरः ।
असंस्पर्शे तथानिष्टे जिह्मदृष्टेन कारयेत्1 ।। १६ ।।
वायु2मुष्णं तमस्तेजो मुख3प्रच्छादनेन च ।
रेणुतोयपतंगांश्च4 भ्रमरांश्च निवारयेत् ।। १७ ।।
कृत्वा स्वस्तिकसंस्थानौ5 पद्मकोशावधोमुखौ ।
सिंहर्क्षवानरव्याघ्रश्वा5aपदांश्च निरूपयेत्6 ।। १८ ।।
स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने ।
6aखटकस्वस्तिकौ चापि प्रतोद7ग्रहणे स्मृतौ ।। १९ ।।
Abh
निमेषः संकोच इति । विद्युदादिव्यङ्ग्यमप्यभिनयमाह उद्वेष्टितपरावृत्ताविति । परावृत्तौ समन्तादु द्वेष्टितौ क्रमात् मुक्तकनीयस्याङ्गुलिगुणावित्येवं प्राग्भावे मुष्टिः पश्चाद्भागे तु पराङ्मुखोऽरालोभ इति । तत्रासादितुः स्थितमेवात्र जिह्यदृष्टेनेति । जिह्यया दृष्ट्या “लाम्बिता कुञ्चितपुटा शनैस्तिर्यङ्निरीक्षणैः निगूढा गूढतारा च जिह्मा दृष्टि” (८–७३) रिति “सिंहव्याघ्रेष्वभिनय” (९–१२१) इत्यूर्णनाभस्य कर्मोक्तम् । तत्र विशेषमाह कृत्वा स्वस्तिकसंस्थानाविति । पद्मकोशावित्यत्रोत्तराभावे चोक्ते एतत्प्रकृतत्वात् “पद्मकोशस्य हस्ताङ्गुल्यः कुञ्चिता” इत्यूर्णनाभः। अन्ये पद्मकोशस्यैव तमनुक्तं कर्मेत्याहुः । त्रिपताकस्यानुक्तं कर्म दर्शयति–स्वस्तिकौ त्रिपताकौ च गुरूणां पादवन्दन इति । खटकामुखस्य कर्मोक्तं– “मन्थानशरापकर्षणपुष्पापचयप्रतोदकार्याणीति” (तुलना ९–६३)। तत्र प्रतोदकृत्ये विशेषमाह खटकस्वस्तिकौ चापि प्रतोदग्रहण इति ।।
Notes
एकं द्वि त्रीणि चत्वारि पञ्च षट् सप्त चाष्टधा1 ।
1aनव वा दश वापि स्युर्गणनांङ्गुलिभिर्भवेत्2 ।। २० ।।
दशाख्याश्च शताख्याश्च सहस्राख्यास्तथैव च ।
पताकाभ्यां तु हस्ताभ्यां प्रयोज्यास्ताः3 प्रयोक्तृभिः ।। २१ ।।*
4दशाख्यगणनायास्तु परतो या भवेदिह ।
वाक्यार्थेनैव साध्यासौ परोक्षाभिनयेन च ।। २२ ।।
छत्रध्वजपताकाश्च निर्देश्या दण्डधारणात् ।
5नानाप्रहरणं चाथ निर्देश्यं धारणाश्रयम् ।। २३ ।।
Abh
अथ सर्वव्यवहारोपयोगिसंख्याभिनयं प्रदर्शयन्नुक्तपूर्वाणामेव हस्तानामनुक्तं कर्म दर्शयति । एतदुक्तं भवति “सूचीमुखप्रदेशिन्या त्रिपताकाङ्गुलिकागुलाङ्गुलिविधौ ऊर्ध्वलताष्टकाङ्गुलिचतुष्केण मुकुलहस्तविकासतया चैकादितया पञ्चता संख्या, षडादिका तु द्वाभ्यां यथा मुकुले सूच्यास्येन षट् यावन्मुकुले यौ दर्शपर्यन्ता गणना यावतीति दशपर्यन्ता गणना यावत् ततः परन्तु बहुत्वाभिनय एवेत्याह दशा इत्यादि । दशभिराख्या येषां तेऽत्र विंशत्यादयः विंशेति हि विंशति तस्मादत्र पताकाभ्यामभिनय इत्याह दशाख्येति । आख्याशब्दोऽवधिवाच । आख्यति प्रतते भावा यावतीति । दशपर्यन्ता गणना यावतीति दशपर्यन्ता गणना यावर्ततः परासा संक्षेपेणाभिनेया बहुत्वमात्रेण वाक्यार्थशद्बोऽत्र संक्षिप्तमुपलक्षयति । पदार्था हि तत्र संक्षिप्यन्ते । एतच्च परोक्षाभिनये । प्रत्यक्षे त्वेकैकस्य निर्देशेनैव गणनेति यावत् । आयतदण्डग्रहणमिति (९–६२)। खटकामुखस्य सामन्येन कर्मोक्तम् । तद्विशेष्यं दर्शयितुमाह छत्रध्वजपताकाश्चेति। दण्डधारणे एव तत्प्रकारमन्त- र्भूतमित्यर्थः। चकारेणाभिनयान्तरमप्यत्र सूचयति । अथशब्दे च । तद्यथा शिरस उपर्यधोमुखः
Notes
एकचित्तो ह्यधोदृष्टिः किञ्चिन्नतशिरास्तथा1 ।
1aसव्यहस्तश्च सन्दंशः स्मृते 2ध्याने वितर्किते ।। २४ ।।
उद्वाहितं शिरः कृत्वा हंसपक्षौ प्रदक्षिणौ ।
3अपत्यरूपणे कार्यावुछ्रयौ च प्रयोक्तृभिः ।। २५ ।।
उद्वाहितं शिरः कृत्वा हंसवक्त्रं तथोर्ध्वगम् ।
प्रसादयच्च यं मानं दीर्घसत्वं च निर्दिशेत् ।। २६ ।।
अरालं च शिरस्स्थाने समुद्वाह्य तु वामकम् ।
गते निर्वृत्ते ध्वस्ते च श्रान्तवाक्ये च योजयेत् ।। २७ ।।
सर्वेन्द्रियस्वस्थतया प्रसन्नवदनस्तथा4 ।
विचित्र5 भूतलालोकैः शरदन्तु6 विनिर्दिशेत् ।। २८ ।।
गात्रसंकोचनाच्चापि सूर्याग्निपटुसेवनात्7 ।
हेमन्तस्त्वभिनेतव्यः पुरुषैर्मध्यमाधमैः8 ।। २९ ।।
Abh
पताकछत्रे पञ्चाङ्गुगुळयुर्ध्वध्वजे सूचीमख्याङ्गुलिपताकायां मुष्टिशिखरकपित्थमृगशीर्षकाद्या यथायोगं प्रहरणेषु योगध्याने स्तोक इति (९–११४) क्वचिद्विस्मिता अपूर्वशालिसंपद्दर्शनात् क्वचित् “ग्लानाभीष्टादर्शना” दित्यादि दृष्टिभेदादि चाद्यो व्यसनसंभवस्तास्मिन्निमित्ता यावस्थान्तरप्राप्तिः ततो हेतोरिति संबन्धः । रूक्षस्येति । उद्वेजनस्य प्रावड् वर्षारात्रस्य यथा प्रथमे भागे वर्षितुं प्रावृड्मेघा यत्रेति ।
Notes
शिरोदन्तोष्ठकम्पेन गात्रसंकोचनेन च ।
कूजितैश्च सशीत्कारैरधमश्शीतमादिशेत् ।। ३० ।।
अवस्थान्तर1 मासाद्य कदाचित्तूत्तमैरपि2 ।
शीताभिनयनं 2aकुर्याद्देवा3 द्वयसनसंभवम् ।। ३१ ।।
4ऋतुजानां तु पुष्पाणां गन्धाघ्राणैस्तथैव च ।
रूक्षस्य वायोः स्पर्शाच्च शिशिरं रूपयेद्बुधः4a ।। ३२ ।।*
5प्रमोदजननारम्भैरुपभोगैः पृथग्विधिः6 ।
वसन्तस्त्वभिनेतव्यो नानापुष्पप्रदर्शनात्7 ।। ३३ ।।
स्वेद8प्रमार्जनैश्चैव भूमितापैः सवीजनैः9 ।
उष्णस्य वायोः स्पर्शेन ग्रीष्मं त्वभिनयेद्बुधः ।। ३४ ।।
कदम्बनीपकुटपैः (जैः ?) 10aशाद्वलैः सेन्द्रगोपकैः ।
10मेघवातैः सुखस्पशैः प्रावृट्कालं प्रदर्शयेत् ।। ३५ ।।
Abh
निर्घातः आकाशस्फोटः शब्दो गर्जितादन्य एव चिह्नमिति पुष्पपुष्पादिशेषषडि्वशेष इति । तत्कालोचितो वस्त्वाभरणप्रसाधनादिः यस्मिन्निति वक्तव्ये संबन्धमात्रापेक्षया षष्टी कर्मेति क्वचिद्रूपानुसरणमित्यादिरूपं यथा क्वचिदातपः क्वचिच्चन्द्रोद्योतः । भावानां विभावैरभिनयो यथा क्रोधस्य परस्थस्य सूचीमुखाङ्गुल्यादिपरः
Notes
1.ज –संप्राप्तः
मेघौघनादैर्गम्भीरैर्धाराप्रपतनैस्तदा ।
विद्युन्निर्घातघोषैश्च वर्षारात्रं समादिशेत् ।। ३६ ।।
यद्यस्य1 चिह्नं वेषो वा कर्म वा रूपमेव वा ।
निर्देश्यः स ऋतुस्तेन इष्टानिष्टार्थदर्शनात्2 ।। ३७ ।।
एतानृतूनर्थवशा3द्दर्शयेद्धि रसानुगान् ।
सुखिनस्तु सुखोपेतान् दुःखार्थान् दुःखसंयुतान् ।। ३८ ।।*
यो येन भावेनाविष्टः सुखदेनेतरेण वा ।
स तदाहितसंस्कारः सर्वं पश्यति तन्मयम् ।। ३९ ।।
4भावाभिनयनं कुर्याद्विभावानां निदर्शनैः ।
तथैव चानुभावानां 4aभावसिद्धिः प्रवर्तिता5 ।। ४० ।।
विभावेनाहृतं कार्यमनुभावेन नीयते6 ।
Abh
सन्निर्दिश्यते तद्द्वारेण क्रोधः । अनेन च सहाध्याये यदुक्तं तत्राभिप्रायविशेषो दर्शितः । तत्र ह्युक्तं “रिपुर्देशे तथैव क्रोध” (२२–अध्या.) इति । एवं स्नेहाख्यपद्यरूपकेण हंसपक्षेणानुभावानां भावसिद्धया प्रवर्तितमभिनयं कुर्यादिति संबन्धः ।……णोऽभिनयः शोकोचितेन मुखविकूणनादिना । ननु विभावः कथमाभिनय इत्याशङ्क्याह विभावेनाहृतं कार्यमिति । विभावः करणत्वाद्गमक इति यावत् । विभावेन हि कार्यमाहृतम् । सामग्री हि कार्यं व्यभिचरन्ती गमयत्येव ।
Notes
आत्मानुभवनं भावो विभावः परदर्शनम् ।। 41 ।।
गुरुर्मित्रं सखा स्निग्धः संबन्धी बन्धुरेव वा ।
आवेद्यते हि यः प्राप्तः स विभाव इति स्मृतः ।। ४२ ।।*
यत्त्वस्य संभ्रमोत्थानैरर्घ्यपाद्यासनादिभिः1 ।
पूजनं क्रियते 2भक्त्या3 सोऽनुभावः प्रकीर्तितः ।। ४३ ।।*
एवमन्येष्वपि ज्ञेयो नानाकार्यप्रदर्शनात् ।
Abh
ननु भावः कथमनुभावस्य गमक इत्याह अनुभावेनेति। अनुभवान्तरे साहचर्यानुभवात् गमकमित्येतदमुत्र तत्त्वम् । यदुक्तं भावसिद्धिप्रवर्तितमनुभावानामभिनयं कुर्यादिति । अथ विस्मरणशीलान् प्रति शृङ्गग्राहिकया भावविभावानुभावस्वरूपं दर्शयति आत्मानुभवनं भाव इत्यादि । आत्मविश्रान्तं यदनुभवनं सुखदुःखसंविद्रूपं स भाव इत्यर्थः । आत्मग्रहणात् घटाद्यनुभवनं न भाव इत्युक्तं भवति । णिचमन्ये पठन्ति । तत्रार्थः आत्मानुभाव्यते येन न तादृगर्थस्तदस्तीति प्रकर्षो गम्यते । तेन यल्लब्धसत्तार्थकं चेत् तदवश्यमनुभूयते सुखादिरूपम् । तदेव भाव इत्युक्तं भवति ।
यत्तु व्यतिरिक्तवस्तुज्ञानं तत्सर्वं सुखादिजनकत्वाद्विभावः । तदाह विभावः परदर्शनमिति । तदुदाहरति गुरुर्मित्रमित्यादि । गुरुदर्शने सति विनयग्रहणे आदावुत्साह एव मित्रादेर्यथोचितं हर्षादनुभावत्वं योज्यम् । मित्रं कार्यवशात् समानख्यातियोगत्वात् सखा सहपांसुक्रीडनापरिचितः आवेद्यत इत्यनेन दर्शनविषयस्यैव भावतेति दर्शयति । प्राप्त इत्यनेन चित्तवृत्तिजन्मनि गुर्वादेरन्वयव्यतिरेकौ सूचयन् कारणमाह । यत्त्वस्येति गुर्वादेः संभ्रमेण यदुत्थानं प्रत्युद्गमनं बहुवचनाद्यततं (?) सूचकौ यथोचितं भावे संग्रहालिङ्गनादिवचनेनेत्यर्थः । उदाहरणमात्रमेतदिति दर्शयति एवमन्येष्वपीति ।
Notes
विभावो वापि भावो वा विज्ञेयोऽर्थवशाद्बुधैः ।। ४४ ।।*
यस्त्वपि प्रतिसंदेशो दूतस्येह प्रदीयते ।
1सोऽनुभाव इति ज्ञेयः 1aप्रतिसन्देशदर्शितः ।। ४५ ।।
एवं भावो विभावो वाप्यनुभावश्च1b कीर्तितः ।
10पुरुषैरभिनेयः स्यात्प्रमदाभिरथापि वा ।। ४६ ।।
स्वभावाभिनये स्थानं पुंसां कार्यं तु वैष्णवम् ।
आयतं वावहित्थं वा स्त्रीणां कार्यं स्वभावतः ।। ४७ ।।*
प्रयोजनवशाच्चैव शेषाण्यपि भवन्ति हि ।
नानाभावाभिनयनैः प्रयोगैश्च पृथग्विधैः 2।। ४८ ।।
Abh
रसेषु शृङ्गारादिष्विति भावः एकेन वा ग्रहणेनानुभावः सूचितः । द्वितीयो विकल्पार्थः अपिशब्देन स्थायिव्यभिचारिरूपतां समुच्चिनोति । अर्थवशादिति प्रयोजनवशात् ।
ननु नियमेनायमस्याश्चित्तवृत्तौ विभाव इति शक्यं वक्तुम् । प्रयोजनान्तरयोगे तस्यैवान्यत्र विभावत्वदर्शनात् । न केवलं प्रत्यक्षेण दृश्य एवानुभवश्चित्तवृत्तिं गमयति । यावत्प्रमाणान्तरेण शब्दादिनाप्यविदित इति दर्शयितुमाह यस्त्वपि प्रतिसन्देश इति । एतच्चानुमानस्याप्युप लक्षणम् । सन्तमसे हि गद्गदगुरुसज्जनवचनानुमेयात् । बाष्पादपि हि भवति शोकावगमः । एतदुपसंहरति एवमित्यादि । पुरुषैः प्रमदाभिर्वेत्युक्तं तत्रानावेश्यादेषां (?) स्थानमावेदयति । गतिं च दर्शयति स्वभावाभिनय इत्यादिना । शेषाणीति । स्थानान्तराण्यपीति यावत् । यदुक्तम्–
Notes
1N. अनुभावः स विज्ञेयः 1a ज –पर 1bN. अनुभावोऽपि वा पुनः 1cN. अभिनेयस्तु पुरुषैः प्रमदाभिस्तवैव ।।
1धैर्यलीलाङ्गसंपन्नं 2पुरुषाणां विचेष्टितम् ।
मृदुलीलाङ्गहारैश्च3 स्त्रीणां कार्यं तु चेष्टितम् ।। ४९ ।।
3aकरपादाङ्ग4सञ्चारास्त्रीणां तु ललिताः स्मृताः ।
5सुधीरश्चोद्धतश्चैव पुरुषाणां प्रयोक्तृभिः ।। ५०।।
यथा रसं यथाभावं 5aस्त्रीणां भावप्रदर्शनम् ।
नराणां प्रमदानां च भावाभिनयनं पृथक्6 ।। ५१।।
भावानुभावनं युक्तं7 व्याख्यास्याम्यनुपूर्वशः ।
आलिङ्गनेन गात्राणां सस्मितेन च चक्षुषा ।। ५२ ।।
तथोल्लुकसनाच्चापि 8हर्षं सन्दर्शयेन्नरः ।
क्षिप्रसञ्जातरोमाञ्चात्9 बाष्पेणावृतलोचना ।। ५३ ।।
कुर्वीत नर्तकी हर्षं प्रीत्या वाक्यैश्च सस्मितैः10 ।
उद्वृत्तरक्तनेत्रश्च11 सन्दष्टाधर एव च ।। ५४ ।।
Abh
धैर्यलीलाङ्गसंपन्नं कृत्वा पुरुषचेष्टितम् ।
प्रयोक्तृभिः प्रयोक्तव्यं स्त्रीणां चेष्टितमन्यथा (२५.४९) ।।
मार्दवलीलाप्रधानैरङ्गविक्षेपैरिति तत्र तथा सिद्धत्वं हेतुमाह करपादाङ्गसञ्चार इति । तुर्हेतौ । आलिङ्गनेन गात्राणामिति । स्वात्मीयानामेवान्योन्यमासे…..णेत्यर्थः । क्रोधस्त्वभिनयेदिति व्यभिचरितः प्राप्तिमिति मन्तव्यम् ।
Notes
निश्वासकम्पिताङ्गश्च क्रोधं चाभिनयेन्नरः ।
1नेत्राभ्यां बाष्पपूर्णाभ्यां चिबुकौष्ठप्रकम्पनात् ।। ५५ ।।
1aशिरसः कम्पनाच्चैव भ्रकुटीकरणेन च ।
मौनेनांङ्गुलिभङ्गेन माल्याभरणवर्जनात् ।। ५६ ।।
आयतस्थानकस्थाया ईर्ष्या क्रोधे2 भवेत्स्त्रियाः ।
निःश्वासोच्छ्वासबहुलैरधोमुखविचिन्तनैः ।। ५७ ।।
आकाश3वचनाच्चापि दुःखं पुंसां तु योजयेत् ।
रुदितैः4 श्वसितैश्चैव शिरोऽभिहननेन च ।। ५८ ।।
भूमि5पाताभिघातैश्च दुःखं स्त्रीषु 5aप्रयोजयेत् ।
आनन्दजं चार्तिजं वा6 ईर्ष्यासंभूतमेव वा ।। ५९ ।।
यत्पूर्वमुक्तं रुदितं 6aतत्स्त्रीनीचेषु योजयेत् ।
संभ्रमावेगचेष्टाभिश्शस्त्रसंपातनेन च ।। ६० ।।
पुरुषाणां भयं कार्यं7 धैर्यावेगबलादिभिः ।
8चलतारकनेत्रत्वाद्गात्रैः स्फुरितकम्पितैः ।। ६१ ।।
Abh
रसेषु हि सामान्याभिनयःशृङ्गारद्वारेण दर्शितः । अत्र तु व्यभिचारिषु दर्श्यते । दुःखमिति शोकः भूम्यां हस्ताभ्यां च ये घाता हस्तताधाडनानि तथाभूतैर्हस्ताभ्यां घातास्तैराकाशस्येति शून्योऽप्यवलम्बन (?) प्रवृत्तेत्यर्थः ।
Notes
सन्त्रस्तहृदयत्वाच्च 1पार्श्वाभ्यामवलोकनैः1a ।
2भर्तृरन्वेषणाच्चैवमुच्चैरा2aक्रन्दनादपि3 ।। ६२ ।।
4प्रियस्यालिंङ्गनाच्चैव भयं कार्यं भवेत्स्त्रियाः ।
5मदा येऽभिहिताः पूर्वं तो (तान् ?) स्त्रीनीचेषु योजयेत् ।। ६३ ।।
मृदुभिः 6स्खलितैर्नित्यमाकाशस्यावलम्बनात्7 ।
नेत्रावघूर्णनैश्चैव 8सालस्यैः कथितैस्तथा ।। ६४ ।।
गात्राणां कम्पनैश्चैव मदः कार्यो भवेत्स्त्रियाः ।
अनेन विधिना कार्यः (र्याः ?) प्रयोगाः 9कारणोत्थिताः ।। ६५ ।।*
10पौरुषः स्त्रीकृतो 10aवापि भावा ह्यभिनयं प्रति ।
10bसर्वे सललिता भावास्स्त्रीभिः कार्याः प्रयत्नतः11।। ६६ ।।
धैर्यमाधुर्यसंपन्ना भावाः कार्यास्तु पौरुषाः12 ।
त्रिपताका13 ङ्गुलीभ्यां तु वलिताभ्यां प्रयोजयेत् ।। ६७ ।।*
13aशुकाश्च शारिकाश्चैव सूक्ष्मा ये चापि पक्षिणः ।
शिखिसारसहंसाद्याः स्थूला येऽपि स्वभावतः ।। ६८ ।।
Abh
विलग्नं कलासंकथितानि चलिताभ्यामिति मन्थरं चरं चरन्तीत्यारेचितकैरङ्गहारैरिति तुर्याध्यायनिरूपितैर्गतिप्रचारैरिति तदुचितैरेव शिरोग्रीवादिकर्मभिः भयाद्वेगौ स्त्रीनीचानां
Notes
1रेचकैरङ्गहारैश्च तेषामभिनयो भवेत् ।
1aखरोष्ट्राश्वतराः सिंहव्याघ्रगोमहिषादयः ।। ६९ ।।
2गतिप्रचारैरङ्गैश्च तेऽभिनेयाः प्रयोक्तृभिः ।
भूताः पिशाचा यक्षाश्च दानवा सहः राक्षसैः2a ।। ७० ।।
अङ्गहारैर्विनिर्देश्या 3नामसंकीर्तनादपि ।
अङ्गहारैर्विनिर्देश्या अप्रत्यक्षा भवन्ति ये ।। ७१ ।।
प्रत्यक्षास्त्वभिनेतव्या भयोद्वेगैः सविस्मयैः ।
3aदेवाश्च चिह्नैश्च प्रणामकरणैर्भावैश्च विचेष्टितैः3b ।। ७२ ।।
4अभिनेयो 4aह्यर्थवशादप्रत्यक्षाः प्रयोगज्ञैः ।
5सव्योत्थितेन हस्तेन ह्यरालेन शिरः स्पृशेत् ।। ७३ ।।
6नरेऽभिवादनं ह्येतदप्रत्यक्षे विधीयते ।
खटकावर्धमानेन7 कपोताख्येन वा पुनः ।। ७४ ।।
दैवतानि गुरूंश्चैव प्रमदाश्चाभिवादयेत् ।
दिवौकसश्च ये पूज्याः प्रत्यक्षाश्च भवन्ति ये ।। ७५ ।।
Abh
राक्षसादिदर्शने विस्मयस्तूत्तमानाम् । अत्र च भावादिगता अनुभावाः………दिशब्दैरुक्ता भावै…….यथा
Notes
तान् प्रमाणैः प्रभावैश्च गम्भीरार्थैश्च योजयेत् ।
महाजनं 1सखीवर्गं विटधूर्तजनं तथा ।। ७६ ।।
परिमण्डलसंस्थेन हस्तेनाभिनयेन्नरः1a ।
पर्वतान् प्रांशुयोगेन1b वृक्षांश्चैव समुच्छ्रितान् ।। ७७ ।।
प्रसारिताभ्यां बाहुभ्यामुत्क्षिप्ताभ्यां प्रयोजयेत्1c ।
1dसमूहसागरं सेनां बहुविस्तीर्णमेव च ।। ७८ ।।
पताकाभ्यां तु हस्ताभ्यामुत्क्षिप्ताभ्यां प्रदर्शयेत्2 ।
शौर्यं धैर्यं च 3गर्वं च दर्पमौदार्यमुच्छ्रयम् ।। ७९ ।।
ललाटदेश4स्थानेन4a त्वरालेनाभिदर्शयेत् ।
बक्षोदेशादपाविद्धौ 5करौ तु मृगशीर्षकौ ।। ८० ।।
बिस्तीर्णप्रद्रुतोत्क्षेपौ योज्यौ यत्स्यादपावृतम् ।
अधोमुखोत्तानतलौ हस्तौ किञ्चित्प्रसारितौ ।। ८१ ।।
कृत्वा 6aत्वभिनयेद्वेलां6 बिलद्वारं गृहं गुहान् ।
कामं शापग्रहग्रस्तान् ज्वरोपहतचेतसः6b ।। ८२ ।।
7एतेषां चेष्टितं कुर्यादङ्गाद्यैः सदृशैर्बुधैः ।
Abh
गदतो रुद्रस्य रौद्राभिनयस्य चेष्टितानि यथा रुद्रस्य संचिह्नानि यथास्य त्रिशूलं परिमण्डलत्वेन सम्यग् ज्ञातं यस्येति प्रकरणादत्र पताक एव विशेषो मन्तव्यः । अङ्गाद्यैरिति । आदिग्रहणाददृष्टिसात्त्विकपरिग्रहः । सदृशैरिति डोलाहस्तादिरूपैः । विलोलनैरिति चञ्चलैरितिभावः ।
Notes
दोलाभिनयनं कुर्याद्दोलायास्तु विलोलनैः1 ।। ८३ ।।
संक्षोभेण च2 गात्राणां 3रज्व (? ज्ज्व) श्चाग्रहणेन च ।
यदा 4चाङ्गवती डोला 5प्रत्यक्षा पुस्तजा भवेत्6 ।। ८४ ।।
आसनेषु7 प्रविष्टानां कर्तव्यं तत्र डोलनम् ।
आकाशवचनानीह वक्ष्याम्यात्मगतानि च ।। ८५ ।।
अपवारितकं चैव जनान्तिकमथापि च ।
दूरस्थाभाषणं यत्स्यादशरीरनिवेदनम् ।। ८६ ।।
परोक्षान्तरितं वाक्यमाकाशवचनं तु तत् ।
तत्रोत्तरकृतैर्वाक्यैः संलापं संप्रयोजयेत् ।। ८७ ।।
नानाकारणसंयुक्तैः काव्यभावसमुत्थितैः ।
8हृदयस्य (स्थं ?) वचो यत्तु तदात्मगतमिष्यते ।। ८८ ।।
9सावितर्कं तु तद्योज्यं प्रायशो नाटकादिषु ।
Abh
अथ वाचिकप्रसङ्गाचित्राभिनयं वक्तुं प्रतिजानीते आकाशवचनानीत्यादि । दूरस्थेन रङ्गमप्रव्गिष्टेनैव पात्रेण सहाभाषमत एवाह अशरीरं यन्निवेदनमिति । परोक्तेन प्रविष्टपात्रसंबन्धिन्यान्तर्हितं व्यवहितम् । नन्वप्रविष्टस्य संबन्धिवचनं केनोदीर्यत इत्याशङ्क्याह तत्रोत्तरकृतैरिति उत्तरत्वेन यानि कृतानि वाक्यानि “मैवं ब्रवीषि” इति तैः प्रयोजयेदिति प्राक् प्रविष्टस्यैव पात्रस्य कर्तृत्वं परोक्तवचनमनुभाषणच्छायाप्रविष्ट एवं ब्रूयादिति तात्पर्यम् ।
Notes
1 ज–कनैः भ–कार्यं डोलान्दोलनलीलया
निगूढभावसंयुक्तमपवारितकं स्मृतम् ।। ८९ ।।
कार्यवशादश्रवणं पार्श्वगतैर्यज्जनान्तिकं तत्स्यात् ।
हृदयस्थं सविकल्पं भावस्थं चात्मगतमेव ।। ९० ।।
1इति गूढार्थयुक्तानि वचनानीह नाटके ।
2जनान्तिकानि कर्णे तु तानि योज्यानि योक्तृभिः ।। ९१ ।।
2aपूर्ववृत्तं तु यत्कार्यं भूयः कथ्यं तु कारणात् ।
3कर्णप्रदेशे तद्वाच्यं मागात्तत्पुनरुक्तताम् ।। ९२ ।।
अव्यभिचारेण पठेदाकाशजनान्तिकात्मगतपाठ्यम् ।
प्रत्यक्षपरोक्षकृतानात्मसमुत्थान् परकृतांश्च ।। ९३ ।।
हस्तमन्तरितं कृत्वा त्रिपताकं प्रयोक्तृभिः ।
जनान्तिकं 4प्रयोक्तव्यमपवारितकं तथा ।। ९४ ।।
स्वप्नायितवाक्यार्थस्त्वभिनेयो न खलु हस्तसंचारैः ।
5सुप्ताभिहितैरेव तु वाक्यार्थैः सोऽभिनेयः स्यात् ।। ९५ ।।
Abh
निगूढभावो निगूढनं सर्वेषां यन्निगूह्यते एक एव शृणुयादिति तदपवारितं जनान्तिकं एकान्तिकत्वं चैकस्यैव निगूह्यत इति विशेषाः ।।
अन्ये त्वाहुः । उभयमित्येतज्जनान्तिकमेव । यावतो हि जनस्य तद्वक्तव्यं तावतोऽन्तिके सामीप्ये तदुच्यते । अवतारितकं तु तदुच्यते यत्र तूहात्परमुद्दिश्य (?) नोच्यते । अथ च परः शृणोत्वित्ययमेवाशयो वचने तदपवारितकं तेन निगूढेन भावेनाशयेन संयुक्तमव्यभिचारेणेत्युक्तपूर्वं कालादिसर्वमत्रानुसरेदिति यावत् ।
Notes
1 प – N यानि गुह्यार्थ
मन्दस्वरसञ्चारैर्व्यक्ताव्यक्तं पुनरुक्तवचनार्थम् ।
पूर्वानुस्मरणकृतं कार्यं स्वप्नाञ्चिते पाठ्यम् ।। ९६ ।।
प्रशिथिलगुरुकरुणाक्षरघण्टानुस्वरितवाक्यगद्गदजैः ।
हिक्काश्वासोपेतां काकुं कुर्यान्मरणकाले ।। ९७ ।।
हिक्काश्वासोपेतां मूर्च्छोपगमे मरणवत्कथयेत् ।
अतिमत्तेष्वपि कार्यं तद्वत्स्वप्नायिते यथा पाठ्यम्1 ।। ९८ ।।
वृद्धानां योजयेत्पाठ्यं गद्गदस्खलिताक्षरम् ।
1aअसमाप्ताक्षरं चैव बालानां तु कलस्वनम् ।। ९९ ।।
नानाभावोपगतं मरणाभिनये बहुकीर्तितं तु ।
विक्षिप्तहस्तपादैर्निभृतैः सन्नैस्तथा कार्यम्2 ।। १०० ।।
व्याधिप्लुते च मरणं निषण्णगात्रैस्तु संप्रयोक्तव्यम् ।
हिक्काश्वासोपेतं 3तथा पराधीनगात्रसंचारम्3a ।। १०१ ।।
Abh
न खल्विति । त तत्र हस्ताभिनय इत्यर्थः । सुप्ताभिहितैरित्युक्तं तानि लक्षणतः कथयति मन्दस्वरसंचारैरित्यादि । पूर्वानुस्मरणेन कृतं प्रयुक्तं प्रशिथिलानि स्वस्थानतो भ्रंशमानानि गुरूणि स्वकर्माण्यचतुराणि यानि जिह्वाग्रोपाग्रमध्यमूलानि तेषां संबन्धीनि यान्यक्षराणि तथा ते चलद्धण्टावदनुकरणं प्रधानं यद्वाक्यं तत्र यो गद्गदस्वरभेदः ततो ये जातास्तारमन्द्रादयः उदात्तानुदात्तादयश्च तैरुपलक्षितां मरणकाले काकुं कुर्यादिति संबन्धः । कलस्वनमिति मधुरस्वरम् ।
एवमाकाशभाषितमात्मगतमपवारितं जनान्तिकं कर्णोक्तं स्वप्नायितोक्तमरणमूर्च्छामदभाषितं वृद्धबालोक्तमिति वचनगतं चित्राभिनयमुक्त्वारणप्रसङ्गेव तद्गतमपि कथयितुमाह नानाभावोपगतमिति । विषं
Notes
1 ज N – पाठ्यं पुनरुक्तसंयुक्तम् 1aN: अस्पष्टवर्णसंयुक्तं
1aविषपीतेऽपि च मरणं कार्यं विक्षिप्तगात्रकरचरणम् ।
विषवेगसंप्रयुक्तं विस्फुरिताङ्गक्रियोपेतम् ।। १०२ ।।
प्रथमे वेगे कार्श्यं त्वभिनेये(यं?) वेपथुर्द्वितीये तु1 ।
दाहस्तथा तृतीये विलल्लिका2a स्या2च्चतुर्थे तु ।। १०३ ।।
फेनस्तु पञ्चमस्थे तु3 ग्रीवा षष्ठे तु भज्यते ।
जडता सप्तमे तु स्यान्मरणं त्वष्टमे भवेत् ।। १०४ ।।
तत्र प्रथमवेगे तु क्षामवक्त्रकपोलता ।
कृशत्वेऽभिनयः कार्यो वाक्यानामल्पभाषणम् ।। १०५ ।।*
सर्वाङ्गवेपथुं च कण्डूयनं तथाङ्गानाम्4 ।
4aविक्षिप्तहस्तगात्रं5 दाहं चैवाप्यभिनयेत्तु ।। १०६ ।।
6उद्वृत्तनिमेषत्वादुद्गारच्छर्दनैस्तथाक्षेपैः ।
अव्यक्ताक्षरकथनैः विलल्लिकामभिनयेदेवम्7 ।। १०७ ।।
8aउद्गारवमनयोगैः शिरसश्चः विलोलनैरनेकविधैः8 ।
फेनस्त्वभिनेतव्यो निःसंज्ञतया निमेषैश्च ।। १०८ ।।
Abh
पीतमनेनेति विषपीतः । तत्रैतस्य दष्टकस्याप्युपलक्षणम् । विषस्य वेगाक्रमणेन धातुषु रसादिष्वोजः पर्यन्तेषु सञ्चरणं प्रथमे वेगे यत्कृशत्वमत्राभिनयः कार्य इति संबन्धः । चलति कामिला छर्दिः प्रारम्भ इवान्तरो दाहं(?)
Notes
1a N: विषयोगोऽ(गे?ऽ)पि 1 ज – विषस्य कुर्यात् प्रकम्पनं परतः 2a N: चतुर्थे तु विलल्लिका
1aअंसकपोलस्पर्शः शिरसोऽथ विनामनं शिरोऽपाङ्गः1 ।
सर्वेन्द्रियसंमोहाज्जडतामेवं त्वभिनयेत्तु ।। १०९ ।।
संमीलितनेत्रत्वात् 2व्याधिविवृद्धौ भुजंगदशनाद्वा ।
एवं हि नाट्यधर्मे2a मरणानि बुधैः प्रयोज्यानि ।। ११० ।।
संभ्रमेष्वथ रोषेषु शोकवेशकृतेषु च ।
यानि वाक्यानि युज्यन्ते पुनरुक्तं न तेष्विह ।। १११ ।।
साध्वहो मां च हाहेति किं त्वं मामावदेति (? ‘मा मा, वद’ इति) च ।
3एवंविधानि कार्याणि द्वित्रिसंख्यानि कारयेत् ।। ११२ ।।*
प्रत्यङ्गहीनं यत्काव्यं विकृतं च प्रयुज्यते ।
न लक्षणकृतस्तत्र कार्यस्त्वभिनयो बुधैः ।। ११३ ।।
भावो यत्रोत्तमानां तु न तं मध्येषु योजयेत् ।
यो भावश्चैव मध्यानां न तं नीचेषु योजयेत् ।। ११४ ।।
Abh
वार्युद्रेकः (?) अंसयोः कपोलाभ्यां स्पर्शसंबन्धादित्यर्थः । शिरसो भङ्गो ग्रीवासन्धिविच्युतिस्ततः । पुनरुक्तं न तेष्विति दोषायेति शेषः । तदुदाहरति साध्वहो इत्यादि । तत्र शब्दपुनरुक्तं साधुसाध्वित्यादि । अर्थपुनरुक्तमहो साधु भद्रं चेत्यादि । प्रत्यङ्गहीनमित्यादि । प्रहसनप्रधानतया यथा प्रत्यङ्गेन केनचित्संस्कारांशेनाहीनं कार्यम् । अत एव विकृतत्वाद्धासप्रधानं तत्राप्यभिनयोऽप्यलाक्षणिको हासायैव यथातथापि ।।
Notes
1a (N) स्पर्शात् शिरसोऽथ विमाननात् शिरोभङ्गात् । सर्वेन्द्रियगूढतया जडतामेव प्रयुञ्जीत । (V.
पृथक् पृथग्भावरसैरात्मचेष्टासमुत्थितैः ।
ज्येष्ठमध्यमनीचेषु 1aनाट्यं रागं हि गच्छति ।। ११५ ।।
एतेऽभिनयविशेषाः कर्तव्याः सत्त्वभावसंयुक्ताः ।
अन्ये तु लौकिका ये तु ते सर्वे 1bलोकवत्कार्याः ।। ११६ ।।
नानाविधैर्यथा पुष्पैर्मालां 1ग्रथ्नाति माल्यकृत् ।
अङ्गोपाङ्गै रसैर्भावैस्तथा नाट्यं प्रयोजयेत् ।। ११७ ।।
या यस्य लीला नियता गतिश्च
रङ्गप्रविष्टस्य निधानयुक्तः ।
तामेव कुर्यादविमुक्तसत्त्वो
यावन्न रङ्गात्प्रतिनिर्वृतः स्यात्2 ।। ११८ ।।
Abh
अथ सर्वानुग्राहकं सामान्यलक्षणमाह भावो य उत्तमानामित्यादि । रागं गच्छतीति । सर्वस्य रञ्जकं भवतीति यावत् । सामान्याभिनयशेषत्वं तदुक्तार्थात्तन्मुखेनोपसंहारदिशा चित्राभिनयस्य दर्शयति एतेऽभिनयविशेषा इति । सत्त्वभावसंयुक्ता इत्यनेन सत्त्वातिरिक्तोऽभिनय इत्यादि स्मरति । नानाविधैरित्यभिनयानां समानीकरणं चित्रत्वं च दर्शितम् । क्रमात्क्रमं श्रमवशादुपचितत्वपरित्यागः प्रयत्नेन परिरक्ष्य इत्येतत्तात्पर्येण श्लोकं पठति या यस्य लीला नियता गति (२५.११८) श्चेति । विमुक्तसत्त्वो त्यक्तावष्टम्भं प्रतिनिर्वृत इति निर्वृत्या निवृत्तिर्वक्ष्यते इति । वृत्तो विषयाज्जनादेर्निवर्तते । तेन
Notes
1.a N भवेन्नाट्यं तु शेषकृत् 1.b N लोकतः साध्याः
एवमेते मया प्रोक्ता 1नाट्ये चाभिनयाः क्रमात् ।
अन्ये तु लौकिका ये ते लोका ग्राह्याः सदा बुधैः2 ।। १९९२a ।।*
लोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् ।
वेदा3aध्यात्मपदार्थेषु प्रायो नाट्यं प्रतिष्ठितम् ।। १२० ।।
3bवेदाध्यात्मोपपन्नं तु3शब्दच्छन्दस्समन्वितम् ।
4लोकसिद्धं भवेत्सिद्धं नाट्यं लोकात्मकं तथा ।। १२१ ।।
Abh
रङ्गाद्यावन्निर्वृतो निष्क्रान्तः स्यादित्यर्थः । किमेतावानभिनयप्रकारः नेत्याह अन्ये तु लौकिका इति । ननु किमत्र लोकः प्रमाणमित्याशंङ्क्याह लोको वेदस्तथाध्यात्ममिति । लोकसिद्धानि प्रत्यक्षानुमानागमप्रमाणानि लोकशद्वेनोच्यन्ते । वेद इति तु यथास्वं नियतरूपो लोकप्रसिद्धोऽप्यागमो यथा न्यायेषु धनुर्वेदः स्वरतालादौ गान्धर्ववेद इत्यादि । अध्यात्मं स्वसंवेद* वेदाध्यात्माभ्यां प्रमिता ये पदार्थाः तेषु नाट्यं प्रतीतमित्यत्र हेतुमाह वेदाध्यात्मोपपन्नं त्विति । तुर्हेतो । समन्वितमिति भावे । एतदुक्तं शब्दसमन्वयो व्याकरणाभिधानेनागमेन सिद्धः । छन्दस्समन्वयस्तु स्वसंवेदनेन । श्रव्यता हि तद्विदा स्वसंवित्सिद्धावृत्तेषु प्रगीतानामिव रागभाषादीन् नीयते । एतच्चागमस्य वेदनयोः प्रमोपलक्षणमात्रम् । अथ लोकं प्रमाणयितुमाह यल्लोकसिद्धमिति । यल्लोके सिद्धं तत्सिद्धं न तत्कस्यचिदसिद्धमिति यावत् । नहि लोकप्रसिद्धिमपह्नोति कश्चित्समर्थः । सुविप्रतिपन्नस्यापि तदपह्ववे काष्ठपाषाणतापत्तिप्रसङ्गात् । तथेति । तत एव प्रकाराद्धेर्तोर्लोकात्मकं लोकानुकीर्तनरूपं नाट्यमित्युक्तम् ।
Notes
1 प–भावा नाट्यसमाश्रयाः । नोक्ता ये तु मया तेऽपि
1न च शक्यं हि लोकस्य स्थावरस्य चरस्य च ।
शास्त्रेण 2निर्णयं कर्तुं 3भावचेष्टाविधिं प्रति ।। १२२ ।।
नानाशीलाः प्रकृतयः 4शीले नाट्यं प्रतिष्ठितम्।
तस्माल्लोक4aप्रमाणं हि विज्ञेयं नाट्य्योक्तृभिः5 ।। १२३ ।।
एतान् विधींश्चाभिनयस्य सम्य–
ग्विज्ञाय रङ्गे मनुजः प्रयुङ्क्ते ।
स नाट्यतत्त्वाभिनयप्रोक्ता
संमानमग्र्यं लभते हि लोके ।। १२४ ।।
Abh
ननु लोकेन च यत्प्रत्ययं तदागमेनैव प्रमितम् । तत्किं पुनर्लोकेनोक्तेनेत्याशङ्क्याह न [च] शक्यं लोकस्य (श्लो. १२२) इति\शीलः स्वभावः । प्रकृतमुपसंहरति तस्माल्लोकप्रमाणं हि विज्ञेयमिति । एतान् विधीनिति । सामान्याभिनयात् प्रभृत्येतदध्यायपर्यन्त ये कर्तव्यतारूपाभिनयानां विधय उक्ताः तान् सम्यग् विज्ञायेति वदन् कोहलादिशास्त्रलक्ष्यप्रवासिद्धमपि चित्राभिनयं सूचयति । ततश्चोदाहरणार्थान् दर्शयामो माभूत्सम्प्रदायप्रवाहविच्छेद इति ।
मुख्याभ्याशे हंसपक्षात्स्कन्दो वा शक्तिदर्शनात् ।
संमुखौ खटकौ पार्श्वद्वये शार्ङ्गिनिरूपणम् ।।
Notes
1 प N देवतानामृषीणां च राज्ञां जनपदस्य च (लोकस्य चैव हि–N) पूर्ववृत्तानुचरितं नाट्यमित्यभिधीयते । *(एवं लोकस्य या वार्ता नानावस्त्रान्तरात्मिका । सा नाट्ये संविधातव्या नाट्यवेदविचक्षणैः ।) यानि शास्त्राणि ये धर्मा यानि शिल्पानि या क्रिया । लोकधर्मप्रवृत्तानि तन्नाट्यमिति संज्ञितम् । *N reads as लोकस्य चरितं यत्तु नानावस्थान्तरात्मकम् । तदङ्गाभिनयोपेतं नाट्यमित्यभिधीयते ।। (V. १२१ N.)
लीलालोकितसंदंशयुग्मेन कुसुमायुधम् ।
रुद्रवद्रूपयेद्दुर्गां चतुरेण सरस्वतीम् ।।
…..खटकेन तथा श्रियम् ।
गौरीं च दंष्ट्रया देवीं वाराहीमिति मातरः ।।
प्रदर्शयेत्तत्तदुचितब्राह्म्यादिगतलक्षणैः ।
सूचीहस्ताङ्गुलिकाद्रिनन्दिनीस्यान्नयोन्नता ।।
तत्प्रोत्तानाधोमुखेन त्रिपताकामुखेन तु ।
गङ्गा तथैव चतुरेणान्या सर्पशिरोद्वयम् ।।
उपर्युपरि डोलं स–ले तिर्यग्विलोलितः ।
अरालत्रिपताकौ च पताकद्वयकम्पनम् ।।
अब्धि…..पुष्पपुटास्त्रिपताकौ तपस्विनाम् ।
प्रसृतोर्ध्वपराचीनौ शिखरौ बाह्यदन्तरे ।।
कूर्परोर्ध्वस्थितेनापि त्रिपताकेन योषितः ।
पार्श्वेऽर्धकटकेन स्याल्लोकपालास्सलक्ष्मभिः ।।
स्तब्धकायौ मुक्तहस्तौ जिनं विद्याधरान् प्रजाः ।
अग्निना वाथ रक्षांसि नष्टं या सूचिकामुखात् ।।
विद्यात्तु त्रिपताकाभ्याम्मूर्घ्निराजप्लवङ्गमान् ।
पताकाभ्यामथो सर्पशिरोभ्यां स्वस्तिकस्थितेः ।।
धर्मं सितादिभिश्चाहीनृतवो मणयः पुनः ।
….काङ्गुलेन रिपुर्न्नार्थ ग्रन्थतर्जनिकेऽङ्गना ।।
कूर्पराकुञ्चितां कम्प्रपताकाभ्यां च सारसः ।
प्रसारितं च बाहुभ्यां वृश्चिकस्थलपक्षिषु ।।
शृङ्ग्यां च मध्यामाङ्गुष्ठपताकामस्तकोपरि ।
उत्क्षेपादञ्चितस्यांध्रिं नतोन्नतकरद्वयात् ।।
1एवमेते ह्यभिनया वाङ्नेपथ्याङ्गसंभवाः2 ।
प्रयोगज्ञेन कर्तव्या नाटके सिद्धिमिच्छता ।। १२५ ।।
इति भारतीये नाट्यशास्त्रे चित्राभिनयो नाम
3पञ्चविंशोऽध्यायः ।।
गरुडं चतुराभ्यां तु कण्जमूलोभयादधः ।
पताककूर्परे कुञ्च्य चालीढो क्रोधरूपेण ।।
मुखान्तिके तर्जनीं तु विश्लिष्टां वाक्यरूपणे ।
चूडायां मूर्ध्न्युपाङ्गेषु स्त्रीविषादे तथोद्वहम् ।।
वक्षः पार्श्वान्नूर्ध्वतः खं पताकस्वस्तिकेन तु ।
तथा प्रभातहस्ताभ्यामावेगोद्वर्तिताङ्गुलिः ।।
पराङ्मुखाभ्यां रात्रिर्वा पताकस्वस्तिकादिभिः ।
मुखाच्छादात्खलत्यादौ शलभाधूलिधूम्रकः ।।
पताकेनोरसि सुहृदरालेन सुतादयः ।
अभिमूर्ध्नाथ तद्युग्मं कुब्जवामनबालकाः ।।
पताका मूर्घ्नि खण्डः स्यादथ स्वस्तिकविच्युते ।
निधिमाकुञ्चिते वामकूर्परे भूधरादिषु ।।
उत्तानं च शिरस्तेषां भेदास्तु न निरीक्षणात् ।
वामकस्त्रिपताकः स्यात् कण्ठमूलोऽपरोऽपरः ।।
करिणीं गण्डविचलच्चतुराभ्यां मदश्रिताम् ।
पद्मोर्णनाभमुकुलैः स्वस्तिकैर्वृश्चिकेन तु ।।
Notes
1 ज – चत्वारो ह्यभिनया
सिंहगोमायुशरभा यथास्वं दृष्टिभेदतः ।
ललाटे सर्पशिरसा खङ्गिं श्रवणमूलतः ।।
खङ्गिकास्त्री तथान्यच्च शिखरं स्यात्प्रसारितम् ।
मुष्टिर्मल्लस्य शल्यश्च खटकेन हृदन्तरे ।।
संदंशेन मतिर्नाभेरुद्यता वक्षसि स्थितिः ।
पल्लवेन स्वमूर्धानं स्पृशता खेचरानतिः ।।
पराङ्मुखपताकाभ्यां मुखे स्वस्तिकविच्युते ।
कवाटाभ्यां करिघटान्मीक्षं (?) च करयुग्मतः ।।
मृगशीर्षे कनिष्ठायां निर्देशश्चतुरेण वा ।
चलः सूच्या स्वयुगलं हयसैन्ये दृशान्वितम् ।।
शूलपाण्यादिशब्देषु केचिद्वर्तिपदाश्रितम् ।
कुब्जन्त्वभिनयन्त्यन्ये विशेष्येऽन्यद्वयाश्रितम् ।।
अव्याहतायां वाक्यार्थप्रतीतौ स्यात्पदेष्वथ ।
स्नानं मूर्ध्रि पताकाभ्यां शकटेऽन्योन्यसंमुखौ ।।
कूर्पराकुञ्चितौ कार्यौ त्रिपताककरेण तु ।
अयस्कारादिनिर्देशे खटकः करिविद्रवे ।।
गणेशे मुकुलास्योऽथ विक्षेपात्स्युर्मरीचयः ।
शिरसः पाश्वयोः—-त्रिपताकद्वये जटा ।।
उपर्युपरि युक्ताभ्यां शिखराभ्यां महेश्वरी ।
ब्रीह्मादिचतुरेण स्यान्मुष्टिना वाथलेखकाः ।।
खटकेन तथामूकाश्शून्योत्तानोपनो (?) क्रमात् ।
अधस्खलितयोगेन चतुरेणापमीलनात् ।।
Abh
शिखरे वामकेऽधस्तः पताकस्थेन दक्षिणे ।
सङ्गतौ खटकौ सूर्ये सारथौ पृष्टपूर्वगौ ।।
प्रमाणौ मानपरिमाः सूची संदृष्ट्यरालकैः ।
एलाक्रीडा धनुर्योगात् पुलिन्दाभिनयो मतः ।।
यामाद्यौ खटकारालौ समपादः कपीलिनि ।
स्वबाहूर्ध्वे तु खटकौ पार्श्वक्षेपश्च पादगः ।।
महाभैरवनाथस्य खटकावंसजानुगौ ।
अनूर्ध्वकर्मणः पादः कर्मान्तं यदुदीरितम् ।।
तस्य स्वबुद्ध्या घटनं चित्राभिनयनं विदुः ।
तस्योदाहरणं किञ्चिदिदमूहाविवृद्वये ।।
मयाभिनवगुप्तेन दर्शितं धीमतः प्रति ।
यथालिखितवस्तूनां प्रतिपत्संस्थितान् प्रति ।
अपि वाचस्पतेर्वाणी कुण्ठा किमुत मादृशाम् ।।
एवं प्रमाणत्रयेणाभिनयात् विज्ञाय यो रङ्गे सभायां प्रयुङ्क्ते स नाट्ये तत्त्वतोऽभिनयान् प्रयुङ्क्ते च समान लभत इति योज्यम् । अभिनयशेषभूतोऽयमितिकर्तव्यातारूपः परस्परसंमीलनात्मा प्रयोगस्तेन च विना न काचित् सिद्धिरित्युपसंहारव्याजेनैवमिति श्लोकेनांगीशब्दस्वीकृतसात्त्विकेन दर्शयन् सामान्याभिनयनायकान् सर्वान् दर्शयति सिद्धमिति शिवम् ।।
विचित्राभिनयाध्यायः सोऽयं व्याकृतसारकः ।
कृतोऽभिनवगुप्तेन शिवानुग्रहशालिना ।।
इति श्रीमहामाहेश्वराचार्याभिनवगुप्तविरचितायां नाट्यवेदवृत्तावभिनवभारत्यां चित्राभिनयः पञ्चविंशोऽध्यायः समाप्तः