२४ पुंस्त्र्युपचारः

श्रीः

नाट्यशास्त्रम्

चतुर्विंशोऽध्यायः

(पुंस्त्र्युपचारः)

1समासतस्तु प्रकृतिस्त्रिविधा परिकीर्तिता ।
2पुरुषाणामथ स्त्रीणामुत्तमाधममध्यमा ॥

Abh

अभिनवभारती चतुर्विंशोऽध्यायः

त्रिधा विकल्पनं यस्यां पुमान् यत्रोपचर्यते ।
तां वन्दे प्रकृतिं शम्भोः शक्तित्रयविजृम्भणात् ॥

इह कामोपचारः पूर्वं दर्शितः कामश्च स्त्रीपुरुषहेतुक इत्युक्तम् । स्त्रीणां च पुंसां च यद्यपि विचित्राः स्वभावास्तथापि ते प्रतिपदमशक्यकलना इति प्रकृतित्रयेण ते सर्वे शक्यसंग्रहा इति प्रकृतित्रयं वक्तव्यम् । तथा चाह समासत इति कामोपचारश्च श्रृङ्गारपर्यवसायी नायकविशेष एवेति नायकभेदा वक्तव्याः । तस्य च नायकस्यान्तःपुरो बहिर्वा किन्नामधेयः कियान्वा परिवार इति सर्वं कविना ज्ञातव्यं नटेन च । तदेवं प्रकृतिनायकपरिवारभेदानभिधाय कोऽयमध्यायोऽस्याभिचारमारभ्यते प्रकृत्यादिभेदोपचारो हि

Notes

*अस्याध्यायस्य पाठक्रमो बहुधा भिद्यते जाद्यादर्शेषु चतुस्त्रिंशतितम इत्यवनद्धभूमिकाध्याययोर्मध्येऽयं पठ्यते चनमयभादिषु चतुर्विश एव बहुपाठभेदोऽप्ययं निर्वचनवाक्यसाम्येन द्विधाऽत्र दीयते प्रथमं वृत्तिकारपाठानुसारी यनमभादर्शपाठः, अनन्तरमनुबन्धरूपेण चफ– पाठस्तु निवेश्यते पाठान्तरप्रदर्शनसौलभ्यात् काश्यां मुद्रितकोशः पूर्वं पाठं, काव्यमालायां मिद्रितस्तु द्वितीयं क्रममनुवर्तते । N पञ्चविंशोऽध्यायः । चतुर्विशोऽध्यायस्तु ३३तमेऽध्याये (N) मातृकायां समाविष्टो दृश्यते ।

1जितेन्द्रियज्ञानवती नानाशिल्पविचक्षणा ।
दक्षिणाधमहालक्ष्या 2भीतानां परिसान्त्वनी ॥ २ ॥

नानाशास्त्रार्थसंपन्ना गाम्भीर्यौदार्यशालिनी ।
3स्थैर्यत्यागगुणोपेता ज्ञेया प्रकृतिरुत्तमा ॥ ३ ॥

4लोकोपचार5चतुरा शिल्पशास्त्रविशारदा ।
6विज्ञानमाधुर्ययुता मध्यमा प्रकृतिः स्मृता ॥ ४ ॥

7रूक्षवाचोऽथ दुःशीलाः कुसत्त्वाः8स्थूलबुद्धयः ।
क्रोधना घातकाश्चैव 9मित्रध्नाश्चिद्रमानिनः10 ॥ 5 ॥

पिशुनास्तूद्धतै11 र्वाक्यैरकृतज्ञास्तथालसाः ।
मान्यामान्या12 विशेषज्ञा स्त्रीलोलाः 13कलहप्रियाः ॥ 6 ॥

Abh

स्त्रीणां नपुंसकस्य (काम) विरहत्वादुपचारः स्नेहव्यवहार इत्यध्यायसङ्गतिः । तत्र प्रकृतिव्यवहारं तावदाह समासतस्त्विति । तुर्व्यतिरेक –पूर्वं विस्तरेण स्वभावो दर्शितोऽधुना तु संक्षेपत इति ।

(लोकोपचारेति) । लोकोपचारो व्यवहार (स्तस्मिन् च तु) पतत्यवश्यम् । कृतमुपकारं ये विस्मरन्त्यकृतज्ञास्ते । मान्यामान्ययोरविशेषज्ञा इति समासः ।

Notes

सूचकाः पापकर्माणः परद्रव्यापहारिणः ।
एभिर्दोषैस्तु संपन्ना भवन्तीहाधमा नराः ॥ ७ ॥

एवं 1तु शीलतो नॄणां प्रकृतिस्त्रिविधा स्मृता ।
2स्त्रीणां पुनश्च प्रकृतिं व्याख्यास्याम्यनुपूर्वशः ॥ ८ ॥

3मृदुभावा चाचपला स्मित4 भाषिण्यनिष्ठुरा ।
गुरूणां वचने दक्षा सलज्जा विनयान्विता ॥ ९ ॥

रूपाभि5जनमाधुर्यैर्गुणैः स्वाभाविकैर्युता ।
6गाम्भीर्यधैर्यसंपन्ना विज्ञेया प्रमदोत्तमा ॥ १० ॥

नात्युत्कृष्टैरनिखिलैरेभिरेवान्विता गुणैः ।
अल्पदोषानुविद्धा च मध्यमा प्रकृतिः स्मृताः7 ॥ ११ ॥

Abh

पुनश्चेति पूर्वं यद्यप्युक्ता तथापीत्यर्थः । तत्र हि कामोपचाराभिप्रायेण प्रकृतित्रैविध्यं व्याख्यातम् । इह तु सर्वव्यवहारविषयमिति विशेषो दृश्यते । (तत्र तु) विषयभेदादुत्तमादित्वं (सत्त्वसमुद्भवत्वात्) रस्याः स्निग्धा इत्यादय आहाराः सात्त्विकस्य प्रिया इत्युच्यन्ते । तत्र हि सत्त्वमाहारविषयमेव सहधूमाभ्यवहारादिति । कृतकटुकाहारव्रतो मुनिर्न सात्त्विक इति नापि चोरो (?) घृतगुड (प) योन्नभोजी सात्त्विक इति । वचने दक्षा सती गुरूणां विषये सलज्जानात्युत्कृष्टैरतिश्रेष्ठताहीनैः, अनिखिलैः असमग्रैः । सङ्कीर्ण

Notes

अधमा प्रकृतिर्या तु पुरुषाणां प्रकीर्तिता ।
विज्ञेया सैव नारीणामधमानां समासतः ॥ १२ ॥

1नपुंसकस्तु विज्ञेयः संकीर्णोऽधम एव च ।
प्रेष्यादिरपि विज्ञेया संकीर्णा प्रकृतिद्विजाः2 ॥ १३ ॥

शकारश्च विटश्चैव ये चान्येऽप्येवमादयः ।
संकीर्णास्तेऽपि विज्ञेया ह्यधमा नाटके बुधैः3 ॥ १४ ॥

एता ज्ञेयाः प्रकृतयः पुरुषस्त्रीनपुंसकैः4 ।
आसां तु संप्रवक्ष्यामि विधानं शीलसंश्रयम् ॥ १५ ॥

5अत्र चत्वार एव स्युर्नायकाः परिकीर्तिताः ।
6मध्यमोत्तमप्रकृतौ नानालक्षणलक्षिताः ॥ १६ ॥

धीरोद्धता धीरललिता धीरोदात्तास्तथैव च ।
धीरप्रशान्तकाश्चैव नायकाः परिकीर्तिताः ॥ १७ ॥

देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः ।
सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ॥ १८ ॥

Abh

इति । कश्चिन्मिश्रप्रकृतिः कश्चिदधमप्रकृतिरेव । प्रेष्याश्च संकीर्णा इति स्वामिचित्तानुरोधात् । विटोऽप्येवं शकारोऽप्य (नुभूत) विभवत्वादुत्तममध्यम चेष्टितमाचरति सङ्कीर्णः । परमार्थतस्तु प्रेष्यविटशकारा अधमा एव ।

प्रकृतिभेदमभिधाय नायकभेदमाह अत्र चत्वार इति । 1सुरतविषये सन्धिं विग्रहेण विग्रहं वा सन्धिना दूषयतीति विदूषकः । विप्रलम्भं तु विनोददानेन दूषयन्ति विस्मारयन्तीति विदूषकाः ।

Notes

धीरप्रशान्ता विज्ञेया ब्राह्मणा वणिजस्तथा ।
एतेषां तु पुनर्ज्ञेयाश्चत्वारस्तु विदूषकाः ।। १९ ।।

लिंगी द्विजो राजजीवी शिष्यश्चेति यथाक्रमम् ।
देवक्षितिभृतामात्यब्राह्मणानां प्रयोजयेत् ।। २० ।।

विप्रलंभसुहृदोऽमी संकथालापपेशलाः ।
व्यसनी प्राप्य दुःखं वा युज्यतेऽभ्युदयेन यः ।। २१ ।।

1तथा पुरुषमाहुस्तं प्रधानं नायकं बुधाः ।
यत्रानेकस्य 2भवतो व्यसनाभ्युदयौ पुनः3 ।। २२ ।।

सपुष्टौ यत्र तौ स्यातां न भवेत्तत्र नायकः ।
दिव्या च नृपपत्नी च कुलस्त्री गणिका तथा ।। २३ ।।

एतास्तु नायिका ज्ञेया नानाप्रकृतिलक्षणाः ।
धीरा च ललिता च स्यादुदात्ता निभृता तथा ।। २४ ।।

Abh

यथाक्रममिति क्रमिकमौचित्यमत्र यथोचितं योजना, तद्यथा लिङ्गी ऋषिः देवानाम्, द्विजो वीरः 1सेनापतेः राजजीवी राज्ञः, शिष्यो ब्राह्मणस्य । तेषां व्यापारमाह विप्रलम्भसुहृद इति विदूषकः ।

नन्वेकपुरुषसंभव इतिवृत्ते को नायक इत्याह व्यसनीति । प्राप्य दुःखं वेति । पूर्वमेव न व्यसनपतितो व्यसनी वा अयमपि तु सुखी भूत्वा दुःखं प्राप्तः) ।

नन्वेतल्लक्षणमात्रेतिवृत्तेऽनेकस्यापि रामचरित इव सुग्रीवविभीषणयोरपीत्याह यत्रानेकस्येति । एवं

Notes

दिव्या राजांगनाश्चैव गुणैर्युक्ता भवन्ति हि ।
उदात्ता निभृता चैव भवेत्तु कुलजांगना ।। २५ ।।

ललिते चाभ्युदात्ते च गणिकाशिल्पकारिके ।
[प्रकृतीनां तु सर्वासामुपचाराद् द्विधा स्मृताः ।। २६ ।।

बाह्यश्चाभ्यन्तरश्चैव तयोर्वक्ष्यामि लक्षणम् ।
तत्र राजोपचारो यो भवेदाभ्यन्तरो हि सः ।। २७ ।।

ततो वाक्योपचारस्तु यस्य बाह्यः स उच्यते ।
अथ राजोपचारे च राज्ञामन्तःपुराश्रितम् ।। २८ ।।

स्त्रीविभागं प्रवक्ष्यामि विभक्तमुपचारतः ।]
राजोपचारं वक्ष्यामि ह्यन्तःपुरसमाश्रयम् ।। २९ ।।

महादेवी तथा देव्यः स्वामिन्यः स्थापिता अपि ।
भोगिन्यः शिल्पकारिण्यो नाटकीयाः सनर्तकाः ।। ३० ।।

अनुचारिकाश्च विज्ञेयास्तथा च परिचारिकाः ।
तथा संचारिकाश्चैव तथा प्रेषणकारिकाः ।। ३१ ।।

महत्तर्यः प्रतीहार्यः कुमार्यः स्थविरा अपि ।
आयुक्तिकाश्च नृपतेरमयमन्तःपुरो जनः ।। ३२ ।।

Abh

नायकभेदं निरूप्य नायिकाभेदमाह दिव्या चेति । अथ परिवारभेदमाह राजोपचारमित्यादि । महादेवीप्रभृत्यायुक्तिकान्तः सप्तदशकः स्त्रीगणः, नपुंसकादिवर्गोऽष्टादश । अत एव वक्ष्यति एतदष्टादशविधं

अत्र मूर्धाभिषिक्ता या कुलशीलसमन्विता1 ।
गुणैर्युक्ता वयस्स्था च मध्यस्था क्रोधना तथा ।। ३३ ।।

2मुक्तेर्ष्या नृपशीलज्ञा सुखदुःखसहा समा3 ।
शान्तिस्वस्त्ययनैर्भर्तुस्सततं मङ्गलैषिणी ।। ३४ ।।

4शान्ता पतिव्रता धीरा अन्तःपुरहिते रता ।
एभिर्गुणैस्तु संयुक्ता महादेवीत्युदाहृता ।। ३५ ।।

एभिरेव गुणैर्युक्तास्तत्संस्कारविवर्जिताः ।
गर्विताश्चातिसौभाग्याः प्रतिसंभोगतत्पराः ।। ३६ ।।

शुचिनित्योज्ज्वलाकाराः प्रतिपक्षाभ्यसूयकाः ।
वयोरूपगुणाढ्या यास्ता देव्य इति भाषिताः ।। ३७ ।।

सेनापतेरमात्यानां भृत्यानामथवा पुनः ।
भवेयुस्तनया यास्तु प्रतिसम्मानवर्जिताः ।। ३८ ।।

शीलरूपगुणैर्यास्तु संपन्ना नृपतेर्हिताः ।
स्वगुणैर्लब्धसम्माना स्वामिन्य इति ताः स्मृताः ।। ३९ ।।

Abh

प्रोक्तमन्तःपुरमिति, तद्विषयः परिवार इत्यर्थः । महादेवीत्येकत्वं विवक्षितम् । महादेवीनां क्रमेण लक्षणान्याह अत्र मूर्धाभिषिक्तेत्यादिसर्वेषां मूर्धनि प्रधानस्थानेत्यभिषिक्ता । वयसि मध्यमे तिष्ठतीति मध्यस्था । (अन्तःपुरेति) अन्तःपुरिके बाह्ये च वर्गे अन्तःपुराय हितं कौशल्यसंपादनम् । देव्य इति । महादेवी तु शृङ्गारोचिता नातीव भवति साभिमुख्यमभिप्रयातीत्याशयेन वासवदत्तादिषु कवयो देवी वाचोयुक्त्या व्यवहरन्ति ।

Notes

रूपयौवनशालिन्यः1 कर्कशा विभ्रमान्विताः ।
रतिसंभोगकुशलाः प्रतिपक्षाभ्यसूयिकाः ।। ४० ।।

दक्षा भर्तुश्च चित्तज्ञा गन्धमाल्योज्ज्वलास्सदा ।
नृपतेश्छन्दवर्तिन्यो न हीर्ष्यामानगर्विताः2 ।। ४१ ।।

उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या न निष्ठुराः ।
3मान्यामान्यविशेषज्ञाः स्थापिता इति ताः स्मृताः ।। ४२ ।।*

4कुलशील5लब्धपूजामृदवो नातिचोद्भटाः ।
मध्यस्था निभृताः क्षान्ता भोगिन्य इति ताः स्मृताः6 ।। ४३ ।।*

नाना7कलाविशेषज्ञा नानाशिल्पविचक्षणाः ।
गन्धपुष्पविभागज्ञा लेख्यालेख्यविकल्पिकाः ।। ४४ ।।

शयनासनभागज्ञाश्चतुरा 8मधुरास्तथा ।
दक्षाः सौम्याः स्फुटाः श्लिष्टा निभृताः शिल्पकारिकाः ।। ४५ ।।*

ग्रहमोक्षलयज्ञा या रसभावविकल्पिकाः ।9
चतुरा नाट्यकुशलाश्चोहापोहविचक्षणाः ।। ४६ ।।

Abh

(स्वगुणैरिति समानं) लम्भिता गुणैर्योजिता (कलाशीलव) योभिः । कर्कशा सौभाग्यगर्वेण ।

Notes

रूपयौवनसंपन्ना नाटकीयास्तु ताः स्मृताः ।
हेलाभावविशेषाढ्या सत्त्वेनाभिनयेन च ।। ४७ ।।

माधुर्येण च संपन्ना ह्यातोद्यकुशला तथा ।
अङ्गप्रत्यङ्गसंपन्ना1 चतुष्षष्ठिकलान्विता ।। ४८ ।।

चतुराः प्रश्रयोपेताः स्त्रीदोषैश्च विवर्जिताः ।
2सदा प्रगल्भा च तथा त्यक्तालस्या जितश्रमा ।। ४९ ।।

नानाशिल्प3प्रयोगज्ञा नृत्तगीतविचक्षणा ।
4अथ रूपगुणौदार्यधैर्य5सौभाग्य6शीलसंपन्ना ।। ५० ।।

7पेशलमधुरस्निंग्धानुनादिकलचित्रकण्ठा च8 ।
समागतासु नारीषु9 रूपयौवनकान्तिभिः ।। ५१ ।।

न दृश्यते गुणैस्तुल्या यस्याः सा नर्तकी स्मृता ।
सर्वावस्थोपचारेषु या न मुञ्चति पार्थिवम् ।। ५२ ।।

विज्ञेया दक्षिणा दक्षा नाट्यज्ञैरनुचारिका ।
शय्यापाली छत्रधारी10 तथा व्यजनधारिणी ।। ५३ ।।

संवाहिका गन्धयोक्त्री11 तथा चैव प्रसाधिका ।
तथाभरणयोक्त्री च माल्यसंयोजिका तथा12 ।। ५४ ।।

Abh

एवंविधा भवेयुर्याः ता ज्ञेयाः परिचारिकाः ।
नानाकक्ष्या विचारिण्यः तथोपवनसंचराः ।। ५५ ।।

देवतायतनक्रीडा प्रासादपरिचारिकाः ।
यामकिन्यस्तथा चैव याश्चैवंलक्षणाः स्त्रियः ।। ५६ ।।

संचारिकास्तु विज्ञेया नाट्यज्ञैः समुदाहृताः1 ।
प्रेषणेऽकाम2संयुक्ते 3गूह्यगुह्यसमुत्थिते ।। ५७ ।।

नृपैर्यास्तु नियुज्यन्ते ता ज्ञेयाः परिचारिकाः4 ।
सर्वान्तःपुररक्षासु स्तुति5स्वस्त्ययनेन च ।। ५८ ।।

या वृद्धिमभिनन्दन्ति ता विज्ञेया महत्तराः ।
सन्धिविग्रहसंबद्धनानाचारसमुत्थितम् ।। ५९ ।।

6निवेदयन्ति याः कार्यं प्रतिहार्यस्तु ताः स्मृताः ।
अप्राप्त7 रससंभोगा न संभ्रान्ता न चोद्भटाः8 ।। ६० ।।

निभृताश्च सलज्जाश्च कुमार्यो बालिकाः स्मृताः9 ।
पूर्व10राजनयज्ञा याः पूर्वराजाभिपूजिताः ।। ६१ ।।

पूर्वराजानुचरितास्ता वृद्धा इति सुज्ञिताः11 ।

Abh

अथेत्यपि चेत्यर्थः । यामकिन्यः प्रतिदहरं जाग्रति याः ।

Notes

भाण्डागारेष्वधिकृता1 श्चायुधाधिकृतास्तथा ।। ६२ ।।

फलमूलौषधीनां च 2तथा चैवान्ववेक्षिकी ।
गन्धाभरणवस्त्राणां माल्यानां तैव चिन्तिका ।। ६३ ।।

बह्वाश्रये तथा युक्ता3 ज्ञेया ह्यायुक्तिकास्तु ताः ।
इत्यन्तःपुरचारिण्यः स्त्रियः प्रोक्ताः समासतः ।। ६४ ।।

4विशेषणविशेषेण तासां वक्ष्यामि वै द्विजाः ।
अनुरक्ताश्च भक्ताश्च नानापार्श्वसमुत्थिताः ।। ६५ ।।

या नियुक्ता नियोगेषु कार्येषु विविधेषु च ।
न चोद्भटा असंभ्रान्ता न लुब्धा नापि निष्ठुराः ।। ६६ ।।

दान्ताः क्षान्ताः प्रसन्नाश्च जितक्रोधा जितेन्द्रियाः ।
अकामा लोभहीनाश्च स्त्रीदोषैश्च विवर्जिताः ।। ६७ ।।

5सा त्वन्तःपुरसंचारे योज्या पार्थिववेश्मनि ।
कारुकाः कञ्चुकीयाश्च तथा वर्षवराः पुनः ।। ६८ ।।

Abh

विशेषणमिति विशेषमन्याभ्यः, आयुक्तिकानां वक्ष्यामीत्यर्थः । आकाम्य इति परस्य कामयितुमनर्हा अशक्याश्च कामिता हि । सर्वे संसन्ति आयोजनेष्विति

Notes

औपस्थायिकनिर्मुण्डा 1स्त्रीणां प्रेषणकर्मणि ।
रक्षणं च कुमारीणां बालिकानां प्रयोजयेत् ।। ६९ ।।

अन्तःपुराधिकारेषु राजचर्यानुवर्त्तिनाम् ।
सर्ववृत्तान्तसंवाहाः पत्यागारे नियोजयेत् ।। ७० ।।

विनीताः स्वल्पसत्त्वा ये क्लीबा वै स्त्रीस्वभाविकाः ।
जात्या न दोषिणश्चैव ते वै वर्षवराः स्मृताः ।। ७१ ।।

ब्राह्मणाः कुशला वृद्धाः कामदोषविवर्जिताः ।
प्रयोजनेषु देवीनां प्रयोक्तव्या नृपैः सदा ।। ७२ ।।

एतदष्टादशविधं प्रोक्तमन्तःपुरं मया ।
अतः परं प्रवक्ष्यामि बाह्यं पुरुषसंभवम्2 ।। ७३ ।।

राजा सेनापतिश्चैव पुरोधा मन्त्रिणस्तथा ।
सचिवाः प्राड्विवाकाश्च कुमाराधिकृतास्तथा ।। ७४ ।।

Abh

अथ बाह्यपरिवारमाह राजेति । युवराजोऽत्र राजशब्देनोक्तः । (अमात्यइति)

Notes

एके चान्ये च बहवो मान्या ज्ञेया नृपस्य तु ।
विशेषमेषां वक्ष्यामि लक्षणेन निबोधत ।। ७५ ।।

बलवान् बुद्धिसंपन्नः सत्यवादी जितेन्द्रियः ।
दक्षः प्रगल्भो धृतिमान् विक्रान्तो मतिमाञ्छुचिः ।। ७६ ।।*

दीर्घदर्शी महोत्साहः कृतज्ञः प्रियवाङ्मृदुः ।
लोकपालव्रतधरः 1कर्ममार्गविशारदः ।। ७७ ।।

उत्थितश्चाप्रमत्तश्च वृद्धसेव्यर्थशास्त्रवित् ।
परभावेङ्गिताभिज्ञः शूरो रक्षासमन्वितः ।। ७८ ।।

ऊहापोहविचारी च नानाशिल्पप्रयोजकः ।
नीतिशास/?/त्रार्थकुशलस्तथा चैवानुरागवान् ।। ७९ ।।

धर्मज्ञोऽव्यसनी चैव गुणैरेतैर्भवेन्नृपः ।
कुलीना बुद्धिसंपन्ना नानाशास्त्रविपश्चिताः ।। ८० ।।

स्निग्धाः परैरहार्याश्च न प्रमत्ताश्च देशजाः ।
अलुब्धाश्च विनीताश्च शुचयो धार्मिकास्तथा ।। ८१ ।।

पुरोधो मन्त्रिणस्त्वेभिर्गुणैर्युक्ता भवन्ति हि ।
बुद्धिमान्नीतिसंपन्नस्त्यक्तालस्यः प्रियंवदः ।। ८२ ।।

Abh

अमेति सहार्थे सहभवाः सहचारिणोऽमात्या इत्येकोऽर्थः । अनुरागवानिति प्रजासुः प्रजास्वयत्नानुरक्ताः, अनुरागेहि

Notes

पररन्ध्रविधिज्ञश्च यात्राकालविशेषवित् ।
अर्थशास्त्रार्थकुशलो1 ह्यनुरक्तः कुलोद्भवः ।। ८३ ।।

देशवित्कालविच्चैव 2कर्तव्यः क्षितिपैः सदा ।
व्यवहारार्थतत्त्वज्ञा बुद्धिमन्तो बहुश्रुताः ।। ८४ ।।

3मध्यस्था धार्मिका धीराः कार्याकार्यविवेकिनः ।
क्षान्ता दान्ता जितक्रोधाः सर्वत्र समदर्शिनः ।। ८५ ।।

ईदृशाः प्राडि्ववाकास्तु स्थाप्या धर्मासने द्विजाः ।
उत्थिताश्चाप्रमत्ताश्च त्यक्तालस्या जितश्रमाः ।। ८६ ।।

Abh

सार्वगुण्यमिति कौटल्यः, अव्यसनिभिः स्त्रीमद्यमृगयाक्षादावसक्ताः । (अर्थशास्त्रस्येति)अर्थशास्त्रस्ययोऽर्थ एकवाक्यतात्पर्यादिना तज्जानाति । परैरहार्या इति अभेद्याः । ज्ञानं अर्थशास्त्रस्य, (तस्य) विधौ (ज्ञानं) विज्ञानं तदधिष्ठानकौशलं लक्ष्यलक्षणज्ञा इति यावत् । (प्राङि्ववाक इति ) पृच्छति विवादपदे निर्णयमिति प्रायो विवदितारस्तेषां विवेक उच्यते यैस्तैः प्राडि्ववाकः, पृच्छेः क्विबचीति क्विपि दीर्घे प्राडिति रूपम् । विपूर्वस्य ब्रूतेर्घञि विवाक इति । नयोऽत्रार्थशास्त्रं नयहेतुत्वात् ।

Notes

स्निग्धाः क्षान्ता विनीताश्च मध्यस्था निपुणास्तथा ।
नयज्ञा विनयज्ञाश्च ऊहापोहविचक्षणाः ।। ८७ ।।

1सर्वशास्त्रार्तसंपन्नाः कुमाराधिकृतास्तथा ।
बृहस्पतिमतादेषां गुणांश्चाभिकांक्षयेत् ।। ८८ ।।

विज्ञेयं चोपहार्यं च सभ्यानां च विकल्पनम् ।
इत्येष वो मया प्रोक्तः 2प्राडि्ववाकविनिर्णयः 3 ।। ८९ ।।

Abh

एवं विनयोऽत्र धर्मशास्त्रम् । कुमाराणां राजपुत्राणां रक्षार्थमधिकृताः ।

एतच्चैषां संक्षेपेण स्वरूपमुक्तं वितत्य तु तत्प्रधानेभ्य एव सास्त्रेभ्योऽवधारयेदिति दर्शयति बृहस्पतिमतादिति बार्हस्पत्यौशनसादेरित्यर्थः । एषामिति राजसेनापत्यादीनां कुमाराधिकृतपर्यन्तानां यदेतैर्ज्ञातव्यमुपहरणीयं वा संपाद्य तदपि बार्हस्पत्यादेरभिलक्षयेदिति संबन्धः ।

ननु कियन्तः प्राडि्ववाका इत्याह सभ्यानां चेति । तन्मतादेव जानीयादित्यर्थः । प्रजानां मात्स्यन्यायाद्रक्षितुं राज्ञोऽधिकारः, मात्स्यो न्यायश्च विवादनिर्णयेन रक्ष्यते । तत्र च प्राडि्ववाका एव प्रधानम् । तथा च प्राङि्ववाको राजस्थानीय इति लोके प्रसिद्धम् । प्रधाने च व्यपदेशं कुर्वन्नुपसंहरति इत्येष वो मया प्रोक्तः प्राङि्ववा विनिर्णय इति । राजोपयोगीति बाह्याभ्यन्तरपरिवारनिर्णय इति यावत् ।

Notes

अत ऊर्ध्वं प्रवक्ष्यामि चित्राभिनयनं पुनः ।।

इति भारतीये नाट्यशास्त्रे पुंस्त्र्युपचारो नामाध्यायश्चतुर्विंशः ।।1

Abh

अध्यायान्तरमासूत्रयति अत ऊर्ध्वमिति । पुनः पुनरयमभिप्रायो यद्यपि सामान्याभिनये चित्राभिनयोऽस्ति तथापि रसस्वभावविशेषो दर्शितः। श्रृङ्गारतद्व्यभिचार्यादीनां हि प्राधान्यं पूर्वमेव दर्शितम् । चित्राभिनये तु रसाद्युपयोगिबाह्यवस्तुविषयमेवाभिनयानां भावनारूपं मिश्रीकरणात्मकं समानीकरणमुच्यते । तेन चित्राभिनयः सामान्याभिनयविशेषभूत एवेति शिवम् ।।

चतुर्विंशोऽध्यायः किञ्चित्कृतविवेचनः ।
मयाभिनवगुप्तेन शिवदास्यैकशालिना ।।

इति श्रीमहामाहेश्वराचार्याभिनवगुप्तविरचितायां
नाट्यवेदवृत्तावभिनवभारत्यां स्त्रीपुंसोपचारोऽध्यायश्चतुर्विशः ।।

Notes