२३ वैशिकः

श्रीः

नाट्यशास्त्रम्

त्रयोविंशोऽध्यायः1

(वैशिकः)

विशेषयेत्कलाः सर्वा यस्मात्तस्मात्तु वैशिकः2 ।
3वेशोपचारे साधुर्वा वैशिकः4 परिकीर्तितः5 ॥ १ ॥

6यो हि सर्व7कलोपेतः सर्वशिल्पविचक्षणः8 ।
स्त्रीचित्तग्रहणाभिज्ञो9वैशिकः स भवेत्पुमान् ॥ २ ॥

Abh

अभिनवभारती–त्रयोविंशोऽध्यायः
पुंसामशक्तापि तदेकभावमादर्शयन्ती बहुभावपूर्णा ।
वेश्यामतिर्निवृतिधाम यत्स्था तस्मै नमस्तात्परमेश्वराय ॥

सामान्याभिनयशेष एव वैशिक इत्युपसंहृतं वृत्तपूर्वेऽध्याये –बाह्यमप्युपचारं तु प्रवक्ष्याम्यथ वैशिके– इति, वैशिको वत्त्कव्य इति सङ्गतिः । तदुपक्रममाणो…माद्येन तावन्निरुक्तमाह विशेषयेदिति । विशेषणं जानाति, तेनातिकामयतीति च धात्वर्थो लक्षणमिति हि तद्विदो वैशेषिका (वैशिका ? ) (वैशिकः) वेश्याकामुकः स च सर्वान् कामान् विशेषयत्सतिवैदग्ध्यात् । अथ व्याकरणोचितमस्य निर्वचनमाह वेशोपचारे साधुर्वेति । वेशो वेश्या उपचारस्तत्र भव इत्यर्थः । भवार्थमेव विभजति साधुरित्यनेन । तस्मादसौ कलासुं विशेषज्ञ इत्याह यो हि सर्वकलोपेत इति ।

Notes

गुणास्तस्य तु विज्ञेयाः स्वशरीरसमुत्थिताः1 ।
आहार्याः सहजाश्चैव त्रयस्त्रिंशत्समासतः ॥ ३ ॥

शास्त्राविच्छिल्प2सम्पन्नो रूपवान् प्रियदर्शनः ।
विक्रान्तो 3धृतिमांश्चैव4 वयोवेष5कुलान्वितः ॥ ४ ॥

सुरभिर्मधुरस्त्यागी सहिष्णुरविकत्थनः ।
अशङ्कितः प्रियाभाषी चतुरः शुभदः6 शुचिः ॥ ५ ॥

कामोपचारकुशलो7 दक्षिणो देशकालवित् ।
8अदीनवाक्यः 9 स्मितवान्9a वाग्मी दक्षः प्रियंवदः ॥ ६ ॥

10स्त्रीलुब्धः संविभागी च शुद्धधानो दृढस्मृतिः11 ।
गम्यासु चाप्यविस्त्रम्भी मानी चेति12 13हि वैशिकः ॥ ७ ॥*

14अनुयुक्तः शुचिर्दक्षो15 दक्षिणः प्रतिपत्तिमान् ।
भवेच्चित्राभिधायी16 च 17वयस्यस्तस्य 18तद्गुणः ॥ ८ ॥

विज्ञानगुणसम्पन्ना 19कथिनी लिङ्गिनी तथा ।

Abh

आहार्याः शास्त्रज्ञंतादयः । सहजा रूपलावण्यादयः । गम्यासु चाप्यविस्रम्भीति सहसैव नाभियुक्तः, अपि तु स्फुटभावमन्वेष्यति । भवेत् चित्राभिधायीति वक्रोक्तिकुशलः । तस्येति वैशिकस्य । कथिनी बृहत्कथादिलम्भ [न] कथानाकर्णनकुशला । लिङ्गिनी चित्रकारी । प्रातिवेश्या

Notes

1प्रातिवेश्या सखी दासी कुमारी कारुशिल्पिनी2 ॥ ९ ॥

धात्री 2aपाषण्डिनी चैव तथा रङ्गोपजीविनी3 ।
प्रोत्साहनेऽथ4 कुशला5 मधुरकथा दक्षिणाथ6 कालज्ञा ॥ १० ॥*

7लडहा संवृतदमन्त्रा दूती त्वेभिर्गुणैः कार्या8 ।
तयाप्युत्साहनं9 कार्यं 10नानादर्शितकारणम् ॥ ११ ॥

यथोक्तकथनं चैव तथा भावप्रदर्शनम् ।
11न जडं 12रूपसम्पन्नं नार्थवन्तं न चातुरम् ॥ १२ ॥

Abh

निकटावसथस्था । पाषण्डिनी व्रतिनी । रङ्गोपजीविनी रजकस्त्री चारणस्त्री । प्रोत्साहने कुशलेत्यादीनि सर्वासां विशेषणानि । उतः सह प्रोत्साहः प्रोत्साहनमिति द्वौ णिचौ । प्रोत्साहयति नायिका तु नायकस्तया प्रोत्साहयति संमुखीकारयतीत्यर्थः ।

तस्या व्यापारान्तरमाह –यथोक्तेति संमुखीकरणं सन्देशार्पणं काम्याया भावपरीक्षणं चेति द्वितयमनया कार्यमित्यर्थः । जडः करणीयं न शक्नोति कर्तुं प्रत्युत्पन्नमतिसाध्यानि कृत्यानीत्याह । रूपेणार्थेन वा युक्तः स्वार्थतामाहरेत् । आतुरो हि दृश्यमान एव जुगुप्सां जनयति, स च रतेर्निरपेक्ष इत्यातुरो न कामदूतः ।

Notes

दूतं 1वाप्यथवा दूतीं बुधः कुर्यात्कदाचन2 ।
कुलभोगधनाधिक्यैः2a 3aकृत्वाऽधिकविकत्थनम् 3॥ १३ ॥

4दूती निवेदये4aत्काममर्थां श्चै5वानुवर्णयेत् ।
6न चाकामप्रवृत्तायाः 7क्रुद्धाया वापि सङ्गमः ॥ १४ ॥

8नानुपायः प्रकर्तव्यो दूत्या हि9 पुरुषाश्रयः ।
उत्सवे रात्रिसञ्चार उद्याने 10मित्रवेश्मनि ॥ १५ ॥

10aधात्रीगृहेषु सख्या वा 11तथा चैव निमन्त्रणे12।
व्याधितव्यपदेशेन शून्यागारनिवेशने13॥ १६ ॥

14कार्यः समागमो नॄणां 15स्त्रीभिः प्रथमसङ्गमे ।
एवं समागमं कृत्वा सोपायं विधिपूर्वकम्16 ॥ १७ ॥

17अनुरक्तां विरक्तां वा 18लिङ्गाकारैस्तु लक्षयेत् ।

Abh

नानादर्शितकारणं कृत्वा प्रोत्साहनमित्युक्तं तानि कारणान्याह कुलभोगेत्यादि । उत्सव इति स्वगृह एव रात्रिचारप्रधानो य उत्सवः । प्रथमसङ्गम इति गान्धर्वविवाहे वेश्यापुनर्भूसङ्गमे चेत्यर्थः ।

Notes

स्वभावभावातिशयैर्नारी या मदनाश्रया1 ॥ १८ ॥

करोति निभृतां2 लीलां नित्यं3 सा मदनातुरा ।
4सखीमध्ये गुणान् 4aब्रूते स्वधनं च प्रयच्छति5 ॥ १९ ॥

6पूजयत्यस्य मित्राणि द्वेष्टि शत्रुजनं सदा7 ।
8गमागमे सखीनां या हृष्टा भवति चाधिकम् ॥ २० ॥

तुष्यत्यस्य कथाभि9aस्तु9 सस्नेहं च निरीक्षते ।
सुप्ते 10तु पश्चात् स्वपिति 11चुम्बिता प्रतिचुम्बति ॥ २१ ॥*

उत्तिष्ठत्यपि पूर्वं च तथा क्लेशसहापि च12 ।
13उत्सवे मुदिता या च व्यसने या च दुःखिता ॥ २२ ॥

एवंविधैर्गुणैर्युक्ता 14aत्वनुरक्ता तु सा स्मृता14 ।
विरक्तायास्तु चिह्नानि15 चुम्बिता नाभिचुम्बति16 ॥ २३ ॥

Abh

(स्वभावेति) स्वभावे भावे सुरते येऽतिशया नखरदनसहिष्णुतादयस्तैरुपलक्षिता अनुरक्तेति संबन्धः। मित्राणि शत्रुजनमिति नायकस्येति शेषः । पश्चात्संवेशनं पूर्वमभ्युत्थानं च । तेन विना किमत्र सुखमिति

Notes

1अनिष्टां च कथां ब्रूते प्रियमुक्तापि कुप्यति ।
2प्रद्वेष्टि चास्य मित्राणि भजतेऽरिजनं तथा ॥ २४ ॥

शेते पराङ्मुखी 3चापि शयने पूर्वशायिनी ।
सुमहत्युपकारे4ऽपि न तोषमुपयाति च5 ॥ २५ ॥

क्लेशं न सहते 6चापि तथा कुप्यत्यकारणात्7 ।
8या स्यादेवंप्रकारा तु विरक्तां तां विनिर्दिशेत् ॥ २६ ॥

9हृदयग्रहणोपायमस्या व्यापारचेष्टितम् ।
अर्थप्रदर्शनं चैव 10उपदानं पुनर्भवेत् ॥ २७ ॥

11अकारणमुपन्यासस्तथैव व्याधितापि च ।

Abh

दर्शयति उत्सवे व्यसन इति नायकस्य । अनिष्टां कथां ब्रूते इति पर्वतादपि (पूर्वकृतामिति ? ) । हृदयं गृह्यते यैरुपायैः अस्या इति रक्ताया व्यापारचेष्टितमिति तदीय हृदयग्रहणव्यापारतात्पर्यत्वं कामतन्त्रे चेष्टितम् । अर्थस्य प्रदर्शनमिदं ममास्तीति । उपन्यासः (उपदानं? ) अर्थस्य, दास्यामीति । उपन्यासः अन्यमुखेन काचिदनुरक्तस्याङ्गनास्तीति कथनम् । (व्याधितेति) विचित्रा आधयो यस्य तस्य भावः । ततो हेतोरसेवनम् । विचित्राभिप्रायदर्शनव्याजेन तन्निकटादपसर्पणम् इति यावत्

Notes

व्याजात्त्यागोऽथ निकटाद्भावोपक्षेप एव च ॥ २८ ॥

दारिद्र्याद्व्याधितो दुःखात्पारुष्याद्दुःश्रवा1त्तथा ।
2aप्रवासगमनादेव2 ह्यति2bलोभादतिक्रमात् ॥ २९ ॥

3अतीवाभिगमाच्चापि3a तथा विप्रियकारणात्4।
एभिः स्त्री पुरुषो वापि कारणैस्तु विरज्यते ॥ ३० ॥

भावग्राहीणि नारीणां कार्याणि मदनाश्रये ।
5तुष्टिमेति यथा नारी प्राप्यते पुरुषैरथ ॥ ३१ ॥

लुब्धामर्थप्रदानेन कलाज्ञानेन पण्डिताम् ।
चतुरां लडहत्वेन6 6aह्यनुवृत्त्या च7 मानिनीम् ॥ ३२ ॥

[ भूषणग्रहणाच्चापि श्रृङ्गारमुखरो8 भवेत्9 ] ।
पुरुषद्वेषिणीमिष्टैः कथायोगैरुपक्रमैः10 ॥ ३३ ॥

Abh

(व्याजात्परित्याग इति) । एषोऽन्यत्र रागीत्यन्यमुखेनाभिधानं भावोपक्षेपः । रक्ताया अप्येतानि विरागकारणानीत्याह दारिद्र्यादित्यादिभ्यः, अपत्यमरणादेः, अश्राव्यत्वं यद्वचनं पारुष्यं ततो यत एवं तेनास्यापि रागं रक्षेदिति भावग्राहीणीति । प्राप्यत इति सेव्यत इति यावत् । पुरुषैरिति कुशलैरिति भावः ।

अस्याः कथं तुष्टिरित्याह लुब्धामित्यादि । पण्डितामिति कलाविदाम् । लडहत्वेन प्रागल्भ्येन ।

Notes

1उपक्रीडनकैर्बालां 2भीरुमाश्वासनेन च ।
गर्वितां नीचसेवाभिरुदात्तां शिल्पदर्शनैः ॥ ३४ ॥

सर्वासामेव नारीणां त्रिविधा प्रकृतिः स्मृता ।
उत्तमा मध्यमा 3नीचा वेश्यानां तु स्वभावजाः4 ॥ ३५ ॥*

या विप्रियेऽपि तिष्ठन्तं प्रियं वदति नाप्रियम्5 ।
6न दीर्घरोषा च तथा 7कलासु च विचक्षणा ॥ ३६ ॥

8शीलशोभाकुलाधिक्यैः9 पुरुषैर्या च काम्यते ।
कुशला कामतन्त्रेषु दक्षिणा रूपशालिनी10 ॥ ३७ ।।

गृह्णाति कारणाद्रोषं 11विगतेर्ष्या ब्रवीति च ।
कार्यकालविशेषज्ञा 12सुरूपा सा स्मृतोत्तमा ।। ३८ ।।

13पुरुषैः काम्यते या तु तथा कामयते च तान् ।
कामोपचारकुशला प्रतिपक्षाभ्यसूयिनी14 ।। ३९ ।।

Abh

नीचसेवाभिरिति पादस्पर्शनादिभिः । शिल्पदर्शनैरिति विस्मयहेतुभिरित्यर्थः । प्रतिपदमशक्यो भेदसंग्रह इत्याशयेनाह सर्वासामेवेति उत्तममध्यमाधमानां प्रत्येकमिति यावत् ।

Notes

ईर्ष्यातुरा 1त्वनिभृता1a 2क्षीणक्रोधाति3गर्विता ।
क्षणप्रसादा4 या चैव सा नारी मध्यमा स्मृता ।। ४० ।।

5अस्थानकोपना या तु 6दुष्टशीलातिमानिनी ।
चपला परुषा चैव7 दीर्घरोषाधमा स्मृता ।। ४१ ।।

सर्वासां नारीणां यौवन8भेदाः स्मृतास्तु चत्वारः ।
नैपथ्यरूपचेष्टागुणेन9 श्रृङ्गारमासाद्य ।। ४२ ।।

10aपीनोरुगण्डजघनाधरस्तनं10 कर्कशं रतिमनोज्ञम् ।
11श्रृङ्गारसमुत्साहं प्रथमं तद्यौवनं ज्ञेयम् ।। ४३ ।।

गात्रं पूर्णावयवं पीनौ च पयोधरौ नतं12 मध्यम् ।
कामस्य 13सारभूतं यौवनमेतद् द्वितीयं तु ।। ४४ ।।

सर्वश्री14संयुक्तं रतिकरणोत्पादनं रतिगुणाढ्यम् ।
कामाप्यायितशोभं यौवनमेतत्तृतीयं तु ।। ४५ ।।

Abh

(सर्वासामिति) प्रथमं यौवनं यावद्विंशति । एवं त्रिंशच्चत्वारिंशत्पञ्चाशदिति विभागः । अन्ये तु षोडशपञ्चविंशतिपञ्चत्रिंशत्पञ्चचत्वारिंशादिति विभागमाहुः।

Notes

1नवयौवने 2व्यतीते तथा द्वितीये तृतीयके वापि3।
4श्रृङ्गारशत्रुभूतं यौवनमेतच्चतुर्थँ तु।। ४६।।

5अम्लनगण्डजघनाधरस्तनं 6किञ्चिदुनलावण्यम्।
7काम प्रति नोच्छ्वासं यौवनमेतच्चातुर्थँ तु।। ४७।।

नात्यर्थँ क्लेशसहा न 8कुप्यति न हृष्टति स्त्रीभ्यः9।
10सौख्यगुणोष्ववसक्ता नारी नवयौवना ज्ञेया।। ४८।।

किंचित्करोति मानं किंचित्क्रोधं11 च मत्सरं चैव।
क्रोधे च भवति तूष्णीं यौवनभेदे द्वितीये तु।। ४९।।

रतिसंभोगो दक्षा प्रतिपक्षासूयिना12 रतिगुणाढ्या13।
14अनिभृत14a गर्वितचेष्टा 15नारी ज्ञेया तृतीये तु।। ५०।।

16चित्तग्रहणसमर्था कामाभिज्ञा 17त्वमत्सरोपेता।
18अविरहितमिच्छति सदा पुरुषं नारी चतुर्थे तु।। ५१।।

Abh

एषूपचारभेदमाह नाप्यर्थमिति क्लेशः दशनादिकृत्यं नातीव सहते। रतिगुणाढ्या कामतन्त्रप्रयोगप्रगल्भेत्यर्थः। अविरहितमिति भावैस्त्रिभिरपि।

Notes

यौवन 1भेदास्त्वेते विज्ञेया नाटकेषु चत्वारः ।
पुनरेव 2तु पुरुषाणां च कामतन्त्रे प्रवक्ष्यामि ।। ५२ ।।

चतुरोत्तमौ तु मध्यस्तथा3 च नीचः 4प्रवृत्तकश्चैव ।
5स्त्रीसंप्रयोगविषये ज्ञेयाः पुरुषास्त्वमी5a पञ्च ।। ५३ ।।

6समदुःखक्लेशसहः प्रणयक्रोधप्रसादने कुशलः ।
7योऽर्थी नात्मच्छन्दो दक्षश्चतुरः 8स बोद्धव्यः ।। ५४ ।।

यो विप्रियं न कुरुते 9नार्याः किंचिद्विरागसंज्ञातम्10 ।
11अज्ञातेप्सितहृदयः 12स्मृतिमान्धृतिमान् स तु ज्येष्ठः13 ।। ५५ ।।*

मधुरस्त्यागी रागं न 14याति मदनस्य चापि वशमेति ।
अवमानितश्च नार्या विरज्यते चोत्तमः15a स पुमान्15 ।। ५६ ।।*

16सर्वार्थैर्मध्यस्थो भावग्रहणं करोति यो नार्याः17 ।
किंचिद्दोषं दृष्ट्वा विरज्यते मध्यमः स भवेत्18 ।। ५७ ।।

Abh

उपचारार्थं पुरुषभेदो ज्ञेय इत्याशयेनाह चतुरोत्तमावित्यादिपञ्च क्रमेण लक्षयति समदुःख इति । अज्ञातेप्सितहृदय इति गम्भीर इत्यर्थः । ज्येष्ठ इति यावत् । नन्वन्यदीयं

Notes

1काले दाता ह्यवमानितोऽपि न क्रोधमतितरामेति ।
दृष्ट्वा 2व्यलीकमात्रं विरज्यते मध्यमोऽयमपि ।। ५८ ।।

अवमानितोऽपि नार्या
निर्लज्जतयाभ्युपैत्यविकृतास्यः3 ।
4अन्यतरं संक्रान्तां
स्नेहपरावृत्तभावश्च ।। ५९ ।।

अभिनवकृते5 व्यलीके प्रत्यक्षं रज्यते दृढतरं यः ।
6मित्रैर्निवार्यमाणो विज्ञेयः सोऽधमः पुरुषः 7।। ६० ।।

8अविगणितभयामर्षो मूर्खप्रकृतिः प्रसक्तहासश्च9 ।
एकान्तदृढग्राही निर्लज्जः कामतन्त्रेषु ।। ६१ ।।

रतिकलहसंप्रहारे–
ष्वकर्कशः10 क्रीडनीयकः स्त्रीणाम्11 ।
एवंविधस्तु 12तज्ज्ञै12a र्विज्ञेयः13a संप्रवृत्तस्तु 13 ।। ६२ ।।

Abh

कार्यवशात्संक्रामेदित्याह स्नेहेति अन्यदीयेन स्नेहेन प्रेम्णा परावृत्तः तद्विषयो भावोऽभिप्रायो यस्याः ।

Notes

नानाशीलाः1 स्त्रियो ज्ञेया गूढार्थहृदयेप्सिताः2 ।
विज्ञाय तु यथा3सत्त्वमुपसर्पेत्तथैव ताः4 ।। ६३ ।।

भावाभावौ विदित्वाऽथ तत्र5 तैस्तैरुपक्रमैः ।
पुमानुपचरेन्नारीं कामतन्त्रं समीक्ष्य तु ।। ६४ ।।

साम 6चोपप्रदानं च 7भेदो दण्डस्तथैव च ।
उपेक्षा चैव कर्तव्या नारीणां विषयं प्रति ।। ६५ ।।

तवास्मि मम चैवासि8 दासोऽहं त्वं च मे प्रिया ।
आत्मोपक्षेपणकृतं9 10यत्तत्सामेति कीर्तितम् ।। ६६ ।।

काले काले प्रदातव्यं धनं विभवमात्रया ।
11यन्निमित्तान्तरकृतं प्रदानं नाम तत्स्मृतम्12 ।। ६७ ।।

Abh

ननु किमनेन स्त्रीणां भावज्ञानेनेत्याह नानाशीला इति । अर्थनमर्थः अभिप्रायः गूढाभिप्रायं हृदयमासाम् । यथासत्त्वमिति यथाशयम् । भावाभावाविति अनुरागविरागौ नारीणां विषये बन्धनं स्वीकारः तं प्रतीति तस्मिन्साध्ये सामादयः उपेक्षान्ताः पञ्चोपाया इत्यर्थः । तान् क्रमेण व्याचष्टे तवास्मीत्यादि । आत्मन उपक्षेपो निजभावप्रदर्शनम्, काले दिवसे दातव्यमिति

Notes

भेदः स्यात्तत्प्रियस्येह सोपायं दोषदर्शनम् ।
बन्धनं ताडनं 1चापि दण्ड इत्यभिधीयते ।। ६८ ।।

मध्यस्था2मानयेत्साम्ना 3लुब्धां चोपप्रदानतः ।
अन्यावबद्धभावां च भेदेन4 प्रतिपादयेत् ।। ६९ ।।

दुष्टाचारे समारब्धे 5त्वन्यभावसमुत्थिते ।
दण्डः पातयितव्यस्तु6 मृदुताडनबन्धनैः ।। ७० ।।

[7नायकः पुरुषो वाच्यो नायिकां ताडयेच्च ताम् ।
ताडयेत्तां बुधो नारीं रज्ज्वा वेणुदलेन वा ] ।। ७१ ।।

सामादीनां प्रयोगे तु परिक्षीणे यथाक्रमम् ।
न 8स्याद्या च समापन्ना तामुपेक्षेत बुद्धिमान् ।। ७२ ।।

Abh

नियमे न सति निमित्तविशेषकृतेन प्रमोदव्यसनादिनिबन्धनेन दानेन वर्तयतीत्यर्थः । तस्या योऽन्यः प्रियः तस्य दोषास्तथा दृश्यन्ते यथा तया सत्यत्वेन प्रतीयेरन्निति भेदः तदाह सोपायमिति । चतुर्णामुपायानां स्वं स्वं विषयमाह मध्यस्थामिति । किञ्चित् स्निह्यन्तीमित्यर्थः । आनयेत् स्वीकुर्यात् । प्रतिपादयेदिति आत्मनि संमुखीभावं गमयेत् । दुष्टाचार इति देशात्पलायनं पुरुषान्तरगृह एव वास इत्यादिके । तत्रापि च स्त्रीषु निरपेक्षः स्यादिति मृदुताडनबन्धनैरिति । उपेक्षाया विषयमाह सामादीनामिति दण्डेनापि हि तत्साम्मु–

Notes

मुखरागेण नेत्राभ्यं विज्ञेयो 1भावचेष्टितैः ।
द्वेष्यो वापि प्रियो वापि मध्यस्थो वापि योषिताम् ।।७३।।

अर्थहेतोस्तु वेश्यानां 2प्रियो वा यदि वाप्रिया (? वाप्रियः) ।
3गम्य 3aएव नरो नित्यं मुक्त्वा दिव्यनृपस्त्रियः ।।७४।।

द्वेष्यं तु प्रियमित्याहुः प्रियं प्रियतरं 4तथा ।
5aसुशीलमिति5 दुश्शीलं गुणाढ्यमिति निर्गुणम्6 ।। ७५ ।।

प्रहसन्ती च नेत्राभ्यां यं दृष्ट्वोत्फुल्लतारका ।
प्रसन्नमुखरागा7च्च लक्ष्यते भावरूपणैः ।। ७६ ।।

8भावाभावौ 8aविदित्वैव निरस्तैस्तैरुपक्रमैः ।
9यत्नादुपचरेन्नारीं कामतन्त्रं प्रतीक्ष्य तु ।। ७७ ।।

Abh

ख्यं त्यजति या तस्याः किञ्चिदुपेक्षेत बुद्धिमानित्युक्तम् । किं संबुध्यत इत्याह मुखरागेणेत्यादि । वेश्याचित्तं तु दुर्लक्षमिति प्रयत्नपरीक्ष्यमित्याशयेनाह अर्थहेतोस्त्विति । किं सर्वासां वेश्यानामयं विधिः नेत्याह मुक्त्वा दिव्यनृपस्त्रिय इति । ननु वचने वेश्याहृदयमुपलक्षेतेत्याह द्वेष्ये तु प्रिय इत्याहुरिति । तुरप्यर्थे ।

ननु किमस्वकार्यहृदया एव ताः, नेत्याह उपचारबलत्वादिति अर्थकाममयादित्यर्थः मध्ये वा नो

Notes

उपचार1बलत्वाच्च विप्रलम्भात्तथैव च2 ।
तासु निष्पद्यते कामः काष्ठादग्निरिवोत्थितः3 ।। ७८ ।।

योषितामुपचारोऽयं यथोक्तो वैशिकाश्रयः4 ।
कार्यः प्रकरणे4a सम्यग्यथायोगं5 च नाटके ।। ७९ ।।

एवं 6वेश्योपचारोऽयं तज्ज्ञैः कार्यो7 द्विजोत्तमाः ।
अत ऊर्ध्वं 8प्रवक्ष्यामि प्रकृतीनां तु लक्षणम्9 ।। ८० ।।

10aइति भारतीये नाट्यशास्त्रे त्रयोविंशोऽध्यायः10 ।

Abh

सेवया (?) । ननु यद्येवंभूताः कथं ताः काम्यन्ते जनैरित्याशङ्क्यावृत्त्यैतदेवाह उपचारबलत्वाच्चेति । यतो हृदयग्रहणोचितमुपचारं निन्दती मध्ये च विप्रलम्भयन्ती तस्मात् काम उत्सुको भवति । कामाभिनिवेशी स इत्युक्तम् । काष्ठादग्निरिति प्रत्युत दुश्चिकित्स इत्यर्थः ।

वैशिकपुरुषाधिकारे प्रवृत्तमध्यायं प्रकृते उपयोजयति योषितामितिनाटक इति दिव्यवेश्यानां तत्र भावात् पताकानायकादिगतत्वेन चेति शिवम् ।

अध्यायो वैशिकः सोऽयं त्रयोविंशतिपूरणः ।
कृतोऽभिनवगुप्तेन भद्रग्रन्थिपदक्रमः ।
इति श्रीमहामाहेश्वराचार्याभिनवगुप्तविरचितायां नाट्यवेदवृत्तावभिनवभारत्यां
वैशिकस् त्रयोविंशोऽध्यायः ।।

Notes