श्रीः
नाट्यशास्त्रम्
Abh
द्वाविंशोऽध्यायः1
(सामान्याभिनयः)
सामान्याभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः ।
अभिनवभारती–द्वाविंशोऽध्यायः
भेदेनात्माभिमुखतां नयन्तं भेदकारणम् ।
सामान्याभिनयाकारगर्वमूर्तिं शिवं नुमः ॥
इहान्यदित्युपरञ्जकं च अभिनयं चान्याभिनयं समं च तदिति तत्र भवः सामान्याभिनय इति परमार्थः । कोहलमतानुसारिभिर्वृद्धैः सामान्याभिनयस्तु षोढा भण्यते । तथा हि कोहलः –
शिष्टं कामं मिश्रं वक्रं संभूतमेकयुक्तत्वम् ।
सामान्याभिनये यत् षोढा विदुरेतदेव बुधाः ॥ इति ।
तत्र सामान्यमिति साधारणमुच्यते तेन सर्वेष्वभिनयेषु यद्रूपमवशिष्टं पूर्वं नोक्तमवश्यं वक्तव्यं च कविनटशिक्षार्थं तद्येनाध्यायेनाभिधीयते स सामान्याभिनयः, सोऽभिनयेषु सामान्यभूतः साधारणभूतोऽभिनयविषयत्वात् स्ववाच्याभिमुख्यनयनाद्वाभिनय इति व्युत्पत्त्या । तथा हि सात्त्विकस्य हावभावहेलादिना विशेषः पूर्वमनुक्तोऽभिधीयते । विषयश्चैवं ‘षडात्मकः शारीरः’ (२२–४३) इत्यादिना ‘आलापश्च प्रलापश्च’ (२२–५२) इत्यादिनाङ्गिकवाचिकयोः ।
ननु ‘अङ्गाद्यभिनयस्यैव यो विशेषः’(२५–१) इत्यतः चित्राभिनयात् कोऽस्य विशेषः, उच्यते–तत्र वागङ्गसत्त्वव्यामिश्रत्वेन चित्रता । इह तु प्रत्येकनियतस्यानुक्तस्य
Notes
1 भ एकविंशः जादिषु चतुर्विंशः चय –त्रयोविंशः
Abh
विशेषान्तरस्याभिधानमिति । तथा हि तत्र चित्रशब्दं पठिष्यति ‘अनुक्त उच्यते चित्रः’ इति (२५–१) तथा (चेह तु) सामान्याभिनयः कामोपचारः, स हि सकलप्राणिवर्गंसाधारण आभिमुख्यं नयति च सर्वं जन्तुवर्गमिति वागङ्गसत्त्वलक्षणेन सकलेन सामान्यात्मना चाभिनयेन अभिनीयत इति । तत्कामोपचारः स्त्रीपुरुषस्वभावः तदवस्थाभेदेनेहाभिनीयत इति सामान्याभिनयोऽयमध्यायः । अत एवैतदध्यायशेषभूतकामोपचार– प्रतिपादकमेवाध्यायं वैशिकोपचाराख्यं मन्तव्यम् । तथा समान्यमिति समानानां कर्म सामान्यं च तदभिनयनं च । तत्तेनैकमेवाभिनयं गमयितुं यथासम्भवं बहूनामभिनयानां याभिनयक्रिया एकं तदेवाभिनयक्रियारूपं कर्म समानानां सताम् ।
नन्वेवमेकत्राभिनये किं बहुभिरभिनयैः । तत्र केचिदाहुः–स्वोपस्थानेषु साध्येषूपस्कारांशो व्यापार इति । तच्चासत्, नहि नाटकादौ सूत्रेष्विवोपस्कारो युक्तः । स ह्यत्र प्रत्युत दोषाय, यथाह– “काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवत्’ *इत्यादिना । प्रविस्पष्टपराकरणं तत्र निमित्तं स्पष्टार्थेन वाक्यमात्रेण तत्सिद्धेः ।
तत्रोक्तं श्रीशङ्कुकादिभिः–इह लोकानुसारिनाट्यत् लोके सुखदुःखाद्यावेशविवशो वक्ता, तत एव स्तम्भस्वेदादिभिर्बृंहितं अवधानबन्धोऽपि गुणक्रियादिस्वरूपसाहचर्याभ्याससंस्कृतः (तं ?) शब्दप्रयोगः (गं?) तदुपचिताङ्गोपाङ्गविकारसंकीर्णमेव कुर्वाणो दृश्यते–इति ।
(1) यत्र त्वसत्यतो वक्तव्यं तदस्य निरुक्तमष्टमेऽध्याये–
विभावयति यस्माद्धि नानार्थार्थप्रयोगतः ।
शाखाङ्गोपाङ्गसंयुक्तं तस्मादभिनयः स्मृतः ॥ –तुलना– ना. शा. ८.८.
इत्येवमन्तं श्लोकं व्याचक्षाणैः । (न तथा) सामान्यस्य समानीकृतसकलाङ्गोपाङ्गकर्मणा सतोऽभिनयनं येनालातचक्रप्रतिमता प्रयोगस्य जायते । यथोक्तं ‘प्रयोगश्चास्य कीदृश’ इति, यद्वक्ष्यते
Notes
*भामहालङ्कारे (२. १९) भट्टिकाव्ये (The is Kavi’s remark. It is reliable) च
Abh
‘शिरोहस्तकटीवक्षोजङ्घोरुकरणेषु तु ।
समः कर्मविभागो यः सामान्याभिनयस्तु सः । (अ २२.७३) इति
(२) सामान्य इत्यनेनाशेषाभिनयविशेषा आङ्गिकादिगता उपलक्षिताः तत्कृतोऽभिनयः । यद्वक्ष्यति –
कृत्वा साचीकृतां दृष्टिं शिरः पार्श्वे नतं तथा ।
तर्जनीं कर्णदेशे च बुधः शब्दं विनिर्दिशेत् ॥ इति (२२. ८२)
(३) अत्र हि दृष्टिविशेषः शिरोविशेषो हस्तविशेषश्च संभूयैकमभिनयं प्रत्येकोऽभिनयः संपद्यते । (४) एकैकेन तु शब्दाभिनयस्य कापि मात्रा निष्पद्येत, एवमेव तृतीयपक्षादस्य विशेषः । तत्र हि एकैकस्याप्यभिनयनेऽस्य (संभूतत्वेन) सामर्थ्यम् । (५) तथा विघ्नसंभावना* विहीनसकलसाधारणस्पष्ट भाव– साक्षात्कारकल्पाध्यवसायसंपत्तये सर्वेषां प्रयोग इत्युक्तम् । (६) तथाभिनय इति तद्विशेषो यत्र उत्यते, स च साधारणरूपः सामान्याभिनयः । तथा हि– प्रकटाक्षिप्रेक्षणाद्यं यं यत्नं कुशलं प्रयोक्ता गृह्णाति तेनैव तदुचितशिरःकर्मान्तमस्य संपाद्यम् + इति षोढा गुरुभिर्निदर्शितः ।
वयं तु [न] मन्महे– रसभावाध्याययोर्वागङ्गसत्त्वजास्त (त्त)द्रसभावेषु दर्शितास्ते कथं प्रयोज्या इत्ययमध्यायः । यथा हि किराटगृहाद् गन्धद्रव्याण्यानीय गान्धिकेन समानीक्रियते अस्येयान् भाग इदं पूर्वमिति, एवमात्राध्यायेऽभिनयाः । तत्र श्रृङ्गारस्य प्राधान्यात् तत्रैवाभिनयानां भागयोगेन पौर्वापर्ययुक्त्या च समीकरणं सत्त्वातिरिक्त इति । तेन सामान्यानां कर्म समानीकरणं भावनप्रायमभिनयविषयं स्वयं चाभिनयरूपं सामान्याभिनयं श्रृङ्गारमुखेन चान्यदुपनेयमिति । तदेतत्सर्वं हृदये कृत्वा मुनिराह सामान्याभिनयो नाम ज्ञेय (२२.१. प्रथमार्ध) इति । नाम्नैव ज्ञातुं शक्योऽन्वर्थत्वादस्येति भावः । तत्तु व्याख्यातम् ।
नन्वेवं तत्र न किंचिदवशिष्यते वक्तव्यमित्याशङ्क्यावृत्याह सामान्याभिनयो नाम ज्ञेय (२२.१. प्रथमार्ध) इति । नामशब्दः प्रसिद्धिद्योतकः । तदयमर्थः –यद्यपि ज्ञेयः [स्थिर] विषये सामान्याभिनयः
Notes
*षष्ठेऽध्याये रससूत्रव्याख्याने सप्तविघ्ना उक्ताः । † इदमार्याया विकाररूपं स्यात् – प्रकटाक्षवीक्षणाद्यं यत्नं कुशलप्रयोगयोक्ता यम् । गृह्णाति तेन तु तदुचितशिरः कर्मान्तमस्य संपाद्यम् ॥ इति स्यात् ।
1तत्र कार्यः प्रयत्नस्तु नाट्यं सत्त्वे प्रतिष्ठितम् ॥ १ ॥
Abh
प्रसिद्धोऽपि वाक्यार्थबलात्, तथापि यो वागङ्गसत्त्वेभ्यो जातः तद्विषयः सामान्याभिनयो व्याख्यातः । तत्रेति विषये तन्निरूपणायामस्माकं प्रयासः कार्य एव । आहार्यो हि यद्यप्यभिनयान्तरेभ्यो न्यूनस्तथापि तस्य सिद्धस्वरूपत्वान्नात्रोपादानम् । आङ्गिकादिक्रियाणां हि पूर्वापरीभूतरूपतया सम्भावनीयवि (शेष)– भावनादेकीकारात्मा सामान्याभिनयो यत्नसंपाद्य एव । आहार्यस्य तु तन्मध्ये स्थिरत्वेनावस्थानाद्यत्न सिद्ध एवासौ । अत एवाहार्येऽपि भविष्यति सामान्याभिनयचिन्ता । न तु सर्वथैवास्य तत्र त्यागः । तथा हि “वागङ्गालङ्कारैः” (२२–१४) इति लीलायां, “माल्याच्छादनविलेपनभूषनाणां” (तुलनाः २२–१६) इति वच्छित्तौ, “वागङ्गाहार्यसत्त्ववेगेन” (२२–१७) इति विभ्रमे, तस्य सातिशयनिरूपणं भविष्यति ।
अन्ये त्वाहुः–आन्तरभावानपेक्ष एवाहार्यो दण्डकमण्डल्वक्षसूत्रादिर्व्रतविशेषादिमात्रं गमयति, न तु भावं कंचित् । उज्ज्वलो हि वेषो न रतिं गमयति नापि मलिनः शुचम् । तदभावेऽपि हि ते भवत एव । औचित्यमात्रं ह्येतद्रतावुज्ज्वलो वेषः शुचि मलिन इति । ये त्वेते गुणद्रव्यादिबाह्याभिनयाः सुखदुः– खादिभावनिश्चयाश्च ते चित्तवृत्तीनां बाह्यार्थानां च कार्यकारणभावस्य नियतव्यक्तित्वाद् भावापेक्षा इति । वागङ्गसत्त्वाभिनया अन्योन्यं सहचर्यमाणाः, नत्तेवं तेष्वाहार्य इत्यस्यानुपादानक्रिया । एतच्च न मुनेर्मतमित्यावेदितमस्माभिरुपाङ्गाभिनयाहार्याभिनयाद्याययो (८,२२) रित्यास्ताम् ।
नन्वेवं त्रितयनिष्ठो यद्यपि यत्नस्तथाप्यभिहितत्वेन किमिह वक्तव्यमित्याह नाट्यं सत्त्व इति । तुशब्दः सत्त्वशब्दानन्तरं द्रष्टव्यः । सात्त्विके त्वभिनये नाट्यं प्रतिष्ठितम् । रसमयं हि नाट्यं रसे चान्तरङ्ग सात्त्विकस्तस्मात् स एवाभ्यर्हित इति तद्गतमेव वक्तव्यं पू्र्वमभिधेयमित्याशयमशेषचिरन्तना आक्षेपपूर्वकं समादधति–त्रिषूद्दिष्टेषु वक्तव्यं वागङ्गसत्त्वेषु नाट्यं प्रतिष्ठितमिति सोऽयमाक्षेपः । प्रतिसमाधानं तु यदि वागङ्गजमेव स्यात् प्रयत्नं
Notes
सत्वातिरिक्तोऽभिनयो ज्येष्ठ इत्यभिधीयते ।
समसत्त्वो भवेन्मध्यः सत्त्वहीनोऽधमः स्मृतः ॥ २ ॥
अव्यक्तरूपं सत्त्वं हि विज्ञेयं भावसंश्रयम्1 ।
यथास्थानरसोपेतं रोमाञ्चास्रादिभिर्गुणैः ॥ ३ ॥
Abh
विनापि सिद्धिः स्यात्, वागङ्गसत्त्वजोऽसौ सत्त्वे च नाट्यं प्रतिष्ठितम्, सत्त्वं च मनस्समाधानजम् । तस्माद्भूयसा प्रयत्नेन विना (न) सिद्ध्यतीति । एतत्तु चोद्यसमवोत्तरं सत्त्वस्य हि प्रयत्नाधिक्यमुपयोगीति वागङ्ग्योरुपादानमलमेवेति –अलमनेन ।
ननु कोऽत्र हेतुः सत्त्वे नाट्यं प्रतिष्ठितमित्याशङ्क्या सत्त्वातिरिक्तोऽभिनय इति । सत्त्वमिति सात्त्विकोऽभिनयः, तेन वागङ्गा (सत्त्वा) भिनययोर्यत्रैकत्रैवाभिनये क्रमेण युगपद्वा प्रयुज्यते तत्र परे (रं?) सात्त्विकस्या (न्य)द्वयापेक्षयाधिक्यं भवति । तत्प्रशस्यतमाभिनयक्रिया (ज्येष्ठा) भवति । सुष्ठु सम्यगभिमुखी– भावं सौष्ठवं नीतो भवति रसपर्यन्तत्वात्प्रीतेरिति भावः ।
अथ सात्त्विकोऽन्यतुल्य एव, तदभिनयनं प्रशस्यं संपद्यते परिमिति यावत् । यदि त्वितरापेक्षया सात्त्विको न्यूनस्तर्हि अभिनयक्रिया स्वरूपेणापूर्णा संपद्यत इत्यर्थः । सात्त्विकाभावे ह्यभिनयक्रियानामापि नोन्मीलति । अभिनयनं हि चित्तवृत्तिसाधारणतापत्तिप्राणसाक्षात्कारकल्पाध्यवसायसंपादनमिति, अत एवोक्तं सत्त्वे नाट्यं प्रतिष्ठितमिति ।
अव्यक्तरूपमित्यादिकं प्रबन्धं श्रीशङ्कुकादय इत्थं नयन्ति –कस्मात् पुनः सत्त्वं प्रयत्नातिशयमपेक्षते । उच्यते –रामाद्यनुकार्यगतं भावसंश्रयं तद्भावनाप्रकर्षजं रोमाञ्चादिसंपादकं यदान्तरं नाट्यस्य सत्त्वं तदव्यक्तं अस्फुटं केवलं रोमाञ्चादिभिर्गमकत्वाद्गुणभूतैर्विज्ञेयं, अन्यथा हि सुखाद्यभावे कृत एषामुद्भव इत्यहेतुकं स्यात् । तत्र सत्त्वं भावस्य स्थाने प्रसङ्गतो यो मुख्यो रसस्तेनोपेतं, रसेनानुकार्ये च प्रकृष्टेन यत्नेन ज्ञेयं सुखादि
Notes
Abh
तस्य ये रोमाञ्चादयः कार्यास्तत्तत्साध्यभावे यतः सत्त्वात्प्रवर्त्यन्ते तन्मयः प्रयोगः कथं प्रकृष्टयत्नमन्तरेण सिद्ध्येदिति तात्पर्यम् । न केवलं [प्रकृत] रोमाञ्चादावभिनये संपाद्ये नटस्य सत्त्वमुपयुज्यते यावदङ्गनानां येऽलङ्कारास्तेष्वपि । तथा हि तावत् कटककेयूरादिभ्योऽप्यभि विकारानयनेऽभिनयं (?) रूपलावण्यादिवत् स्तनकेशादिवच्च युवतिरियमिति प्रतीयते, न त्वभिनेयं तेषां किंचिदस्ति केवलमलङ्कारत्वमेषाम् । न च प्रयोगाभिनिविष्टत्वाद्युवतेरपि प्रयोज्यास्ते प्रयोक्तुं शक्या मनस्समाधानमन्तरेण । तत्र मनसो देहवृत्तित्वात् समाधानं सत्त्वमुपचाराद्देहात्मकम् । देहे हि मनस्समाधातव्यम्, तत ईषद्विकारो भावः स एव प्रौढतायां तदतिशये च हावो हेला च । तथा च भावः तत्र कटकादाविव हेम्नः स्थितः । तत्र तु मदनानक्षेपी विकारो भावः येनाकामयमा नापि तरुणी कामयमानेव लक्ष्यते, तस्यैव तु मदनापेक्षत्वेन प्रौढतायां हेलात्वमेव, यौवने क्रमादुपचीयमाने स्वात्मेन्द्रिय– मनःस्वास्थ्ये हावः हेला शरीरविकारः धात्वादिवैषम्यात्तु तदवसादे प्रविलय इति हेलातो भावयुक्तो भावतै (हावतै ?) वेति नानपेक्षितहेत्वन्तरा यौवनकृताः शरीरविकारा अपि प्राधान्येन वक्त्रगात्रगता गुणा इव भावा इव नाभिनयाः । किं त्वाषद्भिद्यमानैर्वागाद्यभिनयैर्मुखरागेण च संभवत्तया प्रतीता अप्रतीता अलङ्कारा उच्यन्ते । तदेतदुक्तमव्यक्तरूपमित्यादिना समाख्याता बुधैर्हेला ललिताभिनयात्मिका (२२–११) इत्यन्तेन । एतेभ्यस्त्वङ्गजेभ्योऽन्ये शीलकृता इति स्वभाविका दश लीलाद्याः सत्त्वबलेनैव प्रयोज्याः । अन्ये तु निसर्गजत्वेनायत्नजाः सप्त शोभाद्या उक्ताः (२२– ३३)। तत्रैते शोभाद्याः स्त्रीगताः पुरुषगताश्चान्ये । सर्वे चैते अतत्स्वभावेनापि नटेन सत्त्वबलात्प्रयोक्तव्या इति बहुप्रद (र्शनविलसितं) व्याख्यानं न ग्रन्थज्ञेभ्यो रोचते ।
तथा हि–किमिदमनुकार्यं (र्यगतं ?) कवेः शिक्षार्थमुपादिश्यते, तथानुकर्तृगतं नटस्य (वा)। प्रथमस्तावद्यदि पक्षस्तदव्यक्त रूपं सत्त्वमिति सत्त्वस्य सत्त्वस्य कथं प्रयोक्तरि स्थितिः, सत्त्वाद्भावः समुत्थित इति ह्युक्तम् । नटे च सत्त्वं, अनुकार्ये च भाव इति किं केन संगच्छते । स्वनुकार्ये च प्रस्तुते प्रागल्भ्य–
Abh
माधुर्ये परत्र (पात्र ?) गते उच्येते इति किमेतच्च, प्रतिलव (विलय ?) क्रमेण भावहावहेलानां परस्परकार्यकरत्वं प्रथमं तावद्वयाख्यातम्, तदप्यसत् । न हि प्रतिसंहारे कारणता कार्यस्य व्यपदिश्यते । न हि पृथिव्यादिभूतानि प्रविलयतन्मात्राणां कारणानि, तानि चाहंकारस्य, सोऽपि च बुद्धेः, सा च प्रकृतेः, प्रकारो वा तदहङ्करणमिति व्यवहारः । प्रति (संहार इव) प्रकृतेः कार्यदशायामपि संभवान्न पूर्वः प्रादुर्भावः तत्कथं कार्यता तदहंकारादेः कारणत्वमेतदिति चेत् समानमेतदिहापि । यदि हि भावो हावतां प्राप्तः सोऽपि हेलात्वं च ततो हेला विलीयते । आख्यास्था दोषात् तदा हावः स्थित एव, न हेलया हेला परं कार्यकारणभावव्यवहारस्यावकाशः । किं चैते देहविकाराः प्रयत्नेन निर्वर्त्या इति [साक्षिण इति] यदुच्यते तस्मिन्नाट्यस्य संसारे नाम तदस्ति यत्प्रयत्नेन निर्वर्त्या इति सात्त्विकाद्वैतम् । किं च विभावानुभावव्यभिचारिव्यतिरिक्तमपि यद्यत्रोपयोगि संभवति तद्वृथैव प्रतिज्ञातं तत्संयोगाद्रसनिष्पत्तिरिति, गीतातोद्यरङ्गादिबलेनेदं व्यवस्थितं सामान्याभिनय इत्यभिधानात् अनभिनयवत्त्वे चास्य सत्त्वनिर्वर्त्यस्यापि को नाट्ये उपयोगः कथं च सामान्याभिनयेनेत्यपरामृष्टाभिधानम् । एतत्सर्वं मुनिमताननुप्रविष्टैः परं श्रद्धीयते नामेत्यास्तां तावत् ।
प्रकृतव्याख्यानमुच्यते – इहोक्तं सत्त्वे नाट्यं प्रतिष्ठितं तेन सात्त्विकभावानुनयो वक्तव्यः तस्य च किंचिदुक्तमिति दर्शयति अव्यक्तरूपं सत्त्वं हि विज्ञेयमिति । इह चित्तवृत्तिरेव संवेदनभूमौ संक्रान्ता देहमपि व्याप्नोति । सैव च सत्त्वमित्युच्यते । तत्र चाव्यक्तं संवित्प्राणभूमिद्वयानिपतितं यत्सत्त्वं तद्भावाध्यायसंश्रयत्वेनैव विज्ञेयम् । तस्य च ये गुणा देहपर्यन्तां प्राप्त धर्मरोमाञ्चादयः चेऽपि तत्रैवोक्ताः किंचित् । यथास्थानमिति यस्य रसस्य यत् स्थानं, तद्यथा शृङ्गारस्य (उत्तमौ) स्त्रीपुंसौ, रौद्रस्य रक्षोदानवादिः, भयानकस्याधमप्रकृतिः, तदनतिक्रमेण रसेषूपेतं सम्बद्धं तत्सत्त्वम् । भावशब्देनात्र भावाध्यायः (उक्तः) ।
अलङ्कारास्तु1 2नाट्यज्ञैर्ज्ञेया भावरसाश्रयाः3 ।
Abh
एतदुक्तं भवति – चित्तवृत्तिरूपं यत्सत्त्वं तद्भूकायसंक्रान्तप्राणदेहधर्मतावशाद् भवदपि भावाध्याये रसाध्याये च वितत्य निरूपितमिति पुनः किं तदभिधानेन ।
किं तस्य भूसत्त्वस्य रूपं वक्तव्यमित्याह अलङ्कारास्तु नाट्यज्ञैरित्यादि । अयमभिप्रायः– संवेदनरूपात्प्रसृतं यत्सत्त्वं तद्विचारितम् । अन्यत्तु देहधर्मत्वेनैव स्थितं सात्त्विकं, यतः सात्त्विकेष्वेवोत्तमेषु दृश्यते, तत्र स्त्रीणामुत्तमत्वं शृङ्गाररसपर्यन्तमेव, पुरुषाणां तु वीररसविश्रान्तम् । शान्तस्तु प्रधानत्वेन न प्रयोगार्ह इत्युक्तप्रायः । स्त्रीगतेन शृङ्गारेण पुरुषनिष्ठेन वीरेण च सार्वलौकिकः पुमर्थो व्याप्तः । न च सत्त्वमयमुत्तमस्त्रीरूपं विमुच्यान्यत्रामी चेष्टालङ्कारा विनिवेशं लभन्ते [न] सात्त्विकास्तावद्राजसतामस शरीरेष्वसंभवात् । चण्डालीनामपि रूपलावण्यसंपदो दृश्यन्ते, न तु चेष्टालङ्काराःतासामपि भवन्त उत्तमतामेव सूचयन्ति स्ववर्गापेक्षया वा संपद्भ्रंशादिना । एतदुक्तं भट्टतोतेन– न चालङ्कृतीनामत्र*लक्षणं महदाश्रयमिति– ते च दृष्टाः सन्तः उत्तमेयं शृङ्गारसमुचितेति विभावादिसुविवेकविहीनं व्यभिचारिरूपदशान्तरसंस्पर्शशून्यं विशेषविरहितमेव सामान्यरूपं शृङ्गारमभिनयति (न्ति?), सामान्याभिनया न तु लावण्यादिवदनभिनेया एव(वं?) शरीरविकारा अनुभावा एव तेन विभावा–नुभावव्यभिचारिसंयोगादित्येवमेवैतत् । एवं पुरुषगता अपि शोभादय उत्साहप्रकृतिरयमित्येतावन्मात्रं गमयन्तः सामान्याभिनया एव । किं च यत्किंचिदङ्गनानां शृङ्गारोचितं चेष्टितमभिनीयते तत्रैव चेष्टालङ्कारा अवश्यमभिनेया इति सामान्यवत्सर्वावस्थानुयायित्वेनाभिनीयत इति (च) सामान्याभिनया एव प्रधानपुरुषस्य शोभादयः, तथैते वागङ्गसत्त्वाहार्याणि स्वभेदसहितानि यथासंभवं संभूयाभिप्रविष्टानि यथा किलिकिञ्चिते विच्छित्तौ विभ्रमे चेति सामान्याभिनया वागङ्गाहार्ययोगेऽपि च सत्त्वप्रधानतया सात्त्विका इत्युक्ताः ।
Notes
- न चेष्टालङ्कृतीनां तु– इति स्यात्
यौवनेऽभ्यधिकाः1 स्त्रीणां विकारा वक्त्रगात्रजाः ॥ ४ ॥*
आदौ त्रयोऽङ्गजास्तेषां2 दश स्वाभाविकाः परे3 ।
अयत्नजाः 4पुनः सप्त 5रसभावोपबृंहिताः ॥ ५ ॥
Abh
एवं तैरेव सामान्याभिनयैः प्रधानप्रमदापुरुषद्वारेण विश्वमेव व्याप्तम् । ते चात्राध्याये वक्तव्याः, तदाह– अलङ्कारास्त्विति तुर्व्यतिरेके, अन्ये भावाध्याय एवोक्ता, एते तु वक्तव्याः ते तु तत्र नोक्ताः । यत एते केवलमलंकारा देहमात्रनिष्ठाः न तु चित्तवृत्तिरूपाः । भावसंश्रया इति रतिभावमात्रमभिनयन्तीत्यर्थः । ते हि यौवने उद्रिक्ता दृश्यन्ते बाल्ये त्वनुद्भिन्ना वार्धके तिरोभूताः । यदाह–
यावन्त एते तरुणीजनस्य भावाः समं कुट्टमितादयोऽपि ।
रात्रावदृश्यानिव तान्घटादीन्कामप्रदीपः प्रकटीकरोति ॥
इति ।
वक्त्रगात्रजा इति देहविकारमात्ररूपा एव परं न हि यथा बाष्पादीनामन्तःप्राणभुवि कण्ठरोधादिरूपं लक्ष्यते, तथा चेष्टालङ्काराणाम् गात्राणि(वक्षोनितम्बा)दीनि, वक्त्रं प्राधान्यात् पुनरुपात्तम् । तत्र देहविकाराः केचन क्रियात्मका अपि ते च प्राग्जन्माभ्यस्तरतिभावमात्रेण 1सत्त्वाद्बुद्धेन देहमात्रे सति भवन्ति, त एवाङ्गजा उच्यन्ते, तथा भावो हावो हेला च । अन्ये त्वद्यतनजन्मसमुचितविशिष्टविभावानुप्रवेश 2स्फुटीभवद्रतिभावानुविद्धे देहे परिस्फुरन्ति । ते स्वाभाविकाः स्वस्माद्रतिभावाद् हृदयगोचरीभूताद् भवन्तीति । तथा कस्याश्चित् कश्चिदेव स्वभावबलाद् भवति, अन्यस्या अन्यः, कस्याश्चित् द्वौ तत्र इत्यादि, अतोऽपि स्वाभाविकाः ।
भावहावहेलास्तु सर्वा एव सर्वास्वेव सत्त्वाधिकासूत्तमाङ्गनासु भवन्ति । तथा शोभादयः सप्त । एवमङ्गजाः स्वाभाविकाश्च क्रियाजन्मानः3 (? क्रियात्मानः), अन्ये तु गुणस्वभावाः शोभादयः ते चायत्नजाः । यत्नजाताः क्रियात्मका उच्यन्ते, (इच्छातो) यत्नस्ततो देहक्रियेति हि पदार्थविदः । ततोऽन्येऽयत्नजाताः । तदेतदाह–
Notes
1देहात्मकं भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः ।
भावात्समुत्थितो हावो हावाद्धेला समुत्थिता ॥ ६ ॥
2हेला हावश्च भावश्च परस्परसमुत्थिताः3 ।
सत्त्वभेदे4 भवन्त्येते शरीरे प्रकृतिस्थिताः5 ॥ ७ ॥
वागङ्गमुखरागैश्च सत्त्वेनाभिनयेन च ।
कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥ ८ ॥
Abh
आदौ त्रयोऽङ्गजा इति । तेषामलङ्काराणां मध्ये । आदाविति प्राच्यवासनानुविद्धदेहमात्रप्रभवित्वात् पूर्वमेव भवन्तीति यावत् । भावोपबृंहिता इत्युभयशेषः । स्वाभाविका अयत्नजा स्वरतिभावेन प्राणिता भवन्ति । [ अनुमति] पुनरिति सत्त्वानां, पुस्तचित्रालेख्यलिखितानामेव नैते भवन्ति । तत्र त्रयाणां तावदुपक्षेपकर्तृ पीठबन्धमाह देहात्मकं भवेत्सत्त्वमिति । शरीरस्वभावं तावत्सत्त्वं संभाव्यते उत्तमशरीरतां प्राप्तमित्यर्थः । ततो भावः ततोऽपि हावः तस्मादपि हेला । एवं तीव्रतरसत्त्वे देह एव । यदा तु तथाविद्धं सत्त्वं न भवति तदा प्राक्तनरतिवासनोत्थं अत्र सहकार्यन्तरपेक्षणीयं वर्तत इति दर्शयति–
हेला हावश्च भावश्च परस्परसमुत्थिताः ।
सत्त्वभेदे भवन्त्येते शरीरे प्रकृतिस्थिताः ॥ इति
एकश्चशब्दोऽपिशब्दार्थे, अपरः समुच्चये । प्रत्येकं हि समुच्चये द्योत्ये तृतीयोऽपि चः पठितव्यः स्यात् । तदयमर्थः –प्र[कृ]तिस्थिता देहस्वभावमात्रापेक्षा अप्येते परस्परसमुत्थिता भवन्ति । तथा हि– कुमारीशरीरे प्रौढतमकुमार्यन्तरगतहेलावलोकने सति हावोद्भवो भावश्चेदुल्लासितपूर्वः, अन्यथा हि भावस्यैवोद्भवः । एवं हावेऽपि दृष्टे भावो हेला वा । यदा तु हावावस्थोद्भिन्ना पूर्वं परत्र तु हेला दृश्यते तदा हेलातोऽपि हेला । एवं हावाद्धावो भावाद्भाव इति च वाच्यम् । एवं परकीयभावादिश्रवणात् तथाविधे–
Notes
[1भावस्यातिकृतं सत्त्वं व्यतिरिक्तं 2स्वयोनिषु ।
नैकावस्थान्तरकृतं भावं तमिह निर्दिशेत्3 ] ।। ९ ।।
तत्राक्षिभ्रूविकाराढ्यः4 शृङ्गाराकारसूचकः5 ।
सग्रीवारेचको ज्ञेयो हावः6 7स्थितसमुत्थितः ।। १० ।।
Abh
याभिधेयरमणीयकाव्याकर्णनादेरपि हेलादीनां प्रबोधो भवतीति मन्तव्यम् । एतदन्योन्यसमुत्थितत्वम् ।
ननु यद्येते प्रकृतिस्थितास्तत एवाङ्गजास्तत्किमन्यापेक्षणेनेत्याह (वागङ्गेत्यादिना) । वागङ्गमुखरागेणेत्यादिपाठः परं भावाध्यायश्लोको नास्य तुल्योऽर्थस्त्वन्य एव, न तु श्रीशङ्कुकेनार्थं (र्धं ?) एकार्थं मन्तव्यम् । एवं चित्तवृत्तिलक्षणं देहधर्मस्येति सर्वसंमतम् । तस्मादयमर्थः– वागङ्गमुखरागैः सत्त्वेन च लक्षितो भावः वागङ्गसत्त्वविशेष एव बालिकाया भाव इत्युच्यत इत्यर्थः । किमपि विशेषो नेत्याह । किं त्वन्तर्गतं वासनात्मतया वर्तमानं रत्याख्यं 1भावं भावयन्सूचयन् किं सर्वस्य नेत्याह कवेः सूक्ष्मसूक्ष्मानपि योऽर्थान् पश्यति तस्य सहृदयस्येत्यर्थः ।
एतदुक्तं भवति–उत्तमाधमरूपे कुमारीद्वितये व्यवहरति (एकायाः) वाक् स्पन्दते चक्षुरादिव्यापारः क्रीडनकावहारखेदजनितमुखवैवर्ण्यं बाष्पादि च पश्यतःहृदयस्य भवति तावद्विशेषोल्लासिनी अभिनयजनितेवानुमातृरूपा अपि तु विशेषाध्यवसायिनी मतिः, महतीयं काचिन्नायिका भविष्यतीति । तथाविधं यद्वागादेरान्तररतिवासनासद्भावसमुपनतं किंचिद्विशिष्टरूपत्वं स देहविकारविशेषो भावः । चशब्द एक इवशब्दार्थे, अभिनयतुल्यो वागादिभिर्लक्षितो भाव इत्यर्थः ।
तत्रेति तत्पुरुष एव(उत्तमाङ्गना) पात्रलक्षणेन चोद्भ्रूतारकचिबुकग्रीवादेः सातिशयो विकाररूपो धर्मः, अत एव शृङ्गारोचितमाकारं सहृदयासहृदयसर्वजनहृदयं सूचयतीति । हावः–एष हि स्वचित्तवृत्तिं परत्र जुह्वतीं ददतीं तां कुमारीं हावयति । स्थितसमुत्थित इति स्थितः स्वयं समुत्थितः स्वेत्यु(स्वतः?)
Notes
1यो वै हावः स एवैषा शृङ्गाररससंभवा ।
समाख्याता बुधैर्हेला ललिताभिनयात्मिका ।। ११ ।।
Abh
द्भिद्योद्भिद्य विश्राम्यन् हावः, स तु प्रसरणैकधर्मकः तथा हि हेला स्यात्, अत एवायं सुकुमारपरिकरसब्रह्मचारीति दर्शितम् । हावावस्थायां यत्स्वयं रतेः प्रबोधनं न मन्यते केवलं तत्संस्कारबलात्तथाविकारान् करोति । यैर्दृष्टा तथा कल्पयति । यदा तु रतिवासनाप्रबोधात्तां प्रबुद्धां रतिमभिमन्यते केवलं समुचितविभावोपग्रहविरहान्निर्विषयता स्फुटीभावं न प्रतिपद्यते तदा तज्जनितो देहविकारविशेषो हेला । ‘हिल भावकारण’ इति (धातुपाठे)पठ्यते । हावस्य (भावस्य)सम्बन्धिनी क्रिया प्रसरता वेगवाहित्वमित्यर्थः । वेगेन गच्छन् हेलतीत्युच्यते लोके । तदाह शृङ्गारेति । शृङ्गाररसो रतिः ततो हृदये स्थिता या हेला संभवतीत्यर्थः । तथा शृङ्गारस्य रस(स्य?) मानतायां यादृक्साधारणमिव रूपं तस्य संभवः संभावना या स्यात् सामाजिकशृङ्गाररसास्वादसदृशरूपैव संभावना चमत्कारमात्रप्राणा । तथा हि तस्या यावद्विषयार्जनं किंचिदवभाति विभावविशेषापरिस्फुरणादिति वरसुन्दर– (रूपोत्कीर्ण)ग्रावकल्पशैशवदशोत्तोर्णतारुण्योन्मीलना अत एव ललिता चेष्टा अभिनयरूपतामिव अस्यां विकारावेशातिशयवशात् न प्रतिलभते । क्रमेणोदाहरणान्येषाम्–
उत्तालालकभञ्जनानि कबरीभारोऽथ शिक्षारसो
दन्तांनां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः ।
तिर्यग्लोचनवल्गितानि वचसां छेकोक्तिसंक्रान्तयः
स्त्रीणां म्लायति शैशवे प्रतिकलं कोऽप्येष केलीक्रमः ।। (विद्ध १)
स्मितं किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः
परिस्पन्दो वाचामभिनयविलासोक्तिसरसः ।
गताना(गतीना)मारम्भः किसलयितलीलापरिकरः
स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ।। (सुभाषितावलौ श्लो. २२३६)
Notes
लीला विलासो1 विच्छित्तिर्विभ्रमः किलिकिञ्चितम्2 ।
मोट्टायितं कुट्टमितं3 विब्बोको4 ललितं5 तथा ।। १२ ।।
विहृतं चेति विज्ञेया6 दश स्त्रीणां7 स्वभावजाः ।
8पुनरेषां स्वरूपाणि8a प्रवक्ष्यामि पृथक्पृथक् ।। १३ ।।
Abh
कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत् ।
सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् ।
अनिद्रं यच्चान्तः स्वपिति तदहो वेद्म्यभिनवां
प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ।।
अत्र हि भावान्तर्गतरतिप्रबोधमात्रमुक्तम् । न त्वभिलाषः शृङ्गार इति मन्तव्यम् । तत्परं ब्राह्मणस्योपनयनमिव भविष्यत्समस्तपुरुषार्थसद्मपीठबन्धत्वेन योषितां परमो ह्युत्सवः लोकोत्तरोऽलङ्कारः सातिशयमानन्दस्थानं परं पवित्रमित्युप श्रूयते । यद्यपि चैते पुरुषस्यापि भवन्ति तथापि योषितां त एवालङ्कारा इति तद्गतत्वेनैव वर्णिताः । 1पुंसस्तूत्साहवृत्तान्त एव परोऽलङ्कारः’ तथा च सर्वेष्वेव नायकभेदेषु धीरत्वमेव विशेषणतयोक्तम् । तदाच्छादितास्तु शृङ्गारादयो धीरललित इत्यादौ ।
एवं त्रीनङ्गजान् व्याख्याय स्वाभाविकान्दशोद्दिशति लीला विलास इत्यादिना । विशिष्टविभावलाभे रतौ सविशेषत्वेन स्फुटीभूतायां तदुपबृंहणकृता देहविकारा लीलादयः शाक्याचार्यराहुलकादिभिर्यन्मतं विशेषसौक्ष्म्यादनुपलक्ष्य हेलाहावादीन् लीलादिमध्य एव पठद्भिश्चैष्टैवालङ्काराभूतेति, एतावन्मात्रे विश्रम्य सामान्येन चेष्टा अलङ्कार इति, तदयुक्तम् ।
Notes
वागङगालङ्कारैः शिष्टैः प्रीतिप्रयोजितैर्मधुरैः ।
इष्टजनस्यानुकृतिर्लीला ज्ञेया प्रयोगज्ञैः ।। १४ ।।
स्थानासनगमनानां 1हस्तभ्रूनेत्रकर्मणां चैव ।
उत्पद्यते विशेषो यः श्लिष्टः 2स तु विलासः स्यात् ।। १५ ।।
माल्याच्छादनभूषण3 विलेपनानामनादरन्यासः ।
स्वल्पोऽपि परां4 शोभां 5जनयति 6यस्मात्तु विच्छित्तिः ।। १६ ।।*
Abh
अत्रैषां दशानां क्रमेण लक्षणान्याह वागङ्गालङ्कारैरिति । प्रियतमगतैः प्रीत्या तं प्रति बहुमानातिशयेन स्वात्मनि योजितैः मधुरैः सुकुमारैः न तु तदीयैरेवोद्धतैः मधुरैरपि विशिष्टैः न तु कल्पितत्वेनाभिमानैः अत एवानुकृतिनोद्धट्टकरूपेणाविकृतं (तः?) बहुमानः स्वात्मनि तत्स्वात्मीकरणेन । एते च दश 1प्राप्तसंभोगत्वे च भवन्ति । शोभादयस्तु सप्त भाविनः प्राप्तसंभोगतायामेव । एतान् लीलादीन् कवयो लोकवाचोऽत्र कीदृशा साङ्कर्येण प्रयुञ्जते । यथा– “गतेषु लीलाञ्चितविभ्रमेषु” (कुमा १–३३) इति । ‘तत्रोपचारोऽन्वर्थत्वं लौकिकी प्रसिद्धिर्वा प्रमाणीकर्तव्या । तन्त्रज्ञैरेवं पठितव्यम् – “गतेषु लीलाञ्चितसुन्दरेषु” इति, तदसदिति भट्टेन्दुराजशिष्याः, यतो ये लीलाविभ्रमप्रभृतयो भविष्यन्त्यस्तदुचिततया तदानीं शिक्ष्यत इव । व्याहृत्य नीयते स हि [ अभिनय ] प्रयोगकालो लीलादेरिति विनयस्य तु राजहंसकर्तृत्वमुत्प्रेक्ष्यते ।
स्थानासनेति स्थानमूर्ध्वता, आसनमुपविष्टता ।
स्थानकादावप्रयत्नशिक्षितमपि शृङ्गारबलादुपनीय तद्रूपं विलासः, श्लिष्ट इत्यनुल्बणम् । यथा-
बाले डअंणस्सु विम्मण्णआसणु(?) इत्यादौ ।
स्वल्पोऽपि परामित्यल्पतयैव परां शोभां जनयति सौभाग्यगर्वमहिमा ह्यसौ । यथा–
Notes
विविधानामर्थानां वागङ्गाहार्यसत्त्वयोगानाम्1 ।
मदरागहर्षजनितो2 3व्यत्यासो 3aविभ्रमो ज्ञेयः ।। १७ ।।
4aस्मितरुदितहसितभय4हर्षगर्वदुःखश्रमाभिलाषाणाम्5 ।
6सङ्करकरणं हर्षादसकृत् किलिकिञ्चितं6a ज्ञेयम् ।। १८ ।।
Abh
कच उपरब्भउ सस्सर इसिणिअत्थ (?) –इत्यादौ ।
यत्तु “सरसिजमनुविद्धं शैवलेनापि रम्यं (शाकुन्तल. १/२०) इत्युदाहृतं तदसत् । न ह्यत्रानादरन्यासः सौभाग्यगर्वकृतः, अपि तु तपस्विसमुचितवेषपरिग्रहणप्रायमित्यलम् ।
विविधानामिति योगो भेदः तेन वागादिभेदेन बहुभेदानां च बहूनां च (अर्थानां) योऽन्यथा निवेशः पूर्ववत्सौभाग्यगर्वकृतः (स) विभ्रमः, तद्यथा, वचनेऽन्यथावक्तव्येऽन्यथाभाषणम्, हस्तेनादातव्ये पादेनादानम्, रशनायाः कण्ठे न्यासः इत्यादि । मद्येन कृतो रागाः प्रियतमं प्रत्येव बहुमानो हर्षः । सौभाग्यगर्वो यथा–
चिरिअ बन्धिअ निच्चिप्पटणिच्चिअ बद्धजम्म अदेसि सहि ।
सोहग्गमत्थि एर्के चिअरिअ किप्पिण [वेण] णाहिणेवउ(?) ।।
स्मितरुदितहसितेति सङ्करेण संकीर्णतया हर्षाद्गर्वाद्यत्संकरणम् । यथा– मह….तिमळळमकळति हळहळन्ति सप्पदिओ (व) ल्लवच्चर इव इ अणेकत्ति (?) इत्यादौ । अत्र हि गर्वश्रमदुःखस्मितरुदितहसितानि देशीपदैः क्रमेणोक्तानि ।
Notes
इष्टजनस्य कथायां 1aलीलाहेलादिदर्शने वापि1 ।
तद्भाव2भावनाकृतमुक्तं मोट्टायितं नाम ।। १९ ।।
केशस्तनाधरादिग्रहणादति3हर्षसंभ्रमोत्पन्नम् ।
4कुट्टमितं 5विज्ञेयं सुखमपि दुःखोपचारेण ।। २० ।।
इष्टानां भावानां प्राप्तावभिमान6गर्वसंभूतः ।
स्त्रीणामनादरकृतो 7बिब्बोको नाम विज्ञेयः ।। २१ ।।
8हस्तपादाङ्गविन्यासो भ्रूनेत्रोष्ठप्रयोजितः ।
सौकुमार्याद्भवेद्यस्तु ललितं तत्प्रकीर्तितम् ।। २२ ।।
Abh
इष्टजनस्येति कथने दर्शने वा कान्तस्य यदुत्पद्यते योषितो लीलादि तद्भावभावन- वशान्मदनाङ्गमर्द (मर्दन) पर्यन्ताङ्गमोटनान्मोट्टायितम् । यथाह–
सिइऊणथणसक्कियहत्थऊरू –*इत्यादौ ।
केशस्तनाधरग्रहणादिति प्रियतमेनेति शेषः । यथा–
देशिखणंमि णअथणहि अइआपडि अपुणहे तिहिं अज्ज–
णहरग्गस उकि किं दुरपसमहणाहलहबंधाहिं । *इत्यादौ ।
इष्टानामिति वस्त्रालङ्कारादीनामिति अनादरकृत इति तद्विषय एव योऽनादरकृतस्तद्बहुलम् (बिब्बोकम् ?) यथा –चन्दघसि नामकोप्पेस स तु किं दु आविळं उइआ को चण्ड । *इत्यादौ ।।
हस्तपादाङ्गविन्यास इति । कर्तव्यवशादायात एव हस्तादिकर्मणि यद्वैचित्र्यं स विलासः । ललिते तु बाह्यव्यापारयोग एव न किञ्चिदस्तिनादातव्यबुद्धिः, अथ च सुकुमारकरव्यापारणं न दुष्टस्य (द्रष्टव्यं ? ) किञ्चित् अथ च तारादिकर्मेति विशेषः । यथा–
Notes
1a N : लीलाभिदर्शने चापि
- प्राकृतभागोऽस्पष्टार्थः
[करचरणाङ्गन्यासः सभ्रूनेत्रोष्ठसंप्रयुक्तस्तु ।
सुकुमारविधानेन स्त्रीभिरितीदं स्मृतं ललितम् ] ।। २३ ।।
वाक्यानां प्रीतियुक्तानां प्राप्तानां यदभाषणम् ।
व्याजात्स्वभावतो वापि विहृतं नाम तद्भवेत् ।। २४ ।।
[प्राप्तानामपि वचसां क्रियते यदभाषणं ह्निया स्त्रीभिः ।
व्याजात्स्वभावतो वाप्येत1त्समुदाहृतं विहृतम् ] ।। २५ ।।
शोभा कान्तिश्च दीप्तिश्च तथा माधुर्यमेव च ।
धैर्य प्रागल्यभमौदार्यमित्येते स्युरयत्नजाः ।। २६ ।।
रूपयौवनलावण्यैरुपभोगोपबृंहितैः ।
अलङ्करणमङ्गानां शोभेति परिकीर्तिता2 ।। २७ ।।
Abh
कि अर्णि लोपळळविअरुपकिसरि इचच्चा ए स बहुमजत्ति….भराबहुखिसिदुपुणाखिळळविळूण अ अणळळहिखणु अ ।। *इत्यादि ।
अन्ये ‘तु लड विलास’ इति (धातु) पाठं प्रमाणयन्तो विलासमेव सातिशयं ललितसंज्ञं मन्यन्ते ।
वाक्यानां प्रीतियुक्तानामिति । प्राप्तामित्यवसरालाभेन कथने योग्यानामित्यर्थः स्वभावत इति मौग्ध्याद्बाल्यादन्यचित्तत्वाद्वा ।
व्याजादिति । व्याजादिभिर्मौग्ध्यादिभिः प्रख्यापनातिशयेनेत्यर्थः । तत्प्रख्यापनमपि कासांचित् स्वभाव एव । यथा कविभिस्तु….ळिळळिकरन्ति अ इच्छिहि पुणच्छ मरणुकरन्ति अ*–इत्यादौ ।
अथायत्नजा इति । शोभाकान्तिरित्यादि । एषां क्रमेण लक्षणानि । रूपयौवनलावण्यैरिति । तान्येव रूपादीनि पुरुषेणोपभुज्यमानानि छायान्तरं श्रयन्ति । सा च्छाया मन्दमध्यतीव्रत्वं क्रमेण
Notes
विज्ञेया च तथा कान्तिः शोभैवापूर्णमन्मथा ।
कान्तिरेवाति1विस्तीर्णा दीप्तिरित्यभिधीयते ।। २८ ।।
सर्वावस्थाविशेषेणु दीप्तेषु ललितेषु च2 ।
अनुल्बणत्वं चेष्टाया3 माधुर्यमिति संज्ञितम् ।। २९ ।।
चापलेनानुपहता 4सर्वार्थेष्वविकत्थना5 ।
स्वभाविकी चित्तवृत्तिर्धैर्यमित्यभिधीयते6 ।। ३० ।।
प्रयोगनिस्साध्वसता प्रागल्भ्यं समुदाहृतम् ।
औदार्यं प्रश्रयः प्रोक्तः सर्वावस्थानुगो बुधैः ।। ३१ ।।
Abh
संभोगपरिशीलनादाश्रयति शोभां कान्तिं दीप्तिं चेत्यर्थः । आ समन्तात् पूर्णो मन्मथ इति कामोपभोगो हेतुर्यस्याः सा इत्यर्थः । अन्यस्तु (अ) पूर्णमन्मथेति व्याचक्षाणः कान्तिदीप्तिशोभानां क्रमेण सातिशयत्वाह । तच्चोपक्रमविरुद्धमित्युपाध्यायाः ।
दीप्तेष्विति क्रोधादिषु । चशब्द इवार्थे ललितेषु रतिक्रीडादिषु यथा मासृण्यं चेष्टायास्तथा दीप्तेष्वपि यत्तन्माधुर्यम ।
सर्वार्थेष्विव रूपयौवनादिषु वर्गत्वाच्चेयं क्रिया रूपेभ्यः पृथगेव धीरता पठिता । प्रयोग इति कामकलादौ चातुःषष्टिक*इत्यर्थः । यथाहुः–
अन्यदा भूषणं पुंसः शमो (क्षमा) लज्जेव योषितः ।
पराक्रमः परिभवे प्रागल्भ्यं (वैयात्यं) सुरतेष्विव ।। शिशुपाल २.४४ इति ।
यत्त्वनुकर्तृविषयमेतदित्यन्यैर्व्याख्यातं तत्पूर्वमेव दूषितम् । सर्वास्वमर्षेर्ष्याक्रोधाद्यवस्थास्वपि यत्परुषवचनाद्यनुदीरणं
Notes
Abh
तदौदार्यम् । चित्तवृत्तिस्वभावा अपि केचिदेते विभावजन्यत्वाभावाद् भाववर्गे न पठिताः रसान् प्रति भावकत्वाभावाच्च (इत्याहुः) । तच्चैतद्युक्तम । शोभाकान्तिदीप्तयः ता बाह्यरूपलावण्यगता एव विशेषाः आवेगचापलत्रासामर्षा 1भावा एव । माधुर्याद्या न चित्तवृत्तिस्वभावा इति क एषु भावत्वाशङ्कावकाशः इत्यभावोऽपि भावान्तरतया तद्विशेषणतया प्रतिभासगोचर इति अतो भावरूपतैवेति चेदस्तु नामैवम् । तथाप्यलङ्कारत्वात् सामान्याभिनयरूपत्वात्, बाह्यशरीरनिष्ठतापर्यवसानात्, श्रृङ्गारैकमात्रविषयत्वाच्च, अशेषरसविषयत्वात्, व्यभिचारिवर्गात् पृथत्तवेनैषामभिधानम् ।
[ न च ] एतावत एवैत इत्यत्र नियमो विवक्षितः । तेन मौग्ध्यमदभावविकृतपरितपनादीनामपि शाक्याचार्यराहुलादिभिरभिधानं* विरुद्धमित्यलं बहुना ।
*राहुलादिभिरिति, आदिशब्देन पद्मश्रीसागरनन्दिमातृगुप्तप्रभृतये गृहीताः । तन्मते मौग्ध्यं यथा–
बाल्ये गते वचोभङ्गी रामाणां कान्तसन्निधौ ।
हारिमोक्तिमयी या तु तन्मौग्ध्यं परिकीर्तितम् ।।
मदो यथा –
तारुण्यातिशयोद्भूतः सुरापानविशेषितः ।
विकारबहुलो यस्तु तं वदन्ति मदं बुधाः ।।
भावो यथा–
कान्तस्य दृष्टिपथतस्तिरोधातुमिवेच्छति ।
लज्जयाधोमुखी मुग्धतिर्यग्विक्षिप्तलोचना ।।
प्रियं पश्यत्यतिशयजातरोमाञ्चकञ्चुका ।
तत्क्षणोद्भूतमदनाचार्यशिक्षोपदेशतः ।।
यत्तस्यां जायते चेष्टा स भावः शाक्यसंमतः विकृतम्–
वचसा प्राप्तकालेऽपि प्रियया नाभिधीयते ।
क्रियया यदनुष्ठानं विकृतं तदुदाहृतम् ।।
परितपनम्–
क्षणमात्रमदृष्टे या प्रिये सन्तापसन्ततिः ।
विरोहत्थेव कामिन्याः परितापः स कथ्यते ।।
आदिशब्देन विक्षेपकेलिव्याजप्रतिभेदनादय ऊह्याः ।
Notes
सुकुमारे भवन्त्येते प्रयोगे ललितात्मके ।
विलासललिते हित्वा दीप्तेऽप्येते1 भवन्ति हि ।। ३२ ।।
शोभा विलासो माधुर्यं स्थैर्यं2गाम्भीर्यमेव च ।
ललितौदार्यतेजांसि सत्त्वभेदास्तु पौरुषाः ।। ३३ ।।
दाक्ष्यं शौर्य3मथोत्साहो नीचार्थेषु जुगुप्सनम्4 ।
उत्तमैश्च गुणैः 5स्पर्धा यतः शोभेति सा स्मृता ।। ३४ ।।
6धीरसंचारिणी दृष्टिर्गतिर्गोवृषभाञ्चिता ।
7स्मितपूर्वमथालापो विलास इति कीर्तितः8 ।। ३५ ।।
9अभ्यासात्करणानां तु श्लिष्टत्वं यत्र जायते ।
महत्स्वपि विकारेषु तन्माधुर्यमिति स्तृतम् ।। ३६ ।।
Abh
अथैषां सामान्याभिनयत्वमुपपादयितुमाह सुकुमारे भवन्त्येत इति । ललितात्मके प्रयोगे प्रयुज्यमाने श्रृङ्गारे यः सुकुमारोऽन्योन्योपसंभोगविप्रलम्भादि भेदः । तत्र सर्वत्रेते न भवन्ति । न ह्येतच्छून्यमङ्गानां चेष्टितं प्रयोगार्हम् । योऽपि तत्र श्रृङ्गारे ईर्ष्यामर्षदीप्तिप्रकारस्तत्रापि विलासं ललितं च वर्जयित्वा अवश्यमन्येषां क्रमयौगपद्यादिना संभव इति श्रृङ्गारभेदेषु साधारणभूतो योऽभिनयस्तेन सामान्यभिनयतास्य युक्तेति तात्पर्यम् ।
अथ पुरुषगतानुद्दिश्य लक्षयति शोभा विलास इत्यादि । यतः शरीरविकाराद् दाक्ष्यादि गम्यते सा शोभेति संबन्धः । गोवृषभः उत्तमाः गौः।
महत्स्वपि विकारेष्विति युद्धनियुद्धव्यायामादिष्वम्भासकृतं, करणानां करचरणादिक्रियाणां श्लिष्टत्वं
Notes
धर्मार्थकामसंयुक्ताच्छुभाशुभसमुत्थितात् ।
व्यवसायादचलनं स्थैर्यमित्यभिसंज्ञितम् ।। ३७ ।।
यस्य प्रभावादाकारा1 हर्षक्रोधभयादिषु ।
भावेषु नोपलक्ष्यन्ते2 तद्गाम्भीर्यमिति स्मृतम् ।। ३८ ।।
अबुद्धिपूर्वकं3 यत्तु निर्विकारस्वभावजम्4 ।
5श्रृङ्गाराकारचेष्टत्वं ललितं तदुदाहृतम्6 ।। ३९ ।।
दानमभ्युपपत्तिश्च7 तथा च प्रियभाषणम् ।
Abh
अनुल्बणत्वं यत्र शरीरविकारो स माधुर्यम् । नटगतमेतदिति त्वसत् प्रक्रमविरोधात्, प्रयोक्तृगुणानां च प्रकृत्यध्याये भूमिकाविकल्पाध्याये च (अ ३५, ३६) वक्ष्यमाणत्वात् ।
धर्मादायो यस्य फलं स तैः संयुक्त इत्युक्तम् । शुभाशुभमुत्थितादिति । शुभसंकल्पजा अशुभसङ्कल्पजाश्च । अशुभादपि हि सङ्कल्पोऽस्थिरान्निवर्तते । यथैलश्चातुर्वर्ण्यस्य सर्वस्वहारादर्थफलाद्याशायात्। अन्ये तु वीरस्यैतदनुचितमिति मत्वान्यथा व्याचक्षते शुभाशुभयोः समुत्थित इति । तेन यच्छास्त्रोक्तमुचितं चारभ्यते । तत्र क्रियमाणे (शुभं) सुलभतयार्थलाभः, अशुभं क्षयव्ययादिरूपकमस्तु तथापि तद्विषयाध्यवसायादविचलनं स्थैर्यं देहविकाररुपमेव ।
आक्रियते चित्तवृत्तिरेभिरित्याकारः, मुखरागदृष्टिविकारादयः । तेष्वपि चासत्सु कारणसामग्य्रव्यभिचरितफलेति हर्षादिसंभवेऽपि यत्कृतस्तत्कृतमुखरागाद्यभावः स एव निस्तिमितदेहस्वभावो गाम्भीर्यम् ।
परजनविषयं दानादि चेष्टाविकाररूपमेववौदार्यम् । स्वग्रहणन्तु लोकोक्तिमनादररूपरूपान्तु भयं
Notes
1स्वजने च परे वापि तदौदार्यं प्रकीर्तितम्2 ।। ४० ।।
अधिक्षेपावमानादेः3 प्रयुक्तस्य परेण यत् ।
प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ।। ४१ ।।
4सत्त्वजोऽभिनयः पूर्वं5 मया प्रोक्तो द्विजोत्तमाः ।
शारीरं चाप्यभिनयं व्याख्यास्याम्यनुपूर्वशः ।। ४२ ।।
षडात्मकस्तु शारीरो वाक्यं सूचाङ्कुरस्तथा ।
शाखा नाट्यायितं चैव निवृत्त्यङ्कुर एव च ।। ४३ ।।
Abh
नोदाहार्य (नौदार्य) मेव स्फुटयति । अभ्युपपत्तिः परित्राणाद्यर्थिनोऽङ्गीकरणम् । परेणेति शत्रुणा, न तु गुरुणा मित्रादिना वा । प्राणात्ययेऽपीति न तु नीत्यनुवर्तनेन कथंचित् देशकालाद्यनुवर्तनेन सहनपूर्वकं निर्यातनम् । तथा च ममैव ३३०७/?/कः–
मूर्ध्ना कंचन पार्थिवं धृतवता च्छिद्रैः प्रविश्यान्तरं
स्वं रूपं विनिगूह्य तापमतुलं दत्त्वा चिराद् भ्रंशितः ।
यश्चङ्कुर्जडरूपतापरिचितो नीत्येव ब्रह्मने त्वया
तन्मन्येऽत्र कथासु तिष्ठति परं निर्वन्ध्यतेजस्विता ।। इति ।
सात्त्विकः पूर्वमुक्तं इत्यर्धस्यास्य केचिच्छङ्काशमनं प्रयोजनमाहुः–एवं हि शंक्यते सात्त्विकप्रसङ्गेन कस्माद्रोमाञ्चादयो नोक्ता इति; तद्वारणार्थमाह पूर्वमिति भावाध्याय एव ते निरूपिता–इति । अयं च नार्षः, यतः सत्त्वे नाट्यं प्रतिष्ठितं, अतो वागङ्गासत्व इत्यत्र पश्चान्निर्दिष्टः सात्त्विकः सामान्याभिनयो यस्मात् पूर्वमिति आदौ प्रोक्तः ततो हेतोर्यद्विलोमक्रमेण अनुपूर्वशः आनुपूर्व्यं क्रमप्राप्तं तेन क्रमेण शरीरं सामान्याभिनयं वक्ष्यते । सत्त्वानन्तरं हि विपरीतवृत्त्या आङ्गिकस्यानन्तर्यं वागङ्गसत्त्व इति । (शारीरमित्यादि) अत्र चशब्दो यस्मादर्थे, अपिशब्दस्तत इत्यत्रार्थे । तत्रोद्देशमाह – षडात्मकस्त्विति ।
Notes
नाना 1रसार्थयुक्तैर्वृत्तनिबन्धैः2 कृतः सचूर्णपदैः3।
प्राकृतसंस्कृतपाठो4 वाक्याभिनयो बुधैर्ज्ञेयः ।। ४४ ।।
Abh
यः पूर्वं शारीरोऽभिनयो बहुना प्रकारवैचित्र्येणोक्तः तस्यावान्तरसामान्याभिनयरूपा हि षड् भवन्तीति, स एव षडात्मकतयाऽवान्तरजातियोगात् सात्त्विकवाचिकाभिनयैश्च संभूय क्रमतां प्राप्तैश्च व्यामिश्रतायां सामान्याभिनयः संपाद्यत इति तुशब्दस्यार्थः । (वाक्यमिति) वाक्यसहचरितः शारीरोऽभिनयो वाक्यम् । न हि शरीराभिनयमध्ये च निर्वर्तकानि गणितानीति चिरन्तनाः ।
शारीरस्वर (ना. शा. २९.१७.) इति यद्वयवहाराद्वा भावश्च शारीरत्वेन प्रसिद्धे वाक्यमेवाभिनयान्तरनिरपेक्षमिति, सदवृत्तभाषागुणः स्फुटतमां स्वार्थप्रतीतिं यदा विधत्ते तत एव रसभावानुभावकं तदा तदेव वाक्याभिनय इति तु काव्यकौतुकग्रन्थः । अत्र तु पाठ्यरूपः सामान्याभिनयः कथमिति चिन्त्यम्। शरीरानुप्रवेशादिति चेत् त्वरितानपेक्ष (तदितरानपेक्ष ?) एव । न चाभिनयशून्याभिनेयकाव्ये वाक्यं किंचिद्भवति। न चाभिनेये वाक्याभिनयव्यवहार इत्युपाध्यायेनायमेकीयोऽभिप्रायो दर्शितः न त्वस्यायं स्वपक्ष इति भ्रमितव्यम् ।
तत्र वाक्याभिनयस्य लक्षणमाह–
नानारसार्थयुक्तैर्वृत्तनिबन्धैः कृतः स चूर्णपदैः ।
प्राकृतसंस्कृतपाठो वाक्याभिनयो बुधैर्ज्ञेयः ।। (२२. ४४) इति ।
नानारसविशेषो वाक्यार्थः तेन युक्तानि वाक्यानि यानि तानि च वृत्तरचितानि चूर्णपदात्मकानि वा पुनरपि संस्कृतानि वा प्राकृतानि वा तैर्युक्तः सहचरितः शारीरो वाक्येन सहैव प्रयुज्यमानः शारीरो वाक्याभिनय इति यावत् । प्राकृतः संस्कृतश्च पाठोऽस्मिन्निति बहुव्रीहिः स चायं वाक्याभिनयश्चतुर्धा संस्कृतप्राकृतयोर्गद्यपद्यभेदात् ।
अत्र केचिदाहुः योऽर्थः सदैव हृदये वर्तते अत एव विमर्शानुबन्धनादिनिरपेक्ष एव स सततं स्फुरति ।
Notes
वाक्यार्थो वाक्यं वा 1सत्त्वाङ्गैः 1सत्त्वाङ्गैः सूच्यते यदा पूर्वम् ।
पश्चा2द्वाक्याभिनयः 3सूचेत्यभिसंज्ञिता सा तु ।। ४५ ।।*
Abh
यथा भीमसेनस्य कुरुकुलविषयः क्रोधातिशयः तद्विषये वाक्ये “चञ्चद्भुजभ्रमित” (वेणी–१.२१) इत्यादौ पाठसमकालं यो भ्रुकुट्यादिमयः शारीरोऽभिमय इति । एतच्चासत् । सूचायां विमर्शपूर्वकवस्तुविषयायामपि प्रवृत्तायां यद्वाक्यं बध्यते तत्सहचरितोऽपि शारीरः किमित न वाक्याभिनयः तथापि चतुर्विधवाक्याभिनययोगात् सूचादीनां बहुभेदत्वं वक्ष्याम इत्यास्तां तावत् ।
वाक्यार्थो वाक्यं वा सत्त्वाङ्गैः सूच्यते यदा पूर्वम् ।
पश्चाद्वाक्याभिनयः सूचेत्यभिसंज्ञिता सा तु ।। (२२. ४५) इति ।
यदा तु निपातः यदित्यत्रार्थे इह वर्तते । तेन यैः सात्त्विकाङ्गिकैः भाविवक्तव्यं सूच्यते, येषामन्तरोऽभिनयः प्रवर्तत एव सूचाभिनयः । “आत्मबुद्ध्या समर्थ्यार्था “निति हि न्यायो वा प्रसरेत् । तत्रोत्तमानां बाहुल्येनाभिसंधानविचारपूर्वकं एवमिति चिरतरोऽसावभिसन्धिकालः तत्राविष्टस्यैवेहोपयोग इति –विचार्यमाणं तथाभूतवस्तुविशेषोवेशजनितेन शरीरविकारेणावश्यं भवितव्यं सममेव सूचाभिनयः । तत्र च द्वयी गतिर्विद्यते, स्थितेनैवाभिसन्धानेन यादृक्क्र आक्षिप्तस्तादृशैव क्रमेण परतः शब्दोच्चारणम् । यथा ‘राज्ये निर्जितशत्रु योग्यसचिवन्यस्तः समस्तो भरः’ (रत्ना–१.९) इत्यादौ । तत्र हि पूर्वपूर्वावान्तरवाक्यांशाभिधेयभागप्रभावित एवोत्तरोत्तरावान्तरवाक्यार्थ इति यादृगभिसन्धानक्रमस्तादृगेव तत्र क्रमः । यत्र त्वन्यथाभिसन्धानमन्यथा च क्रमस्तत्र निर्विभागभेदकं सन्धानीयवाक्यार्थसंधानम् । यथा मायापुष्पके सुग्रीवस्य–
दूर्गं भूमिरमात्यभृत्यसुहृदो दाराः शरीरं धनं
मानो वैरिविमर्दसौख्यममरप्रख्येन सख्येन किम् (सख्योन्नतिः ?) ।
यस्मात्सर्वमिदं प्रियाविरहितैस्तस्मादशक्ता (विरहिस्तस्याद्य शक्ता? ) वयं
न स्वेच्छासुलभैः पथोऽपि घटने शैलशमण्डैरपि ।।
Notes
1हृदयस्थो निर्वचनैरङ्गाभिनयः2 कृतो3 निपुणसाध्यः ।
4सूचैवौत्पत्तिकृतो4a विज्ञेयस्त्वङ्कुराभिनयः ।। ४६ ।।
Abh
अत्र हि शरीरं दारा भूमिर्धनं भृत्या दुर्गं वैरिविमर्दसुखं रामस्य मित्रमिति प्रसिद्धिरित्यभिसन्धानक्रम उचितो, निकट (पद) परामर्शक्रमेण प्रकरणा (र्थवशादिदं लब्धं) दूरं प्रसृत्य क्रमेण यद्वा इदं तावदास्तां, इदमपि तत इति न्यायेनान्तः प्रवेशः, तथापि रामस्य मित्रमिति प्रसिद्धिरित्यादिना विलोमक्रमेण भाव्यम् । तत्र प्रथमे पक्षे वाक्यं सूच्यत इत्युक्तम्, क्रमो हि वाक्यमिति तद्विदो मन्यन्ते । ‘एको नववच…..शब्दः क्रमो युध्यतः सुहृद्भि’ *(?) रित्यादौ । द्वितीयपक्षे तूक्तं वाक्यार्थः सूच्यत इति ।
अन्यस्त्वाह–यदा स्वयमेव विमृश्यते तदा वाक्यार्थः सूचितः यदा तु परवचनमाकर्ण्यते, यथा ‘भो वयस्स पेक्ख’ (रत्ना) इत्यादावुद्यानवर्णनं पूर्यते तदा तदुक्तोऽर्थः सूच्यते तस्य पश्चाद्वचनाभिनयो भविष्यति ‘वयस्य सम्यगुपलक्षित’ मित्यादि, तत्र सूचाभिनये वाक्यं सूच्यत इति । तच्चासत्– परवाक्यापेक्षया हि तत्र निवृत्त्यङ्कुराभिनयः भाविवाक्यापेक्ष्या तु ततोऽन्यैव सूचा । अनभिनेय एवाभिनयनलक्ष्यं प्रत्यपरिचयोऽयमपराध्यति । किंचिद्वाक्यार्थग्रहणेन किमयमर्थो न स्वीकर्तुं शक्यो येन पुनर्वाक्यशब्दोपादानं स्यात्. तस्मात्परोदीरितवाक्यार्थं एव ह्यसौ सूचितो न तु वाक्यमित्यास्ताम् ।
तदिदमुक्तपूर्वं गद्यपद्येतरचतुः प्रकारवाक्यं तदर्थसूचने भेदादष्टधा सूचाभिनयादनु षोडशधा युक्तम् । परवाक्यस्य न भिन्नाङ्गतेत्यधुनैवोपपादितम् ।
हृदयस्थो निर्वचनैरङ्गाभिनयः कृतो निपुणसाध्यः ।
सूचैवोत्पत्तिकृतो विज्ञेयस्त्वङ्कुराभिनयः ।। इति
अन्यपरेऽपि वाक्ये यद्गर्भीभूतं हृहयस्थं वस्तु तन्निष्ठो योऽभिनयोऽङ्गविकारैर्वचनशून्यैः सम्पादितः
Notes
1यत्तु शिरो2 मुखजङ्घोरुपाणिपादैर्यथाक्रमं क्रियते ।
शाखादर्शन3मार्गः साखाभिनयः स विज्ञेयः ।। ४७ ।।
Abh
सूचातुल्यः सोऽङ्कुरो नाम शारीरः । यथा सागरिका–जाव अहं पि कुसुमाइं अवचाइअ कामदेवं पूअइस्सं – इत्यभिधायैतद्वाक्ये गर्भीभूतं कुसुमापचयमङ्गविकारैर्दर्शयति । यच्चायमङ्कुरो निपुणैरेव प्रयोक्तृभिः सामाजिकैश्च साध्यः आपद्यः चेतसा ध्यात उत्पत्त्या स्वबुद्धिकल्पनयापचितः । यद्यपि कविवाक्यान्येवात्रोपजीव्यानि, तथापि यादृक् कुसुमापचयकर्म सागरिकायाः सौभाग्यसौन्दर्यप्रेमसाध्वसादिगर्भं न तादृशं तापसस्य तदुभयविलक्षणं ‘य
अन्ये तु सूचाया उत्पत्तिभागेन तुल्योऽङ्कुरस्तास्याः प्राग्भावे वचनशून्यत्वादिति । इदं त्वनुक्तसमासं (नं ?) निर्वचनशब्देनोक्तत्वादर्थस्य ।
यत्तु शिरोमुखजङ्घोरुपाणिपादैर्यथाक्रमं क्रियते ।
शाखादर्शनमार्गः शाखाभिनयः स विज्ञेयः ।। (२२.४७) इति ।
समस्तेन शाखाव्यापारेण वर्तनाप्रधानतया प्रयुक्तः शाखाभिनयः शिरोमुखजङ्घोरु चेत्यादिना कृतैकवद्भावेन द्वन्द्वपसमूहेन पुनः (श्लोक) द्वन्द्वेन, नाट्यायितमित्यादि स्थान इत्यादि च ।
पूर्वप्रविष्टस्य पात्रस्यापरपात्रं प्रविश्य तद्रूपमुदीक्षमाणस्य प्रवेशोऽपि तद्ध्रुवागानतत्सूचापरिक्रमणादिकाले न किंचिन्नाट्यमस्तीति तत्कालेपूर्वपात्रेण ये समुचिता उपचाराः क्रियन्ते नाट्यायितमित्याद्यार्यायास्तात्पर्यम् । पूर्वप्रविष्टेन पात्रेण सह सङ्गमं विधाय पश्चात्प्रविष्टस्य पात्रस्य पूर्वप्रविष्टपात्रपरिक्रमणादिकाले स्थानेकेनैवासीनस्य तूष्णीं स्थितौ प्राप्तायामभिनयः तदपि नाट्यायितमित्यपरार्यायास्तात्पर्यमिति श्रीशङ्कुकाद्याः । तच्चायुक्तम् । अन्योन्यसङ्गमावधि यत्पात्रस्य चेष्टितं तदपरोदितवाक्यार्थसूचनोचितत्वं वा निर्वचनकादौचित्यमात्रादेवोपनतं वा, पूर्वत्र पक्षे निवृत्त्यङ्कुरः उत्तरत्राङ्कुरः इत्युभयंम न नाट्यायितम् ।
Notes
नाट्यायितमुपचारैर्यः क्रियतेऽभिनयसूचया1 नाट्ये ।
काल2प्रकर्षहेतोः 3प्रवेशकैः संगमो यावत् ।। ४८ ।।
Abh
तथा हि प्रयोगकुशला एवंविधे विषये धर्मी –लिखति इति, प्रति पालयन्नास्ते (इति), यथा पुष्पावचयं नाट्यमिति । नाट्यस्य सन्धानरूपत्वं च वाक्यं सूचादीनामपि संभवत्येव । न वा नाट्येन नाट्यं सन्धीयत इति नाट्यायितवाचोयुक्तिरपि कथम् । तस्मादित्थमेतद् व्याख्यातव्यम् –इह यदा स्वप्नोऽप्येकघनो दृश्यते तन्मध्यत एव च किं दृश्यमानं परस्य स्वप्न एव जाग्रद्रूपतामापादिते स्वप्नोऽयं मया दृष्ट इति वर्ण्यते, तदा जाग्रदपेक्षया स्वप्नव्यवहारः, न तत्र पारमार्थिक इत्यौपचारिकं तदपेक्षं तस्य स्वप्नोत्वमिति तस्य स्वप्नायितव्यवहारो दृष्टः । एवमिहापि नाट्य एकघनस्वभावे हि स्थिते तत्रैवासत्यनाट्यानुप्रवेशान्नाट्यपात्रेषु सामाजिकीभूतेषु तदपेक्षया यदन्यं नाट्यं तस्य नाट्यरूपत्वं पारमार्थिकमिति नाट्यायितमुच्यते । तच्च द्विविधं नाट्यरूपकनिष्ठमेव वा कार्यान्तरनिष्ठं वा । तस्य क्रमेण लक्षणमार्याद्वितयेनोच्यते । नाट्ये यत्प्रवेशकैर्नाट्यान्तरगतैरिव पात्रैः अत एव ततः प्रविशतीत्युक्तैः सङ्गमः क्रियते तन्नाट्यायितम् । कीदृशैरभिनयद्वारेण यत्सूचनं तयोपचारैः परमार्थतयोपचर्यमाणैः । ननूभयमपि नाट्यं कस्मान्न भवति नत्वेकघनतेत्याशङ्क्याह कालप्रकर्षलक्षणाद्धेतोरन्योन्यभिन्नकालत्वात् कथं तत्रैकघनता युक्तेति भावः । यावदिति भूयस्तरं प्रबन्धं व्याप्नोतुं परिमितं वा सर्वं नाट्यायितमित्यर्थः । तथा यावदिति स्वप्ने स्वप्नान्तरं तत्राप्यन्यत् स्वप्नान्तरमित्यादिन्यायेन वा भवत्वेक (घन) स्वप्नामियवृत्त्या वा सर्वथायिततन्नाट्यायितम् । तत्रास्य बहुतरव्यापिनो बहुगर्भस्वप्नायिततुल्यस्य नाट्यायितस्योदाहरणं महाकविसुबन्धुनिबद्धो वासवदत्तानाट्यधाराख्यः समस्त एव प्रयोगः । तत्र हि बिन्दुसारः प्रयोज्यवस्तुक उदयनचरिते सामाजिकीकृतः, असावप्युदयनो वासवदत्ताचेष्टिते । एष चार्थः –स्वस्मिन् सूत्ररूपके दृष्टे सुज्ञानो भवति । अतिवैतत्यभयात्तु न प्रदर्शितः । एकस्तु प्रदेश उदाह्रियते तत्र ह्युदयने सामाजिकीकृते सूत्रधारप्रयोगः– “तव सुचरितैरेष जयति” इति, तत उदयनः ‘कुतो मम सुचरिता’ नीति सास्त्रं विलपति–
Notes
स्थाने ध्रुवास्वभिनयो 1यः क्रियते हर्षशोकरोषाद्यैः2 ।
भावरससंप्रयुक्तै3र्ज्ञेयं नाट्यायितं तदपि4 ।। ४९ ।।
Abh
एह्यम्ब किं *कटकपिङ्गलपालकैस्तैर्भक्तोऽहमप्युदयनः सुतलालनीयाः ।
यौगन्धरायण ममानय राजपुत्रीं हा हर्षरक्षित गतस्त्वमपप्रभावः ।
तत्रैव बिन्दुसारः सामाजिकीभूतः परमार्थतामभिमन्यमानो “धन्या खलु (ईदृशैर्भक्तस्य) प्रतापैः इत्युच्छ्वसति । प्रतीहारी आत्मगतं –“अअणिदपरमत्थकळणेहिं पिच्छइ खु देवो” इत्यादि ।
परिमितव्यापिनो निर्गर्भस्य नाट्यायितस्योदाहरणं यथा बालरामायणे गर्भाङ्के सीतास्वयंवरे । एवं तावन्नाट्यरूपकनिष्ठं नाट्यायितं व्याख्यातम् । कार्यान्तरनिष्ठं तूच्यते । इह यदाभ्यन्तररसाविष्टता भवति तदा ध्रुवायोगाभिनयः स्वतुल्यतामापाद्यमानः परस्परमिलिताकारकतां काकतालीयेनोपनिपातात् (संभाव्यते) । यथा–
नळिनीदळए णीसहसुकदेहिं आतथा मुच्चइ । †
पळइ विअब्भइ विज्जइ हंसी णळिणीवणे वि णत्थिज्जइ ।।
इत्यादौ । तत्र हि प्रयोक्तुरेवमभिसन्धिध्रुवामभिनयेन दर्शयामिति । किं तु प्रासादिक्यध्रुवायां गीयमानायां, “यत्र काव्येन (वाक्येन ?) नोक्तं स्यात् तत्तु गीतं प्रसाधयेत्” (अ ३२) इति वचनात् ध्रुवार्थस्तत्रोचित आघातः, प्रयोगो हि बहुविधां मदनावस्थां नाटयतीति । एवं भूतोऽङ्कुरस्वभावः पौर्वापर्यपर्यालोचनवशात् तथाभूत एवोपनिपतित इति, अप्रयुज्यमानापि (ध्रुवा) काकतालीयेन प्रयोगमुपांशु– रूपा नाट्यमपि नाट्यमिव शासत इति तथाविधनाट्यायितत्वापादकः शारीराभिनयो नाट्यायितमिति दर्शयति स्थाने ध्रुवास्वभिनयो यः क्रियत इति । भावैर्व्यमिचारिभिः रसैः स्वस्थायिभिः ये संप्रयुक्ता आविष्टाः तत्संपादनैकमनसः प्रयोक्तारस्तैर्यो ध्रुवास्विति ध्रुवार्थविषयोऽभिनयः– क्रियते । कथं, स्थाने प्रसङ्गे सति काकतालीयवशादित्यर्थः । योऽभिनयः शारीरो नाट्यायितम् । ननु किं प्रतिपदमभिनयता, नेत्याह हर्षादिभिरिति तत्सूचकैरङ्गोपाङ्गसत्त्वैरित्यर्थः । तदपीति न केवलं पूर्वं यावदिदमपीति ।
Notes
1यत्रान्योक्तं वाक्यं सूचाभिनयेन योजयेदन्यः ।
2तत्संबन्धार्थ3कथं भवेन्निवृत्त्यङ्कुरः सोऽथ ।। ५० ।।
4एतेषां तु 4aभवेन्मार्गो यथाभावरसान्वितः ।
Abh
यत्रान्योक्तं वाक्यं सूचाभिनयेन योजयेदन्यः ।
तत्संबन्धार्थकथं भवेन्निवृत्त्यङ्कुरः सोऽथ ।
अन्योक्तं वाक्यं कथमन्यसूचभिनये चित्तवृत्तिसूचकेनाङ्गोपाङ्गसत्त्वक्रमेण दर्शयेदित्याशङ्क्य हेतुमाह तत्संबन्धकथमिति बीजादेर्निवृत्तिं यथाङ्कुरः सूचयति, एवं निवृत्ते वाक्ये (तदङ्कुर) यति निवृत्त्यङ्कुर उक्तः । तथा हि विदूषकेण वत्सराजे “अवि सुहयदि दे लोअणाणं” इति पृष्टे सागरिका– “सच्चं जीविदमरणाणं अन्तरं वट्टामि” इति, ततो राजा– “सुखयतीति किमुच्यते । कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं” (रत्नावली २/१०) इत्यादि पठति । तस्मिन् क्रमेणाकर्ण्यमाने सागरिकाया यथाभूत (संशयोत्कण्ठारागोदयजनितो) व्यभिचारिसत्त्वयोजितः सत्त्वाङ्गोपाङ्गपरिस्पन्दो दृश्यमानो निवृत्त्यङ्कुरः । (निवृत्त्यङ्कुरो) नाट्यायितं च वासवदत्तानाट्याधारे* प्रतिपदं दृश्यते । एतेषां च सर्वाभिनयैः सम्भूय वृत्तित्वात् सर्वत्र चाभिनेये प्रायशः सद्भावात् सामान्याभिनयत्वं तदर्थमेव च वितत्यै/?/त्स्वरूपाभिधानम्, यत्पूर्वमुक्तम् –
अस्य शाखा न नृत्तं च तथैवाङ्कुर एव च ।
त्रिविधं वस्त्वभिनयः…………।
इति तेन सहास्य यथा न विरोधस्तथैवोपपादितमुपाङ्गाभिनय इति तत एवावधार्यम् । किं पुनरुक्ताभिधानेन ।
एवमाङ्गिकं सामान्याभिनयमुपपाद्य वाचकमुपपादयति एतेषां तु भवेन्मार्ग इति विषय इत्यर्थः । वाक्यभावे यद्यप्यात्मापि शरीरो निर्विषय एव तेन यदेके शाखाङ्कुरनाट्यायितानां च वाक्यविरहितत्वं मन्यमाना एतेषामिति
Notes
1काव्यवस्तुषु निर्दिष्टो2 द्वादशाभिनयात्मकः ।। ५१ ।।
आलापश्च प्रलापश्च विलापः 3स्यात्तथैव च ।
अनुलापोऽथ संलाप4स्त्वपलापस्तथैव च ।। ५२ ।।
सन्देशश्चातिदेशश्च निर्देशः स्यात्तथापरः5 ।
उपदेशोऽपदेशश्च व्यपदेशश्च कीर्तितः ।। ५३ ।।
6आभाषणं तु यद्वाक्यमालापो नाम स स्मृतः ।
अनर्थकं वचो यत्तु7 प्रलापः स तु कीर्तितः8 ।। ५४ ।।
Abh
सर्वेषामित्यादि वाक्यसूचानिवृत्त्यङ्कुरमात्रविषयत्वेनैव संकोचयन्ति, ते न तत्त्वज्ञाः, सर्वोऽप्यभिनयो वाक्योपजीवनमन्तरेण नियमहेत्वभावादसमञ्जसतामभ्येति । केवलं तत्कालिकातत्कालिकादिमात्रेण वाक्यं भिद्यतां नाम । एतच्चोपाङ्गाभिनये वितत्योपपादितम् ।
काव्यवस्तुष्विति दशरूपकभेदेषु द्वादशरूपोऽभिनयात्मको वाचिकाभिनयस्य भाव इत्यर्थः । द्वादशप्रकारानुद्दिशति आलापश्चेत्यादिना तानेव क्रमेण लक्षयति आभाषणं त्वित्यादिना । युष्मदर्थविषयमुपदेशादिशून्यं यद्वचनं तदालाप इत्यर्थः । ‘‘विभ्राजसे मकरकेतनमर्चयन्ती’’ (रत्ना –१), यथा वा “जयतु भवान्’ इत्यादि । अनर्थकं वचो यत्तु स प्रलाप इति परस्परसम्बद्धं मौर्ख्यादिवशादित्यर्थः । यथा दरिद्रचारुदत्ते शकारः*– “शुणामि मल्लगंधं, अन्धआलपूलिदाए उण णासि आए शुवित्तं पेक्खामि भूषणशद्दे । (शृणोमि माल्यगन्धम् । अन्धकारपूरितया पुनर्नासिकया न सुव्यक्तं पश्यामि भूषणशब्दम् ।)
Notes
1करुणप्रभवो यस्तु विलापः स तु कीर्तितः2 ।
बहुशोऽभिहितं वाक्यमनुलाप इति स्मृतः3 ।। ५५ ।।
4उक्तिप्रत्युक्तिसंयुक्तः संलाप इति कीर्तितः ।
पूर्वोक्तस्यान्यथावादो ह्यपलाप इति स्मृतः ।। ५६ ।।
5तदिदं वचनं 5aब्रूहीत्येष सन्देश उच्यते ।
6यत्त्वयोक्तं मयोक्तं तत्सोऽतिदेश इति स्मृतः ।। ५७ ।।
Abh
(मृच्छकटिक अङ्क ?) करुणप्रभवो यस्तु स विलाप इति । करुणग्रहणं दुःखोपलक्षणम्, तेन विप्रलम्भोऽपि गृह्यते । तत्र करुणरससंबन्धं वचनं, (दुःखे) यथा–क्कासि प्रयच्छ मे प्रतिवचनम्, विप्रलम्भे यथा–बाणाः पञ्चमनोभवस्य (रत्नावली ३.३) इत्यादि । एतत्प्रधानादेव कामावस्थाविशेषो विलापः (तासु षष्ठयवस्था) इति वक्ष्यते । बहुशोऽभिहितं वाक्यमनुलाप इति । अनुवादार्थं तदेव पुनरुच्यमानमित्यर्थः । यथा– “द्वीपादन्यस्मादपि” (रत्नावली १.६) इति सूत्रधारेणोक्ते नेपथ्ये यौगन्धरायणः –एवमेतत्, दीपादन्यस्मादपीत्यनुवदति । उक्तिप्रत्युक्तिसंयुक्तः संलाप इति । यद्विधान्युदाहरणानि* (?) । पूर्वोक्तस्यान्यथा वादोऽप्यपलाप इति । यथा कृत्यारावणे गौतमीरूपच्छन्ना रामाक्रन्दितं लक्ष्मणे श्रावयितुकामा शूर्पणखा पूर्वमाह– “आवि सुदं ते” (अपि श्रुतं त्वया)। ततः सीता (ससंभ्रमम्)– “अये किंति” (अये किमिति ।) ततः सा– “आ वञ्चिते, सत्यं गौतमीमेव मामियं सीता जानात्वित्येवं ह्याह, “णं मए णक्क हण्णिदं, (?) अवि सुदं ते” (इति)। तदिदं वचनं ब्रूहीत्येष सन्देश इति । उदाहरणेन लक्षणमुन्नेयम् । ततः परमुखेनान्यय स्ववचोऽर्पणं सन्देश इति । अतिदेशस्त्वयोक्तं युक्तं मयोक्तमिति सिद्धेनासिद्धस्य तुल्यतापादनमतिदेश इत्यर्थः । अत्रोपदेशातिदेशयोरुपमानस्य च साहित्यविषये तार्किकमीमांसकविषये विशेषप्रतिपादनं यत् टीकाकारैः कृतं
Notes
1स एषोऽहं 1aब्रवीमीति निर्देश इति कीर्तितः ।
व्याजान्तरेण कथनं2 व्यपदेश इहोच्यते3 ।। ५८ ।।
इदं कुरु गृहाणेति ह्युपदेशः प्रकीर्तितः4 ।
5aअन्यार्थकथनं यत् स्यात्5 सोऽपदेशः प्रकीर्तितः6 ।। ५९ ।।*
एते मार्गास्तु7 विज्ञेयाः 8सर्वाभिनययोजकाः ।
सप्त9प्रकारमेतेषां पुनर्वक्ष्यामि लक्षणम्10 ।। ६० ।।
प्रत्यक्षश्च परोक्षश्च तथा कालकृतस्त्रयः11 ।
आत्मस्थश्च परस्थश्च प्रकाराः सप्त एव तु12 ।। ६१ ।।
Abh
तत्सुकुमारमनोमोहनं वृथा भ्रमणिकामात्रं प्रकृतानुपयोगादिहोपेक्ष्यमेव । स एवैषोऽहं ब्रबीमीति निर्देश इति लक्षणम् । व्याजान्तरेण कथनं व्यपदेश इति व्याजविशेषेणेत्यर्थः । यथा मुद्राराक्षसे क्षपणे कस्य राक्षसज्दूषणार्थं तावन्नगरान्निर्वासनं तत्र च चाणक्येन व्याजेन वचनं कृतम्–“अयं पापीयान् (जीवसिद्धिः) राक्षसप्रयुक्तविषकन्यया पर्वतेश्चरं घातितवान् ततो निर्वास्यते” इति । इदं कुरु गृहाणेति ह्युपदेश इति नियोग इत्यर्थः । अन्यार्थकथनमपदेश इति स्वयं विवक्षितस्यान्य एव वक्कीत्यन्यकथनमित्यर्थः । यथा भीमं प्रति सहदेवः –एवं गुरुणा सन्दिष्टं सुयोधनस्येति (वेणी. १) । उपसंहरति एते मार्गास्त्विति सर्वेषु षट्स्वपि शारीरेष्वित्यर्थः । तथा अभिनीयन्त इत्यभिनया नाटकादिकाव्यविशेषाः तेषु, यतः सामान्येन भवन्त्यत एवैते सामान्याभिनया इति तात्पर्यम् ।
Notes
1एष ब्रवीमि2 नाहं भो वदामीति च यद्वचः ।
प्रत्यक्षश्च परोक्षश्च3 वर्तमानश्च तद्भवेत् ।। ६२ ।।
अहं करोमि गच्छामि वदामि वचनं तव ।
4आत्मस्थो वर्तमानश्च प्रत्यक्षश्चैव स स्मृतः ।। ६३ ।।
करिष्यामि गमिष्यामि वदिष्यामीति यद्वचः ।
आत्मस्थश्च परोक्षश्च भविष्यत्काल एवं च ।। ६४ ।।
हता जिताश्च भग्नाश्च मया सर्वे द्विषद्गणाः ।
आत्मस्थश्च परोक्षश्च वृत्तकालश्च5 स स्मृतः ।। ६५ ।।
[6त्वया हता जिताश्चेति यो वदेन्नाट्यकर्मणि ।
परोक्षश्च परस्थश्च वृत्तकालस्तथैव च ।। ६६ ।।
एष ब्रवीमि कुरुते गच्छतीत्यादि यद्वचः ।
7परस्थो वर्तमानश्च (प्रत्यक्षश्च) भवेत्तथा ।। ६७ ।।
Abh
अथात्रैव भेदान्तराण्याह आत्मस्थश्च परस्थश्चेत्यादि । अत्रोदाहरणदिशमाह अहं करोमीत्यादि ।
Notes
स गच्छति करोतीति वचनं यदुदाहृतम् ।
परस्थं वर्तमानं च परोक्षं चैव तद्भवेत् ।। ६८ ।।
करिष्यन्ति गमिष्यन्ति वदिष्यन्तीति यद्वचः ।
परस्थमेष्यत्कालं च परोक्षं चैव तद्भवेत् ।। ६९ ।।
हस्तमन्तरतः कृत्वा यद्वदेन्नाट्यकर्मणि ।
1आत्मस्थं हृदयस्थं च परोक्षं चैव तन्मतम् ।। ७० ।।
परेषामात्मनश्चैव कालस्य च विशेषणात्2 ।
सप्तप्रकारस्यास्यैव3 भेदा ज्ञेया 4अनेकधा ।। ७१ ।।
Abh
इदानीं विषयभेदकृतमात्मस्थस्यापि पारोक्ष्यं दर्शयति हस्तमन्तरतः कृत्वे त्यादि । स्वगतजनान्तिकापवारितकेषु वक्तुरात्मस्थं पात्रान्तराणां चाप्रत्यक्षं नाट्यधर्मीवशादित्यात्मस्थमपि तत्परोक्षम् । लोकधर्म्याप्यात्मस्थं परोक्षम् । यथा–“सुप्तो मत्तो न्वहं किल विललाप” इति । यदाहोत्तमविषयेऽपि चित्तव्याक्षेपादिभ्यो (लिट् भवतीति । अन्य) भेदानां कार्येण (सम्भव) माह–
परेषामात्मनश्चैव कालस्य च विशेषणात् ।
सप्तप्रकारस्यास्यैव भेदा ज्ञेया अनेकधा ।।
एते प्रयोगा विज्ञेया मार्गाभिनययोजिताः ।
एतेष्विह विनिष्पन्नो विविधोऽभिनयो भवेत् ।।
इह तावद्वाक्यं द्वादशधाभिन्नं तत्राप्यात्मस्थपरस्थयोः प्रत्यक्षत्वपरोक्षत्वाभ्यां चतुर्विधत्वं चतुर्णां
Notes
1एते 2प्रयोगा विज्ञेया 3मार्गाभिनययोजिताः ।
4एतेष्विह विनिष्पन्नो 5विविधोऽभिनयो भवेत्6 ।। ७२ ।।
शिरो7 हस्तकटीवक्षोजङ्घोरुकरणेषु तु ।
समः कर्मविभागो यः सामान्याभिनयस्तु सः ।। ७३ ।।
ललितैर्हस्तसंचारै8स्तथा मृद्वङ्गचेष्टितैः ।
अभिनेय9स्तु नाट्यज्ञै रसभावसमन्वितैः ।। ७४ ।।
Abh
कालत्रयेण गुणेन द्वादशभेदाः । भूतभविष्यतोरपि प्रत्यक्षत्वं योगिप्रत्यक्षादिदृशा न भवति । एवं द्वादशानां तावद्भिर्गुणने चतुश्चत्वारिंशदधिकं शतम् । संस्कृतेतरभेदेन त्रिविधत्वं यदुक्तं तेन गुणेन द्विपञ्चाशदधिकानि नवशतानीति (!) वाक्याभिनस्य भेदाः । सूचाया वाक्यतदर्थभेदाद् द्वैगुण्यम् । तेन एकोनविंशतिशतानि चतुरधिकानि सूचाभेदाः । वाक्यतुल्या एवाङ्कुरभेदाः सूचाभेदैर्गुणनीयास्तैः, पुनः शाखाभेदास्तैरपि द्विविधनाट्यायितभेदस्तावद्भिर्निवृत्त्यङ्कुरभेदा इति कोटिशतान्यनेकानि भवन्ति । न तु यथा श्रीशङ्कुकेनोक्तं चत्वारिंशत्सहस्राणीत्यादि ।
एवं विशिष्टः सामान्येनाभिनीयमानः संभूयभिनयैर्युक्तः सर्वाभिनयेषु सामान्यभूत इत्येवं यः सामान्याभिनय अस्या एकीभावनिबन्धनभूताया अलातचक्र (मण्डल) संनिभत्वसम्पादिकाया
Notes
1अनुद्धतमसंभ्रान्तमनाविद्धाङ्गचेष्टितम् ।
लयतालकलापात2प्रमाणनियतात्मकम्3 ।। ७५ ।।
सुविभक्तपदालापमनिष्ठुरमकाहलम्4 ।
यदीदृशं भवेन्नाट्यं ज्ञेयमाभ्यन्तरं5 तु तत् ।। ७६ ।।
एतदेव विपर्यस्तं स्वच्छन्दगतिचेष्टितम् ।
6अनिबद्धगीतवाद्यं नाट्यं बाह्यमिति स्मृतम् ।। ७७ ।।
7लक्षणाभ्यन्तरत्वाद्धि 8तदाभ्यन्तरमिष्यते ।
9शास्त्रबाह्यं भवेद्यत्तु तद्बाह्यमिति भण्यते10 ।। ७८ ।।
अनेन लक्ष्यते यस्मात्11 प्रयोगः कर्म चैव हि12 ।
तस्माल्लक्षणमेतद्धि नाट्येऽस्मिन् संप्रयोजितम्13 ।। ७९ ।।*
Abh
सामान्याभिनयक्रियायाः प्राधान्यप्रदर्शनार्थमाह अनुद्धतमसंभ्रान्तमित्यादि । अनाविद्धशब्देनाङ्किविषयं सामान्यं दर्शयति । एतदभावं दुष्टत्वमिति दर्शयन् व्यतिरेकक्रमेणापि सामान्याभिनयस्यावश्योपादेयतामाह एतदेव विपर्यस्तमित्यादिना । आभ्यन्तरमिति (स्वयमेव विवृणोति) लक्षणाभ्यन्तरत्वादिति । ननु वागङ्गाभिनयोपेत इति लक्षणं तस्य बाह्योऽप्यस्तीत्याशङ्कयाह अनेन लक्ष्यते यस्मादिति सामान्याभिनयरूपमेव लक्षणमिति तात्पर्यम् । (संप्रयोजितमिति) नाट्यविषयाः प्रत्येकं तावत् क्रिया एकीभावं नेयाः, एकीभावगतश्च क्रियासमूहोऽप्येकीभावं नेय इत्येतत् । कर्मप्रयोगशब्दाभ्यां नाट्य इति सप्तम्या कथयति–अनेन विना स्फुटं
Notes
अनाचार्योषिता1 ये च ये च शास्त्रबहिष्कृताः2 ।
3बाह्यं प्रयुञ्जते ते तु अज्ञात्वाचार्यकीं क्रियाम् ।। ८० ।।
शब्दं स्पर्शं च रूपं च रसं गन्धं तथैव च ।
4इन्द्रियाणीन्द्रियार्थाश्च 5भावैरभिनयेद्बुधः ।। ८१ ।।
कृत्वा साचीकृतां दृष्टिं शिरः 6पार्श्वे नतं तथा ।
7तर्जनीं कर्णदेशे च बुधः शब्दं विनिर्दिशेत्8 ।। ८२ ।।
Abh
नाट्यरूपत्वमेव साक्षात्काराध्यवसायरूपं रसानुप्राणितं तन्न संपद्यत इति । व्युत्पत्तिदूरीभावं त्वनधीयानां, भट्टपुत्रादौ तदभावात्तदाह अनाचार्योषिता ये चेत्यादिना ।
अथ संभूयाभिनयरूपत्वमेव सामान्याभिनयमाह शब्दं स्पर्शं चेत्यादि । इन्द्रियशब्दस्येन्द्रियार्थशब्देन स्पर्शादिविशेषणस्यासंभवम्*, स्वविषयग्रहणावेशः स्वकरणग्राह्यतावेशश्च सर्वेषामिन्द्रियाणां विषयाणां च प्रदर्श्यते, अत एवैष सामान्याभिनयनेयेऽर्थद्वयेऽभिनयस्य साधारण्यम् । भावैरिति क्रियाविशेषैरित्यर्थः । तानाह कृत्वा साचीकृतां दृष्टिमित्यादि । अनेनादरवशात्समस्तो भरः श्रोत्रदेशमनुयाति, यथोक्तं– तथाहि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्ठा ।। (रघु ७.१२) इति चकाराच्छ्रोत्रमपि शब्दग्रहणाविष्टमनेनाभिनीतं भवतीत्याह । एवमुत्तरत्र ।
Notes
- इन्द्रियस्येन्द्रियार्थेन शब्दस्पर्शादिविशेषेण स्यात् संभवः –इति पाठः स्यात् ।
किंचिदाकुञ्चिते नेत्रे कृत्वा भ्रूक्षेपमेव च1 ।
तथांऽसगण्डयोः स्पर्शात् स्पर्शमेव विनिर्दिशेत् ।। ८३ ।।*
कृत्वा पताकौ मूर्धस्थौ किंचित्प्रचलिताननः2 ।
निर्वर्णयन्त्या दृष्ट्या च3 रूपं त्वभिनयेद् बुधः ।। ८४ ।।
किंचिदाकुञ्चिते नेत्रे 4कृत्वोत्फुल्लां च नासिकाम्5 ।
एकोच्छ्वासेन चेष्टौ तु6रसगन्धौ विनिर्दिशेत् ।। ८५ ।।*
पञ्चानामिन्द्रियार्थानां7 भावा ह्येतेऽनुभाविनः ।
8श्रोत्रत्वङ्नेत्रजिह्वानां घ्राणस्य च तथैव हि ।। ८६ ।।
9इन्द्रियार्थाः समनसो भवन्ति ह्यनुभाविनः10 ।
न वेत्ति ह्यमनाः किंचिद्विषयं पञ्चधागतम्11 ।। ८७ ।।
12मनसस्त्रिविधो भावो विज्ञेयोऽभिनये बुधैः 13 ।
Abh
एतदुपसंहरति पञ्चानामिन्द्रियार्थानामित्यादि । इन्द्रियार्थाः समनस इति यथाशब्दादिग्रहणक्रियाभिः शब्दः श्रोत्रे प्रतीयते, तन्मनोऽपि तदधिष्ठातृक्रमेणाधिष्ठानं कुर्वदित्यतोऽपि सामान्याभिनयः । तदुक्तम् – युगपद् ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति* । मनसस्त्रिविधो भाव इति वैशेषिकादिदृशि मनस्संयोगजो य आत्मन इच्छाद्वेषमाध्यस्थ्यलक्षणो भावः स मनस इत्युक्तः ।
Notes
- न्यायसूत्र १–१–१६.
1इष्टस्तथा ह्यनिष्टश्च2 मध्यस्थश्च तथैव हि ।। ८८ ।।
3प्रह्लादनेन गात्रस्य तथा पुलकितेन च ।
4वदनस्य विकासेन कुर्यादिष्टनिदर्शनम् ।। ८९ ।।
5इष्टे शब्दे तथा रूपे स्पर्शे 6गन्धे तथा रसे ।
इन्द्रियैर्मनसा7 प्राप्तैः8 9सौमुख्यं संप्रदर्शयेत् ।। ९० ।।
परावृत्तेन शिरसा10 नेत्रनासाविकर्षणैः11 ।
चक्षुषश्चाप्रदानेन ह्यनिष्टमभिनिर्दिशेत् ।। ९१ ।।
12नातिहृष्टेन मनसा न 13चात्यर्थजुगुप्सया ।
मध्यस्थेनैव भावेन मध्यस्थमभिनिर्दिशेत्14 ।। ९२ ।।
Abh
कापिलदृशि तु विन्ध्यवासिनो मनस एव, ईश्वरकृष्णादिमते मनःशब्देनात्र बुद्धिः प्रह्लादनेन गात्रस्येत्यादिकं विषयग्रहणक्रियास्वभीष्टविषये निदर्शयितव्यम् । अतोऽपि चास्य सामान्याभिनयत्वं द्रष्टव्यम् ।
एतदेव स्फुटयति दृष्टे (इष्टे?) शब्द इत्यादिना । सुमुखत्वं प्रसादादियुक्तं वदनमित्यर्थः । विकर्षणानि सङ्कोचनानि च । बहुवचनेन मध्ये ग्रहणसिद्धये विकासासंभिन्न इति दर्शयति ।
Notes
तेनेदं तस्य 1वापीदं स एवं प्रकरोति वा2 ।
परोक्षाभिनयो यस्तुं मध्यस्थ इति स स्मृतः ।। ९३ ।।
3आत्मानुभावी योऽर्थः स्यादात्मस्थ इति स स्मृतः ।
4परार्थवर्णना यत्र परस्थः स तु संज्ञितः ।। ९४ ।।
प्रायेण सर्वभावानां कामान्निष्पत्तिरिष्यते ।
स 5चेच्छागुणसम्पन्नो6 बहुधा परिकल्पितः ।। ९५ ।।
Abh
अथात्रैव पूर्वोक्तप्रकारसंभवं दर्शयति तेनेदमित्यादि । कृतं कर्तव्यमिति वाक्यशेषे भूतता भविष्यत्ता च । आत्मनि सुखादयोऽर्थाः समवायिन इति सर्व एव ते आत्मस्थाः स्युः, रूपादीनां चान्यत्र समवायात् सदैव परस्थता स्यादित्याशङ्क्या आत्मानुभावी योऽर्थः स्यादिति । परशब्दसन्निधानादात्मशब्दोऽत्राहंभावास्पदे प्रत्यगात्मनि वर्तते । तमात्मानमनुभावयति यदार्थः स आत्मस्थः । रूपादयोऽपि चैवं भवन्तीति कथं नात्मस्थाः परसुखादयश्च नैवमिति कथमात्मस्थाः ।
अथ कामोपचारस्य सामान्याभिनयत्वमुपपादयति प्रायेण सर्वभावानामिति । कामादिति इच्छातः । यद्यप्यनिच्छोः किञ्चिद्भवति तदपि प्राक्तनं च कर्माधिपत्यात् । कर्मस्थापूर्वकमिति प्रायग्रहणं व्याप्त्यर्थः कामादेव निष्पत्तिरित्यर्थः ।
ननु कोऽयं कामो नामेत्याह स चेच्छेति । न चेच्छामात्रादेव कार्यविनिष्पत्तिरित्याह गुणेन कार्यप्रयत्नादिना कार्यव्यापारादिसहितेन सम्पन्नः सहकृतः सर्वकार्यकारी । नन्वेकैव चेदिच्छा कथमनेकं कार्यं प्रसूयत इत्याशङ्क्या बहुधा परिकल्पितः भूयस्यः इच्छा इति यावन्तमुदाहरति धर्मकाम इत्यादि ।
Notes
धर्मकामोऽर्थकामश्च मोक्षकामस्तथैव च ।
1स्त्रीपुंसयोस्तु योगो यः स तु काम इति स्मृतः2 ।। ९६ ।।
3सर्वस्यैव 4हि लोकस्य 5सुखदुःखनिबर्हणः6 ।
भूयिष्ठं दृश्यते कामः 7स सुखं व्यसनेष्वपि ।। ९७ ।।
8यः स्त्रीपुरुषसंयोगो रतिसंभोगकारकः ।
9स शृङ्गार इति ज्ञेय 10उपचारकृतः शुभः ।। ९८ ।।
Abh
धर्मः कामः अर्थो मोक्षे च । तत्र कामो नामेच्छा सा च सुखे तत्साधने वा भवति । तत्र धर्मार्थयोः स्वयं सुखरूपत्वं नास्ति सुखसाधनतापि च । साक्षाद्धर्मेण ह्यप्सरोनन्तादि(गतादि ?) सुखसाधनमुपार्ज्यते । एवमर्थेऽपि मन्तव्यम् । मोक्षो यद्यप्यबहिस्साधनाधीनपरमान्दविश्रान्तिलक्षणः सुखात्मैव, तथापि दुर्लभ इति न तत्र संमोहितं लोकस्य हृदयम् । स्त्रीपुरुषयोस्तु संयोगः साक्षादेव सुखसाधनमिति तस्यैवेच्छाविषयतेति निरुपपदेन कामशब्देन स एव वाच्यः । तेन च सर्वोऽर्थोऽनुरज्यते, यदाह–स्त्रीति नामापि संह्लादीति (कामन्दक ४–५२) इति । तथापि तत्स्पृष्टे लोकोत्तरे (?रो)ऽप्यर्थो लोकस्य हृदयसंवादादयत्नेनैव हृदयंगमत्वमभ्युपगच्छति । यथा– मोहदुर्दिननिशाभिसारिका मानिनी समदना मदोद्धता ।
धीरियं प्रणयतस्त(स्त्व?) दुन्मुखी खण्डितां रमण मास्म तां कृथाः ।। इति अनेनैवाशयेन रहस्योऽप्यर्थो मया रहस्येषु(मुख्ययैव वृत्त्या) निबद्धः कैशिक्या ह्येतदर्थमेवादरेण विनिवेशः प्रतिपादितः । अत एह्यस
कामोपचारस्य सामान्याभिनयत्वं बहुतरलक्ष्यव्यापकत्वात् तदेव दर्शयति यः स्त्रीपुरुषसंयोग इति । इच्छामात्रमपि तत्र सुखे (चोपचारकृत) मित्यत इच्छालक्षणं संभोगं करोतीत्याह ।
Notes
1भूयिष्ठमेव लोकोऽयं सुखमिच्छति सर्वदा2 ।
3सुखस्य हि स्त्रियो मूलं नाना4शीलाश्च ताः पुनः ।। ९९ ।।*
5देवदानवगन्धर्वरक्षोनागपतत्रिणाम् ।
पिशाचयक्षव्यालानां नरवानरहस्तिनाम् ।। १०० ।।
मृगमीनोष्ट्रमकर6खरसूकरवाजिनाम् ।
7महिषाजगवादीनां तुल्यशीलाः स्त्रियः स्मृताः ।। १०१ ।।*
Abh
उपचारोऽन्योन्यहृदयग्रहणोचितैर्व्यापारैः परिपूर्णः । इह चोक्त (उत्तम) प्रकृतिर्यदि भवति तद्रसाध्यायोक्तदृशा शृङ्गार इत्युच्यते । एतमेवार्थमुपोद्बलयति भूयिष्ठमेव लोकोऽयं सुखमिच्छति सर्वदा इति । भूयिष्ठमिति प्राप्तादधिकमिति यावत् । अत एव परमानन्दलाभमन्तरेण न कुत्रचित् संतुष्यति लोकः । सर्वदेति दुःखाभावमपि सुखार्थमेवेच्छति, सर्वदुःखनिवृत्तिं हि कामयते सुखेन यथेच्छश्नीयात्, यथाभीष्टं च रमणीमुपभुञ्जीयादिति । हारमपि त्यजति मृदुशीतलसमीरस्पर्शजनितसुखसिद्धयर्थमेव । अत एव शून्यरहस्यविदः कणादसुगतादिसंमतमिमं मोक्षं न रोचयन्ते प्रेक्षावतां तत्राप्रवृत्तिप्रसङ्गादिति दर्शितमित्यलं बहुना ।
उपचारकृतमित्युक्तम्, तत्रोपचारज्ञानाय स्त्रीणामाशयं दर्शयति, आशयग्रहण– पूर्वकत्वादुचितस्योपचारस्य नानाशीलाः (इति) । शीलं सत्त्वं चैतन्यं बुद्धिपूर्वकं स्वभावो हेवाक इति पर्यायाः । देवदानवेत्यादिना तानि शीलान्युद्दिश्य यथोद्देशं लक्षयति । आदिग्रहणेनान्यदपि शीलमस्तीत्याह ।
Notes
1स्निग्धैरङ्गैरुपाङ्गैश्च स्थिरा मन्दनिमेषिणी ।
अरोगा2 दीप्त्युपेता च 3दानसत्त्वार्जवान्विता ।। १०२ ।।
4अल्पस्वेदा समरता स्वल्पभुक् सुरत5प्रिया ।
6गन्धपुष्परता हृद्या देवशीलाङ्गना स्मृता ।। १०३ ।।
अधर्मशाठ्याभिरता7 स्थिरक्रोधातिनिष्ठुरा ।
मद्यमांसप्रिया8 नित्यं कोपना चातिमानिनी ।। १०४ ।।
9चपला चातिलुब्धा च परुषा कलहप्रिया ।
10ईर्ष्याशीला चलस्नेहा चासुरं 11शीलमाश्रिता ।। १०५ ।।
12क्रीडापरा चारुनेत्रा नखदन्तैः सुपुष्पितैः ।
13स्वङ्गी च स्थिरभाषी च मन्दापत्या रतिप्रिया ।। १०६ ।।
14गीते वाद्ये च नृत्ते14a च 15रता हृष्टा मृजावती ।
Abh
समरतेति नातिमृद्वी नातिखरेत्यर्थः । स्वङ्गीति सुखसन्निवेशान्यङ्गानि यस्या इत्यर्थः ।
Notes
गन्धर्वसत्त्वा1 विज्ञेया स्निग्धत्वक्केशलोचना ।। १०७ ।।
2बृहद्व्यायतसर्वाङ्गी रक्तविस्तीर्णलोचना ।
3खररोमा दिवास्वप्न4निरतात्युच्चभाषिणी ।। १०८ ।।
नखदन्तक्षतकरी क्रोधेर्ष्याकलहप्रिया ।
5निशाविहारशीला च राक्षसं 6शीलमाश्रिता ।। १०९ ।।*
तीक्ष्णनासाग्रदशना सुतनुस्ताम्रलोचना ।
नीलोत्पलसवर्णा च 7स्वप्नशीलाऽतिकोपना ।। ११० ।।
तिर्यग्गतिश्चलारम्भा8 बहुश्वासातिमानिनी9 ।
गन्धमाल्यासवरता10 नागसत्त्वाऽङ्गना स्मृता ।। १११ ।।
11अत्यन्तव्यावृतास्या च तीक्ष्णशीला सरित्प्रिया ।
सुरासवक्षीररता12 बह्वपत्या फलप्रिया ।। ११२ ।।
नित्यं 13श्वसनशीला च 14तथोद्यान15वनप्रिया ।
16चपला बहुवाक्छीघ्रा शाकुनं 17सत्त्वमाश्रिता ।। ११३ ।।
Abh
व्यावृतं विस्तीर्णमास्यमन्तर्मुखं यस्याम् । निष्कुटे गृहारामे चरतीति (निष्कुट–
Notes
1ऊनाधिकाङ्गुलिकरा2 3रात्रौ निष्कुटचारिणी ।
बालोद्वेजनशीला च पिशुना 4क्लिष्टभाषिणी ।। ११४ ।।*
5सुरते कुत्सिताचारा रोमशाङ्गी महास्वना6 ।
पिशाचसत्त्वा विज्ञेया मद्यमांस7बलिप्रिया ।। ११५ ।।
8स्वप्नप्रस्वेदनाङ्गी च 9स्थिरशय्यासनप्रिया ।
मेधाविनी बुद्धिमती10 मद्यगन्धामिषप्रिया ।। ११६ ।।
11चिरदृष्टेषु हर्षं च कृतज्ञत्वादुपैति सा12 ।
अदीर्घ13शायिनी चैव 13aयक्षशीलाऽङ्गना स्मृता ।। ११७ ।।
14तुल्यमानावमाना या परुषत्वक्खरस्वरा15 ।
16शठानृतोद्धतकथा व्यालसत्त्वा च पिङ्गदृक्17 ।। ११८ ।।
आर्जवाभिरता नित्यं दक्षा क्षान्तिगुणान्विता ।
विभक्ताङ्गी कृतज्ञा च गुरुदेवद्विजप्रिया18 ।। ११९ ।।
धर्मकामार्थ19निरता19a ह्यहङ्कारविवर्जिता ।
Abh
चारिणी) तच्छीलेति । कुत्सिताचारेति औपरिष्टकादिप्रिया । (बुद्धिमतीति)
Notes
सुहृत्प्रिया 1सुशीला च मानुषं सत्त्वमाश्रिता ।। १२० ।।
संहताल्पतनु2र्हृष्टा पिङ्गरोमा 3छलप्रिया ।
4प्रगल्भा चपला तीक्ष्णा वृक्षाराम5वनप्रिया ।। १२१ ।।
स्वल्पमप्युपकारं तु नित्यं या6 बहुमन्यते ।
प्रसह्य रतिशीला च 7वानरं सत्त्वमाश्रिता ।। १२२ ।।
महाहनुललाटा 8च 9शरीरोपचयान्विता ।
पिङ्गाक्षी रोमशाङ्गी च गन्धमाल्यासव10प्रिया ।। १२३ ।।
कोपना स्थिरचित्ता11 च 12जलोद्यानवनप्रिया ।
मधुराभिरता चैव हस्तिसत्त्वा प्रकीर्तिता13 ।। १२४ ।।
स्वल्पोदरी 14भग्ननासा तनुजङ्घा 15वनप्रिया ।
16चलविस्तीर्णनयना चपला शीघ्रगामिनी ।। १२५ ।।
17दिवात्रासपरा 18नित्यं गीतवाद्यरतिप्रिया19 ।
20निवासस्थिरचित्ता च21 मृगसत्त्वा प्रकीर्तिता ।। १२६ ।।
Abh
अशेषाविस्मरणं बुद्धिः प्रतिभा । प्रसह्येति कामुकमभियुज्येत्यर्थः। निवास
Notes
दीर्घपीनोन्नतोरस्का 1चला नातिनिमेषिणी ।
2बहुभृत्या 2aबहुसुता मत्स्यसत्त्वा जलप्रिया ।। १२७ ।।
लम्बोष्ठी स्वेदबहुला किञ्चिद्विकटगामिनी ।
कृशोदरी पुष्पफल3लवणाम्लकटुप्रिया ।। १२८ ।।
4उद्बन्धकटिपार्श्वा च खर5निष्ठुरभाषिणी ।
6अत्युन्नतकटीग्रीवा 7उष्ट्रसत्त्वाऽटवीप्रिया ।। १२९ ।।
स्थूलशीर्षाञ्चित8ग्रीवा 9दारितास्या महास्वना ।
ज्ञेया मकरसत्त्वा च10 क्रूरा मत्स्यगुणैर्युता ।। १३० ।।
स्थूलजिह्वोष्ठदशना11 रूक्षत्वक्कटुभाषिणी ।
रतियुद्धकरी12 धृष्टा13 नखदन्तक्षतप्रिया ।। १३१ ।।
14सपत्नीद्वेषिणी दक्षा चपला शीघ्रगामिनी ।
15सरोगा बह्वपत्या च खरसत्त्वा प्रकीर्तिता ।। १३२ ।।
16दीर्घपृष्ठोदरमुरवी रोमशाङ्गी बलान्विता ।
17सुसंक्षिप्तललाटा च कन्दमूलफलप्रिया ।। १३३ ।।
Abh
इति सौधादिः । (रतियुद्धकरीति) रतौ युद्धमिव । (नखेति) नखदशनप्रका-
Notes
कृष्णा दंष्ट्रोत्कटमुखी 1ह्नस्वोदरशिरोरुहा ।
हीनाचारा बह्वपत्या 2सौकरं सत्त्वमाश्रिता ।। १३४ ।।
3स्थिरा 4विभक्तपार्श्वोरुकटीपृष्ठशिरोधरा ।
5सुभगा दानशीला च 6ऋजुस्थूल6aशिरोरुहा ।। १३५ ।।
7कृशा चञ्चलचित्ता च स्निग्धवाक्छीघ्रगामिनी ।
कामक्रोधपरा चैव हयसत्त्वाङ्गना स्मृता8 ।। १३६ ।।
स्थूलपृष्ठाक्षि9दशना तनुपार्श्वोदरा स्थिरा10 ।
हरिरोमाञ्चिता 11रौद्री लोकद्विष्टा रतिप्रिया ।। १३७ ।।
किञ्चिदुन्नतवक्त्रा च जलक्रीडावनाप्रिया ।
बृहल्ललाटा सुश्रोणी12 माहिषं 13सत्त्वमाश्रिता ।। १३८ ।।
कृशा तनुभुजोरस्का 14निष्टब्धस्थिरलोचना ।
संक्षिप्तपाणिपादा च सूक्ष्मरोम15समाचिता ।। १३९ ।।
भयशीला जलोद्विग्ना16 बह्वपत्या 17वनप्रिया ।
चञ्चला शीघ्रगमना 18ह्यजसत्त्वाङ्गना स्मृता ।। १४० ।।
Abh
रादि करोति स्वयं च तदात्मनि बहुमन्यते । (संक्षिप्तपाणीति) संक्षिप्तं परिमितम् ।
Notes
1उद्बन्धगात्रनयना विजृम्भणपरायणा ।
2दीर्घाल्पवदना स्वल्पपाणिपादविभूषिता ।। १४१ ।।
3उच्चैः स्वना स्वल्पनिद्रा क्रोधना सुकृतप्रिया4।
हीनाचारा कृतज्ञा5 च श्वशीला6 परिकीर्तिता ।। १४२ ।।
7पृथुपीनोन्नाश्रोणी तनुजङ्घा सुहृत्प्रिया ।
संक्षिप्तपाणिपादा च 8दृढारम्भा प्रजाहिता ।। १४३ ।।
पितृदेवार्चनरता 9सत्यशौचगुरुप्रिया ।
10स्थिरा परिक्लेशसहा गवां सत्त्वं समाश्रिता11 ।। १४४ ।।
नानाशीलाः स्त्रियो 12ज्ञेयाः स्वं स्वं सत्त्वं समाश्रिताः ।
विज्ञाय च यथासत्त्वमुपसेवेत ताः पुनः13 ।। १४५ ।।
उपचारो यथासत्त्वं स्त्रीणामल्पोऽपि हर्षदः14 ।
महानप्यन्यथायुक्तो नैव तुष्टिकरो भवेत् ।। १४६ ।।
15यथा संप्रार्थितावाप्त्या16 रतिः समुपजायते ।
Abh
शीलज्ञानस्योपयोगमाह विज्ञाय च यथासत्त्वमुपसेवेतेति । सत्त्वानुसारेण सेवायाः प्रयोजनमाह उपचारो यथासत्त्वमिति । एवं च सतीत्येतदेव व्यतिरेकेणाह महानप्यन्यथेति । महानिति पूर्णः। अन्यथेति अयथासत्त्वम् ।
Notes
स्त्रीपुंसयोश्च रत्यर्थमुपचारो विधीयते ।। १४७ ।।
धर्मार्थं हि तपश्चर्या सुखार्थं धर्म इष्यते ।
सुखस्य मूलं प्रमदास्तासु 1सम्भोग इष्यते ।। १४८ ।।
कामोपभोगो2 द्विविधो नाट्यधर्मेऽभिधीयते3 ।
बाह्याभ्यन्तरतश्चैव नारीपुरुषसंश्रयः4 ।। १४९ ।।
आभ्यन्तरः पार्थिवानां 5स च कार्यस्तु नाटके6 ।
बाह्यो वेश्यागतश्चैव7 स च8 प्रकरणे9 भवेत् ।। १५० ।।
10तत्र राजोपभोगं11 तु व्याख्यास्याम्यनुपूर्वशः ।
उपचारविधिं सम्यक्12 कामतन्त्र13 समुत्थितम् ।। १५१ ।।
14त्रिविधा प्रकृतिः स्त्रीणां नानासत्त्वसमुद्भवा ।
Abh
पुरुषार्थान्तरे कस्मादित्यव्युत्पत्तिर्न कृतेति वेदप्रामाण्यादि दर्शयति धर्मार्थं हीत्यादि । अस्येदानीं सामान्याभिनयस्य प्रकृत उपयोगं दर्शयति कामोपभोगो द्विविध इति । (नाट्यधर्म इति)नाट्योपाये इतिवृत्त इत्यर्थः । अभ्यन्तरमन्तःपुरं तत्र भवः (आभ्यन्तरः)। नाटक इति नाटिकायां चेत्यर्थः । अनुपूर्वश इति (वक्ष्यमाणग्रन्थे मुनिना) स्त्रीणां त्रैविध्यम् , राजोपचारे नायिकायाः कामोपपत्तिः, इङ्गितं इष्टवेदनम्, कामावस्थाः, विप्रलम्भोपचारः, दूतीप्रेषणम्, सन्देशः, रत्युपायचिन्ता, (कन्यामित्रम्), प्रच्छन्नकामितम्,
Notes
1बाह्या चाभ्यन्तरा चैव 2स्याद्बाह्याभ्यन्तरापरा ।। १५२ ।।*
कुलीनाभ्यन्तरा ज्ञेया बाह्या वेश्याङ्गना स्मृता3 ।
कृतशौचा तु4 या नारी सा बाह्याभ्यन्तरा स्मृता ।। १५३ ।।*
अन्तःपुरोपचारे तु5 कुलजा कन्यकापि वा ।
न हि राजोपचारे तु बाह्यस्त्रीभोग इष्यते ।। १५४ ।।
आभ्यन्तरो भवेद्राज्ञो बाह्यो बाह्यजनस्य च ।
दिव्यवेशाङ्गनानां हि6 राज्ञां भवति सङ्गमः ।। १५५ ।।
7कुलजाकामितं यच्च तज्ज्ञेयं कन्यकास्वपि8 ।
9या चापि वेश्या साप्यत्र यथैव कुलजा तथा ।। १५६ ।।
10इह कामसमुत्पत्तिर्नानाभाव11समुद्भवा ।
स्त्रीणां वा पुरुषाणां वा उत्तमाधममध्यमा ।। १५७ ।।
Abh
अन्तः पुरभोगः, (नि)वासकः इत्यादिना क्रमेणेत्यर्थः । राज्ञामाभ्यन्तर एव नाटके भोगः, न तु राज्ञामेवेति । वेशो गणिकानां स्थानं तत्र भवाः वेश्याः । (कृतशौचेति) कृतं शौचं शुद्धशीलत्वमेकान्तावरुद्धत्वेन यस्याः सा च वेश्या पुनर्भवा । कन्येति गणिका कुमार्यपीत्यर्थः । न हि राजोपचारे तु बाह्यस्त्रीभोग इत्यस्यापवादमाह दिव्यवेश्येत्यादि । यथा पुरूरवसः उर्वश्या ।
Notes
1श्रवणाद्दर्शनाद्रूपादङ्गलीलाविचेष्टितैः ।1a
2aमधुरैश्च समालापैः2 कामः समुपजायते3 ।। १५८ ।।
4रूपगुणादिसमेतं कलादिविज्ञानयौवनोपेतम् ।
दृष्ट्वा पुरुषविशेषं नारी मदनातुरा भवति ।। १५९ ।।
ततः कामयमानानां नृणां स्त्रीणामथापि च5 ।
कामभावेङ्गितानीह तज्ज्ञः समुपलक्षयेत् ।। १६० ।।
Abh
कामोपचार इति प्रस्तुतस्तत्र कामस्य कथमुत्पत्तिरित्याह श्रवणादिति सर्वत्र शेषः । सीतायाः श्रवणाद्रावणस्य शकुन्तलादर्शनाद् दुष्यन्तस्य ।
रूपं चित्रादि प्रतिकृतिः, ततो वत्सेशस्य दृष्टेऽप्याकारे कामोऽनुत्पद्यमानोऽङ्गलीलालक्षणाद्विचेष्टितादुपजायते, नष्टरागप्रत्यानयनं वा ततो भवति, यथा विशाखदेवस्य निबद्धेऽभिसारिकाबन्धितके (वञ्चितके) वत्सेशस्य पद्मावतीभट्टशबरीवेषाद्याचरणरूपाल्लीलाचेष्टितात् कामावृत्तिराख्याता । एवं मधुरेऽप्यालापे मन्तव्यम् । माधुर्यमर्थद्वारेण स्वरूपतः । चकारेणान्यदपि निमित्तं दर्शयति । यथा तापसवत्स राजचरिते पद्मावतीं प्रति कामोत्पत्तिर्वत्सेश्वरस्य निमित्तमत्यन्तानुवृत्तिर्नाम । तथा चाह–
मयि मनः प्रणिधाय धृता जटा
न गणितः स्वजनो न नवं वयः ।
अनुगमैरिति मामनुरागिणी
व्यवसितादपनेतुमिवेच्छति ।।
इति । (४-८)
Notes
1ललिता 2चलपक्ष्मा च 3तथा च मुकुलेक्षणा ।
स्रस्तोत्तरपुटा चैव काम्या दृष्टिर्भवेदिह ।। १६१ ।।
4[5वलितान्ता सलालित्यसंमितैर्व्यञ्जितैस्तथा ।
दृष्टिः सा ललिता नाम स्त्रीणामर्धावलोकने6 ।।] १६२ ।।
ईषत्संरक्तगण्डस्तु सस्वेदलवचित्रितः7 ।
प्रस्पन्दमानरोमाञ्चो मुखरागो भवेदिह8 ।। १६३ ।।
काम्येनाङ्गविकारेण9 सकटाक्षनिरीक्षितैः10 ।
तथाभरणसंस्पर्शैः11 कर्णकण्डूयनैरपि12 ।। १६४ ।।
अङ्गुष्ठाग्रविलिखनैः 13स्तननाभिप्रदर्शनैः14 ।
नखनिस्तोदना15च्चैव16 केश17संयमनादपि ।। १६५ ।।
वेश्यामेवंविधैर्भावै18र्लक्षयेन्मदनातुराम् ।
कुलजायास्तथा चैव 19प्रवक्ष्यामीङ्गितानि तु ।। १६६ ।।
प्रहसन्ती20व नेत्राभ्यां प्रततं च21 निरीक्षते ।
स्मयते 22सा निगूढं च 23वाचं चाधोमुखी वदेत् ।। १६७ ।।
Notes
स्मितोत्तरा मन्दवाक्या स्वेदाकारनिगूहनी1 ।
प्रस्पन्दिताधरा चैव चकिता 2च कुलाङ्गना ।। १६८ ।।
3एवंविधैः कामलिङ्गैरप्राप्तसुरतोत्सवा ।
4दशस्थानगतं कामं नानाभावैः5 प्रदर्शयेत्6 ।। १६९ ।।
प्रथमे त्वभिलाषः 7स्याद् द्वितीये चिन्तनं भवेत् ।
अनुस्मृतिस्तृतीये तु चतुर्थे गुणकीर्तनम् ।। १७० ।।
उद्वेगः पञ्चमे प्रोक्तो विलापः षष्ठ उच्यते ।
उन्मादः सप्तमे ज्ञेयो भवेद्व्याधि8स्तथाष्टमे ।। १७१ ।।
नवमे जडता चैव9 दशमे मरणं भवेत् ।
Abh
कामभावः कामाख्यश्चित्तवृत्तिः, तत्कृतानीङ्गितानि शरीरविकारा इत्यर्थः, अप्राप्तसुरतोत्सवेति प्राप्तसंभोगत्वे तु नैते विकारः प्रादुर्भवन्ति । यदा तु काम उदितस्तदादेः प्राप्तसंभोगता कामावस्थानामुदय एव तथा च प्राप्तसंभोगतायामपि विप्रलम्भे *कुसुमदृक्षादिमहिमानं प्राप्ते कामिजनसंभोगे भवन्त्येवैता अवस्थाः । तथा च भट्टतोतेनोक्तम्–
कामावस्था न शृङ्गारः क्कचिदासां तदङ्गता । इति
पूर्वप्राप्तसंभोगतायामपि शृङ्गाराङ्गतेति यावत् । अप्राप्तसंभोगित्वेऽपि हि सागरिकावत्सराजयोर्दर्शितः शृङ्गारो रसाध्याये ।
अभिलाषात्मकः कामः क्रमादीदृशीर्दशाः प्रतिपद्यत इत्याह प्रथमे त्वभिलाष इत्यादि । अत्र
Notes
स्त्रीपुंसयोरेष विधिर्लक्षणं च निबोधत ।। १७२ ।।
1व्यवसायात्मसमारब्धः संकल्पेच्छासमुद्भवः ।
समागमोपायकृतः2 सोऽभिलाषः प्रकीर्तितः ।। १७३ ।।
निर्याति विशति च मुहुः3 करोति चाकारमेव मदनस्य ।
तिष्ठति च दर्शनपथे प्रथम4स्थाने स्थिता कामे ।। १७४ ।।*
केनोपायेन संप्राप्तिः कथं वासौ5 भवेन्मम ।
दूती6निवेदितैर्भावै 7रिति चिन्तां निदर्शयेत् ।। १७५ ।।
आकेक8रार्धविप्रेक्षितानि वलयरशनापरामर्शः ।
9नीवी10नाभ्योः 11संस्पर्शनं च कार्यं द्वितीये तु ।। १७६ ।।
Abh
व्यभिचारिण एव [केचित्] कामावस्था लक्षणान्तरयोगादिह पुरस्ताः । व्यवसायादिति काम्यजनज्ञानं तत्संकल्पपूर्वकेच्छा तत उद्भव उद्रिक्तत्वमस्येति समागमोपायस्य तद्विषयस्य चिन्ता विषयस्य द्वितीयावस्थात्मनः कृतं करणं यतो वक्ष्यति हि केनोपायेन संप्राप्यत इति चिन्तनीयाद्यवस्थासहचरितं कार्यं, वाग्व्यापाराद्युचितः शब्दश्चान्यसाहचर्यादित्याह निर्याति विशति चेत्यादि । मदनस्याकार अपाक्रियते येन दृष्ट्यादिविशेषेण दर्शनपथ इति तं यत्र पश्येत तेन वा दृश्येतेत्यर्थः । दूतीनिवेदितैर्भावैः मनोरथैरित्युपलक्षणं स्वकल्पितैरपीत्यर्थः आकेकरमिति विचलमविचलं विप्रेक्षितम् ।
Notes
मुहुर्मुहुर्निःश्वसितैर्मनोरथविचिन्तनैः ।
1प्रद्वेषाच्चान्यकार्याणामनुस्मृतिरुदाहृता2 ।। १७७ ।।
नैवासने न शयने धृतिमुपलभते स्वकर्मणि विहस्ता ।
3तच्चिन्तोपगतत्वात् तृतीयमेवं प्रयुञ्जीत ।। १७८ ।।
अङ्गप्रत्यङ्गलीलाभिर्वाक्चेष्टा4हसितेक्षितैः5 ।
नास्त्यन्यः सदृशस्तेनेत्येतत् स्याद्6 गुणकीर्तनम् ।। १७९ ।।
गुणकीर्तनोल्लुकसनै7रश्रुस्वेदापमार्जनैश्चापि8 ।
9दूत्यविरहविस्रम्भैरभिनययोग9aश्चतुर्थे तु ।। १८० ।।
आसने शयने चापि न तुष्यति न तिष्ठति10 ।
नित्यमेवोत्सुका च स्यादुद्वेगस्थानमाश्रिता11 ।। १८१ ।।
चिन्तानिःश्वास12खेदेद्दा 13हृद्दाहाभिनयेन च ।
14aकुर्या14त्तदेव15मत्यन्तमुद्वेगाभिनयेन च16 ।। १८२ ।।
इह स्थित इहासीन इह चोपगतो मया ।
Abh
विहस्तेति अशक्ता । दूत्या अविरह इति समासः । उद्वेगाख्यं स्थानमवस्था । उद्वेगाभिनयो निर्वेदे दर्शितः । रुदितनिः श्वसितादिः पूर्वावस्थाया उत्तरावस्थान्तरीभवतीति दर्शयति उद्विग्ना
Notes
इति तैस्तैर्विलपितैर्विलापं संप्रयोजयेत्1 ।। १८३ ।।
2उद्विग्नात्यर्थमौत्सुक्यादधृत्या च विलापिनी3 ।
ततस्ततश्च भ्रमति विलापस्थानमाश्रिता ।। १८४ ।।
4तत्संश्रितां कथां युङ्क्ते सर्वावस्थागतापि हि ।
5पुंसः 6प्रद्वेष्टि चाप्यन्यानुन्मादः संप्रकीर्तितः7 ।। १८५ ।।
तिष्ठत्यनिमिष8दृष्टिर्दीर्घ निःश्वसिति गच्छति ध्यानम् ।
रोदिति 9विहारकाले 10नाट्यमिदं स्यात्तथोन्मादे ।। १८६ ।।*
सामदानार्थसंभोगैः11काम्यैः 12संप्रेषणैरपि ।
13aसर्वै13र्निराकृतैः पश्चाद्14 व्याधिः समुपजायते ।। १८७ ।।*
Abh
सती विलापिनी भवतीति । सर्वावस्थागतापीति गुरुजनसन्निधावपीति, अनेनोन्मादत्वं स्फुटयति । विहारकाल इति क्रीडोचितेषु कालेषु रोदितीत्यर्थः । नाट्यमिति न तु पटशकलवक्रशरावाद्य*त्रोन्मादोक्तमिति भावः । इयत्युन्मादपर्यन्ते प्राप्ते चित्तवृत्तिभवे कामे शरीरमप्यन्यथाभवतीत्याह सवैर्निराकृतैः पश्चाद्व्याधिरिति । निराकृतैः
Notes
मुह्यति हृदयं 1क्वापि प्रयाति शिरसश्च वेदना तीव्रा ।
न धृतिं चाप्युपलभते ह्यष्टममेवं प्रयुञ्जीत2 ।। १८८ ।।
3पृष्टा न किंचित् प्रब्रूते न श्रृणोति न पश्यति ।
4हाकष्टवाक्या तूष्णीका जडतायां गतस्मृतिः ।। १८९ ।।
अकाण्डे दत्तहुंकारा तथा प्रशिथिलाङ्गिका ।
श्वासग्रस्तानना चैव जडताभिनये भवेत् ।। १९० ।।
5सर्वैः कृतैः प्रतीकारैर्यदि नास्ति समागमः ।
कामाग्निना प्रदीप्ताया 6जायते मरणं ततः ।। १९१ ।।
एवं स्थानानि कार्याणि 7aकामतन्त्रं समीक्ष्य तु7 ।
8अप्राप्तौ यानि काम्यस्य9 वर्जयित्वा तु नैधनम् । १९२ ।।*
10विविधैः पुरुषोऽ11प्येवं विप्रलम्भसमुद्भवैः12।
भावैरेतानि कामस्य नानारूपाणि योजयेत्13।। १९३ ।।
Abh
विफलीभूतैः । मुह्यतीत्यत्र हेतुः, यतो हृदयं नावतिष्ठति । हा कष्टमिति एतद्व्यतिरेकेण तूष्णीका एतदेव भाष्यत इति यावत् । प्रतीकारैरिति समागमोपायैरित्यर्थः । नैधनं मरणम् । नानारूपाणीति अवस्था इत्यर्थः ।
Notes
1एवं कामयमानानां स्त्रीणां नॄणामथापि वा ।
सामान्यगुणयोगेन युञ्जीताभिनयं बुधः ।। १९४ ।।
चिन्तानिःश्वासखेदेन 2हृद्दाहाभिनयेन च ।
तथानुगमनाच्चापि तथैवाध्व3निरीक्षणात् ।। १९५ ।।
आकाशवीक्षणाच्चापि तथा दीनप्रभाषणात् ।
स्पर्शनान्मोटनाच्चापि तथा 4सापाश्रयाश्रयात् ।। १९६ ।।*
4aएभिर्नानाश्रयोत्पन्नैर्विप्रलम्भसमुद्भवैः ।
कामस्थानानि सर्वाणि भूयिष्ठं संप्रयोजयेत् ।। १९७ ।।
5स्रजो भूषणगन्धांश्च गृहाण्युपवनानि च ।
6कामाग्निना दह्यमानः शीतलानि निषेवते ।। १९८ ।।
7प्रदह्यमानः कामार्तो 8बहुस्थानसमर्दितः ।
प्रेषये9त्कामतो दूतीमात्मावस्थाप्रदर्शिनीम्10 ।। १९९ ।।
सन्देशं चैव दूत्यास्तु प्रदद्यान्मदनाश्रयम् ।
Abh
पुरुषस्य सुलभोपायत्वान्मध्य एव समागमः शक्यक्रियः, न तु योषितामित्याशयेन कामावस्थाः स्त्रीषूपदिष्टाः, पुरुषेष्वतिदिष्टाः ।
स्रजो भूषणगन्धांश्चेत्यादिना यदुक्तं तद्यथायोगमवस्थातुं योज्यम् । प्रच्छन्नकामितं
Notes
1तस्येयं समवस्थेति कथयेद्विनयेन सा ।। २०० ।।
2अथावेदित3भावार्थो रत्युपायं विचिन्तयेत् ।
अयं विधिर्विधानज्ञैः कार्यः प्रच्छन्नकामिते4 ।। २०१ ।।
5विधिं राजोपचारस्य पुनर्वक्ष्यामि तत्त्वतः ।
अभ्यन्तर6गतं सम्यक् कामतन्त्रसमुत्थितम् ।। २०२ ।।
सुखदुःखकृतान् भावान् नानाशील7समुत्थितान् ।
यान्यान् प्रकुरुते राजा तांस्तांल्लोकोऽनुवर्तते ।। २०३ ।।
न दुर्लभाः 8पार्थिवानां स्त्र्यर्थमाज्ञाकृता गुणाः ।
दाक्षिण्यात्तु समुद्भूतः कामो रतिकरो भवेत् ।। २०४ ।।
बहुमानेन 9देवीनां वल्लभानां भयेन च ।
Abh
नायिकान्तरेभ्यः सन्ध्रियमाणमित्यर्थः ।
ननु राज्ञां किमशक्यं येन दूतीप्रेषणादिप्रयासमनुभवन्तीत्याह न दुर्लभाः पार्थिवानामित्यादि । आज्ञाकृता गुणा उपायाः उप प्रलम्भादुदाहरणात् अय इत्यर्थः । राज्ञां ये उपाया इति सम्बन्धषष्ठी तेन बलार्थेऽभिमतनिषेधः। दाक्षिण्यादित्युभयविषयम्, पूर्वनायिकासु च दाक्षिण्यं, अभिलषणीयप्रमदाकृतं च दाक्षिण्यम्, तस्या राजविषयं प्रेमेत्यर्थः । कुतः प्रच्छन्नत्वमित्याह बहुमानेनेति कर्मषष्ठी । देव्यो हि प्राप्ताभिषेका अवश्यं राज्ञा बहुत्वेनोत्कृष्ट–
Notes
प्रच्छन्नकामितं 1राज्ञा कार्यं परिजनं प्रति ।। २०५ ।।
यद्यप्यस्ति नरेन्द्राणां2 कामतन्त्र3मनेकधा ।
प्रच्छन्नकामितं यत्तु तद्वै रतिकरं भवेत् ।। २०६ ।।
4यद्वामाभिनिवेशित्वं 5यतश्च विनिवार्यते ।
दुर्लभत्वं च यन्नार्याः 6सा कामस्य परा रतिः ।। २०७ ।।
राज्ञामन्तःपुरजने दिवासंभोग इष्यते ।
वासोपचारो यश्चैषां7 स रात्रौ परिकीर्तितः ।। २०८ ।।
Abh
त्वेन माननीयाः । अनेकधेति विवाहितावरुद्धेत्यादिनेत्यर्थः । 1वामाभिनिवेशित्वमिति “सुलभावमानी हि मदन” इति तद्विदः । तथा ह्यभिलष्यमाणं वस्तु प्राप्तं चेत् कोऽभिलाषः । तेन प्राप्तं प्राप्तमपहारितमिव, गतं गतं प्राप्तमिवेत्येवं परम्पराक्रमेण वर्धिष्णुरयं कामः परमां प्रीतिं तनोति । न ह्यत्रकण्डूयायामिव निवृत्तिः साध्या, अपि तु भोगात्मकं सुखमिति रतिहेतुत्वाद् रतिः काम इत्यर्थः ।
अथ स्पष्टकामितमाह राज्ञामन्तःपुरजने (दिवा) संभोग इति । संभोगः परस्परावलोकनप्रणयकलहसङ्गीतकादि । यथोक्तम्– “तद्वक्त्रेन्दुविलोकनेन दिवसो नीतः”* इति । अन्तःपुरजनोऽत्र ऊढा, पुनर्भूः, अवरुद्धगणिका, कन्यकाप्रेष्याविषयं तु प्रच्छन्नकामितमुक्तम् ।
प्रभूतान्तरपूर्वस्य वासकवृत्तान्तमाह–
परिट्यां फलार्थे वा नवे प्रसव एव वा ।
Notes
1परिपाटयां फलार्थे वा 2नवे प्रसव एव वा ।
दुःखे चैव प्रमोदे च षडेते वासकाः स्मृताः3 ।। २०९ ।।
उचिते वासके स्त्रीणामृतुकालेऽपि वा नृपैः4 ।
5द्वेष्याणामथवेष्टानां6 कार्यं7 चैवोपसर्पणम् ।। २१० ।।
Abh
दुःखे चैव प्रमोदे च षडेते वासकाः स्मृताः । (ना.शा. २२.२०९) इति
परिपाटिर्यथाकल्पितानुपूर्वी अस्या एकेन दिनेन1 वारः, अस्या द्वाभ्यामित्यादि । तदपवादमाह फलार्थ इति ऋताविति यावत् । नव इति नवत्वे प्रसवे वृत्ते चिरविरहखिन्नां सुखयितुं9 दुःखे तदीयबन्धुव्यापत्त्या दुःखिता आश्वासनीयेति । प्रमोद इति तदीयपुत्रोत्सवादौ ‘उत्सवो हि माननीय’ इत्युक्तम् । वासयति तत्र स्थाने रात्रिमिति वासः3 । रात्र्युचितः4 कामोपचारः फलार्थ इत्यस्य हेतोः सर्वापदादकत्वं दर्शयितुं धर्मवृत्तिना राज्ञा परिपाट्या5 द्वेष्या दुर्भगा अपि सेव्या इति निरूपयितुमाह–
उचिते वासके स्त्रीणामृतुकालेऽपि वा नृपैः ।
6द्वेष्याणामथवेष्टानां कार्यं (चैवोपसर्पणम्) ।। इति
आर्तवकालो हि भूयानपि *फलतः परमिति भवति (? (परिमितीभवति) । यथोक्तम् –
ऋतुः षोडश तत्राद्याश्चतस्रो 7दशमात्मराः
त्रयोदशी च निन्द्याः 8स्युरयुग्माः कन्यकोद्भवाः
षष्ठ्यष्टमी च दशमी द्वाभ्यां वर्णैश्च साधिका
युग्मा पुत्राय रात्रिः स्यात् ।।इति।।
Notes
तत्र वासकसज्जा च1 विरहोत्कण्ठितापि वा ।
स्वाधीनभर्तृका चापि2 कलहान्तरितापि वा3 ।। २११ ।।
खण्डिता विप्रलब्धा वा चथा प्रोषितभर्तृका ।
तथाभिसारिका चैव ज्ञेयास्त्वष्टौ तु नायिकाः4 ।। २१२ ।।
उचिते वासके या तु रतिसंभोगलालसा ।
5मण्डनं कुरुते हृष्टा सा वै वासकसज्जिका ।। २१३ ।।
अनेककार्यव्यासङ्गाद्यस्या नागच्छति प्रियः ।
6तदनागतदुःखार्ता विरहोत्कण्ठिता तु सा7 ।। २१४ ।।
8सुरतातिरसैर्बद्धो यस्याः पार्श्वे तु नायकः9 ।
Abh
तत्रापि नक्षत्रविशेषपरिवर्जनम् । पुत्रश्च राज्ञां मुख्यफलम्, यथाह ‘प्रजायै गृहमेधिनाम्’ (रघु–१.७) इति । अत्र तु वृद्धपशुव्यो (पशवो?) वदन्ति–
1मासपसूअं (छम्मा) मासगब्भिणी एक्कदिअहजरिअं च रंगुत्तिण्णं च पिअं पुत्तअ कामंतओ हो हि ।। G.S. ।।
वासकभावाभावभावितान्नायिकाभेदान्दर्शयति अत्र (तत्र?) वासकसज्जेति । एताः क्रमेण लक्षयति उचिते वासक इत्यादिना । उचितः पूर्वोक्तेन नयेनायातः । लालसा साभिलाषा (अभिलाषा ? )स्वाभिलाषा
Notes
1सान्द्रामोदगुणप्राप्ता भवेत् स्वाधीनभर्तृका ।। २१५ ।।
ईर्ष्याकलहनिष्क्रान्तो यस्या नागच्छति प्रियः ।
2सामर्षवशसंप्राप्ता3 कलहान्तरिता भवेत् ।। २१६ ।।
4व्यासङ्गादुचिते यस्या वासके नागतः प्रियः ।
5तदनागमदुःखार्ता खण्डिता सा प्रकीर्तिता ।। २१७ ।।
यस्या 6दूतीं प्रियः प्रेष्य दत्त्वा संकेतमेव वा ।
नागतः कारणेनेह7 विप्रलब्धा तु सा भवेत्8 ।। २१८ ।।
9नानाकार्याणि सन्धाय यस्या वै प्रोषितः 10प्रियः ।
सा(प्र? )रूढालककेशान्ता भवेत् प्रोषितभर्तृका ।। २१९ ।।*
11हित्वा लज्जां 12तु या श्लिष्टा मदेन मदनेन च13 ।
अभिसारयते कान्तं सा भवेदभिसारिका ।। २२० ।।
Abh
। आमोदगुणो हर्षः सौभाग्याभिमानश्च । व्यासङ्गादित्यन्यनारीविषयादित्यर्थः। (प्र)रूढाः प्रलम्बीभूता अलकाः, केशान्तश्च कबरीभारः । प्ररूढ एकवेणीभूते यस्याः । अन्ये त्वकृतकर्मतया केशान्ते ललाटे रोम्णामुद्भेदमुत्प्ररूढं वर्णयन्ति। मदो मद्यकृतः, चकाराद् द्वयं वदन्मदनस्यैव प्राधान्यमाह । अभिसरः सहायः तस्य व्यापारेण प्रियतममतिक्रामति, “तत्करोति तदाचष्टे तेनातिक्रामति धातुरूपं” चेति स्पष्ट (सृ टेः ?) इत्यस्य वृद्धिः।
Notes
आस्ववस्थासु1 विज्ञेया नायिका नाटकाश्रया ।
एतासां 2चैव वक्ष्यामि 3कामतन्त्रमनेकधा ।। २२१ ।।
चिन्तानिःश्वासखेदेन4 5हृद्दाहाभिनयेन च ।
6सखीभिः सह संलापै7रात्मावस्थावलोकनैः ।। २२२ ।।
ग्लानिदैन्याश्रुपातैश्च रोषस्यागमनेन च ।
8निर्भूषणमु(मृ?)जात्वेन दुःखेन रुदितेन च ।। २२३ ।।
9खण्डिता विप्रलब्धा वा कलहान्तरितापि वा ।
तथा प्रोषितकान्ता च 10भावानेतान् प्रयोजयेत् ।। २२४ ।।*
विचित्रोज्ज्वलवेषा तु11 प्रमोदोद्योतितानना ।
उदीर्णशोभा च तथा12 कार्या स्वाधीनभर्तृका ।। २२५ ।।
Abh
कुप्यन्ती प्रशान्तेत्यादयस्तु नायिकाभेदे नेहोक्ताः, तेषां वासकाभावनिवृत्तत्वाभावात् । नाट्काश्रया इति नाट्यविषया इत्यर्थः ।
तत्र विप्रलम्भजीवितं शृङ्गारेण वासकाभावभावितनायिकाभेदाश्रयं प्रथमं दर्शयति चिन्तानिः– श्वासखेदेनेत्यादिना । सामान्यभूते सकलहृदयसंवादिनि मदनोपचारे चायमभिनय इत्यपि सामान्याभिनयः । भावानेतानिति पठितानुभावव्याभिचारिसमुचिता ये भावा व्यभिचारिस्थायिरूपा(णामि)हापठितमप्यनुभावजातं प्रदर्शयति यावत् । वासकसज्जा अभिसारिका च स्वावसरे स्वाधीनभर्तृकयैव तुल्ये इति पृथङ्नोक्ते ।
Notes
1वेश्यायाः कुलजायाश्च प्रेष्यायाश्च प्रयोक्तृभिः ।
एभिर्भावविशेषैस्तु कर्तव्यमभिसारणम् ।। २२६ ।।
समदा मृदुचेष्टा च तथा परिजनावृता ।
नानाभरणचित्राङ्गी गच्छेद्वेश्याङ्गना शनैः2 ।। २२७ ।।
संलीना स्वेषु गात्रेषु त्रस्ता 3विनमितानना ।
अवकु(?गु) ण्ठनसंवीता गच्छेत्तु4 कुलजाङ्गना ।। २२८ ।।
मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना ।
आविद्धगतिसंचारा गच्छेत्प्रेष्या5 समुद्धतम् ।। २२९ ।।
6गत्वा सा चेद्यदा तत्र7 पश्येत्सुप्तं प्रियं तदा8 ।
9अनेन तूपचारेण 10तस्य कुर्यात्प्रबोधनम् ।। २३० ।।
अलङ्कारेण कुलजा वेश्या गन्धैस्तु शीतलैः ।
प्रेष्या 11तु वस्त्रव्यजनैः 12कुर्वीत प्रतिबोधनम् ।। २३१ ।।*
Abh
अथाभिसारणस्वरूपमाह वेश्याया इत्यादि । भावविशेषैरिति वस्तुविशेषैरित्यर्थः । संलापो दूत्या संख्या सहोक्तिप्रत्युक्तिः । (अलङ्कारेणेति) अलङ्कारशब्दो नूपुरादि(वि) शिष्टः [तत्] ।
Notes
1कुलाङ्गनानामेवायं 2नोक्तः कामाश्रयो विधिः ।
3aसर्वावस्थानु3भाव्यं हि4 यस्माद्भवति नाटकम् ।। २३२ ।।*
5नवकामप्रवृत्तायाः क्रुद्धाया वा समागमे ।
सापदेशैरुपायैस्तु वासकं संप्रयोजयेत्7 ।। २३३ ।।
नानालङ्कारवस्त्राणि गन्धमाल्यानि चैव हि8 ।
9प्रियायोजितभुक्तानि निषेवेत मुदान्वितः10 ।। २३४ ।।
Abh
ननु राज्ञां विशेयादिसंभोगो निह्नवकारापायसङ्कुलत्वात् किमिहानेन दर्शितेनेत्याशङ्क्याह सर्वावस्थानुभाव्यं हि कार्यं नाटकमिति नाट्य इति यावत्। सर्वावस्था अनुभाव्या प्रत्यक्षायमाणत्वं नेया, यत्र प्रकरणादौ वेश्यासंभोगोऽप्यस्तीत्युक्तं दशरूपके (अध्या–१८) यदि तर्हि सर्वतः प्रकारो नाटके प्रदर्श्यस्तदा वासके यदा प्रकटप्रकार उक्तः ।
एवं व्याजप्रकारोऽपि वाच्य इत्याशयेनाह नवकामप्रवृत्ताया इति । नवे पुरुषसम्भोगे या प्रवृत्ता प्रथमसमागमनीया वेश्या पुनर्भूर्गान्धर्वविवाहविवाह्या कन्या वा तस्याः समागमे चिकीर्षिते, सव्याजैः उपायैः वासको व्याजश्च यथा तथैव प्रकटं नाङ्गीकरोति, नायिकान्तरेभ्यश्च झटिति भीरुर्नायको भवति । अवरुद्धापि खण्डिता कलहान्तरिता वा वासकमनङ्गीकुर्वती व्याजतोऽर्ङ्गीकार्यते । तत्र नायिकाहृदयग्रहणोचितविदग्धतानिमित्तं नायकस्योपचारमाह नानालङ्कारेत्यादि ।
Notes
न तथा भवति मनुष्यो1
मदनवशः कामिनीमलभमानः ।
द्विगुणोप2जातहर्षो भवति
यथा सङ्गतः प्रियया ।। २३५ ।।
विलासभावेङ्गित3वाक्य4 लीला–
5माधुर्यविस्तारगुणोपपन्नः ।
परस्परप्रेमनिरीक्षितेन
समागमः कामकृतस्तु6 कार्यः ।। २३६ ।।
7ततः प्रवृत्ते मदने उपचारसमुद्भवे ।
8वासोपचारः कर्तव्यो नायकागमनं प्रति ।। २३७ ।।
Abh
ननु प्राप्ता चेत् प्रमदा तर्हि निवृत्तकामः, तत् कोऽयमुपचारप्रतिभर इत्याशङ्क्याह न तथा भवतीति । मदनः कामभवः इति काम एव । मदि हर्षग्लपनयोरिति पठति, तेन समागमे द्विगुणीभवति कामः, ततश्चोपचारे यत्र उचित इत्याह विलासभावेति । विलासः स्त्रीणां च व्याख्यातः ‘स्थानासनगमनाना’ मिति, (२२.१५) (स्त्रियाः), ‘धीरसंचारिणी दृष्टिः (२२–३५) इति (पुरुषस्य) च । तत्प्रधानाभावाः चेष्टितानि । इङ्गितं प्रेमसूचका व्यापाराः व्याख्याताः ‘काम्येनाङ्गविकारेणे’ त्यादि, ‘चकिता भवेत्’ इत्यन्तेन (२२–१६४–१६८?)
Notes
गन्धमाल्ये1 गृहीत्वा तु चूर्णवास2स्तथैव च ।
3आदर्शो लीलया गृह्यश्छन्दतो वा पुनः पुनः ।। २३८ ।।
वासोपचारे नात्यर्थं भूषणग्रहणं भवेत् ।
रशनानूपुरप्रायं स्वनवच्च4 प्रशस्यते5 ।। २३९ ।।
नाम्बरग्रहणं रङ्गे न स्नानं 6न विलेपनम् ।
नाञ्चनं नाङ्गारागश्च7 8केशसंयमनं8a तथा ।। २४० ।।
9नाप्रावृता नैकवस्त्रा न रागमधरस्य तु10 ।
उत्तमा मध्यमा वापि 11कुर्वीत प्रमदा क्वचित् ।। २४१ ।।
अधमानां भवेदेष 12सर्व एव विधिः सदा ।
Abh
वाक्यलीलेति अङ्गसाध्यादिषूक्ता । माधुर्यं “सर्वावस्थाविशेषे” ष्विति (२२–२९) नृणां च, “अभ्यासात् करणानां” (२२–३६) इति । एषां विस्तारगुणेन कविवर्णनाकृतेनोपपन्न एतस्मादुपचारत्सम्यगुद्भवो यस्य । चूर्णः पटवासः । वासो वस्त्रम् । नात्यर्थमिति खेदावहत्वात् । रात्रावदृश्यत्वात्तु दरिद्राणां दीपशून्यं वासगृहं दृष्टवतां हेतुत्वेन स्वनवत्त्वं, चेति हेतौ यतः प्रशस्तेन सुरतलीलोपयोगिना शब्देन
Notes
1कारणान्तर2मासाद्य तस्मादपि न कारयेत् ।। २४२ ।।
3aप्रेष्यादीनां च नारीणां नराणां वापि नाटके ।
भूषणग्रहणं 3कार्यं पुष्पग्रहणमेव च ।। २४३ ।।
4गृहीतमण्डना 5चापि प्रतीक्षेत प्रियागमम् ।
6लीलया मण्डितं वेषं कुर्याद्यन्न विरुध्यते ।। २४४ ।।
7विधिवद्वासकं कुर्यान्नायिका नायकागमे ।
8प्रतीक्षमाणा च ततो नालिकाशब्दमादिशेत् ।। २४५ ।।
Abh
युक्तम् । नाम्बरग्रहणं रङ्गे इत्यादिना प्रसङ्गतो निषेधमाह । वासोपचारसिद्धये तु रङ्गेऽप्येतदुपचारोपयोगि कर्तव्यमिति हि कोप संभावनयेति नाम्बरग्रहणमिति सामान्योक्तावपि प्रकारादुत्तमाया मध्यमायाश्चेति गम्यते । अधमायाश्च भवत्येतदङ्गेऽपि । एवं निषेधमधमासु पुनर्विधिमुक्त्वा प्रकृतमुपचारमेवाभिसन्धत्ते भूषणग्रहणमित्यादि । उक्तपूर्वेऽत्रोपचारे आदरं दर्शयति विधिवद्वासकं कुर्यादिति वासकोचितमुपचारमित्यर्थः ।
Notes
श्रुत्वा तु नालिकाशब्दं1 नायकागमविक्लवा ।
2विषण्णा वेपमाना च गच्छेत्तोरणमेव च ।। २४६ ।।
3तोरणं वामहस्तेन कवाटं दक्षिणेन च4 ।
5गृहीत्वा तोरणाश्लिष्टा संप्रतीक्षेत नायकम् ।। २४७ ।।
6शङ्कां चिन्तां भयं चैव प्रकुर्यात्तोरणाश्रिता ।
6aअदृष्ट्वा रमणं नारी विषण्णा च7 क्षणं भवेत् ।। २४८ ।।*
दीर्घं चैव 8विनिःश्वस्य 9नयनाम्बु निपातयेत् ।
10सन्नं च हृदयं कृत्वा 11विसृजेदङ्गमासने ।। २४९ ।।
व्याक्षेपाद्विमृशेच्चापि नायकागमनं प्रति ।
तैस्तैर्विचारणोपायैः12 शुभाशुभसमुत्थितैः13 ।। २५० ।।
गुरुकार्येण14 मित्रैर्वा मन्त्रिणा15 राज्यचिन्तया ।
16अनुबद्धः प्रियः किं नु17 वृतो18 वल्लभयापि वा ।। २५१ ।।
Abh
ननु समाप्त उपचारे यदि प्रियो नागतः किं कुर्यादित्याह प्रतीक्षमाणेति । नालिकाशब्दमादिशेदिति इयांश्च कालो गतः किमित्यादि न प्राप्तः स्यादिति, ततोऽप्यनागतेऽयं विधिरित्याह श्रुत्वा तु नालिकशब्दमिति
Notes
1उत्पातान्निर्दिशेच्चापि शुभाशुभसमुत्थितान् ।
निमित्तैरात्मसंस्थैस्तु स्फुरितैः स्पन्दितैस्तथा ।। २५२ ।।
1aशोभनेषु तु2 कार्येषु निमित्तं वामतः स्त्रियाः ।
3अनिष्टेष्वथ सर्वेषु निमित्तं दक्षिणं भवेत् ।। २५३ ।।
सव्यं नेत्रं ललाटं 4च भ्रूनासोष्ठं तथैव च ।
ऊरुबाहुस्तनं चैव स्फुरेद्यदि समागमः ।। २५४ ।।
5एतेषामन्यथाभावे 6दुर्निमित्तं विनिर्दिशेत् ।
दर्शने दुर्निमित्तस्य मोहं गच्छेत्क्षणं ततः ।। २५५ ।।
7अनागमे नायकस्य 8कार्यो गण्डाश्रयः करः ।
9भूषणे चाप्यवज्ञानं रोदनं च समाचरेत् ।। २५६ ।।
10अथ चेच्छोभनं तत्स्यान्निमित्तं 11नायकागमे ।
सूच्यो नायिकयासन्नो गन्धाघ्राणेन नायकः ।। २५७ ।।
Abh
तैस्तैर्विचारणोपायैरिति युदुक्तं तत्रोदाहरणम् । अनागतोपायानाह गुरुकार्येणेत्यादि । अनुभाववर्ग– स्त्वसूयाखेदार्थचिन्तादिव्यभिचारिसंभवो यथायोगं योज्यः । उत्पातः सहसाऽशुभसूचको महाभूतपरिस्पन्दः
Notes
दृष्ट्वा चोत्थाय संहृष्टा1 प्रत्युद्गच्छेद्यथाविधि2 ।
3ततः कान्तं निरीक्षेत प्रहर्षोत्फुल्ललोचना ।। २५८ ।।
सखीस्कन्धार्पितकरा कृत्वा स्थानकमायतम् ।
दर्शयेत ततः कान्तं सचिंह्न सरसव्रणम् ।। २५९ ।।
यदि स्यादपराद्धस्तु 4कृतस्तैस्तैरुपक्रमैः ।
उपालम्भकृतैर्वाक्यै5रुपालभ्यस्तु नायकः ।। २६० ।।
मानापमानसम्मोहैरवहित्थभयक्रमैः6 ।
वचनस्य समुत्पत्तिः स्त्रीणामीर्ष्याकृता7 भवेत् ।। २६१ ।।
विस्रंभस्नेहरागेषु 8सन्देहे प्रणये तथा ।
परितोषे च 9घर्षे च दाक्षिण्याक्षेपविभ्रमे10 ।। २६२ ।।
Abh
स च परस्थः । स्फुरितं चलनं स्पन्दितमेतदिति त्वेते स्वदेहस्थे इति भेदेनोक्ते । नेत्रमित्यादि सव्यं वाममिति मन्तव्यम् तथा बाहू अन्यथाभाव इति दक्षिणस्फुरणे । प्रत्युद्गच्छेदिति नायिकेति प्रथमया योज्यम् ।
एवमियता वासकसज्जया वागङ्गसत्त्वव्यामिश्रः सामान्याभिनयः प्रियसंप्राप्त्यवधिदर्शितः । अथ खण्डितादीनां संदर्श्यते यदि स्यादपराद्धस्त्विति तैस्तैरिति मानावहित्थस्त्रभङ्गाभिष्यन्दादिभिः । अन्यथाभाषणे कोपादुचिते तदपवादमाह विस्रम्भेत्यादि कस्मिंश्चित् कार्ये निरूप्ये विस्रम्भसात्मिका
Notes
धर्मार्थकामयोगेषु1 प्रच्छन्नवचनेषु च1a ।
हास्ये 2कुतूहले चैव संभ्रमे व्यसने तथा ।। २६३ ।।
3स्त्रीपुंसयोः क्रोधकृते पृथङ्मिश्रे तथापि वा ।
अनाभाष्योऽपि संभाष्यः प्रिय एभिस्तु कारणैः ।। २६४ ।।*
यत्र स्नेहो 4भवेत्तत्र हीर्ष्या मदनसम्भवा ।
चतस्रो योनयस्तस्याः5 कीर्त्यमाना निबोधत ।। २६५ ।।
वैमनस्यं व्यलीकं च विप्रियं मन्युरेव च ।
6aएतेषां 6संप्रवक्ष्यामि लक्षणानि यथाक्रमम् ।। २६६ ।।
Abh
कार्या, शरीरापाटवादि पश्यतो वार्ताप्रश्नादौ स्नेहः, तद्वशाद्योऽनुरागो लक्षितः, कृतापराधः सत्यतो न वेति सन्देहः, प्रणयः प्रार्थना, अपत्याद्यभ्युदयः परितोषः कलास्थित्यादि (कलाशिल्पादि ?) निकृतिपक्षेण स्पर्धा संघर्षः, पक्षस्य सखीजनादेर्यदा कार्यः प्रियेण सम्पाद्यः पश्यति तदा सखीकार्यविवादविषयाद्दाक्षिण्यम्, इन्द्रजालादिकृते विस्मयः धर्मार्थकामोपयोगिनि व्रतगृहकृत्यकौमुदी– हर्षोत्सवादाववश्यं कर्तव्ये चाप्रियं प्रति स्मरणाकर्तव्या, तेन वा स्मरणम्, उपालम्भद्वारेण किमयं वदेदिति परीक्षणम्, यथा नायकोऽत्यादरात् किंचित्पृच्छति तत्कुतूहलम्, सर्वो यदा हसति तदा हास्यम्, अग्न्याद्युत्पातः संभ्रमः, वसु(बन्धुः ?) वियोगादि व्यसनम्, एव एतेएवनाभाषणे सर्वथैव निस्नेहता स्यात् । क्रोधकृत इति युगपदित्यर्थः ।
अपराद्ध इत्युक्तं तत्रापराधं दर्शयितुमुपक्रमं करोति यत्र स्ने इति । योनयो हेतवश्चत्वारः– वैमनस्यं, व्यलीकं, विप्रियं, मन्युरिति, तान् क्रमेण लक्ष्यति निद्राखेदालसगतिमित्यादिना (सुरते) गतया निद्रया ।
Notes
निद्राखेदालसगतिं1 सचिह्नं सरसव्रणम् ।
एवंविधं प्रियं दृष्ट्वा वैमनस्यं 2भवेत् स्त्रियाः ।। २६७ ।।
3निद्राभ्यसूयितावेक्षणेन रोषप्रकम्पमानाङ्ग्या ।
साध्विति सुष्ठि्वति 4वचनैः शोभत इत्येवमभिनेयम् ।। २६८ ।।*
4aबहुधा वार्यमाणोऽपि5 यस्तस्मिन्नेव दृश्यते6 ।
7संघर्षमत्सरात्तत्र व्यलीकं जायते स्त्रियाः ।। २६९ ।।
कृत्वोरसि वामकरं दक्षिणहस्तं 8तथा विधुन्वन्त्या ।
चरणविनिष्टम्भेन9 च कार्योऽभिनयो व्यलीके तु10 ।। २७० ।।*
जीवन्त्यां त्वयि जीवामि दासोऽहं त्वं च मे प्रिया ।
उक्त्वैवं योऽन्यथा कुर्याद्विप्रियं तत्र जायते11 ।। २७१ ।।
दूतीलेखप्रतिवचनभेदनैः क्रोधहसितरुदितैश्च ।
विप्रियकरणेऽभिनयः सशिरः कम्पैश्च कर्तव्यः12 ।। २७२ ।।*
Abh
(असूयितेति) यदसूयितेनावेक्षणं तेन । (बहुधेति) यतो नायिकातो वार्यते तस्यामेव दृश्यत इति सम्बन्धः । (संघर्षेति) सम्यक् कृतो घर्षः संघर्षः । (उक्त्वैवमित्यादि)
Notes
प्रतिपक्षसकाशात्तु यः सौभाग्यविकत्थनः1 ।
उपसर्पेत् सचिह्नस्तु मन्युस्तत्रोपजायते2 ।। २७३ ।।
3aवलयपरि3वर्तनैरथ सुशिथिलमुत्क्षेपणेन रशनायाः ।
मन्युस्त्वभिनेतव्यः सशङ्कितं बाष्पपूर्णाक्ष्या4 ।। २७४ ।।
दृष्ट्वा स्थितं प्रियतमं
5सशङ्कितं सापराधमतिलज्जम् ।
ईर्ष्यावचनसमुत्थैः
खेदयितव्यो 6ह्युपालम्भैः ।। २७५ ।।
न च निष्ठुरमभिभाष्यो7
न चाप्यतिक्रोधनस्तु परिहासः8 ।
बाष्पोन्मिश्रैर्वचनै9–
रात्मोपन्याससंयुक्तैः ।। २७६ ।।
Abh
प्रतिज्ञातस्यापरिपालनं विप्रियम् । दूतलेखादिमुखेनं यानि प्रसादनार्थं प्रतिवचनानि तेषां भेदः दूषणमनङ्गीकरणम् । (वलयेत्यादि) मन्युना तत्क्षण एव तनुत्वं गात्रे भवतीति वलयानां परिवर्तनं, वाससो रशनायाश्चोत्क्षेप इति ।
केचित्सहृदयास्त्वाहुः –मन्युना सखीजनमध्य एवास्याबहुमानलक्षणा भवत्यप्रतिपत्तिरिति तत्कृतानि च वलयस्य परिवर्तनं योज(लोच ?)नभ्रमणादिकं, रशनोत्क्षेपणं
Notes
मध्याङ्गुल्यष्ठाग्रविच्यवा1aत्पाणिनोरसि कृतेन1 ।
उद्वर्तितनेत्रतया 2प्रततैरभिवीक्षणैश्चापि ।। २७७ ।।
कटिहस्तविवर्तनया3 विच्छिन्नतया तथाञ्जलेः करणात्4 ।
5मूर्धभ्रमणनिहञ्चितनिपातसंश्लेषणाच्चापि6 ।। २७८ ।।
अवहित्थवीक्षणाद्वा7 अङ्गुलिभङ्गेन8 तर्जनैर्ललितैः9 ।
10एभिर्भावविशेषैरनुनयनेष्वभिनयः कार्यः ।। २७९ ।।
शोभसे साधु दृष्टोऽसि गच्छ त्वं किं11 विलम्बसे ।
मा12 मां स्प्राक्षीः प्रिया यत्र13तत्र या ते हृदि स्थिता ।। २८० ।।*
गच्छेत्युक्त्वा परावृत्य विनिवृत्तान्तरेण तु14 ।
केनचिद्वचनार्थेन प्रहर्षं योजयेत्पुनः15 ।। २८१ ।।
Abh
यन्त्रोत्क्षेपणं चेति । मध्याङ्गुल्यङ्गुष्ठाग्रविच्यवादिति तत्स्थं मूलं व्यापारं स्मारयति । (कटीति) कटीपार्श्वगतस्य हस्तस्य विवर्तमानाया अञ्जलेर्हस्तस्य पताकाभ्यां तु संश्लेषादित्यस्य विश्लेषणम्, अवहित्थेन गाम्भीर्येण यद्वीक्षणं, तेन चायतं स्थानकमाक्षिप्तम् । तत्र हि तस्य विनियोग उक्तः (१२–१६४) ।
Notes
1a N: पाणिना ह्युपालम्भेन
रभसग्रहणाच्चापि1 हस्ते वस्त्रे च मूर्धनि ।
कार्यं 2प्रसादनं नार्या ह्यपराधं3 समीक्ष्य3a तु ।। २८२ ।।
हस्ते वस्त्रेऽथ केशान्ते नार्याप्यथ गृहीतया ।
कान्तमेवोपसर्पन्त्या4 कर्तव्यं मोक्षणं शनैः ।। २८३ ।।
गृहीतयाथ केशान्ते हस्ते वस्त्रे5ऽथवा पुनः ।
6हुं मुञ्चेत्युपसर्पन्त्या वाच्यः स्पर्शालसं प्रियः ।। २८४ ।।
पादाग्रस्थितया नार्या 7किंचित्कुट्टमितोत्कटम् ।
अश्वक्रान्तेन कर्तव्यं केशानां मोक्षणं शनैः ।। २८५ ।।
8अमुच्यमाने केशान्ते 9संज्ञातस्वेदलेशया ।
हुं हुं मुञ्चापसर्पेति वाच्यः10 स्पर्शालसाङ्गया ।। २८६ ।।
गच्छेति रोषवाक्येन गत्वा10a प्रतिनिवृत्य च ।
केनचिद्वचनार्थेन 11वाच्यं यास्यसि नेति च ।। २८७ ।।
विधूननेन हस्तेन12 हुंकारं 13संप्रयोजयेत् ।
स चावधूनने 14कार्यः शपथैर्व्याज एव च ।। २८८ ।।
Abh
निरपेक्षभावता संभवतीत्याह गच्छेत्युक्त्वेति । विनिवृत्तिप्राधान्यमुत्तरं येनासौ विलम्बते । अपराधमिति, अल्पेऽपराधे मूर्धनि मध्ये हस्ततले भूषितवस्त्रे । व्याज इति व्रतोपवासोऽद्य मया प्रस्तुत इत्यादि ।
Notes
अक्ष्णोः संवरणे1 कार्यं पृष्ठतश्चोपगूहनम् ।
नार्यास्त्वपहृते वस्त्रे 2दीपच्छादनमेव च ।। २८९ ।।
तावत् 3खेदयितव्यस्तु यावत्पादगतो4 भवेत् ।
ततश्चरणयोर्याते5 कुर्याद्दूतीनिरीक्षणम् ।। २९० ।।
6उत्थाप्यालिङ्गयेच्चैव नायिका नायकं ततः ।
7रतिभोगगता8 हृष्टा शयनाभिमुखी व्रजेत्9 ।। २९१ ।।
एतद्गीतविधानेन सुकुमारेण योजयेत् ।
यदा श्रृङ्गारसंयुक्तं रतिसंभोगकारणम् ।। २९२ ।।
यदा चाकाशपुरुष10परस्थवचनाश्रयम् ।
भवेत्काव्यं11 तदा ह्येष 12कर्तव्योऽभिनयः स्त्रिया ।। २९३ ।।*
यदन्तःपुरसंबन्धं 13काव्यं भवति नाटके ।
श्रृङ्गाररससंयुक्तं 14तत्राप्येष वधिर्भवेत् ।। २९४ ।।
Abh
ननु वस्त्रापहारशयनादि रङ्गे निषिद्धमिति (किं) तेनोक्तेन, सत्यं लास्यदाने (स्थाने ?) तु तस्योपयोगः । इह तु कामोपचारप्रसङ्गादित्युक्तं, तदाह एतद्गीतविधानेनेति, न च नाट्येऽस्य सर्वात्म नानुपयोगः तथाहि यथा भाणकादौ । आकाशपुरुष इति (प्रविष्टपात्रेण) भावितः प्रधानोऽप्रविष्टः पुरुषो भवति तदा इदमिदं मया दृश्यत इति ब्रूयात् । एवं परस्थं वा यदा व्याख्यायते न च प्रत्यक्षत्वेनैतदुपयुज्यत इति दर्शयति यदन्तः– पुरसंबन्धमिति ।
Notes
न कार्यं शयनं रङ्गे नाट्यधर्मं विजानता1 ।
केनचिद्वचनार्थेन 2अङ्कच्छेदो2a विधीयते ।। २९५ ।।
3यद्वा शयीतार्थवशादेकाकी सहितोऽपि वा ।
4चुम्बनालिङ्गनं चैव तथा गुह्यं च यद्भवेत् ।। २९६ ।।
दन्तच्छेद्यं नखच्छेद्यं नीवीस्रंसनमेव च ।
5स्तनान्तरविमर्दं च रङ्गमध्ये न कारयेत् ।। २९७ ।।
भोजनं सलिलक्रीडा तथा लज्जाकरं च यत् ।
एवंविधं भवेद्यद्यत्तत्तद्रङ्गे न कारयेत्6 ।। २९७ ।।
7पितापुत्रस्नुषाश्वश्रू8दृश्यं यस्मात्तु नाटकम् ।
तस्मादेतानि सर्वाणि वर्जनीयानि यत्नतः ।। २९९ ।।
वाक्यैः सातिशयैः 9श्रव्यैर्मधुरै10र्नातिनिष्ठुरैः ।
हितोपदेशसंयुक्तस्तैस्तज्ज्ञः कुर्यात्तु11नाटकम् ।। ३०० ।।
Abh
नन्वेवं सर्वममत्र प्राप्तमिति ननूत्पलचेटादौ दृश्यते शयनमित्याशङ्क्याह यद्वा शयीतेति नात्र शयननिषेधस्तात्पर्यम्, अपि तु चुम्बनादिनिषेध इति भावः । पितापुत्रेत्यादि । ततश्च रसो भज्येत, स हि साधारणान्योन्यानुप्रवेशप्राण इति प्रत्यर्पि (प्रतिपदं ?) वदामः । एतत्सामान्याभिनयमध्ये वाचिकोऽप्यभिनयो–
Notes
[एवमन्तःपुरकृतः1a कार्यस्त्वभिनयो बुधैः] ।
समागमेऽथ नारीणां वाच्यानि मदनाश्रये ।। ३०१ ।।
प्रियेषु वचनानीह यानि तानि निबोधत ।
प्रियः 1कान्तो विनीतश्च नाथः स्वाम्यथ जीवितम् ।। ३०२ ।।*
नन्दनश्चेत्यभिप्रीते2 वचनानि भवन्ति हि ।
दुःशीलोऽथ3 दुराचारः शठो वामो विकत्थनः4 ।। ३०३ ।।*
निर्लज्जो निष्ठुरश्चैव 5प्रियः क्रोधेऽभिधीयते ।
यो विप्रियं न कुरुते 6न चायुक्तं प्रभाषते ।। ३०४ ।।
7तथार्जवसमाचारः 8स प्रियस्त्वभिधीयते ।
अन्यनारीसमुद्भूतं चिह्नं 9यस्य न दृश्यते ।। ३०५ ।।
10अधरे वा शरीरे वा स कान्त इति भाष्यते ।
11संक्रुद्धेऽपि हि यो नार्या नोत्तरं प्रतिपद्यते12 ।। ३०६ ।।
परुषं वा 13न वदति14 विनीतः सोऽभिधीयते ।
हितैषी रक्षणे 15शक्तो न मानी न च मत्सरी ।। ३०७ ।।
Abh
ऽस्तीत्याशयेनाह प्रियेषु वचनानीति ।
Notes
1a = N: अन्तःपुरगतः
सर्वकार्येष्वसंमूढः 2स नाथ इति संज्ञितः ।
सामदानार्थसंभोगैस्तथा लालनपालनैः ।। ३०८ ।।
नारीं 3निषेवते यस्तु स 4स्वामीत्यभिधीयते ।
नारीप्सितैरभिप्रायैर्निपुणं शयनक्रियाम् ।। ३०९ ।।
करोति यस्तु संभोगे 5स जीवितमिति6 स्मृतः ।
कुलीनो धृतिमान्दक्षो दक्षिणो वाग्विशारदः ।। ३१० ।।
श्लघनीयः सखीमध्ये नन्दनः 7सोऽभिधीयते ।
एते वचनविन्यासा रति8प्रीतिकराः स्मृताः ।। ३११ ।।
तथा चाप्रीतिवाक्यानि 9गदतो मे निबोधत ।
निष्ठुरश्चासहिष्णुश्च10 मानी धृष्टो विकत्थनः ।। ३१२ ।।
11अनवस्थितचित्तश्च दुःशील इति स स्मृतः12 ।
ताडनं बन्धनं चापि यो विमृश्य समाचरेत् ।। ३१३ ।।
तथा परुषवाक्यश्च दुराचारः स तन्यते13 ।
वाचैव मधुरो यस्तु कर्मणा नोपपादकः14 ।। ३१४ ।।
15योषितः किञ्चिदप्यर्थं स शठः परिभाष्यते ।
Abh
नारीप्सितैरिति न तु स्वोचितैरिति यावत् । (रतिप्रीतीति) रतौ सत्यां
Notes
वार्यते यत्र यत्रार्थे 1तत्तदेव करोति यः ।। ३१५ ।।
2विपरीतनिवेशी च स वाम इति संज्ञितः ।
3सरसव्रणचिह्नो यः स्त्रीसौभाग्यविकत्थनः ।। ३१६ ।।
4अतिमानी तथा स्तब्धो 5विकत्थन इति स्मृतः ।
वार्यमाणो दृढंतरं यो नारीमुपसर्पति ।। ३१७ ।।
सचिह्नः सापराधश्च स निर्लज्ज इति स्मृतः6 ।
7योऽपराद्धस्तु सहसा8 नारीं सेवितुमिच्छति ।। ३१८ ।।
अप्रसादनबुद्धि9श्च 10निष्ठुरः सोऽभिधीयते ।
11एते वचनविन्यासाः प्रियाप्रियविभाषिताः ।। ३१९ ।।
12नर्तकीसंश्रिताः कार्या बहवोऽन्येऽपि नाटके ।
एष गीतविधाने तु सुकुमारे विधि13र्भवेत् ।। ३२० ।।
14श्रृङ्गाररससंभूतो रतिसंभोगखेदनः ।
यच्चैवाकाशपुरुषं परस्थवचनाश्रयम् ।। ३२१ ।।
Abh
या प्रीतिः परितोषः, रतौ क्रोधोऽपि हि भवति परितोषश्च सुतादावुभयमप्युपात्तम् । सहसेत्यप्रसाद्य । अन्येऽपीति उदाहरणमेतदित्यर्थः ।
पूर्वोक्तमेवोपसंहरति एष गीतविधान इति शृङ्गारे रसे आकाशपुरुषादौ ।
Notes
श्रृङ्गार 1एवं वाच्यं स्यात्तत्राप्येष क्रमो2 भवेत् ।
यद्वा पुरुषसंबन्धं कार्यं भवति नाटके ।। ३२२ ।।
श्रृङ्गार3रससंयुक्तं तत्राप्येष क्रमो भवेत् ।
एवमन्तःपुरगतः प्रयोज्योऽभिनयो भवेत् ।। ३२३ ।।
दिव्याङ्गनानां तु विधिं व्याख्यास्याम्यनुपूर्वशः ।
4नित्यमेवोज्ज्वलो वेषो नित्यं प्रमुदितं मनः ।। ३२४ ।।
नित्यमेव सुखः कालो 5देवानां ललिताश्रयः ।
6न चेर्ष्या नैव च क्रोधो नासूया न प्रसादनम्7 ।। ३२५ ।।*
8दिव्यानां दृश्यते पुंसां श्रृङ्गारे योषितां तथा9 ।
ये भावा मानुषाणां स्युर्यदङ्गं यच्च चेष्टितम् ।। ३२६ ।।
10सर्वं तदेव कर्तव्यं दिव्यैर्मानुषसङ्गमे ।
[यदा मानुषसंभोगो11 दिव्यानां योषितां भवेत् ।। ३२७ ।।]
Abh
एवमिति प्रीत्या कोपेन वा, यदा वाच्यवचनं स्यात् तत्राप्येष एव वचनक्रमः । पुरुषसंबन्धमिति प्रत्यक्षपुरुषयुक्तमित्यर्थः । दिव्यवेश्याङ्गनाभिस्तु राज्ञां भवति संभोग इति तत्र सामान्याभिनयमाह नित्यमेवेत्यादि । अत्र श्लोकद्वये यद्यपीत्यध्याहारेण ये भावा इत्यत्र च तथापीत्यध्याहारेण सङ्गतिः कार्या ।
Notes
1तदा सर्वाः प्रकर्तव्या 2ये2a भावा मानुषाश्रयाः ]
शापभ्रंशात्तु दिव्यानां तथा चापत्यलिप्सया3 ।। ३२८ ।।
4कार्यो मानुषसंयोगः 5aश्रृङ्गाररससंश्रयः5 ।
पुष्पैर्भूषणजैः शब्दैरदृश्या6पि प्रलोभयेत् ।। ३२९ ।।
पुनः संदर्शनं दत्त्वा क्षणादन्तरिता7 भवेत् ।
8वस्त्राभरणमाल्याद्यैर्लेखसंप्रेषणैरपि ।। ३३० ।।
ईदृशैरुपचारैस्तु9 10समुन्माद्यस्तु नायकः ।
उन्मादनात्समुद्भूतः11 कामो रतिकरो भवेत् ।। ३३१ ।।
स्वभावोपगतो यस्तु नासावत्यर्थभाविकः12 ।
एवं राजोपचारो हि कर्तव्योऽभ्यन्तराश्रयः ।। ३३२ ।। 12a
Abh
विप्रलम्भो हि जीवितेऽभिमान इति भावः । समुन्माद्य इत्यत्र हेतुमाह उन्मादनादिति एतच्च विक्रमोर्वश्यां स्फुटमेव दृश्यतां इति शिवम् ।
Notes
बाह्य1मप्युपचारं तु प्रवक्ष्याम्यथ वैशिके ।
इति भारतीये नाट्यशास्त्रे सामान्याभिनयो
2aनामाध्यायो द्वाविंशः2 ।
Abh
सामान्याभिनयः सोऽयं ग्रन्थिस्थानेषु सङ्गतः ।
कृतोऽभिनवगुप्तेन शिवस्मरणशालिना ।।
इति महामाहेश्वराभिनवगुप्तविरचितायां नाट्यवेदवृत्तावभिनवभारत्यां सामान्याभिनयो द्वाविंशः ।।
Notes
स्याद्यद्गतं यच्च चेष्टितम् । तत्सर्वं मानुषीं प्राप्य कर्तव्यं दैवतैरपि ।। 308 (cd.ef. (N) 1.च–अभ्युपचारं च व्याख्यास्याम्यथ 2a .N: नामाध्यायस्त्रयोविंश –N