२१ आहार्याभिनयः

श्रीः

नाट्यशास्त्रम्

एकविंशोऽध्यायः1*

(आहार्याभिनयः)

आहार्यभिनयं2 विप्रा 3व्याख्यास्याम्यनुपूर्वशः ।
4यस्मात् प्रयोगः सर्वोऽयमाहार्याभिनये स्थितः ।। १ ।।

नानावस्थाः प्रकृतयः 5पूर्वं 6नैपथ्यसाधिताः7 ।
अङ्गादिभिरभि8व्यक्तिमुपगच्छन्त्ययत्नतः ।। २ ।।

Abh

अभिनवभारती–एकविंशोऽध्यायः

आहार्याभिनयः

यस्य सङ्कल्पमात्रेण विश्वमाहार्यमद्भुतम् ।
तं मानसमहामूर्ति वन्दे गिरिसुतामपि ।।

आहार्यस्य सर्वपश्चादभिधानं वागाद्यभिनयेभ्योऽस्य बहिरङ्गत्वादित्यानुपूर्व्यमिति केचित् । तच्चासत्, आवेदितपूर्वमाहार्यस्य प्राधान्यादेव त्वद्य सर्वानुग्राहकत्वं सर्वोपजीव्यताख्यापनाय पश्चादभिधानम् । तदेवानुपूर्वश इत्यनेनोक्तम् । तथा चाह यस्मात् प्रयोगः सर्वोऽयमिति वागङ्गसत्त्वात्मक इति ।

अत्रैवोपपत्तिमाह नानावस्था इत्यादि । नानाभूता या अवस्था रतिशोकाद्या

Notes

1 जादिबान्तेषु त्रयोविंशोऽध्यायः N –द्वाविंशोऽध्यायः

आहार्याभिनयो1a नाम ज्ञेयो 1नेपथ्यजो विधिः ।
तत्र कार्यः प्रयत्नस्तु 2नाट्यस्य शुभमिच्छता ।। ३ ।।

[तस्मिन्यत्नस्तु कर्तव्यो नैपथ्ये सिद्धिमिच्छता ।
नाट्यस्येह त्वलङ्कारो 2aनैपथ्यं यत्प्रकीर्तितम्] ।। ४ ।।

चतुर्विधं तु नेपथ्यं3 पुस्तोऽलङ्कार एव च ।
4तथाङ्गरचना चैव ज्ञेयं 5सज्जीवमेव च ।। ५ ।।

पुस्तस्तु त्रिविधो ज्ञेयो नानारूपप्रमाणतः ।
5aसन्धिमो व्याजिमश्चैव वेष्टिमश्च प्रकीर्तितः ।। ६ ।।

Abh

नानाश्रयभूताश्च याः प्रकृतयो धीरोदात्तादय उत्तमाधमप्रभृतयश्च ताः पूर्व यत्नतो नैपथ्येन साधिताः प्रकाशिताः पश्चादङ्गादिभिर्विभागं 1अनुभावविषयविभागं नामोपपत्तिं देशकालादिविभागं1 चार्पयद्भिः स्फुटतमतामानीयन्ते । तेन समस्ताभिनयप्रयोगचित्रस्य मित्तिस्थानीयमाहार्यम् । तथा च समस्ताभिनयव्युपरमेऽपि नैपथ्यविशेषदर्शनाद्विशेषोऽवसीयत एव ।

यत्त्ववस्थान्तरयोगेऽभिनयान्तरवदाहार्यं न परिवर्तते तेन2 तथाभूतस्येयमवस्था प्राप्तेति स्थायिसूत्रानुस्मृतिसंपादनप्रावण्याद्रसं प्रत्यन्तरङ्गत्वहार्यस्यावेद्यते, तथा चाश्वत्थाम्नी युद्धवीररससम्पदोपेतस्यायं शोक आयात इति तथा येन यदि 3युद्धोचितोज्ज्वलधर्मपरिग्रहाद्यपासनं क्रियेतेत्यलं बहुना ।

ज्ञेयो लोके । नैपथ्यस्य (विधिः अलङ्कारः) स इहाहार्याभिनयः, नाट्यस्य तु शुभमिति सिद्धिम् । (सन्धिमः) सन्धानं सन्धा तथा निर्वृत्तः, सदलादिरूपं क्रियते (इति) सन्धिमः । व्याजः सूत्रस्याकर्षादिरूपः क्षेपस्तेन निर्वृत्तो व्याजिमः ।

Notes

1a.N. आहार्याभिनयं (यो); 1.–नैपथ्यजो

1किलिञ्जचर्मवस्त्राद्यैर्यद्रूपं क्रियते बुधैः ।
1aसन्धिमो नाम विज्ञेयः पुस्तो नाटकसंश्रयः ।। ७ ।।

2aव्याजिमो नाम विज्ञेयो यन्त्रेण क्रियते तु यः ।
वेष्ट्यते चैव2 यद्रूपं वेष्टिमः स तु संज्ञितः3 ।। ८ ।।

शैलयानविमानानि चर्मवर्मध्वजा नगाः4 ।
5ये क्रियन्ते हि6 नाट्ये तु स पुस्त इति संज्ञितः ।। ९ ।।

7अलङ्कारस्तु विज्ञेयो माल्याभरणवाससाम् ।
नानाविधः समायोगोऽप्यङ्गेपाङ्गविधिः स्मृतः ।। १० ।।

वेष्टिमं विततं चैव संघात्यं ग्रन्थिमं8 तथा ।
9प्रालम्बितं तथा चैव माल्यं पञ्चविधं स्मृतम् ।। ११ ।।

Abh

उपरि जतुसिक्थकादिना वेष्टस्तेन निर्वृत्तो बेष्टिमः । भावप्रत्ययान्तन्निर्वृत्तार्थे इमपं स्मरन्ति (४-४.१० का) । किलिञ्जंभूर्जवेणुदलादि । रूपं क्रियत इति रूपतां नीयत इति यावत् । यन्त्रेणेति सूत्रादिप्रयोगेण सन्धिमादयः प्रकाराः । क्वोपयुज्यन्त इत्याह शैलेत्यादि ।

समायोगइति योजना; स चाङ्गेषु शिरोहस्तादिषु उपाङ्गेषु च ललाटाङ्गुल्यादिषु निर्मितः । वेष्टिमं तृणवेष्टनया निर्मितं बहुमालावेष्टनकृतं वा । विततमित्यावेष्टितान्योन्याश्लिष्टमालास– मूहात्मकं वस्त्रधारणभयेनोम्भितं वा । सङ्घात्यं वृत्तं वा आस्यच्छिद्रान्तःप्रक्षिप्तसूत्रं बहुपुष्पगुच्छोम्भितं वा । ग्रन्थिमं ग्रन्थिभिरुम्भितं वा । प्रालम्बितमिति जालदिपर्यन्तव्याप्तिकम् । आवे–

Notes

चतुर्विधं तु विज्ञेयं 1नाट्ये ह्याभरणं बुधैः ।
आवेध्यं बन्धनीयं च 2क्षेप्यमारोप्यमेव च ।। १२ ।।

आवेध्यं 3कुण्डलादीह यत्स्याच्छ्रवणभूषणम् ।
आरोप्यं हेमसूत्रादि हाराश्च विविधाश्रयाः ।। १३ ।।

श्रोणीसूत्राङ्गदे3a मुक्ताबन्धनीयानि4a सर्वदा4 ।
प्रक्षेप्यं नूपुरं विद्याद्वस्त्राभरणमेव च ।। १४ ।।

भूषणानां विकल्पं हि5 पुरुषस्त्रीसमाश्रयम्6 ।
नानाविधं प्रवक्ष्यामि देशजातिसमुद्भवम्7 ।। १५ ।।

चूडामणिः 8समकुटः शिरसो भूषणं स्मृतम् ।
कुण्डलं9 9aमोचकं कीला कर्णाभरणमिष्यते ।। १६ ।।

मुक्तावली 10हर्षकं च 11सूत्रकं कण्ठभूषणम् ।
12वेतिकाङ्गुलिमु्द्रा12a च स्यादङ्गुलिविभूषणम् ।। १७ ।।

Abh

ध्यादीनि स्वयमेव व्याचष्टे आवेध्यं कुण्डलादीत्यादिना । विविधाश्रया इति लतासंख्यादिभेदेन बहुभेदा इत्यर्थः । चूडामणिः शिरोमध्ये । मकुटो ललाटोर्ध्वे । कुण्डलमधरपाल्याम् । मोचकं कर्णशष्कुल्या मध्यच्छिद्रे कृतम्, कीला ऊर्ध्वच्छिद्रे उत्तरकर्णिकेति प्रसिद्धा हर्षकमिति समुद्गकं सर्पादिरूपतया प्रसिद्धम् । सूत्रकमिति गुच्छग्रीवासूत्रादितया प्रसिद्धम् । 1वेतिकेति सूक्ष्मकटकरूपा अङ्गुलिमु्द्रा पक्षिपद्माकारेणोपेता ।

Notes

1हस्तली1a वलयं चैव बाहुनालीविभूषणम् ।
2रुचकश्चूलिका2a कार्या3 3aमणिबन्धविभूषणम् ।। १८ ।।

4केयूरे अङ्गदे चैव कूर्परोपरिभूषणे5 ।
6त्रिसरश्चैव हारश्च7 तथा वक्षोविभूषणम् ।। १९ ।।

8व्यालम्बतमौक्तिकौ8a हारो माला चैवाङ्गभूषणम् ।
9तलकं सूत्रकं चैव भवेत्कटिविभूषणम् ।। २० ।।

अयं पुरुषनिर्योगः कार्यस्त्वाभरणाश्रयः ।
देवानां पार्थिवानां च पुनर्वक्ष्यामि योषिताम्10 ।। २१ ।।

Abh

रुचक इति करगोलके विततः तत ऊर्ध्वे चूलिकेति प्रसिद्धो निकुञ्चकोऽग्रबाहुस्थाने– एतन्मणिबन्धविभूषणम्, केयूरः कूर्परस्योर्ध्वतः, तयोरूर्ध्वे त्वङ्गदे । त्रिसरः मुक्तातात्रयेण । तलकं नाभेरधः, तस्याप्यधः सूत्रकम् । पुरुषनिर्योगः औचित्यमस्य । आभरणाश्रयः आभऱणविधिरित्यर्थः ।

ननु सर्वः पुरुषोऽनेन भूष्यत इत्याशङ्क्याह देवानां पार्थिवानां चेति । शिखाव्यालः नागः ग्रन्थिभिरुपनिबद्धो मध्ये कर्णिकास्थानीयः, तस्यैव दलसन्धानतया चित्ररचनानि वर्तुलानि पत्राणि पिण्डीपत्राणि । चूडामणिः शिरोमध्ये, मकरपत्रं (मकरिका), ततो ललाटान्तमुक्ताजालिका तोरणं जालिकादिरूपेण प्रसिद्धा । सर्पस्यैव वा शिरस एकमेव सुवर्णमुक्तमणि–

Notes

शिखापाशं शिखाव्यालः1 पिण्डीपत्रं2 तथैव च ।
चूडामणिर्मकरिका3 मुक्ताजालगवाक्षिकम्4 ।। २२ ।।

शिरसो भूषणं 5चैव विचित्रं शीर्षजोलकम्6 ।
7कण्डकं 8शिखिपत्रं च वेणीपुच्छः9 सदोरकः ।। २३ ।।

ललाटतिलकं10 चैव नाना11शिल्पप्रयोजितम्12।
13भ्रूगुच्छोपरिगुच्छश्च कुसुमानुकृतिस्तथा14 ।। २४ ।।

कर्णिका कर्णवयलं तथा स्यात्पत्रकर्णिका ।
15कुण्डलं कर्णमुद्रा च 16कर्णोत्कीलकमेव च ।। २५ ।।

नानारत्नविचित्राणि दन्तत्राणि चैव हि17 ।
कर्णयोर्भूषणं 18ह्येतत्कर्णपूरस्तथैव च ।। २६ ।।

Abh

चित्रितम् । खेला (डोला ?) प्रायं शीर्षतः जोलकं भूषणं शिखिपत्रं मयूरपिच्छाकारो विचित्रवर्णमणिरचितः कर्णावतंसकः । कर्णिकेत्यादिना विकल्पतः कर्णाभरणान्यपि तु स्थानान्तरभेदात्समुच्चयेनेत्याहुः ।

Notes

1तिलकाः पत्रलेखाश्च भवेद्गण्डविभूषणम् ।
त्रिवणी चैव विज्ञेयं भवेद्वक्षोविभूषणम् ।। २७ ।।

नेत्रयोरञ्जनं 2ज्ञेयमधरस्य च रञ्जनम् ।
दन्तानां 3विविधो रागश्चतुर्णां शुक्लतापि वा ।। २८ ।।

रगान्तरविकल्पोऽथ4 शोभनेनाधिकोज्ज्वलः ।
5मुग्धानां सुन्दरीणां च मुक्ताभासितशोभनाः6 ।। २९ ।।

7सुरक्ता वापि दन्ताः स्युः पद्मपल्लवरञ्जनाः ।
अश्मरागोद्द्योतितः स्यादधरः पल्लवप्रभः ।। ३० ।।

विलासश्च भवेत्तासां सविभ्रान्तनिरीक्षितम्8 ।
मुक्तावली व्यालपङ्त्त्किर्मञ्जरी रत्नमालिका।। ३१ ।।

रत्नावली 9सूत्रकं च ज्ञेयं 10कण्ठविभूषणम् ।
द्विसरस्त्रिसरश्चैव चतुस्सरकमेव च ।। ३२ ।।

तथा श्रृङ्खलिका चैव भवेत्कण्ठविभूषणम् ।
अङ्गदं वलयं चैव बाहुमूलविभूषणम् ।। ३३ ।।

नाना11 शिल्पकृताश्चैव हारा12वक्षोविभूषणम् ।

Abh

विलासः । तेनायमर्थः –एवम्भूतेन दन्ताधररागवैचित्र्ये सति, सविभ्रान्त

Notes

मणिजालावनद्धं1च भवेत् स्तनविभूषणम् ।। ३४ ।।

खर्जूरकं सोच्छितिकं2 बाहुनालीविभूषणम् ।
3कलापि कटकं शङ्खो हस्तपत्रं 4सपूरकम् ।। ३५ ।।

मुद्राङ्गुलीयकं चैव 4aह्यङ्गुलीनां विभूषणम्5 ।
6मुक्ताजालाढ्यतलकं7 मेखला 8काञ्चिकापि वा ।। ३६ ।।

रशना च कलापश्च 9भवेच्छ्रोणीविभूषणम् ।
एकयष्टिर्भवेत्काञ्ची मेखला त्वष्टयष्टिका ।। ३७ ।।

10द्विरष्टयष्टी रशाना कलापः पञ्चविंशकः11 ।
द्वात्रिंशच्च चतुःषष्टिः शतमष्टोत्तरं तथा12 ।। ३८ ।।

मुक्ताहारा भवन्त्येते देवपार्थिवयोषिताम् ।
13नूपुरः किङ्किणीकाश्च घण्टिका रत्नजालकम् ।। ३९ ।।

Abh

निरीक्षितं यत् स्मितं तदभवेदतीवहृद्यं (विलासः) संपाद्यत इति तावत् । तलकमिति कवाटद्वययोजितम् ।

यष्टिरिति लता । नूपुरो जान्वधः । किङ्कणीका घण्टिकालग्ने (ग्ना? ) ।

Notes

1सघोषे कटके चैव गुल्फोपरिविभूषणम् ।
2जङ्घयोः पादपत्रं स्याद3ङ्गुलीष्वङ्गुलीयकम् ।। ४० ।।

4अङ्गुष्ठतिलका5श्चैव 5aपादयोश्च विभूषणम् ।
6तथालक्तकरागश्च नानाभक्तिनिवेशितः7।। ४१ ।।

अशोकपल्लवच्छायः स्यात् स्वाभाविक एव च8 ।
एतद्विभूषणं नार्या आकेशादानखादपि ।। ४२ ।।

यथाभावरसावस्थं विज्ञेयं द्विजसत्तमाः9 ।
आगमश्च प्रमाणं च10 रूप10a निर्वर्णनं तथा ।

विश्वकर्म11मतात11aकार्यं 12सुबुद्धयापि प्रयोक्तृभिः12a ।
न हि शक्यं सुवर्णेन मुक्ताभिर्मणिभिस्तथा ।। ४४ ।।

13स्वाधीनमिति रुच्यैव कर्तुमङ्गस्य भूषणम् ।
14विभागतोऽभिप्रयुक्तमङ्गशोभाकरं भवेत् ।। ४५ ।।

Abh

रत्नजालकं (प्रपदा) च्छादकम् । सघोषे सशब्दे कटके । (अङ्गुष्ठ) तिलका इति विचित्ररचनाकृताः। आकेशादिति शिखापाशः शिखाव्याल इत्यतःप्रभृतीत्यर्थः । आनखादिति अलक्तकरागपर्यन्तमिति यावत् । आगम इत्युपादानकारणमिति यावत् । प्रमाणमिति अङ्गुल्यादिपरिमाण (संमितत्वम् । रूपनिर्वर्णन) मिति शुक्लादि निर्वर्तनं (यथास्वभावम्)। विश्वकर्मणा प्रोच्यते यादृङ्निर्दिष्टं तादृक्कार्यमित्यर्थः । सुबुद्धयेति लोकप्रसिद्धापीत्यर्थः ।

Notes

यथा स्थानान्तरगतं भूषणं रत्नसंयुक्तम् ।
न तु नाट्यप्रयोगे तु1 कर्तव्यं भूषणं गुरु ।। ४६ ।।

खेदं जनयते तद्वि सव्यायतविचेष्टनात् ।
गुरुभावावसन्नस्य स्वेदो मूर्च्छा च जायते2 ।। ४७ ।।

2aगुर्वाभरणसन्नो हि चेष्टां न कुरुते पुनः ।
3तस्मात्तनुत्वचकृतं सौवर्णं भूषणं भवेत् ।। ४८ ।।

4रत्नवज्जतुबद्धं4a वा न खेदजननं भवेत् ।
स्वेच्छया भूषणविधिर्दिव्यानामुपदिश्यते5 ।। ४९ ।।

6यत्नभावविनिष्पन्नं मानुषाणां विभूषणम् ।
*[ वेष्टितं विततं चैव सङ्घात्यं ग्रन्थिमं तथा ।। ५० ।।

लम्बशोभि तथा चैव माल्यं पञ्चविधं स्मृतम् ।
आच्छादनं बहुविधं नानापत्तनसंभवम् ।। ५१ ।।

तज्ज्ञेयं त्रिप्रकारं तु शुद्धं रक्तं विचित्रितम् ]।
दिव्यानां भूषणविधिर्य एष परिकीर्तितः ।। ५२ ।।

Abh

पत्तनं देशः । शुद्धमिति शुक्लवर्णकम् । रक्तमिति कुसुम्भनील्याद्यन्यतमोपरक्तम् । विचित्रमिति बहुवर्णम् । विभक्तिः विभागः ।

Notes

मानुषाणां च कर्तव्यो नानादेशसमाश्रयः ।
भूषणैश्चापि वेषैश्च1 नानावस्थासमाश्रयैः ।। ५३ ।।

दिव्याङ्गनानां कर्तव्या विभक्तिः स्वस्वभूमिजा2 ।
विद्याधरीणां यक्षीणामप्सरोनागयोषिताम् ।। ५४ ।।

ऋषिदैवतकन्यानां वेषैर्नानात्वमिष्यते ।
तथा च सिद्धगन्धर्वराक्षसासुरयोषिताम् ।। ५५ ।।

दिव्यानां नरनारीणां तथैव च शिखण्डकम्3 ।
शिखापुटशिखण्डं तु मुक्ताभूयिष्ठभूषणम् ।। ५६ ।।

विद्याधरीणां कर्तव्यः शुद्धो वेषपरिच्छदः4* ।
5यक्षिण्योऽप्सरसश्चैव कार्या रत्नविभूषणाः6 ।। ५७ ।।

7समस्तसां भवेद्वेषो यक्षीणां केवलं शिखा ।
8दिव्यानामिव कर्तव्यं नागस्त्रीणां विभूषणम् ।। ५८ ।।

मुक्तामणि9लताप्रायाः9a फणास्तासां तु केवलाः10 ।

Abh

तासामिति (श्लो–५९) नागयोषिताम् ।

Notes

कार्य तु मुनिकन्यानामेकवेणीधरं शिरः ।। ५९ ।।

न चापि1 भूषणविधिस्तासां1a वेषो वनोचितः ।
मुक्तामरकतप्रायं मण्डनं सिद्धयोषिताम् ।। ६० ।।

तासां चैव तु कर्तव्यं पीतवस्त्रपरिच्छदम् ।
पद्मरागमणिप्रायं गन्धर्वीणां विभूषणम् ।। ६१ ।।

2वीणाहस्तश्च कर्तव्यः कौसुम्भवसनस्तथा ।
इन्द्रनीलैस्तु कर्तव्यं राक्षसीनां विभूषणम् ।। ६२ ।।

सितदंष्ट्रा च कर्तव्या कृष्णवस्त्रपरिच्छदम्3 ।
वैडूर्यमुक्ताभरणाः कर्तव्या सुरयोषिताम् ।। ६३ ।।

शुकपिच्छनिभैर्वस्त्रैः कार्यस्तासां परिच्छदः।
पुष्यरागैस्तु मणिभिः क्वचिद्वैडूर्यभूषितैः4 ।। ६४ ।।

दिव्यवानरनारीणां कार्यो नीलपरिच्छदः ।
एवं श्रृङ्गारिणः कार्या वेषा दिव्याङ्गनाश्रयाः5।। ६५ ।।

अवस्थान्तरमासाद्य शुद्धाः कार्याः पुनस्तथा6 ।
मानुषीणां तु कर्तव्या नानादेशसमुद्भवाः ।। ६६ ।।

Notes

1वेषाभरणसंयोगान् गदतस्तान्निबोधत ।
2आवन्त्ययुवतीनां तु3 शिरस्सालककुन्तलम् ।। ६७ ।।

गौडीनामलकप्रायं 4सशिखापाशवेणिकम् ।
आभीरयुवतीनां तु द्विवेणीधर5 एव तु ।। ६८ ।।

शिरः परिगमः कार्यो6नीलप्रायमथाम्बरम् ।
तथा पूर्वोत्तरस्त्रीणां 7समुन्नद्वशिखण्डकम् ।। ६९ ।।

8आकेशाच्छादनं तासां 9देशकर्मणि कीर्तितम् ।
10तथैव दक्षिणस्त्रीणां कार्यमुल्लेख्यसंश्रयम्11 ।। ७० ।।

कुम्भी12बन्धकसंयुक्तं तथावर्तललाटिकम्13।
[गणिकानां तु कर्तव्यमिच्छाविच्छित्ति मण्डनम् ।।] ७१ ।।

देशजातिविधानेन14 शेषाणामपि कारयेत् ।
वेषं तथा चाभरणं 15क्षुरकर्म परिच्छदम् ।। ७२ ।।

Abh

(सालककुन्तलमिति) अलकाः स्थाने कुन्तलाः कु़ञ्चिताः केशा यत्र तत्तथोक्तम् । नीलप्रायं वस्त्रमित्याभीरीणामेव ।

हृदयं व्याप्नोति हृद्यत एवेति वेषः केशरचनादिः । आ समन्तात् भ्रियते पोष्यते कान्तिर्येन तदाभरणं शिखाव्यालादि । क्षुरकर्म अलकादियोजना । परिच्छदः विचित्रवस्त्रयोगः । एतद्वेषादि प्रलम्भेन ।

Notes

1[आगमं चापि नैपथ्ये नाट्यस्यैवं प्रयोजयेत्] ।
2अदेशयुक्तो वेषो हि न शोभां जनयिष्यति ।। ७३ ।।

मेखलोरसि बद्धा तु हास्यं समुपपादयेत्3 ।
तथा प्रोषित4कान्तासु 5व्यसनाभिहतासु च ।। ७४ ।।

वेषो 6वै मलिनः कार्य एकवेणीधरं शिरः7 ।
विप्रलम्भे तु8 नार्यास्तु शुद्धो वेषो भवेदिह ।। ७५ ।।

9नात्याभरणसंयुक्तो न चापि मृजयान्वितः10 ।
एवं स्त्रीणां 11भवेद्वेषो देशावस्थासमुद्भवः ।। ७६ ।।

पुरुषाणां पुनश्चैव वेषान्वक्ष्यामि तत्त्वतः12 ।
तत्राङ्गरचना पूर्वं कर्तव्या नाट्ययोक्तृभिः ।। ७७ ।।

13ततःपरं प्रयोक्तव्या वेषा देशसमुद्भवाः ।
सितो नीलश्च पीतश्च चतुर्थो रक्त एव च ।। ७८ ।।

एते स्वभावजा वर्णा यैः कार्य त्वङ्गवर्तनम् ।
संयोगजाः पुनःश्चान्ये14उपवर्णा भवन्ति हि ।। ७९ ।।

Abh

देशोऽवन्त्यादि, अवस्था रतिशोकाद्याः । तत्रेति पुरुषेष्वेव । अङ्गनानां रूपपरिवर्तनसंपादनात्मकवर्णवर्तना कर्तव्या न स्त्रीपात्रेष्विति यावत् । संयोगजा इति वर्णद्वयश्लेषेणोत्थापिताः, उपवर्णास्तु बहुवर्णमिश्रणेनेत्यर्थः ।

Notes

तानहं संप्रवक्ष्यामि यथाकार्यं प्रयोक्तृभिः ।
सितनील1aसमायोगे1 2कारण्डव इति स्मृतः ।। ८० ।।

सितपीतसमायोगा2aत्पाण्डुवर्णः प्रकीर्तितः3 ।
सितरक्तसमायोगे3a पद्मवर्णः प्रकीर्तितः4 ।। ८१ ।।

पीतनीलसमायोगाद्धरितो नाम जायते ।
नीलरक्तसमायोगात्कषायो नाम जायते ।। ८२ ।।

रक्तपीतसमायोगाद्गौरवर्ण इति स्मृतः5 ।
एते संयोगजा वर्णा ह्युपवर्णास्तथापरे 6 ।। ८३ ।।

त्रिचतुर्वर्णसंयुक्ता बहवः 7संप्रकीर्तिताः ।
बलस्थो यो भवेद्वर्णस्तस्य 8भागो भवेत्ततः9 ।। ८४ ।।

दुर्बलस्य च भागौ द्वौ 10नीलं मुक्त्वा प्रदापयेत् ।
नीलस्यैको भवेद्भागश्चत्वारोऽ11न्ये तु वर्णके ।। ८५ ।।

12बलवान्सर्ववर्णानां नील एव प्रकीर्तितः ।
एवं वर्णविधिं ज्ञात्वा13 नानासंयोगसंश्रयम्14 ।। ८६ ।।

Abh

बलस्थ इत्यभिभवनकारी, ततोऽन्यो वर्णो द्विगुण इति, अस्यापवादमाह नीलवर्णादृते इति । तत्र तु यो भागविधिस्तं दर्शयति नीलस्यैक इति वर्णके नीलस्य भाग इत्यर्थः ।

Notes

1a. N: सितनीलसमायोगः-

ततः 1कुर्याद्यथायोगमङ्गानां वर्तनं बुधः ।
1aवर्तनाच्छादनं रूपं स्ववेषपरिवर्जितम्2 ।। ८७ ।।

नाट्यधर्मप्रवृत्तं तु3 ज्ञेयं तत्प्रकृतिस्थितम् ।
स्ववर्णमात्मनश्छाद्यं 4वर्णकैर्वेषसंश्रयैः ।। ८८ ।।

5आकृतिस्तस्य6 कर्त्तव्या 7यस्य प्रकृतिरास्थिता8 ।
9aयथा 9जन्तुः स्वभावं 10स्वं परित्यज्यान्यदैहिकम्॰11 ।। ८९ ।।

12तत्स्वभावं हि भजते देहान्तरमुपाश्रितः ।
13वेषेण वर्णकैश्चैव13aच्छादितः पुरुषस्तथा ।। ९० ।।

14aपरभावं प्रकुरुते14 यस्य वेषं समाश्रितः15 ।
देवदानवगन्धर्वयक्षराक्षसपन्नगाः ।। ९१ ।।

Abh

वर्तनाशब्दं पर्यायैर्व्याचष्टे वर्तनाच्छादनमिति । प्रकृतिस्थितमिति देवमानुषादिस्वभावविभागेनावस्थितमित्यर्थः । वर्तनस्य प्रयोजनमाह यथा जन्तुः स्वभावं स्वमिति । जन्तुरिति जीवात्मेत्यर्थः स च शुद्धनिर्मलानन्तचिदानन्दप्रकाशः स्वातन्त्र्यरूपं स्वमनपायिनमपि स्वभावं परित्यज्यान्यद् व्यतिरिक्तमपि दैहिकं देहभवं शरीरकरणोचितं तत्स्वभावं भजते, यतो देहान्तरं तद्देहविशेष उपसमीपे आ समन्तात् श्रितः अतिनैकट्येन तदात्मवृत्त्या प्रतिपन्न इत्यर्थः ।

Notes

1प्राणिसंज्ञाः1a स्मृता ह्येते जीवबन्धाश्च येऽपरे ।
[स्त्रीभावाः पर्वता नद्यः समुद्रा वाहनानि च ।। ९२ ।।

नानाशस्त्राण्यपि तथा विज्ञेयाः प्राणिसंज्ञया2] ।
शैलप्रासादयन्त्राणि चर्मवर्मध्वजास्तथा ।। ९३ ।।

नानाप्रहरणाद्याश्च तेऽप्राणिन इति स्मृताः ।
अथवा कारणोपेता भवन्त्येते शरीरिणः ।। ९४ ।।

3वेषभाषाश्रयोपेता नाट्यधर्ममवेक्ष्य तु ।
वर्णानां तु विधिं ज्ञात्वा वयः प्रकृतिमेव च ।। ९५ ।।

4कुर्यादङ्गस्य रचनां देशजातिवयःश्रिताम्5 ।
देवा गौरास्तु विज्ञेया यक्षाश्चाप्सरसस्तथा ।। ९६ ।।

Abh

एतदुक्तं भवति–यथा परमात्मा स्वचैतन्यप्रकाशमत्यजन्नपि देहकञ्चुकोचितचित्तवृत्तिरूषितमिव स्वरूपमादर्शयति, तथा नटोऽपि आत्मावष्टम्भमत्यजन्नेव स्थाने लयतालाद्यनुसरणाद्यायोगाद् देहस्थानीयेन वर्तनादिवेषपरिवर्तने(न) तदुचितस्वभावालिङ्गितमिव स्वात्मानं सामाजिकान् प्रति दर्शयति, प्रेक्षकपक्षे न नटाभिमानस्तत्र हि रामाभिमान इति दर्शयति । एतदाशयेनैवास्माभिस्तत्र तत्र प्रतीतिरेव व्याख्याता रसाध्यायादौ ।

सजीवमाहार्यभेदं व्याचष्टे देवदानवगन्धर्वेत्यादिना, शैलप्रासादादीनि निर्जीवत्वे प्रस्तुतत्वेन परिगणितान्यपि अवस्थाविशेषेषु नाट्यधर्मेण सजीवत्वेऽपीत्याह शैलेत्यादिना, अथवा कारणोपेता इत्यादिना च ।

अङ्गरचनानि विभजति वर्णानामिति गौरादीनाम् ।

Notes

रुद्रार्कद्रुहिणस्कन्दास्तपनीयप्रभाः स्मृताः1 ।
सोमो बृहस्पतिः शुक्रो 2aवरुणस्तारकागणाः2 ।। ९७ ।।

समुद्रहिमवद्गङ्गाः श्वेता हि स्युर्बलस्तथा3 ।
रक्तमङ्गारकं विद्यात् पीतौ बुधहुताशनौ ।। ९८ ।।

नारायणो नरश्चैव श्यामो नागश्च4 वासुकिः ।
दैत्याश्च दानवाश्चैव राक्षसा गुह्यका नगाः ।। ९९ ।।

पिशाचा 5जलमाकाशमसितानि6 तु वर्णतः ।
7भवन्ति षट्सु द्वीपेषु 8पुरुषाश्चैव वर्णतः ।। १०० ।।

कर्तव्या नाट्ययोगेन9 निष्टप्तकनकप्रभाः ।
जम्बूद्वीपस्य 10वर्षे तु नानावर्णाश्रया नराः ।। १०१ ।।

11उत्तरांस्तु कुरूंस्त्यक्त्वा12 ते चापि कनकप्रभाः ।
13भद्राश्वपुरुषाः श्वेताः कर्तव्या वर्णतस्तथा14 ।। १०२ ।।

Abh

नगाः पर्वताः । जलमाकाशमिति तदधिष्ठात्री देवतेह विविक्षिताः । जम्बूद्वीपस्य वर्ष इति भारते । ते चापीति उत्तरकुरवः ।

Notes

केतु1माले1a नरा नीला 2गौराः शेषेषु कीर्तिताः ।
3नानावर्णाः स्मृता 3aभूता 4गन्धर्वा यक्षपन्नगाः ।। १०३ ।।

4aविद्याधरास्तथा चैव पितरस्तु समा नराः5 ।
पुनश्च भारते वर्षे 6तांस्तान्वर्णान्निबोधत ।। १०४ ।।

राजानः पद्मवर्णास्तु गौराः श्यामास्तथैव च ।
ये चापि सुखिनो मर्त्या गौराः कार्यास्तु वै बुधैः ।। १०५ ।।

कुकर्मिणो ग्रहग्रस्ताः व्याधितास्तपसि स्थिताः ।
आयस्तकर्मिणश्चैव 7ह्यसिताश्च कुजातयः ।। १०६ ।।

8ऋषयश्चैव कर्तव्या नित्यं 9तु बदरप्रभाः ।
10तपःस्थिताश्च ऋषयो नित्यमेवासिता बुधैः ।। १०७ ।।

कारणव्यपदेशेन 11तथा चात्मेच्छया पुनः ।

Abh

पितरस्तु समा नरा इति तुः स्वार्थे पितरो नराश्च तुल्या इत्यर्थः । कुकर्मिण इति कुत्सितं निन्दितं कर्म येषाम् । आयस्तं शरीरक्लेशबहुलं कर्म येषामित्यर्थः । कुजातयो धीवरडोम्बाद्याः बदरप्रभावत्त्वेऽप्यपवादमाह तपः स्थिता असिता इति । अनेन तु ऋषीणामपि तपोनिरतानामसितत्वमित्यपौनरुक्त्यम् ।

व्यापकं लक्षणमाह कारणव्यपदेशेनति । कारणं यथा क्लेशबहुला क्रिया कृष्यत्वे । आत्मेच्छयेति कविबुद्धयनुसारेणेत्यर्थः ।

Notes

1aवर्णस्तत्र प्रकर्तव्यो1 देशजातिवशानुगः2 ।। १०८ ।।

देशं 3कर्म च जातिं च पृथिव्युद्देशसंश्रयम् 4 ।
विज्ञाय वर्तना कार्या पुरुषाणां प्रयोगतः5 ।। १०९ ।।

किरातबर्बरान्ध्राश्च द्रविडाः 6काशिकोसलाः7 ।
पुलिन्दा दाक्षिणात्याश्च प्रायेण त्वसिताः स्मृताः8 ।। ११० ।।

9शकाश्च यवनाश्चैव पह्लवा बाह्लिकाश्च ये10 ।
प्रायेण गौराः 11कर्तव्या उत्तरा ये श्रिता दिशम् ।। १११ ।।

पाञ्चालाः 12शौरसेनाश्च 13माहिषाश्चौड्रमागधाः13a ।
अङ्गा–वङ्गाः कलिङ्गाश्च श्यामाः कार्यास्तु वर्णतः ।। ११२ ।।

ब्राह्मणाः क्षत्रियाश्चैव 14गौराः कार्यास्तथैव हि15 ।
वैश्याः शूद्रास्तथा चैव श्यामाः कार्यास्तु वर्णतः ।। ११३ ।।

एवं कृत्वा यथान्यायं 16मुखाङ्गोपाङ्गवर्तनाम् ।
श्मश्रुकर्म प्रयुञ्जीत देश17 कालवयोऽनुगम्17a ।। ११४ ।।

शुद्धं विचित्रं श्यामं च तथा रोमशमेव च ।

Abh

तत्रेति भारते । शुद्धमिति क्षुरेण, सर्वथा चासितं, श्यामं पूर्वं क्षुरकर्म योजितमपीदानीं निवारितं तद्योजनाङ्कम् । विचित्रमिति क्षुरकर्त्रिकाकर्मणोत्पादनकर्मणा च रचितविचित्रसंनिवेशम् ।

Notes

1a N: वर्णस्त्वन्योऽपि कर्तव्यो देशजातिवयःस्थितः ।

भवेच्चतुर्विधं श्मश्रु नानावस्थान्तरात्मकम् 1 ।। ११५ ।।

शुद्धं 2तु लिङ्गिनां कार्यं 3तथामात्यपुरोधसाम्4 ।
मध्यस्था 5ये च पुरुषा ये च दीक्षां समाश्रिताः ।। ११६ ।।

दिव्या ये पुरुषाः 6केचित्सिद्धविद्याधरादयः7 ।
8पार्थिवाश्च कुमाराश्च ये च राजोपजीविनः 9 ।। ११७ ।।

शृङ्गारिणश्च ये मर्त्या यौवनोन्मादिनश्च10 ये ।
तेषां विचित्रं कर्तव्यं श्मश्रु 11नाट्यप्रयोक्त्तृभिः ।। ११८ ।।

अनिस्तीर्णप्रतिज्ञानां दुःखितानां तपस्विनाम् ।
व्यसनाभिहतानां च श्यामं श्मश्रु प्रयोजयेत्12 ।। ११९ ।।

Abh

रोमशमिति यथोत्पन्नम् । लिङ्गिनामपि ब्रह्मचारिवानप्रस्थादीनाम् ।

“मध्यस्था ये च पुरुषा ये च दीक्षां समाश्रिताः”

इत्यर्धं–

“शुद्धं तु लिङ्गिनां कार्यं तथामात्यपुरोधसाम्”,

इत्यर्धस्यानन्तरं योज्यम्, लेखकदोषात्तु स्थानान्तरे दृश्यते । मध्यस्थ इति नोत्तमानामधमानामित्यर्थः । यौवनोन्मादिन इति अमात्यपुरोधसोऽपीति भावः ।

Notes

1ऋषीणां तापसानां च ये च दीर्घव्रता नराः ।
2तथा च चीरबद्धानां रोमशं श्मश्रु कीर्तितम् ।। १२० ।।

एवं नानाप्रकारं तु श्मश्रु कार्यं प्रयोक्तृभिः 3 ।
अत ऊर्ध्वं प्रवक्ष्यामि 4वेषान्नानाप्रयोगजान्5 ।। १२१ ।।

शुद्धो विचित्रो मलिनस्त्रिविधो वेष उच्यते ।
तेषां 6नियोगं वक्ष्यामि यथावदनुपूर्वणः ।। १२२ ।।

देवाभिगमने चैव मङ्गले नियमस्थिते ।
तिथिनक्षत्रयोगे च विवाहकरणे तथा ।। १२३ ।।

धर्मप्रवृत्तं यत्कर्म स्त्रियो7 वा पुरुषस्य वा ।
वेषस्तेषां8 भवेच्छुद्धो ये च9a प्रायत्निका नराः9 ।। १२४ ।।

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
नृपाणां कर्कशानां10 च 11aचित्रो वेष उदाहृतः11 ।। १२५ ।।

12वृद्धानां ब्राह्मणानां च श्रेष्ठ्यचमात्यपुरोधसाम् ।
वणिजां काञ्चुकीयानां तथा चैव तपस्विनाम् ।। १२६ ।।

Abh

शुद्ध इति शुक्कवस्त्रादिः प्रायः प्रायत्निका इति प्रयत्ने भवा विनीता इत्यर्थः ।

Notes

विप्रक्षत्रियवैश्यानां स्थानीयां ये च मानवाः ।
शुद्धो वस्त्रविधिस्तेषां कर्तव्यो नाटकाश्रयः ।। १२७ ।।

उन्मत्तानां प्रमत्तानामध्वगानां तथैव च1 ।
व्यसनोपहतानां च मलिनो वेष उच्यते2 ।। १२८ ।।

शुद्धरक्तविचित्राणि वासांस्यूर्ध्वाम्बराणि3 च ।
योजयेन्नाट्यतत्त्वज्ञो वेषयोः शुद्धचित्रयोः ।। १२९ ।।

कुर्याद्वेषे तु मलिने 4मलिनं तु विचक्षणः ।
5मुनिनिर्ग्रन्थशाक्येषु 6aयतिपाशुपतेषु च6 ।। १३० ।।

व्रतानुगस्तु कर्तव्यो वेषो 7लोकस्वभावतः ।
चीरवल्कलचर्माणि तापसानां तु योजयेत् ।। १३१ ।।

8परिव्राण्मुनिशाक्यानां वासः काषायमिष्यते ।
नानाचित्राणि वासांसि कुर्यात्पाशुपतेष्वथ ।। १३२ ।।

कुजातयश्च ये प्रोक्तास्तेषां चैव यथार्हतः8a ।
9अन्तःपुरप्रवेशे च विनियुक्ता हि ये नराः ।। १३३ ।।

Abh

चीरमिति अवितता स्थूला च वृक्षत्वक्, वल्कलं तु तद्विपरीतम्, यथा भूर्जपत्रत्वक्, मृगादेश्चर्म ।

Notes

काषायकञ्चुकपटाः कार्यास्तेऽपि यथाविधि1-1a ।
2अवस्थान्तरतश्चैवं 3नृणां वेषो भवेदथ4 ।। १३४ ।।

5वेषः सांग्रामिकश्चैव शूराणां संप्रकीर्तितः ।
विचित्रशस्त्रकवचो बद्धतूणो6 धनुर्धरः ।। १३५ ।।

7चित्रो वेषस्तु कर्तव्यो नृपाणां नित्यमेव च8 ।
केवलस्तु भवेच्छुद्धो नक्षत्रोत्पातमङ्गले9 ।। १३६ ।।

एवमेष भवेद्वेषो देशजातिवयोऽनुगः10 ।
उत्तमाधममध्यानां स्त्रीणां नॄणामथापि च ।। १३७ ।।

एवं वस्त्रविधिः कार्यः प्रयोगे नाटकाश्रये ।
नानावस्थां समासाद्य शुभाशुभ11कृतस्तथा ।। १३८ ।।

12तथा प्रतिशिरश्चापि कर्तव्यं नाटकाश्रयम् ।
दिव्यानां मानुषाणां च देशजातिवयःश्रितम् 13।१३९ ।।

14पार्श्वागता मस्तकिनस्तथा चैव किरीटिनः ।
15त्रिविधो मकुटो ज्ञेयो दिव्यपार्थिवसंश्रितः ।। १४० ।।

Abh

(नक्षत्रेति)नक्षत्रोत्पातप्रशमनार्थं यन्मङ्गलं, एतच्च नैमित्तिकस्य श्राद्ध-

Notes

देवगन्धर्वयक्षाणां पन्नगानां सरक्षसाम् ।
1कर्तव्या1a नैकविहिता मुकुटाः पार्श्वमौलयः2 ।। १४१ ।।

उत्तमा ये च 3दिव्यानां ते च कार्याः किरीटिनः ।
मध्यमा मौलिनश्चैव कनिष्ठाः 4शीर्षमोलिनः ।। १४२ ।।

नराधिपानां कर्तव्या मस्तके मकुटा5 बुधैः ।
विद्याधराणां सिद्धानां चारणानां तथैव च ।। १४३ ।।

6ग्रन्थिमत्केशमकुटाः6a कर्तव्यास्तु प्रयोक्तृभिः ।
7रक्षोदानवदैत्यानां पिङ्गकेशेक्षणानि हि8 ।। १४४ ।।

9हरिच्छमश्रूणि च तथा 10मकुटास्यानि कारयेत् ।
11उत्तमाश्चापि ये तत्र ते कार्याः पार्श्वमौलिनः ।। १४५ ।।

12कस्मात्तु मुकुटाः सृष्टाः प्रयोगे दिव्यपार्थिवे ।
केशानां13 छेदनं दृष्टं वेदवादे14 यथाश्रुति ।। १४६ ।।

भद्रीकृतस्य वा यज्ञे शिरसश्छादनेच्छया15 ।
16केशानामप्यदीर्घत्वात्स्मृतं मुकुटधारणम् ।। १४७ ।।

Abh

देवार्चनादेरप्युपलश्रणम् । प्रकृतिरूपं शिरः प्रतिशिरः

Notes

सेनापतेः पुनश्चापि1 युवराजस्य चैव हि ।
2योजयेदर्धमकुटं महामात्राश्च ये नराः ।। १४८ ।।

3अमात्यानां कञ्चुकिनां तथा श्रेष्ठिपुरोधसाम् ।
4वेष्टनाबद्धपट्टानि प्रतिशीर्षाणि कारयेत् ।। १४९ ।।*4a

पिशाचोन्मत्तभूतानां 5साधकानां5a तपस्विनाम् ।
अनिस्तीर्णप्रतिज्ञानां लम्बकेशं भवेच्छिरः6 ।। १५० ।।

शाक्यश्रोत्रियनिर्ग्रन्थपरिव्राङ्दीक्षितेषु7 च ।
शिरोमुण्डं तु कर्तव्यं यज्ञदीक्षान्वितेषु च8 ।। १५१ ।।

तथा 9व्रतानुगं चैव शेषाणां लिङ्गिनां शिरः ।
मुण्डं वा कुञ्चितं वापि लम्बकेशमथापि वा ।। १५२ ।।

धूर्तानां 10चैव कर्तव्यं ये च 11रात्र्युपजीविनः ।
12श्रृङ्गारचित्ताः पुरुषास्तेषां कुञ्चितमूर्धजाः ।। १५३ ।।

बालानामपि कर्तव्यं त्रिशिखण्डविभूषितम् 13 ।

Abh

(वेष्टनेति) वेष्टनार्थमाबद्धं पट्टमुष्णीषप्रायं येषु । त्रिखण्डाश्चूलिकाः (त्रिशिखण्डम् ) ।

Notes

जटामकुटबद्धं1 च मुनीनां तु2 भवेच्छिरः ।। १५४ ।।

चेटानामपि कर्तव्यं त्रिशिखं मुण्डमेव वा ।
3विदूषकस्य3a खलतिः स्यात्काकपदमेव वा ।। १५५ ।।

शेषाणामर्थयोगेन देशजातिसमाश्रयम् 4 ।
शिरः प्रयोक्तृभिः कार्य नानावस्थान्तराश्रयम्5 ।। १५६ ।।

6भूषणैर्वर्णंकैर्वस्त्रैर्माल्यैश्चैव यथाविधि ।
एवं नानाप्रकारैस्तु7 बुद्ध्या वेषान्प्रकल्पयेत् ।। १५७ ।।

पूर्वं तु प्रकृतिं स्थाप्य प्रयोगगुणसंभवाम् ।
स्त्रीणां वा पुरुषाणां वाप्यवस्थां8 प्राप्य तादृशीम् ।। १५८ ।।

सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः ।
तेषां चानिमिषत्वादि9 नैव कार्यं प्रयोक्तृभिः ।। १५९ ।।

इह भावरसाश्चैव दृष्टिभिः संप्रतिष्ठिताः ।
दृष्ट्यैव 10स्थापितो ह्यर्थः पश्चादङ्गैर्विभाव्यते ।। १६० ।।

एवं ज्ञेयाङ्गरचना नानाप्रकृतिसंभवा ।
11सजीव इति यः प्रोक्तस्तस्य वक्ष्यामि लक्षणम् ।। १६१ ।।

Abh

(काकपदमिति) काकपक्षवद्यत्र केशविच्छेदः ।

Notes

यः प्राणिनां प्रवेशो वै 1सजीव इति संज्ञितः ।
चतुष्पदोऽथ द्विपदस्तथा चैवापदः स्मृतः2 ।। १६२ ।।

3उरगानपदान् विद्याद् द्विपदान्खगमानुषान् ।
4ग्राम्या आरण्याः पशवो 5विज्ञेयाः स्युश्चतुष्पदाः ।। १६३ ।।

ये ते तु 6युद्धसंफेटैरुपरोधैस्तथैव च ।
नानाप्रहरणोपेताः प्रयोज्या नाटके बुधैः7 ।। १६४ ।।

आयुधानि च कार्याणि8 9पुरुषाणां प्रमाणतः ।
तान्यहं 10वर्तयिष्यामि यथापुस्तप्रमाणतः11 ।। १६५ ।।

12भिण्डिर्द्वादशतालः12a स्याद्दश 13aकुन्ता भवेदथ13 ।
अष्टौ शतघ्नी शूलं14 च तोमरः शक्तिरेव वा ।। १६६ ।।

अष्टौ 15ताला धनुर्ज्ञेय16मायामोऽस्य द्विहस्तकः ।

Abh

प्रहरणोपेता इति युद्धोपयोगिन इत्यर्थः । तथा च नागास्त्रे दत्ते सर्पाकृतिः प्रदर्शनाया, एवं नृसिंहास्त्रे तदाकृतिरित्यादि । (आयुधानां प्रमाणं) दर्शयति (भिण्डिरिति । वज्रं ….चतुस्तालम्) । क्रमिति खङ्गादियुद्धेऽपवारणम् ।

Notes

शरो गदा च 1वज्रा च चतुस्तालं विधीयते2 ।। १६७ ।।

अङ्गुलानि त्वसिः कायश्चत्वारिंशत्प्रमाणतः ।
3द्वादशाङ्गुलकं चक्रं ततोऽर्धं प्रास इष्यते ।। १६८ ।।

4प्रासवत्पट्टसं विद्या5द्दण्डश्चैव तु विंशतिः ।
6विंशतिः 7कणयश्चैव ह्यङ्गुलानि प्रमाणतः ।। १६९ ।।

षोडशाङ्गुलविस्तीर्ण 8सबलं संप्रघण्टिकम् ।8a
त्रिंशदङ्गुलमानेन कर्तव्यं खेटकं बुधैः ।। १७० ।।

जर्जरो दण्डकाष्ठं च तथैव प्रतिशीर्षकम् ।
छत्रं च चामरं चैव 9ध्वजो भृङ्गार एव च ।। १७१ ।।

यत्किंचिन्मानुषे लोके द्रव्यं पुंसां प्रयोजकम् 10।
11यच्चोपकरणं सर्वं नाट्ये तत्संप्रकीर्तितम् ।। १७२ ।।

यद्यस्य11a विषयप्राप्तं 12तेनोह्यं तस्य लक्षणम् ।
13जर्जरे दण्डकाष्ठे च संप्रवक्ष्यामि लक्षणम् ।। १७३ ।।

Abh

यद्यस्येति । यस्य शास्त्रस्य यद्विषयीभूतं पुरुषस्य वा तदनुसारेण तस्यवस्तुनो लक्षणमूह्यमिति । ऊह्यशब्दे भेदमाह, परिपूर्णलक्षणमुपजीव्यम् , (यथा) खङ्गलक्षणेऽप्युपजीव्यमाने

Notes

1माहेन्द्रा 2वै ध्वजाः प्रोक्ता लक्षणैर्विश्वकर्मणा ।
3एषामन्यतमं4 कुर्याज्जर्जरं दारुकर्मतः5 ।। १७४ ।।

अथवा 6वृक्षयोनिः स्यात्प्ररोहो वापि जर्जरः ।
वेणुरेव 7भवेच्छ्रेष्ठस्तस्य वक्ष्यामि लक्षणम् ।। १७५ ।।

श्वेतभूम्यां तु यो जातः पुष्यनक्षत्रजस्तथा ।
संग्राह्यो 8वै भवेद्वेणुर्जर्जरार्थे9 प्रयत्नतः ।। १७६ ।।

10प्रमाणमङ्गुलानां तु शतमष्टोत्तरं भवेत् ।
पञ्चपर्वा चतुर्ग्रन्थिस्तालमात्रस्तथैव च ।। १७७ ।।

स्थूलग्रन्थिर्न कर्तव्यो न शाखी न च कीटवान् ।
न 11कृमिक्षतपर्वा च न हीनश्चान्यवेणुभिः ।। १७८ ।।

12मधुसर्पिस्सर्षपाक्तं माल्यधूपपुरस्कृतम् ।
उपास्य विधिवद्वेणुं 13गृह्णीयाज्जर्जरं प्रति ।। १७९ ।।

Abh

लोहादिनिर्मितत्वमप्यूह्यते । तच्च तस्मान्नाट्योपयोगरूपमूहापोहाभ्यां कर्तव्यमिति । लक्षणानीति (लक्षणैरिति ?) विश्वकर्ममते बहुभेदं महेन्द्रध्वजस्य लक्षणमुक्तमित्यर्थः । न हीनश्चेति अन्यवेणुसंघर्षेऽपूर्णोऽवयवतः स नेष्यत इत्यर्थः ।

Notes

1यो विधिर्यः क्रमश्चैव माहेन्द्रे तु ध्वजे स्मृतः ।
स जर्जरस्य2 कर्तव्यः 3पुष्यवेणुसमाश्रयः ।। १८० ।।

भवेद्यो 4दीर्घपर्वा तु तनुपत्रस्तथैव च ।
पर्वाग्र5तण्डुलश्चैव पुष्यवेणुः 6स कीर्तितः ।। १८१ ।।

विधिरेष7 मया प्रोक्तो जर्जरस्य प्रमाणतः8 ।
अत ऊर्ध्वं9 प्रवक्ष्यामि दण्डकाष्ठस्य लक्षणम् ।। १८२ ।।

10कपित्थबिल्ववंशेभ्यो दण्डकाष्ठं भवेदथ11 ।
12वक्रं चैव हि कर्तव्यं13 त्रिभागे लक्षणान्वितम् ।। १८३ ।।

कीटैर्नोपहतं यच्च व्याधिना न च14 पीडितम् ।
मन्दशाखं भवेद्यच्च दण्डकाष्ठं तु तद्भवेत् 15 ।। १८४ ।।

यस्त्वेभिर्लक्षणैर्हीनं दण्डकाष्ठं सजर्जरम् ।
कारयेत्स त्वपचयं महान्तं प्राप्नुयाद्ध्रुवम् ।।16 १८५ ।।

17अथ शीर्षविभागार्थं 18घटी कार्या प्रयत्नतः19 ।

Abh

पुष्यवेणुं व्याचष्टे भवेद्वेणुदींर्घपर्वेति लक्षणेन लेखा शीर्षविभागा इति यत्र द्विशिरास्त्रिशरा इत्यादि दृश्यते, यत्र वा

Notes

स्वप्रमाणविनिर्दिष्टा द्वात्रिंशत्यङ्गुलानि वै1 ।। १८६ ।।

बिल्वमध्येन2 कर्तव्या घटी 3सिरसमाश्रया ।
स्विन्नेन बिल्वकल्केन द्रवेण च समन्विता4 ।। १८७ ।।

भस्मना वा तुषैर्वापि कारयेत्प्रतिशीर्षकम्5 ।
6संछाद्य तु ततो वस्रैर्बिल्वदिग्धैर्घटाश्रयैः ।। १८८ ।।

बिल्वकल्केन चीरं तु दिग्ध्वा संयोजयेद्घटीम् ।
न स्थूलां 7नानतां तन्वीं दीर्घां चैव न कारयेत् ।। १८९ ।।

8तस्यामातपशुष्कायां सुशुष्कायामथापि वा ।8a
छेद्यं बुधाः प्रकुर्वन्ति विधिदृष्टेन कर्मणा ।। १९० ।।

सुतीक्ष्णेन तु शस्त्रेण अर्धार्धं प्रविभज्य च ।
स्वप्रमाणविनिर्दिष्टं 9ललाटकृतकोणकम् ।। १९१ ।।

अर्धाङ्गुलं ललाटं तु कार्यं छेद्यं षडङ्गुलम् ।

Abh

निजशिर एवाच्छाय शिरोऽन्तरं प्रदर्श्यते । प्रतिपादप्रतिहस्तादेष एव कल्पः । बिल्वस्य मध्यमज्जा सिरश्च वृक्षत्वगादिः । कथं सा कर्तव्येत्याह स्विन्नेनेति भस्मना तुषचूर्णेन वा सुसमाहिता छादितच्छिद्रेत्यर्थः । न स्थूलामिति गुरुत्वभयात् । नानतामिति पेलवात्, छेद्यमित्यवयवच्छिद्रोत्पादनार्थम् ।

Notes

अर्धार्धमङ्गुलं छेद्यं 1कटयोद्व्यङ्गुलं2 भवेत् ।। १९२ ।।

कटान्ते कर्णनालस्य3 छेद्यं 4द्व्यधिकमङ्गुलम् ।
5त्र्यङ्गुलं कर्णविवरं6 7तथा स्याच्छेद्यमेव हि ।। १९३ ।।

8ततश्चैवावटुः कार्या सुसमा द्वादशाङ्गुला ।
9घट्यां ह्येतत्सदा च्छेदे 10विधानं विहितं मया ।। १९४ ।।

11तस्योपरिगताः12 कार्या मुकुटा बहुशिल्पजाः13 ।
नानारत्नप्रतिच्छन्ना 14बहुरूपोपशोभिताः ।। १९५ ।।

तथोपकरणानीह नाट्ययोगकृतानि वै 15 ।
16बहुप्रकारयुक्तानि कुर्वीत प्रकृतिं प्रति ।। १९६ ।।

यत्किंचिदस्मिन् लोके तु17 18चराचरसमन्विते ।
विहितं कर्म शिल्पं वा 19तत्तूपकरणं स्मृतम् ।। १९७ ।।

यद्यस्य 20विषयं प्राप्तं तत्तदेवाभिगच्छति ।
नास्त्यन्तः पुरुषाणां हि नाट्योपकरणाश्रये ।। १९८ ।।

Abh

अवटुरिति कर्णशष्कुली ।

Notes

यद्येनोत्पादितं कर्म शिल्पयोग1क्रियापि वा ।
2तस्य तेन कृता सृष्टिः प्रमाणं लक्षणं तथा ।। १९९ ।।

या 3काष्ठयन्त्रभूयिष्ठा कृता सृष्टिर्महात्मना4 ।
5न सास्माकं नाट्ययोगे कस्मात्खेदावहा हि सा ।। २०० ।।

यद्द्रव्यं जीवलोके तु नानालक्षणलक्षितम्6 ।
तस्यानुकृतिसंस्थानं नाट्योपकरणं भवेत् ।। २०१ ।।

प्रासाद7गृहयानानि नानाप्रहरणानि च ।
8न शक्यं तानि वै कर्तुं यथोक्तानीह लक्षणैः ।। २०२ ।।

लोकधर्मी भवेत्त्वन्या नाट्यधर्मी तथापरा9 ।
10स्वभावो लोकधर्मी तु 11विभावो नाट्यमेव हि ।। २०३ ।।

12आयसं तु न कर्तव्यं 13न च सारमयं तथा ।
नाट्योपकरणं तज्ज्ञैर्गुरुखेदकरं भवेत्14 ।। २०४ ।।

15काष्ठचर्मसु वस्त्रेषु 16जतुवेणुदलेषु च ।

Abh

महात्मनेति विश्वकर्मणा । विभाव इति भावनामात्रमित्यर्थः ।

Notes

नाट्योपकरणानीह लघुकर्माणि1 कारयेत् ।। २०५ ।।

चर्मवर्म2ध्वजाः शैलाः प्रसादा 3देवतागृहाः ।
हयवारणयानानि विमानानि गृहाणि च4 ।। २०६ ।।

पूर्वं वेणुदलैः कृत्वा 5कृतीर्भावसमाश्रयाः ।।
6ततः सुरङ्गैराच्छाद्य वस्त्रैः सारूप्यमानयेत् ।। २०७ ।।

अथवा यदि 7वस्त्राणामसान्निध्यं भवेदिह8 ।
9तालीयैर्वा किलिञ्जैर्वा श्लक्ष्णै10र्वस्त्रक्रिया भवेत् ।। २०८ ।।

11तथा प्रहरणानि स्युस्तृणवेणुदलादिभिः ।
जतुभाण्डक्रियाभिश्च नानारूपाणि नाटके ।। २०९ ।।

12प्रतिपादं प्रतिशिरः प्रतिहस्तं प्रतित्वचम् ।
तृणैः किलिञ्जैर्भाण्डैर्वा 13सारूप्याणि तु कारयेत् ।। २१० ।।

Abh

लघुकर्माणीति येषु क्रियमाणेषु लाघवेन क्रिया संपद्येत ।
तालीयैरिति तालपत्रैः । भाण्डैरिति अलाबुदलखङ्गादिभिः ।

Notes

1यद्यस्य सदृशं रूपं सारूप्यगुणसंभवम् । 2aमृण्मयं 2तत्तु कृत्स्नं तु नानारूपं तु कारयेत् ।। २११ ।।

3*भाण्डवस्त्रधूच्छिष्टैर्लाक्षयाभ्रदलेन च ।
4नागास्ते विविधाः कार्या ह्यतसीशणबिल्वजैः5 ।। २१२ ।।

नानाकुसुमजातीश्च6 फलानि विविधानि च ।
भाण्डवस्त्रमधूच्छिष्टैर्लाक्षया वापि कारयेत् ।। २१३ ।।

भाण्डवस्त्रमधूच्छिष्टैस्ताम्रपत्रैस्तथैव च ।
7सम्यक्च नीलीरागेणाप्यभ्रपत्रेण चैव हि ।। २१४ ।।

रञ्जितेनाभ्रपत्रेण 8मणीश्चैव प्रकारयेत् ।
9उपाश्रयमथाप्येषां शुल्बवङ्गेन10 कारयेत् ।। २१५ ।।

विविधा मकुटा दिव्याः11 पूर्वं ये गदिता मया ।
12तेऽभ्रपत्रोज्ज्वलाः कार्या 13मणिव्यालोपशोभिताः ।। २१६ ।।

Abh

मधूच्छिष्टं सित्क्थक म्

Notes

न शास्त्रप्रभवं कर्म 1तेषां हि समुदाहृतम् ।
2आचार्यबुद्ध्या कर्तव्यमूहापोहप्रयोजितम्3 ।। २१७ ।।

4एष मर्त्यक्रिया5योगो 6भविष्यत्कल्पितो7मया ।
8कस्मादल्पबलत्वं हि 9मनुष्येषु भविष्यति ।। २१८ ।।

10मर्त्यानामपि नो शक्या विभावाः11 सर्वकाञ्चनाः ।
नेष्टाः सुवर्णरत्नैस्तु12 मुकुटा भूषणानि वा13 ।। २१९ ।।

युद्धे नियुद्धे नृत्ते वा वृष्टिव्यापारकर्मणि ।
गुरुभावावसन्नस्य 14स्वेदो मूर्छा च जायते ।। २२० ।।

15स्वेदमूर्छाक्लमार्तस्य प्रयोगस्तु विनश्यति ।
प्राणात्ययः कदाचिच्च भवेद्वयायतचेष्टया16 ।। २२१ ।।

17तस्मात्ताम्रमयैः पत्रै18रभक्रै रञ्जितैरपि ।
भेण्डैरपि मधूच्चिष्टैः कार्याण्याभरणानि तु19 ।। २२२ ।।

एवं लोकोपचारेण स्वबुद्धिविभवेन च ।
नाट्योपरकरणानीह बुधः सम्यक् प्रयोजयेत् ।। २२३ ।।

Notes

1न भेद्यं नैव च च्छेद्यं न प्रहर्तव्यमेव च ।
रङ्गे प्रहरणैः कार्यं संज्ञामात्रं तु कारयेत् ।। २२४ ।।

2अथवा योगशिक्षाभिर्विद्यामायाकृतेव वा2a ।
शस्त्रमोक्षः प्रकर्तव्यो रङ्गमध्ये प्रयोक्तृभिः ।। २२५ ।।

3एवं नानाप्रकारैस्तु आयुधाभरणानि च ।
नोक्तानि यानि च मया लोकाद्4 ग्राह्याणि तान्यपि ।। २२६ ।।

आहार्याभिनयो ह्येष मया प्रोक्तः समासतः ।
अत ऊर्ध्वं5 प्रवक्ष्यामि सामान्याभिनयं प्रति ।। २२७ ।।

इति भारतीये नाट्यशास्त्रे आहार्याभिनयो नामैकविंशोऽध्यायः6 ।*6a

Abh

सुधामकोक्ता विद्या हस्तलाघवादि माया चक्षुर्बन्धादिका । एनमध्यायमुपसंहर (न्नाभिनये वक्तव्यशेषमा)सूत्रयति आहार्याभिनयो ह्येष इति शिवम् ।

आहार्याभिनयाध्याये वृत्तिरेषा यथाक्रमम् ।
कृताभिनवगुप्तेन ग्रन्थिस्थानेषु तत्त्वतः ।।

इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावाभिनवभारत्यामाहार्या– भिनयाध्याय एकविंशः ।

Notes