२० वृत्तिविकल्पनम्

श्रीरस्तु

श्रीगणपतये नमः

नाट्यशास्त्रम्

विंशोऽध्यायः1

(वृत्तिविकल्पनम्)

वृत्त्यध्यायः

समुत्थानं तु वृत्तीनां व्याख्यास्याम्यनुपूर्वशः ।
यथा वस्तूद्भवं चैव काव्यानां च2 विकल्पनम् ।। १ ।।

Abh

अभिनवभारती–विंशोऽध्यायः

वृत्त्यध्यायः

निश्शेषशब्दव्यवहारवृत्ति1 वैचित्र्यमभ्येति यतः प्रतिष्ठाम् ।
श्रोत्रात्मकं तत्परमेश्वरस्य वन्देतमां रूपमरूपधाम्नः ।।

वृत्तिभेदात्काव्यभेदा भवन्तीत्युक्तं दशरूपकारम्भे (१८–५) । तत्र वृत्तयो न ज्ञाता इति तदवधारणार्थमाह समुत्थानं त्विति

यद्यपि कायवाङ्मनसां चेष्टा एव सह वैचित्र्येण वृत्तयःताश्च समस्तजीवलोकव्यापिन्योऽनिदंप्रथमतावृत्ताः प्रवाहेन वहन्ति, तथापि विशिष्टेन हृदयावेशेन युक्ता वृत्तयो नाट्योपकारिण्यः । आवेशश्च तारतम्यलक्षणो द्विधा लौकिकोऽन्यश्च । तत्र लौकिक आवेशः सुखदुःखतारतम्यकृतो न रसागमास्वाद्यो2 ह्यसावित्युक्तं रसाध्याये (अ ६)। अलौकिकस्त्वनावेशोऽप्यावेशमयः कवेरिव सामाजिकस्येव । क्काप्यवसरे हृदयसंवादसरसस्यैव यो

Notes

1 जादिबान्तेषु द्वाविंशोऽध्यायः, चयट N - एकविंशोऽध्यायः – एकोनविंशोऽध्यायः

एकार्णवं जगत् कृत्वा 1aभगवानच्युतो यदा1 ।
शेते2a स्म 2नागपर्यङ्के लोकान्3 संक्षिप्य4 मायया ।। २ ।।

अथ वीर्य5 5aबलोन्मत्तावसुरौ मधुकैटभौ ।
6तर्जयामासतुर्देवं तरसा युद्धकाङ्क्षया7 ।। ३ ।।

8निजबाहू 8aविमृद्नन्तौ भूतभावनमक्षयम् ।
जानुभिर्मुष्टिभिश्चैव 9योधयामासतुः प्रभुम् ।। ४ ।।

10बहुभिः परुषैर्वाक्यैरन्योन्यसमभिद्रवम्11 ।
12नानाधिक्षेपवचनैः कम्पयन्ताविवोदधिम्13 ।। ५ ।।

Abh

भासते स एव साधारणे चमत्कारगोचर1 व्यापारविशेषो रसस्योपकारिणीभवति । तादृशश्च प्रथमतः कृतयुगारम्भे भगवतो वासुदेवस्यैव । तस्य हि स्वफलसिद्धये न किंचित् कर्तव्यमस्ति लोकानुग्रहं मुक्त्वा2 । यथा हि “न मे पार्थास्ति3 कर्तव्यं (गीता ३ –२२)” इति तेन साधारणस्य भावेन प्रविष्टानावेशेऽप्यावेशमयो, भगवानेव प्रथमतो नान्यः, पूर्वसर्गगामिनो व्यापारस्य प्रलयमहारजनीप्रस्तावेन भ्रष्टसंसारत्वात् । अत एवाह–

एकार्णवं जगत्कृत्वा भगवानच्युतो यदा ।
शेते स्म नागपर्यङ्के लोकान् संक्षिप्य मायया ।। इति ।

Notes

1a. N. भगवानुत्थितः पुरा 1 ढ–यथा 2a. N. सुप्तवान् नागशयने

1तयोर्नानाप्रकाराणि वचांसि2a वदतोस्तदा2 ।
3श्रुत्वा त्वभिहतमना द्रुहिणो वाक्यमब्रवीत् ।। ६ ।।

4किमिदं भारतीवृत्तिर्वाग्भिरेव प्रवर्तते5 ।
उत्तरोत्तरसंबद्धा6 नन्विमौ निधनं नय ।। ७ ।।

पितामहवचः श्रुत्वा प्रोवाच मधुसूदनः ।

Abh

त्रेतायुगे च नान्यं प्रपत्स्यति । यद्यपि चादिकविर्वाल्मीकिरि1ति प्रवादस्तथापि प्रलयानन्तरं कृतयुगे भाविनि सन्ध्यवसरप्रतिबन्धदर्पदलनजनितविघ्नापसरण2पुरस्सरसृष्टिसम्पत्तौ चिरेण वाल्मी किमुनेः प्रादुर्भावो भविष्यतीति साधारण्याशयेनैव च भगवानेव वृत्तीनां3 स्रष्टोक्तः न तौ तु मधुकैटभौ, तयोरावेशेन लौकिकेन व्याप्तत्वात्4, उद्रिक्ततमतमस्सन्तानितस्वांतत्वेनाविद्यामयत्वात् । विद्यावकाशवशविकसित– हृदयकमलपरिमलरूपत्वाच्च, आनन्दसारस्य रसोपयोगिनो व्यापारानावेशस्य भगवत्येव सम्भावनं न तु दैत्ययौः । अत एवाह किमिदं भारतीवृत्तिर्भगवन् वाग्भिरेव प्रवर्तते इति भगवतेत्यनेन ह्युक्तं, भगवानेन हि वृत्तीनां प्रवर्तयिता नटवदनावेशदर्शनात्, न तु मधुकैटभौ (तयोः) लौकिके चैव स्यादिति । द्रुहिणोऽभिहतमना वाक्यमब्रवीदित्यनेन प्रेक्षकत्वं ब्रह्मणः प्रदर्शयन् सामाजिकहृदये विश्रान्तिप्राधान्यं वृत्तीनामाह । तन्निष्ठत्वाद्रसचर्वणाया वाक्यग्रहणेन कार्यद्वारको वृत्तीनां नाट्योपयोग इति सूचयति वाग्भिरेवेति । वाचिकप्राधान्ये भारतीवृत्तिः । भारतीशब्देन हि वागुच्यत इति कार्यहेतोरित्युक्तं तत्कार्यं दर्शयति वदतामिति

Notes

1कार्य (काव्य?) हेतोर्मया ब्रह्मन् भारतीयं विनिर्मिता ।। ८ ।।

2वदतां वाक्यभूयिष्ठा भारतीयं भविष्यति ।
3तस्मादेतौ निहन्म्यद्येत्युवाच वचनं हरिः ।। ९ ।।

4शुद्धैरविकृतैरङ्गैः साङ्गहारैस्तथा5 भृशम् ।
योधयामासतुर्दैत्यौ 6युद्धमार्गविशारदौ ।। १० ।।

भूमिसंयोगसंस्थानैः 7पदन्यासैर्हरेस्तदा8 ।
अतिभारोऽभवद् भूमेर्भारती तत्र9 निर्मिता ।। ११ ।।

वल्गितैः 10शार्ङ्गधनुष11स्तीव्रैर्दीप्ततरैरथ ।
12सत्त्वाधिकैरसंभ्रान्तैः सात्त्वती तत्र निर्मिता13 ।। १२ ।।

Abh

कवीनामिति यावत् । 1शुद्धैरिति स्वोत्प्रेक्षितवैचित्र्यशून्यैः । अङ्गानां हारान्नयतामिति भृशं युद्धमार्गे विशारदाविति संबन्धः । भूमिसंयोगेन संस्थान उद्धटि(ट्टि !)तसङ्कुचितादिरूपं येषां, पदन्यासानां न्यस्यमानानां पदानाम् । अतिभार इत्यक्षरसाम्यादपि निर्वचनं दर्शयन् नटव्यापारयोगेऽपि आन्तरविकल्पात्मकाभिः (वाग्भिः) संजल्पबाहुल्ये भारत्येव वृत्तिरिति दर्शयति । सत्त्वाधिकैरिति मनोव्यापाराधिक्ये सात्त्वतीवृत्तिरित्याह सत् सत्त्वरूपं विद्यते येषां तत्त्वं तेषामयमिति । सत्त्वं च तत्र परिच्छिद्रान्वेषणोपा–

Notes

1विचित्रैर1aङ्गहारैस्तु देवो 2लीला2aसमन्वितैः3 ।
बबन्ध 4यच्छिखापाशं कैशिकी तत्र निर्मिता ।। १३ ।।

संरम्भावेगबहुलैर्नानाचारी5समुत्थितैः ।
नियुद्धकरणैश्चित्रै6रुत्पन्नारभटी ततः ।। १४ ।।

यां यां देवः समाचष्टे क्रियां7a वृत्तिषु संस्थिताम्7 ।

Abh

यमप्रतिता(?) न वैचित्र्योत्प्रेक्षणप्रकाशलाघवात्मकं, अत एवाह विचित्रैरिति । स्वोत्प्रेक्षितेन हिं वैचित्र्येण विना कथं युद्धविशारदौ जय्यौ स्यानाम्, द्वयोर्ह्येकागमानुसन्धानेन युध्यमानयोः सम्बुद्धिकयोः1 कस्य जयः कस्य पराजयो वा भवेदिति, शिखापाशं पट्टबन्धम्, तुर्हेतौ श्रृङ्गारस्थानलक्ष्मीसम्भोगादिस्मरणात्, लीलया विलासेन अन्वयः शिखापाशमयेन आबध्योदासीनो वर्तत इति । चारीभिः प्रायेण निश्शङ्कं प्रवर्तमानौ दैत्यौ सुखं निपात्येते मय्येव परिश्रमापनयनं सम्पद्यत इति । देव इति लोकवदनाविष्टः । यां यामिति वीप्सया सर्वैव क्रिया वृत्तिचतुष्टयव्याप्तेत्याह । न हि2 वाङ्मनश्चेष्टातोऽतिरिक्तकर्मास्ति3 । न च क्रियाशून्यः कश्चिदप्यंशोऽस्ति । मूर्छामोहमरणादावपि सूक्ष्मप्राणपरिस्पन्दाद्यनुमेयसञ्चितपरिस्पन्दसम्भावना । मृतस्तु ताम्रपाषाणप्रख्यो न तस्य वृत्तिकथनेन किंचित्स्वपरम्, अन्यस्य शोकादिविभावनां प्रतिपाद्यमानः काव्याङ्गतामेति स च तदानीं करुणादिरसाक्रान्तः काव्ये व्यावर्णनीयो भवति । रसभावपर्यवसितो हि सर्वः कार्य4 (? काव्य) संदर्भः रसभावाश्च चेतनेष्वेव, तेषु च न5 व्यापारत्रयशून्यः 6कश्चिदपि 7काव्यांशोऽस्ति ।

Notes

तां तदर्थानुगै 1र्जप्यैर्द्रुहिणः प्रत्यपूजयत् ।। १५ ।।

यदा हतौ तावसुरौ हरिणा मधुकैटभौ ।1a*
2ततोऽब्रवीत् पद्मयोनिर्नारायणमरिन्दमम् ।। १६ ।।

अहो3 विचित्रैर्विषमैः स्फुटैः 3aसललितैरपि ।
अङ्गहारैः कृतं देव 4त्वया दानवनाशनम् ।। १७ ।।

5aतस्मादयं5 हि लोकस्य नियुद्धसमयक्रमः6 ।
सर्वशस्त्रविमोक्षेषु7 न्यायसंज्ञो भविष्यति ।। १८ ।।

Abh

तेन पञ्च वृत्तयो द्वे वृत्ती इत्यादयोऽसंविदितभरताभिप्रायपण्डितसहृदयम्मन्यपरिकल्पितमद्भावाः प्रवादा निरस्ता भवन्ति । एतच्च पूर्वमेवास्माभिः प्रदर्शितम् ।

जप्यैरिति भक्त्यावेशमात्रवृत्तिं च दर्शयन् कवेर्मुख्यं रसाधिष्ठत्वमेव रूपं विस्तारणात्मकवर्णनाप्राधान्यं चेति दर्शयति । (विषमैः) 1 शस्त्रागममार्गात्मनागम्यप्रकारैः(अद्भु)तैरपि, तथा स्फुटैरपि सर्वलक्षणप्रसिद्धैरपि चित्रैः स्वार्थोत्प्रेक्षितवैचित्र्यवद्भिः सललितैरिति लोचनागोचरवर्तित्वेनातिभ्रम्यैरित्यर्थः । अय2मिति भवदुपज्ञातवैचित्र्यबृंहित इत्यर्थः । नियुद्धसमयचक्र इति समयग्रहणेन वैचित्र्ययोगेऽपि शस्त्रागमापरित्यागमाहा क्रमः परिक्रमणं क्रमो वा शत्रुविक्रमणयोगे गतागतस्य निभृतं शस्त्रादिशून्यं युद्धं नियुद्धं मल्लयुद्धं, तद्गतमपि यदेतद्रूपं तदुत्प्रेक्ष्य वैचित्र्ययोगात्सर्वेषु शास्त्रास्त्रयुद्धेष्वप्युपयोगि भविष्यति । विमोक्षग्रहणात् क्षेप्तव्यकुन्तचक्रादिविषयत्वमेव केचिदाहुः ।

Notes

1न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः ।
यस्माद्युद्धानि वर्तन्ते2 तस्मान्न्यायाः प्रकीर्तिताः3 ।। १९ ।।

4[चारीषु च समुत्पन्नो नानाचारीसमाश्रयः ।
न्यायसंज्ञः कृतो ह्येष द्रुहिणेन महात्मना] ।। २० ।।*

5[ततो वेदेषु निक्षिप्ता द्रुहिणेन महात्मना ।
5aपुनरिष्वस्त्रजाते च नानाचारीसमाकुले6 ।। २१ ।।*

[ऋग्वेदाद्भारती क्षिप्ता यजुर्वेदेच सात्त्वती ।
आथर्वणे चारभटी सामवेदे च कैशिकी]6a ।। २१a ।।

पुनर्नाट्यप्रयोगेषु7 नानाभावसमन्विताः8 ।
वृत्तिसंज्ञाः कृता ह्येताः काव्यबन्धसमाश्रयाः9 ] ।। २२ ।।*

Abh

तच्चासत्, क्षिपेः, पातमात्रपर्यवसायिनः खङ्गादियुद्धेष्वप्यप्रतिहतार्थयुक्तत्वात् । नायशब्दनिर्वचनमाङ्गिकाभिनयनिरूपणायां कृतं स्मारयति न्यायाश्रितैरिति एतच्च तत्रैव व्याख्यतम् ।*

एवं वृत्तीनामुत्पत्तिर्व्याख्याता । आसामेव नाट्यं प्रत्यवतारणं कर्तुमाह चरितैर्यस्येति भगवद्विश्चचरितैर्गर्भाधेयभूतैः उपलक्षितं यत् पूर्वं ब्रह्मणा जप्यं स्तोत्रकाव्यरूपं कृतं, तादृशं

Notes

1चरितैर्यस्य देवस्य जप्यं2 यद्यादृशं कृतम् ।
2aऋषिभिस्तादृशी वृत्तिः कृता पाठ्यादिसंयुता3 ।। २३ ।।

नाट्यवेदसमुत्पन्ना वागङ्गाभिनयात्मिका ।
मया काव्यक्रियाहेतोः प्रक्षिप्ता द्रुहिणाज्ञया ।। २४ ।।

4ऋग्वेदाद्भारती क्षिप्ता5 यजुर्वेदाच्च6 सात्त्वती ।
7कैशिकी7a सामवेदाच्च शेषा चाथर्वणादपि8 ।। २५ ।।

Abh

भावादिचेष्टाप्रधानं, तादृश्येव वृत्तिः । ऋषिभिः ब्रह्मपुत्रैः पाठ्यादिभिः सम्यग्युक्ता1 कृता अनुसृता । तद्यथा पाठ्यप्रधाना भारती, अभिनयप्रधाना सात्त्वती, अनुभावाद्यावेश[स]मयरसप्रधानारभटी, गीतवाद्योपरञ्जकप्रधाना कैशिकीति । अत एव वक्ष्यति ऋग्वेदाद्भारतीत्यादि नाट्यवेदोत्पत्तौ प्रथमाध्याये व्याख्याता या सा । द्रुहिणाज्ञा कैशिकीमपि योजय (१–४२) इत्यादिका या तया । काव्यस्य क्रिया काव्यरूपतापादनं, तदेव हेतुः, ततः । प्रकर्षेण क्षिप्ता येनाभिनेयानभिनेयकाव्यवैलक्षण्यमित्यर्थः ।

ननु भगवता वासुदेवेनाप्यंशावताररूपत्वात्संभाव्य*

Notes
  • ‘रूपत्वसंभाविताः काव्यक्रियोदये मुनिना’ इति स्यात्

या वाक्प्रधाना 1पुरुषप्रयोज्या
स्त्रीवर्जिता संस्कृतपाठ्ययुक्ता ।
स्वनामधेयैर्भरतैः प्रयुक्ता
सा भारती नाम भवेत्तु वृत्तिः2 ।। २३ ।।

भेदास्तस्यास्तु विज्ञेयाश्चत्वारोऽङ्गत्वमागताः ।

Abh

अथासां परस्परसङ्कीर्णतया लक्ष्ये (बहुरूपतां) वहन्तीनां यत्र यत्प्राधान्येनान्यतमरूपावभासनं तत्प्रदर्शयितुमुत्तरो ग्रन्थः । (वाङ्मनःकायचेष्टांशेषु) न ह्येकोऽपि कश्चिच्चेष्टांशोऽस्ति । कायचेष्टा अपि हि मानसीभिः सूक्ष्माभिश्चवाचिकीभिश्चेष्टाभिर्व्याव्यन्त एव । “न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते” (वाक्यपदीयं १–१२४) इति न्यायात् , मानस्यपि वाचिक्यपि1 चेष्टा अवश्यं सूक्ष्मं काल(य ?) परिस्पन्दमन्दप्राणव्यापाररूपं नाभि(ति?)वर्तते । तदुक्तम्–

अर्थक्रियासु वाक् सर्वान् समीहयति देहिनः2 ।
तदुत्क्रान्तौ विसंज्ञोऽयं दृश्यते काष्ठकुड्यवत् ।। (सङ्ग्रहः*)

3न च रसोपयोगिलालित्यभागशून्यः कोऽपि नाट्ये परिस्पन्द इत्यन्योन्यं संवलिता वृत्तयः केवलं क्कचित्किं चिदधिकमिति प्राधान्येन व्यपदेशः परिवर्तते ।

तत्र भारत्याः प्राधान्यं दर्शयति या वाक्प्रधानेतिस्त्रीवर्जितेति कैशिकीप्राधान्यावकाशं गमयति । संस्कृतेति वचसा प्राकृतपाठ्यलालित्यात् कैशिकीमवश्यमाक्षपेदिति सूचयति । भरतैरिति नटैः स्वतो वंशकरं नामधेयं येषां (तैः), भरतसंतानत्वात्तद्धितेभरताः । भेदा इति 4अस्यामित्यर्थोऽत्र न तु प्रकाराः, त्रैलोक्य व्यापिन्या हि भारत्याः कश्चिदंशः प्ररोचनारूपः, एवामुखस्वभाव इत्यादि । अत एवाह अङ्गत्वमिति अंशत्वं

Notes

प्ररोचनामुखं चैव वीथी प्रहसनं तथा ।। २७ ।।

जयभ्युदयिनी चैव मङ्गल्या विजयावहा ।
सर्वपापप्रशमनी पूर्वरङ्गे प्ररोचना ।। २८ ।।

1[उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया ।
सिद्धेनामन्त्रणा या तु विज्ञेया सा प्ररोचना] ।। २९ ।।

नटी विदूषको वापि2 पारिपार्श्विक एव वा3 ।
सूत्रधारेण सहिताः संलापं 4यत्तु कुर्वते ।। ३० ।।

चित्रैर्वाक्यैः) स्वकार्योत्थै5 र्वीथ्यङ्गैरन्यथापि वा 6 ।

Abh

प्राप्ता इत्यर्थः, अन्यथा यदि रूपकस्याङ्गत्वं प्राप्ता इत्युच्यते तदा वीथी प्रहसनं च रूपकभेदः, न तु रूपकस्याङ्गम् । तथा नाट्यस्याङ्गत्वं प्राप्तं (प्राप्ता ?) नाट्यमिति समुदायः । यदि वा एकैकमपि काव्यं दशरूपमित्युक्तं प्राक् । पूर्वरङ्ग इति तद्विषये, प्ररोचना पूर्वमुक्ता तत्र च कृते या प्ररोचना सा भारत्यंश इत्यर्थः ।

नटीत्यादिना आमुखं लक्षयति । वा शब्देन व्यस्तानां नटीप्रभृतीनां सूत्रधारेण सङ्घातमाह । अपिशब्देनात्मना समस्तानां, द्वितीयो वा शब्दः समस्तव्यस्ततां विकल्पयति । एवशब्दः सूत्रधारस्यावश्यंभावं दर्शयति । चित्रैरिति भाविरूपकार्थानुकूलविषयानुसारिभिः, स्वं कार्यं नटव्यापारं, वीथ्यङ्गैरिति श्लिष्टवक्रोक्तिप्रत्युक्तिप्रायैरित्यर्थः, यथा “पीताम्बरगुरुशक्त्या1 हरत्युषां प्रसभमनिरुद्धः” *इत्यादि । अन्यथेति

Notes

आमुखं तत्तु1a विज्ञेयं बुधैः1 प्रस्तावनापि वा ।। ३१ ।।

2[लक्षणं पूर्वमुक्तं तु वीथ्याः प्रहसनस्य च ।
आमुखाङ्गान्यतो वक्ष्ये यथावदनुपूर्वशः] ।। ३२ ।।

उद्धात्यकः कथोद्धातः प्रयोगातिशयस्तथा ।
प्रवृत्तकावलगिते पञ्चाङ्गान्यामुखस्य तु3 ।। ३३ ।।

Abh

स्पष्टोक्तिप्रत्युक्तिभिः, यथा नागानन्दे “नाटयितव्ये किमित्यकारणमेव रुद्यते” इत्यादि । आमुखमिति मुखसन्धेर्निवर्तते यतः, आङ्गर्यादायाम्, यदि वात्रामुखं प्रारम्भमीषन्मुखं वा प्रस्ताव्यतेऽनयेति (प्रस्तावना) बाहुलकेन तच्छीलसंज्ञायोरिति–……..निकारो न भवति । तत्र कदाचित्कार्याभिमुखं नीयते पूर्वरङ्गविधिः तदभिमुखं वा कार्यारम्भः तन्नीयते, सा द्विधेति (५–१८०) पूर्वरङ्गाध्याये दर्शितमस्माभिः । एवं च यदा स्थापको ऽपि सूत्राधारतुल्यगुणाकारो रामादिवदेव प्रयुज्यते तदेदं कविकृतमामुखं भवति ।

अन्ये त्वाहुः– पूर्वङ्गाध्यायेऽपि या प्रस्तावनोक्ता सापि भारतीभेद एवेति, किं द्वैविध्याभिधानप्रयासेना यत्तु “कुद्धो भीम इत एवाभिवर्तते तन्न युक्तमस्य पुरतोऽवस्थातुं” इत्यादि, तत्तदीयसत्त्वावेशादेवास्य प्रकाशनाय सामाजिकानां साक्षात्कारकल्पाध्यवसायसम्पत्त्यर्थं सूत्रधारेणोच्यते, शिशुसन्त्रासाय कयाचिदाकृत्या कश्चिदत्रस्यन्नपि त्राससंरम्भगर्भमाह “अयमागतो राक्षस:” इति, यथोक्तं भावाध्याये (७) “सत्त्वशुद्धा मूर्तव्याः” *इति एतच्च तत्रैव निर्णीतम् । तस्यामुखस्य पञ्चाङ्गानि भेदा इत्यर्थः ।

Notes

1a.N. तत्र

उद्धात्यकावलगितलक्षणं कथितं मया1 ।
शेषाणां लक्षणं विप्रा2 व्याख्यास्याम्यनुपूर्वशः ।। ३४ ।।

सूत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा ।
गृहीत्वा प्रविशेत्पात्रं3 कथोद्घातः स कीर्तितः4 ।। ३५ ।।

Abh

ननु एवं सति पञ्चानां युगपत्प्रयोगे प्रस्तावना प्रयुक्ता स्यात्, न चैतन्मुनेरभिमतम् । तथा हि वक्ष्यति–

एषामन्यतमं श्लिष्टं योजयित्वार्थयुक्तिभिः ।
पात्रग्रन्थैरसम्बाधं प्रकुर्यादामुखं ततः ।। (२०–३८ प्रथमार्धः, ३९ प्रथमार्ध;)

इत्युद्देशे । यद्यपि पश्चादवलगितमुक्तं तथा तयोस्तुल्यं, लक्षणस्य पूर्वोक्तत्वमित्याशयेनाह उद्धात्यकावलगितयोर्लक्षणं कथितमिति वीथ्यङ्गव्याख्याने, यद्यपि च प्रस्तावनायामन्यान्यपि वीथ्यङ्गानि भवन्ति, आमुखसामान्यलक्षणेऽप्युक्तं वीथ्यङ्गैरिति, तथाप्युद्धात्यकमवलगितं च भाविकाव्यार्थप्रस्तावनेति बालरङ्गं (प्रस्तावने प्रबलमङ्गं ?), तथा तयोर्लक्षणम्–

पदानि त्वगतार्थानि ये नराः पुनरादरात् ।
योजयन्ति पदैरन्यैस्तदुद्धात्यकमुच्यते ।। (१८–११५)

यत्रान्यस्मिन् समावेश्य कार्यमन्यत्प्रसाध्यते ।
तच्चावलगितम् ।। इति (१८–११६) ।

वाक्यमिति, यथा–(रत्नावल्यां) “द्वीपादन्यस्मात्” (१.६) इति । वाक्यार्थं यथा प्रतिमानिरुद्धे– “पीताम्बरगुरुशक्त्या1 हरत्युषां” इति । केवलमात्र वीथ्यङ्गनिबद्धम् । कथा काव्यार्थरूपा, ऊर्ध्वमेव हन्यते गम्यते तत्रेति कथोद्धातः ।

Notes

प्रयोगे तु प्रयोगं तु1 सूत्रधारः प्रयोजयेत्2 ।
ततश्च प्रविशेत्पात्रं प्रयोगातिशयो हि सः ।। ३६ ।।

3कालप्रवृत्तिमाश्रित्य3a वर्णना या प्रयुज्यते4 ।
तदाश्रयाच्च5 पात्रस्य प्रवेशस्तत्प्रवृत्तकम् ।। ३७ ।।

6एषामन्यतमं श्लिष्टं 7योजयित्वार्थयुक्तिभिः8 ।
9[तस्मादङ्गद्वयस्यापि सम्भवो न निवार्यते] ।। ३८ ।।*

Abh

प्रयोग इति प्रस्तावनात्मके, प्रयोगमिति नाट्यात्मकं भावितम् । एकस्तुशब्दो भेदान्तरेभ्यो व्यतिरेकमाह, द्वितीयोऽवधारणे । सूत्रधार एव यत्र प्रयोगे प्रयोगं समुद्गककवाटयुगलवद्योजयति स प्रयोगद्वयश्लेषणात्प्रयोगातिशयः । यथा विक्रमोर्वश्याम् –अथ कुररीणामिवाकाशे शब्दः श्रूयते । आः ज्ञातम् –

ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री
कैलासनाथमुपनृत्य निवर्तमाना ।
बन्दीकृता विबुधवैरिभिरर्धमार्गे
क्रन्दत्यतः करुणमप्सरसां गणोऽयम् ।। (१.३) इति ।

यद1 कालप्रवृत्तिं कांचिदवलम्ब्य यथा सूत्रधारेण किञ्चिद्वस्तु वर्ण्यते तदा (प्र)श्रयेण च पात्रस्य प्रवेशः तत्कालप्रवृत्त्या स्वार्थोक्तत्वात् प्रवृत्तकम्, यथा “अस्यां शरदि–

Notes

1पात्रग्रन्थैरसंबाधं प्रकुर्यादामुखं ततः2 ।
एवमेतद्बुधैर्ज्ञेयमामुखं विविधाश्रयम् ।। ३९ ।।

3लक्षणं पूर्वमुक्तं तु वीथ्याः4 प्रहसनस्य च ।।

5[इत्यष्टार्धविकल्पा वृत्तिरियं भारती मयाभिहिता6 ।
7सात्त्वत्यास्तु विधानं लक्षणयुक्त्या प्रवक्ष्यामि] ।। ४० ।।

8या 9सात्त्वतेनेह गुणेन युक्ता
10न्यायेन वृत्तेन समन्विता च11 ।
12हर्षोत्कटा 13संहृतशोकभावा
सा सात्त्वती नाम भवेत्तु14 वृत्तिः ।। ४१ ।।

Abh

सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।’’ (वेणी. /१.९ प्रथमार्धः) इत्यादि पात्रग्रन्थैरसम्बाधमिति यत्र न भूयांसि पात्राणि अल्पपात्रेऽपि ग्रन्थबहुलत्वं तथारूपमामुखं कुर्यात् । विविधाश्रयमिति बहुभेदमित्यर्थः । पूर्वमुक्तमिति दशरूपकाध्याये ।

यद्यपि अभेदव्यतिरेकेणापि भारती (तो ?) (न्यायो) न दृश्यते तथापि न्यायेनेति तत्प्रकारचतुष्कं निरूपितम् (१०–७२) । सात्त्वतो गुणः मानसो व्यापारः । सत्सत्त्वं प्रकाशः तद्विद्यते यत्र तत्सत्त्वं मनः, तस्मिन् भवः ।

Notes

वागङ्गाभिनयवती सत्त्वोत्थान1वचनप्रकरणेषु ।
सत्त्वाधिकारयुक्ता विज्ञेया2a सात्त्वती वृत्तिः2 ।। ४२ ।।

वीराद्भुतरौद्ररसा3 निरस्तश्रृङ्गारकरुणनिर्वेदा4 ।
उद्धतपुरुषप्राया परस्पराधर्षणकृता च ।। ४३ ।।

5उत्थापकश्च परिवर्तकश्च सल्लापकश्च संघात्यः ।

Abh

सत्त्वोत्थानस्य सत्त्वाधारस्य, वचनं येषु प्रकरणेषु काव्यखण्डेषु, तेषु वागङ्गाभिनययुक्ता सती, सत्त्वस्य सात्त्विकाभिनयस्याधिकारे आधिक्यक्रियया सात्त्वतीवृत्तिर्युक्ता भवतीति सम्बन्धः ।

श्रृङ्गारे विषयनिमग्नं मनः, करुणे कान्दिशीकं, निर्वेदे मूढमिति तद्व्यापारो भवन्नपि क्रोधविस्मयोत्साहेष्विव न सातिशयं परिस्फुरतीति दर्शयति वीराद्भुतरौद्ररसेति । आधर्षणं वाचा न्यक्कारः । उत्थापयति यो मानसः परिस्पन्दः स तावदुत्थापकः तत्सूचको 1व्यापारक्रम उपचारः,तथोक्तः । तथा वेणीसंहारे भीमः –भो भोः श्रृण्वन्तु भवन्तः –

स्पृष्टा (कृष्टा)येनशिरोरुहेषु पशुना पाञ्चालराजात्मजा
येनास्याः परिधानमप्यपहृतं राज्ञां कुरूणां पुरः ।
यस्योरःस्थलशोणितासवमहं पातुं प्रतिज्ञातवान्
सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां: कौरवाः ।। ३.४७) इति ।

परिवर्तको यथा – तत्रैव भीमः –सहदेव गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यस्त्रागारं प्रविश्यायुधसहायो भवामि ।

सहदेवः –आर्य, नेदमायुधागारम्, पाञ्चाल्याश्चतुश्शालमिदम्
भीमः –किं नामेदं (इत्यादि यावत्) अथवा मन्त्रयितव्यैव मया पाञ्चाली । इति

Notes

चत्वारोऽस्या भेदा विज्ञेया नाट्यतत्त्वज्ञैः ।। ४४ ।।

अहमप्युत्थास्यामि त्वं तावद्दर्शयात्मनः शक्तिम् ।
इति 1संघर्षसमुत्थस्तज्ज्ञैरुत्थापको ज्ञेयः ।। ४५ ।।

उत्थानसमारब्धानर्थानुत्सृज्य योऽर्थयोगवशात्2 ।
अन्यानर्थान् भजते स चापि परिवर्तको ज्ञेयः ।। ४६ ।।

[3निर्दिष्टवस्तुविषयः प्रपञ्चबद्धस्त्रिहास्यसंयुक्तः ।
4संघर्षविशेषकृतस्त्रिविधः परिवर्तको ज्ञेयः] ।। ४७ ।।

5साधर्षजो निराधर्षजोऽपि वा 6रागवचनसंयुक्तः ।
7साधिक्षेपालापो ज्ञेयः सल्लापकः सोऽपि ।। ४८ ।।

Abh

अस्त्रागारप्रवेशपरित्यागेन पाञ्चालीदर्शनात्मककार्यान्तरसम्पादको मानसो व्यापारः परिवर्तयति कार्यमिति, परिवर्तकवचनं तूपचारारूढम्1 । एवमुत्तरत्रापि ।

सह(आ)धर्षणेन यद्वाक्यं (साधर्षं) तद्विरहितं निराधर्षं, तेन खलीकारकाद्वचनादन्यतोऽपि वा सत्, अनन्तरमधिक्षेपं वचनमभिभावकं2 मानसं कर्मं तत्सल्लापकशब्दवाच्यम् । यथा–

अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा
स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा । (वेणी. ३–११) इत्यत्र सत्यवाचेति ।

Notes

[1धर्माधर्मसमुत्थं यत्र भवेद्रागदोषसंयुक्तम् ।
साधिक्षेपं च वचो2 ज्ञेयः संलापको नाम] ।। ४९

3मन्त्रार्थ4वाक्यशक्त्या दैववशादात्मदोषयोगाद्वा5 ।
संघातभेदजननस्तज्ज्ञैः संघात्यको6 ज्ञेयः ।। ५० ।।

[7बहुकपटसंश्रयाणां परोपघाताशयप्रयुक्तानाम् ।
कूटानां संघातो 8विज्ञेयः कूटसंघात्यः9] ।। ५१ ।।

इत्यष्टार्धविकल्पा वृत्तिरियं सात्त्वती मयाभिहिता ।
कैशिक्यास्त्वथ10 लक्षणमतःपरं संप्रवक्ष्यामि ।। ५२ ।।

Abh

(सङ्घातभेदजनन इति) सङ्घातस्य भेदं जनयति यो युधि स सङ्घात्यकः, सम्यक्घात्यः शत्रुवर्गो येन, सङ्घातविषयाद्वा सङ्घात्यकः, सङ्घातभेदश्च परेण सामाद्युपायबलेन वा क्रियते । यथा भीमो युधिष्ठिरेण साम्ना भेदितः, अतः शिखण्डिनं पुरस्कृत्य योद्धव्यश्च । दैवात्संपद्यते, यथा द्रोणेनोक्तं सुते हते शस्त्रं त्यक्ष्यामीति । आत्मदोषे वा स्वकटक1 लक्षणेन, यथा कर्णेन सह कलहायमानोऽश्वत्थामा शस्त्रत्यागं करोतीति । अत्र च सत्त्वाधिक्यमपराध्यति “कथं नामाहमेवंभूत” इति (वेण्यां तृतीयेऽङ्केऽते) ।

अथेत्यनन्तरम् । अतः परमित्यतेभ्यो लक्षणेभ्यः पृथग्भूतमित्यर्थः । श्लक्ष्णः सुकुमारः श्लिष्यति हृदय इति कृत्वा । नैपथ्यविशेषो वस्त्रमाल्यादिः तेन चित्रा, बहु विपुलं गीतं नृत्तं च यस्याम्, कामोपभोगो

Notes

या श्लक्ष्णनैपथ्यविशेषचित्रा1
स्त्रीसंयुता या2 बहुनृत्तगीता ।
कामोपभोगप्रभवोपचारा
तां कैशिकीं वृत्तिमुदाहरन्ति3 ।। ५३ ।।

[4बहुवाद्य5 नृत्तगीता श्रृङ्गाराभिनयचित्रनैपथ्या ।
माल्यालङ्कारयुता प्रशस्तवेषा च कान्ता च ।। ५४ ।।

चित्र6पदवाक्यबन्धैरलङ्कृता हसितरुदितरोषाद्यैः7 ।
स्त्रीपुरुषकामयुक्ता8 विज्ञेया कैशिकीवृत्तिः] ।। ५५ ।।

9नर्म च नर्मस्फुञ्जो10 नर्मस्फोटोऽथ नर्मगर्भश्च ।
कैशिक्याश्चत्वारो भेदा ह्येते 11समाख्याताः ।। ५६ ।।

12आस्थापितश्रृङ्गारं विशुद्धकरणं निवृत्तवीररसम् ।

Abh

रतिः ततः प्रभवो यः स श्रृङ्गारस्तद्बहुल उपचारो व्यवहारो यस्यां सा तथोक्ता । (कैशिक्याश्चत्वार्यङ्गानि नर्माख्यं नर्मोपपदानि च तत्र नर्मणः श्रृङ्गारस्थापकत्वं) हासप्रधा –

Notes

हास्य1प्रवचनबहुलं नर्म त्रिविधं विजानीयात् ।। ५७ ।।

ईर्ष्याक्रोधप्रायं सोपालम्भकरणानुविद्धं च2 ।
आत्मोपक्षेपकृतं सविप्रलम्भं स्मृतं नर्म ।। ५८ ।।

नवसङ्गमसम्भोगो रति3समुदयवेषवाक्यसंयुक्तः ।
ज्ञेयो नर्मस्फुञ्जो4 ह्यवसानभयात्मकश्चैव5 ।। ५९ ।।

Abh

नता च तदेति सामान्यलक्षणम् । तत्र हास ईर्ष्या वा सूचयितुं परं वोपालब्धुं परहृदयं वाक्षेप्तुमिति त्रिधा (आत्मेति) आत्मनः परकीयस्य चित्तस्योपक्षेप आत्मसमीपकरणम् । उदाहरणम्– वासवदत्ता (फलकमुद्दिश्य सहासं) *एसा वि अवरा तरस समीवे जाआ लिहिदा । एदं वि अय्यवसंतअस्स विण्णाणं ।।

द्वितीयस्योदाहरणं – “शीतांशुर्मुख” (रत्नावली ३.११) मित्यादि श्रुतवती वासवदत्ता यदा राज्ञोच्यते, “प्रिये वासवदत्ते” इति तद्वचसोपालम्भं सा सहासमाह–“अय्यउत्त मा एव्वं भण” इत्यादि ।

तृतीयस्य सुसङ्गता (विहस्य) “जादिसो तुए कामदोवो आलिहिदो मए वि तारिसी रई आलिहिदा । ता असंभाविणी, कहेदि दाव वुत्तंत्तं ।”

एवं त्रिभेदं नर्माख्यमाख्याय नर्मस्फु़ञ्जं प्रकाशयितुमाह नवसङ्गमेति नवसङ्गममात्र एव सम्भोगो यत्र । कथं तस्य सङ्गमस्य सम्भोगत्वमित्याह रतिसमुदयेति । रतेरन्योन्यास्थाबन्धरूपायाः समुदयः स्फुटत्वं, यस्तादृशेन वेषेण वाक्येन वा योगो यत्र । अवसाने च भयं पूर्वनायिकाकृतम् । यथा रत्नावल्यामुदयनस्य सागरिकायाश्च नर्मणः स्फुञ्जो विघ्न इत्यर्थः ।

Notes

विविधानां भावानां लवैर्लवैर्भूषितो बहुविशेषैः1 ।
2असमग्राक्षिप्तरसो नर्मस्फोटस्तु विज्ञेयः ।। ६० ।।

विज्ञानरूप3शोभाधनादिभिर्नायको गुणैर्यत्र ।
4प्रच्छन्नं व्यवहरते कार्यवशान्नर्मगर्भोऽसौ5 ।। ६१ ।।

6[7पूर्वस्थितौ विपद्येत नायको यत्र चापरस्तिष्ठेत्8 ।
तमपीह नर्मगर्भं विद्यान् नाट्यप्रयोगेषु] ।। ६२ ।।

इत्यष्टार्धविकल्पा वृत्तिरियं कैशिकी मयाभिहिता9 ।
अत ऊर्ध्वमुद्धतरसामारभटीं संप्रवक्ष्यामि ।। ६३ ।।

Abh

विविधाः भावाः भयहासहर्षत्रासरोषाद्याः लबैर्लवैरित्यत एव भयादीनामंशेन भावात् स्थायित्वानुपगमात् भयानकहास्यरौद्रादिरसतापत्तिर्न सम्भवति । श्रृङ्गारस्तु पूर्व एव “जस्स किदे तुमं एत्थ एव्व चिट्ठदि” इति सुसङ्गतोक्तौ* हासलवः, न हास्यो रसः ।

“सहि कस्स किदे अहं एत्थ आअदा” इत्यत्र सागरिकोक्तौ (रौद्र) लवो न तु रौद्रः । एवमन्यत्र । नर्मण इति तदुपलक्षितस्य श्रृङ्गारस्य स्फोटो वैचित्र्यं चमत्कारोल्लासकृतस्फुटत्वं यत्रेति ।

श्रृङ्गारोपयोगिभिर्विज्ञानाद्यैः प्रच्छन्नं यत्र नायक आस्ते नवसमागमसिद्धये स नर्मगर्भः । नर्मोपयोगिनो विज्ञानाद्या गर्भीकृता इव प्रच्छन्नतया यत्रेति, यथा प्रच्छन्नरूपो नायकः सङ्केतस्थानं गच्छति ।

Notes

1आरभटप्रायगुणा1a तथैव बहुकपटवञ्चनोपेता2 ।
दम्भानृतवचनवती3a त्वारभटी नाम विज्ञेया3 ।। ६४ ।।

4[पुस्तावपात5प्लुतलङ्घितानि
च्छेद्यानि मायाकृतमिन्द्रजालम् ।
चित्राणि युद्धानि च यत्र5a नित्यं
तां तादृशीमारभटीं वदन्ति ।। ६५ ।।

6षाङ्गुण्यसमारब्धा हठातिसन्धानविद्रवोपेता ।
लाभालाभार्थकृता विज्ञेया वृत्तिरारभटी] ।। ६६ ।।

संक्षिप्तकावपातौ वस्तूत्थापनमथापि7 संफेटः ।
एते ह्यस्या भेदा लक्षणमेषां प्रवक्ष्यामि ।। ६७ ।।

8अन्वर्थशिल्पयुक्तो बहुपुस्तोत्थान चित्रनेपथ्यः8a ।

Abh

(उद्धतेति) दीप्तरसा रौद्रादयः उद्धताः । (आरभटेति) आरभटानां ये गुणाः क्रोधावेगाद्यास्ते प्रायेण बाहुल्येन यत्र, बहुभिः कपटैः यद्वञ्चनं तेनोपेता । कपटत्रयं च समवकारलक्षणे (१८–७१) व्याख्यातम् । यत एवास्यां कपटयोगोऽत एव दम्भप्राधान्यमसत्यवचनसम्भवश्च । (संक्षिप्तकेति) संज्ञया क्षिप्तानि वस्तूनि विषयोऽस्येति संक्षिप्तकः तानि दर्शयति (अन्वर्थेति) । अर्थेन प्रयोजनेनानुगताः शिल्पयुक्ताः कुशलशिल्पिविरचिताः अर्था यत्रेति । अत्रैव दिशं दर्शयति (बहुपुस्तेति) । बहु विपुलं, पुस्तस्योत्थानं प्रकटत्वं

Notes

संक्षिप्तवस्तुविषयो ज्ञेयः संक्षिप्तको नाम ।। ६८ ।।*1a

भयहर्षसमुत्थानं 1विद्रवविनिपातसंभ्रमाचरणम् ।
क्षिप्रप्रवेशनिर्गममवपातमिमं विजानीयात् ।। ६९ ।।

2सर्वरससमासकृतं सविद्रवाविद्रवाश्रयं वापि ।
3नाट्यं विभाव्यते यत्तद्वस्तूत्थापनं ज्ञेयम् ।। ७० ।।

Abh

विचित्रं च नेपथ्यं स्वङ्गचर्मवर्मादि यत्र पुस्तयोगे । यथा मायाशिरोनिक्षेपे रामाभ्युदये चित्रं नेपथ्यम्, यथा (वा) –श्वत्थाम्नः (वेण्याम्) ।

भयातिशयेन हर्षातिशयेन च क्षिप्रमेव प्रवेशनिर्गमौ यत्र पात्राणां, तथा, विद्रवो वाक्यादिकृतो विनिपातोऽवस्कन्दः ताभ्यां कृतं सम्भ्रमाचरणं आवेगप्रधाना चेष्टा यत्र, सोऽवपातः, अवपतन्त्यस्मिन् पात्राणीति, यथा कृत्यारावणे षष्ठेऽङ्के “प्रविश्य खङ्गहस्तः सप्रहारः पुरुष” इत्यतः प्रभृति यावदसौ निष्क्रान्तः ।

(वस्तूत्थापनमिति) वस्तूनां बहूना (मर्थाना)मुत्थापनं प्रसङ्गगतनिबन्धनं यत्र कार्ये तत्तथोक्तम् । कानि वस्तूनीत्याह सर्वरसेति । रसशब्देन स्थायिनो व्यभिचारिणश्च तेषां संक्षेपेण कृतं करणं यत्र, विद्रवैरग्न्याद्युपप्लवैः सह, तैर्विहीनम् (च) यथा, तत्रैव (कृत्यारावणे) अङ्गदादभिद्रूयमाणाया मन्दोदर्या भयं, अङ्गदस्योत्साहः रावणं दृष्ट्वा तस्यैव हि “एतेनापि सुरा जिता” इत्यादि वदतो हासः, रावणस्यातिक्रोधः, “यस्तातेन निगृह्य बालक इव प्रक्षिप्य कक्षान्तरे” इति वदतोऽङ्गदस्य जुगुप्साहासविस्मयरसा, विध्वंसनं नाटयतीत्यत्र रावणस्य शोकः –इत्येवं विद्रवाश्रयं वस्तूत्थापनम् । तद्विपरीतं तु तत्रैव (कृत्यारावणे) द्वितीयेऽङ्के “नेपथ्ये कलकलः” इत्यतः प्रभृति यावत्सीतां प्रति रावणस्योक्तिः–“आ लोकपालानाक्रन्दसि” इत्यादि ।

Notes

*1a After V. ६८, N. reads an additional verse (६३ N) पूर्वस्थितो विपद्येत नायको यत्र वा परिस्तिष्ठेत् । संज्ञिप्तवस्तुविषयः–सोऽपि संक्षिप्तको ज्ञेयः ।।

संरम्भसंप्रयुक्तो1 बहुयुद्धनियुद्धकपटनिर्भेदः ।
शस्त्रप्रहारबहुलः 2सम्फेटो नाम विज्ञेयः ।। ७१ ।।

एवमेता बुधैर्ज्ञेया वृत्तयो नाट्यसंश्रयाः3 ।
रसप्रयोगमासां च 4कीर्त्यमानं निबोधत ।। ७२ ।।

5हास्यश्रृङ्गारबहुला कैशिकी परिचक्षिता5a ।
6सात्त्वती चापि विज्ञेया वीराद्भुतशमाश्रया7 ।। ७३ ।।

Abh

भाविनो वस्तुनः समुत्थापनापीदं तथोक्तम् । तथा च तत्रैव (कृत्यारावणे द्वितीयेऽङ्के) ऋषीणामुक्तिः – दुरात्मन्, नेयं सीता स्वनाशाय कृत्येयं ह्रियते त्वया । इति । सम्फेटस्योदाहरणं जटायुयुद्धादि सर्वम् (कृत्यारावणे) ।

अथासां वृत्तीनां संक्षिप्य स्वरूपमाह हास्यश्रृङ्गारबहुला कैशिकीति सात्त्वती चापि विज्ञेया वीराद्भुतशमाश्रया । इति । अत्र शमशब्दः शान्तरसपरिग्रह इति तद्वादिनो मन्यन्ते । समाश्रयेत्यन्ये पठन्ति

Notes

1रौद्रे भयानके चैव विज्ञेयारभटी बुधैः ।
2बीभत्से करुणे चैव भारतीयसंप्रकीर्तिता2a ।। ७४ ।।1a

3[न ह्येकरसजं काव्यं किंचिदस्ति प्रयोगतः ।
भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव वा ।। ७५ ।।

सर्वेषां समवेतानां यस्य रूपं भवेद्बहु ।
स मन्तव्यो रसः स्थायी शेषाः3a सञ्चारिणः स्मृताः ]।। ७६ ।।

4वृत्यन्त एषोऽभिनयो मयोक्तो
5aवागङ्गसत्त्वप्रभवो यथावत्5 ।

Abh

अस्याध्यायस्याभिनयशेषभूततां स्यापयन्नध्यायार्थमुपसंहरति भाविनश्चार्थमासूत्रयति वृत्त्यन्त एष इति । वृत्तिरभिनयस्य दशरूपकात्मा विषयोऽपि अन्त इत्यभिनयस्य वृत्तयोऽन्तरमेकदेश आहार्य इति शरीरव्यतिरिक्तं बाह्यमित्यर्थः । नटस्य हि सत्वात्मा वागभिनयो व्याहरणीय एव साक्षात्प्रयत्नकृतत्वात्। अत एव तुशब्देन ततो व्यतिरेकमाहार्यमेव विशिनष्टि । नेपथ्यकृतं त्वाहार्यं वक्ष्यामीति भूयः कृतं विस्तार्येति शिवम् ।

Notes

आहार्यमेवाभिनयं प्रयोगे1
वक्ष्यामि नेपथ्यकृते2aतु भूयः2 ।। 66 ।।

इति भारतीये नाट्यशास्त्रे वृत्तिविकल्पनं नामाध्यायो विंशः3*

Abh

नृसिंहगुप्तयतिनेत्थमत्र वृत्तिस्वरूपं प्रकटं व्यधायि ।
यस्य त्रिनेत्रेण हृदन्तरात्मवृत्तिस्वरूपं प्रकटं व्यधायि ।।

इति श्रीमहामाहेश्वराचार्याभिनवगुप्ताचार्यविरचितायां भारतीयनाट्यवेदवृत्तावभिनवभारत्यां विंशो वृत्त्यध्यायः समाप्तिमगमत्

Notes