१९ सन्धिनिरूपणम्

श्रीरस्तु

श्रीगणपतये नमः

नाट्यशास्त्रम्

एकोनविंशोऽध्यायः1

(सन्धिनिरूपणम्)

इतिवृत्तं 2तु नाट्यस्य3 शरीरं परिकीर्तितम्4 ।
पञ्चभिः सन्धिभिस्तस्य 5विभागः संप्रकल्पितः6 ।। १ ।।

Abh

अभिनवभारती–एकोनविंशोऽध्यायः

देहे ससन्ध्यङ्गगणे समस्ते
यत्स्थापनं स्पर्शनवृत्तिकारि ।

तदिन्द्रियं यस्य वपुर्नमामि
तमान्तरस्पर्शमयं महेशम् ।।

“पुनरस्य शरीरविधाने” त्यादिना (१८-१२७)* शरीरमितिवृत्तात्मकं विधानं च तस्य विधानरूपप्रकारात्मकं, सन्धयश्च मुखादयो विधयश्च सन्ध्यङ्गस्वभावा लक्षणीयत्वेन1 प्रतिज्ञाताः, तत्र शरीरमादौ2 लक्षयितव्यमिति1 दर्शयति इतिवृत्तं त्विति । तुशब्दो व्यतिरेके- काव्यमात्रस्यानभिनेयस्य तावद् वृत्तमात्रं शरीरं, नटनीयस्य त्वभिनेयरूपस्य इति एवंप्रकारतया यदुपस्कृतं वृत्तं, अत एवेतिवृत्तशब्दवाच्यं तद्वस्तु शरीरं, रसाः पुनरात्मा

Notes
  • अष्टादशेऽध्यायेऽन्तिमश्लोकस्योत्तरार्धमित्थं संस्करणीयम्– “पुनरस्य शरीरविधानसन्धिविधिलक्षणं वक्ष्ये” इति ।

इतिवृत्तं द्विधा चैव1 बुधस्तु परिकल्पयेत् ।
आधिकारिकमेकं स्यात्2 प्रासङ्गिकमथापरम् ।। २ ।।

Abh

शरीराविर्भावकाः, अत एवार्थनिर्मापकत्वात् अर्थतादात्म्यात् अर्थरूपताघ्यासात् अर्थैकज्ञाननिवेशितत्वात् अर्थोपरञ्जकत्वात् अर्थनिमित्तत्वाद्वा, इतिवृत्तार्थैकयोगक्षेमत्वं वागात्मनां शब्दानामिति । तदाशयेन–

वाचि यत्रस्तु कर्तव्यो नाट्यस्यैषा तनुःस्मृता । (ना.शा.१४-२) इति पूर्वमुक्तम्, इह वृत्तं शरीरमिति दर्शितमित्यविरोधः । स तु कथं प्रकारवैचित्र्य इत्याशंक्याह पञ्चभिः सन्धिभिरिति । एतदुक्तं भवति– प्रकारवैचित्र्यकल्पनामया एव सन्धयः । तत्र पारम्यपरतया1 पञ्चसंख्येति, तेन हीनसन्धित्वेऽपि न कश्चिदत्र विरोधः ।

अन्ये तु सर्वत्र पञ्चैव सन्धयः, अपूर्णाङ्गत्वात्तु कस्यचित्सन्धेर्हीनसन्धित्वमुच्यत इत्याहुः । एतच्च स्वस्थाने वितनिष्यामः ।

एवमितिवृत्तशब्दे इति भागस्य योऽर्थः सोऽप्रसिद्ध इति कृत्वा द्वितीयार्धेन पञ्चभिरित्यादिना व्याख्यातः, न तु सन्धिनिरूपणमेतदुद्देशक्रमस्तस्यानेकविधत्वात् ।

एवं शरीरमभिधाय तस्य विधानशब्देनोद्दिष्टं प्रकारवैचित्र्यं दर्शयति इतिवृत्तं द्विधा चैवेति । इतिवृत्तं स्थितं सत्, बुधो विवेचकः कविर्द्विधैव परिकल्पयेत् । चकारात् प्रकरणादावितिवृत्तं च कल्पयेत् । तच्च द्विधा । एकमपरमित्यनेनेदमाह–न निसर्गतः किञ्चिदाधिकारिकम्, अन्यद्वा । कविधिया यदेतदाधिकारिकं कृतं तदापरस्य प्रासङ्गिकतास्तीति द्विधाशब्देन सूचितं, तदेवेदं दर्शितम् । “अधिकरणविचाले च” (पा. ५- ३-४३) इति

Notes

यत्कार्यं हि1 फलप्राप्त्या 2सामर्थ्यात्परिकल्प्यते3 ।
तदाधिकारिकं ज्ञेयमन्यत्प्रासङ्गिकं विदुः4 ।। ३ ।।

5कारणात्फलयोगस्य वृत्तं स्यादाधिकारिकम् ।

Abh

धाप्रत्ययः । एकं राशिं द्विधा कुर्विति यथा तेनैकमेवेतिवृत्तं द्विशाखमिति यावत् ।

तत्प्रकारद्वयं क्रमेण दर्शयति यत्कार्यं हीति । प्रधानत्वेन सम्पाद्ये फले यो ज्ञानेच्छाप्रयत्नक्रियालक्षण आरम्भः तत्कार्यमिति वक्ष्यते–‘यदाधिकारिकं वस्तु’ (१९-२६) इति, तथाभूतो य आरम्भो मुख्यफलप्राप्त्या परिकल्प्यते स आधिकारिकमितिवृत्तम् । हि यस्मात् तथैव ज्ञेयम् । निरुक्तेनाधिकारः सर्वत्रानुयायित्वं हृदयानुयायित्वं प्रयोजनमस्य । प्रासङ्गिकेऽपि हि तदन्तर्लीनमेव । यथा–आधिकारिके सहाप्तेनाचिख्यासासाधनैषाफलजिहीर्षानिष्पत्तौ यथा न शक्त्यन्तरव्यापारणं, तद्वत्प्रासङ्गिकेऽपि सर्वत्र शक्त्यन्तरव्यापाराभाव एव । शक्त्यन्तरेऽपि पृथग्व्यापार्यमाणे तस्याप्याधिकारिकत्वमेव स्यात् । प्रतिज्ञानिर्वहणं जगत्कण्टकरावणोद्धरणं शरणागतविभीषणरक्षणमित्याद्यपि हि प्रधानफले सीताप्रत्यानयनलक्षणे विवक्षिते न शक्त्यन्तरव्यापारसाध्यं, अपि तु तदुपयोगिसामाद्युपायचतुष्टयतद्द्विकत्रिकादि– भेदसम्पादननान्तरीयकोपनीतमेव । तापसवत्सराजे राज्यप्रत्यापत्तेः प्रधानफलत्वे वासवदत्तासङ्गपद्मावतीप्राप्त्यादौ क्रियान्तरानुपयोग एव मन्तव्यः । यदि ह्यस्य वासदवदत्ताप्राप्त्युपायत्वं पद्मावतीपरिणयस्य नोच्यते न वत्सराजस्तत्र प्रवर्तेत, तदप्रवृत्तौ कुतः प्रधानफलमिति सर्वप्रासङ्गिकमेकरूपमेव । प्रसक्तिर्हि प्रसङ्गः तत आगतं प्रासङ्गिकं, प्रसज्यते वा प्रधानफलनिष्पत्तये इति प्रसङ्गस्तत आगतमिति । तेन शक्त्यन्तरयोगायोगाभ्यां च यत्प्रासङ्गिकस्यानेकविधत्वं टीकाकृद्भिरभ्यधायि न तदुपाध्यायाः संमन्यन्ते । अत एवाह कारणात्फलयोगस्येति । अयमर्थः -आधिकारिकं

Notes

1तस्योपकरणार्थं तु कीर्त्यते 2ह्यानुषङ्गिकम् ।। ४ ।।

कवेः प्रयत्नान्नेतॄणां युक्तानां 3विध्यपाश्रयात् ।

Abh

नामास्त्वितिवृत्तं [यतः] फलसंबन्धं करोति स कविना वर्णनोपायारोहमानीतः तत्समर्थाचरणेन प्रयुज्यते । एवमन्यत्स्यादितिवृत्तमिति पूर्वपक्षमाशंक्य तत्रोत्तरमवान्तरेणाह तस्योपकरणार्थं त्विति । हिरप्यर्थे भिन्नक्रमः आनुषङ्गिकमपि कीर्त्यत इति ।

ननु फलप्राप्तिलक्षणेन प्रयोजनेन सप्रयोजनत्वमाधिकारिकस्य लक्षणत्वमुक्तम्, फलप्राप्तिश्च प्रासङगिकेऽप्यस्ति सा प्रासङ्गिकीति चेत्, सिद्धे प्रासङ्गिकस्याधिकारिकाद् भेदे भवेदेतत्, तत एव तत्सिद्धौ चक्रकान्योन्याश्रयदोषः तस्मात्फलप्राप्तिरेव विशिष्य वक्तव्येत्यभिप्रायेणाह कवेः प्रयत्नान्नेतॄणां युक्तानामिति । समुत्कर्षं प्राधान्यमवलम्ब्य फलप्राप्तिः कल्प्यते, प्रधानफलप्राप्तिप्रयोजनमाधिकारिकमित्यर्थः ।

ननु फलप्राप्तेः कथं प्राधान्यम् आधिकारिकनिर्वर्त्यत्वादिति चेत् स एव दोष इत्याशङ्क्याह कवेः प्रयत्नादिति । कविर्यत्फलमुत्कर्षेण विवक्षति तत्प्रधानफलम् । ननु पुरुषेच्छा यद्यनियन्त्रिता, तदा पुनरपि स एव प्रश्न1 इत्याह । नेतॄणां युक्तानां विध्यपाश्रयाद् धीरोदात्तादिभेदानां नायकानां मध्ये यो यत्र नायको युक्त उचितः तस्य यो विधिः सम्पाद्यं वस्तु तदपाश्रयप्रयत्नाद्धेतोः कविफलं प्रधानमिति । यस्मिंश्च विधौ यो नायको युक्तः उचितस्तस्य मयैतत्कर्तव्यमित्यभिसन्धानाभावेऽपि तत्सन्निधौ फलं नायकत्वं विना कर्तव्यम्, यथा तापसवत्सराजे वत्सराजस्य राज्यप्रत्यापत्तिः कर्तव्यतायाममात्याभिसंहितायाम्, अत एव ह्यस्यासौ नेता फलस्य चाक्रष्टा अमात्यसम्पादिताभिसन्धिप्रत्युपायपरम्परार्जितस्यापि ।

Notes

1कल्प्यते हि2 फलप्राप्तिः 3समुत्कर्षात्फलस्य4 च5 ।। ५ ।।

[6लौकिकी7 सुखदुःखाख्या यथावस्था रसोद्भवा ।
दशधा मन्मथावस्था व्यवस्था त्रिविधा मता] ।। ६ ।।

Abh

नन्वेवमपि रामस्य स्वदारप्रत्यानयनकण्टकोद्धरणभीताभयवितरणादौ सर्वत्र कर्तव्यतौचित्यमस्ति, तथापि न व्यवस्थितं लक्षणमित्याह फलस्य चेति । चकारेण समुत्कर्षादित्यस्यावृत्तिर्द्योत्यते । तेनायमर्थः- यदेव फलं तावत्यंशे अधिकमुत्कर्षमवलम्बते तत्रैव तस्यौचित्यं कविना कल्पनीयम् । तथा हि–रावणोच्छेदाद्यवधि सीताप्रत्यानयनमेव समुत्कृष्टं भवति, तस्यैव सम्पादनायेतरप्रवृत्तिः, सचिवायत्तसिद्धिस्तु यतो वत्सराजस्ततो यौगन्धरायणाद्यमात्यवर्गप्रयत्नस्तावानसाविति तदमात्याद्यभिसंहितराज्यप्राप्तिफलस्यैव तत्रोत्कर्षः । स ह्येवं मन्यते- राज्यभारचिन्ता एतैर्या कृता सा मयैवेति । एवमधिकाधिकं हृदयविपरिवर्तमानं समुचितं च नायकस्य फलं यद्यदा कविप्रयत्नेन विवक्ष्यते सम्पाद्यतया तदा तस्य प्रधानफलत्वं, रामाभ्युदयादौ सीताप्रत्यानयनादेरिव, न हि तत्राश्वमेधयागादेर्नायकोचितस्य कविविवक्षितत्वमस्ति ।

नन्वेमपि कविविवक्षैव पुनरपि प्रधानीभूता तत्र चोक्तो नियमहेत्वभाव इति तत्राह विध्यपाश्रयादिति । विधीयत इति विधिः सव्युत्पत्तिः तस्यापाश्रयात् । एतदुक्तं भवति–यादृशि पुरुषार्थे व्युत्पत्तिः कर्तव्या तदुचितनायकग्रहणेन कविः प्रवर्तमानो न स्वेच्छया प्रवृत्तो भवतीति । हिशब्देन समुच्चयाभिधायिनैतत्सूचितं– विध्यपाश्रयाद्युक्ता ये नेतारस्तेषां यत्फलं तस्योत्कर्षाद्यः कवेः प्रयत्नः ततः फलप्राप्तिः समुत्कर्षावलम्बिनी कल्प्यत इति तात्पर्यम् ।

Notes

संसाध्ये फलयोगे तु व्यापारः 1कारणस्य यः ।
तस्यानुपूर्व्या2विज्ञेयाः पञ्चावस्थाः प्रयोक्तृभिः3 ।। ७ ।।

प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च संभवः ।
नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ।। ८ ।।

औत्सुक्यमात्रबन्धस्तु4 5यद्बीजस्य निबध्यते ।
महतः फलयोगस्य 6स फलारम्भ इष्यते ।। ९ ।।

Abh

अथ कविप्रयत्नेन साध्ये व्यापारः परिस्पन्दो यो वाङ्मनसगतस्तस्य या अवस्था आनुपूर्व्येति उद्देशक्रमेणैव प्रयोक्तृभिः कविभिर्निबन्धनीयतया ज्ञातव्याः ता उद्दिशति प्रारम्भश्चेति । चकारैस्तथाशब्देन चावश्यंभावि क्रमत्वमासामुच्यते । न हि प्रेक्षापूर्वकारिणोऽवस्थान्तरासम्भावनायां प्रारम्भ उचितो भवति, तत्प्रारम्भश्चेदुत्तरोत्तरोत्तरावस्थाप्रसर एव । पञ्चम इत्यनेन क्रमो विवक्षित इति दर्शयति । एताःक्रमेण लक्षयितुमाह औत्सुक्यमात्रबन्धस्त्विति । महतः प्रधानभूतस्य फलस्य युज्यमानस्य तत्तन्नायकोचितस्य यद्बीजमुपायसम्पत् तस्य यदौत्सुक्यमात्रं तद्विषयस्मरणोत्कण्ठानुरूपं, अनेनोपायेनैतत् सिद्ध्यतीति, तस्य बन्धो हृदये निरूढिः प्रारम्भः, सा च नायकस्यामात्यस्य नायिकायाःप्रतिनायकस्य दैवस्य वा । तस्या हि तथैवानुमानाद् व्यवस्था । दैवसाध्यमपि च समुद्रदत्ताभिमतप्राप्त्यादिकं *पुण्योपार्जनं प्रयत्नबहुमानसिद्धये दैवसाहाय्यस्य पुरुषकारस्य

Notes

अपश्यतः फलप्राप्तिं 1व्यापारो यः फलं प्रति ।
2परं चौत्सुक्यगमनं 3स प्रयत्नः प्रकीर्तितः ।। १० ।।

ईषत्प्राप्तिर्यदा4 काचित्फलस्य5 परिकल्प्यते6 ।
भावमात्रेण 7तं प्राहुर्विधिज्ञाः 8प्राप्तिसम्भवम् ।। ११ ।।

नियतां तु9 फलप्राप्तिं यदा10 भावेन पश्यति ।
नियतां तां फलप्राप्तिं 11सगुणां परिचक्षते ।। १२ ।।

Abh

फलवर्तिता तद्व्युत्पत्तिलाभाय [च] प्रदर्श्यत इति । एवमपश्यत इति तदुपायव्यतिरेकेण फलप्राप्तिमपश्यतः फलदर्शनमसंभाव्यमानं विवेचयतः फलमुद्दिश्य यो व्यापारः उपायविषयपरमौत्सुक्यगमनलक्षणं, तेन विनेदं फलं न भवति तस्मात् स एवोपायोऽन्वेष्यः इत्युपायविषयस्मरणेच्छासन्तानस्वभावः, स प्रयत्नः । ईषत्प्राप्तिरित्यादि । भवत्यस्मादिति भावः उपायः, तस्य सहकार्यन्तरयोगः प्रतिबन्धकवारणं च मात्रपदेनापसारितम् । तदयमर्थः -उपायमात्रेण लब्धेन यदा कदाचिद् विशिष्टफलप्राप्तिरीषत् कल्प्यते संभावनामात्रेण स्थाप्यते न तु निश्चीयते तदा प्राप्तेः सम्भवः । संभावनायोग्यत्वमसंभावनाविशिष्टत्वं नाम तृतीया कर्तृरवस्था ।

नियतां तु फलप्राप्तिं यदेति । फलस्य प्रकर्षेणाप्तिर्यतः सहकारिवर्गः प्रतिबन्धकविध्वंसनसहितता च सामग्रीरूपतः, तां सामग्रीं, यदा तेन भावेन पूर्वोपात्ततया मुख्योपायेन नियतां नियन्त्रितां फलाव्यभिचारिणीं पश्यति तदा नियतफलप्राप्तिर्नामावस्था । ननु कर्तरीत्याशङ्कयाह सगुणामिति–गौणी उपचरिता तस्येयमवस्था । नियतफलकर्तृविषयत्वेन नियतफलप्राप्तिशब्दो विषय–

Notes

1अभिप्रेतं समग्रं च प्रतिरूपं2 क्रियाफलम् ।
3इतिवृत्ते भवेद्यस्मिंन्4 फलयोगः प्रकीर्तितः5 ।। १३ ।।

6सर्वस्यैव हि कार्यस्य प्रारब्धस्य7 फलार्थिभिः ।

Abh

विषयिणोरभेदोपचाराद् युक्त [? उक्त] इति यावत् । अत एव पश्यतीत्पनेन दर्शनमेवावस्थेति दर्शितम् । यदि वा सह गुणेन दर्शनेन वर्तते, नियतफलप्राप्तिदर्शनं तन्नामावस्थेत्यर्थः । ये त्वकारप्रश्लेषादभावेन नियतां सन्देहमयीमिति व्याचक्षते ते नियता फलप्राप्तिः संदिग्धा चेत् कथमेतद्विरुद्धं संगच्छतामिति प्रष्टव्याः ।

अभिप्रेतं समग्र चेति । यस्मिन्नितिवृत्ते कर्त्रवस्थात्मनि नायकस्याभिप्रेतं तादृशम्, अपि च नानुचितं, अपि तु प्रतिरूपमुचितं संभवात् पूर्णं क्रियाफलमिति समनन्तफलं न च विधिफलमिव स्वर्गादि कालान्तरापेक्षि वर्ण्यते, सावस्था नायकस्य फलयोगः फलोत्पत्तिर्नाम । तत्र सचिवामात्यादेरपि यावस्था सा वस्तुतो नायकगामिन्येव भवतीति नाटकेषु नावश्यं सर्वा नायकस्य साक्षादेवोपनिबन्धनीयाः, अपि तु सचिवादिगतत्वेनापि फलयोगस्तु साक्षादेव तद्गत इत्यभिप्रेतमित्यनेन दर्शितम् । अवस्थान्तराणि सचिवादिगतान्यपि पर्यवस्यन्ति नायकादेरेवेत्येतदेव सुकविना रत्नावल्यां “प्रारम्भेऽस्मिन् स्वामिनः सिद्धिहेतौ” (अ-१-७) इति श्लोकेन प्रतिपदमुक्त्वा अस्मदभिप्रायः समुच्छ्रितेन दर्शितः ।

ननु मानुषव्यापारे नायकस्य तत्सचिवादेर्वा भवन्त्येता (? भवन्त्वेता) अवस्थाः, प्रतिनायकेऽप्येवं तत्र परमसदुपायापेक्षया । यत्र तु दैवायत्तं फलं वर्ण्यते तत्र कथं न च वर्ण्य पुरुषकारमात्राभिमानिनां दैवमवजानानां चार्वाकादिमतमुपेयुषां, स दैवबहुमानव्युत्पत्तये हि पुरुषकारोऽप्यफलः, तदभावोऽपि सफलः प्रदर्शनीयः, अत एव दरिद्रचारुदत्तादिरू पकाणि तद्विषयाणि । तस्माद्दैवायत्तत्वे कथमेतदवस्थापञ्चकम्, तत्परिहर्तुमाह सर्वस्यैव हीति दैवादागच्छतोऽपीत्यर्थः । तत्रापि हि यद्यपि

Notes

1एतास्त्वनुक्रमेणैव पञ्चावस्था भवन्ति हि ।। १४ ।।

2आसां स्वभावभिन्नानां परस्परसमागमात् ।
3विन्यास एकभावेन फलहेतुः प्रकीर्तितः ।। १५ ।।

Abh

नायको न यतते [? प्रवर्तते] तथापि यत्र फलं भवति तत्रावश्यमवस्थादिभिर्भाव्यम् । स एव च परं फलेन तदानीमर्थीभवति ‘यमर्थमधिकृत्य प्रवर्तत’ इति हि प्रयोजनलक्षणं वदन्ति । तथा हि सेवाद्यशेषोपायप्रारम्भं विनानन्दसंपादनहृदय एव, अपरथा परतः प्राप्तमपि फलं नाङ्गीकुर्यात्, अनङ्गीकरणेऽपि वास्य [? चास्य] फलार्थित्वमेवाधिकफलान्तरसन्तोषमनु प्रसिद्ध्यादिफलान्तराभिसन्धानादिति युक्तमुक्तं मुनिना सर्वस्यैव पञ्चावस्था इति ।

नन्वासां तावत् स्वरूपभेदः कालभेदश्च कालभिन्नानां चैककालत्वाभावात् ‘संसाध्ये फलयोगे तु व्यापारः कारणस्य’ इति (१९-७) यदुक्तं तत् कथम्, किं च फलयोगे साध्ये तत्रावस्था कारणस्येति पञ्चमीहावस्था फलयोग एव, न तु सा काचिदन्येत्याशङ्क्याह आसां स्वभावभिन्नानामिति स्वभावभेदेन कालभेदोऽप्युपलक्ष्यते, स्वभावभेदे दिक्काले दण्डचक्रादिभिरेकफलसंपादना, तेन कालभिन्नानामपि, आसां परस्परमन्योन्यं संगत्या नान्तरीयकत्वेन यदागमनं तदवलम्ब्य यो विन्यासो यत्फलहेतु1स्तत आद्यन्तापकर्षणं निश्चितोत्तरोत्तरकार्याणां कारणकारणानामपि हेतुत्वानपायादिति भावः । यच्चोक्तं फलयोगे कथं फलयोगान्तरमिति तत्राप्याह एकभावेन फलहेतुरिति । एकभावः संबन्धः । तेनायं भावः -फलस्योत्पत्त्यवस्था एका नायकेन सह संबद्धा, द्वितीया येयं संसाध्ये फलयोग इत्यत्र निर्दिष्टा, पूर्वा त्ववस्था मध्यत्रयेण युज्यमाना योग्यफलोत्पत्तिदर्शना

Notes

1इतिवृत्तं 2समाख्यातं 3प्रत्यगेवाधिकारिकम् ।
4तदारम्भादि कर्तव्यं फलान्तं च 5यथा भवेत् ।। १६ ।।

पूर्णसन्धि च 6कर्तव्यं7 हीनसन्ध्यपि वा पुनः ।
नियमात् 8पूर्णसन्धि स्याद्धीनसन्ध्यथ9 कारणात् ।। १७ ।।

Abh

पञ्चम्यवस्थेत्यर्थः । एवमवस्थापञ्चकं प्रदर्श्य तदनुयायित्वेनेतिवृत्तस्याधिकारिकत्वं समर्थयितुमाह इतिवृत्तं समाख्यातमिति । यद्यस्मात्तत् कर्तव्यं कार्यं वस्त्वारम्भादि फलान्तं च तदिति तस्मात्तदवस्थानुयायित्वेनाधिकृतत्वाधिकारिकमुच्यते । चस्तुशब्दस्यार्थे, यथा तु तदितिवृत्तशब्दवाच्यं भवेत् तथा प्राक् सम्यगाख्यातमितिशब्दार्थमिति निरूपणेन ‘पञ्चभिः सन्धिभिस्तस्य विभागः’ इत्यनेनैतच्च तद्गतवक्तव्यान्तरोपक्षेपाय पुनरभिहितम् ।

ननु किं सर्वत्र पञ्चैव सन्धय इत्याह पूर्णसन्धि चेति । विकल्पः सर्वत्रेति कश्चिदाशङ्कते तं प्रत्याह नियमादिति । उत्सर्गेणेति के केचित् । उपाध्यायास्त्वाहुः –सर्वत्रेतिवृत्तं पञ्चसन्ध्येव, न हि कश्चिदपि व्यापारो प्रारम्भाद्यवस्थापञ्चकं विना सिद्ध्येत् न शक्यमौनीकृत्यं वा । उक्तं च–

सर्वस्यैव हि कार्यस्य प्रारब्धस्य फलार्थिभिः ।
एतास्त्वनुक्रमेणैव पञ्चावस्था भवन्ति हि ।। इति (१९-१४)

अवस्थापञ्चकानुयायिना सन्धिपञ्चकेनापि भाव्यमेव, तेन सर्वं नियमात्पञ्चसन्धि, 1हीनसन्धित्वं तु तत्र कारणा– दपूर्णाङ्गत्वलक्षणादुच्यते, अत एव पूर्णसन्ध्यपि व्यपदिश्यते इत्यपिशब्देन चोक्तं ‘हीनसन्ध्यपि वा पुनः’ इति ।

Notes

1एकलोपे चतुर्थस्य 2द्विलोपे त्रिचतुर्थयोः ।
3द्वितीयत्रिचतुर्थानां त्रिलोपे लोप इष्यते ।। १८ ।।

प्रासङ्गिके परार्थत्वान्न ह्येष नियमो भवेत् ।
4aयद्वृत्तं 4सम्भवेत्तत्र5 6तद्योज्यमविरोधतः ।। १९ ।।

Abh

‘डिमः समवकारश्च चतुस्सन्धी’ इति वक्ष्यते, तत्रावमर्शस्य लोपः । ‘व्यायोगेहामृगौ चापि सदा कार्यै त्रिसन्धिकौ’ इत्यत्र गर्भविमर्शयोर्लोपः । ‘द्विसन्धि तु प्रहसनं वीथ्यङ्को भाण एव च’ तत्र प्रतिमुखगर्भावमर्शानां लोपः, त्रिशब्देन (द्वितीयत्रिचतुर्थानामित्यत्र) तृतीयो लक्ष्यते । तत्रोपक्रमोपसंहारौ तावत् सर्वत्रावश्यंभाविनौ । तत्र तु ये प्रेक्षापूर्वंकारिणो विततं बहुफलं कर्तव्यमारभन्ते तेषां पञ्चैव सन्धयः । आर्तिसहिष्णुत्वेन शंक्यमानविरुद्धप्रत्ययस्यापाकरणे– “द्वौप्रतिषेधौ विधिं द्रढयतः” इति न्यायात् सुदृढो हि भवत्येषां फलयोगः । डिमादिनायकास्त्वत्युद्धतप्रायत्वान्नातीव विनिपातमाशङ्कन्ते । व्यायोगादिनायका अपि तारतम्येन फलयोगाङ्गीभावान्नाद्रियन्ते । प्रहसनादिनायकास्त्वधर्मप्रायत्वात्तदितिवृत्तस्य चर्वितशरीरत्वादुपक्रमोपसंहारमात्रे विश्राम्यन्तीत्यपूर्णा अवमर्शादयः ।

एवं पञ्चभिरितीतिवृत्तशब्दे यस्य हीतिशब्दो व्याख्यातः, सोऽनेन निर्वाहितार्थः, प्रासङ्गिके तु क इतिशब्दस्यार्थ इति दर्शयति प्रासङ्गिक इति । नियमो य उक्तो नियमात्पूर्णसन्धि स्यादित्यादि स तत्र न भवेत्, विभीषणप्रतिष्ठापनविषये रामस्य चेदौत्सुक्यबन्धादि योज्येत तर्हि तदेव यत्नसंपाद्यं भवेत् । परामृशति यद्वृत्तमिति तत्राधिकारिके यदविरुद्धमत्र प्रासङ्गिके सम्भवि वृत्तं प्रारम्भेष्वन्यतमं च तदेव प्रासङ्गिके योजनार्हमिति ।

ननूक्तं ‘औत्सुक्यमात्रबन्धस्तु यद्बीजस्य’ (१९.९) इत्यादि तत्र चोपायतत्सहकारिवर्गप्रतिबन्धत्वं

Notes

1इतिवृत्ते यथावस्थाः पञ्चारम्भादिकाः स्मृताः ।
अर्थप्रकृतयः 2पञ्च 3तथा बीजादिका अपि ।। २० ।।

बीजं बिन्दुः पताका च प्रकरी कार्यमेव च ।
4अर्थप्रकृतयः पञ्च 5ज्ञात्वा योज्या यथाविधि ।। २१ ।।

Abh

तद्विध्वंसनं चोपक्षिप्तं तत्र तत्स्वरूपं न ज्ञातमित्युपायसामग्रीस्वरूपं दर्शयितुमाह इतिवृत्ते यथावस्ता इति, इतिवृत्तविषये यथा येन प्रकारेणाधिकारिकस्य खण्डन1 लक्षणेन पञ्चावस्था उक्ताः तेनैव प्रकारेणार्थप्रकृतयोऽपि पञ्चैव पठ्यन्ते । तदनभिधाने उपायादिस्वरूपापरिज्ञानात् प्रारम्भाद्यवस्थानां परमार्थतोऽसंवेदने आधिकारिकत्वमविदितं स्यात् । यत्रार्थः फलं तस्य प्रकृतय उपायाः फलहेतव इत्यर्थः । तत्र जडचेतनतया द्विधाकरणं, जडश्च मुख्यकारणभूतः, गूढतरो वा, आद्यं बीजं द्वितीयं कार्यं करणीयं प्रयोक्तव्यमित्यर्थे । चेतनोऽपि द्विधा मुख्य उपकरणभूतश्च, अन्त्योऽपि द्विधा स्वार्थसिद्धिसहिततया परार्थसिद्ध्या युक्तः शुद्धयापि च*, तत्राद्यो बिन्दुः द्वितीयः पताका तृतीयः प्रकरी । तदेतैः पञ्चभिरुपायैः पूर्णफलं निष्पाद्यते । अत एवाह ज्ञात्वा योज्या यथाविधि इति तासामौद्देशिकोक्तिववदुपनिबन्धक्रमनियम इत्यर्थः । अन्ये त्वाहुः –अर्थस्य समस्तरूपकवाच्यस्य प्रकृतयः प्रकरणान्यवयवार्थखण्डा इत्यर्थप्रकृतयः एतच्च व्याख्यानं नातीव प्रकृतं पोषयति । सन्ध्यादीनामपि चार्थप्रकृतित्वमत्र व्याख्याने स्यात्, इतिवृत्तमेव च समुदायरूपम् । अर्थ इतिवृत्ते प्रकृतय इति वक्तव्येऽर्थग्रहणमतिरिक्तं स्यात्, इत्यवस्थाभिश्च तुल्यतावर्णनं वर्णनमात्रं स्यादिति किमनेन ।

Notes

1स्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति2 ।
फलावसानं 3यच्चैव बीजं 4aतत्परिकीर्तितम्4 ।। २२ ।।

प्रयोजनानां विच्छेदे यदविच्छेदकारणम् 5 ।

Abh

तदेतत्पञ्चकमुद्देशक्रमेण लक्षयति स्वल्पमात्रमिति । यद्वस्तु–सागरिकान्तःपुरनिवासेन (वसन्तोत्सव) समये गम्भीरप्रयोजनसंवेदनाभावात् स्वल्प मात्रमकिंचित्करप्रायं शंक्यते संवादेनोत्सृष्टं प्रक्षिप्तं यथावश्यं फलान्तं यतो बहुभिः प्रकारैर्विसर्पत्येव, सर्वथा प्रसरति यत्तत् सिद्धिस्तत्फलमपि यदि निरुध्य फलत्वेन प्रवर्तते प्रथमप्रक्षेपेणैव देशकालौचित्यापेक्षैस्तद्बीजवन्न्यास्यारघट्टपरिवर्तन्यायेन बहुतरोपायपरम्परोपरि1 कार्यमेव यस्यापेक्ष्पं तद्बीजम् । यद्यस्मात्परितः समन्तात्कीर्तितं प्रसिद्धम् । तच्च क्वचिदुपायमात्रं क्वचित्फलमात्रं क्वचिद्द्वयं फलं च क्वचिदुपादानं क्वचिद्धेयव्यसननिवर्तनं क्वचिदुभयमिति । तत्रापि क्वचिन्नायकोद्देशेन क्वचित्प्रतिनायकाश्रयेणेत्यादिभेदैर्बहुधा भिद्यते । तत्र चक्रवर्तिपुत्रलाभो मुनिजनाशीर्वचनद्वारेंण फलस्वभावस्यैवाभिज्ञानशाकुन्तले

फलमपि च भविष्यदुपायाविनाभावाद् बीजमित्युच्यते । एवमन्यत्रापि यथायथमुदाहार्यम् । आनन्त्याद् ग्रन्थगौरवभयाच्च न प्रतिदिशं लिखितम् ।

अथ बिन्दुं लक्ष्यति प्रयोजनानां बिच्छेद इति । प्रयुज्यते फलं यैरुपायानुष्ठानैः तेषामिति– वृत्तवशादवश्यकर्तव्यादिभिर्विच्छेदेऽपि सति यदनुसन्धानात्मकं प्रधाननायकगतं सन्धिद्रव्यज्ञानं बिन्दुः, ज्ञानविचारणं फललाभोपायत्वात् । यावदविच्छेदः प्रत्यनुसन्धानेन (न)कृतस्तावन्न किञ्चिदपि कार्यं निर्वहति ।

Notes

यावत्समाप्तिर्बन्धस्य1 स बिन्दुः 2परिकीर्तितः ।। २३ ।।

Abh

ननु बीजं तावत् फलान्तमास्ते, बिन्दोस्तु कथं स्थितिरित्याह यावत्समाप्तिरिति। यावत्स्वस्य बध्यमानस्य फलस्य सम्यगाप्तिस्तावत् । एतदुक्तं भवति– सकलोपायप्रतिजागरणनिमित्तं ह्यनुसन्धानं यावद्धि मुख्यानायकेन प्रत्यनुसन्धानेन (न) क्रियते तावद् जडाजडरूपः सर्वोऽप्युपायधर्मोऽनुपायकल्प एव । तथा हि– तापसवत्सराजे वासवदत्ताप्रेमानुसन्धानं राजमुखेन प्रत्यङ्कं दर्शितम्–‘‘तद्वक्त्रे न्दुविलोकनेन दिवसो नीतः प्रदोषस्तथा’’ * इति यावत् षष्ठेऽङ्के–

त्वत्संप्राप्तिविलोभितेन सचिवैः प्राणा मया धारिताः
तन्मत्वा त्यजतः शरीरकमिदं नैवास्ति निःस्नेहता ।
आसन्नोऽवसरस्तवानुगमने जाता रतिः किं त्वयं
खेदो यच्छतधागतं न हृदयं तस्मिन् क्षणे दारुणे ।। (६.३)

तत्र प्रधानसिद्धिरायत्तसिद्धिरुभयसिद्धिः, प्रधानसिद्धावयं बिन्दुः, आयत्तसिद्धिस्तु राज्यप्राप्तिलक्षणा । तस्या– ममात्यवर्गकृतमेवानुसन्धानं बिन्दुः । उभयसिद्धौ तूभयकृतः येन यत्प्राधान्येनाभिसंहितं स एव तदनुसंघत्ते । इत्येवं प्रधानानुसन्धानचेतनव्यापारः कारणानुग्राही स्वयं च परमकारणस्वभावस्तैलबिन्दुवत् सर्वव्यापकात्वादपि बिन्दुः । बीजं च मुखसन्धेरेव प्रभृत्यात्मानमुन्मेषयति बिन्दुस्तदनन्तरमिति विशेषोऽनयोः, द्वे अपि तु समस्तेतिवृत्तव्यापके ।

Notes

यद्वृत्तं 1तु 2परार्थं स्यात् प्रधानस्योपकारकम् ।
3प्रधानवच्च कल्प्येत सा पताकेति कीर्तिता ।। २४ ।।

फलं 4प्रकल्प्यते 5यस्याः 6परार्थायैव केवलम् ।
अनुबन्धविहीनत्वात्7 8प्रकरीति विनिर्दिशेत् ।। २५ ।।

यदाधिकारिकं 9वस्तु सम्यक् प्राज्ञैः प्रयुज्यते ।
10तदर्थो यः समारम्भस्तत्कार्यं परिकीर्तितम्11 ।। २६ ।।

Abh

यद्वृत्तं तु परार्थं स्यादिति । यस्य संबन्धि वृत्तं संविदनुसन्धानं परस्य प्रयोजनसंपत्तये भवदपि स्वप्रयोजनं संपादयति । अत एवाह प्रधानवच्च कल्प्येतेति । सचेतनानुसन्धाना पताकासिद्धिः प्रधानस्योपकारिणी । एवं सुग्रीवविभीषणप्रभृतिरपि रामादिनोपक्रियमाणो रामादेरात्मनश्चोपकाराय प्रभवमानो प्रसिद्धिप्राशस्त्ये संपादयती । एवमौचित्यानौचित्यज्ञानोपयोगिन्यानयात्र पताकावदुपयोगित्वादियं पताकेति चिरन्तनाः ।

फलं प्रकल्प्यते यस्या इति यतश्च ततः परार्थमेव केवलं सर्वमनुतिष्ठति सा प्रकरी । यथा कृत्यारावणे कुलपतिः, वेणीसंहारे भगवान्वासुदेवः । प्रकर्षेण स्वार्थानपेक्षया करोतीति । इक् सार्वधातुभ्यः संविदपेक्षया च, स्त्रीलिङ्गत्वे कृदिकारादिति डीष् । फलमिति फलतिति कृत्योपायानुष्ठानमुच्यते ।

यदाधिकारिकमिति प्राज्ञैः प्रधाननायकपताकानायकप्रकरीनायकैश्चेतनरूपैः, यद्वस्तु फलरूपं प्रयुज्यते

Notes

एतेषां यस्य येनार्थो यतश्च गुण इष्यते ।
1तत् प्रधानं तु कर्तव्यं गुणभूतान्यतः2 परम् ।। २७ ।।

एको3ऽनेकोऽपि वा सन्धिः पताकायां तु यो भवेत्4 ।
5aप्रधानार्थानु 5यायित्वादनुसन्धिः प्रकीर्त्यते6 ।। २८ ।।

Abh

संपाद्यते संपाद्यत्वेनानुसन्धीयते तत्फलप्रयोजनो यः संपूर्णतादायी पूर्वपरिगृहीतस्य प्रधानस्य बीजाख्योपायस्य फलम्, आरभत इत्यारम्भशब्दवाच्यो द्रव्यक्रियागुणप्रभृतिः सर्वोऽर्थः (यस्य) सहकारी (तत्) कार्यमित्युच्यते, चेतनैः कार्यते फलमिति व्युत्पत्त्या । सम्यगिति प्रभुमन्त्रोत्साहशक्तित्रयसंपन्नैरित्यर्थः । तेन जनपदकोशदुर्गादिकव्यापारवैचित्र्यं सामाद्युपायवर्ग इत्येवत्सर्व कार्येऽन्तर्भवति । तत्र परं प्रथमपरिगृहीतः प्रधानभूतोऽभ्युपायो बीजत्वेनोक्तः ।

ननु प्रारम्भादिवदासामर्थप्रकृतीनां किं सर्वत्र सर्वासां सम्भवस्तथार्थप्रकृतिसन्धवस्थाभिः सह किं यथासख्यं नियमस्तथा किं स्वात्मन्यासां कर्तृक्रम इति शङ्कात्रयमपाकर्तुमाह एतेषामिति1 पञ्चकवर्गत्रयं परामृश्यते एकैकस्य वर्गस्यैकशेषेण । तदयमर्थः –न सर्वत्र प्रारम्भादिवत् सर्वा अर्थप्रकृतयोऽपि । अपि तु यस्य नायकस्य येनार्थप्रकृतिविशेषेण प्रयोजनसंपत्तिरधिका तदेव प्रधानम्, अन्यत्तु भवदपि गुणभूतमसत्कल्पम्, यथा स्वपराक्रमबहुमानशालिनां पताकाप्रकर्यौ अविवक्षिते एव । बीजबिन्दुकार्याणि तु सर्वत्रानपायीनि । तत्रापि तु गुणप्रधानभावः तथा सन्ध्यवस्थार्थप्रकृतीनां यस्य येनोचितः संबन्धस्तत्प्रधानं नाटकादिकार्यंमिति द्वितीयापि निरस्ता । यतश्च गुण उपकारो झटिति वाच्यते तदेवार्थप्रकृतिरूपं पञ्चानामन्यतमं प्रधानत्वेन बाहुल्येन निबन्धनीयम्, अन्यद् गुणाभावेन संबन्धस्तत्प्रधानं प्रधानसिद्धावायत्तसिद्धौ च

Notes
Abh

निबद्धमानायां यो यत्रांशेऽप्यधिकोपकारी स तत्र प्रधानीकर्तव्यः । यथा वासवदत्तालाभे (तापसवत्सराजे) बिन्दुः प्रधानं, कौशाम्बीराज्यलाभे तु प्रकरी पताका च प्रधाना, आमात्यस्य राज्यसिद्धौ स्वार्थसिद्धिरिति पताकात्वं केचिदाहुः । एवं सुसङ्गतासांकृत्यायनी* बीजधर्मादिषु वाच्यम् । अपरे तु–प्रथमतरमेव नायकस्य तावद्रूपत्वान्नैव प्रमाणं पृथङ्नायकत्वं सुग्रीवादयस्तु पृथग्भूता एव, सांप्रतिके कार्ये केवलमाश्रिता इति एवंप्रमाणमेव पताकादिरूपत्वम् । तेषां मते तापसवत्सराजे उभयत्रापि बिन्दुरेव प्रधानं, पञ्चानामप्यर्थप्रकृतीनामन्यतमस्य द्वयोस्तिसृणां चतसृणां सर्वासां वा प्राधान्यं यथास्वं विभजनीयम् । पताकावृत्तस्य प्रधानवदतिदेशात् पञ्च सन्धीत्यासां1 भवेत् पृथग्गणना । अस्त्वित्यसौ परार्थत्वादेव । अत एव च कुतः सन्धिः सूच्यते वाभ्यूहृते वा निबध्यते वा । यथा मायापुष्पके

वाली यथा विनिहतः प्रथितप्रभावो
दग्धा यथैककपिना प्रसभं च लङ्का ।
तीर्णो यथा जलनिधिर्गिरिसेतुना च
मन्ये तथा विलसितं चपलस्य धातुः ।

पताकायां हि पूर्णवर्णने पताकान्तरं स्यादित्यनवस्था । तद्युक्तमुक्तमनुसन्धित्वान्न पृथग्गणनमस्येति ।

तथा लोल्लटाद्यास्तु मन्यन्ते परार्थे साधयितव्ये पताकानायकस्येतिवृत्तभागा अनुसन्धयः । यथा कृत्यारावणे–

धन्यास्ते ते कृतिनः श्लाघ्या तेषां च जन्मनो वृत्तिः ।
यैरुज्झितात्मकार्यैर्येषामर्थाः प्रसाध्यन्ते ।।

इति मुखानुसन्धिः “वाली यथे” ति प्रतिमुखस्यानुसन्धिः, शक्तिहते लक्ष्मणे ओषध्यानयने गर्भस्य, अङ्गददौत्ये मन्दोदर्याक्षेपेऽवमर्शस्य, “आ ! अशक्त, अनार्ये तिष्ठ तिष्ठ, अतिरथस्त्वं सा न” इति निर्वहणस्य, इति । एतत्तु भवति सर्वस्यैव हि पञ्चावस्था भवन्तीत्युक्तम् । किं त्वस्यानुसन्धित्वाभिधाने प्रयोजनं न पश्यामः ।

Notes
  • सुसङ्गता रत्नावल्यां, सांकृत्यायनी तापसवत्सराजे ।

आगर्भादाविमर्शाद्वा1 पताका विनिवर्तते ।
2कस्माद्यस्मा 3न्निबन्धोऽस्याः 4परार्थः परिकीर्त्यते ।। २९ ।।

5यत्रार्थे चिन्तितेऽन्यस्मिन् 5aस्तल्लिङ्गोऽन्यः प्रयुज्यते ।

Abh

स्वफलसिद्धये यतमानस्य तत्र तत्रावश्यं पृथग्गणनाशङ्केति, तत्प्रशमनप्रयोजनम्, अस्मत्पक्षे कस्मिंस्तर्हि प्रधानसन्धौ तस्यानुयायित्वमिति दर्शयितुमाह आगर्भादाविमर्शाद्वेति प्रतिमुखे गर्भे यदि वा यमर्थ व्याप्य निवर्तते पताकेतिवृत्तं तावत्येव पताकानायकस्य स्वफलसिद्धिरुपनिबन्धनीया, सिद्धफलस्त्वसौ प्रधानफल एव व्याप्रियमाण आसीनोऽपि भूतपूर्वगत्या पताकाशब्दवाच्यो न मुख्यत्वेन । अत्राह कस्माद्यस्मादिति । कस्मादस्याभिप्रायः, प्रधानवच्च कल्प्येतेत्युक्तत्वात् । निर्वाहादपि किं तद्भवति, अत्रोत्तरं यस्मादिति निर्वहणपर्यन्ते तत्फले क्रियमाणे तुल्यकालयोगरुपकार्योपकारकत्वाभावात् तेन प्रधानोपकारो न भवेत् । अभिविधावाङ् । ये तु मर्यादायां तं व्याचक्षते ते न सम्यगमंसत–विनिपातप्रतीकारेः प्रधानविमर्शसन्धौ प्रत्युतोपयोगः पताकायाः, यत्र कृतघ्नता दृष्टा तन्नोच्यते कृतज्ञस्तु प्राप्तफलो विनिपातान् प्रतिकुर्यादेवेति । तत्र पताकानायको यथास्वार्थे प्रवर्तते परार्थं च (संपद्यते), भृत्यस्यान्यस्य वा जडस्य वा स्थितिः– स्वार्थेऽपि सति परार्थे संपद्यते । तत्पताकास्थानकं, पताका सदृशम् तत्र जडस्य स्वार्थपरार्थप्रवृत्तौ तावदभिसन्धानाभावात् अभिसन्धानवतः सुग्रीवादेः पताकानायकाद्भेदः, अजडस्यापि स्वार्थे यद्यप्यभिसन्धानमस्ति तत्रापि परार्थे नास्तीति विशेषः, प्रधानवच्च कल्प्येतेति पताकालक्षणेऽभिधानाद् बहुतरेवृत्ते व्यापकता नायकस्य, अस्य तु परिमितेतिवृत्तव्यापकत्वमित्यपि विशेषः ।

तस्य पताकास्थानकस्य वक्ष्यमाणभेदैर्भिदवत्त्वात् सामान्यलक्षणं तावदाह यत्रार्थे चिन्तितेऽन्यस्मिन्निति । अर्थः प्रयोजनं, उपायश्च, कर्मकरणव्युत्पत्त्या, अन्यस्मिन्नुपाये प्रयोजने वा चिन्तिते

Notes

आगन्तुकेन भावेन पताकास्थानकं तु तत् ।। ३० ।।

सहसैवार्थसम्पत्ति1र्गुणवत्युपकारतः2 ।
पताकास्थानकमिदं प्रथमं परिकीर्तितम्3 ।। ३१ ।।

Abh

अन्यः उपायान्तरप्रयोजनान्तरलक्षणः प्रकर्षेण युज्यते संबध्यते यत्रेति तत्पताकास्थानकम्, पताकाधारत्वादुपचारादितिवृत्तमपि पताकास्थानकम् । उपाध्यायास्त्वाहुः–पताकायाः स्थानमितिवृत्तता, तत्र चार्थः क्रियमाणोऽपि पूर्वपदार्थमुपसंक्रामति, राजवाहन इवामुद्धुरकन्धरस्तिष्टतीति यथा, तेन पताकायाः स्थानकमितिवृत्तमेवोच्यते । तत्र वर्ण्यमानं तु जडाजडरूपं पताकासदृशमित्यर्थादुक्तं भवति । स चान्योऽर्थस्तल्लिङ्गस्तन्मुख्यमर्थं लिङ्गयति विचित्रयतीति ।

ननु कि तत्र पताकासादृश्यमित्याह आगन्तुकेन भावेनेति । भावनं भावः कारणत्वम्, तच्च द्विविधं स्वरूपकृंत सहकारिकृतं च । सहकारिकृतमागन्तुकमुच्यते । तेन सहकारित्वसामान्यात् तत्समर्थाचरणलक्षणात् पताकासादृश्यमिति यावत् । अन्याभिसन्धानेऽन्यसिद्धिश्वेत् भूषणभूतापि कैश्चिद्दूषणत्वेन गृहीता, तैरर्थशब्दः उपायवाच्योपाश्रितः । तल्लिङ्ग इति कारणत्वधर्माभावप्रवृत्तिनिमित्त उपायः । उदाहरणं सामान्यलक्षणस्य विशेषलक्षणव्याख्याने शक्ययोजनमिति तत्रैव दर्शयिष्यामः । तद्भेदान् क्रमेण लक्षयति सहसैवार्थसंपत्तिरिति । यत्रोपकारकमपेक्ष्य गुणवती उत्कृष्टा अर्थस्थ फलस्य सहसैवाचिन्तितोपनतत्वेन भवति संपत्तिः तत् प्रथममिति साध्यफलयोगात्प्रधानं पताकास्थानम् । यथा रत्नावल्यां सागरिकायां पाशावलम्बनप्रवृत्तायां वासवदत्तेयमिति मन्यमानो यदा राजा पाशं मुञ्चति तदा तदुक्त्या सागरिकां प्रत्यभिज्ञाय “हा कथं प्रिया मे सागरिका, अलमलमतिमात्र” मित्यादि । अत्रान्यत्प्रयोजनं चिन्तितं तद्वैचित्र्यकारि च प्रयोजनान्तरं संपन्नम् । तत्र च दैवयोगः तथाभूतदेशकालयोगो नायकः स्वात्मैवान्याभिसन्धिबलात् कल्पितभेदः, सागरिकैव वा

Notes

1वचः सतिशयं श्लिष्टं काव्यबन्धसमाश्रयम्2 ।
3पताकास्थानकमिदं द्वितीयं परिकीर्तितम्4 ।। ३२ ।।

अर्थोपक्षेपणं 5aयत्र5 लीनं 6सविनयं भवेत् ।
7श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते ।। ३३ ।।

Abh

मरणमेवोचितमित्यन्याभि सन्धानेन वदतीति पताकानायकसदृशत्वं भजते । अन्यस्मिन्नुपाये चिन्तिते सहसोपायान्तरप्राप्तिः यथा नागानन्दे जीमूतवाहनस्य शङ्खचूडादप्राप्तवध्यपटस्य कञ्चुकिना वासोयुगलार्पणम् ।

अन्ये तु ‘चतुष्पताकापरममिति भाविसन्धिचतुष्टयाभिप्रायेण मन्यमानाः प्रथमद्वितीयादिशब्दान् मुखादिसन्धिविषयप्रयोगाभिप्रायेण व्याचक्षते । अत्र च युक्तिर्न लक्ष्यते, न वा चमत्कारं भजतीत्यसदेव । एतत्तुल्लतया गणनभूतेन्द्रियैः सह पताकापञ्चकगणनमप्यापादयेदिति च वदद्भिश्चिरन्तनैरेवायमुपहासपात्रीकृतः पक्ष इत्यास्ताम् ।

वचः सातिशयं श्लिष्टमिति । काव्यस्य प्रकृतस्य वर्णनीयस्य यो बन्धः, अतिशयोक्त्यादिना योजनं तन्निमित्तवशाद्यद्ववचनं सातिशयं श्लिष्टप्रकृतं प्रत्युचितं जातं तद्वचनं तदर्थो वा तदुच्चारयिता वा यादृच्छिकं वा प्रकृतोपयोगित्वेन सहकारित्वेन गच्छद् (? गच्छन्) द्वितीयं पताकास्थानमभिसन्धानापेक्षया । यथा रामाभ्युदये तृतीयेऽङ्के सीतां प्रति सुग्रीवस्य संदेशोक्तिः–

बहुनात्र किमुक्तेन पारेऽपि जलधेः स्थिताम् ।
अचिरादेव देवि त्वामाहरिष्यति राघवः ।।

अत्रान्यप्रयोजनेनातिशत्त्क्याशयेन प्रयुक्तेऽपि वचसि पारेऽपीत्यादि प्रकृतोपयोगातिशयात्पताकास्थानकम् ।

अर्थोपक्षेपणं यत्रेति । लीनमस्फुटरूपं उपक्षिप्यमाणमर्थंजातं, श्लिष्टेन संबन्धयोग्येनाभिप्रायन्तरप्रयुक्तेनापि प्रत्युत्तरेणोपेतं सद्यत्र, सविनयं विशेषेण नयनेन विशेषनिश्चयप्राप्त्या सहितं संपद्यते तत् तृतीयं पताकास्था–

Notes

1द्व्यर्थो वचनविन्यासः 2सुश्लिष्टः 3काव्ययोजितः ।
4उपन्याससुयुक्त4aश्च 5तच्चतुर्थमुदाहृतम् ।। ३४ ।।

Abh

नकम् । यथा मुद्राराक्षसे चाणक्यः – “अपि नाम राक्षसो दुरात्मा गृह्येत” एवमस्फुटेऽर्थे उपक्षिप्ते, (प्रविश्य) सिद्धार्थकः– “अय्य गहिदो”*इत्येतत्प्रत्युत्तरं सन्देशाशयेन प्रयुक्तमौचित्याद्विशेषनिश्चयं करोति । तथा च पुनश्चाणक्यः – (सहर्षमात्मगतं) “हन्त गृहीतो दुरात्मा राक्षसः” इति । इदं च प्रकृतसाध्योपयोगाङ्गित्वात् पताकास्थानीयमिति वीथ्यङ्गाद् गण्डादस्य भेदः –“ऊरुयुग्मं च भग्नं” तद्धि प्रत्युत दुर्योधननाशादाशयश्च दुष्टः । कस्तस्योपयोगः, पाण्डवानुसारेण तु भवतु । इदं पताकास्थानकं भिन्न– विषयत्वं कृतं ह्येतद्रूपं न क्षतिमावहति ।

द्वयर्थो वचनविन्यास इति यो वचनविन्यासः [काव्यरूपं] कथारूपं वा सालङ्कारत्वसंपत्त्याशयेन, शोभनः प्रसादयुक्तः श्लेषवशात्, द्वयर्थ इति अनेकार्थसंप्रयुक्तः तादृशः सन्नुपन्यासे वस्त्वन्तरोपक्षेपे सुष्ठु युक्तः संपद्यते, तच्चतुर्थम् । यथा “प्रीत्युत्कर्षकृतो दृशामुदयनस्येन्दोरिवोद्वीक्षते” 1 (रत्नावली अ १–२३) इत्यत्र हि काव्यरूपताशयेन श्लेषः प्रयुक्तः प्रधानवस्त्वन्तरं सागरिकागतमुत्क्षिपति– ‘अयं सो राआ उदयणो जस्स अहं तादेण दिण्णा–अयं स राजा उदयनो यस्याहं तातेन दत्ता” (रत्ना अ १) इति । “उद्दामोत्कलिकां2”

Notes

1[यत्र सातिशयं वाक्यमर्थोपक्षेपणं भवेत् ।
विनाशिदृष्टमन्ते च पताकार्धं तु तद्भवेत्] ।। ३५ ।।

2aचतुष्पताकापरमं 2नाटके 3कार्यमिष्यते ।
पञ्चभिः सन्धिभिर्युक्तं 4तांश्च वक्ष्याम्यतः परम् ।। ३६ ।।

Abh

इति तु नोदाहरणं, द्व्यर्थताप्रतिपत्तावपि हि नात्रार्थेन सहकारिता कुत्रचिदाचरिता । तस्मादेतद्वीथ्यङ्गस्य व्याहारस्यैवोदाहरणं युक्तम्1 ।

एषामुत्कर्षं दर्शयतिमाह चतुष्पताकापरममिति । पताकाशब्देन समनन्तरं पताकास्थानकमुक्तं तैश्चतुर्भिः कृतैः परममुत्कृष्टं नाटके नाट्यविषये कार्यमिष्यते तस्मात्तथाकर्तव्यमित्यर्थः ।

पताकानायकेन [? स्थानकेन] हि यल्लेशतः कर्तव्यं तदेकेन क्रियते चतुष्टयेन वा । केचिदित्याहुः चतुर्षु सन्धिषु चत्वारः पताकानायकाः, तेषां यथाक्रमं सूचकानि पताकास्थानकानि, प्रथमं मुखसन्धौ यावच्चतुर्थमवमर्शसन्धाविति– तच्चासत्, पताकाया इव प्रकरीकार्यबिन्दुबीजानामपि सूचकान्तराणि तदानीं वक्तव्यानि स्युः चत्वारश्च नियमेन पताकानायका भवेयुः आगर्भादिति च पक्षे चतुष्पताकापरममित्यसङ्गतं स्यात्, मुख्यनायके चेतिवृत्तसूचकं न लक्षणतः ( ?लक्षणं) कथ्यते पताकानायके तु कथ्यत इत्यधरोत्तरमाश्रितं स्यात्, न च मुख्यसंघावाद्यं द्वितीयं प्रतिमुखसन्धावित्यादिक्रमो न्यायं लक्ष्ये वा साक्ष्यमाक्षिपति–इत्यलमनेन ।

एवमितिवृत्तं व्याख्यातं, तस्य च भेदद्वयं निरूपितं, प्रसङ्गादाधिकारिकत्वसिद्धये अनुवृत्तिस्थानभूता अवस्थाः पञ्च दर्शिता अर्थप्रकृतयश्च, तत्प्रसङ्गादेव पताकास्थानानि । अधुना त्वितिशब्दार्थं प्रयुक्तं पञ्चभिः सन्धिभिर्युक्तमिति । तत्र प्रतिज्ञां करोति तांश्च वक्ष्यामिति । अथ

Notes

मुखं प्रतिमुखं चैव गर्भो विमर्शे 1aएव च1 ।
तथा निर्वहणं चेति नाटके पञ्च सन्धयः2 ।। ३७ ।।

3[पञ्चभिः सन्धिभिर्युक्तं प्रधानमनु कीर्त्यते ।
शेषाः प्रधानसन्धीनामनु4 ग्राह्यनुसन्धयः] ।। ३८ ।।

यत्र बीज5 समुत्पत्तिर्नानार्थरससम्भवा ।
6काव्ये शरीरानुगता6a तन्मुखं परिकीर्तितम् ।। ३९ ।।

Abh

निर्णिनीषुरुद्देशं तावदाह मुखं प्रतिमुखं चैवेति । समुच्चयपदैः पञ्चानां सर्वत्रावंश्यभावित्वं द्योतितम् । नियमवाचिभिः क्रमनियमः । नाटक इत्यभिनेयरूपके इत्यर्थः । महावाक्यार्थरूपस्य रूपकार्थस्य पञ्चांशा अवस्थाभेदेन कल्प्यन्ते । तत्र मुखस्य (? मुख्यस्य) स्वतन्त्रस्येतिवृत्ते समस्तप्रयोजनस्यात एव नायकस्य स्वमुखेन परद्वारेण वा या प्रारम्भावस्था प्रथमा व्याख्याता तदुपयोगी यावानर्थराशिः स मुखसन्धिः । तस्यार्थराशेरवान्तरभागान्युपक्षेपाद्यानि सन्ध्यङ्गानि । एवमन्येषु सन्धिषु वाच्यम् । तेनार्थावयवा सन्धीयमानाः परस्परमङ्गैश्च सन्धय इति समाख्या निरुक्ताः । तदेषां सामान्यलक्षणम् । तत्रैषां क्रमेण विशेषलक्षणमाह यत्र बीजसमुत्पत्तिरिति । प्रागारम्भभावित्वान्मुखमिव मुखं, यावत् क्रियावत्यर्थभागराशौ बीजस्य मुखोपायस्य सम्यगुत्पत्तिः शरीरेण प्रारम्भात्मना अनुगता भवति, नानभूतोऽर्थवशात् प्रसङ्गायातो रससंभवो यः स्यात् (यस्याम् ?) । एतदुक्तं –प्रारम्भोपयोगी यावानर्थराशिः प्रसक्तानुप्रसक्त्या विचित्रास्वाद आपतितः तावान्

Notes

1a N. निमर्शनस्तथा

बीजस्योद्धाटनं यत्र1 दृष्टनष्टमिव क्वचित् ।

Abh

मुखसन्धिः, तदभिघायी च रूपकैकदेशः । यथा रत्नावल्यां प्रथमोऽङ्कः, तथा हि अमात्यस्य वीरो, वत्सराजस्य श्रृङ्गाराद्भुतौ ततः श्रृङ्गार इति इयानयं सागरिकाया राजदर्शनेऽमात्यप्रारम्भविषयीकृतेऽर्थराशिरुपयोगीति मुखसन्धिः । एवं प्रतिसन्धि वक्तव्यम् ।

बीजस्योद्धाटनं यत्रेति । कार्यतया दृष्टं कारणतया नष्टमिति केचित्, उपादेये दृष्टं हेये नष्टमित्यन्ये, नायकवृत्ते दृष्टं प्रतिनायकेतिवृत्ते नष्टमित्यपरे । न चैतत्समञ्जसम्, एकविषयमन्तरेण सन्धानायोगात्, नाशस्यापि च हेयादिविषयस्य प्रारम्भवशेन दृष्टतयैव संग्रहसंपत्तेः । तस्मादयमत्रार्थः –बीजस्योद्धाटनं तावत् फलानुगुणो दशाविशेषः तद् दृष्टमपि विरोधिसंनिधेर्नष्टमिव, पांसुना पिहितस्येव बीजस्याङ्कुररूपमुद्धाटनम् । यथा वेणीसंहारे कञ्चुकिवचनम्–

आशस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने–
स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः ।
प्रौढानेकधनुर्धरारिविजयश्रान्तस्य चैकाकिनो
बालस्यायमरातिलूनधनुषः प्रीतोऽभिमन्योर्वधात् ।। (अ २–२)

अत्र पाण्डवाभ्युदयस्य मुखोपक्षिप्तस्योद्धाटनं भीष्मवधाद् दृष्टमभिमन्युवधान्नष्टमिति वेदितव्यमिति केचित् । तदा चार्थो1 न संगमितः स्यात् । दृष्टतैव प्रतिमुख उपयोगिनी नष्टता त्ववमर्श एवेति केचिदुत्तरोत्तरविकास– तारतम्यं दृष्टनष्टत्वमाहुः । पूर्वावस्था हि दृष्टाप्युत्तरदृष्टविकासापेक्ष्या नष्टा । एवं संमृष्टोपमविकास उत्तरापेक्षयेति मन्यन्ते, अत्रापीवार्थो न संगच्छत एव ।

तस्मादयमत्रार्थः–दृष्टं नष्टमिव कृत्वा तावन्मुखे न्यस्तं भूमाविव बीजं, अमात्येन सागरिकाचेष्टितं वसन्तोत्सवकामदेवपूजादिना तिरोहितं नष्टमिव2

Notes

मुखन्यस्तस्य सर्वत्र2 तद्वै प्रतिमुखं स्मृतम्3 ।। ४० ।।

उद्धेदस्तस्य4 बीजस्य प्राप्तिरप्राप्तिरेव वा ।
5पुनश्चान्वेषणं यत्र6 स गर्भ इति संज्ञिताः ।। ४१ ।।

Abh

सागरिकाचेष्टितस्य हि बीजस्येव तदाच्छादकमप्युत्सवादिरूपं भूमिरिव भूमिवत् प्रत्युत कार्यजननशक्त्युद्बोधकम् । तस्य दृष्टनष्टतुल्यं कृत्वान्यस्तस्य, अत एव कुङ्कुमबीजस्य यदुद्धाटनं2तत्कल्पं, यत्रोद्धाटनं सर्वत्रैव कथाभागसमूहे3 तत्प्रतिमुखं3a, प्रतिराभिमुख्ये4मुख्यस्या (मुखस्य)भिमुख्येन यतोऽत्र वृत्तिः । पराङमुखता हि दृष्टनष्टकल्पनानिर्दशनम् । रत्नावल्यां –परप्पेसत्तणदूसिदं वि मे सरीरं एदस्य दंसणेण अज्ज मे बहुमदं संपण्णं (परषेष्यत्वदूषितमपि मे शरीरमेतस्य दर्शनेनाद्य मे बहुमतं सम्पन्नम्) इत्यादि सागरिकोक्तेरनङ्गाङ्कात् (प्रथमाङ्कात्) सुसङ्गतारचितराजतत्समागमपर्यन्तं काव्यं द्वितीयाङ्कगतं प्रतिमुखसन्धिः । उद्घाटितत्वाद् बीजस्य स्तोकमात्रं तु शङ्कुकादिभिरुदाहृतं यत्तदेकदेशलक्षणमिति द्रष्टव्यम् ।

उद्धेद इति । तस्येति उत्पत्त्युद्धाटनदशाद्वयाविष्टस्य बीजस्य यत्रोद्भेदः फलजननाभिमुख्यत्वं स गर्भः । उद्भेदमेवं विवृणोति प्राप्तिरित्यादिना । प्राप्तिर्नायकविषया, अप्राप्तिः प्रतिनायकचरिते पुनश्चान्वेषणमित्युभयसाधारणम् । अन्ये तु वीररौद्रविषय एवैतस्यार्थस्य भावादव्यापित्वादेवमाहुः । प्राप्तिः, अप्राप्तिरन्वेषणामित्येवं भूताभिरवस्थाभिः पुनः पुनर्भवन्तीभिर्युक्तो गर्भसन्धिः, प्राप्तिसम्भवाख्ययावस्थया युक्तत्वेन फलस्य गर्भीभावात् । तथा हि रत्नावल्यां द्वितीयेऽङ्के सुसङ्गता –अदक्खिणा दाणि तुमं, जा एव्वं भट्ठिणा इत्थेण गहीदा वि कोवं ण मुंचेसि (अदक्षिणा इदानीं त्वं या एवं भर्त्रा हस्तेन गृहीतापि कोपं न मुञ्चसि) इत्यादौ प्राप्तिः । पुनर्वासवदत्ताप्रवेशेऽप्राप्तिस्तृतीयेऽङ्के । “तद्वृत्तान्वेषणाय गतश्चिरयति वसन्तकः”

Notes

1गर्भनिर्भिन्नबीजार्थो 2विलोभनकृतोऽथवा3 ।
4क्रोधव्यसनजो वापि स विमर्श इति स्मृतः5 ।। ४२ ।।

Abh

इत्यन्वेषणम् । विदूषकः–“ही ही भोः कोसंबीरज्जलंभेणावि ण तारिसो पिअवअस्सस्स परितोसो जारिसो मम सआसादो पिअवअणं सुणिअ भविस्सदिं” *इत्यादौ प्राप्तिः । पुनः “इह तदप्यस्त्येव बिम्बाधरे +” इति, विदूषकस्य–“भो वयस्य, किं अवरं” †† इत्यत्र वासवदत्ताप्रत्यभिज्ञानादप्राप्तिः । पुनः सागरिकायाः सङ्केतस्थानागमने अन्वेषणम् । पुनर्लतापाशकरणे प्राप्तिरित्येवं गर्भः । अप्राप्त्यंशश्चात्रावश्यंभावी, अन्यथा हि सम्भावनात्मा प्राप्तिसम्भवः कथं निश्चय एव हि स्यात् । अवमर्शे त्वप्राप्तेरेव प्रधानता प्राप्त्यंशस्य च न्यूनतेति विशेषः । /?/

गर्भनिर्भिन्नबीजार्थ इति । केचिद्विमर्श इति पठन्ति, अन्येऽवमर्श इति । तत्र सन्देहात्मको विमर्शः । ननु पूर्वः सम्भावनाप्रत्ययः, ततः संशय इति नेदमुचितम्, संशयनिर्णयान्तरालवर्तिनं हि तर्कं तार्किकाः प्राहुः । किं च विमर्शसन्धिर्नियतफलप्राप्त्यवस्थया व्याप्तः, तच्च नियतत्वं सन्देहश्चेति किमेतत् । अत्राहुः –तर्कानन्तरमपि

Notes
Abh

हेत्वन्तरवशाद् बाधच्छलरूपतापराकरणे संशयो भवेत्, किं न भवति । इहापि च निमित्तबलात्कुतश्चित्संभावितमपि फलं यदा बलवता प्रत्यूह्यते कारणानि च बलवन्ति भवन्ति तदा जनकविघातकयोस्तुल्यबलत्वात् कथं न सन्देहः । तुल्यबलविरोधकविधीयमानवैधुर्यव्याधूननसन्धीयमानस्फारफलावलोकनायां च पुरुषकारः सुतरामुद्धुरकन्धरीभवतीति तर्कानन्तरमत्र संशयः ततो निर्णय इत्येतदेवोचिततरम् । तथा हि– पुरुषकारशालिन एव श्लाघ्यन्ते, अद्भुतमद्भुतं प्राणसन्देहादप्यनेनात्मा समुत्तारितो यत्र संभावनाविनाभवति, यत एवान्यप्रयत्नतो विधुरप्रयत्नतो य उपनिपातः, तत एव पुरुषकारोद्यतः पुमानपि विजिगीषागर्भत्वेन प्रोद्यमं भजतीति तदाशयेन नियता फलप्राप्तिरुच्यते । श्रेयांसि बहुविघ्नानीति पश्यन्, तदत्र मया विघ्नापसारणं कर्तव्यमिति साभिमानः स्वमुद्योगसूत्रं सहस्रगुणीकुरुते, तथा हि सागरिकाबन्धनेऽपि महामात्यप्रयुक्तमैन्द्रजालिकवृत्तं सुनिपुणमुपनिबद्धं तावत् ।

अन्ये त्ववमर्शो विघ्न इति विदन्ति । बीजशब्देन बीजफलम् । अर्थशब्देन निवृत्तिरुच्यते । तेन गर्भनिर्भिन्नप्रदर्शितमुखं यद्बीजफलं तस्य योऽर्थो निवृत्तिः पुनस्तत्रैव संपादनं (निष्प्रत्यूहप्राणतया फलप्रसूतिः?) स इति तच्छब्देन यत्रेत्याक्षिप्तम्1 । सा च निवृत्तिः क्रोधेन च निमित्तेन लोभेन वा व्यसनेन शापादिना वा । अपिशब्दाद् विघ्ननिमित्तान्तराणां प्रतिपदमशक्यनिर्देशानां सङ्ग्रहः, स च देव्या वासवदत्तया सागरिकायाः कारानिक्षेपात्प्रभृति येयं तुरीयेऽङ्के राज्ञ उक्तिः–

कण्ठाश्लेषं समासाद्य तस्याः प्रभ्रष्टयानया ।
तुल्यावस्था सखीवेयं तनुराश्वास्यते मम ।।

अत्र विघ्ने वासवदत्ताक्रोधो निमित्तम् । लोभस्तु निमित्तं, यथा तापसवत्सराजे–“त्वत्संप्राप्तिविलोभितेन सचिवैः प्राणा मया धारिताः” *(६–३) इति । तदपरे न सहन्ते न ह्यत्र वासदत्ताप्राप्तिलोभः प्रकृते फले विघ्न–

Notes
Abh

कारीति, इदं तदोदाहरणं –तत्रैव परिणीतायामपि पद्मावत्यां वासवदत्तामलभमानस्य राज्ञो मरणाध्यवसायो मुमूर्षोः, तदलाभे मन्त्रिणां सुतरां राज्यप्राप्तिदीर्घलोभो निमित्तमिति ।

शापव्यसनं त्वमर्षनिमित्तमिति अभिज्ञानशाकुन्तले दर्शितम् । एवमन्यदुत्प्रेक्ष्यम् । तथा हि – सपत्न्या विद्याप्रभावो निमित्तमवमर्शे, क्कचिद्दैवं, क्कचित्समयः –यथा विक्रमोर्वश्यां पुत्रवदनावलोकनादूर्वश्याः स्वर्गगमनाध्यवसाये ।

अन्ये त्वावृत्तिविमर्शशब्दं कल्पयन्त इत्थं व्याचक्षते –गर्भान्निर्भिन्नो बीजार्थफलं यस्मिन्, विमर्शादिकारणत्वाद् विमर्शरूपे कथावयवे स विमर्शो नामेति । अत्र व्याख्याने मुख्यमस्य सन्धेर्यद्रूपं विघ्नकारण– संपातात्मकत्वं नाम तदस्पृष्टमेव स्यात् ।

अन्ये तु लाभयोग्यत्वं, नाशावस्था, अन्वेषणावस्था च यथारुचि गर्भे निबन्धनीया, तत्र यदा लाभात्मिका प्राप्त्यवस्था प्रतिमुखेनैव निबध्यते तदान्ये द्वे गर्भे सन्धौ, यदाप्यवमर्शे नाशावस्था तदा गर्भेऽन्वेषणमेव, गर्भे यदा नाशान्वेषणे तदा चावमर्शे विचारो निबन्धनीयः । कथं मया प्राप्तप्रायमप्यपहारितं किमत्र विगुणोपायानुष्ठानं मया कृतं, उत प्राप्तियोग्यमेवैतन्न भवतीति, यदाहोद्भटः यासावन्वेषणभूमिरवमृष्टिरवमर्श इति, तच्चेदं व्याख्यानं लक्ष्यविरुद्धं युक्त्या च पूर्वोदितप्रारम्भाद्यवस्थापञ्चकगतक्रमनियमसमर्थनप्रस्तावोक्तया विरुद्धमित्यास्ताम् ।

“अहमनेन विफलायां क्रियायां विलोभ्य प्रवर्तित इति यत्र कर्ता विमृशाति स विलोभनकृत इति, क्रोधव्यसनादेस्तु व्यापद्यमाने फलव्यापत्तिविषयो यः कर्तुर्विचारः स क्रोधव्यसनजे विमर्श इत्येवं विमर्शनस्वभाव एव विमर्शः, कार्यविनिपातस्तूत्तरनिर्वहणसन्धिनिब ध्यमानाद्भुतरसपरिपोषकत्वेन निबध्यते” इति श्रीशङ्कुकः । तन्मते विचारस्य सर्वसन्ध्यनुपायत्वात् पृथग्विमर्शशब्देनाभिधानं स्यात् ।

व्यापत्तिविषयो विचार इति केचित् । पुनरप्यस्य सरणिरेव1, सा च न व्याख्यानेन क्रमेण दर्शिता । विलोभनकृतोदाहरणं तु न व्यापत्तिविमर्श इति सर्वं त्वसमञ्जसं यथारुचि परिकल्पितमित्यलमनेन ।

Notes

1समानयनमर्थानां 2मुखाद्यानां सबीजिनाम्3 ।
4नानाभावोत्तराणां 5यद्भवेन्निर्वहणं तु तत् ।। ४३ ।।

Abh

समानयनमिति । मुखाद्यानां चतुर्णां सन्धीनां येऽर्थाः प्रारम्भाद्या तेषां सह बीजिभिः बीजविकारैः क्रमेणावस्थाचतुष्टयेन भवद्भिः उत्पत्त्युद्धाटनोद्भेदगर्भनिर्भेदलक्षणैः वर्तमानानां नानाविधैः सुखदुःखात्मकैः [रति]– हासशोकक्रोधादिभिर्भवैरुत्तराणां चमत्कारास्पदत्वे जातोत्कर्षाणां यत्समानयनं, यस्मिन्नर्थराशौ समानीयन्ते फलनिष्षत्तौ योज्यन्ते तन्निर्वहणं1 फलायोगावस्थया व्याप्तम् । अत्रकेचिदमून् सर्वान् सन्धीनवस्थास्थापञ्चकनिर्वहणे पृथग्वृत्त्या 2योज्यमानानिच्छन्ति ।

अन्ये तु सन्धौ सन्ध्यन्तरानुप्रवेशमिच्छन्तोऽपि प्रागवस्थाया एकोत्तरावस्थापरिणामात्मकत्वे कारणं न पश्यन्त्यपि (ताः) कार्याभवन्तीति सांख्यदर्शनच्छायाश्रयेणैकावस्थायाः फलसंगमनसंबन्धोकरणभावप्राप्तं तदेकभावानामवस्थान्तराणां फलसंगमनमुचितमेवेति मन्यन्ते ।

अन्ये तु मुखसन्धौ ये अवलम्ब्यमानतया आद्याः प्रधानभूता अर्थाः उपायास्ते महौजसः फलसंपत्तौ साधकाः तेषां फलसंगत्या समानयनमिति व्याचक्षते । “महौजसां फलोपसंगतानां च” इति पाठेन3 –यदा च सुखप्राप्तेः फलवत्त्वं तदा रतिहासादिबाहुल्यं प्रारम्भादीनां, दुःखहानेस्तु फलत्वे क्रोधशोकादिदुःखात्मक– भावबाहुल्यं, स्वोचितव्यभिचारिसहितं द्रष्टव्यम् । उदाहरणं रत्नावल्यामैन्द्रजालिकप्रवेशात्प्रभृत्यासमाप्तेः । एषामवस्था सन्ध्यादीनां नायकतदमात्यतत्परिवारनायिकादिमुखेनापि नियोजनं न त्वेकमुखेनैवेति नियम इत्युक्तं पूर्वमेव ।

Notes

एते तु1 सन्धयो ज्ञेया 2नाटकस्य प्रयोक्तृभिः ।
3तथा प्रकरणस्यापि शेषाणां च निबोधत ।। ४४ ।।

डिमः समवकारश्च चतुःसन्धी प्रकीर्तितौ4 ।
5न तयोरवमर्शस्तु कर्तव्यः कविभिः सदा ।। ४५ ।।

व्यायोगेहामृगौ चापि सदा कार्यौ त्रिसन्धिकौ6 ।
7गर्भावमर्शौ7a न स्यातां तयोर्वृत्तिश्च कौशिकी ।। ४६ ।।

द्विसन्धि तु प्रहसनं वीथ्यङ्को भाण एव च ।
मुखनिर्वहणे 8तत्र कर्तव्ये9a कविभिः सदा9 ।। ४७ ।।

10[वीथी चैव हि भाणश्च तथा प्रहसनं पुनः ।
कैशिकीवृत्तिहीनानि कार्याणि कविभिः सदा] ।। ४८ ।।

Abh

एतेषां विनियोगं विभजति एते त्वित्यादिना “मुखनिर्वहणे तत्र कर्तव्ये कविभिः सदा” इत्यन्तेन । एतच्च पूर्वमेव निर्णीतार्थं ‘एकलोपे चतुर्थ’ स्येत्यादि (१९–१८) व्याख्यानावसरे ।

कस्मात्तौ (डिमसमवकारौ) चतुःसन्धी इत्याह न तयोरित्यादिना । तुर्हेतौ, यतस्तयोरवमर्शं निबद्धुमशक्यमिति । एवमुत्तरत्रापि । हेतुग्रन्थान्तरत्वे–

Notes

एवं 1हि सन्धयः कार्या 2दशरूपे प्रयोक्तृभिः ।
3पुनरेषां तु सन्धीनामङ्गकल्पं निबोधत4 ।। ४९ ।।

सन्धीनां यानि वृत्तानि 5प्रदेशेष्वनुपूर्वशः ।
6स्वसम्पद्गुणयुक्तानि तान्यङ्गान्युपधारयेत्7 ।। ५० ।।

Abh

नेदं योज्यम्, न तु लोपस्थानित्वेन, तस्य “एकलोपे (चतुर्थस्य)” (१९/१८) इत्यादिना पूर्वमेवोक्तत्वात् ।

ननु सन्धिपञ्चकात्मक इतिवृत्तशरीराराम्भे कथं दशरूपकादिभेद इत्याशंक्याह एवं हीति। हि यस्मात्, एवमुक्तेन विनियोगप्रकारेण सन्धयो भवन्ति ततो दशरूपभेद इति केचिदाशङ्कापूर्वकं व्याचक्षते, तच्चासत्, 1लक्ष्यभेदादेव दशरूपकभेदस्य दर्शितत्वात् । अवश्यं चैतत्, अन्यथा डिमसमवकारयोश्चतुः सन्धित्वाविशेषात् कथं भेदः स्यात्, नाटकादीनां वा, तस्मादुपसंहारग्रन्थोऽयमिति हीति । अङ्गानां कल्पं कल्पनाप्रकारो वा तेनैवंप्रायमन्यदपीतिवृत्तोपयोगि भवति ।

अङ्गानां सामान्यस्वरूपं प्रयोजनद्वारेण दर्शयितुं प्रथमेन स्वरूपं द्वाभ्यां प्रयोजनमेकेन द्वयं 2प्रकाशयन्नाह श्लोकषट्कं “सन्धीनां सम्बन्धीनि यानि वृत्तानी“3 त्यादि “शोभामेति न संशयः” इत्यन्तम् ।

अर्थभागराशिः सन्धिरित्युक्तं, तत्र सन्धीनां संबन्धनीयानि वृत्तानि संविधानखण्डानि । अनुपूर्वश इति मुख्यप्रयोजनसंपादनबलोपनतेन क्रमेण, न तु लक्षणानिरूपणप्रसङ्गपरिकल्पितेन, प्रदेशोष्वादिमध्यान्तभागेषु वर्तनेनाङ्गानि, कुत इत्याह स्वस्याङ्गिनः सन्धेर्या संपत्तिर्निष्पत्तिः तत्र गुणवत्त्वे शेषभावे यतो युक्तान्युचितानि सन्धिसंपादकत्वादङ्गानीत्यर्थः ।

Notes

इष्टस्यार्थस्य रचना1 वृत्तान्तस्यानुपक्षयः ।
रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम्2 ।। ५१ ।।

आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम् ।
3अङ्गानां षड्विधं ह्येतद् 4दृष्टं शास्त्रे प्रयोजनम् ।। ५२ ।।

अङ्गहीनो नरो 5यद्वन्नैवारम्भ6क्षमो भवेत् ।
अङ्गहीनं तथा 7काव्यं न प्रयोगक्षमं भवेत् ।। ५३ ।।

Abh

अन्ये त्वाहुः–स्वसंपदो बीजोत्पत्त्युद्धाटनादिका गुणाश्च शब्दार्थवैचित्र्याणि, स्वसंपदां वा गुणाः तैरेव युक्तानीति ।

इष्टस्येत्यादिना प्रयोजनमाह । अभीष्टस्य प्रयोजनस्य रसास्वादकृतो रचना विस्तारणा । वृत्तान्तस्यानुपक्षयः क्रमेण स्फुटत्वादयःशलाकाकल्पत्वाभावः एतत्प्रयोजनं सर्वसाधारणम् । प्रयोगस्येतिवृत्तस्य स्वयं परस्परस्यापि रागप्राप्तिः रञ्जनायोग्यत्वलाभः व्युत्पत्त्यस्थायोगात्, यदि वा पौनरुक्त्याद्याभासाद् ये गुह्याः संछादनीया अर्थाः तेषां संछादनम् । पुनः पुनः श्रुतमपि यदभिख्यानं इतिवृत्तं तत एव नाश्चर्यकारि तदपि अङ्गयोजनायामपूर्वतामिव दधदद्भुततामेति, तदाह आश्चर्यवदिति । यच्च व्युत्पत्तौ सातिशयोपयोगि तत एव प्रकाश्यं तस्य प्रकाशनं विस्तारणम्, आद्यन्तु प्रयोजनं चमत्कारकृतं स्मृतिदृष्टमपि प्रत्यक्षविशेषसिद्धमेव, न तु सन्ध्योपासनादिवददृष्टं, नापि पूर्वरङ्गाङ्गवदुभयरूपमित्यर्थः । शास्त्र इति नाट्यात्मके वेद इत्यर्थः । एषां प्रयोजनानामङ्गलक्षणेषूदाहरणं वर्णयिष्यामः । अत एव दृष्टान्तेन द्रढयति । अङ्गकर्तव्यसंपादनं प्रयोगक्षममिति ।

Notes

1उदात्तमपि यत्काव्यं2 3स्यादङ्गैः परिवर्जितम् ।
हीनत्वाद्धि4 प्रयोगस्य न सतां 5रञ्चयेन्मनः ।। ५४ ।।

काव्यं 6यदपि हीनार्थ सम्यगङ्गैः समन्वितम् ।
7दीप्तत्वात्तु प्रयोगस्य शोभामेति न संशयः ।। ५५ ।।

[तस्मात् सन्धिप्रदेशेषु 8यथायोगं9 यथारसम् ।
10कविनाङ्गानि कार्याणि सम्यक्तानि निबोधत] ।। ५६ ।।11*

Abh

ततः प्रयोजनस्यासंपत्तेर्दृष्टस्य वा प्रत्युतासंभावनात्1 । एतद् व्यतिरेकद्वारेण स्फुटयति उदात्तमपीति लक्षणगुणालङ्कृतियुक्तमित्यर्थः । प्रयोगस्येति अपादानमपि संबन्धित्वेन (षष्ठी), वृक्षस्य पर्णं पततीति यथात्र । तस्य प्रयोगस्य तस्य काव्यस्य यतो हीनत्वं यदयोग्यत्वं यस्मात्, सतां परोपरकारप्रवृत्तानां कविनटानां साधुभूतानां वा सामाजिकानां मनो न रञ्जयतीति संभाव्यते । अन्वयद्वारेणोपसंहरति यदपि इति । हीनार्थमिति स्वलमपि प्रयोजनं 2प्रहसनानिदर्शितकथं चाधीत्यादि कथाख्यायिकादिकं* प्रयोगः प्रयुक्तिः तत्राङ्गं प्रयोजकं रञ्जनातिशयो व्युत्पत्त्यतिशयश्च तदुभयम्, तत्र काव्ये दीप्तं स्फुटमित्यर्थः ।

Notes
  • प्रहसननिदर्शितकथंचाधीक्यादि (?)

उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः समाधानं 1aविधानं परिभावना ।। ५७ ।।

उद्भेदः करणं भेद 1एतान्यङ्गानि वै मुखे ।
तथा प्रतिमुखे चैव श्रृणुताङ्गानि नामतः2 ।। ५८ ।।

विलासः पिरसर्पश्च विधूतं 3तापनं तथा ।
4नर्म नर्मद्युतिश्चैव तथा 5प्रगयणं पुनः ।। ५९ ।।

निरोधश्चैव विज्ञेयः पर्युपासनमेव च ।
6पुष्पं वज्रमुपन्यासो वर्णसंहार एव च7 ।। ६० ।।

8एतानि वै प्रतिमुखे8a गर्भेऽङ्गानि निबोधत ।
अभूताहरणं मार्गो रूपोदाहरणे क्रमः10 ।। ६१ ।

संग्रहश्चानुमानं च 11प्रार्थनाक्षिप्तमेव च ।
तोटकाधिबले चैव 12ह्युद्वेगो विद्रवस्तथा ।। ६२ ।।

Abh

अथाङ्गानामुद्देशमाह उपक्षेपः परिकर इत्यादिना एतान्यङ्गानि सन्धिषु (६७) इत्यन्तेन । मुखे द्वादश, प्रतिमुखे गर्भे च त्रयोदश, अवमर्शे द्वादश, निर्वहणे चतुर्दशेति मिलित्वा चतुःषष्टिः ।

केचिन्मन्यन्ते –इह उपक्रम उपसंहारो मध्यमिति प्रत्यवस्थं स्थानभेदत्रयं, तत्र प्रत्येकं सूक्ष्मेणारम्भावस्थापञ्चकेन भाव्यमिति पञ्चदश्यो दशाः क्रमभाविन्यः,

Notes

1a. N परिभावं तु भावना

1एतान्यङ्गानि1a वै गर्भे 2ह्यवमर्शे निबोधत ।
3अपवादश्च4 संफेटो5 विद्रवः 6शक्तिरेव च ।। ६३ ।।

7व्यवसायः प्रसङ्गश्च द्युतिः खेदो निषेधनम् ।
विरोधनमथादानं छादनं8 च प्ररोचना ।। ६४ ।।

9व्यवहारश्च युक्तिश्च विमर्शाङ्गान्यमूनि च ।
सन्धिर्निरोधो10 ग्रथनं निर्णयः परिभाषणम् ।। ६५ ।।

11द्युतिः प्रसाद आनन्दः12 समयो 13ह्युपगूहनम् ।
14भाषणं पूर्ववाक्यं च 15काव्यसंहार एव च ।। ६६ ।।

प्रशस्तिरिति 16संहारे ज्ञेयान्यङ्गानि नामतः 17 ।
17aचतुष्षष्ठिर्बुधैर्ज्ञेयान्येतान्यङ्गानि सन्धिषु ।। ६७ ।।

Abh

तत्राद्यास्तावद्दशानामङ्गत्वेन वर्ण्यन्ते । अङ्गिबुद्ध्युदयात् । तत्रेति चतुर्दश निर्वहणे फलयोगबलात् सर्वा एवोपपाद्यन्ते । अन्यत्र तु मुखादौ काश्चिल्लीनीक्रियन्ते, न द्वादशादिभेदानि तत्राङ्गानीति । तदेत–

Notes

[संपादनार्थं बीजस्य सम्यक्1सिद्धिकराणि च ।
कार्याण्येतानि कविभि 2र्विभज्यार्थानि नाटके] ।। ६८ ।।

3पुनरेषां 3aप्रवक्ष्यामि लक्षणानि यथाक्रमम् ।

Abh

दसत् । एवं हि वक्ष्यमाणेषु तेनैव क्रमेण भाव्यम् । न चासावस्ति प्रयोजनशङ्काषट्कं ततश्चानुपपन्नं स्यात्, अनुपक्षय इत्येकमेव हि प्रयोजनं भवेत् । बीजकरणेऽपि च नियमनिदानानुपपत्तौ द्वयोर्द्वादश द्वयोस्त्रयोदशेति कुतस्त्यो विभाग इत्यास्तामदः ।

पुनरेषामिति । पुनश्शब्दो विशेषद्योतकः, लक्षण एवायं क्रमो न निबन्धन इति यावत् । तेन यदुद्भटप्रभृतयोऽङ्गानां सन्धौ क्रमे च नियममाहुस्तद्युक्त्यमागविरुद्धमेव । तथा हि–‘संप्रधारणमर्थानां युक्ति– रित्यभिधीयते’ इति यन्मुखसन्धौ पञ्चममङ्गं वक्ष्यति तत्सर्वेषु सन्धिषु तावन्निबन्धनयोग्यं, न च तथा निवेश्य1 बध्यमानमदृष्टकृतं विदध्यात् । न च लक्ष्येन दृश्यते । वेणीसंहारे हि तृतीयेऽङ्के गर्भसन्धौ दुर्योधनकर्णयोर्महति संप्रधारणे द्रोणवधे वृत्ते–

तेजस्वी रिपुहतबन्धदुःखापारं
बाहुभ्यां तरति धृतायुधप्लवाभ्यात् ।
आचार्यः सुतनिधनं निशम्य संख्ये
किं शस्त्रग्रहसमये विशस्त्र आसीत् ।।

इत्यादि यावत्–

दत्त्वाभयं सोऽतिरथो हन्यमानं किरीटिना
सिन्धुराजमुपेक्षेत नैवं चेत् कथमन्यथा ।। इति ।

न चात्र प्रीतिव्युत्पत्त्योः2 क्षतिः काचित् । यत्तु सन्धिनैयत्येनाभिधानं तत्र सन्धाववश्यंभावित्वख्यापनार्थं युक्तिर्मुखे भवत्येव । सन्ध्यन्तरालानि तु नेत्थमिति पृथक् तानि वर्णयिष्यन्ते । कानिचित्त्वङ्गानि स्वरूपबलादेव

Notes
Abh

नियमभाञ्जि, यथोपक्षेपो मुखसन्धावेव प्रथममेव च1 । न ह्यनुपक्षिप्ते वस्तुनि किञ्चिदपि शक्यक्रियम् । यत्तूच्यते ‘चतुःषष्ट्यङ्गसंयुत’ (१९.१६९)मिति तेन संभवमात्रमेषामुक्तं, न तु नियमः । यथासन्धि तु कर्तव्या (१९. १०४) इति वचनं प्रत्युत सन्ध्यौचित्येनैषां निबन्धनमभिदधदस्मदभिहितनीतिपथोपदेश्येव, योग्यतार्थवृत्तिना हि यथाशब्देनायमव्ययीभावः ।

यत्तूक्तं शरीराङ्गनियमदर्शनात् कथमेतदिति, तत्रापि दृष्टान्ताद् व्यवस्थापि तु न संभवतः स चास्तीत्युक्तं, शाखादयश्च वृक्षावयवा मध्येऽपि ब्रध्नेऽप्यूर्ध्वेऽपि भवन्ति, न च शरीर2 पादपादिवदुपक्षेपादिभिरवयवविकल्पः सन्धिरारभ्यते, यच्च प्रतिसन्ध्यभिधानं तद्बाहुल्येन तथा दर्शनात् । तथा हि उपक्षिप्तेऽर्थे 3विस्तारिते निश्चितगुणादभिलषिते संभावनीयमुपायादिविषयं संप्रधारणमित्युपक्षेपपरिकरपरिन्यासविलोभनहेतु– त्वादन्यान्यभिधाय युक्तिरक्ता, न तु तत्रैव सद्भावात् । आनन्तर्यनियमश्च मुनेरनभिमतो लक्ष्यते । अन्यथा सन्ध्यन्तरालानि सामादीनि मदान्तान्येकविंशातिः, लास्याङ्गानि गेयपदादीनि दश यानि वक्ष्यन्ते, तेषां कुत्र निवेशः स्यात् । सन्धिपञ्चकमयं हि रूपकं क्रमनियतं, तदङ्गसंहारभावितश्च सन्धिरिति, न च क्रमेणानेनैव तानि प्रयोज्यानीति वचनमस्ति । सदपि वा न्यायापेतमन्यथा योज्येत । न चोद्देशक्रममनूच्यते निबन्धं, *लक्षणालङ्कारगुणवीथ्यङ्गसन्ध्यतराणि लास्याङ्गवृत्तितदङ्गान्यपि तु साधर्म्यदृष्टान्तः4 । तदेतत्प्रत्येकं लक्षणे स्फुटीभाविष्यतीत्यास्तां तावत् ।

१. उपक्षेपः–तत्र प्रस्तावना न तावद्रूपकाङ्गं नटवृत्तव्याप्ततयेतिवृत्ताननु प्रवेशात् । इति तदनन्तरं पूर्वं, काव्यार्थ इति वृत्तशरीरलक्षणोऽभिधेयः प्रधानरसलक्षणं च प्रयोजनसंक्षेपेणोपक्षिप्ये5 । यथा वेणीसंहारे भीमः–

लाक्षागृहानलविषान्नगृहप्रवेशैः
प्राणेषु वित्तनिचयेषु च नः प्रहत्य ।
आकृष्य पाण्डववधूपरिधानकेशान्
स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ।। (१.६) इति

Notes

*क्रम इत्युच्यते निबन्धः’ इति स्यात् ।

1काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः ।। ६९ ।।

Abh

२. परिकरः –तत ईषद् विस्तार्यते (परिकरः) यथा भीमः–

प्रवृद्धं यद्वैरं मम खलु शिशोरेव कुरुभि–
र्न तत्रार्यो हेतुर्न भवति किरीटी न च युवाम् ।
जरासन्धस्योरस्तलमिव विरूढं पुनरपि
क्रुधा भीमः सन्धिं विघटयति यूयं घटयत ।। (वेणी. १–१०)

३. परिन्यासः –ततोऽपि निश्चयापत्तिरूपतया परितो हृदये सोऽर्थो न्यस्यते (परिन्यासः) ।

यथा–चञ्चद्भुजाभ्रमितचण्डगदाभिघात–
संचूर्णितोरुयुगलस्य सुयोधनस्य ।
स्त्यानावनद्धघनशोणितशोणपाणि–
रुत्तंसयिष्यति कचांस्तव देवि भीमः ।। (१–२१) इत्यादि ।

४. विलोभनम्–ततस्तदेव गुणवदिति श्लाध्यते, श्लाघैव विलोभनहे्तुत्वाद्विलोभनम् । यथा–द्रौपदी– अणुगिह्णन्तु मए एदं वअणं देवदाओ (अनुगृह्णन्तु मे एतद्ववचनं देवताः) इत्यादि । यथा वा विक्रमोर्वश्यां

अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः । श्रृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ।। (१.८) इत्यादि ।

तदेतदुपक्षेपाद्यङ्गचतुष्कं प्रायशो मुखन्सन्धौ भवति । उक्तेनैव [क्रमेण] न पौर्वार्येण भवति । आनन्तर्यनियमस्तु नास्ति सन्ध्यन्तराणां सामादीनां मध्येःनुप्रवेशात् । तदेतदाह मुनिः काव्यार्थस्य समुत्पत्तिरित्यादिना विलोभनमिति स्मृतमित्यन्तेन तत्र वृत्तान्ते नोपक्षयः सर्वेषां प्रयोजनमित्युक्तम् । परिकरस्य प्रयोजनमिष्टार्थस्य रचनापि ।

Notes

1.–– काव्यस्यार्थ, –कार्यस्यार्थ

1यदुत्पन्नार्थबाहुल्यं2 ज्ञेयः परिकरस्तु सः ।
3तन्निष्पत्तिः परिन्यासो विज्ञेयः कविभिः सदा ।। ७० ।।

गुणनिर्वर्णवं चैव4 विलोभनमिति स्मृतम् ।
संप्रधारणमर्थानां युक्तिरित्यभिधीयते5 ।। ७१ ।।

6सुखार्थस्याभिगमनं प्राप्तिरित्यभिसंज्ञिता7 ।
8बीजार्थस्योपगमनं 8aसमाधानमिति स्मृतम् ।। ७२ ।।

Abh

५. युक्तिर्यथा–‘सहदेवः–आर्य, किं महाराजसन्देशोऽयं आर्येणाव्युत्पन्न एव गृहीतः’ इत्यतः प्रभृति यावद्भीमवचनम्–

युष्मान् ह्रेपयते क्रोधाल्लोके शत्रुकुलक्षयः ।
न लज्जयति दाराणां सभायां केशकर्षणम् ।। (१–१७) इति ।

अस्याः प्रयोजनं प्रकाश्यप्रकाशनमपि ।

६. प्राप्तिः–सुखार्थस्याभिगमनं प्राप्तिरिति । सुखयतीति सुखं तादृशस्य वस्तुनः । यथा (वेण्याम्)– “एष खलु भगवान् वासुदेवः पाण्डवपक्षपातामर्षितेन सुयोधनेन संयमितुमारब्धः” इत्यादि “कुमारमविलम्बितं द्रष्टुमिच्छामीति । “अयं ह्यर्थो भीमस्य चेतः सुखय” तीति सन्धेर्विघटनात् (प्राप्तिः) ।

७. समाधानम्–बीजार्थस्योपगमनमिति । यस्मिन् बीजं तदिदानीं

Notes

1सुखदुःखकृतो योऽर्थस्तद्विधानमिति स्मृतम् ।
2कुतूहलोत्तरावोगो3 विज्ञेया 4परिभावना ।। ७३ ।।

Abh

प्रधाननायकानुगतत्वेन सम्यगाहितं भवतीति (समाधानम्) । ‘’यौधिष्ठिर’’–मित्यनेन* समाधानं दर्शितम् ।

८. विधानम्–सुखदुःखकृतो योऽर्थस्तद्विधानमिति । व्यामिश्रतया सुखदुःखे अभिधीयेते यत्रेति (विधानम्) ।

यथा–

भीमः–तत्पाञ्चालि गच्छामो व्यमिदानीं कुरुकुलक्षयाय ।

द्रौपदी–णाह जं असुरसमराहिमुहस्स हरिणो मङ्गलं तं तुंहाण होदु– (नाथ, यदसुरसमराभिमुखस्य हरेर्मङ्गलं तत्तव भवतु) इत्यादि (अ १) तथा–“मा अनवेक्खिदसरीरा संचरह, अप्पमत्तसंचारिणिज्जाइं रिपुबलाइं–(मा अनपेक्षितशरीराः संचरथ, अप्रमत्तसंचरणीयानि निपुबलानि)” इति । अत्र द्रौपद्याः प्रहर्षो भयं च मिश्रतया विहितमिति विचित्रत्वाद् रसवत्ता भवति । तेनेष्टस्यार्थस्य रचना, तथा निगूह्यस्य नायिकाचित्तानिस्त्रिंशभावस्य निगूहनं प्रयोजनम् । एवमन्यत्रापि प्रयोजनमुत्प्रेक्ष्यम् । युक्तिवच्चेदमन्यत्रापि संभवत्येवेत्येमन्यत्राप्यूह्यम् ।

९. परिभावना–कुतूहलेति कौतुकेन जिज्ञासातिशयेन व्यामिश्रो य आवेगः सा परिभावना किमेतदिति । यथा–संग्रामं संधिविघटनादाशंसमाना1 द्रौपदी तूर्यशब्दं श्रुत्वाह–“णाह किं दाणिं एसो

Notes

*यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं
यद्विस्मर्तुमपीहितं शमवता शान्तिं कुलस्येच्छता ।
तद् द्यूतारणिसंभृतं नृपशुना केशाम्बराकर्षणैः
क्रोधज्योतिरिदं महत् कुरुवने यौधिष्ठिरं जृम्भते ।। (१–२५)

1बीजार्थस्य प्ररोहो यः स उद्भेद इति स्मृतः2 ।
3प्रकृतार्थसमारम्भः करणं नाम तद्भवेत्4 ।।

5संघातभेदनार्थो यः स भेद इति कीर्तितः6 ।

Abh

पळअंतजळहरत्थणिदमंसळो खणे खणे समरदुन्दुभी ताडीअदि–(नाथ किमिदानीमेष प्रलयान्तजलधरस्तनितमांसलो क्षणे क्षणे समरदुन्दुभिस्ताड्यते)” इति

१० उद्भेदः–बीजार्थस्य प्ररोह इति । यथा–द्रौपदी–हा णाह पुणो वि तुए अहं समस्ससइदव्वा (हा नाथ, पुनरपि त्वयाहं समाश्वासयितव्या)

भीमः–भूयः परिभवक्कान्तिलज्जाबन्धुरिताननम् ।
अनिश्शेषितकौरव्यं न पश्यसि वृकोदरम् ।। (१. २६) इति ।

न चेदमुद्धाटनं येन प्रतिमुखं भवेत्, अपि 1तु शत्रुक्षयारम्भ बीजस्योद्घाटनेन विनापि प्ररोहमात्रमवस्थानमानुगुण्यात् भूमिसंश्लेष इव ।

११ करणम्–प्रकृतार्थसमारम्भः करणमिति *। यथा– सहदेवः–गच्छामो वयमिदानीं गुरुजनानुज्ञाता2 विक्रमानुरूपमाचरितुम्, इत्यादि (वेणी–१)।

१२ भेदः–संघातभेदनार्थो यः स भेद इति । पात्रसंघातस्य यन्निजप्रयोजनोपक्षेपेण निष्क्रमणसिद्धये भेदनं विकिरणमिव3 स भेदः । सर्वत्राङ्केऽन्तर्भावी वस्तूपायात्मा भेदः, स सन्ध्यन्तरैकविंशतौ वक्ष्यते । अस्यो–

Notes

[एतानि तु मुखाङ्गानि वक्ष्ये प्रतिमुखे पुनः] ।। ७५ ।।*
1समीहा रतिभोगार्था विलास इति संज्ञितः2 ।

Abh

दाहरणं -(वेणी॰ १–२७ भीमवाक्यम्) “अन्योन्यास्फालभिन्न” इत्यादि यावत् “पाण्डुपुत्राः”* इति । अथ प्रतिमुखोद्दिष्टानामङ्गानामुद्देशक्रमेण लक्षणमाह

१३ विलासः –समीहा रतिभोगार्था विलास इति । रतिलक्षणस्य भावस्य हेतुभूतो यो भोगो विषयः प्रमदा पुरुषो वा तदर्था या समीहा स विलासः । कामफलेषु रूपकेषु प्रतिमुख एव ह्यास्थावत्त्वेन1 रतिरूपेण भाव्यम् । यथाभिज्ञानशाकुन्तले–

तापसः – कस्येदमुशीरानुलेपनमित्यादि । तथा राजा–
कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ।। (२.१) इत्यादि ।

यस्तु वेणीसंहारे भानुमत्या सह दुर्योधनस्य दर्शितो विलासः, स नायकस्य तादृशेऽवसरेऽत्यनुचित इति चिरन्तनैरेवोक्तम् । यथा सहृदयालोककार:–

सन्धिसन्ध्यङ्गघटनं रसबन्धव्यपेक्षया ।
न तु केवलशास्त्रार्थस्थितिसंपादनेच्छया ।। (ध्वन्यालोक ३.१२)

एतच्च विवरण एवास्माभिर्वितत्य दर्शितम् ।

इह च रतिग्रहणं पुमर्थोपयोगिरसगतस्थायिभावोपलक्षणं तेन वीरप्रधानेषु रूपकेषु2 उत्साहविषया सम्यगीहा चेष्टाविलास इति मन्तव्यम् ।

Notes
  • अन्योन्यास्फालभिन्नद्विपरुधिरवसासान्द्रमस्तिष्कपङ्के मग्नानां स्यन्दनानामुपरिकृतपदन्यासविक्रान्तपत्तौ । स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कबन्धे संग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ।।

दृष्टनष्टानुसरणं परिसर्प1a इति स्मृतः1 ।। ७६ ।।

2कृतस्यानुनयस्यादौ विधूतं ह्यपरिग्रहः ।
3अपायदर्शनं यत्तु तापनं4 नाम तद्भवेत् ।। ७७ ।।

Abh

युक्तचैतन्य एव हि रसो मुख उपक्षिप्तः । तस्यैव स्वयं प्रतिमुखस्वोचितारम्भसंभावितः कर्तव्यः । लस श्लेषणेऽपि हि पठयते ।

१४ परिसर्पः –दृष्टनष्टानुसरणं परिसर्प इति । यथा कञ्चुकी– “आशस्त्रग्रहणादकुण्ठपरशोः"1 (**वेणी॰**२/२) इत्यादि । दृष्टनष्टप्रायो हि कार्यान्तरव्यासङ्गात् । कुरुकुलक्षयो भीष्मवधेन अस्थानपरितोषसूचितेन च दुर्योधनस्यायुक्तचेष्टितत्वेनानुसृत इति प्रकृतस्यार्थस्य परिसर्पणात् प्रसरणात् परिसर्पः । यथा चाभिज्ञानशाकुन्तले भवितव्यमत्र तया । तथा हि–

अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यते हि नवा ।। (३–७) इति ।

१५विधूतम्–2कृतस्यानुनयस्येति । आदौ प्रथमतः, कृतस्यानुनयस्य सामवचसोऽनङ्गीकरणं विधूतं, पश्चात् पुनरङ्गीकरणमिति आदिशब्दात् यथा–तत्रैव–शकुन्तला–अइ किं अंतेउरविरहपय्युस्सुएण राएसिणा अवरुद्धेण–इत्यादि ।

१६ तापनम्-3अपायदर्शनं यत्तु तापनमिति । यथा रत्नावल्याम्

Notes

1a.N. परिसर्पस्तु कथ्यते

1क्रीडार्थं विहितं यत्तु हास्यं नर्मेति 2तत्स्मृतम् ।
3दोषप्रच्छादनार्थं तु हास्यं नर्मद्युतिः स्मृता4 ।। ७८ ।।

Abh

दुल्लहजणाणुराओ लज्जागरुई परवस्सो उप्पा ।
पिअसहि विसमं पेम्पं मरणं सरणं णवरमेक्कम् ।।* (रत्नावली २–१)

…..१७ नर्म–क्रीडार्थं विहितं यत्तु हास्यं नर्मेति । यथा (रत्नावल्यां द्वितीयेऽङ्के) विदूषकः–

भो मा पांडिच्चगव्वं उव्वह, अहं एदाए मुहादो सुणिअ वक्खाणइस्सं –(भो मा पाण्डित्यगर्वमुद्वह । अहं एतस्या मुखात् श्रुत्वा व्याख्यास्यामि)इत्यादि ।

१८ नर्मद्युतिः–दोषप्रच्छादनार्थं तु हास्यं नर्मद्युतिरिति । दोषो येनोक्तेन प्रच्छादयितुमिष्यते तस्यापि हास्यजननत्वेन नर्म च सुतरां द्योतितं भवतीति नर्मद्युतिः । यथा च (रत्नावल्यां द्वितीयेऽङ्के विदूषकः)– चउव्वेई विअ बम्हणो रियाओ पढिउं पवुत्ता । (चतुर्वेदी ब्राह्मण इव ऋचः पठितुं प्रवृत्ता ।) इत्यभिहिते राजा–नावधारितं मया ततो विदूषकः दुल्लहजणाणुराओ1 इति पठति । अत्र हि मौर्ख्यदोषं छादयितुं यद्विदूषकेणोच्यते तद्राज्ञो हास्यजननमिति नर्मैव द्योतितं भवति । तथा हि राजा–महाब्राह्मण कोऽन्य एवमृचामभिज्ञाः –इति ।

Notes

*दुर्लभजनानुरागः लज्जा गुर्वी परवश आत्मा ।
प्रियसखि विषमं प्रेम मरणं शरणं केवलमेकम् ।।

1उत्तरोत्तरवाक्यं तु भवेत्प्रगयणं2 पुनः ।
या तु व्यसनसंप्राप्तिः स निरोधः प्रकीर्तितः3 ।। ७९ ।।

क्रुद्धस्यानुनयो 4यस्तु भवेत्तत्पर्युपासनम् ।

Abh

१९ प्रगयणम्–उत्तरोत्तरवाक्यं तु भवेत्प्रगयणमिति । (यथा रत्नावल्यां द्वितीऽङ्के) विदूषकः– किं णु खु दाणिं गाधेयम् (किं नुं खलु इदानीं गाथेयम्)।

राजा-कयापि श्लाध्यनवयौवनया प्रियतममनासादयन्त्या जीवितनिरपेक्षयेदमुक्तम् । विदूषकः भो किं एदे हिं [वक्कणभणिदेहिं] (भोः किमेतैः वक्रभणितैः ।) इत्यादि । प्रगयणमिति रूढिशब्दः ।

अन्ये तु प्रजाशब्दात् विचिकित्सायन शता क्विना व्युत्पत्तिं कल्पयन्ति । प्रागयणमित्यन्ये पठन्ति– प्रागिति पूर्ववचनं ततोऽयनं प्राप्तिं यस्योत्तरवचनस्येति ।*

२० निरोधः–या तु व्यसनसंप्राप्तिः स निरोध1 इति । (यथा रत्नावल्यां द्वितीयेऽङ्के) राजा “उच्चैर्हसता त्वयेयं त्रासिता” (इति), व्यसनमत्र खेदमात्रमभीष्टोपरोधान्निरोधः ।

२१ पर्युपासनम् -क्रुद्धस्यानुनयो यस्त्विति । यथा –(तत्रैव) विदूषकः– भो मा कुप्प एसा खु कदलीघरं एव्व गद2 इत्यादि । राजा अनुनीतः सन्नाह–

Notes

विशेषवचनं यत्तु तत्पुष्पमिति संज्ञितम् ।। ८० ।।

§प्रत्यक्षरूक्षं यद्वाक्यं वज्रं1a तदभिधीयते ।
2उपपत्तिकृतो योऽर्थ उपन्यासश्च3 स स्मृतः ।। ८९ ।।

Abh

दुर्वारां कुसुमशरव्यथां वहन्त्या
कामिन्या यदभिहितं पुरः सखीनाम् ।
तद्भूयः शुकशिशुसारिकाभिरुक्तं
धन्यानां श्रवणपथातिथित्वमेति ।। (रत्नावली २/७) इत्यादि ।

२२ पुष्पम्–विशेषवचनं यत्तु पुष्पमिति । यथा (तत्रैव विदूषकः)– एसो को वि चित्तफळहओ (एष कोऽपि चित्रफलकः) –इत्यादि विदूषकोक्तेः प्रभृति यावत् “परिच्युतस्तं कुचकुम्भमध्यात्” (रत्नावली २/१५) इत्यादि* । यथा हि प्रेमविकासि पुष्पं भवत्येवमत्रापि राज्ञ उत्तरोत्तरानुरागविशेषसूचकं वचो विकासमस्यानुरागस्य दर्शयति । तथा हि सुसङ्गता–सहि गरुआणुरागविक्खित्तहिअओ असंबद्धं भट्टा मंतेदुं पवुत्तो (सखि गुर्वनुरागविक्षिप्तहृदयोऽसंबद्धं भर्ता मन्त्रितुं प्रवृतः) इत्यादि ।

२३ वज्रम् –प्रत्यक्षरूक्षं यद्वाक्यं वज्रमिति । यथा (तत्रैव)– “कथमिहस्थोऽहं भवत्या ज्ञात” इति राजन्युक्तवति सुसङ्गता – ण केवलं तुमं, चित्तफलहेण । ता जाव गदुअ देवीए णिवेदेमि । (न केवलं त्वं, चित्रफलकेण । तद्यावद्गत्वा देव्यै निवेदयामि ।

२४ उपन्यासः –उपपत्तिकृतो योऽर्थ उपन्यास इति । यथा (तत्रैव) विदूषकः (ससाध्वसं) अदिमुहरा खु एसागब्भदासी (अतिमुखरा खल्वेषा गर्भदासी)। अत्र मौखर्यात्मिकोपपत्तिरुपन्यस्ता ।1

Notes

1चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते 2 ।
3कपटापाश्रयं वाक्यमभूताहरणं विदुः ।। ८२ ।।

4तत्त्वार्थवचनं चैव मार्ग इत्यभिधीयते ।

Abh

२५ *वर्णसंहारः– चातुर्वर्ण्योपगमनं वर्णसंहार इति । चातुर्वर्ण्यशब्देन पात्राण्युपलक्ष्यन्ते । तेन यत्र पात्राणि पृथक् स्थितान्यपि ढौक्यन्ते स वर्णसंहारः । उपाध्यायास्त्वाहुः– इह वीरप्रधाने तावन्नायकप्रतिनायकौ तत्सचिवौ च प्रधानत्वेन वर्ण्यन्त इति वर्णाः, कामप्रधानेऽपि नायको नायिका तत्सचिवौ चेति । तथा हि रत्नावल्यां (द्वितीयेऽङ्के) सुसङ्गताया वचनात्– “अदो मे अअं गरुओ पसाओ (अतो ममायं गुरुः प्रसादः)” इत्यारभ्य, राजा–क्वासौ । सुसङ्गता–इत्थे–गेण्हिअ सहिं पसाएहि णं (हस्ते गृहीत्वा सखीं प्रसादयैनाम्)– इत्यादि । 1अत्र चतुर्णामेकीभावे रागप्राप्तिः इष्टस्य रचना, प्रकाश्ये प्रकाशनमित्यपि प्रयोजनानि । यत्तु ब्राह्मणादिवर्णचतुष्टयमेलनमिति तदफलत्वादनादृत्यमेव ।

अथ गर्भाङ्गान्युद्देशक्रमेण लक्षयति ।

२६ अभूताहरणम्–कपटापाश्रयं वाक्यमभूताहरणमिति । यथा वासवदत्तया चित्रफलके दृष्टे विदूषकवचनं –अप्पा किल दुक्खेण आलिहीअदि त्ति मम वअणं सुणिअ पिअवयस्सेण विण्णाणं दंसिअं (आत्मा किल दुःखेनालिख्यत इति मम वचनं श्रुत्वा प्रियवयस्येन विज्ञानां दर्शितम्) – इत्यादि ।

२७ मार्गः–तत्त्वार्थवचनं मार्ग इति । (तत्रैव) “भट्टिणि कदा वि घुणक्खरं वि संभाविअदि

Notes

1चित्रार्थसमवाये तु वितर्को रूपमिष्यते ।। ८३ ।।
2यत्सातिशयवद्वाक्यं तदुदाहरणं स्मृतम् ।

Abh

(भर्त्रि कदापि घुणाक्षरमपि संभाव्यते)” इति काञ्चनमालयोक्ते वासवदत्ता अपवार्य परमार्थोचितं वचनमाह –अइ उज्जुए वसन्दओ खु एसो (अयि ऋजुके वसन्तकः खल्वसौ)–इत्यादि मार्गवच्च प्रसिद्धत्वात् परमार्थे मार्ग इति व्यपदेशः ।

२८ रूपम्– चित्रार्थसमवाये तु वितर्को रूपमिति* । यथा (रत्नावल्यां द्वितीयेऽङ्के)राजा – “प्रसीदेति ब्रूयामिदमसति कोपे न घटते1 ।” इत्यादि विचित्रार्थानां समवाये संभावने सर्वविषय एव विरुद्धस्तर्कः, इदं नोचितमिदं नोचितमिति प्रतियुक्तिपर्यन्तः । युक्तिस्तु नियतप्रतिपत्तिपर्यन्तेति विशेषः, रूपमिति चानियता आकृतिरुच्यते । तत्राविशेषप्रतिपत्तिः इहापि2 तथोपचाराद् व्यपदेशः ।

२९ उदाहरणम्–यत्सातिशयवद्वाक्यं तदुदाहरणमिति । लोकप्रसिद्धवस्त्वपेक्षया यत् सातिशयमुच्यते उत्कर्षमाहरतीत्युदाहरणम् । यथा (तत्रैव तृतीयेऽङ्के)–

मनः प्रकृत्यैव चलं दुर्लक्ष्यं च तथापि मे ।
कामेनैतत्कथं विद्धं समं सर्वैः शिलीमुखैः ।। (रत्नावली ३/२) इति ।

Notes

1भावतत्त्वोपलब्धिस्तु क्रम इत्यभिधीयते ।। ८४ ।।

2सामदानादिसंपन्नः2a 3संग्रहः परिकीर्तितः ।
4रूपानुरूपगमनमनुमानमिति स्मृतम् ।। ८५ ।।

Abh

तथा च–

बाणाः पञ्च मनोभवस्य नियतास्तेषामसंख्यो जनः
प्रायोऽस्मद्विध एव लक्ष्य इति यल्लोके प्रसिद्धिं गतम् ।
दृष्टं तत्त्वयि विप्रतीपमधुना यस्मादसंख्यैरयं
विद्धः कामिजनः शरैरशरणो नीतस्त्वया पञ्चताम् ।। (रत्नावली ३/३)

इत्यादि ।

३० क्रमः– भावतत्त्वोपलब्धिस्तु क्रम इति । भावस्य भाव्यमानस्य वस्तुनो भावनातिशये सति1, ऊहप्रतिभाभावनादिबलात् या परमार्थोपलब्धिः सा क्रमः । बुद्धिर्हि तत्र क्रमते न प्रतिहन्यते । यथा (तत्रैव)– ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं

द्वयोर्दृष्ट्वालापं कलयति कथामात्मविषयाम् ।
सखीषु स्मेरासु प्रकटयति वैलक्ष्यमधिकं
प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरम् ।। (रत्नावली ३/४) इत्यादि।

३१ संग्रहः– सामदानादिसंपन्नः सङ्ग्रह इति । साम्ना सङ्केतादिवार्ताः श्रुत्वा (राज्ञा विदूषकाय) कटकस्य दानम् । एवमन्यदपि ।

३२ अनुमानम्– रूपानुरूपगमनमिति । रूप्यमानेन प्रत्यक्षाद्युपलभ्यमानेन रूपस्य व्यापकस्याविनाभाविनो गमनं ज्ञानमनुमानं निश्चयात्मकत्वा 2दूहरूपाया युक्तेरन्यत्वात् । यथा ……

Notes

1रतिहर्षोत्सवानां तु प्रार्थना प्रार्थना भवेत् ।
गर्भस्योद्भेदनं यत्साक्षिप्तिरित्यभिधीयते2 ।। ८६ ।।

Abh

पालीयं चम्पकानां नियतमयमसौ सुन्दरः सिन्दुवारः
सान्द्रा वीथी तथेयं बकुलविटपिनां पाटला पङ्क्तिरेषा ।
आघ्रायाघ्राय गन्धं विविधमधिगतैः पादपैरेवमस्मिन् ।
व्यक्तिं पन्थाः प्रयाति द्विगुणतरतमोनिह्नतोऽप्येष चिह्नैः ।। (रत्नावली ३/८)

अत्र, ‘आघ्रायाघ्राय गन्धं विविधमधिगतैः पादपैरेवमस्मिन् इति गन्धानीति कुसुमानि तेभ्यः पादपाः, तेभ्योऽपि मार्गाभिव्यक्तिरिति राज्ञा विदूषकस्योक्तेः

३३ प्रार्थना1 –रतिहर्षोत्सवानां तु प्रार्थना प्रार्थनेति । एतत साध्यफलोचितभावलक्षणं, तत्र साध्यफले यः प्राधान्येन समुचितो 2भावस्तद्विषया या प्रकर्षेणार्थना सा प्रार्थनाख्यमङ्गम् । यथा (तत्रैव)– संकेतस्थः प्रतिपालयन् राजा–

तीवः स्मरसन्तापो न तथादौ बाधते यथासन्ने ।
तपति प्रावृषि नितरामभ्यर्णजलागमो दिवसः ।। (रत्नावली ३/१०) इति ।

३४ आक्षिप्तिःगर्भस्योद्भेदनाक्षिप्तिरिति । हृदयान्तःस्थितं (तस्य)पुनः प्रतिष्ठापितस्यापि यत् कुतश्चिन्निमित्तादुद्भेदनमनपह्रवनीया स्फुटतापत्तिः सा आक्षिप्तिः, अभिप्रायस्य हि तत्राक्षेपो बहिः कर्षणं । वासवदत्तायामेव सागरिकेति राज्ञा विदूषकेण च परिगृहीतायां तदुक्तिषु “सागरिके, *शीतांशुर्मुखमुत्पले तव दृशौ” (रत्नावली ३/११) इत्यादिषु ।

Notes

संरम्भवचनं 1चैव तोटकं त्विति संज्ञितम् ।
2कपटेनातिसन्धानं ब्रूवतेऽधिबलं बुधाः ।। ८७ ।।

भयं 3नृपारिदस्यूत्थमुद्वेगः3a परिकीर्तितः ।

Abh

३५ तोटकम्–संरम्भवचनं चैव तोटकमिति । आवेगगर्भं यद्वचनं तत्तोटकम् । स चावेगो हर्षात् क्रोधात्, अन्यतोऽपि वा । भिनत्ति यतो हृदयं ततस्तोटकम् । यथा (तत्रैव) विदूषकः –अज्ज वि दाव से देवीए णिच्चरुठ्ठाए वासवदत्ताए वअणेहि कडुइदा कण्णा सुहावीअदु (अद्यापि तावत्तस्या देव्या नित्यरुष्टाया वासवदत्ताया वचनैः कटूकृते कर्णे सुखय) इत्यादि ।

३६ अधिबलम्–कपटेनातिसन्धानमधिबलमिति1 । परस्परवञ्चनप्रवृत्तयोर्यस्यैवाधिकं (कर्म) सहायबुद्धयादीनवलम्बयति स एव तमतिसन्धातुं वञ्चयितुं समर्थ इति तदिदं कर्माधिबलम्2 । यथा– सागरिकावेषं धारयन्ती वासवदत्ता विदूषकबुद्धिदौर्बल्याद्राजानमतिसंधत्ते ‘किं पद्मस्य रूचिं न हन्ति3 (रत्नावली ३/१३)इत्यादि श्लोकान्तमधिबलम् ।

३७ उद्वेगः –भयं नृपारिदस्यूत्थमुद्वेग इति । 4अरिशब्दान्नायिकादि । यथा (तत्रैव) राजा–कथं देवी वासवदत्ता, वयस्य किमेतत् । विदूषकः–णं अम्हाणं जीविअसंसओ (ननु अस्माकं जीवितसंशयः)– इत्यादि ।

Notes

1शङ्का भयत्रासकृतो विद्रवः 1aसमुदाहृतः ।। ८८ ।।
2दोष2aप्रख्यापनं यत्तु सोऽपवाद इति स्मृतः3 ।

Abh

३८ विद्रवः– शङ्का भयत्रासकृतो विद्रव इति । भयत्रासकारिणो वस्तुनो या शङ्का यदाशङ्कनं स विद्रवः, विद्रवति विलीयते हृदयं येनेति । यथा (तत्रैव)–

*प्रिया मुञ्चत्यद्य ध्रुवमसहना जीवितमसौ
प्रकृष्टस्य प्रेम्णः स्खलितमविषह्मं हि भवति ।। (रत्नावली ३/१५उत्तरार्ध) इति ।

अन्ये तु शङ्काभयत्रासैः कृतो यः स विद्रव इति । तत्र च विशेष्यपदमन्वेष्यम्, समुदाय एव विशेष्य इति श्रीशङ्कुकः, उदाहरति च कृत्यारावणे षष्ठेऽङ्के गर्भसन्धौ, (निपथ्ये) (मन्दोदरी)–अय्यउत्त परित्ताआहि परित्ताआहि (हा आर्यपुत्त परित्रायस्व परित्रायस्व) प्रतीहारी । (श्रुत्वा आत्मगतं)–अंहो भट्टिणी विअ आक्कंददि ।) (अंहो भर्त्रीवाक्रन्दति) (प्रकाशं) भट्टा भवदो अन्तेउरे महंदो कलकलो सुणीअदि । (भर्तः भवतोऽन्तःपुरे महान् कलकलः श्रूयते)

राजा-ज्ञायतां किमेतदिति ।
अत्र रावणस्याशङ्का प्रतिहार्यास्त्रासभये ।

अथावमर्शसन्धावङ्गानां लक्षणमाह–

३९ अपवादः –दोषप्रख्यापनं यत्तु सोऽपवाद इति । यथा (तत्रैव) सागरिकोक्तेरनन्तरं

Notes

1रोषग्रथितवाक्यं तु संफेटः2 2aपरिकीर्तितः ।। ८९ ।।

3गुरुव्यतिक्रमो यस्तु4 स द्रवः परिकीर्तितः ।
5विरोधिप्रशमो यश्च सा शक्तिः परिकीर्तिता ।। ९० ।।

Abh

1 राजा –अयि मिथ्यावादिनी खल्वसि–

श्वासोत्काम्पिनि कम्पितं स्तनयुगं मौने प्रियं भाषितं
वक्त्रेऽस्याः कुटिलीकृतभ्रुणि रुषा यातं मया पादयोः ।
इत्थं नः सहजाभिजात्यजनिता सेवैव देव्याः परं
प्रेमाबद्धविवर्धिताधिकरसा प्रीतिस्तु या सा त्वयि ।। (रत्नावली ३/१८) इति

अत्र देवीगुणानां सातिशयकोपनत्वेनापवदनं कृतम् ।

४० संफेटः –रोषग्रथितवाक्यं तु संफेट इति । केचित्तु स्फोट अनादर इति धातुं मनस्कृत्य संस्फोट इति पठन्ति । यथा (तत्रैव)–वासवदत्ता (सरोषं सहसोपसृत्य) अय्यउत्त, जुत्तं-……सरिसं (आर्यपुत्र, युक्तं, सदृशम्)….इत्यादि ।

४१ द्रव–गुरुव्यतिक्रमो यस्तु स द्रव इति । यथा (तत्रैव)–भर्तृसंनिधानेऽपि विदूषकस्य सागरिकायाश्च वासवदत्तया बन्धनम् । यथा वा–तापसवत्सराजे षष्ठेऽङ्के वासवदत्ताया यौगन्धरायणवचनातिक्रमेण मरणाध्यवसायः । द्रवणं चलनं मार्गदिति द्रवः

42 शक्तिः –विरोधिप्रशमः शक्तिरिति । विरोधिनः कुपितस्य प्रशमः प्रसादनं शक्तिः बुद्धिविभवादिशक्तिकार्यत्वात् । यथा (तत्रैव)–

सव्याजैः शपथैः प्रियेण वचसा चित्तानुवृत्त्या भृशं
वैलक्ष्येण परेण पादपतनैर्वाक्यैः सखीनां मुहुः ।
प्रत्यापत्तिमुपागता मम तथा देवी रुदत्या तथा
प्रक्षाल्यैव तथैव बाष्पसलिलैः कोपोऽपनीतः स्वयम् ।। (रन्तावली ४/१) इत्यादि ।

Notes

व्यवसायश्च1 विज्ञेयः प्रतिज्ञाहेतुसंभवः2 ।
2aप्रसङ्गश्चैव विज्ञेयो गुरूणां परिकीर्तनम्3 ।। ९१ ।।

वाक्यमाधर्षसंयुक्तं4 द्युतिस्यज्ज्ञैरुदाहृता ।
मनश्चेष्टाविनिष्पन्नः5 श्रमः खेद उदाहृतः ।। ९२ ।।

Abh

४३ व्यवसायः–व्यवसायश्च विज्ञेयः प्रतिज्ञाहेतुसंभव इति । प्रतिज्ञातस्याङ्गीकृतस्यार्थस्य हेतवो ये तेषां संभवः प्राप्तिर्व्यवसायः । यथा (तत्रैव)–ऐन्द्रजालिकप्रवेशादितो यावत् *“एक्को उण खेल ओ अवस्सं पेक्खितादव्वो” इति तावत् यौगन्धरायणेन यत्कर्तुमङ्गीकृतं तस्यैव हेतोः (तस्य) प्राप्तिः ।

४४ प्रसङ्गः –प्रसङ्गश्चापि(श्चैव?) विज्ञेयो गुरूणां परिकीर्तनमिति । यथा (तत्रैव) वासवदत्ता उज्जयणीदो आअदोत्ति अत्थि मे तस्सि इन्दआळिए एक्खवादो (उज्जयिन्या आगत इति अस्ति मे तस्मिन्निन्द्रजालिके पक्षपातः) –इत्यादि । अत्र हि बन्धुकुलादागमोऽस्य बहुमानकारणम् ।

४५ द्युतिः –वाक्यमाधर्षसंयुक्तं द्युतिरिति । आधर्षो न्यक्कारः तेन संयुक्तम् । यथा विदूषकः –हा दासीए उत्त इन्दआलअए/?/ (आः दास्याः पुत्र इन्द्रजालिक), इत्यादि ।

४६ खेदः –मनश्चेष्टाविनिष्पन्नः श्रमः खेद इति मानसः कायीयश्चेत्युभयोऽपि यावत् । आद्यो यथा सिंहलेश्वरस्य कुशलप्रश्ने यथा वसुभूतिर्निःश्वस्य “देव न जाने कि कथयामि” इत्यत आरभ्य रत्नावल्याः समुद्रपतनाकर्णनोदितवासवदत्ताविलापपर्यन्तम् । शारीरस्तु खेदः (विक्रमोर्वश्याम्) पुरूरवा “अहो श्रान्तोऽस्मि यावदस्या गिरिनद्यास्तीर” इत्यादि ।

Notes

ईप्सितार्थप्रतीघातः प्रतिषेधः प्रकीर्तितः1
2कार्यात्ययोपगमनं विरोधनमिति स्मृतम् ।। ९३ ।।

बीजकार्योपगमन3मादानमिति संज्ञितम् ।
4अपमानकृतं4a वाक्यं कार्यार्थं च्छादनं भवेत् ।। १४ ।।

Abh

यद्यपि श्रमोद्वेगवितर्कलज्जाप्रभृतयो व्यभिचारिवर्गे पूर्वमुक्तास्तथाप्येते सत्यवसरेऽवश्यप्रयोज्याः प्रागुक्तप्रयोजनार्थसिद्धये, ते पृथक्प्रयोजनत्वात् सन्ध्यङ्गत्वेनोक्ता मन्तव्याः ।

४७ प्रतिषेधः–ईप्सितार्थप्रतीघातः प्रतिषेधः इति । यथा रत्नावलीवृत्तान्तवर्णने ईप्सितार्थे1 बाभ्रव्येण प्रस्तुते तस्य प्रतीघातोऽन्तःपुरदाहेन ।

४८ निरोधनम्–कार्यात्ययोपगमनं निरोधनमिति । यथा राजा– “कथमन्तःपुरेऽग्निः । हा हा धिक्कष्टं दग्धा देवी वासवदत्ता” इत्यादि यावत् सागरिकोत्सादनपर्यन्तम् । अत्र हि कार्ये वासवदत्ता सागरिकां प्रति विस्रम्भस्यात्ययो विनाशः2 उपगतः प्राप्तः ।

४९ आदानम्–बीजकार्योपगमनमादानमिति बीजफलस्य– समीपताभवनमित्यर्थः । यथा सागरिका राजानं दृष्ट्वा (स्वगतं) ‘अय्यउत्त’ इत्यादि, अत्र हि बन्धुकुलादागमो यावद्राज्ञ उक्तिः–

व्यक्तं लग्नोऽपि भवतीं न धक्ष्यति हुताशनः ।
यतः सन्तापमेवायं स्पर्शस्ते हरति प्रिये ।। (रत्नावली ४/१८) इत्यन्तम् ।

५० छादनम्–अपमानकृतं वाक्यं छादनमिति । वाक्यमिति तदर्थो लक्ष्यते । करोतिः बहुमाने वर्तते, तेन दुष्टोऽप्यर्थोऽपमानेन बहुमतीकृतः ।

Notes

प्ररोचना च विज्ञेया संहारार्थप्रदर्शिनी1 ।
(प्रत्यक्षवचनं यत्तु स व्याहार इति स्मृतः ।। १५ ।।

सविच्छेदं वचो यत्र सा युक्तिरिति संज्ञिता ।
ज्ञेया विचलना तज्ज्ञैरवमानार्थसंयुता) ।। १६ ।।

2(एतान्यवमृशेऽङ्गानि संहारे तु निबोधत) ।

Abh

तदपमानकलङ्कापवारणाच्छादनमिति । यथा सागरिका–दिठ्ठिआ पज्जलिदो भअवं हुदासणो, अज्ज करइस्सदि मे सअलदुक्खावसाणं (दिष्टया प्रज्वलितो भगवान् हुताशनः । अद्य करिष्यति मे सकलदुःखावसानम् ।) इति ।

५१ प्ररोचना–प्ररोचना च विज्ञेया संहारार्थप्रदर्शिनी इति । संह्रियमाणस्य निर्वाह्यमाणस्यार्थस्य दर्शिका प्रकर्षेण रोचत इति प्ररोचना । यथा–

क्वासौ ज्वलन् हुतवहस्तदवस्थमेत–
दन्तःपुरं कथमवन्तिनृपात्मजेयम् ।
वाभ्रव्य एष वसुभूतिरयं वयस्यः
स्वप्नो मतिभ्रममिति*

युक्तिरित्यन्ये इदमङ्गं व्यवहरन्ति । अत्रोद्देशक्रमत्यागे[न] यत्के षाचिदङ्गानां लक्षणं तत्क्रमानियमसूचनार्थः (?र्थम्) । अनेन पाठविपर्यासेन यत्कै श्चिदुद्देशस्यान्यथापठनं तद्ग्रन्थकाराशयापरिज्ञानकृतम् । केचिदत्रान्यतममङ्ग नाधीयते, द्वादशाङ्गमेवैवं सन्धिमाह । अन्ये तु त्रयोदशाङ्गत्वेऽप्यस्य निर्वहणसन्धावपि प्रशस्तेरितिवृत्तान्तर्भूतत्वेन गणनमन्याय्यमिति त्रयोदशाङ्गत्वात् चतुःषष्टिसंख्यां समर्थयन्ते ।

Notes
  • स्वप्नो मतिभ्रम इदं नु किमिन्द्रजालम् –इति चतुर्थः पादः । स्वप्ने मतिर्भ्रमति किं त्विदमिन्द्रजालम् –इति पाठान्तरम्

मुखबीजोपगमनं1 सन्धिरित्यभिधीयते 2 ।। १७ ।।

3कार्यस्यान्वेषणं युक्त्या4 निरोध5 इति 5aकीर्तितः ।
6उपक्षेपस्तु कार्याणां 7ग्रथनं परिकीर्तितम्7a ।। १८ ।।

8अनुभूतार्थकथनं8a निर्णयः समुदाहृतः9 ।

Abh

अथ निर्वहणसन्धावुद्देशक्रमेणाङ्गानि लक्षयितुं प्रक्रमते

५२ सन्धिः– मुखबीजोपगमनं सन्धिरिति । यथा वसुभूतिः बाभ्रव्य, सदृशीयं राजपुत्र्याः – इत्यादि मुखे यदुक्तं तदिह निकटीभूतं सन्धानं सन्धिः ।

५३ निरोधः –कार्यस्यान्वेषणं युक्त्या निरोध इति यथा वसुभूतिः –कुत इयं कन्यकेत्यादि ।

५४ ग्रथनम्–उपक्षेपस्तु कार्याणां ग्रथनमिति यथा (यौगन्धरायणः–देव क्षम्यतां यन्मयाऽनिवेद्य कृतम्–इत्यादि । अत्र रत्नावलीलाभरूपकार्यस्योपक्षेपाद् ग्रथनम् ।)

५५ निर्णयः– अनुभूतार्थकथनं निर्णय इति । प्रमाणसिद्धस्य वस्तुनः कथनमित्यर्थः । यथा रत्नावल्यां चतुर्थेऽङ्के वसुभूतिः –अपि रत्नावली, ननु त्वमीदृशीमवस्थां प्राप्तासि ।

सागरिका–(सप्रत्यभिज्ञं) तुमं पि किं अमच्चवसुभूदी वसु-स एवाहं मन्दभाग्यः इति– प्रभृति यावद् विदूषकवाक्यं “सविहवो होदु” इति ।

Notes

1परिवादकृतं 2यत्स्यात्तदाहुः2a परिभाषणम् ।
3लब्धस्यार्थस्य 4शमनं द्युतिमाचक्षते पुनः5 ।
6समागमस्तथार्थानामानन्दः7a परिकीर्तितः7 ।। १०० ।।

Abh

५६ परिभाषणम्–परिवादकृतं यत् तत् परिभाषणमिति

यथा सागरिका–किदावराहा खु अहं देवीए ता ण सक्कुणोमि मुहं दंसेदुं (कृतापराधा खल्वहं देव्या, तत् न शक्नोमि मुखं दर्शयितुम्) (वासवदत्ता अपवार्य)–अय्यउत्त लज्जामि खु अहं इमिणा णिसंसत्तणेण ता अवणेहि से बन्धणं । (आर्यपुत्र, लज्जे खल्वहमनेन नृशंसत्वेन, तदपनयास्या बन्धनम् ।)

एतदुभयोरप्यन्योन्यापराधोद्धट्टनं वचनम् । यौगन्धरायणोऽपि प्रविश्यैव स्वमेवापराधं उद्घट्टयति । यथा–

देव्या मद्वचनाद्यदाभ्युपगतः पत्युर्वियोगस्तदा
सा चाप्यन्यकलत्रसंघटनया दुःखं मया प्रापिता* । इत्यादि ।

५७ द्युतिः –लब्धस्यार्थस्य शमनं द्युतिरिति । सामर्थ्यात्प्रशमनीयस्य क्रोधादेरर्थस्य प्राप्तस्यापि यत्प्रशमनं सा द्युतिः । (यथा तत्रैव) देव श्रूयतामिदम् । सिंहलेश्वरदुहिता सिद्धैरादिष्टा” इत्यादि यावद्देव्या उक्तिः, “अय्य अमच्च फुडं एव्व किं ण भणसि पडिवादेहि से रअणावलिं ति । (आर्य अमात्य, स्फुटमेव किं न भणसि प्रतिपादय तस्य रत्नावलीमिति ।

५८ आनन्दः– समागमस्तथार्थानामानन्द इति । अर्थितस्य तथेति प्रकारशतैः प्रार्थितस्य सम्यगपुर्वियोगवद्यदागमनं तदानन्तहेतुत्वादानन्दः । यथा (तत्रैव)राजा –को देव्याः प्रसादं न बहुमन्यते–इत्यादि ।

Notes

1दुःखस्यापगमो यस्तु समयः स निगद्यते ।
2aशुश्रूषाद्युपसंपन्नः प्रसादः प्रीतिरुच्यते2 ।। १०१ ।।

3अद्भुतस्य 4तु संप्राप्तिरुपगूहनमिष्यते ।
5सामदानादि 6संपन्नं भाषणं समुदाहृतम्7 ।। १०२ ।।

Abh

५९ समयः– दुःखस्यापमगो यस्तु समय इति । अपगमनमपगमः । यथा–अय्यउत्त दूरे खु एदाए णादिउलं ता तह अणुचिट्ठ जहाबन्धुजणंण सुमरेदि (वासवदत्ता–आर्यपुत्र, दूरे खलु अस्या ज्ञातिकुलं, तत्तथानुतिष्ठ यथा बन्धुजनं न स्मरति)

६० प्रसादः –शुश्रूषाद्युपसंपन्नः प्रसाद इति । यथा वासवदत्ता- “एत्तिअं दाव मम बहिणिआणुरूपं होदु इति स्वैराभरणैरलङ्करोतीति । (एतावता तावन्मे भगिन्यनुरूपं भवतु) ।

केचिद् द्युतेरनन्तरमिदमङ्गं पठन्ति ।

६१ उपगूहनम् –अद्भुतस्य तु संप्राप्तिरुपगूहनमिति । यथा विदूषकः–ही ही भो कहं कहं संपुण्णमणोरहा संवुत्त म्ह (इत्युत्थाय नृत्याति) (ही ही भोः कथं कथं संपूर्णमनोरथाः संवृत्ताः स्मः) ।

६२ भाषणम्–सामदानादिसंपन्नं भाषणमिति । यद्यपि गर्भेऽपि संग्रहास्व्यमिदमङ्गमुक्तं तथाप्यत्र स्थानेऽवश्यं प्रयोक्तव्यतां ख्यापयितुं पुनरुपादानं शब्दान्तरेण च । यथा वसुभूतिः– देवि स्थाने देवीशब्दमुद्वहसि–

Notes

1पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थप्रदर्शनम्2 ।
3वरप्रदानसंप्राप्तिः काव्यसंहार इष्यते ।। १०३ ।।

Abh

इति साम दानं तु यथा भगवती जीमूतवाहनस्य वरं ददाति– “त्वां विद्याधरचक्रवर्तिनमहं प्रीत्या करोमि क्षणात्” *इत्यादि ।

अन्ये मन्यन्ते–आदिशब्देन भेददण्डादेरुपायान्तरस्य संग्राह्यत्वं, तस्य1 त्वेह स्थाने स्पष्टेन पथानौचित्याम्, न गर्भसन्घ्युक्तसामाद्युपायानुवदनमात्रमत्र यत्क्रियते इत्थमिदं प्राप्तमित्येवं प्रायं तदिदं भाषणाख्यमङ्गमिति ।

६३ पूर्ववाक्यं – पूर्ववाक्यं यथोक्तार्थंप्रकाशनमिति । यथा बाभ्रव्यः–इदानीं सफलपरिश्रमोऽस्मि संपन्न–इति ।

६४ काव्यसंहारः– वरप्रदानसंप्राप्तिः काव्यसंहार इति । यथा यौगन्धरायणः– देव तदुच्यता किं ते भूयः प्रियमुपहरामीत्यादि यावत्, “यातो विक्रमबाहुरात्मसमतां” 2इत्यादि ।

Notes

*हंसांसाहतहैमपङ्कजरजःसंपर्कपङ्कोक्षितै-

रुत्पन्नैर्मम मानसादुपनतैस्तोयैर्महापावनैः ।
स्वेच्छानिर्मितरत्नकुम्भनिहितैरेषाभिषिच्य स्वयं ।।

त्वां

1नृपदेशप्रशान्तिश्च1a प्रशस्तिरभिधीयते ।
2यथासान्धि तु कर्तव्यान्येतान्यङ्गानि नाटके ।। १०४ ।।

कविभिः 3काव्यकुशलै 4रसभावमपेक्ष्य तु ।

Abh

६४ प्रशस्तिः– नृपदेशप्रशान्तिश्च प्रशस्तिरिति । (यथा रत्नावल्यां)–

उर्वीमुद्दामसस्यां जनयतु विसृजन् वासवो वृष्टिमिष्टां
इष्टैस्रैविष्टपानां विदधतु विधिवत्प्रीणणं विप्रमुख्याः ।
आकल्पान्तं क्रियायाः* (?च कुर्यात्) क्रमसमुपचितं संगमं सज्जनानां निर्विश्लेषावकाशं पिशुनजनवचोवर्जनाद्वजूलेपः ।। (४/२२) इति ।

यथासन्धि त्विति यो यस्मिन् सन्धौ योग्यतां इत्यर्थः । योग्यतां च कविरेव जानाति, न च मुक्तककविः, किन्तु प्रबन्धयोजनासमर्थः । तदाह कविभिरित्यादि ।

ननु कवेः कीदृशं तत्प्रबन्धनिर्माणकौशलमित्याह रसभावमपेक्ष्येति, तदपेक्षा च कौशलमित्यर्थः । रस एव हि प्रीत्या व्युत्पत्तिप्रदं नाट्यात्मकं शास्त्रमित्युक्तम् । 1ततश्च यथा यद्यस्योपयोगि तदरोचकं रुचितदधिशर्करापयःप्रभृतिरसान्तरमध्ययोजितं –तद्द्वारेणान्तःप्रविष्टं सत् पुष्टिं व्याधिनिवृत्तिं च विधत्ते, तथैव पुमर्थोपायो हृदयमनुप्रवेष्टुमसमर्थ सुन्दरतरोचितरससङ्कमणया प्राप्तान्तःप्रवेशो विनेयजनस्य संपाद्ये वस्तुनि कल्पपादपकल्पनायै कल्पते । रससंक्रान्तिश्च विभावादिरूपतयैव नान्यथेत्युक्तं षष्ठे । एतानीति । एतान्य

Notes
  • कृषीष्ट

1संमिश्राणि कदाचित्तु2 द्वित्रियोगेन वा पुनः ।। १०५ ।।

Abh

ङ्गानि लिखितानि विवक्षितरसभावादिसंपूरणभाञ्जि भवन्ति यानि त्वेकरसावहितमनसो यत्रान्तरनिरपेक्षतयैवाहमहमिकया समुचितभावेन बन्धशय्यामनुवर्तन्ते । इतिवृत्ताविच्छोऽपि रसस्यैव पोषकः, अन्यथा विच्छेदे स्थाय्यादेस्त्रुटितत्वात् क्व रसवार्ता । तेन रसस्यैवायं विभावादिपरिकरो यदङ्गचक्रमिति । तथा हि “लाक्षागृहानले” त्युपक्षेपो वीररौद्रयोर्विभावांशपूरकः, *“प्रवृद्धं यद्वैर” मिति क्रोधस्य वीरे व्यभिचारिणो रौद्रे स्थायिनः स्वरूपप्रत्युज्जीवकः परिकरः, *चञ्चद्भुज” इति च परिन्यासोऽनुभावांशं पुष्णाति, *“अणुगेण्हंतु एदं ववसिदं देवदाओ” (द्रोपदी–अनुगृह्णन्त्वेद्व्यवसितं देवताः (वेण्यां–१. २१–२२) इत्यादि विलोभनम् । मनोनिर्वृत्यौत्सुक्यहर्षमतिस्मृतिप्रभृतिव्यभिचारीभावसन्धानधुर्यम्1 एवमन्यदपि योज्यम् ।

ननु सन्धिपरतन्त्रैरङ्गैर्भवितव्यम्, तद्रसपारतन्त्र्यमेषां कुतस्त्यम्, उच्यते –सन्धयो ह्यवस्थापरतन्त्राः प्रारम्भाभिधानदशाविशेषोपयोगिकथाखण्डलकं मुखसन्धिरित्युक्तम्, एवमन्यत्र । अवस्था अप्यन्यकृतिविशेष– मनूच्यन्ते । नन्वतः किम्, इदमतो भवतीत्याह– रसभावापेक्षया तु कार्यं स्थितं तस्यापेक्षया अवस्थानं ज्ञात्वेति, कार्यमपि रसप्रवाहजननपर्यन्तत्वेन कृतार्थं संपद्यते इति यावत् ।

संमिश्राणीति सन्ध्यन्तरोक्तं सन्ध्यन्तरेऽपीत्यर्थः । यथा युक्तिर्मुखेऽप्युक्ता गर्भेऽप्युपनिबद्धा वितर्कव्यभिचार्यंशपोषकभावेन वेणीसंहारे, यथोदाहृतं प्राक् (३.२७) “तेजस्वी रिपुहतबन्धुदुःखभार” मित्यादि । द्वित्रीति द्वित्वत्रित्वयोगेनेत्यर्थः । तेनैकमपि सन्ध्यङ्गं तत्रैव सन्धौ द्विस्त्रिर्वा कर्तव्यम् । यथा रत्नावल्यां प्रतिमुखे विलासः सागरिकायां राज्ञि वाऽसकृदुपनिबद्धः प्रधानं श्रृङ्गारं समुद्दीपयति । वेणीसंहारे संफेटविद्रवौ

Notes

1ज्ञात्वा कार्यमवस्थां च कार्याण्यङ्गानि सन्धिषु ।
2एतेषामेव चाङ्गानां संबद्धान्यर्थयुक्तितः ।। १०६ ।।

3सन्ध्यन्तराणि 4सन्धीनां विशेषास्त्वेकविंशतिः ।
4aसाम भेदस्तथा दण्डः प्रदानं वध एव च ।। १०७ ।।

प्रत्युत्पन्नमतित्वं च गोत्रस्खलितमेव च ।
साहसं च भयं चैव ह्रीर्माया क्रोध एव च ।। १०८ ।।

Abh

पुनः प्रदर्शितौ वीररौद्रोद्दीपनौ भवतः । अतिशयेन तु पौनःपुन्ये वैरस्यं स्यादिति द्वित्रिग्रहणम् । तथा द्वयोर्योगो द्वाभ्यामङ्गाभ्यां संपाद्यं तदेकेनैव चेद्धटते तत्किमपेरण । एवं त्रियोगः । द्वियोगो यथा प्रतिमानिरुद्धे भीमसूनोर्वसुनागस्य कृतौ–उपक्षेपानन्तरमेवं परिकरः आद्येनैव कृते परिन्यासदर्शनम् । एवं त्रियोगः, यथा भेज्जलविरचिते राधाविप्रलम्भे रासकाङ्गे उपक्षेपेणैवहि “लिअलीस्सा” *इत्यादि परिकरपरिन्यासकार्यगुरुभूते पालिते एकोद्देशेन (?) विलोभननिरूपणम् । एवं चतुरङ्गो यावत् सन्धिर्भवतीति ।

अथ सन्ध्यन्तराणि दर्शयितुमाह एतेषामेव चाङ्गानामित्यादि । तत्र केचिदाहुः–अन्तरं छिद्रं सन्धिरिति । तदङ्गमात्रं–तात्स्थ्याच्च तत्स्थानीयं तेन सन्ध्यङ्गच्छिद्रवर्तित्वात् सन्ध्यन्तराणि, अत एव चाङ्गानां संबद्धानि । ननु किं श्लेषमात्रेण, नेत्याह, किं त्वर्थस्य प्रयोजनस्य योगेन, अत एव सन्ध्यङ्गानां विशेषकाः तदर्थविशेषसंबद्धं हि तदङ्गं भवति (इति) ।

अन्ये मन्यन्ते–य एवोपक्षेपाद्या सामान्येनोक्ताः, तेषामेवैत विशेषा अवान्तरभेदाः । उपक्षेपो हि

Notes
  • राधाप्रलम्बे……“विहवस्सि”

ओजः संवरणं भ्रान्तिस्तथा हेत्ववधारणम्1 ।
दूतो लेखस्तथा स्वप्नश्चित्रं मद इति स्मृतम्2 ।। १०९ ।।

*[विष्कम्भश्चूलिका चैव तथा चैव प्रवेशकः ।
अङ्कावतारोऽङ्कमुखमर्थोपक्षेपपञ्चकम्]।। ११० ।।

Abh

समादिविशेषभिन्नः, तथा हि “लाक्षागृहानल” (वेणी–१) इति क्रोधात्मोपक्षेपः रामाभ्युदये भयात्मोपक्षेपः प्रतिमानिरुद्धे स्वप्नरूपः उदात्तराघवे हेत्ववधारणात्मा । एवमन्यदनुसरणीयम् (इति) । एते च विभावानुभावव्यभिचारीरूपा एव । न तु तदतिरिक्तं जगति किंचिदस्ति प्रयोगे । प्रयोगोज्ज्वलकम् । तत्रोपयोगाय तूपलक्षणत्वेनैकविंशतिरित्युक्तं कवेर्मार्गं प्रदर्शयितुम् ।

तत्र समादयो वीरे उज्ज्वलत्वहेतवः, वधो रौद्रे, प्रत्युत्पन्नमतित्वं मतिलक्षणं व्यभिचारिरूपं, सर्वत्र गोत्रस्खलनमीर्ष्याविप्रलम्भे, साहसं (शृङ्गारवीरादौ), चापलं हास्यादौ । एवमन्यत्र । ओज इति तेजः, सामान्याभिनये (अध्याये) लक्षयिष्यते–“अधिक्षेपावमानादेः” (२२–४१) इत्यत्र संवरणमवहित्थं, चित्रं विस्मयः शिल्पविशेषश्च । एते सर्वेषु नाटकादिरूपकेषु सुलभाः स्वयं च सुज्ञाना इति तदुदाहरणपरिवर्तनेन ग्रन्थो न विस्तारित.*।

Notes

मध्यमपुरुषनियोज्यो 1नाटकमुखसन्धिमात्रसंचारः ।
2विष्कम्भकस्तु कार्यः पुरोहितामात्यकञ्चुकिभिः ।। १११ ।।

शुद्धः संकीर्णो वा द्विविधो विष्कम्भकस्तु विज्ञेयः ।
मध्यमपात्रैः शुद्धः संकीर्णो नीचमध्यकृतः ।। ११२ ।।

अन्तर्यवनिकासंस्थैः सूतादिभिरनेकधा ।
अर्थोपक्षेपणं यत्तु क्रियते सा हि चूलिका ।। ११३ ।।

अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् ।
प्रकरणनाटकविषये प्रवेशको नाम विज्ञेयः ।। ११४ ।।

[नोत्तममध्यमपुरुषैराचरितो नाप्यथान्तवचनकृतः ।
प्राकृतभाषाचारः प्रवेशको नाम विज्ञेयः] ।। ११४ all*

अङ्कान्त एव चाङ्को निपतति यस्मिन् प्रयोगमासाद्य ।
बीजार्थयुक्तियुक्तो ज्ञेयो ह्यङ्कावतारोऽसौ ।। ११५ ।।

विश्लिष्टमुखमङ्कस्य स्त्रिया वा पुरुषेण वा ।
यदुपक्षिप्यते पूर्वं तदङ्कमुखमुच्यते] ।। ११६ ।।

Abh

एवमितिवृत्तनिरूपणनान्तरीयकत्वेन सन्धयः सन्ध्यङ्गानि सन्ध्यन्तराणि चात्मभूतरसोपयोगीन्यपि प्राधान्येनेतिवृत्तात्मकं शरीरांशमभिंनिविशमानानि, तत एव वृत्तिचतुष्कसाधारणे निदर्शितानि । अधुना तु यस्याः प्रसादेन शास्त्रेतिहासादिभ्योऽभ्युद्धरकन्धरीभूतं सर्वजनाहरणीयतास्पदं1 नाट्यं, यामुद्दिश्य प्रथमेऽध्याये “कैशिकीमपि योजय यच्च तस्याः क्षमं द्रव्यं” इत्यादि बहुतरमुक्तं, तदाविर्भावकानि, अत एवात्मभूतरसभावभागाभिनिवेशशालीन्येव लास्याङ्गान्यपि कविप्रयोक्तृभिरभिनेतव्यकाव्याविषये

Notes

*अन्यान्यपि1 लास्यविधावङ्गानि तु नाटकोपयोगीनि2 ।
3अस्माद्विनिःसृतानि4 तु भाण इवैकप्रयोज्यानि ।। ११७ ।।

[भाणाकृतिवल्लास्यं विज्ञेयं त्वेकपात्रहार्यं वा5 ।
प्रकरणवदूह्य कार्यासंस्तवयुक्तं विविधभावम्] ।। ११८ ।। 5a

गेयपदं स्थितपाठ्य5bमासीनं पुष्पगण्डिका6 ।
6aप्रच्छेदकं त्रिमूढं च सौन्धवाख्यं द्विमूढकम् ।। ११९ ।।

Abh

सर्वथैव योज्यानीति दर्शयितुमाह अन्यान्यपि लास्यविधावङ्गानीत्यादि । नाटकमित्यभिनेयमात्रम् । इतः– परमध्यायान्तमुक्तेभ्यो1 भिन्नानि लास्यविधौ यान्यङ्गानि वक्ष्यन्त तानि नाटकोपयोगीन्यपि भवन्ति ।

नन्वेवमङ्गानामभेदादङ्गिनोऽपि लास्यस्य नाटके को भेद इत्याशङ्का शमयति (अस्मादिति) । अस्मान्नाटकादनुकाराभिनेयलक्षणात् विनिस्मृतानि बहिर्भूतानि, एकपात्रहार्याणि । भाण इवेति इवशब्देन नाटकमाह, भाणे नाट्यरूपता समस्ति, न तु लास्ये कथंचिदपि तस्य नाट्यरूपवैलक्षण्यात् । तच्चोपपादितं वितत्य तुर्येऽध्याये ।

ननु कानि लास्याङ्गानि नाट्ये वक्ष्यन्त इत्याह गेयपदमित्यादि दशविधं ह्येतदङ्गनिर्देशलक्षणमित्यन्तम् । एतस्य अङ्गनिर्देशस्याङ्गोद्देशस्य दशाविधं, यद्विशेषलक्षणं [तत्] तालाध्याये (अ–३१) लास्यनिरूपणावसरे वक्ष्यते, तथा चोपसंहरिष्यति, “एतेषां लास्यविधौ विज्ञेयं लक्षण” मिति (अ–१९)। तत्रैव हि संपूर्णमङ्गानां

Notes
  • लास्याङ्गलक्षणं भ–मातृकायां न दृश्यते चपम–मातृकासु विना सार्वस्वन्यास्वष्टादशाध्याय एव पठितम् । N इत्यस्यामपि, लक्षणपाठोऽपि भिन्नमातृकासु बहुभेदतया विद्यते । भोजशारदातनयादिभिरपि तल्लक्षणे मात्रया भिन्नं मतमुपन्यस्तम् ।

1उत्तमोत्तकमं चैवमुक्तप्रत्युक्तमेव च ।
लास्ये दशविधं ह्येतदङ्गनिर्देशलक्षणम् ।। १२० ।।

2आसनेषूपविष्टैर्यन्तन्त्रीभाण्डोपबृंहितम् ।

Abh

रूपं, इह तर्हि कथमुपयोग इति नाट्योपयोगितां गमयितुं आसनेषूपविष्टैर्य इत्यादिग्रन्थः । तेनेदं तात्पर्यम्– यानि लास्याङ्गानि वक्ष्यन्ते तेभ्यः कश्चिद्वैचित्र्यांशो लोकापरिदृष्टोऽपि रञ्जनावैचित्र्याय कविप्रयोक्तृभिर्नाट्ये निबन्धनीयः ।

अन्ये तु व्याचक्षन्ते–तथाविधलास्याङ्गयोजनैवात्र क्रियते, तथा हि गेयपदे निदर्शनं दर्शयन्ति “ततः प्रविशति वीणां वादयन्ती मलयवती चेटी च । मलयवती ‘उत्फुल्लकमलकेसर’ इत्यादि गायति” (नागानन्द १–१३) इति । तच्चेदमसत् । अत्र ह्यन्यव्यापारवद् देवतापरितोषः, किंचिद्गेयं जप्यसहस्रतुल्यं तन्मिश्रं जप्यं कोटिफलसाधनमित्यादिपुराणवाक्यबलात्, कर्तव्यत्वेनाभिसंहितो मलयवत्याः । “सा च प्रयोज्ये” ति न लास्यार्थोऽत्र किञ्चित्, न लास्याङ्गतापि । यत्रापि, ततः प्रविशतो गायन्त्यौ चेट्यौ, “कुसुमाउपिअदूअओ” (रत्नावली १.१३) इत्यादि । तत्रापि परिभ्रमपणादिवदेव लौकिकवृत्तं वसन्तोत्सवप्रमोदाभ्युदयावसरकृतम् । प्रयोजने चेद्यावत् क्रियते तत्र यद्यप्यनुकार्यस्य तथापि नाट्याङ्गत्वे पृथगनुपदेश्यतापत्तिः, यथा (यदा) ह्यश्वमेधयागाद्यनुकारः कर्तव्यस्तदोपयुज्यते यज्ञाङ्गज्ञानमिति यज्ञाङ्गान्युपदेश्यानि भवेयुः । न हि तादृग्वस्तुमात्रप्यस्ति यन्नाट्ये नोपयुज्यते च । तस्माल्लास्ये यान्यङ्गानि तत उपजीव्ये लौकिके एवांशो रञ्जनोपयोगी लास्याङ्गत्वेन मुनिरिह विवक्षितः । अन्यथा “आसनेषूपविष्टैर्य’’ दित्यादि किमिहोक्त्या, “एतेषां लक्षणं व्याख्यास्ये” इत्येतदिहैव तु नैवोक्तमित्येतद् विश्रृङ्खलं स्यात्, “ततश्च परिधानक” मित्यादि (३१– ३५०) (यत्पूर्वरङ्गविधौ (अ–३१) लास्याङ्गलक्षणमुक्तं तदप्यत्राभिनेयभागे प्रयोक्तव्यं स्यात् ।)

ततो यावानंशो नाट्योपयोगी तं दर्शयितुमाह आसनेषूपविष्टैर्यदिति । यच्छब्दो निपातो यस्मिन्नित्यत्रार्थे,

Notes

गायनैर्गीयते शुष्कं तद्गेयपदमुच्यते1 ।। १२१ ।।

[या नृत्यत्यासना नारी गेयं प्रियगुणान्वितम् ।
साङ्गोपाङ्गविधानेन तद्गेयपदमुच्यते] ।। १२२ ।।

प्राकृतं 2यद्वियुक्ता तु पठेदात्तरसं स्थिता3 ।
मदनानलतप्ताङ्गी स्थितपाठ्यं तदुच्यते ।। १२३ ।।

Abh

तेन यत्र काव्ये प्रयोगे वा शुष्कमित्यनुकरणीयतया शून्यं गायनैरिति न तु पात्रैः, आसनोपविष्टैरिति स्वस्थैः, न तु नेपथ्ये गीयत इत्यादिवत्, कविप्रयोगायातमावेशविशेषं जृम्भद्भिर्गीयते यत् । तन्त्रीभाण्डान्वितमिति सर्वातोद्ययुतं, न तु भाव्यासीनपाठ्यवत्तद्विहीनं तद्गेयस्य पदं स्थानमिति कृत्वा गेयपदम्, तेन ध्रुवागानपञ्चकमन्तरालापस्वररहितं यत्र प्रयोगयोग्यं भवति स काव्यप्रयोगो गेयपदमित्युक्तं भवति, यत्र हि प्रयोगे तत्तत्राभिनिविष्टं सामाजिकरञ्जकं भवतीति यावनंशोऽसौ लास्याङ्गादिहोपजीवितः ।

यत्तुः गायनैः पात्रैः शुष्कमित्यर्थात् छेकाश्रितं गेयं निर्गीतमपि वा, एतत् त्र्यश्रं चतुरश्रं वेत्येवंभूतं गीयमानं गेयानि पदानि यत्र गेयपदमिति व्याचक्षते,1 तत्सर्वमेवापास्तम् ।

अथ स्थितप्रापि यल्लास्याङ्गं भविष्यति तदुपजीवितुमाह प्राकृतं यद्वियुक्ता त्विति । लास्येऽपि तावद् देवतानरपतिरञ्जनप्रधानं पाठ्यमस्ति । तच्चित्तग्रहणं हि तत्र तेनैव मध्ये वैचित्र्याय पाठ्येनापि क्रियते, तत्र स्थिते च पठत्यासीनेवेति पाठ्यगतं तदलैकिकं रञ्जनाङ्गं चित्रत्वं तस्मादङ्गादुपजीव्यते । तथा हि –यद्वियुक्ता आतप्तापि सती प्राकृतभाषालक्षणयुक्तं तथात्तरसमिति रसोपयोगि 2स्थायिस्वरसग्रहपूर्वकं पठेत् । 3एतदलौकिकं सल्लास्याङ्गादुपजीव्यमानं स्थितपाठयम् । एतच्चावेशोपलक्षणं तेन क्रोधाविष्टोऽपि संस्कृतेन पठतीत्याद्यपि मन्तव्यम् ।

Notes

[1बहुचारी1a समायुक्तं पञ्चपाणिकलानुगम् ।
चञ्चत्पुटेन वा युक्तं स्थितपाठ्यं विधीयते ।। १२४ ।।

2आसीनमास्यते यत्र सर्वातोद्यविवर्जितम् ।
3अप्रसारितगात्रं च 4चिन्ताशोकसमन्वितम् ।। १२५ ।।

5वृत्तानि विविधानि स्युर्गेयं 6गाने च संश्रितम् ।
7चेष्टिभिश्चाश्रयः पुंसां8 यत्र सा पुष्पगण्डिका9 ।। १२६ ।।

Abh

अन्ये तु बहुचारीयुतेन चञ्चत्पुटेनोत्तरेण यत् स्थितपाठ्यमिति लक्षणं कुर्वन्ति, उदाहरन्ति, रत्नावल्यां द्वितीयेऽङ्के राजा–“उद्दामोत्कलिका” मित्यादीति, तत्पूर्वमेव निरस्तम् । न च पाठ्ये चावसरोऽत्र तालस्ञ्यश्रश्र्चतुरश्रो वा, यथा तु लास्याङ्गत्वे । तत्सर्वं तालाध्याय एव वक्ष्यामः ।

अथासीनपाठ्यादुपजीवनीयमंशमाह आसीनमास्यते यत्रेति। अत्यन्तशोकावेशेऽभिनयादिशून्यत्वेन यत्र आस्ते सोंऽश उपरञ्जकगुणश्चतुर्विघातोद्यवर्जितोऽतिसुकुमारकाकलीप्रापप्रमदागीतमात्राविशेषो यश्चित्तग्राही (स लौकिकः) लौकिकादपि च तत्र हि साम्यमात्रार्थस्य तस्याश्रयमाणा च स्थितिः, तदासीनन्नामाङ्गं, आसीनपाठ्यादुपजीवितेनासनांशेन योगतश्च सर्वत्र करुणादौ रञ्जनोपयोगि । तदाह चिन्ताशोकसमन्वितमिति । अधःशय (नध्यानाधोमुखाद्यनुभावयुतम् । सर्वेति ध्यानविलापादिचिन्ताशोकानुभावेषु ततादेरप्रयोज्यतया तद्राहित्यमुक्तम्) निःशब्दमिति भावः । तदनु अप्रसारितगात्रमित्यभिनयशून्यमित्यर्थः । सुप्रसारितगात्रमित्यन्ये पठन्ति, तत्रापि (सौष्ठवाङ्गप्रदर्शनपृथग्यत्नराहित्येन) स्रस्तगात्रतयाभिनयशून्यतैव ।

पुष्पगण्डिकाख्यलास्याङ्गादुपजीव्यांशमाह वृत्तानीति । गान इति) ततेन मध्ये सुषिरेण मध्येऽवनद्धेन

Notes

1[यत्र स्त्री नरवेषेण ललितं संस्कृतं पठेत् ।
सखीनां तु विनोदाय सा ज्ञेया पुष्पगण्डिका ।। १२७ ।।*

2नृत्तं 2aतु विविधं यत्र गीतं चातोद्यसंयुतम् ।
स्त्रियः पुंवच्च चेष्टन्ते सा ज्ञेया पुष्पगण्डिका] ।। १२८ ।।*

प्रच्छेदकः स विज्ञेयो यत्र 3aचन्द्रातपाहताः ।3
स्त्रियः प्रियेषु 4सज्जन्ते ह्यपि विप्रियकारिषु ।। १२९ ।।4a

Abh

मिश्रणाकृतो विचित्रभावः पात्राणां सुकुमारप्रयोगोऽभिनयेऽपि रञ्जक एव यद्यप्यलौकिकं यद्वैचित्र्यम् । मालासादृश्यात्पुष्पगण्डिका गाननृत्तगीतगतवैचित्र्ययोगात् (स्त्रीलिङ्गविवक्षया च स्त्रीपात्राणां पुष्पगण्डिकोक्ता । पुंसामिति) सा त चेष्टाश्रयशब्दाभ्यां पर्यायेण योज्या ।

अथ प्रच्छेदकाङ्गकृतं वैचित्र्यं योजयितुमाह (प्रच्छेदक इति लास्यविधाने (अ–३१) वक्ष्यते ‘‘ज्योत्स्नायां मदिरायां वा सलिले दर्पणेऽपि वा)। छायां संदृश्य कान्तस्य प्रहष्याथ विभूषित’’ मिति (३१–३४९) प्रच्छेदकस्य लक्षण (मुक्तम्) । तत्र जलक्रीडायां जले प्रसाधने दर्पणे पानगोष्ठ्यां पान) ईषत्प्रतिफलिततत्तदाकृतिदर्शने सति कान्तायाः प्रहर्ष इति त्रिधा प्रच्छेदं प्रतिफलनमिति पर्यायात् (काव्येषु कविभिः प्रतिबिम्बदर्शनजातहर्षस्य स्त्रीणां प्रणयकोपप्रसादनसामर्थ्यं वर्णितम् ।) यथा–

पणमह पणयप्पकुविअगोरीचलणग्गलग्गपडिबिंब ।
दससु णहदप्पणेसुं अ एआरह णुहरं रुद्दं ।।

पनमथ पनय–पकुप्पित–गोलीचलनग्ग–पतिबिंबं
तससु नख–तप्पनेसुं एकातस तनुथलं रुद्दं (लुद्दं) ।*

Notes

अनिष्ठुर1श्लक्ष्णपदं समवृत्तैरलङ्कृतम् ।
नाट्यं पुरुषभावाढ्यं त्रिमूढकमिति स्मृतम्2 ।। १३० ।। (130a)*

Abh

इत्यादि । तत्र च त्रिविधेऽपि ज्योत्स्नैवोपयोगिनी,….पानलीलापि1 स्वाधीनभर्तृकोचितसंभोगविशेषोपलम्भेन । एतदुक्तं भवति– लोकवृत्ते तावन्न सर्वदा संपूर्णचन्द्रोदयो भवति प्रयोगे तु संभावनागर्भतया रसोपयोगी तथा– विधः कालविशेषो गृहीतव्यः । तथा च रत्नावल्यां भूयसा चन्द्रोदयो वर्णितः, “संप्रत्येष सरोरुहद्युतिमुष” (१–२३) इति, “उदयतटान्तरित” मिति (१–२४), “वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गत” (३–१३) इति । एवं रसोपयोग्यलौकिककालविशेषग्रहणं प्रच्छेदकादुपजीवितम् । यदाहुरुपाध्यायपादाः

यद्यत्रास्ति न तत्रास्य कविर्वर्णनमर्हति ।
यत्रासंभवि2 तत्रास्य तद्वर्ण्यं सौमनस्यदम् ।।

देशोऽद्रिदन्तरौ द्यौर्वा तडित्कुण्डमण्डिता ।
3नदी कृष्णाऽथवा न स्यात् किं कदाचन कुन्नचित् ।। इत्यादि ।

अथ त्रिमूढलक्षणादुपयोगिनं भागं निरूपयितुमाह अनिष्ठुरश्लक्ष्णपदमित्यादि । त्रिमूढके तावल्लास्याङ्गे नायकस्य व्यलीकवशादेकस्या द्वेष्यतोऽभिनवायाः प्रथमप्रणयबद्धलज्जादिनेति मोहस्त्रयाणाम् । तत्र नायक– स्यावश्यमनिष्ठुराण्येवोदयनविषयाणीव वचांसि भवन्ति । तत इह वचसि रसोपयोगी गुणालङ्कारांशः स्वीकर्तव्यः । न हि लोके यदृते माधुर्यौजःप्रभृतिगुणगणोऽस्ति सर्वो ह्येवमाविष्टो यत् किंचिद्वदति तत्काव्यमे स्यात् । छायामात्रेण त्वंशतः स एवापूर्णत्वादनुपयोग्येव । तस्मादलौकिकमेवैतद्वैचित्र्यं रसोपयोगे सर्वं तद्गुणग्रामकृतम् । समवृत्तैरित्यनेन वृत्तकृतवैचित्र्यं, पुरुषभावाढ्यमित्यनेन पात्रकृतमपि हेलाभावादि, एवं विशेषकृतं वैचित्र्यं यत्र नाट्ये सौन्दर्यमस्तीति दर्शयन् गुणानामेवान्वयव्यतिरेकाभ्यां तत्र प्रभावं दर्शयति ।

Notes

1पात्रं विभ्रष्टसङ्केतं सुव्यक्तकरणान्वितम्2 ।
3प्राकृतैर्वचनैर्युक्तं विदुः सैन्धवकं बुधाः ।। १३१ ।।* १३१a

4[रूपवाद्यादिसंयुक्तं पाठ्येन च विवर्जितम् ।
नाट्यं हि तत्तु विज्ञेयं सैन्धवं नाट्यकोविदैः] ।। १३२ ।।*

Abh

अथ सैन्धवकादुपजीव्यमंशं स्वीकर्तुमाह पात्रं विभ्रष्टसंकेत मिति ।

“सैन्धवीमाश्रितं भाषां 1 ज्ञेयं तत्सैन्धवं बुधैः ।
रूपावाद्यादिसंयुक्तं”

इति च लास्याङ्गविधाने (३१–३५९) वक्ष्यते । तत्र यदा नान्यप्राकृतादिभाषोपकरणत्वेन सैन्धवीप्राया आश्रीयते 2तद्रसोपयोगिरञ्जनादिः तदा, अलौकिकोऽयमर्थो रञ्जनोपयोगी लास्याङ्गात् स्वीकृतोस भवति । तथा हि श्रृङ्गाररसे सातिशयोपयोगिनी प्राकृतभाषेति सट्टकः कर्पूरमञ्जर्याख्यो राजशेखरेण तन्मय एव निबद्धः, भेज्जलेन राधाविप्रलम्भाख्यो रासकाङ्कः सैन्धवभाषाबाहुल्येन, चन्द्रकेण स्वानि रूपकाणि वीररौद्राधिकोपयोगीनि संस्कृतभाषयैव3 । अत एव च तत्तद्रसोपयोगतारतम्यादेवैकतमस्यातोऽन्यस्यात्र प्राधान्यं कल्प्यते ।

तदेतदाह पात्रमित्यादिना । जातावेकवचनम् । तेन यत्र पात्राणि प्राकृतैर्वचनैर्युक्तानि, अत एव विभ्रष्टः संकेतविशेषः रसोचितः काक्व ध्याये कथितपूर्वः, स एष भ्रष्टात्मा भ्रंशं नीतः संकेतो यत्र, सुष्ठु व्यक्तिर्यतो रसस्य तेनैव करणेन वीणावाद्यादिक्रिययान्वितं पात्रं सैन्धवकमिति विषयतद्वतोरभेदोपचारात् । तेन दशरूपकस्य यद् भाषाकृतं वैचित्र्यं कोहलादिभिरुक्तं तदिह मुनिना सैन्धवाङ्गनिरूपणे स्वीकृतमेव ।

Notes

1मुखप्रतिमुखोपेतं चतुरश्रपदक्रमम् ।
2श्लिष्टभावरसोपेतं 3वैचित्र्यार्थं द्विमूढके ।। १३३ ।।

Abh

करुणान्वितमिति त्वपपाठः । एवं ‘पाठ्यविहीनं सैन्धवक’ मिति, ‘यथा रत्नावल्यां विदूषको नृत्यतीति प्रियाप्रतिनिधिप्रभ्रंश1, इति मुनिमतोपेक्षयैव लक्षणमुदाहरणं2 कृतं न चोक्तं युक्त्या तेन किंचिदित्यसदेव ।

द्विमूढकाद्वैचित्र्यांशं स्वीकरोति मुखप्रतिमुखमित्यादिना । यत्र काव्ये लास्यगीताश्रये 3द्वयोर्नायकस्य नायिकायाश्च नायिकयोरेव 4त्रिगूढक इव मोहो व्यावर्ण्यते तत्र, तालनिरूपणायामेकस्तालश्चतुर्भिः पादैर्युक्तः सन्नावर्तत इति वक्ष्यते ।

मुखप्रतिमुखोपेतं तथा चाचपुटाश्रयम् ।
यथाक्षरैः सन्निपातैस्तथा द्वादशभिर्युतम् ।। (३१.३६०/३६१) इति

तस्मादङ्गाङ्गपरिक्रमे यदेव तालानुसरणं चतुर्षु च मुखेषु गतिपरिसमापनं लोके गत्यादावपरिदृष्टमपि नटसामाजिकवर्ग5सविधकत्वापादनेन साम्यांशस्यानन्दस्वभावतया रसांशेतराङ्गत्वादतिशयेन रसोपयोगीति तत् स्वीकृतम् ।

मुखं यदग्रे सामाजिकाः 6प्रतिमुखं ततोऽन्या दिशो लास्याङ्गं नेतुम्, मुखप्रतिमुखे गीतकाङ्गत्वेन चतुरश्रं7 कृत्वा क्रान्तदिक्चतुष्ट्यैः पदैः क्रमणं यत्रेति । किमेवं सति भवतीत्याह वैचित्र्यार्थ वैचित्र्यमत्र प्रयोजनमिति । तेनापि किमिति चेत्तत आह (श्लिष्टभावेति) श्लिष्टभावेन सर्वसाम्यलक्षणेन चित्तवृत्तिसंघट्टेन 8रसानामुपेतमुपगतं स्फुटत्वं येनेति ।

Notes

उत्तमोत्तमकं विद्यादनेकरससंश्रयम्1 ।
2विचित्रैः2a श्लोकबन्धैश्च 3हेलाहावविचित्रितम्4 ।। १३४ ।।

Abh

गीतकाङ्गाभ्यां मुखप्रतिमुखाभ्यामङ्गसौष्ठवेन रसभावैर्नायिकाद्वयरचनया च युतमिति श्रीशङ्कुकाद्याः, तच्च प्रागेव परीक्षितम् ।

मुखप्रतिमुखौ सन्धी इत्येतदपि न समीचीनं, अनुपयोगादस्यार्थस्येत्युपाध्यायमतमेवानवद्यमावेदितपूर्वं ग्राह्यम् ।

अथोत्तमोत्तमकमङ्गं नाट्य उपयोजयितुमाह उत्तमोत्तमकं विद्यादनेकरससंश्रयमित्यादि । “उत्तमोत्तमके त्वादौ नर्कुटं संप्रयोजयेत्” इत्यादिना “हेलाहावविभूषित” मित्यन्तेन लास्याङ्गं लक्षयिष्यते (३९–३६२–३६४) । तत्र च चित्तवृत्तिपरिपोषो हे्लाहावादिचेष्टालङ्कारमुखेन यः स्थितः सोऽत्रालौकिकः सन्नुपजीव्यते । न हि भगवदवतारस्य रामस्य कुलकलत्रमनुपेक्ष्यं, पराभवखलीकारश्च न सोढव्यः, क्षत्रियेण च लोककण्टकाभ्युद्धरणं कर्तव्यमिति यच्छास्त्रार्थपरिपालनं मुक्त्वा, रावणहृतसीतासमानयनाद्युचितं निमित्तं, परमार्थतो न तु यथा प्रतिरूपं “मुहुर्व्याधृतास्तादृश” मित्यादि वर्ण्यते तथास्य तृतीयत्रेतावतीर्णस्य (रामस्य) संभाव्यते । रामायणेऽपि मुनिना तथा वर्णितमिति चेत् किमतो वेदेऽपि हि तथा वर्ण्यतां, न वयमतो बिभीमः । स हि भागः काव्यं यश्च रसाभिनिष्यन्दी1 वर्ण्य इत्युक्तमसकृत् । ततश्चान्यतररञ्जनोपक्रमविनेय– हृदयसंवादिवैचित्र्यांशोऽसौ नाट्ये लास्याङ्गप्रसादोपनत एव ।

उत्तमानि तावल्लास्याङ्गानि, तेभ्योऽपीदमुत्तमं, सर्वं हि रसपर्यायीति दर्शितं प्राक् । ततः संज्ञायां कन् ।

अनेकस्यासाधारणस्य रसस्य संश्रयोऽस्मिन्निति, स्थायिनां बहुत्वनूतनत्वाद् घटनाविचित्रत्वमुक्तम् । श्लोके च बध्यत इति श्लोकबन्धः, (बन्धानां) विधास्तैः विविधैः (चित्रैः) परमार्थताभूतैः क्वचित्कदाचित्संभवमात्र

Notes

कोपप्रसादजनितं1 2साधिक्षेपपदाश्रयम्3 ।
उक्तप्रत्युक्तमेवं4 स्या5च्चित्रगीतार्थयोजितम् ।। १३५ ।।

Abh

तया1 वर्णितैर्युक्तम्, यथा (विक्रमोर्वश्यां)– “आ दुरात्मन् रक्षः, क्व नु खलु मे प्रियतमामादाय गच्छसि । (विभाव्य) नवजलधरः सन्नद्धोऽयं” *इत्यादि पुरूरवस उक्तिश्चानुरागेणैव व्याख्यातेति किं पुनरुक्त्या ।

हेलाहावैर्विशेषण दीप्ततागमनरूपेण भूषितमिति सात्त्विकाद्यनुभाववर्गस्य सर्वस्यादीप्ततोपलक्षिता–

तत्राक्षिभ्रूविकारढ्यः श्रृङ्गाराकारसंयुतः ।
सग्रीवारेचको ज्ञेयो भावस्थितसमुत्थितः ।
स एव हावः सा हेला ललिताभिनयात्मिका । (तुलना–२२.१०, ११)2

इति हेलाहावयोर्लक्षणम् ।

अथान्त्यमङ्गं नाट्योपयोग कर्तुमाह–कोपप्रसादजनितमित्यादि । प्रथमार्धे न भाविलक्षणमेकदेशद्वांरेणानूपद्यते । द्वितीयेन तत आकृष्य वैचित्र्यभागो नाट्योपयोगी कथ्यते । तदयमर्थः– कोपप्रसादजनितं साधिक्षेपपदाश्रयं चेत्यादिरूपं यदुक्तं प्रत्युक्तं तथास्यगाने (अ–३१) वक्ष्यते, नाट्ये एवमिति समनन्तरमेवं वक्ष्यमाणेन पथा स्यात्, तमाह चित्रेति । चित्रं यद्गीतं ध्रुवागानकाव्यं तस्य योऽर्थस्तेन संयोजनं

Notes

1यत्र प्रियाकृतिं दृष्ट्वा विनोदयति मानसम् ।
मदनानल2तप्ताङ्गी तच्चित्रपदमुच्यते ।। १३६ ।।

Abh

यस्मिन्नाट्यांशे उक्तप्रत्युक्ते हि (वैचित्र्यं)लास्याङ्गात् स्वीकृतम् । यथा “बाले नाथ विमुञ्च मानिनि रुषम् *” इत्यादौ भिन्नानां वाच्यखणडलकानां समन्वयो रसोवेशमहिम्नैव, न तु श्रुतिलिङ्गादिप्रमाण1 षट्कमत्रावकाशं लभते2 “क्वाकार्य शशलक्ष्मणः क्व च कुलं” इत्यादावियमेव वार्ता । एवं “णळिनीदळणीसहमुत्तदेहिआ । अइदुल्लाहपडिबंधाणुराइआ । (नलिनीदलनिस्सहमुक्तदेहा । अतिदुर्लभप्रतिबन्धानुरागा) ।।”

इत्यादेर्द्विपादिकागीतार्थस्याभिनये काव्यार्थस्य च “हिअअ समास्सस” (शाकु.)3, इत्यादेः सावेशकृत एवाभिनयार्थसमावेशो लोकापरिदृष्ट उपरञ्जनाय सातिशयमुपयोगी रसावेशवैश्यप्रसादादित्युक्त– प्रत्युक्ताल्लास्याङ्गादुपजीवितः ।

यद्यपि “स्थाने ध्रुवास्वभिनयो यः क्रियते” (२२.४९) इति नाट्यनिरूपणायां वक्ष्यते तथापि कविना तादृक्काव्यं कार्यं प्रयोक्त्रा च तादृग्मीतं कर्तव्यमिति शिक्षणायं कुतश्चेदमङ्गमुपजीवितमिति शङ्काशमनाय रूपकाङ्गत्वेनेहास्याभिधानं, सामान्याभिनये त्वभिनेयत्वेनास्य निरूपणं भविष्यति “षडात्मकस्तु शारीरः” (२२. ४३) इत्यत्र । कोपप्रसादजनितत्वमित्यनेन चित्तवृत्त्यावेशस्थानमस्याङ्गस्य निवेशाविषय इत्युक्तम् । यत उक्तप्रत्युक्त4निर्वचनमहिम्ना चाकाशभाषितात्मकमप्यलौकिकरूपं स्वीकुर्वता तत्सहचरस्वगतजनान्तिकापवारितकाद्युपलक्षितम् । न च सर्वथा5 तन्नाट्ये लोके क्वचित् संभवात्6 नाट्येऽपि

Notes

दृष्ट्वा स्वप्ने प्रियं यत्र1 मदनानलतापिता ।
करोति विविधान् भावां2स्तद्वै भाविकमुच्यते ।। १३७ ।।

Abh

गीयमानस्यान्यान्यश्रोतुः काकतालीयवशात् स्वचित्तवृत्त्यार्थसंवादो भवति । यथा हर्षचरिते भगवत्याः सरस्वत्याः *‘‘तरलयसि दृशं समुत्सुका’’ मित्यपरवक्त्रं श्रृण्वन्त्याः । तत्सर्वं हि लोके यथा1 स्यात्ततर्हि प्रत्यक्षकल्पं कथमिव तत्र प्रतीतिरिति नाट्यरूपतैव भ्रंशेत ।

अन्ये तु चित्रपदं भाविकं चेत्यङ्गद्वयमाहुः पठन्ति च-

यत्र प्रियाकृतिं दृष्ट्वा विनोदयति मानसम् ।
मदनानलतप्ताङ्गी तच्चित्रपदमुच्यते ।।

दृष्ट्वा स्वप्ने प्रियं यत्र मदनानलतापिता ।
करोति विविधान् भावांस्तद्वै भाविकमुच्यते ।। इति ।

तच्चेदमसत्, “लास्ये दशविधं” (१९–१२०) इत्यत्रत्येन ग्रन्थेन, “दशाङ्गं लास्य” मिति च तालाध्याये (३१) पठिष्यमाणेन विरोधात्, न चास्योपयोगः कश्चित् । तथा ह्यलौकिककैशिक्युपयोगि रसांशे सर्वथोपकारि यद्वैचित्र्यं तल्लास्याङ्गाद्वारेणाह, स्वकार्यं तच्च सर्वं दशभिरेव संगृहीतम् । तथा हि 1a–प्रधाने चित्तवृत्त्यंशे वा वैचित्र्यं विभावाद्यंशे वा 2उपरञ्जकभावो वा । तत्र चित्तवृत्त्यंशे 3वैचित्र्यमुत्तमोत्तमकात्4 । विभावांशगतं तु वैचित्र्यं सैन्धवकात्, काक्वाद्यंशे स्थितपाठ्यात्, लक्षणगुणाद्यंशे त्रिमूढकात्, वृत्तांशे पुष्पगण्डिकात् आहार्ये उपरञ्जकगीतातोद्ययोजने च, सात्त्विके आसीनपाठ्यादपि 5उपरञ्जकभावेऽपि शब्दाद् ध्रुवागानभागे सर्वातोद्ययोगे च गेयपदात्, गीतार्थस्य पात्रैः6 काव्यार्थाभिनये7 उक्तप्रत्युक्तात्, वाचिकस्य स्वरतालानुसरणे8 द्विमूढकात्, तत एवाङ्गिकवैचित्र्यमपि । व्यभिचार्यंशे तु वैचित्र्यमुत्तमोत्तमकादेव9 ।

Notes
  • तरलयसि दृशं किमुत्सुकामकलुषमानसवासललिते । अवतर कलहंसि वापिकां पुनरपि यास्यासि पङ्कजालयम् ।। (उ. १)

1एतेषां लास्यविधौ 2विज्ञेयं लक्षणं प्रयोगज्ञैः ।

Abh

1तदतोऽतिरिक्तो नास्त्येवांश इति दशैवाङ्गानि । वाग्भागस्तनुत्वेनोपरञ्जकभागः । स्वरसात्मनि हि 2तद्वैचित्र्यांशः प्रत्युत रसे सातिशयोपभोग इति शब्दतो मुनेरनुकारः3 । रसात्मा नाट्यमिति 4चाभिप्रेतमिति लक्ष्यते । अलौकिकवै – चित्र्यसारो हि रसः । तथा चोक्तं भट्टतोतेन

लक्षणालङ्कृतिगुणा दोषाः शब्दप्रवृत्तयः ।
वृत्तिसन्ध्यङ्गसंरम्भः संभारो यः कवेः किल ।
अन्योन्यस्यानुकूल्येन संभूयैव समुत्थितैः ।
झटित्येव रसा यत्र व्यज्यन्ते ह्लादिभिर्गुणाः (णैः ?) ।।

वृत्तैः सरलबन्धैर्यत् स्निग्धैश्चूर्णपदैरपि ।
5आक्लिष्टहृद्यघटनं भाषया सुप्रसिद्धया ।।

यच्चेदृक्काव्यमात्रं 6तद्रसभावानुभावकम् ।
सामान्याभिनये प्रोक्तं वाच्याभिनयसंज्ञया (अ –२२)
एवंप्रकारं यत्किंचिद्वस्तुजातं (कथञ्चन)7 ।
अनूनाधिकसामग्रीपरिणामोन्मिषद्रसम् ।।

*रसपोषाय तज्जाते 8नाट्यस्वयं स्वरो (? स्वयंवरे) ।
प्रतिभायाः प्रगल्भायाः सर्वमो (मु ?) डुप एष सः ।।

इति संभावनाप्राणनाया हि यल्लोके संभाव्यते परम् अथ (परमार्थं तत् ? ।) वस्तुतो लोकोत्तरत्वेनैव संभारेण युक्ता कविवाणी झटित्येव9 रसमयी भवति असाधारणताप्राणत्वादिति तत्र तात्पर्यम् ।

ननु लास्याङ्गेभ्यो यो भागमुपजीवति10 स तावदिहोक्तः, तेषां तु स्वरूपं वक्तव्यमित्याशंक्याह एतेषां लास्याविधाविति । एतद् दशरूपकलक्षणं

Notes

तदिहैव तु यन्नोक्तं प्रसङ्गविनिवृत्तिहेतोस्तु1 ।। १३८ ।।

2पञ्चसन्धि2a चतुर्वृत्ति चतुःषष्टयङ्गसंयुतम् ।
षट्त्रिंशल्लक्षणोपेतं 2bगुणालङ्कारभूषितम् ।। १३९ ।।

महारसं महा3भोगमुदात्तवचनान्वितम् ।
महापुरुषसंचारं 3aसाध्वाचार4जनप्रियम् ।। १४० ।।

5aसुश्लिष्टसन्धिसंयोगं5 सुप्रयोगं सुखाश्रयम् ।
मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ।। १४१ ।।

अवस्था या तु6 लोकस्य सुखदुःखसमुद्भवा ।
नानापुरुषसंचारा नाटकेऽसौ विधीयते7 ।। १४२ ।।

Abh

कवीनां सुखग्रहणाय राशीकर्तुमाह पञ्चसन्धीत्यादि । नाटकमित्यभिनेयकाव्यमात्रम् । तत्र पञ्चसन्धीत्यादि संभवमात्रे मन्तव्यम् । महान्तो रसाः पुरुषार्थोपयोगिनः यत्र । महान् भोगो रञ्जनाप्रधानो रसो यत्र, आभोग इत्यन्ये । उदात्तवचनान्वितमिति गुणान् श्लेषप्रसादादीन् स्वीकुरुते । सुश्लिष्टसन्धिसंयोगमिति सन्ध्यन्तराणि (च), सुप्रयोगमिति लास्याङ्गानि, सुखाश्रयमिति छन्दोवृत्तवैचित्र्यं, मृदुशब्दैरभिधानं वर्णना विवक्षितस्यार्थस्य यत्रेति माधुर्यप्रसादार्थव्यक्तिगुणानां प्रकर्षणं सूचयति । एवं नाटकं कुर्यात् । यश्च नाटकं कुर्यात् स एव कविः ।

Notes

न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला ।
न तत् कर्म न 1वा योगो 1aनाट्येऽस्मिन्यन्न दृश्यते ।। १४३ ।।

योऽयं स्वभावो लोकस्य नानावस्थान्तरात्मकः ।
2सोऽङ्गाद्यभितयैर्युक्तो 3नाट्यमित्यभिधीयते ।। १४४ ।।

देवतानामृषीणां च राज्ञां चोत्कृष्टमेधसाम्4 ।
5पूर्ववृत्तानुचरितं5a नाटकं नाम तद्भवेत् ।। १४५ ।।

यस्मात् स्वभावं संत्यज्य6 साङ्गोपाङ्गगतिक्रमैः ।
7प्रयुज्यते ज्ञायते च तस्माद्वै नाटकं स्मृतम् ।। १४६ ।।

सर्वभावैः सर्वरसैः सर्वकर्मप्रवृत्तिभिः8 ।
नानावस्थान्तरोपेतं9 नाटकं संविधीयते ।। १४७ ।।

Abh

किं तेनेत्याह अवस्था यात्विति नानापुरुषेण सञ्चार एको भावनुप्रवेशो रसात्मना यस्याः सा तादृशी यतो नाटके विधीयते संपाद्यते रसरूपतां नीयत इत्यर्थः । उक्तं चैतद्वितत्य ।

ननु सर्वाः चात्र किमवस्थाः सन्ति इत्याशङ्क्य प्रथमाध्यायोक्तमेव श्लोकद्वयं पठति न तद्ज्ञान (१.११६) मिति, योऽयं स्वभावो लोकस्य (१.१९९) इति । एतच्च तत्रैव व्याख्यातमिति किं पुनरुक्तेन । पूर्ववृत्तानुचरितं कथं नाटकशब्दस्यार्थ इत्याह यस्मात्स्वभावं संत्यज्येति नट नताविति नमनं स्वभावत्यागेन प्रह्वीभावलक्षणं, ये त्वन्ये नट नृत्ताविति पठन्ति तन्मतेऽपीह नमनं, नटशब्दो जनिदाच्युसूत्रेण

Notes

[1अनेकशिल्पजातानि 2नैककर्मक्रियाणि2a च ।
3तान्यशेषाणि रूपाणि कर्तव्यानि प्रयोक्तृभिः] ।। १४८ ।।*

लोकस्वभावं संप्रेक्ष्य नराणां च बलाबलम् ।
संभोगं चैव युक्तिं च ततः कार्यं तु4 नाटकम् ।। १४९ ।।

5भविष्यति युगे प्रायो भविष्यन्त्यबुधा नराः ।
ये चापि हि भविष्यन्ति 6ते यत्नश्रुतबुद्धयः ।। १५० ।।

7कर्मशिल्पानि7a शास्त्राणि विचक्षणबलानि च ।
8सर्वाण्येतानि नश्यन्ति 9यदा लोकः प्रणश्यति ।। १५१ ।।

10तदेवं लोकभाषाणां11 प्रसमीक्ष्य बलाबलम्12 ।
मृदुशब्दं सुखार्थं च 13कविः कुर्यात्तु नाटकम् ।। १५२ ।।

चेक्रीडिताद्यैः शब्दैस्तु काव्यबन्धा भवन्ति ये ।
वेश्या इव न 14ते भान्ति कमण्डलुधरैर्द्विजैः ।। १५३ ।।

Abh

(उणादि४–११५) व्युत्पादितो गृहीतव्य इति दर्शयति साङ्गोपाङ्गा ये पदक्रमा गतिवैचित्र्याणि । एतच्च समस्तं नाट्याङ्गोपलक्षणं प्रयुज्यत इति नटैर्ज्ञायते चेति सामाजिकैस्तेनोभयोरपि नमनमुक्तमिति

Notes

1दशरूपविधानं च मया प्रोक्तं द्विजोत्तमाः ।
अतः परं2 प्रवक्ष्यामि वृत्तीनामिह3 लक्षणम् ।। १५४ ।।

इति भारतीये नाट्यशास्त्रे 4सन्धिनिरूपणं नामाध्याय एकोनविंशः5 ।।

Abh

संभावनाकृतमौचित्यम् । मृदुशब्देति ययुक्तं तस्य प्रयोजनमाह भविष्यति त्रेतायुगापेक्षया द्वापरे कलौ वेत्यर्थः । सुखार्थमित्यर्थव्यक्तिः स्वीकृता । एतदुपसंहरन्नन्यदासूत्रयन्नध्यायमध्यायान्तरेण सङ्गमयति दशरूपविधानं चेति शिवम् ।

द्विजवरतोतनिरूपितसन्ध्यध्यायार्थत्त्वघटनेयम् ।
अभिनवगुप्तेन कृता शिवचरणाम्भोजमधुपेन ।।

इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायां
नाट्यवेदविवृतावभिनवभारत्यामेकोनविंशः
सन्ध्यध्यायः समाप्तः ।।*

Notes
  • –संज्ञक आदर्शे “विवृतिर्भरतस्येयं लिखिता भारती नवा । नारापणेन विदुषः शितिकण्ठद्विजन्मनः ।।” इति लेखकनामोल्लिखितम् ।