श्रीः
नाट्यशास्त्रम्
अष्टादशोऽध्यायः†
1वर्तयिष्याम्यहं विप्रा दशरूपविकल्पनम् ।
नामतः कर्मतश्चैव तथा चैव प्रयोगतः ॥ १
Abh
रूपं यदेतद्बहुधा चकास्ति तद्येन भावी भविता न जातु ।
तच्चक्षुरर्कात्मकमीश्वरस्य वन्दे वपुस्तैजससारधाम्रः ॥
दशरूपोपकारिकाक्वादियोजनमिति तत्स्वरूपं वक्तव्यमिति सङ्गतिरुक्तैव तद्वर्तयिष्यामीति किमनेनोच्यते, तदस्य प्रयोजनं प्रदर्श्यते । कश्चिदेवमाशङ्कते, “रसा भावा” (अ, ६–१०) इत्यादि सूत्रसारसङग्रहे दशरूपशब्दस्य नामापि न श्रुतं, तत्कथमुक्तं दशरूपविधाने पाठ्यमिति तं प्रत्याह वर्तयिष्यामीति । रूप्यते प्रत्यक्षीक्रियते योऽर्थः तद्वाचकत्वात्काव्यानि रूपाणि1 दशानां रूपाणां विभागः कल्प्यते अस्मादिति दशरूपविकल्पनं सूत्रं तेनायं षष्ठीसमासः दशरूपमिति । तेन बहुव्रीहौ दशरूपं काव्यमिति भेदान्तरापाकरणं स्यादित्याशंक्य द्विगुः, पात्रादिप्रक्षेपश्च यो व्याख्यातस्तत्प्रयासमात्रमेव । तदयमर्थः –यतः सूत्रादाङ्गिको वाचिकशब्दे प्रकृतिप्रत्ययार्थविभागः कल्प्यते तत्र वाग्भाग एवायं वितत्य वर्ण्यते, तेन तदेव सूत्रं वर्णितम् विवरणेन प्रपञ्चितं भवतीति नानिर्दिष्टं निरूप्यते किञ्चिदिति । नामत इत्युद्देशेन कर्मत इति लक्षणेन क्रियते, तेन
Notes
†कखगघचभम–मातृकास्वष्टादशोऽध्यायः । द N–आदर्शे एकोनविंशोऽध्यायः । सर्वेष्वन्येषु विंशोऽध्यायः । गघचमपायेषु व्याख्यानुसारी पाठो दृश्यते, यस्मिन् लास्याङ्गलक्षणमष्टादशे न वर्तते किंत्वेकोनविंश एव दृश्यते । भमातृकायां लास्याङ्गलक्ष्णानि तालाध्याये (३१) वर्णितानि । त्रयोदश वीथ्यङ्गान्यपि वृत्तिकारेणाष्टादशे यान्युक्तानि भमातृकायां वृत्तिविकल्पे संचितानि तानि । अयमपरो विशेषः –भमातृकायां दशरूपलक्षणं सन्ध्यङ्गलक्षणं चैकस्मिन्नध्याय एव पठितं, यदन्यासु द्वयोर्लक्षितम् । तस्मात् भमातृकापठित एकोनविंशः, अभिनवगुप्तेन विंश इति, द मातृकायामेकविंश इति, तदन्यासु द्वाविंश इति च संख्यातः । 1 द N–वर्णयिष्यामि । 1 (रूप्यन्त अभिनीयन्त इति वा काव्यान्येव रूपाणि ।)–Kan
नाटकं सप्रकरणमङ्को व्यायोग एव च ।
भाणः समवकारश्च वीथी प्रहसनं डिमः ॥ २
ईहामृगश्च विज्ञेयो दशमो नाट्यलक्षणे1 ।
एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ ३
सर्वेषामेव काव्यानां2 मातृका वृत्तयः स्मृताः ।
Abh
विजातीयाद्व्यावृत्तिः, कर्मलक्षणं, प्रकृष्टः उचितो योगः परस्परसंबन्धो यथा प्रकरणनाटकलक्षणयोगात् नाटिकेतिवृत्तिविभागस्तु लक्षण एवानुप्रविष्ट इति । नासौ प्रयोगः तथा चेति तेनैव प्रयोगप्रकारेणान्योऽपि परस्परसंबन्धवैचित्र्यकृतो भेदः उत्प्रेक्ष्य इत्यर्थः । प्रयोगाय प्रयोगत इति व्याख्याने प्रयोगत इति विफलमेव । उक्तव्याख्याने तु कोहलादिलक्षिततोटकसट्टकरासकादिसङग्रहः फलं, नाटिकायाः उदाहरणत्वादिति । तत्रोद्देशं तावदाह नाटकमित्यादि । सप्रकरणमिति सहशब्देनाङ्कप्रवेशकसन्ध्यादिसाम्यं नाटकेन प्रकरणस्याह । नाम्नामर्थो लक्षण एव व्याख्यास्यते । सत्यपि च पुराणादावुपदेशदायिनि कर्मफलसंबन्धप्रदर्शके तत्रोच्चावचमनियतकविकन्थाप्रायमिह तु किञ्चित्प्रयोज्यं किञ्चित् 1सूच्यं किञ्चिदूह्यं किञ्चिदुपेक्ष्यमित्येवं वैचित्र्ययोगः । “सन्ध्यादिव्यवस्थे"ति “दशरूपं सप्रयोजन” मिति –एतत्तु फल्गुप्रायं फलम् । तत्पूर्वमेवोक्तम् । प्रत्यक्षतोदितरसावेशजनितनिर्वृतिसारत्वादस्येतिहासादेर्विशेष इत्यूह्यम् ।2 सूच्यादिविभागस्त्वितिहासादावप्यस्त्येवेति न च पाठफलं दशरूपकमपि प्रयोगपर्यन्तमेतदित्युक्तप्रायम् । तत्र महासामान्यरूपं काव्यलक्षणेऽध्याये कृतमित्यवान्तरसामान्यलक्षणमुद्देशानन्तरं वक्तव्यमिति दर्शयति । प्राक्च सामान्यलक्षणं ततो विशेषलक्षणानि चोद्देशक्रमेणेति चानुपूर्व्यार्थः । तत्र सामान्यलक्षणमाह सर्वेषामेव काव्यानां मातृका इति ।
तत्र केचिदाहुः–वृत्तिप्रभवत्वं दशरूपकस्य सामान्यलक्षणं, वृत्तीनां तदङ्गनां चाभिनये3 काव्येष्वसंभवात् । एतच्चासत्, आस्तां काव्यार्थः । सर्वो हि संसारो वृत्तिचतुष्केण व्याप्त इत्युक्तं प्रथम एवाध्यायेऽस्माभिः
Notes
1 ईहामृगं च विज्ञेयं दशमं नाट्यलक्षणम् म–नाट्ययोक्तृभिः । 2 द N –नाट्यनां । 1 (किञ्चित्) 2 विशेष इति । ऊह्यसूच्यादि –Kan 3 (चानभिनेयकाव्ये) –Kan.
1आभ्यो विनिस्सृतं2 ह्येतद्दशरूपं प्रयोगतः ॥ ४
Abh
यदि चाभिनेयविषय एव वृत्तिव्यवहारस्तदा वृत्त्यध्याये यद्वृत्तीनां समुत्थाननिरूपणं “यां यां वृत्तिषु संश्रिता” (२०–१५) मित्यादितत्सर्वमसङ्गतं, भगवतो हि नाभिनेतृता, किन्तु स्वचेष्टावेशमात्रम् । सर्वशब्दे च प्रकृतनाटकादिविषये वर्ण्यमाने प्रथमं श्लोकार्धं पुनरुक्तार्थमेव । यत्तु ‘स्वनामधेयैर्भरतैः” (२०–२६) इति “बहुगीतनृत्तवाद्ये"ति(२०–५३) “वागङ्गाभिनयवतीति (२०–४२) च भरतव्यवहारो गीताभिनयाभियोगश्च नानाभिनेय1 इति तदप्यकिञ्चित्करम् । तावद्धि2 वृत्तीनां लक्षणं “या वाक्प्रधाना” (अ–२०–२६) इत्येतावदेव भारत्या लक्षणम् । अन्यत्तु प्रयोगप्रदर्शनमिति तत्रैव व्याख्यास्यामः । वृत्त्यङ्गान्यापि सर्वकाव्येषु सन्त्येव ।
नन्वेवं वृत्तिजत्वं कथं दशरूपकलक्षणम्, उच्यते, प्रयोगत इत्येतदर्थकमेव । तदयमर्थः– यद्यपि सर्वेषामभिनेयानभिनेयानां काव्यानां वृत्तयश्चेष्टा मातर इव, ताभ्योऽपि वाच्यरूपत्वेन कविहृदये व्यवस्थिताभ्यः काव्यमुत्पद्यते । तथापि प्रयोगं प्रयुज्यमानत्वात्प्रयोगत्वमभिसन्धाय वृत्तिभ्यो विनिस्सृतमभिनेयकाव्यं प्रत्यक्षभावनायोग्यवृत्तिचतुष्टयाभिधायकत्वं दशरूपं सामान्यलक्षणामित्यर्थः । दशानां नाटकादीनां रूपमिति षष्ठीसमासः ।
अन्ये त्वाहुः । एकैकस्य रूपकस्य दश दश रूपाणि संभवन्ति । तथा च वीथ्यङ्गानां सर्वत्र संभवः । परगतवचनानु3रूपभाषणरूपभाणयोगश्च किंब्रवीषीत्याकाशभाषिते । एवमन्यदपि । तेन दशरूपाणि यस्य तद्दशरूपं काव्यमित्यर्थः । अत एव न सकलः प्रबन्धो नाटकम्, अपि तु प्रबन्धस्य किञ्चिद्रूपं तल्लक्षणांशबाहुल्यात्तु तद्व्यपदेशयोगः । अत एव न दशसंख्या4– विभागार्थो येन सट्टकादीनां त्यागः स्यात् । तत्रापि हि दशरूपलक्षणयोगोऽस्त्येव । एतच्च स्वावसरेषु वितनिष्यामः ।
ननु प्रयोगयोग्यचेष्टाप्रतिपादकत्वं चेत् सामान्यलक्षणं, तर्हि चेष्टातिरिक्तस्य कस्यचिदसंभाव्यत्वान्नास्त्येव विशेषलक्षणमेषामित्याशङ्काशमनं विशेष
Notes
1 द–आसां 2 भ–विनिर्गतम् । 1(नानभिनेय)–Kan 2 [न]–Kan; 3 (रूप) – Kan “परगतवचनानुभाषणरूप”–इति पठ्यताम् । 4 दशसंख्या विभागार्था – Kan
जातिभिः श्रुतिभिश्चैव 1स्वरा ग्रामत्वमागताः ।
2यथा तथा 3वृत्तिभेदैः काव्यबन्धा भवन्ति हि ॥ ५
ग्रामौ 4पूर्णस्वरौ 5द्वौ तु 6यथा वै षड्जमध्यमौ ।
7सर्ववृत्तिविनिष्पन्नौ काव्यबन्धौ तथा त्विमौ ॥ ६
Abh
लक्षणावकाशं दर्शयितुमाह जातिभिः श्रुतिभिश्चेत्यादि । दृष्टान्तेन प्रकृतं घटयन् व्युत्पादनीयमपि व्युत्पादयतीति समानतन्त्रसिद्धमेव दृष्टान्तमदीद्दशत् । स्वरेषु ग्रहादिदशकविभागनियता जातिः । रक्तोऽरक्तो वा ध्वनिः, ध्वनिः स्थानं 1तदन्तरालं च श्रुतिः, कर्माधिकरणकरणव्युत्पत्त्याश्रयात् । स्त्रियाः खलनाविति* हि नादृतं लक्ष्ये । तत्र षाड्जीप्रभृतयो जातयः सप्त, पञ्चमस्य चतस्रः श्रुतयो, धैवतस्य तिस्रः, इति षड्जग्रामः । गान्धार्याद्या एकादश जातयः, पञ्चमस्त्रिश्रुतिः धौवतस्तु चतुः श्रुतिरिति मध्यमग्रामः ।
वस्तुतस्तु षड्जादिस्वरसमुदायो ग्रामः । तत्र स्वरा इति श्रुतिपक्षे बहुवचनं लक्ष्यविदः समर्थयन्ति –मध्यमग्रामे पञ्चमपरित्यक्तां श्रुतिं धैवत एवोपभुङ्क्त इत्यत्र प्रमाणाभावात् सर्व एव द्वित्रिश्रुतिकाः (श्रुत्युत्कृष्टत) या समधिकश्रुतयः क्रियन्ते, काकल्यन्तराभ्यां च चतुस्त्रिश्रुतयो न्यूनश्रुतय इति सर्वस्वराणां श्रुतिकृतं वैचित्र्यमस्तीति । एतच्च स्वावसरे वक्ष्याम इत्यास्ताम् । इह त्वनेन दृष्टान्तेनैतदुक्तं भवति –स्वरसमुदायरूपत्वाविशेषेऽपि स्वराणां पर्यायतः प्राथम्यप्राधान्याल्पत्वभूयस्त्वपूर्णत्वापूर्णत्वारोहान्त्यत्व2 मध्यत्वादि प्रविभागभेदैः, यथान्यः षड्जग्रामोऽन्यो मध्यमग्रामः, तथैव वृत्तीनां स्वरस्थानीयानां प्राथम्यप्राधान्यादिना दशकेन रूपकं रूपकान्तराद्भिद्यते । यथा चतुःश्रुतिः पञ्चमस्त्रिश्रुतिश्च भवन् ग्रामान्यत्वं करोति तथा सैव वृत्तिः श्रुतिस्थानीयैरङ्गैः क्कचित्संपूर्णा क्वचिन्न्यूनेत्येवमपि रूपकविभाग इत्येतज्जातिभिः श्रुतिभिरिति द्वयेन दर्शितम् ।
अथ वृत्तिविभागं संक्षेपतोऽभिधत्ते ग्रामौ पूर्णस्वराविति । जात्याश्रययोर्जातिद्वारेण षाडबौडुविकांशकयोगे न्यूनस्वरताप्यस्तीति षडजग्रामरागो
Notes
1 द–स्वरग्रामत्वमामतैः 2 भ–यद्वत्तथैव वृत्तिभ्यः काव्यबन्धाः प्रतिष्ठिताः ड–यथायथा 3 द–वृत्तभेदैर्भवन्ति ह 4 ड–पूर्वस्वरौ ढ–यौ ड–द्वौतौ 5 द–तथा 6 भ–एवं वृत्तिषु सर्वासु काव्यबन्धं च यद्भवेत् 7 ड– सर्ववृत्त विनिष्पन्नं काव्यबन्धं द्वयं स्मृतम् । 1 (ध्वनिस्थानं)–Kan *महाभाष्ये वार्तिकम्–३.३.१२६ (२) 2 (रोहावरोहा)–Kan
ज्ञेयं प्रकरणं चैव तथा नाटकमेव च ।
सर्ववृत्तिविनिष्पन्नं नानाबन्धसमाश्रयम्1 ॥ ७
2वीथी2aसमवकारश्च तथेहामृग एव च3 ।
उत्सृष्टिकाङ्को व्यायोगो 4भाणः प्रहसनं डिमः ॥ ८
Abh
मध्यमग्रामरागश्चेह ग्रामशब्देन व्यपदिष्ट इति केचित् । तदसत्, इह हि ग्रामशब्देन जातिसमुदायोऽभिधीयते । तत्र यद्यप्यंशके न्यूनस्वरतापि भवति, तथापि समुदायस्य पूर्णतायाः का हानिः । तस्मादयमत्रार्थः– यथा विचित्रसन्निवेशतालम्बनसुन्दरतमसंपूर्णस्वरसमुदायरूपात् ग्रामद्वयाद्विभागकल्पनया जात्यंशकानां पूर्णापूर्णादिस्वरभेदभाजां प्रसवः एवं नाटकप्रकरणाभ्यां पूर्णवृत्तिवृत्त्यङ्गाभ्यां वृत्तिन्यूनानां च रूपकभेदानां परिकल्पनम् । तत्र वृत्तिन्यूनानि रूपकाण्याह वीथीत्यादि । शेषाणि रूपाणीति वक्तव्ये प्रतिपदं नामग्रहणं ज्ञापयति । एतदनुक्तान्यपि रूपकाणि संभवन्ति, अत एव रूपकविशेषगणनमाभ्यो विनिस्सृतमिति लक्षणस्योदाहरणमात्रम् । तेन वृत्तीनां विनियोगविकल्पसमुच्चयैः वृत्त्यङ्गानां च बहवो रूपकभेदा भवन्ति । तेषां परं कोहलादिभिर्नाममात्रं प्रणीतम् । लक्षणेन त्विह सङ्गृहीता एव ते । तत्र नाटकप्रकरणे एव सर्व वृत्तिपूर्णे इति नियमः न तु विपर्ययः । मुद्राराक्षसस्य कैशिकीहीनस्य कृत्यारावणस्य च नाटकस्य दर्शनात्, वेणीसंहारे च सात्त्वत्यारभटीमात्रं दृश्यत इति केचित् ।
अन्ये तु तत्राप्यवश्यं वृत्त्यन्तरानुप्रवेशोऽस्ति । यदि1 परिमितवृत्तिव्यापकत्वात् लक्ष्यते, अपूर्णवृत्तित्वेऽपि विरूपकतैव स्यात् । सकलाङ्गप्रक्रियापरिपूर्णत्वादेव नाटकात्प्रकरणं2 च प्रधानम् । तथा हि कैश्चिद्विनेयः प्रसिद्धिमनुरुध्यमानो दृष्ट इति सप्रसिद्धेतिवृत्ते नाटके विनेयः । कश्चित्तु किमेतदपूर्वमिति प्रसिद्धे वस्तुनि रूपकान्तरमेव तु तदाभासं तत्सर्वं विनेयोऽभिनववस्तुवृत्तकौतुकपरतन्त्र इति समुत्पाद्यवस्तुना प्रकरणेन विनीयते । विनयश्चास्य धर्मार्थकामेषु सर्वपूरुषार्थेंष्वपवर्गेऽपि च तथा भवति, यदि सकलं तदु3पयोगिव्यापा–
Notes
1 ड–नानावस्थासमाश्रयम् 2 ड–भाणः समवकारश्च वीथी चेहामृगस्तथा 2a: N: भाणः समवकारश्च 3 भ–मृगः पुनः 4 ड–डिमः प्रहसनं तथा द N–वीथी । 1 (प्रवेशोऽस्ति यदि परिमितवृत्तव्यापकत्वान्न लक्ष्यते)–Kan 2(नाटकं प्रकरणं)–Kan 3 (सकलतदुपयोगि…..)–Kan
कैशिकीवृत्तिहीनानि 1रूपाण्येतानि कारयेत् ।
अत ऊर्ध्वं प्रवक्ष्यामि काव्यबन्धविकल्पनम् ॥ ९
प्रख्यातवस्तुविषयं2 प्रख्यातोदात्तनायकं चैव3 ।
Abh
राश्रयणं सर्वव्यापाराक्षिप्तं पूर्णवृत्तिकत्वमिति । द्विवृत्तित्रिवृत्त्यादिकं न नाटकं भवति । रूपान्तरमेव1 तु तदाभासं, तत्कैशिकीविहीनत्वेऽपि यथा शृङ्गारयोगस्तथा 2समवकारे तथा तल्लक्षणं वर्णयिष्यामः ।
ननु पूर्णवृत्तिकत्वाविशेषे नाटकप्रकरणयोः को भेदः, कैशिकीहीनत्वे चाविशिष्टे वीथ्यादेः मिथः को विशेष इत्याशङ्कां वारयन् कर्म(श्लो १८/१) शब्दाक्षिप्तविशेषलक्षणार्थं दर्शयति अत ऊर्ध्वमित्यादिना काव्यस्य बन्धनं परस्पराश्रयसंबन्धेनैव एकवाक्यताकरणसंबन्धः स विकल्प्यते येन तद्विशेषलक्षणं वक्ष्यामीति । नाटकं प्रकरणादपि प्रधानम् प्रसिद्ध्युपजीविनी हि कल्पना 3वस्तुसंभावना, अनुभवमूलत्वात्, तस्या उत्प्रेक्षा अपि हि प्रमाणागतेष्वेव4वस्तुषु स्वातन्त्र्येण योजनामात्रेण व्याप्रियन्ते, षड्दन्तो हस्ती खे धावतीति । तेनेतिहासादिप्रमाणवस्तुसिद्धप्रदर्शकं नाटकं तावल्लक्षयितुमाह प्रख्यातवस्तुविषयमित्यादि । प्रख्याते भारतादौ यद्वस्तु तद्विषयोऽस्य, तत्रापि किञ्चिदप्रसिद्धं भवति, तन्निराकरणाय प्रख्यातोदात्तेति श्रीशङ्कुकः । एतत्तु प्रख्यातवस्तु विषयोऽस्येति इयता गतार्थमित्युपाध्याया इत्थमाहुः इह त्रिविधया प्रसिद्ध्या प्रसिद्धत्वं भवति, अमुक एवंकारी अमुत्रदेश इति । तत्र प्रकर्षेण ख्यातं वस्तु तथा विषयो मालवपाञ्चालादिदेशो यस्मिन् चक्रवर्तिनोऽपि हि वत्सराजस्य कौशाम्बीव्यतिरिक्ते विषये कार्यान्तरोपक्षेपेण विना यन्निरन्तरं निर्वर्णनं तद्वैरस्याय भवति, तत्र प्रसिद्धखण्डनेन प्रतीतिविघातात्, का कथा रसचर्वणायाः । एवं तावद् द्वे प्रसिद्धी उक्ते, प्रख्यातोदात्तेत्यनेन तृतीया प्रसिद्धिरुक्ता । उदात्त इति वीररसयोग्य उक्तः । तेन धीरललितधीरप्रशान्तधीरोद्धतधीरोदात्ताः चत्वा–
Notes
1 भ– काव्यान्येतानि योजयेत् 2 फ –विषये 3 भ–राजर्षिवंशजं चैव राजर्षिचरितं तथा । 1 ( ?रूपकान्तरमेव) ? –Kan 2 (शृङ्गारयोगः समवकारे)– Kan 3 (कल्पना वस्तुसंभावना)– Kan 4 (प्रमाणावगतेष्वेव)–Kan
राजर्षिवंश्यचरितं तथैव1 दिव्याश्रयोपेतम् ॥ १०
नाना2विभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चैव3 ।
अङ्कप्रवेशकाढ्यं 4भवति हि तन्नाटकं नाम ॥ ११
Abh
रोऽपि गृह्यन्ते । राजर्षिवंश्येत्यनेन प्रख्यातमपि यद्वस्तु ऋषितुल्यानां राज्ञां वंशेन1 साधुनोचितं, तथा प्रख्यातत्वेऽपि देवचरितं वरप्रभावादिबहुलतयोपायोपदेशायायोग्यमिति नैतदुभयं निबन्धनीयमिति फलतः प्रतिषेधो दर्शितः । राजानः ऋषय इवेत्युपमितसमासः, तद्वंशे साधु चरितं यस्मिन्निति बहुव्रीहिः । न च सर्वथा देवचरितं तथाऽवर्णनीयम्2 । किन्तु दिव्यानामाश्रयत्वेन प्रकरीपताकानायकादिरूपेण, उपेतमुपगमोऽङ्गीकरणं यत्र । तथा हि नागानन्दे भगवत्याः पूर्णकरुणानिर्भरायाः साक्षात्करणे व्युत्पत्तिर्जायते । निरन्तरभक्तिभावितानामेवन्नाम देवताः प्रसीदन्ति, तस्माद्देवताराधनपुरस्सरमुपायानुष्ठानं कार्यमिति । यदि तु मुख्यत्वेनैव देवचरितं वर्ण्यते तत्तावद्विप्रलम्भकरुणाद्भुतभयानकरसोचितं चैन्निबध्यते तन्मानुषचरितमेव संपद्यते, प्रत्युत देवानामधियाधानं3 प्रसिद्धिविघातकम् । तत्र चोक्तो दोषः, विप्रलंभाद्यभावे तु का तत्र विचित्रता रञ्जनाया एतत्प्रमाणत्वात्4 । अत एव हृदयसंवादोऽपि देवचरिते दुर्लभः, न च तेषां दुःखमस्ति । यत्प्रतीकारोपाये व्युत्पादनं स्यात् । नायिका तु दिव्याप्यविरोधिनी यथोर्वशी, नायकचरितेनैव तद्धृत्तस्याक्षेपात् । डिमादौ तु दिव्यानां नायकत्वेऽभिप्रायमावेदयिष्याम इति प्रसिद्धित्रययुक्तमपि वस्तु न निष्फलं व्युत्पत्तये भवतीत्यतआह नानाविभूतिभिर्युतं धर्मार्थकाममोक्षविभवैः फलभूतैर्विचित्ररूपैर्युक्तम् । तत्राप्यर्थकामौ सर्वजनाभिलषणीयाविति तद्बाहुल्यं दर्शनीयमिति कथयति ऋद्धिविलासादिभिरिति ऋद्धिरर्थस्य राज्यादिसमृद्धिः विलासेन कामो लक्ष्यते, आदिशब्दः प्रधानवाची, तत्प्रधानाभिः फलसंपत्तिभिः युक्तमित्यर्थः । तेन राज्ञा सर्वं राज्यं ब्राह्मणेभ्यो दत्त्वा वानप्रस्थं 5गृहीतव्यमित्येवंप्रायं फलं नोपनिबन्धनीयं सत्फलमपि । दृष्टसुखार्थी हि लोको बाहुल्येनेति तत्रास्य प्रतीतिर्विरसीभवेत् । गुणैरित्यप्रधानभूतानि चेष्टितानि हेयानि प्रतिनायकगतानि अपाय–
Notes
1 न–तथा च प– वंशानुचरित 2 द– विलासयुक्तं ऋद्धि भ– विभूतिघटितं ड– नानातिविभूतिरनुयतं 3 प–गुणैर्युक्तम् ड– चापि 4 प–रूपकमिह नाटकम् । 1 वंशे न साधु नोचितं – Hema. 2 ( ? तत्राऽवर्णनीयम्)– VMK 3(देवानामाध्यभिधानं) —VMK 4 (एतत्प्राणत्वात्)–VR 5 “गृहीत…..नोपनिबन्धनीयं [धर्ममोक्षबहुलमिति] तत्फल (सत्फल ?) मपि । दृष्टसुखार्थी…….” इति पठ्यताम्–VMK
नृपतीनां यच्चरितं नाना1रसभावचेष्टितं बहुधा ।
सुखदुःखोत्पत्तिकृतं 2भवति हि तन्नाटकं नाम ॥ १२
Abh
प्रधानानि तैर्युक्तम् । तेषां पूर्वपक्षस्थानीयानां प्रतिक्षेपेण सिद्धान्तकल्पस्य नायकचरितस्य निर्वाहाज्जनपदकोशादिसंपत्तिसमृद्धिः । कौमुदीमहोत्सवादयो विलासाः सन्धिविग्रहादयो गुणा इति व्याख्यानं चाणक्य(शास्त्र)परिचयवेदनमात्रफलं, वस्तुशब्देन राजर्षिवंश्यचरितशब्देन च सर्वस्यार्थराशेः संग्रहात् । अवान्तरवस्तुसमाप्तौ विश्रान्तये ये विच्छेदा अङ्काः ये च निमित्तबलात् अप्रत्यक्षदृष्टानां चेष्टितानामावेदकाः प्रवेशकाः तैराढ्यं नाटकं नाम रूपकम् । तस्मादस्य तन्नामेत्याह नृपतीनां यच्चरितमिति यद्यस्मान्नृपतीनां संबन्धि व्युत्पाद्यानां सामर्थ्यात् नृपतीनामेव नाटकन्नाम तच्चेष्टितं प्रह्वीभावदायकं भवति, तथा हृदयानुप्रवेशरञ्जनोल्लासनया हृदयं शरीरं चोपायव्युत्पत्तिपरिघट्टितया चेष्टया नर्तयति नर्तनृतौ1 नृत्ते इत्युभयथा हि स्मरन्ति । तदिति तस्माद्धेतोः, नामास्य नाटकमिति ।
ननु पुराणाद्युपनिबद्धोऽपि तदर्थः कस्मान्नटानेवेदं भावयतीत्याह नानेति । बहुप्रकारा अत्र संभावयन्ति संपादयन्ति यानि चेष्टितानि नटव्यापारात्मानोऽभिनयाः तैरेतत्प्रह्वीभावदायकं हृद्यतमरसास्वादसूचीद्वारप्रवेशितं तत्कर्तव्यसूत्रं हृदयरोहणरूढशौर्यादिधर्मरत्नग्रथनकारि भवतीति ह्युक्तमसकृत् ।
ननु नृपतिचरित एव किमित्ययमास्वादो न देवचरित इत्याह बहुधेति । बहुप्रकाराः उपायवैचित्र्याद्याः सुखदुःखोत्पत्तयस्तासां कृतं संपादनं यत्र, देवचरिते तु तन्नास्तीत्युक्तम् । अत एव प्रतीतिविघातस्य वैरस्यदायिनः संभवो यत्र यत्र तन्नाटके नोपनिबद्धव्यम् । तेन वर्तमानराजचरितं चावर्णनीयमेव, तत्र विपरीतप्रसिद्धिबाधयाध्यारोपस्याकिञ्चित्करत्वात्, योगानन्द2रावणादिविषयचरिताध्यारोपवत् । एतदर्थमेव प्रख्यातग्रहणं प्रकर्षद्योतक पुनः पुनरुपात्तम् । अत एव वेदशास्त्रं न नाटकं, नियोगेन हि तत्र पुमान्प्रवर्त्यते, न फलोत्पत्त्या । फलप्राधान्यपक्षेऽपि तत्र सन्देहः । एवं पुराणादावपि । इह तु बाधोदयासहिष्णुप्रत्यक्षायमाणाचिरविलम्बितप्रतीतिसिद्धा सुखदुःखोत्पत्तिरिति ।
Notes
1 भ–विधभावसंश्रितं च तथा च–रसभावसंभृतं 2 ड– तज्ज्ञेयं प– वाच्यं यन्नाटके भवति । 1 (नट नतौ नृत्तौ) – Kan 2 (योगनन्द)–Kan.
1अस्यावस्थोपेतं कार्यं 2प्रसमीक्ष्य बिन्दुविस्तारात्3 ।
Abh
अनेन वाक्येनैतदुक्तं भवति–यद्यपि सर्वरूपकाणामर्थो हृदये प्रविष्टो विनेयांश्च विनीतान् करोति । तत एव नाटकशब्दः सामान्यवचन इति “कार्योत्पन्नानि नाटके” (ना. शा. ६/६० प्रथमार्धे) इत्यादिषु स्थानेषु दर्शितः । तथापि ह्यवश्य1व्युत्पाद्या राजानो यद्व्युत्पत्तिद्वारेण विश्वं व्युत्पन्नं, तेन2 तदीयहृदयसंवादयोग्यनृपतिचरितप्रदर्शनेन प्रधानतया प्रधानेऽर्थे व्युत्पाद्यन्ते, अमात्यादयः तदङ्गत्वेनैव प्रयोगस्य च यथोचितं समुद्गकस्थगगनवद्व्युत्पादकव्युत्पाद्यभावात्तेन प्रधानपुरुषार्थे प्रधानविनेयानामन्यत्रान्येषां वेदयतो(?)ऽवनतिं व्युत्पत्तिं ददाति, तत एव नाटकमुच्यते ।
श्रीशङ्कुकस्तु व्याचष्टे विजिगीषुररिर्मध्यमोदासीनौ मित्रं मित्रमित्रमिति । एषां चरितमिति बहुवचनेन लभ्यते । अन्ये त्वाहुः – पूर्वं राजर्षिवंशप्रभवा नायका उक्ताः । अनया त्वार्यया चन्द्रगुप्तबिन्दुसारादयोऽपि संगृह्यन्त इति । व्याख्यातमर्थद्वयमेतत्पूर्वयार्ययैव सङ्गृहीतमिति प्रथमव्याख्यात3 एव युक्तोऽर्थः ।
यत्तु कैश्चिदभिधीयते–
देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः ।
सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ॥ (२४–१८)
धीरप्रशान्ता विज्ञेयाः ब्राह्मणा वणिजस्तथा ॥ (२४–१९)
इति वचने पर्यालोच्यमाने देवादीनां नाटकनायकत्वानुपपत्तेः, धीरललित एक एव नायक इति । तदसत्, न हि जनकप्रभृतीनां रामादीनामपि वा धीरललितत्वम्, यदाह–“धीरोदात्तं जयति चरितं रामनाम्नश्च विष्णोः” इति ।
यत्तु पठितं तत्र धीरललितत्वं राज्ञ एव वर्णनीयं नान्यस्य, सेनापत्यमात्ययोर्धीरोदात्तत्वमेव, देवानां धीरोद्धतत्वमेव, द्विजातीनां धीरप्रशान्तत्वमेवेति, एवं परं द्रष्टव्यं–अत एव प्रख्यातोदात्तेत्यत्र चत्वारोऽपि नायकाः स्वीकृता इति व्याख्येयम् ।
एवं निर्वचनमनयार्यया दर्शितं, प्रख्यातवस्तुप्रभृतिरर्थोऽन्यत्र सुप्रसिद्धः अङ्कप्रवेशकौ त्वप्रसिद्धौ इत्यङ्कस्वरूपं तावद्वितत्य कथयति अस्यावस्थोपेतमिति ।
Notes
1 प–तत्रावस्थोपेतां च–अङ्कावस्थोपेतं ढ– अन्य ब–नानावस्थान्तरितो बिन्दोः संहारमात्रमधिकृत्य । कर्तव्योऽङ्कोऽप्येवं स तु सम्यङ्नाटके तज्ज्ञैः । 2 भ– संप्रेक्ष्य द– समवेक्ष्य 3 च –विस्तारम् । 1 (येऽवश्य)– Kan 2 ते(न)–Kan 3 (व्याख्यात)
कर्तव्योऽङ्कः 1सोऽपि तु गणान्वितं नाट्यतत्त्वज्ञैः ॥ १३
अङ्क इति 2रूढिशब्दो भावैश्च रसैश्च 3रोहयत्यर्थान् ।
Abh
अस्य नाटकस्य यत्कार्यं बिन्दुकृतया विस्तारणया विततीकरणरूपया अननुसन्धानजननबलादेकावस्थानुरूपमाधिकारिकमितिवृत्तं सम्पाद्यम्, तदवस्थया प्रारम्भादिकयोपेतं परिपूर्णं प्रकर्षेण संबन्धं प्रेक्ष्य अङ्कः कर्तव्यः । एतदुक्तं–इतिवृत्तस्य बिन्दुसूत्रस्यूतस्य प्रारम्भाद्यवस्थापञ्चकचारिणो यदा प्रारम्भावस्था पूर्णत्वमेति तदाङ्कच्छेदो बिन्दुद्वारा– नुसन्धीयमानद्वितीयाङ्काभिधेयरूपो विधेयः । एवं प्रयत्नाद्यवस्थाचतुष्टयेऽपि वाच्यमिति पञ्च तावदङ्का इति मुख्यः कल्पः ।
नन्वेवं न्यूनत्वे आधिक्ये वाङ्कानां कथं निर्बन्ध इत्याह नाट्यतत्त्वज्ञैरनयैव दिशा सोऽङ्कः, अपिशब्दादन्यथा कर्तव्यः । तुर्विशेषं द्योतयति । यदा प्रारम्भावधि1प्रधानं भवतीति तदा तस्या एवोपक्रमोपसंहारावस्थाद्वयापेक्ष्या द्वावङ्कौ, अन्यासामेकैकाङ्कतेति यावत् सर्वासामवस्थाद्वययोगेन संपादनमिति षडङ्कत्वात् प्रभृति सप्तजातप्राप्तौ( ?) दशाङ्कत्वम् । काञ्चिदवस्थां प्रधानीकृत्य यदा अवस्थान्तरेण मिश्रीकृत्य बध्नाति तदा नाटिकाया न्यूनाङ्कत्वमिति । एतत्तुशब्देन तत्त्वज्ञशब्देन च दर्शितम् । तत्रावस्थाः “प्रारंभश्च प्रयत्न"श्चेत्यादिना वक्ष्यन्ते (अ १९–८) “प्रयोजनानां विच्छेदे यदविच्छेदकारण” मिति (१९–२३) बिन्दुः वक्ष्यते, ‘यदाधिकारिकं वस्तु सम्य’गिति (अ–१९–२६) कार्यम् ।
अथ कस्मादङ्कइत्याह अङ्क इति रूढिशब्द इति । भावैः रसैश्च गूढश्छन्नः व्याप्तोऽर्थोऽङ्कशब्देन यादृच्छिकेनोच्यत इति भट्टलोल्लटाद्याः गूढ इति पाठं व्याचक्षिरे । अन्ये रोहयत्यर्थानिति पठन्ति,व्याचक्षते च रूढी रोहणं तेनोत्सङ्ग2 उच्यते यो नाटकांशः शृङ्गारादिरसैर्विभावानुभावव्यभिचारिणोऽर्थाः तथा भावैर्विभावाद्यैः यथास्वं भावादीनर्थान् हृदयमारोपयति अर्थान् वहति, नानाप्रकारैश्च वक्ष्यमाणैः ‘ये नायका निगदिता’ (१८– १७)इत्यादिभिः विधानैरुपेतः तस्मादुत्सङ्गवदारोहणं संबन्धादङ्क इत्युच्यते । एतत्पुष्कलमिव अजावि(जि?)ना रूढैरत्रार्थैर्वृत्त्यदर्शनात् । तस्मादयमत्रार्थेः – अङ्क इत्ययं लक्षणे रूढः शब्दः अन्यतो व्यवच्छेदकं लक्षणम् । एतदपि च नाट्यरूपकस्य नानात्वमन्यतो भेदं विधत्ते अनभिनेयात्, अभिनेये हि य एकदेशः स रसभावैरुपलक्षितानप्यर्थान् रोहयति
Notes
1 नद–तज्ज्ञैः स तु सम्यङ्नाटके विधिवत् भ–स च सम्यङ्नाटके योज्यः । ढ– सम्यग्गणान्वितं 2 प– गूढशब्दो 8 भ– चिह्नयत्यर्थान् । 1 (प्रारम्भावस्था) –Kan 2 (तेनोत्सङ्गे अङ्क) –Kan
नानाविधानयुक्तो यस्मात्तस्माद्भवेदङ्कः ॥ १४
[1अङ्कसमाप्तिः कार्या काव्यच्छेदेन बीजसंहारः ।
वस्तुव्यापी बिन्दुः 2काव्यसमुत्थोऽत्र नित्यं स्यात् ] ।। १५
Abh
हृदयसंवादससाधारणताकरणेन प्रत्यक्षीभावनया रसाध्यायोक्तयाभिरोहणं बीजस्येवाङ्कुराकारतया रसाकारोदयप्ररोहो भवति । स चाभिनेयरूपकांशैरेव संपद्यत इत्यनभिनेयात् भेदमादधानोऽभिनेयस्य रूपकस्य लक्षणं भवत्येव । एवमङ्कशब्दस्यान्वर्थो व्याख्यातः । स्वरूपन्तु वक्तव्यं तद्दर्शयति– यत्रार्थस्य समाप्तिरिति । प्रारम्भाद्यवस्थालक्षणोऽर्थो यत्र समाप्यते सोऽङ्कः । अङ्कसमाप्तायामपि1 वा अवस्थायां यदा बीजस्य संहरणं यथास्वं सन्धिभेदेनोचितं भवति तदाप्यङ्कच्छेदः । तत्रोत्पत्तिरुद्धाटनमुद्भेदो गर्भनिर्भेदः फलसमानयनमिति मुखादिषु यथाक्रमं बीजस्य दशाविशेषाः संहारशब्दवाच्याः । अङ्कविच्छेदे चार्थविच्छेदो माभूदित्यवलग्नः संबन्धो2 बिन्दुर्यत्र तादृगङ्कः कर्तव्यः । यथा तापसवत्सराजे तृतीयाङ्कसमाप्तौ–
आदौ मानपरिग्रहेण गुरुणा दूरं समारोपितां
पश्चात्तापभरेण तानवकृता नीतां परं लाघवम् ।
उत्सङ्गान्तरवर्तिनीमनुगमात्संपिण्डिताङ्गीमिमां
सर्वाङ्गप्रणयप्रियामिव तरुश्छायां समालम्बते ।। (३-१७)
इति राज्ञ उक्त्या पद्मावत्याः परिणयाभ्युपगममनुसन्दधत्या प्राप्तिसंभवाख्यतृतीयावस्थाप्रदर्शिनि भाविनि चतुर्थेऽङ्के बिन्दुर्योजितः ।
एवमङ्कस्वरूपमनेन निरूपितमिति चिरन्तनाः । तच्चैतत्पुनरुक्तं “अस्यावस्थोपेतं कार्यं प्रसमीक्ष्ये"त्येतेन हि कियन्नोक्तं यदनेन लक्षणेनाभिधीयते । तस्मादिदमत्रार्थतत्त्वं–अङ्कस्वरूपं तावदस्यावस्थोपेतमित्यनेनैवोक्तं, नामनिर्वचनं च ‘अङ्क इति रूढिशब्द’ इत्यनेन दर्शितम् । अनया त्वार्यया अङ्कस्य त्रैविध्यमुच्यते । तथा चोक्तं कोहलादौ (कोहलेन ?)–
Notes
1 अयं श्लोको दचगभ– मातृकासु न विद्यते 2 नयढ–व्यापि हि 1 (अङ्क –असमाप्तायामपि )– Kan 2 (सम्बद्धो) –Kan
यत्रार्थस्य समाप्तिर्यत्र च बीजस्य भवति संहारः ।
किञ्चिदवलग्नबिन्दुः सोऽङ्क इति सदावगन्तव्यः1 ।। १६
ये नायका निगदितास्तेषां प्रत्यक्षचरितसम्भोगः2 ।
3नानावस्थोपेतः कार्यस्त्वङ्कोऽविकृष्टस्तु ।। १७
Abh
त्रिधाङ्कोऽङ्कावतारेण चूडयाङ्कमुखेन वा ।
अर्थोपक्षेपणं चूडा बह्वर्थैः सूतवन्दिभिः ।।
अङ्कस्याङ्कान्तरे योगस्त्ववतारः प्रकीर्तितः ।
विश्लिष्टमुखमङ्कस्य स्त्रिया वा पुरुषेण वा ।।
यदुपक्षिप्यते पूर्वं तदङ्कमुखमिष्यते ।। (तुलना, ना.शा. १९/१२६)
अत्रार्थस्य कस्यचित् सम्यगन्यत एवानभिसन्धानपूर्विकाप्तिः प्राप्तिरिति चूडा दर्शिता । तद्यथा रत्नावल्यां वैतालिकपाठाद् ‘दृशामुदयनस्य’ इत्यन्तः उपयोगी सम्यगर्थः प्राप्तः तत्प्रत्यभिज्ञामूलत्वात् सागरिकानुरागस्य, तथाचाह ‘अअं सो राआ उदअणो (अयं स राजा उदयनः)’ (१-२३) इत्यादि । तदर्थमेव च वसन्तक्रीडादिसर्वमुपक्षिप्तम् । तदेव च राजानुरागस्य शय्याफलकादिकृतस्य मूलमिति चूलिकेत्युक्तम् । तेन प्रथमः चूलिकाङ्कः यत्र त्वङ्के सर्वेषामङ्कानां योऽर्थो बीजलक्षणस्तस्य संहारः संमिलितत्वेन प्राप्तिर्भवति सोऽवताराङ्कः । यथा रत्नावल्यां द्वितीयोऽङ्कः । तत्र हि ‘ईरिसस्स कण्णआजणस्स ईरिस एव्व वरे अहिळासेण होदव्वम् । (ईदृशस्य कन्यकाजनस्येदृश एव वरे अभिलाषेण भवितव्यम्)’ इत्यादिप्रकृतमेव सर्वं वर्ण्यते । यत्र त्वनुसन्धानमात्रप्राणत्वेन तदुपयोगितया वृत्तान्तमुच्यते1 तदुपश्लिष्टमङ्कमुखम् । स एवेह किञ्चिदवलग्नबिन्दुरित्यनेन तृतीयो2 भेद उक्तः । यथा रत्नावल्यां तृतीयेऽङ्के ऐन्द्रजालवृत्तान्तनिरूपणं चूलिका3 तस्याश्च भेदः, चूलिकाङ्कस्यापि तदभिसन्धानाभावात् । इह त्वभिसन्धानं यौगन्धरायणादीनामस्त्येव । तेनायं संक्षेपः – अङ्के यद्वर्णनीयं वस्तु–
Notes
1 ड–योऽङ्क इति सोऽवगन्तव्यः । 2 च–संयोगः ड–चारिसंभोगः 3 कादिचान्तेषु विना सर्वेषु N–इत्यस्मिन्नपि –नानावस्थान्तरितः कार्यस्त्वङ्को यथार्थरसः । 1 (वृत्तान्त उच्यते) Kan 2 ( ? चतुर्थो) 3 (चूलिकातश्चास्य भेदः) Kan
नायकदेवीगुरुजन1पुरोहितामात्यसार्थवाहानाम् ।
नैकरसान्तरविहितो ह्यङ्क2 2aइति स वेदितव्यस्तु ।। १८
[3पञ्चापरा दशपरा ह्यङ्काः स्युर्नाटके प्रकरणे च ।
निष्क्रामः सर्वेषां यस्मिन्नङ्कः स विज्ञेयः ।। ] १९
Abh
तत्तावत् द्विधा प्रधानं तदुपयोगि च तदुपयोग्यपि किञ्चिद्दैववशादुपयोगं याति किञ्चिदभिसन्धिबलादिति त्रिविधोऽङ्कार्थः । स कदाचिदेकस्मिन्नङ्के मिश्रभावेनापि निबध्यत इति चूलिकाङ्कमुखयोरङ्कभेदयोः प्रधानार्थस्पर्शो नैवास्तीति ।
तथा प्रवेशकद्वारेण मुख्यचरितमपि1 शङ्कां वारयितुमाह ये नायका इति । धीरोदात्तादयो विजिगीषुतन्मित्रप्रभृतयो वा ये नायकाः प्रतिनायकाश्च तेषां चरितं, तदुपायानुष्ठानं तथा संभोगः प्रत्यक्षः सन्निहितः साक्षाद् दृश्यमानो, न तु सूच्यमानो, यत्र तादृगङ्कः नयति प्राप्नोतीति, वृत्तं फलं वेति नायक चरितप्रत्यक्षतया व्युत्पत्तिः, प्रेक्षकाणां संभोगाप्रत्यक्षत्वे च तद्गतकेवलक्लेशदर्शनात् वैरस्यं सामाजिकस्य स्यात् । किमनेन महता कष्टेनेति तत एवोक्तं न निस्सुखः स्यादिति2 । नानाप्रकारावस्थौ प्रतिनायकगतौ चरितसंभोगावनुपादेयावविषये चेति हेयावस्थौ, नायकगतौ तु तद्वैपरीत्यादुपादेयावस्थाविति तु शब्दस्यार्थः । अविकृष्ट इत्यदीर्घः । दीर्घो हि प्रयोक्तृप्रेक्षकाणां खेदाय स्यात् ।
एवं प्रधानवर्णनीयस्य वृत्तमुक्त्वा तदुपयोगिवृत्तस्य दिशं दर्शयितुमाह–नायकदेवीत्यादि । नायका मुख्याः पताकादयः3 देव्यो महादेवीभोगिनीप्रभृतयः । गुरुजनो मातृपितृभ्रात्राचार्यादिः सार्थवाहोऽत्र सेनापतिः । इतिवृत्तवशाद्वणिगेव वा, एषां संबन्धी अङ्कः एतदर्शाभिधायक इति यावत् । अत एव नैकेन विचित्रेण रसविशेषेण युक्तस्तथा हि देवीयोगे शृङ्गारः नायके वीर इत्येवमन्यदुत्प्रेक्ष्यम् । नायकानां देव्यादय इत्यन्ये । अङ्क इति । अनेक रसाङ्कितत्वादपि अङ्क इति नामेत्यर्थः । न केवलं चरितसंभोगावेव प्रत्यक्षौ,
Notes
1 फ–गुणजन न–परिजन 2 न–खलु 2a: N ह्यङ्को ज्ञेयो विकृष्टस्तु 3 अयं श्लोको गचय मातृकासु न वर्तते । 1 (चरितमपि दर्शनीयमिति शङ्कां)–Kan 2 न निः सुख स्याद् (अर्थशास्त्र १.३.७) इति । Kan
1क्रोधप्रसादशोकाः शापोत्सर्गोऽथ2 विद्रवोद्वाहौ3 ।
अद्भुतसंभव4दर्शनमङ्के5 प्रत्यक्षजानि स्युः ।। २०
एकदिवस6प्रवृत्तं6a कार्यस्त्वङ्कोऽर्थ7बीजमधिकृत्य8 ।
9आवश्यककार्याणामविरोधेन प्रयोगेषु10 ।। २१
एकाङ्केन कदाचिद्बहूनि कार्याणि योजयेद्धीमान्11 ।
आवश्यकाविरोधेन तत्र कार्याणि12 कार्याणि ।। २२
Abh
किन्त्वन्यदपि यत्र रञ्जनातिशयोऽस्तीति दर्शयन्नाह क्रोधप्रसादशोका इति । शापोत्सर्गः शापकृतस्यानर्थस्य नाशः,1 यथोक्तस्यानर्थकाभावस्य शङ्काभयत्रासकृतो विद्रव इति ( १९/ ८८)गर्भसन्धौ वक्ष्यते । उद्वाहो विवाहः । अद्भुतस्य संभवोऽभ्युपगमः उपक्रमो दर्शनं च निर्वाह इत्येतच्चान्यस्यापि रञ्जकवर्गस्योपलक्षणम् । अक्षजं ज्ञानं प्रति गतानीति प्रत्यक्षजानि । प्रत्यक्षशब्देन तदेकदेश उच्यते तत्र जातानीत्यन्येन्द्रियवर्गस्य2 प्रत्यक्षता तावद्भवति, कदाचित्तत्त्वप्रत्यक्षमपि ।3
अथाङ्कस्य प्रयोगकालपरिमाणमियदिति दर्शयति एकदिवसप्रवृत्तमिति । तादृशमवान्तरेणार्थेन प्रयोजनेन युक्तं बीजमुपायानुष्ठानं वर्णनीयताया अधिकृत्याङ्कः कर्तव्यो यस्य प्रकृष्टं च यद्वर्तनं प्रयोगरूपं तदेकदिवसेनेति मुहूर्तपञ्चदशकेनैव, यतस्तावन्तं कालमावश्यकानि भोजनादीनि अशक्यनिरोधनानि ततः परन्तु प्रयोगकालश्चेत् तत्प्रेक्षकप्रयोक्तॄणां तदाप्यावश्यकस्य सन्धावन्दनभोजनादेरविरोधेनेत्येवं कार्यानेकत्वमेकत्राङ्के निषिद्धम् । क्वचित्त्वभ्युपगतमपि । अन्ये तु सर्वामेवार्यां निषेधपरत्वेनाहुः । अन्ये त्वेकाङ्केनेति तृतीयां मन्यमानाः सर्वेयमार्या विधिपरेत्याहुः । यान्यवश्यंभावेन कार्याणि भोजनादीनि तानि
Notes
1 प–शोकप्रसादविद्रवशापोत्सर्गप्रसादनक्रोधाः । उत्साहोऽद्भुतदर्शनमङ्कैः प्रत्यक्षजानि स्युः । 2 न–अध्व 3 न–उत्साहौ भ–वापि 4 ड– संश्रय य N संश्रव 5 भ–अङ्क 6 प–प्रयोज्यः भ– प्रवृत्तं कार्यं ड– प्रवर्त्यः 6 a: N: एकदिवस प्रवृत्तः 7 च–अथ 8 फ –आश्रित्य 9 य–आविश्यक(?) ढ–आवन्त्यक (?) 10 प–प्रबन्धेषु 11 न–वापि 12 ड–काव्यानि । 1 नाशः यथोक्तस्यानर्थस्याभावः । ‘शङ्काभयत्रासकृतो विद्रव’ ‘(ना.शा.१९/८८) इति’ एवं पठ्यताम्– Kan 2 (जातानीत्यन्ये । इयतश्च वर्गस्य) –Kan 3 (कदाचित्वप्रत्यक्षत्वमपि) –Kan
रङ्गं तु ये प्रविष्टाः सर्वेषां भवति 1तत्र निष्क्रामः2 ।
बीजार्थयुक्तियुक्तं कृत्वा3 कार्यं 4यथार्थरसम् ।। २३
[5न बहूनीह कार्याणि त्वेकाङ्के विनियोजयेत् ।
आवश्यकानां कार्याणां विरोधो हि तथा6 भवेत् ।। ] २४
ज्ञात्वा दिवसावस्थां7 क्षणयाममुहूर्तलक्षणोपेताम् ।
8विभजेत्सर्वमशेषं पृथक्पृथ9क्कार्यमङ्केषु ।। २५
दिवसावसानकार्यं 10यद्यङ्के नोपपद्यते सर्वम् ।
Abh
किं प्रत्यक्षेणैव दर्शनीयानीति यः शङ्कते तं प्रत्याह रङ्गन्त्विति । तत्रेत्यावश्यकेकर्तव्ये न चासमाप्तावुपक्षिप्तावान्तरकार्ये पात्रनिष्क्रमणमिति दर्शयति । बीजार्थेति उपक्षेपात्मनो बीजस्य यत्प्रयोजनं तेन या युक्तिः संबन्धस्तत्र युक्तमुपायभूतं कार्यं प्रयोजनानुसारि विशिष्टरससम्पदोपेतं विधाय तत्परिसमाप्तौ यवनिकया तिरोधानरूपं निष्क्र मणं दर्शनीयम् । बीजार्थयुक्तिरुत्पत्त्युद्धाटनोद्भेदगर्भनिर्भेदफलसमानयनात्मेत्यन्ये ।
एवमितिवृत्तनियममङ्के प्रदर्श्य तदितिवृत्तकालनियमं दर्शयति, क्षणयाममुहूर्तानां यानि लक्षणानि कर्तव्यान्यस्मिन् क्षणे सन्ध्यानुष्ठेयेत्यादीनि तैरुपेनां दिवसस्यावस्थां ज्ञात्वा सर्वं कार्यं प्रत्येकं1 सर्वात्मना परिपूर्णरूपमत एवाशेषं विभजेत् विभागेन दर्शयेत् । नाडिकाभिरष्टधा दिनं रात्रिं च विभज्य छायाप्रमाणेन वेति तेन एकदिवससंपादितमुपयोगि चेष्टितमङ्के बध्नीयादिति तात्पर्यम् ।
ननु तन्मध्ये यत्कार्यं मध्याह्नस्नानभोजनादि तद्दिवसमध्य एव वा यद्वृत्तं दूरस्थं दशरथमरणादि तत्कथं वाच्यमित्याह – दिवसावसानकार्यमिति । दिव
Notes
1 य –यत्र 2 भ– निष्क्रान्तिः । 3 भ– व्याजं 4 ढ–तथार्थरसम् 5 अयं श्लोको भमयोरेव 6 भ–यथा 7 ड– दिवसान्स्तान् ……उपेतान् 8 भम–विभजेन्नाट्याभिज्ञो ह्यङ्कच्छेदेऽर्थमभिवीक्ष्य 9 ड– काव्यं 10 ड –यद्येकेन । 1(? प्रत्यङ्कं)
अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विधातव्यम्1 ।। २६
[विप्रकृष्टं तु यो देशं गच्छेत्कार्यवशानुगः ।
अङ्कच्छेदेऽथ संक्षेपान्निर्दिशेत्तं प्रवेशकैः ।। ]* २७
सन्निहितनायकोऽङ्कः कर्तव्यो नाटके प्रकरणे वा2 ।
परिजनकथानुबन्धः (? बद्धः) प्रवेशको नाम विज्ञेयः3 ।। २८
प्रकरणनाटकविषये 4पञ्चाद्या दशपरा भवन्त्यङ्काः5 ।
Abh
सेऽवसानं समाप्तिर्यस्य तत् सर्वं कार्यं यद्यङ्के प्रत्यक्षेण प्रदर्शयितुं न युज्यते तदाङ्कच्छेदं कृत्वा प्रवेशकैः प्रदर्शनीयम् । अदृष्टमप्यर्थं हृदि प्रवेशयन्तीति प्रवेशकाः । चूलिकाङ्कावताराङ्कमुखप्रवेशकविष्कंभका इहाभिप्रेताः । तथा च कोहलोऽर्थोपक्षेप– पञ्चकमुक्तवान् ।
एवमङ्कलक्षणं वितत्याभिहितमर्धेनोपसंहरन्नर्धान्तरेणाङ्कसन्धानरूपस्य प्रवेशकस्य सामान्यलक्षणं दर्शयन्नार्यां पठति सन्निहितनायक इत्यादि । नायकशब्देन तच्चरितसंभोगौ तौ सन्निहितौ प्रत्यक्षौ यत्रैकाङ्केऽपि रूपकेऽङ्को नायकचरितप्रत्यक्षताशून्यः1 कार्यः, किं पुनरन्यत्रेति प्रकरणे नाटके वेत्युक्तम् ।
अन्ये त्वेतदुत्तरार्धेन संबन्धयन्तो रूपकान्तराणि प्रवेशकशून्यानि भवन्तीत्याचक्षते । परिजनकथानुबन्ध इति 2 चतुर्णां लक्षणं सूतमागधादेश्चूलिकाङ्गस्य स्त्रीपुरुषादेर्वाङ्कमुखोपकरणस्य चेटीकञ्चुकादेर्वा3 प्रवेशविष्कम्भोपयोगिनः परिजनत्वात्कथयैव4 परस्परश्लिष्टयानुबद्धोऽङ्कावतारः । यथोक्तम्–
अङ्कान्तर एवाङ्को निपतति यस्मिन्प्रयोगमासाद्य ।
नाटयार्थकथायोगाद् विज्ञेयोऽङ्कावतारोऽसौ ।। इति । (तुलना, ना. शा. १९/११५)
तत्रायं प्रवेशकोऽङ्कार्थसन्धानाय भवतीति पूर्वोपक्षिप्तमङ्कं संख्यानुवादद्वारेण दर्शयति प्रकरणनाटकविषय इति । सन्ध्यवस्थानपरिपूर्णोपनिबद्ध एवाङ्का उप–
Notes
1 य–तद्विधेयं हि 2 ड– च ढ–वापि 3 भ–प्रवेशकश्चापि कर्तव्यः प– तत्र विज्ञेयः 4 ड– कविभिः पञ्चापरा दशपराश्च । अङ्काः कर्तव्याः स्युर्नानारसभावसंयुक्ताः । (भ–कविभिः पञ्चादयो दशान्ताश्च….संयुक्ताः) 5 च–तथा चैव *भमयोरेव । अस्यार्थो “यः कश्चि” दित्यार्ययोपगम्यते । 1 [न] –Kan 2 (?परिजनेनानुबद्ध) इति 3 (चेटीकञ्चुक्यादेर्वा) 4 (परिजनत्वात्/कथयैव)
1अङ्कान्तरसन्धिषु च प्रवेशकास्तेषु तावन्तः ।। २९
[2अनयोरन्तरविहितः प्रवेशकोऽर्थक्रियां3 समभिवीक्ष्य
संक्षेपार्थः सन्धिष्वर्थानां संविधातव्यः4 ।।] ३०
5अङ्कच्छेदं कृत्वा मासकृतं वर्षसंचितं वापि ।
तत्सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित् ।। ३१
Abh
क्रमोपसंहारवैतत्ये दश कस्यचित्संक्षेपेण षडित्येवम्, अन्यतो1 न्यूनाधिकत्वमनुचितमित्यर्थः । अङ्कमध्येषु तु सन्धानानि षट् चित्राणि संपादयितुं पञ्चविधः प्रवेशकः कार्यः । अङ्कान्तरसन्धिष्विति निमित्तात् कर्मसंयोगे सप्तमी । अपिशब्देन प्रवेशकशब्दस्यावृत्तिः सूच्यते । चो हेतौ । प्रवेशकशब्दश्च महासामान्यवचनः पञ्चसु वृत्तः, इह तु मध्यमसामान्ये प्रवेशकविष्कम्भकद्वये वर्तते ।
तदयमर्थः–यस्मान्मासकृतं वर्षसञ्चितं वा यच्च2 तत्कार्यं सामाजिकानां हृदयगतं तस्मात् प्रवेशकविष्कम्भकौ कर्तव्यौ । परिमितन्तु यदनुसन्धेयं तत्राङ्कमुखमल्पानुसन्धेये चूलिका, अल्पतमे अङ्कावतारः । तत्र केचित् वनवासादयोद्ध्याप्रवेशानन्तरं रामानुसन्धानमनुसन्धनीयं माभूदित्याशयेन व्याचक्षते मासेन मासाभ्यां मासैर्वर्षेण वर्षाभ्यां वर्षैः इति । कदाचित्तु वर्षादूर्ध्वन्तु ये महाप्रभावाश्चिरातीतमप्यनुसन्दधते रामादेस्तेषां3 बहुतरो हि कालः प्रवेशकैर्वर्णनीयः । ये तु पुरुषप्रायास्तेषां वर्षादूर्ध्वमनुसन्धानं नैवास्ति, तथा च मार्गशीर्षं तैषीं चान्तरेण दीर्घकालयात्रा आवर्षारात्रान्मासाष्टकमुक्तेति संगिरन्ते ।
एतच्चासत्, मासवर्षादीनां स्वीकृतनियतपरिमाणानां द्विवचनबहुवचनान्तत्वे वृत्त्ययोगस्य दर्शितत्वात् ।
सौर्यके4 मासजाते च परिमाणं स्वभावतः ।
अपाधिभूतमाश्रित्य संख्या5 भेदेन वर्तते ।।
वयस्त्विति परिच्छेदः क्रियतेऽपि न गम्यते ।6
इष्ठो भेदादृते तत्र परिमाणमनर्थकम् ।।
Notes
1 प– मातृकायां विना सर्वासु–अङ्काः कर्तव्याः स्युर्नानारसभावसंयुक्ताः 2 ड– अङ्कान्तरालसहितः ढ– अङ्कान्तरालविहितः भ–अनयोरन्तरविहितां 3 च –यत्क्रियां भ–अङ्कक्रियां प–अभिसमीक्ष्यं 4 न–वा विधातव्यः ढ–सन्धिस्त्वर्थानां वा विधातव्या । 5 भ–अङ्कच्छेदे कार्यं
1यः कश्चित्कार्यवशाद्गच्छति पुरुषः प्रकृष्टमध्वानम् ।
तत्राप्यङ्कच्छेदः कर्तव्यः पूर्ववत्तज्ज्ञैः2 ।। ३२
Abh
इत्यादिबहु च वर्षादूर्ध्वमिति च निषेधः फल्गुफल एव स्यात् । तस्मादेकवचनान्तेनैव समासः । न च रामायणभारतादिचरितत्यागप्रसङ्गः । कार्यग्रहणं ह्येतदर्थं मुनिना कृतं, यत्र हि यत्ननिष्पाद्यं सञ्चितं तदेव वर्षं गण्यते वर्षान्तराणि तु तत्र विद्यमानान्यपि अविद्यमानकल्पानि । रामचरिते हि चतुर्दशवर्षाण्यरण्यनिवासो यद्यपि कार्यः, वर्षाणि1 त्रिचतुराणि भवन्ति यत्र मारीचवधसुग्रीवराज्यदानाद्यवान्तरकार्यं संभवति । तस्माद्वर्षादूर्ध्वमित्यनेन कार्यं वर्षद्वयादि निषिध्यत इत्येवं वर्षसहस्रायुषोऽपि वर्षशतान्तरालवृत्तचरितव्याख्यानेऽपि न किञ्चिद्दुष्यति । तेन पञ्चाङ्के नाटके पञ्च कार्यदिनानीति संक्षेपः, दशाङ्के तु दशेति विस्तरः ।
अङ्कच्छेदे निमित्तान्तरमप्याह–यः कश्चित्कार्यवशादिति । कार्यवशात्कार्यस्य तत्रायतत्वात् यः पुरुषो नायकः सोऽनेकयोजनव्यवहितमध्वानं यदा2 प्रतिदिनं गमनं विश्रान्तिः शय्येत्येवमादि कथं रङ्गे प्रदर्श्य3 तदन्तेनाङ्कच्छेदः कार्यः । डिमादिनायकस्य तु दिव्यस्याकाशयानकादिना सर्वं युज्यते । अनायक पुरुषस्त्वविच्छिन्न एवाङ्के निष्क्रामति । ननु दिवसावसानकार्यं केनोपपद्यत इति आवश्यकाविरोधेनेत्यादिना यदुक्तं ततस्तिलमात्रेणाप्यधिकं वाच्यमस्य न लभ्यते वाक्यस्य । अत एवैतत् भट्टलोल्लटाद्यैर्न पठितमेव ।।
उपाध्यायास्त्वाहुः–नेदं निमित्तान्तरं अपि तु पूर्वं तावत्कथितं यद्यङ्के नोपपद्यत इति तस्यैवोदाहरणमनयैवार्यया दर्शितम् । यथा नायकस्य प्रकृष्टाध्वगमनमिति पूर्ववदिति तदर्हमिति4 भवति पूर्वलक्षणार्होऽङ्कच्छेदोऽयमिति यावत् । अपिशब्द उदाहरणान्तरमपि सूचयति । अङ्कार्थसन्धानप्रयोजनस्य प्रवेशकस्य स्थानं वाच्यम् । विषयं चाह अङ्कान्तरानुसारीति अङ्कमध्ये भवतीति यावत् । अङ्कान्तरं पूर्वाङ्कान्तरमनुसरति तस्य पश्चाद्भवतीत्यर्थः । प्रत्यङ्कान्तं यो बिन्दुः अनुसन्धानाभिधायिवाक्यं5 यत्संक्षिप्तं प्रयोजनं तदधिकताकरणं विस्तारमुद्दिश्येति वाच्यमुक्तं, प्रकरणे नाटके चावश्यं प्रवेशक6 स्तस्यावश्यमुत्तमप्रकृतिविषये उपदेशाय प्रवृत्तोऽपरिमितेनोपायेन7 भूयस्तरावान्तरकार्ये प्रत्युत्पत्तिबहुनां8
Notes
1 प– यदि 2 प– पूर्वतन्त्रज्ञैः 1 (यद्यपि, कार्यवर्षाणि) 2 [गच्छति तदा] –Kan 3(प्रदर्श्यमिति); 4 (गमनमिति पू्र्ववदिति । तदर्हम् (पाणिनि ५/१/११७) इति वतिः ।) एवं पठ्यताम् । 5 [तस्य]. 6 प्रवेशकः [कार्यः] तस्यावश्य………Kan 7 (प्रवृत्तौ परिमितेनोपायेन) – Kan 8 (प्रत्युत्पत्तिः । बहूनां)
अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य1 बिन्दूनाम्2 ।
प्रकरणनाटकविषये प्रवेशकः संविधातव्यः3 ।। ३३
नोत्तममध्यमपुरुषैराचरितो नाप्युदात्तवचनकृतः ।
प्राकृतभाषाचारः प्रयोगमाश्रित्य4 कर्तव्यः5 ।। ३४
6कालोत्थानगतिरसौ 7व्याख्यासंरम्भकार्यविषयाणाम् ।
अर्थाभिधानयुक्तः प्रवेशकः8 स्यादनेकार्थः9 ।। ३५
Abh
चामात्यादीनामपि स्वकार्यनिरूपणाय प्रवेशकः. अन्यत्र रूपके परिमितकार्योपदेशात् न तथा प्रवेशकोपयोग इति वितनिष्यामः ।
अथ विष्कम्भकाद्भेदमस्य दर्शयन् प्रवेशक शब्दोऽतिविशेषशब्दवाच्यपि भवतीति दर्शयति नोत्तममध्यमपुरुषैरिति । उत्तमादयोऽपि भवन्ति परिजनास्तन्निवृत्त्यर्थमेतत् । उदात्तं संस्कृतं वचनं तस्य निषेधः । अन्ये त्वाहुः– उदात्तं स्वात्मकार्यविश्रान्तं वचनं निषिध्यते, ‘आणत्तंमि भट्टिदारिआए’ (आणत्त म्हि भट्टिदारिआए) इत्यादिना हि स्वकृत्यं प्रधानोपयोग्येव दृश्यते1; तत्र न स्वतन्त्रं प्राकृती2 भाषा । आचारश्च व्यवहारः प्राकृत एव । प्रयोगमाश्रित्येति क्वचित्तु प्रयोगवशात्संस्कृतभाषाचारो विष्कम्भकेऽपि कर्तव्य इति दर्शयति । संक्षेपार्थमधिकृत्येति यदुक्तं तदेव विभजति कालोत्थानगतिरसाविति । कालोदयस्य3 गतिरवगमो यतः कालोदयसूचकः कश्चित् प्रवेशकः । यथा– “अज्ज वसन्दमहूसवे सबहुमाणमाहूय” इत्यादि (रत्ना .१) । अर्थाभिधानेति प्रत्येकं संबध्यते, तेन व्याख्यादीनां विषयान्तानां चतुर्णां योऽर्थस्तदभिधाने युक्तस्तदुद्देशेन प्रवृत्त इति पञ्चप्रकारः प्रवेशक इति यावत् । व्याख्यायत इति व्याख्या । तथा हि – केनचित्प्रवेशकेन गूढो [ऽर्थो] व्याख्यायत इत्यर्थः । यथा तापसवत्सराजे अमात्यप्रणिधिः– “मामिज्जइ4 असवासएहि हाळाहळस्सपमादसंकिदा (भ्राम्यते पार्श्वकैः प्रमादशङ्कितैः ।)”
Notes
1 ड–अधिकारी संक्षेपमथापि कृत्य न –संक्षेपं समधिकृत्य ढ– संक्षोपमथाधिकृत्य 2 फ–विहितोऽयम् 3 य–विषयप्रवेशको भवति काव्येषु फ–विषयोपदेशको नामविज्ञेयः । 4 प–आसाद्य 5 फ–प्रवेशको नाम विज्ञेयः(?) 6 प–कालोऽस्थानगतिरसन्यासारम्भ कामविषयाणाम् (?) भ–रसगति व्यत्यास ड– कालार्थान्तरसंगतिव्यत्यासारम्भ । 7 न–व्यत्यासारम्भः 8 भ– भूतः फ–आर्याभिदानसूतः (?) 9 भ–नाम विज्ञेयः 1(?दर्श्यते), न स्वतन्त्रम् । –Kan एवं पठ्यताम् 2 (?प्राकृता)भाषा–एवं पठ्यताम् । 3 (?कालोत्थानस्य) 4 (भामिज्जइ)– एवं पठ्यताम्
1बह्वाश्रयमपि1a कार्यं2 प्रवेशकैः संक्षिपेच्च सन्धिषु वा3 ।
4aबहुचूर्णपदैर्युक्तं 4जनयति खेदं प्रयोगस्य ।। ३६
Abh
(तापस–अ–४) इत्यादि । अनेन हि नातिव्यवधानोक्तं पद्मावतीगृहे च यद्वास वदत्तास्थापनं तस्य गूढं प्रयोजनं व्याख्यातम् । संरम्भः कार्यविशेष (विषयः?) अभिप्रायस्तस्यार्थ उपायान्वेषणादि तदभिधानयुक्तः प्रवेशको, यथा नृत्तपारे* “गति…..उपस्थितमिदं तत्प्रयोजन"मित्यादि । अनेन वासवदत्तामपहृत्योज्जीयनीं1 निनीषोर्वत्सेशस्य प्रयोजकत्वं प्राप्तानाममात्यानां संरम्भः शालङ्कायनेनोक्तः । कार्यं तु यदाधिकारिकमित्यादि (तुलनाः,ना. शा. १९–३), तस्यार्थः पञ्चाङ्गस्यानुष्ठानम् । तद्यथा– कर्मणामारम्भोपायः पुरुषद्रव्यसंपद्देशकालविभागः विनिपातप्रतीकारः कार्यसिद्धिरिति । तथाभूताभिधानयुक्तश्च प्रवेशको बाहुल्येन तापसवत्सराजप्रतिभाचाणक्यमुद्राराक्षसादिषु । विषयस्तु भाविनोऽङ्कावतारस्येतिवृत्तं, तस्यार्थो विशेषरूपः, तदभिधानेन युक्तः प्रवेशको यथा–नागानन्दे द्वितीयेऽङ्के चेटिकाद्वयेन मदनावस्थेतिवृत्तस्य विशेषवर्णनं चन्दनलतागृहादि दर्शितम् । अन्यान्यपि प्रवेशकस्य प्रयोजनानि सन्ति । न त्वेतत्परिगणनमित्याह–अनेकार्थ इति ।
नन्वेवंभूतोऽर्थो यः प्रवेशके प्रदर्श्यते समासेन विस्तरेण वेत्याशंक्याह **बह्वाश्रयमपीति **। सन्धिं चिकिर्षव इति2 अङ्कार्थसन्निवेश3निमित्तं ये प्रवेशकाः पञ्चाप्युक्ताः चूलिकादयस्तैर्वाङ्काश्रयं बहु वक्तव्यं विततमपि कार्यं संक्षिपेत् यावत्सन्धानोपयोगि तावत्तत्र ब्रूयात् । यतो, बहुभिर्गद्यगतैरसमस्तैः पदैरसंस्कृतप्रायैः खेदो भवति । अनेन प्रवेशकादौ उत्कलिकाप्रायं बहुतरसमाससंङ्कीर्णमभिनयशाखाङ्गत्रोटनकारित्वात् समाससंशयेनार्थानिश्चायकत्वाच्च न कर्तव्यमित्यपि दर्शयति ।
दिवसावसानकार्यं यद्यङ्के नोपपद्यते सर्वम् ।
अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विधातव्यम् ।। (१८/२६)
Notes
1a: N: बह्वाश्रयमप्यर्थं प्रवेशके संक्षिपेत् सन्धिषु 1 म– बह्वाश्रयमप्यर्थं प्रवेशकैः संक्षिपेत्प्रबन्धेषु । अङ्केषु संप्रयुक्तो जनयति खेदं प्रयोगस्य । 2 प– अत्यर्थं 3 भ–संक्षिपे तु सन्धिगतम् ड–च फ–संक्षिप्तेऽर्थे तु सन्धिषु च 4 न–पद्यवृत्तं फ–पादवृत्तं ग–पदैर्वृत्तं ड–पूर्णपद्यवृत्तं भ–पद्ययुक्तम् 4a: N बहुचूर्णपादयुक्तं जनयति खेदं प्रयोगस्य *क–नृत्तवारे । (?नृत्तवारे ?नाटयवारे) 1 (?त्योज्जयिनीतो) 2 (सन्धिष्वति)–Kan, (अङ्कार्थसन्धान)– Kan
यत्रार्थस्य समाप्तिर्न 1भवत्यङ्के प्रयोगबाहुल्यात् ।
2वृत्तान्तस्वल्पकथैः प्रवेशकैः सोऽभिघातव्यः3 ।। ३७
युद्धं राज्यभ्रंशो मरणं 4नगरोपरोधनं चैव ।
5प्रत्यक्षाणि तु नाङ्के प्रवेशकैः संविधेयानि ।। ३८
Abh
इति यदुक्तं तत्रानुपपत्तिर्बहुप्रकारा भवतीति दर्शयितुमाह यत्रार्थस्य समाप्तिरिति । यत्प्रत्यक्षप्रयोज्यमपि प्रयोगवशादङ्केऽसमाप्तं भवति तत्प्रवेशकेन कर्तव्यम् बहुतरत्वं प्रयोगस्य बहुमानास्पदत्वम् ।
तदयमत्रार्थः –यत्र दिचसकार्याण्ययनेकानि तत्र तन्मध्ये1 यत्सुन्दरप्रयोगमुपदेशोपयोगि च तत्प्रत्यक्षेण दर्शनीयम् । अन्यत्सर्वं प्रवेशकेन वृत्तान्तार्था तदवशिष्टेनेतिवृत्तनिर्वाहफला अल्पा संक्षिप्ता कथा यस्य प्रवेशकस्य । एवं प्रत्यक्षप्रयोज्ये प्रवेशकोपयोगो दर्शितः, अन्यत्रापि तं दर्शयति युद्धं राज्यभ्रंश इत्यादि । युद्धे शस्त्रसंपातस्य बाहुल्यं राज्यभ्रंशेऽपि पतनमरणादेः नगरोपरोधे बलस्य यन्त्रसुरुङ्गादिदानस्य [च] । इह केचिदाहुः मरणं द्विविधम्, किञ्चिदन्यसंबन्धिन्या क्रियया संपाद्यं यथा चक्रेण दैत्यस्य शिरश्छेदं,1 किञ्चिदन्यसंबन्धिक्रियानैरपेक्ष्येणैव व्याध्यभिघातादिप्रभवम्, तत्राद्यस्यैव निषेधः क्रियते । एतदर्थमेव कृतग्रहणं, तद्ध्यन्यक्रियावाचकं न च तद्युद्धेन संगृहीतम्, अयुद्धे पूर्वकस्याप्यशङ्कितशिरश्छेदस्य दर्शितत्वादिति । त एवं प्रष्टव्याः– इदं मरणं प्रयोज्यमिदप्रयोज्यमिति न तावदत्र विषयविभागे निदानमुत्पश्यामः । मृतस्य कथं निष्क्रामणं कथं वावस्थानं, ततो नाट्योपयोगिसमस्तध्रुवागानादिप्रक्रियाविलोपः सामाजिकानां विरसताप्रतिपत्तिरिति तु सर्वत्र मरणं समानं तस्माद्रङ्गे मरणमप्रयोज्यमेव । ननु मरणानुभाववर्णनेनेदानीं किं कृत्यं, युद्धवीररौद्रादावप्येतदनुभाववर्णने किं प्रयोजनं तदनुभावापरिज्ञाने प्रवेशकैरपि कथं वर्णनं स्यादिति चेन्मरणेऽपि समः समाधिः ।
Notes
1 न–भवेत् 2 न–वृत्तान्ताल्पकथार्थैः य–वृत्तान्तोऽल्पार्थकथैः ड–बहुवृत्तान्ताल्पकथैः ढ N–वृत्तान्ताल्पार्थकथैः प–बहुवृत्तान्तोऽल्पकथैः फ–विष्कम्भः स्वल्पकथः भ–वृत्तान्तैः 3 भ–सापि निर्देश्या ढ N–सा विधातव्या ड–संविधातव्यः 4 फ–समरस्य रोधनं 5 भ–अप्रत्यक्षकृतानि । 1 (शिरच्छेदः ?)
अङ्के प्रवेशके 1च प्रकरणमाश्रित्य नाटके2 वापि2a ।
3न वधः कर्तव्यः स्याद्योऽभ्युदयी नायकः ख्यातः4 ।। ३९
5अपसरणमेव कार्यं 6ग्रहणं वा सन्धिरेव वा योज्यः6a ।
Abh
किञ्च यत्र प्रत्यापत्तिशून्यं मरणं तत्प्रक्रियाविलोपकत्वान्न प्रयोज्यम् । यत्तु क्कचित्प्रत्यापत्तिः यथा जीमूतवाहनस्य तदेव क्षणमात्रानिश्चितचेष्टात्मकं प्रयोज्यमेवेति सोऽपि मरणानुभावसाक्षात्करणस्य विषयः । यद्वाहिनीनामपि1 साटोपपरिक्रमणं शस्त्रवर्णनादिप्रारम्भरूपमदः प्रयोज्यमपि तु तन्निर्वाहो न प्रदर्शनीयः । एतदेव कारणे [न] स्फुटीकृतं युद्धमेव यन्निर्वाहपर्यन्तं यावन्मरणमेव यदचिरप्रत्यापत्तिर्न भवति तन्न प्रत्यक्षेण प्रयोज्यं, प्रवेशकैरिति उपक्षेपपञ्चकमध्यादन्यतमेनोपक्षेपेणेत्यर्थः । अन्ये त्वाहुः –व्याधिजमभिघातजं च मरणं रङ्गे प्रयोज्यं, अपुनर्जनिनिष्क्रान्तिरहितप्रकृतिर्विधेयेति ।
अथ सर्वथा यद्विषयं मरणं नाख्येयं तद्दर्शयचि अङ्के प्रवेशके चेति । प्रकरणे नाटके नायकस्य प्रत्यक्षेण वा वर्णनया वा न मरणं वर्णनीयम् । अङ्क इति प्रत्यक्षेण, प्रवेशक इति वर्णनया ।
ननु प्रत्यक्षेण ये न कस्यचिन्मरणं प्रयोज्यमिच्छन्ति तन्मते अङ्कग्रहणं किमर्थं, तत्राहुः वधशब्देन (न) मरणमुच्यते, अपि तु परकृतघातदानादि, तत्रान्यघातदानाद्यापि प्रत्यक्षेण रङ्गे प्रदर्श्यते । अचरिप्रत्यापत्तौ समाश्वासे यस्तु नायकस्तस्य ख्यातस्य न घातदानादि प्रदर्शनीयम् । अन्ये तु ख्यातं नायकं पताकानायकादिकमिच्छन्ति । अपसरणमिति पलायनम् । यथोक्तं –“अशक्ये सर्वमुत्सृज्यापगच्छेत्, 2अदृष्टा हि जीवतः पुनरावृत्तिः” 3इति । ग्रहणं वा कार्यं सनिबन्धनबन्धनमिति । यथा वासवदत्तानृत्तधारे (पारे ? ) (वासवदत्तानाट्यधारे) वत्सराजस्य । सन्धिरिति सन्धानं, यदुक्तम्–
Notes
1 भ N–वा 2 न N–नाटकं 2a: N: चापि 3 ग–न च बन्धः 4 भ–तत्रापि हि नायकस्यैव फ–यस्तत्र स नायकः ख्यातः ड N –यस्तत्र तु नायकः ख्यातः 5 च–अवतरणं फ–अवसरणं 6 ड–सन्धिर्वा ग्रहणमेव वा नित्यम् (सिद्धिर्वा–ढ) भ–ग्रहणं वा सन्धिमेव वा कुर्यात् । 6a: N: सन्धिर्वा ग्रहणमेव कार्यम् । 1 (यद्गिवादिनमपि)–Kan 2(दृष्टा) [वा], एवं पठ्यताम् 3 [अर्थशास्त्र, ९/७/३५, ३६]
1काव्यश्लेषैर्बहुभिर्यथारसं नाट्यतत्त्वज्ञैः ।। ४०
न महाजनपरिवारं कर्तव्यं नाटकं प्रकरणं वा ।
ये तत्र कार्यपुरुषाश्चत्वारः पञ्च वा ते स्युः ।। ४१
2काव्यं2a गोपुच्छाग्रं3 कर्तव्यं कार्यबन्धमासाद्य । 4
Abh
प्रवृत्तचक्रेणाक्रान्तो राज्ञा बलवताबलः ।
सन्धिनोपनमेत् ………।। इति (अर्थशास्त्रे ७–३–22 अध्या)
अपसरणबन्धनसन्धीनां विषयविभागसूचनायाह । प्रधानरसानुसारेण यत्काव्यं य(यः ?)काव्यार्थस्तस्य1 श्लेषा बन्धनाद्युपपत्तयः तैरुपलक्षितमपसरणादिकार्यमिति यावत् । कार्यविशेषैरिति केषांचित्पाठः ।
अथ यद्यदप्रयोज्यं प्रत्यक्षेण तस्य सामान्यद्वारकं संग्रहं दर्शयितुमाह–न महाजनपरिवारमिति । महाजनः संख्यया तेन परिवारः परिवारणं यत्र 2यत्र वस्तुनि तन्नाटकमिति तद्युक्तं नाटकं प्रकरणम् । वाग्रहणादन्यदपि न कार्यम् । एतदुक्तं भवति– बहुतरपुरुषसाध्यं यत्किंचित्तद्यथा समुद्रे सेतुबन्धनमित्यादि, तत्सर्वं प्रत्यक्षेण न प्रदर्शनीयम् । तथा महतो जनस्य पितापुत्रश्वश्रूस्त्रुषागुरुशिष्यादेः परितो वरणं व्रीडातङ्कादियोगेन यत्र जायते वैरस्यं वा महाजनस्य सभ्यस्य च यत्र परिवरणं चित्तसङ्कोचः तत्सर्वं परिचुम्बनाद्यपि न प्रत्यक्षप्रयोज्यम् । यदि च प्रत्यक्षप्रयोज्यं तत्र पञ्च कार्यपुरुषाः यदि वा चत्वारः प्रकरीपताकादिरूपाः तेषां च परिवारस्वभावास्तावन्त एवेति यदि प्रकर्षस्तदा दशाष्टौ वा रङ्गे प्रविष्टा भवन्ति । ततोऽधिकेषु त्वभिनयचतुष्टयं सम्यगविभावनीयं स्यात् देवयात्रापरिदृश्यमानजनसमाजवत् । ऐवमङ्के3 प्रवेशकस्वरूपं वित्याभिहितम्, अधुना तत्समुदायस्य नाटकस्य यादृग्रूपं तदृर्शयति काव्यं गोपुच्छाग्रमिति । क्रमसूक्ष्माङ्गमिति केचित् । अन्ये तु यदा गोपुच्छे केचिद्वालाः हृस्वाः केचिद्दीर्घाः एव कानिचित्कार्याणि मुखसन्धौ परिसमाप्तानि
Notes
1 भन–बहुभिः काव्यविशेषैः प्रवेशकैः सूचयेद्वापि पचः–मातृकापाठ एव मूले विनिवेशितः । भः –तैस्तैः काव्यश्लेषैः प्रवेशकैर्नाट्यतत्त्वज्ञैः । म –एभिः कार्यविशेषैः प्रवेशकैः सूचयेद्वापि (य–बहुभिः) ड–तैस्तैः कार्य विशेषै………सूचयेच्चैव ब–बहुभिः कार्यश्लिष्टैः 2 प–कार्य फ–गोपुच्छाग्रे, 2 a: N: N reads: व्यायोगे हासगतिसमुत्थितानि कार्याणि । …..आसाद्य ।। ३३ ।। This seems to be out of context. 3 भढ– गोपुच्छार्धम् । 4 प–नाटकादिषु प्राज्ञैः फ–काव्यबन्धमुत्पाद्य । 1 (यः काव्यार्थस्तस्य) 2 (यत्र वस्तुनि तद्युक्तं नाटकं प्रकरणम्) एवं पठ्यताम्
ये चोदात्ता भावास्ते सर्वे पृष्ठतः कार्याः ।। ४२
सर्वेषां काव्यानां नानारसभावयुक्तियुक्तानाम् ।
1निर्वहणे कर्तव्यो नित्यं हि रसोऽद्भुतस्तज्ज्ञैः ।। ४३
नाटकलक्षणमेतन्मया समासेन कीर्तितं विधिवत्2 ।
प्रकरणमतःपरमहं लक्षणयुक्त्या प्रवक्ष्यामि ।। ४४
यत्र कविरात्मशक्त्या3 वस्तु शरीरं च 4नायकं चैव ।
Abh
कानिचित् प्रतिमुखपर्यन्तानि कानिचिदवमर्शावसानानि पराणि निर्वहणपर्यवसायीनि, तद्यथा रत्नावल्यां प्रमोदोत्सवो मुखसन्धावेव निष्ठित1 इत्यादि यावत् बाभ्रव्यवृत्तान्तो मुखोपक्षिप्तो निर्वहणनिष्ठां प्राप्तः । साररूपाश्च पदार्थाः पर्यन्ते कर्तव्याः ।
अत्र हेतुमाह सर्वेषां काव्यानामिति । नाटकादीनां निर्वहणो2ऽद्भुतरसः कर्तव्यः । एवं हि तानि काव्यानि रसभावनां युक्त्या परस्परसंबद्धानि युक्तानि भवन्ति, नान्यथा एकवाक्यतां च विना कः प्रबन्धार्थः । तथा च शृङ्गारवीररौद्रैः स्त्रीरत्नपृथिवीलाभशत्रुक्षयाः करुणादिभिस्तन्निवृत्तिरितीयता क्रमेण लोकोत्तरासंभाव्यमनोरथप्राप्तौ भवितव्यमद्भुतेन । असाधारणलाभो हि यदि फलत्वेन कल्प्यतेऽवश्यं क्रियायाः किञ्चिदस्त्येव फलमात्रमिति किं तत्रोपायव्युत्पादनायत्तेनेत्यद्भुतावसानत्वमकार्यम्, केन व्युत्पाद्यजनस्यैवं3 बुद्धिर्जायते–‘अहो दुष्करमप्युपायक्रमेण सिध्यति’ इति, “उपायेन वर्तितव्यं” इति । पूर्वोक्तमुपसंहरति वक्तव्यान्तरं चाक्षपति नाटकलक्षणमेतदित्यादि । क्कचिल्लक्ष्यं प्रसिद्धम्, इह तु लक्षणबलेन तस्यैव यत्नप्रसाध्यत्वमिति दर्शयति । लक्षणयुक्त्या लक्षणद्वारेण युक्तिः हृदयानुप्रवेशनया हेतुभूतया संपाद्ययेत्यर्थः । तत्र प्रकरणस्य सभेदस्य4 लक्षणं नामनिर्वचन चाह यत्र कविरात्मशक्त्येति । वस्त्विति साध्यं फलं, शरीरमिति तदुपायं वस्त्वादिकं काव्याभिधेयमात्मशक्त्या प्रकुरुते यत्काव्येन5 तत्प्रकरणमिति बुधैर्ज्ञेयमिति संबन्धः । यत्र
Notes
1 फ–निर्वहणं कर्तव्यं 2 फ–प्रकीर्तितं विविधम् भ–विप्राः 3 पभ–बुद्ध्या 4 ड–नाटकम् । 1 (निष्ठितः यावद्) –एवं पठ्यताम् । 2 (णे) 3 (व्युत्पादनायत्नेने) –Hema 4 (? सप्तभेदस्य) –Hema 5 (? यत्र काव्ये)–Hema
औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधै1र्ज्ञेयम् ।। ४५
2यदनार्षमथाहार्यं काव्यं 3प्रकरोत्यभूतगुणयुक्तम ।
4उत्पन्नबीजवस्तु प्रकरणमिति5 तदपि विज्ञेयम् ।। ४६
यन्नाटके 6मयोक्तं 7वस्तु शरीरं 8च वृत्तिभेदाश्च ।
9aतत्प्रकरणेऽपि9 योज्यं सलक्षणं सर्वसन्धिषु तु ।। ४७
Abh
समुत्पाद्यं न भवति1 तत्र योऽनुत्पाद्योंऽशः न कुत्रस्थो2 ग्राह्य इति दर्शयितुमाह यदनार्षमित्यादि । अनार्षमिति पुराणादिव्यतिरिक्तबृहत्कथाद्युपनिबद्धं मूलदेवचारितादि । आहार्यमिति पूर्वकविकाव्याद्वाहरणीयं समुद्रदत्तचेष्टितादि ।
ननु च तत्रांशे कविकृतत्वाभावात्कथं प्रकरणवाचोयुक्तिरित्याह उत्पन्ने पूर्वसिद्धे बीजं वस्तु च यत्र तादृशमपि तत्, यदिति वस्तुभूतैः3 बृहत्कथादौ काव्यान्तरे वा 4प्रसिद्धैर्गुणैर्युक्तं, प्रकरोति तदिति तस्माद्धेतोरेतदपि प्रकरणम् । तेन बृहत्कथादिसिद्धस्य मूलदेवादेरघिकावापं कविशक्तिर्यदा विधत्ते तदा प्रकरणम् । एवं पूर्वकविसमुत्प्रेक्षितसमुद्रदत्तचेष्टितादिवर्णनेऽपि अधिकावापं विदधत्कविः प्रकरणं कुर्यादिति तात्पर्यम् । नन्वस्येतिवृत्तस्य कथं योजनेत्याशंक्य पूर्वोक्तमेवातिदेशद्वारेण स्मारयितुमाह यन्नाटके मयोक्तमिति । ‘नानाविभूतियुक्तमृद्धिविलासादिभि'5– रित्यादिनायकफलवत्त्वमुक्तं तत्, वस्तुशरीरमिति ‘अङ्कप्रवेशकाढ्यं’ वृत्तिभेदाश्चेति “नानारसभावचेष्टितैर्बहुधा । सुखदुःखोत्पत्तिकृत” मिति, सलक्षणमित्यङ्कप्रवेशकयोर्लक्षणयुक्तमिति ।
केचित्तु शरीरग्रहणेन गतार्थं तस्माल्लक्षणमित्यङ्कपरिमाणमङ्कान्तरसन्धानहेतुषु च प्रवेशकेषु यत्प्रयोज्यमुक्तं दिवसावसानकार्यं यद्यङ्केनोपपद्यत’ इत्यादि
Notes
1 भ–अपितद्विधंड–एतद्बुधैः 2 च–यदनर्थमयाहार्यं (?) फ–यदनायकहार्यकार्यं (?) ड–यदनार्षमाहार्यं ढ– यदनार्षमहार्यं प–यदनार्षमप्रयुक्तं परेण यत्स्यादभूतगुणबन्धम् 4 ट–प्रकरोत्यद्भुत (?) 4 य– प्रकरणमिति तद्विद्यादुद्विजबीजार्थसंयुक्तम् (–औद्भिज–प, बीजंबीजार्थ–फ–उद्गत–भ) 5 च–अपि 6 न–प्रयोक्तं 7 नठ–काव्य 8 नपभ– रसाश्रयोपेतम् फ– समाश्रयोपेतम् 9 प–कार्यं केवलमुत्पाद्यवस्त्वपि हि तत् । ढन–कार्यं केवलमुत्पाद्यवस्तु स्यात् (योज्यं–ड) 9a: N: तत्प्रकरणे; N does not read ‘ऽपि’ 1 (यत्र सर्वमुत्पाद्यं न भवति)–Hema 2 (स कुत्रस्थो) – Hema
1विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम् ।
चरितं 2यन्नैकविधं 3ज्ञेयं तत्प्रकरणं नाम4 ।। ४८
5नोदात्तनायककृतं न दिव्यचरितं न राजसम्भोगम्6 ।
बाह्यजनसंप्रयुक्तं 7तज्ज्ञेयं7a प्रकरणं तज्ज्ञैः8 ।। ४९
9दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम्10 ।
मन्दकुलस्त्रीचरितं 11काव्यं कार्यं प्रकरणे तु12 ।। ५०
Abh
तत्सर्वं प्रकरणेऽपि योज्यम् (इति) । अतिदेशायातमतिप्रसङ्ग वारयत्यार्याद्वयेन विप्रवणिगित्यादिना । सचिवो मन्त्री, अमात्योऽधिकृतः सार्थवाहस्तावत्पण्यानामाहर्ता तद्देशक्रयविक्रयकृतो वणिजोऽन्य एव । नैकविधमित्यनेकरस युक्तमित्यर्थंः/?/ । ‘नैकरसान्तरविहित’ इति तदतिदेशमात्रमिति सूचितम् । प्रख्यातोदात्तेति प्रसक्तं निषेधति नोदात्तेति । तन्निषेधे चार्थान्नाटके वैपरीत्यमायातम् । नाटके च देवो नायकत्वेन निषिद्ध इति प्रकरणे कर्तव्यत्वेनापाद्यत इत्याह न दिव्यचरितमिति । तथा दिव्याश्रयमिति यदनादेशाद्1 देवानां प्रयोज्यत्वं प्रसक्तं तदप्यनेन निषिद्धम् । नाटके देवानामिवेहापि राज्ञः प्रवेशे शङ्कमाने2 निराकरोति न राजसंभोग इति, यदि वा औत्पत्तिकत्वेऽपि न राजोचितसंभोगोत्प्रेक्षा विप्रादिषु करणीयेत्यनेन शिक्षयति, अत एव राजनियमः । उचितोऽन्तःपुरजनः3 कञ्चुकिप्रभृतिः तद्व्यतिरिक्तो बाह्यजनोऽत्र चेटदासादिः प्रवेशकादौ कार्य इत्यर्थः ।
एतदेव दर्शयति दासविट श्रेष्ठियुतमिति कञ्चुकिस्थाने दासः, विदूषकस्थाने विटः अमात्यस्थाने श्रेष्ठीत्यर्थः । वेश्यावाटो वेशः तत्र या स्त्री तस्याः य उपचारो वैशिके (अ–२३) वक्ष्यते स कारणं यस्य शृङ्गारस्य तेनोपेतं, कुल–
Notes
1 भ–सचिवश्रेष्ठब्राह्मण 2 च– यत्रैक ड– यदनेक 3 ड– तज्ज्ञेयं प्रकरणं 4 प–कृतिभिः ट–कथिभिः 5 प–नोदात्तनृपोपेतं 6 ड– संभोगः 7 ड– विज्ञेयं 7 a: N: तज्ज्ञेयं तत्प्रकरणं 8 प–लोके भ –नाम 9 म–दाश 10 भ–कारणैर्युक्तम् 11प–कार्यं 12 यन –प्रयोगे तु च–प्रकरणेऽपि । 1 (? यदतिदेशाद्) 2 (राज्ञः प्रवेशं शङ्कमानः) –Hema 3 (अत एव राजनि य उचितोऽन्तः– पुरजनः)–Hema
सचिवश्रेष्ठिब्राह्मणपुरोहितामात्यसार्थवाहानाम् ।
गृह1वार्ता यत्र भवेन्न तत्र वेश्याङ्गना कार्या ।। ५१
2यदि वेशयुवतियुक्तं न कुलस्त्रीसङ्गमोऽपि स्यात्3 ।
अथ 4कुलजनप्रयुक्तं न वेशयुवतिर्भवेत्तत्र ।। ५२
Abh
स्त्रीविषयं चेष्टितं मन्दं यत्रेति । उपाध्यायास्तु मन्दकुलानां स्त्रीणां चरितं यत्रेत्याहुः, तेन कुलाङ्गनापि तत्र मन्दकुलैवेति दर्शितं भवति । एतदेवाभिमन्यमानेन पुष्पदूषितकेऽशोकदत्तादिशब्दाकर्णनेन समुद्रदत्तस्य1 शङ्का योपनिबद्धा सा न दोषाय निर्वहणान्तोपयोगिनी हि नन्दयन्ती निर्वासनं तस्याश्च गृहान्तरावस्था[नम्] । इदमेव मुखसन्धौ मूलं परपुरुषसंभावनामूलत्वात् । एवमनभ्युपगमे तु श्वशुरेण वध्वा असन्निहिते पुत्रे निर्वासनं शबरसेनापतिगृहेऽवस्थानमित्युत्तमप्रकृतीनामनुपपन्नमेव । तस्मात् स्ववर्गापेक्षयेदमुत्तमत्वमद्यतने राजोचितानामुत्तमप्रकृतीनां वणिङ्मात्रे समारोप्य तद्दूषणं यत्कृतं न तेन ब्रह्मयशःस्वामियशः खण्डितं अपि स्वयश एव । ये हि मिथ्यायशो मिथ्याकलङ्कयितुमुद्यतास्तेषां स्वयश एवेति यशोमात्रावशेषता न हि नायकशब्दमात्रादेव दुर्योधनवदेव शङ्कद्यनुचितम् । प्रकरणे हि तादृश एव नायकः केवलमन्यवणिगपेक्षया स उत्तमोऽस्तु, व्युत्पाद्यश्च तत्रैवंविध एवेत्यलमवान्तरेण ।
अथास्य सप्तविधस्यापि प्रकरणस्य प्रत्येकं भेदत्रयं दर्शयितुमार्यात्रयं पठति सचिवेत्यादि । सचिवादीनां संबन्धिनी यत्र गार्हस्थ्योचिता वार्ता पुरुषार्थसाधकमितिवृत्तं न तत्र वेश्याङ्गना नायिकात्वेन निबन्धनीया, विटादीनां तु नायकत्वेन कृतानां गार्हस्थ्यचिन्तायां सापि निबन्धनीयेत्युक्तं भवति । यदि गृहस्थचिन्तावर्णनं न भवति श्रेष्ठिसार्थवाहादीनां च विप्रादि– वदविरुद्धो वेश्यायोग इति सापि प्रदर्शनीयेति लब्धमर्थात् । तत्र न तु कुलस्त्रीसंगमः कर्तव्यः । तदाह यदि वेशयुवतीति । अथ कुलजनप्रयुक्तमिति । एवं श्रेष्ठिसचिवादिविषयं शुद्धं भेदद्वयमुक्तं, विटादिविषयस्तु सङ्कीर्ण एव वेश्याकुलजाभ्यां भवति ।
Notes
1 भ –वार्तायां तु 2 भ–यतिवेश्यायुवतियुतं म–यदि वेश्यायुवतियुतं 3 य–संगमो भवेत्तत्र द– संगमर्हति ततः प–संगमर्हति कदाचित् भ–संगमस्तत्र 4 प– कुलवधू । 1[नन्दयन्त्यां व्यलीक]…..ND
यदि ना कराणयुक्त्या वेशकुलस्त्रीकृतोपचारः स्यात्1 ।
2अविकृतभाषाचारं 3तत्र तु 4पाठ्यं प्रयोक्तव्यम् ।। ५३
मध्यम5पुरुषैर्नित्यं योज्यो विष्कम्भकोऽत्र6 तत्त्वज्ञैः ।
संस्कृतवचनानुगतः 7संक्षेपार्थः प्रवेशकवत् ।। ५४
शुद्धः संकीर्णो वा द्विविधो विष्कम्भकोऽपि कर्तव्यः8 ।
8aमध्यमपात्रः शुद्धः संकीर्णो नीचमध्यकृतः9 ।। ५५
Abh
तदाह यदि वा कारणयुक्त्येति । विटे वेशस्त्री प्रधानत्वात् पूर्वमुक्ता कुलस्त्री तु तत्रापि पितृपितामहाद्यनुरोधादिति कारणशब्देनोक्तम् । अविकृता भाषा कुलस्त्रियाः शौरसेनी, वेश्यायाः संस्कृता, आचारः कुलस्त्रियां विनयप्रधानः, अन्यस्यां तद्विपरीतः । तथा च देवीचन्द्रगुप्ते वसन्तसेनामुद्दिश्य माधवस्योक्तिः (माधवसेनामुद्दिश्य चन्द्रगुप्तस्योक्तिः ?)–
आनन्दाश्रु सितेतरोत्पलरुचोराबध्नता नेत्रयोः
प्रत्यङ्गेषु वरानने पुलकिषु स्वेदं समातन्वता ।
कुर्वाणेन नितम्बयोरुपचयं संपूर्णयोरप्यसौ
केनाप्यस्पृशताप्यधोनिवसनग्रन्थिस्तवोच्छ्वासितः ।। इति ।
अत्र हि व्युत्पाद्यस्तथाविध एव तादृश्येव च वृत्ताङ्के एवमेतत् । एकविंशतिः प्रकरणे भेदाः । प्रकरणे नायकापेक्षया1 प्रायशः उपयोगिनोऽपि मध्यमा एव संभवन्तीति तत्र विष्कम्भकस्य बाहुल्येन संभावनमित्याशयेन प्रकरणे विष्कम्भकं लक्षयति मध्यमपुरुषैरिति । विष्कम्भयत्युपस्तम्भयतीति विष्कम्भकः । संस्कृतेन वचनेनानुगतं च2 सङ्कीर्णोऽप्यस्त्येवेति प्रवेशकेन वार्थक्रियाकर्तव्यतामेव3 कर्तव्यत्वेनाभिसन्धाय विष्कम्भकः कार्यः । तामेवार्थक्रियां
Notes
1 प– समागमोऽपि स्यात् ड– समागमो न स्यात् 2 भ–अधिकृत द– अधिगत 3 भ– विशेषभाषोपचारसंपन्नम् 4 च–काव्यं 5 ड–पात्रैः कार्यो नित्यं विष्कम्भकस्तु विज्ञेयः 6 ढ– अपि द–संक्षिप्तार्थः 7 ड– संक्षिप्ताक्षरपदः शुद्धः ढ–संक्षिप्तार्थात्पदाच्छुद्धः 8 ड– खलु नाटके प्रयोगज्ञैः य–विज्ञेयः प– विष्कम्भकश्च विज्ञेयः 8 a: N: मध्यमपात्रैः 9 य–मध्यमकृतः । 1 ( ?नाटकापेक्षया) 2 ( ?वचनेनानुगतश्च)– Kan. 3 ( ? यार्थक्रिया कर्तव्या तामेव) –Kan.
1अङ्कान्तरालविहितः2 3प्रवेशको( ?का)ऽर्थक्रियां समभिवीक्ष्य4
5संक्षेपात्सन्धीनामर्थानां चैव कर्तव्यः ।। ५६
अनयोश्च बन्धयोगा6दन्यो भेदः प्रयोक्तृभिः कार्यः7 ।
8प्रख्यातस्त्वितरो वा 9नाटकयोगे प्रकरणे वा ।। ५७
Abh
स्पष्टयति संक्षेपात्सन्धीनामर्थानां चेति । सन्धीनां यः संक्षेपो युद्धराज्यभ्रंशादीनां चार्थानां यः संक्षेपस्तमभिसन्धाय अङ्कस्याङ्कयोर्वान्तराले मध्ये विष्कम्भको योज्यः ।
ननु कोहलेन मुखाङ्कस्य चायमन्तरान्तरे विहितः
“मध्यमपुरुषनियोज्यो नाटकमुखसन्धिमात्रसञ्चारः ।
विष्कम्भको हि कार्यो नाटकयोगे प्रवेशकवत् ।” इति ।
तत्कथमुक्तमङ्कान्तरानुसारीति, उपलक्षणार्थमेतदित्यदोषः । तथाहि बीजं बिन्दुश्च प्रथममुपक्षिप्येते, तत्र च पृथग्जनस्यालब्धनिवेशत्वात् सचिवादिगोचरत्वाच्च तदुपक्षेपे विष्कम्भकस्यैवावसर इति यदुच्यते तदङ्कान्तरेष्वपि मन्त्रगुप्ततायां तुल्यमिति तत्राप्यनिवारितो विष्कम्भकप्रवेशः । पृथग्जनोऽपि वा यत्र मन्त्रचिन्तायामनुप्रवेश्यते तत्र प्रवेशकोऽपि प्रथमोपक्षेपे न योग्य1 इति युक्तम् । सामान्येनाङ्कान्तरानुसारीति अङ्कस्य मध्य इत्यनेन प्रस्तावनाङ्कमध्यवर्तिताप्युक्तैव । प्रवेशकविष्कम्भकविषये लिङ्गवचनयोरतन्त्रत्वात् स्त्रीणामप्यनुप्रवेशः संख्याधिक्यस्य च ।
एवं सकलपुरुषार्थविषया व्युत्पत्तिः नाटकेन प्रधानस्य राजप्रायस्य क्रियते, प्रकरणेन च मध्यमप्रायस्य, अपूर्वकुतूहलवतस्तत्रापि चैकविंशकस्याभिधानात् चित्रव्युत्पत्तिः । तत्र रूपकलक्षणस्य संकीर्णतया बहवो भेदाः सन्तीत्युक्तं सामान्यलक्षणे । तत्र प्रधानभूतयोः सर्वरूपकप्रसरणकारिणोः नाटक– प्रकरणयोर्लक्षमसाङ्कर्ये दर्शिते सर्वरूपकाणां दर्शनं तद्भवतीत्यभिप्रायेण तदेव
Notes
1 ढ– अनयोरन्तरविहितः 2 ड– सहितः 3 ड– प्रवेशकार्थं भ– प्रवेशकाङ्क 4 प– अभिसमीक्ष्य 5 भ–संक्षेपार्थं सन्धिष्वर्थानां संविधातव्वः च– संक्षेपेण तु 6 न –एको 7 न–ज्ञेयः 8 य –प्रत्याख्यातस्त्वितरो 9 च –नाटीसंज्ञाश्रिते काव्ये भ– नाटककाव्यबन्ध इह । 1 ( ?नायोग्य ) –Kan
प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम्1 ।
अन्तःपुरसङ्गीतक2कन्यामधिकृत्य कर्तव्या ।। ५८
स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी3 ।
बहुनृत्तगीतपाठ्या 4रतिसम्भोगात्मिका चैव ।। ५९
5राजोपचारयुक्ता 6प्रसादनक्रोधदम्भसंयुक्ता7 ।
8aनायकदेवीदूती8सपरिजना नाटिका ज्ञेया ।। ६०
Abh
दर्शनीयम् । उद्देशक्रमानुसारेण तु तल्लक्षमविस्तरणं1 पुनस्तल्लक्षणपरामर्शे च गौरवमित्यभिप्रायेणार्यात्रयं पठति प्रकरणनाटकभेदादित्यादि । प्रकरणनाटकाभ्यां भेदात् लक्षणन्यत्वान्नाटिका ज्ञेयेति दूरेण संबन्धः । उत्पाद्यं वस्तु 2चरितं च नायकं च नृपतिमन्तःपुरकन्यां सङ्गीतशालाकन्यां वाधिकृत्य प्राप्यत्वेन अभिसन्धाय कर्तव्या । स्त्रियः प्रायेण बाहुल्येन यत्र । चत्वारोऽङ्काः यस्याः कस्याश्चिदवस्थायाः सरसोऽवस्थासमावापः3 कार्य इति यावत् । ललिताभिनयात्मिकेति कैशिकीयं बद्धेत्यर्थः । सुष्ठु पूर्णतया विहितानि चत्वार्यपि कैशिक्यङ्गानि यत्र । “अङ्गगात्रकण्ठेभ्य” इत्यत्र स्वाङ्गविशेषणाभावात् ङीष् प्रयोगः । एतदपि न मुनित्रयमतमित्यनादृत्यमिति त्वन्ये । रतिपुरस्सरः संभोगो राज्यप्राप्त्यादिलक्षण आत्मा प्रधानभूतं फलं यस्याम् । अत एवाह राजगतैरुपचारैः व्यवहारैर्युक्ता अन्यां चेदुद्दिश्य तत्र व्यवहारः, तत्पूर्वनायिकागतैः क्रोधप्रसादवञ्चनैरवश्यं भाव्यमिति दर्शयति प्रसादनेति, आर्यनुरोधात्क्रोधस्य पश्चात्पाठः ।
ननु यस्याः क्रोधो भवति सा न काचिदुक्तेत्याशंक्याह नायकेति । नायकस्य येयं देव्याद्या नायिका तथाभिलषितनायिकान्तरविषये दूतीकृतं सपरिजनपरिजनसमृद्धिर्यस्याम् । एतदुभयप्रधानं सर्वं तत्रेत्यर्थः । अन्यत्स–
Notes
1 ढ–नायको नुपतिः प– प्रकरणसमुद्भवा पुनरुत्पाद्यं वस्तु नायकं नृपतिम् । ड– प्रकरणनायकभेदादुत्पन्नं 2 ड– वार्तां ढ– कन्यामाश्रित्य 3 ड– सुविहितार्था 4 द N–वाद्या 5 भ–कामोपचार 6 प ड न य N– शृङ्गाराभिनयभावसंयुक्ता (भ– संपन्ना ब–संयोगा) 7 न– संयुता चापि 8 प–परिजनसमन्विता नाटकप्रकृतिः । य –परिजनसंयुक्ता स– संबन्धा । 8 a: N: देवीपरिजनसंयुक्ता नाटिका ज्ञेया ।। 1 (? विस्तरणे) 2 (चरितं), इत्येव पठ्यताम्; (च) न पठेत् 3 (सरसेऽवस्थान्तरे समावापः) –Hema
1[अन्तर्भावगता ह्येषा भावयोरुभयोर्यतः ।
अत एव दशैतानि रूपाणीत्युदितानि वै ।। ] ६१
2प्रकरणनाटकलक्षणमुक्तं विप्रा मया समासेन ।
वक्ष्याम्यतः परमहं लक्षणयुक्त्या समवकारम्3 ।। ६२
Abh
न्ध्यङ्गादि सर्वं पूर्ववदेव । तत्रैका नायिका1 तावद्व्याख्याता भवति । षट्पदेयं नाटिकेति संग्रहानुसारिणो भट्टलोल्लटाद्याः । श्रीशङ्कुकस्त्वयुक्तमेतदित्यभिधायाष्टधेति व्याचष्टे । तथा हि देवी कन्या च ख्याताख्याताभेदेन चतुर्धा, कन्या त्वन्तःपुरसङ्गीतकभेदेन द्विधेति । घण्टकादयस्त्वाहुः–नायको नृपतिरित्येतावन्मात्रं नाटकादावुपजीवितः3 न तु प्रख्यातत्वमपि तद्भेदद्वयादन्येऽष्टाविति षोडशभेदा इति । नायको नृपतिरिति ये प्रथमां पठन्ति तैर्यत्रेत्यध्याहृत्यैकवाक्यतायां तूभयस्य कार्यम् । अन्ये प्रथममार्यार्धं पृथगेव च वाक्यं योजयन्ति प्रकरणभेदात्प्रकरणलक्षणांशात् उत्पाद्यं वस्तु नाटकलक्षणांशाच्च नृपतिर्नायकः स्थिते यत्रेत्याभिप्राये नाटिकैवंभूतेति ।
अन्ये तु प्रकरणनाटकभेदात् नाटिका भिद्यते नाटकशब्देनाभिनेयं रूपकमात्रं तस्यां सौकुमार्यप्रदर्शनाय स्त्रीत्वेन निर्देश इति प्रकरणिकापि सार्थवाहादिनायकयोगेन कैशिकीप्रधाना लभ्यत इत्याहुः । यद्यपि च नाटिकैवमुक्ता, तथापि प्रकरणनाटकलक्षणे एव तथा स्थिते तत्रेत्यभिप्रायेणोपसंहरति प्रकरणनाटकलक्षणमिति अन्यदासूत्रयति वक्ष्याम्यतः परमिति ।
ननूद्देशक्रमत्यागे 4किंफलं उद्देशस्तावदत्र न परिगणनार्थ इत्युक्तं, तेनास्य प्राधान्यान्नाटिकया च विच्छिन्नोऽसावुद्देशक्रमः । यथा च नाटकप्रकरणयोर्व्युत्पाद्यभूयस्त्वं तथा समवकारेऽपि तत्र त्रिवर्गोपायप्रदर्शनात् । केवलं तत्तद्देवताभक्तानां तच्चरितपुरस्सरतया तस्य तस्योपायस्यादरणीयत्वं भवतीत्यनेनाभिप्रायेण दिव्योऽत्र नायकत्वेन निषिध्यते5 । तदीयं च6 {भूयस्तरं} न भूयस्तरं विततवृत्तमनुक्रियया प्रदर्श्यते, येन तन्मध्यपतितानां भवति निर्वेदादीनामभावे प्रयोगस्यारञ्जकत्वं नाटकगताङ्कैकदेशवत्, नाटकादौ तु भूयस्तरं
Notes
1 अयं श्लोको डढयोरेव वर्तते 2 भ– लक्षणमुक्तं प्रकरणनाटकयोरत्र नाटिकायाश्च न N–प्रकरणनाटकनाठी 3 भ– समवकारे । ड– युक्तं समवकारम् । 1 ( ?नाटिका) 2 ( ?षड्विधेयं)–Kan 3 ( ?नाटकादुपजीवितं); 4 (किं फलम् । इदम् । तेनास्य प्राधान्यात् ( ?तेन नास्य प्राधान्यम्)–एवं पठ्यताम् । 5 (निबध्यते) –Kan 6(तदीयं च न) एवं पठ्यताम्–Kan.
देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव ।
1त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्त्रिशृङ्गारः ।।६३
द्वादशनायकबहुलो ह्यष्टादशनाडिका2प्रमाणश्च ।
3वक्ष्याम्यस्याङ्कविधिं यावत्यो नाडिका3a यत्र ।। ६४
4अङ्कस्तु सप्रहसनः सविद्रवः सकपटः सवीथीकः ।
द्वादशनाडीविहितः5 प्रथमः कार्यः क्रियोपेतः6 ।। ६५
Abh
चरितमनेकाङ्गरञ्जकवर्गेण विना न रञ्जकमेवेति नाटकादौ दिव्यनायकनिषेध उक्तः ।1 {नोक्त ?} तत्र हि राजप्रभृतयो बहुतरफलानुबन्धिनि महति फले संप्रयाससाध्ये व्युत्पाद्यन्ते, न तथेह किन्तु त्रिवर्गोपायमात्रे ।
अन्यरूपकाणां तु त्रिवर्गोपायत्वं नास्ति एकाङ्गत्वात्, डिमस्तु चतुरङ्कोऽपि पश्चान्निर्दिष्ट इत्यत्र तल्लक्षणे कारणं वक्ष्यामः । तस्मात् त्रिवर्गव्युत्पादकत्वादनेकाङ्कत्वाच्च तादृशरूपकानन्तरमेवाभिधानं युक्तमित्यलं बहुना ।
देवासुरस्य यद्बीजं फलसंपादनोपायस्तेन कृतो विरचितः । देवासुरा अपि चाप्रख्याता बृहत्कथादौ श्रूयन्ते स्वयं वा केनचिदूह्यन्त इति तन्निरासार्थं प्रख्यातपदम् । यद्यपि देवाः पुरुषापेक्षयोद्धतास्तथापि स्वापेक्षया गाम्भीर्यप्रधानतयोदात्ता उच्यन्ते भगवत्त्रिपुररिपुप्रभृतयः । प्रशान्ताः ब्रह्मादयः, उद्धताः नृसिंहादयः । अत्र यत्र तावत्येव समापन्नं2 त्र्यङ्क इत्युक्तम् । अर्थत्रयं च कपटविद्रवशृङ्गाराः प्रत्येकं त्रिविधास्तत्र प्रत्यङ्कं विद्रवादयस्त्रयस्तथाहि कपट उपायांशे विद्रवो व्यापत्तिसंभावनांशे शृङ्गार फलांशे, एवं द्वितीयेऽङ्के तृतीये च । द्वादशनायकबहुल इति प्रत्यङ्कमिति केचित् । अन्ये तु प्रत्यङ्कं नायकप्रतिनायकौ तत्सहायौ चेति चतुराहुः3, समुदायापेक्षया हि द्वादशेति । सप्रहसन इति वचनात् प्रथमेऽङ्के कामशृङ्गारः प्रयोज्य इत्याह तत्रैव हास्यस्यागमनात् । स्त्रि (क्रि ?) योपेत इति कामशृङ्गारात्मकं द्वादशघटिकामध्यसंपाद्यैः कपटविद्रव{प्रह}4
Notes
1 प–अङ्कः 2 द– नायिका 3 ड–वक्ष्याम्यस्याङ्कविधिं यत्रान्या नाडिका कार्या द–या तत्र तु नायिका योज्या भ–यद्यत्र च नाडिका कार्या 3 a: N नाडिका योज्याः 4 ढ– अङ्केऽत्र सुप्रसन्नः 5 यनप N–युक्तः 6 ड– कार्यो यथार्थस्तु । ढ– यथोक्तस्तु 1 (नोक्त ?) –न पठ्यताम् । 2 अर्थत्रयस्य तावत्येव समापना)–एवं पठ्यताम् । 3 ( ?चतुर आहुः)–Hema 4 {प्रह} न पठ्यताम्–Hema ‘कपटविद्रव’ एव पठ्यताम् ।
कार्यस्तथा द्वितीयः समाश्रितो नाडिकाश्चतस्रस्तु1 ।
2वस्तुसमापनविहितो द्विनाडिकः स्यात्तृतीयस्तु3 ।। ६६
4नाडीसंज्ञा ज्ञेया मानं कालस्य यन्मुहूर्तार्धम् ।
तन्नाडिकाप्रमाणं यथोक्तमङ्केषु संयोज्यम् ।। ६७
5या नाडिकेति संज्ञा कालविभागे क्रियाभिसंपन्ना ।
कार्या च सा प्रयत्नाद्यथाक्रमेणैव शास्त्रोक्ता ।। ६८
6अङ्कोऽङ्कस्त्वन्यार्थः कर्तव्यः काव्यबन्धमासाद्य7 ।
अर्थं हि समवकारे ह्यप्रतिसंबन्ध8मिच्छन्ति ।। ६९
Abh
प्रहसनलक्षणैरुपायैः प्राप्ते1 प्रथमाङ्के निबध्रीयादिति तात्पर्यम् । द्वितीये त्वङ्के घटिकाचतुष्टयगामिभिः कपटादिभिरुपायैः, तृतीये त्वङ्के सर्वं वस्तु समाप्यते । द्विघटिकान्तरसंपाद्यैरुपायैः यद्यपि प्रत्यङ्कं वस्तुपरिसमाप्तिरस्ति तथापि तृतीये वस्तुसमाप्तिग्रहणेनेदमाह – बीजे तावदङ्कत्रयार्थ उपक्षेप्तव्यः, तदनन्तरमङ्कद्वयेऽवान्तरवाक्यार्थसमाप्तिरन्योन्यविशिष्टैव2 विधेया । तृतीये त्वङ्केऽवान्तरवाक्यार्थः । तृतीयस्ताभ्यां प्रतिसंबद्धः । एवं महावाक्यार्थनिर्वाहहेतुसंबद्धतैव सर्वस्य जायते । एवं हि सानुसन्धाना विततदृशोऽपि त्रिवर्गसिद्ध्युपायव्युत्पत्त्यनुगृहीता भवति3, निरनुसन्धानापि4 तावत्तावत् परिसमाप्त्या तावत्युपाये निजहृदयसंवादबलादिति । अत एव संबद्धोऽवकीर्णश्च यत्रार्थः समवकारस्तदाह अङ्कोऽङ्क इति । तुर्व्यतिरेके अङ्कतत्रयसंबन्धो भवति, न त्वङ्कोऽङ्कः परस्परमित्यर्थः । काव्यबन्धमिति । सर्ववस्तु काव्यबन्धोपश्लिष्ठमित्यर्थः अन्यथा हि समवकार एकं कार्यमिति केयं फणितिः5 ।
एतदेव निर्वचनेनाह अर्थं हि समवकार इति । समवकार इत्यस्मिन् शब्देऽर्थं वाच्यमप्रतिसंबन्धमिति नातिसंबद्धं किञ्चित्संबद्धं वस्त्विच्छन्ति
Notes
1 प–च 2 ड– वस्तुप्रमाण 3 भ–अथ प–अस्मिन् 4 भ– ज्ञेयं तु नाडिकाख्यं मानं कालस्य यन्मुहूर्तमिति 5 अयं श्लोको डढ–मातृकयोरेव वर्तते 6 नप–अङ्केऽङ्के संबन्धः ढ– अङ्केऽङ्केऽन्योऽन्योऽर्थः ड अङ्काङ्के N –अङ्काङ्के सम्बद्धः 7 भ– बन्धतत्त्वज्ञैः 8 ड– संधानं द– संबद्धं ।
युद्धजलसम्भवो1a वा वाय्वग्निगजेन्द्र1संभ्रमकृतो वा ।
नगरोपरोधजो वा विज्ञेयो 2विद्रवस्त्रिविधः ।। ७०
वस्तुगतक्रमविहितो दैववशाद्वा परप्रयुक्तो वा ।
सुखदुःखोत्पत्तिकृतस्त्रिविधः कपटोऽत्र विज्ञेयः3 ।। ७१
4त्रिविधश्चात्र विधिज्ञैः पृथक्पृथक्कार्ययोग5विहितार्थः ।
6शृङ्गारः कर्तव्यो धर्मे चार्थे च कामे च ।। ७२
Abh
संशब्दबलादवशब्दबलाच्च । प्रतिशब्देनातिशय उक्तः स निषिद्धः । त्रिविद्रव इत्युक्तं तत्त्रयं वक्तव्यमचेतनकृतमन्यकृतमुभयकृतं वा यदनर्थात्मकं वस्तु, यतो विद्रवन्ति जनाः स विद्रव इति त्रिविधः । तत्राचेतनकृतमुदाहर्तुं जलवाय्वादिग्रहणम् । चेतनकृते गजेन्द्र उदाहरणम्, द्वयकृते नगरोपरोधस्तस्य युद्धाग्निदानादिसंपाद्यत्वात् । कपट वञ्चना 1तस्याश्रयणमङ्गीकरणं त्रिधा । तत्र वञ्चना, बुध्द्यैव2 कदाचित्केवलया कपटो भवति स हि वस्तुगतक्रमविहितः वस्तु फलं तत्प्राप्तौ वस्तुगतः फलसाधकः कर्ता, तस्य यः क्रम उपायचिन्तनादिः तेन विहितः यत्रानपराद्ध एव वञ्चकेन वञ्चयते स एवमुक्तः । यत्र तु वञ्चनीयोऽपि सापराधः स परप्रयुक्तः कपटः, तदपराधे तु वञ्चकस्य वञ्चनेच्छा नास्तीति नायं भेदः संभवति वञ्जनेच्छाभावे वञ्चनायाः संपत्त्ययोगात् । यत्र तु द्वयोरपि न कश्चिदभिसन्धिदोषः काकतालीयेन तुल्यफलाभिसन्धानवतोरप्येक उपचयेनापरस्त्वपचयेन युज्यते, तत्र वञ्चना सा दैवकृता वञ्चना, न3 च कस्यचित्सुखमन्यस्य दुःखमुत्पादयतीति4 ।
धर्मेऽर्थे काम इति सप्तम्या कार्यत्वं कारणत्वं चोच्यते । तेन धर्मो यत्र हेतुर्वा साध्यो वा नायिकालाभे स धर्मशृङ्गारः । एवमर्थकामयोर्वाच्यम् । यत्र शृङ्गार इति तद्विषयः प्रमदा व्यपदिश्यते, व्रतादियुक्त्या प्राप्यो यत्र च प्राप्ते
Notes
1a: N युद्धजलसंभ्रमो वाटवग्निगजेन्द्रसम्भवो वाऽपि 1 भ–विद्रवकृतां वा ड–जलेन्द्रसंभवो वापि न –संभवो वापि 2 य–विज्ञेया विद्रवास्त्रिविधाः 3 नभ–कपटाश्रयो ज्ञेयः 4 भ–त्रिविधश्च विधिर्ज्ञेयः 5 भ–काव्यबन्ध न N– काव्ययोग 6 भ– त्रिविधकृतः शङ्गारो ज्ञेयो धर्मार्थकामेषु (–त्रिविधाकृति …..कामकृतः– ड न त्रिविधविधः) द N –कर्तव्यः शृङ्गारो 1 (तस्याश्रयणमङ्गीकरणं त्रिधा)–एवं पठ्यताम् । 2 (वञ्चकबुद्ध्यैव)–ND 3 (स) –Kan 4 [तदाह सुखदुःखोत्पत्तीति] –Kan.
1यस्मिन् 2धर्मप्रापकमात्महितं भवति साधनं बहुधा ।
3व्रतनियमतपोयुक्तो4 ज्ञेयोऽसौ 5धर्मशृङ्गारः ।। ७३
6अर्थस्ये6aच्छायोगाद्बहुधा चैवार्थतोऽर्थशृङ्गारः ।
7स्त्रीसंप्रयोगविषयेष्वर्थार्था वा रतिर्यत्र8 ।। ७४
9कन्याविलोभनकृतं 10प्राप्तौ10a स्त्रीपुंसयोस्तु रम्यं वा11 ।
निभृतं सावेगं वा12 13यस्य भवेत्कामशृङ्गारः ।। ७५
Abh
धर्मप्रार्थनारूपमात्महितं यज्ञादि पत्नीसंयोगकृतं सिध्यतीति संबन्धः अनेकधेति राज्यभूमिगोसुवर्णादिभेदेनेत्यर्थः । रतिबहुमानोऽर्थार्थमिति योषितां पुरुषाणां च ।
ननु च देवेषु कथमर्थार्थित्वं, गन्धर्वयक्षादिषु संभवत्येवेति केचित् । यदर्थनीयं तदर्थो देवेष्वपि चैतत्संभवतीत्यन्ये । उपाध्यायास्त्वाहुः –तत्र नायकयोरनुप्राप्तिरप्यन्यगतैव । यथा भगवतो भवानीपतेः गिरिराजपुत्रीसङ्गमनमिन्द्रादीनां तारकाक्रान्तनिजराज्यसमुन्मोचनाय भवतीति । कन्यायां विलोभो नायकस्य तस्याश्च तस्मिन्निति परस्परानुरागकृत इत्यर्थः । स्त्रीपुंसयोरुद्यानस्थानादि प्राप्तौ निभृत इति प्रच्छादनपूर्वकं यदि चासावेवास्मीति प्रकटं कृत्वा यः शृङ्गारः सः कामप्रयुक्त एव । स्त्री पुनरत्र परस्त्री विवक्षिता, यथा शक्रस्याहल्या ।
नन्वेवं शृङ्गारयोगे काव्ये[कथं] कैशिकीहीनता । कैशिक्यां ( ?कैशिकी) वृत्तौ, हीनानीति तत्र समासः, तेन नर्माद्यङ्गचतुष्कतदुपरञ्जकगीतनृत्यवाद्याद्यभावात् कैशिकी
Notes
1 ड–यत्र तु धर्मे प्रार्थितमात्महितं भवति साधितं बहुधा (धर्मप्रार्थस्वात्म–भ) द N–यत्र तु धर्मव्यापकं 2 न–धर्मे प्रायिकं 3 ड–प्रातिनियम (?) 4 द–युक्त्या 5 भ–स ज्ञेयो 6 भ– अर्थस्येप्सा यत्र तु नैकविधो भवति सोऽर्थशृङ्गारः च– अथस्याप्तिर्यस्मिन्नैकधा भवति सोऽर्थशृङ्गारः प– अर्थस्याप्तिर्यस्मिन्भवति च बहुधा स चार्थशृङ्गारः 6a: N reads differently- अर्थपतेरत्रेच्छा बहुधा संभवति सोऽर्थशृङ्गारः । स्त्रीसंयोगैः बाधार्थमपीष्यते हि रतिः ।। 7 फ– सम्यक्प्रयोग 8 च–अर्थार्थमपीष्यते हि रतिः 9 य–कन्याविलोभनं वा द N–कन्याविलोभनत्वात् फ–कन्याविलोभनं वै 10 य– प्राप्य 10 a: N: प्राप्तिः ……रम्य (त्यै ?) वा । 11 यन–रत्यर्थम् द – रत्यै वा फ–च रहः 12 भ – प्रसारितं वा यत्रासै द N–निभृतः सावेगो वा विज्ञेयः फ– रम्यं वा निभृतं वा विज्ञेयः 13 न– विज्ञेयः ढ–जानीयात्कामशृङ्गारः
1उष्णिग्गायत्र्याद्यान्यन्यानि च यानि बन्धकुटिलानि ।
2वृत्तानि समवकारे कविभिस्तानि3 प्रयोज्यानि ।। ७६
एवं कार्यस्तज्ज्ञै4र्नानारसंसश्रयः समवकारः ।
5वक्ष्याम्यतः परमहं लक्षणमीहामृगस्यापि ।। ७७
दिव्यपुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः6 ।
सुविहितवस्तुनिबद्धो7 विप्रत्ययकारकश्चैव ।। ७८
8उद्धतपुरुषप्रायः स्त्रीरोषग्रथित9काव्यबन्धश्च ।
Abh
हीनात्र भवति । उपाध्यायास्त्वाहुः–न कामसद्भावमात्रादेव कैशिकीसंभवः, रौद्रप्रकृतीनां तदभावात् । विलासप्रधानं यद्रूपं सा कैशिकी, न च चरितम् (?चरिते) तद्रूपानुप्रवेशेऽपि तद्व्यवहारः; प्राधान्यकृतो ह्यसावित्युक्तम् । तेन तत्र विषये भारत्यादिवृत्त्यन्तराभिधानमेव युक्तामिति । उष्णिक्सप्तभिः गायत्री षड्भिः बन्धकुटिलानि विषमार्धसमानि तान्यत्र समवकारे सम्यग्योज्यानीति । नैव प्रयोज्यानीत्युद्भटः पठति, स्रग्धरादीन्येव प्रयोज्यानि नाल्पाक्षराणीति स व्याचष्ठे । एवं श्रद्धालवो देवताभक्ताः तद्देवयात्रादावनेन प्रयोगेणानुगृह्यन्ते, निरनुसन्धानहृदयाः स्त्रीबालमूर्खाश्च विद्रवादिनाहृतहृदयाः क्रियन्त इत्युक्तः समवकारः ।
अथेहामृगमाह दिव्येति दिव्यानां पुरुषाणां आश्रयणं नायकतया तेन कृतः, दिव्यस्त्रीनिमित्तमुपगतं युद्धं यत्र । दिव्यानुप्रवेशात्समवकारवत् असंबद्धार्थता मा प्रसांक्षीदित्याह सुविहितेन संश्लिष्टेन वस्तुना निबद्धः, विगतानि प्रत्ययकारणानि विश्वासहेतवो यत्र । मध्ये च तत्रादिव्यानामपि प्रवेशो भवतीति दर्शयति उद्धतपुरुषेति स्त्रीनिमित्तको रोषः, संक्षोभ आवेगः स्त्रीनिमित्तं
Notes
1 भ–उष्णिग्गायत्री वा यानि स्युश्चापि बन्ध च–उण्णिग्गायत्र्या या वृत्तानि च फ–उष्णिग्वानुष्टुब्वा छन्दस्सु च द–उष्णि……….अन्यान्यपि बन्ध ड–उष्णिग्गायत्री वा यानि तथान्यानि बन्ध (–बद्ध–ढ) 2 च–तान्यत्र समवकारे सम्यक् 3 ड–कविभिर्नैव 4 ड–सुखदुःखसमाश्रयः द–नानारससंज्ञकः भ–सर्वरसोपेतसमवकारस्तु (प–तज्ज्ञैः=प्राज्ञैः) 5 न N–अत ऊर्ध्वं व्याख्यास्ये 6 फ–युक्तः (?) 7 फ–प्रहितो ड–निबन्धो 8 द–तद्वत 9 प–प्रथित ।
संक्षोभविद्रवकृतः 1संफेटकृतस्तथा चैव ।। ७९
स्त्रीभेदनापहरणावमर्दन2प्राप्तवस्तुश्रृङ्गारः ।
ईहामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च3 ।। ८०
यद्व्यायोगे कार्यं ये पुरुषा वृत्तयो रसाश्चैव4 ।
ईहामृगेऽपि ते स्युः5 केवलममरस्त्रिया योगः6 ।। ८१
यत्र तु वधेप्सितानां7 वधो ह्युदग्रो8 भवेद्धि पुरुषाणाम् ।
किञ्चिद्व्याजं कृत्वा तेषां युद्धं शमयितव्यम्9 ।। ८२
ईहामृगस्य लक्षणमुक्तं विप्राः समासयोगेन10 ।
Abh
यानि भेदनाप्र(प?) हरणावमर्दनानि यथायोगं स्त्रीविषयाणि अन्यविषयाणि तैः प्राप्तं वस्त्वधिष्ठानं प्रमदालक्षणं यस्य तादृशः श्रृङ्गारो यस्मिन् । अवमर्दनं दण्डः । सुसमाहितः काव्यबन्ध इत्यनेन वीथ्यङ्गान्यत्र योज्यानीति दर्शयति । अङ्कपरिमाणं नायकसंख्यां वृत्तिरसविभागं च व्यायोगातिदेशेनाह यद्व्यायोग इति । कार्यशब्देनाङ्क उच्यते । तेनैक एवाङ्कः नायकास्तु द्वादश समवकारातिदेशेन व्यायोगे तल्लाभात् । अत्र तु समवकारातिदेशेन सर्वसंपत्तेर्गौरवं स्यात् ।
ननु युद्धमवमर्दनं चेत्युक्तं तत्रास्य प्रत्यक्षप्रयोज्यता माभूदिति दर्शयति यत्र त्विति । वधेप्सितानां वध्यानां भवेदिति संभाव्यत इत्यर्थः । तत्रेति येषामिति चार्धमाहार्यं1 । व्याजमिति पलायनादि । ईहा चेष्टा मृगस्येव स्त्रीमात्रार्था यत्र स ईहामृगः ।
Notes
1 प– संस्फोटकृतश्च स ज्ञेयः फ–संफेटककृतस्तथैव 2 प–उपमर्दन भ–प्रमर्दन उ–अवमर्दसंप्राप्त फ –हरणे प्रमदेन (?) 3 य N–चतुरङ्कविभूषितश्चैव प–ईहामृगो विधेयश्चतुरङ्कविभूषितस्तज्ज्ञैः 4 ड–ये रसाश्च निर्दिष्टाः भ–ये रसाश्रयाश्चैव 5 च–तत्स्थात् 6 द–अत्र स्त्रियायोगः भ–न केवलं स्त्रीसमायोगः 7 ढ–वधोऽप्युदग्रो द–वधो ह्युप्रघ्नो भ–कारणयोगाद्भवेद्वध उदग्राणाम् 8 ड–भवेत्तु 9 फ–समयितव्यम् 10 च–समासेन (?) भ–लक्षणमित्युक्तामिदं समासेन ड–इदमित्युक्तं मया समासेन ।
1डिमलक्षणं 2तु भूयोलक्षणयुक्त्या प्रवक्ष्यामि ।। ८३
प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव3 ।
4षड्रसलक्षणयुक्तश्चतुरङ्को वै डिमः कार्यः ।। ८४
श्रृङ्गारहास्यवर्जः5 शेषैः 6सर्वै रसैः समायुक्तः7 ।
दीप्तरसकाव्ययोनिर्नानाभावोपसम्पन्नः8 ।। ८५
9निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः10 ।
युद्धनियुद्धाधर्षण11संफेट12कृतश्च कर्तव्यः13 ।। ८६
14मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्च15 ।
16देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च17 ।। ८७
18षोडशनायकबहुलः 19सात्त्वत्यारभटिवृत्तिसम्पन्नः20 ।
Abh
अथ डिममाह प्रख्यातवस्तुविषय इति । नाटकतुल्यं सर्वमन्यत्केवलं सन्धीनां रसानां चासमग्रता च1 श्रृङ्गारहास्यवर्जं षड्रसत्वे पर्यायेण शान्तस्य प्रयोगः स्यादित्याह दीप्तरसेति । काव्ययोनिः काव्यवस्तु । देवादयो बाहुल्येनात्र सात्त्वत्यारभटीति । ‘जातिरप्राणिनाम्’ इति केचित् । सात्त्वत्यारभटीवृत्तिसंपन्नं वृत्तिद्वयं यत्र वृत्तिसमूहे वा वृत्तिशब्दः सात्त्वत्यारभटीलक्षणव्यावृत्त्या संपन्नः । डिमो डिम्बो विद्रव इति पर्यायाः, तद्योगादयं डिमः ।
Notes
1 च–अथ वै डिमस्य लक्षणमतः परं संप्रवक्ष्यामि । 2 ड– च 3 ड–उपेतः 4 फ–षट्त्रिंशत् (?) प–श्लोकार्धं नास्ति । 5 न–वर्जैः 6 द–अन्यैः 7 भ–रसैस्तु यः कार्यः म–संयुक्तः 8 प–चतुरङ्को वै डिमः कार्यः ड–भावान्विताश्चैव न–भावादिकाश्चैव द N– चित्रो डिमः कार्यः भ–भावस्तथाचैव 9 यडन N– निर्घातचन्द्रसूर्योपरागसोल्कावपातसंयुक्तः 10 भ–चैव 11 न–युद्धनिबद्धश्च तथा द N –नियुद्धनिबद्धः ड– प्रहरण 12 प–संस्फोट 13 फ–तत्र कर्तव्यः 14 फ–माहेन्द्र 15 भ–भेदसंयुक्तः भ–बहुशश्चोत्थानभेदसंयुक्तः 16 भ–देवासुरराक्षसभूतनागपुरुषा भवेयुश्च (ड–भूतयक्षनागाश्च पुरुषाः स्युः) 17 न–अवतीर्णश्च 18 प–षोडशनायकबहुलस्तज्ज्ञैर्नानाश्रयविशेषः सात्त्वत्यारभटीभ्यां वृत्तिभ्यामन्वितो डिमः कार्यः । 19 भ–त्वारभटी सात्त्वतीसमायुक्तः 20 ड N– संयुक्तः । 1 (चासमग्रतात्र) –Hema
1aकार्यो डिमः 1प्रयत्नान्नानाश्रयभावसम्पन्नः ।। ८८
2[डिमलक्षणमित्युक्तं मया समासेन लक्षणानुगतम् ।
व्यायोगस्य तु लक्षणमतः परं संप्रवक्ष्यामि ।।] ८९
व्यायोगस्तु विधिज्ञैः3 4कार्यः प्रख्यातनायकशरीरः ।
5अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव6 ।। ९०
Abh
अन्ये तु डयन्त इति डियः उद्धतनायकास्तेषामात्मनां1 वृत्तिर्यत्रेति । “इको हृस्वोऽङ्योगालवस्य” इति हृस्वः । नानाश्रयभावसंपन्न इत्यनेन सर्वभावयुक्तत्वादितिवृत्तवैचित्र्यमाह ।
नाटकादनन्तरं डिमलक्षणं यद्यप्युचितं तथापि तद्गतप्रवेशकादिसंभवनिराकरणार्थं तत्प्रकरणादपकृष्यास्याभिधानं, तेन दिनचतुष्ठयवृत्तमेवात्र प्रयोज्यम् । अङ्कावतार एव चात्र भवति । चूलिकाङ्कमुखयोस्त्वत्रापि युद्धादिवर्णने समुपयोगोऽस्त्येव । ततश्च वस्तुतः प्रवेशकाद्यनिषिद्धमेव, प्रवेशकस्य ह्यसंभव एव । सरसेतिवृत्तवशाद्वा यथाङ्केष्वन्योन्यासंबन्धात् यथा समवकारे बह्वङ्केऽपि तस्मात्प्रकरणोत्कर्षोऽस्य तस्यावसरभावात् । तत्र हि नाटकान्तरमस्याभिधाने 2प्रकरणस्य[न] 3तत्स्पर्धित्वमुक्तं भवेत् । तदनन्तराभिधाने नाटिकादिभेदः कथं ख्याप्यः । नाटिकायां च स्त्रीप्रधानत्वात्, त्रिशृङ्गारसमवकाराभिधानमेव ततः परं न्याय्यम् । तत्प्रसङ्गेन च दिव्यपुरुषसंबन्धादीहामृग उक्तः, तदनन्तरं च दिव्यपुरुषाधिकारेण4 रूपकाणीति पूर्वमनेकरसयुक्तत्वेन विततेतिवृत्तत्वादयमभिधातुं युक्तमित्यलं बहुना ।
व्यायोगस्तु डिमस्यैव शेषभूतो, दिव्यनायकाभावात् केवलमत्रोदात्तस्य राजादेः नायकता,5 अपि त्वमात्यसेनापतिप्रभृतेर्दीप्तरसस्य, अत एवाह प्रख्यातनायकेति उदात्तग्रहणमपाकर्तव्यमित्यर्थः । यथा समवकार इति द्वादशेत्यर्थः । तावदङ्कपरिमाण6शङ्कामतिदेशात् प्रत्यासत्त्या प्रसक्तां वारयितुमाह एकाङ्क एवेति । एवकारेणैकाहचरितविषयत्वान्न्यायप्राप्तमेवात्रैकाङ्कत्वमित्याह ।
Notes
1a: N: कार्यो डिमः प्रयत्नात्तज्ज्ञैर्नानाश्रयविशेषः
बहवश्च तत्र1 पुरुषा 2व्यायच्छन्ते यथा समवकारे3 ।
न 4च तत्प्रमाण5युक्तः कार्यस्त्वेकाङ्क एवायम् ।। ९१
न च 6दिव्यनायककृतः6a कार्यो राजर्षिनायकनिबद्धः7 ।
8aयुद्धनियुद्धाधर्षण8 9संघर्षकृतश्च 10कर्तव्यः ।। ९२
एवंविधस्तु कार्यो व्यायोगो दीप्त11काव्यरसयोनिः ।
वक्ष्याम्यतःपरमहं लक्षणमुत्सृष्टिकाङ्कस्य ।। ९३
प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात्12 ।
दिव्यपुरुषैर्वियुक्तः शेषै13र्युक्तो भवेत्पुंभिः ।। ९४
करुण14रसप्रायकृतो निवृत्तयुद्धोद्धतुप्रहारश्च15 ।
Abh
ननु प्रख्यातनायकशब्देन किमत्र गृहीतमित्यतिप्रसङ्गं शमयति न चेति । चो भिन्नक्रमः । दिव्यैर्देवैः नृपैः ऋषिभिश्च नायकैः न निबद्धोऽयं भवतीत्यर्थः ।
ननु कस्मादयं व्यायोग इत्याह युद्धनियुद्धेति व्यायामे युद्धप्राये नियुध्यन्ते1 पुरुषा यत्रेति व्यायोग इत्यर्थः । नियुद्धं बाहुयुद्धं संघर्षः शौर्यविद्याकुलरूपादिकृता स्पर्धा । दीप्तं काव्यमोजोगुणयुक्तं, दीप्तरसाद्या2वीररौद्राद्याः, तदुभयं योनिः कारणमस्य ।
रौद्राद्यनन्तरं ‘‘रौद्रस्य चैव यत्कर्म स ज्ञेयः करुणः (तुलनाः–ना.शा. ६–४०)’’ इत्युक्तत्वात्तत्प्रधानमुत्सृष्टिकाङ्कमेतदनन्तरमाह । प्रख्यातवस्तुविषय इति । प्रख्यातं भारतादियुद्धे विषये निमित्ते सति यत्तकरुण3बहुलं चेष्टितं वर्ण्यते तत्ख्यातं4 स्त्रीपर्ववृत्तान्तवत्, 5मा भूदित्यप्रख्यातग्रहणेनोक्तम् । तेनोभयोपादानस्य परस्परविरुद्धार्थत्वा– दकिञ्चित्करत्वं नाशङ्कनीयम् । निवृत्तयुद्धा उद्धतप्रहाराः
Notes
1 भ–तत्र तु ड– तत्र च 2 ड– कविभिः कार्या भ –नित्यं कार्यं यथा 3 प –कथाशरीरवशात् 4 न भ–तु 5 ड N–वस्तुस्त्वेकाङ्कः संविधातव्यः च–युक्ताः कार्याः भ–कालस्तत्राङ्कः संविधातव्यः प–नियमः किंचैकाङ्को विधातव्यः 6 प–स च दिव्यमानुष 6a: N: न च दिव्यमानुषकृतः 7 प–निबन्धः 8 द–आकर्षण 8a: N: युद्धनियुद्धाधर्षणकृतश्च कर्तव्यः 9 भ–संफेट 10 द–झडिति कर्तव्यः ड–चापि कर्तव्यः 11 प–कार्य 12 प–तेष्वप्रख्यातवस्तुविषयो वा भ–अप्रख्यातोऽपि वा क्वचित्कार्यः 13 नड N –अन्यैर्भवेत् प–च समन्वितः पुंभिः । 14 द N–रसार्थप्रायो 15 भ–प्रभावश्च फ– बद्धोद्धतप्रहारश्च 1 (युद्धनियद्धप्राये युज्यन्ते) –Hema 2 (दीप्ता रसा) –Hema 3 (यत्र करुण) –Hema 4 (तत् [प्र]ख्यातं…)Hema 5 वृत्तान्तवद् [भवतु]–Hema
स्त्री1परिदेवितबहुलो निर्वेदितभाषितश्चैव2 ।। ९५
3नानाव्याकुलचेष्टः 4सात्त्वत्यारभटिकैशिकीहीनः ।
5कार्यः काव्यविधिज्ञैः 6सततं ह्युत्सृष्टिकाङ्कस्तु ।। ९६
यद्दिव्यनायककृतं काव्यं संग्राम7बन्धवधयुक्तम्8 ।
तद्भारते तु वर्षे कर्तव्यं काव्यबन्धेषु ।। ९७
9कस्माद्भारतामिष्टं वर्षेष्वन्येषु देवविहितेषु10 ।
हृद्या सर्वा भूमिः शुभगन्धा काञ्चनी यस्मात्11 ।। ९८
Abh
पुरुषा यस्मिन् । परिदेवितं दैवोपालम्भात्मनिन्दारूपमनुशोचनं यत्र । निर्वेदितानि येषु श्रुतेषु निर्वेदो जायते तादृंशि भाषितानि यत्र । व्याकुला चेष्टा1 भूमिनिपातविवर्तिताद्याः । सात्त्वत्यारभटिकैशिकीहीन इति समाहारद्वन्द्वगर्भद्वन्द्वान्तरगर्भस्मृतीयासमासः । उत्क्रमणीया सृष्टिर्जीवितं प्राणा यासां ता उत्सृष्टिकाः शोचन्त्यः स्त्रियस्ताभिरङ्कित इति तथोक्तः । वृत्तिभिरुत्सृष्टत्वा(दित्य)न्ये तदा द्वित्वं च त्रित्वमुद्देशस्यैकदेशेन2 । अयमङ्क इति निर्दिष्टो वृत्तानुरोधात् । इह च करुणरसबाहुल्याद्3 [देव] देवैर्वियोगः रौद्रबीभत्सभयानकसंबन्धो दिव्ययोगे भवत्यपि न तु करुणयोगः । नन्वेवं देवानां युद्धान्यप्यनुचित4मित्याशंक्य प्रसङ्गात्समवकारादौ देशविशेषोपयोगं दर्शयति दिव्यनायककृतमिति । तेषां भारतवर्षावतीर्णानां युद्धादिकं प्रदर्शयेदित्यर्थः । अत्र राज्ञः5 पृच्छति कस्याद्भारत मिष्टमिति । अत्र प्रयोगे प्रतिवक्ति वर्षेष्वन्येष्विति देशत्वेन भोगभूमित्वेन विहितेष्वपीत्यर्थः । उपवनं गत्वा क्रीडा जलक्रीडादिकाः विहरणमुपवन एव सञ्चरणं नार्या सह रतिः संभोगः प्रमोदो दिव्यपानादिकृतम् । नन्वेवमिलावृतकुरुप्रभृतिषु वर्षेषु मा तेषां देवानां वृत्तं व्याख्यायि तथापि स्वनिवासेषु व्यावर्ण्यतामित्यत आह ये तेषामधिवासा इति वसन्ति तेष्विति
Notes
1 न N–परिदेवन 2 द–वाक्यभाषश्च 3 भ–नाति द N–नातिव्यायत 4 भ–विवर्जितो वृत्तिभिर्विधातव्यः । सात्वत्यारभटीकैशिकीभिरुत्सृष्टिकाङ्कस्तु । 5 ड–कर्तव्योऽभ्युदयान्तस्तज्ज्ञैः 6 न–सर्वं च 7 ड फ–युद्ध (?) 8 द N–तत्त्वम् 9 ड–तस्मात् 10 प N–नित्यकालं हि (फ–काष्ठं हि) न– नित्यकालसुखम् 11 भ– तत्र –हेमरत्नमयी ड N–चैव । 1 (व्याकुलाश्चेष्टा भूमि……)–Hema 2 (त्रित्वम् (?) उद्देशत्वेकदेशेनायमङ्क इति निर्दिष्टो वृत्तानुरोधात्)–Kan 3 {देव}–न पठ्यताम् –Kan 4 (युद्धाद्यप्यनुचित) –Kan 5 (?प्राज्ञः) – Kan
उपवनगमनक्रीडा1विहारनारीरतिप्रमोदाः स्युः ।
2तेषु हि वर्षेषु सदा न 3तत्र दुःखं न वा4 शोकः ।। ९९
5ये तेषामधिवासाः6 पुराणवादेषु7 पर्वताः प्रोक्ताः8 ।
9सम्भोगस्तेषु भवेत्कर्मारम्भो10a भवेदस्मिन्10 ।। १००
प्रहसनमपि11 विज्ञेयं द्विविधं शुद्धं 12तथा च सङ्कीर्णम् ।
13[अङ्कस्य लक्षणमिदं व्याख्यातमशेषयोगमात्रगतम् ।। १०१
प्रहसनमतःपरमहं सलक्षणं संप्रवक्ष्यामि ।]
14वक्ष्यामि14a तयोर्युक्त्या पृथक्पृथग्लक्षणविशेषम्15 ।। १०२
Abh
वासाः । पर्वता इति कैलासादयः, संभोग इति सा हि तेषां भूमिः भोगस्थानं, तस्मिन्निति1 भारतवर्षे कर्मारम्भः आरम्भग्रहणेनेदमाह न तेषां दुःखं पूर्णं कदाचिद्भवति । दुःखपूर्णतायां देवत्वस्यैव विघातान2वस्थानप्राप्त्या स्वरूपलोप इति युक्तमुक्तम् । करुणरसबाहुल्यादुत्सृष्टिकाङ्कैः दिव्यैर्वियोग एव तेषां सुखबाहुल्यात्तत्सन्निधाने अन्यस्यापि शोकावसरपराकृतेरिति गाढदुःखाभिभूता, एवंभूतप्रयोगदर्शने सति ‘दुःखी दुःखाधिकान् पश्ये’दिति नीत्या प्रतनूभूतदुःखभाराः सुखेन विनेया भवन्ति, यथोक्तं प्राक् ‘स्थैर्यं दुःखार्दितस्य च’ (ना. शा. १–१११प्रथमार्धे) इत्युत्सृष्टिकाङ्कप्रयोगः ।
एवं रञ्जनप्रधानेन करुणेन युक्तं रूपकमभिधाय रञ्जनाप्रधानं हास्यप्रायं प्रहसनं लक्षयति विभागमुखेन प्रहसनमपि विज्ञेयामिति द्विविधामिति । विभागः शुद्धं सङ्कीर्णं चापीति ।। अपिशब्दोऽति3क्रमः, तथेति सामान्यलक्षणम् । तदयमर्थः द्विविधमपि तथा प्रहसनरूपं हास्यरसप्रधानमित्यर्थः । लक्षणविशेषं विशेषलक्षणम् । भगवत्तापसविप्राः यतिवानप्रस्थ–
Notes
1 नद–विहरण 2 भ–तस्मिन्नित्यं वर्षे 3 ड–भवति 4 ढ–न तत्र वा फ– नो दुखं नापि वा 5 प–ये चैषां 6 च–अपि वासाः न–अविनाशात् 7 भ–वादे च 8 प N–कथिताः ड–ह्युदिताः भ–विहिताः फ–सर्वतः कथिताः 9 च–संभोगात् 10 प–तथैतस्मिन् द फ–आरम्भास्तथा ह्यस्मिन् 10 a: N: कर्मारम्भस्तथा ह्यस्मिन् 11 य N–इति प–इह 12 ढ–तथैव 13 डढ योरेव वर्तते 14 भ–व्याख्यामि तयोरपि ड–ताभ्यां व्याख्यास्येऽहं न–तस्यै फ–तस्य व्याख्यास्याम्यहं 14a: N- तस्य व्याख्यास्येऽहं पृथक् पृथक् लक्षणविशेषान् 15 द–विशेषान् ।
1भगवत्तापस2विप्रैरन्यैरपि 3aहास्यवादसंबद्धम्3 ।
4कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम्5a ।। १०३
5अविकृतभाषाचारं विशेष6भावोपपन्नचरितपदम् ।
नियतगतिवस्तुविषयं 7शुद्धं ज्ञेयं प्रहसनं तु8 ।। १०४
वेश्या9चेटनपुंसक10विटधूर्ता बन्धकी च यत्र स्युः ।
11अनिभृतवेषपरिच्छदचेष्टित11aकरणैस्तु संकीर्णम्12 ।। १०५
Abh
गृहस्थाः, अन्ये शाक्यादयस्तैरुपलक्षितम् । हास्यप्रधानवचनसंबन्धशीलनादिना1 कुत्सितैः पुरुषैरत एव प्रहस्यमानैः सामर्थ्यात्तैरेव भगवदादिभिर्युक्तम् । तथापि च भाषाचारौ यत्र न विकु2तावसत्या– श्लीलरूपौ तथा विशेषेण भावैः व्यभिचारिभिरुपपन्नानि पदानि कथाखण्डानि यस्मिन् । नियगतिः एकप्रचारं यद्वस्तु तद्विषयः प्रहसनीयलक्षणो यत्र, तच्छुद्धं प्रहसनम् । अत्र निर्वचनं यतः परिहासप्रधानान्याभाषणान्यत्र बाहुल्येन भवन्ति तेन यत्रैकस्यैव कस्यचित् चरितं दुष्टत्वात्प्राधान्येन प्रहस्यते तच्छुद्धमित्यर्थः । यत्र तु वेश्यादिभिर्योगोऽत्युल्बणं चाकल्पादि तदेकद्वारेणानेकवेश्यादिचरितेन हसनीयेन सङ्कीर्णत्वात् सङ्कीर्णम् । अन्ये त्वाहुः –येषां स्वभावत एव चरितं शिष्टमध्ये सभ्येतरतमत्वेन प्रहसनार्हं तदविशुद्धत्वात्सङ्कीर्णम्, तद्योगाच्च रूपकम् । ये तु स्वभावतो न गर्हिता भगवत्तापसादिचेष्टाविशेषास्तेषां प्राकृतपुरुषसंक्रान्तिदौरात्म्योदितामन्य3संबन्धदूष्यमाणतया प्रहसनीयतां यातास्ते स्वभावशुद्धाः
Notes
1 भ–भागवतविप्रतापससौगतनिर्ग्रन्थधूर्तविटपुरुषैः । नीचजन………..2 न–विद्धैः ड– भिक्षुश्रोत्रियविप्रातिहाससंयुक्तम् 3 दप–हासवादसंपन्नम् । 3 a: N –हास्यवादसम्पन्नैः 4 पड –नीचजन 5 भ–अधिगत 5a: N: –नीचजनसंप्रयुक्तं परिहासाभाषणप्रायम् । 6 प– भाषोपहास न–भावोपहास ड– हासोपहास द –भावोपरचित फ–भावोपपन्नरचितमिदं भ– विशुद्धभाषोपहास 7 प–शुद्धमिह प्रहसनं ज्ञेयम् । 8 द–प्रहसने तु 9 फ–नपुंसकविटैर्वानिकदासीजनेन वा कीर्णम् (–वातिक….जनेन संकीर्णम्–प) वाडिकनारीजनेन संकीर्णम्–न 10 द N–विटवार्तिकधूर्तबन्धकीयुक्तम् ड–धूर्तविटवर्धकी च भ–धूर्तविटबद्धनीचयतयः स्युः । 11 च–अनिसृत 11 a: N–चेष्टितकरणार्थसंकीर्णम् 12 प च संपन्नम् भ–चेष्टाभिश्चैव संकीर्णम् (संपन्नम्–म) ड–चेष्टाकरणात्तु (र्थ–द) संकीर्णम् ट–करणं च संकीर्णम् । 1 (वचनसंबद्धं शीलादिना)–Hema 2(कृ) – Kan
लोकोपचारयुक्ता या वार्ता यश्च 1दम्भसंयोगः ।
2स प्रहसने प्रयोज्यो धूर्त3aप्रविवादसम्पन्नः3 ।। १०६
4वीथ्यङ्गैः संयुक्तं कर्तव्यं प्रहसनं यथायोगम् ।
5भाणस्यापि 6तु लक्षणमतःपरं संप्रवक्ष्यामि7 ।। १०७
आत्मानुभूतशंसी पर8संश्रयवर्णनाविशेषस्तु9 ।
Abh
तद्योगाद्रूपकं शुद्धमिति । उभयसाधारणीमपि कवेः शिक्षामाह लोकोपचारेति । वार्ता प्रसिद्धिर्यदि सा लोकव्यवहारसिद्धा भवति, यथा शाक्यानां स्त्रीसंपर्कः प्रहसनीयो भवति, न चौर्यम् । एवंभाविप्रसिद्ध1 एवोपहसनीयः । अत्राधिकरणं स्वयमेवाह धूर्तप्रविवादेति । धूर्ताः कृत्रिमतापसादयः विटादयश्च । तद्विषये यः प्रकृष्टो विवादः विरुद्धतयावभासस्तेन फलभूतेन संपाद्यतया यदुक्तं प्रहस्यमानं तथाभूतचरितावलोकनेन हि संस्कृतमति व्युत्पाद्यो न भूयस्तान्वञ्चकानुपसर्पतीति । वीथ्यङ्गैरिति वक्ष्यमाणैः, यथायोगमिति तेषां संप्रयोगे संख्यायाः क्रमस्य तु न कश्चिन्नियम इति दर्शयति । प्रहसनस्याङ्कनियमानभिधानात् शुद्धमेकाङ्कं संङ्कीर्णं त्वनेकाङ्कं वेश्यादिचरितसंख्याबलादिति केचित् ।
अन्ये त्वेकाङ्कप्रकरणमध्यपातित्वादेकाङ्कमिति मन्यन्ते प्रथमसंख्ययातिक्रमे2 भेदाभावपरित्यागे च प्रमाणाभावात् ।
अथ हास्यरसोचितविटधूर्ताद्यनुप्रवेशेन समानयोगक्षेमं भाणं लक्षयितुमाह आत्मानुभूतशंसीति । एकेन पात्रेण हरणीयः सामाजिकहृदयं प्रापयितव्योऽर्थो यत्र स भाणः । एकमुखेनैव भाण्यन्ते उक्तिमन्तःक्रियन्ते अप्रविष्टा अपि पात्रविशेषा यत्रेति भाणः । तत्र स प्रविष्टः पात्रविशेषः
Notes
1 भ–लम्भ 2 भ–तत् प्रहसनेषु योज्यं च–तत्….सुयोज्यं ढड–तत् नसंयोज्यं 3 ड–विटधूर्तविवादसंपन्नम् भ–संयुक्तम् च–धूर्तप्रविवादसंयुक्तम् 3a: N –धूर्तजनविवादसम्पन्नः 4 प N उद्धात्यकादिभिरिदं वीथ्यङ्गैर्मिश्रितं भवेन्मिश्रम् र्मिश्रयेद्यथायोगम्–दभ–अवलगितावस्कन्दितव्याहारगोपि (?) चालनाप्रपञ्चश्च । छलमृदवनालिकाः स्युर्गण्डं चासत्प्रलापश्च । एतै रङ्गैर्युक्तं प्रहसनमेषां तु लक्षणं वीथ्याम् । 5 द–भाणस्य विधानमतो लक्षणयुक्त्या प्रवक्ष्यामि 6 भ च ड–हि 7 भ–संविधास्यामि 8 भ–संस्तुत य–संस्तव न–संश्रव 9 प–विशेषयुतः ट–प्रयुक्तश्च द–च 1 (एवं क्षम्भोऽपि प्रसिद्ध)–ND 2 (प्रथमसंख्यातिक्रमे)–Kan.
1विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च2 ।। १०८
परवचनमात्मसंस्थं3 4प्रतिवचनैरुत्तरोत्तरग्रथितैः5 ।
6आकाशपुरुषकथितै7रङ्ग8विकारैरभिनयैश्चैव9 ।। १०९
धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव ।
10एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्भाणः ।। ११०
[भाणस्यापि हि निखिलं लक्षणमुक्तं तथागमानुगतम् ।
वीथ्याः संप्रति निखिलं कथयामि यथाक्रमं विप्राः] ।। १११
Abh
आत्मानुभूतं वा शंसति परगतं वा वर्णयति । तत्र च प्रयोगप्रयुक्तिमाह परवचनमिति । परसन्धिवचन1 स्वयमङ्गविकारैरभिनयेत् ।
ननु तत्परवचनमयुक्तं कथमभिनयेत् आह आकाशे शून्ये यानि पुरुषकथितानि दृष्टानि यत्र शून्ये तेन वर्ण्यन्ते वा कश्चित्पश्यत्याकर्णयति च तत्र च तद्वचनं स एवानुवदन् सामाजिकान् बोधयति । यथा “भो बाडब, अले किं ब्रवीषि” इत्यादौ न केवलं परवचनमभिनयेत्, किन्तु प्रतिवचनैः स्वोक्तैः सह, अतएवोत्तरोत्तरग्रथितैः योजनाभिरुपलक्षितैः । ननु योऽसावेकोऽत्र प्रविशति स क इत्याह धूर्तविटेति । नानाप्रकारावस्थाविशेषात् लोकोपयोगिव्यवहारात्मकात्मा2 वाच्यं यस्य, अत एव बहुचेष्टः सततं कार्य इति सकलसामान्यपृथग्गतोपयोग्यस्तु3 लोकव्यवहारो वेश्याविटादिवृत्तान्तात्मा निरूप्यत इति बाहुल्येन पृथग्जनव्युत्पत्तियोनि4रूपकमिदं राजपुत्रादीनामपि शंभलीवृत्तान्तो ज्ञेय एवावञ्चनार्थमिति संप्रयोज्य5 इत्यर्थः ।
इदमिह मीमांस्यं–य एते उत्सृष्टिकादयो6 रूपकभेदाः ते तावदेकरसा एव, यद्यपि नाटकादयोऽप्येवमेव । तथाहि7 सर्वरसयोग्यतायामपि नाटके प्रकरणे च धर्मार्थादिवीर एव
Notes
1 च–द्विविध 2 भ–कार्यश्च म N–पात्रश्च प–सैकहार्यश्च 3 ड–मात्रसंस्थं ढ द– संस्थैः 4 ड– परवचनैः 5 भ–सोत्तमैर्ग्रथितवाक्यम् (म–सोत्तरैः) 6 ढ–आकार 7 भ–कथिनैः 8 ड–विहारैः 9 ड–अभिनयेत्तत् प–इहाभिनयेत् भ–अभिनयेत्तम् द N–अनियमोऽस्य । 10 न–वस्तुसमाङ्कः कार्यः सततं काव्ये भ– कार्योऽङ्कवस्तुतुल्यः सततं काव्येषु वै भाणः 1 (परसंबन्धि वचनं)–Hema 2 (व्यवहारात्मक आत्मा) Hema 3 (पृथग्जनोपयोग्यस्तु (–ग्यत्र) ) Hema 4 (व्युत्पत्त्युपयोगि) –Hema 5(स प्रयोज्य)–Hema 6 (उत्सृष्टिकाङ्कादयो)
प्रधानं परमार्थतः सर्वेषु नायकभेदेषु वीरत्वानुगमदर्शनात् । समवकारे तु यद्यपि हि श्रृङ्गारादित्वमुक्तं तथापि वीर एव प्रधानं रौद्रो वा, डिमव्यायोगयोरप्येवम् । ईहामृगेऽपि रौद्रप्राधान्यमेव, नाटिकायां तु श्रृङ्गार एव प्रधानम् । एवं तावद् वीररौद्रश्रृङ्गारा यथास्वं [किं] पुमर्थत्रयप्राणभूतत्वेन वर्तमाना, एतेषु प्रयोगेषु शान्तबीभत्सरसौ तु चरमपुमर्थयोगात्तत्र च सर्वस्य नाधिकारोऽपि कस्याचिदपश्चिमजन्मनोऽधिकारान्नाटके यद्यपि तत्फलप्रधानतया प्राधान्यमवलम्बेयातां तथापि नासौ प्रचुरप्रयोग इति तयोः पुरुषार्थप्रवरप्राणितयोरपि वीरादिरसान्तराध्यावापेनावस्थापनम् । एवं तावत्पुमर्थविषयो रूपकरसविषय एव परमार्थतः, तथापि त्वितिवृत्तवैतत्याद्रसान्तरप्रयोगोऽपि तदङ्गतया तत्र भवति । एवं तत्प्रधानचेष्टायोगाद्धृत्तिवैचित्र्यमत्रोचितमेव । उत्सृष्टिकाङ्कप्रहसनभाणास्तु करुणहास्यविस्मयप्रधानत्वाद् रञ्जकरसप्रधानाः, तत एवात्र स्त्रीबालमूर्खादिरधिकारी । न च विततमत्रेतिवृत्तम्, इतिवृत्तवैचित्र्यमपि तत्र नास्ति । तथाहि–उत्सृष्टिकाङ्के तु वृत्तित्रयं तावद्वचसा निषिद्धं, भारती चात्र कथं वृत्तिः, चेष्टा हि करुणेऽप्रधानं, तदुपकरणं तु परिदेवितात्मिका भारती, तस्मात् फलसंवित्त्याख्या वृत्तिः, वाक्चेष्टयोः फलानुभव इति यस्या लक्षणं, साभ्युपगन्तव्या । अवश्यं चैतत्, अन्यथा मूर्छामरणादौ वाक्चेष्टयोरभावे निर्वृत्तिकतैव स्यात् । किञ्च यदि तावत्पुमर्थकामोद्देशेन कैशिक्यभिधीयते धर्ममर्थं चोद्दिश्य वृत्तिद्वयं वक्तव्यम् । तस्माच्चेष्टात्मिका न्यायवृत्तिरन्यायवृत्तिर्वाग्रूपा तत्फलभूता फलसंवित्तिरिति वृत्तित्रयमेव युक्तामिति भट्टोद्भटो मन्यते ।
यदाह–
आद्ये वाक्चेष्टाभ्यां पुरुषार्थचतुष्टयेन चाष्टविधे ।
षोडशधा फलवृत्तिस्तद्द्वयतोऽनेकधा तु रसभेदात् ।। इति ।
तदत्र केचिदाहुः–सात्त्वत्यां यद्यपि कैशिकी शक्यान्तर्भावा तथापि रञ्जकत्वातिशयात् पृथगुपात्ता[त्], स्वरवन्मुखजाभिनयतश्च1, न चान्यायवृत्तौ (वृत्तित्वं) पुमर्थ2चतुष्कयोगोपपत्तिविप्रतिषेधात्, फलवृत्तौ च वृत्तिसामान्यलक्षणं व्यापाररूपत्वं यदि नास्ति तत्कथं वृत्तित्वम् । अस्तिचेद्वाक्चेष्टातिरिक्तो मानसो व्यापारो व कश्चित् लोकसिद्ध इति सूक्ष्मो वाक्चेष्टागत एवोपेत्यः । ततश्च मरणमूर्छादावपि प्राणत्मकायीयव्यापारसंभव एव यदनुस्मरणे लयतालगानानि प्रवर्तन्ते, संवेदनमपि च मूर्छादौ नास्तीति शक्यं वक्तुमिति फलवृत्ति–
Notes
1 (भिनयञ्च)–Kan 2 (वृत्तौ पुमर्थ….)–Kan
1सर्वरस2लक्ष2aणाढ्या 3युक्ता ह्यङ्गैस्त्रयोदशाभिः4 ।
Abh
रपि तत्र कथं । तस्मात्तत्र सात्त्वत्येव वृत्तिः । यदि बाहुल्यापेक्षया वृत्तिमयं काव्यमिति व्यवहारो रूपकसमुदायापेक्षया खण्डस्यावृत्तिकत्वेऽपि समुदितस्य रूपकस्य वृत्तिमयत्वात्1 । यच्छकलीगर्भमतानुसारिणो* मूर्छादावात्मसंवित्तिलक्षणां पञ्चमीं वृत्तिं सकलकार्यनिवृत्त्यनुमेयां मूर्छाकर्मानुभावेन2 च फलेनावच्छिन्नामात्मव्यापाररूपां मन्यन्ते, न च परिस्पन्द, एवैको व्यापार इति मनसिकृत्य नन्मतं भावानां बाह्यग्रहणस्वभावत्वमुपपादयद्भिः भट्टलोल्लटप्रभृतिभिः पराकृतमिति न फलवृत्तिर्वा काचिदिति चतस्र एव वृत्तयः (इति) ।
वयन्तु ब्रूमः । कोऽयमस्थानसन्त्रासः । यत्किञ्चिदिह नाट्ये समस्ति तच्चेद्वृत्तिष्वन्तर्भाव्यं तदाभवैदेतत् – न चैवम् । रङ्गो हि नाम का वृत्तिः, मृदङ्गपणववंशाद्या का वृत्तिरपि हि भवेत् । तस्माद्व्यापारः पुमर्थसाधको वृत्तिः स च सर्वत्रेव वर्ण्यत इत्यतो वृत्तयः, काव्यस्य मातृका इति, न ह किञ्चिद्व्यापारशून्यं वर्णनीयमस्ति । मदमूर्छादिवर्णनायामपि मनोव्यापारस्य सात्त्वत्याख्यस्य संभवात्, करुणदावपि च मनोदेहव्यापारसंभवेऽपि बाहुल्येन वाग्व्यापारसंभवाद् भारतीवृत्तिरुच्यते । वृत्त्यन्तरनिषेधस्तु तदङ्गानामपरिपूर्णत्वात् । न च कायवाङ्मनसव्यापारं तद्वैचित्र्यं वान्तरेणान्यः कश्चिद्व्यापारः संभवतीत्यसकृदुक्तम् । तस्मात्करुणप्रधाने भारती वृत्तिः परिदेवितबाहुल्यात् ।
यत्तु “श्रृङ्गारहास्यकरुणैरिह कैशिकी स्यात्” इति कोहलेनोक्तं तन्मुनिमतविरोधादुपेक्ष्यमेव, तस्य तु यत्र यत्रानुब्लणा चित्तवृत्तिः सा सा कैशिकीत्याशयः । एवं प्रहसनभाणयोरपि वाग्व्यापारप्राधान्यादेव भारतीवृत्तिः, मूर्छादौ तु व्यापाराभावे वृत्त्यभाव एव । न हि सर्वं नाट्यं वृत्तिब्रह्मतया समर्थनीयमित्यलमतिप्रसक्त्या ।
अथ सर्वान्ते सर्वरसमयत्वादविततस्वभावत्वाच्च संक्षेपेण शक्यव्युत्पत्तिदायिनीत्वेन प्रधानभूतत्वात्तदङ्गानां च नाटिकादि1भाणान्तसमस्तरूपकोपजीव्यत्वाद् वीथीं लक्षयति ।
Notes
वीथी स्यादेकाङ्का तथैकहार्या द्विहार्या वा1 ।। ११२
अधमोत्तममध्याभिर्युक्ता स्यात्प्रकृतिभिस्त्रिसृभिः ।
2उद्घात्यकावलगितावस्पन्दि2aतनाल्यसत्प्रलापाश्च ।। ११३
वाक्केल्यथ प्रपञ्चो मृदवाधिबले छलं त्रिगतम् ।
व्याहारो गण्डश्च त्रयोदशाङ्गान्युदाहृतान्यस्याः ।। ११४
3अथ वीथी संप्रोक्ता लक्षणमेषां प्रवक्ष्यामि ।
पदानि त्वगतार्थानि4 5ये नराः पुनरादरात् ।। ११५
6योजयन्ति पदैरन्यैस्तदुद्धात्यक7मुच्यते ।
Abh
एकहार्यैरित्याकाशपुरुषभाषितैरित्यर्थः । द्विहार्येति उक्तिप्रत्युक्तिवैचित्र्येणेत्यर्थः । अङ्गान्युद्दिशति–
उद्घात्यकावलगितावस्पन्दितनाल्यसत्प्रलापाश्च ।
वाक्केल्यथ प्रपञ्चो मृदवाधिबले छलं त्रिगतम् ।
व्याहारो गण्डश्च त्रयोदशाङ्गान्युदाहृतानीति । (ना.शा. १८/११३ द्वितीयार्ध ८/११४) इत्युदाहरणमात्रमेतदिति यावत् । एतानि क्रमेण लक्षयति पदानि त्वगतार्थानीति ।
Notes
1 न–द्विपात्रहार्या तथैकहार्या वा भ– वीथ्यास्तु लक्षणमहं व्याख्यास्याम्यनुपूर्वशः उङ्घ्राच्यक…..गण्डमथापि च । एतान्यङ्गानि यस्याः स्युः स्पष्टार्थानि त्रयोदश । रसाश्चाष्टौ तथा शुद्धाः सर्वे भावास्तथैव च । उत्तमाधमध्याभिर्युक्ता प्रकृतिभिस्तथा । एकहार्या द्विहार्या वा सा वीथी त्वभिसंज्ञिता 2 ड N–उद्घात्यकावलगिते त्ववस्पन्दितमेव च । द–लागितकावस्पद्गितकं तथा ढ–अवास्पन्दि N–असत्प्रलापश्च तथा प्रपञ्चो नालिकापि च ।। (न–असंप्रलाप….वा.) N–वाक्कोल्यधिबलं चैव छलं व्याहारमेव च । (द–व्याहार एव च) N–मृदवं त्रिगतं चैव ज्ञेयं गण्डमथापि च ।। (ड–मृदवः फ–वा). 2a: N: त्वक्स्पन्दितकं तथा 3 न–एतान्यङ्गानि नाट्यज्ञैर्वीथ्यङ्गानि त्रयोदश । ड–त्रयोदश सदाङ्गानि वीथ्यामेतानि योजयेत् । लक्षणे पुनरेतेषां प्रवक्ष्याम्यनुपूर्वशः 4 च–तुगतार्थानि भ–हि गतार्थानि 5 न– ये नराः स्वल्पबुद्धयः ड–ये नराः द प N– तदर्थगतये नराः भ– बुद्धवोनाल्पबुद्ध्यः 6 न–पर्यायैरेव बोध्यन्ते भ–पश्चात्पदैः प्रपद्यन्ते भवेत्तत्तु यथैव च 7 द–उद्घातकं ।
यत्रान्यस्मिन् समावेश्य कार्य1मन्यत्प्रसाध्यते ।। ११६
2तच्चावलगितं2a नाम विज्ञेयं नाट्ययोक्तृभिः ।
Abh
नन्वेषामुक्तिवैचित्र्यरूपत्वं चेल्लक्षणालङ्कारादिभ्यः को भेद, इतिवृत्तोपकरणरूपत्वे तु सन्ध्यङ्गेभ्यः कथमन्यतो1 रसोपकरणतायां वृत्त्यङ्गेष्वन्तर्भावः । न चैतद्व्यतिरिक्तम्, एषां सामान्यलक्षणमस्ति । तत्र केचिदुक्तलक्षणादिविशेषरूपरत्वमेवैषां प्रतिपन्ना विवेचकास्तु तद्व्यतिरिक्तान्येवैतानीत्याहुः ।
तथाहि प्रश्नप्रतिवचनयोरन्याभिप्रायरूपेण योगेन यद्वैचित्र्यं तद्वीथ्यङ्गम्, अतएवोदाहृतानीत्येषां सामान्यलक्षणम् । उदाहृतानि प्रतिवचनानीत्यर्थः । तानि च सर्वाणि प्रतिवचनशून्यस्य2 काव्यस्याभावात् तेन विचित्रणीति लभ्यन्ते । अत एव वीथी पङ्क्तिरन्योत्तरासहिष्णुत्वात् विचित्रोक्तिप्रत्युक्तिगर्भत्वाल्लक्षणालङ्कारादीनां तु नोक्तिनियतं रूपमिति विशेषः । तत्र यदा विवक्षितमुत्तरं दातुं शक्तोऽयं स्यादिति यन्मम मनसि वर्तते तदेव वक्ति नवेत्येमादिना निमित्तेन यदा प्रष्टैव प्रतिवचनं वैचित्र्यमभिसन्धाय पृच्छति, प्रतिवक्तोचितमभिधत्ते तदा तदुत्तरमुद्घात्यकम् । प्रश्रात्मके उद्घाते साध्विति यत्, तत्राज्ञातार्थे कन् । पदान्यर्थगतानि प्रश्नरूपाण्यादरात्कृतानि पर्यायैः पदान्तरैरुत्तरूपैः नराः सुधियो योजयन्ति । तदुत्तरपदसमूहात्मकमुद्घात्यकम् । यथा पाण्डवानन्दे –
का भूषा बलिनां क्षमा, परिभवः कोऽयं सकुल्यैः3 कृतः,
किं दुःखं परसंश्रयो, जगति कः श्लाध्यो य आश्रीयते ।
को मृत्युर्व्यसनं, शुचं जहति के यैर्निर्जिताः शत्रवः,
कौर्विज्ञातमिदं विराटनगरे च्छन्नस्थितैः पाण्डवैः ।।
यत्रान्यस्मिन्निति । यत्रोत्तरे दीयमाने अन्यानुसन्धानपूर्वकेऽप्यन्यत्कार्यं सिध्यति तदान्य4– कार्यावलगनादवलगितम् । यथा “अवि सुहाआदि दे लोअणाणा” मिति विदूषकेण पृष्टे (राज्ञः) “सुखयतीति किमुच्यते” इति “कृच्छ्रेणोरुयुग” *मित्याद्युत्तरं वसन्तकप्रत्यायनोद्देशेन प्रवृत्तमपि सागरिकागतमास्थाबन्धजीवितं मुख्यं श्रृङ्गाराख्यं कार्यं साधयतीति ।
Notes
1 न– अन्यं 2 न– परानुरोधात्तज्ज्ञेयं नाम्नावलागितं बुधैः । 2 a: N– कार्यानुरोधात्तज्ज्ञेयं नाम्नावलगितं बुधैः ।
1आक्षिप्तेऽर्थे1a तु कस्मिन्श्चिच्छुभाशुभसमुत्थिते2 ।। ११७
3कौश3aलादुच्यतेऽन्योऽर्थस्तदवस्पन्दितं भवेत्4 ।
हास्येनोपगतार्थ5प्रहेलिका नालिकेति विज्ञेया ।। ११८
6मूर्खजनसन्निकर्षे 7हितमपि यत्र प्रभाषते विद्वान् ।
Abh
आक्षिप्ते त्विति । शुभाशुभं दैवं तेनाबुद्धिपूर्वकं कुत्रचिदर्थे आक्षिप्तेऽपि कौशलात्तत्तत्प्रच्छादनेच्छया यत्रोत्तरो1ऽन्योऽर्थ उच्यते तदवस्पन्दितं चक्षुः– स्पन्दनादिवदन्तर्गतसूचनीयसंभवात् । यथा–
सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ।। (वेणी १/६)
अत्र दैववशादयमर्थ आयातः सत्पक्षे अमधुरागीर्येषान्ते, तथा प्रकर्षेण साधिताः आधिसहिताः यैर्दिशः कृताः धृतराष्ट्रात्मजाः पतन्तीति । तत्रोत्तरं प्रतिहतममङ्गलम् । पुनः सूत्रधारः ननु शरत्समयवर्णनया हंसा नभस्तलं धार्तराष्ट्रा इति व्यपदिशामीत्यादि अवस्पन्दितत्वमेव सूचयति “न खलु न जाने किन्त्वमङ्गलत्वात् शङ्कितमेव मे हृदय” मिति ।
हास्येनोपगतार्थेति प्रहेलिका परवि2तारणकारि यदुत्तरं, अत एव हास्ययुक्ता सा नालिका प्रणालिका व्याजेत्यर्थः । प्रकर्षेण हेलिका नर्मादिक्रीडारूपं यस्याः सा प्रहेलिका । यथा– सुसंगता “जस्य किदे तुमं आअदा सो एत्थ एव्व चिठ्ठदि ।” सागरिका “सहि कस्स किदे” । सुसङ्गता (सहासम्) “अइ अप्पसङ्कीदेणं चित्तफलअस्स” । अनया भङ्ग्या आच्छादितं च गर्भगतं चास्य वस्त्विति ।
मू्र्खजनसन्निकर्ष इति यदुत्तरं मूर्खं प्रति वस्तुतो हितमपि शब्दच्छलाद्यथा प्रियं तादृशं च मूर्खैः प्रियांशेन गृह्यते न तु हितांशेन । तथाभूतभङ्गीभूत द्वयाश्रयणं च
Notes
1a: N– आक्षिप्य कंचिदेवार्थं शुभाशुभसमन्वितम् । 1 भ– आक्षिप्य किंचित् न ड– आक्षिप्य किंचिदर्थं तु प– कांक्षितेऽर्थे तु कस्मिंश्चिच्छुभाशुभसमीक्षिते 2 नडभ–समुत्थितम् 3 भ– उत्सृजेद्बुद्धिवैफल्यात् न– यद्वदेत बुद्धिवैपुल्यात् ड– यत्सृजेद्वद्धिवैपुल्यात् ब– वैकल्यात् 3 a: N–उत्सृजेद्बुद्धिवैकल्यात्तदवस्यन्दितं बुधैः । 4 ढ– अपस्यन्दितं स्मृतम्, च–अर्थे । 5 द– अवगतार्था 6 ड– मुख्य द N– असंबद्धं च यद्वाक्यमसंबद्धं तथोत्तरम् । असत्प्रलापस्तच्चैव वीथ्यां सम्यक् प्रयोजयेत् ड– असंबन्धंतु….बन्धं….प्रलापितं 7 भ– विद्वान्यत्र ड– अन्यत्र भाषते प्रभाषते सम्यक् । 1 (यत्रोत्तरेऽ) –Kan
1न च2 गृह्यतेऽस्य वचनं 3विज्ञेयोऽसत्प्रलापोऽसौ4 ।। ११९
एकद्विप्रतिवचना वाक्केळी स्यात्प्रयोगेऽस्मिन्5 ।
6यदस6aद्भूतं वचनं 7संस्तवयुक्तं द्वयोः परस्परं यत्तु8 ।। १२०
एकस्य चार्थहेतोः स हास्यजननः प्रपञ्चः स्यात्9 ।
Abh
सिद्ध1त्त्वात्करोति । एवं हि तात्कालिकः कोपोऽपि रक्षितो भवति प्रियाभिधायित्वात् कालान्तरसंभाव्यश्च यथार्थाभिधायित्वात् यथाव्यसनिना राजपुत्रेण किं सुखमिति पृष्टे तेनोत्तरं 2दीयते –
सर्वथा योऽक्षविजयी सुरासेवनतत्परः ।
तस्यार्थानां सुखानां च समृद्धिः करगामिनी ।।
असतोऽसाधुभूतस्य वस्तुनः प्रलपनमस्मिन्नित्यसत्प्रलाप इति ।
एकद्विप्रतिवचनेति । एकं द्वयोः प्रतिवचनमस्याम् । द्विग्रहणमनेकोपलक्षणम् । तदमुना सर्वप्रश्नोत्तरवर्गः स्वीकृतः । यथा–
नदीनां मेघविगमे का शोभा प्रतिभासते ।
बाह्यान्तरा विजेतव्याः के नाम कृतिनोऽरयः ।।
यदसद्भूतमिति यथा रत्नावल्याम् “सुसङ्गते, कथमहमिहस्थो भवत्या ज्ञात” इति राजन्युक्तवति सुसङ्गतयोच्यते “ण केवळं भट्टा चित्तपळहेण ता देवीए णिवेदइस्सं” इत्यादौ आभरणदानपर्यन्ते प्रपञ्चः । तथाहि–द्वयोः सागरिकासुसङ्गतयोः3 राजविदूषकयोः परस्परसंबन्धमाश्रित्यासद्भूतमसत्यं देव्यै निवेदयामीत्युक्तम् । संस्तवश्च तत्रास्ति “भट्टिणो पसादेण किमिदं4 मए” इति हास्यमपि परिहासरूपं विद्यते । एकस्य च राज्ञोऽर्थे प्रयोजने सागरिकासङ्गमे हेतुर्भवत्येवेति अन्यथाभिधानात्प्रपञ्चः ।
Notes
1 ड–वचनं च गृह्यतेऽस्य ज्ञेयो 2 भ– तु 3 ड– सज्ञेयोऽसत्प्रलापस्तु 4 भ– प्रलापः सः ड–यदद्भूतं वचनं स ज्ञेयोऽसत्प्रलापस्तु 5 न–एकद्वित्रि प्रतिवचना वाक्कोली नामाहुः भ N – वचनां वाक्केलीं नाम तामाहुः (–तां केलीं नाम जानीयुः – फ 6 च–यदतोसंभृतवचनं द– यदसंबद्धं ड– यदसद्भूतं वचनं न– वाक्यं 6 a:N: यदसद्वृत्तं वचनं संस्तवयुक्तं द्वयोः परस्परतः । एकस्य चार्थहेतोः स हास्यजननः प्रपञ्चस्तु ।। 7 च– संश्रव द–संभव य– संश्रय ट– संस्वर 8 ड– परस्परतः ड– तु ।
1, 1aयत्कारणाद्गुणानां दोषीकरणं भवेद्विवादकृतम् ।। १२१
दोषगुणीकरणं वा तन्मृदवं नाम विज्ञेयम् ।
2परवचनमात्मनश्चोत्तरोत्तरसमुद्भवं3 द्वयोर्यत्तु4 ।। १२२
अन्योन्यार्थविशेषक5मधिबलमिति तद्बुधैर्ज्ञेयम् ।
6अन्यार्थमेव वाक्यं7 छलमभिसन्धानहास्यरोषकरम्8 ।। १२३
Abh
यत्कारणादिति गुणानां दोषत्वं दोषाणां वा गुणत्वं यत्र क्रियते तन्मृदवम् । विवादकृतमित्यनेन लक्षणाद्विशेषमाह, इदं वृत्त्यन्तरं स्वभावमित्यर्थः1 यथा “शिरः श्वा काको वा द्रुपदतनयो वा परिमृशेत्” (वेणी-३) इत्यत्र दोषस्य गुणीकरणं, विवादकर्णनेन सह “यदि शस्त्रमुज्ज्ञितमशस्त्रपाणयः” (वेणी–३) इत्यत्र कर्णवचनेन प्रतिज्ञातपरिपालनस्य गुणस्यापि दोषीकरणं विवादकृतमेव । मृदवमिति मर्दनं मृत्परपक्षमर्दनेन स्वपक्षमवति रक्षतीति ।
परवचनमात्मनश्चेति परस्य वचनमात्मनश्च वचनं परस्परमर्थविशेषलाभो यत्र भवतीत्युत्तरोत्तरस्याधिकाधिकस्यार्थस्य समुद्भवो यत्र तदधिबलम् । एतदुक्तं भवति यत्रोक्तिप्रत्युक्तिक्रमे क्रियमाणे परस्परप्रज्ञानोपजीवनबलात्स्वपक्षसुघटि2 – तादधिबलसंबन्धादधिबलम् । यथा नागानन्दे “रागस्यास्पदमित्यैव” मीत्यादित आरभ्य विदूषकेण सहोक्तिक्रमेण स्वपक्षो द्रढिमानमानीतो यावदाह “ननु शरीरतः प्रभृतिसर्वमेव मया परार्थं प्रतिपाल्यते” (अ–१) इति ।
अन्यार्थमेव वाक्यमिति यद्वाक्यं प्रयोजनान्तरमुद्दिश्य वचनमुच्यमानं कस्यचिद्वच3नमन्यस्य हास्यमपरस्य रोषं जनयति तच्छलम् । यथा–
कस्स व ण होइ रोसो दट्ठूण पिआए सव्वणं अहरम् ।
सब्भमरपदुमघाइरि वारिअवामे सहसु एह्णिम् । (गाथासप्तशती)
Notes
1 a: N: यद्गुणदोषीकरणं दोषि(ष)गुणीकरणमेव वादे । हेतु(तुं) निरूपयन्नर्थे तन्मृदवं नाम विज्ञेयम् ।। 1 द– यद्गुणदोषीकरणं दोषगुणीकरणमेव वा देहे । हेतुभिरुपपन्नार्थैस्तन्मृदवं नाम विज्ञेयम् । 2 प– यत्रात्मनः परस्य च वचनं स्यादुत्तरोत्तरप्रभवम् ड–परवचनमात्मसंस्थं 3 य–समुद्गतं 4 भ– यत्र न–अत्र 5 ड– विशेषणं 6 ड– यत्रादौ प्रतिवचनैर्विलोभयित्वा परम्पराकारैः । तैरेवार्थविहीनैर्विपरीतः 7 न– छलमति य– छलमिति 8 च –शेषकरम्
1श्रुतिसारूप्याद्यस्मिन् बहवोऽर्था युक्तिभिर्नियुज्यन्ते ।
यद्धास्यमहास्यं वा तत्त्रिगतं नाम विज्ञेयम् ।। १२४
2प्रत्यक्षवृत्ति2aरुक्तो 3व्याहारो हास्यलेशार्थः ।
संरम्भसंभ्रमयुतं4 5विवादयुक्तं तथापवादकृतम् ।। १२५
बहुवचनाक्षेपकृतं6 7गण्डं प्रवदन्ति तत्त्वज्ञाः ।
Abh
एतद्वचनं सखीसंबन्धि भर्तृप्रत्यायनं प्रयोजनमुद्दिश्य प्रयुक्तं तस्य पत्न्या अपि संबन्धिनां छलं विदग्धजनस्य हास्यं सपत्न्या1 रोषं जनयति ।
श्रुतिसारूप्यादिति शब्दसारूप्याद् बहव इति प्रश्नप्रतिवचन{स्य} स्वभावा2 यत्र नियुज्यन्ते युक्तिभिरिति काक्वादीनां तथैवोपपत्तिभिः । त्रिशब्दोऽनेकोपलक्षणम्, अनेकमर्थं ग तमिति त्रिगतं वाक्ये मुख्यमु3त्तरमनेकप्रश्नसाधारणम् । इह तु य एव प्रश्नस्तदेव प्रतिवचनमिति विशेषः । यथा–
सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी ।
रामा रम्ये वनान्तेऽस्मिन् त्वया विरहिता मया ।। (विक्रमोर्वशी. ४/२७)
अत्रैतदेवोत्तरं साकांक्षाकाकुप्रयोगेऽपि प्रतिबिम्बे वामदक्षिणवैपरीत्यवन्निराकांक्षा काकुः संवृत्ता यत एतद्धास्यम् । एवमहास्य उदाहार्यम् ।
प्रत्यक्षवृत्तिरिति प्रत्यक्षशब्देन भावी प्रत्यक्ष उच्यते । तदयमर्थः– भाविनि प्रत्यक्षेऽर्थे दैववशाद् वृत्तिर्यस्य स व्याहारः विविधोऽर्थोऽभिनीयते येन । यथा “उद्दामोत्कलिकां” (रत्ना–२) इत्यादि ।
संरम्भसंभ्रमयुतमिति संरम्भेणाकृतिविशेषेण4 यः संभ्रम आवेगः तद्युक्तं यद्विरुद्धवस्तु यदनेन5 कृतं पूर्वोक्तवस्त्वपवदनमेव च तद्वचनं 6दृष्टार्थगर्भत्वात्, गण्ड इव गण्डः ईषदसमाप्तं वचनं बहुवचनं तत्कृतेनाक्षेपेण कृतं स्वयं प्रतिवचनतां पूर्ववचनस्य गतमित्यर्थः । तथा
Notes
1प– यत्रा(च्चा–N)नुदात्तवचनं त्रिधाविभक्तं भवेत्प्रयोगे तु । हास्यरससंप्रयुक्तं तत्त्रिगतं नाम विज्ञेयम् च–श्रुतिसारूप्यार्थात्मनि न– यच्चाप्युदात्तवचनं त्रिधाविभक्तं भवेत्प्रयोगे तु । हास्यरससंप्रयुक्तं त्रिगतं नाम विज्ञेयम् (द– विभिन्नं भवेत्प्रयोगेषु ड–यदुदात्तवचनमिह) 2 ड– प्रत्यक्षं नायकस्यैव यद्वै दृष्टवदुच्यते । अशङ्कितं तथायोगाद् व्याहारः सोऽभिधीयते 2a: N –प्रत्यक्षवृत्तिकथितो व्याहारोऽस्य लेशार्थः 3 भ– कथितो 4 ड–कृतं 5 ढ– बद्धविवादं न – वीथ्यावचनं (?) 6 ढ–युतं 7 प N–गण्डमिति
1इति दशरूपविधानं सर्वं प्रोक्तं मया हि लक्षणतः ।
2पुनरस्य शरीरगतं2a सन्धिविधौ लक्षणं वक्ष्ये ।। १२६
Abh
च कोहलः–
वचसां संबद्धानामन्ते यत्स्यात्पदे त्वसंबन्धः ।1
संबद्धमिवाभाति हि तद्गण्डो नाम वीथ्यङ्गम् ।।
अनेनेषदसमाप्तिरेव दर्शिता । यथा दुर्योधनेन भानुमती2 प्रत्युच्यते–
अध्यासितुं तव चिराज्जघनस्थलस्य
पर्याप्तमेव करभोरु ममोरुयुग्मम् । (वेणी. २/२३ उत्तरार्ध) इति ।
तत्र प्रविश्य कञ्चुकी
भग्नं भीमेन मरुता भवतो रथकेतनम् ।। इति । (वेणी. २/२४ प्रथमार्ध)
तत्रोरुयुग्ममिति पूर्वविश्रान्तमपि भग्नमित्यत्र संबन्धयोग्यं जातम् ।
एतैः त्रयोदशभिरङ्गैर्युक्ता वीथी, तस्याश्च सर्वरसत्वस्याभिधानात् पर्यायेण रसानां प्राधान्यादुत्तमो मध्यमोऽधमो वा नायको भवत्येव ।
तथा च कोहलः –
उत्तमाधममध्याभिर्युक्ता प्रकृतिभिस्तथा ।
एकहार्या द्विहार्या वा सा वीथीत्यभिसंज्ञिता ।। इति ।
अधमप्रकृतेस्तु न नायकत्वमिति ध्रुवं3 प्रहसनकभाणकादौ किं ब्रूयात्, हास्यादिरसप्रधानत्वे ह्यधम एव नायकः । कथाशरीरफलेन प्रधानतया संबध्यमानो नायक उच्यते । अनायकत्वेऽपि चास्याधमत्वं नानुपादेयं स्यात् । परिवारतया तस्यानुप्रवेशो ह्यनिवारित एव सर्वत्र ।
अध्यायार्थमुपसंहरन् भाविनमर्थमनुसन्धत्ते इति दशरूपविधानमिति । लक्षणत इत्यनेनेदमाह दशैव तानि4 लक्षणानि उदाहरणानां तु का गणना । एतच्च पूर्वमेव दर्शितम् । तत्रैषां पुमर्थोपयोगो निजनिलक्षणावसरे दर्शित एवेति पौनरुक्त्यं नाश्रीयत इति शिवम् ।
Notes
1 इतः पूर्वं लास्याङ्गलभणं तु चठम –मातृकासु विना सर्वास्वस्मिन्नेवाध्याये वर्तते । वृत्तिकारेण लास्याङ्गानि सन्ध्यध्याये (१९) पठितानि, भमातृकायां वर्जितान्येव । भ– संज्ञायामेष श्लोकः–
नाटकभेदानामिह न शक्यते गन्तुमन्तं तत् ।
तस्मात्तज्ज्ञैर्ज्ञेयं दशरूपमिदं हि संक्षिप्तम् ।।
2 ट– इतिवृत्तपताकास्थानसन्धिलक्षणं वक्ष्ये(भ– लक्षणं शृणुत) 2 a: N – पुनरस्य शरीरसन्धिविधिलक्षणं वक्ष्ये ।
इति भारतीये नाट्यशास्त्रे दशरूप1निरूपणं नामाध्यायोऽष्टादशः समाप्तः* ।
Abh
इति विमलशिशिरदीधितिकलितशिरोमण्डनाङ्घिदास्यचणः ।
अभिनवगुप्तो गुप्तं दशस्वरूपं सतत्त्वकं व्यवृणोत् ।।
इति श्रीमन्महामाहेश्वराभिनवगुप्ताचार्यविरचितायां
नाट्यवेदविवृतावभिनवभारत्यां दश-रूपक-विधानं नामाष्टादशोऽध्यायः
समाप्तः ।।
- N :– इति दशरूपलक्षणन् नामाध्यायः एकोनविंशः ।
1न– दशरूपलक्षणविधानं नाम विंशोऽध्यायः य– लक्षणं नाम विंशतितमः द– लक्षणं नामैकोनविंशोऽध्याय: च– एकोनविंशः भ– मातृकायामत्राध्यायो न समाप्यते ।