श्रीः
नाट्यशास्त्रम्
सप्तदशोऽध्यायः*
1एवं तु संस्कृतं पाठ्यं मया प्रोक्तं समासतः2 ।
3प्राकृतस्य तु पाठ्यस्य संप्रवक्ष्यामि लक्षणम् ॥ १
Abh
यदान्तररसास्वादकाकुविश्रान्तिसुन्दरम् ।
रसाक्षपक्षगं वन्दे तद्वपुः पारमेश्वरम् ॥ (अभिनवगुप्तस्य)
चतुर्दशाध्याये वाचिकोक्तक्रमे संस्कृतं प्राकृतं च वाक्यमित्युक्तम् । तत्र संस्कृतप्रसङ्गेन छन्दोवृत्तलक्षणादि निरूपितम् । अनेन त्वध्यायेन प्राकृतस्य स्वरूपं निरुप्यते । शास्त्रप्रसिद्धसंस्कृतविपरीतप्राकृतप्रसङ्गेन नामधेयिभागरूपरूपणं शास्त्रविहितानां विपरीतरूपत्वात्, नाट्यसमयपातिनो भावमारिषादिनामसमूहस्य पठनधर्माश्च प्राकृतेऽपि किमन्यथा संस्कृतवद्वेति चिन्तायां प्रसङ्गेन कार्यस्वरूपं निरूपितम् । दशरूपकनिर्णयानन्तरं समुचितनिर्णयमपि तता–
अलङ्कारा विरामाश्च ये पाठ्ये संस्कृते मताः ।
त एव यत्नतः कार्याः स्त्रीपाठ्येऽपि च संस्कृते ॥ (१७-१३३)
इत्यध्यायोपान्ते प्राकृतपाठ्यमेवोपसंहरिष्यामीत्यध्यायसङ्गतिः । एतामेव दर्शयति एवं तु संस्कृतमित्यादि । पाठविशेषमर्हति, यत्नेन वा पठनीयं, विशिष्टेन
Notes
1 दर–एतत्तु भ– पाठ्यं तु संस्कृतं विप्राः 2 ड– द्विजोत्तमाः 3 ज–प्राकृतस्यापि
- जादिबान्तेषु रसंज्ञके N संज्ञके चाष्टादशोऽध्यायः । अस्मिन्नध्याये प्राकृतलक्षणपाठः सर्वेष्वादर्शेषु सर्वाबद्धमयः । नययोरेव तेषां साधिष्ठ इति वृत्तिकारेण दत्तानां प्रतीकानां च संवादबहुलत्वाच्च तयोः पाठ एव मूलरुपेण निवेशितः । प्राकृतलक्षणश्लोकानां व्याख्यानसापेक्षत्वादग्रेऽनुबन्धरूपेण संक्षेपेण टीका योज्यते ।
एतदेव विपर्यस्तं संस्कारगुणवर्जितम् ।
विज्ञेयं प्राकृतं पाठ्यं नानावस्थान्तरात्मकम् ॥ २
त्रिविधं तच्च1 विज्ञेयं नाट्ययोगे2 समासतः ।
समानशब्दं विभ्रष्टं3 देशीगतमथापि च4 ॥ ३
(5पाठ्यमेकं तु विज्ञेयं संस्कृतं प्राकृतं यथा6 ।)
7कमलामलरेणुतरङ्गलोल8सलिलादिवाक्यसंपन्नम् ।
प्राकृतबन्धेष्वेवं9 10संस्कृतमपि योगमुपयाति ॥ ४
ये वर्णाः 11संयोगस्वरवर्णान्यत्वमूनतां चापि12 ।
Abh
रूपेण वा पठनार्हं आन्तरचित्तवृत्तिवशादेव वा तथा पठितुं शक्यं, आचार्ययत्नेन वा पठनीयमिति पाठ्यम् । तत्र प्राकृतस्य सामान्यलक्षणमाह (संस्कारेति)संस्कृतमेव संस्कारगुणेन यत्नेन परिरक्षारूपेण वर्जितं प्राकृतं, प्रकृतेरसंस्काररूपाया आगतम् ।
नन्वपभ्रंशानां को नियम इत्याह नाना यान्यवस्थान्तराणि देशविशेषास्तेष्वात्मा नियतस्वभावो यस्यां, देशविशेषेषु प्रसिद्ध्या नियमितमित्येव संस्कृता एव वाचकाः अनुमानात्त्वन्ये ते त्वन्यत्वे प्रसिद्धिं गता इत्युक्तम् । अवतिष्ठन्तेऽन्यस्मिन्नित्यवस्थाः देशाः । संस्कृते समेऽपि प्रातिपदिके विभक्तौ भवितव्यं विपर्यासेन स्वरेण वा देशीपदमपि स्वरस्यैव प्रयोगावसरे प्रयुज्यत इति तदपि प्राकृतमेव, अव्युत्पादितप्रकृ तेस्तज्जनप्रयोज्यत्वात् प्राकृतमिति केचित् । संस्कृतेन समानशब्दानुदाहरति कमलामलेति । विभक्तौ लिङ्गस्य प्राकृते स्वातन्त्र्यादवश्यं भेदेन भाव्यमित्याह वाक्ये समासोपपन्नं योजितम् । एतत्परिज्ञानस्य फलमाह एवं संस्कृतमपि योगमिति । भाषाश्लेषे पताकास्थानकादौ चास्य प्रयोग उक्तः । अपि शब्देनेदमाह प्राकृतप्रयोगे समासेऽपि न संस्कृतसमतेति कमल अमल इन्दु इत्यादौ ।
Notes
1 भ– तत 2 भ–नाट्ययोगं 3 च–शब्दैर्विनष्टं 4 द–वा 5 इदं श्लोकार्धं भमयोरेव वर्तते 6 भ–तथा 7 भ–कमलदलरेणुकेसरतरङ्गसलिलादि 8 द–जालादि न –सलीलादि ट–झडित्फसंपदम्( ?) 9 भ–एतत् 10 ज–संयुक्तं द–संस्कृतमिव 11 च–संयुक्ता 12 च–वापि ।
1गच्छन्ति पदन्यासास्ते 2विभ्रष्टा इति ज्ञेयाः ॥ ५
(3ये वर्णा वर्णगता व्यञ्जनयुक्ताश्च ये स्वरा नियताः॥
तानपरस्परवृत्ते प्राकृतयुक्त्या प्रवक्ष्यामि ।)
4यथा–
5एओआरपराणिअ 6अं आरपरं अ7 8पाअए णत्थि ।
वसआरमज्झिमाइ9 अ10 11कचवग्गतवग्गणिहणाइं12॥ ६
Abh
विभ्रष्टमाह ये वर्णा इत्यादि । एतदेव प्रपञ्च्यते ‘एओआरपराणि अ’ इत्यादिना । एकारात्परः ऐ, ओकारात्पराः औ, ऐकारैकारौ च, येभ्यस्तानि (च) । कियन्ति आह पाअए पादसंख्यया चत्वारीत्यर्थः ऋ ऋ लृ लॄ । अंकारपरो विसर्जनीयः । वसकारयोर्मध्ये शषौ । (कचवग्गोति) कचतवर्गाणां
Notes
1 च–यान्त्यपदादौ प्रायो विभ्रष्टांस्तान् विदुर्विप्राः – Kavi 2 ढ–प्रभ्रष्टा 3 म–मातृकायामेव विद्यतेऽयं श्लोकः 4 दडयोर्नास्ति 5" ए ओ आर" इत्यादिलक्षणश्लोकानां स्थाने भसंज्ञकादर्शे गद्यरूपः पाठभेदो यथा –क ख घ त थ ध भ सा हत्वं यान्ति, यथा–फळिह, मुह, मेह, वसहि, रह, दहि, सोहा, दिअहेसु । शषौ सकारौ भवतः यथा ससंक विसमेसु । टतदा डत्वं यान्ति, यथा –विड, पडि, अदण्डासु । ट ठ ड द य रा लत्वं यान्ति, यथा–विअ लालिअ तुल पवितुला विहलयदीसु । थकारो ढत्वं प्राप्नोति वुड्डो। नकारो भवति णकारः, यथा–णयणं । पकारो फत्वं याति बत्वं च । यथा फरुसं कबद्दं च । धकारः ढत्वं याति, यथा वढि । लकारो रत्वं याति यथा किर। ट ठौ डत्वं प्राप्नुतः । यथा सढः फढमं, पलिअं । तजौ यत्वं प्राप्नुतः कयं, धयं। श च ज त द प य वाः स्वरशेषा भवन्ति, यथा –पिउण, पउप, राइ, वई, णई, कइ, दइआ, जयेसु । योगं याति, यथा–अच्छरिअं उच्छाहो, अच्छरसा,(पथ्यं) पच्छं । तुभ्यं तुज्झं, सह्यं –सज्झं, विन्ध्यो विज्झो । श्लक्ष्णं –सह्णं । ग्रीष्मो–गिह्मो। दृष्टो-दिठ्ठो । हस्तो–हत्थो । यक्षो– जक्खो । ब्रह्मा–बह्मा । बृहस्पतिः – बुहप्पइ । यज्ञो–जन्नोत्ति । एवमेतन्मया प्रोक्तं किञ्चित्प्राकृतलक्षणम् । शेषं देशीप्रसिद्धं च ज्ञेयं विप्राः प्रयोगतः ॥ 6 ड–अकार, न–अंकार 7 ड–च 8 र–पाइए 9 द–गज्झिआइ ड– मंसिमाइ प– मंरि सआइ ज–यंखुआई 10 र –व 11 ड–तवर्ग तवर्ग ढ– कच्चवग्ग 12 ड– गणाइ ।
1वच्चंति कगतदयवा2 3लोपं 4अत्थं च से वहंति 5सरा ।
5खघथधभा उण 7हत्तं उवेंति अत्थं अ मुंचंता8 ॥ ७
9उप्परहुत्तरआरो हेटाहुत्तौ अ पाअए णत्थि ।
10मोत्तूण भद्रवोद्रह पद्रह्रदचन्द्रजाईसु ॥ ८
Abh
अन्त्यवर्णाः ङ ञ न इति द्वादशवर्णा न सन्ति । (कगेति) कगादयो लुप्यन्ते तदीयश्चार्धः स्वराणामेव । (खघेति) खादीनां हत्वं, खेट, परिघ, अथ, धान्य (भाव्यादीनां) व्यञ्जनस्य न भवति ।
‘ए ओ आर" इत्यादिगाथानां छाया–
एओकारपराणि च अंकारपरं च पादसंख्यया (प्राकृते ?) नास्ति ।
वसकारमध्ये च, कचवर्ग तवर्ग निधनानि ॥
प्राप्नुवन्ति कगतदयवा लोपं, अर्धं च तेषां वहन्ति स्वराः ।
खघथधमाः पुनः हत्वमुपेयन्ति अर्धं च मुञ्चमानाः ॥
Notes
1 प– वंचति खगतजगदाव ज–वच्चतिकगतजगदावा ड–वच्छति कटतदवयवाः ढ–वच्छति कगतदवयवाः द– वक्कन्ति कगतदयवा 2 न–पा 3 न–लोपः प–लोम ढ–लोप द–लौवं 4 ड–अथच 5 ड–वहति ग–वहत्ति 6 प ज–खघधभउण ड– खघघुधः उणइ 7 प– भधंत अंगअवं चंता । र–हत्तं उवंति अत्थ अ मुंचंता द–हत्तं च अत्थं समुंचंता । ड–हत्त उषति अ अमुच्चत्ता ढ– हत्तं वेंति अत्थं अमुंचंता ज– उइेति अग्ग अमच्चत्ता 8 क–मुंघना 9 प–इंपर अत्तरआरोहं रे भत्ततो अ वा अएणंधि । न –उप्पा हृतरयारो हेटाहुत्तो अपाअएणत्थि । द–उप्परहुत्तर आरो हेट्ठाहुत्तो अपाणत्थि । ढ– उरउरआरो हेठाहुंतो अपाअएणंथि। ड–उच्चर उरआरो हेणण हत्तो अवाअएणत्थि । च–उद्यरहुत्तरसासौहेह्यफुत्तप्लययायएणात्थि । ग–उच्चरहुतरसासोहेहा हुत्त प्लपयापणच्छि । र–डप्परहुतुर अरोहद्धा हुस्त आपइएणात्थि । ज–इंपरउंतर आरोहेंरे भुंक्तो अवाअएणंधि । 10 द–मोत्तूण भद्रवो द्रहगद्रद्रह –द्रजा
खघथधभाण हआरो मुहमेहकहावहूपहूएसु1 ।
2कगतदयवाण णिच्चं वीयम्मि ठिओ सरो होइ ॥ ९
3छ इति षकारो नित्यं बोद्धव्यः षट्पदादियोगेषु ।
4किलशब्दान्त्यो रेफो भवति तथा खुत्ति खलुशब्दः5 ॥ १०
6ड इति च भवति टकारो भटकटककुटीतटाद्येषु ।
सत्वं च भवति शषयोः सर्वत्र यथा विसं संका7 ॥ ११
Abh
उपरिस्थोऽधःस्थो वा रकारः प्राकृते नास्ति (?)।
मुक्त्वा भद्र चोद्रह हृद द्रह चन्द्र धात्री शब्देषु ।
खघथधभानां हकारो (यथा) मुख, मेघ, कथा वधू प्रभूतेषु ।
कगतदयवानां नित्यं द्वितीये स्थितः स्वरो भवति ॥
Notes
1 प–सुहिक्खेषु न–सरिसेसु खघथषधभाण हयानेमुह (मेह) कहापहुमुरिच्छेसु । ग–सुरिच्छेसु ज–मुहुरादौ 2 र N–कगतदयवाण णिच्च वि इअम्मि ठिओ सरो होइ । ड– कगतिदवाण अणिच्चलोपजमपिओसरो होइ। य–कगतदयपाण द– कगतदपवाण णिच्चं विइअमिठिअ सरो हाई । ज–कगनदजवाण णिचलोपम्मि ठं ओसरोहोइ । च–कगतदजवारमणिच्चं वीयन्ति डिउ सरो होइ । 3 च–छे इति षकारो नित्यं बोद्धव्यः षट्पदादियोगे तु ज– च इति चकारो नित्यं बोद्धव्यः षद्पादे तु । द–इति थकारो नित्यं बोद्धव्यः षट्पदादियोगे तु र N –छ इतिषकारो नित्यं बोद्धव्यः अपदादियोगे तु । ड– हृषिउषिति षकारो नित्यं बुधजनैस्तु बोद्धव्यं षट्पदानि योग्ये तु । 4 द N–किलशब्दान्तो रेफो भवति तथा खुत्ति खलुशब्दः ड– कृतिशब्दोरेफान्तेन भवन्ति तथा पुत्रिखलुशब्दः र–किलं शब्दो कोरे भवति तदा खुत्ति खलुशब्दः ।न–खिलशब्दाद्योरेफो 5 ग–खुत्तिखिल शब्दः ढ– भवति तथात्ति खलुशब्दः । च–भवन्ति तथा खु निखलशब्दः 6 द–ड इति भवति टकारो भटकटककुटी कुटावटाद्येषु र N–त इति च भवति टकाते (टकारो–N) भटकटकुटीकुटावडाद्येषु ।न–ड इति च टकारो भटकटककुटीतटाद्येषु ड–ड इति भवति टकारो भटकुटकुटितटाद्येषु य–ड इति भवति टकारो कटकटक…..। च–ड इति च भवति टकारो नडकटुकुटीतडाष्वेषु ग–ड इति च भवति टकारो नटकटुटीतटाद्येषु 7 र–विससंका द–विसं संकं य–यथाहि विस संका च– यथा हि विससंका ड– तथापि ससकादेशः ढ– तथापि ससकादेः साः ।
अस्पष्टश्च दकारो भवत्यनादौ तकार इतराद्यः1 ।
2बडबातडागतुल्यो भवति 2aडकारोऽपि च ककारः3 ॥ १२
4वर्धनगते च भावे धकारवर्णोऽपि ढत्वमुपयाति ।
सर्वत्र च प्रयोगे भवति 5नकारोऽपि च णकारः ॥ १३
आपानं आवाणं भवति पकारेण वत्वयुक्तेन6 ।
7अयथातथादिकेषु तु थकारवर्णो व्रजति धत्वम् ॥ १४
8परुषं फरुसं विद्यात् पकारवर्णोऽपि फत्वमुपयाति ।
9यस्तु मृतः सोऽपि मओ 10यश्च मृगः सोऽपि हि तथैव ॥ १५
11ओकारत्वं गच्छेदौकारश्चौषधादिषु नियुक्तः ।
12प्रचलाचिराचलादिषु12a भवति चकारोऽपि 13तु यकारः ॥ १६
Abh
भद्रादिषु न भवति । अपि च चोद्रहहृददुःखादीनामिति । अत्रोदाहरणानि मुखं मुहं इत्यादिकानि । अनादौ स्थाने टकारो डकारश्च अस्पष्टो लघुप्रयत्न उच्चार्यः येन क्रमाद्दकारश्च लकाराच्छायौ भवतः । यथा उदरं उदलं तथैवेति ।
Notes
1 ड–इतराद्ये नय–इतराद्याः 2 द–वडवा र–वडवाडडाग ड– बड बडवा…..अपिलकारः 2a: N: डकारोऽपि च लकारः 3 च– वनवतोनागतुल्ये भवन्ति डकारोऽपि च लकारम् । 4 र–वर्धनगते च भावे वकारवर्णोऽपि टत्वमुपयाति ड–वधमधुशब्दे च तथा धकारवर्णोहकारतां याति । च– शटपाटपीठिआदिषु (ट) कारवर्णोऽपि ठत्वमुपयाति ग–शठपाठपीठिकादिषु ठकारवर्णोऽपि 5 च–मेकारोऽपि च णकारः 6 दर–नत्वयुक्तेन ढ–आवाणं आधाणं भवति वकारेण च धयुक्तेन । 7 र N–अयथादिकेषु तु धकार वर्णो व्रजति पत्वम् । ड–अयथातथादिषु केषु थकारवर्णो हत्वम् । र–अयथा तथादिकेषु च 8 र– परुषं हरुसं विद्यात्पकारवर्णोऽपि हत्वमुपयाति ड–परुषं हरुसं च–परुषाणा 9 र–यस्तु मृतः सोऽपि मटो द–यस्तु मृतः सोऽपि न उ च– यस्तु मृतःसोऽपिमओडियस्तु शृतःसोऽपिमऔ यस्तुमृगः सोऽपितथैव । 10 ड–यस्तु 11 र– औकारत्वमु (त्वंग?)– च्छन्ता कारश्चौषधादिषु 12 ड– प्रचयाचिर न –प्रचलायिताचल द– प्रचलाषिताचलादिषु 12 a: N: प्रचलायिताचलादिषु 13 द–च
अपरस्परनिष्पन्ना ह्येवं प्राकृतसमाश्रया वर्णाः ।
संयुक्तानां तु पुनर्वक्ष्ये परिवृत्तिसंयोगम् ॥ १७
1श्चप्सत्सथ्याः छ इति तथा भ्यह्यध्या भवन्ति तु झकाराः2 ।
3ष्टः ट्ठः, स्तः त्थः, ष्मो म्ह, क्ष्णो ह्णः, ष्णो ण्हः, क्षः 3aखकाररूपोऽपि ॥ १८
4आश्चर्यं अच्छरियं5 निश्चयमिच्छन्ति णिच्छयं च यथा6
(7वत्सं वच्छं च यथा8 अप्सरसं तद्वदच्छरअं ।)
उत्साहो उच्छाहो पथ्यं पच्छं च विज्ञेयम् ॥ १९
तुभ्यं तुज्झं मह्यं मज्झं विन्ध्यश्च भवति विंज्झोत्ति9 ।
दष्टो दठ्ठोत्ति तहा हस्तोऽपि च भवति हत्थोत्ति ॥ २०
ग्रीष्मो गिम्होत्ति 10तथा श्लक्ष्णं सण्हं11 सदा तु विज्ञेयम् ।
Abh
अपरस्परनिष्पन्ना इत्यन्योन्यमाश्लिष्टा असंयोगरूपा इत्यर्थः । यत्र संयुक्तास्तेषामिति षष्ठीबहुवचनम् । क्रमेण स्वयमुदाहरति वच्छो इत्यादि । (विपरीत इति) ब्रह्मा बम्हावत् हत्वमिति, उपरिगतोऽधस्तादिति शक्रं (? शक्रः) अर्कः (इति) द्वितीयं संयुज्यमानमपास्य स उपरिगत एव चादेशः क्रियते सक्को अक्को । मुनिना च दिग्दर्शिता, विस्तारविजिज्ञासुः प्राकृतदीपिकादिकमव–
Notes
1श्लोकार्धं द– संज्ञके नास्ति । च–झप्सश्चः छ इति तथा राज्ञै तु त्तकारयोग उपयातः (?) तच्छो अच्छरपच्छस्येचसंसंझाह्यसचसझौ(?) 2 न– व्रजति वै झत्वम् । 3 च–ष्टो ट्टो स्तोबः शेषो लक्ष्मक्ष्मो ह्ण क्ष्णः खकाररूपोऽपि । प–ष्टः ष्ठः स्थः त्थः ष्म ह्य क्षोह्णः खकारूपो हि । न –स्त त्थ, ष्टोट्ठः ष्मो म्ह क्ष्णोह्ण क्षो क्ख इति चैव स्यात् । द–ष्टः ष्ठ स्तः त्थः ष्मो ह्यः क्ष्णो ह्णः क्ष्णः ख इति चैव स्यात् । र–श्च त्सथ्याः छ इत्यह्णव्याम्वा ? भवन्ति तु झकाराः । यूष्टस्तः त्थः भ्याह्यः क्ला । ष्टाः ह्णक्षः ख इति चैव स्यात् (?) 3 a: N: ख इति च व स्यात् 4 ड– आश्चर्यामात्सर्यतं 5 न–अच्छय्यं 6 च–णिच्छयंत्ति तथा 7 इदं श्लोकार्धं–डचदरमातृकासु न विद्यते 8 य– तथा 9 र–विंज्झन्ति ड– विंझोन्ति द–विन्ध्यस्यविज्झत्ति 10 इ N–गिम्ह इति द–गिम्हत्ति 11 र–सण्हं तु सदा ॥
1उष्णं उण्हं यक्षो जक्खो पल्लंकु भवति पर्यङ्को ॥ २१
2aविपरीतं हमयोगे ब्रह्मादौ स्याद् बृहस्पतौ फत्वम्2 ।
यज्ञो भवति च जन्नो3 भीष्मो 4भिम्होत्ति विज्ञेयः ॥ २२
उपरिगतोऽधस्ताद्वा भवेत्ककारादिकस्तु यो वर्णः ।
5स हि संयोगविहीनः शुद्धः कार्यः प्रयोगेऽस्मिन् ॥ २३
6एवमेतत्तु विज्ञेयं प्राकृतं संस्कृतं तथा ।
अत ऊर्ध्वं प्रवक्ष्यामि देशभाषाविकल्पनम्7 ॥ २४
भाषाचतुर्विधा ज्ञेया दशरूपे प्रयोगतः8 ।
संस्कृतं प्राकृतं चैव यत्र पाठ्यं प्रयुज्यते ॥ २५
9अतिभाषार्यभाषा च जातिभाषा तथैव च ।
तथा योन्यन्तरी चैव भाषा नाट्ये प्रकीर्तिता10 ॥ २६
Abh
लोकयेत् । उत्पलविरचितायां च सूत्रवृत्तौ पद्धतौ च स्फुटं पूर्णं च सर्वमस्तीति तत्रादरः कार्यः ॥
संस्कृतप्राकृतरूपैव भाषा वक्तृभेदाच्चतुर्धा संपन्नेति दर्शयति संस्कृतं प्राकृतं च पाठ्यमिति । संस्कृतैव भाषा स्वरभेदादिपूर्णसंस्कारोपेता संस्कृतभाषा भाषाभेदानामुक्ता वैदिकशब्दबाहुल्यादार्यभाषातो विलक्षणत्वमस्या इत्यन्ये ।
Notes
1 ड– कृष्णं कण्हं च भवेद्यक्षो जक्खो पल्लंकपर्यङ्के ॥ द N–उष्णं च भवेदुह्णं यक्षो जक्खोति योह्णश्च भवति पल्लङ्क
1अतिभाषा तु देवानामार्यभाषा तु भूभुजाम्2 ।
3संस्कारपाठ्यसंयुक्ता 4aसम्यङ्न्याय्यप्रतिष्ठिता4 ॥ २७
5द्विविधा जातिभाषा च प्रयोगे समुदाहृता ।
6म्लेच्छशब्दोपचारा च7 भारतं वर्षमाश्रिता8 ॥ २८
अथ योन्यन्तरीभाषा 9ग्राम्यारण्यपशूद्भवा ।
नानाविहङ्गजा चैव नाट्यधर्मीप्रतिष्ठिता10 ॥ २९
जातिभाषाश्रयं11 पाठ्यं द्विविधं समुदाहृतम् ।
प्राकृतं संस्कृतं चैव चातुर्वर्ण्यसमाश्रयम्12 ॥ ३०
धीरोद्धते सललिते13 धीरोदात्ते तथैव च ।
धीरप्रशान्ते च तथा14 पाठ्यं योज्यं तु15 संस्कृतम् ॥ ३१
16एतेषामपि सर्वेषां 17नायकानां प्रयोगजम्18 ।
कारणव्यपदेशेन प्राकृतं संप्रयोजयेत् ॥ ३२
Abh
पशुपक्षिप्रभृतीनां यद्रुतं तत् नाट्यप्रयोगे कुत्राप्यवसरे संभाव्यमित्याह नाट्यधर्मीति । उपचारो व्यवहारः । कारणव्यपदेशेनेति अवस्थादिवशात् यथा– अर्जुनस्य बृहन्नलारूपेण प्रच्छन्नस्य कारणान्याहरते ।
Notes
1 द–सत्यादिभाषा देवानामार्यभाषा तु भूभुजाम् । च– अभिभाषा 2 य–भाषेति कीर्तिता भ–भाषैव सा स्मृता 3 भ– संस्कारगुणसंपन्ना 4 ड–न्यायप्रतिष्ठिता द–राज्ये प्रतिष्ठिता च –नाट्यप्रतिष्ठिता नय–संयुक्ताः…… प्रतिष्ठिताः । भ–सप्तद्वीपप्रतिष्ठिता 4a: N: सम्यङ्नाट्ये प्रतिष्ठिता 5 चद–विविधा 6 भ–म्लेच्छदेशप्रयुक्ता च 7 यन–चाराच्च 8 भद N –तथा भारतसंश्रया ड N–आश्रिताः 9 च –ग्रामारण्य 10 दय–नाट्यधर्मप्रयोगतः ड– नाट्यधर्मीप्रयोगतः भ– धर्मे प्रतिष्ठिता च–प्रयोगजाः 11 भ –आश्रितं 12 द N–चातुर्वर्ण्यादिसंश्रयम् 13 चभ–धीरललिते 14 भ–शान्तके चैव 15 ग–च 16 चढ–एषामेव नगड–एषामेवच 17 भ–गायकानां 18 ड– प्रयोगतः न–प्रयोगजा ।
(1दारिद्य्र/?/ध्ययनाभावयदृच्छादिभिरेव च ॥)
2aऐश्वर्येण प्रमत्तानां2 दारिद्य्रे/?/ण प्लुतात्मनाम्3 ।
4अनधीतोत्तमानां च संस्कृतं न प्रयोजयेत् ॥ ३३
5व्याजलिङ्गप्रविष्टानां6 श्रमणानां7 तपस्विनाम् ।
भिक्षुचक्रचराणां8 च प्राकृतं संप्रयोजयेत् ॥ ३४
9भागवततापसोन्मत्तबालनीचग्रहोपसृष्टेषु ।
स्त्रीनीचजातिषु तथा नपुंसके प्राकृतं योज्यम् ॥ ३५
परिव्राण्मुनिशाक्येषु चोक्षेषु श्रोत्रियेषु च10 ।
11शिष्टा ये चैव लिङ्गस्थाः संस्कृतं तेषु योजयेत् ॥ ३६
12राज्ञ्याश्च गणिकायाश्च12a शिल्पकार्यास्तथैव च ।
13कलावस्थान्तरकृतं13a योज्यं पाठ्यं तु संस्कृतम् ॥ ३७
Abh
ऐश्वर्येणेति श्रुताध्ययनशून्यत्वमनेन लक्ष्यते । क्रीडापीत्यन्ये । व्याजलिङ्गं ये प्रविष्टा जीविकाद्यर्थम् । चक्रचरा ये चक्रेण जीवन्ति । भागवता इह देवलकाः । उत्तमग्रहैः देवगन्धर्वादिभिराक्रान्तानां संस्कृतभाषेत्यभिप्रायेणाह नीचग्रहेति । नीचग्रहैः पिशाचादिभिरुपसृष्टेषु स्वीकृतेष्विति । नीचजातयश्चण्डालाद्याः । चोक्षा भागवतविशेषा, ये एकायना इति प्रसिद्धाः । लिङ्गस्था यतिप्रभृतयः । शिल्पकारिकाः कलासु विदग्धाः । राज्ञः स्त्री महादेवीरूपा उपचाराद्राजशब्दवाच्येति “अन उपधा लोपिन” इति ङीपि राज्ञी
Notes
1 द– सार्धः श्लोको नास्ति । म–मातृकायामेवेदं श्लोकार्धम् । 2 च–प्रमत्तस्य 2 a: N: ऐश्वर्ये तु प्रमत्तस्य; 3 च N–प्लुतस्य च ढ–दारिध्रेणाप्लुतस्य च । 4 नय N– उत्तमस्यापि पठतः (च–ब्रुवतः) प्राकृतं संप्रयोजयेत् ढ–उन्मत्तस्यापि पठतः प्राकृतं संप्रयोजयेत् 5 द– ऋतुलिङ्ग 6 ड–प्रतिष्ठानां 7 चड–श्रवणानां 8 दन–चक्रधराणां ग– चक्रचरणानां 9 अस्य श्लोकस्थाने भम–योर्विना सर्वेषु पाठो यथा–बाले ग्रहोपसृष्टे च स्त्रीणां स्त्रीप्रकृतौ तथा । नीचे मत्ते सलिङ्गे च प्राकृतं पाठ्यमिष्यते । (ग–बालग्रह) 10 भ– मुख्येषु ब्राह्मणश्रोत्रियादिषु । म –चौक्ष्येषु ॥ 11 न–द्विजा 12 भ–देव्याश्च य–राज्ञश्च 12 a: N: दिव्यायाः गणिकायाश्च 13 न–कार्यावस्था । 13 a: N: तासां कालान्तरकृतं
सन्धिविग्रहसंबन्धं 1तथा च 2प्राप्तवाग्गतिम् ।
ग्रहनक्षत्रचरितं खगानां रुतमेव च ॥ ३८
सर्वमेतत्तु3 विज्ञेयं 4काव्यबन्धे शुभाशुभम्4a ।
नृपपत्न्या5 स्मृतं तस्मात्काले पाठ्यं तु संस्कृतम् ॥ ३९
क्रीडार्थं सर्वलोकस्य 6प्रयोगे च सुखाश्रयम् ।
7कलाभ्यासाश्रयं चैव पाठ्यं वेश्यासु संस्कृतम् ॥ ४०
8कलोपचारज्ञानार्थं क्रीडार्थं पार्थिवस्य च9 ।
निर्दिष्टं शिल्पकार्यास्तु10 नाटके संस्कृतं वचः ॥ ४१
आम्नायसिद्धं सर्वासां शुभमप्सरसां वचः11 ।
संसर्गाद्देवतानां च12 तद्धि लोकोऽनुवर्तते ।। ४२
13छन्दतः प्राकृतं पाठ्यं14 स्मृतमप्सरसां भुवि15 ।
16मानुषाणां च कर्तव्यं कारणार्थव्यपेक्षया ।। ४३
Abh
यदि पुंयोगादित्यत्र अत इति वर्तते । राज्ञ्याः संस्कृते निमित्तं दर्शयति सन्धिविग्रहेति यस्माद्राज्ञः सन्धिविग्रहसंबन्धं षाड्गुण्यादि तथाग्रहनक्षत्रचेष्टितं, शुभाशुभरूपं पक्षिरुतं च शुभाशुभमितीयत्सर्वं नृपपत्न्या ज्ञेयं, तस्माद्राज्ञः सा प्रतिशरीरकल्पा कदाचित्संस्कृतयोग्यापि भवति ।
सुखाश्रयमिति । अनेन विशेषलक्षणप्रयोगादि निरस्यति । आम्नायः पुराणादिः लोकोऽनुवर्तते अनुमन्यत इति यावत् । भुवीति अवतीर्णानामिति
Notes
1 ड–संपन्नं 2 यन–चापि शुभाशुभम् ड N–अशुभं शुभम् 3 ड –एतद्धि 4 ड– कार्यबन्धे च–यस्माद्राजा 4a: N: यस्माद्राज्ञः शुभाशुभं 5 य–भवेत्पाठ्यं संस्कृतं द्विजसत्तमाः 6 प–प्रयोगस्य 7 ड–क्रीडालीलार्थकं चैव 8 ड–लोकोपचार 9 य–तु 10 ग– शिल्पिकार्ये तु ड– शिल्पकार्येषु 11 य N– सर्वेषां दिव्यानां वचनं शुभम् ड–शुभं चाप्सरसां वचः । 12 च –वै य N –हि 13 भ–छन्दसां 14 ड– वाक्यं 15 भ–अपि 16 च–मानुषीणां ।
1aन बर्बरकिरातान्घ्र 1द्रमिलाद्यासु जातिषु ।
2नाट्यप्रयोगे कर्तव्यं 3पाठ्यं भाषासमाश्रयम् ।। ४४
4सर्वास्वेव हि शुद्धासु जातिषु द्विजसत्तमाः ।
5शौरसेनीं समाश्रित्य भाषां काव्येषु योजयेत्6 ।। ४५
अथवा छन्दतः कार्या 7देशभाषा प्रयोक्तृभिः ।
नानादेशसमुत्थं हि काव्यं8 भवति नाटके ।। ४६
मागध्यवन्तिजा प्राच्या 9शौरसेन्यर्धमागधी ।
बाह्लीका दाक्षिणात्या च सप्त भाषाः प्रकीर्तिताः ।। ४७
10शकाराभीरचण्डाल11 12aशबरद्रमिलान्घ्रजाः12 ।
हीना 13वनेचराणां च विभाषा नाटके स्मृता ।। ४८
मागधी तु नरेन्द्राणामन्तःपुरसमाश्रया14 ।
चेटानां राजपुत्राणां श्रेष्ठिनां15 चार्धमागधी ।। ४९
प्राच्या विदूषकादीनां धूर्तानामप्यवन्तिजा16 ।
नायिकानां सखीनां च 17शूरसेन्यविरोधिनी ।। ५०
Abh
शेषः । शुद्धास्विति अनुलोमवशेन संस्कारवत्सु जातिष्वपीति पाठः ।
देशभाषां संक्षिप्याह मागधीत्यादि । भाषा संस्कृतापभ्रंशः, भाषापभ्रंशस्तु विभाषा सा तत्तद्देश एव गह्वरवासिनां प्राकृतवासिनां च, एता
Notes
1a: N: शबराणां किरातानां 1 य N–द्रविड 2 न N–नाट्ययोगे तु च–नाट्ययोगेषु 3 न N–काव्यं 4 न N–जातिष्वेतासु सर्वासु शुभासु च–जातिरथासु सर्वासु शुद्धाशुद्धि द्विजसत्तमाः (?) 5 च N –शौरसेनं समाश्रित्य भाषाः कार्यास्तु नाटके 6 न–भाषा कार्या तु नाटके 7 ढ–दैवी भाषा 8 ढभ–कार्यं 9 न–शूरसेना ढ– शूरसेनी 10 च–शबर 11 न–चण्डालाः 12 च –सचरद्रमिडोढ्रजाः (ग–शबर) 12a: N: शबरद्रमिडान्ध्रजाः 13 ढ– वनचराणां 14 ड–नराणां चेवान्तःपुरनिवासिनाम् न N–निवासिनाम् 15 डन–श्रेष्ठीनां 16 ड–योःसाभाषा अवन्तिजा (?) 17 न–शूरसेना भ–शौरसेनी ।
1यौधनागरकादीनां दाक्षिणात्याथ दीव्यताम्2 ।
बाह्लीकभाषोदीच्यानां खसानां च स्वदेशजा3 ।। ५१
4शकारघोषकादीनां तत्स्वभावश्च यो गणः ।
5शकारभाषा योक्तव्या 6चाण्डाली पुल्कसादिषु7 ।। ५२
अङ्गारकारकव्याध8काष्ठ9यन्त्रोपजीविनाम् ।
10योज्या 11शकारभाषा तु किंचिद्वानौकसी तथा ।। ५३
12गजाश्वाजाविकोष्ट्रादिघोषस्थाननिवासिनाम् ।
आभीरोक्तिः शाबरी वा13 द्रामिडी14a वनचारिषु14 ।। ५४
15सुरङ्गाखनकादीनां 16सन्धिकाराश्वरक्षताम्16a ।
व्यसने 17aनायकानां17 चाप्यात्मरक्षासु मागधी18 ।। ५५
Abh
एव नाट्ये तु । अन्ये तु निदर्शनार्थत्वादस्य पैशाच्यादयोऽपि प्रयोज्या इत्याहुः । नरेन्द्राणां यदन्तःपुरं तन्निवासिनामिति संबन्धः । दीव्यतामिति कितवानाम् । शकारा नीचाभिजनाः आर्थीभूतत्वेन सदर्पाः । शकाराबहुला भाषा शकारभाषा । पुल्कसो डोम्बः मृतप इत्यन्ये । वनौकसामियं वनेचरीत्यर्थः । सुरङ्गाखनकाः सन्धिन्छेदकृतः । कारा बन्धनगृहम् । व्यसनं कस्यांचिदापदि जातायां मा मां लोको ज्ञास्यतीत्यभिप्रायेणात्मनो रक्षार्थं नायकोऽपि मागध्या व्यवहरेत् । द्रमिडकादि पूर्वविधानादिनिषेधो विशिष्टे ष्विति पर्यन्तवा–
Notes
1 च–योध ड–यौधनागरिक य– यौधानां गरकादीनां 2 ड–च दीप्यतम् भ–दीयताम् 3 ड–खस्थानां च स्वदेशजा न–खषाणां च स्वदेशजा खसानां चैव भूमिषु । 4 च–शबराणां शकादीनां ड– शकाराणां शकादीनां 5 च–सकार 6 ड–पाञ्चाली य–चण्डाली 7 न–पुत्कसादिषु 8 च–कारव्याधानां 9 ड–पत्र 10 भ–ज्ञेया 11 ड N–शबर 12 च–गवाश्व ड– गजाश्वश्वाविक 13भ– च ड–स्यात् 14 च–द्रमिलादिषु 14a: N: द्रमिडादिषु 15 ड– सुरङ्गवनकादीनां । 16 च–सोण्डीकायाश्च रक्षिणाम् ड– औष्टिकाणां च रक्षतां न–औष्ट्रीकाराञ्चरक्षताम् । ढ– औढ्रिकारसरक्षसाम् । 16a: N: मौद्गीकानांश्च रक्षिता 17 च–स्यात् ड–नायिकादीनां 17a: N: नायकादीनां 18 भ–योजयेत् ।
न बर्बरकिरातान्घ्र1 द्रमिलाद्यासु1a जातिषु ।
नाट्यप्रयोगे कर्तव्यं काव्यं भाषासमाश्रितम्2 ।। ५६
गङ्गासागरमध्ये तु ये देशाः संप्रकीर्तिताः3 ।
4एकारबहुलां4a भाषां तेषु तज्ज्ञः प्रयोजयेत् ।। ५७
विन्ध्यसागरमध्ये तु ये देशाः श्रुतिमागताः ।
5नकारबहुलां तेषु भाषां तज्ज्ञाः प्रयोजयेत् ।। ५८
सुराष्ट्रावन्तिदेशेषु6 वेत्रवत्युत्तरेषु च7 ।
7aये देशास्तेषु कुर्वीत चकारप्रायसंश्रयाम्8 ।। ५९
8aहिमवत्सिन्धुसौवीरान्ये जनाः समुपाश्रिताः9 ।
10उकारबहुलां 11तज्ज्ञस्तेषु भाषां प्रयोजयेत् ।। ६०
12चर्मण्वतीनदीतीरे13 ये चार्बुदसमाश्रयाः14 ।
15ओकारबहुलां नित्यं तेषु भाषां प्रयोजयेत् ।। ६१
एवं भाषाविधानं तु कर्तव्यं नाटकाश्रयम् ।
16अत्र नोक्तं मया यत्तु17 लोकाद् ग्राह्यं बुधैस्तु तत्18 ।। ६२
Abh
सिषु द्रमिडेषु द्रष्टव्यो, बर्बरान्ध्रादिसाहचर्याद् भाङ्गेल( ?जाङ्गल)देशादिगतेषु । गङ्गासागरमध्य इति पूर्वदेश उपलक्षितः ।
विन्ध्यसागरमध्य इति दक्षिणसौराष्ट्राः । सुराष्ट्रावन्तिदेशेष्विति पश्चिमः वेत्रवत्यादिनोत्तरः । वाक्यविधानमित्येके नापि पदेन सकलो वाक्यार्थः स्फुटी–
Notes
1 भ– किरातोढ्र 1a: N: द्रमिडाद्यासु 2 भ–समन्वितम् च–समाश्रयम् 3 न–संप्रवर्तिताः 4 भ– षकार 4a: N: मकारबहुलां; 5 भ–तकार ढ– शकारबहुलां तेषां 6 ढ–तु 7 ड–अन्तरेषु च 7a: N: देशास्तेषु प्रकृर्वीत; 8न–चकारबहुलामिव च N–चकारबहुलामिह 8 a: N: हिमवान् 9 न N–ये च देशान् समाश्रिताः ड–ये च देशाः समाश्रिताः 10 ड–ओंकार भ–ढकार म–थकार न–ओकार 11 ड–तज्ज्ञैः 12 ड– सरस्वतीनदीतीरे पारियात्रार्बुदाश्रिताः 13 च–पारे 14 च–समाश्रिताः 15 च–तकार य –औकर ड–ओंकार 16 ड–अथ 17 च–यच्च 18 भ –तथा न –यत्
1aएवं भाषाविधानं तु मया प्रोक्तं द्विजोत्तमाः1 ।
पुनर्वाक्यविधानं2 तु लौकिकं संनिबोधत ।। ६३
उत्तमैर्मध्यमैर्नीचैर्ये संभाष्या यथा नराः ।
3समानोत्कृष्टहीनाश्च नाटके तान्निबोधत ।। ६४
देवानामपि ये देवा महात्मानो महर्षयः ।
भगवन्निति ते वाच्या यास्तेषां4 योषितस्तथा ।। ६५
देवाश्च लिङ्गिनश्चैव नानाश्रुतधराश्च ये5 ।
भगवन्निति ते वाच्याः पुरुषैः स्त्रीभिरेव च ।। ६६
आर्येति ब्राह्मणं ब्रूयान्महाराजेति पार्थिवम्6 ।
उपाध्यायेति चाचार्यं वृद्धं तातेति चैव हि ।। ६७
7नाम्ना राजेति वा वाच्या ब्राह्मणैस्तु नराधिपाः ।
8तत्क्षाम्यं हि महीपालैर्यस्मात्पूज्या द्विजाः स्मृताः9 ।। ६८
ब्राह्मणैः सचिवो वाच्यो10 ह्यमात्य सचिवेति वा11 ।
शेषैरन्यैर्जनैर्वाच्यो हीनैरार्येति नित्यशः ।। ६९
Abh
क्रियते, अन्योन्यरूपता नीयत इत्यभिप्रायेण वाक्यग्रहणं पदविधानं हि भविष्यति । देवानां देवाः स्तुत्याः । तथेति स्त्रीत्वेन भगवतीति । नानाश्रुतधराः बहुश्रुताः । क्षाम्यमित्यङ्गीकर्तव्यम् । सचिव इति राज्ञो मन्त्री ।
Notes
1a:N: इति भाषाविधानं तु कर्तव्यं नाटकाश्रयम् 1 म– तथैव च । अत्र दसज्ञंकमातृकायां विना जादिबान्तासु यमातृकायां च अष्टादशोऽध्यायः, यथा “इति भारतीये नाट्यशास्त्रे भाषाविधानं नामाष्टदशोऽध्यायः” इति । भ–यथावद् द्विजसत्तमाः 2 न–वाक्यप्रचारं च–वाक्यविचारं म–वाक्योपचारं 3 म–समानो वाल्पहीनो वा 4 भ–चैषां ड– यास्तासां 5 न–स्मश्रुधराश्च ड–श्रुतिधराश्च भ–व्रतधराश्च 6 न–पार्थिवः 7 च N–छन्दतो नामभिर्वाच्या 8 म N– तत्क्षाम्यं तु ढ– तत्क्षन्तव्यं 9 य N– द्विजोत्तमाः 10 ड–सचिवैर्वाच्यं न–भाष्यो 11 भ– वै.
समैः संभाषणं कार्यं येन नाम्ना स संज्ञितः ।
हीनैः 1सपरिवारं तु नाम्ना संभाष्य उत्तमः ।। ७०
नियोगाधिकृताश्चैव2 पुरुषा 3योषितस्तथा ।
कारुकाः शिल्पिनश्चैव संभाष्यास्ते तथैव हि4 ।। ७१
5मार्षो भावेति वक्तव्यः किंचिदूनस्तु मार्षकः6 ।
समानोऽथ7 वयस्येति 8हं हो हण्डेति वाधमः9 ।। ७२
आयुष्मन्निति वाच्यस्तु रथी सूतेन सर्वदा10 ।
11तपस्वीति प्रशान्तस्तु साधो इति च शब्द्यते12 ।। ७३
स्वामीति युवराजस्तु कुमारो भर्तृदारकः ।
सोम्य भद्रमुखेत्येवं हे पूर्वं चाधमं वदेत् ।। ७४
Abh
सपरिवारं नाम्नेति उत्तमो राजा हीनैः स्वनाम परिगृह्य, यद्यन्नाम वत्सराज सोमवंशमौक्तिकमणे इत्यादि तेन, भाष्यः । सपरिहासमिति वा पाठः परिहासः परितोषोपलक्षणं तेन चाटुकारादि परितोषावसरे हीनैरपि राजा नाम्ना संभाष्यः । “उदयने महीं शासति को विपदामवकाशः” इत्यादौ । कारुकाः स्तूपकारादयः शिल्पिनश्चित्रकारादयः । भावेत्यामन्त्रणं विवक्षितमित्यन्यविभक्त्यन्तो न प्रयोज्य इत्येतत्त्वयुक्तम् । वयस्येत्येवमादावपि प्रसङ्गात्संभाषणापक्रमकृताद्यामन्त्रणविभक्तिः सर्वत्र विवक्षितैव । अधमैर्जनैः समानोऽधम एव, हंहो हण्डे इति वा संभाष्यः । चकाराद् विनापि
Notes
1 च–शपरिहारं तु ढ– सपरिहासं भ– सपरिचारं तु वाच्यं नामोत्तमस्य तु 2 च N–ये तु 3 भ–याः स्त्रियः 4 ढ–च 5 च–मर्षो म –मान्यो 6 च–मर्षकः ग –मारिषः 7 ड– हि 8 च– हंहोहन्तेति ड– होहंवा इति 9 न –चाधमैः ढ– हंहोतिवाधम 10 ड– सूते तु सर्वथा 11 न– तपस्वी च प्रशान्तः सं साधो इति हि ड– तपस्वी च प्रसन्नश्च 12 भ–शब्दितः 13 भ–वाच्यं पूर्वेण चापरम् च–वाधमं वदेत् ।
यद्यस्य कर्म शिल्पं वा विद्या वा जातिरेव वा ।
स तेन नाम्ना 1भाष्यो हि नाटकादौ प्रयोक्त्तृभिः2 ।। ७५
वत्स पुत्रक तातेति नाम्ना गोत्रेण वा पुनः ।
वाच्यः शिष्यः सुतो वापि पित्रा वा गुरुणापि वा3 ।। ७६
संभाष्या शाक्यनिर्ग्रन्था 4भदन्तेति प्रयोक्तृभिः ।
आमन्त्रणैस्तु पाषण्डाः 5शेषाः स्वसमयाश्रितैः ।। ७७
देवेति नृपतिर्वाच्यो भृत्यैः प्रकृतिभिस्तथा6 ।
भट्टेति सार्वभौमस्तु नित्यं परिजनेन तु7 ।। ७८
राजन्नित्यृषिभिर्वाच्यो ह्यपत्यप्रत्ययेन वा8 ।
वयस्य राजन्निति वा भवेद्वाच्यो महीपतिः ।। ७९
विदूषकेण राज्ञी च चेटी च भवतीत्यपि ।
नाम्ना वयस्येत्यपि वा राज्ञा9 वाच्यो विदूषकः ।। ८०
सर्वस्त्रीभिः 10पतिर्वाच्य आर्यपुत्रेति यौवने ।
अन्यदा पुनरार्येति 11महाराजेति भूपतिः ।। ८१
Abh
हेशब्देन । कर्म पाकादि, विद्या त्रय्यादि । जातिर्गोत्रं देशो वा । शाक्याः सौगताः, निर्ग्रन्थाः क्षपणकाः । शेषाः पाषण्डा इति पाशुपतादयः । स्वसमयो यथा पाशुपतानां भापूषन् , भासर्वज्ञ, इत्यादि संभाषणम् तथा क्वचिद्वाक्यादिशब्देन । अपत्यप्रत्ययेनेति कौरवेत्यादिना महाराजेति । यौवनादन्यत्रार्यपुत्रेति श्वशुरेण व्यपदेशः, तस्य यौवनं शृङ्गारोचितमुक्तं भवति ।
Notes
1 द N–संभाष्यो 2 भ–नाटकादिषु योक्त्तृभिः 3 भ–नाटके नाटयकोविदैः 4 ड–भद्रं ते 5 ड– शेषास्तु द– भूराययाश्रितैः (?) च–स्वय उपश्रितैः (?) 6 द–परिजनेन वा 7 द N–ह 8 न–तु 9 द–अथवा राज्ञा न– राज्ञो 10 म–पतिर्वाच्यो ह्यार्य 11 ड– वाच्यो ।
आर्येति पूर्वजो भ्राता वाच्यः पुत्र इवानुजः ।
1[योषिद्भिरथ काम्येति राजपुत्रेति योधनैः ।।] ८२
पुरुषाभाषणं ह्येवं कार्यं नाटये प्रयोक्त्तृभिः ।
पुनः स्त्रीणां प्रवक्ष्यामि यथाभाष्यास्तु नाटके2 ।। ८३
तपस्विन्यो देवताश्च वाच्या भगवतीति च3 ।
4गुरुभार्या तु वक्तव्या स्थानीया भवतीति च ।। ८४
5गम्या भद्रेति वाच्या वै वृद्धाम्बेति च6 नाटके ।
7राजपत्न्यस्तु संभाष्याः सर्वाः परिजनेन वै8 ।। ८५
9aभट्टिनी स्वामिनी देवी त्येवं वै9 नाटके बुधैः ।
देवीति महिषी वाच्या राज्ञा परिजनेन वा10 ।। ८६
11भोगिन्यः परिशिष्टास्तु स्वामिन्य इति वा पुनः ।
कुमार्यश्चैव वक्तव्याः प्रेष्याभिर्भर्तृदारिकाः ।। ८७
स्वसेति भगिनी वाच्या 12aवत्सेति च यवीयसी12 ।
ब्राह्मण्यार्येति वक्तव्या लिङ्गस्था व्रतिनी च या ।। ८८
Abh
अनुजो ज्येष्ठेन पुत्रवत् वत्स तात पुत्रकेति संभाष्यः । पुरुषाभाषणमिति भूयस्त्वाक्षेप उपसंहारः । स्त्रीसंभाषणं त्वपि मध्ये निरूपितं तपस्विन्य इति पूर्वं तेषां योषित इति, अत्र स्वयमतपस्विन्योऽपीत्युक्तमिति न पुनरुक्तम् । गुरुभार्या मान्या अन्या वा स्त्री, स्थानीया पूज्या ईषद्वृद्धा । पत्नीति सहधर्म–
Notes
1 भ– मातृकायामेव 2 द N–च वक्ष्यामि संभाषं नाटकाश्रयम् (भाषां नाटकाश्रयाम्) 3 ढ–ह 4 भ–गुरुरार्येति ड–गुरुभार्या च 5 द–ग्राम्या भद्रेति वक्तव्या 6 ड–वृद्धा वाच्येति 7 भ–राजपुत्र्यस्तु ड–राजपत्न्यश्च 8 च N–तु 9 द– स्वामिनीत्येवं सर्वदा 9 a: N: भट्टिनी स्वामिनीत्येवं नाटके नाटके बुधैः । 10 द– च च –तु 11 य N–भोगिन्य इति शेषास्तु द– भट्टिन्य इति शेषास्तु ड– भोगिन्य इति शेषा हि प– भोगिन्य इति शेषाभिः 12 ड– ज्येष्ठा वत्सेति सानुजा (ढ–चारजा) न– वत्सा चेतीह सर्वदा द–वत्सा वेतीह सर्वथा । 12 a: N: वत्सा वेतीह सर्वदा ।
पत्नी चार्येति संभाष्या पितृनाम्ना सुतस्य वा1 ।
समानाभिस्तथा सख्यः हलेति1a स्यात्परस्परम्2 ।। ८९
प्रेष्या हञ्जेति वक्तव्या स्त्रिया यतूत्तमा भवेत् ।
अज्जुकेति 3च वक्तव्या वेश्या परिजनेन च4 ।। ९०
5अत्तेति गणिकामाता वाच्या परिजनेन हि ।
प्रियेति भार्या श्रृङ्गारे वाच्या राज्ञेतरेण वा ।। ९१
पुरोधः सार्थवाहानां भार्यास्त्वार्येति सर्वदा6 ।
7तल्लिङ्गार्थानि नामानि कार्याणि कविभिः सदा8 ।। ९२
औत्पत्तिकानि यानि 9aस्युरप्रख्यातानि9 नाटके ।
ब्रह्मक्षत्रस्य नामानि गोत्र10कर्मानुरूपतः ।। ९३
काव्ये कार्याणि कविभिः शर्मवर्मकृतानि हि11 ।
दत्तप्रायाणि नामानि 12वणिजां संप्रयोजयेत् ।। ९४
[13कापालिकास्तु घण्टान्तनामानः समुदाहृताः] ।
Abh
चारिणी, अत एव नटी नाटयवेदमह्मसत्रदीक्षितेन सूत्रधारेणार्येणार्ये इत्यामन्त्र्यते । पितृनाम्नेति माठरपुत्री । सुतस्येति सोमशर्मजननी । वेश्या स्वेन परिजनेन अज्जुके इति संभाष्या ।
सर्वदेति यौवनेऽपि पुरोहितादिभिरार्येति भार्या वाच्या । औत्पत्तिकानीति स्वयं वा येन कल्प्यन्ते, अत एवाख्यातानि तल्लिङ्गार्थानि प्रकृतार्थसूचकाभिधेययुक्तानि कार्याणि । एतदेव निदर्शनेन स्फुटयति ब्रह्मक्षत्रस्येत्यादिना ।
Notes
1 a: N: हलेति 1 द– सा 2 च–सख्यो हला भाष्याः परस्परम् 3 N भवेद्वाच्या 4 द N–तु 5 ग–या त्वत्र वृद्धा सात्वत्ताभाष्या परिजनेन तु 6 भ– नित्यशः न–भार्या त्वार्येति सर्वदा ड– नार्यस्त्वार्येति सर्वदा द– अर्यातु सर्वदा 7 भ– तल्लिप्सार्थानि ढ– तल्लिङ्गस्थानि 8 द–द्विजाः 9 द –न प्रख्यातानि ड– न प्रत्याख्याति 9 a: N: न प्रख्यानीति [प्रख्या[ता]नीति?] 10 प–धर्म 11 भ–शर्मवर्मेति तानिहि द–तु ड–च 12 च–वणिजां तु न–वणिजानां 13 द–मातृकायामेव
1शौर्योदात्तानि नामानि तथा शूरेषु योजयेत्2 ।। ९५
विजयार्थानि नामानि राजस्त्रीणां तु नित्यशः3 ।
दत्ता मित्रा च सेना च4 वेश्यानामानि योजयेत्5 ।। ९६
नानाकुसुमनामानः प्रेष्याः कार्यास्तु नाटके ।
मङ्गलार्थानि नामानि चेटानामपि योजयेत्6 ।। ९७
गम्भीरार्थानि नामानि ह्युत्तमानां प्रयोजयेत्7 ।
8यस्मान्नामानुसदृशं कर्म तेषां भविष्यति ।। ९८
जातिचेष्टानुरूपाणि शेषाणामपि योजयेत्9 ।
नामानि पुरुषाणां तु स्त्रीणां चोक्तानि तत्त्वतः ।। ९९
एवं 10नामविधानं तु कर्तव्यं कविभिः सदा11 ।
Abh
शौर्योदात्तानीति भीमपराक्रम इति यथा । विजयार्थानीति शुभलक्षणविजयवतीत्यादीनि । देवदत्तावसन्तसेनाविदग्धमित्रेत्यादि वेश्यानाम् । नानाकुसुमनामानीति मालतीमल्लिकेत्यादि कुसुमग्रहणं तन्मञ्जर्याद्युपलक्षणं चूतलतिकेत्याद्यपि हि दृश्यते नाम । मङ्गलार्थानीति सिद्धार्थका इत्यादीनि । गम्भीरार्थानि अक्षोभ्य इत्यादीनि । नास्ति संकेतको भार इत्याशयेन पृच्छति अत्रोत्तरं नामानुरूपमिति । नाम किलेश्वरेच्छावशात्स्वरूपक्रोडीकारेणैव जायते । तथा हि नामाक्षरे ग्रहाभिचारयन्त्रकर्मादिपीडिते शान्तिकपौष्टिका– द्युपचारभाजि वा तथैव पुरुषस्य फलोदय इत्यभिप्रायः । कवित्वयुक्तो नट
Notes
1 दमातृकायां न वर्तते । 2 भ N –शूरे प्रयोजयेत् 3 य–राज्ञां स्त्रीणां च कारयेत् द– तु कारयेत् च–च कारयेत् 4 ड–सेनेति भ– दत्तां मित्रां च सेनां च 5 द –कारयेत् ग– मित्राणि कारयेत् 6 न–कारयेत् 7 न N– योजयेदुत्तमेषु च (ढ–तु) 8 द–कस्मान्नाम्ना तु न N– कस्मात् 9 न–कारयेत् 10 द–नामाभिधानं 11 न–विधानस्य कविभिस्तथा ड N– अथ ।
1एवं भाषाविधानं तु ज्ञात्वा कर्माण्यशेषतः2 ।। १००
ततः पाठयं प्रयुञ्जीत षडलङ्कारसंयुतम्3 ।
पाठयगुणानिदानीं वक्ष्यामः । 4तद्यथा सप्तस्वराः, त्रीणि स्थानानि, चत्वारो वर्णाः, द्विविधा काकुः, षडलङ्काराः, षडङ्गानीति4a । एषामिदानीं 5लक्षणमभिव्याख्यास्यामः
Abh
इत्यभिप्रायेणाह भाषाविधानं ज्ञात्वा, तत इति तत्परिज्ञातपूर्वकं काव्यं कृत्वा प्रयोगे पाठयं प्रयुञ्जीतेत्यर्थः । यदि त्वन्यः कविस्तदा पाठ्यस्य संज्ञा च मूलभूतत्वात् प्रयोक्त्तृत्वेनोक्तो द्रष्टव्यः । षडलङ्कारसंयुतमिति स्वरस्थानवर्णकाक्वलङ्काराङ्गानि षट् अत्रालङ्कारशब्देन विवक्षितानि, एतैर्हि भूषितं काव्यं पाठ्यमुच्यते ।
एवं हि वक्तव्यत्वमुपादानस्य यदि सकलस्वविवक्षाविशिष्टार्थप्रतिपादकत्वं पठनार्हं च पाठ्यं तत्स्वराद्यायत्तं सर्वमिति । अत एवाह पाठ्यगुणानिति गुणाः उपकारकाः, यदुपकृतं काव्यं पाठ्यं भवतीत्यर्थः ।
उद्देशक्रमेण व्याचष्टे तत्रेत्यादि । स्वरगतं वितत्य गेयाधिकारे प्रकट– यिष्यामः । इह काकुषु स्वरा एव वस्तुत उपकारिणः । तत्परिकर भूतं तु स्थानादि स्वरेषु प्रकृतिभूतेषु काकुरूपता जन्यते । तत्र स्थानशब्देनैषां स्वरूपनिष्पत्तेराश्रयो दर्शितः । अदात्तानुदात्तस्वरितकम्पितरूपतया स्वराणां यद्रक्ति– प्रधानत्वमनुरणनमयं तत्त्यागेनोच्चनीचमध्यमस्थानस्पर्शित्वमात्रं पाठयो– पयोगीति दर्शितम् । यदि हि स्वरगता रक्तिः पाठ्ये प्राधान्येनावलम्ब्येत तदा गानक्रियासौ स्यात्, न पाठः । पूर्णस्वरत्वाभावादङ्गानां भेद इति चेत्,
Notes
1 द–एवं भाषाविधानानि च– एवं भाषाविधानादि । भ–भाषाविधानं विज्ञेयं ततः प्रकृतिसम्भवम् । ततः पाठ्यस्य वक्ष्यामि गुणांश्च द्विजसत्तमाः । स्वरैः षड्जादिभिर्युक्तं नानारससमन्वितम् । तद्यथा– य–एवं भाषाविभावादि 2 च–सर्वमशेषतः प–सर्वविशेषतः 3 न–संश्रयम् 4 न–तथा 4a: N: ‘इति’ not read in ‘N’ 5 भ–लक्षणानीति म N– लक्षणान्यभिव्याख्यास्यामः न–लक्षणान्यभिधास्यामः ।
तत्र सप्तस्वरा नाम1a–षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाः । त एते रसेषूपपाद्याः । 1यथा–
Abh
न, अपूर्णस्वरत्वेऽपि गानत्वप्रतिज्ञानात्, षाडवौडुवितयोः त्रिचतुरस्वरत्वेऽपि गानप्रतीतिर्भवत्येव, यथा कृत्रिमवंशिकायां त्रैस्वर्यै, भिन्नषङ्जभाषायां च कालिन्द्यां चातुस्स्वर्ये । तस्माद्गानवैलक्षण्याय रक्तिलक्षणं धर्ममनादृत्योच्चादिस्थानस्पर्श एवात्र प्रधानमिति वक्तुं वर्णोपादानम् । अन्यथा स्वरसप्तकातिरिक्तास्योदात्तादेर्भावादनर्थकं तदुपादानम् ।
यत्तु किंचिदुदात्तादिधर्माणां गात्रस्य निग्रहः कण्ठविवरस्य संवृतेत्यादिशिक्षापाठितोदात्तादिधर्मप्रोप्तेरुच्चारुच्चाद्यलङ्कारेषु यथा स्यादिति प्रयोजनमुक्तं, तत्राप्यस्मदुक्तं चेन्न प्रयोजनं किं तद्धर्मप्राप्त्या कृत्यमिति न विद्मः ।
नन्वेवं स्वराभिधाने किं प्रयोजनं, उच्यते–प्राणभूतं तावद्ध्रुवागानं प्रयोगस्य, तत्र जात्यंशकविनियोगो भविष्यति तदिदानीं पाठावसरे किं सर्वथैव त्यक्तव्यमित्याशङ्काशमनाय तत्स्थायिस्वराश्रयणं प्रमुखीकृत्य पाठः कर्तव्य इत्येतत्स्वराभिधानस्येह प्रयोजनम् ।
एवमुपगानवैलक्षण्ये संपन्ने बाह्यार्थसमर्पणेन चित्तवृत्तिसमर्पणया वाभिनयानुभावरूपतालाभाय काकुरर्थरसभेदेनाभिधीयते । तत एव काकुरूपत्वमेव सर्वत्रानुयायि, अतिशायित्वे (? अभिनयत्वे तु)1 मुख्योपयोगात् । तथा चोच्चदीप्ताद्यलङ्कारेष्वप्युत्तरत्र काकुशब्देनैव मुनिर्व्यवहरिष्यति । काकोरेवोपकारसंपादकाः (? काकोरेव हि प्रकारसंपादकाः)2 परिपूर्णतायायिनो (? धायिनो)3ऽलङ्काराः, अलमिति पर्याप्त्यर्थः, इह (? प्राप्त्यर्थ इति) न भूषणार्थः । अङ्गानि तु विच्छेदादीनि रसमर्थं शोभादि कर्म(शोभादिकं ?)4 च पोषयितुं काकोरेवोपकारीणीति, एवं परमार्थतः काकुरेवांय (?काकुरेवेयं)5 पञ्चमी रूपान्तरै (रैः ?) पूर्णीक्रियते । काक्का च पठ्यमानस्य स्वोचितचिज्जडस्वरूपार्थाभिमुख्येन नयनेनाभिनयता (? भिमुख्यानयनेनाभिनयता दीयत इति)6 नीयत इति काकुरेवात्र प्रधानम् । तथा चैतदध्यायान्ते चोपसंहरिष्यति उक्तं काकुविधान’’ मिति । अन्यथाङ्गषट्कमध्यपतितस्योपसंहारोऽन्याङ्गनिरूपणं चाभिधानमिति सर्वमसमञ्ञसं स्यात् । तस्मात्काकुरेवात्र प्रधानमिति उपाध्याया हि वचनस्य सङ्केतितमर्थमन्यथाकारं समर्थयन्ति ।
ननु श्रुतमर्थमनादृत्य कथं काकुरेवं कुर्यात् । तत्रोक्तमन्यैः वस्तुस्वभावोऽत्र द्रष्टव्यो न हि दृष्टेऽनुपपन्नं नामेति । वयं तु ब्रूम–इह येयं प्रथमेन
Notes
1 भ–तद्यथा । 1a: N: ‘नाम’ not read in ‘N’ 1, 2, 3, 4, 5, 6 हेमचन्द्र, काव्यानुशासन, पृ. ३३४, Edn. Parikh & Kulkarni
हास्यशृङ्गारयोः कार्यौ स्वरौ मध्यमपञ्चमौ1 ।। १०१
षड्जर्षभौ 2तथा चैव वीररौद्राद्भतेष्वथ3 ।
4गान्धारश्च निषादश्च कर्तव्यौ5 करुणे रसे ।। १०२
धैवतश्चैव कर्तव्यो बीभत्से6 सभयानके ।
7त्रीणि स्थानानि –उरः कण्ठः शिर इति । 8भवत्यपि च–
Abh
संवित्स्पन्देन प्राणोल्लासनया वर्णादिरूपविशेषहीना वाग् जन्यते सा नादरूपा सती हर्षशोकादिचित्तवृत्तिं विधिनिषेधाद्यभिप्रायं वा तत्कार्यलिङ्गतया वा तादात्म्येन वा* श्रुत्यन्तादि (?) गमयतीति तावत्स्थितम् । तथा च प्राण्यन्तरस्य मृगसारमेयादेरपि नादमाकर्ण्य भयरोषशोकादि प्रतिपद्यते, तदयं नादाञ्चित्तवृत्त्याद्यवगमोऽनुमानं तावत् । ये त्वेते वर्णविशेषास्ते तन्नादरूपसामान्यात्मकपदतन्नु (? पदतन्तु वाक्तन्तु ?)ग्रन्थिमया इव प्राच्यप्रया (? य)त्नातिरिक्तनिमित्तान्तरापेक्षाः, तत एवान्यत्रानभिप्रेते(? एवान्यत्राभिप्रेते)1ऽन्यथापि प्रयोक्तुं शक्याः, अत एव दृष्टव्यभिचाराः । नादस्तु झाटित्युद्भिन्नमुखरागपुलकस्थानीयो नान्यथासिद्धोऽन्यथासिद्धं शब्दार्थं बाधत एव वा2 । यथोक्तं “भीरु न मे भयं” इति ब्रुवन्नाशयते भयमित्यन्यप्रकारतां वा वाक्यार्थस्य विशेषार्पणेन विधत्ते । एतच्च वक्ष्यामोऽग्न इत्यास्तां तावत् । सर्वथा पाठ्ये काकुः प्रधानमिति स्थितम् । अत्र हास्यशृङ्गारयोरित्यादिना जात्यंशकविनियोगं भविष्यन्तमनुवदंस्तद् द्रुत(? तद् गत) स्थायिस्वरानुसारेण काकोः प्रयोग इति दर्शयति ।
अथैषां स्वराणामाश्रयान् दर्शयति त्रीणि स्थानानीति । ननु पाठावसरे वर्णा यत्र मूर्धास्तत्र कथमुरः स्थानस्वरनिष्पत्तिः, एवमन्यत्र वाच्यम् । उक्तं मन्द्रनादात्मिकाया वाचः स्वरसप्तकं रूपं, सा चोरःस्थाननिष्पन्ना सती मूर्धानमभिघ्नन्ती मूर्धन्यं वर्णं तद्रूपं मन्द्रस्वरानुविद्धं दर्शयति । न च मूर्धस्थानत्वेऽपि तस्योच्चताकृतं तारत्वमापद्यते । अन्यदेव हि वर्णनिष्पत्तिस्थानं, मूर्धान्तर्वर्त्यनुविवरमात्रं स्थानान्तरम् । स्वरानिष्पत्तिस्तु विततवितते मूर्ध–
Notes
1 भ–पञ्चमध्यमौ 2 भ–च कर्तव्ये 3 ड–तु 4 भ–निषादश्चैव गान्धारः करुणेसंविधीयते 5 प–कर्तव्यः 6 प–बीभत्सेकर्तव्यः 7 ड–त्रीणि स्थानान्युरः कण्ठशिरांसीति भवन्त्यपि 8 भ–भवति चात्र श्लोकः । *‘श्रुत्यन्तादि’ इति पदं हेमचन्द्रेण (का.शा.पृ. ३३७, पं. १२) न पठितम् । अत्रापि तत् अनावश्यकमिति लक्ष्यते । VMK 1 हेमचन्द्र–पृ ३३७, पं. १९; 2 तुलना–नादस्तु झटित्युद्भिन्नमुखराग–पुलक–स्थानीयो नान्यथाकर्तुं पार्यत इत्यनन्यथासिद्धोऽन्यथासिद्धं शब्दार्थं बाधत एव वा । हेम पृ. ३३७, पं. २०–२१
शारीर्यामथ वीणायां त्रिभ्यः स्थानेभ्य एव तु1 ।
2उरसः शिरसः कण्ठात्स्वरः काकुः प्रवर्तते । १०४
Abh
काये निष्पद्यमाना तारत्वं संपादयन्ती एवं तारमन्द्रमध्यता सवर्णानां सर्वं (स्वर ?) स्थानभेदसंपाद्यमानवपुषामप्युपपद्यते । तत्र स्वरग्रहणादेवाक्षिप्ते स्थानभेदे पुनः स्थानोपादानं षट्षष्टिस्थानभेदनिवृत्त्यर्थम् । तथा ह्युरःस्थाने द्वाविशंति स्थानानि यत्र श्रुतयः स्वराश्च । एवं कण्ठे मूर्ध्नि च । तावतां च स्पर्शे स्फुटं गानमेव स्यात्, न पाठ्यामित्यवोचाम । अत एव गुणशब्दो न धर्मवचनः पाठ्यगुणानिति, किं तु उपकरणवचनस्थानं च यदेवोपकरणं भवति । अपि च शारीर्यामथ वीणायामित्यादि केचिद् व्याचक्षते–इहार्थकाकुस्तावद्विधिनिषेधाद्यर्थावगमिका, स्वरकाकुस्तु चित्तवृत्तिसूचिका । एतद्व्यापारद्वयशून्या नेपथ्यपाठ–वैतालीयपाठादिविषया दूरस्थाभाषणादिविषया च शोभासंपादनदूरश्रवणादिप्रयोजना स्वरकाकुः सा तेन वक्ष्यत इति । एवं प्रष्टव्यास्तावत्– योऽयं स्वरकाकोर्विषय उक्तस्तत्र यद्यर्थरूपं किंचिदभिधेयं तत्रावश्यमर्थकाकोर्वा पृथक्स्वरकाकुः । तथा हि नेपथ्यपाठेऽपि कञ्चुकी पठति ‘वीरोऽयमङ्गदः पठति, ‘यौगन्धरायणः पठति’ इति, एवं भूतवृत्तचित्तवृत्त्यादिविशेषप्रतिपादकेनैव पाठेन भवितव्यम् । वैतालीयपाठेऽपि समुचितावसरावेदनप्रधानेऽवश्यमर्थ आदातव्य एव । उक्तं चैतत्– अर्थानपेक्षया किमभिनयनमन्यचिन्तया, पुस्तकवाचकपाठो ह्यनुक्रियमाणोऽभिनयतामवलम्बते । अन्यथाभिनयरूपत्वाभावे तदुपकरणधर्म्यादितत्फलरसादिव्यतिरिक्तत्वे स्वरातोद्यगानादिवैलक्षण्ये च चिन्तयैव किं प्रयोजनमिति । न स्यात्काकुसामान्यलक्षणमेतेन किं घटत इत्यन्ये । एवमपि भवतीत्यसमर्थितं स्यात् तद्धि पूर्वप्रकान्तवस्तुसमर्थनेन प्रयुज्यत इति मुनेः शौली । तस्मात्पूर्वोक्तस्थानत्रयसमर्थनार्थोऽयं श्लोकः । तदयमर्थः– शारीर्यां वीणायां केवलमुरःशिरःकण्ठलक्षणेभ्यः त्रिभ्य एव स्थानेभ्यो, न तु षट्षष्टिस्वरपरिव्यक्तरञ्ञनात्मकगानोपयोगिव्यापारः काकुभूतः सूचकरूपः संप्रवर्तते ।*
अथशब्दोऽवधारणे । बाह्यायां हि प्रतिबिम्बितायां वीणायां रञ्ञना– त्मकखरस्वरूपव्यतिरेकेण न काकुसंपत्तिः । वीणाग्रहणं शरीरगतविवृतमध्या–
Notes
1 ड–च 2 ड–उरसा शिरसा । *तुलना–हेमचन्द्र, का. शा. पृ ३३४/पं. २०–२३: शारीर्यां वीणायां केवलमुरः शिरःकण्ठलक्षणेभ्यस्त्रिभ्यः एवं स्थानेभ्यो न तु (? षड्षष्टेः) स्वरः परित्यक्तरञ्ञनात्मकगानोपयोगिस्वव्यापारः काकुभूतः संप्रवर्तते ।
1आभाषणं च दूरस्थे शिरसा संप्रयोजयेत् ।
नातिदूरे च कण्ठेन ह्युरसा चैव पार्श्वतः2 ।। १०५
3उरसोदाहृतं वाक्यं शिरसा दीपयेद्बुधः4 ।
5कण्ठेन शमनं कुर्यात्पाठ्ययोगेषु6 सर्वदा7 ।। १०६
Abh
काशदेशपरिग्रहार्थं, न शरीरमात्रे स्वरनिष्पत्तिः, अपि तु तत्रैव । येयं बाह्यवीणादण्डस्थानीया उत्तरोत्तरस्थानपरम्पराविशिष्टा, सा स्थानसोपानपङ्क्तिः स्वरनिष्पत्तिस्थानम्, अत एव काकुस्वरमपि लक्षितम्–कक लौल्ये,* लौल्यं च साकांक्षते यथा (?साकांक्षता इयता. Raghavan) स्वरवैचित्र्यं लक्ष्यते ईषद्यतो वाच्यभूमिः संपद्यते सा काकुः, ईषदर्थे कुशब्दस्य कादेशः। काकुर्वा जिह्वा तद्व्यापारसंपाद्यत्वात् काकुः ।
एवं स्थानस्वरूपं विभज्य तस्य विषयभेदमादर्शयितुमाहः आभाषणं च दूरस्थ इत्यादि । शिरसेति शिरोनिष्पन्नेन नोदनेत्यर्थः । नातिदूरे कण्ठेनेति मध्येन, उरसा समीपे मन्द्रेणेति यावत् ।
एवं स्थानत्रयस्य पृथगुपयोगमभिधाय युगपद्दर्शयति उरसोदाहृतं वाक्यमित्यादिना । मन्द्रस्वरेण वा पाठमारभ्य क्रमेण तारं गत्वा मध्येन परिसमाप्नुयादिति श्लोकार्थः । यदा हि न दीप्तेन क्रोधादिना नापि मन्द्ररूपेण शोकादिनाविष्टहृदयो भवति तदा क्रमेण वक्तव्यवस्तुविषयोत्साहविस्फारणात् तारान्तं गच्छन्नुपसंहारे मध्य एव विश्राम्यतीत्य– नवशिष्टस्यायं (?त्यविशिष्टस्या) सामान्येन पाठधर्मः । अत एव शान्ते व्या(?व्य)भिचारिबलावेशशून्यतायामयमेव पाठधर्मः । वैतालीयपाठे चायमपि सामान्यधर्मोऽस्तु । न तद्विषये स्वरकाकुः । कस्तर्हि तस्या विषयः, उच्यते–कदाचिदर्थस्य धर्मपुञ्जवाच्यस्य धर्मान्तराधानं काकुरुच्यते, कदाचित्स्वरजनकचित्तवृत्त्यर्पणं करोति । यत्र रसस्वर–
Notes
1 द N–आभाषणं तु दूरस्थे Kavi अभाषणं च दूरस्थे भ–आभाषणं तु दूरस्थं शिरःस्थेन स्वरेण हि । कण्ठेन नातिदूरे स्यादुरसा चैव पार्श्वतः । 2 द N–समीपस्थे तथोरसा । ड–दूरेऽपि कण्ठेनाप्युरसा चापि पार्श्वतः च –झुरसा च समीपतः 3 द N–उरसोदाहरेत् 4 च–शिरसोद्दीपयेद्बुधः भ–पुनः 5 द N कण्ठेन शमयेच्चैव 6 ड–पाठयोगे तु 7 भ–नित्यशः ।
- हेम. पृ. ३३३/पं १२–१६ कक लौल्ये, लौल्यं च साकांक्षते (?साकाङ्क्षता) यथा (?यया) स्वरवेचित्र्यं लक्ष्यते । ईषद्यातो वाच्यभूमिः संपद्यते सा काकुः, ईषदर्थे कुशब्दस्य कादेशः । काकुर्वा जिह्वा, तद्व्यापारसंपाद्यत्वात्काकुः । लोचन (ध्वन्या ३/३८) ‘कक लोल्ये’ इत्यस्य धातोः काकुशब्दः । तत्र हि साकाङ्क्षानिराकाङ्क्षादिक्रमेण पठ्यमानोऽसौ शब्दः प्रकृतार्थातिरिक्तमपि वाञ्छतीति लौल्यमस्याभिधीयते । यदि वा ईंषदर्थे कुशब्दस्तस्य कादेशः । तेन हृदयस्थस्तु प्रतीतेरीषद्भूमिः काकुः । (बालप्रिया edn, pp. 477-78) Raghavan: लौल्यं च साकाङ्क्षताः इयता स्वरवैचित्र्यं लक्ष्यते ।।
उदात्तश्चानुदात्तश्च स्वरितः कम्पितस्तथा ।
वर्णाश्चत्वार एव स्युः पाठ्ययोगे तपोधनाः ।। १०७
तत्र हास्यश्रृड्गारयोः 1स्वरितोदात्तैर्वर्णैः1a पाठ्य– मुपपाद्यं, वीररौद्राद्भुतेषूदात्तकम्पितैः2 करुण – बीभत्स – भयानकेष्व–
Abh
काकुव्यवहारः कदाचिद्वा नादात्मनि स्वात्मसूत्रे सुगुम्भि(? म्फि)तस्य स्वग्रन्थ्यात्मनो वर्णराशेर्दूरश्रवणं किंचिच्छ्रवणमश्रवणं वेत्यस्मिन्नर्थे व्याप्रियते । तत्रापि स्वरकाकुरुच्यते । यत्रोक्तमाभाषणं दूरस्थमित्यादि तदेवं व्यतिरिक्ते स्वसेवाव्यापाराद् व्यतिरिक्तजडचिद्भेदेन भेदात् तदर्थरसस्वरभेदात् त्रिधैव काकुः ।
एवं स्थानभेदमुक्त्वा क्रमप्राप्तं वर्णस्वरूपमाह उदात्तश्चेति । उच्चता नीचना मध्यमता उच्चनीचोभयडो(?दो)लावलम्बनमिति चत्वारः स्वरधर्माः । वर्णा गुणा यदि वा पाठक्रियाविस्तारका विवृण्वते प्रकटयन्ति स्वार्थविशेषमिति वा ।
पाठ्ययोगे काव्ये स्वरस्य रक्तिभागमपहाय वर्णा एव वक्तव्याः । रक्तिभागाभिनिवेशे तु गानयोगो न पाठ्ययोगः स्यादित्यवादिषुः । तत्रान्वयव्यतिरेकाभ्यां रक्तिभागेऽनुदात्तादिवर्णभागः कादिवर्णभागः । तस्य स्फुटतास्फुटत्वमित्याह यो धर्मस्तन्त्र्यामनुरणप्रधानायामरक्तकण्ठे गातरि यथाकथंचिद्वक्तुं प्रवृत्ते हुडुक्कामुरजादौ च पृथग्लक्ष्यत एव । एवं प्रधानतया धर्मान्तराणि मग्नत्वेन तत्रापि सन्त्येव । अत एवाह तपोधनाः सूक्ष्मवेदिनो यूयमत्राधिकृता विचार इत्याशयः । एषां वर्णानां विषयमाह–हास्यश्रृङ्गारयोरित्यादि । मध्यमपञ्चमावित्यादौ प्रकरणे यथासंख्यं न विवक्षितमित्येवं हास्ये मध्यमायाः पञ्चम्या वा जातेः स्थायिस्वरत्वं गृहीत्वा तत्रैवोच्चमध्यमस्थानस्पर्शेन पठेत् । एवं शृङ्गारवीरादिषु त्रिषु षाङ्ज्या आर्षभ्या व स्वांशं गृहीत्वा तत्रैवोदात्तकम्पितैः पाठः, करुणे निषादवत्या गान्धार्या वा स्थायिनमालम्ब्यानुदात्तेन पाठः, बीभत्से धैवत्यंशस्वराश्रयेण स्वरितकृतः (पाठः) । भयानके तत्स्वरावलम्बनेनैव (धैवतांश) कम्पितप्रधानः(पाठः)–इत्येवं भविष्यत् (अ–२९) जातिविनियोगानुसारिस्वरानुवादेन
Notes
1a: N: स्वरितोदात्तं वीररौद्राद्भुतेषूदात्तकम्पितैः 1 य–स्वरितोदात्तं वीरं न–स्वरितोदात्तौ वीर ढ– स्वरितोदात्तैर्वीर 2 य–उदात्तं कम्पितं ठ–उदात्तकम्पितैः ड–उदात्तस्वरितकम्पितैः ।
नुदात्तस्वरितकम्पितैरिति1 । द्विविधा काकुः साकाङ्क्षा निराकाङ्क्षा चेति2 वाक्यस्य साकाङ्क्षानिराकाङ्क्षत्वात् ।
3अनियुक्तार्थकं3a वाक्यं साकाङ्क्षमिति यंज्ञितम् ।
नियुक्तार्थं तु यद्वाक्यं निराकाङ्क्षं तदुच्यते ।। १०८
4तत्र साकाङ्क्षं नाम तारादिमन्द्रान्त5मनियुक्तार्थम– निर्यातितवर्णालङ्कारं कण्ठोरःस्थानगतम् । 6निराकाङ्क्षं नाम नियुक्तार्थं
Abh
वर्णेषूदात्ता–दिषु तात्पर्यं, न तु स्वरेषु । तेषां तु पृथगुद्देशप्रयोजनं षष्ठे दर्शितमन्तरालापपरिग्रहमिति ।
एवं काकोः स्वरूपोत्पत्तिं प्रतिपाद्य तस्या अर्थविषये व्यापारं दर्शयन्नुद्देशक्रममप्यनुसर्तुमाह– द्विविधा काकुरिति । वाक्यस्येति साकाङ्क्षं यत्र वाक्यं तत्र काकुः, तथा वक्तृगता वाकाङ्क्षा वाक्य उपचर्यते । सा च प्रकरणादिबलान्निश्चीयते । विशिष्टविषयत्वं चाकाङ्क्षायास्तत एवावगम्यते । तदाह–अनियुक्तार्थकं वाक्यमिति । यादृशो वाक्यात्सङ्केतबलेनार्थः प्रतीयते तादृश एव यत्र न्यूनाधिकः प्रमाणबलेन निर्णययोग्यस्तद्वाक्यं निराकाङ्क्षं, तद्विपरीतं साकाङ्क्षम् ।1
एवं वाक्यस्य स्वरूपं प्रतिपाद्य तन्निष्ठां काकुमभिधातुमाह तत्र साकाङ्क्षमित्यादि । अनियुक्तार्थं यत्साकाङ्क्षमुक्तं तन्मन्द्रोपक्रमं तारसमाप्तिकं पठनीयमिति । सर्वाणि क्रियाविशेषणानि कियन्ति तत्र तारतेत्याह कण्ठोरःस्थान(गत)मिति । तथा वर्णा उदात्तादयोऽलङ्काराश्चोच्चनीचदीप्तादयोऽपरिसमाप्ता अर्धस्पृष्टतयैव त्यक्ता यत्रेति क्रियाविशेषणम् । एवंभूतो यः क्रियाविशेषणत्वेन वाक्ये पठ्यमाने ध्वनिधर्मविशेषः सा काकुः । यदि वा सामानाधिकरण्येनैव व्याख्येयम् । धर्मो हि न स्वतन्त्रो भात्यपि तु धर्मिनिष्ठ एवेति ।। तत्राकाङ्क्षार्थान्त एवातदर्थगत एव वा विशेषे तदर्थाभावे वा । तथा च–
Notes
1 य N– कम्पितैर्वर्णैः पाठ्यमुपपादयेत इति । 2 भ– निराकाङ्क्षा च 3 ड–अनियुक्तमेकं 3a:N: अभि(नि ?)– युक्तार्थकं; 3b:N: सदुच्यते 4 च–अत्र भ–तत्र साकाङ्क्षा नाम य– तत्र साकाङ्क्षा नाम वाक्यं ड– अनियुक्तं नाम निर्यातितवर्णालङ्कारं कण्ठोरःस्थानगतम् । न–अनिर्युक्तं प–तस्य साकाङ्क्ष नाम वाक्यं द N–“तत्र मन्द्रान्तं” इति न विद्यते । 5 भ–अनिर्युक्तार्थं 6 निराकाङ्क्षा नाम निर्युक्तार्थ ।
निर्यातितवर्णालङ्कारं शिरःस्थानगतं मन्द्रादितारान्तमिति1 ।
2अथं 2aषडलङ्कारा नाम–
उच्चो दीप्तश्च3 मन्द्रश्च नीच द्रुतविलम्बितौ4 ।
5पाठ्यस्यैते ह्यलङ्कारा लक्षणं च निबोधत6 ।। १०९
उच्चो नाम शिरःस्थानगतस्तारस्वरः, स च दूरस्था– भाषण7विस्मयोत्तरोत्तर संजल्पदूराह्वानत्रासनाबाधाद्येषु8 । दीप्तो नाम शिरःस्थानगतस्तारतरः9, स चाक्षेप–
Abh
यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः । इति (वेणी ३/३३ चतुर्थचरण)
अत्र काकुः कृत इत्युदात्तकम्पितवर्णस्योच्चदीप्तालङ्कारस्य चासमाप्त्या, अतोऽप्यधिकं कुरुत इति काकुप्रभावादर्थान्तरे गतिः । ‘स एष (स यस्य†) दशकन्धरम्’ इति * श्लोके ‘तदात्मज इहाङ्गद’ (?) इत्यत्र साकांक्षा काकुः स्वगतान् वालिपुत्रोचितान्विशेषानर्पयति । ‘स्वस्था भवन्ति मयि जीवति’ (वेणी॰ १/८ चतुर्थचरण) इत्यत्र साकाङ्क्षा काकुर्भवनाभावमाह,* वचनोच्चारणं त्वर्थे संभावनां (त्वर्थेऽसंभावनां) विदधतावश्यनिषेधात्मनो विषयमर्पयति(विदधदभावस्य निषेधात्मनो विषयमर्पयति) । तदियमर्थाभिपा/?/यसमर्पकाभिनयरूपार्थकाकुः साकाङ्क्षा । एतद्विपरीता निराकङ्क्षा, तस्याः शिरः स्थान एव मन्द्रः तारताप्रतिस्थानं, ह्युत्तरोत्तरतारत्वमधराधरमन्द्रत्वं च वक्ष्यामः । अलं पर्याप्तं काकोः स्वरूपं येन संपाद्यते सोऽलङ्कारः । तत्स्वरूपं च स्थानत्रयस्य
Notes
1 भ–तारान्तं पाठ्यमिति ड–तारान्तगतमिति 2 द– अथालङ्काराः ड– अथ षडलङ्कारा 2 a:N: अथ अलङ्काराः 3 द–दीप्तोऽथ 4 प– नीचद्रुतविलम्बिताः 5 द–पाठस्य 6 प– विनिबोधत 7 न –विस्मयोत्तरसंजल्पनदूराह्वानबाधाद्येषु 8 ढ–त्रासनवाक्येषु भ– बाधाक्रुष्टकलहाभिधानेषु भावेषु । 9 य– शिरःस्थानतिरस्कारः स च । *स एष दशकन्धरं कृतवतोऽपि कक्षान्तरे गतः स्फुटमवन्ध्यतामधिपयोधि सान्ध्यो विधिः । तदात्मज इहाङ्गदः प्रहित एष सौमित्रिणा क्व स क्व स दशाननो ननु निवेद्यतां राक्षसाः ।। † हेमचन्द्र, पृ. ३३७ *तुलनाः–“अत्र भवन्तीति साकाङ्क्षा काकुर्भवनाभावमाह–” भवन्त्विति । वचनोच्चारणं [वचनस्य भवन्तीति रूपस्य] त्वर्थेऽसंभावनां विदधदभावस्य निषेधात्मनो विषयं भवनलक्षणमर्पयति । न भवन्त्येवेत्यर्थः । ‘हेमचन्द्र’, पृ. ३३७, पं. ७–८
1कलहविवादामर्ष2क्रुष्टाधर्षणक्रोधशौर्यदर्पतीक्ष्णरूक्षाभिधाननिर्भर्त्सनाक्रन्दितादिषु3 । मन्द्रो नाम 4उरःस्थानगतो निर्वेदग्लानि5 चिन्तौत्सुक्यदैन्यव्याधि 6क्रीडागाढशस्त्रक्षतमूर्छामद7aगुह्यार्थवचनादिषु7 । नीचो नाम 8उरःस्थानस्थो मन्द्रतरः । स च स्वभावाभाषण 9व्याधिशम9aश्रमार्तत्रस्तपतितमूर्छितादिषु । द्रुतो नाम 10कण्ठगतः स च त्वरितः, 11लल्लनमन्मनभयशीतज्वर12 12aत्रासायस्तात्ययिककार्यावेदनादिषु । विलम्बितो नाम 13कण्ठस्थानगत–
Abh
प्रत्येकमूर्ध्वाधोमध्यकल्पनया उदात्तानुदात्तस्वरितकम्पितनिर्वाहात् । तत्र मध्यो भामस्तावदनावेशे सर्वत्र स्थित एव । इत्यावेशेनोर्ध्वमधरं वा स्थानत्रयस्य प्रत्येकमवलम्ब्यत इति षडलङ्कारा भवन्ति । तत्र शिरस्यधोभागे तार उच्यते दूरस्थाभाषणादौ, स विषयोऽत्र स्वरकाकोरित्युक्तम् । विस्मयावगतौ तु सैव रसकाकुः, परस्य त्रासनाभिप्रायेण तु सैव विभावकाकुः । स्वरकाकोरेव श्रुतिकाकुश्चेति भेदेन शिरस्येव ऊर्ध्वस्तारतम आक्षेपादौ, तारशब्दः प्रकर्षोपलक्षणम् । अत्र ह्याक्षेपादौ यथावस्थं श्रुतिविभावरसकाकुभेदत्रयं विभजनीयम् । उरस्यूर्ध्वभागे स मन्द्रः, उरस्येव नीचभागे मन्द्रतमो नीचः । दैन्ये काकुर्द्विरूप–
Notes
1 न–वाद 2 ड– अमर्षोत्क्रुष्ट द– आक्रोश प– आमर्षणक्रोध भ–रुष्टाधर्षण 3 प–आक्रन्दनादिषु 4 द N–उरसि मन्द्रस्वरः 5 ड–ग्लानिशङ्का 6 क्रीडाशब्दो भमयोरेव 7 गुह्यार्थवचनं चदडपादिषु नास्ति, भबनमयरादिषु विद्यते 7 a: N:मूर्छा मदादिषु 8 द N– तत्रैव मन्द्रतरः ढ–उरःस्थानो ड– उरःस्थानगतः प–उरःस्थाने 9 द–भयशान्तत्रस्तपतित मूर्छितादिषु ड–स्वभाषा भाषणव्याधित पथिश्रान्त त्रस्तपतित मूर्छितादिषु न–व्याधितपःश्रान्तत्रासपतित मूर्छादिषु फ–व्याधितपःश्रान्तत्रासपादपातमूर्छनादिषु 9a: N: व्याधितपःपादश्रान्तत्रस्तपतितमूर्छितादिषु 10 द N–कण्ठगतः स्वरितः प–कण्ठगतस्वरितोच्चगत स्वरकृतिः स च स्खलितवल्गनमदनशीतज्वरार्तत्रस्तायस्तान्यैक कार्यावेदनादिषु 11 ढ– स्खलित लज्जितोत्खातमन्मन…..ड–स्खलितवेल्लन मदनभय 12 ड–त्रस्तायस्तागूढकार्य…..भ–त्रासायास 12a: N: शीतज्वरार्तत्रस्तान्यधिककार्यावेदनादिषु 13 द N– तत्रैव स्थितलयः च–कण्ठस्थानस्थो ढ– कण्ठस्थानो मन्द्रः ड–कण्ठस्थानगतो मन्द्रः ।
स्तनुमन्द्रः 1aस च शृङ्गार1करुण2वितर्कितविचारामर्षा3सूयिताव्यक्तार्थप्रवाद– लज्जाचिन्तातर्जन 4विस्मयदोषानुकीर्तनदीर्घरोग5निपीडनादिषु । 6अत्रानुवंश्या श्लोकाः भवन्ति–
उत्तरोत्तरसंजल्प7परुषाक्षेपणेषु च8 ।
तीक्ष्णरूक्षाभिनयने 9आवेगे क्रन्दिते तथा ।। ११०
10परोक्षस्य समाह्वाने तर्जने त्रासने तथा ।
दूरस्थाभाषणे चैव तथा निर्भर्त्सनेषु च ।। १११
11भावेष्वेतेषु नित्यं हि नानारससमाश्रया ।
उच्चा दीप्ता द्रुता चैव काकुः कार्या प्रयोक्तृभिः ।। ११२
व्याधिते च ज्वरार्ते च भयार्ते शीतविप्लुते12 ।
नियमस्थे वितर्के च गाढशस्त्रक्षतेषु च13 ।। ११३
Abh
तामेति –स्वचित्तवृत्त्यर्पणाद्रसकाकुः परस्य रूपोत्पादनाद्विभावकाकुः । उभय– स्यापि तत्र प्राधान्येनादरणात्, अन्यत्र तूभयस्यानादरणात्प्रधानांशेनैव व्यपदेशः । स्वभावाभाषणं यत्र कश्चिदावृत्तकण्ठस्वर एव वक्ता भवति, त्रासने पतितः त्रस्तपतितः, त्रासावसरे तु दीप्तैव काकुर्भवति । कण्ठगत इति कण्ठस्थाने ऊर्ध्वभागे निष्पन्नः, तेन स्थानभेद एवालङ्कारत्वे प्रयोजकः । अत एव त्वरित इत्यनेन पुनर्लयविधानम् । लल्लं सविलासं, लडं विलासं लातीति क्विबन्ते कर्मण्युपपदे लडयोरैक्यमिति । मन्मनमव्यक्तं अहमेव मनो मन्ता यत्रेति, अनेना–
Notes
1 a: N: ‘स च’ not read in ‘N’ 1 करुणशब्दो चडढपद–आदिषु न विद्यते । 2 न N–वितर्क 3 य–आश्वसित 4 द N–विस्मित 5 ड–रोष 6 भ–अत्र श्लोकाः 7 ड– संजल्पे 8 ड N–आक्षेपणे तथा 9 भ– तथाक्रन्दे च नित्यशः न–शीते चाक्रन्दिते द–आक्रन्दे क्रन्दिते फ– आवेशे 10 भ–परोक्षह्वयने चैव तर्जनत्रासनेषु च ।। 11 भ– एषु नानारसोपेता नित्यमर्थप्रदर्शिता (का ?) च–सर्वेषु 12 ग–शोके च क्षुत्पिपासिते । विषमस्थे वितर्के फ N– क्षोभे च क्षुत्पिपासिते । विषमस्थे…..13 भ N– क्षते तथा ।
1गुह्यार्थवचने चैव चन्तायां तपसि स्थिते ।
मन्द्रा 2नीचा च कर्तव्या 3काकुर्नाट्यप्रयोक्तृभिः ।। ११४
लल्ले च मन्मने चैव भयार्ते शीतविप्लुते ।
मन्द्रा द्रुता च कर्तव्या काकुर्नाट्यप्रयोक्तृभिः ।। ११५
दृष्टानष्टानुसरणे5 6इष्टानिष्टश्रुते 7तथा ।
8इष्टार्थख्यापने चैव 9चिन्ताध्याने तथैव च ।। ११६
उन्मादेऽसूयिते चैव10 उपालम्भे तथैव हि ।
11अव्यक्तार्थप्रवादे च कथायोगे तथैव च ।। ११७
उत्तरोत्तरसंजल्पे कार्येऽतिशयसंयुते ।
12विकृते व्याधिते क्रोधे दुःखे शोके तथैव च ।। ११८
13विस्मयामर्षयोश्चैव 14प्रहर्षे परिदेविते ।
विलम्बिता च दीप्ता च काकुर्मन्द्रा15 च वै भवेत् ।। ११९
Abh
श्रूयमाणमनुनासिकोपलक्षितमित्यपरे । “लल्लमन्मनौ नायिकागतौ ( ?गतावेव)1 बालविनोदनसान्त्वनादौ, [मुञ्च]2मुञ्चेत्येवं प्रायपराभियोगानङ्गीकरणादौ च ( ? वा)3 इत्युपाध्यायाः । मन्द्रापि काकुश्चात्र भवतीति संग्रहश्लोके वक्ष्यते । आत्ययिकं शीघ्रसंपाद्यं यत्कार्यम् । आयस्तमावेगः । कण्ठस्थाने न नीचभागे निष्प्रन्नो विलम्बितः । लल्लत्वमविवक्षितमेव । अव्यक्तार्थः प्रवादः – अन्तरङ्गत इति लोके प्रसिद्धो यत्र । परे बुध्यतां च न बुध्यतां चेति वक्तुरभिप्रायो भवति यन्न स्वगतं न परगतमत्रेति । अलङ्कारेषूच्चा दीप्ता द्रुता चेति यथायोगं स्थानत्रयमत्र स्वीकृतमित्यर्थः ।
Notes
1 ढ–गूढार्थ 2 न N–स्थिता च– विलम्बिता चैव 3 च– काकुः कार्या 4 ड– मल्ले च मदने 5 ड–सारेण 6 भ–इष्टारिष्ट 7 च N–श्रुतौ 8 च–दृष्टार्थ 9 य–चिन्तायाने च–चिन्ताग्रस्ते 10 भ–च विषादे च 11 द– अव्यक्तार्थे प्रदाने च तथा लोके 12 च –पीडिते ड– विक्षते व्याधिते त्वङ्गे द– विकृतेर्ष्याकृते भ–क्रोधे चैव हि दुःखे च शोके नित्यं तथैव च 13 भ–अमर्षे विस्मये 14 न–हर्षेऽथ ड– हर्षे च 15 द–मन्दा 1 हेमचन्द्र, पृ. ३३४; 2, 3 हेमचन्द्र; पृ. ३३५
1लघ्वक्षरप्रायकृते गुर्वक्षरकृते तथा ।
उच्चा दीप्ता च कर्तव्या काकुस्तत्र प्रयोक्तृभिः ।। १२०
यानि सौम्यार्थयुक्तानि सुखभावकृतानि च2 ।
मन्द्रा विलम्बिता चैव तत्र काकुर्विधीयते ।। १२१
यानि स्युस्तीक्ष्णरूक्षाणि दीप्ता चोच्चा च3 तेष्वपि ।
एवं नानाश्रयोपेतं पाठ्यं योज्यं प्रयोक्तृभिः ।। १२२
हास्यशृङ्गारकरुणेष्विष्टा काकुर्विलम्बिता ।
वीररौद्राद्भुतेषूच्चा दीप्ता वापि4 प्रशस्यते ।। १२३
भयानके सबीभत्से द्रुता नीचा च कीर्तिता ।
एवं भावरसोपेता काकुः कार्या5 प्रयोक्तृभिः ।। १२४
6अथाङ्गानि 6aषट् –विच्छेदोऽर्पणं विसर्गोऽनुबन्धो दीपनं प्रशमनमिति7 । तत्र विच्छेदो नाम 8विरामकृतः ।
Abh
अथ सर्वसंग्रहार्थमाह यानि सौम्यार्थयुक्तानीति । सोम एव ह्लादकः सौम्यः, शाखादित्वाद्यः । सुखस्य हेतवः कार्यश्चेति सुखभावकृतशब्देन समासभेदात्संगृहीतम् । नानाश्रयोपेतमिति नानास्थाननिविष्टं कृत्वेत्यर्थः, स्थानभेदः काकूनां पर्याप्तताकारीत्युक्तम् । अतः काकोरेव प्राधान्यात्तामेवोपसंहरति अथाङ्गानीत्यादिना ।
प्रस्तावान्तरं दर्शयति तत्र वर्णोच्चारणे वर्णध्वनिशून्यो यः कालस्तदा– श्रयोऽङ्गव्यवहार इति वृद्धाः, स हि षोढा कालः “ततश्च भूयान् पुनरादि– मध्यौ"भूयान् पुनरित्ययं हि विच्छेदः । आदौ मध्यः स्वल्पो मध्यान्ते चार्पणं
Notes
1 अयं श्लोको दचादिषु न विद्यते । 2 च– वै भ –नादकृतानि वै न–तु 3 यद–दीप्तमुच्चं च ढ–दीप्तमुच्चैश्च च–दीप्ता वोच्चा च 4 भ–चैव द– चापि 5 प–योज्या 6 ड–अथाङ्गानि न–अथ षडङ्गानि 6a:N: षट् not read in ‘N’ 7 प–इति षडङ्गानि 8 भ– विरामः ।
अर्पणं नाम 1लीलायमानमधुरवल्गुना स्वरेण2a पूरयतेव रङ्ग2 यत्पठ्यते तदर्पणम् । विसर्गो नाम वाक्यन्यासः3 । अनुबन्धो नाम 4पदान्तरेष्वविच्छेदः, 5अनुच्छ्वसनं5a वा । दीपनं नाम त्रिस्थानशोभि वर्धमान6स्वरं चेति6a । प्रशमनं नाम तारगतानां स्वराणां 7प्रशाम्यतामवै8aस्वर्येणावतरणमिति8 । 9एषां च रसगतः
Abh
वाक्ये पूर्वं भूयान्मध्ये द्रुतश्च विपरीतको यः स विसर्गः । बहुषु द्रुतोऽथ मध्यो मनाग्द्रुतोऽन्तेऽनुबन्धः स्यात् । त्रिस्थाने द्रुतमध्यविलम्बितयुग् दीपनं सदारोहि विपरीतं प्रशमनं स्यात्, लयत्रयं चैकरूपनिर्वाहादिति संग्रहकारः ।
एतन्मतेनैव लक्षणानि व्याचक्षते । एतच्चासत् । द्रुतमध्यादिलयैरेवास्यार्थस्य न तत्त्वान्न च लयव्यवहारसाम्ये कालस्येति नियमकारणमस्ति । किं च लयवैषम्यस्य वाक्यचैतन्यापेक्षया न भागत्रयकल्पनयैव भेदा उक्ताः, भुजङ्गविजृम्भितादिवाक्येऽनन्तभागसंभावनात् । भागत्रये च द्रुतमध्यविलम्बितानां द्विभेदत्रिभेदत्वानन्त्ये षट्संख्यानियमविप्लवः । “क्वाकार्यं (सुभाषितावलौ–क्र॰ १३४३– कालिदासस्य) †इति हि श्लोकप्रथमखण्डेषु मध्यमलयो भूयोऽपि दृश्येत सा इत्यादिषु पाश्चात्यखण्डेषु तत्स्मरणजनितसुखविश्रान्तिदायिषु विलम्बित इति द्विलयभेदः प्रयोगः । भागत्रयकलनायामपि साम्येन वैषम्येण चानन्तप्रकारता भवतीति कथं स्यात् । कस्मादेतत्सर्वं लयाभिधानेनैव न संगृहीतम् । तस्मात्सूत्रस्थानीयपदरत्नानां पाठकाले त्वादावुक्ततद्धर्मषट्कमङ्गषट्कमुच्यते । तथा च मध्ये त्रुटितत्वमत्रुटितत्वं वा तावतो (? तावन्तौ)1 विच्छेदानुबन्धौ, पीवरत्वमपीवरत्वं वा इमावर्पणविसर्गौ, आरोहणमवरोहणं वा ते दीपनप्रशमने । एवं भावाभावतः, उपचयापचयतः, आरोहावरोहतश्त षड्भेदो नादः । वाक्यस्य
Notes
1 ड–लीलावर्णस्वरेणापूरयदिव न–लीलायमान मधुरवर्णस्वरेणापूरयदिव ग–लीलायमान मधुरवर्णनास्थानेन लयेन पूरयद्भिरिव प–लीलायमानानुवर्णेन स्वरेण 2 फ–रसं 2a: N स्वरेण पूरयद्भिरिव रङ्गं; 3 न–वाक्यस्योपन्यासः फ– वाक्योपन्यासः 4 भ–पदस्य विच्छेदमन्तरेणानुच्छ्वासनं य N –पदान्तरेष्वविच्छेदः Kavi–पदान्तरेष्वपि विच्छेदः 5 द–अनुच्छ्वासनं वा 5a:N यदानुच्छ्वसनं वा 6 ड–वर्धनं नाम न –स्वरं च 6 a:N ‘चेति’ not read in ‘N’ 7 ‘प्रशाम्यता’ मिति चदादिषु न दृश्यते द– स्वराणामेकस्वर्येण 8 च–अवरोहणमिति न–अवतरणमिति । Kavi –णवितारणमिति 8 a: N स्वराणामेषैश्वर्येणावतारणमिति 9 द –एषां रस । †अयं श्लोकः ३१८ पृष्ठे उदाहृत एव । 1–मधुसूदनी (edn., p. 1421,अ.भा. L.2)
प्रयोगः–तत्र हास्यशृङ्गारयो1राकांक्षायामर्पणविच्छेददीपनप्रशमनयुक्तं पाठ्यं2 कार्यम् । दीपनप्रशमनयुक्तं करुणे3 । 4विच्छेदप्रशमनदीपनानुबन्धबहुलं वीररौद्राद्भुतेषु, 5विसर्गविच्छेदयुक्तं बीभत्सभयानकयोरिति4a । 6aसर्वेषामप्येषां6 मन्द्रमध्य7तारकृतः प्रयोगस्त्रिस्थानगतः । तत्र दूरस्थाभाषणे तारं शिरसा, नातिदूरे मध्यं कण्ठेन, पार्श्वतो मन्द्रमुरसा प्रयोजयेत्पाठ्यमिति । 8मन्द्रात्तारं न गच्छेत्, ताराद्वा मन्द्रमिति ।
Abh
न्यासं त्यजनमनादरणं तन्नादस्येति यावत् । वैस्वर्यं स्वरत्वेन विहितेषु अन्तरालश्रुतिविशेषेषु ध्वनि (वि)संवादनाद्भवतीति सर्वत्राभ्यूह्यम् । हास्यादयः शब्दास्तद्व्यभिचारिणोऽपि स्वीकुर्वते । ततश्च तद्व्यभिचारिणोऽन्यरसान्, रसान्तरेऽपि तदा व्यभिचार्याश्रये वा काकुरिति मन्तव्यम् । सर्वेषामित्यादिनाङ्गानां मूलभूतं स्थानभेदं स्मारयति । तत्र दूरस्थ इत्यादिना विनियोगवाक्यानां लक्ष्ये एकवाक्यतां सूचयति । तथा हि शृङ्गारे यदुदात्तलस्वरितमुक्तमर्पणविच्छेदाद्यङ्गजातं विलम्बितं चालङ्कारः तद्दूरस्थाभाषणे कर्तव्ये शिरःस्थाने षड्जपञ्चमयोरन्यतरस्थायिस्वराश्रयेणांशस्वरविभागचतुश्चतुष्कसम्मिश्रं कर्तव्यमित्येवं तात्पर्येणेदं व्याख्येयम् । अन्यथा भाषणं दूरस्थे शिरसेत्यादिना पौनरुक्त्यं स्यात् ।
अथ दीपनप्रशमनयोर्वक्तव्यशेषमाह मन्द्रात्तारं न गच्छेदित्यादि । मन्द्रतरात्तारं तारतमान्मन्द्रं चेत्यर्थः ।
उद्देशग्रन्थ एव केचिल्लया विरामाश्चेत्यभिधीयन्ते ।
Notes
1 मभयोरेव ‘आकांक्षायां’ इति, N does not read it 2 ड– वाक्यं 3 “दीपन….करणे” इति भमयोरेव 4 ड– करुणवीराद्भुतेषु समाकांक्षविच्छेदप्रशमनार्पणदीपनानुबन्धबहुलं पाठ्यं प्रयोज्यम् । (न–वीररौद्राद्भुतेषु सत्त्वाकांक्षणा विच्छेदोद्दिपन) 4a: N: ‘N’ does not read दीपन–भयानकयोरिति । N –has- करुणवीररौद्राद्भतेषु सत्त्वाकांक्षणविच्छेदोद्दीपनानुबन्धबहुलं पाठ्यं प्रयोज्यम् । 5 द N–बीभत्सभयानकयोर्विसर्गविच्छेदाकांक्षणप्रायमिति ड–विच्छेदार्पणयुक्तमिति । 6 ड– चैव तेषां द–चैतैषां ढ– चैवैषां 6a: N: सर्वेषां चैतेषां 7 प N –तारव्यवस्थया त्रिस्थानगतः प्रयोगः 8 च –मन्द्रतारं गच्छेत् ।
1एषां च द्रुतमध्यविलम्बितास्त्रयो लया रसेषूपपाद्याः2 । तत्र हास्यशृङ्गारयोर्मध्यलयः 3करुणे विलम्बितो, वीररौद्राद्भुत4बीभत्सभयानकेषु द्रुत इति । 4a अथ विरामः अर्थसमाप्तौ कार्यवशान्न छन्दोवशात्5 । कस्मात्, दृश्यते ह्येकद्वित्रिचतुरक्षरा विरामाः । यथा–
किं गच्छ मा विश सुदुर्जन 6वारितोऽसि
कार्यं त्वया न मम सर्वजनोपयुक्तम7 ।
8सूचासु चाङ्कुरगते च9 तथोपचारे–
10ष्वल्पाक्षराणि हि पदानि भवन्ति काव्ये ।। १२५
Abh
अन्ये त्वाहुः–कालस्य सर्वस्यापरिभाव्यत्वान्नोद्देशेन प्रयोजनं मतिमन्तस्तु मन्यन्ते । विच्छेदेनैव च लयमेतत्स्वीकृतम् । विच्छेदो विरामः, स च कियन्तं कालमिति लयोऽपि तेनैव स्वीकृतः । तेन विच्छेदस्य परीक्षेयं कथितेति । तत्रेति विच्छेदे, अर्थसमाप्तिनिमित्तं विरामो वास्य कार्यः । अर्थोऽवान्तरवाक्यार्थः । न च्छन्दोवशादित्यनेन कविना प्रयोगपरतन्त्रेण तदा स तदवसरोचितविरामवति वृत्ते ग्रहणप्रयत्नः कार्यः । प्रयोक्त्रापि कविपरतन्त्रेण न भाव्यमित्यत्रापि तेनार्थवशाद्विरामः कार्य इत्याख्यातम् । संख्यात्र नियमोपलक्षणं एकद्वित्रीति । किमित्येतावत्यवान्तरवाक्यार्थे विच्छेदः किं गच्छेति ।
नन्वेवमेकवाक्यत्वाभावो दूषणमित्याशंक्य प्रत्युत भूषणमेतदित्युपपादयन्नाह – “सूचासु चाङ्कुरगते च तथोपचारेष्वल्पाक्षराणि हि पदानि भवन्ति काव्ये” (१७/१२५) इति । बहुप्रकारैः सूचाभिनयैः अङ्कुरप्रकारैश्च युक्तमित्थं काव्यं भवति
Notes
1 भ– अत्र च 2 भ– उपयोज्याः 3 द–करुणे च 4 भ –बीभत्सकरुणयोर्विलम्बितः भ मातृकायां बीभत्सशब्दो नास्ति 4a: N– ‘N’ does not show number after ‘द्रुत इति ।’ 5 भ–नानाच्छन्दोवशात् 6 द–कारितोऽसि 7 च–युक्तम्, Kavi–सर्वजनोपभुक्तम् 8 न– सूचाङ्कुराभिनयनेषु 9 ड–अत्र 10 ड–स्वल्प ।
एवं विरामे प्रयत्नोऽनुष्ठेयः । कस्मात्, विरामो ह्यर्थानुदर्शकः । 1अत्र श्लोकः1a–
2विरामेषु प्रयन्तो2a हि नित्यं कार्यः प्रयोक्तृभिः ।
कस्मादभिनयो ह्यस्मिन्नर्थापेक्षी यतः स्मृतः3 ।। १२६
यत्र व्यग्रावुभौ हस्तौ तत्र दृष्टिसमन्वितः4 ।
5वाचिकाभिनयः कार्यो विरामैरर्थदर्शकैः6 ।। १२७
Abh
यदि स्वल्पाक्षराणि पदान्यसमस्तानि भवन्ति । बह्वक्षरपदे, दरिद्राश्च किं यस्ते (?) इत्यादौ न मध्ये सूचाङ्कुरयोरुपपत्तिः ।
“तस्यास्तनुमुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना”* (वामन ४/३/२७ उपमानाक्षेप–उदाहरणम्) इत्यादौ तु तस्या इत्युक्त्वा मध्ये सूचया तदित्यसाधारणविशेषस्मरणं स्वात्मनि तच्चावलोकने तथाकर्णने च प्रच्छन्नस्थिताया नायिकाया निवृत्त्यङ्कुरे वैचित्र्यं पुनः परिचुम्बनाभिलाषसूचायोगपूर्वकं मुखमिति पाठस्तत्कृतो नायिकाया रणरणकादरदर्शको निवृत्त्यङ्कुर इत्यादि वैचित्र्ये उत्प्रेक्षणीयम् । अङ्कुरस्त्वनिर्वचन एवेति निवृत्त्यङ्कुर एवात्र मन्तव्यः । यत्राङ्कुरो भविष्यति तद्विषयमेतदिति त्वसत्, पुष्पावचयनाटने यदोचितपरिक्रमणादौ पूर्वभाविना स्वल्पाक्षरेण पदयोगेन वैचित्र्याभावात् ।
अथास्य विच्छेदस्याङ्गस्य प्राधान्यं दर्शयति–एवं विराम इत्यादि । अस्मिन्निति विरामे सत्यभिनयस्थितो यथाविषयं प्रयोक्तुं शक्यः । स च विरामाद्गम्यते । विरामे सत्यर्थं दर्शयति अभिनयेऽन्यथा असमञ्जसत्वं स्यादिति तात्पर्यम् । यदि वाभिनयो विरामे स्थित इत्यभिनयकार्यं विराम एवोद्वहतीति तात्पर्यम् । तदाह तत्र व्यग्राविति । पूर्वं दृष्टिप्राधान्यतात्पर्येणेत्य–
Notes
1 ड– भवत्यपि च श्लोकः 1a: N: भवत्यपि 2 य–विरामे तु प्रयत्नस्तु 2 a: N: प्रयत्नस्तु 3 भ–प्रतिष्ठितः
न –स्थितः ड– ह्यस्मादर्थापेक्षी यतस्ततः च–ह्यर्थे अर्थापेक्षी यतः स्थितः 4 द– समन्वितैः 5 द–वाचिकोऽभिनयः
6 ड– दर्शिभिः ।
*सौन्दर्यस्य पदं दृशौ च यदि ते किं नाम नीलोत्पलैः ।
किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे
ही धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ।।
प्रायो वीरे च रौद्रे च करौ प्रहरणाकुलौ ।
बीभत्से 2कुत्सितत्वाच्च भवतः कुञ्चितौ करौ ।। १२८
हास्ये चोद्देशमात्रेण करुणे च प्रलम्बितौ ।
अद्भुते विस्मयात्स्तब्धौ भयाच्चैव3 भयानके ।। १२९
एवमादिषु चान्येषु4 5प्रविचारेऽथ हस्तयोः ।
अलङ्कारविरामाभ्यां साध्यते ह्यर्थनिश्चयः6 ।। १३०
ये विरामाः स्मृता 6वृत्ते तेष्वलङ्कार इष्यते ।
समाप्तेऽर्थे पदे वापि तथा प्राणवशेन वा ।। १३१
पदवर्णसमासे च8 द्रुते बह्वर्थसंकटे ।
कार्यो विरामः पादान्ते तथा प्राणवशेन वा ।। १३२
9शेषमर्थवशेनैव विरामं संप्रयोजयेत् ।
Abh
पौनरुक्त्यम् । व्यापकत्वमस्या दर्शयति प्रायो वीरे च रौद्रे चेति । कुञ्चिताविति संकोचवन्तावित्यर्थः ।
भयाच्चेति श्लथावेव । उच्चदीप्तादिरलङ्कारः । स च वृत्तविरामेषु यथा ‘‘योऽयं ( ?यः) शस्त्रं बिभर्ति’’ (वेणी ३/३२) इत्यत्रोच्चदीप्तकाकुः पदान्तेन, वीररौद्रयोरपि स्रग्धरादिवृत्ते अर्धादौ विरामौ न कार्यः, अपि तु पादान्ते पठितस्तावत् प्राणसंवेदाभावात् । प्राणवशेन वेत्यगतिकागतिरिति वृद्धाः । तच्चासत् । शिक्षावशेनाहरणीयो हि तत्राविच्छेदः । तस्मादयमर्थः– पदान्ते विच्छेदः कार्यो, यदि वा प्राणवशेन प्राणा रसभावाद्याः, तदौचित्येन छेदः । पादादावपि तावदनेनानुबन्धोऽपि विच्छेद उपयोगीति दर्शितम् । शेषमिति न यत्र चित्रवृत्तेः
Notes
1 म–प्रायौ । एते त्रयः श्लोकाः भादर्शे न विद्यन्ते द–प्रायो रौद्रे च रौद्रः प्रहरणाकुले 2 ड–कुञ्चितत्वाच्च द–कुत्सितत्वे च भवतः कुण्ठितौ 3 च–विस्मयाविष्टे स्तब्धौ कार्यो 4 ड–सर्वेषु 5 ड–अधिकारेषु द– प्रविचारेषु 6 द–अर्थविनिश्चयः 7 भ–नृत्ते 8 ड–वा 9 इदं श्लोकार्धं भमयोर्नास्ति । N. reads it.
1अत्र च भावगतानि 2रसगतानि च 3कृष्याक्षराणि बोद्धव्यानि, तद्यथा–
4आकारैकारसंयुक्त5मैकारौकारसंयुतम् ।
6व्यञ्जनं यद्भवेद्दीर्घं कृष्यं तत्तु विधीयते7 ।। १३३
विषादे च वितर्के च प्रश्नेऽथामर्ष एव च8 ।
कलाकालप्रमाणेन पाठ्यं कार्यं9 प्रयोक्तृभिः ।। १३४
शेषाणामर्थयोगेन विरामे विरमेदिह10 ।
एकद्वित्रिचतुःपञ्चषट्कलं च11 विलम्बितम् ।। १३५
12विलम्बिते विरामे हि13 14सदा गुर्वक्षरं भवेत् ।
षण्णां कलानां परतो 15विलम्बो न विधीयते ।। १३६
अथवा कारणोपेतं प्रयोगं कार्यमेव च16 ।
Abh
प्राधान्यं अपि तु विभावादेः, तत्रार्थवशेनैव विरामः । कृष्याक्षराणिति कृषतीति कृषो विलम्बितो लयः तत्र साधूनि कृष्याणि सन्ध्यक्षराणि, यथा आ, ई, ऊ इति दीर्घाः । कलालक्षणो यः कालः तत्प्रमाणेन विलम्बितेन पाठ्यं कार्यमिति विच्छेदस्यैव प्रमाणं दर्शितम् । शेषाणामिति ह्रस्वानाम् । अर्थयोगेनेति यथा स्फुटा प्रतीतिर्भवति तथा विच्छेदः कार्यो न त्वति विलम्बितं पठेदित्यर्थः ।।
ननु कियत्कलाप्रमाणमित्याह विलम्बितमिति । गुर्वक्षरमिति कृष्यं । वा शब्दादधिकमनुजानाति कारणोपेतमिति कारणं दीर्घकालं स्मरणमिति
Notes
1 भ–अथ ड–अत्रानुगतानि चत्वार्यक्षराणि रसभावानुगतानि कृष्टान्यक्षराणि चोद्वोध्यानि । तद्यथा 2 ग–रसजातानि 3 म–कृष्याद्यक्षराणि च–कृष्याण्यक्षराणि 4 द–आकारौकार च–एकारैकार 5 च–ओंकारौकार द–अकारौकार ड–एकारेकार ढ–एकारैकार 6 भ–एकारौकारसंयुक्तं दीर्घं यद्व्यञ्जनं भवेत् 7 ड–तत्र भवेदिह 8 च N–चामर्षणे तथा ड–विवर्ते च प्रश्ने चामर्षणे तथा 9 न–योज्यं 10 भ–विरमेद्बुधः 11 न–वा 12 च–विलम्बिता 13 च–अपि ड–च 14 द–यदा 15 च–लम्बनं ड– लङ्घनं 16 द–वा ।
समीक्ष्य वृत्ते कर्तव्यो विरामो रसभावतः1 ।। १३७
2ये विरामाः स्मृताः पाठ्ये3 4वृत्तपादसमुद्भवाः ।
उत्क्रम्यापि क्रमं तज्ज्ञैः कार्यास्तेऽर्थवशानुगाः5 ।। १३८
नापशब्दं पठेत्तज्ज्ञो भिन्नवृत्तं6 तथैव हि7 ।
विश्रमेन्राविरामेषु8 दैन्ये काकुं न दीपयेत्9 ।। १३९
Abh
चिन्तनादिभिः, व्याध्यपस्मारादिभिर्वा कारणैरुपेतं, स्पष्टास्पष्टादिभिरित्यन्ये । वृत्तविरामादर्थविरामः प्रथममिति दर्शयितुमाह ये विरामा इति । तज्ज्ञैस्तद्विरामात्मकं वृत्तगतं वस्तु, उत्क्रम्यापीति विशेषोपक्रमोऽपीति सामान्योपसंहारः । तादृशा विरामेण न पठेत्, येनावगतो विवक्षितः शब्दो भवति, ‘वरदं ध्यायजि’ इत्यत्र वर(द)शब्देन यदा विच्छेदः क्रियते तदा मध्य इति शब्दान्तरप्रतिभया ध्यायति शब्दोऽवगच्छतीति । भिन्नवृत्तं च कृत्वा न पठेत् यथा विच्छेदं न कुर्याद्येनान्यवृत्तभ्रान्तिर्भवति । तथा हि –“भव शङ्करभाजनं (?)ये जगतीह भवन्ति केचन” इत्यत्र ये इति शब्दस्य पूर्वपादेन सह पाठे औपवेदवृत्तभेदो यद्यपि तथापि द्वितीयपादे वृत्तभङ्गः । तेन वृत्तं न पठेदिति विच्छेदस्यैव प्राघान्यज्ञापनार्थमेतद्युक्तमिति । शब्दच्युतभिन्नवृत्तदोषाभिधाने न पौनरुक्त्यम् । इह वस्तुतस्तदभावेऽपि विच्छेदवशेन तत्प्रतिभोदयात् ।
एतदेव तात्पर्येणाह–विश्रमेन्नाविरामेष्विति । एवं विच्छेदस्य भूयोविषयव्यापकत्वमभिधाय तन्न्यूनां दीप्तां दर्शयितुमाह दैन्ये काकुं न दीपयेदिति शोकादिकमग्नचित्तवृत्तिं विमुच्यान्यत्र दीपनं सर्वत्र शोभावहमिति भावः ।
एवं स्वराः क्रमो मर्यादा स्थानत्रयमाश्रयः उदात्तादयः स्वरूपं अलङ्काराः स्वरूपपरिपूरकाः इति कर्तव्यतारूपाण्यङ्गानि । स्वरभेदाच्च काको–
Notes
1 ढ–कर्तव्या विरामा रसभावतः न–अतः परोऽपि हि 2 ड–ते 3 ड N–काव्ये द–वाक्ये 4 च–दन्त ग–दत्त न–वृत्ते 5 द N –तेऽथ रसाश्रयाः च–वशाश्रयाः ड–वशास्तथा 6 ढ–वृत्ते 7 ड–न चैव हि न –च 8 भ–अविरामे तु 9 ड N–न काकु रसहीनकम् प–न काकुरसदीपनम् ।
1वर्जितं काव्यदोषैस्तु लक्षणाढ्यं गुणान्वितम् ।
स्वरालङ्कारसंयुक्तं पठेत्पाठ्यं2 यथाविधि ।। १४०
3अलङ्कारा विरामाश्च ये पाठ्ये संस्कृते स्मृताः4 ।
त एव सर्वे कर्तव्याः स्त्रीणां पाठ्ये त्वसंस्कृते5 ।। १४१
एवमेतत्स्वरकृतं6 कला7ताललयान्वितम् ।
दशरूपविधाने तु पाठ्यं योज्यं प्रयोक्तृभिः ।। १४२
उक्तं काकुविधानं तु8 यथावदनुपूर्वशः ।
9अत ऊर्ध्वं प्रवक्ष्यामि दशरूपविकल्पनम् ।। १४३
Abh
र्विशेषः स्वरभेदो हि तस्यामेव काकौ विवक्षितायां रसभावादि धर्मान्तरोदयो, न हि स्वराणां स्थानभेदोऽलङ्कारोऽङ्गादिकृतः । वर्जितं काव्यदोषैरित्यादिना प्राक्तनाध्यायार्थेन सह सङ्गतिमस्याध्यास्य दर्शयति ।
एवं संस्कृते काकुविधानं प्राकृताध्यायप्रमेयभूते प्राकृतेऽप्यतिदिशति अलङ्कारा विरामाश्चेत्यादिना । अध्यायार्थमुपसंहरन् भाविनोऽध्यायस्यार्थमासू्त्रयति दशरूपेति दशरूपविधाने यत्पाठ्यं तदनने त्रिप्रकारेण योज्यमित्युपसंहारः । तुशब्दो व्युत्क्रमं सूचयति । प्रसङ्गादक्रमप्राप्तमपि काकुविधानमुक्तम् । अनुपूर्वश इत्यादि यत्तु क्रमापन्नं तदृशरूपं विकल्प्यमानं वक्ष्यामीति शिवम् ।।
इति काकुविकल्पलक्षणेऽस्मि–
न्नध्याये मुनिदिक्समर्थितेऽर्थम् ।
प्रकटीकुरुते स्म चन्द्रमौले–
रभिनवगुप्तसमाख्य एकदेशम् ।। (अभिनवगुप्तस्य)
Notes
1 द N– व्यपेतं ड–व्यपेतं वाक्य 2 द N–काव्यं 3 ड–अलङ्कारविशेषा ये पाठ्यसंस्कृतसंश्रयाः 4 न–श्रिताः 5 न–पाठ्ये तु संस्कृते ड–ते सर्वे संप्रकर्तव्याः स्त्रीणां पाठ्ये तु संस्कृते ग–तु संस्मृताः 6 ड– युतं 7 ड–ताल Kavi–काल 8 द–च 9 भ–अतः परं ।
इति भारतीये नाट्यशास्त्रे 1वागभिनये
2काकुस्वरव्यञ्जनो3 नाम
सप्तदशोऽध्यायः4 ।। 4a
Abh
इति श्रीमन्महामाहेश्वराभिनवगुप्ताचार्यविरचितायां
नाट्यवेदविवृतावभिनवभारत्यां काकुविधानं
नाम सप्तदशोऽध्यायः ।।
Notes
1 ड–वागङ्गाभिनय 2 भ–स्वरकाकु 3 न–व्यञ्जको 4 द–काकुव्यञ्जको नामाध्यायोऽष्टादशः ।। १५५–(२७७१) जादिबान्तेषु दसंज्ञके विना एकोनविंशोऽध्यायः ।। 4a: N: इति वागाभिनये काकुस्वरव्यञ्जको नामाध्यायोऽष्टादशः ।