श्रीः
नाट्यशास्त्रम्
षोडशोऽध्यायः ।
अनुबन्धः ।
भूषणाक्षरसङ्घातौ शोभोदाहरणे तथा ।
हेतुसंशयदृष्टान्ताः प्राप्त्यभिप्राय एव च ॥ १
Abh
†समस्तार्थालङ्कारवर्गस्य बीजभूताश्चमत्काराः कथाशरीरवैचित्र्यदायिनो वक्रोक्तिरूपा लक्षणशब्देन व्यवह्रियन्ते । लक्षणानि गुणालङ्कारमहिमानमनपेक्ष्य स्वसौभाग्येनैव शोभन्ते । लक्षणं महापुरुषस्य पद्मादिरेखादिवत्काव्यशरीरस्य सौन्दर्यदायि । अलङ्कारस्तु रत्नाभरणादिवदेव, येन विनापि स्वसौन्दर्येणैव पुरुषः, प्रविभासते । गुणस्तु प्रवृत्तिद्योतितो धैर्यादिवत्काव्यस्य शब्दार्थरचनामाश्रयति । यथा लक्षणरहितः पुरुषो न सुन्दरशब्दवाच्यस्तथालक्षणवर्जं कथाशरीरं गुणालङ्कारोज्ज्वलमपि नीरसत्वं भजत्प्रौढकाव्याभिधानं नार्हति । कथाशरीरसंपन्नेषु काव्येष्वेव लक्षणानि निर्वर्त्यन्ते न तु मुक्तकादिषु खण्डकाव्येषु, अत एव ‘काव्यबन्धास्तु कर्तव्या’ (ना.शा. १५/२२७) इति मुनिनैव मुक्तकादिवारणपरमुक्तम् । लक्षणान्यसंख्येयानि, तेषां चमत्कृतिविशेषगरिष्ठाणि षट्त्रिंशदेव मुनिना संगृहीतानि । कोहलादिभिस्तच्छिष्यैः प्रकीर्तितान्यपराणि कानिचिल्लक्षणत्वेन प्रसिद्धिमुपगतानि कालप्रवाहे भरतग्रन्थ एव पाठान्तरनिबन्धरूपेण प्रक्षिप्तानि स्युः । सौन्दर्यजनकत्वकारणेन भोजादिभिरुभयपाठगतान्यपि लक्षणानि स्वीकृत्यान्यैरपि कैश्चिच्चमत्कृतिभूतैर्लक्षणैः सह चतुःषष्टित्वेन प्रकटितानि ।
यद्विवेचितमतिगम्भीरप्रौढवाचा भगवता वृत्तिकारेण लक्षणान्यसंख्यानीति तदुपष्टभ्यैव भिन्नपाठोऽपि बालानां समुपवेद्य इत्यभूह्य तन्मध्य एव संक्षेपेण प्रकाशितः ।
भूषणं लक्षयति– अलङ्कारैरिति भरतोक्तैरुपमादिभिर्गुणैश्च यत्र कथा– शरीररचना समुल्लासिता तद्भूषणं नाम लक्षणम् । चित्रार्थैरिति विभावादि–
Notes
†अत्र या ‘अभिनवभारती’ पठ्यते, तत्र भोजराज–कुन्तकादीनां ग्रंथेभ्यः केचन सन्दर्भाः, केचन च त्रिवेन्द्रम्नाटकचक्रतः श्लोकाः पठ्यन्ते । एतत् सर्वं न विद्वन्मनोहारितामेति इति प्रक्षिप्तोऽयमंशः इति लक्ष्यते)
निदर्शनं निरुक्तं च सिद्धिश्चाथ विशेषणम् ।
गुणातिपातातिशयौ तुल्यतर्कः पदोच्चयः ॥ २
1दिष्टं चैवोपदिष्टं च विचारोऽथ विपर्ययः ।
भ्रंशश्चानुनयो माला दाक्षिण्यं गर्हणं तथा ॥ ३
अर्थापत्तिः प्रसिद्धिश्च पृच्छा सारूप्यमेव च ।
मनोरथश्च 1aलेशश्च संक्षोभो गुणकीर्तनम् ॥ ४
Abh
सामग्रीप्रत्यायकतया रसोद्द्योतकैरर्थविशेषैः मतान्तरे वक्रोक्तिरूपैः । यथा कृत्यारावणे सप्तमेऽङ्के कञ्चुकिनं दृष्ट्वा लक्ष्मणविभीषणौ– आर्य, कथय कथय ।
काञ्चु–का गतिः श्रूयतां –आर्या खलु सीता रावणाज्ञया किङ्करोपनीतं भर्तुर्मायाशिरोऽवलोक्य सखीभिराश्वास्यमानापि निवृत्तप्रयोजनापि ‘नाहमात्मानं क्लेशयामि’ इति (इत्यर्धोक्तौ तिष्ठति) ।
सर्वे–किं कृतवती
काञ्चु–यन्न शक्यते वक्तुम् ।
शशिन इव कला दिनावसाने कमलवनोदरमुत्सुकेव हंसी ।
पतिमरणरसेन राजपुत्री स्फुरितकरालशिखं विवेश वह्निम् ॥ इति ।
यथा वा रत्नावल्यां प्रथमेऽङ्के यौगन्धरायणस्य वचनं विश्रान्तविग्रह(रत्नावली १/८) इति श्लोकः । भूषणाख्यलक्षणेन काव्यं सामान्यवचसो भिद्यते, “तात्पर्यमेव वचसि ध्वनिरेव काव्ये,” (शृङ्गार ६, पृ. २२१) “यत्रालङ्कारवर्गोऽयं सर्वोऽप्यन्तर्भविष्यति” (वक्रोक्ति १/२०) “शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगीर्भवेत्” (भट्टनायक, हृदयदर्पणे) “द्वे वर्त्मनी गिरो देव्याः शास्त्रं च कविकर्म च । प्रज्ञोपज्ञन्तयोराद्यं प्रतिभोद्भवमन्तिमम्” (भट्टतोतस्य) इत्यादिना भोजकुन्तलकभट्टनायकतोतादिभिरुक्तरीत्या गुणालङ्कारवर्गः सर्व एव लक्षणशब्देन परिगृहीतः । गुणालङ्कारैरेव यत्र कथारूपा वक्रोक्तिरतिशयिता तत्र भूषणम् । अक्षरसंघातो विविधश्लेषोक्त्या वा अक्षरविपर्यासेन वोक्तिप्रत्युक्तिवैचित्र्यं यथा उभयाभिसारिकायां विटः– भगवति वैशिकाचलोऽहमभिवादये ।
Notes
1 ड– दृष्टं 1 a: N: धर्मश्च
1ज्ञेयाभ्यनुक्तसिद्धिश्च प्रियं वचनमेव च ।
षट्त्रिंशल्लक्षणान्येवं काव्यबन्धेषु निर्दिशेत् ॥ ५
अलङ्कारैर्गुणैश्चैव बहुभिः समलङ्कृतम् ।
भूषणैरिव चित्रार्थैस्तद्भूषणमिति स्मृतम् ॥ ६
यत्राल्पैरक्षरैः श्लिष्टैर्विचित्रमुपवर्ण्यते2 ।
तमप्यक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् ॥ ७
सिद्धैरर्थै: समं कुत्वा ह्वसिद्धोऽर्थः प्रयुज्यते ।
यत्र श्लिष्टा विचित्रार्था सा शोभेति विधीयते ॥ ८
Abh
परिव्राजिका–न वैशिकाचलेन प्रयोजनं, भवेद्वैशेषिकाचलेन ।
विटः – अस्त्येतत्कारणं………
परि – षट्पदार्थबहिष्कृतैः सह संभाषणमस्मद्गुरुभिर्निरुद्धम् ।
विटः – युक्तमेवैतत् । कुतः –
द्रव्यं ते तनुरायताक्षि दयिता रूपादयस्ते गुणाः
सामान्यं तव यौवनं युवजनः संस्तौति कर्माणि ते ।
त्वय्यार्ये समवायमिच्छति जनो यस्माद्विशेषोऽस्ति ते
योगस्ते तरुणैर्मनोऽभिलषितैर्मोक्षोऽप्यनिष्टाज्जनात् ॥ (उभयाभिसारिकायाम्)
परि–सांख्यमस्माभिर्जायते अलेपको निर्गुणः क्षेत्रज्ञः पुरुषः ।
विटः – हन्त निरुत्तराः स्मः ।
यथा वा शाकुन्तले सप्तमेऽङ्के “तापसी–सर्वदमन, शकुन्तलावण्यं पश्य” इत्यत्र शकुन्तलाशब्दः सूचितः ॥
शोभा–सिद्धैः प्रयोजनैरसिद्धस्य शुभसंघटनं यत्र निर्णीयते सूच्यते वा श्लेषवक्रोक्तिध्वनिविशेषमहिम्ना चमत्कृतोऽर्थः । केचित्स्वभावस्य प्रकटनमित्याहुः, अपरे तु यूनोः प्रभावप्रकटनमित्याचक्षते । अर्थप्रधाने वस्तुन्येषापरं शोभते । यथा रत्नावल्यां प्रथमेऽङ्के यौगन्धरायणः (‘द्वीपाद्’ इत्यादि पठित्वा) कः सन्देहः ।
Notes
1 ढ–ज्ञेयाह्युनुक्त । 2: N अर्थश्चितैर्निवर्ण्यते
यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् ।
साध्यते निपुणैरर्थस्तदुदाहरणं स्मृतम् ॥ ९
Abh
प्रारम्भेऽस्मिन् स्वामिनो वृद्धिहेतौ दैवेनेत्थं दत्तहस्तावलम्बे ।
सिद्धेर्भ्रान्तिर्नास्ति सत्यं तथापि स्वेच्छाचारी भीत एवास्मिभर्तुः ॥
(रत्रावली १/७)
यथा वा कथाशरीरसंघटनवैचित्र्यरूपशोभाया अभिज्ञानशकुन्तलायां मधुररप्रसक्तिः ।
परेषां दुर्भेद्यपरमार्थेन तुल्यार्थप्रयुक्तेन वाक्येन निगूढाशय कस्मैचिन्निपुणैर्यत्र प्रकाश्यते तदुदाहरणं, यथा देवीचन्द्रगुप्ते प्रावेशिकी ध्रुवा कुमारचन्द्रगुप्तस्य संशयाकुलमानसस्य प्रवेशावसरसूचकमर्थ मुद्दयोतयति–
एसो सिअकरवित्थरपणासिआसेसवेरितिमिरोहो ।
निअविहवरोण (? विहिवसेण)चन्दो गअणगिहं लंघिउं विसइ ॥
(देवीचन्द्रागुप्ते
सप्तमेऽङ्के)
यथा वा प्रद्युम्नाभ्युदये तृतीयेऽङ्केऽन्तर्नाटिकायां सूत्रधारवचनं–
देव दनुजाधिप त्वां त्रिभुवनलक्ष्मीरिव स्वयंरागात् ।
अभिरूपमभिसृतवती नलकूबरमत्र नाटके रम्भा ॥
(प्रद्युम्नाभ्युदये तृतीयेऽङ्के)
सामाजिकीभूतयोः सखीप्रभावत्योः सखी ‘‘पिअसहि एसो एव्व मग्गो मअणपरवसाणं इत्थि
आणं’’ इत्युपदिशति । अत्राभिसरणमेव प्रद्युम्नसङ्गमोपाय इत्यर्थः साध्यते ।
हेतुः–फलसाधनशक्तियुक्तं मितशब्दार्थं विचित्रभङ्ग्युक्तं वचनम् । यथा तापसवत्सराजे षष्ठेऽङ्के कृतमरणनिश्चयां वासवदत्तां परिबोधयन्यौगन्धरायण आह–देवि प्रसीद,
आसृष्टेः प्रतिपार्थिवं युवतयो जाता मनोवल्लभाः
मग्नास्ते व्यसनार्णवे च बहवस्ताभिः सहैवेश्वराः ।
देव्या यत्तु कृतं तदाविकलतामुत्सृज्य लोकोत्तरं
तस्यैषा कृपणोचितेन विधिना किं ग्लानिरुत्पद्यते ॥ इति
(तापसवत्सराजे षष्ठेऽङ्के) देव्या यत् कृतं तदिष्टार्थसाधनमेव अचिरेणैव शुभफलमनुभवसीति ।
संशयोऽसमाप्तवाक्यत्वात्साधनीयविषयस्वरूपे सन्दिग्धावस्था । एषोऽर्थकामप्रधानेषु रूपकेषु निपुणं प्रयुज्यते । यथा कुन्दमालायां षष्ठेऽङ्के रामायणकथावाचकौ कुशलवौ सीतावृत्तान्तं पठन्तौ–
यत्प्रयोजनसामर्थ्याद्वाक्यमिष्टार्थसाधनम् ।
समासोक्तं मनोग्राहि स हेतुरिति संज्ञितः ॥ १०
अपरिज्ञाततत्त्वार्थं वाक्यं यत्र समाप्यते ।
अनेकत्वाद्विचाराणां ससंशय इति स्मृतः ॥ ११
सर्वलोकमोग्राही 1यस्तु पक्षार्थसाधकः ।
हेतोर्निदर्शनकृतः स दृष्टान्त इति स्मृतः ॥ १२
Abh
सीतां निर्जनसंपाते चण्डश्वापदसङ्खले ।
परित्यज्य महारण्ये लक्ष्मणोऽपि न्यवर्तत ॥
ततः प्राणैः परित्यक्ता निराशा जनकात्मजा । (कुन्दमालायां षष्ठेऽङ्के) इति तूष्णींभवतः ।
रामलक्ष्मणौ–
अप्रियाख्यानभीतेन कविना संहृता कथा ।
किमितः कल्याणमावेदयति । एवं तावदनुयोक्ष्ये (इति पृच्छतः) ।
संशयालङ्कारस्तु संशयाख्यलक्षणाद्भिन्नचमत्कारतया भिद्यते ।
संक्रुद्धस्य ललाटलोचनभुवा सप्तार्चिषा धूर्जटे–
र्निर्दग्धे मकरध्वजे रतिरसौ किं स्याद्गृहीतव्रता ।
संवादाद्वनदेवता मुनिवधूवेषप्रपञ्चे मनः
कृत्वेत्थं रमतेऽत्र विग्रहवती किं वा तपश्श्रीरियम् ॥
इत्यादिषु संशयोऽलङ्कार एव न तु संशयाख्यलक्षणम् ॥
धर्मविरुद्धतया सर्वलोकमनोग्राहि वचनं निदर्शनोपष्टम्भं दृष्टान्तसंज्ञकं लक्षणम् । यथा धूर्तविटे–“स्त्रीषु प्रसङ्गो न कर्तव्यः” इत्यत्र “भावः किं पश्य” तीत्युक्ते “विटः–भोः उपदेशमात्रं खल्वेतत् । तमहं न पश्यामि यः स्त्रीषु प्रसङ्गं न गच्छेत्, श्रूयन्ते हि महेन्द्रादयोऽप्यहल्याद्यासु विकृतिमापन्नाः” इति ।
यथा वा पद्मप्राभृतके स्वसोदरीप्रेयसोऽनुयोगे संदिग्धमानसां देवसेनामाह शशः–
Notes
1 प–यःस्व ड–यश्च ।
दृष्ट्वैवावयवान् कांश्चि1द्भावो2यत्रानुमीयते2a ।
3प्राप्तिं तामभिजानीयाल्लक्षणं नाटकाश्रयम्3a ॥ १३
अभूतपूर्वो 4यो ह्यर्थः सादृश्यात्परिकल्पितः ।
लोकस्य हृदयग्राही सोऽभिप्राय इति स्मृतः ॥ १४
Abh
दक्षात्मजाः सुन्दरि योगताराः किं नैकजाताः शशिनं भजन्ते ।
आरुह्यते वा सहकारवृक्षः किं नैकमूलेन लताद्वयेन ॥ इति (पद्मप्राभृतके)
प्राप्तिर्यथा कुन्दमालायां तृतीयेऽङ्के लक्ष्मणः कानिचित्पदचिह्नानि सैकते दृष्ट्वा राममाह–
विलासयोगेन परिश्रमेण वा स्वभावतो वा निभृतानि मन्थरम् ।
पदानि कस्याश्चिदिमानि सैकते प्रयान्ति तुल्यं कलहंसविभ्रमम् ॥
(कुन्दमालायां तृतीयेऽङ्के) रामः –(निर्वण्य सहर्षं) किमुच्यते कस्याश्चिदिति, ननु वक्तव्यं सीतायाः पदानीति । पश्य–
समानं संस्थानं निभृतललिता सैव रचना
तदैवैत्तद्रेखा कमलरचितं चारुतिलकम् ।
यथा चेयं दृष्ट्वा हरति हृदयं शोकविधुरं
तथा ह्यस्मिन् देव्या सपदि पदपङ्क्तिर्विनिहिता ॥ इति ।
(कुन्दमालायां तृतीयेऽङ्के) अभिप्रायः–
अभूतपूर्व इत्यसत्पदार्थः केवलकल्पितः । केचित्स्वाद्यवस्तुन्यभिमान इत्याहुः तद्वैचित्र्यरहितत्वादुपेक्ष्यम् । यथा तापसवत्सराजे चतुर्थेऽङ्के सांकृत्यायनी यौगन्धरायणोद्योगं विमृश्य प्रणिधिं प्राह–
दुरुमुदीर्णे च रिपावेवमकिञ्चित्करे च विजिगीषौ ।
भवता तु नयनगुणशतैः सोऽयमसूत्रः पटः क्रियते ॥ इति ।
यथा वा– भूमिः कराग्रेण विवर्तिताद्य श्वासेन भग्नो हिमवान्महाद्रिः । (तापसवत्सराजे चतुर्थेऽङ्के) आसारवृष्टा्या शमितोऽग्निरौर्वो विनिर्हतः कीटशतैरनन्तः ॥ इति । (वत्सराजचरिते द्वितीयेऽङ्के)
Notes
1 ढ–अवयवं किंचित् 2 प–यत्रोपमीयते 2 a: N: यत्रापनीयते; 3 द–अप्राप्तिं चैवतां प्राप्तिं जानीयाल्ल्क्षणं बुधः प–प्राप्तिन्नाम विजानीयात् ड–प्राप्तिं तामपि 3a: N: अप्राणिष्वेव तां प्राप्तं जानीयाल्लक्षणं बुधः 4 फ N–अप्यर्थोयः ।
यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ।
1परापेक्षाव्युदासार्थं तन्निदर्शनमुच्यते ॥ १५
निरवद्यस्य वाक्यस्य पूर्वोक्तार्थप्रसिद्धयै2 ।
3यदुच्यते तु वचनं निरुक्तं तदुदाहृतम् ॥ १६
बहूनां तु प्रधानानां4 नाम यत्राभिकीर्त्यते5 ।
अभिप्रेतार्थसिद्ध्यर्थं सा सिद्धिरभिधीयते ॥ १७
Abh
निदर्शनं यथा–
शान्तिं याचि शनैर्महौषधिबलादाशीविषाणां विषं
शक्यो मोचयितुं मदोत्कटकटादात्मा गजेन्द्राद्वने ।
ग्राहस्यापि मुखान्महार्णवजले मोक्षः कदाचिद्भवेद्
वेशस्त्रीवडवामुखानलगतो नैवोत्थितो दृश्यते ॥ (उभयाभिसारिकायां)
निरुक्तं–यथा वत्सराजचरिते प्रथमेऽङ्के भरतरोहकः राजानमाह–प्रसह्य हरणे केवलं प्रमादिता ख्यातिः ।
राजा–किमेतत् ।
भरत–सदोषेषु कार्येषु यदल्पदोषं तत्प्रारब्धव्यम् ।
वसुवर्मा–स्वामिन् तत्राप्यहं वाच्यदोषं न पश्यामि । कुतः–
नीता बलात्प्रकृतिभद्रतरा सुभद्रा यद्वासुभद्रभगिनी कपिकेतनेन ।
देवस्य तेन समभूद्वचनीयता किं तेजःप्रकाशयशसां यदुदन्तिनां वा ॥
(वत्सराजचरिते प्रथमेऽङ्के)
शालं –साधु, निरुक्तमभिहितं वसुवर्मणा ।
सिद्धिः–प्रधानानां स्पृहणीयानां प्रयोजनान्तराणामतर्कितोपलब्धानां परिकीर्तनम् ।
यथा कौमुदीमहोत्सवे चतुर्थेऽङ्के मन्त्रगुप्तवचनं–
सङ्गतिश्चिरमचिन्तितपूर्वा निर्वृतप्रणयिनी मिथुनानाम् ।
आधिराज्यमधिरोहति तस्याः षोडशीमपि कलां न मघोनः ॥ इति।
(कौमुदीमहोत्सवे चतुर्थेऽङ्के)
Notes
1 न–परोपेक्षा ढ–परपक्ष द–पराक्षेप, N: पराक्षेपा(प)व्युदासार्थं 2 द N–अर्थः प्रसिध्यति 3 द N–तदप्यागमसंभूतं निरुक्तमभिनिर्दिशेत् 4 ड–च प्रयुक्तानां 5 फ–अभिधीयते ।
सिद्धान् बहून् प्रधानार्थानुक्त्वा यत्र प्रयुज्यते ।
विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ॥ १८
गुणाभिधानौर्विविधैर्विपरीतार्थयोजितैः ।
गुणातिपातो मधुरौर्निष्ठुरार्थौ1र्भवेद्यथा2 ॥ १९
बहून् गुणान् कीर्तयित्वा सामान्यजनसम्भवान् ।
विशेषः कीर्त्यते यस्तु ज्ञेयः सोऽतिशयो बुधैः ॥ २०
Abh
विशेषणं–यथा राजा विदूषकमाह–अयि मूढ–
वृत्तिर्मूलपलादिभिः क्षितितले शय्या जटाधारणं
वासो वल्कलमीदृशं कृतमिदं सामान्यमन्यैरपि ।
संवेगाभिभवे विमूढमनसा यन्नानुयाता प्रिया
तन्मिथ्यापरिबोधितेन न कृतं स्नेहानुरूपं मया ॥ इति । (तापसवत्सराजे तृतीयेऽङ्के)
गुणातिपातो–यथा विटः–
जात्यन्धां सुरतेषु दीनवदनामन्तर्मुखाभाषिणीं
हृष्टस्यापि जनस्य शोकजननीं लज्जापटेनावृताम् ।
निर्व्याजं स्वयमप्यदृष्टजघनां स्त्रीरूपबद्धां पशुं
कर्तव्यं खलु नैव भोः कुलवधूकारां प्रवेष्टुं मनः ॥ (धूर्तिविटे)
अत्र कुलस्त्रीसमुचिता विनयललज्जादयो गुणा विपरीतार्थयोजिताः । अतिशयो धृतराष्ट्रं प्रति भीष्मः–
एतत्ते हृदयं स्पृशामि यदि वा साक्षी तवैवात्मजः
संप्रत्येव तु गोग्रहे यदभवत्तत्तावदाकर्ण्यताम् ।
एकः पूर्वमुदायुधैः स बहुभिर्दृष्टस्ततोऽनन्तरं
यावन्तो वयमाहवप्रणयिनस्तावन्त एवार्जुनाः ॥ इति । विलक्षकुरुपतौ
तुल्यतर्को –यथा राजा–
नवार्कभापल्लवितामलोदरे सुगन्धिरेणूत्करकेसरोज्ज्वले ।
रसामृतज्ञो भ्रमरः सरोरुहे किमर्कपुष्पे प्रणयं करिष्यति ॥ इति ।
(वत्सराजचरितेऽष्टमेऽङ्के)
Notes
1 फ–निष्ठुरार्थो 2 ड–अथ
रूपकैरुपमाभिर्वा 1तुल्यार्थाभिः प्रयोजितः2 ।
3अप्रत्यक्षार्थ4संस्पर्शस्तुल्यतर्कः प्रकीर्तितः5 ॥ २१
बहूनां 6तु प्रयुक्तानां 7पदानां बहुभिः पदैः ।
उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥ २२
यथादेशं यथाकालं यथारूपं8 च वर्ण्यते ।
यत्प्रत्यक्षं परोक्षं वा 9दृष्टं तद्वर्णतो10 ऽपि वा ॥ २३
Abh
पदोच्चयो यथा राजोत्तमसचिवं वर्णयति –
खङ्गो रक्षान्धकारे रविररितिमिरे कार्यभारेषु धुर्यः
दीपो मन्त्रान्धकारे सुरगुरुरनये सङ्क्रमो व्यापदोघे ।
उत्कण्ठायां सभागी गतिरनवसरे चन्दनं शोकतापे
संक्षेपान्मानुषाभो हितशिवसुखदो भव्यचिन्तामणिर्मे ॥(वत्सराजचरिते षष्ठेऽङ्के)
दृष्टं प्रत्यक्षं यथा –
वामं सन्धिस्तिमितवलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं
नृत्तादस्याः स्थितमतितरां कान्तमृज्वायताक्षम् ॥ इति । (मालविका २/६)
परोक्षं यथा मदनसेनाया वर्णनं–
उत्क्षिप्तालकमीक्षणान्तगलितं कोपाञ्चितान्तभ्रुवा
दष्टार्धोष्ठमधीरदन्तकिरणं प्रोत्कम्पयन्त्या मुखम् ।
शिञ्जन्नूपुरया विकृष्य विगलद्रक्तांशुकं पाणिना
मूर्धन्यस्य सनूपुरः समदया पादोऽर्पितः कान्तया ॥ इति । (पादताडितके)
Notes
1 ड–उपमानैर्वा 2 ड–प्रयोक्तृभिः 3 ड–अप्रत्ययार्थ 4 द–संस्पृष्टः 5 द–इतिस्मृतः 6 द–संप्रयुक्तानां 7 ड–पादानाम् 8 फ–पात्रं 9 फ–दिष्टं 10 द–वर्णको ।
परिगृह्य तु शास्त्रार्थं यद्वाक्यमभिधीयते ।
1विद्वन्मनोहरं स्वन्तमुपदिष्टं तदुच्यते ॥ २४
2पूर्वाशयसमानार्थैरप्रत्यक्षार्थसाधनैः ।
3अनेकोपाधिसंयुक्तो विचारः परिकीर्तितः ॥ २५
विचारस्यान्यथाभावस्तथादृष्टोपदिष्टयोः4 ।
सन्देहाज्जायते यत्र5 स विज्ञेयो विपर्ययः ॥ २६
Abh
उपदिष्टं यथा राजा–
धर्मः प्रागेव चिन्त्यः सचिवमतिगतिः प्रेक्षितव्या स्वबुध्या
प्रच्छाद्यौ रागरोषौ मृदुपरुषगुणौ कालयोगेन कार्यौ ।
ज्ञेयं लोकानुवृत्तं परचरनयनैर्मण्डलं प्रेक्षितव्यं
रक्ष्यो यत्नादिहात्मा रणशिरसि पुनः सोऽपि नावेक्षितव्यः ॥ इति ।
(अविमारके प्रथमेऽङ्के) यथा वा तन्त्रान्तरविषये
शून्ये वासं प्रमर्द्य द्विरद इव लतां यो हरत्याशु नारीं
मत्तां वा यो विदित्वा ह्यभिभवति शनै रञ्जयन्वाक्यलेशैः ।
अन्यं कृत्वोपधिं वा छलयति कुरुते भावसङ्गूहनं वा
तस्यैतच्चेष्टितं भो न भवति विफलं वामशीला हि नार्यः ॥ इति ॥ (धूर्तविटे)
प्रवृत्तार्थानुसारि परोक्षार्थसाधकं बहूपायोपाधिदर्शनं वाक्यं विचारः– यथा राक्षसवाक्यं–
साध्ये निश्चितमन्वयेन घटितं बिभ्रत्सपक्षे स्थितिं
व्यावृत्तं च विपक्षतो भवति यत्तत्साधनं सिद्धये ।
यत्साध्यं स्वयमेव तुल्यमुभयोः पक्षे विरुद्धं च य –
त्तस्याङ्गीकरणेन वादिन इव स्यात्स्वामिनो निग्रहः ॥ (मुद्राराक्षसे पञ्चमेऽङ्के)
अथवा विज्ञातापरागहेतुभिः प्राक्परिगृहीतोपजापैरापूर्णमिति न विकल्पितुमर्हामि ॥ इति ।
Notes
1द– विदुर्मनोहरं 2 द– पूर्वशेष 3 द N–तिरस्कृतार्थविषयो फ– अनेकोपाय 4 द–दिष्टोपदिष्टयोः ड–दृष्टोपयोगतः न–उपदृष्टयोः 5 ड–कल्प्यते यस्तु
वाच्यमर्थं परित्यज्य दृष्टादिभिरनेकधा ।
अन्यस्मिन्नेव पतनादाशुभ्रंशः स इष्यते1 ॥ २७
उभयोः प्रीतिजननो विरुद्धाभिनिवेशयोः2 ।
3अर्थस्य साधकर्श्चव विज्ञेयोऽनुनयो बुधैः ॥ २८
Abh
विपर्ययो यथा रावणं प्रति सचिवः–
उदर्कसिद्धिमिच्छद्भिः सद्भिर्न खलु दृश्यते ।
चतुर्थीचन्द्रलेखेव परस्त्रीफालपट्टिका ॥
रावणः– परस्त्रीकुचकुम्भेषु कुम्भेषु वरदन्तिनाम् ।
निपतन्ति न भीरूणां दृष्टयः शरवृष्टयः ॥
यथा वा मत्तविलासे शाक्यभिक्षुः –परमकारुणिएण भअवदा तहागएण पासादेसु वासो पज्जंकेसु सअणं पुव्वण्हे भोअणं……एदेहिं –उवदेसेहिं भिक्खुसंघस्स अणुग्गहं करंतेण किं णु हु इत्थिआपरिग्गहो सुरापाणविहाणं अणादिठं । अहवा सव्वञ्ञो एदं उण पेक्खदि । अवस्सं एदेहि दुठ्ठबुद्धत्थविरेहि णिरुच्छाहेहि अम्हाणं तरुणजणाणं मच्छरेण पिडअपुत्थएसु इत्थिआसुरापाणविहाणाणि पलामुट्ठाणि इति तक्केमि ॥ भ्रंशो यथा वेणीसंहारे द्वितीयेऽङ्के कञ्चुकिनमाह दुर्योधनः–
सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् ।
स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतः सुयोधनम् ॥ इति ॥ (वेणी २/५)
कञ्चु–(कर्णौ पिधाय सभयं) शान्तं पापं प्रतिहतममङ्गलम् ॥ इति ।
अनुनयो यथा रामपराक्रमस्तुतिव्यग्रं मारीचमाह रावणः–आः प्रतिपक्षपक्षपातिन् क्षुद्र राक्षसापसद ! किं बहुना–
तवैव रुधिराम्बुभिः क्षतकठोरकण्ठस्तुतैः
रिपुस्तुतिभवो मम प्रशममेतुं कोपानलः ।
सुरद्विपशिरस्स्थलीदलनदष्टमुक्ताफलः
स्वसुः परिभवोचितं पुनरसौ विधास्यत्यसिः ॥ (रामाभ्युदये द्वितीयऽङ्के)
Notes
1 ड–इह भ्रंशः स उच्यते फ– तद्भ्रंशितमिहेष्यते 2 ड– निविष्टयोः 3 द–द्व्यर्थस्य ।
1अभिप्रेतार्थसिद्धयर्थं कीर्त्यन्ते यत्र सूरिभिः ।
प्रयोजनान्यनेकानि सा मालेत्यभिसंज्ञिता ॥ २९
हृष्टैः प्रसन्नवदनैर्यत्परस्यानुवर्तनम्2 ।
क्रियते वाक्यचेष्टाभिस्तद्दाक्षिण्यमुदाहृतम्3 ॥ ३०
यत्र संकीर्तयन्दोषं4 गुणमर्थेन दर्शयेत् ।
5गुणातिपाताद्दोषान्वा 6गर्हणं नाम तद्भवेत् ॥ ३१
Abh
इति खङ्गमाकर्षति । तदा प्रहस्तः (उभयोर्मध्ये निपत्य)–प्रसीदतु प्रसीदतु, महाराजः, नेदमनुरूपं स्वामिनः । देव–
लोकत्रयक्षयोद्वृत्तप्रकोपाग्रेसरस्य ते ।
ईदृशश्चन्द्रहासस्य भृत्येष्वनुचितः क्रमः ॥ इति । (रामाभ्युदये द्वितीयेऽङ्के)
माला यथा राजा–
दृष्टा यूयं निर्जिता विद्विषन्तः प्राप्ता देवी भूतधात्री च भूयः ।
संबन्धोऽभूद्दर्शकेनापि सार्धं किं दुष्प्रापं यन्न लब्धं भवद्भयः ॥ इति तापसवत्सराजे
दाक्षिण्यं यथा रत्नावल्यां द्वितीयेऽङ्के शीर्षवेदनव्याजेन गन्तुमुद्यतां वासवदत्तां पटान्तेन गृहीत्वा निरुन्धन् वत्सराजः “प्रिये, प्रसीदेति ब्रूयाम्” (रत्नावली २/१९)इत्यादि वदन्निष्क्रान्तायां प्रेयस्यां “अलमरण्यरुदितेन” इति ब्रुवन्तं विदूषकमाह–“मूढ ! न लक्षितस्त्वया देव्याः कोपः तत्सर्वथा देवीप्रसादनं मुक्त्वा नान्यमत्रोपायमाकलयामि । तदेहि देवीं प्रसादयितुमभ्यन्तरमेव प्रविशावः” इति । अत्र राज्ञोऽनुवर्तनं दाक्षिण्यम् । गर्हणं देषस्य गुणीकृतत्वं * यथा–
प्रणष्टा न व्यक्तिर्भवति वचसः सैव मृदुता
न रागो नेत्राब्जे त्यजति न च लज्जा व्यपगता ।
स्मृतिः प्रत्यायाता परिहृषितमद्यापि च मुखं
मदो दोषांस्त्यक्त्वा त्वयि परिणतस्तिष्ठति गुणैः ॥ (धूर्तविटे)
Notes
1 द N –अनीप्सितार्थ ड–ईप्सितार्थ 2 न–वर्णनम् 3 द–इतिस्मृतम् 4 न–दोषान् 5 प–गुणाभिवादात् 6 ड– दोषाद्वा ।
- अन्ये तु कुत्सेव क्रोधान्मानान्मत्सराद्वा गर्हणमित्याहुः ।
1अर्थान्तरस्य कथने यत्रान्योऽर्थः 2aप्रतीयते2 ।
3वाक्यमाधुर्यसंपन्ना सार्थापत्तिरुदाहृता ॥ ३२
वाक्यैः सातिशयैरुक्ता वाक्यार्थस्य प्रसाधकैः4 ।
लोकप्रसिद्धैर्बहुभिः5 प्रसिद्धिरिति कीर्तिता ॥ ३३
Abh
गुणातिपाते दोषो यथा विष्णुत्रातः–
नृपाः प्रभुत्वात्प्रतिषेधवामा जिह्मो विधिस्तद्वशवर्ति कार्यम् ।
साचिव्यतो नापरमस्ति पुंसां विषाददुःखायशसां निदानम् ॥
(वत्सराजचरिते द्वितीयेऽङ्के) यथा वा लामकायनः–
पूर्वाह्णे कृतभोजनव्यतिकरान्नित्यैव नीरोगता
कण्डूतिर्वपनादपैति शिरसः स्नानं यदा रोचते ।
जात्याचारकदर्थनाविरहितं ब्राह्मण्यमात्मेच्छया
धूर्तैः सत्त्वहिताय कैरपि कृतं साधुव्रतं सौगतम् ॥ (तापसवत्सराजे तृतीयऽङ्के)
अर्थापत्तिर्यथा –
आदष्टस्फुरिताधरे भवति यो वक्त्रारविन्दे रसः
प्रीतिर्या च हृतांशुके च जघने काञ्जीप्रभोद्दयोतिते ।
लक्ष्मीर्या च नखक्षताङ्कुरधरे पीने कपोले स्त्रियो
रक्तं तेन विरज्यते न हृदयं जात्यन्तरेऽपि ध्रुवम् ॥ (धूर्तविटे)
अत्र जन्मान्तरेऽपि तस्या अनुरक्तिरनुर्वर्तत एवेत्युक्ते जन्मान्तरेष्वपि विरागो न प्रभवति तस्माद्भवबन्धविमुक्तिर्न स्यादित्यर्थापत्तिर्नाम लक्षणम् ।
प्रसिद्धिः –प्रसाधकैः प्रकृष्टसाधकैः, प्रसिद्धैः पूर्वमेव सिद्धैः । यथा बलदेवः दुर्योधनमाह–भीमसेन इदानीं तव युद्धवञ्चनामुत्पाद्य स्थास्यति ।
दुर्यो–किं चाहं भीमसेनेन वञ्चितः ।
बल–अथ केन भवानेवंविधः कृतः ।
Notes
1 द N–अन्यमर्थं समालोच्य 2 द– प्रकाश्यते 2a: N: प्रसाध्यते 3 ड–वाक्यं माधुर्यसंयुक्तं 4 द– स्ववाक्यार्थप्रकाशकैः 5 द–बह्वर्थैः ।
यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् ।
1पृच्छन्निवाभिधत्तेऽर्थं सा पृच्छेत्यभिसंज्ञिता ॥ ३४
दृष्ट2श्रुतानुभूतार्थ 3कथनादि समुद्भवम् ।
सादृश्यं क्षोभजननं 4सारूप्यमिति संज्ञितम् ॥ ३५
Abh
दुर्यो- श्रूयतां,
येनेन्द्रस्य च पारिजातकतरुर्मानेन तुल्यं हृतो
दिव्यं वर्षसहस्रमर्णवजले सुप्तश्च यो लीलया ।
दीप्त्या भीमगदां प्रविश्य सहसा निर्व्याजयुद्धप्रियः
तेनाहं जगतां प्रियेण हरिणा मृत्योः प्रतिग्राहितः ॥ (गदायुद्धे)*
अत्र वाक्यार्थस्य साधका एव भगवतो विष्णोः पारिजाताहरणलीलावटपत्रशयनादयः । अन्ये तु प्रसादकैरलङ्कारिभिरिति गृह्णन्ति ।
पृच्छा शोकादिपरवशतयात्मानं वा परं वा परोक्षे संबोध्य पृच्छन्निवाभिधानम् । तन्नोत्तरमपेक्षते तस्यैव प्रत्यायकत्वात् ।
यथा हनुमान् सीतां दृष्टाह–
स्थानेऽवसीदसि रघूद्वह किं विधातः
अस्यास्त्वयेक्षितमलक्षणमङ्गकेषु ।
अद्यापि जीवसि दशानन हे हनूमन्
केयं तवाभिमुखवर्ति रिपोः प्रतीक्षा॥ इति । (रामचरिते)
सारूप्यं–आदिशब्देन दर्शनश्रवणानुभवनान्युपलक्षितानि । अत्र रूपविभ्रान्त्या न क्षोभजननमेव लक्षणस्य चमत्कृतिः । यथा छलितरामे लक्ष्मणेन बध्वानीतो लवो रामयज्ञशालायां हिरण्मयीं सीतां दृष्ट्वाह–“अये कथमियमम्बा राजद्वारमागता” इति सहसोत्थाय प्रणम्य तदनन्तरं काञ्चनमयीति निर्वर्ण्योपसृत्योपविशति ॥
यथा वा –दुर्योधनं हत्वागच्छन्तं भीमसेनं दुर्योधनमिति चार्वाकवार्तयैव भ्रान्त्वा धर्मसूनुस्तं गाढं गृहीत्वाह….
आशैशवादनुदिनं जनितापराधो
मत्तो बलेन भुजयोर्हतराजपुत्रः ।
आसाद्य मेऽन्तरमिदं भुजपञ्जरस्य
जीवन्प्रयासि न पदात्पदमद्य पापः ॥ इति ॥ (वेणीसंहारे ६.३८)
Notes
1 द N –पृच्छेत्प्रज्ञापयन्नर्थं ड–पृच्छ्यते चाभिधत्ते चार्थं 2 द–श्रुतादि 3 ड– कथनाभिः 4 ड– जनितं ।
- अयं श्लोकः 13–त्रिवेन्द्रमनाटकेषु ‘ऊरुभङ्ग’ इत्याख्ये नाटके पठ्यते ।
हृदयस्थस्य वाक्यस्य 1aगूढार्थस्य विभावकम्1 ।
अन्यापदेशैः2 कथनं मनोरथ इति स्मृतः2a ॥ ३६
यद्वाक्यं 3वाक्यकुशलैरुपायोनाभिधीयते ।
4सदृशार्थाभि5निष्पत्त्या5a स लेश इति कीर्तितः ॥ ३७
Abh
मनोरथो यथा विकटनितम्बाह-
अन्यासु तावदुपमर्दसहासु भृङ्ग
लोलं विनोदय मनः सुमनोलतासु ।
मुग्धाननामरजसं कलिकामकाले
बालां कदर्थयसि किं नवमालिकायाः ॥ (विकटनितम्बाप्रहसने)
अत्रात्मानमेव सुमनोलतात्वेनापदिशति ।।
लेशो यथा विमारके द्वितीयेऽङ्के धात्री नायकमाह–अय्य किं चिंतीअदि अविमारकः – भवति शास्त्रं चिन्त्यते ।
धात्री –किं णाम एदं रमणिज्जं सत्थं चिंतीअदि ।
अवि–भवति योगशास्त्रं चिन्त्यते ।
धात्री–(सस्मितं) पडिग्गहीदं मंगलवअणं, जोअसत्थं एव्व होदु ।
अवि-को नु खलु वाक्यार्थः । अन्यदप्यभिलाषवशादन्यथा संकल्पयामि । इत्यादि । अन्ये तु लेख इति पठन्निङ्गितज्ञानाभिधानमिति च लक्षयन्ति ।
क्षोभो यथा रत्नावल्यां तृतीयेऽङ्के सागरिकैवेति मत्वा वासवदत्तामुपलालयतो राज्ञः सा स्वावगुण्ठनमपनीय वैलक्ष्यमुत्पादितवती ।
राजा (अञ्जलिं बध्वा)–प्रिये वासवदत्ते, प्रसीद प्रसीद ।
Notes
1a: N: गूढस्यार्थविभावकं 1 फ–सुश्लिष्टार्थप्रकाशकम् न–गूढस्यार्थप्रकाशकम् 2 फ–देश 2a: N: स्मृतम् 3 ड–वाद 4 फ–सादृश्या 5 द–निष्पन्नः । 5a: N: निग्रहार्थाभिनिष्पन्नः
परदोषैर्विचित्रार्थैर्यत्रात्मा परिकीर्त्यते1 ।
2अदृष्टोऽन्योऽपि वा कश्चित्स तु क्षोभ इति स्मृतः ।। ३८
लोके गुणातिरिक्तानां 3गुणानां यत्र नामभिः ।
एको हि4 शब्द्यते5 तत्तु विज्ञेयं गुणकीर्तनम् ।। ३९
प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यत्र प्रतीयते6 ।
Abh
वास (अश्रु निपातयन्ती) मा एव्वं भण । अण्णगदाइ एदाइ अक्खराड ।
विदू-भोदि, महाणुभावा खु तुमं ता खमीअदु दाव एक्को अवराहो पिअवअस्सस्स ।
वास–णं पुढमसंगमे विग्धं करंतीए मए जेव्व एदस्स अवरद्धं ण अज्जपुत्तस्स।
अन्ये तु “आत्मन्यभूततद्भावभावन"मिति, परे “त्वन्यगते हेतावन्यस्मिन् कार्यक्लपन"मिति च लक्षयन्ति ।।
गुणकीर्तनं यथा वत्सराजचरिते चुतर्थेऽङ्के शालङ्कायनः–नीलनागव्यपदेशेन समन्ततः शस्त्रप्रभाभासुरैरस्मद्योधैः परीतेन महति भयस्थाने विगतसंभ्रमं–
तेन प्रोक्तं धैर्यगाम्भीर्यशौर्यप्रज्ञातेजोनीतिदाक्षिण्यगर्भम् ।
वाक्यं सामाद्यं सोर्जितं श्रोत्ररम्यं शास्त्रीकर्तव्यं तद्बुधैः स्वार्थकामैः।। (वत्सराजचरिते) भरतरोहकः –एष संक्षिप्तविस्तरो नाम ।
राजा –ततस्ततः –
शाल–देव, यस्तस्य युद्धे महति प्रवृत्ते पराक्रमः साहसलाञ्छनः सः
प्रद्युम्नरामार्जुनभीमकर्णसाम्बाभिमन्युष्वविचिन्त्य एव ।। इत्यादि (वत्सराजचरिते)
राजा-अहो नु खलु स्वभावसिद्धानां गुणानामव्यभिचारिता । कुतः –
अविदित इति नैकधा प्रयत्नाद्बहुदिवसं बहुधा परीक्षमाणः ।
द्विगुणमभिविराजते गुणैः स्वैर्मणिरिव जातिविशेषवान्महार्हः ।। (वत्सराजचरिते)
Notes
1 द N– चाभिधीयते 2 दफ–अदुष्टो 3 द–बहूनां 4 ड– अपि 5 न– शप्यते द N– अभिगद्यते 6 द N–प्रदीयते ।
वचनेन विनानुक्तसिद्धिः1 सा परिकीर्तिता ।। ४०
यत्प्रसन्नेन मनसा पू्ज्यं पूजयितुं वचः ।
हर्षप्रकाशनार्थं तु सा प्रियोक्तिरुदाहृता ।। ४१
2एतानि काव्यस्य च लक्षणानि2a
षट्त्रिंशदुद्देशनिदर्शनानि ।
3प्रबन्धशोभाकरणानि तज्ज्ञैः
सम्यक्प्रयोज्यानियथारसानि4 ।। ४२
Abh
सिद्धिर्यथा यौगन्धरायणो दोलायितचित्तां वासवदत्तामाह–
कौशाम्बीं परिभूय नः कृपणकैर्विद्वेषिभिः स्वीकृतां
जानास्येव तथा प्रमादपरतां पत्युर्नयद्वेषिणः ।
स्त्रीणां च प्रियविप्रयोगविधुरं चेतः सदैवात्र मे
वक्तुं नोत्सहते मनः परमतो जानातु देवी स्वयम् ।। (तापसवत्सराजे)
यथा वा तत्रैव द्वितीयेऽङ्के विनीतभद्रो देवीप्रस्थानं वर्णयन्नाह–
मामुद्धिश्य तथा देव्या बाष्पसंरुद्धकण्ठया ।
आर्यपुत्रं प्रतीत्युक्तं वक्तव्यं न समाहितम् ।। (तापसवत्सराजे, २)
प्रियोक्तिर्यथा भरतरोहको वत्सराजाय वासवदत्तां वीणाभ्यासार्थमर्पयितुकामस्तं दृष्ट्वाह-
या शेते कौस्तुभस्य द्युतिकिसलयिते शारदव्योमनीले
विष्णोर्वक्षस्युदारे रजनिकरकराकारहारोपहारे ।
साभ्येत्यालिङ्गतु त्वां प्रशिथिलगलितेनोत्तरीयेण लक्ष्मी-
र्हर्षादापीडयन्ती नवकमलरजोरोचनाभ्यां स्तनाभ्याम् । इति
(वत्सराजचरिते सप्तमेऽङ्के)
(एवमेव श्रव्यप्रबन्धेष्वपि कथा-शरीर-संविधान-संभाषण-वैदग्ध्य-रूपः कवि-व्यापारो लक्षणाख्यो द्रष्टव्यः ।)
इति षोडशाध्यायानुबन्धः समाप्तः।
Notes
1 ड–जातु सिद्धिः 2 ड–वै काव्यविभूषणानि फ– काव्यस्य विभूषणानि 2 a:N: एतानि वै काव्यनिरूपणानि 3 ड– काव्येषु सोदाहरणानि 4 ड– बलानुरूपम् न–रसानुरूपम् ।