श्रीः
नाट्यशास्त्रम्
षोडशोऽध्यायः*
†विभूषणं चाक्षरसंहतिश्च शोभाभिमानौ गुणकीर्तनं च ।
प्रोत्साहनोदाहरणे निरुक्तं गुणानुवादोऽतिशयः सहेतुः ॥ १
सारूप्यमिथ्याध्यवसायसिद्धि–
पदोच्चयाक्रन्दमनोरथाश्च ।
आख्यानयाञ्चाप्रतिषेधपृच्छा–
दृष्टान्तनिर्भासनसंशयाश्च ॥ २
Abh
विचित्रं रूपकभुवो लक्षणं भूषणं भुवः ।
भास्यते येन तं वन्दे प्राच्यधीसाधितं शिवम् ॥
(ननु) काव्यबन्धाः षट्त्रिंशल्लक्षणान्विताः कर्तव्या इत्युक्तं, तत्र गुणालङ्कारादि– रि( ?दीरी)ति वृत्तयश्चेति काव्येषु प्रसिद्धो मार्गः, लक्षणानि तु न प्रसिद्धानि, किं च पुरुषस्येव काव्यस्य लक्षणगुणालङ्कारव्यवहारो न युक्तः पुरुषस्य शरीर– चैतन्यभेदात् कटकादीनां ततोऽपि भेदात्, काव्यस्य पुनर्विरचनकाले प्रति–
Notes
*जातिबान्तेषु सप्तदशोऽध्यायः । †अस्मिन्नध्याये षट्त्रिंशल्लक्षणसमुद्देशानिर्देशयोर्गुणदशकस्य लक्षणे च द्विविधः पाठो दृश्यते । तत्र वृत्तिकारेणैकः पाठो गृहीतः, कीर्तिधरधनञ्जयसर्वेश्वरादिभिश्च स एव प्रमाणीकृतः । भिन्नः पाठश्चिरन्तनैः कैश्चिद्व्याख्यातृभिः पठितः, स तु विश्वनाथसिङ्गभूपालादिभिरनुसृतः । वृत्तिकारस्तेषां वैषम्यपरिहरणाय नामनिर्वचनयोर्भिन्नानामपि केषांचिल्लक्षणानां स्वपाठोक्तलक्षणेष्वन्तर्भावं प्रकटीकृत्य षट्त्रिंशत्त्वं सम्यगस्थापयत् । भोजदेवस्तूभयोः पाठयोः समानानि भिन्नानि च गृहीत्वान्यानि द्वादश संकलय्य चतुः षष्टिलक्षणानि नामनिर्वचनाभ्यां प्रापञ्चयत् । तन्मतमेव शारदातनयेनानु–
आशीः प्रियोक्तिः 1कपटः क्षमा च प्राप्तिश्च पश्चात्तपनं तथैव2 ।
3अर्थानुवृत्तिर्ह्युपपत्तियुक्ती
कार्योंऽनुनीतिः परिदेवनं च ॥ ३
षट्त्रिंशदेतानि 4तु लक्षणानि
प्रोक्तानि वै भूषणसंमितानि ।
काव्येषु 5भावार्थगतानि तज्ज्ञैः
सम्यक्प्रयोज्यानि यथारसं तु6 ॥ ४
Abh
पत्तिकाले वा प्रापकसत्तायां तेषामगणितत्वाच्च । दण्डिनापि “काव्यशोभाकरान्धर्मानलङ्कारान्प्रचक्षते” इति ब्रुवता गुणमध्य एव तत्र प्रसादादीनभिदधता च गुणालङ्कारविभागोऽप्यसंभवीति सूचितं भवति । सत्यमेतत्, किं तु विरचनविवेचनसामर्थ्यसमर्थनायावश्यं काल्पनिकोऽपि विभाग आश्रयणीयः । तत्र कल्पनायां विप्रतिपत्तयः केचिदाहुः –इह गुणास्तावदात्मनि चिन्मये शृङ्गारादौ वर्तन्ते, शृङ्गारे चावश्यं च लक्ष्यत इति पृथक्सिद्धत्वादलङ्कारः, शरीरनिष्ठमेव यत्पदं पृथक्सिद्धं तल्लक्षणम्, येन शरीरस्य सौन्दर्यं जायते । तच्च सिद्धरूपं साध्यरूपं वा, यथा श्यामेति, ‘मदमन्थरगामिनी’ इति च । एतदेव लक्षणं, तच्चालङ्क्रियते । अलङ्कारैर्युक्तं काव्यं लक्षणैर्विना न शोभते । क्रियावाच्योपमेयभेदेन तदेतल्लक्षणं द्विधेति यथा ‘श्यामा विशालाक्षी’ ‘मत्तमातङ्गगामिनी’ इति च ।
अन्ये मन्यन्ते –इतिवृत्तखण्ड[ल]कान्येव सन्ध्यङ्गकानि लक्षणानीति च व्यपदिश्यन्ते । निमित्तभेदात् पूर्वापरसंबन्धेन बीजोपक्षिप्तेऽर्थे निर्वहणपर्यन्ते
Notes
1 भ– कपटक्षमे 2 भ–ग्रहश्च 3 भ–अर्थानुवृत्ती उपपत्ति 4 भ–मया समासात् 5 भ–सोदाहरणेषु 6 भ– रसानि । सृतम् । अतः प्रथमं वृत्तिकारपाठविलसितमध्यायं समाप्यानुबन्धरूपेण पाठान्तरभागो निर्वचनोदाहरणसहितो महामतीनां चित्तविलासोद्द्योतनाय सूक्ष्मविषयविवेचनलालसानां हिताय च संप्रयोजितोऽध्यायान्ते यथालब्धग्रन्थपरिकरः ।
Abh
परस्परसन्धायकत्वेन सन्ध्यङ्गतया व्यपदेशः, रसविशेषोपयोगितया वृत्त्यङ्गवाचोयुक्तिः, काव्यगतख्यातिप्राशस्त्योपयोगितया महापुरुषगतपाशध्वजपादरेखादिवल्लक्षणशब्दवाच्यता । तदुक्तं तत्रेव–
लक्षणान्येव बीजार्थक्रमनिर्वाहकानि च । इति,
प्रतिसन्धितदङ्गानि फलसिद्ध्युपपत्तितः ॥ इति ।
(कव्ये धीरोदात्तादिगुणाधानं वस्तुवर्णनाभङ्गिर्वेति केचित्) तदत्र प्रथमपक्षे वर्णनीयप्रधानभूताधिकारपुरुषगतगुणादिविभाग एव काव्ये पर्यवसीयते । द्वितीयपक्षे तु वर्णनीयः सकल एव* इतिवृत्तलक्षणोऽर्थः काव्यभेदात् त्रेधा विभज्यते । एकेषां तु दर्शनं –कवेर्यः प्रतिभात्मा प्रथमपरिस्पन्दः तद्व्यापारबलोपनता गुणाः, प्रतिभावत एव हि रसाभिव्यञ्जनसामर्थ्यं माधुर्यादेरुपनिबन्धनसामर्थ्यं, न सामान्यकवेः । अनेन शब्देनेदं वस्तु वर्णयामीत्येवंभूतवर्णनापरपर्यायाद्वितीयव्यापारसंपाद्यास्त्वलङ्काराः ।
शब्दानमीभिः शब्दैरर्थानमीभिरर्थैः संघटयामीत्येवमात्मकस्तु यस्तृतीयः कवेः परिस्पन्दः तदधीनात्मलाभादिशब्दात्मार्थात्मककाव्यशरीरसंश्रितानि वक्ष्यमाणश्लेषादिगुण– दशकसमभिव्यञ्जनव्यापाराणि शब्दार्थोपसंस्कारकल्पानि क्रियारूपाणि लक्षणानीति, यदुक्तं तत्रैव–
इति शब्दार्थयोर्येयं संश्रिता देहभूतयोः ।
काव्ये तया दर्शितानि लक्षणानि (विदुर्बुधाः) ॥ इति,
काव्येऽप्यस्ति तथा कश्चित् स्निग्धः स्पर्शोऽर्थशब्दयोः ।
यः श्लेषादिगुणव्यक्तिदक्षः स्याल्लक्षणस्थितः ॥ इति,
चेष्टालङ्कारदृष्टान्तचिह्नं
अत्र पक्षे कविव्यापारभेदाद्गुणालङ्कारलक्षणविभागः ।
अपरे संगिरन्ते–अभिनेयानां काव्यबन्धानां वक्ष्यमाणस्वरूपं च रूपकं समभिदध्यात्, कवेः स्वसामर्थ्याधानाय तावदभ्यासो निर्माणविधेयो लक्षणं, मस्तकासंपूर्णश्चादौ क्रमेण तु तथाभूतोऽभिनेयार्थः काव्यबन्धो(लक्षणोन्नीतः) तेन च लोकोत्तरहृद्यवर्णने योगात् । तथा हि किञ्चित् प्रबन्धजातं गुणालङ्कारनिकरप्रधानं यथा मेघदूताख्यं तद्विभूषणम् एवमन्यदपीति ।
‘प्रबन्धधर्मा लक्षणानि’ केचित्तु ब्रुवते – कवेरभिप्रायविशेषो लक्षणम् इति इतरे पुनर्मन्यन्ते –केचिद् यथास्थाननिवेशनं यद्गुणालङ्कारादीनां तल्लक्षण–
Notes
*वर्णनीयः सकल एवेति । वृत्तिलक्षणोऽर्थः……Kavi
Abh
मिति1 । परे त्वभाषन्त ( ?त्वाभाषन्ते)–अलङ्कारादिनिरपेक्षेणैव( ?निरपेक्षयैव) निसर्गसुन्दरो योऽभिने(न) यविशेषः काव्येषु दृश्यते, अमरुकश्लोकेष्वपि(? ष्विव), तत्सौन्दर्यहेतुर्यो धर्मः स लक्षणं2 स एव चार्थः काव्यशरीरविशेषरूपो लक्षणम् । उपमा–दिपक–रूपकाणाम् आनन्त्याद् ( ?आनन्त्यप्रयोजकत्वाद्)भेदमाहुः । तुशब्देन* ( ?शब्देन) अर्थेन चित्रत्वं लक्षणमित्यन्ये ।
इतरेषां तु मतं यथां तन्त्रप्रसङ्गबाधातिदेशादि मीमांसाप्रसिद्धं वाक्यविशेषव्यवच्छेदलक्षणं तथा काव्यविशेषव्यवच्छेदकं भूषणादिलक्षणजातमिति त्वयं पक्षो द्वितीयपक्षान्न भिद्यते । एतेषु तु पक्षेष्वन्यतमग्रहे विशेषणानि न संगच्छन्ते स्पष्टेन पथा । अदं तु दशपक्ष्यां वस्तु ।
इह काव्यार्था रसा इत्युक्तं प्राक् । उक्तं च वर्णनीयं शब्दनीयं कवेः कर्मेति च व्युत्पत्तित्रयं काव्यमिति । अनेनाभिधेयं अभिधानं अभिधां च स्वीकृत्यावस्थीयते, अपि च शब्दव्यापारोऽभिधातृव्यापारः प्रतिपाद्यव्यापारश्चेति त्रिगतः । तत्र शब्दस्य रसाभिव्यक्तिक्षमार्थप्रतिपादकत्वं स्वयं च श्रोत्रे च संक्रन्तिमात्रं नान्तरीयकतया तद्रसदर्शनयोग्यतापादनसामर्थ्याद्गुणशब्दवाच्यम् । आवर्तमानो द्वितीयो वर्णः पदं वा प्राक्तनवर्णनादशोभाहेतुरलङ्कारः । एवमर्थस्यापि, यद्रसाभिव्यक्तिहेतुत्वं सोऽर्थगुणः यस्तु वस्त्वन्तरं वन्दनस्येव चन्द्रः सोऽलङ्कारः, यस्तु त्रिविधोऽप्यभिधाव्यापारः स लक्षणानां विषयः । तथाहि– इदमनेन शब्देनानयेतिकर्तव्यतयाऽमुनाशयेनेत्थंभूतबुद्धिजननाय ब्रुवे इति कविः प्रवर्तते, स तथाभूतं रसवत्काव्यं विधत्ते । तत्र चित्तवृत्त्यात्मकं रसं लक्षयंस्तत्तद्रसोचितविभावाद्वैचित्र्यसम्पादकस्त्रिविधोऽभिधाव्यापारो लक्षणशब्देनोच्यते । इत्येषां सामान्यलक्षणम् । यथा च पीवरत्वं स्तनयोर्लक्षणं मध्यस्य तु कुलक्षणं, एवं किञ्चिदभिधीयमानं केनचिद्रूपेण रसोचितेन विभावादिरूपेण तमेव पदार्थक्रमं लक्षयल्लक्षणं अन्यत्र तु तत्कुलक्षणं, तेन सर्वेऽलङ्कारा 3गुणाश्च तत्समुदायाद्विलक्षणा भवन्ति । तथा स्वार्थोऽपि च क्वचिदर्थमात्रं क्वचिदलङ्कारोऽर्थतः क्वापि चित्रतः क्वचिदलङ्कारादिप्रक्रियाविहीनोऽपि स्वयं सुन्दरस्वभावोऽर्थः कुत्रचिच्छन्द इति त्रिविधव्यापारगामी; तद्द्वारेणाभिधानाभिधेयतद्गुणालङ्काराद्यनुग्रहः शब्दानां शब्दैरर्थानामर्थैः शब्दानामर्थैस्तथापरैः संघटनां विचित्रां कारयमाणाभिधाव्यापारवती ह्युक्तिर्निर्वाणप्रधानधुराधिरोही लक्षणाख्य एव ।
Notes
“काव्यबन्धास्तु कर्थव्याः” अत्यत्र तुकारः । 1 Raghavan
Abh
अत एव पूर्वं “काव्यबन्धास्तु कर्तव्याः षट्त्रिंशल्लक्षणान्विताः” (ना.शा.१५/२२७)इति लक्षणान्येव हि प्रधानं तत्प्रसङ्गेन गुणालङ्कारा इति तात्पर्यम् । विशेषलक्षणव्याख्याने चैतत्स्फोटयिष्यामः ।
तत्र लक्षणान्युद्देष्टुं तावदाह विभूषणमित्यादि यथारसं त्वित्यन्तेन श्लोकचतुष्ट्येन । यथारसं ये भावा विभावानुभावव्यभिचारिणः, तेषां योऽर्थः (तं) स्थायिभावरसीकरणात्मकं प्रयोजनान्तरं गतानि प्राप्तानि, यदभिधाव्यापारोपसंक्रान्ता उद्यानादयोऽर्थास्तद्रसविशेषविभावादिभावं प्रतिपद्यन्ते तानि लक्षणानीति सामान्यलक्षणम् । अत एव काव्ये सम्यक्प्रयोज्यानीति विषयस्तेषामुक्तः ।
भट्टनायकेनापि (कुशलशिक्षिता)*भिधाव्यापारप्रधानं काव्यमित्युक्तं –
शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः ।
अर्थे तत्त्वेन युक्ते तु वजन्त्याख्यानमेतयोः ।
द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगीर्भवेत् ॥ इति ।
भामहेनापि–
“सैषा सर्वैव वक्तोक्तिरनयार्थो विभाव्यते” (२–७५) इत्यादि । तेन च परमार्थे व्यापार एव लक्षणं, स तु विषयद्वारेण विशेषलक्षणे तु निरूप्यत इति तत्स्वीकृतत्वादर्थोऽपि लक्षणं, व्यापारोऽपि च तद्विदां तु तदभ्यासपराणां च तथाभूतकाव्यात्मकविषयावलोकने झटित्येव प्रतिभाति । तदन्यत्रानुमानेन प्रतिभया स्वसंवेदना–इत्यनेन प्रयोजनम् । कुशलशिक्षितव्यापारो हि तत्काव्यदृशि भात्येव ।
षट्त्रिंशदिति च नान्यदिति वारणपरं कविहृदयवर्तिनामपराणामपरिसंख्येयत्वात् । किं तु बाहुल्येन तावदियता लक्ष्यव्याप्तं, इयति च कविनावधातव्यमिति संख्यानिरूपणम् ।
तथा च मतान्तरेण भरतमुनिरेवान्यथाप्युद्देशलक्षणेन नामान्तरैरपि च व्यवहारं करोति; तत एव पुस्तकेषु भेदो दृश्यते तं च दर्शयिष्यामः। पठितोद्देशक्रमस्त्वस्मदुपाध्याय- परम्परागतः ॥
Notes
*मधुसूदनी कुशलशिक्षिताभिधा……..; त एव( ?) शिक्षित्वाभिधा….–Kavi
अलङ्कारैर्गुणैश्चैव बहुभिर्यदलङ्कृतम् ।
भूषणैरिव विन्यस्तैस्तद्भूषणमिति स्मृतम् ॥ ५
Abh
तत्र विभूषणं लक्षयितुमाह अलङ्कारैरिति । भूषणैः कटकादिभिः विभज्य स्थानदेशकालदशापुरुषादिविभागं विचार्य न्यस्तैरिव गुणालङ्कारैर्यदलङ्करणं तद्भूषणं नाम लक्षणं कविव्यापारः, तद्द्वारेण शब्दार्थव्यापारावपि ।
एतदुक्तं भवति–इह गुणा अलङ्काराश्च विषया इत्यनेन निबद्धाः काव्यार्थीकृतानामभिधेयानां रसविशेषविषयं विभावादिभावं विवरीतुं समर्थाः । तथा हि हास्यरसप्रधाने प्रहसनादौ शुष्कश्रोत्रिये वक्तरि प्रयोक्तरि श्रोतरि वा गुणविनिवेशितं तु लक्षणं भजत्यलङ्कारश्च । तथा हि पादताडितके* श्रोत्रियं श्रोतारमभिप्रेत्य विटस्यापि निर्गुणपुरुषस्यैवोक्तिः “मा मुसलेनापाकार्षीः, मा कुसू( ?कू)लाग्निना धाक्षीः” इति शोभां पुष्णाति । अनौचित्यनिबन्धस्तु करुणविप्रलम्भादौ यमकस्य यथा–
विना प्रियतमेनाद्य विरहानलतापिता ।
दह्येच्चूतस्य विच्छेदं किं तु हा नलतापिता ॥
स्थाने निवेशस्तु यथा–
लीनेव प्रतिबिम्बितेव लिखितेवान्तर्निखातेव च प्रोत्कीर्णेव च वज्रलेपघटितेव" इति । (मालतीमाधव ५/१०)
अत्रापि लोके उत्प्रेक्षापरम्परैव हीयं सातिशयकामावेशावस्थासमुद्द्योतित– प्रियतमाविषयविचित्रसंकल्पगर्भसंभवौन्मुख्यप्राणत्वाद् विप्रलम्भस्य कामावस्थानां च माधुर्यप्रसादोपेते च काव्ये श्रोत्रपथमवतरत्येवेति प्रतिपाद्यते । सुकुमारचित्तवृत्तिसुभगोऽयमुत्तमश्चेत्येवं समस्तस्य गुणालङ्कारवर्गस्यानुग्राहकमिदं कविव्यापाररूपं, तद्वशाच्च शब्दार्थतद्व्यापाराद्यपि स्पृशद्विभूषणाख्यं लक्षणम् । एतमेवार्थं सम्यगानन्दवर्धनाचार्योऽपि विविच्य न्यरूपयत्–
ध्वन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः ।
रूपकादिरलङ्कारवर्ग एति यथार्थताम् ॥
(ध्वन्यालोक २/१७)
Notes
*अस्माभिः प्रकटितायां चतुर्भाण्यामयं चतुर्थो भाणः श्यामिलककृतः । वृत्तिकारेणोदाहृता पङ्क्तिस्तस्मिन् ४–पृष्ठे पाठभेदेन वर्तते ।
1यत्राल्पैरक्षरैः श्लिष्टैर्विचित्रार्थोपवर्णनम्2 ।
तदप्यक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् ॥ ६
Abh
इत्युक्त्वा क्रमेण–
विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन ।
काले च ग्रहणत्यागौ नातिनिर्वहणैषिता ॥
(ध्वन्यालोके–२–१८)इत्यादिना
ग्रन्थसन्दर्भेण सोदाहरणेन । तच्चास्माभिः सहृदयालोकलोचने तद्विवरणे विस्तरतो व्याख्यातमिति
तत्कुतूहलन्तदेव गृह्णीयात् । इह तु प्रसक्त्या ग्रन्थभूयस्त्वादुद्विजते लोक इति न
विस्तारितम् ॥
अथाक्षरसंहतिमाह यत्राल्पैरिति । अक्षरशब्देन यदृच्छाशब्दप्राधान्यं, यदृच्छाशब्देषु स्वरूपस्यैव प्रवृत्तिनिमित्तत्वात् तेनाल्पैरेवाक्षरैः श्लिष्टैर्विप्रकृतावित्युक्ताभिरुपलक्षितत्वेनैव विचित्रं तद्रसोचितविभावादिभावं प्राप्यमाणोऽर्थ उपवर्ण्यते, श्रोतॄणां हृदयमुपसंक्रामयितुं यत्तस्मिन् कविव्यापारोऽक्षरसङ्घातस्तत्कारणत्वात् ।
तथाहि मानिनीत्यक्षराणि ईर्ष्याविप्रलम्भे, तरुणीत्याभिलाषिके, वरतनुरिति संभोगे विभावतां तामेव प्रापयन्ति । अस्तीतिव्युत्पत्तिस्तथापि पर्यन्ते मानादिशब्दानामन्ततो वा धातुप्रत्ययमात्रादेरवश्यं यदृच्छात्वमित्यक्षराणामेव संघातः प्रधान यदृच्छाशब्दप्राधान्ये उदाहरणं यथा–
*विस्रम्भादुत्तमाङ्गं प्लवगबलपतेः पादमक्षस्य हन्तुः
कृत्वोत्सङ्गे सलीलं त्वचि कनकमृगस्याङ्गमाधाय शेषम् ।
बाणं रक्षःकुलघ्नं प्रगुणितमनुजेनादरात्तीऽक्ष्णमक्ष्णोः
कोणेनोद्वीक्षमाणस्त्वदनुजवदने दत्तकर्णोऽयमास्ते ॥
विस्रम्भादित्यादीनां मैत्रीप्रधानवालिहननपूर्वकसाम्राज्यदातृत्वबलाच्चेत्युक्तम् । अक्षस्य यो हन्तेत्येकाकिनापि येनाशोकवनिकाविप्लोषणं राक्षसबलक्षपणं च कृतं, सोऽपि यत्र प्रधानप्रकृतिर्भवतीत्युक्तम् । त्वचीति प्रहतमारीचवृत्तान्तः । बाणमित्यादिना तत्रैवास्य बहुमान इत्युक्तम् । राक्षसविषयदैववैगुण्यमित्युक्तम् ।
Notes
1प–यत्रार्थै 2 भ–विचित्रैरुपवर्णितम् । प–तमपि ।
*राघवानन्दात् । “अङ्के न्यस्योत्तमाङ्गं " इति पाठान्तरम् ।
सिद्धैरर्थैः समं कृत्वा 1ह्यसिद्धोऽर्थः प्रसाध्यते ।
2यत्र श्लक्ष्णा विचित्रार्था सा शोभेत्याभिसंज्ञिता3 ॥ ७
Abh
अत्र च यत्र यस्य यद्व्यापारस्तत्र प्राधान्यस्य का कथेति । प्रगुणितमिति बहुतररणसंमर्दधुरन्धरतया कुटिलीकृतस्यापि क्षेत्रबहुमाने पुनर्योजनम् । त्वदनुजवदन इति भेदोपायकृता नितिसंपत् परपक्षे च विपर्ययम् । दत्तकर्ण इति तदाकर्णनमात्रमेतत्, न तु हृदये निर्व्याजं तेजोजाज्वल्यमानौजसि भेदं प्रति कोऽप्यस्य बहुमानः । अयमिति गम्भीरधीराकृतिः प्रत्यासन्नश्चास्त इति । यद्यपि प्रकृते नापि कश्चित्क्षोभोऽत एवोक्तं सलीलमिति। अत्र चार्थस्यालङ्कारघटनाप्रयासमन्तरेणैव सुन्दरत्वं लक्षणकृतमेव ।
ननु साभिप्रायमात्रत्वं नामार्थस्य तु गुण ओज इत्युक्तम्* । शोभाः सहृदयाः अर्थो जडस्तस्याभिप्राय इति कथं, भाषावक्तृश्रोत्रोः स इति चेत् तद्गतोऽर्थस्य गुण इति कथम् ।
अथ वस्त्वन्तराक्षेपकत्वमेव तस्य स गुण इत्युच्यते तद्वस्त्वन्तरमाक्षिप्यं वक्त्रभिप्रायरूपमेवाक्षेपकत्वमपि कविमनीषाव्यापारबलादेव तथाविनिवेशनात्, प्रकारायोगे तथाभावात् । अत एव प्रौढिर्वस्तुतो वक्तृगतैव नत्वर्थे काममुपचर्यतामित्यलं बहुना ।
एतेषां च लक्षणानां संकीर्णत्वेन लक्ष्यं दृश्यते बाहुल्यापेक्षया तूदाहरणं मन्तव्यम् । अथ शोभा-सिद्धैरर्थैरीति । यथा– मेदश्छेदकृशोदरं लघुभवत्युत्थानयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः । उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्या हि व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः । (शाकु २.५)
अत्र पादत्रयेण प्रसिद्धा एवार्था अभ्यसनीयत्वेन शोभमानास्तैः समविकलं मृगयालक्षणमर्थं कृत्वा अप्रसिद्धोऽनुचितोऽपि सोऽर्थ उचितो विचित्रश्च निरुपितः । न चात्रालङ्कारः कश्चिदिति कविव्यापारेण यः
Notes
1 प–यत्रासिद्धं 2 प–श्लिष्टा 3 च–अभिधीयते ।
- वामनेन ।
1धार्यमाणस्तु बहुभिर्वचनैः कार्ययुक्तिभिः ।
2न यः पर्यवतिष्ठेत सोऽभिमानस्तु संज्ञितः3 ॥ ८
कीर्त्यमानैर्गुणैर्यत्र विविधार्थसमुद्भवैः ।
4दोषा न परिकथ्यन्ते5 तज्ज्ञेयं गुणकीर्तनम् ॥ ९
Abh
शब्दार्थव्यापारादेवार्थघटनात्मा तत्कृतं हृद्यं लक्षणार्थमेव । अशोभनोऽप्यर्थोऽमुना नयेन शोभत इति शोभेयमुक्ता ॥
अथाभिमानः–धार्यमाणस्तु बहुभिरिति । यथा ममैव–
शीतांशोरमृतच्छटा यदि कराः कस्मान्मनो मे भृशं
संप्लुष्यन्त्यथ कालकूटपटलीसंवाससंधुक्षिताः ।
किं प्राणान् न हरन्त्युत प्रियतमासंजल्पमन्त्राक्षरै–
र्वार्यन्ते किमु यद्विमोहविवशात्सन्तापतन्त्रा स्थितिः ।।
अत्र हि तादृश्यर्थस्यार्थेन घटना कृता यस्यां कार्ययुक्तिभिः फलयोजनाभिर्धार्यमाणो हृदये स्थाप्यमानो नावतिष्ठत इति । वार्यमाणोऽपि वा न निवर्तते । तवायं बद्धः । तथाभूतोऽर्थोऽलौकिकत्वात्तावानुपायः कविनालङ्कार उपमानोपमेयभावस्य कथंचिदप्यस्विकारात्केवलं वक्तुरभिमतं वदता किमिव मयाप्येवं तदपि नैवेत्यभिधानमभिधानाख्यलक्षणम् । एतदेव सादृश्यनाम्नाप्यन्यैरुक्तम् ।
दृष्टश्रुतानुभूतार्थकथनादिसमुद्भवम् ।
सादृश्यं क्षोभजननं सारूप्यमिति संज्ञितम् ।। इति ।
अमृतकरत्वं हि चन्द्रस्य श्रुतं कालकूटसहोदरत्वं च, मन्त्राणां विषशमनं दृष्टं, स्वयमनुभूतं मोहादि तत्समुद्भवं यत्प्रकृते सादृश्यं तेन लोकदृष्टेन तुल्यवृत्तान्तत्वं तत्क्षोभं हृदयेऽनवस्थानं जनयति–यद्यमृतसदृशश्चन्द्रपादाः तत्किमेवमङ्गं विदध्युरिति( ?) । एवमन्यत् ।
अथ गुणकीर्तनं –कीर्त्यमानैर्गुणैरित्यादि । (यथा)–
पृथुरसि गुणैर्मूर्त्या रामो नलो भरतो भवान्
महति समरे शत्रुघ्नस्त्वं तथा जनकः स्थितौ ।
Notes
1 म–वार्यमाणस्तु प–वार्यमाणास्तु 2 प–नार्यो यन्नानुतिष्ठन्ति 3 प–मानः प्रकीर्तितः 4 भ–दोषांशान् 5 प–परिकल्प्यन्ते ।
उत्साहजननैः स्पष्टैरर्थैरौपम्यसंश्रयैः ।
प्रसिद्धैरुपगूढं च 1ज्ञेयं प्रोत्साहनं बुधैः ।। १०
यत्रैकस्यापि 2शब्दस्य दर्शनात्सुबहून्यपि ।
यान्ति सिद्धिमनुक्तानि तदुदाहरणं स्मृतम् ।। ११
Abh
इतिसुचरितैर्मूर्ति बिभ्रच्चिरन्तनभूभृतां
कथमसि न मान्धाता देवस्त्रिलोकविजय्यपि ।। (मुकुलभट्ट, अभिधावृर्त्तिं–
मातृका )
अत्र हि विविधा ये हि पृथुरामप्रभृतयो वा समुद्भवैर्गुणैः कीर्त्यमानैस्तद्गता दोषा न परिकल्प्यन्ते । तथा हि पृथुरसीत्युक्ते तथा दोषा अपि केचिद्बलाद्भूमिदोहनप्रभृतयः प्रतीयेरन्, नलोऽसीति द्यूतव्यसनितापि । एवमन्यत्र । अत एव न दोषऽत्र प्रधानम् । गुणैरिति सुचतैरिति निरूपिते तु चारुत्वमिति गुणकीर्तनं नाम लक्षणम् । श्लेषानुग्राहित्वे स्थिते लक्षणानि ह्यलङ्कारानपि चित्रयन्ति । तदग्र एव वक्ष्यामः । अन्यत्र पाठः–
लोके गुणातिरिक्तानां बहुनां यत्र नामभिः ।
एको हि शब्द्यते तत्तु विज्ञेयं गुणकीर्तनम् ।। इति ।
अयं स्पष्टार्थः ।
अथ प्रोत्साहनं –उत्साहजननैरिति । औपम्यस्य संश्रयणमन्वेषणं यत्रेति अनेन, यत्रान्वेषणेऽपि तस्य भाव इति दर्शितम् । यथा भट्टेन्दुराजस्य–
हरवृषभ तवैव तस्य माता जयति जगत्यसमानसूतिरेका ।
निवसति परमेश्वरोऽपि यस्मिन् सहतनयः सगणः सहावरोधः ।।
अप्रस्तुतप्रशंसाप्यत्र तद्वैचित्र्यं प्रोत्साहनत्वलक्षणकृतमेव, केवलं त्वियं यथालक्ष्मीरिति, स च भवान् मुरारिरित्यादि । इदमन्यत्र प्रियवचनमिति पठितम् –
यत्प्रसन्नेन मनसा पूज्यान्पूजयितुं वचः ।
हर्षप्रकाशनार्थं तु सा प्रियोक्ति्रुदाहृता ।। इति ।
अथोदाहरणं–यत्रैकस्यापीति । यथा–
वल्मीकं किमुतोद्धतो गिरिरयं1 कस्य स्पृशेदाशयं
त्रैलोक्यं तपसा जितं यदि मया2 दोष्णा किमेतावता ।
Notes
1 भ– तु 2 भ एकस्यैव 1.गिरिरियत् हेम, पृ. १५०
निरुक्तं द्विविधं प्रोक्तं 1तथ्यं चातथ्यमेव च ।
2सिद्धिपूर्वं भवेत्तथ्यमतथ्यं चाप्रसाधितम्3 ।। १२
Abh
सर्वं साध्वथवा रुणत्सि विरहक्षामस्य रामस्य चेत्
त्वद्दन्ताङ्कितवालिप(क?)क्षरुधिरक्लिन्नाग्रपुङ्खं शरम् ।।
अत्र हि रावणीयदशितिपरिघट्टित(वालिकक्ष)पाटने उदाहृते स स्वावमानोऽर्थेऽवगते सति तदपजयः तत्कक्षक्षय्यपरिग्रहस्तथैव चतुरर्णवभ्रमणं पुनः कृपामात्रेण त्यागः तत्राप्रतीकारः पुनरभिमानो दर्प इत्यादि गम्यते । अक्षरसंहतेश्च विशेषः –तत्रावयोपादातव्यशब्दान्तरस्थाने शब्दान्तरोपादानं हनुमत इति वक्तव्येऽक्षस्य हन्तुरिति, इह तु त्वद्दन्तेति तदीयाधिकारोदाहरणम् । अन्ये पठन्ति –
यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् ।
साध्यन्ते निपुणैरर्थास्तदुदाहरणं स्मृतम् ।। इति ।
तुल्यैरर्थैस्तत्समयभाविभिर्यदुक्तं यद्वाक्यमिति स एव फलतोऽर्थः ।।
अथ निरुक्तं –निरुक्तं द्विविधमिति । सिद्धिर्लक्षणेन स्विकारः । तया प्रसाधितं तथ्यं, ततोऽन्यदतथ्यम् । उदाहरणं यथा ममैव–
वीरोत्सवे सङ्गरसीम्नि मूढं यः प्रापयत् सत्यपथं कथंचित् ।
सत्यार्जुनः सोऽपि च नाम कृष्णः प्रसिद्धिरित्थं वितथैव सर्वा ।।
परस्परं नाम्नोरन्यत्र तथ्यत्वं स्वविषये त्वतथ्यतेति । न चायमर्थः श्लेषः, स हि तुल्यसंख्ययोः । यथा “गावो वः पावनानां” *इति गोशब्दस्य रश्मिषु सुरभिषु चानादित्वेन प्रसिद्धेः । इह त्वेकत्रान्यत्वे कृतः समय इति । एवं पृथक्तथ्यातथ्ययोरुदाहार्यम् । अन्यत्र पाठः –
Notes
1 भ–यं 2 च–सिद्धिप्रसाधितं 3 भ–चाप्यसाधकम् । *संपूर्णः श्लोकः– दत्तानन्दाः प्रजानां समुचितसमयाक्लिष्ट सृष्टैः पयोभिः पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः । दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ।। (सूर्यशतकात्)
1गुणानुवादो हीनानामुत्तमैरुपमाकृतः ।
Abh
निरवद्यस्य वाक्यस्य पूर्वोक्तार्थप्रसिद्धये ।
यदुच्यते तु वचनं निरुक्तं तदुदाहृतम् ।।
पूर्वं यत्प्रोक्तो बाह्यस्य संबन्धी कश्चिदर्थस्तस्य प्रसिद्धयेऽवद्यभावस्य वाचकं यदुच्यते तेन निरुक्तमिति निरर्थकमेवात्र वाच्यम् । यथा–सत्यं *स राजाप्रकृतिरञ्जनादिति ।
अथ गुणानुवादः– गुणानुवाद इति परिमितस्यापादितोत्कृष्टगुणनयोपमा, तत्कृतो गुणानामुत्सेकः । यथा –
पालिता द्यौरिवेन्द्रेण त्वया राजन्वसुन्धरा ।।
ननूपमेयमलङ्कारः, किमतः, उक्तं ह्यलङ्काराणां वैचित्र्यं लक्षणकृतमेव । एत एव शिक्षितैरापि दण्डिप्रभृतिभिर्ये निरुपिता उपमाभेदाः, तत्र यो भेदकोऽशः आचिख्यासासंश्रयनिर्णयादिरर्थः, स तादृक्पृथगलङ्कारतया गणितः। गणनेऽपि वा संसृष्टिसङ्करापत्तिः । अर्थमात्रं तदिति चेत् तर्हि तदेव लक्षणम् । यथा हि राजता विभज्य विचार्यमाणा इत्थमवतिष्ठते–मकुटाद्यलङ्कारः शौर्यादिगुणो व्यूढोरस्कत्वादिलक्षणसमुदायो राजालङ्कार्यश्च गुणवांश्च लक्षणीयश्च, तथा काव्यमपि तेन गुणालङ्कारव्यतिरिक्ताः सर्वे लक्षणमिति मन्तव्यम् । “अस्त्युत्तरस्यां* “इति हि पूर्वार्धे आख्यानं नाम लक्षणम् । नन्वेवं सर्वत्र लक्षणयोगः, क आक्षेपार्थः प्रियमेवास्माकमदः तत्सर्वमलङ्कारयुक्तं काव्यम् । ननु गौर्वाहीक इति रूपकयोगेऽपि, किं न काव्यम् ? दोषपरिवर्जनगुणवत्त्व–रसवत्त्वादिवैकल्यादिति चेत्, अस्मास्वापादितो दोषस्त्वयैवोन्मूलित इत्यास्ताम् ।
अन्यत्र तु पाठः–
गुणाभिधानैर्विविधैर्विविधार्थप्रयोजितैः ।
गुणातिपातो मधुरैर्निष्ठुरैर्वा भवेदिह† ।। इति ।
Notes
1भ–गुणाभिवादो ।
- सत्यं सराजगतिषु रञ्जनादिति ( ?)– Kavi यथा–सत्यं स राजा……मधुसूदनी *अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । अस्य श्लोकस्य पाठभेदा अध्यायान्ते मतान्तरप्रवचने द्रष्टव्याः । †“गुणानुवादः स ज्ञेयो यत्राभेदोपचारतः । गौणीं वृत्तिमुपाश्रित्य वस्तुनो रूपमुच्यते ।। इति गुणानुवादलक्षणमन्यैः पठितम् । उदाहृतं च शाकुन्तलात् “अनाघ्रातं” इत्यादि ।
1उत्तमार्थाद्विशिष्टो यः2 स चाप्यतिशयः स्मृतः ।। १३
बहूनां भाषमाणानां त्वेकस्यार्थविनिर्णयम्3 ।
Abh
मधुरैर्गीतैः (गुणैः) निष्ठुरैर्वा उत्तमैर्वा उपमानभूतैर्ये प्रयोजिता गुणास्तदभिधानैरुपलक्षितो गुणातिपात इत्यर्थः ।।
अथातिशयः– उत्तमार्थाद्विशिष्ट इति उक्तादप्यर्थद्विशेषो यथा भट्टेन्दुराजस्य* ।
यावन्त्येव पदान्यलीकपिशुनैरालीजनैः शिक्षिता
तावन्त्येव कृतागसो द्रुततरं संपाद्य पत्युः पुरः ।
प्रारब्धं परतो† यथा मनसिजस्येच्छा तथा वर्तितुं
प्रेम्णा मौग्ध्यविभूषितस्य सहजः कोऽप्येष कान्तः क्रमः ।।
अत्रेर्ष्यात्मा यः प्रेमण्युत्तमेऽर्थस्ततोऽपि विशेष उक्तः । प्रतिपदं चाभिप्रायोऽस्ति स विवेचनीयः।। न चेयमतिशयोक्तिः संभाव्यमानत्वात् । सोऽपि वा लक्षणेनालङ्कार इति वक्ष्यामः समनन्तरमेव। अन्यत्र तु पठ्यते–
बहून् गुणान् कीर्तयित्वा सामान्यजनसंभवान् ।
विशेषः कीर्त्यते यत्र ज्ञेयः सोऽतिशयो बुधैः ।। इति ।
अथ स हेतुः–बहूनां भाषमाणानामिति । बहून् भाषमाणाननादृत्यैकस्यासाधारणस्यार्थस्य निर्णयः कर्तव्यत्वेनावलम्ब्य सिद्धस्य प्रमाणोपमानवचनमुपक्षेपवचनं मम तावदेवं प्रतिभासते इति सहेतुः । यथा भट्टेन्दुराजस्य–
एके वारिनिधिप्रवेशमपरे लोकान्तरालोकनं
केचित्पावकयोगिनं निजगदुः क्षीणेऽह्नि चन्द्रार्चिषाम् ।
मिथ्या चैतदसाक्षिकं प्रियसखि प्रत्यक्षतीव्रातपो
मन्येऽहं पुनरध्वनीनरमणीचेतोऽधिशेते रविः ।।
Notes
1 च– उत्तमार्थविशिष्टो 2 भ– विशेषो यः 3 ब–अनेकार्थविनिश्चयः च– अनेकार्थविनिर्णयात् ।
- द्वयोरप्यभिनवभारतीमातृकयोरयं श्लोको भट्टेन्दुराजस्येति वर्तते । अयममरुककाव्ये दृश्यते व्याख्यातश्चार्जुनवर्मवेमभूपालाभ्याम् । वृत्तिकारवचनप्रामाण्यादयममरुके प्रक्षिप्त इति संभाव्यते । † प्रारब्धापरतो – Kavi; प्रारब्धं परतो–मधुसूदनी
सिद्धोपमानवचनं हेतुरित्यभिसंज्ञितः ।। १४
1अपदेशस्तु परोक्षो यस्मादुत्पद्यतेऽनुकरणेन ।
लक्षणासमानकरणा2त्सारूप्यं तत्तु विज्ञेयम्3 ।। १५
4अभूतपूर्वैर्यत्रार्थैस्तत्तुल्यार्थस्य निर्णयः ।
Abh
(एकस्येति) एकमसाधारणम् । (सिद्धोपमानेति) डुमिञ् प्रक्षेपणे इत्यस्योपमानम् । अन्यत्र पाठः–
यत्प्रयोजनसामर्थ्याद्वाक्यं शिष्टार्थसाधनम् ।
समासोक्तं मनोग्राहि स हेतुरिति संज्ञितः ।। इति ।
सम्यगस्यते हृदि क्षिप्यते येन स समासः उपपत्तिस्तयोक्ता । अथ सारूप्यं –अपदेशस्तु परोक्षो यस्मादुत्पद्यतेऽनुकरणेनेति । यथा ममैव–
सैन्दूरीकृतसान्द्रकुङ्कुमरसप्रच्छायमालोच्यते
यत्प्राच्यां दिशि वक्रिमा पदमिदं दृग्द्वन्द्वलेह्यं महः ।
तत्तेजो जरठांशुतां कलयता भाविप्रवासावधिं
सन्ध्यामुग्धवधूकपोलफलके कीर्णो नखाग्राङ्कुरः ।।
अत्र यदिति निर्देश्यं परोक्षवस्तु तत्त्वस्यापरिज्ञानात् । अनुकरणेन प्रच्छायमात्रेण, अपदेश्यमालोच्यमिति लक्षणेन सैन्दूरीकृतेत्यादिना । समानं सप्रमाणकं करणं दर्शनक्रिया यस्य तादृशे वस्तुनि सारूप्यं लक्षणम् । पौर्णमास्यामपि वक्ररेखेवेन्दोर्भागो लक्ष्यते उदयाचलान्तरितत्वात् सन्ध्यासमये । न चेयमुपमा उपमेयस्याभावादुपमेयमेव हि पूर्वार्धेन लिंग्यते । पुस्तकान्तरेषु तु पाठः–
यथादेशं यथाकालं यथारूपं च वर्ण्यते ।
यत्प्रत्यक्षं परोक्षं वा दृष्टं तद्वर्णतोऽपि च ।। इति ।
प्रत्यक्षं वस्तु परोक्षमिव देशकालरूपानुसारेण वर्ण्यते ।
अथ मिथ्याध्यवसायः– अभूतपूर्वैर्यत्रार्थैरिति । अपारमार्थिकैरेवार्थै– स्तत्तुल्यस्यावस्तुभूतस्यार्थान्तरस्य यस्य वक्तृव्यापारे सति निश्चयः सोऽयम् । यथा ममैव–
Notes
1 भ–अपदेशेन परोक्षो योऽर्थो ह्युत्पद्यते 2 भ–योगात् 3 च–निर्देश्यम् 4 च–अभूतपूर्वे यत्रार्थे तुल्यस्यार्थस्य निर्णयः।
स मिथ्याध्यवसायस्तु प्रोच्यते 1काव्यलक्षणम् ।। १६
बहूनां च प्रधानानां 2मध्ये यन्नाम कीर्त्यते ।
एकार्थसाधनकृतं3 सा सिद्धिरिति कीर्तिता ।। १७
गुणैर्बहुभिरेकार्थैः पदैर्यः संप्रशस्यते ।
पदोच्चयं तु तं विद्यान्नानार्थग्रथितार्थकम्4 ।। १८
Abh
यो दुर्जनाद्वाञ्छितसिद्धिमीहते स नूनमुत्क्रामति तं सुखैधिनम् ।
जुह्वज्ज्वलाग्नौ विगतार्थमण्डलं प्रसह्य षष्ठं विषयं प्रसाधयेत् ( ?)।।
काव्यलक्षणमित्यनेन काव्येषु लोकविपर्यासबाहुल्यमवश्यं भवतीति दर्शयति । अन्ये तु पठन्ति–
विचारस्यान्यथाभावस्तथा दृष्टापदृष्टयोः ।
सन्देहात्कल्प्यते यत्र सविक्षेपो विपर्ययः ।।
विचार्यत इति विचारोऽर्थः अदृष्टमित्यर्थः । सन्देहोऽत्र भ्रमः, अथवा अन्यथाभावो विपर्ययः । संशयोऽपि हि वस्तुतो विषयतत्त्वमन्यथाकारं दर्शयन् विपर्यय एव ।।
अथ सिद्धिः – बहूनां च प्रधानानामिति । प्रसिद्धानां मध्ये एकमित्यप्रसिद्धं यन्नाम कीर्त्यते तस्यासाधारणत्वस्य प्रयोजनस्य संपत्तये करणं तत्र निवेशनं यस्य तादृक् तत्कीर्तनं सिद्धिहेतुत्वात्सिद्धिः । यथा–
भद्रेश्वरः सुरसरित्स भवानहं च
त्रैलोक्यसारमिह संप्रति जीवलोके।
भद्रेश्वरः सुरवरेषु सरित्सु गङ्गा
त्वं पार्थिवेष्वहमतीव सुदुःखितेषु ।।
अत्र भवानहं चेत्यप्रसिद्धं प्रसिद्धमध्ये उपात्तं साधारण्यसिद्धिं विधत्ते ।
अथ पदोच्चयः –गुणैर्बहुभिरेकार्थैरिति । एकतात्पर्यार्थनिष्ठैर्बहुभिः शब्दैर्ये वाच्यत्वेन
Notes
1 भ–कार्य 2 प–नाम यत्राभिकीर्त्यते । अभिप्रेतार्थसिद्ध्यर्थं 3 भ–कृता 4 च–ग्रथनात्मकम् ।
आत्मभावमुपन्यस्य परसादृश्ययुक्तिभिः ।
तीव्रार्थभाषणं यत्स्यादाक्रन्दः स तु कीर्तितः ।। १९
Abh
स्वीकृता धर्मास्तदुपलक्षितत्वेनैव यद्वस्तुनः प्रशंसनम् । कथं, नानार्थैर्ग्रथितात्मकमुपलम्भितरूपं कृत्वा तत्पदानामुच्चय उत्कर्षेण च यः बाहुल्यं यत्रेति पदोच्चयः ।
असारं संसारं परिमुषितरत्नं त्रिभुवनं
निरालोकं लोकं जननयननिर्माणमफलम् ।
अदर्पं कन्दर्पं मरणशरणं बान्धवजनं
जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ।।
अत्र ह्यवान्तरावगमकारिणामवान्तरवाक्यरूपाणां पदानां तात्पर्यमभिन्नं स्वार्थे तु भिन्नम् । (पदशब्दार्थस्तु पादो भाग इति । अन्ये पठन्ति –)1
पूर्वत एवार्थः ।
अथाक्रन्दना–आत्मभावमुपन्यस्येति । तीव्रः साक्षादवाच्यो योऽर्थस्तस्य परं प्रति सादृश्ययोजनप्रकारैरात्म(त्मा)भिप्रायं प्रमुखे दत्त्वा तत्समन्ततः भाषणं स्फुटकथनं तन्निजभावाविष्करणप्रधानत्वादाक्रन्दो नाम लक्षणम् । यथा ममैव–
किं पान्थ त्वरसे विलोकय (निशां या ह्युन्मुखी) पाण्डुरा
चन्द्रं चुम्बितुमीहते प्रकटयन्त्यग्रे सरागां स्थितिम् ।
यद्वा नागरभोगदुर्ललितकैर्न्यस्तापि न ज्ञायते
ग्रामेऽग्राम्यजनोपभोगसुभगं निर्व्याजरम्यं सुखम् ।।
अत्रोत्तरेणार्धेन ग्रामीणो रम्यतमो भोजनशयनादिसंभोग इति वक्त्र्या मोहप्रायोऽवाच्य आत्माभिप्रायः । तदरोचक–रोचकत्वं तदुभयं प्रमुखे निधाय निशाकरवृत्तान्तसादृश्येन तीव्रः स्वात्मानुराग आविष्कृतः । अन्ये पठन्ति–
रूपकैरुपमाभिर्वा तुल्यार्थाभिः प्रयोजितैः ( ?प्रयोजितः) ।
अप्रत्यक्षार्थसंस्पर्शस्तुल्यतर्कः प्रकीर्तितः ।।
Notes
- “पादो भाग” इति क्वापि पाठो न दृश्यते । तत्पाठान्तरभागो लुप्त एव स्यात् । 1- Madhusūdanī (Madhu)
हृदयस्थस्य भावस्य सुश्लिष्टार्थप्रदर्शनम्1 ।
अन्यापदेश2कथनैर्मनोरथ इति स्मृतः ।। २०
3पृष्टैरपृष्टैरथवा निर्णयः क्रियते तु यः ।
4आख्यानमिति तज्ज्ञेयं लक्षणं नाटकाश्रयम् ।। २१
Abh
प्रथमार्धेन परसादृश्यमुक्तम् । अप्रत्यक्षस्यात्मभावस्य संस्पर्शनाज्ज्ञा(द्ज्ञा)पनेत्यर्थः ।।
अथ मनोरथः– हृदयस्थस्य भावस्येति । यथा–
निग्गंड–दुरारोहं मा पुत्तय पाडलं समारुहसु ।
आरूढनिवडिया के इमीए न कया इह ग्गामे ।। *
अत्र पादपमारोहन्नेव वृद्धविदग्धया कश्चिद्दुराशयपुंश्चलीसंगमोत्सुकः स्वाभिप्रायद्योतनेन प्रबोध्यते, तत्प्रस्तुतमेवान्यदपदिश्य । अत एवाप्रस्तुतप्रशंसा, सापि चात्रैवान्तर्भूता । नन्वलंकारे ह्यलंकार्यत्वं ह्यसत् इति केयं युक्तिः, लक्षणं तु भवति लक्षणत्वादेव ।
अथाख्यानं –पृष्टैरपृष्टैरपि चेत्यादि । प्रश्नपूर्वका यत्र बहवो निर्णीयन्ते यथा †” बाले नाथ विमुञ्च मानिनि " इत्यादावुक्तिप्रत्युक्तौ, प्रश्नसदृशैर्वा शक्याशक्यवस्त्वभिधानैर्यत्र निर्णयः । यथा –
रामोऽसौ भुवनेषु विक्रमगुणैर्यातः प्रसिद्धिं परां इत्युक्ते यदि प्रसिद्धः कथं मया न ज्ञायत इत्याशंक्याख्यातं –
अस्मद्भाञ्यविपर्ययाद्यदि परं देवो न जानाति किम् (पा. भे. तम्) किं तस्य प्रसिद्धौ निदानमित्याशंक्य पुनराख्यातं–
Notes
1 प–प्रकाशकम् च–प्रदर्शकम् 2 प–कथनम् 3 च–अपृष्टैरथवा पृष्टैः 4 प–तदा ज्ञेयमिति ज्ञेयम् । *गाथासप्तशत्यां (५–६८) निर्गण्ड दुरारोहां मा पुत्रक पाटलीं समारोह । आरूढनिपतिता केऽनया न कृता इह ग्रामे ।। †बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं खेदोऽस्मासु, न मेऽपराध्यति भवान्, सर्वेऽपराधा मयि । तत्किं रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते नन्वेतन्मम, कातरास्मि दयिता नास्मीत्यतो रुद्यते ।। (अमरुकस्य)
आदौ 1यत्क्रोधजननमन्ते हर्षप्रवर्धनम् ।
2यत्र प्रियं पुनर्वाक्यं सा याच्ञा परिकीर्तिता ।।* २२
कार्येषु विपरीतेषु यदि 3किंचित्प्रवर्तते ।
निवार्यते च कार्यज्ञैः प्रतिषेधः प्रकीर्तितः ।। २३
Abh
वन्दी वैष यशांसि* इत्यादिना ।
नाटकाश्रयमित्यनेन भूयो लक्ष्यमाणस्येत्याह । अन्ये पठन्ति–
वाक्यैः सातिशयैर्युक्ता वाक्यार्थस्य प्रसाधकैः ।
लोकप्रसिद्धैर्बहुभिः प्रसिद्धिरिति कीर्तिता ।।
स्पष्टम् ।।
अथ याच्ञा–आदौ यत्क्रोधजननमिति । प्रथमार्धेन हितं व्याख्यातम् । तेन प्रथमं यत्तदात्वे परुषमायत्यां च सत्फलं वस्तूच्यते, ततश्च प्रियम् । पुनः शब्दात्ततो हितं पुनः प्रियमित्येवं प्रबोध्यस्य प्रबोधधिया याचनाद्याच्ञा । यथा ममैव–
भूमिः कण्टकिनी पुरो विटपिनः प्रायो बहूपद्रवाः
भूयश्चैष दिवाकरो मृगयते सन्ध्याङ्गनासङ्गमम् ।
तद्विश्रम्य जनोऽयमत्र सदने ग्राम्योचितं सेवतां
प्रातः पान्थ विचार्य चेतसि चिरं स्थातासि गन्तासि वा ।।
पाठान्तरं तु–
हितैः प्रसन्नवचनैर्यत्परस्यानुवर्तनम् ।
क्रियते वाक्यचेष्टाभिस्तद्दाक्षिण्यमुदाहृतम् ।। इति ।
अथ प्रतिषेधः –कार्येषु विपरीतेष्विति । यथा अमरुकस्य –
Notes
1 भ– च क्रोधजं नित्यं 2 च–यत्तु 3 प–कश्चित् । *याच्ञाया लक्षणमन्यैः पठितं– लाभोपपत्तिमाख्याय स्वयं दूतमुखेन वा । प्रार्थ्यते यत्र कन्याया सा याच्ञेत्यभिधीयते ।। इति अत्र कन्यायै एव याचनालक्षणस्यैकदेशित्वमिति वृत्तिकारपाठः स्वीकृतोऽन्यैः । सोऽपि प्रियाख्यलक्षणनिर्वचनस्य संवाद्येव । अत एव कैश्चित् प्रियलक्षणं पाठान्तरेण लक्षितम् । उदाहरिष्यामोऽग्रे । *वन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहति– श्रेणीभूतविशालसा(ता.)लविवरोत्की(द्गी,)र्णस्वरैः सप्तभिः ।। (राघवानन्दे) (पा. भे–काव्यप्रकाशतः, –४)
यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् ।
1पृच्छन्निवाभिधत्तेऽर्थं सा पृच्छेत्यभिसंज्ञिता ।। २४
2विद्वान् पूर्वोपलब्धौ यत्समत्वमुपपादयेत् ।
निदर्शनकृतस्तज्ज्ञैः स दृष्टान्त इति स्मृतः ।। २५
Abh
लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽर्पिता
नो वा पादयुगे तया निपतितं तिष्ठेति नोक्तं वचः ।
काले केवलमम्बुदालिमलिने गन्तुं प्रवृत्तः शठः
तन्व्या बाष्पजलोपकल्पितनदीपूरेण रुद्धः प्रियः ।।
अत्र तृतीयपादेन विपरीतकार्यप्रवृत्तिरुक्ता । आद्यार्धेन कार्यज्ञत्वं नायिकायाः, तथापि निवारणं तुर्यपादेनोक्तम् । अन्ये त्वधीयते–
यद्वाक्यं वाक्यकुशलैरुपायेनाभिधीयते ।
सदृशार्थाभिनिष्पत्त्या स लेश इति कीर्तितः ।। इति ।
वाक्यमिति वाक्यार्थो निषेधौ वा नदीपूरश्च वर्षासु रोधको दृष्ट इति सदृशाभिधानेनोपायेन निषेधः कृतः ।। अथ पृच्छा–यत्राकारोद्भवैर्वाक्यैरिति । यथा–
किं भीमाद्गुरुदक्षिणां गुरुगदाद्भीमप्रियः प्राप्तवान् (वेणी ३/९ प्रथमचरण) । इत्यादि अत्राकारेणाभिप्रायसूचकेन काक्वादिनोद्भूतानि द्योतितशक्तिकानि वाक्यानीति भावः । यत्र भावरसोपेतमित्यन्ये प्राच्यं पादमधीयन्ते ।। अथ दृष्टान्तः –विद्वान्पूर्वोपलब्धौ यत्समत्वमिति । यथा ममैव –
हा हालाहललेहने हतमतिः सोऽयं समुत्कण्ठितो
गाढाङ्गारगरिम्णि चैष जडधीर्देहं निविक्षेप्स्यति ।
ग्राम्योऽप्याजगरीं गुरुं गलगुहां मोहादयं धावति
व्याधूयेतरसङ्गतानि यदयं सार्धं खलैः खेलति ।।
Notes
1 च–पृच्छत्याभिनयेनार्थं 2 भ–विद्वन्पूर्वोपलब्धौ ।
अनेकयुक्ति यद्वाक्यमनेकार्थप्रसाधकम्1 ।
अनेकवाक्यसंयुक्तं2 तन्निर्भासनमुच्यते3 ।। २६
अपरिज्ञाततत्त्वार्थं यत्र वाक्यं समाप्यते ।
4सोऽनेकत्वाद्विचाराणां संशयः परिकीर्तितः ।।* २७
5यथा6शास्त्रार्थसंपन्नां7 मनोरथसमुद्भवाम्8 ।
Abh
यदयमित्यादि कस्य हेतोर्हालाहलकालकूटकवलनादिना येन साम्यं कृतं स दृष्टान्तः । न चेयमुपमा, यतो निदर्शनेन प्रत्यक्षीकरणाय कृत इत इदमेवं कर्तुमुद्यत इति, न च रूपकं यदेतत्करोति तत इदमस्य भविष्यतीति भिन्नकालत्वात्, तदाह पूर्वोपलब्धौ सत्यामिति ।
अथ भासनं–अनेकयुक्ति यद्वाक्यमिति । यथा– “कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी” * (वेणी)–इत्यादि । भास्यते प्रकृतः क्रोधादिर्येन । पाठान्तरं–
ईप्सितार्थप्रसिद्ध्यर्थं कीर्त्यन्ते यत्र सूरिभिः ।
प्रयोजनान्यनेकानि सा मालेत्यभिसंज्ञिता ।। इति
अथ संशयः– अपरिज्ञाततत्त्वार्थमित्यादि । यथा–
तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति
स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।
तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनीं
सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ।।
(विक्रमो. ४–२) अत्राद्यो भागः संशयोदाहरणं, अनन्तरस्तूपपत्त्युदाहरणम् ।
अथाशीः– यथाशास्त्रार्थसंपन्नाम् इत्यादि । यथा –
Notes
1 भ–अनेकप्रकृतिस्थितम् 2 भ–वचनैर्युक्तं 3 च–भासनं तद्भवेत् प–ज्ञेयं निर्भासनं तु तत् 4 च–अनेकत्वात् 5 प–यदा 6 भ–शास्त्रेऽर्थसंपत्तिः 7 प–संपन्नं 8 प–समुद्भवम् भ–समुद्भवा । *भमातृकायां संशयस्य लक्षणं भिद्यते परप्रशंसावचनं प्रयुक्तं योऽभ्यसूयते । पूर्वोत्तरार्थव्याघातः संशयः स तु कीर्तितः ।। इति । *पूर्णः श्लोक :– राजा दुश्शासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् । कृष्णाकेशोत्तरीयव्यपयनपटुः पाण्डवा यस्य दासाः क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ।। (वेणीसंहारात्)
अप्रार्थनीयामन्यां1 वा विदुस्तामाशिषं बुधाः ।। २८
आदौ यत्क्रोधजननमन्ते हर्षप्रवर्धनम् ।
तत्प्रियं वचनं ज्ञेयमाशीर्वादसमन्वितम् ।।† २९
Abh
“पादाग्रस्थितया” (रत्ना–१–१)इत्यादि । सर्वं वचनं न चाशीरलङ्कारः स्तुत्या एव वर्णनीयत्वात् । अन्ये पठन्ति –
यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ।
परापेक्षाव्युदासार्थं तन्निदर्शनमुच्यते ।। इति ।
प्रसिद्धानां देवतादीनां परापेक्षा साध्याकांक्षा तस्माद् व्युदासस्तत्संपत्त्या । अत एव दृष्टान्तादस्य भेदः इति ।
अथ प्रियं –आदौ यत्क्रोधजननमिति । यथा–
किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थः
तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः ।
गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्यां
उन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ।।
अत्र भ्रमति वल्लभेत्यादौ क्रोधजननं हन्त कीर्तिरिति हर्षकृत् । अन्ये पठन्ति–
वाच्यमर्थं परित्यज्य दृष्ट्यादिभिरनेकधा ।
अन्यस्मिन्नेव पतनादाशु भ्रंशः स उच्यते ।। इति
दृष्टिर्दर्शनं प्रकृतिमुखरादिवाक्यमिति पूर्वोक्तमित्यर्थः । न चेयं व्याजस्तुतिः निन्दाभागे स्तुतेरभावात्, पूर्णतायास्तु निन्दाया अभावात् । यथा वा–
† “प्रद्योतस्य सुता” इत्युक्त्वा वसन्तकं विप्रतारयितुं राजा वसन्तशब्दमाचष्टे । मधोश्च समयः प्रसूनसमय इत्यनादृत्य तदाकर्णने निवृत्त्यङ्कुरेण
Notes
1 प–नीयमन्यम् । †एतल्लक्षणं याच्ञायाश्च समानकल्पत्वात् केचित्पठन्ति– विनष्टे तु यदा द्रव्ये ह्युपलब्धिः पुनश्च या । सुखमुत्पद्यतेऽतीव सा प्रीतिरिति कीर्तिता ।। इति । एतच्चतुःषष्ट्यङ्गमध्ये निवेशनीयं, न तु लक्षणरूपेण व्यापारवैचित्रीमापादयति । † रत्नावल्यां प्रथमेऽङ्के राज्ञो वचनम् । अयं तु “राज्यं निर्जितशत्रु” इति श्लोकस्य तृतीयः पादः ।
1छलयुक्त्या त्वन्येषामभिसन्धानाभिभावकं कपटम् ।
द्वित्रिप्रयोगयुक्तौ विज्ञेयः कपटसङ्घातः ।। ३०
दुर्जनोदाहृतै रूक्षैः 2सतां मध्येऽ3भिताडितः ।
अक्रोधः क्रोधजननैर्वाक्यैर्यः सा क्षमा भवेत् ।। ३१
Abh
हृष्यति विदूषके समय, इतिशब्देनान्यत्र पतनात्प्रणयक्रोधत्वं चेति प्रियवचनम् । प्रियकार(?) इति लोक एतत्सिद्धम् ।
*(अथ कपटं–छलयुक्त्येति) व्याजप्रयोगेण अभिसन्धानं वञ्चना अभिभावकं तिरस्कारकं छलोक्त्या कथितस्यार्थस्यान्यथाग्रहणं अपलापो वा कपटं, तस्य सङ्घातो लक्षणम् । कपटो वस्तुक्रमाद्दैवाच्छत्रोर्वा समुद्भूतः । वस्तुक्रमोद्भूतस्य मालतीमाधवे मकरन्दस्य मालतीवेषधारणं, दैविकस्य नागानन्दे जीमूतवाहनस्य शङ्खचूडच्छलनं, शत्रुकृतस्य तु छलितरामे लवणासुरप्रयुक्तयो राक्षसयोर्मन्थराकैकेय्योर्वेषधारणं सीताया अन्तर्वत्न्या निर्वासनं च कृतम् । यथा वा कृत्यारावणे प्रथमेऽङ्के सीतावेषधारिण्या शूर्पणखया लक्ष्मणो वञ्चितोऽभिभूतश्च “ता सव्वहा अण्ण एव्व दे अणिद्वं (?अणिट्ढं)अभिप्पाअं लक्खेमि” इत्यादिना वचनेन ।। अन्ये पठन्ति–
यत्र संकीर्तयन्दोषं गुणमर्थेन योजयेत् ।
गुणातिपाताद्दोषं वा गर्हणं नाम तद्भवेत् ।। इति
तत्त्रिविधमपि वागुपचारसामान्याच्छलमत्र स्वीकृतम् ।
अथ क्षमा–दुर्जनोदाहृतैरिति । दुर्जनोक्तैर्वचनैः क्रोधजननैः सभायां ताडितोऽपि यः पुरुषोऽक्रोधनः क्रोधहीनः स एव क्षमावान् । तद्वर्णनोचितः
Notes
1 भ–छलयुक्त्या यदान्येषां मत्त्वा नायकभावनम् । द्वित्रिप्रयोगयुक्तेन ज्ञेयं कपटसंज्ञितम् ।। भोजदेवः पठति–अदिव्यं दिव्यमपि वा कृत्वा रूपविपर्ययम् । अविद्वान् वञ्चयते येन कपटं तदुदाहृतम् ।। “छलोक्त्याकथितार्थस्य कपटोऽन्यादृशग्रहः” इति केचित् । 2 च–सभा 3 प–अपि च -अति । *कुण्डलीकृतो व्याख्याभागो द्वयोरप्यादर्शयोः पतितत्वादस्माभिः पूरितः ।
दृष्ट्वैवावयवं1 किंचिद्भावो यत्रानुमीयते2 ।
प्राप्तिं 3तामभिजानीयाल्लक्षणं नाटकाश्रयम् ।। ३२
अकार्यं सहसा कृत्वाऽकृत्वा कार्यमथापि वा ।
सन्तापो मनसो यस्तु पश्चात्तापः प्रकीर्तितः4 ।। ३३
Abh
कविव्यापारः क्षमेत्यर्थः । अनेन च यथोचिताभिन्नवृत्तिसंचयः सर्वो विभावाद्युचितो निर्वर्त्यमानः (?निर्वर्ण्यमानः)1 काव्यलक्षणत्वेन सूचितः । क्षमा यथा ममैव–
श्रोत्राय दुष्टवचनं प्रति किं न कोपः
क्षोभं करोति हृदये ननु कोप एव ।
मित्रं ममैष तु निजात्मनि योऽपकारं
कृत्वा ममाशुभकलङ्कविघातहेतुः ।।
अन्येषां पाठः–
सिद्धान् बहून् प्रधानार्थांस्त्यक्त्वा यत्र प्रयुज्यते ।
विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ।।
सिद्धानिति लोकप्रसिद्धान्प्रधानभूतानशक्यापजयांस्त्यक्त्वानादृत्यक्रोधाद्यद्वचनं विशेषेण युक्तं, यथा” ममायं परम्परः (परिवादः?) सुहृत्प्रत्ययः स्वात्मनि क्षोभः पुण्यादिकमुररीकृत्यापि ममापुण्यसंचयं दुःखोपभोगदानेन शमयति” इति ।
अथ प्राप्तिः-दृष्ट्वैवावयवं कंचिदिति । यथा -
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा ।।
(शाकु ३-७)
अत्र पदपङ्क्तिलक्षणमंशं दृष्ट्वानयात्र भवितव्यमिति शकुन्तलायाः सद्भावोऽनुमीयत इति ।
अथ पश्चात्तापः –अकार्यं सहसा कृत्वेति । सहसेत्यविचार्य अकार्यं कृत्वा यथा–अंगुलिशुकाहमिस इदोसल उप्पन्ना । जस्सकबलजो भूतभूहि भुव ओहिण्णो ।। * कार्यमकृत्वा यथा-
मुखमंसविवर्तिपक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तत्(तु) इति । (शाकु. ३.२४ द्वितीयार्धः)
Notes
1भ–किंचित् 2 भ–उपनीयते च– उपमीयते 3 च–तामपि 4 प–स उच्यते 1– Raghavan *अस्पष्टेयं गाथा ।
प्रश्रयेणार्थसंयुक्तं यत्परस्यानुवर्तनम् ।
स्नेहाद्दाक्षिण्ययोगाद्वा सानुवृत्तिस्तु संज्ञिता ।। ३४
Abh
अन्ये पठन्ति –
अनेकार्थविचारस्तु विचारः परिकीर्तितः ।। इति ।
अनेकस्य कार्यरूपस्यार्थस्य (कृता)कृतस्य विचारः किमेतत्कृतमिति ।
*अथानुवृत्तिः–प्रश्रयेणार्थसंयुक्तमिति । यथा भट्टेन्दुराजस्य–
1राज्ञा यद्यनुरुध्यसे यदि भवेद्वाच्यं पुरो मादृशां
तत्संक्रन्दनगोप किंचन मनाक् पृच्छत्यधीरो जनः ।
अग्रे रोहणचारिणां सरभसं संचूर्यमाणश्चिरं
कं प्रत्याययितुं प्रयासरसिको यत्नेन रत्नायसे ।।
अप्रस्तुतप्रशंसात्वेऽपि हि यदप्रस्तुतस्य शरीरवैचित्र्यं तल्लक्षणकृतमेव, लक्षणं हि शरीरमित्युक्तम् । कटकाद्यैरपि हि यद्वैचित्र्यं कुशलसुवर्णकारोत्प्रेक्षितं तल्लक्षणमहिम्नैव । तत्तेनो ?(तेनो)2पमानशरीरस्योपमेयशरीरस्य वा वैचित्र्यं लक्षणानामेव व्यापारः ; इत्येवमुपमारूपकदीपकानां त्रयाणामलङ्कारत्वेन वक्ष्यमाणानां प्रत्येकं षट्त्रिंशल्लक्षणयोगात् लक्षणानामपि चैकद्वित्र्याद्यवान्तरविभागभेदादानन्त्यं केन गणयितुं शक्यम्, इदानीं शतसहस्राणि वैचित्र्याणि (?णां)3 सहृदयैरुत्प्रेक्ष्यन्ताम् । परे त्वधीयते–
उभयोः प्रीतिजननो विरुद्धाभिनिवेशयोः ।
अर्थः प्रसादजनको ज्ञेयस्त्वनुनयो बुधैः ।। इति ।
उभयोरत्र वक्तृवाच्ययोस्तयोश्च विरुद्धाभिनिवेशः । एकस्य तत्त्वविश्रान्तता अपरस्य त्विषा रत्नवदाचरितमिति ।
Notes
*लक्षणोद्देशे “अर्थानुवृत्ती” इति पठितं भमातृकायां, तत्र ‘अर्थो लक्षणान्तरत्वेन गृहीतः । यथा–
लक्षणामनुनिर्देशो विज्ञेयः संग्रहस्तथा ।
चित्रार्थसमवायो यः सोऽर्थ इत्यभिधीयते ।।
1 क–याच्ञां । 2– Raghavan 3 – Raghavan
1प्राप्तानां यत्र दोषाणां क्रियते शमनं पुनः ।
2सा ज्ञेया ह्युपपत्तिस्तु लक्षणं नाटकाश्रयम् ।। ३५
साध्यते योऽर्थसंबन्धो3 महद्भिः समवायतः ।
परस्परानुकूल्येन सा युक्तिः परिकीर्तिता ।।* ३६
Abh
अथोपपत्तिः – प्राप्तानां यत्र दोषाणामिति । प्राप्तानामिति वीप्सागर्भो निर्देशः, दोषाणामित्युपपत्त्ययोगदृष्टत्वेनावस्तुभूतानामित्यर्थः । यथा– “तिष्ठेत्कोपवशा"दित्यादि । यथा वा-
क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति ।।
(विक्रमो) इति
अन्ये त्वधीयते–
परिगृह्य तु शास्त्रार्थं यद्वाक्यमभिधीयते ।
विद्वन्मनोहरं स्वन्तमुपदिष्टं तदुच्यते ।। इति ।
शास्त्रार्थशब्दः प्रमाणेपलक्षणम् । स्वन्तमिति शोभनोऽन्तो निश्चयो यत्र ।
अथ युक्तिः–साध्यते योऽर्थसंबन्ध इति । यथा-
लावण्यसिन्धुरपरैव हि केयमत्र
यत्रोत्पलानि शशिना सह संप्लवन्ते ।
उन्मज्जति द्विरदकुम्भतटीव यत्र
यत्रापरे कदलकाण्डमृणालदण्डाः ।।
अत्र महद्भिरुत्कृष्टैर्नेत्रवदनादिभिः परस्परशोभात्मकानुकूल्योपलक्षितेन समवायेनैकविश्रान्त्यार्थः संबध्यमान उपपद्यमानोऽपूर्वतरङ्गिणीलक्षणः साधित इति योजनादियं युक्तिः । प्रतीयमानं रूपकमत्रेति चेत् किं ततः शरीरं लक्षणमयमेवेत्युक्तमसकृत् । एकीयः पाठः–
Notes
1 भ–प्रोक्तानां 2 प–ज्ञेया सा 3 म–सन्तानो । *इदं लक्षणत्वेन न परिगणितं भमातृकायाम् । तत्र “उपपत्तियुक्ति” रिति एकत्वेन गृहीतम् । विक्रमो (४–२)
1यत्रापसारयन्दोषं गुणमर्थेन योजयेत् ।
2गुणाभिवादं दोषाद्वा कार्यं तल्लक्षणं विदुः3 ।। ३७
4अपूर्वक्रोधजनितमपराधं प्रमृज्य यत्5 ।
सेवार्थं मधुरं वाक्यं 6सानुनीतिः प्रकीर्तिता ।। ३८
Abh
अभूतपूर्वो ह्यर्थो यः सादृश्यात्परिकल्पितः ।
लोकस्य हृदयग्राही सोऽभिप्राय इतीरितः ।। इति ।
अथ कार्यं–यत्रापसारयन् दोषमिति । दोषमपसार्य गुणं यदात्वेऽर्थनीये नियोजयति गुणाभिवादं वापसार्य दोषानर्थे योजयति आश्रित्य तेनार्थं योजयतीत्यर्थः । प्रथम उदाहरणं–
“तावत्स्वात्मनि संश्रितद्रुमलताश्लेषोऽध्वगैर्वर्जनम्” ।* इत्यादि । द्वितीये ममैव–
विश्वप्रभो वितरतां कमलां किमन्यद्
भूयात्स कोऽपि घटितो भवतोपकारः ।
दूराध्वगेषु पुनरम्बु तथा विकीर्ण–
मन्ते यथा त्रिभुवने प्रसृतं यशस्ते ।।
एतत्कैश्चिद्गहनमित्युक्तम् । अन्ये त्वधीयते–
अर्थान्तरस्य कथने यत्रान्योऽर्थः प्रतीयते ।
वाक्यमाधुर्यसंपन्ना सार्थापत्तिरिति स्मृता ।। इति ।
अत्र हि महांस्त्वयास्योपकारः कृतः, अध्वगानां च महदम्बु दत्तमित्युक्ते, विश्वप्रभो इति पुनरिति पर्यालोचनादर्थान्तरस्यापत्तिः ।
अथानुनीतिः – अपूर्वक्रोधजनितमिति । अपूर्वस्य सातिशयस्य क्रोधस्य जननाय योऽपराधस्तम् । यथा–
प्रसीदेति ब्रूयामिदमसति कोपे न घटते ।। (रत्ना –२–१९)
Notes
1 प– यत्र संकीर्तयन् भ–यत्र संकीर्त्य दोषांस्तु 2 भ–गुणकीर्तिते हि दोषं 3 प–तदिह कीर्तितम् । म–कार्यात्तल्लक्षणं विदुः 4 प–अपूर्वक्रोधजननं भ– अपूर्वक्षोभ 5 च–प्रमार्जयेत् 6 च–अनुनीतिः ।
1दोषैर्यदन्यनामोक्तैः प्रसिद्धार्थैः प्रयोजितम्2 ।
अन्यत्रार्थेन संबद्धं3 ज्ञेयं तत्परिदेवनम्4 ।। * ३९
Abh
अन्ये पठन्ति–
वाक्यैः सातिशयैर्युक्तो वाक्यार्थः स प्रसाधकैः ।
लोकप्रसिद्धैर्बहुभिः प्रसिद्धिरिति कीर्तिता ।। इति ।।
अथ परिदेवनं–दोषैर्यदन्यनामोक्तैरिति । यथा बालरामायणे दशरथनाम्ना ये दोषा उक्ता रामनिर्वासनादयस्तैरेव प्रसिद्धार्थैः सद्भिर्यत्प्रयोजितं वचनं परमार्थेन सम्बन्धो रक्षस एव युक्तो न तु दशरथे तत्परिदेवितं “नरेन्द्रवृद्धः स्त्रीवशं न्यस्तमयस ।” इत्यादिना । अर्थेन प्रयोजनेन येऽन्यनामोक्ता अर्थाः प्रसिद्धार्थैर्यत्प्रयोजितं संवादितमन्यहृदये दोषाः संबन्धं संबन्धनं तच्चार्थेन संबन्धं परमार्थत उचितं तत्परिदेवितम् । यथा–
एनां पश्य पुरस्तटीमिह किल क्रीडाकिरातो हरो
गाण्डीवेन किरीटिना सरभसं चूडान्तरे ताडितः ।
इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापते–
र्मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डनम् ।।
तटावलोकनेन प्रयोजनेनात्र धनञ्जयव्यापारो य उक्तस्तेन राजनि कस्मिंश्चिद्दोषसंबन्धो हृदये जनितः “किं तुल्यमानुषत्वेऽर्जुनपराक्रमन्यूनता मम तत्किं मण्डनया अधिकारस्थानां ह्यद” इति तत्र परमौचित्यख्यापनं प्रयोजनम् । उन्ये पठन्ति–
परदोषैर्विचित्रार्थेर्यत्रात्मा परिकीर्त्यते ।
अनुक्तोऽन्योऽपि वा कश्चित्स तु क्षोभ इतीरितः ।। इति ।
परस्य दोषो येभ्यस्तादृशा ये विचित्रा अर्थाः परगुणास्तैर्हेतुभूतैरदृष्टोऽप्यर्थ आत्मा अन्य इति दृष्टत्वेन कीर्त्यते, अन्यो वा कश्चिदात्मव्यतिरिक्त इति क्षोभो हृदयसंचलनात् । इयमेवानुक्तसिद्धिः–
Notes
1 प–यद्दोषैरन्य 2 प–प्रसिद्धार्थप्रयोजनम् च–प्रयोजयेत् 3 च–संबन्धो प–संबन्धं 4 प–परिवादनम् । *एतदेव परिवादनमिति भोजेनोक्तं, उदाहृतं च रत्नावल्यां तृतीयेऽङ्के कुपितवासवदत्तानिष्क्रमणानन्तरं राजा विदूषकं परिवदन्नाह “धिङ् मूर्ख, त्वत्कृतोयमनर्थोऽस्माकमापतित” इतीति । परिवेदनमिति सर्वेश्वरेणाभिहितम् । शारदातनयेन तु ‘परिवादो मृषादोष’ इति लक्षितम् ।
उपमा 1दीपकं चैव रूपकं यमकं तथा ।
2काव्यस्यैते ह्यलङ्काराश्चत्वारः परिकीर्तिताः ।। ४०
यत्किंचित्काव्यबन्धेषु सादृश्येनोपमीयते ।
उपमा नाम 3सा ज्ञेया गुणाकृतिसमाश्रया ।। ४१
Abh
प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यत्र प्रतीयते ।
वचनेन विना जातु सिद्धिः सा परिकीर्तिता ।। इति ।
दोर्दण्डमण्डनाकरणे प्रस्तावादेव गम्यते पौरुषातिशयदर्पादिसर्वम् । एष चोत्कृष्टानामेवाभिप्रायो भवतीति प्राप्यत्वादन्ते लक्षणमिदमुक्तम् ।
एवं कविव्यापारबलाद्यदर्थजातं लौकिकात्स्वभावाद्विद्यमानं( ?द्भिद्यमानं)1 तदेव लक्षणमित्युक्तम् । तत्र( ?तस्य)2 शरीरकल्पस्यालङ्कारा अधुना वक्तव्याः । तन्निरूपयितुमुद्दिशा । उपमेत्यादि । काव्ये तावल्लक्षणं शरीरं, तस्योपमादयस्त्रयोऽर्थभागे, ( ?र्थभागाः)3 यथा हि पृथग्भूतेन हारेण रमणी विभूष्यते तथोपमानेन शशिना तत्सादृश्येन वा कविबुद्धिचञ्चलतया परिवर्तमानत्वात्पृथक्सिद्धेनैव प्रकृतवर्णनीयवनितावदनादि सुन्दरीक्रियत इति तदेवालङ्कारः । तस्य च त्रिधा स्थितिः संपूर्णेन स्फुटेन उपमानोपमेयत्वेन । यत्र च वर्णानां संनिधिरुपमानोपमेयद्योतकसाधारणधर्माणां क्वचिदन्तर्लीनेनोपमानोपमेयमेकीक्रियते तत्र रूपकव्यवहारः । तत्र हि पदार्थे प्रयुज्यमानः शब्द इवार्थं गर्भीकरोतीति न्यायः । क्वचित्तु एकप्रघट्टकावस्थानबलादुपमागतिः, यथा दीपके । उपलक्षणं चैतद्वैचित्र्यान्तराणाम् ।।
उपाध्यायमतं तु –लक्षणबलादलङ्काराणां वैचित्र्यमागच्छति तथा हि–गुणानुवादनाम्ना लक्षणेन योगात्प्रशंसोपमा, अतिशयनाम्नातिशयोक्तिः, मनोरथाख्येनाप्रस्तुतप्रशंसा, मिथ्याध्यवसायेनापह्नुतिः, सिद्ध्या तुल्ययोगितेति, एवमन्यदुत्प्रेक्ष्यम् । लक्षणानां च परस्परवैचित्र्यादप्यनन्तो विचित्रभावः, यथा प्रतिषेधमनोरथयोः संमेलनादाक्षेप इति । उपमाप्रपञ्चश्च सर्वोऽलङ्कार इति विद्वद्भिः प्रतिपन्नमेव ।
Notes
1 ड N–रूपकं चैव दीपकं 2 ड N– अलङ्कारास्तु विज्ञेयाश्चत्वारो नाटकाश्रयाः ।। 3 ड–विज्ञेया । 1 Raghavan 2 Raghavan 3 Raghavan
एकस्यैकेन सा कार्या ह्यनेकेनाथवा पुनः1a ।
अनेकस्य तथैकेन1b बहूनां बहुभिस्तथा ।। ४२
तुल्यं ते शशिन वक्त्रमित्येकेनैकसंश्रया1 ।
2शशाङ्कवत्प्रकाशन्ते ज्योतींषीति भवेत्तु3 या ।। ४३
4एकस्यानेकविषया सोपमा परिकीर्तिता ।
श्येनबर्हिणभासानां5 तुल्यार्थ6 इति या भवेत् ।। ४४
6aएकस्य बहुभिः सा स्यादुपमा नाटकाश्रया7 ।
8बहूनां बहुभिर्ज्ञेया घना इव गजा इति ।। ४५
Abh
तत्रोपमां लक्षयति यत्किंचिदिति । काव्यबन्धेषु काव्यलक्षणेषु सत्स्वित्यनेन गौरिव गवय इति नायमलङ्कार इति दर्शितम् । बन्धो गुम्फो, फणिति( ?भणिति)र्वक्रोक्तिः कविव्यापार इति हि पर्यायाः । लक्षणं त्वलङ्कारशून्यमपि न निरर्थकम् । भूयांश्चात्रोदाहरणमार्गो दर्शितः ।
गुणशून्यं तु न काव्यं किंचिदपीयति च महापुरुषो दृष्टान्तः अहेयत्वप्रदर्शनार्थमेवं हि प्रसादादीनां गुणवाचोयुक्त्या व्यवहारः तद्विना काव्यरूपत्वाभावात् । सुन्दरास्पदं तु शरीरमुपलक्षणमुपमाद्यन्तरेण तु भवत्येव काव्यमिति प्रकटीकर्तुमुपमादीनामलङ्कारत्वेन व्यवहारः, न तु लोक इव स्फुटात्र पृथक् सिद्धिरस्ति । तथा हि दण्डिना काव्यशोभावहा धर्मा अलङ्कारा सर्व उक्ता इति केचित् । यत्किंचिदित्यनेनोपमीयत इति क्रियार्थः संबध्यते न कर्म । उप समीपे प्रेक्षणनिमित्तान्तरैरपि संभवतीत्यत आह सादृश्येनेति । उपमीयत इत्यनेनोपमेय उक्ते सादृश्येनेति साधारणो धर्मः, गुणः संबन्धः आक्रियते द्योत्यते अनेनेति गुणाकृतिः इवादिः शब्दः आश्रीयमाणो यस्यामिति (गुणा–
Notes
1a: N –अनेकैर्वाऽथ संश्रिता 1b: N –अनेकेषां तथैकेन 1 च–इति ह्येककृता भवेत् द N–यत्र सैककृता भवेत् 2 N द – चन्द्रवत्संप्रकाशन्ते ज्योतींषीति द्विजोत्तमाः । 3 भ–भवेद्धि 4 भ–एकेनानेक द N–एकेन सा त्वनेकेषामुपमा 5 ढ–गृध्राणां 6 न–तुल्याक्ष 6a: N एकस्य बहुभिः साम्यात् 7 ढ –नाटकाश्रये 8 द N–घना इव गजा यत्र बहूनां बहुभिस्तथा (N:बहुभिस्तु या) ।
1प्रशंसा चैव निन्दा च कल्पिता सदृशी तथा ।
किंचिच्च सदृशी ज्ञेया ह्युपमा पञ्चधा पुनः ।। ४६
प्रशंसा यथा1a–
2दृष्ट्वा2a तां तु विशालाक्षीं तुतोष मनुजाधिपः ।
मुनिभिः साधितां 3कृच्छ्रात् सिद्धिं मूर्तिमतीमिव ।। ४७
निन्दा यथा–
सा तं सर्वगुणैर्हीनं 4सस्वजे कर्कशच्छविम् ।
वने कण्टकिनं वल्ली 5दावदग्धमिव द्रुमम् ।। ४८
कल्पिता यथा–
6क्षरन्तो दानसलिलं लीला7मन्थरगामिनः ।
मतङ्गजा विराजन्ते जङ्गमा इव पर्वताः ।। ४९
सदृशी यथा–
यत्त्वयाद्य कृतं कर्म परचित्तानुरोधिना ।
सदृशं तत्तवैव स्यादिति ( ?स्यादति) मानुषकर्मणः8 ।। ५०
Abh
कृतिसमाश्रया) । अत्रोदाहरणानि क्रमेण दर्शयति, तेषु लक्षणयोजनं तुल्यं ते इत्यादिना ।
एवमुपमानोपमेयसंख्याभेदेन तद्भेदानुक्त्वा तद्गतशरीरभेदेन शरीरभेदानाह प्रशंसा चैवेत्यादिना । उपमानस्य प्राशस्त्यात्प्रशंसोपमा । एवं सर्वत्र ।
जङ्गमाः पर्वताः उपमानाभिमताः कल्पिताः अन्यस्य सादृश्याभावात् । एवमत्र सदृशेन कल्पितः सः । असदृशीत्यन्ये पठन्ति, व्याचक्षते च सदृश–
Notes
1 द N–प्रशंसां….निन्दां
1aकिंचित्सदृशी यथा–
संपूर्णचन्द्रवदना नीलोत्पलदलेक्षणा1 ।
मत्त2मातङ्गगमना संप्राप्तेयं 3सखी मम ।। ५१
उपमाया बुधैरेते ज्ञेया भेदाः समासतः ।
4ये शेषा लक्षणैर्नोक्तास्ते ग्राह्या लोककाव्यतः5 ।। ५२
6नानाधिकरणार्थानां शब्दानां संप्रदीपकम्7 ।
एकवाक्येन 8संयुक्तं तद्दीपकमिहोच्यते ।। ५३
[9प्रसृतं मधुरं चापि गुणैः सर्वैरलङ्कतम् ।
काव्ये यन्नाटके विप्रास्तद्दीपकमिति स्मृतम् ] ।। ५४
Abh
इहोपमेय उच्यते, तथा च व्युत्पत्तिः समान इव दृश्यमानस्तमिवात्मानं पश्यतीति । यत्रोपमेय– स्यैवोपमानता सेयं सदृशी किंचित्सदृशमित्थमुपमानं भवति । यत्र सादृश्यगमकं स्फुटं पदं नास्ति न च सर्वात्मना रूपक इव वस्तुद्वयमीलनं तेन समासव्यंग्या किंचित्सदृशीत्युक्ता । तदुदाहरति संपूर्णेति । सप्तमी उपमानपूर्वपदस्येति समासबलादुपमानताप्रतिपत्तिः तत्र ह्युत्तरपदलोपः सन्नियोगशिष्टत्वात् क्यङि सलोप इव मत्तमातङ्गमनमिव गमनमस्या इत्युत्तरपदलोपोऽपि स एष लोके काव्ये च तद्भेदाः दृश्यन्ते । ते लक्षणद्वारेणोक्ता इति ग्राह्याः स्वयं स्वीकर्तुं शक्याः । अस्मिन्ये नोक्तास्ते लोकात्काव्याच्च ग्राह्या इत्यन्ये, शेषा इत्यत्र पुनरुक्तम् ।
अथ दीपकं – नानाधिकरणार्थानामिति । नाना ये शब्दान्तरवाक्य– पदात्मानस्तेषां, अधिकरणार्थानामाश्रये अर्थोऽर्थता येषां तथाभूतानां साकां–
Notes
1 a: N: ‘N’ has ‘सदृशी यथा’ 1 ढ –निभेक्षणा 2 द N–नागेन्द्र 3 द–प्रिया 4 ठ–शेषा ये लक्षणे नोक्ताः 5 द N–संसाध्यास्तेऽपि लोकतः च–काव्यलोकतः 6 भ–नानाविकरण ढ N–नानाधिकरणस्थानां, 7 ड–संप्रदीपनः च–संप्रकीर्तितम् न N–संप्रदीपकः 8 ड N– संयोगो यस्तद्दीपकमुच्यते च–संयोगात् द–संयोगो यस्तु दीपकमुच्यते भ–संयोज्यं 9 अंय श्लोको भमातृकायामेव वर्तते ।
यथा–
1सरांसि हंसैः कुसुमैश्च वृक्षाः मत्तैर्द्विरेफैश्च सरोरुहाणि ।
गोष्ठीभिरुद्यानवनानि चैव तस्मिन्नशून्यानि सदा क्रियन्ते ।। ५५
2स्वविकल्पेन रचितं तुल्यावयवलक्षणम् ।
किंचित्सादृश्यसंपन्नं यद्रूपं रूपकं तु तत् ।। ५६
[3नानाद्रव्यानुरागाद्यैर्यदौपम्य4गुणाश्रयम् ।
रूपनिर्वर्णनायुक्तं तद्रूपकमिति स्मृतम् ।।] ५७
यथा–
पद्माननास्ताः कुमुदप्रभासा5
6विकोशनीलोत्पलचारुनेत्राः ।
7वापीस्त्रियो हंसकुलैः 8स्वनद्भि–
र्विरेजुरन्योन्यमिहालपन्त्यः9 ।। ५८
Abh
क्षाणामिति तेषां यत्सम्यक् प्रकर्षेण दीपकमाकांक्षापूरकं क्रियागुणजात्यादि तद्दीपकं यत् एकेनावान्तरवाक्येनासंयुक्तं सत्तथाकरोति ततो दीपप्रकृतित्वात्तथोक्तमित्यर्थः ।
अथ रूपकं–स्वविकल्पेन रचितमिति । स्वविकल्पेन यद्रूपं वदनस्य रचितं चन्द्रात्मकं तद्रूपयति परमिति रूपकम् । तस्य द्वौ भेदौ तुल्यैरवयवैः सर्वैरेवान्यरूपीकृतैर्युक्तं, यदि वा किंचित्सादृश्ययुक्तं रूपितम् । अत्रापि किंचिदन्ये रूपसादृश्याद्युक्तं रूपान्तररूपितं यत्रैकदेशविवर्ति प्रसिद्धं द्रव्याद्यस्ति । या इति युक्तः पाठः । ततो हि समासोपमात्वं पद्मानना इत्यादेर्निवार्यते ।
Notes
1 अयं श्लोको भमातृकायां न विद्यते 2 भ–स्वविकल्पैर्विरचितं 3 अयं चययोरेव नास्ति । 4 ड–अनुषङ्गाद्यैर्यदोपम्यं 5 ड N–प्रहासा द–कुमुदाग्रहा सा 6 न–विलोल च N– विकासि 7 द N वापीतरुण्योऽधिकमद्य भान्ति शोभामिवान्योन्यमधिक्षिपन्त्यः 8 ड N–विभान्ति स्वनद्भिः 9 न N–इवाह्वयन्त्यः प–इवालपन्त्यः N : स्वनद्भिरन्योन्यमिवाह्वयन्त्यः ।
1शब्दाभ्यासस्तु यमकं पादादिषु विकल्पितम् ।
विशेषदर्शनं चास्य गदतो मे निबोधत ।। ५९
2पादान्तयमकं चैव काञ्चियमकमेव च ।
3समुद्गयमकं चैव विक्रान्तयमकं तथा ।। ६०
यमकं चक्रवालं च संदष्टयमकं तथा ।
Abh
हंसकुलानां नर्मसचिवत्वमरूपितमपि गम्यत इत्ययमंशो द्वितीयस्योदाहरणम् । अन्योन्यमिहेति पाठः, इवशब्दे तूपमाशंक्योत्प्रेक्षा वा । सा त्विह कल्पितोपमा । उपमांशस्यास्फुरणा याभिमानाख्यं लक्षणं सैवं यस्यालङ्कारकारैरलङ्कारतयोक्ता, तत्रोपमोद्भेदश्च तद्युक्तालङ्कारता भूष्यभूषकयोः पृथगभावात् । नोचेत्तल्लक्षणमेव । तत्केचित्पठन्ति–
नानाद्रव्यानुरागाद्यैर्यदौपम्यगुणाश्रयम् ।
रूपनिर्माण (र्वर्णना ?) युक्तं तद्रूपक(मिति स्मृतम्) ।। इति
व्याकुर्वते च–रूपकशब्दस्यान्वर्थाख्यायकमेतत्, औपम्यस्य गुणत्वेन प्रधानतया संश्रयो यत्र तथा कृत्वा रूपस्य यान्यरूपेण निश्चित्य वर्णना तद्रूपकम् । कथं तन्निश्चय इत्याह नानाभूतेन पृतग्भूतेनापि द्रव्येण योऽनुरागः स्फटिकस्येव लाक्षया तत आदिग्रहणाद् भ्रान्तिगौणलाक्षणिकादिभेदानां ग्रहणम् (इति) ।
एवमर्थविषयलक्षणप्रसङ्गेनार्थालङ्कारान् प्रदर्श्य शब्दालङ्कारस्वरूपमाह शब्दाभ्यासस्तु यमकमिति । तुरर्थालङ्कारेभ्यो व्यतिरेकमाह । शब्दशब्देनवर्णः पदं तदेकदेश इति सर्वं गृह्यते । तेनानुप्रासः, लाटीयादेरनेनैवोपसंग्रहः । यमौ द्वौ समजातावुच्येते तत्प्रकृतित्वाद्यमकम् । तेनैकस्याक्षरस्य पदस्य वा द्वितीयं सदृशं निरन्तरं सान्तरं वा शोभाजनकमलङ्कारः । यथा मुक्ताफलस्योचितमुक्ताफलान्तरपद्मरागादेर्वोपाश्रयविशेषः समुचितसहासीन– सत्पुरुष–मध्यपतनं वा सत्पुरुषान्तरस्य । पादे आदिग्रहणं तदा मध्यान्तादिषु विकल्पितवचनान्नास्त्यपि स्थापननियमोऽनुप्रासलाटीयादिसंग्रहायेत्याह । विशेषदर्शनमिति
Notes
1 च– शब्दाभ्यासं 2 न–पदान्त 3 द–समुद्र भ–सामुद्ग ।
पादादियमकं चैव तथाम्रेडितमेव च1 ।। ६१
चतुर्व्यवसितं चैव मालायमकमेव च ।
एतद्दशविधं ज्ञेयं यमकं नाटकाश्रयम् ।। ६२
चतुर्णां यत्र पादानामन्ते स्यात्सममक्षरम्2 ।
तद्वै पादान्तयमकं विज्ञेयं नामतो यथा ।। ६३
3दिनक्षयात्संहृतरशिममण्डलं
दिवीव लग्नं तपनीयमण्डलम् ।
विभाति ताम्रं दिवि सूर्यमण्डलं
यथा तरुण्याः स्तनभारमण्डलम् ।। ६४
[4लोकानां प्रभविष्णुर्दैत्येन्द्रगदानिपातनसहिष्णुः ।
जयति सुरदैत्यजिष्णुर्भगवानसुरवरमथनकारी विष्णुः ।।] ६५
5aपादस्यादौ तथान्ते 5च 6aयत्र स्यातां6 पदे समे6b ।
तत्काञ्चीयमकं 7नाम विज्ञेयं सूरिभिर्यथा ।। ६६
8यामं यामं चन्द्रवतीनां द्रवतीनां
व्यक्ताव्यक्ता सारजनीनां रजनीनाम्9 ।
Abh
विशेषाणामुद्देशलक्षणानामित्यर्थः । अक्षरमिति एकमनेकं च संहृतम् । रश्मीनां मण्डलमोघो यस्य । तपनीयमण्डलं सौवर्णं चक्रम् ।
Notes
1 ड N–आम्रेडितमथापि च 2 भ–यमकाक्षरम् 3 भमातृकायां न दृश्यते 4 भमातृकायामेव वर्तते । 5a: N: पादस्याद्ये तथा चान्त्ये 5 न–तथा चान्ते ड– यथा चादौ 6a: N: स्यातां यत्र; 6 ढ–स्यात् तत्र 6 b: N: समे पदे 7 ड– चैव तत् 8 न–यामायामाः ढ– मायामाया भ N–यामायामा यामवती यामवती या 9 भ–सारजनी सारजनी सा ।
फुल्ले फुल्ले सभ्रमरे वा भ्रमरे वा
रामा रामा विस्मयते च स्मयते च ।। ६७
1अर्धेनैकेन यद्वृत्तं सर्वमेव2 समाप्यते ।
3समुद्गयमकं तत्तु3a विज्ञेयं 4aनामतो4 यथा ।। ६८
केतकी5कुसुमपाण्डुरदन्तः शोभते प्रवरकाननहस्ती ।
केतकीकुसुमपाण्डुरदन्तः शोभते प्रवरकाननहस्ती ।। ६९
एकैकं पादमुत्क्रम्य6 द्वौ पादौ सदृशौ यदा7 ।
विक्रान्तयमकं नाम 9विज्ञेयं नामतो यथा ।। ७०
स पूर्वं वारणो भूत्वा द्विशृङ्ग इव पर्वतः ।
अभवद्दन्तवैकल्याद्विशृङ्ग इव पर्वतः ।। ७१
पूर्वस्यान्तेन पादस्य 9परस्यादिर्यदा समः ।
चक्रवच्चक्रवालं 10तद्विज्ञेयं नामतो यथा ।। ७२
Abh
सारभूतानां जनीनां वधूनां युवतीनां संबन्धिनी । परिवारत्वेन स्थिता रामारामा सर्वैव स्त्री व्यक्ता ईषत् स्फुटाकारा । चन्द्रवतीनां रजनीनां रात्रीणां संबन्धिनी यामंयामं सर्वप्रहरम् । स्मयते यतः पुष्पे विकसिते सभ्रमरके तद्विना वा विस्मयते । केतकीकुसुमवद्भासुरौ दन्तावस्य सोऽयं, प्रकारकमाननं यस्य तादृक् शोभते हस्ती । तथा केतकीकुसुमात्मकौ पाण्डुरौ दन्तौ यस्य तत्प्रवरकाननं हस्तिरूपं शोभते । “अत्र चार्थभेदो मुनिना नादृत” इति तदप्रसिद्धम् । व्युत्पत्त्यादिना परहृदयं वेदितमस्माभिः ।
द्वे शृङ्गे यस्य तथा विगतं शृङ्गं यस्य । एते युधि संचिताः सङ्घीभूताः चितामधिरूढाः । शत्रुभिः कर्तुभिः खगैः शरैः अनुपुङ्खगैः पुङ्खान्तमग्नैः आहताः
Notes
1 द–सार्धेन 2 न–एवं 3 न–सामुद्र भ–सामुद्ग 3 a: N: नाम 4a: N: तज्ज्ञेयैः(यं) पण्डितैर्यथा । 4 ड–पण्डितैः 5 ड N–मुकुल 6 च–उत्क्षिप्य 7 ढ–यदि 8 ढ–तद्विज्ञेयमिदं 9 ड–पादस्य
[1तुल्यात्पादद्वयादन्त्यादेकेनादिर्यदा समः ।
सर्वत्र चक्रवालं तद्विज्ञेयं नामतो यथा ।।] ७३
2शैलास्तथा शत्रुभिराहताहता
हताश्च भूयस्त्वनुपुंखगैः खगैः ।
खगैश्च सर्वैर्युधि संचिताश्चिता–3
श्चिताधिरूढा निहतास्तलैस्तलैः4 ।। ७४
आदौ द्वे यत्र पादे तु भवेतामक्षरे समे ।
5संदष्टयमकं नाम विज्ञेयं 6नामतो यथा ।। ७५
7पश्य पश्य रमणस्य मे8 गुणान्येन येन वशगां करोति माम् ।
येन येन हि ममैति9 दर्शनं तेन तेन वशगां करोति माम् ।। ७६
आदौ पादे तु 10यत्र स्यात्समावेशसमाक्षरः ।
पादादियमकं नाम 11विज्ञेयं नामतो यथा ।। ७७
12विष्णुः सृजति भूतानि विष्णुः संहरते प्रजाः ।
विष्णुः प्रसूते त्रैलोक्यं विष्णुर्लोकाधिदैवतम्13 ।। ७८
पादस्यान्त्यं पदं यत्र14 द्विर्द्विरेकमिहोच्यते ।
15ज्ञेयमाम्रेडितं नाम यमकं तत्तु सूरिभिः ।। ७९
Abh
हताः । आहतप्रकारमाह–ताः छिन्नपक्षाः शैला एव खगैः गृध्रादिभिः तलैः पक्षबाहुभिः निहताः भूयः । एतैरेव चिताः व्याप्ताः । “निहतानामस्तं मरणं लान्ति तैर्निहतास्तलैः” इति क्लिष्टत्वादुपेक्ष्यम् ।
Notes
1 भ–मातृकायामेव वर्तते । 2 न N– तलैः 3 ड– संचितां चितां 4 ड N–हता नराः भ–नरा नराः 5 द–संदशं 6 न N– विबुधैः ड– तद्बुधैः 7 ड–यस्य यस्य 8 ड– गुणाः 9 ड–समैति 10 ड–पादस्य 11 ड N–तद्विज्ञेयं बुधैः 12 अयं ढमातृकायां न वर्तते । 13 न–विष्णुप्रसूतं 14 ड–यच्च न–यत्तु 15 ड N–पादान्ताम्रेडितं नाम विज्ञेयं निपुणैर्यथा ।
विजृम्भितं निःश्वसितं मुहुर्मुहुः 1कथं विधेयस्मरणं पदे पदे ।
यथा च ते ध्यानमिदं पुनः पुन2र्ध्रुवं गता ते रजनी विना विना ।। ८०
सर्वे पादाः समा यत्र भवन्ति नियताक्षराः ।
चतुर्व्यवसितं नाम तद्विज्ञेयं बुधैर्यथा ।। ८१
वारणानामयमेव कालो वारणानामयमेव कालः ।
वारणानामयमेव कालो वा रणानामयमेव कालः ।। ८२
नानारूपैः स्वरैर्युक्तं यत्रैकं व्यञ्जनं भवेत् ।
तन्मालायमकं नाम विज्ञेयं 3पण्डितैर्यथा ।। ८३
यथा–
4हली बली हली माली खेली माली सली जली ।
4aखलो बलो बलो मालो मुसली त्वभिरक्षतु ।। ८४
5असौ हि रामा रतिविग्रह6प्रिया
रहःप्रगल्भा रमणं मनोगतम्7 ।
रतेन रात्रौ8 रमयेत्परेण वा9
न 10चेदुदेष्यत्यरुणः पुरो रिपुः ।। ८५
Abh
वारणपुष्पाणामयं संबन्ध्ययं कालः शिरल्लक्षणः । वारणानां हस्तिनां अनामयं आमयाभावे सति समदत्वे सति वारणानां वारणं निवारणं विद्यते येषां तेषां शत्रूणामयं कालः कृतान्तोऽथवा । रणानां संग्रामाणां कालः क्षेपः चिन्ताप्रवर्तयितेत्यर्थः ।
Notes
1 ड N– यथाभिधानं च–कथाभिधानं स्मरणे न–तथागता 2 न N–भावैः 3 N– पण्डितैर्यथा; काव्यकोविदैः edn. 34 4 न–लली 4a: N: बलो नलो खलो बालो 5 एतौ द्वौ श्लोकौ डढदधपफबमातृकास्वेव वर्तेते । एतयोः पूर्वश्लोक एव न–मातृकायां वर्तते । 6 ड– विग्रहः 7 ड– सोगतम् ढ–मनोद्गतम् 8 ढ–रात्रिं 9 द–ते 10 द–चेदुदस्यति न–चेदुषस्यति ।
सपुष्कराक्षः क्षतजोक्षिताक्षः
क्षरत्क्षतेभ्यः क्षतजं दुरीक्षम्1 ।
क्षतैर्गवाक्षैरिव संवृताङ्गः2
साक्षात्सहस्राक्ष इवावभाति3 ।। ८६
एभिरर्थक्रियापेक्षैः* काव्यं 4कुर्यात्तु लक्षणैः ।
अतः परं5 प्रवक्ष्यामि 6aकाव्यदोषान् गुणांस्तथा6 ।। ८७
गूढार्थमर्थान्तरमर्थहीनं भिन्नार्थमेकार्थमभिप्लुतार्थम् ।
न्यायादपेतं विषमं विसन्धि 7शब्दच्युतं वै दश काव्यदोषाः ।। ८८
8पर्यायशब्दाभिहितं गूढार्थमिति संज्ञितम्9 ।
अवर्ण्यं वर्ण्यते यत्र10 तदर्थान्तरमिष्यते ।। ८९
Abh
लक्षणानां प्राधान्यमित्युक्तपूर्वं तत्तथैवोपसंहरति एभिर्लक्षणैरिति अर्थः क्रियायां रसचर्वणायां युक्तं योगं येषां, विभावादित्वं ह्येतत् प्रसादादीत्युक्तमधस्तात् । अतःपरमिति वक्तव्यान्तरमाह । केषुचित्पुस्तकेषु चैतद्ग्रन्थः पश्चादृश्यते, बाहुल्येन प्रथमं दृश्यत इति तथैव व्याचक्ष्महे । गूढार्थं यथा पर्यायशब्देति तत्र शब्दानां †तत्र पदानां वाक्यस्य तदर्थानां च यथा दशरथ इति वक्तव्ये बलात्परिकल्पितेन वस्तुतो पर्यायशब्देनाभिधानं ’ अधिकनवविमान’ इति । न हि यदृच्छाशब्दाः पर्यायभाजः ।
अर्थान्तरं यथा–“चिन्तामोहमनङ्गमङ्ग तनुते विप्रेक्षितं सुभ्रुवः” (वामन २.२.११, वृत्तौ उदाहरणम्) इति अत्र कामः स्वीकृतः चिन्तादिशब्देनावर्णनीयमपि वर्णितम् । यत्तु प्रसक्तानुप्रसक्तिकया बहुतराप्रकृतवर्णनं तत्प्रबन्धदोषरूपं सन्धितदङ्गविधानेन पराकृतमिति नेह निरूपर्णाहम् ।
Notes
1 ड– दुरीक्षः 2 ढ–संप्रतीक्षः 3 द N–अवभासे 4 ड N–कार्यं तु 5 डN–ऊर्ध्वं 6 भ–समासतः 6 a: N: काव्यदोषगुणांस्तथा 7 भ–च्युतं च शब्दात् ड–शब्दाच्च्युतं 8 “पर्याय” इत्यादिषट्श्लोकाः डधयोरेव न दृश्यन्ते । 9 च–अभिसंज्ञितम् 10 न–यत्तु । *‘क्रियायुक्तैः’ इति पाठः स्यात् । † मधुसूदनी
अर्थहीनं 1त्वसंबद्धं सावशेषार्थमेव च ।
भिन्नार्थ2मभिविज्ञेयमसभ्यं ग्राम्यमेव च ।। ९०
3विवक्षितोऽन्य एवार्थो 4यत्रान्यार्थेन भिद्येत ।।
भिन्रार्थं 5तदपि प्राहुः काव्यं काव्यविचक्षणाः6 ।। ९१
अविशेषाभिधानं यत्तदेकार्थमिति स्मृतम् ।
7अभिप्लुतार्थं विज्ञेयं यत्पदेन समस्यते8 ।। ९२
Abh
अर्थहीनं यथा–“अद्यापि स्मरसि ( ?स्मरति) रसालसं मनो मे मुग्धायाः स्मरचतुराणि”। (वामन २.२.१०, उदाहरण) अत्रपूर्वापरव्याघातादसंबन्धता । यथा वा " स महात्मा भाग्यवशान्महापथ( ?द) मुपागतः” । (वामन २, २, २०, उदाहरण) इति । अत्र हि सावशेषः प्रकरणापेक्षो वस्तुनिश्चयः , अभाग्यवशादित्यपि संभाव्यत्वात् ।
भिन्नार्थं त्रिधा –तत्र मृष्यो दूरसंबन्धव्यवधाने सति यत्रार्थो यथा–
ज्वरं भुञ्जीतसञ्जातमलपाकं चिरस्थितम् ।
अजादुग्धोदनं हन्यात् त्रिदोषोत्कोपसंभवम् ।। इति
ग्राम्यं यथा–“भद्रे भजस्व मामिदं ते दास्यामि " इति । तृतीयं भिन्नार्थं यथा–“स्याच्चेदेष न रावणः” इत्युक्त्वा, “क्व नु पुनः सर्वत्र सर्वेगुणाः” इति । उद्दिष्टं ह्यत्र रावणस्यानुपादेयत्वं क्व नु पुनरित्येननान्यथाकरणाद्भेदितम् । *
एकार्थं यथा–“कुन्देन्दुहारहरहाससितं” इति । एकप्रयोजनं हि सर्वमेतत् । न हि काव्यं शास्त्रवदुपदेश्यं कश्चित्किंचिज्जानीयादिति प्रवर्तते ।
अभिप्लुतार्थं यथा–
स राजा नीतिकुशलः सरः कुमुदशोभितम् ।
सर्वप्रिया वसन्तश्रीर्ग्रीष्मे मालतिकागमः ।।
अत्र प्रतिपादमर्थस्य परिसमाप्तत्वादभिप्लुतत्वं, एकवाक्यत्वेन निमज्जनाभावात् ।
Notes
1 न–असंबद्धं 2 न–अपि विज्ञेयं 3 ढ–विवक्षितान्य भ–अर्थ उद्दिष्टो 4 न–यत्त्वन्यार्थेन भिद्यते 5 ढ–तत्तु ते 6 ढ–विदो जनाः 7 भ– अति न –अवि 8 न– समाप्यते ।
- आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिभूर्तपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी । उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः, क्व नु पुनः सर्वत्र सर्वे गुणाः ।। (बालरामायण १.३६)
न्यायादपेतं विज्ञेयं प्रमाणपरिवर्जितम्1 ।
वृत्तभेदो2 भवेद्यत्र विषमं नाम तद्भवेत् ।। ९३
3अनुपश्लिष्टशब्दं3a यत्तद्विलसन्धीति कीर्तितम् ।
4शब्दच्युतं च विज्ञेयमवर्णस्वरयोजनात्5 ।। ९४
6एते दोषा हि काव्यस्य मया सम्यक् प्रकीर्तिताः ।
गुणा विपर्ययादेषां माधुर्यौदार्यलक्षणाः ।। ९५
Abh
न्यायादपेतं देशकालविरुद्धं कलाशास्त्रादिविरुद्धं च यथा–
सु(सौ)वीरेष्वस्ति नगरी मथुरा नाम विश्रुता ।
अक्षोटनालिकेराढ्या यस्याः पर्यन्तभूमयः । इत्यादि । †
विषमं यथा–“अयि पश्यसि सौधमाश्रितामविरसुमनोमालभारिणीम् “(वामन २.२.२) इत्यादि । यदि ( ?विसन्धि) दोषोऽनेनैव संगृहीतः सन्धानं द्वयोर्नैरन्तर्यं विचारयोगः अन्योन्यलयो वेति त्रिधा तदनुपारूढमयुक्तं पारुष्याद्युत्पादकं वा यत्रापशब्दः स्मृतो मुनित्रयेणादृतः । एतन्मध्ये तु केचित् ’ नित्यदोषाः, यथा अपशब्दः, केचिदनित्या यथा–ग्राम्यं हास्यादौ तस्येष्टतमत्वात् । एतदाह यथास्थूलमिति । आनुपूर्व्यं, [इति चात्र]1 अव्ययेनाव्ययीभावः तेनोत्तरोत्तरं [स्थूलाः]2 । एते दोषाः स्थूलाः यथा च गूढार्थं गूढलेखप्रहेलिका(दि) पताकास्थानकादिषु प्रयोज्यम्, अर्थान्तरमनुवादे, अर्थहीनादि हास्ये, भिन्नार्थं श्रोत्रियादौ वक्तरि, एकार्थं परप्रत्यायने, अभिप्लुतार्थमुन्मादादौ, भिन्नवृत्तं च विसन्धि [च] स्वविषये । एवमेते दोषाः क्रमेणापातविषयाः। इह यतोऽर्थप्रतीतिस्तावदस्ति अपशब्दस्तु दोष एव ततः कस्याश्चिदर्थप्रतीतेरभावात् स हि न कांचिद्भाषामनुपतति सङ्केताभावात्तमर्थं प्रतिपादयेत् ।
अथ गुणेषु प्रतिजानीते–एषां विपर्ययाद्गुणा भवन्ति, एतद्दोषविघात एव गुणो भवतीत्यर्थः । किं अविशेषेण नेत्याह माधुर्यौदार्यलक्षण –
Notes
1 भ–नोपपन्नं भवेत्तु यत् । न–परिवर्तितम् 2 ढ–अनुपारूढशब्दश्च विसन्धिः परिवर्जितः । 3 a: N: अनुपारूढशब्दं च विसन्धिपरिवर्जितम् 4 न–शब्दाच्च्युतं ढ N–शब्दहीनं 5 च–अपशब्दस्य च योजनात् 6 ड N–एते दोषास्तु विज्ञेयाः सूरिभिर्नाटकाश्रयाः । एत एव विपर्यस्ताः गुणाः काव्येषु कीर्तिताः ।। (न– पादे, द–प्रकीर्तिताः ।) † वामन २.२.२३, इत्यत्रापि पठ्यतेऽयं श्लोकः 1, 2 –मधुसूदनी
श्लेषः प्रसादः समता समाधि–
र्माधुर्यमोजः पदसौकुमार्यम् ।
अर्थस्य च व्यक्तिरुदारता च
कान्तिश्च काव्यस्य गुणा दशैते* ।। ९६
1ईप्सितेनार्थजातेन संबद्धानां परस्परम् ।
श्लिष्टता या पदानां स श्लेष इत्यभिधीयते ।। ९७
Abh
मङ्को येषाम् । एतदुक्तं भवति– एतद्दोषविहीनं श्रुतिसुखं दीप्तरसं च यदि भवति तावता गुणान्तरैरलङ्कारैश्च हीनमपि काव्यं लक्षणयोगाव्यभिचारीत्युक्तम् ।
अन्येऽपि गुणाः सन्तीति दर्शयति श्लेषः प्रसाद इत्यादि । काव्यस्येति पदस्य वाक्यस्य तदुभयगतस्यार्थस्य वेत्यर्थः । तत्र श्लेषमाह ईप्सितेनार्थजातेनेति । अर्थभागानां कविसमुत्प्रेक्षितया परस्परसंबद्धया योजनया संपन्नं यदीप्सितमर्थजातं तेनोपलक्षितार्थस्योपपद्यमानस्योपपद्यमानतात्मा गुणः श्लेषः । यथोदाहृतं वामनेन–
दृष्ट्वैकासनसंस्थिते (सङ्गते) प्रियतमे पश्चादुपेत्यादरा–
देकस्या नयने निमील्य पिहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकन्धऱः सपुलकप्रेमोल्लसन्मानसा–
मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ।। (वामन ३.२.४ उदाहरण)
अत्र मनोरथातीतोऽप्येककालनायिकायुगलहृदग्रहणलक्षणार्थस्तथोपपादितो येनासंभावनास्पदं न भवति तेन कुटिलोऽप्ययं क्रमो न हृदये उल्बणत्वं भजते मज्जति हृदये यतः सर्वस्येति ।
Notes
*गुणानां लक्षणश्लोकाः भमातृकायां न वर्तन्ते । जादियान्तासु सर्वासु प्रसादमाधुर्यसौकुमार्यकान्तिलक्षणानामेव पाठे संवादित्वं दृश्यते । पाठद्वैविध्यं क्वचित् त्रैविध्यं च विद्यते । वृत्तिकारेण श्लेषस्यैव पाठान्तरं सूचितम् । हेमचन्द्रेण तदन्यानां भरतमतमनुवदता तदन्यपाठ एव स्वीकृतः, सर्वेश्वरेण तु तथैव पाठान्तराण्येव गृहीतानि, अपि तु कान्त्यौदार्यलक्षणयोर्विपर्यासग्रहणं विशेषः । मम्मटादयो गुणत्रयत्ववादिनः भोजविद्यानाथादयश्चतुर्विंशतिगुणानूचुः । परे त्वालङ्कारिका वामनमतमनुसृताः ।। 1 गुणलक्षणानि भमातृकायां न सन्ति ।
[विचार1गहनं यत्स्यात्स्फुटं चैव स्वभावतः ।
2स्वतः सुप्रतिबद्धं च श्लिष्टं तत्परिकीर्तितम् ।।] ९८
अप्यनुक्तो बुधैर्यत्र शब्दोऽर्थो वा प्रतीयते ।
सुखशब्दार्थसंयोगात्प्रसादः 3स तु कीर्त्यते ।। ९९
Abh
अथ शब्दगुणमाह नित्यार्थे पदानां श्लिष्टता परस्परं योनिः सन्धिबन्धनतयानेकमेकपदमिव भाति तदेव मासृण्यमुच्यते । अतश्च पदान्तरपाठस्यावश्यापेक्षतायां यथा ब्रह्मासूत्रमिति । उक्तं चैतच्छन्दोऽध्याये । तथा सन्धीयमानयोस्तथासन्धेः साजात्यं सावर्ण्यं च संपद्यते वस्त्रखण्डयोरिव सूत्रस्येव च । यथा–“अस्त्युत्तरस्यां दिशि देवतात्मा” (कुमा १–१)(वामन ३.२.६ उदाहरण) अस्ति शब्दस्योत्तरशब्दस्य सन्धीयमानयोस्तकारेण तकारेण संयोगे तयोश्च साजात्यं, ‘स्यान्दिशि’ इत्यनयोः सन्धेर्नकारस्य वर्ग्यत्वाद्दकारेण सावर्ण्यं, ‘दिशि देवता’ इति नैरन्तर्य ( ?सान्तर्य) सन्धौ दकारेण साजात्यं, इकारैकारयोस्तालव्यांशत्वेन सादृश्यं, ‘देवतात्मा’ इत्यत्र तकारेमाकारेण च । न चानुप्रासमात्रमेतत्, एकपदानुप्रासेऽपि प्रामाण्यभावात् –‘इन्दिन्दिराणां ललितो निनादः’ इत्यनुप्रासे च सावर्ण्येनोपयोगीति । अन्ये पठन्ति –विचारगहनं यत्स्यात् स्फुटं चैव स्वभावतः । इत्यर्थश्लेषः वक्रघटमानं ( ? वक्रघटना)1 वेत्यर्थः सुपरतिबद्धश्च श्लेष इति पदश्लेषः ।
प्रसादमाह–अप्यनुक्तो बुधैरिति । यत्रार्थे अनुक्तेऽपि बुधैः कष्टकल्पनया अव्याख्यतोऽप्यर्थः प्रयोजनं स्वयं जायते सोऽर्थो वैमल्याश्रयोऽपि वैमल्यमुपचारात् सोऽर्थो वा काव्यस्य वैमल्यं स्वयं जानंश्चानुपयोगिपरिवर्जनात् । वैमल्यशब्दवाच्याज्जलस्येव पांसुभिरसंपर्काद्भवतीति वैमल्यमर्थस्य प्रसादः । यथा –“सवर्णा कन्यका रूपयौवनारम्भशालिनी” इति विवाह्यत्वं प्रापणीयताहृद्यत्वं संभोगयोग्यता, गृहस्थसहधर्मचारिणीत्वमित्युपयोगी सर्वोऽयमर्थः । तेनाबुध्वैतदुदाहरणान्तरं वृथा भ्रमणम्–“आविलपयोधराग्र” मिति (विक्रमो ५–८) एतदपि तूदाहरणं पददूषणं तु सम्यगज्ञाने प्रयुक्तम् ( ?)। अप्रसादस्तु “उपास्तां हस्तो मे विमलमणिकाञ्चीपदमिदम् " अत्र विमलमन्यथोपयोगात् पांसुरिव जलेऽत्राप्रसन्नतां करोति । सुख इति न प्रयत्नमपेक्षते ।
Notes
1 ड–ग्रहणं युक्त्या 2 द–आन्तमप्रति न– स्वन्तमप्रति 3 ड– परि 1 मधुसूदनी
नातिचूर्णपदैर्युक्ता न च व्यर्थाभिधायिभिः ।
दुर्बोधनैश्च न कृता समत्वात्समता मता ।। १००
Abh
यः शब्दार्थो यः संयोगः शब्दविषय इत्यर्थः, कलामात्ररूप एव यत्र सन्धिः अत एव शैथिल्यात्मा स शब्दगुणः प्रसादः । प्रसन्नता स्फुटत्वं लक्षणीयविभागता पदानाम् । यथा–
अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दत्त्वा यूने सितातपवारणम् । *
इत्यादि । अत्र निरन्तरतां मुक्त्वा नान्योन्यलयो नान्योन्यापत्तिसन्धिरस्तीति शिथिलता । एकश्च गुणः कोऽपि शोभत इति स्वानुभवसिद्धः, तेन व्यावृत्तात्मेति गाढता कृता, ककुदं दत्त्वेति चापरः सवर्णपक्षे ।
समतामाह–नातिचूर्णपदैरिति । शब्दानां समत्वात्समः चूर्णपदैरसमासरचना यत्र सातिशया न भवति, अतिशयश्च प्रतियोगिनमपक्षेते इति । दीर्घसमासोऽत्यन्तसमासश्च विषमता, तद्विपर्ययेण समता उपक्रान्तमार्गापरित्यागरूपेत्युक्तं भवति । यथा–
गाहन्तां महिषा निपानसलिलैः( ?सलिलं) शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले
विश्रान्तिं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ।। इति (शाकु, २/
६) (वामन१/२/११ उदाहरण)
(अत्र) अवान्तरवाक्ये समस्तद्विपदा हि नातिदीर्घा वृत्तिः ।
“प्रसीद चण्डि त्यज मन्युमञ्जसा जनस्तवायं पुरतः कृताञ्जलिः । (वामन ३.१.१२ उदाहरण)
किमित्थं– इति चूर्णपदैरूपक्रम्यासमाप्त एव वाक्यान्तरे वाक्यार्थेऽपि दीर्घः समासः कृतः–
उत्कम्पितपीवरस्तनद्वयोन्मिषत्सुप्तविलासमास्यते” ।।
पूर्वत्र (‘गाहन्ता’ मित्यत्र) त्ववान्तरार्थसमाप्तावर्थान्तरोपक्रम एव समासेन ‘छायाबद्धकदम्बक’– मित्युपक्रान्तोऽपि न चैत्यात्कूपपतनमिव चूर्णपदं प्रयुक्तं ‘मृगकुल’मिति । सेयं समता जाता शब्दगुणा ( ?गुणः) अर्थोऽपि समत्वात्, किं तत्समत्वं आह व्यर्थाभिधायिभिरिति निष्प्रयोजनमर्थं येऽभिदधति शब्दानां न त्वेतदवैमल्पमिति प्रसादेन निरस्तम् । नैतत्, नहि
Notes
- मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ।। रघु (३–७०)।
[अन्योन्यसदृशा यत्र तथा ह्यन्योन्यभूषणाः ।
अलङ्कारा गुणाश्चैव 1समाः स्युः समता मताः2 ।।]* १०१
अभियुक्तैर्विशेषस्तु3 योऽर्थस्येहोपलक्ष्यते4 ।
तेन चार्थेन5 संपन्नः समाधिः परिकीर्तितः ।। १०२
Abh
सर्वथा निष्प्रयोजनता, अपि तु सदपि प्रयोजनं दुर्बोधं तदाह–दुर्बोधनैरिति। अभधीयतेऽस्मै इत्यभिधानं प्रयोजनम् ।। यथा–
च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमाः
मलयमरुतः सर्पन्तीमे वियुक्तधृतिच्छिदः ।
अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो
न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ।।
इत्यत्र ऋतुसन्धिवर्णनप्रक्रमे मलयम( ?मा)रुतः प्रक्रमं भिनत्ति न च सर्वथा निरर्थको विप्रलम्भोद्दीपनत्वात् । किं तु प्रक्रमं स्फुटं न पुष्पातीति विषमता । समता तु “मनसि च गिरं गृह्णन्तीमे किरन्ति न कोकिलाः” इति (द्वितीयपादस्थाने यदि पठेत्) ।
समाधिमाह–अभियुक्तैर्विशेषस्त्विति । यस्यार्थस्य द्वितीयस्यार्थस्य अभियुक्तियुक्तैः प्रतिभातिशयवद्भिः विशेषो अपूर्वः स्वोल्लिखित उपपद्यते ससमाहितमनःसंपाद्यविशेषत्वादर्थो विशिष्टः समाधिः, यत्र कवेस्तत्पूर्विकयोल्लेखस्तत्सर्वमिहोदाहरणम् । यथा–
आश्वपैहि मम सीधुभाजनाद्यावदग्रदशनैर्न दश्यस ।
चन्द्र मद्दशनमण्डलाङ्कितः खं न यास्यसि हि रोहिणीभयात् । इति ।
अयोनिरन्यच्छायायोनिश्चेति, एतत्तदेवज्ञानं विषयः न चानेकं किंचित् सारस्वतस्य हि सर्वोर्थ ( ?सर्वोऽर्थोऽय)मनिमित्तत एव । *तदन्यस्य सर्वोऽन्यच्छायायोनिः । व्यक्तभाव्यवास्यत्वादपि कविहृदयगतप्रतिभातिशयतारतम्यादनवस्थितम् ( ?) ।
शब्दगुणश्च समाधिः, तमाह तेन चेति । समाधिशब्दस्य योऽर्थः परि–
Notes
1 द N– सा बुधैः ड–समा स्यात् 2 म–तु सा ड– यथा 3 न–विशेषैस्तु 4 द–एवोपलभ्यते । 5 भ–सोऽर्थोऽभि
- अयमेव पाठः ‘परस्परविभूषणगुणालङ्कारप्रायः समं’ इति वदता हेमचन्द्रेण “शब्दार्थौ समतान्योन्यं सालङ्कारौ सुसंस्कृतौ” इति सर्वेश्वरेण च गृहीतः
- मधुसूदनी reads: एतदेव ज्ञानं प्रातिमं यस्य विषयः अयोनिः । सारस्वतस्य हि सर्वोऽयमनिमित्तत एव ।
[ 1उपमाद्युपदिष्टानामर्थानां यत्नतस्तथा ।
प्राप्तानां 2चापि संक्षेपात्समाधिर्निर्णयो यतः3 ] ।। १०३
Abh
हारलक्षणस्तेन यः परिकीर्तितः परितः समन्तादाक्रान्त्या उच्चारेण संपन्नः स च समाधिः । आकान्त्या उच्चारणे आरोहवरोहक्रममेव आक्रमणेन गतितुल्यम् । आरोहश्चोर्ध्वगमनद्वारः प्राणमारुतरूपाया उच्चरूपः, अपक्रमणमवरोहो विपर्ययः । उच्चत्वं स्थानकरणवशात् बाह्याभ्यन्तरप्रयत्नवशाच्च । तथा हि–
निरानन्दः कौन्दे मधुनि †परिभुक्तोज्झितरसे
(न साले सालम्बो लवमपि लवङ्गे न रमते ।
प्रियङ्गौ नासङ्गं रचयति न चूतेऽपि चरति
स्मरं लक्ष्मीलीलाकमलमधुपानं मधुकरः) ।।
तत्र नकाराद्दन्त्यान्मूर्धन्यो रेफ उच्चस्थानस्थितो यद्यपि दन्त्यः तथापि संयोगो निरन्तरप्रयत्नाधिक्येन विवृततमेन चाकारद्वयेन द्विवारप्रयत्नकेन च जिह्वामूलीयेन चोच्चत्वभाजा आरोहणमस्फुटीकरणमिति न शब्दोऽवरोहणं संपन्नमप्यसंपन्नकल्पम् । आरोहणसौकर्यायैव प्रत्युत मध्ये ह्यत्र का विश्रान्तिः । अभावे उच्चतमसङ्कलनसोपानारोहखेदायैव भवति निरास्वाद्यः कौन्द इति यथा एव निरानन्द इत्यत्र यावन्महाप्राणो जिह्वामूलीयश्च श्वासानुप्रदानो द्विवारयुक्तस्तावदारोहयत औकार आकारमवेक्ष्य रूपविवृत औकारतोऽपि नकारः ततोऽपीकारोकारयोः ऊनं विवृतत्वं, अकारस्तु संवृतः इत्यवरोहः । औकारस्तु मध्येऽवरोहसौकर्यायैव दूरारोहाद्धि दूरावरोहणं चेति चूलिकायाः कूपपतनकल्पम् । खेदो यथा–
“कुर्वाणाः परमं महच्च मनस” इति आकारोपध्मानीयेभ्यो झटिति संवृतेऽकारे निपातनात् । " निवेशः स्वःसिन्धोः” –इत्यत्र क्रमेण विवृततरः स्पर्श इति क्रमेणारोहः । “तुहिनगिरिवीथीषु जयति " –अत्र विवृतेभ्यः उकारादिभ्यः संवृतेऽकारद्वये पातः इकारस्त्वन्यत्वान्न च विश्रान्तिस्थानमिति नारोहः । यदि वा (सि)न्धोरिति विवृततरापेक्षया आरोह–
Notes
1 ढ– उपमित्युपदिष्टानां ड–उपमात्यपदिष्टानां 2 ढ– चातिसंयोगात् ड– चातिसंयोगः 3 ड–परिकीर्त्यते । †विधुरो बालवकुले–पाठा
बहुशो यछ्रुतं वाक्यमुक्तं वापि पुनः पुनः ।
नोद्वेजयति 1यस्माद्धि तन्माधुर्यमिति स्मृतम् ।। १०४
Abh
संस्कारे उकारेऽवरोहबुद्धिरेव स्फुटत्वेऽवरोहः । जयतिमपास्यं तदयमिति पाठः ( ?) अनुस्वारो हि संवारप्रयत्नः । “नराः शीलभ्रष्टाः व्यसन इवमज्जन्ति तरवः” इति अकार इकार अकारेभ्योऽवरोहमयेभ्यो विवृते इकारे आरोहः, अन्ते च विसर्जनीये आरोह एव । तेन स्वभावप्रतिभादर्शनानुविद्धा भगवती वाणी स्वरसोपनिपतिता स्वरसंभारप्रभावानुरोधेनैवारोहावरोहक्रमं भजते । प्रतिभादृष्टिशून्यत्वात् अन्धपदवदारोहादि न भजेत् ।
नन्वियता पाठसौकर्यं स्यात्, श्रोतुस्तु किमायातम्, अनभिज्ञो देवानां प्रियः, यथा हि कर्कशशर्करानिकरकण्टकिते देशे दुस्सञ्चरे संचरज्जनं पश्यन्त्या अपि सुकुमारहृदयायाः प्रमदायास्तदात्मानुप्रवेश इव जायमानं खेदमतितरामादत्ते प्रहारपातादौ वा, तथा सहृदयस्य स एव मार्गः, सुकुमारता हि वैमल्यापरपर्याया सहृदयत्वं हृदयस्य हि कविहृदयतादात्म्यापत्तियोग्यतैव उत्कर्षः । तत एवोक्तं–
शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते ।
वेद्यते स हि काव्यार्थतत्त्वज्ञैरेव केवलम् ।। (ध्वन्या–१ –७) इति ।
अभिधानकोशमपि हि पठतां सुप्तिङ्विभक्तीश्च विदुषामपि न काव्यतत्त्वावबोधः तस्माद्वर्णोच्चारणप्रयत्नेन परुषपठनस्पर्शजनितो यः खेद उच्चारयितुः स एव श्रोतुरपि पारुष्यमाधत्ते । “नीरन्द्यं(सैरन्ध्य्र)ध्ववधूनिबन्ध्यनुगतप्राणैकबन्धक्रमः” ( ?) इत्यादौ । वर्णगतं च लालित्यपारुष्यादि पुष्कराध्यायेऽपि (अ–३४) वक्ष्यते । अन्यैरप्युक्तं “तेन वर्णा रसच्यु– (श्च्यु) (लोचन क.ल.वि)तः” (ध्वन्या३/४) इत्यादि । स्वभावतो हि केचन वर्णाः सन्तापयन्तीव निकृन्तन्तीव रेफककारादय इव परुषवृत्तिपूर्विकाः, अन्ये तु निर्वापयन्तीवोपनागरिकोचिताः । लोकगोचर एवायमर्थः स्वसंवेद्योऽपीति न वितत इत्यास्तां तावत् ।
माधुर्यमाह–बहुशो यच्छ्रुतमित्यादि । यदिति यस्माद्धेतोर्वाक्यं श्रुतं संशयविपर्ययोरास्पदं न भवतीति तन्माधुर्यम् । द्राघीयसि समासे ताववश्यं भवत इति तद्विरह एव माधुर्यं शब्दगुण इत्युक्तं भवति । यथा– “गाहन्तां
Notes
1 द–तस्मात् ।
समासवद्भिर्बहुभि1र्विचित्रैश्च पदैर्युतम् ।
सानुरागैरुदारैश्च तदोजः परिकीर्त्यते ।। १०५
[*2अवगीतोऽपि हीनोऽपि स्यादुदात्तावभासकः3 ।
यत्र 4शब्दार्थसंपत्त्या5 तदोजः परिकीर्तितम्6 ।।] १०६
Abh
महिषा निपानसलिलं " (शाकु २–६)(वामन१/२/११ उदाहरण ) इत्यादि । पुनः पुनरप्युक्तमर्थजातं यस्माद्धेतोरपनीतमवगाहनेन वैरस्येन तद्वचनवैचित्र्यात्मकं माधुर्यमर्थगुणः वचनान्तराभिधेयतया हि स एवार्थो विचित्रो भवति । यथा–
रसवदमृतं कः सन्देहो मधून्यपि नान्यथा
मधुरमथ किं चूतस्यापि प्रसन्नरसं फलम् ।
(सकृदपि पुनर्मध्यस्थः सन्रसान्तरविज्जनो
वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ।। )
अत्र रसवदमृतमिति य एवार्थः स एव कः सन्देह इत्युक्त्या विचित्रया परिनिश्चयस्थैर्याभिधायिन्या निश्चयीकृतः । निश्चयस्थैर्यमेव च नान्यथेतिवचनान्तरेण विपर्ययनिराकरणसंभावनान्तरनिरासं च क्रमेण विदधता विचित्रीकृतमिति मुधरोऽयमर्थः ।
ओजो लक्षयति–समासवद्भिर्बहुभिरिति । बहुभिरेकसमाससंज्ञायुक्तैरथ च विचित्रैर्यमकैः पदैर्यदुक्तं यो बन्धस्तदोजः । यथा–
मन्थायस्तार्णवाम्भःप्लुतिकुहरवलन्मन्दरध्वानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः ।
कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः
केनास्मत्सिंहनादप्रतिरसितनभो( ?सखो)दुन्दुभिस्ताडितोऽसौ ।। (वेणी१/२२) इति
यथा सानुरागैर्यत्र वर्णो वर्णान्तरमपेक्षते तत्र सानुरागत्वम् ।
Notes
1 च–विविधैः 2 ड– अवगीताविहीनो ढ– अवगीतविहीनो 3 ड– भावकः 4 द –शब्दो 5 ड– संपत्तिः 6 न– परिकीर्त्यते ।
- " अवगीतस्य हीनस्य वा शब्दार्थसंपदा यदुदात्तत्वं निषिञ्चन्ति कवयस्तदोजः “इति वदना हेमचन्द्रेणायमेव पाठो गृहीतः ।
सुखप्रयोज्यैर्यच्छब्दैर्युक्तं सुश्लिष्टसन्धिभिः ।
सुकुमारार्थसंयुक्तं 1सौकुमार्यं तदुच्यते ।। १०७
Abh
“विलुलितमकरन्दा मञ्जरीर्नर्तयन्तो” (नर्तयन्ति) अत्र र इति शब्दो न्दशब्दं स्वगुरुत्वायापेक्षते, न इत्ययंशब्दो [र्तशब्दं]1 य इत्ययं च [न्तो शब्दं]2 न्तो3 इत्ययं शब्दोऽन्ते 4गुरुत्वात् स्वविश्रान्तिजनितकालोपचयलभ्यं गुरुत्वं नाकांक्षतीति द्वितीयपादपाठं समनन्तरमेवापेक्षते ।
“विलुलितमधुधारा मञ्चरीर्लोलयन्तः (लोलयन्ति)(वामन ३/१/५ उदाहरण, प्रत्युदाहरण) इति पाठे धाशब्दो लोशब्दो तिशब्दश्च जात्यापेक्षत इति । [स] तदेव गाढत्वमुच्यते निबिडावयवतैव समासेन संक्षेपेण युक्तानि पदानि यत्रार्थो भूयानिति संक्षेपो नामार्थगुण ओजः ।
ओजस्वी किमतोऽपि भूयः समाक्षिपति, तथा एकमपि वस्तु उदारैर्बहुभिः पदैरुपनिबध्यते विस्तरात्मकत्वमप्योजोऽर्थगुणः । संक्षेपो यथा–
ते हिमालयमामान्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ।।
(कुमा– ६–९४) (वामन, ३/
२/२–उदाहरण) विस्तरस्तु–
अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः
सुरसरिदिव तेजो वह्निनिष्ट्यूतमैशम् ।। (रघु २–७५)
सौकुमार्यमाह–सुखप्रयोज्यैरिति । क्कचित्पदस्य स्वयं पारुष्यं भवति यथा द्राढा अजड्ढा निर्द्धैतं†, सदृक्त्वव्यवसितिः, इति* । क्कचित्संहिता –दर्व्याख्योर्वी विधूयते । तदुभयरहितत्वं सौकुमार्यं शब्दगुणः । यथा–“गाहन्ताम्” (शाकु–२/६) इत्यादि । अत्र च यद्वक्तव्यं तत्समाधिलक्षणे निर्णीतम् । परुषेऽपि चार्थे सुकुमारेणार्थेन या संपत्तिस्तदर्थगुणः सौकुमार्यमपारुष्यरूपम्, एकाकिनि देवतासहाय इति, मृते यशःशेष इति, जडे देवानांप्रिय इति ।
Notes
1 द– सुकुमारं । 1,2,3,4–मधुसूदनी; †निदानं निर्द्वैतं –इति वामनः । *तुलना वामन ३/१/२२ विपर्ययस्तु यथा– निदानं निर्द्वैतं प्रियजनद ( ?स) दृक्त्वव्यवसितिः) ।
सुप्रसिद्धाभिधाना तु लोककर्मव्यवस्थिता ।
या क्रिया क्रियते काव्ये सार्थव्यक्तिः प्रकीर्त्यते ।। १०८
[1यस्यार्थानुप्रवेशेन मनसा2 परिकल्प्यते ।
अनन्तरप्रयोगस्तु सार्थव्यक्तिरुदाहृता3 * ।।] १०९
दिव्यभावपरीतं यच्छृङ्गाराद्भुतयोजितम् ।
अनेकभावसंयुक्तमुदारत्वं4 प्रकीर्तितम् ।। ११०
Abh
अर्थव्यक्तिमाह–सुप्रसिद्धाभिधानेति, प्रसिद्धमभिधानमभिधाव्यापारो यस्यां काव्यक्रियायां सार्थव्यक्तिः शब्दगुणः । यथा “गाहन्ताम्” (शाकु २/६) इति । विपर्यये तु †किरातादिनिदर्शनं यच्चार्थे वर्ण्यते स तथैव लोके प्रसिद्ध इत्यर्थस्य गुणोऽर्थव्यक्तिः । यथा—
पृष्ठेषु शङ्खशकलच्छविषु च्छदानां
राजीभिरञ्जितमलक्तकलोहिनीभिः ।
गोरोचनाहरितबभ्रुबहिःपलाश–
मामोदते कुमुदमम्भसि पल्वलस्य ।।
उदारतामाह–दिव्यभावपरीतं यादिति । यत्र मानुषोचितमपि दिव्यतया करुणादियुक्तमपि शृङ्गारेण विस्मयस्थानमप्यद्भतेन युक्तं वर्ण्यते तद्गतैर्वा विभावानुभावादिभिः तदुदीर्य तत्रौदार्यमर्थगुणः । एतदेवाग्राम्यत्वमित्यन्यैरुक्तम् । ग्राम्यं हि वस्तु यथास्थितमयोजितरचनाविशेषं प्रसिद्धिमात्रप्रमाणमुच्यते, ततोऽन्यदग्राम्यम् । यथा–
त्वमेवं सौन्दर्या स च रुचिरतायाः परिचितः
कलानां सीमानं परमिह युवामेव भजथः ।
अपि द्वन्दं दिष्ट्या तदिति सुभगे संवदति वां
अतः शेषं चेत्स्याज्जितमथ तदानीं गुणितया ।। इति ।
यत्राद्भुतेन यत्कृतोऽर्थः अनेकभावसंयुक्तमिति शब्दगुणस्य लक्षणम्, एकभाषा– चित्रत्वादनेकताचित्रत्वं पदान्तस्यैकस्यानेकव्यक्तिरक्षरसंख्यावैचित्र्यं सन्धा–
Notes
1 द–यस्यार्थो 2 द–मनसः 3 ड–उदाहृता ढ–प्रकीर्तिता * हेमचन्द्रेणायमेव पाठोऽनूदितः । 4 च–उदारं तत् । † किरातार्जुनीयम्, भारवेः
[अनेकार्थविशेषैर्यत्सूक्तैः सौष्ठवसंयुतैः1 ।
2उपेतमतिचित्रार्थैरुदात्तं तच्च कीर्त्यते ।।]* १११
3यन्मनःश्रोत्र4विषयमाह्लादयति हीन्दुवत्5 ।
6लीलाद्यर्थोपपन्नां वा तां कान्तिं कवयो विदुः6a ।। ११२
Abh
नसाजात्यं च पिण्डीबन्धनृत्तसादृश्येन, तत्र हि गुल्मजातशृङ्खलिकादिभेदेनेत्थंभूतो नर्तकीसंनिवेशो भरते तदुक्तं विकटत्वं नरीनृत्यमानत्वमिति पदानामौदार्यमिति । यथा–
स्वचरणविनिविष्टैर्नूपुरैर्नर्तकीनां
झटिति रणितमासीत्तत्र चित्रं कलं च ।।
अत्र प्रथमपादे एकाक्षरत्र्यक्षरचतुरक्षरमिति विचित्राणि पदानि, रेफे तद्द्वितीयपदाक्रमणाद्व्याप्तिः, तकारयोः सन्धानात्सन्धिसाजात्यं, तकारसकारयोः संस्थाननयैर्नैकट्यं च । विपर्ययस्तु–
“चरणकमललग्नैर्नूपुरैर्नर्तकीनां झटिति रणितमासीन्मञ्जु चित्रं च तत्र” अत्र द्वे अपि पदे त्र्यक्षरे । तावेवेदं भाषितविचित्रत्वम् । यथा–
“अथ यदि तव वक्त्रं चण्डि भूयोऽपि नाम” इति न हृद्यं, “रणितमासीन्मञ्जु चित्रं च तत्र” इति तकारमकारयोरसाजात्यं सकारमकारयोश्च संस्थानत्वमिति ।
कान्तिमाह–यन्मनः श्रोत्रविषयमिति । यन्मनोविषयमाह्लादयति यथा शृङ्गारविभावरूपं लीलादिचेष्टालङ्कारसुन्दरं काव्यार्थरूपं तत्कान्तिगुणयुक्तं तदेव दीप्तरसत्वमित्युक्तमन्यैः* । विभावादीनां दीप्तत्वमिति यावत् । यथा–
Notes
1 द– संज्ञितैः 2 द– उपेतमनतिग्राह्यैरुदारं 3ड–यो मनःश्रोत्रविषयः 4 द N–जननं 5 ड–प्रसादजनको भवेत् न N–प्रह्लादजननं भवेत् द– प्रह्लादजननं तथा 6 ड– शब्दबन्धोऽत्रयोगेन स कान्त इति भण्यते न– शब्दबन्धार्थयोगेन तत्कान्तिरिति भण्यते । द– शब्दतत्वार्थसंयोगे तत्कान्तिरिति कीर्त्यते । 6a: N शब्दतत्त्वार्थयोगेन तत्कान्तिरिति कीर्त्यते ।।
- “बहुभिः सूक्ष्मै(क्तै?)श्च विशेषैः समेतमुदारत्वमिति भरतः” इत्युदाहरता हेमचन्द्रेणायमेव पाठो गृहीतः । *वामनभोजादिभिः
एवमेते ह्यलङ्कारा गुणा दोषाश्च कीर्तिताः ।
प्रयोगमेषां च पुनर्वक्ष्यामि रससंश्रयम् ।। ११३
लघ्वक्षरप्रायकृतमुपमारूपकाश्रयम् ।
काव्यं कार्यं तु 1नाट्यज्ञैर्वीररौद्राद्भुताश्रयम् ।। ११४
गुर्वक्षरप्रायकृतं बीभत्से करुणे तथा ।
कदाचिद्वीररौद्राभ्यां 2यदाघर्षणजं भवेत् ।। ११५
3रूपदीपकसंयुक्तमार्यावृत्तसमाश्रयम् ।
शृङ्गारे तु रसे कार्यं 4aमृदुवृत्तं तथैव च4 ।। ११६
Abh
प्रेयान् सायमपाकृतः सशपथं पादानतः कान्तया
द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्यात्मना ।
तावत्प्रत्युत पाणिसंपुटलसन्नीवीनिबन्धं धृतो
धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ।।
अत्र हीर्ष्यानुभावस्य, रत्यनुभावस्य, औत्सुक्यानुभावस्य च दीप्तत्वमित्यर्थगुणः श्रोत्रविषयीभूतमिव यदाह्लादि काव्यं तत्कान्तिर्नाम शब्दगुणः ।
कुरङ्गीनेत्रालीस्तबकितवनालीपरिसरः* अत्र हि समासवत्यपि रचना श्रोत्रेन्द्रियैकतानतामावहित । तदेतल्लोके मधुरकाव्यमिति प्रसिद्धम् । माधुर्यमभ्यस्तपदत्वमुक्तम् । अन्ये त्वौदार्यकान्त्योर्लक्षणद्वयं विपर्यासेन पठन्ति ।
एतदुपसंहरति –एवमेत इति । चकाराच्छन्दांसि वृत्तानि जातयश्च । एषामिति [नि] वृत्तच्छन्दः प्रभृतीनां दोषान्तानाम् । अनित्यदोषा हि विनियुज्यन्तेऽपीत्युक्तम् ।
लघ्वक्षरप्रायेति यत्र अतनुवाही चित्तवृत्तिपरिस्पन्दः, तत्र लघ्वक्षरप्रधानं वृत्तं वीरादावुपमारूपके, मसृणवाहिनि तु हृदयस्पन्दे गुर्वक्षरप्रायं करुणादौ । रौद्रादावापि कदाचित्तद्भवति । यदा विलम्ब्य परखलीकारं
Notes
1 द– शास्त्रज्ञैः 2 ढ– यथा 3 सार्धः श्लोको द मातृकायां न वर्तते । 4 ड– काव्यं स्यान्नाटकाश्रयम् । 4a: N: काव्य नाटकसंश्रयं *अयं श्लोकः, वामन ३/१/२५– इत्यत्रापि पठ्यते । (औज्ज्वल्यं कान्तिः)
उत्तरोत्तरसंयुक्तं वीरे 1पाठ्यं तु यद्भवेत् ।
जगत्यातिजगत्या तु संकृत्या चैव योजयेत्2 ।। ११७
3युद्धसंफेटयोस्तज्ज्ञैरुत्कृतिः संप्रकीर्तिता ।
करुणे शक्वरी चैव4 तथा चातिधृतिर्भवेत्5 ।। ११८
यद्वीरे कीर्तितं छन्दस्तद्रौद्रेऽपि प्रयोजयेत् ।
शेषाणामर्थयोगेन छन्दः कार्यं प्रयोक्तृभिः ।। ११९
6यच्छन्दः पूर्वमेवोक्तं विषमार्धसमे समम् ।
7उदारमधुरैः शब्दैस्तत्कार्यं तु रसानुगम् ।। १२०
शब्दानुदारमधुरान् प्रमदाभिधेयान्8
9नाट्याश्रयासु कृतिषु प्रयतेत कर्तुम् ।
तैर्भूषिता भुवि विभान्ति हि काव्यबन्धाः
पद्माकरा विकसिता इव राजहंसैः ।। १२१
Abh
स्मृत्वा ब्रवीति “कर्ता द्यूतच्छलानां” (वेणी ५/२६), इति तथा “यो यः शस्त्रं बिभर्ति” (वेणी ३/३२), इत्यादौ । अत एव भयानके हास्ये शान्ते वा यथायोगं संवेदनस्पन्दताचर्व्यमाण[ता]स्वाद्यताश्चर्यकृतो विभागो वृत्तानां मन्तव्यः । *उदारमधुरैरिति । औदार्यं शब्दगुणो दीप्तेषु प्राधान्येन तदनुयायि च गुणान्तरं माधुर्यं, स्वानुयायिगुण– संहितमसृणेषु रसेषु । अर्थगुणास्तु यथायोगं सर्वत्र, तदाह प्रमदाभिधेयै–
Notes
1 ड– काव्यं 2 ड– तद्भवेत् 3 ड N – तथैव युद्धसंफेटावुत्कृत्यां संप्रकीर्तितौ न –तथैव युद्धसंस्फोटावुत्कृत्यां संप्रकीर्तितम् 4 ड– ज्ञेया 5 द N – स्मृता 6 द–ये चार्थाः ड N –ये बन्धाः पूर्वमुद्दिष्टा विषमार्धसमा समा । 7 ड N – उदारशब्दैर्मधुरैः कार्यास्तेऽर्थवशानुगाः 8 न–प्रमदाभिनेयान् 9 ड– नाट्याश्रयान् ढ N – नाट्याश्रितान् ।
- अयं श्लोको भमयोर्विना सर्वासु मातृकासु ह्रस्वदीर्घाद्यक्षररूपनिरूपणानन्तरमेव वर्तते । सर्वत्र “शब्दानुदारमधुरान् प्रमदाभिधेयान्” इति द्वितीयान्तपाठ एव विद्यते न तु तृतीयान्तः ।
त्रिविधं ह्यक्षरं1 कार्यं कविभिर्नाटकाश्रयम् ।
2ह्रस्वं दीर्घं प्लुतं चैव 3पदबन्धसमाश्रयम्4 ।। १२२
एकमात्रं भवेद्हस्वं द्विमात्रं दीर्घमुच्यते ।
प्लुतं चैव त्रिमात्रं स्यादक्षरं वर्णसंश्रयम्5 ।। १२३
स्मृते चासूयिते चैव तथा च परिदेविते ।
पठतां ब्राह्मणानां च प्लुतमक्षरमिष्यते ।। १२४
आकारस्तु स्मृते कार्यं 6ऊकारश्चाभ्यसूयिते ।
परिदेविते च हाकार ओंकारोऽध्ययने तथा7 ।। १२५
7aह्रस्वदीर्घप्लुतानीह यथाभावं यथारसम् ।
8काव्यबन्धेष्वशेषेषु ह्यक्षराणि प्रयोजयेत् ।। १२६
चेक्रीडितप्रभृतिभिर्विकृतैश्च शब्दै–
9र्युक्ता 9aन भान्ति ललिता भरतप्रयोगाः ।
10यज्ञाक्रियेव रुरुचर्मधरैर्घृताक्तै–
र्वेश्या द्विजैरिव कमण्डलुदण्डहस्तैः ।। १२७
Abh
रिति । प्रमदो हर्षः हर्षजनको गुणसाकल्यवानभिधेयोऽर्थो येषां भावार्थो हृदयगतोऽभिप्रायः क्रियाविशेषश्च तं दर्शयति स्मृते चेत्यादि । एतदेव च क्रमेण विभजति आकार इत्यादि । द्वावेतावनुस्वारेणानुनासिक्येन वा युक्तौ कार्यौ आण्डदण्डादि । ह्रस्वदीर्घप्लुतानीह यथाभावं यथारसम् । काव्यबन्धेष्वशेषेष्विति वचनादन्यत्र विषये दूराहूत्यादिषु प्लुत उक्तः तत्रासौ प्रयोज्य एवेति दर्शितम् । चेक्रीडितं यङ्न्तम् । आदिग्रहणेन ण्यन्ताः सन्नन्ताः ।
Notes
1 ड N –काव्ये विज्ञेयं 2 न N –प्लुते ह्रस्वं च दीर्घं च 3 ड N – रसभावविभावकम् 4 ड–इष्यते 5 ड–स्वरयोजनम् 6 च–हुंकारः 7 द–चाप्यधीतिनः 7a:N:एकमात्रा भवन्तीह 8 द N – एतानि काव्ययोगेषु त्वक्षराणि निवेशयेत् ड– काव्ययोगेषु सर्वेषु ह्यक्षराणि तु योजयेत् (न–पाठ्य) च–काव्ययोगेष्वक्षराणि यथाशोभं निवेशयेत् । 9 द–मुक्ता 9 a: N: र्युक्ता न ता 10 ड– कृष्णाजिनाक्ष ।
[1मृदुललितपदार्थं गूढशब्दार्थहीनं
2जनपदसुखभोग्यं 3युक्तिमन्नृत्तयेज्यम् ।
बहुकृतरसमार्गं4 सन्धिसन्धानयुक्तं
भवति 5जगति योग्यं नाटकं प्रेक्षकाणाम् ।। ] १२८
इति भारतीये नाट्यशास्त्रे वागभिनये काव्यलक्षणो नाम षोडशोऽध्यायः6 ।।
Abh
एते नटोचिताः प्रयोगाः न भान्ति । ते यतो ललिता यथा वेश्यापरिग्रहे द्विजैर्यज्ञक्रिया मृगाजिनदण्डकमण्डलुघृताभ्यङ्गादि [युक्तैः] संभवद्भिरपि न भाति । एवं तद्व्याख्याने रौद्रादिस्वविषये यत्पुरुषस्याभ्यनुज्ञानं तद्वियुक्तं स्यादितीत्थं व्याख्या–ललिताः सुकुमारप्रयोगास्ते परुषैः पदैर्न भान्तीति विशेषनिषेधः शेषाभ्यनुज्ञापक इति न्यायादन्यत्र तत्प्रयोग इत्युक्तं भवति । तथा हि–“वयोद्वितीयाः सरिति सगेश्चम (?)” इत्येवमादिरपि विधिप्रयोज्य एव, “आख्यातामर्षतर्ष्य” इत्यादौ । एतदेव साधर्म्यवैधर्म्यद्वारेणोपपादयति वेश्या यथा मृगचर्मघृताभ्यङ्गदण्डादियुक्तैर्द्विजैर्न शोभते । वैधर्म्येण दृष्टान्तमाह यथा तैरेव यज्ञक्रिया भाति न तथा वेश्या तदङ्गत्वात् । बहुव्रीहेर्वा यज्ञक्रियापत्न्यप्युच्यत इति शिवम् ।।
इति षोडशमध्यायं ग्रन्थनिर्ग्रन्थिकं व्यधात् ।
यशोराशेर्यशोरागनाम्नो दौहित्रदेहजः ।।
इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायां
नाट्यवेदविवृतावभिनवभारत्यां लक्षणालङ्कार-दोष-गुणाध्यायः
षोडशः समाप्तः ।।
Notes
1 अयं श्लोको नभमासुविना सर्वासु मातृकासु वर्तते, प्रक्षिप्त इव भाति 2 ड–बुधजन 3 ड–बुद्धि प–नृत्ययोग्यम् 4 ड–रसकृतमार्गं 5 ज–सुकविकाव्यं नाट्यकाले मनोज्ञम् 6 चभम संज्ञासु विना सर्वासु सप्तदशोऽध्यायः द मातृकायामध्यायश्लोकसंख्या १२८–आदितः २६१८ ।। इति च वर्तते । N: इति भारतीये नाट्यशास्त्रे वागभिनये काव्यलक्षणः सप्तदशोऽध्यायः ।