१५ वृत्तविधिः

श्रीः

नाट्यशास्त्रम्

अथ पञ्चदशोऽध्यायः*

1छन्दांस्येवं हि यानीह मयोक्तानि द्विजोत्तमाः ।
वृत्तानि तेषु2 नाट्येऽस्मिन्प्रयोज्यानि निबोधत ॥ १

आद्ये पुनरन्त्ये द्वे द्वे3 गुरुणी चेत् ।
4सा स्यात्तनुमध्या4a गायत्रसमुत्था5 ॥ २

Abh

समस्तवृत्तानि विना न येन पटूद्भवश्रोत्ररसायनस्य (?) ।
छन्दांसि यस्मात्प्रभवन्ति वन्दे तं वाङ्मयं रूपमिहाष्ठमूर्तेः ॥

यदुक्तमक्षराणि निवेशयेदिति (१४–१३३) तत्र श्रव्यताकृतं प्रविभागमाख्यातुमुपचक्रमे छन्दांस्येवमिति । एषां छन्दसां नाट्यप्रयोगयोग्यानि वृत्तानि निबोधतेति संबन्धः । गुरुलघुनियमेन श्रव्यता वर्तते येषु तानि वृत्तानि श्राव्यार्थत्वात्, अधिकरणे क्तः । गायत्रीत आरभ्य प्रयोगार्हतेति पूर्वाध्याये निरूपितत्वात् तदुपक्रममेवाह आद्ये पुनरिति, †मध्ये तु लघुन्यर्थात् । गायत्र्यैव गायत्रम् । तत्रेहाध्याये भरतमुनिकृतमिति त्रिकैर्मकारादिभिः कैश्चित्कं–

Notes

1 अयं श्लोको जादिबान्तेष्वादर्शेषु पूर्वाध्यायान्त्ये वर्तते । कादि चान्तेषु पाठस्तु–‘‘इति छन्दांसि यानीह मयोक्तानि द्विजोत्तमाः’’ इत्यध्यायादौ दृश्यते । भमयोरेव व्याख्यातृपाठो विद्यते । 2 –एतानि –एतेषु 3 N–पादे 4 –वृत्तं 4a–N वृत्ता तनुमध्या ॥ 5 –मध्ये लघुनी चेत् वृत्तं तनुमध्या ‡ जादिबान्तेष्वादर्शेषु षोडशोऽध्यायः । N आदर्शेऽपि । अस्मिन्नध्याये वृत्तलक्षणं कासुचिन्मातृकासु मकारादित्रिकैरेवोक्तं, अन्यासु गुरुलघुनियमेन । पाठद्वयस्यापि पाठान्तरभूयिष्ठत्वात् केवलं सौकर्यायोभयपाठोऽपि मूलरूपेणैव मुद्रितः । पिङ्गलात्पूर्वं छन्दोलक्षणं गुरुलघुसंख्यानेनैव व्यवहृतमिति द्योत्यते, न तु त्रिकैरिति । अपि चास्मिन्नध्याये क्वचित् वृत्तजात्यैव लक्षणमुक्तं, क्वचिञ्चानुष्टुभा । अयं विशेषो ध्रुवाध्यायेऽपि दृश्यते । *N : षोडशोऽध्यायः

यथा–संत्यक्तविभूषा भ्रष्टाञ्जननेत्रा ।
हस्तार्पितगण्डा1 किं त्वं तनुमध्या2 ॥ ३

लघुगण आदौ3 भवति चतुष्कः ।
गुरुयुगमन्त्ये 4मकरकशीर्षा ॥ ४

यथा–5स्वयमुपयान्तं भजसि न कान्तं ।
भयकरि किं त्वं मकरकशीर्षा ॥ ५

एकमात्रं षट्के स्याद् द्वितीयं पादे ।
ख्यातरूपा वृत्ते मालिनी सा नाम्ना ॥ ६

[षडक्षरकृते पादे लघु यत्र द्वितीयकम् ।
शेषाणि तु गुरूणि स्युर्मालिनी सा मता यथा ॥] ७

स्नानगन्धाधिक्यैर्वस्त्र6भूषायोगैः ।
व्यक्तमेवासौ7 त्वं मालिनी प्रख्याता ॥ ८

8द्वितीयं पञ्चमं चैव लघु यत्र प्रतिष्ठितम् ।
शेषाणि च गुरूणि स्युर्मालती नाम सा यथा ॥ ९

शोभते बद्धया षट्पदाविद्धया9 ।
मालतीमालया मानिनी10 लीलया ॥ १०

द्वितीयं च चतुर्थं च पञ्चमं च यदा लघु ।

Abh

चिल्लक्षणं स्वीकृतमिति द्विविधः पुस्तकपाठो दृश्यते मध्ये च चिन्तनाय पुस्तकेषूभयमपि पठ्यत इति । एतन्नाम्ना प्रसिद्धा, ख्यातरूपा श्लाघनीयेत्यर्थः ।

Notes

1 –वक्रा 2 –तनुमध्ये 3 –आद्यो 4 –मधुरकशीर्षा 5 –कमलनिभास्ये परिजनमध्ये । वरतनु किं त्वं मकरकशीर्षा ॥ 6 –व्यक्तभूषायोग्यैः 7 N–एवैषां –एवैषा –एष्वेषा 8–मालतीलक्षणोदाहरणे नबभष्वेव विद्येते । 9 –आबद्धया 10 –मालिनी

यस्याः सप्ताक्षरे पादे ज्ञेया सा तूद्धता यथा ॥ ११

[र्सौत्रिकौ यदि पादे ह्यन्तिमश्च1a गकारः ।
उष्णिगुत्थितपादा उद्धता खलु नाम्ना1] ॥ १२

*दन्तकुन्तकृतास्त्रं2 व्याकुलालकशोभम्3 ।
शंसतीव तवास्यं 4निर्दयं रतयुद्धम् ॥ १३

आदौ द्वे निधने चैव गुरुणी यत्र वै सदा ।
पादे सप्ताक्षरे ज्ञेया नाम्ना भ्रमरमालिका ॥ १४

[पादे यदि निविष्टौ सम्यग्विरचितौ त्सौ4a ।
अन्त्ये यदि गकारः 5सा तु भ्रमरमाला ॥]१५

यथा–नानाकुसुमचित्रे प्राप्ते सुरभिमासे6 ।
7एषा भ्रमति मत्ता कान्ते8 भ्रमरमाला ॥ १६

आद्यं तृतीयमन्त्यं च पञ्चमं सप्तमं तथा ।
गुरूण्यष्टक्षरे पादे सिंहलेखेति सा यथा ॥ १७

[जौतु यस्य गौ च पादे संस्थितौ समस्तरूपौ9 ।
तामनुष्टुभाश्रयस्थां 10वावदन्ति सिंहलेखाम्11 ॥ ] १८

यत्त्वया 12ह्यनेकभावैश्चेष्टितं13 रहः सुगात्रि ।
तन्मनो मम प्रविष्टं14 वृत्तमत्र सिंहलेखम्15 ॥ १९

Abh

त्वया यन्मदीयं मनः प्रविष्टं व्याप्तमाक्रान्तं तत्सिंहवन्नखविलेखनं ‘‘त्र तादृशं वृत्तं तद्यथाक्रान्तं जातमिति यावत् ।

Notes

1 –सा स्यात् 1a:N: अक्षरञ्च, अक्षरश्च;–Kavi, ह्यन्तिमश्च–मधुसूदनी *N–यथा 2 –घातकृताङ्कं द N–नखाग्रं 3 N–केशसंलुलिताम्रम् । N शंसते तव वक्रं युद्धमुद्धतवेषम् । 4 –निर्भरं

4 a: N यौ 5 –स्यात्सा 6 –काले मदनभोग्ये । 7 –पुष्पे मत्ता 8 –कुञ्चेषु मधुमत्ता रौति भ्रमरमाला 9 –समौ कृतौ चेत् 10 –ज्ञापयन्ति 11 –सिंहलीलम् 12 –हि नैक 13–चेष्टितौ 14 –प्रदिष्टं 15 –सिंहलीलम् ।

चतुर्थं च द्वितीयं च षष्ठमष्टममेव च ।
गुरूण्यष्टाक्षरे पादे यत्र तन्मत्तचेष्टितम् ॥ २०

[यदा तु जात्परौ रलौ गकार एव च स्थितः ।
अनुष्टुबुद्भवं तदा 1वदन्ति मत्तचेष्टितम् ॥] २१

यथा–2चरावघूर्णितेक्षणं विलम्बिताकुलालकम्3 ।
असंस्थितैः पदैः प्रिया करोति मत्तचेष्टितम् ॥ २२

अष्टाक्षरकृते पादे सर्वाण्येव भवन्ति हि ।
गुरूणि यस्मिन्सा नाम्ना 4विद्युन्मालेति कीर्तिता ॥ २३

[मौ गौ चान्त्यौ यस्याः पादे पादस्यान्ते विच्छेदश्च ।
सा चानुष्टुप् छन्दस्युक्ता नित्यं सद्भिर्विद्युन्माला ॥] २४

5साम्भोभारैरानर्दद्भिः5a श्यामाम्भोदैर्व्याप्ते व्योम्नि ।
आदित्यांशुस्पर्धिन्येषा6 दिक्षु भ्रान्ता विद्युन्माला ॥ २५

7पञ्चमं सप्तमं चान्त्यं गुरु पादेऽष्टके तथा ।
छन्दोज्ञैर्ज्ञेयमेतत्तु वृत्तं चित्तविलासितम् ॥ २६

स्मितवशविप्रकाशैर्दशनपदैरमीभिः ।
वरतनु पूर्णचन्द्रं तव मुखमावृणोति ॥ २७

नवाक्षरकृते पादे त्रीणि स्युर्नैधनानि च8 ।
गुरूणि यस्याः सा नाम्ना ज्ञेया मधुकरी यथा ॥ २८

Notes

1 –भवेत्तु 2 –विघूर्णितेक्षणा सदा 3 –प्रलम्बिलोहिताम्बरा 4 –विद्युल्लेखेति संज्ञिता 5 –साम्भोम्भोदैव्याप्तैर्व्योम्ना गम्भीरोधैर्नानानादैः । आदित्यांशुप्रख्याह्येषा दिक्षु भ्रान्ता विद्युन्माला ॥ –सान्द्राम्भोभिर्नानानादैः श्यामाकारैर्व्याप्तैर्व्याम्नि । 5 a: N: साम्भोभारैर्नीतिहृद्भिः 6 –स्पर्शिन्येषा 7 एतद्वृत्तलक्षणं सलक्ष्यं नभमवादर्शेष्वेवोपलभ्यते । 8 N–तु ।

[षडिह यदि लघूनि स्युर्निधनगतमकारश्चेत् ।
बुधजनबृहतीसंस्था भवति मधुकरी नाम्ना ॥] २९

1कुसुमितमभिपश्यन्ती विविध2तरुगणैश्छन्नम् ।
3वनमतिशयगन्धाढ्यं 4भ्रमति मधूकरी हृष्टा ॥ ३०

दशाक्षरकृते पादे त्रीण्यादौ त्रीणि नैधने5 ।
यस्या गुरूणि सा ज्ञेया पङ्क्तिरुत्पलमालिका6 ॥ ३१

[त्रीण्यादौ यदि हि गुरूणि स्यु– श्चत्वारो यादि लघवो मध्ये ।
पङ्क्तावन्तगतमकारः स्या द्विज्ञेया कुवलयमालाख्या7 ॥] ३२

यथा-

अस्मिंस्ते 8शिरसि तदा कान्ते वैडूर्यस्फटिकसुवर्णाढ्ये ।
शोभां स्वां न वहति तां बद्धा सुश्लिष्टा कुवलयमालेयम् ॥ ३३

द्वितीयं च चतुर्थं च षष्ठमष्टममेव च ।
ह्रस्वं दशाक्षरे पादे यत्र सा शिखिसारिणी ॥ ३४

Abh

शोमां स्वां स्वभाववर्तने ये भेदाः । वैडूर्यच्छायानि यानि दलानि तत्तत्स्फुरत्सुवर्णतुल्यानि वर्णानि तदभ्यन्तरकेसराणि ।

Notes

1 –कुसुमितमपि पश्यन्ती शुभविहगगणैच्छन्नम् । 2 N–नग 3 N– वनमनिलसु –नवनलिनसु 4 N–सुतनु 5 N– नैधनानि तु (–N) 6 N–मालिनी 7 –माला सा 8 N–भ्रमरनिभे कान्ते N – नानारत्नरचितभूषाढये । N शोभामावहति शुभां मूर्ध्नि प्रोत्फुल्ला कुवलयमालेयम् ।

[र्जौ त्रिकौ हि पादगौ तु यस्या र्गौ च संश्रितौ1 तथा समस्तौ ।
पङ्क्तियोगसुप्रतिष्ठिताङ्गी सा मयूरसारिणीति नाम्ना ॥1a] ३५

यथा1b–

नैव तेऽस्ति संगमो मनुष्यैर्नापि कामभोगचिह्नमन्यत् ।
2गर्भिणीव दृश्यसे ह्यनार्ये किं मयूरसारिणी त्वमेवम्3 ॥ ३६

आद्यं चतुर्थमन्त्यं च सप्तमं दशमं तथा ।
गुरूणि त्रैष्टुभे पादे यत्र स्युर्दोधकं तु तत् ॥ ३७

[भौ तु भगाविति यस्य गणाः स्युः 4स्याच्चयतिस्त्रिचतुर्भिरथ त्रैष्टुभमेव हि तत्खलु नाम्ना दोधकवृत्तमिति प्रवदन्ति ॥]

यथा-

5प्रस्खलिताग्रपदप्रविचारं मत्तविघूर्णितगात्रविलासम्6
पश्य विलासिनि कुञ्जरमेतं दोधकवृत्तमयं 7प्रकरोति ॥ ३९

Abh

मयूरवद्व्याकोचमस्याः, मयूरीभिर्वा (सारी) गतिविशेषो भवतीत्याहुः । मन्दं मन्दं दोधकेन गीयमानं वृत्तं दोधकवृत्तम् । (एष इति) यावन्मुरजघाततुल्यं गर्जितं श्रुत्वा ।

Notes

1 –संस्थितौ 1a: N सारिणीति तां वदन्ति 1b: N ‘यथा’ not read in N 2 –गर्भिणीति –गर्भिणी च –गर्भिणी च जायसे 3 – त्वमेव 4 N–पाठवशाच्च गतिस्खलिता स्यात् 5 –प्रस्खलमानगतिप्रविचारो…विलासः । पश्य….कुञ्जर एषो…वृत्तगतिं प्रकरोति । 6 –विनम्रम् 7 – वृत्तगतिं ।

1आदौ द्वौ पञ्चमं चैवाप्यष्टमं नैधनं तथा2 ।
गुरूण्येकादशे पादे यत्र तन्मोटकं यथा ॥ ४०

एषोऽम्बुदनिस्वनतुल्यरवः 3क्षीबः स्खलमानविलम्बगतिः ।
श्रुत्वा 4घनगर्जितमद्रितटे वृक्षान् 5प्रतिमोटयति द्विरदः ॥ ४१

नवमं सप्तमं षष्ठं तृतीयं च भवेल्लघु6 ।
6aएकादशाक्षरे पाद इन्द्रवज्रेति सा यथा7 ॥ ४२

8त्वं दुर्णिरीक्ष्या 9दुरतिप्रसादा 10दुःखैकसाध्या कठिनैकभावा11 ।
सर्वास्ववस्थासु च11a कामतन्त्रे योग्यासि किं वा बहुनेन्द्रवज्रा12 ॥ ४३

एभिरेव तु संयुक्ता लघुभिस्त्रैष्टुभी यदा ।
उपेन्द्रवज्रा विज्ञेया लघ्वादाविह13 केवलम् ॥ ४४

Abh

उपेद्रवज्रो (?वज्रा)अस्या उपमानत्वेन सा तथा मत्वर्थीयो उपेन्द्रवज्रन्तु इन्द्रधनुषा उपमितमुपेन्द्रवज्रमुपमितसमासः, द्विगुप्राप्ते परवल्लिङ्गनिषेधः । स्मितेकान्त्येति इन्द्रधनुषोऽपि वर्णवैचित्र्यं च भवति । (श्लो–४५)

Notes

1 –द्वे आद्ये 2 –गुरु एकादशाक्षरे 3 –क्षीणः 4 –घननिस्वनं 5 –प्रतितोटयते – मोटयते 6 N–लघून्यथ 6a: N: यत्रैकादशके पादे 7 N–स्मृता 8 –दुष्प्रेक्षणीया विगतप्रसादा दुःखेन साध्या कठिनाभिघाता । 9 N–दुरितस्वभावा 10 N–दुःखेन 11 –कठिनस्वभावा 11a:N: ‘न’ 12 –वज्रे 13 –आदावथ –आद्ये त्वथ ।

1प्रिये श्रिया वर्णविशेषणेन 2स्मितेन कान्त्या सुकुमारभावात् ।
अमी गुणा रूपगुणानुरूपा 2aभवन्ति ते किं त्वमुपेन्द्रवज्रा ॥ ४५

आद्यं तृतीयमन्त्यं च सप्तमं नवमं तथा ।
3गुरूण्येकादशे पादे यत्र सा तु रथोद्धता ॥ ४६

यथा–

किं त्वया4 सुभट दूरवर्जितं5 नात्मनो न 6सुहृदां प्रियं कृतम् ।
यत्पलायनपरायणस्य ते याति धूलिरधुना रथोद्धता ॥ ४७

[7 किं त्वया कुमतिसङ्गया सदा नाज्ञयेव सुहृदां प्रियं कृतम् ।
यद्गृहाद्वचनरोषकम्पिता याति तूर्णमबला रथोद्धता] ॥ ४८

7aआद्यं तृतीयमन्त्यं च सप्तमं दशमं 8गुरु8a ।
यस्यास्तु त्रैष्टुभे पादे विज्ञेया स्वागता हि सा ॥ ४९

Abh

आत्मने सुहृदे दूरवर्जितं प्रियं दूरत्यक्तं किं त्वया न कृतं दूरत्यक्तमित्यर्थः । कुत इत्याह यत्पलायनेति । मदनसंश्रयो भावो यस्य कामफलमिति यावत् ।

Notes

1 –श्रिया च वर्णेन विशेषणेन –प्रेम्णा 2 –यथा च कान्त्या सुकुमारयुक्त्या 2 a: N वसन्ति ते; 3 –गुर्वेकादशके 4 –सुभग 5 –वर्जितात्मना 6 –सुहृदः 7 एतदुदाहरणं भमयोरेव 7a: N आद्यमन्त्यं तृतीयं 8 –तथा (also-N) गुरूणि त्रैष्टुभे पादे यत्र सा स्वागता यथा । 8a: N: तथा

यथा1a–

अद्य मे सफलमायतनेत्रे जीवितं मदनसंश्रयभावम्1 ।
आगतासि 2भवनं मम 3यस्मा– त्स्वागतं तव वरोरु निषीद ॥ ५०

षष्ठं च नवमं चैव 4लघुनी त्रैष्टुभे यदि ।
5गुरूण्यन्यानि पादे तु सा ज्ञेया शालिनी यथा ॥ ५१

6दुःशीलं वा निर्गुणं वापरं वा लोके धैर्यादप्रियं न ब्रवीषि ।
7तस्माच्छीलं साधुहेतोः सुवृत्तं 8माधुर्यात्स्या8aत्सर्वथा शालिनी त्वम्9 ॥ ५२

तृतीयं चैव षष्ठं च नवमं द्वादशं तथा ।
गुरूणि जागते पादे यत्र तत्तोटकं भवेत् ॥ ५३

[यदि सोऽत्र भवेत्तु समुद्रसम– स्रिषु चापि तथा नियमेन यतिः ।
सततं जगतीविहितं हि ततो गदितं खलु तोटकवृत्तमिदम्10 ॥] ५४

Abh

(किमिदमिति) तोटकस्य छेदकस्य वृत्तं चेष्टितम् ।

Notes

1 – भावात् 1 aN ‘यथा’ not read in N – संश्रितभावम् 2 –सदनं 3 –यत्वं 4 N–लघु स्यात् 5 N–चतुर्भिराद्यैर्विच्छेदः 6 N–शीलभ्रष्टे निर्गुणे पापके वा (व्याप्तकोपे –) लोके ज्ञात्वा ह्यप्रियं 7 –आर्यं –आर्यं शीलं साध्वि ते तेनुऽवृत्तं N–आर्यं शीलं साध्वहो ते सुवृत्तं 8 –माधुर्याढ्या सर्वदा 8a: N: माधुर्याद्या सर्वथा शालिनी त्वम् 9 –शालिनीव 10 N–इति ।

यथा–

किमिदं कपटाश्रयदुर्विषहं 1बहुशाठ्यमथोल्बणरूक्षकथम्2 ।
3स्वजनप्रियसज्जनभेदकरं ननु तोटकवृत्तमिदं कुरुषे ॥ ५५

4आद्यं तृतीयमन्त्यं च पञ्चमं षष्ठमेव च ।
तथोपान्त्यं जगत्यां च गुरु चेत्कुमुदप्रभा ॥ ५६

[र्यौ त्रिकौ तथान्यौ यदि खलु पादे षड्भिरेव वर्णैर्यदि च यतिः स्यात् ।
नित्यसंनिविष्टा जगतिविधाने नामतः प्रसिद्धा कुमुदनिभा सा ॥] ५७

यथा-

5मन्मथेन विद्धा सललितभावा नृत्तगीतयोगा प्रविकसिताक्षी ।
निन्द्यमद्या किं त्वं विगलितशोभा चन्द्रपादयुक्ता कुमुदवती च ॥ ५८

Abh

(मन्मथेनेति) नृत्तगीतयुक्ता न भवसीति संबन्धः ।

Notes

1 N –बहुगण्डं – बहुगर्जमिव 2 –कृतम् –पंथम् 3 –सुजन –स्वजनप्रियदुर्जन 4 कुमदनिभालक्षणं सोदाहरणं समतान्तरं चमातृकायां न वर्तते 5 N –कामबाणविद्धा किमसि नतभ्रु शीतपाद्दग्धा नवनलिनीव (मृदुकमलिनीव–) पाण्डुवक्र शोभा कथमसि जाता (कथमपि–) अग्रतः सखीनां कुमुदनिभा त्वम् ।

मतान्तरे-

1यदि खलु पादे न्यौ त्रिकौ यथा र्यौ यतिरपि वर्णैः षड्भिरेव चेत्स्यात् ।
जगतिविधाने नित्यसंनिविष्टा कुमुदनिभा सा नामतः प्रसिद्धा ॥ ५९

यथा-

कुमुदनिभा त्वं कामबाणविद्धा किमसि नतभ्रूः शीतवातदग्धा ।
मृदुनलिनीवापाण्डुवक्त्रशोभा कथमपि जाता ह्यग्रतः सखीनाम् ॥ ६०

2द्वादशाक्षरके पादे सप्तमं दशमं लघु2a ।
3आदौ पञ्चाक्षरच्छेदश्चन्द्रलेखा तु सा यथा ॥ ६१

वक्त्रं सौम्यं ते पद्मपत्रायताक्षं 4कामस्यावासं सु4aभ्रु नोच्चप्रहासम्5 ।
कामस्यापीदं काममाहर्तुकामं कान्ते5a कान्त्या त्वं चन्द्रलेखेव भासि6 ॥ ६२

तृतीयमन्त्यं नवमं पञ्चमं च यदा गुरु ।
द्वादशाक्षरके पादे 7यत्र सा प्रमिताक्षरा ॥ ६३

Notes

1 मतान्तर लक्षणं लक्ष्यं च टमातृकायामेव वर्तते 2 चन्द्रलेखालक्षणं सोदाहरणं चमातृकायां नास्ति 2a: N: ‘तथा’ ; 3 –यत्रान्यानि च दीर्घाणि 4 N-ईषत्पाण्ड्वाभं 4a: N: मुक्तनोच्चप्रहासं 5 –स्वभ्रुवोश्चावभासम् 5a: N: कान्त्या त्वं कान्ते 6 –का त्वम् 7 –तदा स्यात् –यदा स्यात् –तथा स्यात् ।

यथा–

1स्मितभाषिणी ह्यचपलापरुषा 2निभृतापवादविमुखी सततम्3 ।
अपि कस्यचिद्युवतिरस्ति सुखा प्रमिताक्षरा स हि पुमान्जयति4 ॥ ६४

द्वितीयमन्त्यं दशमं चतुर्थं पञ्चमाष्टमे ।
गुरूणि द्वादशे पादे वंशस्था जगती तु सा5 ॥ ६५

[यदि5a त्रिकौ ज्तौ भवतस्तु पादत– स्तथैव च (ज्राव)वसानसंस्थितौ ।
तदा हि वृत्तं जगतीप्रतिष्ठितं वदन्ति वंशस्थमितीह नामतः ॥] ६६

न मे 6प्रिया त्वं बहुमानवर्जितं 6aप्रियं प्रिया ते परुषाभिभाषिणी ।
6bतथा च पश्याम्यहमद्य विग्रहं7 8ध्रुवं हि8a वंशस्थगतिं करिष्यति9 ॥ ६७

चतुर्थमन्त्यं दशमं सप्तमं च यदा गुरु ।
10भवेद्धि जागते पादे 11तदा स्याद्धरिणप्लुता ॥ ६८

Abh

(स्मितेति) प्रमिताक्षरा भण्यते सा यस्यां स्मितभाषित्वादिगुणा युक्ता सा तादृशी सुसुखी युवतिरपि कस्यचिद्भवेदिति शेषः ।

Notes

1 N–स्मितहासिनी –स्मितभासिनी 2 –वशवर्तिनी मधुरवाङ् निभृता 3 –सुमुखी 4 –जगति –भवति या तु सदा 5 –गदिता तु सा 5a: N यदा 6 –प्रियं यद्बहुमानवर्जिता कृता प्रिये ते परुषातिभाषणैः । यथा 6a: N कृता प्रिया ते 6b: N यथा 7 –विक्रमं –अद्य सा ध्रुवं 8 –क्षणेन 8a: N वंशस्थामिदं 9 –इदं करिष्यसि 10 – यस्यास्तु 11 –सा ज्ञेया

यथा–

परुषवाक्य1कशाभिहता त्वया भयविलोकनपार्श्व2aनिरीक्षणा2 ।
वरतनुः प्रततप्लुतसर्पणै– 3रनुकरोति 3aगतैर्हरिणप्लुतम् ॥ ६९

सप्तमं नवमं 4चान्त्यमुपान्त्यं च यदा गुरु ।
द्वादशाक्षरके पादे 5कामदत्तेति सा यथा ॥ ७०

करजपदविभूषिता यथा त्वं 6सुदति दशनविक्षताधरा च ।
गतिरपि चरणावलग्नमन्दा7 8त्वमसि मृगनिभाक्षि9 कामदत्ता10 ।। ७१

आद्यं चतुर्थं दशमं सप्तमं च यदा लघु11 ।
12पादे तु जागते यस्या अप्रमेया तु सा यथा ।। ७२

न ते काचिदन्या समा दृश्यते स्त्री 13नृलोके विशिष्टा गुणैरद्वितीयैः ।

Abh

(परुषेत्यादि) भवत्परुषवाक्यरूपया* कशया अभिहता वरतनुर्हरिणप्लुतमिव करोति ।

Notes

1 N–कथा 2 –निरीक्षणपार्श्वविलोकनैः 2a: N: निरीक्षणैः 3 –प्रकृरुते प्रगतं हरिणप्लुता 3 a: N:गतं हरिणप्लुतां 4 –चैव ह्यन्त्योपान्त्ये गुरूण्यथ । यत्र स्युर्जागते पादे कामदत्ता तु सा मता 5 -काममत्ता 6 –सुतनु 7 –सन्नमन्दा 8 –तदसि 9 –समाक्षि 10 –काममत्ता 11 –लघून्यथ 12 ड N–द्वादशाक्षरके पादे 13 ड N–गुणैर्या द्वितीया तृतीयापि चास्मिन् । ममेयं मतिर्लोकमालोक्य सर्वं….सृष्टा । (चास्मिंश्च कान्ते–न) । *मधुसूदनी; भवत्पारुष्यं वाक्यं तदीयया–Kavi

त्रिलोक्यां गुणाग्र्यान् समाहृत्य सर्वान् जगत्यप्रमेयासि सृष्टा1a विधात्रा ।। ७३

द्वितीयं पञ्चमं चैव ह्यष्टमैकादशे तथा ।
पादे यत्र लघूनि स्युः पद्मिनी नाम सा यथा ।। ७४

[रास्त्रिकाः सागराख्या निविष्टा यदा स्यात् त्रिके च त्रिके युक्तरूपा यतिः ।
सन्निविष्टा जगत्यास्ततस्सा बुधै- र्नामतश्चापि संकीर्त्यते पद्मिनी।।] ७५

देहतोयाशया वक्त्रपद्मोज्ज्वला नेत्रश्रृङ्गाकुला दन्तहंसस्मिता1 ।
केशपाशच्छदा चक्रवाकस्तनी पद्मिनीव प्रिये भासि मे सर्वदा ।। ७६

[2फुल्लपद्मानना त्वं द्विरेफेक्षणा केशपत्रच्छदा चक्रवाकस्तनी ।
पीततोयावली बद्धकाञ्चीगुणा पद्मिनीव प्रिये भासि नीरे स्थिता।।] ७७

आदौ षट्दशमं चैव पादे यत्र लघून्यथ ।
शेषाणि तु गुरूणि स्युर्जागते 3पुटसंज्ञिता ।। ७८

[यदि चरणनिविष्टौ नौ तथा म्यौ यतिविधिरपि युक्त्याष्टाभिरिष्टः3a ।

Notes

1 –हंसैः सिता 1a: दृष्टा –Kavi ( सृष्टा– N& Ghosh) 2 अयं श्लोको मातृकायामेव 3 –पटु 3a: N: /?/भिरिष्टः

भवति च जगतीस्थः सर्वदासौ1a 1bय इह हि पुटवृत्तं नामतस्तु ।। ] ७९

यथा–

*उपवनसलिलानां बालपद्मै– र्भ्रमरपरशृताना2 कण्ठनादैः3 ।
4,4aमदनमदविलासैः5 कामिनीनां 6कथयति 7पुटवृत्तं पुष्पमासः।। ८०

द्वितीयान्त्ये चतुर्थं च नवमैकादशो गुरु ।
8विच्छेदोऽतिजगत्यां तु चतुर्भिः सा प्रभावती ।। ८१

यथा–

9कथं न्विदं कमलविशाललोचने गृहं घनैः 10पिहितकरे दिवाकरे ।
11अचिन्त्ययन्त्यभिनववर्षविद्युत– 12स्त्वमागता सुतनु यथा प्रभावती ।। ८२

त्रीण्यादावष्टमं चैव12a दशमं नैधनद्वयम् ।
13गुरूण्यतिजगत्यां तु त्रिभिश्छेदैः प्रहर्षिणी ।। ८३

Abh

(उपवनेति) पुटस्य युगलस्य वृत्तं तथा चौपवनं सलिलं चेति युग्मं, एवमन्यत् ।

Notes

1a: N सर्वदा यः 1b:N स इह हि पुट एवं नामतस्तु । 1 –पत्रैः –पद्मे 2 मधुकराणां…..अङ्गनानां जनयति चतुरत्वं पुष्पमासः –इति जनाश्रयीकारपाठः 3 –कण्ठनादे 4 –समदगति –मदनपर 4a: N समदमदनलासैः 5 –विलासे 6 –कथयसि 7 –पुटवृत्तं 8 –पादे तु जगतीसंस्थे यत्र सा तु 9 –अदः कथं 10 –गता 11 –न मानसे भयमतिवृष्टिसंभवं पराक्रमैस्त्वमसि 12 –समागता 12a:N यत्र 13 –गुरूणि पादे ह्यत्रैव यस्याः सा वै प्रहर्षिणी । *अयं श्लोको जनाश्रय्यामुदाहृतः ।

यथा–

भावस्थैर्मधुरकथैः1 सुभाषितैस्त्वं साटोपस्खलितविलम्बितैर्गतैश्च ।
2शोभाढ्यैर्हरसि मनांसि कामुकानां3 सुव्यक्तं ह्यतिजगती प्रहर्षिणी च4 ।। ८४

षष्ठं च सप्तमं चैव दशमैकादश4a 5लघु ।
त्रयोदशाक्षरे पादे ज्ञेयं मत्तमयूरकम् ।। ८५

यथा–

विद्युन्नद्धाः 6सेन्द्रधनूरञ्जितदेहा वातोद्धूताः श्वेतबलाकाकृतशोभाः7 ।
एते मेघा गर्जितनादोज्ज्वलचिह्नाः8 प्रावृटकालं मत्तमयूराः 9कथयन्ति ।। ८६

आदौ द्वे च चतुर्थं चाप्यष्टमैकादशे गुरु ।
अन्त्योपान्त्ये च शक्वर्यां वसन्ततिलका* यथा ।। ८७

चित्रैर्वसन्तकुसमैः 10कृतकेशहस्ता स्रग्दाममाल्यरचनासुविभूषिताङ्गी ।

Abh

(चित्रैरिति) वसन्तस्य यस्तिलकस्तस्यास्ति उपमानं त्वनेनेति

Notes

1 – मधुरसकैः –तरैः 2 –मानाद्यैः –नानाङ्गैः 3 –मानवानां 4 –त्वम् N–इव 4a: N: दशमैरकादशं 5 –तथा । लघूनी यस्य पादे तु गच्छेन्मत्तमयूरताम् 6 N–इन्द्रधनुर्द्योतितदेहा 7 –कृतचिह्वाः 8 –गर्जितगम्भीरनिनादैः 9 – मत्तमयूराः;– Kavi – मत्तमयूरं, 10 –हृत –वृत । *वसन्ततिलका, उद्द्धर्षिणीति सैतवाचार्येण, सिंहोन्नतेति काश्यपेन, मभुमाधवीति गोमानसेन, चेतोहितेति रामकीर्तिना लक्षिता “इन्दुमुखी सैतवस्य” इति जनाश्रय्यामुक्तम् । “उद्धर्षिणी सैतवस्य” इति पिङ्गलः

1नानावतंसकविभूषितकर्णपाशा साक्षाद्वसन्ततिलकेव विभाति नारी ।। ८८

2पञ्चादौ शक्वरी पादै गुरूणि त्रीणि नैधने2a ।
पञ्चाक्षरादौ च यतिरसंबाधा तु सा यथा2b ।। ८९

मानी लोकज्ञः श्रुतबलकुलशीलाढ्यो यस्मिन्सम्मानं3 न सदृशमनु पश्येद्धि4 ।
गच्छेत्तं त्यक्त्वा तं द्रुतगतिरपरं देशं कीर्णा नानार्थैरवनिरियमसंबाधा ।। ९०

5चत्वार्यादौ गुरूणि स्युर्दशमैकादशे तथा ।
अन्त्योपान्त्ये च शक्वर्याः पादे तु शरभा यथा।। ९१

एषा कान्ता व्रजति ललितं वेपमाना 6गुल्मैश्छन्नं वनमभिनवैः संप्रविद्धम्7 ।
8हा हा कष्टं किमिदमिति नो वेद्मि मूढौ व्यक्तं 9कान्ते शरभललितात्वं करोषि ।। ९२

आदौ षट् दशमं चैव 10लघु चैव त्रयोदशम् ।
यत्रातिशाक्वरे पादे ज्ञेया 11नान्दीमुखी* तु सा।। ९३

Abh

साक्षादिति छन्दानुवर्तिनीत्यर्थः ।

Notes

1 –नागावतंसकविभूषितगण्डपाली –नानावतंसकविलम्बितकर्णपूरा –नानावतंसकशिरोधृतमुण्डमाला 2 –चतुर्दशाक्षरे पादे पञ्चादौ त्रीणि नैधने । यस्या गुरूण्यसंबोधा नाम्ना ज्ञेया तु सा बुधैः 2a: N: चर्चितै 2b: N: सा स्मृता 3 –सामान्यं 4 – पश्यते 5 –चत्वार्यादौ हि दशमं ततोऽन्यच्च भवेद्गुरु । –आदौ चतुर्गुरूणि6 –गुल्मच्छन्नं वनमुरुनगैः 7 –प्रवृद्धम् 8 आहो कष्टं किमिदमिति संविग्नचेष्टा 9 –क्रोधाच्छरभललितं कर्तुकामा –क्रोडाच्छरभललितं हर्तुकामा 10 N– लघूनि स्युस्त्रयोदशम् । यत्र पञ्चदशे 11 N–नान्दीमुखा । *मालिनीत्यस्या नामान्तरं नान्दीमुखीति प्राकृतच्छन्दसि प्रसिद्धम् ।

यथा–

न खलु 1तव कदाचित्क्रोधताम्रायताक्षं भ्रुकुटिवलितभङ्गं2 दृष्टपूर्वं 3मयास्यम् ।
किमिह बहुभिरुक्तैर्या 4ममेच्छा हृदिस्था त्वमसि मधुर वाक्या 5देवि नान्दीमुखीव6 ।। ९४

आद्यं चतुर्थं षष्टं च नैधनं च यदा गुरु7 ।
षोडशाक्षरके पादे 8यत्रभलालितं तु तत्8a ।। ९५

( भ्रौ यदि नाश्च नित्यमिह विरचितचरणाः9 गश्च तथा च वै भवति निधनमुपगतः ।
स्यादपि चाष्टिमेव यदि सततमनुगतं तत्खलु वृत्तमग्रवृषभगजविलसितम् ।।) ९६

यथा9a–

तोयधरैः सुधीरघनपटुपटहरवैः10 सर्जकदम्बनीपकुटजकुसुमसुरभिः ।
कन्दलसेन्द्रगोपकरचितमवनितलं 11aवीक्ष्य करोत्यसौ वृषभगजविलसितकम्11 ।। ९७

आद्यात्पराणि वै पञ्च द्वादशं सत्रयोदशम् ।
12अन्त्योपान्त्ये च दीर्घाणि ललितप्रवरं हि तत् ।। ९८

Abh

(नान्दीमुखीति) नान्द्यां मङ्गलदुन्दुऊभेरिव मुखं यस्या ।

Notes

1 –वद 2 –पुटतरङ्ग 3 –तवास्यम् 4 –ममैषा 5 –वेद्मि नान्दीमुखा त्वम् 6 –च 7 –गुरूण्यथ 8 –गजं विलसितं 8 a:N:तथा मत्तेभविलसिते 9 – चरणवरचिताः 9a: N: यथा not read in N 10 –पटुविशदनिनदितै; 11 N सितं– मत्तगजविलसितकमसौ; 11a: N: वीक्ष्य करोति मत्तगजविलसितकम् [असौ] 12 –अन्त्ये द्वे यत्र दीर्घाणि प्रवरं ललितं ।

(यदा य्मौ पादस्थौ भवत इह चेत्सौ तथा र्गौ1a तथा षड्भिश्चान्यैर्यतिरपि च वर्णैर्यथा स्यात् ।
तदप्यष्टौ नित्यं समनुगतमेवोक्तमन्यैः 1bप्रयोगज्ञैर्वृत्तं प्रवरललितं नामतस्तु ।।) ९९

यथा–

नखालीढं गात्रं दशनखचितं 1चोष्ठगण्डं शिरः पुष्पोन्मिश्रं प्रविलुलित 2केशालकन्तम् ।
गतिः खिन्ना चेयं3 वदनमपि संभ्रान्तनेत्रं4 अहो श्लाघ्यं वृत्तं प्रवरललितं कामचेष्टम्5 ।। १००

आद्यात्पराणि पञ्चाथ द्वादशं सत्रयोदशम् ।
अन्त्यं सप्तदशे पादे शिखरिण्यां गुरूणि च6 ।। १०१

[चतुर्भिस्तस्यैव प्रवरलितस्य त्रिकगणै– र्यदा6a लौ गश्चान्ते भवति चरणेऽत्यष्टिगदिते ।
यदा षड्भिश्छेदो भवति यदि मार्गेण विहित– स्तदा वृत्तेष्वेषा खलु शिखरिणी नाम गदिता ।।] १०२

यथा–

महानद्या भोगं7 पुलिनमिव ते भाति जघनं तथास्यं नेत्राभ्यां8 भ्रमरसहितं पङ्कजमिव ।

Abh

असाविति (तोयधरैरिति) जग एव वा गजोचितं विलासं करोति इदमिदं वीक्ष्य ।

Notes

1a: N: गौ 1b: N: ’ N ‘has only प्रयोगज्ञैः, The last line can be added following ९९d (G.O.S.) 1 –विहितं –विहतं N–विहितं गण्डं –निहितं –विकचदशनं –विहतदशनछादगण्डं 2 –केशाग्रकान्तम् मन्दायामा –मन्दायामा –मन्दा चेवं 4 –यद्भान्तनेत्रं –तु ग्लाननेत्रं 5 –कामवेषम् 6 –गुरु स्मृतम् 6a: N: र्यदा भौगे तु भवति चरणेऽत्यष्टिगदिते । यदा च स्यात्त्रिस्त्रिर्वरयति कुतः षट् च परत। 7 –भोगे 8 –नेत्राढ्यं ।

1तनुस्पर्शच्छायं सुतनु सुकुमारो न परुषः ।
स्तनाभ्यां 2तुङ्गाभ्यां शिखरिणि 3निभाभासि वनिते3a ।। १०३

यत्र पञ्च लघून्यादौ त्रयोदशचतुर्दशे ।
षोडशैकादशे चैव तत्स्याद्वृषभचेष्टिम् ।। १०४

(यदि हि चरणेन्सौ भ्रौ स्लौ गः क्रमाद्विनिवेशिताः यदि खलु यतिः षड्भिर्वर्णैस्तथा दशभिः पुनः ।
यदि च विहितं स्यादत्यष्टिप्रयोगसुखाश्रयं वृषभललितं वृत्तं ज्ञेयं तथा हरिणीति वा ।। 2a) १०५

यथा–

4जलधररवं श्रुत्वा 5श्रुत्वा मदोच्छ्रयदर्पितो विलिखति महीं 6शृङ्गाक्षेपैर्वृषः प्रतिनर्द्य च ।
स्वयुवतिवृतो गोष्ठाद्गोष्ठं प्रयाति च निर्भयो वृषभललितं चित्रं वृत्तं करोति च शाद्वले ।। १०६

चत्वार्यादौ च दशमं गुरु यत्र त्रयोदशम् ।
चतुर्दशं तथान्त्ये द्वे चैकादशमथापि च ।। १०७

यदा सप्तदशे पादे शेषाणि च लघून्यथ ।
भवन्ति 7यस्मिन्सा ज्ञेया श्रीधरा नामतो यथा ।। १०८

7a(मो भ्नौ च स्युश्चरणरचितास्तौ गुरू च प्रविष्टा–
श्छेदः श्लिष्टो यदि च दशभिः स्यात्तथान्यैश्चतुर्भिः ।

Notes

1 –गतिर्मन्दा चेयं सुतनु तव चेष्टा सुललिता 2 –पीनाभ्यां 2a: N वृषभललितं ज्ञेयं वृत्तं तथा हरिणीति सा । 3 –सदा –ममाभासि दयिते 3a: N यदाभासि दयिते; 4 N–जलदनिनदं 5 – दीप्तस्मरोत्सवलालितो –गर्जन्मदोच्चय – गर्जन्मदोत्सव 6 – दर्पाच्छृङ्गैर्मृगः प्रतिनन्द्या च N –शृङ्गाग्राभ्यां मुहुः 7 –यत्र 7a: N म्मौ न्तौ च स्याद् चरणरचितास्तौ च गौ तु प्रविष्टा । श्चेदः श्लिष्टो यदि च दशभिः स्यात्तथा– न्यैश्चतुर्भिः ।।

अत्यष्टौ च प्रतिनियमिता वर्णतः स्पष्टरूपा सा विज्ञेया द्विजमुनिगणैः श्रीधरा नामतस्तु।।) १०९

स्नानैश्चूर्णैः सुखसुरभिभिर्गन्धवासैश्च धूपैः1 पुष्पैश्चान्यैः2 शिरसि रचितैर्वस्त्रयोगैश्च तैस्तैः।
नानारत्नैः कनकखचितैरङ्गसंभोगसंस्थै— र्व्यक्तं कान्ते 3aकमलनिलया श्रीधरेवातिभासि3।। ११०

आद्यं चतुर्थँ षष्टं च दशमं नैधनं गुरु।
4तद्वंशपत्रपतितं दशाभिः सप्तभिर्यतिः।। १११

यथा—

एष गजोऽद्रिमस्तकतटे 5कलभपरिवृतः क्रीडति वृक्षगुल्मगहने कुसुमभरनते।
मेघरवं निशम्य मुदितः पवनजवसमः6 सुन्दरि वंशपत्रपतितं पुनरपि कुरुते।। ११२

द्वितीयमन्त्यं षष्टं चाप्यष्टमं द्वादशं तथा।
चतुर्दशं पञ्चदशं पादे सप्तदसाक्षरे।। ११३

भवन्ति यत्र दीर्घाणि शेषाणि च लघून्यथ।
विलम्बितगतिः सा तु7 विज्ञेया नामतो यथा।। ११४

(यदा द्विरुदतै हि पादमभिसंश्रितौ ज्सौ त्रकौ तथैव च पुनस्तयोर्निधनमाश्रितो यो लगौ8।

Notes

1 —वाहैः N सधूपैः —गण्डवासैः सुधूपैः —गण्डलेपैः —गन्धलेपेः सुधूपैः N: गन्धवासैः सधूपैः 2 —माल्यैः 3a:N: कमलनिलये 3 N—श्रीधरा त्वं विभासि —श्रीधरेवावभासि 4 —यत्र सप्तदशे पादे वंसपत्राह्वयं तु तत्।। 5 —युवति 6 —पवनजववशात् —प्रतिजगरुवितः 7 —तत्र 8 —ग्लौ सगौ

1aतदाष्टिरतिपूर्विका यतिरपि स्वभावाद्यथा1a विलम्बितगतिस्तदा निगदिता द्विजैर्नामतः ।।) ११५

1विघूर्णितविलोचना पृथुविकीर्णहारा पुनः प्रलम्बरशना चलत्स्खलितपादमन्दक्लमा2 ।
न मे प्रियमिदं जनस्य बहुमानरागेण य– न्मदेन विवशा विलम्बितगतिः कृता त्वं प्रिये ।। ११६

पञ्चादौ पञ्चदशकं द्वादशैकादशे गुरु3 ।
चतुर्दशं तथान्त्ये द्वे चित्रलेखा धृतौ स्मृता4 ।। ११७

यथा–

नानारत्नाढ्यैर्बहुभिरधिकं भूषणैरङ्गसंस्थै– र्नानागन्धाढ्यै4aर्मदनजननैरङ्गरागैश्च हृद्यैः5 ।
केशैः स्नानाढ्यैः6 कुसुमभरितैर्वस्त्ररागैश्च7 तैस्तैः 8कान्ते संक्षेपात् किमिह बहुना चित्रलेखेव9 भासि ।। ११८

अन्त्यं सप्तदशं चैव षोडशं सचतुर्दशम् ।
10त्रयोदशं द्वादशं च षष्ठमष्टममेव च ।। ११९

त्रीण्यादौ च गुरूणि स्युर्यस्मिंस्त्वेकोनविंशके11 ।
पादे लघूनि शेषाणि शार्दूलक्रीडितं तु तत् ।। १२०

(म्सौ ज्सौ तौ गुरु च प्रयोगनियता यस्मिन्निविष्टास्त्रिका

Notes

1 – विघूर्णितविलोचना प्रसृतहारमालाधरा प्रलम्बवसना चलत्स्खलितगात्र पादक्रमा । न मे प्रियमसज्जनेति बहुमानरागेण ते मदेन तु विलम्बितागतिकृता कदाचित्प्रिये ।। 1a: N: यदाष्टि….स्वभावाद्यदा; 2 – क्रमा –मन्दपादक्लमा 3 –धृतौ 4 –चित्रमाला गुरूणि तु –बुधैः स्मृता 4a: N: मदनसदृशैः 5 –विचित्रैः 6 –स्नानार्द्रैः 7 – रचितैर्वक्ररागैश्च 8 –कान्तैः 9 –चित्रमालेव 10 –द्वादशं सानुगं चैव 11 – यस्मिन्स्त्वेकोनविंशके ।

आद्या चान्त्ययतिश्चतुस्त्रिकयुता ज्ञेयापरा सप्तभिः ।

1aनित्यं यत्पदमाश्रिता ह्यतिधृतिर्नित्यं कवीनां प्रियं तज्ज्ञेयं खलु वृत्तजातिनिपुणैः शार्दूलविक्रीडितम् ।।) १२१

यथा–

नानाशस्त्रताघ्नितोमरहताः प्रभ्रष्टसर्वायुधाः 1bनिर्बिन्नोदरपादबाहुवदना1 निर्णाशिताः शत्रवः ।
धैर्योत्साहपराक्रमप्रभृतिभिस्तैस्तैर्विचित्रैर्गुणै– र्वृत्तं ते रिपुघाति भाति समरे शार्दूलव्रिक्रीडितम् ।। १२२

2(तावत्त्वं विजितेन्द्रियः शुभमते सर्वात्मना प्रत्यहं दाने शीलविधौ च योजय मनः स्वर्गापवर्गावहम् ।
यावद् व्याधिजराप्रचण्डनखरो व्यायत्सटाभिर्भृशं मृत्युस्ते न करोति जीवितमृगैः शार्दूलविक्रीडितम् ।।) १२३

चत्वार्यादौ च षष्ठं च सप्तमं सचतुर्दशम् ।
तथा पञ्चदशं चैव षोडशं नैधनं तथा ।। १२४

एतानि च गुरूणि स्युः शेषाणि तु लघून्यथ ।
पादे यत्र 3कृतौ ज्ञेया नाम्ना सुवदना तु सा ।। १२५

(म्रौ भ्नौ य्मौ ल्गौ च सम्यग्यदि च विरचिता पादे क्रमवशात् विच्छेदः सप्तभिः स्यात्पुनरपि च यतिः सप्ताक्षरकृता ।
यद्येषा संश्रिता स्यात्कृतिमपि च पुनः श्लिष्टाक्षरपदा विद्वद्भिर्वृत्तजातौ तत इह गदिता नाम्ना सुवदना ।।) १२६

Notes

1 –वक्रवदना –हस्तवदना 1 a: N: नित्यं यत्समुपाश्रितं; 1b: N: निर्भिन्नोदरवंशवक्त्रवदना 2 –मातृकायामेवायं विद्यते 3 –तु सा ज्ञेया नाम्ना सुवदना यथा ।

यथा–

नेत्रे 1लीलालसान्ते कमलदलनिभे भ्रूचापविनते2 गण्डोष्ठं पीनमध्यं समसहितघनाः स्निग्धाश्च दशनाः ।
3कर्णावंसप्रलम्बौ चिबुकमपि नतं4 घोणा सुरुचिरा 5व्यक्तं त्वं मर्त्यलोके वरतनु विहितास्येका 6सुवदना ।। १२७

चत्वार्यादौ तथा षष्ठं सप्तमं च चतुर्दशम् ।
अष्टादशं सप्तदशं तथा पञ्चदशं पुनः ।। १२८

7अन्त्योपान्त्ये गुरूण्यत्र लघून्यन्यानि सर्वदा ।
एकविंशतिके पादे स्रग्धरा नाम सा यथा ।। १२९

(म्रौ भ्नौ यौ7a यश्च सम्यग्यदि हि विरचिताः स्युस्त्रिकाः पादयोगे वर्णैः पूर्वोपदिष्टैर्यतिरपि च पुनः सप्तभिः सप्तभिः स्यात् ।
वृत्तं सम्यग्यदि स्यात्प्रकृतिमनुगतं तत्त्वविद्भिः प्रदिष्टं विज्ञेयं वृत्तजातौ कविजनदयिता7b स्रग्धरा नामतस्तु ।। १३०

चूताशोकारविन्दैः कुरबकतिलकैः कर्णिकारैः शिरीषैः पुन्नागैः पारिजातैर्बकुलकुवलयैः 8किंशुकैः सातिमुक्तैः ।
एतैर्नानाप्रकारैः कुसुमसुरभिभिर्विप्रकीर्णैश्च तैस्तै– र्वासन्तैः पुष्पवृन्दैर्नरवरवसुधा स्रग्धरेवाद्य भाति9 ।।) १३१

Notes

1 –पर्यन्तताम्रे –नीलालकान्ते 2 N–रुचिरे 3 N–कर्णौ ह्रस्वप्रलम्बौ 4 –चिबुकतटनता 5 –सर्वस्वं 6 –ह्येका 7 –अन्यं च विंशकं चैव गुरुसंज्ञानि यत्र तु 7a: N: यौश्चैव सम्यग् 7b: N: कविजनदयितं स्रग्धरा नाम नाम्ना

चतुर्थमाद्यं षष्ठं च दशमं द्वादशं तथा ।
षोडशाष्टादशे चैव नैधनं च गुरूण्यथ ।। १३२

द्वाविंशत्यक्षरे पादे शेषाणि च लघून्यथ ।
भवन्ति यत्र तज्ज्ञेयं मद्रकं नामतो यथा ।। १३३

(भ्रौ चरणे यदा विनियतौ त्रिकौ क्रमवशादथाकृतिविधौ
न्नौ च ततः परं च रुचिरावनन्तरकृतौ नगावपि पुनः ।

1aतच्च दशाष्टवर्णरचिता चतुर्ष्वपि तथा यतिश्च सततं
मद्रकवृत्तमेव खलु नाट्ययोगकुशलैर्बुधैर्निगदितम् ।।) १३४

उत्प्लुतमेकहस्तचरणं द्वितीयकररेचितं सुविनतं1
वंशमृदङ्गवाद्यमधुरं विचित्रकरणानुगं2 बहुविधम्3 ।
मद्रकमेतदद्य सुभगे4 विदग्धगतिचेष्टितैः सुललितै–
5र्नृत्यसि5a विभ्रमाकुलपदं विविक्तरसभावितं शशिमुखि6 ।। १३५

अन्त्यमेकोनविंशं च सप्तमं सत्रयोदशम् ।
एकादशं सप्तदशं पञ्चमं च गुरूण्यथ ।। १३६

शेषाणि च लघूनि 7aस्युर्विकृत्याश्चरणे बुधैः7 ।
वृत्तं तदद्वललितं विज्ञेयं नामतो यथा ।। १३७

(यदि च नकार आदिरचितः पदे विरचितोन्त एव च लगौ
यदि च जभौ त्रिधा च निहितौ क्रमेण खलु मध्यमावपि तथा ।

Notes

1 –स्येकं सुविततं –सललितं 1a: N: तच्च दशाष्टवर्णविरतं सदैव हि चतुर्षु च विरचितं 2 –करणान्वितं 3 –सुचरितम् 4 –एवमद्यसुभगैः 5 –नित्यसुविभ्रमाकुलपदं वरोरु ललिताङ्गचेष्टितयुतम् 5a: N: र्नुत्तसुविभ्रमाकुलपदं ललितं दसक्रियं समरसा 6 – ललितक्रियं समभवत् । 7 –विकृतौ चरणेषु च । 7a: N: स्युश्चरणे वैकृते यदा वृत्तं तु तदश्वललितं नामतो यथा ।।

यदि च समाश्रितं हि विकृतिं यतिश्च दशभिस्तथैकसहितै– स्तत इह कीर्तितं मुनिगणैर्विशुद्धचरितैस्तदश्वललितम् ।।) १३८

1विविधतुरङ्गनागरथयोधसंकुलमलं बलं समुदितं2 शरशतशक्तिकुन्तपरिधासियष्टिविततं3 बहुप्रहरणम् ।
रिपुशतमुक्तशस्त्ररवभीत4शङ्कितभटं भयाकुलदिशं5 कृतमभिवीक्ष्य6 संयुगमुखे समर्पितगुणं 7त्वयाश्वललितम् ।। १३९

षडादावष्टमं चैव ह्येकादशचतुर्दशे ।
विंशं सप्तदशं चैव त्रयोविंश तथैव च ।। १४०

एतानि च लघूनि स्युः शेषाण्यथ गुरूणि च ।
8चतुर्विंशतिके पादे मेघमालेति सा यथा ।। १४१

(यदि खलु चरणस्थितौ नौ त्रिकौ कृत्तिकाख्यास्तथा8a राः स्युः क्रमाद् भवति यदि यतिस्तथा सप्तभिः 8bसप्तभिस्त्रिष्वतोऽन्या यतिः पञ्च विद्यात्तथा ।

Notes

1 – रथहयनागयौधपुरुषैः सुसंकुलमलं समुद्रितशरा– सनशरपङ्क्तिकुन्तपरिघासियष्टिविवृतं बहुप्रकरणम् । वसुगणमस्यभिन्नहतशत्रुनाशितशिरः प्रमथ्य तरसा(?) कृतमभिवीक्ष्य संयुगमुखे समीक्षितगुणं त्वयाश्वललितम् । 2 –सुविदितं 3 –निशितं 4 –भिन्न 5 –भयानकरसं 6 –अभिगाह्य 7 –तदश्वललितम् 8 –चतुर्विंशाक्षरे । 8a: N: तदा चैव स्युः क्रमाद् 8 b: N: सप्तभिस्त्वक्षरैः ये च रोषाः पृथक् पृथक्

सततमभिनिविष्टदेहा तथा संकृतौ सूरिभिः सर्वदा दृश्यते
तत इह परिभाषिता शास्त्रविद्भिस्त्वियं मेघमाला यथा दण्डकः ।। १४२

पवनबलसमाहृता तीव्रगम्भीरनादा बलाकावलीमेखला1
क्षितिधरसदृशोच्चरूपा2 महानीलधूमाञ्जनाभाम्बुगर्भोद्भवा3 ।
सुरपतिधनुरुज्ज्वलाबद्धकक्ष्या4 तडिद्द्योतसन्नहपट्टोज्वला
गगनतलविसारिणी5 6प्रावृषेण्या दृढं 7मेघमालाधिकं शोभते ।। १४३

आद्यं चैव चतुर्थं च पञ्चमं षष्ठमेव च ।
नवमं दशमं चैव नैधनं च भवेद्गुरु ।। १४४

पञ्चविंशतिके पादे शेषाणि च लघून्यथ ।
8वृत्तज्ञैः सा तु विज्ञेया क्रोञ्चपादीति नामतः ।। १४५

(भ्मौ यदि पादे स्भावपि चेष्टावभिकृतिरपि च हि यदि खलु विहिता
नाश्च समुद्राः स्युर्विनिविष्टा यदि च खलु गुरु भवति निधनगतम् ।
पञ्चभिरादौ छेदमुपेता पुनरपि यतिरिह यदि खलु दशभिः
क्रौञ्चपदेयं वृत्तविधाने सुरगणपितृगणमुनिगणविहिता ।। १४६

Notes

1 – तीव्रनादा बलाकावलीमेखलाशोभिता 2 –शोभिता –भूषिता 3 –ऊर्ध्वरूपा 4 –गर्भोद्वहा –गर्भालसा 5 –शोभा 6 –विचारिणी 7 N–प्रावृषिप्रोन्नता –मेघमालावली 8 –भवन्ति तज्ज्ञैः साज्ञेया क्रौञ्चमालेति नामतः ।

यथा–

यः किल दाक्षं 1विद्रुतसोमं2 क्रतुवरमचमसमपगतकलशं पातितयूपं क्षिप्तचषालं विचयनमसमिध3मपशुकचरुकम् ।
कार्मुकमुक्तेनाशु चकार व्यपगतसुरगण4 पितृगणमिषुणा 5नित्यमसौ ते दैत्यगणारिः प्रदहतु मखमिव रिपुगणमखिलम् ।। १४७

[6या कपिलाक्षी पिङ्गलकेशी कलिरुचिरनुदिनमनुनयकठिना दीर्घतराभिः स्थूलसिराभिः परिवृतवपुरतिशयकुटिलगतिः ।
आयतजङ्घा निम्नकपोला लघुतरकुचयुगपरिगतहृदया सा परिहार्या क्रौञ्चपदा स्त्री ध्रुवमिह निरवधि सुखमभिलषता ।।] १४८

अष्टावादौ गुरूणि स्युस्तथा चैकोनविंशकम् ।
एकविंशं त विज्ञेयं चतुर्विंशं सनैधनम् ।। १४९

7एतानि 7aगुरुसंख्यानि शेषाणि च लघून्यथ ।

Notes

1 – दाक्ष्यं 2 –विद्रुमसोमं 3 –अपशुकमहितम् N: अपशुकमनितं 4–मुनिगणं 5 –सत्वतिमायो दैत्यगणारिस्तव नृप मखमिव दहतु रिपुगणम् । 6 टडढमातृकास्वेवायं श्लोको वर्तते । अयं तु हलायुधेन पैङ्गलवृत्तावुदाहृतः 7 –एतानि गुरुसंज्ञानि पादे षड्विंशकाक्षरे । यत्र नाम्ना तथा ज्ञेयं तद्भुजङ्गविजृम्भितम् ।। 7 a: N: अष्टादशसंख्यानि सप्तमे च सदा यति । अक्षराणि भवेदत्र तदभुजङ्गविजृम्भितम् ।।

षड्विंशत्यक्षरे पादे तद्भुजङ्गविजृम्भितम् ।। १५०

[यस्मिन्मौतोनाः र्सौ नित्यं प्रतिचरण– मथगदितास्त्रिका ह्यनुपूर्वशः षड्विंशत्यामेकोनायां च यदि हि खलु यतिरभिधा चतुर्भिरथाष्टभिः ।
पश्चादन्त्यौ गलौ संयोज्यौ यदि भवति मनुजदयिता समाश्रितमुत्कृतिं नाम्ना वृत्तं लोके ख्यातं कविवदन– विकसनपरं भुजङ्गविजृम्भितम् ।। १५१

यथा–

1रूपोपेतां देवैः सृष्टां समदगज– विलसितगतिं निरीक्ष्य तिलोत्तमां प्रादक्षिण्यात्प्राप्तां द्रष्टुं बहुवदन– मचलनयनं शिरः कृतवान्हरिः2 ।
3दीर्घं निश्वस्यान्तर्गूढं स्तनवदन– जघनरुचिरां निरीक्ष्य तथा पुनः पृष्ठे न्यस्तं देवेन्द्रेण प्रवरमणि– कनकवलयं भुजङ्गविजृम्भितम् ।। १५२

Abh

(रूपोपेतामिति) भुजङ्गविजृम्भितं कृत्वा भगवतो हस्ते न्यस्तम् ।

Notes

1 –रूपेऽनिद्यां 2 –वदननयनसहितं तिरस्कृतवान् हरः – मुदा 3 –ब्रह्मादीर्घं निश्वस्त्यान्तःस्तन ।

[1दण्डकं नाम विज्ञेयमुत्कृतेराधिकाक्षरम् ।
मेघमालादिकं तत्स्यान्नौ चादौ कागुहार्त्रिकाः ।। १५३

यथा–

मुदितजनपदाकुला स्फीतसस्याकरा भूतधात्री भवन्तं समभ्यर्चति2 द्विरदकरविलुप्तहिन्तालतालीवनास्त्वां नमस्यन्ति विन्ध्यादयः पर्वताः ।
स्फुटित3कलशशुक्तिनिर्गीर्णमुक्ता– फलैरूर्मिहस्तैर्नमस्यन्ति वः सागराः मुदितजलचराकुलाः संप्रकीर्णामलाः 4कीर्तियन्तीव कीर्तिं महानिम्नगाः ।।] १५४

एतानि समवृत्तानि मयोक्तानि द्विजोत्तमाः ।
5विषमार्धसमानां तु पुनर्वक्ष्यामि लक्षणम् ।। १५५

यत्र पादास्तु विषमा नानावृत्तसमुद्भवाः ।
ग्रथिताः पादयोगेन तद्वृतं विषमं स्मृतम् ।। १५६

Abh

नानावृत्तसमुद्भवा इत्यनेन तुल्यच्छन्दसां वृत्तानां लक्षणं पृथकपृथक्पादे विरचय्य स्वयं विषमा ऊह्या इत्याह ।

Notes

1 एतौ श्लोकौ प्रक्षिप्तौ टडढ मातृकास्वेवोपलभ्येते । उदाहरणं तु जनाश्रय्यां विद्यते । तद्ग्रन्थकारेण रुद्रस्वामिना कुत उद्धारितमिति निर्णेतुं न शक्यते । अयं दण्डकश्चण्डवृष्टिप्रयोग इति नाम्ना भासते । 2 –समभ्यर्च्यते 3 ‘विमल’ इति जनाश्रय्याम् 4 ‘कीर्तयिष्यन्ति वर्णं’ इति तत्रैव 5 –युग्मौजविषमाणां च संप्रवक्ष्यामि ।

1द्वौ समौ द्वौ च विषमौ वृत्तेऽर्धविषमे तथा ।
सर्वपादैश्च2 विषमैर्वृत्तं विषममुच्यते ।। १५७

3ह्रस्वाद्यमथ दीर्घाद्यं दीर्धं ह्रस्वमथापि वा ।
युग्मौजविषमैः पादैर्वृत्तमर्धसमं भवेत् ।। १५८

पादे सिद्धे समं सिद्धं विषमं सार्वपादिकम् ।
4द्वयोरर्धसमं विद्यादेष छेदस्तु पादशः ।। १५९

5छेदतस्तु मया प्रोक्तं समवृत्तविकल्पनम् ।
त्रिकैर्विषमवृत्तानां प्रवक्ष्यामि लक्षणम् ।। १६०

[6नैधनेऽन्यतरस्यां वै प्रथमे पाद इष्यते ।
द्वितीये चरणे च स्यादित्यनुष्टुप्समासतः ।।] १६१

सौ गौ तु प्रथमे पादे स्रौ ल्गौ चापि द्वितीयके7 ।
8युग्मेऽर्धविषमे पादे ज्ञेया पथ्या तु सा त्रिकैः ।। १६२

यथा–

प्रियदैवतमित्रासि प्रियसंबन्धिबान्धवा ।
प्रियदानरता पथ्या दयिते त्वं प्रियासि मे ।। १६३

Abh

द्वौ समाविति प्रथमतृतीयौ द्वितीयचतुर्थौ । द्वौ विषमाविति प्रथमद्वितीयौ तृतीयचतुर्थौ, वीप्सागर्भमेतत् । द्वाविति सिद्ध इति लक्षिते । सार्वपादिकमिति लक्षणीयमितिशेषः द्वयोरित्यत्रापि । छेद इति पादेषु विभाग इत्यर्थः । (समवृत्तविकल्पनं) समवृत्तेषु विकल्पिता ये चित्राश्छेदाः ते प्रोक्ताः ।

Notes

1 –समावेकान्तरौ पादौ द्वौ द्वावर्धसमौ स्मृतौ 2 –तु 3 –ह्रस्वाद्यं नैधनाद्यं वा 4 –द्वयोश्च पादयोरोज एष च्छेदस्तु वृत्तजः –पादद्वयस्य संसिद्धौ सिद्धमर्धसमं पुनः । 5 –भेदकस्तु –छेदास्तु –छेदे तु – छेदकोऽयं मया प्रोक्तः 6 अयं श्लोकः कादि चान्तेषु च –संज्ञके च न दृश्यते 7 –यत्र तथापरे 8 –एवं युग्मौजयोर्ज्ञेयं पथ्यावृत्ते त्रिकौ यथा ।

म्रौ गौ तु प्रथमे पादे1 य्सौ ल्गौ च द्वितीयके ।
पादै र्भौ ल्गौ तृतीये च चतुर्थें तु तसौ लगौ2 ।। १६४

यथा–

3नैवाचारो न ते मित्रं न संबन्धिगुणाप्रिया ।
सर्वथा सर्वविषमा पथ्या न भवसि प्रिये ।। १६५

4अयुजोर्लक्षणं ह्येतद्विपरीतं तु यत्र च ।
पथ्या हि विपरीता सा विज्ञेया नामतो यथा ।। १६६

कृतेन रमणस्य किं सखि रोषेण तेऽप्यर्थम् ।
5विपरीता न पथ्यासि त्वं जडे केन मोहिता ।। १६७

चतुर्थादक्षराद्यत्र त्रिलघु स्यादयुक्ततः ।
अनष्टुप्चपला* सा तु विज्ञेया नामतो यथा ।। १६८

यथा–

न खल्वस्याः प्रियतमः श्रोतव्यं व्याहृतं सख्या ।
नारदस्य प्रतिकृतिः कथ्यते चपला हीयम्6 ।। १६९

Notes

1 –खलु भवेत्पूर्वं 2 –पथ्यास्तौ ग्लौ चतुर्थके (लक्षणविरुद्धः पाठः) 3 एतदुदाहरणं जादि बान्तेषु न विद्यते । 5 जादि बान्तेषु–युग्मयोः 4 –त्वं जडे केन मोहिता विपरीता न पथ्यासि । 6 भमयोर्विना–श्रूयते विपुला हीयम् । *भमयोर्विना सर्वेष्वादर्शेषु ‘विपुला’ इति पाठः, स तु मतान्तरेण युज्यते । पिङ्गलादयस्तु ‘चपला युजोन्’ इत्याहुः । रुद्रस्वामी “चपला” इति सूत्रयित्वा “अस्मिन्नैव वक्त्रनियमे अयुजोः पादयोरन्त्यात्पूर्वं ककारो भवति चेत् चपला नाम भवति । यथा–भात्यशोकः किसलयः कुसुमस्तबकैरम्यैः । श्रियं हस्ताधरगतां लज्जयन्निव च स्त्रीणाम् ।।” इत्युदाहरणेन विवृतवान् । ईशानदेवोऽपि छन्दः स्तुतौ चपलावक्रस्य “रौक्ममैन्द्रमभिनवं मण्डपं हृद्गतं ध्यायेत् । हैमवप्रं तु परितश्चपलावक्त्रशोभाढ्यम्” इत्याह । सैतवाचार्यमते इयं नकारविपुला । “चपलावक्र्त्रमयुजोः समुद्रान्नगणौ यदि” इति मन्दारमरन्दे च । अत एव भमयोः पाठ एव गृहीतः ।

विपुला तु युजि ज्ञेया लघुत्वात्सप्तमस्य तु ।
सर्वत्र सप्तमस्यैव* केषांचिद्विपुला यथा1 ।। १७०

संक्षिप्ता वज्रवन्मध्ये हेमकुम्भनिभस्तनी ।
विपुलासि प्रिये2 श्रोण्यां पूर्णचन्द्रनिभानने ।। १७१

यथा–

गङ्गेव मेघोपगमे आप्लावितवसुन्धरा ।
कूलवृक्षानारुजन्ती स्रवन्ती विपुलाचलात् ।। १७२

[3आगता मेघसमये भीरु भीरुकुलोद्गते ।
एकरात्रौ परगृहं चोरीबन्धनमर्हसि ।।] १७३

एवं विविधयोगास्तु पथ्यापादा भवन्ति हि ।
युग्मौजविषमैः पादैः शेषैरन्यैस्त्रिकैरथ ।। १७४

4सगुर्वन्तः सर्वलघुस्त्रिको नित्यं हि नेष्यते ।
प्रथमादक्षराद्यत्र चतुर्थात्प्राग्लघुः स्मृतः ।। १७५

पथ्यापादं समास्थाय5 त्रीण्यन्ते तु गुरूण्यथ ।
भवन्ति पादे सततं बुधैस्तद्वक्त्रमुच्यते ।। १७६

यथा–

दन्तक्षताधरं सुभ्रु जागरग्लाननेत्रान्तम्6 ।
7रतिसंभोगखिन्नं ते दर्शनीयतरं वक्त्रम् ।। १७७

Abh

(सगुर्वन्त इति) गुर्वन्तः सः, सर्वलघुः नः त्रिकौ नेष्येते । प्रथमादक्षरादनन्तरः चतुर्थादक्षरादूर्ध्वं तु प्राक्लघुः यकारं तु न प्रयोज्यानि

Notes

1 –विपुलैरनु 2 –कंट्यां सरच्चन्द्र 3 अयं श्लोको भमातृकायामेव वर्तते 4 –गुर्वन्तकः 5 –समान्यत्र 6 –नेत्रं च 7 –प्रागसंभोगः । *सैतवाचार्यादीमां मते रकारतकारभकांरमकारनकारविपुलाः प्रसिद्धाः ।।

[1इत्येषा सर्वविषमा नामतोऽनुष्टबुच्यते ।
तद्विदां मतवैषम्यं त्रिकादक्षरतस्तथा ।।] १७८

पादे षोडशमात्रास्तु गाथांशकविकल्पिताः2 ।
चतुर्भिरंशकैर्ज्ञेया वृत्तज्ञैर्वानवासिका ।। १७९

2aअसंस्थितपदा 3सुविह्वलाङ्गी मदस्खलितचेष्टितैर्मनोज्ञा ।
क्व यास्यसि वरोरु सुरतकाले विषमा किं वानवासिका त्वम् ।। १८०

3aस्जौ स्गौ च प्रथमे पादे तथा चैव तृतीयके ।
केतुमत्यां गणाः प्रोक्ता भ्रौ न्गौ गश्च सदा बुधैः ।। १८१

यथा–

3bस्फुरिताधरं 4चकितनेत्रं रक्तकपोलमम्बुजदलाक्षम् ।
किमिदं रुषापहृतशोभं 5केतुमतीसमं वद मुखं ते ।। १८२

6वक्त्रस्यापरपूर्वस्य चादौ नौ रो लगौ त्रिकाः ।
नजौ जरौ द्वितीये च शेषाग्रं पुनरेव तु7 ।। १८३

(8प्रथमे च तृतीये नौरलौगश्च प्रकीर्तितः ।
गणाश्चापरवक्त्रे तु नजौ जौ द्विचतुर्थयोः ।। ) १८४

यथा–

सुतनु जलपरीतलोचनं जलदनिरुद्धमिवेन्दुमण्डलम् ।
किमिदमपरवक्त्रमेव ते शशिवदनेऽद्य मुखं पराङ्मुखम् ।। १८५

Notes

1 श्लोकोऽयं बमातृकायामेव दृश्यते 2 –यस्या नित्यं भवन्ति हि 2a:N: N reads यथा before the verse; 3 –सविह्वलाङ्गी 3a:N: भ्रौ न्ग्रौ प्रथमे पादे भ्रौ ग्लौ च द्वितीयके 3b: N: विस्फुरिताधरं 4 N–चलितनेत्रं 5 N–केतुमतीमुखाकृतिमुखं 6 –अपरवक्त्रस्यादौ तु म्लौगिति त्रिकं त्रिकम् । नजौ जरौ द्वितीये तु चतुर्थे पुनरेव तु 7 –प्राग्वदेव तु 8 अयं लक्षणश्लोकःजादि बान्तेषु दृश्यते । 8a–N ‘तु’

नौ र्यौ तु प्रथमे पादे न्जौ ज्रौ गश्च तथापरे ।
यत्र तत्पुष्पिताग्रा1a 1bस्याद्यदि शेषं तु पूर्ववत्1 ।। १८६

यथा–

2पवनबलविधूतचारुशाखं प्रमुदितकोकिलकण्ठनादरम्यम् ।
मधुकरपरिगीयमानशब्दं3 वरतनु पश्य वनं सुपुष्पिताग्रम् ।। १८७

स्जौ स्लौ चादौ यथा न्सौ ज्गौ भ्नौ ज्लौ गश्च तथा पुनः ।
स्जौ स्जौ गश्च त्रिका ह्येते उद्गतायाः प्रकीर्तिताः ।। १८८

यथा–

तव रोमराजिरतिभाति सुतनु मदनस्य मञ्जरी ।
नाभिकमलविवरोत्पतिता भ्रमरावलीव कुसुमात्समुद्गता ।। १८९

3aस्जौ स्लौ च ततो न्सौ ज्गौ नौ सौ चेति तृतीयके ।
स्जौ स्जौ गश्च चतुर्थे तु ललिताया गणाः स्मृताः ।। १९०

यथा–

ललिताकुलभ्रमितचारुवसनकरचारुपल्लवा4 ।
5प्रविकासितकमलकान्तिमुखी प्रविभासि देवि 5aसुरतश्रमातुरा ।। १९१

एवमेतानि वृत्तानि समानि विषमाणि च ।

Notes

1 –यथैतावपरौ तथा 1a: N: पादौ तु पुष्पिताग्रेऽस्मिन्; 1b:N: यथैतावपरौ तथा 2 N–पवनरय 3 –शोभं ड N–वृक्षं 3a: N स जौ म्लौ ललितपूर्वेण सौ द्वौ च द्वितीयके । नौ सौ चैव तृतीये तु द्विः स जौ ग चतुर्थके ।। 4 N–वसनकरपल्लवा हि मे । 5 –ललितावलि भ्रमरजासु वदनकरचारुपल्लवा । ललितासुतासुतवदतेऽद्यलोचने वलिता लतेव चलबालपल्लवा । 5a: N: सुतरां श्रमातुरा

नाटकाद्येषु काव्येषु प्रयोक्तव्यानि 1aसूरिभिः ।। १९२

सन्त्यन्यान्यापि वृत्तानि यान्युक्तानीह पिण्डशः1 ।
न च तानि प्रयोज्यानि हतशोभानि तानि हि2 ।। १९३

3यान्यत्र प्रतिषिद्धानि गीतके तानि योजयेत्
4ध्रुवायोगे तु वक्ष्यामि तेषामेव विकल्पनम् ।। १९४

वृत्तलक्षणमेवं तु5 समासेन मयोदितम् ।
अत ऊर्ध्वं प्रवक्ष्यामि ह्यार्याणामपि लक्षणम् ।। १९५

पथ्या च विपुला चैव चपला मुखतोऽपरा ।
जघने चपला चैव आर्याः पञ्च प्रकीर्तिताः5a ।। १९६

[6आसां 7तु संप्रवक्ष्यामि यतिमात्राविकल्पनम् ।
8लक्षणं नियमं चैव विकल्पगुणसंश्रयम् ।। १९७

यतिश्छेदस्तु विज्ञेयश्चतुर्मात्रो गणः स्मृतः ।]
द्वितीयान्त्यौ युजौ पादावयुजौ त्वपरौ9 स्मृतौ ।। १९८

गुरुमध्यविहीनस्तु 9aचतुर्गुणसमन्वितः ।
अयुग्गणो विधातव्यो 9bयुग्गणस्तु यथेप्सितः10 ।। १९९

Abh

ननु हतशोभानीति चेत् कथं प्रयोज्यानीत्याह यान्तत्र प्रतिषिद्धानीति गीतं पाठ्यमानत्वाभावात् न वृत्तगता श्रव्यतापेक्षते केवलं तालयोजनार्थसाम्यमवश्यकर्तव्यमिति मात्राणां वर्णानां नियमस्तत्राश्रीयते ।

Notes

1 –पण्डितैः 1a: N: प्रयोक्तृभि:; 2 N–न शोभां जनयन्ति हि 3 N–यान्यतःपरमत्र स्युर्गीतकैः 4 N–ध्रुवाविधाने व्याख्यास्ये तेषां चैव 5 –एतत्तु 5a: N: पञ्च समासतः 6 यतिमात्राविकल्पस्वरूपोऽयं ग्रन्थभागः कुण्डलीकृतः जादिभान्तेष्वेवदृश्यते । वृत्तिकारेण प्रक्षिप्त इति न पठितः । मसंज्ञितेऽपि वर्तमानत्वात्कीर्तिधरेणाप्ययं पठित इति ज्ञायते । 7 N–चैव प्रवक्ष्यामि 8 N–लक्षणे नियतांश्चैव विकल्पान्गुणसंश्रितान् (–गण) 9 N-शेषौ चेव युजौ स्मृतौ 9a: N: चतुर्भेदसमन्वितः 9b: N: युग्गणः पञ्चधैव तु 10 –युग्गणः पञ्च चैव तु ।

1षष्ठो1a वै द्विविकल्पस्तु नैधनो ह्येकसंस्थितः2 ।
पश्चादर्थे तु षष्ठः स्यादेकमात्रस्तु केवलः3 ।। २००

4aद्विविकल्पस्तु षष्ठो यो4 गुरुमध्यो भवेत्तु सः ।
तथा5 सर्वलघुश्चैव 5aयतिसंज्ञासमाश्रितः ।। २०१

6द्वितीयादिलघुर्ज्ञेयः6a सप्तमे पञ्चमे यतिः7 ।
8प्रथमादिरथान्त्ये8a च पञ्चमे 9वा विधीयते ।। २०२

10aगणेषु त्रिषु 10पादस्य यस्याः पथ्या तु सा भवेत् ।
11अतश्च विपुलान्या तु विज्ञेया यतिलक्षणा11a ।। २०३

11bअयुजः सर्वगुरवो गुरुमध्या गणा युजः ।
12aयस्याः स्युः पादयोगे तु विज्ञेया 12चपला हि सा ।। २०४

13त्रिंशदाद्यस्तु13a विज्ञेयः सप्तविंशति चापरे ।
उभयोरर्धयोर्ज्ञेयो मात्रापिण्डो विभागशः ।। २०५

14त्रिंशत्तस्याश्च यदि स्युरेतानि द्विगुणानि तु ।
15त्रीण्यक्षराणि चान्यानि न्यस्य संख्याविभागशः ।। २०६

एतानि लघुसंज्ञानि निर्दिष्टानि समासतः ।
16सर्वेषां चैवमार्याणामक्षराणां16a यथाक्रमम् ।। २०७

Notes

1 –षष्ठोऽस्य द्विविकल्पः स्यात् 1a: N: षष्ठोऽत्र द्विविकल्पस्तु नैधनावभिकल्पितौ । पश्चार्धे यो गणः षष्ठ एकमात्रः स इष्यते ।। 2 –संश्रितः 3 –यो गणः षष्ठ एकमात्रः स इष्यते 4 –अत्र 4 a: N:द्विविकल्पस्तु यः षष्ठो 5 –सर्वयतिश्चैव यदिसंज्ञां 5a: N यतिश्चैनां समाश्रिताः । 6 –सद्वितीयाद्विलघुनी सप्तमे सप्तमाद्यदि 6a: N: स द्वितीयाद्विलघुनः सप्तमे प्रथमान्तया 7 –सप्तमे वा यतिस्तथा 8 –प्रथमादि तथान्ते च 8a: N: अन्ते च पञ्चगुरुणि प्रथमादेव सा भवेत् । 9 –तु 10 –पादौ तु 10a: N: गणेषु त्रिपु पादे तु यः स्यात् पथ्या तु सा भवेत् ।। 11 अस्य श्लोकस्थाने नबढादिषु–प्रथमे च द्वितीये च सा त्वन्या विपुला मता । (न–प्रथमतृतीयौ पादौ) द्वितीयश्च चतुर्थश्च जकारौ गुरुमध्यगौ । 11a: N: प्रथम तृतीयौ यौ त्वन्यौ विज्ञया विपुला हि सा । 11b: N: द्वितीयस्य चतुर्थस्य जकारो गुरुमध्यमः । 12 –विपुला 12a: N: यस्याः स्यात् पादयोगे तु । विज्ञेया विपुला हि सा ।। 13 अस्य श्लोकास्य पूर्वं जादिबान्तेषु ‘‘पूर्वार्धे….। मुखचपला ।। कार्यौ उत्तमाः ।। इति द्वौ श्लोकौ वर्तेते । पाठस्तु त्रिंशन्मात्रास्तु पूर्वार्धे विंशतिः सप्त चापरे 13 a: N: र्त्रिंशन्मात्रा तु विज्ञेयः 14 N–अधिकानि यानि त्रिंशद्भ्यस्तानि द्विगुणितानि तु 15 – अक्षरत्रययुक्तानि ज्ञेयान्यत्र लघूनि तु 16 –सर्वासां चैवमार्याणामक्षराणि । 16a: N: अक्षराणि ।

अर्धाष्टमगणार्धा च सर्वैवार्या प्रकीर्तिता ।
1aषष्ठश्च द्विविकल्पस्तु नैधने ह्योकसंस्थितः ।। २०८

1bपश्चाद्वा यो गणः षष्ठ एकमात्रः स उच्यते ।
द्विविकल्पस्तु यः षष्ठो गुरुमध्यो भवेत्तु सः ।। २०९

1cयथा सर्वलघुश्चैव यतिसंख्यासमाश्रिता ।
1dसा द्वितीया द्विलघुका सप्तमे प्रथमे यतिः ।। २१०

गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः ।
अयुग्गणो विधातव्यः 1युग्गणस्तु स एव च ।। २११

प्रथमतृतीयौ पादौ द्वादशमात्रौ भवेत्तु सा पथ्या ।
विपुलान्या खलु गदिता पूर्वोदितलक्षणोपेता ।। २१२

पथ्या यथा–

रक्तमृदुपद्मनेत्रा सितदीर्घबहुलमृदुकेशी ।
कस्य तु पृथुमृदुजघना तनुबाह्वंसोदरी पथ्या ।। २१३

Abh

अर्धोऽष्टमो गणः सान्ताः सप्त गणाश्च । चतुर्मात्रा यस्मात्तादृगर्धं यः स्यात् षष्ठो गणो द्विभेदः एकभेदमाह पश्चादर्धे यः षष्ठो गणस्तस्मिन् कर्तव्ये लघुरेकः कर्तव्यस्तस्य स्थान इत्यर्थः । गुरुमध्यो जः सर्वलघुः चतुर्लघुस्तत्र च द्वितीयादाराभ्य लघ्वोर्यतिरर्धे तदनन्तरं पादारम्भः कर्तव्यः, अन्ते च प्रथमादिर्यतिः, पञ्चमे च गणे समाप्ते यतिः । अयुग्गण इति विषयं प्रथमतृतीयपञ्चमसप्तमरूपं । युग्गणः समः स एव चेति जकारस्तत्र न वर्ज्य इति यावत् । अर्धद्वयेऽपि गणत्रये छेदः कर्तव्यः स चैव पाद उच्यते तदाह प्रथमतृतीयौ पादौ द्वादशमात्राविति। प्रथमेऽर्धे गणत्रयं प्रथमः पादः द्वितीयपादे चान्यं गणत्रयं तृतीयपादम् । पथ्येति पथि साघ्वित्यर्थः ।

Notes

1 –प्रमाणश्चैव पञ्चमः । 1a: N: षष्ठोऽत्र, 1b: N: पश्चार्धे यो…..एकमात्र स इष्यते । 1c: N:तथा सर्वलघुश्चैव यतिश्चैनां समाश्रिताः । 1d: N: स द्वितीया द्विलघुनः सप्तमे प्रथमान्तया ।

विपुला यथा–

विपुलजघनवदनस्तननयनैस्ताम्राधरोष्ठकरचरणैः ।
आयतनासागण्डैर्ललाटकर्णैः शुभा कन्या ।। २१४

द्वितीयश्च चतुर्थश्च गुरुमध्यगतो भवेत् ।
उभयोरर्धयोर्यत्र विज्ञेया चपला यथा ।। २१५

उद्भटगामिनी परुषभाषिणी कामचिह्नकृतवेषा ।
जानाति मांसयुक्ता सुराप्रिया सर्वतश्चपला ।। २१६

पूर्वार्धे लक्षणं ह्येतदस्याः सा च मुखेन तु1 ।
2पश्चिमार्धे तु चपला यस्याः सा जघनेन तु ।। २१७

मुखचपला यथा–

आर्यामुखे तु चपला तथापि चार्या न मे यतः सा तु ।
दक्षा गृहकृत्येषु तथा दुःखे भवति दुःखार्ता ।। २१८

जघनचपला यथा–

वरमृगनयने चपलासि वरोरु शशाङ्कदर्पणानिभास्ये ।
कामस्य सारभूते न पूर्वमदचारुजघनेन ।। २१९

उभयोरर्धयोरेतल्लक्षणं दृश्यते यदि3 ।
वृत्तज्ञैः सा तु विज्ञेया सर्वतश्चपला तु सा ।। २२०

कार्यौ द्वादशमात्रौ च पादावाद्यौ तृतीयकौ ।
अष्टादश द्वितीयं च तथा पञ्चदशोत्तमाः ।। २२१

Notes

1 –यस्याः सा चपलामुखे 2 –पश्चिमार्धं भवेद्यत्र जघने चपला तु सा 3 –यत्रैवं लक्षणं भवेत् ।

1चतुःपञ्चप्रकाराणां चतुष्काणां विशेषतः ।
प्रस्तारयोगमासाद्य बाहुल्यं संप्रदर्शयेत् ।। २२२

पञ्चपञ्चाशदन्त्या तु त्रिंशदाद्या तथैव च ।
आर्या त्वक्षरपिण्डेन विज्ञेयात्र प्रयोक्तृभिः ।। २२३

त्रिंशतस्त्वथ वर्णेभ्यो लघुवर्णत्रयं भवेत् ।
शेषाणि गुरुसंख्यानि ह्येवं सर्वत्र निर्दिशेत् ।। २२४

सर्वेषामेव चार्याणामक्षराणां यथाक्रमम् ।
सर्वेषां जातिवृत्तानां पूर्वमुत्तरसंख्यया ।। २२५

विकल्पं गणनां 1aकृत्वा संख्यां पिण्डेन निर्दिशेत् ।
आर्यागीतिरथार्धे च केवलं 1bचाष्टभिर्गणैः ।। २२६

Abh

आर्याणां भेदं दर्शयितुं तत्प्रस्तारमित्याह ।

चतुःपञ्चप्रकाराणां चतुष्काणां विशेषतः ।
प्रस्तारयोगमासाद्य बाहुल्यं संप्रदर्शयेत् ।। इति

अयुक्स्थानगतानां चतुष्प्रकाराश्चतुर्गणाः । समस्थानगताः पञ्चप्रकारास्तेषां यो विशेषः परस्परसंकीर्णतातत्कृतमार्याणां प्रस्तारबाहुल्यं निरूपयेत् । अन्त्या सर्वलघु कार्या पञ्चपञ्चाशदक्षराणि, प्रथमार्धे एकान्न त्रिंशत्, द्वितीये षड्विंशतिः ।

शिशिरतरकिरणपरिकरसकलकलविरचितकपिशकचनिचय ।
समहृदय (तनुविनिहितधरणिधरवरसुत जयजय शिव ।।)

लघुद्वयं द्वितीये षष्ठे स्थाने लघुः तथा च लघुवर्णत्रयमिति । अत्र मात्रावृत्तानां संज्ञाज्ञानार्थमाह । सर्वेषामेवेति । पू्र्वं कृत्वा यो विकल्पसंख्याभेदः तस्योत्तरसंख्यया सह गुणसंहननं कृत्वा यो भवति पिण्डस्तेन संख्यां वदेत् ।

Notes

1 अयं श्लोको भारतीयमातृकासूपलब्धासु कुत्रचिन्न दृश्यते, वृत्तिकारेण पठितत्वान्मूलेऽत्र निवेशितः । 1a: N: गुणयित्वा; 1b: N: त्वष्टभिर्गुणैः

1इतरार्धे तु षष्ठस्तु न लघुर्गण इष्यते ।
वृत्तैरेवं तु विविधैर्नानाछन्दस्समुद्भवैः ।। २२७

काव्यबन्धास्तु कर्तव्याः षट्त्रिंशल्लक्षणान्विताः ।।
इति भारतीये नाट्यशास्त्रे छन्दोविचिति– र्नामाध्यायः पञ्चदशः ।।*

Abh

तत्र समस्तासां पञ्चभेदः विषमश्चतुर्भेदः षष्ठो द्विभेदः द्वितीयेऽर्धे त्वेकभेदः, अष्टममेकभेदम् । तदत्र पूर्वाङ्केनोत्तराङ्कस्य गुणनं तेनान्याङ्कस्य षोडश स्थानानि । संख्यालाभः तत्र चतुर्भिः पञ्चानां गुणेन विंशतिस्तया चतुर्णां गुणेन विंशतिस्तया च गुणानां गुणने विंशतिरित्यादि मन्तव्यम् । तदाह–

आर्याः शतसहस्राणि ज्ञेया ह्येकन्नविंशतिः ।
अष्टौ कोट्यः सहस्राणि विंशतिश्च प्रमाणतः ।।

न लघुरिति । अपि तु प्रथमार्धवदपरार्धेऽपि षष्ठो द्विभेदो गणः आर्यागीतावित्यर्थः ।

अध्यायार्थमुपसंहरन् भाविनं विषयमासूत्रयति वृत्तैरित्यादि । काव्यवन्था इत्यनेनेदमाह यथा प्रासादकुड्यादिके कर्तव्ये प्रथमं भूमिः, तद्वत्काव्ये निर्मातव्ये भूमिकल्पः शब्दच्छन्दोविधिः क्षेत्रपरिग्रहं वृत्तसमाश्रयमित्यादि विरचयन् भित्तिस्थानीयं लक्षणयोजनं चित्रकर्मप्रतिममलङ्कारगुणनिवेशनं गवाक्षवातायनादिदेशीयो दशरूपकविभागः उपयोगनिरूपणाप्रख्या काक्वादिप्लुतिः एवंभूतवाचनिकाभिनयस्वरूपं चतुर्दशादिभिः षड्भिरध्यायैरुच्यते । तत्राध्यायद्वयं वृत्तलक्षणविधानं तु भविष्यति ।

यद्यपि रूपकविरचनकाले परिपक्वप्रज्ञस्य न क्रमप्रतिभासस्तथाप्यपोद्धारधिया कल्प्यत इत्याहुः । प्रबन्धस्य यो युक्तोऽभ्यासः तन्निष्पत्तिः प्रबन्धाभ्यासः तत्संपत्तिः अभिनयार्थनिर्वर्तनं तदभिनयोपारोहणमिति स एव क्रम इत्युपाध्यायाः । यदाहुः –

महाकवीनां पदवीमुपात्तामारुरुक्षताम् ।
नासंस्मृत्य पदस्पर्शान्संपत्सोपानपद्भतिः ।। इत्यादि ।

Notes

1N: इतरार्धे तु षष्ठेऽस्यां द्विविकल्पो भवेद्गणः । *N:इति भारतीये नाट्यशास्त्रे छन्दोविधिर्नाम षोडशः

Abh

क्रमोल्लङ्घने हि सति नाटकादिविरचयतां महान्तः प्रमादापभ्रंशा भवन्ति । न हि सर्वो वाल्मीकिर्व्यासः कालिदासो भट्टेन्दुराजो वा, तेषामपि प्राग्जन्मार्जितक्रमाभ्याससमुदितसंस्कारपाटवोत्पादितः कुलप्रतिभङ्गज्ञानातिशय इति शिवम् ।।

इति पञ्चदशाध्याये ध्यायिना परमेश्वरम् ।
कृताभिनवगुप्तेन गुप्तार्थप्रकटीक्रिया ।।

इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेद– विवृतावभिनवभारत्यां वृत्तविधिर्नाम पञ्चशोऽध्यायः