श्रीः
नाट्यशास्त्रम्
चतुर्दशोऽध्यायः*
यो वागभिनयः 1पूर्वं मया प्रोक्तो द्विजोत्तमाः ।
लक्षणं तस्य वक्ष्यामि स्वरव्यञ्जनसंभवम् ।। १
वाचि 2यत्नस्तु कर्तव्यो नाट्यस्यैषा3 तनुः स्मृता ।
4अङ्गनैपथ्यसत्त्वानि 5वाक्यार्थं व्यञ्जयन्ति हि ।। २
Abh
अथ चतुर्दशोऽध्यायः ।
द्विधास्थितं सद्म सदाविभक्तं विश्वान्पदार्थान्1 समुपाददानम् ।
पाणीन्द्रियं 2संव्यवहारहेतु ( ?हेतुं) यस्येश्वरं तं वरदं नमामः ।।
आङ्गिकाभिनयानन्तरं वाचिकस्य भेद3 नाट्यानुप्राणकतया पूर्वोद्दिष्टाङ्गिकस्य विषयसमर्पणप्राणत्वाच्च वाचिको लक्षणीय इत्येवंभूतामध्यायसङ्गतिं करोति यो वागभिनय इति । वागेवाभिनयः वाचिकाभिनयः । पूर्वमिति षष्ठेऽध्याये 4स निरूप्यते, 5तत्त्वेन चास्याभिधानप्राधान्यात् । अत्र हेतुमाह वाचि यत्नस्तु कर्तव्य इति कविना निर्माणकाले नटेन प्रयोगकाले । कुत इत्याह (नाट्यस्यैषेति) एषा हि तनुर्नाट्यस्य सकलप्रयोगभित्तिभूतत्वेनातोद्य–
Notes
1 ड N–प्रोक्तो मया पूर्वं 2 भ–यत्नो विधातव्यः 3 प–नाट्यस्येयं 4 ड–अङ्गनेपथ्यतत्त्वानि 5 भ–वागर्थम् । 1 ख–विश्वात्पदार्थात् 2 ख–सव्यवहार 3 ख–वाचिकस्येदं 4 ख–तन्निरूप्यते 5 क–तेन ।
- पञ्चदशाध्याय इति जादिबान्तेष्वादर्शेषु दृश्यते N–आदर्शेऽपि । अस्याध्यायस्य पाठोऽपि भिन्नमातृकासु भिन्नक्रम एव, कासुचित्केचिद्भागा अपि लुप्ता, अन्यासु त्वधिका वा पाठविपर्ययो वा विद्यते । उज्जयिन्यादर्शे तु पूर्वर्धमध्यायस्यैकपत्रहीनमष्टादशाध्यायमध्ये वर्तते । तथैव पूर्वं मुद्रितमासीत्काव्यमालायाम् । व्याख्यानानुसारी पाठो गृहीतोऽस्माभिः ।
Abh
गीताभिनयानुग्राहकत्वात् स्वयमभिनयरूपत्वाच्च । प्रदर्शितं चैतदस्माभिरुपाङ्गाभिनयारम्भ एव (अध्या–८ ) ।
1यत्तु कैश्चिदभिधीयते चित्तवृत्तिं प्रति शब्दानां बहिरङ्गत्वं2 तदसत् । तथा हि यदुच्यते व्यतिरेकाभावान्न रसादयः शब्दवाच्या इति, तत्र सर्वैः शब्दैर्व्यतिरेकाभावोऽसिद्धः,3 अभिनयचतुष्टयसामान्यं बहिः सर्वत्र प्रतीतिस्फुटतायां व्याप्रियत इत्यवोचाम सप्तमेऽध्याये ।
अथ शृङ्गारादिशब्दानां4 वाचिकानामभावेऽपि तत्प्रतिपत्तिः ।
परिणतशरकाण्डापाण्डुरा गण्डपाली
हिमसमयनिमीलत्पुण्डरीकायमाणम्5 ।
नयनमधरबिम्बं श्वासविश्रान्तितान्तं
तव सुतनु तनोति प्राणितं मन्मथस्य ।।
इत्यादावयमेव च व्यतिरेकाभावः । तदप्यसत् । एतावतापि हि वृश्चिकादिवत् निमित्तान्तरमपि तत्प्रतीतौ सुवचम् । वृश्चिकोऽन्यो गोमयजोऽन्य एव वृश्चिकप्रभव इति चेदिहापि तत्समानम् । न हि शृङ्गार6शब्दे यादृशी प्रतीतिस्तादृश्येवान्यतः, न च7 न भवति श्रृङ्गारशब्दात्तत्प्रतीतिः शृङ्गारहास्येति (६–१६) श्लोकस्य काकवाशितदेशीयतापत्तेः । यथासंकेतं हि 8शब्दात्प्रवर्तमानात्सिद्धं साध्यं 9चाभिधातुं केन प्रतिहन्यत इति 10साध्यनामकापि ( ?साध्यमानताकापि) (मधुसूदनी, पृ. १३४३) बिभीषिका। किंचेदमपि शृङ्गारायते हसति करुणायते इत्यादि साध्यशब्दशब्दनीयत्वं प्रति किं वक्तव्यं स्यात्, अवश्यं चैतत्, अन्यथा “याते द्वारवतीं” *इत्यादौ
Notes
1 क– यस्तु 2 ख–बहिरङ्गत्वं धर्मः 3 क–भावः सिद्धः 4 क–वाचिकानां 5 क–चञ्चरीकायमाणः 6 क–शब्दे 7 क–तादृश्येवाद्यतना च 8 क–शब्दाः प्रवर्तमानाः 9 क–च तत् 10 ख–साध्यमानता । *याते द्वारवतीं तदा मधुरिपौ तदृ्त्तक(झ) (लोचनतः) म्पानतां कालिन्दीतटरूढवञ्जललतामालिङ्ग्य सोत्कण्ठया तद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ।। मागधान् पराजित्य मथुरातो द्वारवतीं याते कृष्णे तत्प्रत्यागमनप्रत्याशाशून्यया राधयेति प्रकरणमूह्यम् ।
Abh
सोत्कण्ठयेति, उत्कमिति चानुवादो विफल एव स्यात्, तद्रूपास्पर्शे 1तदनुभावसमाकर्षणस्याप्ययोगात् । स्थायिव्यभिचारिणां च भेदप्रतीतौ–
यान्त्या तया वलितकन्धरमानतं(नं) त–
दावृत्तवृन्तशतपत्रनिभं वहन्त्या ।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या
गाढं निखात इव मे हृदये कटाक्षः ।। (मालती १–३२)
इत्यादावनुभावप्रत्ययोऽपि2 दुर्लभीभवेत्, का कथा रसस्य वलितावृत्तदिग्धनिखातादीनां कटाक्षशब्दे जीवभूतानां क्रियासु प्रतिपत्तेरभावात् । †“लीनेव प्रतिबिम्बितेव लिखितेव” इत्यादावेषैव वार्ता ।
‘तथा सहासरभसव्यावृत्तकण्ठग्रहं१" “वपुरलसलसद्बाहु लक्ष्म्याः२ " “कतिचिदहानि वपुरभूत्केवलमलसेक्षणं तस्याः३ " ।।
रम्याणि वीक्ष्य मधुराणि निशम्य शब्दान्
3पर्युत्सकीभवति यत्सुखितोऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं
भावस्थिराणि जननान्तरसौहृदानि ।। शाकु (५–२)
Notes
1 क–तदनुभव 2 क–भाववहोपप्रत्ययोऽपि 3 ख–पर्युत्सुकी । †लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च । सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि– श्चिन्तासन्ततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ।। (माल ५–१०) १ एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतो– रन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोर्गौरवम् । दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो– र्भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहम् ।। (अमरुककाव्ये) २ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा घृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्तयाः । भूयस्तकालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्यं नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ।। (वेण्याम्) ३ आविलपयोधराग्रं लवलीदलपाण्डुराननच्छायम् । कतिचिदहानि वपुरभूत्केवलमलसेक्षणं तस्याः ।। (विक्रमो ५–७)
Abh
“निद्रानिमीलितदृशो मदमन्थरायाः"१ “विवृण्वती शैलसुतापि भावमङ्गैः२” इत्यागिकाव्येषु सहृदयहृदयसागरसमुच्चलद्राकामृगाङ्कप्रतिबिम्बेषु1 जीवितभूतानां हासालस्यौत्सुक्यनिद्रामदाग– माभिलाषागमादीनां 2शब्दास्पृष्टत्वेन विभावानुत्साध्यस्वभावे( ?) 3वीतरागतेव बककाकक्रीडाकल्पनैव स्यात् । सिद्धस्वभावानामेव पदैरभिधीयते, तत्र भवनमिति तदनुभवतीति तत्साध्यस्वभावतेति चेत्, अन्यतरधर्ममुखेन क्रियाख्यस्य धर्मिणो 4द्वाभ्यामपि यथासङ्केतस्पर्शाद् द्वितीय5धर्मास्पर्शस्योभयोरपि तुल्यत्वात् साध्यतार्थं क्रियाया जीवितमिति चेत् धर्मद्वयवति धर्मिणि क एषोऽन्यतरधर्मपक्षपातः, न च सिद्धता धर्मोऽस्या नास्ति तथात्वे वा कदाचिदपि कूलदर्शनं( ?) न स्यात् । भवनमिति 6वारोपितगौणीप्रतिपत्तिः स्यात् ।
सापि 7बलादारोपस्थानस्य चानीतस्यैव केनापि शब्देनास्पृष्टत्वात्, तस्मात्सिद्धाभिधायिना वा शृङ्गारादिशब्देन स्पृश्यत एव तदर्थः । न तु सर्वो8 वक्ता कविरित्यतिप्रसङ्गलक्ष्यमाणप्रबन्धबन्धुरं काव्यनिर्मातृत्वं9 हि कवित्वं न चित्तवृत्तिप्रतिपादकत्वम् ।
यत्तु शृङ्गारादिशब्दाद्यवधिर्न 10प्रतीतिरित्युच्यते तत्र सङ्केत11स्मृतिं उक्त्वा नान्यद्व्यवधानं 12विद्मः विततलक्षणपौर्वापर्यं विपाकोऽयमिति सङ्केत ग्रहणे किं तथा प्रतीतिः । एतेनान्वयाभावः प्रत्युक्तः । विभावादिभ्योऽपि पूर्णकाव्यप्रक्रिया13परिगतमन्तरेण न रसादयः । (यथा)
उद्याने तु स्थितावेतावन्योन्यं ददतौ दृशम् ।
मध्येभुवं लिखन्तौ च प्राप्तसङ्गमसङ्गतौ ।। *इति
तस्मादपूर्णत्वे14 तुल्योऽन्वयाभावः । तासां तु–सिद्ध एव । यत्तूपाध्यायैः काव्यकौतुके रसोद्देशपरश्लोके–इत्यादिनिरूपितं तदुक्तान्यार्थतयैव न गृहीतव्यम् ।
Notes
1 क–प्रतिमेषु 2 ख–शब्दस्पृष्टत्वे तान् विभावान् 3 क–चदीतरगतेव 4 क–बाह्यानामपि 5 क–धर्मस्पर्शस्य 6 क–वारोपिता 7 क–बालाभावेदारोप 8 क–त्वसर्वो 9 ख –निर्माणत्वं 10 क–नाप्रतीतिः 11 क–स्मृतिमुक्त्वा 12 क–विद्यापितत 13 क–परगमं 14 ख–अपूर्वत्वे । १ निद्रानिमीलितदृशो मदमन्थराया नाप्यर्थवन्ति न च यानि निरर्थकानि । अद्यापि मे मृगदृशोर्मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ।। २ विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्बालकदम्बकल्पैः । साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ।। (कुमा ३–६७) *मधुसुदनी –चौरपञ्चाशिका, ३६, उद्भटपद्य
1वाङ्मयानीह शास्त्राणि वाङ्गिष्ठानि तथैव च ।
तस्माद्वाचः परं नास्ति 2वाग्घि सर्वस्य कारणम् ।। ३
3नामाख्यातनिपातोपसर्गतद्धितसमासनिर्वर्त्यः3a ।
सन्धिविभक्तिनियुक्तो4 विज्ञेयो वाचिकाभिनयः5† ।। ४
Abh
नन्वेवं रससूत्रे शब्दोऽप्युपादातव्यः ? तदिदमायातं–उत्सङ्गसङ्गिनि बालके तदन्वेषणमिति । अत्र भावोपादाने हि किं न संगृहीतम् * “यदयमनुभावयति वागङ्गसत्त्वकृत” इति (७–७) । 1आवृत्या च वागित्यत्रैव छेदः । तद्यदि 2 वाग्भवति तदेतान्यर्थं व्यञ्जयन्ति वाक्सहितानि 3स्वार्थं व्यञ्जयन्ति एकतस्त्र्यात्मकतश्च वागिति समासयोगेनाह । सैवेयमुपयोगिनी किंतु चतुर्थगोपायभूता परमपुरुषार्थस्वभावा विश्व4कारणभूता भगवती भारतीत्याह वाङ्मयानीति वाचि फलरूपायां निष्ठा येषाम् । कुत इत्याह वागिति । इह भावानां सत्तासंबन्धनिजलक्षणार्थक्रियाकारित्वादिकृतं यत्सत्त्वं तत्प्रधानकबोधत्वभूतं शपथशरणं, तस्य बोधस्य पारमैश्वर्यं स्वातन्त्र्यं प्रत्यवमर्शात्मक मेव जडवैलक्षण्यदायिति विभक्तमस्मत्परमगुरुपादैः प्रत्यभिज्ञादौ, अस्माभिश्च तद्विवरणे भेदवादविदाराणादौ च । एवं वागेवावभासिका सैव च निर्वाहिकी, अवभासनैव हि परमार्थतो निर्वाणम् । तदाह वाग्घि सर्वस्येति “वागेव विश्वाभुवनानी"ति श्रुतेः शब्दविवर्तादिरूपत्वं च प्रसाधितं तत्रभवद्भिर्भर्तृहरिप्रभृतिभिरिति †तदिहानुसरणीयम्। सर्वाकारत्वे च वाचः इतिवृत्तमपि
Notes
1 भ–वाङ्मयानि तु 2 न–वाग्भिः 3 प–आगमनामाख्यातोपसर्ग ड–नामाख्यातनिपातैरुपसर्गसमासतद्धितैर्युक्तः 3a N– समासनिर्वृतः 4 ड–विभक्तिषु युक्तो प–समेतो 5 ब–वाचिकोऽभिनयः । † आगमनामाख्यातोपसर्गतद्धितनिपातसन्धियुतः । सवचनविभक्त्युपग्रहनिर्वर्त्यो वाचिकाभिनयः ।। इति व्याख्यातृपाठः स्यात् 1 ख–आकृतः 2 क–वा भवति 3 ख–सार्थं 4 ख–करण । *अयं पाठः कादि चान्तेष्वादर्शेष्वेव लभ्यते, तदन्येषु भिन्नतया दृश्यते । † वाक्यपदीये आगमकाण्डे “शब्दस्य परिणामः” इत्यारभ्य षट्सुकारिकासु वाचः सर्वस्वकारणत्वं प्रतिपादितं भर्तृहरिणा स्ववृत्तौ प्रपञ्चितं च ।
द्विविधं हिं1 स्मृतं पाठ्यं संस्कृतं प्राकृतं तथा2 ।
3तयोर्विभागं वक्ष्यामि यथावदनुपूर्वशः ।। ५
व्यञ्जनानि स्वराश्चैव4 सन्धयोऽथ विभक्तयः ।
नामाख्यातोपसर्गाश्च निपातास्तद्धितास्तथा ।। ६
5एतैरङ्गैः समासैश्च 6aनानाधातुगवेक्षितम्6 ।
विज्ञेयं संस्कृतं पाठ्यं प्रयोगं च निबोधत7 ।। ७
Abh
यच्छरीरं नाट्यस्येति (अ– २२–१) यद्वक्ष्यते तन्न विरुद्धं, तस्यापि वाङ्मयत्वादिति तत्रैव निर्णेष्यते ।
तत्र शास्त्रान्तरप्रसिद्धानपि रसाङ्गत्वेन कविशिक्षार्थं नटस्य च तत्र तत्राभिधेये विश्रान्तिकरान् कर्तव्यतयेत्युपदेशार्थमागमानिति निर्दिशति आगमेत्यादि । अर्थद्वारेण रूपसौन्दर्येण चैषामुभयधा च योगः, क्षुभितं मह्यमिदं मे क्षुब्धमिति मन्थेः प्रतीतिः स्यात् । अर्थभेदेऽपि स्वरूपसौन्दर्यं सार्वत्रिकं विषयभेदेन च ‘अस्यन्दिष्यतन्त सिन्धवः’ इति हि कर्तव्ये ‘अस्पन्दिष्यन् सर्वे सिन्धवः’ इति दुर्भणम्, अश्रवं च ‘मक्ष्यं माक्षति वक्षसः क्षतभवान्वेपक्षतं क्लीबितम्’ ( ?) इति–अत्र रौद्रे मोक्ष्यतीति हृद्यम् । अत्र ‘कदा संमार्जिष्यति’ इति लोचने न तु कदा संमार्क्ष्यतीति, एवं वैकल्पिकेऽपि आगमे सौन्दर्यात् , अभावपक्षो1 वा ‘आच्छिद्य प्रियतः*’ इति सुव्यक्तमेव । एकानत् संप्रतीतिनञ्चेति 2धुटोऽसत्वपक्ष एव । आगमेनादेशोऽप्युपलक्ष्यते । मुग्धाशब्दस्थाने न मूढाशब्दः प्रयोगार्हः ।
Notes
1 ब–तु 2 च –यथा 3 न N –अङ्गानि वक्ष्याम्यनयोः 4 ड–स्वरश्चैव 5 भ–तथा समासा इत्येवं ड–एतैरङ्गविधानैस्तु 6 ड–समाश्रयम् न –गवाक्षिकम् भ–समन्वितम् 6a: N नानाधातुगवीक्षितं 7 ड–तद्वक्ष्यामि समासतः. 1 क–लक्षो 2 क–युटो । *आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत् । हृष्यद्भिः परिचुम्बितं नयनयोर्न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथंचन ततः कर्णावतंसीकृतम् ।।
Abh
नाम यथा मदनरिपुरिति भगवत्पर्यायश्चेति तदीयशृङ्गारवर्णने न प्रयोज्यम् । आख्यातमपि यद्वैचित्र्यमावहति, “स्मर सि स्मर मेखलागुणैः” इति वर्तमानप्रत्ययेन 1तत्साक्षात्करणमुपालम्भविषयता, त्वमेवात्र साक्षी अनृतं न प्रकटितं, अन्यथा स्मृतवानिति मेखलागुणैरिति स्यात् । उपसर्गात्प्रकृतार्थयोगिनो यथा–निर्मित इत्यर्थे न मितिः । अधिकद्योतको यथा– “मुहुरुपचितैर्दृष्टिरालुप्यते” †इति । उपसर्गैः कर्मप्रवचनीया अप्युपलक्ष्यन्ते (यथा) “किं स्यादर्जुनतः प्रति” इति, “विचितं नास्तीति” प्रतीतिः पुनरेव स्यात्, अर्जुनकृते विचितमिति । तद्धितप्रत्ययोपलक्षणम् ।
मीमांसते हृदयमात्मन एव बाला नाम्नापि मानकलनां सहते न जातु ।
न तु चित्तं विचारयत्यात्मन एवेति । एवं सुब्धातुप्रत्ययपदं न तल्सु कृत्सु वाच्यं गौरवभयात्तु नोदाहृतम् ।
स्त्रीप्रत्ययो यथा– ‘अध्यासीनः सवैदग्धी’ 2कर्म तया कृती न तु वैदग्धीमिति स्त्रीप्रत्ययेन सौभाग्यातिशयप्रतीतेः ।
तद्धितो यथा– “शात्रवं च पपुर्यशः”‡ इति न तु शत्रूणां चेति, तद्धितवृत्त्या ह्येकार्थीभावान्वयात् तद्ग्रोसीकृतमपि यशस्ते स्वयंग्राहीचक्रुरित्यर्थः । निपातो यथा– “हहा हा देवि धीरा भव”* सूः (आः?) किमत्र किरातैर्यत्र
Notes
1 क–तत्साक्षात्कारेणोपालम्भ 2 क–कर्मनया
- नाम यथा- - - -किरातैर्यत्र not read in ‘N’
- स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् । च्युतकेसरदूषितेक्षणान्यवतंसोत्पलताडनानि वा ।। (कुमा ४–८) † त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया- मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते ते क्रूरस्तस्मिन्नपि च सहते सङ्गमं नौ कृतान्तः ।। (मेघ. उ–४४) ‡ ताम्बूलीनां दलैस्तत्र रचितापानभूमयः । नारिकेरासवं योधाः शात्रवं च पपुर्यशः ।। (रघु ४–४२) ☆ स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना वाताः शीकरिणः पयोदसुहुदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ।।
1अकाराद्याः स्वरा ज्ञेया औकारान्ताश्चतुर्दश ।
2हकारान्तानि कादीनि व्यञ्जनानि विदुर्बुधाः ।। ८
2aअत्र स्वराश्चतुर्दश 3कादीनि व्यञ्जनानि यथा–अआ इई उऊ ऋऋ लृलॄ ए ऐ ओ औ स्वरा ज्ञेयाः । कखग–3a घङचछजझञटठडढणतथदधनपफबभमयरलवशषस- हाः इति व्यञ्जनवर्गाः ।। ९
Abh
वान्ति वर्षानिला विशेषेण निरङ्कुशा इति, ………एकार्थीभावो यत्र सति वृत्तं ……। समासो यथा– “मध्येगङ्गायमुनममु नेति, ( ?)न तु मध्ये गङ्गायमुनयोरिति1 । एवं समासान्तरेषु वाच्यम् । शुद्धेषु सङ्कीर्णेषु चागमादयो 2निवृत्तान्ता विद्यन्ते यत्रेति मत्वर्थीये च ।
सन्धिर्द्विधा नेरनर्त्यं रूपश्लेषश्च –भवतोयेति विपर्ययेण3 नैरन्तर्यं असिद्धता4, तत्रास्थिरा इति रूपश्लेषे बीभत्साश्लीलने । सूत्रं ब्राह्ममिति पृथगपि द्विश्रुति सङ्गः, पदयोः नैकपदवत्ता, ब्रह्मसूत्रमित्यनुस्वानस्योत्तरसंक्रान्तिव्यतिरेकेण 5चात्मनि विश्रावयितुमशक्यत्वादेकपदवद्भावः ।
विभक्तयः सुप्तिङ्वचनानि, तैः कारकशक्तयो लिङाद्युपग्रहाश्चोपलक्ष्यन्ते । यथा “पाण्डिम्नि मग्नं वपु/?/* " इति वपुष्येव 6मज्जनकर्तृकत्वं तदायत्तां पाण्डिम्नश्चाधारतां गदस्थानीयतां द्योतयन्नतीव रञ्जयति, न तु पाण्डुस्वभावं वपुरिति । एवं कारकान्तरेषु वाच्यम् ।
Notes
1 न–अकारादि द– मातृकायां श्लोको न वर्तते 2 भ–ककारादीनिंहान्तानि, 2 a–N तत्र 3 ड–मातृकायां -दृश्यते ‘स्वरा ज्ञेया’ इत्यनन्तरम् । 3a– N: कखगघङा्/?/, चछजझञाः, टठडढणाः, तथदधनाः, पफडबभमाः, शषसहाः-इति not read in N. 1 क–गङ्गारचितनयनयोरिति 2 क–अनिच्छन्ना 3 क–विपर्ययौ 4 क–असिलता 5 क–भस्मनि 6 क–संछन्न *दाहोम्भः प्रसृतिंपचः प्रचयवान् बाष्पप्रणालोचितः श्वासाः कम्पितदीपवर्तिलतिकाः पाण्डिम्नि मग्नं वपुः । किंचान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ।। (विद्ध २–२१)
1अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ।। १०*
अकुहविसर्जनीयाः कण्ठ्याः, इचुयशास्तालव्याः, ऋटुरषा मूर्धन्याः, लृतुलसा दन्त्या; उपूपध्मानीया ओष्ठ्याः; *इत्युपध्मानीयः *इति जिह्वामूलीयः एएो कण्ठतालव्यौ ओ औ कण्ठ्यौष्ठ्यौ, वकारो दन्त्योष्ठ्यः ङञणनमा अनुनासिकाः, विसर्जनीयस्यौरस्य इत्येके । सर्वमुखस्थानमवर्णमित्यपरे ।
द्वौ द्वौ वर्णौ तु वर्गाद्यौ शषसाश्च त्रयोऽपरे ।
2 अघोषा घोषवन्तस्यु ततोऽन्ये परिकीर्तिताः ।। ११
वर्गे वर्गे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ ।
अघोषा इति ये त्वन्ये सघोषाः संप्रकीर्तिताः ।। १२
3एते घोषाघोषाः कण्ठ्यौष्ठ्या दन्त्यजिह्व नासिक्याः4 ।
ऊष्माणस्तालव्या विसर्जनीयाश्च बोद्धव्याः ।। १३
गघङजझञडढणदधनबभमयरलवा मता घोषाः3a ।।
कखचछटठतथपफशषसा इति वर्गेष्वघोषाः स्युः ।। १४
कखगघङाः कण्ठस्थास्तालुथानास्तु चछजझञाः ।
टठडढणा मूर्धन्याः तथदधनाश्चैव दन्तस्थाः ।। १५
Notes
1 भमयोर्विना सर्वासु मातृकासु – 2 न–अघोषवन्तो येचान्ये सघोषाः परिकीर्तिताः छ–अघोषाविति येत्वन्ये सघोषाः संप्रकीर्तिताः 3 न-एषां ड-जिह्व्यनुनासिकाः प-जिह्व्यनुनासिक्याः । 3 a–N गघङा्/?/ जझञाः डढणाः दधनाः बभमाः यरलवाः मता घोषाः । *V.10 and the prose passage upto /?/मित्यपरे not read in N
Abh
वचनं यथा– “पाण्डवा यस्य दासाः” *सर्वे च पृथक्चेत्यर्थः । तथा वैचित्र्येण “त्वं हि रामस्य गाराः” तिङ् यथा कीर्तिस्तव श्वेतेति, न तु श्वेतं यशस्तवेति । उपग्रहः “कुर्वन्ति भुजशालिनो” न तु कुर्वते, भुजशालित्वं लिङ्गम् । “परिमृदितमृणालीकोमलान्यङ्गकानि”†। आसमन्तादिति वैचित्र्यं यथा–“आपातेऽपि विकारकारणमहो वक्राम्बुजन्मा स वः”‡ । नियुज्यते क्रियायामिति धातुः, तस्य वैचित्र्यं (यथा) “1ग्रस्तं कुलान्ते 2जगतः” न तु भुक्तम् । ग्रसिति स्वदनमात्रे परिभाषितेऽपि ग्रासातिशयसंरम्भः कुले तत्र वर्तते, पूर्ववदत्रापि द्वन्द्वान्मत्वर्थीयः । एतदेवोपजीव्यानन्दवर्धनाचार्येणोक्तं ‘सुप्तिङ्वचने’ त्यादि☆ (ध्वन्या. ३/ १६)। अन्यैरपि सुबादिवक्रतेति ।
इत्येवं दशभिरङ्गैरुक्तो कवितावाचिकशब्दनिष्ठो व्यवहारः विभज्य स्थानकरणादिज्ञानं च कवेर्गाढशिथिलमसृणपरुषादिगुम्फविशेषविभागायोपदिष्टं न तस्य च सम्यगुच्चारणापदेशाय वर्गश उपादानं, सावर्ण्येन प्रबन्धसौन्दर्यज्ञानार्थम्, तथा– “3दत्तानन्दो धनिनमनुसर्ता वृतिधन” इत्यादौ । घोष इति अनुप्रदानविशेषः । नासिका तद्व्यापारोऽन्ते यस्य तथाभूतो धर्मोऽनुस्वारः। तत्र घोषबाहुल्याद्गाढता, तथा–
Notes
1 क–त्रस्तं ख –सूत्रं 2 ख–गजतः 3 ख–दर्भानन्दो धसिति ।
- कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः । राजा दुश्शासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्वासते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ।। (वेण्यां) † अलसललितमुग्धान्यध्वसंतापखेदा- दशिथिलपरिरम्भैर्दत्तसंवाहनानि । परिमृदितमृणालीकोमलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ।। (उत्त १–२४) ‡ केलीकन्दलितस्य विभ्रममधो धुर्यं वपुस्ते दृशौ भङ्गीभङ्गुरकामकार्मुकमिदं भ्रूनर्मकर्मक्रमः । आपातेऽपि विकारकारणमहो वक्राम्बुजन्मासवः सत्यं सुन्दरी वेधसस्त्रिजगतीसारं त्वमैकाकृतिः ।। ☆ सुप्तिङ्वचनसंबन्धैस्तथाकारकशक्तिभिः । कृत्तद्धितसमासैश्च द्योत्यो लक्ष्यक्रमः क्वचित् ।। (ध्वन्या ३–१६)
पफबभमास्त्वोष्ठ्याः स्युर्दन्त्या लृलसा 1अहौ च कण्ठस्थौ2 ।
तालव्या इचुयशाः स्युः ऋटुरषा 3मूर्ध्नि स्थिता ज्ञेयाः3a ।। १५
लृलॄदन्त्यौ ओ औ कण्ठोष्ठ्यौ एऐकारौ च कण्ठतालव्यौ ।
4कण्ठ्यो विसर्जनीयो जिह्वामूलोद्भवौ5a कखयोः5 ।। १६
पफयोरोष्ठस्थानो भवेदुकारस्तथा स्वरो विवृतः6 ।
स्पृष्टाः काद्या मान्ताः शषसहकारास्तथा विवृताः ।। १७
अन्तःस्थाः संवृतजा ङञणनमा नासिकोद्भवा ज्ञेयाः ।
ऊष्माणश्च शषसहा यवरलवर्णास्तथैव चान्तःस्था ।। १८
जिह्वामूलीयः कः प उपध्मानीय संज्ञया ज्ञेयः7 ।
कचटतपाः स्वरिताः स्युः खछठथफाः स्युस्तथा कण्ठ्याः8 ।। १९
9कण्ठोरस्यान् विद्यात् 10गजडदबान् पाठ्यसंप्रयोगे तु ।
वेद्यो विसर्जनीयो जिह्वास्थाने11 स्थितो वर्णः ।। २०
एते व्यञ्जनवर्गाः समासतः संज्ञया कथिताः ।
12शब्दप्रयोगविषये स्वरांस्तु भूयः प्रवक्ष्यामि ।। २१
Abh
अङ्गं दधन्निबिडचन्दनमङ्गनानां नैदाघवातसदनं न तु मन्मथस्य ।
अत्राकारतकारावेवाघोषौ । एतदर्थ एव च स्थानादिविभाग उपन्यस्तः । एतत्स्वरत्नक्षणाध्याये (अ–१७) स्फुटयिष्यामः । कपयोरुच्चारणाय ककारपकारौ जिह्वाशब्देन स्थानकरणौ ।
Notes
1 छ–गहौ 2 प–कण्ठोष्ठ्यौ 3 ड–मूर्ध 3a– N: स्थिताश्चैव 4 न-कण्ठ्यौ विसर्जनीयौ जिह्वामूल्योद्भवौ कखयोः 5 ड–कपयोः 5a– N जिह्वामूलोद्भवो कखयोः 6 ढ–स्थानं भवेद्रकारः स्वराविद्धः । 7 ड–ज्ञेयौ न–ज्ञेयाः 8 फ–तथाक्रम्याः 9 द–कण्ठोरस्स्थान् 10 ड– घझढधभान् 11 द–मूल 12 ड–शब्दविषयप्रयोगे ।
1यस्मिन् स्थानेषु समो विज्ञेयो यः सवर्णसंज्ञोऽसौ ।
2य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः ।। २२
पूर्वो ह्रस्वस्तेषां परश्च दीर्घो विधातव्यः3 ।
4इत्थं व्यञ्जनयोगैः स्वरैश्च साख्यातनामपदविहितैः ।। २३
काव्यनिबन्धाश्च स्युर्धातुनिपातोपसर्गैस्तु ।
5उद्दिष्टं शब्दानां लक्षणमेतत्समासयोगेन ।। २४
प्रकरणवशाद्धि तदहं विस्तरतः संप्रवक्ष्यामि ।
तत्प्राहुः सप्तविधं षट्कारकसंयुतं प्रथितसाध्यम् ।। २५
Abh
(सवर्णसंज्ञ इति) ये यत्र तुल्ये तत्सवर्णभूमयः । पुनर्हृस्वदीर्घादि– रूपतया समानसंज्ञाद्भेदेऽप्यनुप्रासादावभेदादव्यञ्जनभेदे (?)……………..स्वरा…………… …………………………भावादेकवचनादि भूतकालयुक्तं नामेति–संबन्धः । करिष्यमाणं क्रियमाणं क्रियाकृतमिति यथाभूतादियुक्तं गमनागमनाभ्यां पूर्वापरीभूताध्य–
Notes
1 इदं श्लोकार्धं कचयोरेव वर्तते ।
[निर्देशसंप्रदानोपादानप्रभृतिसंज्ञाभिः ।
संप्रत्यतीतकालक्रियादिसंयोजितं प्रथितसाध्यम् ।। २६
1वचनं नागतयुक्तं1a सुसदृशसंयोजनविभक्तम् ।
2पञ्चशतधातुयुक्तं पञ्चगुणं पञ्चविधमिदं वापि ।। २७
3स्वाद्याद्यधिकारगुणैरर्थविशेषैर्विभूषितन्यासम्4 ।
प्रातिपदिकार्थलिङ्गैर्युक्तं पञ्चविधमिदं ज्ञेयम् ।। २८
आख्यातं 5पाठ्यकृतं ज्ञेयं 6नानाश्रयविशेषम् ।]
7वंचनं नामसमेतं पुरुषविभक्तं तदाख्यातम् ।। २९
प्रातिपदिकार्थ8युक्ता धात्वर्थानुपसृजन्ति ये स्वार्थे9 ।
उपसर्गा ह्युद्दिष्टास्तस्मात्संस्कारतस्तस्मिन्10 ।। ३०
Abh
क्षापरोक्षभूताभ्यां युक्तमाख्यातं प्रथितः साध्योऽर्थो वाच्यत्वेन यस्य । पुरुषैरुत्तममध्यमप्रथमैर्विभक्तम् । धात्वर्थानुपसृजन्ति उपरागेणान्यादृशान् कुर्वन्ति तेनोपकारेण प्रातिपादिकार्थस्य युक्तसंबन्धेन प्रकरोतीति हि शब्दः । प्रकर्षप्रातिपदिकार्थोपरागेण वा धात्वर्थं विचित्रं करोति यद्वा तु स्वार्थे धात्वर्थानुपसृजन्ति अतः उपसर्गान् प्रातिपदिकार्थे च युक्त्या उपसर्गाः यथा प्राचार्यः प्रान्तेवासी, प्रातिपदिकार्थयुक्त्या वृद्धश्च घटश्च धातुयुक्त्या पचति पठति च पाक(पाठ)योरेव हि समुच्चयशब्दौ युक्तौ अयुक्त्याश्रयात्तु पादपूरणार्थमुच्यते यत्र द्योतनेन विना न खण्डना द्योतनेन च सति वाक्यमलंकृतं भवति । तद्यथा– “मिलति न खलु यस्या” इति खलुशब्दः प्रयासस्याकृतार्थत्वं द्योतयति । तच्च तेनापि विना स्फुटमेव वाक्यार्थत एव लाभात् । “अहरह–
Notes
1 ब–वचनानागत 1a–N वचनागतसंयुक्तं ड–वचनानामिति 2 टठढकचभमादिमातृकासु न वर्तते श्लोकः 3 अयं श्लोकः कादिचान्तेषु नभम संज्ञेषु चन दृश्यते । ढ–स्वाद्यात्यधिकार 3 ड–विभूषिता न्यासाः 5 ड–पाठ्यमिद 6 द–नामाश्रय ड–नानार्थाश्रय प–नामार्थसंश्रय 7 श्लोकार्धं कादिचान्तेष्वेव दृश्यते 8ढ–युक्तं न–यक्ताद् 9 ड–उत्सृजन्ति ये स्वार्थेः द–येऽन्यार्थै 10 ड–संस्कारशास्त्रेऽस्मिन् ।
प्रातिपदिकार्थयोगाद्धातुच्छन्दोनिरुक्तयुक्त्या च ।
यस्मान्निपतन्ति पदे तस्मात्प्रोक्ता निपातास्तु ।। ३१
1प्रत्ययविभागजनिताः प्रकर्षसंयोग2सत्त्ववचनैश्च ।
3यस्मात्पूरयतेऽर्थान् प्रत्यय उक्तस्ततस्तस्मात् ।। ३२
4लोके प्रकृतिप्रत्ययविभागसंयोग5aसत्त्ववचनेषु5 ।
6तांस्तान्6a पूर्यन्तेऽर्था7स्तेषु हि तद्धितस्तस्मात्7a ।। ३३
एकस्य बहूनां वा धातोर्लिङ्गस्य वा पदानां वा ।
8यस्माद्विभजन्त्यर्थान्विभक्तयः कीर्तितास्तस्मात्9 ।। ३४
विशिष्टास्तु स्वरा यत्र व्यञ्जनं वापि योगतः ।
सन्धीयते पदे यस्मात्तस्मात्सन्धिः प्रकीर्तितः ।। ३५
[10aवर्णपदक्रमसिद्धः10 11पदैकयोगाच्च11a वर्णयोगाच्च ।
सन्धीयते 12तु यस्मात्तस्मा12aदुपदिश्यते सन्धिः13 ।। ३६
Abh
रनुरागात्” इति निर्भज्य वचनं द्योतितस्यापि स्फुटीकरणम्, तद्युक्ता । “अहो बतासि स्पृहणीयवीर्यः” प्रातिपदिकार्थानेतैरर्थैरुपनिपतितैर्ज्ञापयति । तद्धितः–तस्मै प्रातिपदिकार्थाय हितस्तत्प्रातिपदिकार्थं च यस्य वा स्वात्मीकुरुते यतः प्रत्ययादिविभागावयवः काव्ये तन्मतं संप्रयोगप्रयोजनमैन्द्रेऽभिहितं, संयोगस्येति संबन्धः । चान्द्री ज्योत्स्ना, सत्त्वं तद्भावः (सूक्तं) सौक्त्यं, वचनं प्रवचनं, काठकमादित्यश्रुत्या, तुर्यपञ्चमाध्यायविहिता निर्देश्यन्ते ।
Notes
1 अयं श्लोकः टठडढनतथप ब–आदर्शेष्वेव दृश्यते 2 न–तत्त्व 3 प–तांस्तान् 4 ड–लोप 5 ड–तत्त्ववचनैस्तु 5 a–N सत्त्ववचनैः; 6 च–ते ते पूर्यन्येर्थाः 6 a–N तांस्तान् पूरयेतार्थाहिता 7 न–अर्थाद् हितो यतः 7 a– N येन तद्धितास्तस्मात् । 8 ड–विभजन्त्यर्थान्विभक्तयस्तेन ते प्रोक्ताः ढ–विभजन्त्यर्थं यस्मिन् 9 न – तेन ताः प्रोक्ताः 10 ब– वर्णक्रमसंसिद्धः 10a– N वर्णक्रमसंसिद्ध ड–वर्णक्रमसंबन्धः 11 ड– पदैकयोगोऽन्य ब–पदैकयोगान्य ढ–पदैकयोगेऽन्य 11 a–N स्वरसंसिद्धपदैकयोगाच्च, 12 ड–च न–हि 12 a–N तस्मात् not read in ‘N'13 सन्धिः समुद्दिष्टः ।
1लुप्तविभक्तिर्नाम्नामेकार्थं संहरत्समासोऽपि ।
2तत्पुरुषादिस्तज्ज्ञैर्निर्दिष्टष्षड्विधो विप्राः ।। ] ३७
एभिः शब्दविधानैर्विस्तार3aव्यञ्जनार्थ3संयुक्तैः ।
पदबन्धाः कर्तव्या 4निबद्धबन्धास्तु चूर्णा वा ।। ३८
5विभक्त्यन्तं पदं ज्ञेयं 6निबद्धं चूर्णमेव च ।
तत्र चूर्णपदस्येह संविबोधत6a लक्षणम् ।। ३९
अनिबद्धपदं छन्दस्तथाचानियताक्षरम्7 ।
8अर्थापेक्ष्यक्षरस्यूतं 9ज्ञेयं चूर्णपदं बुधैः ।। ४०
निबद्धाक्षरसंयुक्तं यतिच्छेदसमन्वितम् ।
निबद्धं तु पदं ज्ञेयं प्रमाणनियतात्मकम्10 ।। ४१
एवं नानार्थसंयुक्तैः 11पादैर्वर्णविभूषितैः ।
Abh
एकस्य पदस्य बहूनां वा पदानां समाप्तिं प्राप्तानाम् । वाशब्दाद् द्वयोरपि येनार्थो विभज्यते विभक्त्याख्यः प्रत्ययः, तेषां च पदानां द्वैविध्यं धातोर्वा संबन्धि यदुत्पन्नं लिङ्गस्य वा अर्थवल्लिङ्गमिति संज्ञायां संबन्धि व्युत्पन्नं यदि वा लिङ्गस्य संबन्धिन्यो विभक्तयः सुपः धातोस्तिडः । पद इत्येकपदे नास्त्यतिसंहितेत्याह । निबद्धो भाविच्छन्दोविधिना बद्धः संघट्टना यथा । पदबन्धा इत्युक्ते पदं निरूपयति तत्रेति परिमितवक्तव्यत्वादित्यत्राशयः । यतिर्विरामः छन्दीऽक्षरसंख्या नियमः अक्षरनियमो गुरुलघुनिवेशनियमः एतद्विहीनं चूर्णपदमर्थशृङ्गारवीराद्यपेक्ष्यक्षराणि परिमितानि भूयांसि वा यत्रेति असमाससंघट्टनात्मकमुक्तमिति । इदं तु केवलं पठनकर्मत्वाद्गद्यमित्यु–
Notes
1 अयं श्लोकः कचदादिषु न वर्तते ढ–लुप्तविभक्तिर्नाम्ना एकार्थान् संहरन्ति संक्षेपात् । 2 ड–तत्पुरुषादिकसंज्ञैः निर्दिष्टः षड्विधः सोऽपि 3 ड–व्यञ्जनत्व 3 a– N विस्तर; 4 ड–वृत्तनिबन्धास्तु 5 भम–चतुर्विधं पदं तच्च 6a– N संन्निबोधत; 6 न–निबन्धम् 7 भ –छन्दो यथेष्टगुरुलाघवम् 8 न –अर्थापेक्षाक्षरपदं 9 ड–युतं 10 ड–नियताक्षरम् 11 भ–पदवर्ण ड– पदैः ।
चतुर्भिस्तु भवेद्युक्तं1 छन्दोवृत्ताभिधानवत्2 ।। ४२
षड्विंशतिः स्मृतान्येभिः3 पादैश्छन्दांसि संख्यया ।
3aसममर्धसमं चैव तथा विषममेव च ।। ४३
छन्दो ज्ञेयं4a समासेन 4त्रिविधं वृत्तमिष्यते ।
नानावृत्तविनिष्पन्ना शब्दस्यैषा तनुः स्मृता5 ।। ४४
छन्दोहीनो न शब्दोऽस्ति न च्छन्दश्शब्दवर्जितम् ।
6एवं तूभयसंयोगो नाट्यस्योद्द्योतकः स्मृतः7 ।। ४५
एकाक्षरं भवेदुक्तमत्युक्तं द्व्यक्षरं भवेत् ।
8मध्यं त्र्यक्षरमित्याहुः प्रतिष्ठा चतुरक्षरा ।। ४६
सुप्रतिष्ठा भवेत्पञ्च षङ्गायत्री भवेदिह9 ।
10सप्ताक्षरा भवेदुष्णिगष्टौ चानुष्टुविष्यते11 ।। ४७
नवाक्षरा तु बृहती पङि्त्तश्चैव दशाक्षरा ।
12एकादशाक्षरा त्रिष्टुब्जगती द्वादशाक्षरा ।। ४८
Abh
च्यते । वर्णा गुरुलघुत्वच्छेदः पादसंख्या सामान्यलक्षणमाह प्रमाणेन श्रोत्रेन्द्रियेण नियत आत्मा यत्र श्रव्यमित्यर्थः । इदं तत्पद्यं पादेषु भवति, गद्यमिति निगदनीयत्वेऽपि विशेषसंज्ञया व्यपदेशः ।
Notes
1 ड–भवेद्वृत्त भ –भवेत्पादैः 2 भ–छन्दोवृत्तसमाश्रयम् न– छन्दोवृत्यभिधानवत् 3 ड–स्मृतानीह न – स्मृतान्यपि 3 a–N समं चार्धसमं चैव, 4 ड– निबद्धं 4 a–N छन्दो युक्तं, 5 म–विनिष्पन्नं शब्दमूलं तु तत्स्मृतम् । न शब्दश्छन्दसां हीनो 6 ड–तस्मात्तूभसंयुक्ते न–उभेतूभयसंयुक्ते म–एवं तूभयसंयोगात् न नाट्यद्योतनं 7 डन–उद्योतके स्मृते 8 म–मध्यमं त्र्यक्षरं प्रोक्तं 9 म–तथैव च 10 म –उष्णिक् सप्ताक्षरकृतात्वष्टाऽनुष्टुप् प्रकीर्तिता 11 ड–उच्यते 12 म–त्रष्टुवेकादशा ज्ञेया ।
त्रयोदशातिजगती शक्वरी तु 1चतुर्दश ।
दशपञ्चातिशक्वर्या2 अष्टिः स्यात् षोडशाक्षरा ।। ४९
3तथा सप्तदशात्यष्टिः धृतिरष्टादशाक्षरा ।
4एकोनविंशातिधृतिः कृतिर्विंशतिरेव च ।। ५०
5प्रकृतिश्चैकविंशत्या 6aद्वाविंशत्याकृतिस्तथा6 ।
7विकृतिः स्यात् त्रयोविंशा 8चतुर्विंशापि संकृतिः ।। ५१
पञ्चविंशत्यभिकृतिः षड्विंशत्यक्षरोत्कृतिः9 ।
अतोऽधिकाक्षरं छन्दो10 मालावृत्तमिति स्मृतम्11 ।। ५२
छन्दसां तु 12तथाह्येते भेदाः प्रस्तारयोगतः ।
असंख्येय13 प्रमाणानि वृत्तान्याहुरतो बुधाः ।। ५३*
Abh
अथ तस्य लक्षणं कर्तुं छन्दःस्वरूपं तावदित्याह एवमित्यादि विविध(वर्ण)भूषणैः सालंकारैः पादैश्चतुर्भिरिति संबन्धः षड्विंशकमिति तावत्परिमाणमेकाक्षरात्प्रभृति षड्विंशत्यक्षराणि तदुक्तादीन्युत्कृत्यन्तानि छन्दांसीत्यर्थः । पादचतुष्टये तुल्यलक्षणं समं, अतुल्यलक्षणं विषमं (अर्धसमं) प्रथमतृतीययोर्द्वितीयचतुर्थयोः । संज्ञाभिश्छन्दोभेदा आश्रिताः ।
कथं ते भेदा इत्याह प्रस्तारयोगत इति प्रस्तारे योगो युक्तिः तेन तत्र युक्तिर्वक्ष्यते–
“प्रकीर्य सर्वं गुरु तत्र पूर्वगुरोरधो लं परपूर्य तत्वम् ।
स्यात्पूर्वपूर्वं गुरुंणेति यावत्सर्वत्र लः प्रस्तरणे तदेव ।।
Notes
1 ब-च 2 ड N–अतिशक्वरी पञ्चदश षोडशाष्टिः प्रकीर्तिता (न–प्रकीर्त्यते) 3 ड–अत्यष्टिः स्यात्सप्तदश 4 द–एकाधिका चातिधृतिः ब–अतिधृत्येकोनविंशा 5 ब–प्रकृतिस्त्वेक 6 a–N द्वाविंशत्याद्यास्तथापरा 6 म–विंशत्या यथाकृतिः 7 विकृतिश्च त्रयो 8 ड–चतुर्विंशा च 9 ड–षड्विंशत्युत्कृतिर्भवेत् म–षड्विंशा चोत्कृतिर्भवेत् 10 ब N–यत्सात् ड–यत्तु 11 ड N –तदिष्यते 12 च N – यथान्येषां ड–छन्दसां च भवेदेषां भेदो नैकविधः पृथक् 13 च–परीमाणा वृत्तसंख्या समाश्रिता ड–असंख्या परिमाणानि ।
- This is V. ५४ (N), equivalent to 12-ड
गायत्रीप्रभृतित्वेषां1 प्रमाणं संप्रवक्ष्यते2 ।
प्रयोगजानि सर्वाणि 3प्रायशो न भवन्ति हि ।। ५४
4वृत्तानि च चतुःषष्टि गायत्र्यां कीर्तितानि तु । (६४)
शतं विंशतिरष्टौ च वृत्तान्युष्णिह्यथोच्यते5 ।। ५५ (१२८)
षट्पञ्चाशच्छते द्वे च वृत्तानामप्यनुष्टुभि6 । (२५६)
शतानि पञ्च वृत्तानां 7बृहत्यां द्वादशैव तु ।। ५६ (५१२)
8पंक्त्यां सहस्रं वृत्तानां चतुर्विंशतिरेव तु9 । (१०२४)
10त्रैष्टभे द्वे सहस्रे च चत्वारिंशत्तथाऽष्ट च ।। ५७ (२०४८)
सहस्राण्यथ चत्वारि नवतिश्च षडुत्तरा ।
जगत्यां 11समवर्णानां वृत्तानामिह सर्वशः ।। ५८ (४०९६)
शतमष्टौ सहस्राणि द्व्यधिका नवतिः पुनः ।
जगत्यामतिपूर्वायां वृत्तानां सर्वशो भवेत्12 ।। ५९ (८१९२)
Abh
एतद्यथा भेदाः । अक्षरस्याष्टौ गायत्रीप्रभृतीनि, तत एवारभ्य प्रयोगार्हतेति सूचयति उक्त्यादीनामश्रवत्वात् । तदाह प्रयोगजानीति 1लक्ष्यतो स्थितानि, अपि तु वेदवद् दृश्यन्त इति भावः । वृत्तानि च चतुः षष्टिरित्यादिना स्वकण्ठेन संख्यां पठति यावत् ।
Notes
1 च–प्रभृतिश्चैषां 2 म–संप्रवर्तते ड–संविधीयते 3 ड–प्रायस्तानि 4 ड N–वृत्तानां हि चतुष्षष्टिर्गायत्री परिकीर्तिता 5 म–उष्णिक्तथैव च ड–उष्णिगथोच्यते 6 ढ–अनुष्टुभः 7 ढ–बृहत्या 8 ड–पङ्क्तेः 9 ड–च 10 ड–त्रिष्टुभो द्वि 11 म–समपादानां 12 ड– परिमाणतः । 1 क–वक्ष्यन्तोऽर्थितामपि तु ।
शतानि त्रीण्यशीतिश्च सहस्राण्यपि1 षोडश ।
वृत्तानि चैव चत्वारि 2शक्वर्याः परिसंख्यया ।। ६० (१६३८४)
3द्वात्रिंशत्तु सहस्राणि सप्तचैव शतानि च ।
अष्टौ षष्टिश्च 4वृत्तानि ह्याश्रयन्त्यतिशक्वरीम् ।। ६१ (३२७६८)
पञ्चषष्टि सहस्राणि सहस्रार्धं 5तु संख्यया ।
षड्विंशच्चैव वृत्तानि 6तथाष्ट्यां गदितानि तु ।। ६२ (६५५३६)
एकत्रिंशत्सहस्राणि वृत्तानां च द्विसप्ततिः ।
तथा शतसहस्रं च7 छन्दस्यत्यष्टिसंज्ञिते ।। ६३ (१३१०७२)
धृत्यामपि हि8 पिण्डेन वृत्तान्याकल्पितानि तु9 ।
10तज्ज्ञैः शतसहस्रे द्वे 11शतमेकं तथैव च ।। ६४
Abh
षट्कोट्यस्तु सहस्राणां शतानि ह्येकसप्ततिः ।
अष्टौ चैव सहस्राणि शतान्यष्टौ तथैव च ।
चतुःषष्टिस्तु वृत्तानि ह्युत्कृतावपि संख्यया ।।
इति (६७१०८८६४) 1प्रमाणम् ।
अभिकृत्यन्तानां संख्यां प्रमाणीकृत्याह तिस्रः कोट्य इत्यादिना । तदङ्कं पूर्वेण पिण्डयित्वा
सर्वसंख्याज्ञानं क्रमवशात् ।
Notes
1 न–अथ 2 न–शक्वार्यां 3 ड–द्वात्रिंशच्च 4 म–वृत्तानां संश्रयन्त्यतिशक्वरीम् 5 म –च 6 म–तथाष्टौ ब–अष्टौ निगदितानि च 7 म–स्यादत्यष्टौ परिसंख्यया 8 ड–च 9 ड N–वृत्तमाकलितं मया 10 द–यथा ड N–तथा 11 म–द्विषष्टि च तथैव हि । सहस्राणि विभागेन चत्वारिंशच्च तानि च । 1 क–पुराणाम् ।
द्विषष्टिश्च1a सहस्राणि चत्वारिंशच्च योगतः1 ।
चत्वारि चैव वृत्तानि समसंख्याश्रयाणि तु ।। ६५ (२६२१४४)
अतिधृत्यां सहस्राणि चतुर्विंशतिरेव च2 ।
तथा शतसहस्राणि पञ्चवृत्तशतद्वयम् ।। ६६
अष्टाशीतिश्च वृत्तानि वृत्तज्ञैः कथितानि तु3 । (५२४२८८)
कृतौ शतसहस्राणि दश प्रोक्तानि संख्यया ।। ६७
चत्वारिंशत्तथाष्टौ च सहस्राणि शतानि च ।
पञ्च षट्सप्ततिश्चैव वृत्तानां परिमाणतः4 ।। ६८ (१०४८५७६)
तथा शतसहस्राणां 5प्रकृतौ विंशतिर्भवेत्6 ।
सप्त वै गदितान्यत्र नवतिश्चैव संख्यया ।। ६९
सहस्राणि शतं चैकं द्विपञ्चाशत्तथैव च ।
वृत्तानि परिमाणेन7 वृत्तज्ञैर्गदितानि तु ।। ७० (२०९७१५२)
8चत्वारिंशत्तथैकं च सहस्राणां शतानि तु ।
तथा चेह सहस्राणि नवतिश्चतुरुत्तरा ।। ७१
Notes
1a– N द्वाषष्टिश्च; द–चत्वारिंशत् प्रयोगतः 2 द–तु 3 ड–च 4 म–प्रविभागशः 5 म–सहस्राणि 6 म–कलितानि तु । विंशतिर्नवतिश्चैव सप्तचैव हि संख्यया 7 म–प्रविभागेन 8 म–बुधैः शतसहस्राणि चत्वारिंशत्ततः परम् । नवतिश्चैव चत्वारि सहस्राणि शतत्रयम् । चत्वारि चैव वृत्तानि कथितान्याकृतौ बुधैः ।।
शतत्रयं समाख्यातं ह्याकृत्यां चतुरुत्तरम् । (४१९४३०४)
1ज्ञेया शतसहस्राणामशीतिस्त्र्यधिका बुधैः ।। ७२
अष्टाशीति सहस्राणि वृत्तानां षट्छतानि च ।
अष्टौ चैव तु वृत्तानि विकृत्यां गदितानि तु ।। ७३(८३८८६०८)
2तथा शतसहस्राणि सप्तषष्टिश्च सप्ततिः ।
सप्त चैव सहस्राणि षोडश द्वे शते तथा ।। ७४
कोटिश्चैवेह वृत्तानि संकृतौ कथितानि वै । (१६७७७२१६)
3तथा शतसहस्राणि पञ्चत्रिंशच्च संख्यया ।। ७५
तिस्रः कोट्यः सहस्राणि चतुष्पञ्चाशदेव च ।
शतानि चत्वारि तथा द्वात्रिंशत्प्रविभागतः ।। ७६
वृत्तान्यभिकृतौ चैव छन्दोज्ञैः कथितानि वै । (३३५५४४३२)
4षट्कोट्यस्तु सहस्राणां शतानि ह्येकसप्ततिः ।। ७७
अष्टौ चैव सहस्राणि शतान्यष्टौ तथैव च ।
चतुष्षष्टिस्तु वृत्तानि ह्यत्कुतावपि संख्यया ।। ७८ (६७१०८८६४)
Notes
1 म–तथाशतसहस्राणामशीतित्रिकसंयुता । अष्टाशीति सहस्राणि षडष्टौ च शतानि च । वृत्तानि विकृतौ छन्दस्युद्दिष्टानीह संख्यया ।। 2 न N– कोटिष्षडधिका नित्यं सप्तसप्ताधिका पुनः । सप्त चैव सहस्राणि वृत्तानां च शतद्वयम् । षोडशोत्तरमाख्यातं संकृत्यां परिमाणतः 3 ब N–कोटित्रयं चाभिकृत्यां पञ्चत्रिंशद्भिरन्वितम् । पञ्चाशद्भिः सहस्रैस्तु चतुर्भिरधिकैस्तथा । चतुष्टयं शतानां च द्वात्रिंशद्भिःसमन्वितम् 4 न N–षट्कोट्यस्तथोत्कृयां लक्षाणामेकसप्ततिः । चतुष्षष्टि शतान्यष्टौ सहस्राण्यष्ट एव तु ।
1उक्ताद्युत्कृतिजातानि वृत्तसंख्याविचक्षणैः ।
एतेन च विकल्पेन वृत्तान्येतानि निर्दिशेत् ।। ७९
सर्वेषां छन्दसामेवं 2वृत्तानि कथितानि वै ।
3तिस्रः कोटयो दश तथा सहस्राणां शतानि तु ।। ८०
चत्वारिंशत्तथा द्वे च सहस्राणि दशैव तु ।
सप्तभिः सहितान्येव सप्त चैव शतानि च ।। ८१ (१३४२१७७२६)
षड्विंशतिरिहान्यानि व्याख्यातानि समासतः ।
समानि गणनायुक्तिमाश्रित्य कथितानि वै ।। ८२
4सर्वेषां छन्दसामेवं त्रिकैर्वृत्तं प्रयोजयेत् ।
ज्ञेया ह्यष्टौ त्रिकास्तत्र संज्ञाभिः स्थानमक्षरम् ।। ८३
त्रीण्यक्षराणि विज्ञेयस्त्रिकोंऽशः परिकल्पितः ।
गुरुलघ्वक्षरकृतः सर्ववृत्तेषु नित्यशः ।। ८४
गुरुपूर्वो भकारः स्यान्मकारस्य4a गुरुत्रयम्5 ।
जकारो गुरुमध्यस्तु6 सकारोऽन्तगुरुस्तथा ।। ८५
Notes
1ड N–सर्वेषां छन्दसां पिण्डं कोटयोऽत्र त्रयोदश । शतानि सप्तसप्तैव सहस्राणि दशैव च । तथा शतसहस्राणां द्विचत्वारिशदत्र हि । षड्विंशतिश्च वृत्तानामित्थं चानन्तमुच्यते (न–मिदं नाट्यं तदुच्यते) 2 ड N–वृत्तांशं कथितं मया ब–वृत्तान्तं कथितं मया 3 म– कोट्यस्त्रयोदश तथा चत्वारिंशद्वयं तथा । ज्ञेयं शतसहस्राणां ततो दश च सप्त च । सहस्राणि ततः सप्तशतानि प्रविभागशः षड्विंशति च वृत्तानि वृत्तसंख्याविचक्षणैः 4 न N–एतेषां तु पुनर्ज्ञेयं त्रिकैर्वृत्तप्रवर्तनम् । N: एकं वापि शतं वापि; एकं वा विशतिं वापि सहस्रं कोटिरेव वा । सर्वेषां छन्दसामेवं वृत्तानां वा द्विजोत्तमाः । ज्ञेयाश्चाष्टौ त्रिकास्तत्र स्वसंज्ञाभिः पृथक्पृथक् 4a: N: मकारस्तु
1लघुमध्यस्तु रेफः स्यात्तकारोऽन्तलघुस्तथा2 ।
लघुपूर्वो यकारस्तु नकारस्तु3 लघुत्रयम् ।। ८६
एते ह्यष्टौ त्रिका 4नाम्ना विज्ञेया4a ब्राह्मसंभवाः ।
लाघवार्थं पुनरमी छन्दोमानमवेक्ष्य5 च ।। ८७
6एभ्यो विनिर्गताश्चान्या जातयोऽथ समादयः ।
7aअस्वराः सस्वराश्चापि7 प्रोच्यन्ते वृत्तलक्षणैः8 ।। ८८
गुर्वेकं 9गू इति विज्ञेयं तथा लघु ल् इति स्मृतम्9a ।
नियतः पदविच्छेदो यतिरित्यभिसंज्ञिता10 ।। ८९
गुरु दीर्घं प्लुतं चैव संयोगपरमेव च ।
सानुस्वारविसर्गं च तथान्त्यं11 च लघु क्वचित् ।। ९०
[ 12गायत्री प्रभृति त्वेषां प्रमाणं संप्रवर्तते ।
प्रयोगजानि पूर्वाणि प्रायशो न भवन्ति हि ।। ९१
13गायत्र्यां द्वौ त्रिकौ ज्ञेयावुष्णिगे14a काक्षराधिका14 ।
अनुष्टुब्द्व्यधिका ज्ञेया15 16बृहत्यां तु त्रिकास्त्रयः ।। ९२
एकाधिकाक्षरा पङिक्तस्त्रिष्टुप्च द्व्यधिकाक्षरा ।
चतुस्त्रिका तु जगती सैकातिजगती ततः17 ।। ९३
शक्वरी द्व्यधिका 18पञ्चत्रिका ज्ञेयातिशक्वरी ।
Notes
1 न N–लघुमध्यस्थितो रेफः N: लघुमध्यस्मृतो रेफः 2 ड–परः 3 न–नकारश्च 4 न–ज्ञेया बोद्धव्या ड–प्राज्ञैर्विज्ञेया 4a: N प्राज्ञैर्बोद्धव्या; 5 द–अपेक्ष्य 6 इदं श्लोकार्धं ब मातृकायामेव वर्तते 7 ड–चैव 7a: N सस्वरा अस्वराश्चापि 8 द–लक्षणम् ड– लक्षणे 9 ब–गिति 9a: N गुर्वेकमिति विज्ञेयं तथा लघुरिति स्मृतम् ।
एकाधिका तथाष्टिश्च द्व्यधिकात्यष्टिरुच्यते ।। ९४
1षट्त्रिका धृतिरुद्दिष्टा ह्यतिपूर्वाधिकाक्षरा2 ।
कृतिश्च द्व्यधिका प्रोक्ता 3प्रकृत्यां सप्त वै त्रिकाः ।। ९५
आकृतिस्त्वधिकैकेन द्व्यधिका विकृतिस्तथा ।
4संकृत्यां 4aतु त्रिका ह्यष्टौ सैका त्वभिकृतिर्भवेत्5 ।। ९६
उत्कृतिद्र्व्यरद्व्यधिका चैव विज्ञेया गणमानतः6 । ]
[ 7गुर्वेकं ग इति प्रोक्तं गुरुणी गाविति स्मृतौ ।। ९७
लघ्वेकं ल इति ज्ञेयं लघुनी लाविति स्मृतौ ।
द्व्यक्षरादधिकौ पादावन्यौ हीनाक्षरावपि ।। ९८
स्वराडिति समाख्याता विराडिति हि सूरिभिः ।
पादो यस्या ऋचश्चैव भवेदेकाधिकाक्षरः ।। ९९
समास्त्वन्ये त्रयः पादाः सा भुरक् संप्रकीर्तिता ।
एकाक्षरोनः पादश्चेदेको यस्या ऋचो भवेत् ।। १००
समाः पादास्त्रयश्चान्ये सा निवृत्संप्रकीर्तिता । ]
[8सम्पदाद्यधुना चैषां छन्दसां सम्यगुच्यते ]।। १०१
9aसम्पद्विरामपादश्च9 देवतास्थानमक्षरम् ।
10वर्णः स्वरा विधिर्वृत्तमिति छन्दोगतो विधिः ।। १०२
Notes
1 ब N षट्त्रिकास्तु धृतिः प्रोक्ता 2 न N – सैका चातिघृतिः स्मृता 3 म N–प्रकृतिः 4 ब–अष्टौ त्रिकाःसंकृतिः स्यात् म– संकृतिस्तु त्रिका ह्यष्टौ 4a:Nअष्टाभिः संस्कृतिः स्याच्चैका वाभिकृतिर्मता ।। 5 न– सैका चातिकृतिर्मता 6 म–विज्ञेया वृत्तदर्शने 7 एते चत्वारःश्लोका भमयोरेव दृश्यन्ते 8 इदं श्लोकार्धं दसंज्ञित एव वर्तते 9 न–पादश्च 9 a: N सम्पद्विरागः पादश्च 10 ढ– वर्णस्वराधिकैः ड–वर्णाः ।
1नैवातिरिक्तं हीनं वा यत्र संपद्यतेऽक्षरम्2 ।
3विधाने छन्दसामेषा संपदित्यभिसंज्ञिता4 ।। १०३
यत्रार्थस्य समाप्तिः 5स्यात्स विराम इति स्मृतः ।
Abh
एकादिकक्रमवशाद् द्विगुणादिपिण्ड्या–
च्छन्दः प्रमाणकलितानथ पिण्डयेत्तान् ।
एकं क्षिपेत्तदुपरीतिसमस्तवृत्त—-
संख्याप्रकाशनविधौ लघुरभ्युपायः ।।
यथा त्र्यक्षरे तत्पिण्डयित्वा एकाक्षेपादेकसंख्यावत् । षड्विंशत्यक्षरे—- “द्व्यांश उक्तक्रमेणेह द्वैगुण्यं यावदुत्कृतेः” ।। इति । एकाक्षरे द्वौ, द्व्यक्षरे चत्वारः, त्र्यक्षरेऽष्टौ, चतुरक्षरे षोडशेत्यादिसंक्षेपः । अनेनैवोपायेन विचार्य ग्रन्थे पाठो निश्चेयः । सर्वेषां वृत्तानामित्यादावर्थः समासेन जयदेवोऽभ्यधात् —- “सर्वादिमध्यान्तग्लौ त्रिकौ म्नौ भ्यौ ज्रौ स्तौ” इति (अ. १—-२) त्रिकैरुपलक्षितेऽपि वृत्ते त्रिकसंख्यानतया छन्दो न पूर्यते, यथोष्णिक् अत्रेकमधिक– मक्षरमधिकत्वेनोक्तं, अनुष्टुभि द्वे, तत्र त्रिकबीजानि गुरुलघुरूपाण्येव कर्तव्यानि । तथा चैकं गुरुलघु वा द्वे गुरुणी लघुनी लघुगुरुणी गुरु लघुनी वा तदाह यदेकमधिकमिति । ग्लावित्यादिश्लोकेन व्याचष्टे नैवातिरिक्तमिति । सम्पदिति स्वराट् विराट् भुरिक् निवृत् श्रुतावेव संभवो न काव्य इति तात्पर्यम् । *
Notes
1 भ–हीनं नैवातिरिक्तं च यत्तु स्यात्पादयोगतः । विधाने छन्दसामस्मिन् सा हि संपदुदाहृता ।
1पादश्च पद्यतेर्धातोश्चतुर्भागः प्रकीर्तितः2 ।। १०४
3अग्न्यादि दैवतं प्रोक्तं स्थानं द्विविधमुच्यते ।
शरीराश्रयसंभूतं4 5दिगाश्रयमथापि वा ।। १०५
6[शारीरं मन्त्रसंभूतं छन्दोगायत्रसंज्ञितम् ।
क्रुष्टे मध्यन्दिनं प्रोक्तं त्रैष्टुभं परिकीर्त्यते ।। १०६
तृतीयसवनं चापि शीर्षण्यं जागतं हि यत् । ]
7ह्रस्रं दीर्घं प्लुतं चैव त्रिविधं चाक्षरं8 स्मृतम् ।। १०७
Abh
एतन्निरूपणं तु उपयुज्यते यत्र वेदवाक्यसदृश वाक्यं निर्णीयते, यथा अभिज्ञानशाकुन्तले । अर्थस्यावान्तररूपस्य समाप्तिर्लक्षणतो यतिः “मीलति सति राज्ञो” यथा “आयान्त्या तुल्यकालं,” *इति, न तु “जम्भारातीभकुम्भोद्भवं” इति उच्छब्दोऽर्थसमाप्त्यभावात् । चतुर्भाग इति पादान्ते छेदः कर्तव्यः, न तु “ताम्बूलवल्लीपरिणद्धपूगास्वेला” † इति । प्रयोगी प्रतिपादमङ्कुरीकृत्य पठन्मध्ये विश्राम्यति । विश्रान्तौ चात्र वृत्तभङ्गोऽर्थभङ्गोऽभिनेयोऽत्र श्राव्य– त्वाद्भट्टशङ्करादिभिरुपगतमेतत् “क्वचिदुपान्त्यो वा” इति । अधिष्टात्री देवता वह्न्यादयः शरीराश्रयेत्यादि । यथोक्तं कात्यायनेन–
Notes
1 च–पादस्य 2 भ–गत्यर्थात्संप्रकीर्तितः ड–इति स्मृतः 3 भ–देवाह्यग्न्यादयः प्रोक्ताः 4 भ–भूतं च 5 भ–ऋक्सामाश्रयमेव च ड– जिह्वाश्रय द–दिशाश्रय 6 सार्धः श्लोको जादिभान्तेष्वेव दृश्यते 7 भ–प्लुतं दीर्घं च ड–ह्रस्वदीर्घप्लुताश्चैव 8 म–ह्यक्षरम् । *गायत्रीप्रभृति जगतीपर्यन्तानां दैवतानि–अग्निः सविता सोमो बृहस्पतिर्मित्रावरुणौ शक्रो विश्वेदेवाः । *जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं रक्ताः सिक्ता इवौधैरुदयगिरितटीधातुधाराद्रवस्य । आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ।। † ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु । तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ।। (रघु–६ –६४)
*श्वेतादयस्तथा वर्णा विज्ञेयाश्छन्दसामिह ।
तारश्वैव हि मन्द्रश्च 1aमध्यमश्च त्रिधा स्वरः1 ।। १०८
ध्रुवाविधाने चैवास्य2 संप्रवक्ष्यामि लक्षणम् ।
विधिर्गणकृतश्चैव तथा चार्थकृतोऽपि च3 ।। १०९
[वृत्तमर्धसमं चैव समं विषममेव च4 ।
छन्दसो यस्य पादे5 स्याद्धीनं वाधिकमेव वा ।। ११०
6अक्षरं तन्निवृत्प्रोक्तं भुरुक्चेति द्विजातिभिः7 ।
अक्षराभ्यां 8यदा द्वाभ्यामधिकं हीनमेव वा ।। १११
तच्छन्दो 9नामतो ज्ञेयं 10स्वराडथ विराडपि । ]
सर्वेषामेव वृत्तानां तज्ज्ञैर्ज्ञेया गणास्त्रिकाः ।। ११२
Abh
वीरस्य भुजदण्डानां वर्णने स्रग्धरा भवेत् ।
नायिकावर्णने कार्यं वसन्ततिलकादिकम् ।।
शार्दूललीला प्राच्येषु मन्दाक्रान्ता च दक्षिणे ।। इत्यादि ।
प्लुतस्याप्यत्र प्रयोगो भवेत्येव । यथा–“यतोऽभिमानेन स एष मूढो द्रोणारिरे याति पदेविलग्नो( ?)"*स तु पाठो दीर्घवत्पठितव्यः प्रयोक्ता त्रिमात्र एव । श्वेतादय इति प्रातिशाख्यादौ छन्दांसि (छन्दसि ?) विविधवर्णं1 (वर्णः ?) कृतं (कृतः ?) तदनुपयोगान्नास्माभिर्लिखितम् । भगवते कृत इति केचिद्दोधकतोटकादीनां गीयमानतया शोभातिशयो भवति श्लोकः,
Notes
*गायत्री प्रभृतिजगतीपर्यन्तानां छन्दसां–सितसारङ्गपिशङ्गकृष्णनीललोहितगौरा वर्णाः । 1 ड–मध्यश्च त्रिविधः स्वरः ड–स्मृतः भ–द्विविधः स्वर उच्यते 1a– N: मध्यश्च त्रिविधः स्मृत्तः 2 भ–चैतेषां 3 म–कालकृतश्चापि तथा चौवार्थतो भवेत् 4 ड–विषमं सममेव वा 5 म–पादः 6 ड–वृत्तं निवृदिति प्रोक्तं 7 भ–द्विजोत्तमाः 8 ड– सदा 9 न–नाम तत् 10 ड–स्वराडिति । 1 क–वर्णनम् । *यतोऽभिमानेन–मधुसूदनी; यतोऽपि मानेन–Kavi and द्रोणारिरे याति पदे विलग्नः– मधूसूदनी; /?/पद्यत्रिलग्नो( ?) Kavi
दिव्यो दिव्येतरश्चैव दिव्यमानुष एव च ।
गायत्र्यष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ।। ११३
त्रिष्टुप्च जगती चैव 1दिव्योऽयं प्रथमो गणः ।
2तथातिजगती चैव शक्वरी ह्यातिशक्वरी ।। ११४
अष्टिरत्यष्टिरपि च धृतिश्चातिधृतिर्गणः ।
कृतिश्च प्रकृतिश्चैव ह्याकृतिर्विकृतिस्तथा ।। ११५
संकृत्यभिकृती चैव ह्युत्कृतिर्दिव्यमानुषः ।
3एतेषां छन्दसां भूयः प्रस्तारविधिसंश्रयम् ।। ११६
लक्षणं संप्रवक्ष्यामि नष्टमुद्दिष्टमेव च4 ।
प्रस्तारोऽक्षरनिर्दिष्टः मात्रोक्तश्च तथैव हि5 ।। ११७
Abh
स्रग्धरादीनां तु पाठेन । इति शब्देन प्रकारार्थेन व्याचष्टे दिव्य इति । प्रथम इति स्तोत्रशास्त्रेषु सप्तानामेव छन्दसां बाहुल्येन दर्शनात् । देवस्तुत्यादौ देवेषु वक्तृष्वयं गण इत्यर्थः । गण इति द्वितीयो दिव्यनिवृत्तौ गण इत्यर्थः तेन मानुषेषु वक्तृष्वयं प्रायेण। तृतीयस्तु दिव्यमानुषेषु च रामादिषु नरपतिषु च ।
प्रस्तारस्तत्र संख्यादि सर्वमिति संश्रयशब्देनाह, तद्गणसंविज्ञानाच्च प्रस्तारोऽप्युच्यते । प्रस्तरणं विताननम् । लक्षणमङ्कसंख्येत्यर्थः । गतं नष्टमिति स्वरूपेणैव न ज्ञातं, उद्दिष्टं तु स्वरूपेण ज्ञातं न संख्यया । तज्ज्ञानोपायेन नष्टादयः 1शुद्धाः (सिद्धाः ?)।
Notes
1 भ–दिव्यस्तु 2 भ –मानुषश्चातिजगती शक्वरी चाति 3 ड N–एवं तु छन्दसामेषां (तां–N) 4 ड N –नष्टोद्दिष्टं तथैव च 5 ब–समानोक्तं तथैव च न N– समात्रोक्तस्तथैव च द–समाः प्रोक्तास्तथैव च । 1 ख–शब्दाः ।
द्विकौ ग्लाविति वर्णोक्तौ मिश्रौ चेत्यपि मात्रिकौ ।
2गुरोरधस्तादाद्यस्य प्रस्तारे लघु विन्यसेत् ।। ११८
अग्रतस्तु समादेया गुरवः पृष्ठतस्तथा ।
प्रथमं गुरुभिर्वर्णैर्लघुभिस्त्ववसानजम् ।। ११९
वृत्तं तु सर्वच्छन्दस्सु3 प्रस्तारविधिरेव तु ।
गुर्वधस्ताल्लघुं न्यस्य ततो द्विद्वि यथोदितम् ।। १२०
न्यस्येत्प्रस्तारमार्गोऽयमक्षरोक्तस्तु नित्यशः ।
मात्रासंख्याविनिर्दिष्टो गणो मात्राविकल्पितः ।। १२१
मिश्रौ ग्लाविति विज्ञेयो पृथग्लक्ष्यविभागतः4 ।
5मात्रागणो गुरुश्चैव 6लघुनी चैव लक्षितः7 ।। १२२
Abh
तत्र वर्णगतो मात्रागतश्चेति प्रस्तारो द्विधा तमुदाहरति । द्विकौ ग्लाविति वर्णसंख्यादिनियमेन यौ गुरुलघू । द्विकौ संख्यापरिमाणौ तौ मात्रिकौ मात्रागणनेषूक्तौ । अन्येनाधिकृतत्वादेकेन भेदेन मिश्रौ भवतः ।
अत्र प्रस्तारेऽप्युपायमाह गुर्वधस्तादिति । आद्यस्यैव गुरोरधो लघुः सर्वोन्यसनीयः । यत्र द्वौ भागौ मिश्रौ विषमसंख्यायां तदा द्विरिति भूयो भूयो मात्राप्रस्तारो निरूप्यते । मात्रापरिकल्पतो यस्त्रिमात्रचतुर्मात्रादिः समूहो गणमात्रसंख्याया लघ्वक्षरसंख्यया तत्र प्रथमं प्रस्तार इत्याह पृथग्लक्षणीयोऽपि भागोऽत्र संख्यायास्तत्र गुरुः सर्वतो न्यसनीयः । यत्र तु द्वौ भागौ मिश्रौ, विषमसंख्यायां तत्राद्यो लघुरन्यो गुरुः शेषं वर्णप्रस्तारेण तुल्यम् । केवलमात्रासंख्येति वचनाद्गुमनान्यासे पूर्वत्र मात्रा देया । यत्र वर्णप्रस्तारः विषममात्राप्रस्तारेऽप्युदाहृत एव । द्वितीयस्तु तदाह गुरुरिति जातावेकवचनं गुरू इत्यर्थः । लघुनी चकाराद्गुरू तथाशब्दादन्यद्भेदत्रयं,
Notes
1 ब–मातृका 2 द्वौ श्लोकौ चभयोर्न दृश्यते 3 ब–छन्दस्य 4 भ–विभागशः 5 भ–मात्रे द्वे गुरु विज्ञेयं लघ्वेका तु प्रकीर्तिता 6 प–लघुनीति च 7 प–विलक्षितैः ।
आर्याणां 1तु चतुर्मात्राप्रस्तारः परिकल्पितः ।
2गीतकप्रभृतीनां तु पञ्चमात्र3aस्तथेष्यते3 ।। १२२
वैतालीयं पुरस्कृत्य षण्मात्राद्यास्तथैव च ।
4त्र्यक्षरास्तु4a त्रिका ज्ञेया लघुगुर्वक्षरान्विताः5 ।। १२३
मात्रागणविभागस्तु गुरुलघ्वक्षराश्रयः ।
6अन्त्याद् द्विगुणिताद्रूपाद् 7द्विद्विरेकं गुरोर्हरेत्8 ।। १२४
द्विगुणं च लघोः कृत्वा संख्यां पिण्डेन निर्दिशेत्9 ।
आद्यं सर्वगुरु ज्ञेयं वृत्तं तु समसंज्ञितम्10 ।। १२५
11कोशं तु सर्वलघ्वन्तं मिश्रैः शेषाणि सर्वतः ।
वृत्तानां तु समानानां संख्यां संयोज्य तावतीम् ।। १२६
राश्यूनामार्धविषमां समासादभिनिर्दिशेत्12 ।
Abh
चतुर्मात्रा आर्याणां प्रस्तारे गणभेदः पञ्चदश इत्यर्थः, पञ्चमात्रोऽष्टधा, एवं षष्ठोऽत्र प्रस्तार्यातीत इति वर्णवृत्तेष्वेव च कृत इत्यर्थः । अन्यत्र तु मात्राकृतो गणविभागः तदपेक्षया गुरुलघुव्यवस्थानात् ( ?न्न)स्वातन्त्र्येण ।
तत्रोद्दिष्टमाह द्विगुणितादिति वर्णवृत्तेष्वेव चेदं सर्वं मन्तव्यम् । भेदं पश्यैकमेकमङ्कं द्विगुणितं च दत्वा द्विद्विरिति भूयो द्विगुणितादपि द्विगुणितं कृत्वान्त्यं परिसमाप्य गुरु संबन्धिनोऽङ्कान् हरेत पुंसयेत् (प्रस्तरेत?) । लघोः संबन्धिनोऽङ्कान् पिण्डीकृत्य तेन पिण्डेनातिक्रान्तेनैतावदयं भेद इति संख्यां निर्दिशेत्, यथा चतुरक्षरस्येदृशं क्रियाभेदं यच्च लघ्वङ्कगणनातिक्रान्तौ ।
Notes
1 न–स चतुर्मात्रः प्रस्तारे म–स चतुर्मात्रः प्रस्तारे गण इष्यते 2 भ–गीतिका 3 ड–पञ्चमात्रो गणः स्मृतः 3a: N पञ्चमात्राथ इष्यते; 4 न–त्र्यक्षरस्तु 4a: N द्व्यक्षरास्तु 5 न–आश्रयाः 6 भ–आद्यात् 7 भ–उर्ध्वं 8 ड–भवेत् 9 ड–योजयेत् 10 ड–संश्रितम् 11 ड–कोशे भ–लघ्वन्तमपि चैवं तु कोशस्थस्य हि संख्यया 12 भ –समासादपि निर्दिशेत् ड–समासादिति निर्दिशेत् ।
1समानां विषमाणां च संगुणय्य तथा स्फुटम्2 ।। १२७
राश्यूनमभिजानीया3द्विषमाणां समासतः ।
एकादिकां तथा संख्यां छन्दसो विनिवेश्य तु4 ।। १२८
यावत्पूर्वं तु पूर्वेण पूरयेदुत्तरं गणम्5 ।
6aएवं 6कृत्वा तु सर्वेषां परेषां पूर्वपूरणम्7 ।। १२९
8नैधनादेकमेकं तु प्रातिलोम्यक्रियात्मकम्9 ।
सर्वेषां छन्दसां न्यस्य10 लघ्वक्षरविनिश्चयम् ।। १३०
जानीत समवृत्तानां संख्यां संक्षोपतस्तथा11 ।
Abh
अथैकादिलघुज्ञानार्थं पीठं रचयति आद्यं सर्वगुर्वित्यादि । कोश इत्याद्यन्तयोर्मध्यगो भेदगणः । सोऽस्य लघोः संख्यया निश्चयं कुर्यात् । तद्यथा चतुरक्षरौ प्रथमान्तौ सर्वगुरुः सर्वलघुश्च, एकद्वित्रिलघवस्तु चतुः षट्चतुः प्रकाराः संक्षेपत इति एतदङ्कव्यामिश्रणेन संख्या लभ्यते षोडशभेदाश्चतुरश्चतुरश्चेति ।
संख्यास्थान उपायान्तरमाह एकादिकामिति । छन्दोऽक्षरोपरि एकद्विचत्वारीत्यदीनि निक्षिपेत् । तत्र पूर्वेणोत्तरस्य पूर्वेण मिश्रणं कुर्यात् यावत्पर्यन्तं गणपिण्डस्तां चैकादिकामैकेन मिश्रितं कुर्यादित्येवं समवृत्तानां संख्या । लघूनामित्थं षोडशाभिर्गुणयेत् । ततो गुणराशेः षोढशसंख्यामवपातयेत् । तेन चतुरक्षरे विंशत्यधिकं शतमर्धसमवृत्तानां तामपि संख्यां गुणयित्वा गुणराशिं पातयेत् । तेन च सहस्राणीति शतान्यशीतिश्चेति चतुरक्षरे विषमवृत्तानि ।
Notes
1 न N–समार्ध भ–तां चार्धविषमाणां तु 2 न N–संख्यां कृत्वा तु तावतीम् ढ–संख्यां संयोज्य तावतीम् 3 न–अभिजानीत ढ–अभिजानीते 4 ड–च 5 द N–तावतोऽन्तरम् 6 ड–कुर्यात्तु सर्वेषां 6a: N: एवं कुर्यात्तु पूर्वेषां 7 ड–पूर्वपूर्वज्ञस्य पूरणम् 8 ड–क्रमान्नैधनं N: /?/नैकधनं तु 9 भ–प्रतिलोम क्रियान्वितम् ड N– प्रतिलोमं विसर्जयेत् (न–विवर्जयेत् ) 10 ड–वक्ष्ये न–एवं 11 द N–संख्या चाङ्गं समासतः भ– व्याससंक्षेपतस्तथा ।
1वृत्तार्धपरिमाणं तु छित्वार्धेन यथाक्रमम् ।। १३१
न्यसेल्लघु तथा सैकमक्षरं गुरु चाप्यथ2 ।
एवं विन्यस्य वृत्तानां नष्टोद्दिष्टविभागतः ।। १३२
3लघ्वादीनि गुरूण्यस्मिन्नक्षराणि निवेशयेत् ।
[4इति छन्दांसि यानीह मयोक्तानि द्विजोत्तमाः ।। १३३
वृत्तान्येतेषु5 नाट्येऽस्मिन् प्रयोज्यानि निबोधत ।।]
इति भारतीये नाट्यशास्त्रे वाचिकाभिनये
छन्दोविधानं नाम चतुर्दशोऽध्यायः6 ।। *
Abh
अथ नष्टमाह वृत्तार्धपरिमाणं त्विति संख्यामर्धेन छिन्द्यात् यत्र विषमाङ्कं न पूर्यते तत्र पूरणार्थमेकमधिकं कुर्यात् । तदाह यथाक्रममिति । तत्र गुरुः । सैक1 करणात्प्रयत्नगौरवाल्लघुरन्यथा 2च्छेदनात् । एवं पुनः पुनर्यावदक्षराणि पूर्णानि यथावच्चतुरक्षरे पञ्चमो भेदः कीदृगिति –पूर्वं पञ्चाङ्कस्य सैकच्छेदात् गुरु, पुनरपि त्र्यङ्कस्य सैकच्छेदात् गुरु, द्वयोश्च समच्छेदाल्लघु एकस्य सैकच्छेदाद्गुरु, एतेनेदृशः पञ्चमो भेदः ।
एतदुपसंहरन्नध्यायान्तरमासूत्रयति एवमिति । व्याकृतेन विभागेन लघुप्रधानानि वा लक्ष्ये निवेशयेत् कविरुपबध्नीयादिति शिवम् ।।
पार्वतीवदनाम्भोजभृङ्गनेत्रत्रयीभुवः ।
दासोऽभिनवगुप्ताख्यश्छन्दोध्यायमपप्रथत् ।।
इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायामभिनव– भारत्यां नाट्यवेदविवृतौ3 छन्दोऽध्यायश् चतुर्दशः समाप्तिमगमत्
Notes
1 भ–वृत्ताख्या द N–वृत्ताक्षरनिर्मांण ड–वृत्ताङ्ग 2 ड N–छित्वार्धेन गुरुं न्यसेत् 3 ड N–गुरुलघ्वक्षरानिह सर्वं छन्दस्सु दर्शयेत् (न N –प्राग्वत्संख्या विनिर्दिशेत्) 4 ब–छन्दांस्येतान्यथोक्तानि मयैवं तु द्विजोत्तमाः 5 न–एतानि 6 जादिबान्तेषु पञ्चदशोऽध्यायः द–श्लोकसंख्या आदितः २३७२ ।। *N.–वाचिकाभिनये छन्दोविधानं नामाध्यायः पञ्चदशः । 1 ख–करणात् 2 ख–छेदात् 3 ख–वृत्तौ ।