१३ कक्ष्यावृत्ति-धर्म्यभिधानं

श्रीः

नाट्यशास्त्रम्

त्रयोदशोऽध्यायः+

ये तु पूर्वं मया प्रोक्तास्त्रयो वै नाट्यमण्डपाः ।
ताषां वीभागं विज्ञाय ततः *कक्ष्यां प्रयोजयेत् ॥ १

Abh

देहस्तु(स्य?) बाह्यान्तरभेदिकक्ष्या- विभागधर्मीविविधां प्रवृत्तिम् ।
आसूत्रयन्दोषविशुद्धिदक्ष- ‡ क्रमोऽर्कवृष्टिर्जयताद्वृषाङ्कः ॥

इहाभिनयानन्तरं यद्यपि सर्वा वृत्तिप्रवृत्तय उद्दिष्टाः सर्वान्ते च रङ्गे(३६) 1सूचिता कक्ष्या*, तच्चतुर्विधाभिनयाभिधानान्तरमेतदध्यायार्थे वक्तव्यः । तथापि प्रत्यभिनयमियतीतिकर्तव्यतोपयुज्यते । तदभिधानं विना(ना)ङ्गिकमेवोक्तं2 स्यादिति वक्तव्यम् । 3तदुद्देशे तु सामान्यशब्दत्वान्नास्ति प्रत्येकमुद्देशने 4गतिः । तथोद्देशनेऽपि च गौरवं स्यात् । अत एवंवादिना5 कक्ष्यादेरपृथग्भावे यो हेतुरुक्तः 6क्रमोल्लङ्घनादिति तस्यासिद्धत्वं विरुद्धता च, प्रत्युत प्रत्येकप्रसङ्गत्वलाभात् क्रमस्यापदार्थत्वान्नार्थ- प्रमाणकत्वान्मुख्यश्रौतपदार्थबाधकत्वमयुक्तं, श्रुत्या वाक्यप्रमाणस्य बाधनादिति तु भट्टलोल्लटोक्तं प्रकृते सिध्यति विरोधाभावात्, क्रमस्य च मध्यत्वात् गतिरूपप्रयोगहेतुत्वात्,

Notes
  • कखचभम संज्ञेषु विना सर्वेष्वादर्शेषु ‘चतुर्दसोऽध्यायः’इति वर्तते । (also -N)कक्षा शब्दः *कखचद संज्ञेषु मात्र एव लिखितोऽपि, कक्ष्येति यान्तेषु विश्वप्रकाशामरहैमादिषु पठितत्वात् तद्रूपमेव गृहीतम् । अभिनवभारत्यादर्शयोरपि तदेव भाति ॥(also -N) ‡ क्रमशब्देनः पादः स्थानकभेदश्च सूचितः । पादस्तु षट्त्रिंशत्तत्त्वमध्ये त्रयोदशतत्त्वम् । स्थानकं तु गतिप्रधानत्वात्कक्ष्यायां विनियुक्तम् । *षष्ठेऽध्याये दशमश्लोके उपादेयांशा उद्दिष्टाः तत्र कक्ष्या न दृश्यते । 1 -सूचिताकक्ष्या -सूचिताः कार्याः 2 -उक्ता 3 कख-तद्देशे 4 -इतिः 5 -एव वादिना -एवोपादिना 6 -योगेत्युक्तः ।

1ये 2नेपथ्यगृहद्वारे मया पूर्वं प्रकीर्तिते3 ।
4तयोर्भाण्डस्य विन्यासो मध्ये कार्यः प्रयोक्तृभि ॥ २

5कक्ष्याविभागो निर्देश्यो रङ्गपीठपरिक्रमात् ।

Abh

अतस्तदवसर एवाभिधानं युक्तम् । 1तद्द्वारेणाभिनयाङ्गतामगात् । 2तद्देशत्रयं 3वक्तृत्रयं वक्तव्यम् । तत्र प्रथमं कक्ष्याभिधानेऽयमभिप्रायः इह4 गतिर्गन्तव्यदेशाश्रयात्, देशश्च5 जलस्थलादि6 बहुतरसमविषमादिस्वभेदसहितं काव्यार्थतामात्रेणैवेह संभवन्नपि प्रयोगस्थाने न संभवत्येवेति, तस्य परिहारार्थं 7कक्ष्यानिरूपणं कर्तव्यम् । अत एव पूर्वाध्यायान्त उक्तं परिक्रमे गतावुपयोगिनं स्थानविशेषाणां सम्यग्विभागं वक्ष्यामीति । सेयमध्यायसंगतिस्तां दर्श8यितुमाह ये तु पूर्वमिति । तु शब्दाद्दूरत्वं पूर्वतायाः सूचयन् द्वितीयाध्यायार्थं स्मारयति तेषामिति प्रत्येकमित्यभिप्रायः । मण्डपस्य यो विशिष्टो भागोऽन्तरङ्गपीठात्मकस्तं विज्ञाय विभागतो ज्ञात्वा कक्ष्यागत्युपयोगिनं स्थानविशेषं प्रयोजयेत्, विभागेन संबन्धं नयेत् । नाट्यदेशानुसारेण 9प्रकोष्ठे त्यक्ते यो देशोऽवशेष्यते तत्रैव चातुरश्रीयम् । अथ एव वामदक्षिणभागयोः कुतपविन्यासः शिष्टे10 कक्ष्याविभागः ।

रङ्गस्य 11को विभाग इत्याह ये नेपथ्यगृहद्वार इत्यादि । (पूर्वमिति) द्वितीया- ध्याये प्रकीर्तिते भाण्डस्य 12ततातोद्यसहितस्य त्रिपुष्करस्य । ततः किमित्याह कक्ष्याविभाग इति । तेन भाण्डेन13 यत्परित आक्रान्तं तद्विवर्ज्य14 शेषे रङ्गपीठदेशे निष्क्र मणप्रवेशगत्याद्युपयोगी स्थानविभागो निर्देश्यः प्रेक्षकावधिः

Notes

1 भम–नैपथ्यरङ्गभूमौ तु यौ विभागौ प्रकीर्तितौ 2 –नैपथ्य 3 –प्रकीर्तिताः 4 –तेषां 5 भम–कक्ष्याविभागौ निर्देश्यौ रङ्गपीठपरिक्रमैः । 1 –तद्द्वारेऽभिनयाङ्ग 2 –तद्देह 3 –वस्तु 4 –अतिप्रायन्तु वा 5 –देशाश्रयात्मदेशश्च 6 –स्थलानि 7 –कक्ष्यादिरूपणं 8 –संगतिम् 9 –च दोषे त्यक्तो वा विशिष्यते 10 –श्लिष्टे 11 –कोऽपि 12 –ने पक्षातोन्य 13 –दण्डेन 14 –विभज्य ।

1परिक्रमेण रङ्गस्य 2ह्यन्या कक्ष्या भवेदिह2a ॥ ३

कक्ष्याविभागे ज्ञेयानि गृहाणि नगराणि च3 ।
उद्यानाराम4सरितस्त्वाश्रमा 5अटवी तथा ॥ ४

6पृथिवी सागराश्चैव त्रैलोक्यं सचराचरम् ।
7वर्षाणि सप्तद्वीपाश्च पर्वता विविधास्तथा8 ॥ ५

6आलोकश्चैव लोकश्च रसातलमथापि च ।
10दैत्यनागालयाश्चैव गृहाणि11 भवनानि च12 ॥ ६*

Abh

संक्रमयितव्यः । ननु 1कः स्थानविभागः आह–परिक्रमेणेति । परिक्रामन्त्यनेनेति परिक्रामः चार्यादिसंनिवेशः तद्वशादेकस्यापि रङ्गदेशस्य स्थानभेदनापत्यागः2, यथा– “आरोढुमुद्वहेद्गात्रं “, “अतिक्रान्तेन पादेन”(१२-१०२) इत्यादिना विशेषे तु प्रासादपर्वतादिरूपत्वमस्यैव । ननु भाण्डवाद्यविनिर्मुक्ते रङ्गपीठदेशे क्रमविशेषस्थानभेद क्लृप्तिः । 3तन्नेत्याह कक्ष्याविभाग इत्यादि विशिष्टे शिष्टे देशे स्थानान्तराणि कल्पनीयानि तानि कविजनस्मरणार्थमुपलक्षणत्वेन पठन्ति । 4गृहादीनि पृथिवीस्वर्गपातालभेदात्पुनरुदाहृतानि सर्वसंग्रहाय त्रैलोक्यमित्युक्तेऽपि स्मरणार्थं 5वर्णनोद्देशः ।

ननु सर्वत्र प्रयोगे सर्वे त्रैलोक्यवर्तिनः स्थानभेदात्किं संभाविनः6, नेति दर्शयति नगरे वेत्यादि । निपातैरनुक्ता अटव्यादयः साक्षात्7 । तथा

Notes

1 –परिक्रमे च 2 –कक्ष्या ह्यन्या विधीयते –अन्यकक्ष्या भवेद्यतः भम–कक्ष्यान्या त्वभिधीयते 2a–N भवेद्यतः; 3–नगराणि गृहाणि च 4 –सहितो देशो ग्रामोऽटवी तथा –सरित आश्रमा वलभीस्तथा 5 मभ–वलभीः 6भमयोरस्य श्लोकस्य पूर्वोत्तरार्धे विपर्यस्ते । पाठस्तु –ससागरा च पुथिवी तथा त्रैलोक्यमेव च । द्वीपाः सप्ताथ वर्षाणि 7 –द्विपाश्च सप्तवर्षाणि 8 –चतुर्थश्लोकानन्तरं “परिक्रमेण रङ्गस्य तथैवार्थवशेन च” इति श्लोकार्धं दृश्यते 9 –सार्धं श्लोकद्वयं न वर्तते 10 –दैत्यानामालयश्चैव 11 –भुवनानि 12 भमयोः–भवनानि च । परिक्रमेण रङ्गस्य तथैवार्थवशेन च । बाह्यं वा–इत्यादि । *V.{(N): परिक्रमेण रङ्गस्य तथैवार्थवशेन च । द्वारं वा सन्निकृष्टं वा देशं समुपलक्षयेत् ॥ 1 –क्रमस्थान 2 –भेदं नापत्यागसह 3 –तानेत्याह 4 –गृह्यादीनि 5 –स्मरणोद्देशः –वचनेनोद्देशः 6 –स्वभाविनः 7 –अटव्यानयसाक्तात् ।

1नगरे वा वने वापि वर्षे वा 2पर्वतेऽपि वा3 ।
यत्र वार्ता प्रवर्तेत4 तत्र कक्ष्यां प्रयोजयेत् ॥ ७*

5बाह्यं वा मध्यमं वापि तथैवाभ्यन्तरं पुनः ।
दूरं वा सन्निकृष्टं वा देशं तु परिकल्पयेत्6 ॥ ८

7पूर्वप्रविष्टा ये रङ्गं ज्ञेयास्तेऽभ्यन्तरा बुधैः8 ।
पश्चात्प्रविष्टा विज्ञेया9 कक्ष्याभागे तु बाह्यतः10 ॥ ९

11aतेषां तु दर्शनेच्छुर्यः11 प्रविशेद्रङ्गमण्डलम् ।
दक्षिणाभिमुखः 12सोऽथ कुर्यादात्मनिवेदनम् ॥ १०

Abh

वीप्साद्योते । यत्र यत्र वार्ता वृतान्त इतिवृत्तबलायातः प्रकर्षेण वर्तेत तत्र मध्ये यो देशविभागस्तमेव प्रवर्तयेत् रङ्गपीठे दर्शयेत् न सर्वमित्यर्थः, विशिष्टे देश इत्युक्तं न रङ्गपीठस्य । विशेषं दर्शयति बाह्येचेत्यादिं । भागत्रितये सति कस्मिंश्चिद्भागे देशादि कल्पयित्वा तत्रैव दूरादिभेदं परिकल्पयेत्, भूयस्त्वाल्पत्वादिभिन्नेन परिक्रमेण कल्पयेदित्यर्थः । बाह्यदिभेदं निरूपयति पूर्वप्रविष्टा इति पूर्वभूताः प्रधानभूताःसन्तः पूर्वं ये प्रविष्टास्ते, अभ्यन्तरा इति अधिष्ठितो देशविशेषोऽभ्यन्तरकक्ष्या प्रधानभूतस्तु पूर्वप्रविष्टोऽपि प्रधाने प्रविशति स्वकक्ष्यान्त्य इत्येव । पश्चात्प्रविष्टानां तु स्थानं बाह्यकक्ष्या । ते तु येन स्थानविशेषेण प्राक्प्रविष्टमुपसर्पन्ति स देशो मध्यमा कक्ष्या । एतदुक्तं भवति पूर्वप्रविष्टस्य स्वस्थान एवेतिवृत्तोचितगृहोद्यानादिविभागः पश्चात्प्रविष्टस्यापि पूर्वप्रविष्टेन सह 1यावन्न च संमिलनं तावत्प्रेक्षायामेव मध्यमकक्ष्यायां तु गतिपरिक्रमादिः तत्संमेलनार्थं संमिलितानां तु कक्ष्यविभागो विच्छिद्यत इति संमेलन इतिकर्तव्यतामाह तेषां त्विति पूर्वप्रविष्टानां, कर्मणि षष्टी ।

Notes

1 –तथा सप्तसमुद्राश्च वर्षावै पर्वतास्तथा 2 – वै 3 –तथा 4 –वार्ताः प्रवर्तन्ते

  • (N) : सैव भूमिस्तु बहुभिर्गतैरन्याभिधीयते । (See G.O.S. V.१७ ab) नगरे वा वने वाऽपि पर्वते सागरेऽपि वा ॥ 5 –बाह्यं च । इदं श्लोकार्धं मातृकायां नास्ति 6 –समुपपादयेत् –समुपलक्षयेत् 7 दनयोः सप्त श्लोकाः “एवं तु भारते वर्षे” इति श्लोकत्पूर्वमेव निवेशिताः 8 N–तेऽभ्यन्तरस्थिताः, 9 –ज्ञेयाश्च 10 –मध्यतः 11 –दर्शनस्पर्शे 11a–N तेषां तु दर्शनेऽन्योन्यः 12 , N –सो वै । 1 यानं संमीलनम् ।

1यतो मुखं भवेद्भाण्डद्वारं नेपथ्यकस्य च2 ।
3सा मन्तव्या तु दिक्पूर्वा नाट्ययोगेन4 नित्यशः ॥ ११

5निष्क्रामेद्यश्च तस्माद्वै स तेनैव तथा व्रजेत् ।
यतस्तस्य 6कृतं तेन पुरुषेण निवेदनम् ॥ १२

7[निष्क्रान्तोऽर्थवशाच्चापि8 9प्रविशेद्यदि तद्गृहम् ।
10यतः प्राप्तः स पुरुषस्तेन मार्गेण निष्क्रमेत्11 ॥ १३

12अथवार्थवशाच्चापि तेनैव सह गच्छति ।
13तथैव 14प्रविशेद्रङ्ग15मेकाकी सहितोऽपि वा ॥ १४

Abh

पूर्वप्रविष्टस्य यो दक्षिणो भागस्तं वीक्षमाणः स्थितो यथा प्रेक्षकस्य यः पराङ्मुखीभवतीत्यर्थः एषां प्रवृत्तये दाक्षिणात्यादिके क्रमः एतद्विपरीतमन्यत्र । प्रवृत्त्यवयवोद्भाविनं क्रमगथशब्देन सूचयति । तेनेदमाह(प्रा)धान्येनोत्तराभिमुख्यं दक्षिणस्यामात्मनिवेदनं यथावदितिवृत्तवशात्तादृङ्निबध्यते । यः पूर्वप्रविष्टैः सह संमिलितस्य सर्वबाह्यकक्ष्यायामेवेति तु शब्दस्यार्थः । का खल्विहं दक्षिणा दिगित्याह यतोमुखमिति समासः यदपेक्षं भाण्डस्य मुखं सा दिक् पूर्वा । ननु भाण्डस्य मुखं दुर्मानमित्याह द्वारमिति । नेपथ्यग्रहणे गृहस्य यन्मुखद्वारं, भाण्डोपादानं तु तस्य प्रतियोजने पूर्वतां प्रकटयति प्राधान्यज्ञापनेन । तेनैवेति पूर्वप्रविष्टपात्रान्तर1– योगेनेत्यर्थः ।

Notes

1 अयं श्लोकोऽग्रे सुकुमाराविद्धगतिलक्षणानन्तरमेव जादिबान्तेषु, भमयोरध्यायान्ते च वर्वते । 2 –तु –नेपथ्यमेव 3 –पूर्वादिदिक्षु विज्ञेयं प्रयोगे नाट्यसंश्रये । एवं कक्ष्याविभाग –इत्यादि । 4 –योगेषु –योगे तु 5 –निष्क्रामेच्चापि यस्तत्र नरः कार्येण केनचित् । सनिष्क्रामेत्तु तेनैव कृतं येन निवेशनं 6 –कृते तेनपुरुषेण 7 पञ्चश्लोकाः कादिचान्तेष्वेव न विद्यन्ते प्रक्षिप्ता अपि तदन्येषु बहुपाठविपर्ययेण दृश्यन्ते । 8 –वशाद्वापि 9–न विशेत् –निवेशेदन्न तद्गृहम –न विशेद्यदि तं गृहम् 9a–N: निविशेद्यन्न तद्गृहं 10 –प्राप्तः स पुरुषो येन 11 N–स तेनैव यथा व्रजेत् 12 –यदप्यर्थवशाच्चैव 13 –तयोश्चैव 14 –विशेद्गेहं 15 –काष्ठाम् 1 भोगेन ।

1तयोश्चापि प्रविशतोः 2कक्ष्यामन्यां विनिर्दिशेत् ।
परिक्रमेण रङ्गस्य त्वन्या कक्ष्या विधीयते ॥१५

समैश्च सहितो गच्छेन्नीचैश्च परिवारितः ।
अथ 3प्रेषणिकाश्चापि3a निर्देश्या ह्यग्रतो गतौ4] ॥ १६

सैव भूमिस्तु बहुभिर्विकृष्टा स्यात्परिक्रमैः5 ।5a
6मध्या वा संनिकृष्टा वा तेषामेवं विकल्पयेत्7 ॥ १७

नगरे वा वने वापि पर्वते सागरेऽपि वा ।
8aदिव्यानां गमनं कार्यं वर्षे द्वीपेऽपि वा पुनः8 ॥ १८

आकाशेन विमानेन माययाप्यथवा पुनः ।
विविधाभिः क्रियाभिर्वा नानार्थाभिः प्रयोगतः ॥ १९

नाटके च्छन्नवेषाणां दिव्यानां भूमिसंचरः ।

Abh

एवं बाह्ये वा मध्यमे वापि तथैवाभ्यन्तर इति 1विकृष्टं दूरमित्यादि विभजति सैव भूमिरिति विकल्पानां 2मध्याल्पत्वरचनादिश्च न केवलमल्पत्वबहुत्वकृतमेव । परिक्रमवैचित्र्यं यावदन्यदपीति दर्शयति नगरे वेत्यादिना प्रयोगत इत्यन्तेन । प्रयोगो नाट्ये । दिव्यानां देवयोनीनां पिशाचादिब्रह्मान्तानां यन्नगरादिद्वीपादिविषयागमनं तदाकाशेनैव विमानगामिना विमानेन मायया वा अदर्शरूपया अन्याभिर्वा बलादाहरणादिक्रियाभिर्विविधप्रयोजनाभिः कार्यमिति संबन्धः । न च दिव्यानामेष एव प्रकारः किं तु अन्योऽप्यस्तीत्याह नाटक इति । 4वेषशब्देन चापादभूतलं वपुर्लक्ष्येत । तेन वरप्रदानाद्यानुग्रहनिमित्ताच्छन्नस्वरूपाणां देवानां मानुषैर्दर्शनं भवति, तदा

Notes

1 –तयोश्चैव 2 –काष्ठां 3 –प्रेक्षाणिकाः –प्रेषणकाः –प्रेषिणिकाः 3a: N अथ प्रेक्षणिकायाश्च 4 –बहुभिर्गतैरन्याभिधीयते 5 इदं श्लोकार्धं भमयोर्न दृश्यते 5a:N-सैव भूमिस्तु बहुभिर्गतैरन्याभिधीयते ॥ as noted above 6 –विकल्पनात् 7 –द्वीपवर्षेषु वा पुनः –वर्षाद्वीपेषु वा पुनः 8 प्रयोक्तृभिः 8a:N दिव्यानां गमनं कार्यं द्विपेषु वर्षेषु वा । 1 –विभदूर 2 –अत्यल्प 3 –प्रयोगः 4 –विशेष ।

1मानुषैः कारणादेषां2 यदा भवति दर्शनम् ॥ २०

[3भारतेऽप्वथ हैमे वा हरिवर्ष इलावृते ।
4रम्ये किंपुरुषे वापि कुरुषूत्तरेकषु वा] ॥ २१

दिव्यानां छन्दगमनं 5सर्ववर्षेषु कीर्तितम्6 ।
भारते मानुषाणां तु7 गमनं संविधीयते ॥ २२

[3विकृष्टं यस्तु 9गच्छेद्धि देशं कार्यवशान्नरः ।
10अङ्कच्छेदे तमन्यस्मिन्निर्दिशेद्धि प्रवेशके ॥ २३

11अह्नः प्रमाणं गत्वा तु कार्यलाभं विनिर्दिशेत् ।
12तथालाभे तु कार्येऽस्या अङ्कच्छेदो विधीयते ॥ २४

क्षणो मुहूर्तो यामो वा दिवसो वापि नाटके13 ।
14एकाङ्के संविधातव्यो बीजस्यार्थवशानुगः15 ॥ २५

16अङ्कच्छेदे तु निर्वृत्तं मासं वा वर्षमेव वा ।

Abh

नाटके प्रयोगे तेषामपि भूमिसंचरः, संचरत्यस्मिन् भूमिरेव सञ्चरः । अयं तु देवेषु सामान्यकल्प इत्याह दिव्यानामिति । पुराणेषु त्वयं सामान्यविधिरित्याह भारत इति न त्विलावृतादावित्यर्थः । वर्षं प्रचारार्थमाह हैमवता इति

Notes

1 –श्लोकार्धं न विद्यते 2 –कारणैरेषां 3 –भारते त्वथ 4 –नीले –मातृकायां सार्धश्लोको न वर्तते 5 –वर्षेष्वेतेषु कारयेत् 6 , N–कारयेत् 7 , N–च 8 पञ्च श्लोकाः कादि चान्तेषु विना सर्वेषु दृश्यन्ते चैषां संवादिन्यः कारिका दशरूपाध्याये व्याख्याता वृत्तिकारेण 9 गच्छेद्यदि विकृष्टस्तु देशकालवशान्नरः । –गच्छेद्यदि विकृष्टं तु देशं कालवशान्नरः 10 –अङ्कच्छेदेन चान्यस्मिन्निर्दिशेत्तं प्रवेशके -अङ्कच्छेदेन चान्यस्मिन् 11–अध्वप्रमाणं ज–अङ्कप्रमाणं 12 – तथा लाभेषु कार्यं स्यात् –तथालाभे तु कार्यं स्यात् –तथालाभे तु कार्यस्य अङ्क 13 –मध्याह्ना दिवसोऽपि वा 14 –अङ्केऽङ्के 15 –त्वर्थबीजवशानुगः 16 –अङ्कच्छेदं पुनर्वृत्तम् ।

नोर्ध्वं 1वर्षात्प्रकर्तव्यं कार्यमङ्कसमाश्रयम् ॥ २६

एवं तु भातरे वर्षे 2कक्ष्याः कार्या प्रयोगतः ।
मानुषाणां 2गतिर्या तु दिव्यानां 4aतु4 निबोधत] ॥ २७

हिमवत्पृष्ठसंस्थे तु5 कैलासे पर्वतोत्तमे6 ।
यक्षाश्च गुह्यकाश्चैव धनदानुचराश्च ये ॥ २८

7रक्षोभूतपिशाचाश्च सर्वे हैमवताः 8स्मृताः ।
हेमकूटे च गन्धर्वा विज्ञेयाः साप्सरोगणाः9 ।। २९

सर्वे नागाश्च10 निषधे 11शेषवासुकितक्षकाः ।
12महामेरौ त्रयस्त्रिंशज्ज्ञेया देवगणा 13बुधैः ।। ३०

नीले तु वैडूर्यमये सिद्धा 14ब्रह्मर्षयस्तथा ।
दैत्यानां दानवानां च श्वेतपर्वत उच्यते15 ।। ३१

पितरश्चापि विज्ञेयाः 16श्रृङ्गवन्तं समाश्रिताः ।
इत्येते 17पर्वताः श्रेष्ठा 18दिव्यावासा 18aभवन्ति हि ।। ३२

Abh

हिमवति बाहुल्येनैषां गतिरित्यर्थः, एवं सर्वत्र । नील इति अद्रिविशेषे, तस्येव विशेषणं वैडूर्यमये, एतञ्च कवेः 1शिक्षार्थम् । दिव्यानां पिशाचादिब्रह्मान्तानामावासः ।

Notes

1 –वर्षात्तु 2 –कक्ष्या कार्या प्रयोक्तृभिः 3 –गतौ येषां –गति र्ह्येषां –गतीर्यास्तु –गतिर्ज्ञेया 4 –तां 4a–N–च 5 –पार्श्वेतु 6 –पर्वतोत्तरे 7 –रक्षः पिशाचा भूताश्च –रक्षः पिशाचभूताश्च 8 –हैमवते 9 –विज्ञेयाप्सरसांगणाः 10 –नागास्तु 11 –शेषप्रभृतयः स्मृताः 12 –तथा मेरौ 13 –द्विजाः 14 –देवर्षयः 15 –इष्यते 16 –शृङ्गवद्गिरिवासिनः 17 –पर्वत 18 –दिव्यवासाः प्रकीर्तिताः ।। 18a(N)–भवेदथ 1 –दिक्षार्थम् ।

तेषां कक्ष्याविभागश्च1 जम्बूद्वीपे भवेदयम् ।
तेषां न चेष्टितं कार्यं स्वैः स्वैः कर्मपराक्रमैः ।। ३३

3परिच्छदविशेषस्तु तेषां मानुषलोकवत् ।
4सर्वे भावास्तु देवानां कार्या मानुषसंश्रयाः ।। ३४

5तेषां त्वनिमिषत्वं यत्तन्न कार्यं पेरयोक्तृभिः ।
इह6 भावा रसाश्चैव दृष्ट्यामेव प्रतिष्ठिताः ।। ३५

दृष्ट्या हि सूचितो भावः7 पाश्चादङ्गैर्विभाव्यते8 ।

Abh

ननु 1वर्षान्तरेषु दिव्यपर्वतेषु यदुचितं गमनं तत्कर्तुं शक्यमित्याह तेषामिति । कार इहार्थे जम्बूद्वीप इव दिव्यानामपि कक्ष्याविभागस्थानविशेषोपलक्षिता गतिरित्यर्थः । एतत् स्फुटयति न तेषामिति । परिच्छेदविशेषश्च तदीयः परिचारः स्वाभितो न कार्य इत्यर्थः, परिच्छेदो वा ज्ञानं तद्दूरव्यवहितादिवषयं न प्रदर्शनीयम् । कथं तर्हि, आह, मानुषगत एवेषां सर्वो भावः कार्यः, कथं, मानुषलोकवत् यथा मानुषलोके अंशावतरणे नायकानां रामादीनां किंचिदुत्कृष्टं सातिशयं मनुष्योचितमेव चरितं तथैव दिव्यभावबहुवृत्तीनामपीत्यर्थः । न निमषतीत्यनिमिषं रूपं तैषां वैव कार्यम् । तुरवधारणे । अत्र हेतुरिहेति । भावा व्यभिचारिणो, रसाः स्थायिनो दृष्टावेवेति स्पष्टयति दृष्ट्यामिति । सूचितः सूचाभिनय एव विभाव्यते विभावादिशेषयुक्तत्वे स्फुटीभवतीत्यर्थः । अत एव तेषां चेष्टितमित्यनेन साध्योऽप्ययमर्थः पुनरुपात्तः प्राधान्यात् ।

Notes

1 –विभागस्तु 2 –एतेषां –तेषां तु –तेषां च 3 –परिच्छेद 4 –सर्वे भावाश्च –सर्वो भावश्च दिव्यानां कार्यो मानुषसंश्रयः 5 –अनिमेषस्तु यस्तेषां स न कार्यः 6 –भावरसाश्चैव दृष्टावेव 7 –पुनः 8 अतः परं मातृकायां धर्मीलक्षणमुक्तं तदनन्तरमेव प्रवृत्तीनाम् । एष क्रम एव षष्ठाध्यायोक्त (६–२०) संग्रहश्लोकानुसारीति कीर्तिधरप्रभृतिभिः स्वीकृतः । 1 –द्वीपान्तरेषु ।

[एवं कक्ष्याविभागस्तु मया प्रोक्तो द्विजोत्तमाः ।
पुनश्चैव प्रवक्ष्यामि प्रवृत्तीनां तु लक्षणम् ।।] ३६

1aचतुर्विधा प्रवृत्तिश्च प्रोक्ता नाट्यप्रयोक्तृभिः1 ।
आवन्ती दक्षिणात्या च पाञ्चाली 2aचोढ्रमागधी2 ।। ३७

3अत्राह–प्रवृत्तिरिति कस्मात् ? 4उच्यते–5पृथिव्यां5a नाना6देशवेषभाषाचारा वार्ताः ख्यापयतीति7 वृत्तिः प्रवृत्तिश्च निवेदने ।8 । अत्राह–यथा पृथिव्यां 9नानादेशाः

Abh

एवं सर्वोपकारित्वादुद्देशस्य संग्रहे सर्वं पश्चादभिधानं तेनैवं न यद्यपि कक्ष्याविभागः सूचितस्तथापि चारीपरिक्रमप्रसङ्गेन गत्यध्यायानन्तरं दर्शितः । इदानीं त्वाङ्गिकोपयोगिधर्म्यादित्रयमुद्दिष्टं, तत्र वृत्तीनामग्रतो निरूपणं भविष्यति, तत्र च हेतुः वृत्त्यध्याय (अ–२०) एव वक्ष्यामः । यद्यपि धर्मः पूर्वमुद्दिष्टस्तथापि ‘यत्र वार्ता प्रवर्तेत’ (१३–७)इत्यनेन कक्ष्याविभागकल्पितदेशभेदाभिधानप्रसङ्गेन च देशविभागप्रतिपन्नाः प्रवृत्तय आक्षिप्ताः किं च पात्रस्य सति प्रवेशे कक्ष्याविभाग उत्तरद्वारेण दक्षिणात्यावन्त्योः प्रवेशो, अन्ययोस्तु सव्येनेत्येवं प्रवृत्तिविभागं प्रवेशकभेदमाक्षिपति । सोऽपि तत्स्थानेनेदमिति तदुपयोगित्वेनापि समनन्तरं प्रवृत्तयो वक्तव्या इति मनसि कृत्वाह चतुर्विधेति । प्रवृत्तिः तस्मादित्यर्थः । प्रश्ना इति कस्मादिति चतुष्कप्रश्नः अर्थं तावदाह पृथिव्यामिति प्रवृत्तिः देशविशेषगता वेषभाषासमाचारवैचित्र्यप्रसिद्धिरुच्यते । तत्रैवं योजना–देशे देशे येष्वेव वेषादयो नैपथ्यं भाषा वा आचारो लोकशास्त्रव्यवहारः वार्ता कृषिपाशुपाल्यादिजीविका इति तान् प्रख्यापयन्ति, पृथिव्यादिसर्वलोकविद्याप्रसिद्धिं करोति प्रवृत्तिर्बाह्यार्थे यस्मान्नि–

Notes

1 –विज्ञेया नाट्यकोविदैः –प्रयोज्या नाट्ययोक्तृभिः –प्रयोगतः –समाश्रया 1a: N युक्तिश्चतुर्विधा ज्ञेया नाट्ययोगप्रयोक्तृभिः । 2 –सोढ्रमागधी –चान्ध्रमागधी –चैव मागधी 2a–N: चार्धमागधी 3 , N–“अत्राह”–इति न दृश्यते 4 –यथा पृथिव्या 5a–N– पृथिव्यां नानादेशकृतान् वेषकृतान् [वार्ताः]स्थापयतीति प्रवृत्तिः 6 –देशकृतान् वेषकृतान् 7 –वार्ताः प्रख्यापयन्तीति –आख्यापयतीति 8 –निवेदनम् 9 , N–बहवो ।

सन्ति 1कथमासां चतुर्विधत्वमुपपन्नं2, समानलक्षणश्चासां3 प्रयोगः ? 4उच्यते–5तत्तु सत्यं, आसां समानलक्षणप्रयोगः । किं तु नानादेशवेषभाषाचारो लोक इति कृत्वा लोकानुमतेन वृत्तिसंश्रितस्य6 नाट्यस्य मया 7चतुर्विधत्वमभिहितं 8भारत्यारभटी सात्त्वती कैशिकी चेति ।। ३८ ।।

Abh

वेदने निश्शेषेण वेदने प्रवृत्तिशब्दः । “अस्त्येषा1 भुवने प्रवृत्तिर भवद्रामेण रामस्य यत्” इत्यादौ ।

अथ संख्याप्रश्ने स्वाभिप्रायमाह यदेति । देशा इति । तत्कृत्वापि चतुष्टयी प्रवृत्तिरित्युक्तं न चत्वार एव देशाः । स्यादेतदेव तावत्यस्तावदुक्ता अभ्यधिकास्तु त्यक्ता इत्याशङ्क्याह समानलक्षणत्वात्प्रयोग इत्युच्यते महद्भिरिति शेषः । प्रयोग इति नाट्यम् । चतसृणामेव समानलक्षणानामेतत्प्रवृत्तिचतुष्टयसाधारणस्वभावः सर्वप्रयोगे युष्मन्मते न त्वन्यो व्यवहारः कश्चिद्दर्शितः । 2यथा च लोभक्रोधमोहैस्तु साधारणीकृतजगच्चिन्ताद्याशु प्रदेशः पराक्रियते (?)तथा प्रकृतेऽपि ।

ननु चतुस्साधारणाप्रयोगो नत्वन्योऽत्र प्रविशति व्यवहार इत्येतदुक्तम् । विस्मरणशीलो भवान् न स्म (?स्मा)र्यते । उक्तं पूर्वरङ्गान्ते (अध्या–५) “इत्येषोऽवन्तिपाञ्चालदाक्षिणात्योढ्ऱमागधैः । कर्तव्यः पूर्वरङ्गस्तु” इति पूर्वरङ्गस्य प्रयोगस्य गर्भाधानीयस्थानीय इत्युक्तम् । तत्रैवाभ्युपगमपूर्वकमुत्तरमाह । 3तत्तु सत्यमित्यादिना वेषादीनामित्यन्तेन अभ्युपगमदेशादिशब्देन प्रवृत्तिमभिदधता । आसामिति व्याख्यातम् । 4किंत्वित्यादिनोत्तरमाह । एतदुक्तं भवति–वृत्तिसंश्रितं वृत्तीराश्रितमेतच्चतुर्विधम् । ननु का प्रवृत्तिः

Notes

1 –तदा कथं –तथा कथमेषां 2 –समुपपन्नम् 3 –लक्षणं चासां 4 , N–अत्रोच्यते एवमेतत् 5 –सत्यमेतत् –एवमेते 6 –वृत्तिं समाश्रितस्य प्रयोगस्य , N–संश्रितमस्य मया –लोकानुमतेऽनुवृत्तिसंश्रितस्य 7 –चतुष्टयमुपपादितं 8 –भारतीयसात्वत्यारभटीकैशिकीवृत्तिसंश्रितेषु प्रयोगेषु देशा अभिरताः –भारतीसात्वतीकैशिक्यारभटीवृत्ति संश्रितेष्वमीषु प्रयोगेष्बभिरता देशाः । 1 –अस्यैषा 2 –यथा Kavi–तथा 3 –तत्र 4 –किंचिदादिना । *स्मार्यते–मधुसूदनी

वृत्तिसंश्रितैश्च 1प्रयोगैरभिहिता देशाः, 2यतः प्रवृत्तिचतुष्टयमभिनिर्वृत्तं प्रयोगश्चोत्पादितः3 । तत्र 4दाक्षिणात्यास्तावद्बहुनृत्तगीतवाद्याः कैशिकीप्रायाः 5चतुरमधुरललिताङ्गाभिनयाश्च । तद्यथा6–

महेन्द्रो मलयः सह्यो 7मेकलः पालमञ्जरः8 ।

Abh

प्रत्येकं तत्रैवाभ्युपगमः प्रवृत्तिः, नेत्याह लोकानुगुणानुसारेण । लोको हि दक्षिणापथः पूर्वदेशः पश्चिमदेशः उत्तरभूमिरिति 1चतुर्धा विभागोऽस्ति, न चैष निर्बन्धनः सादृश्यसंभवात् । तथाहि दाक्षिणात्येषु श्रृङ्गारप्रचुरतया कैशिक्याः संभवः । पश्चिमेष्वावन्त्येव संगृहीतेषु सापि सति धर्मप्राधान्य इति सात्त्वत्यस्ति । प्राच्येषु तु घटाटोपवाक्याडम्बरप्राधान्यो भारत्यारभटीयोगः । उत्तरभूमिः प्राधान्यात्तु भारत्यारभटीयोगेऽपि कैशिकीलेशात्तु प्रवेशसहिष्णवो यद्वक्ष्यते ‘‘प्रयोगस्त्वल्पगीतार्थ’’ (१३–५१) इति । अर्थशब्देन तत्प्रयोजनं नृत्तवाद्यादि । इत्येवं चित्तवृत्तिभेदसादृश्याल्लोको यश्चतुर्धाविभागः स एवास्मिन्नुक्तः ।

ननु किमित्ययं संक्षेप आदृतः, आह यस्माल्लोको बहुविधभाषाचारदियुक्तः कस्तं प्रतिपदं वक्तुं शक्नुयात् शिक्षितुमभ्यसितुं वा प्रयोक्तुं द्रष्टुं वा, चित्तवृत्तिप्रधानं चेदं नाट्यमिति तदेव वक्तुं न्याय्यम् । एतदेव स्पष्टीकुर्वन्नाह भारतीत्यादिना । प्रयोगे वागङ्गचेष्टासु अभिनिर्वृत्तं लोकप्रसिद्धमित्यर्थः । चकारेण तत इत्याकृष्यते ।

Notes

1 –प्रयोगोचिता –प्रयोगैरभिमता 2 –यतो वृत्ति –यतस्ततः प्रवृत्तेश्चष्टयमिति निर्वृत्तं 3 दभ–मातृकयोर्दाक्षिणात्यालक्षणात्पूर्वमेवावन्तीलक्षणमुक्तं यथा–

आनर्मदाया आसिन्धोरापूर्वावर्तिनस्तथा ।
आपश्चिमात्मसमुद्राच्च तथा सौवीरराष्ट्रतः ।।

आहिमाद्रेस्तथा देशा विदेशैश्चान्तरेण ये (वैदिशाच्चान्तरेण–भ) ।
सात्वतीकैशिकीयुक्ता तेषामावन्तिकी स्मृता ।।

4 –दाक्षिणात्या…वाद्या…प्राया….नया यथा 5 –चतुरललित 6 –यथा 7 –मेखलः –मेलकः 8 –कालपञ्जरः –मेलकः पालमर्जरः –पलपञ्जरः (‘पालमञ्जर’ इति राजशेखरः) –पालमञ्जकः । 1 –चेड़ा ।

एतेषु संश्रिता देशास्ते ज्ञेया दक्षिणापथाः1 ।। ३९

2कोसलास्तोसलाश्चैव कलिङ्गा यवनाः खसाः3 ।
4द्रमिडान्ध्रमहाराष्ट्रा वैण्णा5 वै वानवासजाः6 ।। ४०

दक्षिणस्य समुद्रास्य तथा विन्ध्यस्य चान्तरे7 ।
ये देशास्तेषु युञ्जीत8 दाक्षिणात्यां तु नित्यशः9 ।। ४१

10आवन्तिका वैदिशिकाः सौराष्ट्रा मालवास्तथा ।
सैन्धवास्त्वथ सौवीरा आनर्ताः सार्बुदेयकाः11 ।। ४२

दाशार्णास्त्रैपुराश्चैव तथा वै मार्त्तिकावताः12* ।
कुर्वन्त्यावन्तिकीमेते प्रवृत्तिं नित्यमेव तु ।। ४३

Abh

तल्लोकप्रसिद्धचतुष्टयमवलम्ब्य ब्रह्मणा प्रयोग उत्पादितः । अयं ग्रन्थश्चिरन्तनैर्वृत्तीनां चतुर्ष्वेव दृष्टान्ततामाश्रित्य व्याख्यातः, तत्र च वैषम्येण दूषणमुक्तम्,† वृत्तीनां हि सनिमित्तं चतुर्धादेः प्रवृत्तीनां तस्माच्चतुष्ट्व मात्रेण दृष्टान्तोऽयमिति व्याख्यानेषु गजस्नानीयमान(?नीयम् आन–)यनेनालूनविशीर्णः कृत इत्यास्तां तावत् ।

कैशिकी प्रायेणास्यामिति बहुव्रीहिः । असामानाधिकरण्यात्सामानादिकरण्येऽपि वा समानायामाकृतो भाषितपुंस्त्वाभावान्न पुंवद्भावः । केशैर्निर्वृत्तात्तेषु भवावे‡दित्यादिर्व्युत्पत्ति र्निमितत्तमात्रम् । एतच्च वक्ष्यामः संक्षेपेण (अध्या–20)। दक्षिणसमुद्रस्य विन्ध्यस्य च मध्ये ये देशास्तेषु दाक्षिणात्या । एतेनैव सिद्धे सति देशभेदानां प्रतिपाठस्तदन्तरलानां पर्वत–

Notes

1 –स ज्ञेयो दक्षिणापथः 2 –कोशलास्तोशलाः 3 –यवनौसलाः –एव मोसलाः 4 –द्रमिलाश्च 5 –भिल्ला (‘वैण्णा’ इति कृष्णापिनाकिनी तीरवासिनः) 6 –वानवासिकाः 7 –चोत्तरे 8 –संश्रितास्तेषु 9 –तेष्वियं कैशिकी स्मृता –ये दाक्षिणात्यस्तु वृत्तिमारभटीं श्रिताः 10 –आनर्तकाः 11 –सार्वदेशकाः 12 –वैमानिकावताः –वैवर्ति कावताः *मृत्तिकावतीपुरवासिनः । †चिरन्तनैरिति राहुलकादिभिः । उक्तमित्युद्भटेन । ‡केशैर्निर्वृत्तात्तेषु भवेदित्या/?/0–Kavi; केशै—– भवा वेत्यादि –मधुसूदनी;

सात्त्वतीं कैशिकीं चैव वृत्तिमेषां समाश्रिताः1 ।
भवेत्प्रयोगो नान्यत्र2 स तु3 कार्यः प्रयोक्तृभिः । ४४

अङ्गा बङ्गाः कलिङ्गाश्च वत्साश्चैवोढ्रमागधाः3a ।
4पौण्ड्रनेपालकश्चेव 5अन्तर्गिरबहिर्गिराः ।। ४५

तथा 6प्लवङ्गमा ज्ञेया मलदा मल्लवर्तकाः7 ।
ब्रह्मोत्तरप्रभृतयो भार्गवा मार्गवास्तथा ।। ४६

प्राग्ज्योतिषाः पुलिन्दाश्च वैदेहास्ताम्रलिप्तकाः8 ।
9प्राङ्गाः प्रावृतयश्चैव 10aयुञ्जन्तीहोढ्रमागधीम्10 ।। ४७

11अन्येऽपि देशाः प्राच्या ये पुराणे संप्रकीर्तिताः ।
तेषु प्रयुज्यते ह्येषा12 13aप्रवृत्तिश्चोढ्रमागधी13 ।। ४८

पाञ्चालाः शौरसेनाश्च काश्मीरा हास्तिनापुराः ।
बाह्लीकाः 14शाकलाश्चैव मद्रकौशीनिरास्तथा ।। ४९

हिमवत्संश्रिता ये तु15 गङ्गायाश्चोत्तरां दिशम्16 ।

Abh

कच्छादिम्लेच्छानां निषेधेन प्रसिद्धया देशोपसंग्रहणार्थः कवीनाम् । एवमुत्तरत्र । नित्यानित्यमिति । अनादिरयं देशभेदेन चित्तवृत्तिक्रमः । दृष्टो हि वस्त्राभरणात्मना देशभेदोचितः स्वभावभेदः । बाहुल्येनेति नात्र भविष्यति प्रमाणाभावादित्यादिना शुष्कतर्केणासूचितव्यमिति भावः । एषेति अवन्तिप्राण्ज्योतिषकामरूपीया । पुराणा इत्यागमपूर्वकत्वमाह । तुरुष्काश्चारट्टकदरक–

Notes

1 –वृत्तिमेते समाश्रिताः N–एषां समाश्रयः 2 –नाट्ये च 3 –च, 3a–N– श्चेवोर्धमागधाः 4 –पौण्ड्रा 5 –ह्यन्तगिरि 6 –प्रवङ्गमाहेन्द्रं 7 –मल्लवर्तिकाः –मलवर्तकाः 8 –ताम्रलिप्तकाः 9 –प्रांशुप्रवृत्तयः –प्रांशुप्रावृत्तयः –प्राङ्गाः प्राभृतयः –प्राङ्गाः प्रवृत्तयः 10 –ह्यौढ्रमागधीम् 10 a–N –युञ्जन्तीहोर्धमागधीम् । 11 अयं श्लोको भमयोर्न विद्यते 12 –त्वेषा –अप्येषा 13 –चान्ध्रमागधी, 13a–N–प्रवृत्तिश्चोर्ध्वमागधी 14 –शाल्यकाः –शाककाः –शल्यकाः 15 –च 16 –तथा चाप्य प्रदक्षिणम् ।

1ये श्रिता वै जनपदास्तेषु पाञ्चालमध्यमा ।। ५०

पाञ्चालमध्यमायां तु सात्त्वत्यारभटी स्मृता2 ।
प्रयोगस्त्वल्पगीतार्थं आविद्धगतिविक्रमः ।। ५१

द्विधा क्रिया भवत्यासां रङ्गपीठपरिक्रमे ।
प्रदक्षिणप्रवेशा च तथा चैवाप्रदक्षिणा ।। ५२

आवन्ती दाक्षिणात्या च प्रदक्षिणपरिक्रमे ।
अपसव्यप्रवेशा तु पाञ्चाली 3aचोढ्रमागधी3 ।। ५३

आवन्त्यां दाक्षिणात्यायां 4पार्श्वद्वारमथोत्तरम् ।
5पाञ्चाल्यामोढ्रमागध्यां योज्यं द्वारं तु दक्षिणम् ।। ५४

Abh

खसप्रभृतयः मध्यमायामेव प्रविष्टाः, ते तु व्यवहारबहिष्कृतत्वात् स्वकण्ठेन न पठिताः । अल्पगीतार्थ इति लेशतः कैशिकीमनुजानाति । तत्र प्राग्देशानां सीमात्वेन दक्षिणत उढ्राः समुद्रनिकटे, उत्तरतो मागधाः, तदुभयमध्यवर्तित्वादौढ्रमागधी1, 2अत एवौढ्र– कलिङ्गनामुभयोपजीवित्वाभिप्रायेण वृत्तिद्वयमध्ये गणनम् । गिरीणामन्तर्ये भवास्तेऽन्तर्गिराः, गिरेश्च सनेक स्येति समासान्ते मत्वर्थीये वाचि रूपम् । दक्षिणोत्तरव्यतिरेकेण परिक्रमणस्थानाभावात् नैकट्याद द्वे प्रवृत्ती एकीकृत्य प्रयोगाभिधानम् । तत्र दाक्षिणात्य उत्तरेण द्वारेण प्रविश्य 3पश्चिमायां दिशि परिक्रम्य ततोऽपि दक्षिणस्यां ततः पूर्वस्यां ततः उत्तरस्यां परिक्रमेत् । परिक्रम्य च तस्यामेव दिश्यात्मनिवेदनं कुर्यात् । 4तदुक्तं दक्षिणाभिमुख इति । तत उत्तरस्यां पूर्वां ततोऽपि दक्षिणां ततः पश्चिमां प्राप्योत्तरद्वारेणैव निष्क्रामेत् । एवं सात्त्वत्यादौ, तद्विपर्ययेण पाञ्चाली ।

Notes

1 –ये चाश्रिता 2 , N–श्रिता –भृतः 3 –ह्यौढ्रमागधी –सोढ्रमागधी 3a–N चोर्ध्वमागधी 4 –योज्यं 5 प, N–पाञ्चालमध्यामागध्योः । 1 –आन्ध्रमागधी 2 –अत एवान्ध्रकलिङ्गानां 3 –मध्यमं –पश्चिमं 4 –तदुत्तरम् ।

एकीभूताः पुनश्चैताः प्रयोक्तव्याः प्रयोक्तृभिः ।
1प(पा)र्षदं देशकालौ चाप्यर्थयुक्तिमवेक्ष्य च2 ।। ५५

येषु देशेषु या कार्या3 प्रवृत्तिः परिकीर्तिता ।
तद्वृत्तिकानि रूपाणि तेषु तज्ज्ञः प्रयोजयेत् ।। ५६

4एकीभूताः 5पुनस्त्वेताः 6नाटकादौ भवन्ति हि ।
अवेक्ष्य वृत्तिबाहुल्यं तत्तत्कर्म समाचरेत्7 ।। ५७

Abh

तदस्या दक्षिणद्वारेण प्रवेशो निष्क्रमणं च प्रदक्षिणेन दक्षिणदिशा प्रवेशोऽभ्यन्तरकक्ष्याव्यवस्थितपात्रनिकट एवेति स्यात् । एवमपसव्यप्रवेश इति ।

विशेषान्तरमाह एकीभूता इति । (पार्षदमिति) परिषदि स्वामित्वकृतं वा प्राधान्यं देशकृतं कालकृतं प्रयोजनकृतं बहुतरपात्रपरीक्षायातोचितं यद्वैचित्र्यकृतमिदमवेक्ष्य सङ्करोऽपि कर्तव्यः, तदाह एकीभूता इति प्रधानानुयायिन्य एवेत्यर्थः ।

एवं प्रयोक्तरि परिक्रमोपयोगः । प्रवृत्तीनां प्रत्येकविषयेऽपि तं दर्शयन्नाह येषु देशेष्वित्यादि (या) प्रवृत्तिरित्यर्थः, सा वृत्तिर्येषु रूपकेषु । तेन* काश्मीरदेशगतनायक नाटिकानुचिता, तस्यां कै शिकीप्राधान्येन दाक्षिणात्योचितत्वात् । देशादौचित्ये तच्चेष्टितव्यावर्तनेन प्रतीतिविघाताद्रसमयत्वाभावः । रसाश्च नाट्यस्य प्राणाः व्युत्पत्तिरपि वा परेव भवेत्, असत्यताशङ्का च समूलघातं विहन्यादेव प्रयोगमित्यनेनाभिप्रायेणाह तद्वृत्तिकानिति । येषु देशेषु यो वृत्तिप्रकार उक्तः स येषु रूपकेषु नाटकादीनामन्यतमेषु भवति, तानि रूपाणि तेष्विति तद्देशगतनायकप्राधान्येन कर्तव्यं कविना नाटकेन च नाट्यशब्दवाच्यस्य प्रयोगस्याश्रयः । नाटकशब्दोऽत्र न रूपकविशेषे, अपि तु नाट्य एव । यथा–

Notes

1 –देशं कालमवस्थां च काव्ययुक्तिमवेक्ष्य च 2 –अवेक्षते 3 –पूर्वं 4 अयं श्लोको दचटजझढन मातृकासु न दृश्यते 5 –यदा त्वेताः 6 –गानकादौ 7 –तत्तत्कर्माचरेत्सदा –तद्वर्मीमाचरेत्तथा । *काश्मीरकनायकदेशे नाटिकानुचिता–Kavi, काश्मीरदेशगत0….मधुसूदनी;

[1सार्थे बाहुल्यमेकस्य शेषाणामथ बुद्धिमान् ।
2येषामन्यस्य बाहुल्यं प्रवृत्तिं पूरयेत्तथा] ।। ५८

प्रयोगो द्वविधश्चैव विज्ञेयो नाटकाश्रयः3 ।
सुकुमारस्तथाविद्धो नाट्ययुक्तिसमाश्रयः ।। ५९

4यत्त्वाविद्धाङ्गहारं तु छेद्यभेद्याहवात्मकम्5 ।
मायेन्द्रजालबहुलं6 पुस्तनैपथ्यसंयुतम्7 ।। ६०

8पुरुषैर्बहुभिर्युक्तमल्पस्त्रीकं तथैव च ।
सात्त्वत्यारभटीप्रायं नाट्यमाविद्धमेव तत्9 ।। ६१

डिमः समवकारश्च व्यायोगेहामृगौ तथा ।
10एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयोक्तृभिः ।। ६२

Abh

“हास्यस्थानानि यानि स्युः कार्योत्पन्नानि नाटके” । ना. शा. ६/६० प्रथमार्घं इत्यत्र नाटक उन्नयति1 (? नाटकमुन्नयति) प्रेक्षकान् सं( ?स्वा)वेशेन व्युत्पत्त्या च तथा तद्भावानुप्रवेशेन प्रयोक्तॄनिति । नाटकं (? नाटके) (मधुसूदनी, पृ. ११३५) कृताविति पाठे गात्राणि विक्षिप्यन्ते अभिनयप्रयोगायास्मादिति संज्ञाकाले । अन्ये तु नटशब्दं कठादिवच्चरणादिच्छन्तो नटानां कर्मश्लाध्यमिति गोत्रचरणाच्च श्लाघादिविशेषणत्वाद् वुञित्याहुः (पा–५–१–१३४) लौकिकं च लिङ्गमिति नैवं शङ्कितव्यमेतद् वुञ् तस्यैकान्तिकं स्त्रीत्वमिति । आविद्ध उत्कटः, अङ्गानां हारो हरणं यत्र । छेदेन भेदेन प्रधानः आहवः संग्रामः, आह्वयन्ते परस्परं वीरा यत्रेति । मायामन्त्रौषधादिकृतं रूपपरिवर्तनादि, (इन्द्र)जालः हस्तलाघवसादृश्यादिकृतं, पुस्तं द्रुमृण्मयमाकृत्यादि । तथैव नाविद्धं (आविद्धं ?) स्त्रीकर्मरूपाणां स्वरूपं स्वक्षेत्र एव

Notes

1 अयं श्लोको डढ –मातृकयोरेव वर्तते 2 –यस्यामन्येऽस्य 3 –नाटकाश्रितः 4 –तत्राविद्ध –सत्त्वाविद्धाङ्गहारस्तु 5 –आत्मकः 6 –बहुलो 7 –संयुतः 8 –प्रयोगः पुरुषप्रायस्तथाल्पस्त्रीक एव च 9 –आरभटीयुक्तो ज्ञेय आविद्धसंज्ञितः 10 –आविद्धसंज्ञाविज्ञेयाः प्रयोगस्य वशानुगाः । 1 –नाटकलनमयति ।

एषां प्रयोगः कर्तव्यो 1देवदानवराक्षसैः ।
2उद्धता ये च पुरुषाः शौर्यवीर्यबलान्विताः3 ।। ६३

नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च4 ।
सुकुमारप्रयोगाणि मानुषेष्वाश्रितानि तु5 ।। ६४

6अथ बाह्यप्रयोगे तु प्रेक्षागृहविवर्जिते ।
विदिक्ष्वपि भवेद्रङ्गं कदाचिद्भर्तुराज्ञया ।। ६५

पृष्ठे कृत्वा कुतपं नाट्यं युक्ते यतो मुखं भरतः ।
सा पूर्वा मन्तव्या प्रयोगकालेन नाट्यज्ञः ।। ६६

द्वाराणि षट् चैव भवन्ति चात्र रङ्गस्य दिग्भाण्डविनिश्चितानि ।
नाट्यप्रयोगेण खलु प्रवेशे प्राच्यां प्रतीच्यां च दिशि प्रवेशः ।। ६७

Abh

वक्ष्यामः । शौर्यमभीरुत्वं, वीर्यमुत्साहः, बलं कायधर्मः पराक्रमः । मानुषेष्विति बाहुल्यापेक्षमेतत् । एवं चत्वारि भिन्नानि डिमाद्यु( ?दीन्यु)द्धतानि वर्गसुकुमाराणि नाटकादीनि ।

एवमन्तरङ्गोपकारित्वात्कक्ष्यामाधारमुक्त्वा तदाक्षिप्तं च वृत्तिभेदमभिधाय धर्मा (र्म्यो) (मधुसूदनी, पृ. १३३८) निरूप्यन्ते । तथा हि लोकस्वभावमेवानुवर्तमानं धर्मिद्वयम् । लोको नाम जनपदवासी जनः, स च प्रवृत्तिक्रमेण प्रपञ्चितः । तत्प्रसङ्गेनैव तावद्धर्म्यायाता । सा चाङ्गिकशेषतया वक्तव्या । प्रसङ्गाच्च वाचिकाहार्यादिविषयाण्युच्यन्ते तुल्यलक्षणत्वादिति । सा च द्वेधा । यद्यपि लौकिकधर्मव्यतिरेकेण नाट्ये न कश्चिद्धर्मोऽस्ति, तथापि स यत्र लोकागतप्रक्रियाक्रमो रञ्जनाधिक्यप्राधान्यमधिरोहयितुं कविनटव्यापारे वैचित्र्यं स्वीकुर्वन् नाट्यधर्मीत्युच्यते ।

Notes

1 –दैत्य 2 –उद्धताश्चैव 3 –समन्विताः –शौर्यधैर्यदयान्विताः 4 –नाटिके – एव तु 5 –योज्यान्येतानि मानुषैः 6 “यतो मुखमितिश्लोकः तदनन्तरं” ‘अथादि’….कार्यः, इति अन्तं षट्श्लोकाः कादि चान्तेषु विना सर्वेष्वादर्शेषु निवेशिताः, ते प्रक्षिप्ततया न व्याख्याताः ।

विधानमुत्क्रम्य यथात्र रङ्गे विना प्रमाणाद्विदिशःप्रयोगे1 ।
द्वारं तु यस्मात्समृदङ्गभाण्डं प्राचीं दिशं तां मनसाध्यवस्येत्2 ।। ६८

वयोऽनुरूपः प्रथमं तु वेषो वेषानुरूपश्च गतिप्रचारः ।
गतिप्रचारानुगतं च पाठ्यं पाठ्यानुरूपोऽभिनयश्च कार्यः] ।। ६९

धर्मी या 3द्विविधा प्रोक्ता3a मया पूर्वं द्विजोत्तमाः4 ।
लौकिकी नाट्यधर्मी च तयोर्वक्ष्यामि लक्षणम् ।। ७०

5स्वभावभावोपगतं शुद्धं तुप विकृतं तथा6 ।
लोकवार्ताक्रियोपेतमङ्गलीलाविवर्जितम्7 ।। ७१

स्वभावाभिनयोपेतं8 नानास्त्रीपुरुषाश्रयम् ।
यदीदृशं भवेन्नाट्यं लोकधर्मी तु सा स्मृता ।। ७२

Abh

तदेतदाह धर्मी या द्विविधेति । प्रोक्ता उद्दि्ष्टेत्यर्थः । पूर्वमिति ‘रसा भावा’ इत्यादिसंग्रहविभागावसरे (अ–६–१०) लौकिकस्य धर्मस्य मूलभूतत्वान्नाट्यधर्मं वैचित्र्योल्लेख्यभित्तिस्थानत्वादिति लोकधर्मीमेव लक्षयति स्वभावभावोपगतमित्यादि । काचित्तद्विषया धर्मी, काचिन्नटविषया । यो यस्य स्वभावतो भावः स्यात् स्थायिव्यभिचार्यादिः तेनोपेतम् । कथमधिकृतत्वादित्याह (शुद्धमिति)। शुद्धत्वात् स्वविकल्पितेन व्यामिश्रत्वात् तथेति शुद्धं कत्वा । लोकवार्ता लोकप्रसिद्धिः तस्यां या क्रिया व्यवहारो वृत्तान्तस्तया शुद्धमेव कृत्वा युक्तं यन्नाट्यं नटनीयं कार्यं सा लोकधर्मी धर्म्यास्तद्वतश्चाभेदोपचारात्सामानाधिकरण्यम् । अङ्गलीलया वर्तनादिकया वर्जितं कृत्वा । स्वभावबलपतनप्रहारनादावसरविवादादाविव पताकादिना योऽभि–

Notes

1 –कृतः कथंचिद्विदिशप्रयोगः 2 –व्यवस्येत् 3 N–तु 3a–N ज्ञेया 4 – प्रयोगे नाट्यकारिता 5 –स्वभावकर्मोपगतं 6 –च विकृतं च यत् –नार्थं तु विकृतं तथा (?) –त्वकृतं तथा 7 –नानाभावरसान्वितम् 8 –नयस्थानम् ।

1अतिवाक्यक्रियोपेतमतिसत्त्वातिभावकम्2 ।
लीलाङ्गहाराभिनयं नाट्यलक्षणलक्षितम्3 ।। ७३

4स्वरालङ्कारसंयुक्त5मस्वस्थपुरुषाश्रयम् ।

Abh

नयस्तेनोपेतम् । नानात्वेन च स्त्रीपुंसोः स्त्रियां प्रयोज्यायां योषिदेव प्रयोक्री पुरुषे तु पुरुष इत्येवंभूतं यन्नाभ्यस्तचेष्टितं सा लोकधर्मी तद्धर्मव्यपदेशात् यदि वा समुदायरूपस्य काव्यं ताभ्यां मनसो एकदेशभूता धर्मी ।

एतदुक्तं भवति–यदा कविर्यथावृत्तवस्तुमात्रं वर्णयति नटश्च प्रयुङ्क्ते, न तु स्वबुद्धिकृतं रञ्जनावैचित्र्यं, तत्रानुप्रवेशयंस्तदा तावान् स काव्यभागः प्रयोगभागश्च लोकधर्माश्रयः तत्र धर्मी । अर्थाभिनये सहकारिरूपा इतिकर्तव्यतारूपा वेति दशशततमादितरत्र प्रवेशानाह शून्यतायाम्(?) काव्यनाट्ययोर्हि लोकानुसारित्वं वा वैचित्र्ययोगित्वं वा धर्मः । तत्र किमेतद्भावमुद्भावमुच्यते तदास्तामेतत् ।

अथ नाट्यधर्मी लक्षयति अतिवाक्यक्रियोपेतमिति । इतिहासादिवाक्यमतिक्रम्य या उचितरञ्जके तिवृत्तकल्पनात्मिका क्रिया । राजशेखरेण रामनिर्वासना दशरथवेषराक्षसविरचितत्त्वकल्पना, तया यदुपेतं भावसत्त्वं स्वभावचित्तवृत्तिमतिक्रम्य यत्स्थितं कविकल्पितचित्तवृत्त्यन्तरयुक्तमित्यर्थः । यथा स्वभावचपलविदूषकचित्तवृत्त्यतिक्रमात् यथा तापसवत्सराजेन मन्त्रिसमुचितगाम्भीर्यावहित्थयोजनं वसन्तकस्य तथा, स्वभावभाषित– मतिक्रम्य यत्स्थितं यथा राज्ञ्याः संस्कृतम्* । एवंभूतं काव्यं काव्यगतनाट्यधर्मी नटगता तु नाट्यलक्षणलक्षितं कृत्वा लीलया शोभाप्रधानतया अङ्गहाराणि मनोहराणि तत्प्रधानैरभिनयैः उपेतं तथापाठे स्वरालङ्कारसंयोजना युक्तं यत्र च पुरुषो न स्वरूपे तिष्ठति, अपि तु स्त्रीबलमाश्रयति, प्रयोज्यः पुरुषो यत्र न स्वरूपस्थः

Notes

1 अयं भमातृकायां न वर्तते –गीतवाद्यक्रियोपेतं –अतिसत्त्व 2 – N–भाविकम् –भावजम् –भाषितम् –सत्त्वभावसमन्वितम् 3 नाट्यताललयान्वितम् 4 –सर्वालङ्कार 5 –अश्वस्थ ट–नाट्यस्थ । *तापसवत्सराजे ।

यदीदृशं भवेन्नाट्यं नाट्यधर्मी तु सा स्मृता ।। ७४

1लोके यदभियोज्यं च पदमत्रोपयुज्यते ।
2मूर्तिमत्साभिलाषं3 च नाट्यधर्मी तु सा स्मृता ।। ७५

आसन्नोक्तं च यद्वाक्यं4 न शृण्वन्ति परस्परम् ।
अनुक्तं श्रूयते यच्च नाट्यधर्मी तु सा स्मृता5 ।। ७६

शैलयानविमानानि चर्मवर्मायुधध्वजाः ।
मूर्तिमन्तः प्रयुज्यन्ते नाट्यधर्मी तु सा स्मृता ।। ७७

[य एकां भूमिकां कृत्वा कुर्वीतैकान्तरेऽपराम्6 ।
7कौशल्यादेककत्वाद्वा नाट्यधर्मीति सा स्मृता ।। ७८

Abh

अपि तु स्त्रिया प्रयुज्यते तन्नाट्यधर्मी । भवेदित्यनेन संभावनामाचक्षाण इदमाह नैवेदं समयमात्रं निष्ठमिति वक्तव्यं अपि तु संभाव्यमानमेव । सद्रञ्जनोपयोगि वस्तूपयोगि च न ह्यसन्नवचनस्यापि अश्रवणमन्यैरप्यश्रूयमाणस्य च श्रवणं लोकेऽपि कदाचन न भवति । केवलं तन्त्रे तत्सौन्दर्यार्थमानीयते । यथोक्तमुपाध्यायैः

यदत्रास्ति न तत्रास्य कवेर्वर्णनमर्हति ।
यन्नासंभवि तत्र स्यात्सम्भव्यत्र तु धर्मतः ।।

अत्र नियमहेतुः सौमनस्यं तत्र नाट्यधर्मव्यापकत्वं बहुतरोदाहरणनिदर्शनदिशा दर्शयितुमाह लोके दिति अभियोज्यं क्रियासु पदं मूर्तत्वात् केवलं साभिलाषं लोकेऽपि कलाशिल्पकल्पनाकलितवपुस्तदपि मूर्तिसंपादनेन प्रयुज्यते प्रयोगः क्रियते । यथा मायापुष्पके “ततः प्रविशति ब्रह्मशाप” इति । शृण्वन्ति जनान्तिकापवारितकयोः । अनुक्तं श्रूयते, आकाशभाषितं च, गतादावाकाशादौ । मूर्तिमन्त इति प्रक्रिया तु कर्म कायवत्प्रयुज्यन्त इत्यर्थः । तद्यथा– “अग्रे पर्वत एष कथमत्र गन्तव्यम्” इत्यादि । चर्म खेटकं वसुनन्दादि

Notes

1 N–लोकप्रसिद्धद्रव्यं तु यदा नाट्ये प्रयुज्यते –लोकेऽप्रयुज्यं यद्द्रव्यं समं नाट्ये प्रयुज्यते 2 –वृत्तमत् 3 –साभिभाषं च 4 –तु 5 –नाट्यधर्मीकृतं तु तत् 6 –पूनरन्यां प्रयोजयेत् 7 N–कोशलादेककृत्यत्वात् ।

यागम्या प्रमदा भूत्वा गम्या भूमिषु युज्यते1 ।
गम्या भूमिष्वगम्या वा नाट्यधर्मी तु2 सा स्मृता ।। ७९*

3ललितैरङ्गविन्यासैस्तथोत्क्षिप्तपदक्रमैः ।
नृत्यते गम्यते 4चापि नाट्यधर्मी तु सा स्मृता ।। ८०卐

5योऽयं स्वभावो लोकस्य सुखदुःखक्रियात्मकः ।
सोऽङ्गाभिनयसंयुक्तो नाट्यधर्मी प्रकीर्तिता6 ।। ८१

7यश्चेतिहासवेदार्थो ब्रह्मणा समुदाहृतः8 ।
9दिव्यमानुषरत्यर्थं10 नाट्यधर्मी तु सा स्मृता ।। ८२

यश्च कक्ष्याविभागोऽयं नानाविधिसमाश्रितः11 ।
रङ्गपीठगतः प्रोक्तो नाट्यधर्मी तु सा भवेत् ।। ८३

नाट्यधर्मीप्रवृत्तं हि सदा नाट्यं प्रयोजयेत् ।

Abh

अपूर्णरूपं दारुवस्त्रचित्रादिरूपतया प्रयुज्यते । ललितैरिति आवेष्टितादिचतुर्विधकरणोपगृहीतवर्तनाप्रवर्तितैः । उत्क्षिप्तानि चतुस्तालादिना (अ. ९–२७३–२८९) यानि पदानि तेषां क्रमात्कालविभागाश्चतुष्कलत्वादयः । शब्द इवशब्दार्थः । नृत्यत इव यद्गम्यते नृत्तसदृशी विशाखा सा या गतिरित्यर्थः, तद्भावे लटौ । एतत्प्राणितमेव नाट्यमित्याह योऽयं स्वभाव इति । अङ्गैरातोद्यादिभिरभिनयैश्च यदुपेतत्वं लोकस्वभावस्य नाट्यधर्मी, लोकस्वभावत्वानुभावविलासोपेतत्वं विधायकस्य नाट्यधर्मीत्वं विधानमिति प्रथमाध्याये (१–११८) श्लोकाद्भिन्नार्थ एवायं, तत्र नाट्यलक्षणपरो वाक्यार्थं इति विवृतं चैतत्तत्रैवाध्याये । प्रसङ्गोपयोगेन सर्वाभिनयप्रकारसारा नाट्यधर्म्यभिहिता तां दर्शयति यश्चेतिचकारः प्रसङ्गं द्योतयति । प्रोक्त इति समनन्तरमेव । व्यापकत्वमेव नाट्यधर्म्या उपसंहरति (नाट्यधर्मीत्यादिना) उपदेशद्वारेण नाट्यधर्मीप्रवृत्ता गतिः । अत्र

Notes

1 –योज्यते 2 –च 3 –यश्चाङ्गहारविन्यासैः 4 –चैव –यच्च 5 –यो यः –यश्च स्वभावो 6 –धर्मी तु सा स्मृता 7 –यत्सेतिहासो वेदार्थो 8 –काव्यसंमतः –काव्यधर्मतः 9 –देव 10 –रत्यर्थो 11 –देशसमाश्रयः ।

  • after v ७९, ‘N’ has: शैलयानविमानानि चर्मवर्मायुधध्वजाः । मूर्तिमन्तः प्रयुज्यन्ते नाट्यधर्मी तु सा स्मृता ।। ६५ ।। 卐 after v ८०, ‘N’ has: आसन्रोक्तं च यदवाक्यं न श्रृणवन्ति परस्परम् । अनुक्तं श्रूयते यच्च नाट्यधर्मी तु सा स्मृता ।। ६७ ।।

न ह्यङ्गाभिनयात्किञ्चिदृते1 रागः2 प्रवर्तते ।। ८४

सर्वस्य सहजो भावः सर्वो ह्यभिनयोऽर्थतः3 ।
अङ्गलङ्कारचेष्टा तु नाट्यधर्मी प्रकीर्तिता4 ।। ८५

एवं कक्ष्याविभागस्तु धर्मी युक्तय एव च5 ।
6विज्ञेया नाट्यतत्त्वज्ञैः प्रयोक्तव्याश्च तत्त्वतः ।। ८६

7उक्तो मयेहाभिनयो यथावच्छाखाकृतो यस्तु कृतोऽङ्गहारैः ।

Abh

हेतुः न ह्यङ्गाभिनयादिति । अङ्गानि च गीतातोद्यादीन्याभिनयाश्चेति द्वन्द्वसमाहारः । राग इति सामाजिकप्रीतिः । नाट्यधर्म्या यदि व्यापकत्वाल्लोकस्वभावभाविन्या न प्रयोजनमुक्तयेत्याशंक्याह सर्वस्य सहज इति । हि शब्दो हेतुमद्भावं द्योतयति । तदयमर्थः–यस्मात्कविगता नाट्यगता वागङ्गालङ्कारनिष्ठा नाट्यधर्मीरूपा सर्वप्राणवती, अर्थत इति अर्थमपेक्ष्य प्रवर्तते अभिनयश्च सर्वाभिनेयमर्थमपेक्ष्य प्रवर्तते, तस्मात्सर्वस्य संबन्धी सहजो भावो लोकधर्मलक्षण उक्तो भित्तिस्थानीयत्वेन नाट्यधर्म्या सहजसंवादिकर्मणः । अङ्गं卐 गुणाः लक्षणानि च, चेष्टावर्तनारूपा, अलङ्कारा उपमादयश्च ।*

अध्यायार्थमुपसंहरति एवं कक्ष्याविभागस्त्विति । धर्मी ह्येकवचनं नाट्यधर्म्या अत्र प्राधान्यादन्यस्यास्तत्रैव मग्नत्वात् । युक्तय इति प्रवृत्तयः अथोपसंहारे च प्रयोजनं धर्म्यादयो उपरकरणभूताः, तेषामल्पबाहुल्यविरचितक्रमाभिधानं योजयित्वेति प्रतिपादनमध्यायार्थप्रकरणप्रस्तावे च प्रथमेन योजयति । अन्येन च भाविप्रकरणार्थ– मासूत्रयति उक्तो मयेहाभिनय इति स मयेत्यात्मज्ञानोत्कर्षणं व्युत्पत्तिं शिष्याणामुत्पादयति । यद्यप्यस्य शाखानृत्तं (करवर्तना) चाङ्गहारश्च वस्तुनीत्युक्तं, तथापि भावाध्याये सात्त्विकप्रसङ्गेन (७-९४) अङ्कुरस्याभिहितत्वात् सामान्याभिनये च (अ–२२–४१) तदुक्तं वक्तव्यशेषस्य वक्ष्यमाणत्वादाङ्गिकाभिनयोपसंहारदेवोपसंहरति । वाक्य–

Notes

1 –किंचिद्विना 2 –नाट्यं 3 –अर्थजः 4 –धर्मीति संज्ञिता 5 N–धर्मीयुक्तस्तथैव च –युक्ताः प्रकीर्तिताः 6 – सह प्रवृत्तिभिर्योज्यो नाट्यज्ञैरर्थयोगतः N–विज्ञेयो नाट्यतत्त्वज्ञैः प्रयोक्तव्यश्च । 7 N–उक्तो मयाङ्गाभिनयो 卐 गुणाः लक्षणानि च …..चेष्टा वर्तनारूपाः– मधूसूदनी *अङ्गं वर्तनारूपं गुणलक्षणानि च अलङ्कारश्चेष्टा–KaVi

1पुनश्च वाक्याभिनयं 2यथावद्वक्ष्ये स्वरव्यञ्जनवर्णयुक्तम् ।। ८७

इथि भारतीये नाट्यशास्त्रे 3कक्ष्या– 3aप्रवृत्तिधर्मीव्यञ्जको नाम त्रयोदशोऽध्यायः4 ।

Abh

मेवाभिनयः तत्त्वतश्च धर्मी, अभिनयो वाक्यं हास्यादौ यद्यापि वाक्याभिनय उक्तस्तथापि सत्युक्तस्वरूपमभिनेयमिति तथाह यथावदिति, अत एव पुनरुक्तम् । स्वराः अचः व्यञ्चनानि हलः वर्णा अज्झल्समुदाया इति शिवम् ।।

शीतांशुमण्डलकशेखरपादपद्म– किञ्चल्कपूगपरिपूतशिरेरुहेण ।
वृत्तिः कृताभिनवगुप्तपदाभिधेन 1कक्ष्याङ्कचित्रतललक्षणवर्णनेऽस्मिन् ।।

इति श्रीमन्महामाहेश्वराचार्याभिनवगुप्ताचार्यविरचितायां 2नाट्यवेदविवृतावभिनवभारत्यां कक्ष्यावृत्ति-धर्म्यभिधानं नाम त्रयोदशोऽध्यायः ।

Notes

1 –वक्ष्यामि 2 –स्वशक्त्या भूयःस्वर 3 –नाट्यधर्मीप्रवृत्तिव्यञ्जनो नाम 3a–N कक्ष्यायु धर्मीव्यञ्जको नामाध्यायश्चतुर्दशः ।। 4 कखगघभमेषु विना सर्वेषु चतुर्दंशोऽध्यायः । दमातृकायां N मातृकायां च श्लोकसंख्या ७३. आदितः २२५३. 1 –कक्ष्याङ्कवित्रितल 2 –नाट्यवेदवृत्तौ ।