श्रीः
नाट्यशास्त्रम्
द्वादशोऽध्यायः*
एवं व्यायामसंयोगे1 कार्यं मण्डलकल्पनम् ।
अतः परं प्रवक्ष्यामि 2गतीस्तु प्रकृतिस्थिताः ॥ १
तत्रोपवहनं कृत्वा भाण्डवाद्यपुरस्कृतम् ।
Abh
श्रुत्यन्तविश्रान्ताविधिर्या गतिः परमात्मनः ।
तां महानन्दसन्दोहतत्त्वमूर्तिं1 स्तुमः सदा ॥
प्रकरणसंगतये 2प्रकृतानुपूर्वकं निरूपयिष्यमाणं प्रतिजानीते एवमिति । व्यायामानामन्योन्य3संमीलनयोग्यानां चारीणां 4संहत्या योगे मिश्रीभावे सति मण्डलानां कल्पनमनुक्तमपि कर्तुं शक्यं बुद्ध्येति तत उपरम्यते । 5तत्राङ्गिकस्य रसभावयोर्विनियोगशो (विभागशो?) विनियोगस्य कृतत्वाद्यद्यपि तन्मिश्रणेऽपि पृथग्विनियोगेन वक्तव्यं, तथापि शिष्यहितप्रतिपन्नो मुनिर्दिशं दर्शयितुं शिरःप्रभृतिपादान्ते (यानि) 6अङ्गसंधेयानि कर्माण्युक्तानि तन्मेलनबलेन यो 7देहसंनिवेशो गतौ वा स्थितौ 8प्रकाराभावात्तस्य विनियोगं 9प्रकटयिष्यन् चारीमण्डल10प्रसंगस्याचित्तवृत्तित्वाद्गतिविनियोगमेव प्रतिजानीते । गतिश्च प्रकृतिं रसमवस्था देशं कालं चापेक्ष्य वक्तव्या ।प्रतिपुरुषमभिधानात् । तत्र प्रक्रिया पूर्वमुच्यते, 11तदेतत्तुशब्देन यावच्छब्दपर्यायवाचिना क्रमार्थेन काकाक्षिवदुभयतो धावता द्योतितम् । तत्राप्रविष्टस्य का गतिरिति 12प्रयोगोपक्रमं सूचयति तत्रोपवहनमिति । 13यदङ्गानुसारालाप
Notes
1 म–संजातं 2 प–गतिं तु प्रकृतिस्थिताम् 1 संदोहि सत्त्वमूर्तिं 2 वर्णितानुपूर्वकं 3 संकलन 4 संगत्या 5 तत्राङ्गिकसाभागयोर्विनियोगशो 6 अङ्गकर्मसंयोगानि 7 भेदसंनिवेशो 8 प्रकारभावात् 9 प्रकटयिष्यामः 10 प्रसङ्गस्याचित्रवृत्तित्वात् 11 तदेतादृक्छब्देन यादृक्छब्दपर्याय क–तदेतद्दिक्छब्देन 12 प्रवेशोपक्रमं 13 यद्रङ्गानुसारालाप । *त्रयोदशोऽध्यायः (N)
यथामार्गरसोपेतं1 प्रकृतीनां प्रवेशने2 ॥ २
ध्रुवायां संप्रवृत्तायां पटे चैवापकर्षिते3 ।
कार्यः प्रवेशः पात्राणां नानार्थरससंभवः ॥ ३
Abh
इति 1प्रसिद्धं तमालापं कृत्वा 2ध्रुवायां सम्यक् प्रवृत्तायां, कथं?, भाण्डवाद्यपुरस्कृतत्वादि3 रूपत्रययुक्तं 4कृत्वेति, 5त्रीण्यपि क्रियाविशेषणानि । तन्त्रीभाण्डं वाद्यमानं पुष्करवाद्यम् । मार्गो देशः, रसः स्थायिचित्तवृत्तिः, वीप्सायामव्ययीभावः । यो यः कश्चिद्गुहोद्याननिर्देशः, 6रत्यादिश्चित्तवृत्तिविशेषः, तेनोपेतं कृत्वा, 7या ध्रुवा तथा उत्तमादिप्रकृतीनां यस्यावेशनं बुद्धौ प्रवेशो यत्र तथा कृत्वा । एतदुक्तं भवति–हंसाद्युपमानमुखेन प्रकृतिविशेषः, चित्तवृत्तिविशेषः, उद्यानादिविशेषश्चावश्यं ध्रुवासूपनिबन्धनीयः । एवं ध्रुवायां प्रवृत्तायामेवं सत्यां । पटेऽपक्रर्षिते यवनिकायामपसारितायां8 तदा सामाजिकानां नेपथ्यगृहादयमागत इति नटी निवर्त्यते । चकारात्तत्काले पुनरुपोहनम्9 । ध्रुवाप्रवेशो10लये मध्ये11 12वलितया–13वलनिकेति कोहलेन प्रयोगवलनाह्युपदिष्टं –शुष्काक्षरगानं कृत्वा, प्रवेश एव तथा समुचितस्थानकदृष्टिमुखरागादियुक्तः कर्तव्यो 14यथा सामाजिकानां झटित्येवान्विताभिधाननयेन 15मुख्यरसव्याप्तिरुदयते । प्रगीतं गीयमानग्रामरागाग्रगतैकगमकाकर्णने समग्रग्रामतत्त्वसंवेदनवशः ।
अन्ये तु यथामार्गकलोपेतमिति पठन्ति । उभयतः शेषत्वेन व्याचक्षते– मार्गेषु चित्रादिषु याः कला द्विमात्राचतुर्मात्राष्टमात्रेति ग्रामेषूच्यन्ते चालिप्तकादिषु कला वाद्याक्षराणीति । यदपि पात्राणामध्रुवा अपि प्रवेशा वक्ष्यन्ते
Notes
1 प–मार्गकलोपेतं 2 ड–प्रवेशनम् 3 ड–अवघट्टिते ढ–अवघर्षिते न–अवकर्षिते प–अपघट्टिते 4 म–कार्यमुत्तमे । 1–प्रसिद्धः क्रमालापं 2ध्रुवादिभ्यः 3 पुरस्कृतादि 4 उक्तं 5 नित्यविक्रिया 6 रत्यादे 7 यद्वद्व्रूह्यं 8 प्रसारितायां 9 उपोहनात् 10 प्रदेशः 11 क–पयेन्मध्ये ख–पलयेन्मध्ये 12 चलितया 13 वलितेति 14 यः 15 मुख्यः सव्याधिरुदयते ।
स्थानं तु वैष्णवं 1कृत्वा ह्युत्तमे मध्यमे तथा ।
समुन्नतं समं चैव चतुरश्रमुरस्तथा ॥ ४
बाहुशीर्षे प्रसन्ने च नात्युत्क्षिप्ते च2 कारयेत् ।
ग्रीवाप्रदेशः कर्तव्यो मयूराञ्चितमस्तकः ॥ ५
3कर्णादष्टाङ्गुलस्थे च4 बाहुशीर्षे प्रयोजयेत् ।
5उरसश्चापि चिबुकं चतुरङ्गलसंस्थितम्6 ॥ ६
हस्तौ तथैव कर्तव्यौ कटीनाभितटस्थितौ7 ।
दक्षिणो नाभिसंस्थस्तु वामः कटितटे स्थितः ॥ ७
पादयोरन्तरं कार्यं द्वौ तालावर्धमेव च ।
8पादोत्क्षेपस्तु कर्तव्यः स्वप्रमाणविनिर्मितः ॥ ८
Abh
तथापि संभवमात्राभिधान1मेतदुत्तममध्यमयोर्वा प्रस्तावादेवमुक्तम् । तयोहिं ता ध्रुवाः प्रवेशास्तेऽपि वा चकारेण संगृहीता एव । एकः समोऽन्यः पक्षः । स्थानमिति त्र्यश्रेऽर्धद्विकतालभागिति वैष्णवं स्वप्रवेश एव सन्ने अचले प्रसन्ने, 2नात्युक्षिप्ते 3अधो वा अधोगामित्वं 4यत्नेन परिहार्यमिति श्लोकार्थमेव शिक्षयितुं स्फुटमुपायमाह ग्रीवाप्रदेश इत्यादिना सार्धेन श्लोकद्वयेन । स्वस्थमयूरवदञ्चितं सुरूपं शिरो यत्र । नाभिसंस्थ इति चातुरश्रयप्रस्तावः खटकामुखः, वाम इत्यर्धचन्द्रः । न चेदमुपविष्टस्थानकमपि तु गत्यानन्तर्योचित्यात्तु स्थितस्थानकमेवेति दर्शयितुमाह पादयोरन्तरमिति । “द्वौ तालावर्धं च पादयोरन्तर” मिति (१०-५२) यत्स्थानकलक्षणं सूचितं तदेव कार्यं नान्यदुपवेशनादित्यर्थः । तत्र स्थानकानन्तरं गतिमुपक्षिपति5 पादोत्क्षेप इतिं स
Notes
1 म–कार्यमुत्तमे 2 म–न 3 म–कर्णाभ्यां बाहुशिरसी स्यातामष्टाङ्गुलस्थिते । 4 ड–अङ्गलिस्थैव 5 भ–उरसश्चापि देशाच्च. चिबुकं चतुरङ्गुलम् 6 द–संमितम् 7 म–कटिं नाभिं तु संस्थितौ 8 ढ–पादोत्क्षपक्ष । 1 मात्राविधानं 2 तान्युत्क्षिप्ते 3 इत्यतो 4 यत्तेन 5 आक्षिपति ।
चतुस्तालो 1द्वितालश्चाप्येकतालस्तथैव च2 ।
चतुस्तालस्तु देवानां पार्थिवानां तथैव च ॥ ९
द्वितालश्चैव मध्यानां तालः स्त्रीनीचलिङ्गिनाम्3 ।
चतुष्कलोऽथ द्विकलस्तथा ह्येककलः पुनः ॥ १०
चतुष्कलो ह्युत्तमानां मध्यानां द्विकलो भवेत् ।
तथा चैककलः पातो नीचानां संप्रकीर्तितः ॥ ११
Abh
युक्तस्तेन भाविलक्षणेन देशकालपरिच्छेदेन च1 कर्तव्यः । स्वकरमानेन च तालः पात्रस्येत्यर्थः ।
तत्र देशपरिच्छेदं तावदाह एकताल इति । तालः प्रसारितमध्यमाङ्गुष्ठान्तरं “तालः स्मृतो मध्यमया” इति । संख्याक्रमेणाभिधाय स्थायिस्थानभूतोत्तमप्रकृतिविश्रान्तत्वात्प्रयोगजातस्य तदुपक्रमं विनियोगमाह चतुस्तालस्त्विति । तु शब्दोऽप्यर्थे कदाचिदन्यथापि भावात् । तथा– शब्दो राज्ञां देवसदृशगत्यसंभवसंभावनापसारणद्योतकः । स्त्रीणां नीचानां साहचर्यादधमानामिति मन्तव्यम् । तेषां हि लिङ्गित्वादधमत्वं किंचिन्न संभावयेत् । यथाशोभमिति नाट्यधर्मीकाममित्यर्थः ।
देशनियममुक्त्वा कालनियममप्यौत्सर्गिकं तावदाह चतुष्कलो हीति । तथा चेति तेनोत्क्षेपेण यत्पादस्य पतनं तदुत्तमानां चतसृभिः कलाभिः यस्मात्तदर्धार्धक्रमेण मध्यमाधमयोः परिभाषित इत्युत्सर्गतयेति भावः ।
Notes
1 द–द्वितीयश्च 2 म–तथा स्यादेकतालकः 3 द–स्त्रीणां च लिङ्गिनाम् इतः प्रभृत्यध्यायान्तं –भम संज्ञकादर्शयोः श्लोकानां पौर्वापर्यविपयर्याद्विषयस्यापि न्यूनाधिकतया च पाठक्रम एव महान्व्युत्क्रमो दृश्यते । पाठभेदानां बहुलतया विशीर्णतया पाठभेदसूचनात्परं लघीयोऽध्यायमेव समग्रं तत्पाठक्रमानुसारि दर्शयितुमिति तथैवास्याध्यायस्यान्ते योजितम् । 1 परिच्छेदेनैव ।
1स्थितं मध्यं 2द्रुतं चैव समवेक्ष्य लयं बुधः3 ।
यथाप्रकृति नाट्यज्ञो गतिमेवं4 प्रयोजयेत् ॥ १२
Abh
तत्र गीतिचतुष्टयं मागध्यादि वक्ष्यते यत्तत्रार्धमागध्यादौ क्रमेण चित्रादित्रयविनियोगात्1 । “निमेषाः पञ्च मात्रा स्यात्” इति कलासामान्यलक्षणलब्ध औत्सर्गिकः सर्वत्र ध्रुवकमार्गो मन्तव्यः । विशेषादभिधाने तेन ध्रुवकमानेन चतुष्कलः पादपातः, तथा चोत्तमपरिग्रहे 2द्विपदी कोहलेनोक्ता–
“स्यादुत्तमानां द्विपदी चतुर्गुरुसमन्विता ।
तत्रोत्क्षेपनिपाताभ्यां यस्मात्पादद्वयं भवेत् ॥”
इति
3लक्ष्यश्च इत्थमेव धिक्डिधिं इति द्विपदीभागेन पादेन पादपातः । अत्र ध्रुवके चतस्रः कला भवन्ति धिगडधिङ् इत्यस्य हि कालः4 कखगघङ, नहि व्यञ्जनकालः स्वरकालात्पृथक्, तानि गुरोश्च5 प्रचलत्वं 6खडतलचडस्तद्विद्भिस्त्रिपुटमेवावधार्यते(?)। तत्र हि7तागड्डधिं– इत्येवं रूपं 8लघुकला तस्यास्तिस्रो मात्राश्चतुर्थे गर्वक्षरे(द्वे) मात्रे इति 9च मात्राः । सर्वत्र 10चैवं प्रकारः समनन्तरग्रहणे वाश्रान्त्यभावेन दुष्करः प्रयोग इति स्थानचेष्टाविश्रान्तिप्रक्लुप्तये मध्यगता विरामरूपैका11 मात्रा लक्ष्यविद्धिः 12प्रकल्पिता, तद्वशादुक्ता तादृशां चतुर्भिर्वा द्रुताः कलायां प्रतिभासन्त इत्यास्तां तावत् । इह चित्रमार्गेण चतुष्कलपादपतनमिति न्याय(नायं?) लक्ष्यलक्षणशोभाबाह्यत्वादपेक्ष्यते च13 ।
अथ लयकालनियमशेषमाह14 स्थितमिति विलम्बितम् । समवेक्ष्येति प्रकृत्यादि भेदविभागेनेत्याह तमेव दर्शयति धैर्यस्थैर्यविलम्बितलयमध्यसंमतं संवेदनं यथार्थमिथ्यागोन(गौण?)गतधैर्यगाम्भीर्यादिकृतं मन्तव्यम् । (यथाप्रकृतीति)
Notes
1 भ–स्थिरं 2 द–समं 3 ड–लयत्रयम् 4 ड–गतिमेव । 1 विनियोगम् 2 द्विचारी 3 लक्ष्यतेऽर्थमेव दलति हि द्विपादीभागेन 4 इत्यस्य कालः 5 पृथक्ता त्रिगुरोश्च 6 क–खहतलचेडलः ख–खडकलयेद्धः 7 भडागिड्डद्धीम् 8 रूपालघुकला 9प 10– चैषां 11 मध्यगतापि समरूपैका 12 प्रकल्पिततद्वशात् 13 अपेक्ष्यत्वमेव 14 शेषमेवाह
1धैर्योपपन्ना गतिरुत्तमानां
मध्या गतिर्मध्यमसंमतानाम्2 ।
द्रुता गतिश्च 3प्रचुराधमानां
लयत्रयं सत्त्ववशेन योज्यम् ॥ १३
एष एव तु विज्ञेयः कलाताललये विधिः ।
पुनर्गतिप्रचारस्य प्रयोगं शृणुतानघाः ॥ १४
Abh
1न तु जातिकालादिकृतं निदूषकस्य द्विजत्वेऽपि 2अविमलात्केवलमुत्तमघोषणायैव रचितं जात्यादि योजनीयम् । उत्तमस्याप्यन्यथाभावे कथंचिदुत्तमं3 सदप्यविद्यमानया इति प्रचुरेति लोकप्रसिद्धमेवेदमुक्तमित्यर्थः । न केवलं प्रकृतितोऽवयवभेदो यावच्चित्तवृत्तिभेदेनाभिप्रेत्याह सत्त्वबलेन च लयत्रयं योज्यम् । सत्त्वं चित्तवृत्तिः तेन 4संग्रामादावुत्तमस्यापि द्रुतं, शोकादावधमस्यापि विलम्बितम् । अथैतदनुसारिणो गत्युपयोगिन्यां5 ध्रुवायां विधिरिति दर्शयति एष एव त्विति । अत्र गत्यनुसारी तालविधिः6, अन्ये त्वन्यथेत्युक्तं ताले । यस्ताललयः कलासहितः स कलाताललयः इति मध्यमपदलोपीसमासः । तेनायमर्थः–ध्रुवातालेऽपि गत्यनुसार्येव कलाविधिर्लयविधिश्च ।अत एवैतदनुसारेण भट्टल्लोल्लटगोपालादिभिर्भङ्गोपभङ्गविभङ्गविषये तालदीपिकादौ चिरन्तनसंमतो ध्रुवातालानां विनियोगः प्रपञ्चतो दूषितः । तत्तु ध्रुवाध्याये* विचारयिष्याम इत्यास्ताम् ।
एवं देशकालनियममुक्तं प्रकृते योजयति पुनर्गतिप्रचारस्येति गतिषु प्रचारो वैचित्र्यं प्रयोगं पुनः शृणुतेति संबन्धः । संघटना ह्यनुक्तेति भावः ।
Notes
1 प–स्थैर्योपपन्ना 2 प–संस्थितानाम् 3 न–प्रकृताधमानां 1 न भुजानि कुटिलानि 2 अवमलात् 3 उक्तं 4 संभ्रमादौ 5 योगिभ्यां 6 नट्यनुसारितालविधिः 6 भङ्गसर्वभङ्गसव्ये 7 देशकालादिनियमं । *द्वात्रिंशेऽध्याये ।
1स्वभावे तूत्तमगतौ 2कार्यं जानु कटीसमम् ।
3युद्धचारीप्रयोगेषु 4पुनः स्तनसमं न्यसेत् ॥ १५
पार्श्वक्रान्तैः सललितैः पादैर्वाद्यान्वितैरथ ।
रङ्गकोणोन्मुखं5 गच्छेत्सम्यक्पञ्चपदानि तु ॥ १६
वामवेधं ततः कुर्याद्विक्षेपं दक्षिणेन च6 ।
परिवृत्य द्वितीयं तु7 गच्छेत्कोणं ततः परम् ॥ १७
तत्रापि वामवेधस्तु विक्षेपो दक्षिणेन च8 ।
ततो भाण्डोन्मुखो गच्छेत्तान्येव9a तु पदानि च9 ॥ १८
एवं गतागतैर्गत्वा पदानामेकविंशतिम्10 ।
वामवेधं ततः कुर्याद्विक्षेपं दक्षिणस्य च11 ॥ १९
Abh
स्वभावे त्विति । 1तुना विशेषद्योतकेन मन्थरगतौ चतुस्तालत्वमुक्तं स्वभावगतौ तु त्रितालत्वं, दीप्तगतौ तु पञ्चतालत्वमपि कार्यमिति दर्शयति । तां गतिप्रचारघटनामाह पार्श्वक्रान्तैरित्यादि ।
“कुञ्चितं पादमुत्क्षिप्य पार्श्वोत्थानोत्थितं1a न्यसेत् ।
उद्धट्टितेन पादेन पार्श्वक्रान्ता” (१०-३२)
इति पार्श्वक्रान्ता चारी । रङ्गकोणं पूर्वोत्तरं द्वितीयकोणमित्युत्तरपश्चिममेवमिति । अन्यस्मिन्रिति कोणद्वयेऽतिदिशति । पूर्वरङ्गे चैषा पञ्चपदी व्याख्याता (अ-५-७३) । वेधः पार्ष्णिक्षेत्रे सूचीपादनिपातः । वामवेधमिति 2अन्तराविद्धमुखं (तत्) प्राप्तिसिद्धौ कोणैर्गत्वा ब्रह्यस्थानस्यानुल्लंघ्यतामाह । एतच्च
Notes
1 ड–स्वभावैरुत्तम प–स्वभावे चोत्तम 2 न–कार्या 3 क–युद्धवीर 4 ड–जानु 5 ड–उन्मुखो 6 ड–तु 7 ढ–च 8 ड–दक्षिणस्य च 9 न–तु 9a–N तान्येव हि पदानि तु 10 न–एकविंशतिः 11 ढ–दक्षिणेन च । 1 कृतात् 1a: p. १०२, ५१. ३२ –जानुस्तनसमं 2 पुनरपि संमुखं ।
रङ्गे विकृष्टे भरतेन कार्यो गतागतः पादगतिप्रचारः ।
त्र्यश्रस्तिकोणे चतुरश्ररङ्गे गतिप्रचारश्चतुरश्र एव ॥ २०
यः समैः सहितो गच्छेत्तत्र कार्यो लयाश्रयः ।
चतुष्कलोऽथ द्विकलस्तथैवैककलः1 पुनः ॥ २१
अथ मध्यमनीचैस्तु गच्छेद्यः परिवारितः2 ।
3चतुष्कलमथार्धं च तथा चैककलं पुनः ॥ २२
4दैत्यदानवयक्षाणां नृपपन्नगरक्षसाम् ।
चतुस्तालप्रमाणेन कर्तव्याथ गतिर्बुधैः ॥ २३
दिवौकसां तु सर्वेषां5 मध्यमा गतिरिष्यते ।
तत्रापि चोद्धता ये तु6 तेषां देवैः समा गतिः ॥ २४
Abh
पञ्चपदीगमनं सर्वत्रौत्सर्गिकम् । विशेषमप्याह रङ्गे विकृष्ट इति । भरतशब्देन उपचारतस्तद्विद्यायोनिसंबन्धः सूच्यते । गतागतैरिति परिमितायां दिशि पञ्चपदी गतागतेन 1नियमः एकत्रैव स्थाने द्वौ 2पादविक्षेपाविति मन्तव्यम् । विकृष्टायां च भूयो भूयः पञ्चपदी ।
अत्रैव विषये विविधप्रमाणा पातरीतिः,3 तद्द्विलयद्विभङ्गचतुर्भङ्गादयः प्राधान्येन । व्यामिश्रगतेरपि विशेषं व्याचिख्यासुः समगतिमुपसंहरति यः समैरिति । तथैवेति साम्येनेत्यर्थः । मिश्रगतिमाह अथेति । परिवारित इत्युत्तमत्वेन विवक्षित इत्यर्थः । तेन 4देवादि साध्वाश्रीयमाणुमुत्तमप्रकृतावापि(?) नायं विधिरन्यस्यैव तत्र प्राधान्यात् । तदोत्तमपादपाते मध्यमस्य द्वौ नीचादे(रेकः, उत्तम)स्य चत्वारः । अत्रैव च चतुस्तालादिविभागे निश्चयार्थं प्रश्नमुत्थापयितुमुपसंहारमुत्तम5विशेषाभिधानसहितमाह दैत्यदानवेत्यादि । सर्वेषामिति देवदूतादीनाम् । उद्धता ये त्विति मातलिप्रभृतयः ।
Notes
1 ड N–भवेदेककलः 2 प–गच्छेत्संपरिवारितः 3 ड–चतष्कलमथोर्ध्वं च 4 ड–देव 5 प–शेषांणां 6 ड–चोर्ध्वपाले तु जढ– चोर्ध्वतालेतु । 1 निर्वमा 2 पादौ 3 निशी(?) 4 क–दैवादिसाध्यानियमानां ख–देवादिसाध्वसाध्वाश्रीयमानां 5 उक्तविशेष
ऋषय ऊचुः1
यदा मनुष्या राजानस्तेषां देवगतिः2 कथम् ।
अत्रोच्यते कथं नैषा गती3 राज्ञां भविष्यति ॥ २५
3aअथ दिव्याः प्रकृतयो दिव्यमानुष्य4 एव च ।
मानुष्य5 इति विज्ञेया6 नाट्यवृत्तिक्रियां7 प्रति ॥ २६
8देवानां प्रकृतिर्दिव्या 9राज्ञां वै दिव्यमानुषी ।
10या त्वन्या लोकविदिता मानुषी सा प्रकीर्तिता ॥ २७
देवांशजास्तु राजानो वेदाध्यात्मसु कीर्तिताः11 ।
एवं देवानुकरणे12 दोषो ह्यत्र न विद्यते ॥ २८
13aअयं विधिस्तु13 कर्तव्यः स्वच्छन्दगमनं प्रति ।
संभ्रमोत्पातरोषेषु प्रमाणं न विधीयते ॥ २९
13bसर्वासां प्रकृतीनां तु अवस्थान्तरसंश्रया ।
14उत्तमाधममध्यानां गतिः कार्यां प्रयोक्तृभिः ॥ ३०
Abh
देवाशंजा इति लोकपालांशविनिर्माणा राजानः । वेदेषु तथाध्यात्मशास्त्रेषु वेदान्तेषु, येषामनेन प्राधान्यमुक्तम् । (अनुकरणं)देवादीनां वर्णनात्, उक्तं च विराजविद्ध(?) राज (राजविद्याराजगुह्यमिति)गुह्यमिति (?) देवानुकरणे नाल्पत्वमित्यर्थः । अयमिति चतुष्कल इत्यादिः । स्वच्छन्दगमनं स्वस्था गतिः । संभ्रम आवेगः उत्पातोऽत्रोन्मादादिः । [उक्त] प्रमाणमिति उक्तरूपमित्यर्थः । एतदेवास्य दूषयति1 चतुरर्धं द्वे उत्तमस्य, एका मध्यमस्य, अर्धं नीचस्य; अवस्थान्तरबलात् सर्वासा
Notes
1 ड– अत्राह 2 ड–तया दैवगतिः 3 न–गते 3a:N इह नित्याः प्रकृतयो 4 ड–दिव्यामानुष 5 ड–मानुषा 6 ड–विज्ञेयो 7 ज–नाट्यस्य प्रक्रियां ड–नाट्यनृत्तक्रियां 8 प–दैवी ब–देवा हि 9 प–राजानो वै 10 छ –यात्वन्यलोक 11 ड–प्रकीर्तिताः 12 ड–देवानुसरणे 13 ड–विधेयः 13a: N यथा बाधस्तु कर्तव्यः 13b: N om. V, 30 14 प–मध्योत्तमाधमानाम् । 1 चतुरर्थत्वे ।
1चतुरर्धकलं1a वा 2स्यात्तदर्धकलमेव च ।
3अवस्थान्तरमासाद्य कुर्याद्गतिविचेष्टितम् ॥ ३१
4ज्येष्ठे चतुष्कलं यत्र मध्यमे द्विकलं भवेत् ।
5द्विकला चोत्तमे यत्र 6मध्ये त्वेककला भवेत् ॥ ३२
7कलिकं मध्यमे यत्र नीचेष्वर्धकलं भवेत् ।
एवमर्धार्धहीनं तु जडानां संप्रयोजयेत् ॥ ३३
ज्वरार्ते च क्षुधार्ते च तपःश्रान्ते भयान्विते ।
8विस्मये8a चावहित्थे च तथौत्सुक्यसमन्विते ॥ ३४
शृङ्गारे चैव शोके च स्वच्छन्दगमने तथा ।
9गतिः स्थितलया कार्याधिकलान्तरपातिता9a ॥ ३५
Abh
(प्रकृतीनां, गतिरिति कलालयतालाश्रिता)। सर्वमेतदिति तु युक्तम् । (नीचेष्वर्धकलं भवेदिति) अनेन कलातुर्यभागो भरतमुनिना सूचितोऽयं लक्षणविदो वृत्ताकारं द्रुतमाहुः यद्यथा पञ्चमांश उक्तनीत्या श्वासादिविश्रान्तिपूर्वक इति चतुर्धा स एव द्रुतो युक्तः । चतुष्कलादप्याधिक्यमस्तीति दर्शयति । ज्वरार्त इत्यादि । भयेन योऽन्वितो जातोरुस्तम्भः, अन्यथा ह्यस्य त्वरिततरा गतिर्वक्ष्यते । विस्मय इति तत्कृतस्तम्भ इत्यर्थः । अवहित्थ इति कृतकधैर्याणां कृतकं हि नः सुश्लिष्टं कर्तुं पार्यत इति । तत्राधिक्यमेव भवति तत एव हि कुशलाः कृतकतां विदुः । अत्यादरवदौत्सुक्येन सम्यगन्वितो य एव । शृङ्गारभेदस्तत्रैव विप्रलम्भ इति यावत् । स्वच्छन्दगमन इति कार्येण विना क्रीडाचङ्क्रमणे1 । अधिकले इत्यधिशब्दोऽधिकार्थः । अधिकलामिति केचित् । आधिक्यं प्रकर्षेण2 चतुःस्वरूपेण संख्या चैतत्3 प्लुतस्य विरामस्य च स्वरूप–
Notes
1 ड–चतुर्थैककलं, 1a:N:– चतुरर्धैककलं ढ–चतुद्र्व्येकक 2 ड–स्यात्तथापिकलं 3 ड–अथवान्तरं 4 चछयोर्द्वौ श्लोकौ न विद्येते 5 ड–विकला 6 न–मध्यमे कलिकं 7 श्लोकार्धं भमयोरेव वर्तते 8 ड–विक्षते, 8a:N—विकृते, 9 चछयोरेव ।, 9a: N: एतच्चैव तु सर्वत्र स्थिता कार्या गतिर्बुधैः 1 चंक्रमेण 2 प्रकर्षौ 3 क–चेतनप्लुतस्य ख–चैतदप्लुतस्य ।
1पुनश्चिन्तान्विते चैव गतिः कार्या चतुष्कला ।
2अस्वस्थकामिते2a चैव 3भये वित्रासिते तथा ॥ ३६
आवेगे चैव हर्षे च कार्ये यच्च त्वरान्वितम्4 ।
अनिष्टश्रवणे चैव 5क्षेपे चाद्भुतदर्शने ॥ ३७
अपि चात्ययिके कार्ये 5aदुःखिते शत्रुमार्गणे ।
6अपराद्धानुसरणे श्वापदानुगतौ तथा ॥ ३८
Abh
पाधिक्ये तालबोधः संख्याधिक्येन षडष्टकलादेर्विकृष्टमधिकृतं कलान्तरं परिमाणं यथा तथाभूतः पादपातो यस्याम् । अत एवैतदापानप्रसङ्गविचारणाद्वक्ष्यति–
षट्कलं न कर्तव्यं तथाष्टकलमेव च ॥ (१२–१८४ उत्तरार्धं)
पादस्य पतनं रज्ज्ञैः खेदनं तद्धवेत् स्त्रियाः ॥ (१२–१८५ पूर्वार्धं) इति ।
चतुरर्धैककलमिति वचसा सप्तकस्य च निषेधेन च त्रिकलपञ्चकलादीनामभावं सूचयति । विषमाणां सपरिमाणोत्क्षेपणनिपातनात् योगात्तालविदां हि साम्यमुपनिषद्भूतं तच्चात्र स्फुटयति ।
एवमेतेषु षट्कलादप्यधिकं मानं, तथा च तपःशान्तानां परिक्रमे यत्तूल्ल– (स)नाख्योलयः कोहलादिभिरुक्तो 2यस्यातिविलम्बितः कालावधौ । एवं कलाधिक्यमभिधाय न्यूनत्वमप्यस्तीत्याह अस्वस्थकामितमित्यादि । अस्वस्थे प्रच्छन्नकामिते हि त्वरातिशयः, अनिष्टं यदा बान्धवादेः श्रुतं तदा 3तदान्तिकं द्रुतगमनं, अद्भुतदर्शनविषये यदा क्षेपः प्रक्षिप्तता4, पुनरेतन्न दुष्यत इति । अत्ययोऽतिक्रमणं शीघ्रसंपादनं प्रयोजनमस्य । यन्नाभिरुचितमवश्यकर्तव्यं च तत्त्वरया क्रियते, त्वरयान्वितं सुकार्यं अभिरुचितमेवेति विशेषः त्वरान्वित–
Notes
1 चछयोर्न विद्यतेऽर्धश्लोकः 2 न –अस्वस्थे 2a: N: अखण्डवासिते चैव 3 ड–भया ढ –भय 4 ड–यच्चतुरान्विते 5 ड–कोपेर्ष्याद्भुतदर्शने 5a: N:– तथा चैवारिमार्गणे 6 प–अवरुद्धानुकरणे न– अपराद्धानुकरणे । 1 षट्कलस्तु 2 यस्यातिविलम्बिताकालापधामाधिक्यं विधाय 3 तदत्रिकं 4 क्षिपता 5 अभिकुपितम् ।
1एतेष्वेवं गतिं प्राज्ञो 2विकलां संप्रयोजयेत् ।
3उत्तमानां गतिर्या तु न तां मध्येषु योजयेत् ॥ ३९
4या गतिर्मध्यमानां तु न तां नीचेषु योजयेत्5 ।
Abh
मिति । इयता यद्यपि सर्वं लभ्यते तथापि कविनटव्युत्पादनाय प्रपञ्चः । अपराधोऽभिनेयः शत्रोरन्य एव, यद्वा यस्यापराधः कृतो गुर्वादेस्ततश्च रुषा गतः सोऽपराद्धः । एतेष्विति एवंप्रकारेष्वन्येषु मदादिष्वपीत्यर्थः । विकलामिति विकलः कलापरिमाणं यस्याः कला अर्धकला तुर्या सा यद्यपि तत्र नादरणीयं तत्त्रिभागषड्भागादिरपि तत्र भवति । अत एव संभ्रमोत्पातरोषेषु चतुरर्धकलमित्यनेन पौनरुक्त्यं तस्याविषयत्वादस्य तु विषमभागविषयत्वात् । तथाहि मत्तगतौ शेखरकस्य खण्डकप्रयोगे हि ‘गाहिदुं धि’ इत्येवंरूपे मात्रा तृतीये तृतींयस्य नामात्र धं धग् इत्येकः पातः, त्सुक इति द्वितीयो, धि इति तृतीयो नचैषां साम्यम् । एतेन च कलानां साम्यं न्यूनाधिकतानिरूपणेन समविषमकलाभाग*भङ्गाभिधानेन गुरुलघुद्रुतप्लुतानां स्वीकारात्तद्वैचित्र्यम् । इयमपि (भङ्गोपभङ्गविभङ्ग)प्रकारप्रस्तारसंगृहीता लक्ष्यसिद्धा भङ्गलयव्यवस्था प्रतिपाद्याक्षरतदर्थादिरूपा च धाराबन्धादिविषयाघातमार्गशब्देन प्रसिद्धा व्यवस्था स्फुटमेव दर्शिता । माभूदेवं कालप्रमाण(कलापरिमाण?) नियमाभिधानं गजस्नानीभूतमित्याह उत्तमानां गतिर्या त्विति । तुरेवार्थे 1अन्यक्रममनेनैवेत्यर्थः । एतदुक्तं भवति–अनियमेन निदर्शितेन नियमो विप्लुतः, तथापि कलाधिक्ये षट्कलतोत्तमस्य तत्र मध्यमस्य चतुष्कलता, अधमस्य द्विक–
Notes
1 न–एतेष्वेव 2 ड–द्विकलां 3 अयं श्लोको जादिबान्तेषु “ज्वरार्ते” इति श्लोकात्पूर्वमेव वर्तते । 4 ड–मध्यमानां गतिर्या तु 5 न–कारयेत् । I अन्यक्रमेणैवेति *भङ्गा द्वादश –चञ्चत्पुटः, चाचपुटः, षट्पितापुत्रकः, संपक्वेष्टकः, हेला, त्रिगता, नर्कुटः, नर्कुटी, खञ्जकः, खञ्जिका, आक्रीडिता, विलम्बिता च । उपभङ्गाः षट्–कुटिला, आक्षिप्तिका, त्र्यश्रा, चतुरश्रा, चटुला, संयुक्तिका च । विभङ्गाः विशेषः, माला, सुभद्रं, संगतं च । लयतालानां भङ्गप्रस्तारद्वारेण यद्यवधिर्न स्यात्, तेषां ध्रुवातालेतिप्रसिद्धाश्चत्वारिंशत् कोहलोक्तागतिपरिक्रमे विनियुज्यन्ते । ध्रुवातालानामुदाहरणानि विक्रमोर्वश्यादौ द्रष्टव्यानि, तुम्बुरुदत्तानि तालाध्यायमुद्रणावसरे सूचयिष्यामः ।
गतिः श्रृङ्गारिणी कार्या 1स्वस्थकामितसंभवा ॥ ४०
दूतीदर्शनमार्गस्तु2 प्रविशेद्रङ्गमण्डलम् ।
3सूचया चाप्यभिनयं कुर्यादर्थसमाश्रयम्4 ॥ ४१
5हृद्यैर्वस्त्रैस्तथा गन्धैर्धूपैश्चूर्णैश्च भूषितः6 ।
नानापुष्पसुगन्धाभिर्मालाभिः समलंकृतः ॥ ४२
गच्छेत्सललितैः पादैरतिक्रान्तस्थितैस्तथा7 ।
तथा सौष्ठवसंयुक्तैर्लयतालवशानुगैः8 ॥ ४३
पादयोरनुगौ 9चापि हस्तौ कार्यौ प्रयोक्तृभिः ।
[10उत्क्षिप्य हस्तं पातेन पादयोश्च विपर्ययात् ॥] ४४
Abh
लता । यत्र न्यूनकलमुक्तं तत्राप्युत्तमस्य कला, मध्यमस्यार्धकला, अधमस्य कालतुर्यभाग इति कथं विप्लवः ।
एवं 1प्रकृतिभेदेन गतिमभिधाय रसविषयेण दर्शयितुं प्रथमं पुरुषार्थोपयोगिरसविषयाणि निरूपयन् प्राधान्याच्च शृङ्गारे तावदाह गतिः शृङ्गारिणीत्यादि । स्वस्थकामितमप्रच्छन्नम् । अर्थसमाश्रये2 सिद्धे सूचायाः पुनर्वचनं, हृद्यस्य पदार्थस्य पर्यालोचनं साचिशयं चमत्कारकारीति निरूपयितुं तत्र चर्वितचर्वणवत्पुनः पुनः कंचिदपि भागमत्यजन् सूचां3 श्रृङ्गारे कुर्यादिति दर्शयति । 4युद्धावीरादौ हि प्रधानानुसंधानमेवोचित5 तन्मध्यपतितानां कार्यान्तराणाम- पर्यालोचनीयत्वात्6, पर्यालोचने आचार्यं मातुलान् भ्रातॄन् स्वजनम् (तुलना- भ. गी. १/२६) इत्याद्यापत्तेः, येऽपि चान्तरमार्गा इत्यत्रत्यान् 7नृत्ते सूच्यान् परिहर्तुमित्यर्थस-
Notes
1 ज-स्वस्थाकामित प-स्वस्थकामित्व 2 प-मार्गेण 3 छ-सूचया चाभिनयनं प-सूचया चाभिगमनं 4 न-अर्थस्य संश्रयम् ढ-समाश्रयाम् 5 ड-हृद्यैर्गन्धैस्तथा वस्त्रैरलंकारैश्च भूषितः 6 ढ-भूषितम् प-योजितः 7 क-अतिक्रान्तैः स्थितैस्तथा न -उत्थितैरथ 8 ज-समन्वितै 9 ड-हस्तौ नित्यं कार्यं ढ-हस्तौ नित्यं कार्यौ 10 ड-उत्क्षिप्तः सह पादने पतनेन विपर्ययः 1 प्रकृतेर्भेदेन 2 अर्धसमाश्रयत्वे 3 सूच्या 4 अर्धवीशदौ 5 मोहोचितं 6 अपर्यालोचितत्वात् 7 नृत्तसूचाम्
प्रच्छन्नकामिते चैव गतिं भूयो निबोधत ।
1विसर्जितजनः स्रस्तस्तथा दूतीसहायवान् ॥ ४५
निर्वाणदीपो नात्यर्थं भूषणैश्च विभूषितः2 ।
वेलासदृशवस्त्रैश्च3 सह4 दूत्या शनैस्तथा5 ॥ ४६
व्रजेत्प्रच्छन्नकामस्तु पादैर्निःशब्दमन्दगैः ।
6शब्दशङ्क्युत्सुकश्च स्यादवलोकनतत्परः ॥ ४७
वेपमानशरीरश्च शाङ्कितः प्रस्खलन्मुहुः ।
Abh
माश्रयमित्यसत् । सापि हि निरर्थिका सूचैव हि कथं स्यात् । सूचातोऽपि चानन्तर( ?) मस्य प्रकृतां गतिमाह । नृत्तकन्यादि ( ?)शोभनो गन्धः सुगन्धः नानापुष्पैः सहायानामिति समासान्ताभावः । सललितैः सविलासैः । सौष्ठवेनाङ्गचातुरश्रयेण युक्तैः, लयो विलम्बितं तालं चतुरश्रादि भूयः पुनः सामान्येन युक्ताप्युत्तमगतिः पुनर्विशेषतां निरूप्यत इति भावः । प्रच्छन्नं कृत्वा कामितं यत्र शृङ्गारे सागरिकादाविव वत्सराजादेः, तदन्यो वा सीतादाविव पौलस्त्यप्रभृतेस्तु, वेपमानदेहः । स्खलन्नित्यादिकलातुर्यांशानुत्सुक इत्यादिना कार्ये निर्वाणदीपः शब्दाशङ्कीत्यादिना खण्डितां कलां सूचयन् मिश्रप्रयोगं गतिमत्राह । अथैवंविधकामिविषयमेव *सुभद्राभिधानं ध्रुवातालमाहुः कोहलाद्याः । तस्य हि प्रस्तारो द्रुतलघुमिश्रः । वेलातुल्यवस्त्रा इति तथा चन्द्रालोके सितवस्त्रावगुण्ठितो घनसारपरागपुञ्जमञ्जुगात्रो मुक्ताप्रायप्रचुराभरणो वस्त्राद्युपलक्षणम् । विप्रलम्भे तु शृङ्गारिण्येव करुणव्यामिश्रा गतिर्व्यभि-
Notes
1 ज-विसर्जितगतिस्तत्र तथा दूतसहायवान् 2 ज-विभूषितैः 3 ड-वस्त्रं च 4 ज-तथा 5 ढ-सहायवान् 6 ड -शब्दाशक्त्युत्सुकश्च । *सुभद्रामित्युपभङ्गविशेषः । तल्लक्षणं तु कोहलमते “-नवमः पञ्चमश्चैव षष्ठः पुनरिहेष्यते । शेषास्तु गुरवः सप्त सुभद्रंरौद्रवीरयोः । त्रिमात्रान्ते प्रभावत्यां टक्करागस्य भाषया” । इति त्रिमात्रान्तविरामं प्रभावतीनामकद्विपदीच्छन्दः प्रयुक्तं च सुभद्रम् ।
रसे रौद्रे तु वक्ष्यामि दैत्यरक्षोगणान् प्रति ॥ ४८
एक एव रसस्तेषां स्थायी रौद्रो द्विजोत्तमाः ।
नेपथ्यरौद्रो विज्ञेयस्त्वङ्गरौद्रस्तथैव च ॥ ४९
तथा 1स्वभावजश्चैव त्रिधा रौद्रः प्रकल्पितः2 ।
रुधिरक्लिन्नदेहो यो रुधिरार्द्रमुखस्तथा ॥ ५०
तथा पिशितहस्तश्च 3रौद्रो नेपथ्यजस्तु सः ।
बहुबाहुर्बहुमुखो नानाप्रहरणाकुलः ॥ ५१
स्थूलकायस्तथा प्रांशुरङ्गरौद्रः प्रकीर्तितः ।
रक्ताक्षः पिङ्गकेशश्च असितो विकृतस्वरः ॥ ५२
रूक्षो निर्भर्त्सनपरो रौद्रः सोऽथ स्वभावजः ।
चतुस्तालान्तरोत्क्षिप्तैः 4पादैस्त्वन्तरपातितैः ॥ ५३
Abh
चारिसंवादिन्यभिप्रेत्य पृथङ्नोक्ता । एवं विषयाभिलाषे प्राणे शृङ्गारेऽभिधाय तद्रूप एव रोद्रे गतिं निरूपयति रौद्रे रसे त्विति । दैत्यादिप्रयुक्तं यदुक्तं तत्केनाशयेनेति शङ्काशमनायाह एक एवेति । ननु किं तेषां क्रोधेन विनापि रौद्रता, ओमिति ब्रुमः । कथमिति चेत् रसाध्यायोक्तन्यायेनानु रसयितुमाह नेपथ्यरौद्र इत्यादि स्वभाव इत्यन्तम् । एवमेक एव रसस्तेषामिति कथितं, रसाध्याये चैतत्प्रपञ्चितम् । चतुस्तालान्तरोत्क्षिप्तैरिति तालान्तरपातित्वं द्वितीयतालान्तरालापेक्षयेति केचित् । उपाध्यायास्तु- तालशब्देनात्र कालमानमुक्तं न तु देशमानं , तेन यावता कालेनोत्क्षेपस्ततो न्यूनेन पतनं -इति । एतदनु
Notes
1 छ-स्वभावतः प-स्वभावजश्चेति 2 ड-प्रकीर्तितः 3 ड-रौद्रपथ्यजस्तु 4 न-पादैस्त्र्यन्तरपातितैः ।
गतिरेवं प्रकर्तव्या तेषां ये चापि तद्विधाः ॥ ५४
1अहृद्या तु मही यत्र श्मशानरणकश्मला ।
गतिं तत्र प्रयुञ्जीत 2बीभत्साभिनयं प्रति ।। ५५
क्वचिदसन्नपतितै3र्विकृष्टपतितैः क्वचित् ।
एलकाक्रीडितैः पादैरुपर्युपरिपातितैः ।। ५६
तेषामेवानुगैर्हस्तैर्बीभत्से गतिरुच्यते4 ।
4aअथ वीरे च कर्तव्या5 6पादविक्षेपसंयुता ।। ५७
Abh
प्रकृतिसन्धिसंरम्भत्वं चाभिदधता विषमगतित्वमेषामनुज्ञातम् । तथा च कोहलमुखाः कलातदर्थद्वयलक्षणेन *नर्तनकोत्फुल्लकादिना रौद्रादौ परिक्रममाहुः । तद्विधा इति भीमसेनादयः अनेन युद्धवीरेऽप्येषैव गतिरिति सूचयति ।
अथ रौद्रप्राणौग्र्यविवक्षामध्ये1 पुरुषार्थप्राणायातबीभत्साश्रयां गतिमाह अहृद्या त्विति । श्मशानरूपा युद्धपतितकबन्धप्रभृतिविरचिता2 अत एव रणेन कश्मला जुगुप्सिता । आसन्नपतितत्वेन कलार्धतुर्यांशत्वादि, विकृष्टपतितत्वेन कलासार्धकलादि सूचयति ।
अथ वीरगतिमाह अथ वीरे चेति । विस्तारेण क्षेप इति स्यन्दितापस्यन्दितादेर्ग्रहणम् । तत्र च कलयार्धकलादि च प्रयोगः। तत एवोल्लासनिकाख्यं+
Notes
1 न-आहीर्णा 2 ढ-बीभत्सानुनयं 3 न-चकितैः 4 ड-इष्यते, 4a-N तथा वीरे
- उल्लसनाख्यलयतालस्य लक्षणं कोहलमते-तोटकस्यैव यः पादः द्रुतद्वयलयत्रयः । मालिनी द्विपदा चात्र टक्करागस्य भाषया । अन्योन्यकार्य संसर्गे मदे गर्वे प्रहर्षिते । उल्लसना प्रयोक्तव्या सर्वदा लयवेदिभिः ।।
द्रुतप्रचाराधिष्ठाना1a नानाचारीसमाकुला ।
पार्श्वक्रान्तैर्द्रुताविद्धैः सूचीविद्धैस्तथैव च ।। ५८
कलाकालगतैः पादैरावेगे योजयेद्गतिम् ।
उत्तमानामयं प्रायः प्रोक्तो गतिपरिक्रमः ।। ५९
मध्यानामधमानां च गतिं वक्ष्याम्यहं पुनः1b ।
विस्मये चैव हर्षे च विक्षिप्तपदविक्रमा ।। ६०
2a आसाद्य तु रसं हास्यमेतच्चान्यं च2 योजयेत् ।
Abh
तालमत्राहुर्लक्ष्यविदः । द्रुतेन प्रचारेणाधिष्ठानं गन्तव्ये देशे यस्यामिति । मल्लघटीत्र्यश्रादि विकृष्टपतितत्वे कलासार्धलघुद्रुतप्रचारं सूचितमनेन वीरे रौद्रे वा प्रवेगस्य स्पर्शभावत्वात् । तत्र गतिमाह कलाकालगतैरिति । पादैरिति बहुवचनेन त्रयः पादपाता गृह्यन्ते1 । तेन कलया कालेन च सन्निधानात् तालगतैव गतिरिति लघुपातनं येषा, अथ वैको लघुपातो द्वावन्योन्यद्रुतपातौ कलामात्रं च विराममित्येवम् । उत्फुल्लकपरिक्रमः स चोभयोर्वीररौद्रयोः क्रमः । उत्तमानामिति । 2ननु बीभत्सस्यैवोत्तमविषयतैवं ? केनैतदुपदिष्टं भवतः? । पुरुषार्थसाधनो बीभत्सः उत्तमेष्वेवैतदभिहितरसविषयव्यभिचारियोगे तु3 । मध्यमानां गतिमाह विस्मये चेति । चकारादावेगादौ व्यभिचार्यन्तरेष्वपि । विक्षिप्तः इतस्ततो गतो व्याकुलप्रायो लघुद्रुतबहुलः परिक्रमो यस्य । तथा विस्मय एव व्यभिचारिरूपे स्थायिनि अद्भुतरसरूपे मध्यमानाम् । पुनरेवमिति पुनर्ग्रहणादुत्तमानामद्भुतेऽपि स्वच्छन्दगतिरेव पूर्वोक्तेति दर्शयति । केवलं तत्र 4विस्मयो वदन उत्पाद्यो मुखरागे5 । एतच्चेति परं हास्यं स्मिताद्यतिहसितपर्यन्तं, यदोत्तमानां स्वस्थगतिरेव तदा मध्याधमानान्तु अपहसितातिहसितयोर्विक्षिप्तगतित्व-
Notes
1 ड-द्रता प्रहरणाविद्धा 1a-N -द्रुतप्रहरणाविद्धा 1b- N- पुनर्वक्ष्यामि तत्त्वतः 2 ज-एताश्चान्याश्च । 2a: N-आसाद्य तु परं हास्यमेताश्चान्याश्च योजयेत् 1 दृश्यन्ते 2 न तु बभित्सस्य नोत्तम 3 योगिगत 4 विस्मयोचितं 5 मुख्यानि ।
पुनश्च करुणे1a कार्या गतिः 1स्थितपदैरथ ।। ६१
2बाष्पाम्बुरुद्धनयनः सन्नगात्रस्तथैव च ।
उत्क्षिप्तपातितकरस्तथा 3सस्वनरोदनः ।। ६२
गच्छेत्तथाध्यर्धिकया4 5प्रत्यग्राप्रियसंश्रये ।
एषा स्त्रीणां प्रयोक्तव्या नीचसत्त्वे तथैव च ।। ६३
उत्तमानां तु कर्तव्या 6सधैर्या बाष्पसंगता ।
निःश्वासैरायतोत्सृष्टै7स्तथैवोर्ध्वनिरीक्षितैः ।। ६४
न तत्र सौष्ठवं कार्यं न प्रमाणं तथाविधम् ।
8मध्यानामपि सत्त्वज्ञा गतिर्योज्या विधानतः ।। ६५
9उरःपातहतोत्साहः शोकव्यामूढचेतनः10 ।
Abh
मेव । अन्यच्चेति तावद्विदूषकगतौ वक्ष्यमाणम् ,एवं प्रसङ्गाद् द्रुतहास्ययोग्यगतिरभिहिता1 । करुणे तूच्यते पुनश्च करुण इति । “2ज्वरार्ते चे"त्यादि श्लोकेन 3यद्यपिस्तोकगतिरुक्ता तथापि यद्वक्ष्यत इति पुनश्शब्दार्थः । स्थितपदैः विलम्बितैः । आयतं दीर्घं कृत्वा उत्सृष्टैस्त्यक्तैः ऊर्ध्वनिरीक्षणैः देवोपालम्भसूचकैः । न प्रमाणं तथाविधमिति नात्र सर्वथा प्रमाणाभावः अपि त्वनियन्त्रितमेव पातात्मकं प्रमाणम् । अत एवात्र विलम्बितलयेन लघुत्रयेण द्रुतलयेन गुरुप्लुतमात्रेण च विरामेण जम्भटिकाख्यो* लयः कोहलेन दर्शितः। उरसः पात आभुग्नत्वात् ।
Notes
1 ड-स्थिरपदैः 1a-N करुणैः 2 ज-बाष्पाम्बुनद्ध 3 ड-सस्वर 4 ड-तथाविद्धः कया 5 ड -प्रत्यग्रगति न-प्रत्यग्रप्रिय 6 ड-सधैर्यं 7 ड-उत्कृष्टैः 8 नडजझ N-आदर्शेषु श्लोकार्धं न वर्तते 9 ज-नतः पाद ड -उरः पाद 10 ज-शोकव्याकुलचेतसः ड-शोकव्याकुलचेतनः । 1 धृतहास्यत्रिभिरभिहिता 2 राजार्केति 3 यद्यस्तोक । *जम्भटिकालक्षणमुक्तं तुम्बुरुणा-आदावृजुद्वयं कृत्वा द्विद्रुतान्तविरामिकम् । पुनरप्येवमेव स्याज्जम्भटी नाम कीर्तिता । करुणारसपात्रेषु जम्भटीं संप्रयोजयेत् ।। तदेव कोहलमतेः लघुद्वयं विधायाथ द्वौ द्रुतौ सविरामकौ । पुनरप्येवमेव स्याज्जम्भटीपात इष्यते । मरणे पतने चैवाप्रियस्य श्रवणे तथा । जम्भेटिका सदा कार्या ह्युत्तमाधममध्यमैः । गुरुद्वया चतुर्मात्रा गुरुरन्ते व्यवस्थितः ।ककुभेन प्रयोक्तव्या जम्भटी लयकोविदैः ।। जम्भटी, जम्भेटी, जम्भटिका, जम्भेटिका च पर्यायवाचकाः ।
नात्युत्क्षिप्तैः पदैर्गच्छेदिष्टबन्धुनिपातने ।। ६६
गाढप्रहारे 1कार्या च 2शिथिलाङ्गभुजाश्रया ।
विघूर्णितशरीरा च गतिश्चूर्णपदैरथ ।। ६७
शीतेन चाभिभूतस्य 3aवर्षेणाभिद्रुतस्य च3 ।
गतिः प्रयोक्तृभिः कार्या स्त्रीनीचप्रकृतावथ ।। ६८
पिण्डीकृत्य तु गात्राणि तेषां चैव प्रकम्पनम् ।
करौ वक्षसि निक्षिप्य 4कुब्जीभूतस्तथैव च ।। ६९
दन्तोष्ठस्फुरणं चैव चिबुकस्य 5प्रकम्पनम् ।
कार्यं शनैश्च6 कर्तव्यं7a शीताभिनयने गतौ ।। ७०
तथा भयानके चैव गतिः कार्या विचक्षणैः ।
स्त्रीणां कापुरुषाणां च ये चान्ये सत्त्ववर्जिताः ।। ७१
Abh
करुणप्रसङ्गात्प्रहारे गतिमाह । चूर्णानि परिमितोत्क्षिप्तानि अधिकपतितानि पादानि, 1तेनाध्यर्धिकातोऽल्पान्तरं स्यात् । करुणे रसे दारिद्र्यमभिभवस्त्वत्र 2शीतः वर्षभवः संभाव्यत इति । नावगतिमाह शीतेन चेति । अथेत्यनेन मध्यमोत्तमानामनुभावन्यूनभावेन 3शीतादिगतिं सूचयति । तेषामिति पिण्डीकृतानां गात्राणां, चकारेण कम्पनं सङ्कोचनं समुच्चीयते । एवकारेण सौष्ठवचातुरश्चादि निरस्यते । कराविति कटिपातरूपावित्यर्थः । गात्राणि पिण्डीकृत्य करौ वक्षसि च कृत्वा या गतिः लोके तस्याभिगमने 4योऽयं शीताभिनयस्तत्र कर्तव्यः । प्रयोक्तृभिर्नटैर्गात्रकम्पन5 कुब्जीभूतो देह इत्यादि कार्यमिति पदसङ्गतिः । एवं करुणे तत्प्रसङ्गेन चान्यत्रापि गतिमभिधाय भयानके कथयति येचान्य इति । येषामुत्तमत्वं 6कुलाद्यौचित्यात् । अथ
Notes
1 ड-कार्ये 2 ड-शिथिलांस 3 ड-गतिर्घूर्णपदैः 3a- N वर्षेणाभिहतस्य च 4 ड-अभिहतस्य 5 ढ-कुञ्चीभूतः 6 ड-तु कम्पनम् न N-च कम्पनम् 7 न-शनैस्तु । 7a-N : गन्तव्यं 1 तेनाध्यड्डिकातो 2 शीतभावः 3 गीतादि 4 यो भावः क्रियते शीताभिनयः 5 नात्र कम्पनम् 6 क-कलाद्यौचित्यात् ख -कुलायौचित्यात् ।
विस्फारिते चले नेत्रे विद्युतं1 च शिरस्तथा ।
भयसंयुक्तया दृष्ट्या पार्श्वयोश्च विलोकितैः2 ।। ७२
द्रुतैश्चूर्णपदेश्चैव3 बद्ध्वा हस्तं कपोतकम् ।
प्रवेपितशरीरश्च शुष्कोष्ठः स्खलितं व्रजेत् ।। ७३
एषानुसरणे4 कार्या तर्जने त्रासने तथा ।
सत्त्वं च विकृतं दृष्ट्वा श्रुत्वा च विकृतं रवम्5 ।। ७४
एषा स्त्रीणां प्रयोक्तव्या6 7नृणामाक्षिप्तविक्रमा ।
क्वचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् ।। ७५
एलकाक्रीडितैः पादैरुपर्युपरि पातितैः ।
एषामेवानुगैर्हस्तैर्गतिं भीतेषु योजयेत् ।। ७६
वणिजां सचिवानां च गतिः कार्या स्वभावजा ।
Abh
सत्त्वविहीनाः । 1तद्यथा-विराटपुत्र उत्तरः । द्रुतैरित्यनेन *धारालयादिः कोहलोक्तः सूचितः । अनुसरण इति शत्रोः पृष्ठतः आगमनमित्यर्थः। नृणां पुनराक्षिप्तविक्रमं यतेनोपाहृतं (?) मध्ये मध्ये कृतधैर्यं यस्यामित्यर्थः । तेन मध्ये गुरुलघुपादपाता अपि । तदाह-क्वचिदासन्नपतितैरित्यादि ।
अथ शान्तरसे गतिर्वक्तव्या । स च प्राधान्येन तथा प्रयोगसौन्दर्यमावहति, अतोऽन्तस्संकाररूपता येषां वणिक्प्रभृतीनामस्ति “धीरप्रशान्ता वणिज” (२४/१९) इति वचना- द्यतिप्रभृतयोऽपि च शान्तरसप्रधानाः ये नाटकादौ प्रसङ्गाः भवन्ति तेषामुभयेषामपि गतिमाह वणिजामित्यादिना । सचिवाः अमात्याः । स्वभावशब्देन तत्र तत्रानाविष्टमेव रूपमाह।
Notes
1 ड-विधातं 2 ड-विलोकनैः 3 घूर्णपदैश्चैव 4 ड-अनुकरणे 5 ढ-विकृतस्वरम् न-विकृतं रवम् 6 ड-प्रकर्तव्या 7 नृणां च । 1 ख-सत्त्ववादिना 2 क-अनाविष्ट भावाविष्टमेव । *धारालक्षणं कोहलमते - आदावष्टौ द्रुता ज्ञेया अन्ते चापि द्रुताष्टकम् । विरामरहिता धारा अधमेषु द्रुते लये ।
[कृत्वा नाभितटे 1हस्तमुत्तानं खटकामुखम् ।। ७७
आद्यं चारालमुत्तानं2 कुर्यात्पार्श्वं 3स्तनान्तरे ।
न निषण्णं न च स्तब्धं न चापि 4परिवाहितम् ।। ७८
कृत्वा गात्रं 5तथा गच्छेत्तेन चैव क्रमेण तु । ]
अतिक्रान्तैः पदैर्विप्रा द्वितालान्तरगामिभिः ।। ७९
यतीनां6 श्रमणानां च ये चान्ये तपसि स्थिताः ।
तेषां कार्या गतिर्ये तु नैष्ठिकं व्रतमास्थिताः ।। ८०
7अलोलचक्षुश्च भवेद्युगमात्रनिरीक्षणः8 ।
9उपस्थितस्मृतिश्चैव गात्रं सर्वं विधाय च ।। ८१
अचञ्चलमनाश्चैव 10यथावल्लिङ्गमाश्रितः ।
विनीतवेषश्च भवेत्काषायवसनस्तथा ।। ८२
प्रथमं समपादेन स्थित्वा 11स्थानेन वै बुधः12 ।
हस्तं च चतुरं कृत्वा तथा चैकं प्रसारयेत्13 ।। ८३
14प्रसन्नं वदनं कृत्वा प्रयोगस्य वशानुगम्15 ।
16अनिषण्णेन गात्रेण गतिं गच्छेद्व्यातिक्रमात्17 ।। ८४
Abh
नैष्ठिक- नैष्ठिकमिति ब्रह्मचर्यादेव प्रवर्तिता इत्यर्थः । युगं 1चतुरहस्तम् । उपस्थिता झटिति संस्कारप्रबोधप्रभवा स्मृतिर्यस्य। शान्तत्वादेव हि हृदयं नियम्यमेषां2 वणिगमात्ययतिप्रभृतीनां3 निर्जने विषयेति सन्धिबन्धमेव नित्यनिरूपणपरं यस्य ।
Notes
1 ड-हस्तमुक्ताङ्गे 2 ड-मुक्तानां 3 ड-तथान्तरे 4 न-चैव 5 न-ततो 6 ढ-श्रवणानां न-श्रमणानां ज-श्रमणीनां 7 ढ-आलोल 8 न-मात्रावलोकनः 9 च -उपस्थितगतिः 10 ड-तथालिङ्गसमाश्रितः 11 ड-कृत्वा 12 ड-बुधैः 13 ड-प्रयोजनम् 14 न-प्रसन्नवदनं 15 ढ-वशानुगः 16 न,N-सुनिषण्णेन 17 ड-गच्छेदतिक्रमात् । 1 क-चतुर्हस्तं 2 क-निर्गमवेलायां 3 क-निर्गम ।
उत्तमानां भवेदेषा लिङ्गिनां ये महाव्रताः ।
एभिरेव विपर्यस्तैर्गुणैरन्येषु योजयेत् ।। ८५
तथा1 व्रतानुगावस्था अन्येषां लिङ्गिनामपि ।
विभ्रान्ता चाप्युदात्ता वा विभ्रान्ता निभृतापि वा ।। ८६
शकटास्यास्थितैः पादैरतिक्रान्तैस्तथैव च ।
कार्या पाशुपतानां च गतिरुद्धतगामिनी1a ।। ८७
अन्धकारेऽथ याने च2 गतिः कार्या प्रयोक्तृभिः ।
भूमौ विसर्पितैः पादैर्हस्तैर्मार्गप्रदर्शिभिः ।। ८८
Abh
लिङ्गं जपभस्मकौपीनादि । अन्येष्विति नाममात्रवृत्ति तत्र तु विपर्यासो यथोचितं द्रष्टव्यः । तद्यथा-लोलं चक्षुः मनश्च, लिङ्गं पुनर्जटादि भवति, एवमन्यदुत्प्रेक्ष्यम् । व्रतानुगत्वं स्फुटयति विभ्रान्ता चेति। 1उन्मत्तादिव्रतं हि श्रूयते आगमेषु 2तत्तदुचितैरित्येवमेव गतिरित्यर्थः । 3क्रमणादुत्क्रान्तं कृत्वा गतिः पाशुपतानां परमेश्वरव्रतधारिणां गतिरत्युदात्तेत्यर्थः । यदि वा परमयोग्यवस्थायां 4नाकुलदर्शनप्रतिपन्नानामुन्मत्तव्रतमप्यस्ति, तद्विषयमेवोद्भ्रान्तत्वं गतौ । एवं रसान्तरसङ्गतिरुक्ता । 5यच्चान्यैः रौद्रानन्तरं शान्तरसाभिप्रायेण पठितम् ।
6"रूपादित्वनिराशंसः परोपायविचिन्तकः ।
चतुष्कलैर्द्विपातैश्च पादैर्भ्रान्तगतिं व्रजेत् " इति ।
7तदनर्थमेव, एतद्ग्रन्थे8 पुनरुक्तमपुष्कलार्थं, पुस्तके कथं दृष्टमिति स्वकल्पितमेवेत्युपेक्ष्यम्9 ।।
एवं रसानुसारेण गतिमुक्त्वा देशानुसारेणाप्याह । अन्धकार इति अन्धत्वेन गमन इति10 । विसर्पितैरपक्षेपणशून्यैः । मार्गप्रदर्शिभिः मार्गान्वेषण-
Notes
1 ड-व्रतानुगा च स्यादन्येषां लिङ्गिनां गतिः 1a- N गतिर्विभ्रान्तगामिनी 2 ड-श्रन्धयानेन । 1 क-उत्तमादि 2 क-तत्र तदुचितैरेवं 3 क-भ्रमणात् 4 कख-नाकुटिल 5 क-यस्त्वन्येर्वीररौद्रान्तरं 6 क-रूपाद्रिसत्त्व 7 ख-तदानवमेन 8 क-तद्ग्रन्थस्य 9 ख-उत्प्रेक्ष्यम् 10 ड-इत्यर्थः ।
1रथस्थस्यापि कर्तव्या गतिश्चूर्णपदैरथ ।
समपादं तथा स्थानं कृत्वा रथगतिं व्रजेत् ।। ८९
धनुर्गृहीत्वा चैकेन तथा चैकेन कूबरम् ।
सूतश्चास्य भवेदेवं प्रतोदप्रग्रहाकुलः2 ।। ९०
2aवाहनानि विचित्राणि कर्तव्यानि विभागशः ।
द्रुतैश्चूर्णपदैश्चैव गन्तव्यं रङ्गमण्डले3 ।। ९१
विमानस्थस्य कर्तव्या ह्येषैव स्यन्दनी गतिः ।
4आरोढुमुद्वहेद्गात्रं किंचित्स्यादुन्मुखस्थितम्5 ।। ९२
अस्यैव वैपरीत्येन कुर्याच्चाप्यवरोहणम् ।
Abh
परैरित्यर्थः । कर्तव्या गतिरिति च्छेदः 1तदाह चूर्णपदैः । चूर्णपदैरित्यनेन *खण्डधारालयं द्रुतबहुलं गुर्वन्तं कोहलोक्तं सूचयति । समपादेन स्थानकेन 2रथेन गतिः यस्मिन् देशे तं व्रजेत्, रथविशिष्टा वा गति, सामान्यके अकर्मकरभासिका शास्त्र इतिवत् । कूबरं युगन्धरं, प्रतोदः प्रेषणकः, प्रग्रहो वल्गा, रथ्यानि वाहनानि तानि, प्रकृतिविभागौचित्येन विचित्राणि तुरगबलीवर्द– खरोष्ट्रकानि । चित्राणि लिखितानि अस्य सूतस्यैव कर्तव्यानि तच्चित्रपटं सूतस्यैव हस्ते वर्जयेदिति यावत् । चूर्णपादानां लयविशेषनिरूपणाय पुनर्ग्रहणं द्रुतैपरिति3 । रङ्गमण्डल इत्यनेनेदमाह–भवस्तुतोऽसौ4 रथ्यामण्डल एव गतिक्रियां करोति तथात्र सर्वं तच्चित्र5 तद्रथाकृति कर्तव्यं तत्त्वनुगतपदमात्रमेव, येन रथो यातीति प्रतीयते । एवं सर्वत्र, अत एवाह विमानस्थस्यापीति । दिव्यस्याकाशगामिनोऽपि पुष्पकादेरित्यर्थः । अथ रथप्रसङ्गादुद्धृतं क्रियान्तरमप्याह आरोढुमिति । उद्वहेदूर्ध्वं प्रापयेत् । वैपरीत्येन अधोमुखत्वेन गात्राधोनयनेन
Notes
1 ड–अधस्स्थस्यापि 2 ढ–प्रग्रहाकुलम् 2a:N करणानि विचित्राणि 3 न–रङ्गमण्डलम् 4 ड–आरूढं 5 ड–स्थितः । 1 क–तामाह 2 ख–अधमेन 3 ख–पुनर्ग्रहधूरिति 4 ख–रम्या 5 ख–तच्छत्रम् । *खण्डधाराया लक्षणं–“वेदखत्रिदाः खण्डधारा”
अधोऽवलोकनैश्चैव मण्डलावर्तनेन च ।। ९३
आकाशगमने चैव कर्तव्या नाट्ययोक्तृभिः ।
स्थानेन समपादेन तथा चूर्णपदैरपि ।। ९४
व्योम्नश्चावतरेद्यस्तु तस्यैतां कारयेद्गतिम् ।
ऋज्वायतोन्नतनतैः कुटिलावर्तितैरथ ।। ९५
भ्रश्यतश्च तथाकाशादपविद्धभुजा गतिः ।
विकीर्णवसना1 चैव तथा भूगतलोचना ।। ९६
प्रासादद्रुमशैलेषु नदीनिम्नोन्नतेषु च ।
आरोहणावतरणं कार्यमर्थवशात्तथा2 ।। ९७
प्रासादारोहणं कार्यमतिक्रान्तैः पदैरथ ।
उद्वाह्य गात्रं पादं च न्यसेत्सोपानपङ्क्तिषु3 ।। ९८
4तथावतरणं चैव गात्रमस्यैव कारयेत्5 ।
प्रासादे 6यन्मया प्रोक्तः प्रतारः केवलो भवेत् ।। ९९
Abh
चेत्यर्थः । अथाकाशगतिं विमानप्रसङ्गादाह–अधोऽवलोकनेनेति। मण्डलावर्तं परिवर्तुलगतिरिति केचित् । आकाशीयानां चारीमण्डलानां पुनःपुनरावर्तनेनेति तूपाध्यायाः । एतामिति वक्ष्यमाणां कारयेन्नाट्याचार्यो नटैः । ऋजुभिः सरलललितजङ्घैः । अत एवायतैरुत्क्षिप्तपातितैः, कुटिलया गत्या आवर्तितैः भ्रमितैः । उन्नतनतैरित्यन्ये पठन्ति, उत्क्षेपकाले उन्नतैः पातनकाले तु नतैरिति व्याचक्षते । 2भ्रश्यत इत्यबुद्धिपूर्वकं पतत इत्यर्थः । अपविद्धौ त्वरितडो(? दो)लाकारपातौ भुजौ यस्याम् । अर्थवशादिति स्फुटयति प्रतार इति । तटादवतीर्य ततः शरीरं
Notes
1 ढ–वदना ड–वशाद्बुधैः 3 ड–सोपाने निक्षिपेन्नरः 4 ड–अथावतरणं 5 न N –गात्रमानस्य रेचयेत् 6 ड–या मया प्रोक्ता प्रतारे केवलं भवेत् । 1 ख–नाट्याचार्यो……..सरल 2 ख–दृश्यतः ।
जलप्रमाणापेक्षा तु जलमध्ये गतिर्भवेत् ।
तोयेऽल्पे वसनोत्कर्षः1 प्राज्ये पाणिविकर्षणैः ।। १००
किंचिन्नताग्रकाया तु प्रतारे गतिरिष्यते ।
प्रसार्य बाहुमेकैकं मुहुर्वारिविकर्षणैः2 ।। १०१
तिर्यक्प्रसारिता चैव ह्रियमाणा च वारिणा3 ।
अशेषाङ्गाकुला4धूतवदना गतिरिष्यते ।। १०२
नौस्थस्यापि प्रयोक्तव्या द्रुतैश्चूर्णपदैर्गतिः5 ।
अतिक्रान्तेन पादेन द्वितीयेनाञ्चितेन च ।। १०३
प्रासादारोहणे यत्तु तदेवाद्रिषु कारयेत् ।।
केवलमूर्ध्व6निक्षेप7मद्रिष्वङ्गे भवेदथ ।। १०४
द्रुमे चारोहणं कार्यमतिक्रान्तैः स्थितैः8 पदैः ।
Abh
प्रयोगेन तारयेत् । प्रतारणमिति 1एतत्प्रकारं व्याचष्टे । जलप्रमाणापेक्षा त्विति । एतत्स्फुटयति तोयेऽल्प इति । उत्कर्षः ऊर्ध्वं नयनं, प्राज्ये भूयसि जले यः प्रचारस्तत्र पाणिविचित्रकर्षणेन पताकसर्पशीर्षकादिनोपलक्षितगतिरिति संबन्धः । अबुद्धिपूर्वकन्तु जलेन नीयमानस्य गतिमाह प्रसार्येति । एकैकमिति पर्यायेणेत्यर्थः । अशेषेऽङ्गे आकुलत्वं यस्यां गतौ तथा आधूतमुच्यते तिर्यक् सकृदुद्वाहितं तुलयत्, अस्वतन्त्रत्वाच्चैवं भवति । कैश्चित्तु पर्यायशः पार्श्वत्वमुक्तं, तदसत् । परिवाहितं ह्येतत् बुद्धिपूर्वके च जलप्रतरणे तत्स्यात्, नत्विह । जलप्रसङ्गात् नौगतिमाह–नौस्थस्यैति । एवं प्रसङ्गानौगतिमुक्त्वा प्रकृतमेवारोहणमनुसन्धत्ते । प्रासादारोहणमिति । ननु वृक्षप्रासादादि तत्र किं रङ्गमण्डले
Notes
1 न–उत्कर्षैः 2 ड–बाहुविकर्षणैः 3 ढ–वारिणः 4 ड–पूर 5 च-द्रुतैस्तूर्णैः पदैर्गतैः 6 ड–तूर्ध्व 7 न–अङ्गै Kavi–तच्च विक्षेपमडिघ्रष्वङ्गं 8 ड–अतिक्रान्तोत्थितैः । 1 ख–एरवप्रकारं क–एरचप्रचार ।
सूचीविद्धैरपक्रान्तैः पार्श्वक्रान्तैस्तथैव च ।। १०५
एतदेवावतरणं सरित्स्वपि1 नियोजयेत् ।*
अनेनैव विधानेन कर्तव्यं गतिचेष्टितम् ।। १०६
संज्ञामात्रेण कर्तव्यान्येतानि विधिपू्र्वकम् ।
2कस्मान्मृत इति प्रोक्ते किं मर्तव्यं प्रयोक्तृभिः ।। १०७
अङ्कुशग्रहणान्नागं खलीनग्रहणाद्धयम् ।
3प्रग्रहग्रहणाद्यानमेवमेवापरेष्वपि ।। १०८
4अश्वयाने4a गतिः कार्या वैशाखस्थानकेन तु ।
तथा चूर्णपदैश्चित्रैरुपर्युपरि पातितैः ।। १०९
5पन्नगानां गतिः कार्या पादैः स्वस्तिकसंयुतैः6 ।
पार्श्वक्रान्तपदं कृत्वा7 स्वस्तिकं रेचयेदिह8 ।। ११०
Abh
रथचित्रपटादिन्यायेन दर्शनीयं, नेत्याह संज्ञामात्रेणेति । संज्ञा उक्तरूपारो– हणाद्यभिनयः ।
प्रसङ्गादन्यत्राप्यभिनयं दर्शयति । अङ्कुशग्रहणादित्यादि । तेन चित्रपटादिवियोगेऽपि रथगमनाद्यभिनयनं न युक्तम् । सौकर्यात्तु तत्करणमपि भवत्विति भावः । स्वस्तिकसंयुतैरित्युक्तमेव विभजति पार्श्वक्रान्तमिति । एवं देशापेक्षया गातिरुक्ता । नागादिप्रसङ्गात्तु सर्पगतिरपि ।
Notes
1 न–सरस्स्वपि
- ‘‘अतिक्रान्तेन…..नियोजयेत्’’ (१०२–४) इति त्रयः श्लोकाः जादिबान्तेष्वादर्शेषु ‘‘तथाऽवतरणं चैव’’ (९७) इति श्लोकार्धस्य पश्चात् ‘‘प्रासादे यन्मया’’ इति श्लोकार्धस्य पूर्वं वर्तन्ते । 2 च–तस्मान्मृत इति 3 न–प्रतोदग्रहणाद्यानं 4 द–आदर्शेऽयं श्लोको न विद्यते, 4a–N अश्वस्थाने 5 द–आन्तस्थानां 6 च–संज्ञितैः 7 ड–कुर्यात् 8 न–योजयेदिह ।
विटस्यापि च कर्तव्या गतिर्ललितविभ्रमा1 ।
पादैराकुञ्चितैः2 3किंचित्तालाभ्यन्तरपातितैः ।। १११
स्वसौष्ठवसमायुक्तौ4 तथा 5हस्तौ पदानुगौ ।
खटकावर्धमानौ तु6 कृत्वा विटगतिं व्रजेत् ।। ११२
कञ्चुकीयस्य कर्तव्या वयोऽवस्थाविशेषतः ।
7अवृद्धस्य प्रयोगज्ञो गतिमेवं प्रयोजयेत् ।। ११३
अर्धतालोत्थितैः पादैर्विष्कम्भैर्ऋजुभिस्तथा ।
8समुद्वहन्निवाङ्गानि पङ्कलग्न इव व्रजेत्9 ।। ११४
अथ वृद्धस्य कर्तव्या 10गतिः कम्पितदेहिका11 ।
12विष्कम्भनकृतप्राणा13 मन्दोत्क्षिप्तपदक्रमा ।। ११५
Abh
अथावस्थाभेदेन गतिं निरूपयन् विटावस्थायां तावदाह विटस्यापि चेति । स्वं प्रकृत्युचितं यत्सौष्ठवम् । कञ्चुकमिति तन्नेपथ्योचिता वृत्तिः तदिच्छत्यात्मन इति “क्यचि च” कञ्चुकीयः । वयोऽवस्थाविशेषत इति यदुक्तं तद्विभजत्येवमिति वक्ष्यमाणक्रमेण । विष्कम्भः स्थैर्यं तद्येषामिति मत्वर्थीयोऽकारः । समुद्वहन्निति यत्नेनाकर्षन् ।
एतदेव दृष्टान्तेन शिक्षयति पङ्कलग्न इवेति । अत एव *खञ्जकहेला– विलम्बितलघुमयस्य कोहलोक्तस्य सङ्ग्रहः । विष्कंभने यष्ट्यादिके कृतं समन्वितं
Notes
1 ड–विक्रमा 2 न–आकुञ्चिता 3 ड–केचित् ढ–कैश्चित् 4 ड–पदायुक्तौ 5 न–हस्त 6 द–च 7 ढ–आवृद्धस्य 8 ड–समुद्वहन्स्तथाङ्गानि न–समुद्वहंश्च गात्राणि 9 ढ–व्रजन् 10 न–हृतः 11 न–देहिता 12 ड–विष्टम्भन 13 ढ–कृताप्राण । *खञ्चकस्य लक्षणं तुम्बुरुणोक्तं यथा–प्रथमं कुटिलं कृत्वा घनमेकं द्रतद्वयम् गुर्वन्तं खञ्जकं नाम शम्यातालो निरन्तरः ।। हैलायास्तु तेनेन–चत्वारोऽथ नखाः पूर्वं द्विवक्रं तदनन्तरम् । पुनरप्येवमेव स्याच्छम्यातालो निरन्तरः । पाटैर्द्वादशाभिर्युक्तः । कार्याः शेषाश्चतुर्गुणम् । चञ्चत्पुटस्य भेदोऽयं हेलाया विधिरुच्यते । वेश्याद्विजवधूनः च क्रीडारम्यकुडुम्बिनाम् । भवनप्रतिहाराणां योजयेत्तत्परिक्रमे ।। कोहलमते तु तस्याः
1कृशस्यापि हि कर्तव्या गतिर्मन्दपरिक्रमा ।
2व्याधिग्रस्ते ज्वरार्ते च तपःश्रान्ते क्षुधान्विते ।। ११६
3विष्कम्भनकृतप्राणः4 कृशः क्षामोदरस्तथा ।
5क्षामस्वरकपोलश्च दीननेत्रस्तथैव च ।। ११७
शनैरुत्क्षेपणं चैव कर्तव्यं हस्तपादयोः ।
कम्पनं चैव गात्राणां 6क्लेशनं च तथैव हि7 ।। ११८
8दूराध्वानं गतस्यापि गतिर्मन्दपरिक्रमा ।
विकूणनं च गात्रस्य जानुनोश्च विमर्दनम् ।। ११९
स्थलस्यापि हि9 कर्तव्या गतिर्देहानुकर्षिणी ।
समुद्वहनभूयिष्ठा मन्दोत्क्षिप्तपदक्रमा ।। १२०
10विष्कम्भगामी च भवेन्निश्वासबहुलस्थथा ।
श्रमस्वेदाभिभूतश्च व्रजेच्चूर्णपदैस्तथा ।। १२१
मत्तानां तु गतिः कार्या मदे11 तरुणमध्यमे ।
Abh
प्राणो बलं येन । विकूणनं सङ्कोचनं विमर्दनमिति मिश्रपरिहारार्थम् । स्थूलस्येति महाकायस्य श्रमकृत्स्वेदः ।
Notes
1 प–कृशस्याप्यभिनेयावै 2 द–व्याधिस्रस्तम्य च तथा तपःशान्तस्य चैवहि 3 द–विष्टम्भन 4 न–कृतःप्राणः 5 द–क्षामस्वरश्चैवभवेत् 6 द–क्लेशेन च 7 ड–च 8 द–दूताध्वगस्यापि गतिः शनैः 9 ड–तु 10 द–विष्टम्भ 11 द –पदे ड–मन्दे “चत्वारो लघवः पूर्वमन्ते च गुरुणी तथा । पुनरप्येवमेव स्यान्मात्रा ह्यधमजातिषु । प्रयोक्तव्याध्रव हेला तालश्चञ्चत्पुटस्य च ।। उद्यानभवनक्रीडादिपिकालोकने तथा । भविष्यन्नायके चैव कन्यानां टक्करागतः । मालववेसरिकाख्यो रागोऽत्र विहितः सदा ।। इति । विलम्बितालक्षणं तु कोहलेन ‘‘लघुनी गुरुणीचैव लघू आद्यन्तयोर्गुरू विलम्बिता ध्रुवा ज्ञेया षढ्पितापुत्रभङ्गकृत् । सर्वासामेव नारीणामभिसारपरिक्रमे । सौम्या तु द्विपदीचात्र गेया मालवकैशिके ।। इति ।
वामदक्षिणपादाभ्यां 1घूर्णमानाऽपसर्पणैः ।। १२२
2अवकृष्टे मदे चैव ह्यनवस्थितपादिका ।
विघूर्णितशरीरा च 3करैः 4प्रस्खलितैस्तथा5 ।। १२३
उन्मत्तस्यापि कर्तव्या 6गतिस्त्वनियतक्रमा ।
7बहुचारीसमायुक्ता 8लोकानुकरणाश्रया ।। १२४
9रूक्षस्फुटितकेशश्च रजोध्वस्ततनुस्तथा ।
अनिमित्तप्रकथनो बहुभाषी विकारवान् ।। १२५
गायत्यकस्माद्धसति 10सङ्गे चापि न सज्जते11 ।
नृत्यत्यपि च संहृष्टो वादयत्यपि वा पुनः ।। १२६
कदाचिद्धावति जवात्कदाचिदवतिष्ठते12 ।
कदाचिदुपविष्टस्तु13 14शयानः स्यात्कदाचन ।। १२७
नानाचीरधरश्चैव रथ्यास्वनियतालयः ।
उन्मत्तो भवति ह्येवं15 तस्यैतां16 कारयेद्गतिम् ।। १२८
स्थित्वा नूपुरपादेन दण्डपादं प्रसारयेत् ।
17बद्धां चारीं तथा चैवं कृत्वा स्वस्तिकमेव च ।। १२९
अनेन चारीयोगेन 18परिभ्राम्य तु मण्डलम् ।
बाह्यभ्रमरकं चैव 19रङ्गकोणे प्रसारयेत् ।। १३०
Notes
1 ड–घूर्णमानोऽपसर्पणैः 2 ड–अपकृष्टे 3 ड–पदैः 4 द–प्रचलितैः 5 द–अथ 6 न–गतिस्तु नियत ड–गतिश्च नियत द–गतिस्त्वभिनयक्रमा 7 द–बाहु 8 द–लोकार्थ 9 न–रूक्षस्फन्दित ड–रूक्षस्फटिक प–रूक्षस्फुरित 10 न–रुदतीह तथा पुनः 11 द–संइते 12 ड–अवतिष्ठति 13 प–उपतिष्ठति 14 ड–शयितः स्यात् 15 ड–एष 16 प–तस्य तां 17 ज–बध्वा 18 ड–परिक्रम्य चतुर्दिशम् । 19 द–रङ्गकोणं तु योजयेत् ।
त्रिकं सुवलितं कृत्वा लताख्यं हस्तमेव च ।
विपर्ययगतैर्हस्तैः पद्भ्यां सह गतिर्भवेत्।। १३१
1त्रिविधा तु गतिः कार्या खञ्जपङ्गुकवामनैः।
विकलाङ्गप्रयोगेण 2कुहकाभिनयं प्रति।। १३२
3एकः खञ्जगतौ 4नित्यं स्तब्धौ वै चरणो भवेत् ।
तथा द्वितीयः कार्यस्तु पादोऽग्रतलसंचरः ।। १३३
5स्तब्धेनोत्थापनं कार्यमङ्गस्य चरणेन तु ।
6गमनेन निषण्णः7 स्यादन्येन चरणेन तु ।। १३४
इतरेण 8निषीदेच्च क्रमेणानेन वै व्रजेत् ।
एषा 9खञ्जगतिः कार्या तलशल्यक्षतेषु10 च ।। १३५
1पादेनाग्रतलस्थेन गतिः कार्याञ्चितेन तु12 ।
निषण्णदेहा पङ्गोस्तु13 14नतजङ्घा तथैव च15 ।। १३६
Abh
पद्भ्यां सह विपर्ययगतैरिति पादचेष्टा तथा करकर्मण्यनुवर्तनीयेति । कुहकाः अधमा लिङ्गिन इति केचित् । कुहकशब्देन हास्यरस इत्येतत् । तले पादतले 1शल्यादिक्षतमस्य तस्मिन् गतिमाह पादेनाग्रतलस्थेनेति* नर्कुटः ।
Notes
1 ड – विविधानुगतिः 2 द N–कुहना 3 ड–एतत् 4 द–नित्यस्तब्धो 5 न–स्तब्धेनोद्वाहनं द–स्वयैनोत्थापनं (?) 6 द–आदर्शे श्लोकार्धं न दृश्यते 7 ड–विषण्णः 8 ड–विषीदेत् 9 न–खण्डप्रयोगेषु 10 न–कृतेषु 11 न–पुनरग्रतले गम्ये 12 ड–अञ्चितेन व्रजेत्तथा 13 न–कार्या तु प–कर्तव्या 14 द–नते जङ्घे 15 ढ–तु । 1 कस्यादि *नर्कुटस्य लक्षणं यथा–‘‘गुरुणी लघुनी गद्विद्विरभ्यस्ते प्रयोजयेत् । तद्ध्रुवा नर्कुटं प्रोक्तमेतदर्धेन नर्कुटी ।। शकारेण प्रयोक्तव्यं हास्ये विटविदूषकैः । नर्कुटं नर्कुटे वृत्ते हिन्दोलस्य तु भाषया ।।’’ इति । तुम्बुरुणापि ‘‘वेश्याचेटविटप्रेष्यस्त्रीविधानां नियोजयेत्’’ इति नर्कुटीनर्कुटयोर्विनियोग उक्तः ।।
सर्वसंकुचिताङ्गा च 1वामने गतिरिष्यते ।
न तस्य विक्रमः कार्यो विक्षेपश्चरणस्य च ।। १३७
सोद्वाहिता चूर्णपदे सा कार्या कुहकात्मिका1a ।
विदूषकस्यापि गतिर्हास्यत्रयविभूषिता2 ।। १३८
अङ्गकाव्य (?वाक्य)कृतं 3हास्यं हास्यं 4aनेपथ्यजं4 स्तृतम् ।
दन्तुरः खलतिः कुब्जः 4bखञ्जश्च विकृताननः ।। १३९
5यदीदृशः प्रवेशः स्यादङ्गाहास्यं तु तद्भवेत्6 ।
7यदा तु बकवद्गच्छेदुल्लोकितविलोकितैः ।। १४०
अत्यायतपदत्वाच्च अङ्गहास्यो भवेत्तु सः ।
काव्य(? वाक्य)हास्यं तु विज्ञेयमसंबद्धप्रभाषणैः9 ।। १४१
अनर्थकैर्विकारैश्च तथा चाश्लीलभाषणैः ।
10चीरचर्ममषीभस्मगैरिकाद्यैस्तु मण्डितः11 ।। १४२
यस्तादृशो भवेद्विप्रा हास्यो नेपथ्यजस्तु सः ।
तस्मात्तु 12प्रकृतिं ज्ञात्वा भावं कार्यं च तत्त्वतः ।। १४३
13गतिप्रचारं विभजेन्नानावस्थान्तरात्मकम् ।
Abh
1प्रवेश इति यद्यस्मादीदृशः प्रवेश्यमानः पात्रविशेषः रङ्गे भवति ततोऽङ्गहास्यमिति । प्रवेशपदेन नाट्य एव रसो न लोक इति दर्शयति । असंबद्धं निरर्थमनुचितं च, तद्व्याचष्टे अनर्थकैरश्लीलैश्चेति, अश्रियमशोभां रातीति रेफस्य लत्वम् । तस्मादिति त्रिप्रकारं हास्यमाश्रित्य क्वचिदेकः प्रकारः क्वचित् द्वौ
Notes
1 ढ–वामेन, 1a–N: 2 ड–समन्विता 3 ड–वाक्यकृतं 4 ड–नैपथ्यजं 4a–N: नेपथ्यजे 4b–N:खञ्जश्चिपिटकाननः 5 ड–य ईदृशः न–यदीदृशो भवेद्विप्राः अङ्गहास्यं तु तत्स्मृतम् 6 ढ–तत्सृतम् 7 द–अयं श्लोकः ‘‘काव्यहास्य’’ मिति श्लोकस्यानन्तरं नेपथ्यहास्यलक्षणमिति दृश्यते लेखकप्रमादात् । 8 द–आयतत्वाश्वतत्वाच्च (?) हास्यं नेपथ्यजं तु तत् 9 ड N–असंबन्धप्रभाषणात् 10 द–आदर्शे अयं श्लोको न वर्तते 11 प–गौरिकादिविभूषणैः 12 ड–प्रकृतीर्ज्ञात्वा 13 प–गतिं । 1 पङ्क इतीयमन्यस्मात् ।
1स्वभावजायां विन्यस्य कुटिलं वामके करे ।। १४४
तथा दक्षिणहस्ते च2 कुर्याच्चतुरकं पुनः3 ।
पार्श्वमेकं शिरश्चैव हस्तोऽथ चरणस्तथा ।। १४५
4पर्यायशः 5सनंमयेल्लयतालवशानुगः ।
6स्वभावजा तु तस्यैषा गतिरन्या विकारजा ।। १४६
7अलाभलाभाद्भक्तस्य8 स्तब्धा तस्य गतिर्भवेत् ।
9कार्या चैव हि नीचानां चेटादीनां परिक्रमात् ।। १४७
अधमा इति ये ख्याता नानाशीलाश्च ते पुनः ।
पार्श्वमेकं शिरश्चैव करः सचरणस्तथा ।। १४८
10शकारस्यापि कर्तव्या गतिश्चञ्चलदेहिका ।
Abh
क्वचित्सर्व इत्यनेन क्रमेण विदूषकः स्वामिनः प्रकृतिं राजामात्यश्रेष्ठि1प्रकृतिभावं चित्तवृत्तिं करणीयं ज्ञात्वा विभागः कार्यः । 2न च राजनि संनिवृत्तेऽश्लीलभाषणं समुचितम् । एवं सर्वत्रोह्यम् ।
गत्युपयोगिनं वृत्तान्तमस्याभिधाय गतिमाह–स्वभावजायामिति । अनावेशे सति 3बकवद्गमनस्योक्तत्वात् । लयो विलम्बितः, तालः प्लुतलघुगुरुप्राय इह स्वीकृतः । 4अन्या द्रुतलयत्वेन प्लुतकालमानाद्बाहुल्येन 5शोकादिः स्वभावजा । गर्वात्मकोऽपि विकारो भवतीत्याशयेनाह अलाभलाभादिति । अलाभः लाभपूर्वकाल्लाभात् । भुक्तं वस्त्राद्युपलक्षयति । भयादौ तु 6परित एवास्य क्रमः ।
Notes
1 ड–सभावजाया 2 ड N–हस्तं च ढ–हस्तं तु ड–ततः ढ–तथा 4 ड–पर्यायतः 5 न–संनमेत्तत् ड–संनमेत प–स्वभावजाता 7 ड–अलभ्य 8 ड–भक्षस्य द–उत्कस्य 9 द–मातृकायामयं श्लोको न वर्तते 10 ड–इदं श्लोकार्धं न संज्ञकादर्शेऽत्रैव वर्तते । प–मातृकायां तु “अलाभालाभा” दिति श्लोकार्धानन्तरमेव । जझढडत मातृकासु तु न विद्यते । 1 प्रभृति 2 सहि 3 वक्रत्वं गमनस्य 4 न्यायतरं चरत्वेन प्लुतकालः 5 अद्यशोकादिः क–अन्यरोकादिः 6 प्रोक्तं न प्राक्
गतौ नमेत चेटानां दृष्टिश्चार्थविचारिणी1 ।। १४९
2वस्त्राभरणसंस्पर्शैर्मुहुर्महुरवेक्षितैः ।
3गात्रैर्विकारविक्षिप्तैर्लम्बवस्त्रस्रजा तथा ।। १५०
4सगर्विता चूर्णपदा शकारस्य गतिर्भवेत् ।
5जात्या नीचेषु योक्तव्या6 विलोकनपरा गतिः ।। १५१
Abh
(शकारस्यापीति) शकारबहुला यस्य बहुला यस्य भाषा स शकरः । शकारोपलक्षितशकादिजनपदवासीत्यन्ये, यद्वक्ष्यते ‘शकाराभीरचण्डाल (ना. शा. १७-५०) इत्यादि । हीनाशय उत्तमपदेऽभिरोपितः शकार इत्यन्ये । 1अध्वहारस्य श्लोकः–
प्राकृतेऽपि शकारस्य विभूतिर्न प्रसिद्धये ।
तद्विभूतिरपभ्रंशे तापस्येव प्रकाशिता2 (?) ।।
ममापि चात्रार्थे श्लोकः—
लब्धापशब्दघटना विधुतश्च धर्मः
स्वार्थप्रतीतिकलनां प्रति का कथैव ।
3मूर्धन्यतां गमयता भवता शकारः
शक्नोति यत्र न विधे हृदि किं न्यधायि ।।
तथा–
सकलजनतालभ्यः सोऽयं शकार इति स्फुटं
विरचयति यन्मूर्धन्यत्वं विभुर्हतलक्षणा ।
हततनुरियं लोके जातापशब्दपरम्परा
परिचयमयी वार्ता कीर्तिं निकृत्य निकर्तनी ।। इति ।
प्रतिज्ञाचाणक्ये तन्महाकविना भीमेन राजापि विन्ध्यकेतुः शकार इति भूयसा व्यवहृतः । वस्त्राभरणसंस्पर्शालोकनगर्वयोगोऽत्र पक्षे क्लिष्टतरः न
Notes
1 न–अर्धनिमेषिणी 2 न–वज्राभरणसंस्पर्शे 3 द–मातृकायां श्लोकार्धं नास्ति 4 ड–गर्विता चूर्णपादस्य 5 श्लोकोऽयं द मातृकायां न वर्तते 6 ज–कर्तव्या । 1 अथ हासस्य 2 प्रकाशिका 3 मूर्धन्यतोऽङ्गममता ।
असंस्पर्शाच्च लोकस्य 1स्वाङ्गानि विनिगूह्य च ।
म्लेच्छानां जातयो यास्तु पुलिन्दशबरादयः2 ।। १५२
तेषां देशानुरूपेण3 कार्यं गतिविचेष्टितम्4 ।
पक्षिणां श्वापदानां च पशूनां च द्विजोत्तमाः ।। १५३
स्वस्वजातिसमुत्थेन स्वभावेन गतिर्भवेत्5 ।
सिंहर्क्षवानराणां च गतिः कार्या प्रयोक्तृभिः ।। १५४
या कृता नरसिंहेन विष्णुना प्रभविष्णुना ।
6आलीढं स्थानकं कृत्वा गात्रं तस्यैव चानुगम् ।। १५५
जानूपरि करं 7ह्येकमपरं 8वक्षसि स्थितम् ।
9अवलोक्य दिशः10 सर्वाश्चिबुकं बाहुमस्तके10a ।। १५६
गन्तव्यं विक्रमैर्विप्राः पञ्चतालान्तरोत्थितैः ।
11नियुद्धसमये चैव रङ्गावतरणे तथा ।। १५७
सिंहादीनां प्रयोक्तव्या गतिरेषां प्रयोक्तृभिः ।
शेषाणामर्थयोगेन गतिं स्थानं च योजयेत् ।। १५८
Abh
चार्यदेशजातिः शकारः कश्चित्प्रसिद्धः, म्लेच्छजातीनां पृथगेव निर्वक्ष्यते “म्लेच्छानां जातयो यास्तु” (ना. शा. १२/१५१) इत्यादिना, तस्मादिहायमीदृश एव शकार इति युक्तम् ।
प्रभविष्णुनेति वचनादिदं सूचयत्यसाववतरणप्राधान्येन, ये ऋक्षवानरादयो जाम्बवत्सुग्रीवाङ्गदहनूमत्प्रायाः, तेषामेवेयं गतिः । अन्येषां तु स्वजात्यानुरूप्येणैव । तस्यैवेत्यालीढस्यानुगतं गात्रं वामभागगमनमित्यर्थः ।
Notes
1 ड–अङ्गानि 2 द, N–पुलिन्दाद्या द्विजोत्तमाः 3 ड–गतिविचारेण 4 द, N–विचेष्टितैः 5 द, N –प्रतियोजयेत् 6 ड–आलीढस्थानकं 7 ड–चैकं 8 न–चोपरि द–चैव स्वस्थितम् 9 द–विलोलितं शिरः कृत्वा न, N – विलोकितं शिरःकृत्वा 10 ड–दृशः 10a—N: विलोकितं शिरः कृत्वा चिबुकं वामहस्तके 11 श्लोकोऽयं दसंज्ञके नास्ति ।
वाहनार्थप्रयोगेषु रङ्गावतरणेषु च ।
एवमेताः प्रयोक्तव्या नराणां गतयो बुधैः ।। १५९
1नोक्ता या या मया ह्यत्र ग्राह्यास्तास्ताश्च2 लोकतः ।
3अतः परं प्रवक्ष्यामि स्त्रीणां गतिविचेष्टितम् ।। १६०
स्त्रीणां स्थानानि कार्याणि गतिष्वाभाषणेषु च4 ।
आयतं चावहित्थं च अश्वक्रान्तमथापि च5 ।। १६१
6[स्थानान्येतानि नारीणामथ लक्षणमुच्यते] ।
7वामः स्वभावतो यत्र पादो विरचितः समः ।। १६२
तालमात्रान्तरे न्यस्तस्त्र्यश्रः पक्षस्थितोऽपरः ।
प्रसन्नमाननमुरः समं यत्र समुन्नतम् ।। १६३
लतानितम्बगौ हस्तौ स्थानं ज्ञेयं तदायतम्* ।
[दक्षिणस्तु समः पादस्त्र्यश्रः पक्षस्थितोऽपरः ।। १६४
वामः समुन्नतकटिश्चायते स्थानके भवेत् ।
आवाहने विसर्गे च तथा निर्वर्णनेषु च8 ।। १६५
चिन्तायां चावहित्थे च स्थानमेतत्प्रयोजयेत्]
9रङ्गावतरणारम्भः पुष्पाञ्जलिविसर्जनम् ।। १६६
Notes
1 ड–नोक्ताश्च 2 ड N–ताश्चापि 3 द–आदर्शे श्लोकस्यार्धं न वर्तते 4 ड–आभरणेषु च 5 द–वा 6 द–आदर्श एव दृश्यते 7 ढ–स्थानकत्रयलक्षणविनियोगपाठः कखगघचभम– आदर्शेषु समान एव । कुण्डलीकृतस्तु पाठो तदन्येप्यादर्शेषु दृश्यते । जायसेनापतिशार्ङ्गदेवकुम्भकर्णेः (णैः)पूर्वः पाठ एव गृहीतः, भोजदेवेन त्वपर इति ज्ञायते । 8 ढ–निर्वहणेषु च द–निर्बलेषु च 9 द–आदर्शे श्लोकद्वयं न वर्तते । ड–आदर्शे वर्तते । *आयतं स्त्रीणामेव स्थानकमिति केचित्, रङ्गावतरणारम्भे पुरुषाणामपीति परे ।
मन्मथेर्ष्योद्भवं कोपं तर्जन्यङ्गलिमोटनम् ।
निषेधगर्वगाम्भीर्यमौनं मानावलम्बनम् ।। १६७
स्थानेऽस्मिन् संविधातव्यं दिगन्तरनिरूपणम् ।
[1समो यत्र स्थितो वामस्त्र्यश्रः पक्षस्थितोऽपरः ।। १६८
समुन्नतकटिर्वामस्त्ववहित्थं तु तद्भवेत्] ।
2पुरो विचलितस्त्र्यश्रस्तदन्योऽपसृतः समः ।। १६९
पादस्तालान्तरन्यस्तस्त्रिकमीषत्समुन्नतम् ।
पाणिर्लताख्यो यत्रैकस्तदन्यस्तु नितम्बग: ।। १७०
अवहित्थं समाख्यातं स्थानमागमभूषणैः ।
3विलासलीलाबिब्बोक 4शृङ्गारात्मनिरूपणे5 ।। १७१
स्थानमेतत्प्रयोक्तव्यं 6भर्तृमार्गावलोकने ।
[स्त्रीणामेतत्स्मृतं7 स्थानं 8सलापे तु स्वभावजे ।। १७२
निश्चये परितोषे च वितर्के 8लज्जिते तथा] ।
पादः 9समस्थितश्चैक एकश्चाग्रतलाञ्चितः ।। १७३
सूचीविद्धमविद्धं वा 10तदश्वक्रान्तमुच्यते10a ।
11स्खलितं घूर्णितं चैव गलिताम्बरधारणम् ।। १७४
कुसुमस्तबकादानं परिरक्षणमेव च ।
वित्रासनं सललितं तरुशाखावलम्बनम् ।। १७५
Notes
1 द N–समस्थितो वामपादस्त्र्यश्रस्तालान्तरोऽपरः 2 ड–श्लोकद्वयं–कादि चान्तेषु भमयोश्च वर्तते, नान्येषु । 3 ड–अयं कखगघचछडभम–आदर्शेष्वेव ड–विवाहलीलालावण्ये 4 ड–शृङ्गारादि 5 क–निरूपणैः 6 ड–तथा 7 द–स्थितं 8 ड–चिन्तने 9 ड–समुत्थितः द–समस्थितस्त्वकः 10 द–ह्यश्वक्रान्तं तदुच्यते 10a– N –वाप्यश्वक्रान्तं तदिष्यते 11 दनजझठप–मातृकासु श्लोकद्वयं न दृश्यते ।
स्थानेऽस्मिन्संविधानीयं स्त्रीणामेतत्प्रयोक्तृभिः ।
2[शाखावलम्बने कार्यं स्तबकग्रहणे1 तथा ।। १७६
विश्रामेष्वथ नीचानां3 नराणां चार्थयोगतः4]
5स्थानकं तावदेव स्याद्यावच्चेष्टा प्रवर्तते ।। १७७
6भग्नं च स्थानकं नृत्ते चारी चेत्समुपस्थिता ।
एवं स्थानविधिः कार्यः स्त्रीणां नॄणामथापि च ।। १७८
7पुनश्चासां प्रवक्ष्यामि गतिं प्रकृतिसंस्थिताम् ।
कृत्वावहित्थं स्थानं तु वामं चाधोमुखं भुजम्8 ।। १७९
नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् ।
ततः सललितं पादं तालमात्रसमुत्थितम्9 ।। १८०
दक्षिणं वामपादस्य बाह्यपार्श्वे विनिक्षिपेत् ।
तेनैव समकालं च 10लताख्यं वामकं11a भुजम्11 ।। १८१
दक्षिणं विनमेत्पार्श्वं न्यसेन्नाभितटे ततः12 ।
नितम्बे दक्षिणं कृत्वा हस्तं चोद्वेष्ट्य वामकम् ।। १८२
Abh
स्खलितमिति पदम् । 1तथा विशेषेण च्युत इत्यर्थः । प्रकृतिसंस्थितामित्यविशेषोक्ता प्राधान्यात्प्राथम्यात् 2तदस्ति(?)गतिरित्युच्यते । 3कृत्वावहित्थमित्यादि । वामश्चेति । 4लताख्यं बाह्यपार्श्वे कनिष्ठाङ्गुलिदेशे ।
Notes
1 न–ग्रहणं 2 श्लोकोऽयं कादिचान्तासु मातृकासु न वर्तते 3 ड–देवानां 4 द–नराणामर्थयोगतः 5 श्लोकोऽयं कादिछान्तेष्वेव वर्तते 6 छ –भग्नेऽवस्थानके 7 श्लोकार्धमिदं कखगचछेषु न वर्तते 8 ड–करम् 9 द N–तालमात्रं समुत्क्षिपेत् 10 ढ–तालाख्यं 11 द–वामपादकम् 11a–N वामकं यदि 12 द N –पुनः । 1 क–पदं 2 क–तमस्ति 3 क–कुलावहित्थामिति ख–तूलावहित्थमिति 4 ख–लतास्यं ।
ततो वामपदं दद्याल्लताहस्तं1 च दक्षिणम् ।
लीलयोद्वाहितेनाथ 2शिरसानुगतेन च ।। १८३
3किंचिन्नतेन4 गात्रेण गच्छेत्पञ्चपदीं ततः ।
यो विधिः पुरुषाणां तु5 रङ्गपीठपरिक्रमे ।। १८४
स एव प्रमदानां वै कर्तव्यो नाट्ययोक्तृभिः ।
षट्कलं तु न कर्तव्यं6 तथाष्टकलमेव च ।। १८५
पादस्य पतनं तज्ज्ञैः खेदनं7 तद्भवेत्स्त्रियाः ।
सयौवनानां नारीणामेवं कार्या गतिर्बुधैः ।। १८६
8स्थानीया याः स्त्रियस्तासां संप्रवक्ष्याम्यहं गतिम् ।
कृत्वावहित्थं स्थानं तु वामं न्यस्य कटीतटे ।। १८७
आद्यं चारालमुत्तानं कुर्यान्नाभिस्तनान्तरे ।
न निषण्णं न च स्तब्धं न चापि परिवाहितम् ।। १८८
Abh
यो विधिरिति वामवेधं ततः कुर्यादिति । अतिदेशेन चेदं दर्शयति यावती काचिद्रसप्रकृतिदेशकालापेक्षा नॄणां गतिरुक्ता सा सर्वैवोक्तविलासरूपप्रकारानुविद्धा1 स्त्रीणामपि विवक्षिता । 2दिक्कलापरिमाणत्वं यत्र शोभोदात्तं तत्र विशेषमाह । एतत्प्रागेव व्याख्यातं चतुष्कलादभ्यधिको न स्त्रीणां मानविधिरिति । अष्टकलग्रहणं तदप्यधिकं मानं पुरुषेष्वपि नास्तीति सूचयति । अन्यथा षट्कले निषिद्धे 3काष्टकलस्य संगतिस्तन्निषेधेन । स्थानीया मध्यमवयसः, अत एव मध्यमप्रकृतित्वमनूद्यम् । 4आद्यं दक्षिणम् । परिवाहितमिति
Notes
1 ड–पादं 2 ड–शिरसोऽनुगतेन द–शिरसात्र 3 सार्ध एकः श्लोकः कखडढ –मातृकारस्वेव 4 द–नमेत 5 द–हि 6 द–षट्कलं तत्तु कर्तव्यं न–न प्रयोक्तव्यं 7 द–खेदने 8 ड–स्थवीयसीनामेतासां । 1 ख–रूपानुविद्धा 2 क–दिक्तालपरिमाणत्वं ख–दिक्काल 3 क–काष्ठकलास एकत्रिकः ख–काष्ठकलासंकेतिकं तन्निषेधेन 4 ख–अथ ।
कृत्वा गात्रं ततो गच्छेत्तेनैवेह क्रमेण तु ।
प्रेष्याणामपि कर्तव्या गतिरुद्भ्रान्तगामिनी ।। १८९
1किंचिदुन्नमितैर्गात्रैराविद्धभुजविक्रमा ।
स्थानं कृत्वावहित्थं च2 वामं चाधोमुखं भुजम् ।। १९०
नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् ।
अर्धनारीगतिः कार्या स्त्रीपुंसाभ्यां विमिश्रिता ।। १९१
उदात्तललितैर्गात्रैः पादैर्लीलासमन्वितैः ।
या पूर्वमेवाभिहिता 3ह्युत्तमानां गतिर्मया ।। १९२
स्त्रीणां कापुरुषाणां च 4ततोऽर्धार्धं तु5 योजयेत् ।
मध्यमोत्तमनीचानां नृणां यद्गतिचेष्टितम्5a ।। १९३
स्त्रीणां तदेव कर्तव्यं ललितैः पदविक्रमैः ।
Abh
सविभागमधमानां गतिमाह प्रेष्याणामित्यादि । उद्भ्रान्तगामिनीति समदविकारा, आविद्धो वर्तनाबहुलो वाहुजानां 1विक्रमस्य नार्या अर्धमिति नपुंसकलक्षणा तृतीया प्रकृतिरुच्यते, 2समप्रविभागविवक्षया चार्धनपुंसकमिति समासः 3उदात्तत्वं पुरुषाणां लालित्यं योषितां गतौ । गतिरिति चतुस्ताला चतुष्कला च, अनुत्तमस्त्रीणां द्विताला द्विकलेति ततोऽप्यर्धा कापुरुषाणां, तत्कर्मकराणामेकताला 4एककला चेति । किमुत्तमानामेवेयं स्थाने दर्शयति मध्यमोत्तमानां नृणां 4अपुंसां यद्गतिचेष्टितं तदेव तदोदात्तमध्यमोत्तमनीचानां स्त्रीणां तथा तत्कर्मकराणां कुर्यादित्युत्तमग्रहणम् ।
Notes
1 ड–क्वचित् 2 च–तु 3 द–पूर्वमेव विहिता 4 द N–तदर्थेन तु 5 ड–च 5 a: N– यद्गतिविचेष्टितम् 1 क–विक्रमः स्यात् 2 क–संप्रति विभाग 3 क–उदारत्वं 4 क–द्विकला 5 ख–अयं सा ।
बालानामपि कर्तव्या स्वच्छन्दपदविक्रमा1 ।। १९४
न तस्यां2 सौष्ठवं कार्यं प्रमाणं न प्रयोक्तृभिः ।
3[तृतीया प्रकृतिः कार्या नाम्ना चैव नपुंसका ।। १९५
नरस्वभावमुत्सृज्य स्त्रीगतिं तत्र योजयेत्]
विपर्ययः प्रयोक्तव्यः पुरुषस्त्रीनपुंसके4 ।। १९६
स्वभावमात्मनस्त्यक्त्वा तद्भावगमनादिह ।
5व्याजेन क्रीडया वापि तथाभूयश्च वञ्चनात् ।। १९७
स्त्री पुंसः प्रकृतिं कुर्यात् स्त्रीभावं पुरुषोऽपि च ।
6धैर्योदार्येण सत्त्वेन बुद्ध्या तद्वच्च कर्मणा ।। १९८
7स्त्री पुमांसं त्वभिनयेद्वेष9वाक्यविचेष्टितैः ।
Abh
सर्वग्राहकं दर्शयितुं यत्रोत्तमादिविभागो नोद्भिन्नः तत्र गतिमाह बालानामपीति । तद्भावगमनादिति । यदेव रूपं यो गृह्णाति तदीयैव तस्य गतिः । विपर्ययपरिग्रहे च विशिष्टार्थं 1कारणमाह व्याजेनेति । व्याजः कस्यचित्कार्यस्य साधनाय, यथा विदूषकस्य संकेतस्थाने चेटिकावस्त्रधारणम् । क्रीडा यथा इष्टजनस्याकृतौ नायिकानाम् । वञ्चनादिति यथा विदूषकं वञ्चयितुं चेटकस्य स्त्रीवेषकरणम् ।
अपि चेति ग्रहणात् स्त्रीपुंसयोर्नपुंसकेन सह तस्य न ताभ्यां सह विपर्ययं दर्शयति । अत्रैव विपर्यये गतिविपर्ययप्रसङ्गेन व्यभिचारिभावसात्त्विकोपाङ्गाद्यभिनयविपर्ययमप्याह धैर्योदार्येणेति । 2धैर्यौदार्ये सामान्याभिनयोक्ते । ताभ्यां भावा उपलक्ष्यन्ते । बुद्ध्येति स्थायित्वम् सत्त्वेनेति सात्त्विकाः, कर्मणेति 3स्थानकादिविषयः, वेषेति आहार्यप्रकाराः, वाक्येति वाचिकगतसंस्कृतादिप्रयोगः, चेष्टितैरिति अन्तरालस्थाने त्रिपताकादयः ।
Notes
1 ड–गतिविक्रमा 2 द–तस्य 3 ड–तस्याः 3 –अयं श्लोकः कादि छान्तेष्वादर्शेषु न वर्तते 4 Kavi–नपुंसकैः 5 न–व्यायामेन क्रीडयापि 6 ड–धैर्योदारेण 7 ड–न स्त्रीपुंस 8 प–एष छ–एव । 1 ख–करणं 2 ख–धैर्यौदार्या 3 क–सात्त्विकादि ।
स्त्रीवेषभाषितैर्युक्तः 1प्रेक्षिताप्रेक्षितैस्तथा ।। १९९
2मृदुसन्नगतिश्चैव पुमान्स्त्रीभावमाचरेत् ।
[3जातिहीनाश्च4 या नार्यः पुलिन्दशबराङ्गनाः ।। २००
याश्चापि तासां कर्तव्या तज्जातिसदृशी गतिः ।
व्रतस्थानां तपःस्थानां लिङ्गस्थानां तथा पुनः5 ।। २०१
स्वस्थानां चैव नारीणां समपादं प्रयोजयेत् ।
उद्धता येऽङ्गहाराः स्युर्याश्चार्यो मण्डलानि वा ।। २०२
तानि नाट्यप्रयोगज्ञैर्न कर्तव्यानि योषिताम्] ।
6तथासनविधिः कार्यः स्त्रीणां नॄणामथापि च7 ।। २०३
नानाभावसमायुक्तस्तथैव8 शयनाश्रयः ।
विष्कम्भिताञ्चितौ पादौ 9त्रिकं किंचित्समुन्नतम् ।। २०४
10हस्तौ कट्यूरुविन्यस्तौ स्वस्थे स्यादुपवेशने ।
Abh
यथास्थानकगतैः पूर्वपश्चाद्भावि तथोपवेशनात्मकमासनमपीति तद्विधमाह तथासनविधिरितिं । तथैवेति गतो 1हि शयनमपि पूर्वपश्चाद्भावि शयनाश्रय इति शेषः, विष्कम्भेन वैशाखस्थानकोचितेन विस्तारेणाञ्चितौ विस्तीर्णान्तरौ सुन्दरौ पादौ, न त्वत्राञ्चितपादलक्षणयोगः । स्वस्थे पुंसि यदुपवेशनमासनपीठिकादौ तत्र त्रिकमुन्नतं स्यादिति संबन्धः । “इति शब्देन वाक्यार्थः, स्यादित्यत्र कर्तव्याख्येय” इति स्यादिति । हस्ताविति कर्कटरूपौ
Notes
1 ड–प्रेषिताप्रेषितैः 2 ड–मृदुमन्द द–मृदुसत्त्व 3 श्लोकत्रयं कादि छान्तेषु न दृश्यते 4 ड–विजातीयास्तु 5 ड–तथैव च न–तथापरः 6 छादिसकलादर्शेषु –अथासनविधिः 7 ड–नॄणां स्त्रीणां विशेषतः द–वा 8 ड– तथा च 9 ब–वक्षः 10 स्वस्थाद्यासनलक्षणविनियोग– श्लोकाः नम–मातृकयोः पाठभेदतया दृश्यन्ते । नमातृकापाठस्तु भमपाठक्रम एव दीयते संवादबाहुल्यात् 3 क–गते ख –गतो
पादः प्रसारितः किंचिदेकश्चैवासनाश्रयः ।। २०५
शिरः 1पार्श्वानतं चैव सचिन्त उपवेशने ।
चिबुकोपाश्रितौ हस्तौ बाहुशीर्षाश्रितं शिरः ।। २०६
संप्रणष्टेन्द्रियमना भवेच्छोकोपवेशने2 ।
प्रसार्य बाहू शिथिलौ तथा 3चापाश्रयाश्रितः ।। २०७
4मूर्छामदश्रमग्लानिविषादेषूपवेशयेत् ।
सर्वपिण्डीकृताङ्गस्तु संयुक्तैः5 पादजानुभिः ।। २०८
6व्याधिव्रीडितनिद्रासु ध्याने चोपविशेन्नरः ।
तथा चोत्कटिकं स्थानं7 स्फिक्पार्ष्णीनां समागमः ।। २०९
पित्र्ये निवापे जप्ये च सन्ध्यास्वाचमनेऽपि8 च ।
विष्कम्भितं पुनश्चैव 9जानु भूमौ निपातयेत् ।। २१०
Abh
समाहारद्वन्द्वे । संप्रणष्टशब्देनेन्द्रियमात्र1 इति पाठः मन इति पाठे प्रोच्यत्वे कृते त्वध्याहृत्य संगतिः कार्या । अपाश्रयन्तीत्यादिकमाश्रितम् । उपवेशयेदिति स्वार्थे णिच आचार्ये वा कर्तृभूतमात्रम्, आचार्यास्तु बाहू प्रसार्यैवासने उपवेशयेत् विश्रामयेदित्याहुः । पिण्डितत्वमङ्गानां जानुविश्लेषादूर्ध्वकायं कुटिलीकरोतीत्युत्क टं 2संज्ञायां कटतेः3 । अत्र च विरलत्वं जानुनोः स्फिग्भ्यां भूमेः परामर्शः,4 पूर्वत्र तु नैतदुभयमपीति विशेषः । पित्र्य इति श्राद्धादौ, निवापसलिल इति पितृतर्पणे प्रतिग्रहार्थं परस्य सलिलदाने तत्प्रतिग्रहे च । सन्ध्याशब्देन तदवसरोचितं जपध्यानादि । विष्कम्भितमिति विस्तारितमेकं
Notes
1 ड–पार्श्वगतं छ–पार्श्वोन्नतं 2 ड–शोकौत्सुक्योपवेशने 3 न–चोपाश्रयाश्रितः 4 प– मोहमूर्छामदग्लानि 5 ढ–संयुक्तः 6 द–व्रीडावहित्थास्वध्याने 7 छ–उत्कटकस्थान ढ–उत्कटिकस्थानं 8 च –आचमनेषु 9 ढप–जानं । 1 क–शब्देन विशेषणेन संप्रणष्टेन्द्रियमात्र 2 क–पुंसंज्ञायां 4 क–कुटेः 4 क–परस्पर्शः ।
1प्रियाप्रसादने कार्यं होमादिकरणेषु च ।
2महीगताभ्यां जानुभ्यामधोमुखमवस्थितम् ।। २११
देवाभिगमने कार्यं3 रुषितानां4a प्रसादने4 ।
शोके 5चाक्रन्दने तीव्रे 6मृतानां चैव दर्शने ।। २१२
6aत्रासने च कुसत्त्वानां नीचानां चैव याचने7 ।
8होमयज्ञक्रियायां च 9प्रेष्याणां चैव कारयेत् ।। २१३
मुनीनां नियमेष्वेवं भवेदासनजो विधिः ।
*तथासनविधिः कार्यो विविधो नाटकाश्रयः ।। २१४
स्त्रीणां च पुरुषाणां च 9aबाह्यश्चाभ्यन्तरस्तथा ।
[आभ्यन्तरस्तु नृपतेर्बाह्यो बाह्यगतस्य च] २१५
देवानां नृपतीनां च दद्यात् सिंहासनं द्विजाः ।
10पुरोधसाममात्यानां 11भवेद्वेत्रासनं तथा ।। २१६
Abh
भूमौ जानु द्वितीयं यथास्थितं, यन्त्रनिकटे ढौकनं गमनशंक्यं* सन्तापादिभयात् । तत्र च कार्यं मन्त्रं तदुपलक्षणम् । होमादिकरणेष्विति । अभिगमनं वन्दनम् । शोके चेति नीचानामिति सर्वत्रात्र संबध्यते । नीचानां शोकजनितो यस्तीव्राक्रन्दस्तत्रैव, नीचा यदा मृतमवलोकयन्ति, संबन्धमात्रे षष्ठीत्युभयप्राप्यभावान्न नियमः । कुसत्त्वाः शिवादयः यदा नीचान् त्रासयन्ति तदा । नीचा यदा किंचिद्याचन्ते तदा जानुद्वयक्षेपो भूमौ ।
अथासनात्मककालसंनिवेशप्रसङ्गेन तदधिकरणेषु विधिमाह तथासनविधिरिति । बाह्यः सर्वजनविषयः आभ्यन्तरो राजोचितः ।
Notes
1 द,च N-प्रिय 2 द-महीमुखाभ्यां 3 ड-चैव 4 च-च सांत्वने द-च याचने 4a- N कपितानां प्रसादने 5 द, N-चाक्रन्दकामेन 6 ढ-भूतानां 6a-N त्रासपुरोधस्तममात्यानां भवेद्वै त्रासनं तथा । 7 ढ-दर्शने 8 द-शेष छ-सोम 9 छ-प्रेक्षाणां चैव योजयेत् 9a- N-बाह्याश्चाभ्यन्तरस्तथा 10 न-पुरोधः श्रेष्ठ्यमात्यानां 11 द-भवेदर्धासनं * सकलेष्वादर्शेषु “अथासनविधिः” इति । *निकटे ढौकनं गमनं शक्यं -मधुसूदनी, पृ. १०८४
मुण्डासनं तु1 दातव्यं सेनानीयुवराजयोः ।
काष्ठासनं ब्राह्मणानां2 3कुमाराणां कुथासनम् ।। २१७
एवं राजसभां प्राप्य 4कार्यस्त्वासनजो विधिः ।
स्त्रीणां 5चैवासनविधिं संप्रवक्ष्याम्यहं पुनः ।। २१८
सिंहासनं तु राज्ञीनां देवीनां मुण्डमासनम् ।
6पुरोधोऽमात्यपत्नीनां 6aदद्याद्वेत्रासनं तथा ।। २१९
भोगिनीनां 7तथा चैव वस्त्रं चर्म कुथापि वा ।
8ब्राह्मणीतापसीनां च पट्टासनमथापि च ।। २२०
9वेश्यानामपि कर्तव्यमासनं हि10 मसूरकम्11 ।
शेषाणां प्रमदानां च भवेद्भूम्यासनं द्विजाः ।। २२१
एवमाभ्यन्तरो12 ज्ञेयो 13बाह्यश्चासनजो विधिः ।
तथा स्वगृहवार्तासु छन्देनासनमिष्यते ।। २२२
Abh
1मुण्डासनं चातुरी, 2मसूरकं वस्तुशून्यं, काष्ठासनं 3पीठकं, वेत्रलताकृतं वेत्रासनं वेत्रासनादन्य एव रूढो वर्णकम्बलखण्डः विस्ताररिकेत्यन्ये राज्ञी राजवंश्या देवी, सेनापतिप्रभृतिपुत्र्यो राज्ञा परिणीता भोगिन्यः 4संगृहीतकन्याः । भूमिरेवासनं भूम्यासनम् । 5एवमिति नरपतिसंनिधौ । अन्यदात्मस्वेच्छयेति दर्शयति तथा स्वगृहेति । वार्ताशब्देन सेनापतेरमात्यगृहगमन इत्यादि सूचयति ।
Notes
1 ड-च 2 ड-द्विजातीनां न-द्विजानां च 3 ढ- कुमाराणां द-कुमाराणामथाशुभम् ( ?) 4 द-कार्य आसनजो 5 ड- चाप्यासन 6 द-पुरोधसां तपस्वीनां भवेत् । 6a- N वैत्रासनं 7 द-पुनश्चैव कृत्वा चर्म कथा (कुथा ?) तथा 7a-N भोगिनीनां पुनश्चैव कुथो (कृत्वा) चर्म कुथाऽपि वा । 8.ड- ब्राह्मणीना यतीनां च द-आदर्शेऽयं श्लोको न दृश्यते 9 न -वेश्यानां च प्रदातव्यं 10 ड-च 11 ड-मयूरकम् 12 ढ, N- अन्तःपुरे 13 द-बाह्यश्चासने 13a- N बाह्याधिवासने विधिः 1 ख- दण्डासनं 2 क-पसूरकं 3 ख-पीठनं 4 ख -संगीतकन्या 5 क-एष विधिः ख-एष्विति ।
1नियमस्थो मुनीनां च भवेदासनजो विधिः ।
2लिङ्गिनामासनविधिः कार्यो व्रतसमाश्रयः ।। २२३
3ब्रुसीमुण्डासनप्रायं वेत्रासनमथापि वा4 ।
5होमे यज्ञक्रियायां च पित्र्यर्थे च प्रयोजयेत् ।। २२४
स्थानीया ये च पुरुषाः कुलविद्यासमन्विताः ।
तेषामासनसत्कारः 6कर्तव्य इह पार्थिवैः ।। २२५
समे समासनं दद्यान्मध्यमे मध्यमासनम् ।
अतिरिक्तेऽतिरिक्तं च हीने भूम्यासनं भवेत् ।। २२६
उपाध्यायस्य नृपतेर्गुरूणां चाग्रतो7 बुधैः ।
भूम्यासनं तथा कार्यमथवा काष्ठमासनम् ।। २२७
नौनागरथयानेषु भूमिकाष्ठासनेषु च ।
सहासनं न दुष्येत गुरूपाध्यायपार्थिवैः8 ।। २२८
Abh
नियमस्थ इति कस्याचिदङ्गविष्टरोऽन्यस्य मृगाजिनम् । लिङ्गिनामिति । यथा शाक्यानां ब्रुसी, शैवानां मुण्डासनं, क्षपणकानां वेत्रवल्कलडिम्बकम् । तदेवाह ब्रुसीत्यादि । स्थानाय हिता वृद्धाः तन्निकटे व्यवस्थादृष्टादृष्टोपयोगिवृद्धा ये भवन्ति अत एवाह कुलविद्येति । आसनसत्कार इहास्यतामिति ।
1तत्र विभागमाह सम इति तत्तुल्यजाति2विधः । सममिति त्रित्वाच्चासनापेक्षया मध्य इति किंचिदूनेन, मध्यमिति स्वासनात्प्रमाणतोऽप्यूनं हीन इति स्वापेक्षया भूम्या सह भूमिरेव इहास्यतामिति निर्देश्या स एव तस्यासनसत्कारः । काष्ठमिति एकमेव दीर्घं भरसहं पर्यङ्कं दर्शयितुं काष्ठमित्युक्तं न तु काष्ठमयमिति ।
Notes
1 ढ-नियमस्थं ड-नियमस्य द-नियमस्थे 2 द-लिङ्गिनां चासनविधिः 3 ड-दण्डमुण्डब्रुसीप्रायं 4 ड-च 5 श्लोकार्धं द संज्ञके नास्ति 6 न-कर्तव्यो गुरुपार्थिवैः 7 ड-गुरूणामग्रतो 8 द, N-उपाध्याये गुरौ नृपे । 1 ख -तन्त्रविभागं 2 ख-विन्यासममिति ।
आकुञ्चितं समं चैव प्रसारितविवर्तने1 ।
उद्वाहितं 2नतं चैव शयने कर्म कीर्त्यते ।। २२९
3[सर्वैराकुञ्चितैरङ्गैः शय्याविद्धे तु जानुनी ।
स्थानमाकुञ्चितं नाम शीतार्तानां प्रयोजयेत् ।। २३०
उत्तानितमुखं चैव 4प्रत्यङ्मुक्तकरं तथा ।
समं नाम प्रसुप्तस्य5 स्थानकं संविधीयते ।। २३१
एकं भुजमुपाधाय संप्रसारितजानुकम् ।
स्थानं प्रसारितं नाम 6सुखसुप्तस्य कारयेत् ।। २३२
अधोमुखस्थितं चैव 7विवर्तितमिति स्मृतम् ।
शस्त्रक्षतमृतोत्क्षिप्तमत्तोन्मत्तेषु कारयेत् ।। २३३
8अंसोपरि शिरः कृत्वा कूर्परक्षोभमेव च ।
उद्वाहितं तु विज्ञेयं लीलायां वचने9 प्रभोः ।। २३४
ईषत्प्रसारिते जङ्घे यत्र 10सृष्टौ करावूभौ ।
आलस्यश्रमखेदेषु नतं स्थानं विधीयते] ।। २३५
Abh
अथ शयनसंनिवेशनमाहाकु़ञ्चित (मिति) दिक् या निजशरीरस्य कुटिलीकरणात्सा स्यात् । बाहुमध्यमपसरेण विक्षेपयोगात् पार्श्वे संनिवेशनवशात्1 पूर्वकायस्यापरकायस्योर्ध्वनयन2 नान्यशयनसंनिवेशात् ।
Notes
1 न-विवर्तिते 2 न-नतं षोढा शय्यास्थानानि निर्दिशेत द -तथा चैव 3 श्लोकाः षट् आकुञ्चितादिलक्षणविनियोगनिरूपकाः कखगघचद N मातृकासु न वर्तन्ते 4 ड-स्रस्तमुक्तकरं 5 ड-तु सुप्तस्य 6 ड-खलु 7 ड-विवर्तन 8 न-हस्तोपरि 9 ज-वेशने 10 ज-स्रस्त । 1 ख-सन्निवेशनात् 2 ख-शयनम् ।
गतिप्रचारस्तु मयोदितोऽयं नोक्तश्च यः सोऽर्थवशेन साध्यः1 ।। २३६
2अतः परं रङ्गपरिक्रमस्य वक्ष्यामि कक्ष्यान्तरसंविधानम्3 ।। २३७
इति श्रीभारतीये नाट्यशास्त्रे गतिप्रचारो नाम द्वादशोऽध्यायः4 ।*
Abh
अर्थवशेनेति लौकिकेनेत्यर्थः । अथैतदुपसंहृताध्यायानन्तरावकाशं संगतिप्रदर्शनपूर्वकमाह अतःपरमिति । रङ्गे यत्परिक्रमात् परिक्रमणवृत्ते गत्यध्याये निरूपितं तदुपयोगः कक्ष्याविशेषविभाग इति शिवम् ।
यावद्गतिभेद(विधि)प्रकटनमध्यायमिह विवृणुते ।
स्मरमथनचरणसरसिजपरागभूतोऽभिनवगुप्तः ।।
इति श्रीमहामाहेश्वराचार्याभिनवगुप्ताचार्यविरचितायां नाट्यवेदवितृतावभिनवभारत्यां गत्यध्यायो द्वादशः समाप्तः ।
Notes
*भ म मातृकाभिन्नपाठक्रमो द्वादशोऽध्यायः गतिप्रचारः ।
एवं व्यायामसंजातं कार्यं मण्डलकल्पनम् ।
अत ऊर्ध्वं प्रवक्ष्यामि गतीस्तु प्रकृतिस्थिताः ।। १
तत्रोपवहनं कृत्वा भाण्डवाद्यपुरस्कृतम् ।
यथामार्गरसोपेतं प्रकृतीनां प्रवेशनम् ।। २
ध्रुवायां संप्रवृत्तायां पटे चैवापकर्षिते ।
कार्यः प्रवेशः पात्राणां नानार्थरससंभवः ।। ३
स्थानं तु वैष्णवं कार्यमुत्तमे मध्यमे तथा ।
समुन्नतं समं चैव चतुरश्रमुरस्तथा ।। ४
बाहुशीर्षे प्रसन्ने च नात्युत्क्षिप्ते च कारयेत् ।
ग्रीवाप्रदेशः कर्तव्यो मयूराञ्चितमस्तकः ।। ५
कर्णाभ्यां बाहुशिरसी स्यातामष्टाङ्गुलस्थिते ।
1उरसश्चापि चिबुकं चतुरङ्गुलसंस्थितम् ।। ६
हस्तौ तथैव कर्तव्यौ कटीं नाभिं तु संस्थितौ ।
दक्षिणो नाभिसंस्थस्तु वामः कटितटस्थितः ।। ७
2पादयोरन्तरं कार्यं द्वौ तालावर्धमेव च ।
पादोत्क्षेपश्च कर्तव्यः स्वप्रमाणविनिर्मितः ।। ८
चतुस्तालो द्वितालश्च तथा स्यादेकतालकः ।
चतुस्तालस्तु देवानां पार्थिवानां तथैव च ।। ९
द्वितालश्चैव मध्यानां तालः स्त्रीनीचलिङ्गिनाम् ।
[2चतुष्कलोऽथ द्विकलस्तथा ह्येककलः पुनः ।
चतुष्कलो ह्युत्तमानां मध्यानां द्विकलो भवेत् ।। १०
Notes
1 भ-ऊरुदेशच्च 2 श्लोकार्धं भमातृकायां न दृश्यते 3 भ मातृकायां न वर्तते । म संज्ञके तु सार्धं श्लोकद्वयं कुण्डलीकृतम् । *V - l -250 not found in N
तथा चैककलः पातो नीचानां संप्रकीर्तितः ।
स्थितं मध्यं द्रुतं चैव समवेक्ष्य लयत्रयम् ।। ११
यथाप्रकृति नाट्यज्ञो गतिमेवं प्रयोजयेत् ]।
स्वभावेनोत्तमगतौ जानुं कुर्यात्कटीसमम् ।। १२
युद्धचारीप्रचारेषु जानु स्तनसमं भवेत् ।
अयं विधिस्तु कर्तव्यः स्वच्छन्दगमनं प्रति ।। १३
संभ्रमोत्थानरोषेषु प्रमाणं न विधीयते ।
दृप्तानां दैत्ययक्षाणां तथा पन्नगरक्षसाम् ।। १४
चतुस्तालप्रमाणेन कर्तव्या तु गतिर्बुधैः ।
दिवौकसां तु शेषाणां मध्यमा गतिरुच्यते ।। १५
तत्रापि चोत्तमा ये तु तेषां देवैः समा गतिः ।
पुळि( ?लि)न्दाः शबराश्चैव शेषा ये मलेच्छजातयः ।। १६
तेषां देशानुरूपेण कार्यं गतिविचेष्टितम् ।
जलाशयमृगव्याळ( ?ल)पशुश्वापदपक्षिणाम् ।। १७
देशजातिसमुत्थेन गतिं भावेन योजयेत् ।
स्थितं मध्यं द्रुतं चैव समवेक्ष्य लयं बुधैः ।। १८
पादयोः पतनं सम्यक्प्रकुर्वीत यथाक्रमम् ।
स्थैर्योपपन्ना गतिरुत्तमानां मध्या गतिर्मध्यमसंस्थितानाम् ।
द्रुता गतिश्च प्रचुराधमानां लयत्रयं सत्त्ववशेन योज्यम् ।। १९
चतुष्कलं तूत्तमानां मध्यानां द्विकलं भवेत् ।
तथा चैककलं पातं नीचानां संप्रयोजयेत् ।। २०
यः समैः संहितो गच्छेत्तत्र कार्यो लयाश्रयः ।
चतुष्कलश्च द्विकलस्तथा चैककलः पुनः ।। २१
अथ मध्यमनीचैस्तु गच्छेत्संपरिवारितः ।
चतुष्कलस्तथार्धं च तथा चैककलो भवेत् ।। २२
एवमेष तु विज्ञेयः कलानां गमने विधिः ।
पुनर्गतिप्रचारस्य प्रयोगं शृणुतानघाः ।। २३
पार्श्वाक्रान्तैः सललितैः पादैर्वाद्यान्वितैरथ ।
1रङ्गकोणोन्मुखो गच्छेत्सम्यक्पञ्चपदानि तु ।। २४
एवं गतागतैर्गत्वा पदानामेकविंशतिम् ।
वामबन्धं ततः कुर्याद्विक्षेपं दक्षिणस्य च ।। २५
रङ्गे विकृष्टे भरतेन कार्यो गतागतैः पादगतिप्रचारः ।
त्र्यश्रस्तिकोणे चतुरश्ररङ्गे गतिप्रचारश्चतुरश्र एव ।। २६
द्रुता गतिस्तु कर्तव्या द्विकलापादपातने ।
ज्येष्ठे चतुष्कला कार्या द्विकला तत्र मध्यमे ।। २७
द्विकला चोत्तमे यत्र मध्ये त्वेककला भवेत् ।
कलाप्रमाणं मध्ये च नीचे त्वर्धकला ततः ।। २८
एवमर्धार्धहानिं तु कलानां संप्रयोजयेत् ।
उत्तमानां गतिर्या तु न तां मध्येषु योजयेत् ।। २९
या गतिश्चैव मध्यानां न तां नीचेषु योजयेत् ।
उत्तमानां मयोक्ता तु गतिर्विप्रा यथायथम् ।। ३०
मध्यानामधमानां च गतिं वक्ष्याम्यहं पुनः ।
वणिजां मन्त्रिणां चैव गतिः कार्या स्वभावजा ।। ३१
अतिक्रान्तपदैः सा तु द्वितालान्तरगामिभिः ।
कृत्वा नाभितटे हस्तमुत्थानं कटकामुखम् ।। ३२
आद्यं चाराळ ( ?ल) मुत्तानं कुर्यात्पार्श्वस्तनान्तरे ।
न निषण्णं न च स्तब्धं न चैव परिवाहितम् ।। ३३
कृत्वा गात्रं तथा गच्छेत्तेन वाद्यक्रमेण तु ।
हासे त्वथ गतिः कार्या तथा खञ्जनवामने ।। ३४
द्विकलार्धप्रयोगेषु कुहकाभिनयं प्रति ।
खञ्जे गतिस्तु कर्तव्या स्तब्धैकचरणाश्रया ।। ३५
तथा द्वितीयः कार्यस्तु पादोऽग्रतलसंचरः ।
स्तब्धेनोन्नमनं कार्यमङ्गस्य चरणेन तु ।। ३६
Notes
1 सार्धं श्लोकद्वयं भ संज्ञके न विद्यते ।
गमने च निषण्णः स्यात्तथान्यचरणाश्रये ।
एष खञ्जनप्रयोगेषु तलशल्यक्षते तथा ।। ३७
पादेनाग्रतलेनाथ गतिः कार्याञ्चितेन तु ।
निषण्णदेहा कर्तव्या नतजङ्घा तथैव तु ।। ३८
सर्वसंकोचिताङ्गी च वामने गतिरिष्यते ।
न तस्यातिक्रमः कार्यो विक्षेपश्चरणस्य तु ।। ३९
उद्वाहिता चूर्णपदैः सा कार्या कुहकात्मिका ।
विदूषकस्यापि गतिर्हास्यत्रयविभूषिता ।। ४०
अङ्गहास्यं कार्यहास्यं हास्यं नेपथ्यजं तथा ।
कुब्जः खञ्जोऽथ खलतिर्दन्तुरो विकृताननः ।। ४१
यत्तादृशो भवेद्विप्रा अङ्गहास्यं तु तद्भवेत् ।
1यदा तु बकवद्गच्छेदुल्लोकितविलोकितैः ।। ४२
अत्यायतपदत्वाच्चाप्यङ्गहास्यो भवेत्तु सः ।
चीरचर्ममषीभस्मगैरिकादिविभूषणैः ।। ४३
यत्तादृशो भवेद्विप्रा हास्यं नेपथ्यजं तु तत् ।
काव्यहास्यं तु विज्ञेयमसंबद्धप्रभाषणैः ।। ४४
अनर्थवाक्यैर्विविधैस्तथा चाश्लीलभाषणैः ।
तस्य तु प्रकृतिं ज्ञात्वा तथा भावं विचक्षणः ।। ४५
गतिप्रचारं विभजेन्नावस्थान्तरात्मकम् ।
स्वभावजायां विन्यस्य कुटिलं वामके करे ।। ४६
दक्षिणं चैव हस्तं तु कुर्याच्चतुरकं तथा ।
पार्श्वमेकं शिरश्चापि हस्तं चरणमेव च ।। ४७
पर्यायतः सन्नमयेल्लयताळ ( ?ल) वशानुगम् ।
स्वभावजाता तस्यैषा गतिरिन्या विकारजा ।। ४८
लाभे तथा च भुक्तस्य तुष्टे चापि गतिर्भवेत् ।
शकारस्यापि कर्तव्या गतिश्चञ्चलदेहिका ।। ४९
Notes
वस्त्राभरणसंस्पर्शं सम्यक्पञ्चपदानि तु ।
वामवेधं ततः कुर्याद्विक्षेपं दक्षिणेन च ।। ५०
परिवृत्य द्वितीयं तु गच्छेत्कोणं ततः परम् ।
तत्रापि वामवेधं तु विक्षेपो दक्षिणेन च ।। ५१
ततो भाण्डोन्मुखो गच्छेदेतान्येव पदानि तु ।
एवं गतागतैर्गत्वा पदानि त्वेकविंशति ।। ५२
वामवेधं ततः कुर्याद्विक्षेपं दक्षिणेन च ।
एषा स्वभावगमने गतिः कार्या प्रयोक्तृभिः ।। ५३
अवस्थान्तरयोगे तु गतिं समनुबोधत ।
अस्वस्थकामिते चैव भयवित्रासयोस्तथा ।। ५४
आवेगे च तथा हर्षे तथानिष्टश्रुतावपि ।
कालातिक्रमणे चैव क्षेपे चाद्भुतदर्शने ।। ५५
कार्य आत्ययिके चैव दुःखिते चारिमार्गणे ।
अवरुद्धानुकरणे श्वापदानुगतौ तथा ।। ५६
गतिमेतेषु भावेषु द्विकलां संप्रयोजयेत् ।
दिव्यानां नृपतीनां च गतिरेवं विधीयते ।। ५७
अत्रोच्यते कथं देवैः समा राज्ञां गतिर्भवेत् ।
दिव्या तु प्रकृतिर्ज्ञेया तथान्या दिव्यामानुषी ।। ५८
मानुषी चैव मन्तव्या नाट्यवृत्तिक्रियां प्रति ।
दिव्या तु देवप्रकृती राज्ञां स्याद्दिव्यमानुषी ।। ५९
अन्या या लोकसंस्था तु मानुषी सा प्रकीर्तिता ।
तस्माद्देवानुकरणे दोषस्तत्र न विद्यते ।। ६०
गतिः शृङ्गारिणी कार्या स्वस्थकामितसंभवा ।
चतुष्कलाप्रमाणेन सविलासा तथैव च ।। ६१
दूतीदर्शितमार्गस्तु प्रविशेद्रङ्गमण्डलम् ।
सूच्या चैवाप्यभिनयं प्रकुर्यादर्थसंश्रयम् ।। ६२
हृद्यैवस्त्रैस्तथागन्धैर्धूपैश्चूर्णैश्च योजितैः ।
सुगन्धिभिश्च मालाभिर्विचित्राभिरलंकृतः ।। ६३
गच्छेत्सललितैः पादैरतिक्रान्तोत्थितैरथ ।
सौष्ठवेन समायुक्तैर्लयताळ(? ल)वशानुगैः ।। ६४
पादयोरनुगौ चापि हस्तौ कार्यौ प्रयोक्तृभिः ।
प्रच्छन्नकामिते चैव गतिं भूयो निबोधत ।। ६५
विसर्जितजनस्तत्र तथा दूतीसमन्वितः ।
निर्वाणदीपो नात्यर्थं भूषणैश्च विभूषितः ।। ६६
वेलासदृशवस्त्रश्च निवृत्तस्तु शनैः शनैः ।
शब्दशंक्युत्सुकश्चापि पश्चाल्लोकनतत्परः ।। ६७
वेपमानशरीरश्च प्रस्खलंस्तु मुहुर्मुहुः ।
शङ्कितः पुरुषो गच्छेद्दिदृक्षुर्वल्लभं जनम् ।। ६८
उत्तमानामियं कार्या पुरुषाणां गतिर्बुधैः ।
मध्यमानां गतिं चैव संप्रवक्ष्याम्यहं पुनः ।। ६९
ज्वरातें च रुजार्ते च तपःश्रान्ते भयान्विते ।
विक्षते च्छन्नगमने त्ववहित्थे तथैव च ।। ७०
चिन्तान्विते तथा स्वस्थ औत्सुक्ये संहते तथा ।
गतिः स्थिरलया कार्यां करणाश्रयभाविनी ।। ७१
भये वित्रासिते चैव प्रमत्ते शङ्किते तथा ।
व्याधिते हर्षिते क्रोधे कार्यं तु चतुराञ्चितम् ।। ७२
संभ्रमाद्भुतसंदर्शे मुहुर्मुहुरवेक्षणैः ।
कम्पनेन च गात्राणां वस्त्रस्याकर्षणेन च ।। ७३
सुसन्धिता चूर्णपदा शकारस्य गतिर्भवेत् ।
स्थूलस्यापि तु कर्तव्या गतिर्देहानुकर्षिणी ।। ७४
समुद्धाहितगात्रा च विलम्बितपदक्रमा ।
विष्कम्भगामिनी चैव निश्वासबहुला तथा ।। ७५
अतिक्रान्ता च कर्तव्या तथा चूर्णपदैः सदा ।
कार्या चैव तु हीनानां चेट्यादीनां द्विजोत्तमाः ।। ७६
अधमा इति ये ख्याता नानाशीलाः कुवृत्तयः ।
पार्श्वमेकं शिरश्चैव करं चरणमेव च ।। ७७
नामयेत्तद्गतौ किंचित्कुजन्मा चेटसंज्ञितः ।
जातिनीचेषु कर्तव्या विलोकनपरा गतिः ।। ७८
विकला बकसंचारा गात्रं सर्वं नियम्य च ।
स्वजातिसदृशी चैव तथा देहानुकर्षिणी ।। ७९
संभ्रमे चैव हर्षे च विक्षिप्तपदविक्रमा ।
आसाद्य हास्यं तु रसमेताश्चान्याश्च योजयेत् ।। ८०
पुनश्च करुणे कार्या गतिः स्थिरपदक्रमा ।
सबाष्पः साश्रुनयनः सन्नगात्रस्तथैव च ।। ८१
उत्क्षिप्तपातितकरः तथा सस्वनरोदनैः ।
गच्छेदथाध्यर्धिकया प्रत्यग्राप्रियसंश्रयात् ।। ८२
एषा स्त्रीषु प्रयोक्तव्या नीचसत्त्वेषु चैव हि ।
उत्तमानां तु कर्तव्या सबाष्पा धैर्यसंयुता ।। ८३
निश्वासैरायतोत्सृष्टैस्तथा चोर्ध्वनिरीक्षणैः ।
न तत्र सौष्ठवं कार्यं न प्रमाणं यथोदितम् । ८४
नात्युत्क्षिप्तैः पदैर्गच्छेदिष्टबन्धुनिपातने ।
गाढप्रहारे कार्या च शिथिलाङ्गभुजाश्रया ।। ८५
विघूर्णितशरीरा च गतिश्चूर्णपदैरथ ।
गतिः काञ्चुकिनी प्रोक्ता वयोऽवस्था विशेषतः ।। ८६
वृद्धे वा मध्यमे वापि तथा चैव कनीयसि ।
अर्धतालोत्थितैः पादैर्विष्कम्भैर्ऋजुभिस्तदा ।। ८७
उद्वहन्निव गात्राणि पङ्कमग्न इव व्रजेत् ।
अथ वृद्धस्य कर्तव्या गतिः कम्पितदेहिका ।। ८८
विष्कम्भितगतिप्राणा मन्दोत्क्षिप्तपदा तथा ।
शीतेन चाभिभूतस्य वर्षेणाभिहतस्य च ।। ८९
गति प्रयोक्तृभिः कुर्यात्स्त्रीनीचप्रकृतैः सदा ।
पिण्डीकृत्य च गात्राणि तेषां चैव प्रकम्पनात् ।। ९०
करौ वक्षसि निक्षिप्य कुब्जदेहा तथैव च ।
दन्तोष्ठस्फुरणाच्चैव चिबुकस्य प्रकम्पनात् ।। ९१
शनैः शनैश्च कर्तव्या शीतार्ताभिनये गतिः ।
उष्णे चापि प्रयोक्ताव्या गतिर्दाहसमाकुला ।। ९२
नेत्रसंकोचनस्वेदगात्रसंहरणान्विता ।
अतिक्रान्तैरपक्रान्तैरेलकाक्रीडितैस्तथा ।। ९३
क्रमैरभिनयैर्युक्ता तथा चूर्णपदैरपि ।
एतानन्यांश्च युञ्जीत नाट्यज्ञैः करुणे रसे ।। ९४
रौद्रे रसे प्रवक्ष्यामि दैत्यरक्षोगणान्प्रति ।
एक एव रसस्तेषां स्थायी रौद्रो द्विजोत्तमाः ।। ९५
नेपथ्यरौद्रो विज्ञेयः स्वाङ्गरौद्रस्तथैव च ।
अथ स्वभावजश्चैव त्रिधा रौद्रः प्रकीर्तितः ।। ९६
रुधिरक्लिन्नदेहो यो रौद्राभिविकृताननैः ।
तथा पिशितहस्तश्च रौद्रो नैपथ्यजस्तु सः ।। ९७
बहुबाहुर्बमुखो नानाप्रहरणाकुलः ।
स्थूलकायस्त्वतिप्रांशुरङ्गरौद्रस्तु स स्मृतः ।। ९८
रक्ताक्षः पिङ्गकेशश्च कृष्णाङ्गो विकृतस्वरः ।
रौद्रनिर्भर्त्सनकथो रौद्रोऽयं स्यात्स्वभावजः ।। ९९
चतुस्तालोत्तरोत्क्षिप्तैः पादैस्त्र्यन्तरपतितैः ।
गतिरेवं प्रकर्तव्या शेषा ये चापि तद्विधाः ।। १००
एक एव रसस्तेषां स्थायी रौद्रो द्विजोत्तमाः ।
विग्रहः प्रहसश्चैव तथा श्रृङ्गार इष्यते ।। १०१
तथा भयानके चापि गतिः कार्या विचक्षणैः ।
स्त्रीणां कापुरुषाणां च ये चान्ये सत्त्ववर्जिताः ।। १०२
विष्फा (?स्फा)रितचलन्नेत्रो विधुन्वन् स्वशिरस्तथा ।
भयाकुलितचित्तत्वात्पार्श्वानि च विलोकयन् ।। १०३
द्रुतैश्चूर्णपदैश्चैव कृत्वा हस्तं कपोतकम् ।
प्रले (?वे) पितशरीरस्तु शुष्कोष्ठश्च स्खलन्व्रजेत् ।। १०४
एषानुकरणे कार्या तर्जने कलहे तथा ।
सत्त्वं च विकृतं दृष्ट्वा श्रुत्वा च विकृतस्वरम् ।। १०५
एषा स्त्रीणां प्रयोक्तव्या नॄणां चाक्षिप्तविक्रमा ।
क्वचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् ।। १०६
एळ(? ल)काक्रीडितैः पादैरुपर्युपरिपातितैः ।
एषामेवानुगैर्हस्तैर्गतिर्भीतेषु योजयेत् ।। १०७
अहृद्या तु मही यत्र श्मशानरणकश्मला ।
गतिस्तत्र प्रकुर्वीत बीभत्साभिनयं प्रति ।। १०८
क्वचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् ।
अतिक्रान्तैः पदैर्गच्छेज्जुगुप्सितगतिं प्रति ।। १०९
तथा वीरे च कर्तव्या पादविक्षेपसंयुता ।
द्रुतप्रचारणाविद्धा नानाचारीसमाकुला ।। ११०
पार्श्वाक्रान्तैर्द्रुताविद्धैः सूचीविद्धैस्तथैव च ।
कलाताळ(?ल) गतैः पादैरावेगे योजयेद्गतिम् ।। १११
विटस्यापि तु कर्तव्या गतिर्ललितविक्रमा ।
किंचिदाकुञ्चितैः पादैस्ताळा(? ला)भ्यन्तरपातितैः ।। ११२
रङ्गसौष्ठवसंयुक्तं तथा हस्तौ कटिस्थितौ ।
खटकावर्धमानौ च कृत्वा कार्या विटे गतिः ।। ११३
कृशाङ्गानां तु कर्तव्या गतिर्मन्दपरिक्रमा ।
व्याधिग्रस्तो ज्वरार्तश्च तपश्श्रान्तः क्षुधान्वितः ।। ११४
विष्टम्भनगतप्राणस्तथा क्षामोदरः सदा ।
क्षामस्वरकपोलश्च सन्नगात्रस्तथैव च ।। ११५
हस्तपादसमुत्क्षेपं शनैस्तत्र प्रयोजयेत् ।
कम्पनं चैव गात्राणां श्लथनं चैव योजयेत् ।। ११६
प्रकर्तव्याध्वगस्यापि गतिर्मन्दपरिक्रमा ।
विकूणनेन वक्त्रस्य जानुनोश्च विमर्शनान् ।। ११७
नीचानां मध्यमानां च गतिः कार्या सदा बुधैः ।
तालमात्रोत्थितैः पादैस्तथा व्याकुञ्चिताञ्चितैः ।। ११८
यतिनश्चाश्रमस्था ये ये चान्ये तपसि स्थिताः ।
ऋषयस्तापसाश्चैव नैष्ठिकं व्रतमास्थिताः ।। ११९
आलोलचक्षुः स्याच्चैव युगमात्रनिरीक्षणे ।
उपस्थितस्मृतिश्चैव गात्रं सर्वं नियम्य च ।। १२०
अचञ्चलमनाश्चैव गच्छेल्लिङ्गसमाश्रितः ।
विनीतवेषश्च तथा काषायवसनोऽपि च ।। १२१
प्रथमं समपादेन स्थित्वा स्थानेन नाट्यवित् ।
हस्तं चतुरकं कृत्वा तथा चैतत्प्रसारयेत् ।। १२२
प्रसन्नवदनं कृत्वा प्रयोगस्य वशानुगम् ।
सुनिषण्णेन गात्रेण गतिं कुर्याद्यतेस्तथा ।। १२३
उत्तमानां भवेदेषा लिङ्गिनां ये महाव्रताः ।
एभिरेव विपर्यस्तैर्गुणैरन्येषु लिङ्गिषु ।। १२४
तथा व्रतानुगा च स्यादन्येषां लिङ्गिनां गतिः ।
हस्तौ तदनुगौ चापि यथायोगं प्रयोजयेत् ।। १२५
1विभ्रान्ता वा ह्युदात्ता च विक्रान्ता विहृता तथा ।
शकटास्यस्थितैः पादैरतिक्रान्तैस्तथैव च ।। १२६
कार्या पाशुपतानां च गतिरुद्भ्रान्तगामिनी ।
2एवं लिङ्गस्थितानां हि प्रयोज्यैव गतिर्बुधैः ।। १२७
अन्धस्येव गतिं कुर्यादन्धकारेषु योगवत् ।
भूमौ विसर्पितैः पादैर्हस्तदर्शितमार्गकैः ।। १२८
रथस्थस्यापि कर्तव्या गतिश्चूर्णपदक्रमा ।
समपादं तथा स्थानं कृत्वा रथगतिं व्रजेत् ।। १२९
धनुरेकेन हस्तेन गृहीत्वान्येन सायकम् ।
सूतश्चास्य भवेदेवं प्रतोदप्रग्रहाकुलः ।। १३०
करणानि वचित्राणि कर्तव्यानि विभागतः ।
द्रुतैश्चूर्णपदैश्चैव गन्तव्यं रङ्गमण्डलम् ।। १३१
Notes
1 श्लोकार्धं भसंज्ञके नास्ति 2 श्लोकार्धं भादर्शे न वर्तते ।
विमानस्थस्य कर्तव्या गती रथगतोपमा ।
आरोढुमुद्वहेद्गात्रं किंचित्स्यादुन्मुखस्तथा ।। १३२
अस्यैव वैपरीत्येन कुर्याच्चाप्यवरोहणम् ।
अधोऽवलोकनेनैव मण्डलावर्तनेन च ।। १३३
आकाशगमने चैव कर्तव्यं गतिचैष्टितम् ।
स्थानेन समपादेन तथा चूर्णपदैरथ ।। १३४
व्योम्नस्त्ववतरेद्यस्तु तस्येमां कारेयद्गतिम् ।
ऋज्वायतोन्नतनतैः कुटिलावर्तितैस्तथा ।। १३५
भ्रममाणस्य चाकाशादपरुद्धभुजागतिः ।
विकीर्णवसना चैव तथा भूगतलोचना । १३६
द्रुमप्रासादशैलेषु नदीनिम्नोन्नतेषु च ।
आरोहणावतरणं कार्यमर्थवशाद्बुधैः ।। १३७
प्रासादारोहणं कार्यमतिक्रान्तैः पदैरथ ।
1उद्वाह्य गात्रं पादं च सोपानं निक्षिपेद्बुधः ।। १३८
तथावतरणे चैव गात्रमानम्य रेचयेत् ।
अतिक्रान्तेन पादेन द्वितीयेनाञ्चितिन च ।। १३९
प्रासादारोहणं यत्तु तद्देवादिषु कारयेत् ।
केवलं तूर्ध्वविक्षेपमद्रिष्वङ्गं भवदेथ ।। १४०
द्रुमे चारोहणं कार्यमतिक्रान्तोत्थितैः पदैः ।
सूचीविद्धैरपक्रान्तैः पार्श्वक्रान्तैस्तथैव च ।। १४१
एवं देवावतरणं प्रयोज्यं सरिदादिषु ।
प्रासादेषु तथा प्रोक्तं तथैवोत्तरणं भवेत् ।। १४२
द्रुमप्रासादशैलांश्च संज्ञामात्रेण दर्शयेत् ।
1जलप्रमाणापेक्षा तु जलमध्ये गतिर्भवेत् ।। १४३
तोयेऽल्पे वसनोत्कर्षैः प्राज्ये पाणिविकर्षणैः ।
किंचिन्नताग्रकाया तु प्रतारे गतिरिष्यते ।। १४४
Notes
1 श्लोकत्रयं भसंज्ञके न दृश्यते ।
प्रसार्य बाहुमेकैकं मुहुर्वारिविकर्षणैः ।
तिर्यक्प्रसारिता चैव िहृ/?/ यमाणा स्ववारिणा ।। १४५
अशेषाङ्गाकुलाधूतवदना गतिरिष्यते ।
नौस्थस्यापि प्रयोक्तव्या द्रुतैश्चूर्णपदैर्गतिः ।। १४६
अनेनैव विधानेन कर्तव्यं गतिचेष्ठितम् ।
(संज्ञामात्रेण कर्तव्यान्येतानि विधिपूर्वकम्) ।। १४७
अङ्कुशग्रहणान्नागं प्रग्रहग्रहणाद्रथम् ।
खलीनग्रहणादश्वं नावं चैवावरोहणात् ।। १४८
अश्वयाने गतिः कार्या वैशाखस्थानकेन तु ।
तथा चूर्णपदैश्चैव ह्युपर्युपरिपातितैः ।। १४९
पन्नगानां गतिः कार्या पादैः स्वस्तिकसंस्थितैः ।
पार्श्वाक्रान्तक्रमं कृत्वा स्वस्तिकं योजयेत्तथा ।। १५०
मत्तानां तु गतिः कार्या तरुणे मध्यमे मदे ।
वामदक्षिणपादाभ्यां घूर्णमानापसर्पणात् ।। १५१
2आकाशस्खलितैः प्रायः पादैश्चाप्यनवस्थितैः ।
विघूर्णितशरीरा च करैः प्रचलितैस्तथा ।। १५२
उन्मत्तस्यापि कर्तव्या गतिस्त्वनियमक्रमा ।
बहुचारीसमायुक्ता लोकानुकरणाश्रया ।। १५३
रूक्षस्फुरितकेशस्तु रेणुध्वस्ततनुस्तथा ।
अनिमित्तप्रकथनो बहुभाषी विकारवान् ।। १५४
प्रगीतहसितश्चापि नानाविकृतभूषणः ।
नृत्ते गीते च वाद्ये च भाषणे च सदा रतः ।। १५५
कदाचिद्धावति जवात्कदाचिदवतिष्ठते ।
कदाचिदुपविष्टस्तु शयानश्च कदाचन ।। १५६
नानाचीरधरश्चैव रथ्यास्वनियतालयः ।
उन्मत्ताभिनयस्त्वेवं तस्येमां कारयेद्गतिम् ।। १५७
Notes
1 सार्धं श्लोकचतुष्टयं भसंज्ञके न वर्तते 2 म–अपकृष्टमदे चैव ।
स्थित्वा नूपुरपादेन दण्डपादं प्रसारयेत् ।
कृत्वा चारीं तथोद्बद्धामथ स्वस्तिकमेव च ।। १५८
अनेन चारीयोगेन परिभ्राम्य तु मण्डलम् ।
वक्रं तु भ्रमणं चैव रङ्गकोणेषु योजयेत् ।। १५९
त्रिकं सललितं कृत्वा लताख्यं हस्तमेव च ।
विपर्ययगतैर्हस्तैः पादैर्हंसगतिं व्रजेत् ।। १६०
सिंहर्क्षवानराणां च गतिः कार्या प्रयोक्तृभिः ।
1या कृता नरसिंहेन विष्णुना प्रभविष्णुना ।। १६१
आलीढस्थानकं कृत्वा गात्रं तस्यैव चानुगम् ।
ऊर्ध्वजानु च विक्षिप्य करमेकं च संस्थितम् ।। १६२
विलोलितं शिरः कृत्वा चिबुकं बाहुमस्तके ।
गन्तव्यं विक्रमैश्चैव पञ्चतालान्तरस्थितैः ।। १६३
2नियुद्धे संशये चैव रङ्गावतरणे तथा ।
सिंहादीनां च योक्तव्या गतिरेषा प्रयोक्तृभिः ।। १६४
शेषाणामर्थयोगेन स्थानान्यपि तु कारयेत् ।
गजवाजिरथादींस्तु चिह्नमात्रेण कारयेत् ।। १६५
वाहनार्थप्रयोगेषु रङ्गावतरणेषु च ।
एवमेताः प्रयोक्तव्या नॄणां तु गतयो बुधैः ।। १६६
अत्र नाभिहिता यास्तु विज्ञेयाः शास्त्रलोकतः ।
3अतः परं प्रवक्ष्यामि स्त्रीणां गतिविचेष्टितम् ।। १६७
स्त्रीणां स्थानानि कार्याणि गतिष्वाभाषणेषु च ।
आयतं चावहित्थं तथाश्वक्रान्तमेव च ।। १६८
दक्षिणस्तु समः पादस्त्र्यश्रः पक्षस्थितोऽपरः ।
वामो नतः कटीपार्श्वमायतस्थानके भवेत् ।। १६९
Notes
1 भ–या पुरा च कृतासम्यक् 2 भसंज्ञरे नास्ति 3 श्लोकार्धं भसंज्ञके न वर्तते ।
अथवा-
1वामः स्वाभाविको यत्र पादो विरचितस्ततः ।
तालमात्रान्तरे न्यस्तस्त्र्यश्रः पक्षस्थितोऽपरः ।। १७०
प्रसन्नमाननमुरस्समं यत्र समुन्नतम् ।
लतानितम्बगौ हस्तौ ज्ञेयं स्थानं तदायतम् ।। १७१
रङ्गावतरणारम्भं पुष्पाञ्जलिविसर्जनम् ।
मन्मथेर्ष्योद्भवः कोपस्तर्जनाङ्गुलिमोटनम् ।। १७२
निषेधगर्वगाम्भीर्यमौनमायावलम्बनम् ।
स्थानेऽस्मिन् सन्निधानीयं दिगन्तरनिरूपणम् ।। १७३
आवाहने विसर्गे च तथा निर्वर्णनेषु च ।
चिन्तायामवहित्थे च स्थानमेतत्प्रयोजयेत् ।। १७४
समो यत्र स्थितो वामस्त्र्यश्रः पक्षस्थितोऽपरः ।
वामोन्नतं त्रिकं यस्मिन्नवहित्थं तदुच्यते ।। १७५
स्थानमेतत्तु नारीणां सल्लापे तु स्वभावजे ।
निश्चये परितोषे च वितर्के लज्जिते तथा ।। १७६
एकः समस्थितः पाद एकस्त्वत्र तलाञ्चितः ।
सूचीविद्धमविद्धं वा तदश्वक्रान्तमुच्यते ।। १७७
2स्खलिते घूर्णिते चैव स्खलिताम्बरधारणे ।
चित्रासने सललिते स्थानमेतत्तु रक्षणे ।। १७८
शाखावलम्बने कार्या स्तबकग्रहणे तथा ।
विश्रान्तिषु तथैव स्यात्पादताडन एव च ।। १७९
3स्थानकं तावदेव स्याद्यावच्चेष्टा प्रवर्तते ।
भग्नं च स्थानकं नृत्ते (नृत्त) चारीसमन्विताः ।। १८०
एवं स्थानविधिः कार्यः स्त्रीणां सम्यग्द्विजोत्तमाः ।
पुनरासां प्रवक्ष्यामि गतीस्तु प्रकृतिस्थिताः ।। १८१
Notes
1 श्लोकाश्चत्वारो भसंज्ञकादर्शे न विद्यन्ते 2 भसंज्ञके श्लोको नास्ति 3 अयं श्लोको भसंज्ञके न दृश्यते ।
कृत्वावहित्थं स्थानं तु वामं चाधोमुखं भुजम् ।
नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् ।। १८२
ततः सललितं पादं तालमात्रं समुत्थितम् ।
दक्षिणं वामपादस्य बाह्ये पार्श्वे विनिक्षिपेत् ।। १८३
तेनैव समकालं च लताख्यं वामकं भुजम् ।
दक्षिणं च नयेत्पार्श्वं न्यसेन्नाभितटे ततः ।। १८४
नितम्बे दक्षिणं कृत्वा हस्तं चोद्वेष्टय वामकम् ।
ततो वामपदं दद्याल्लताहस्तं च दक्षिणम् ।। १८५
लीलयोद्वाहितेनाथ शिरसानुगतेन च ।
किंचिन्नतेन चाङ्गेन गच्छेत्पञ्चपदीं ततः ।। १८६
यो विधिः पुरुषाणां तु रङ्गपीठप रिक्रमे ।
स एव प्रमदानां तु कर्तव्यो नाटययोक्तृभिः ।। १८७
षट्कलं न प्रयोक्तव्यं तथाष्टकलमेव च ।
पादस्य पतनं तज्ज्ञैः खेदजं तद्भवेस्त्रियाः ।। १८८
सयौवनानां नारीणां कार्या त्वेवं गतिर्बुधैः
स्थानीया या स्त्रियस्तासां संप्रवक्ष्याम्यहं गतीः ।। १८९
कृत्वाऽवहित्थं स्थानं तु वामं न्यस्य कटीतटे ।
आद्यं चाराळ(?ल)मुत्तानं कुर्यान्नाभिस्तनान्तरे ।। १९०
न निषण्णं न च स्तब्धं न चैव परिवाहितम् ।
कृत्वा गात्रं ततो गच्छेत्तेनैवाद्यक्रमेण तु ।। १९१
प्रेष्याणामपि कर्तव्या गतिर्विभ्रान्तगामिनी ।
किंचिदुन्नमितैर्गात्रैराविद्धपदविक्रमा ।। १९२
स्थानं कृत्वावहित्थं तु वामं चाधोमुखं भुजम् ।
नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् ।। १९३
अर्धनारीगतिः कार्या स्त्रीपुंसाभ्यां विमिश्रिता ।
उदात्तललितैर्गात्रैः पादैर्लीलासमन्वितैः ।। १९४
या मयाभिहिता पूर्वमुत्तमानां गतिर्बुधाः ।
स्त्रीणां कापुरुषाणां च ततोऽर्धार्धं च कारयेत् ।। १९५
उत्तमाधममध्यानां नॄणां यद्गतिचेष्टितम्।
स्त्रीणां तदेव कर्तव्यं ललितैः पदविक्रमैः ।। १९६
बालानामपि कर्तव्या स्वच्छन्दपदविक्रमा ।
न तस्यां सौष्ठवं कार्यं न प्रमाणं तथाविधम् ।। १९७
1तृतीया प्रकृतिः कार्या नाम्ना चैव नपुंसके ।
नरस्वभावमुत्सृज्य स्त्रीगतिं तत्र योजयेत् ।। १९८
विपर्यस्तप्रयोगस्तु पुरुषस्त्रीनपुंसके ।
स्वभावमात्मनस्त्यक्त्वा परभावेन योजयेत् ।। १९९
निजां प्रकृतिमुत्सृज्य क्रीडया वञ्चनेन वा ।
स्त्री पुंसः प्रकृतिं कुर्यात्स्त्रीभावं पुरुषोऽपि वा ।। २००
सौष्ठवेनाथ सत्त्वेन बुद्ध्या तद्वच्च कर्मणा ।
स्त्री पुमांसं ह्यभिनयेद्वेषवाक्यविचेष्टितैः ।। २०१
स्त्रीवेषभाषितैर्युक्तं प्रेक्षिताप्रेक्षितस्मितैः ।
मृदुसन्नगतिश्चैव पुमान् स्त्रीभावमाचरेत् ।। २०२
2जातिहीनास्तु या नार्यः पुळि( ?लि)न्दशबराङ्गनाः ।
याश्चापि तासां कर्तव्या तज्जातिसदृशी गतिः ।। २०३
व्रतस्थानां तपःस्थानां लिङ्गस्थानां तथा पुनः ।
स्वस्थानां चैव नारीणां समपादं प्रयोजयेत् ।। २०४
उद्धता येऽङ्गहाराः स्युर्याश्चार्यो मण्डलानि वा ।
तानि नाट्यप्रयोगज्ञैर्न कर्तव्यानि योषिताम् ।। २०५
अथासनविधिः कार्यः स्त्रीणां नॄणां तथैव च ।
नानाभावसमायुक्तं तथैव शयनाश्रयः ।। २०६
3स्वस्थं मन्दालसं क्लान्तं4 स्रस्तालसमथापि च ।
5विष्कम्भकमुत्कटिकं मुक्तजानु तथासनम् ।। २०७
जानूगतं विमुक्तं च स्थानकान्युपवेशने ।
लक्षणं पुनरेतेषां विनियोगं च वक्ष्यते ।। २०८
Notes
1 एकःश्लोकः भमातृकायां न वर्तते 2 श्लोकत्रयं भसंज्ञके न विद्यते 3 श्लोकद्वयं भमातृकायां नास्ति 4 न -कान्तं 5 न -विष्कंभितमुत्कृटिकम् ।
विष्कम्भेनाञ्चितौ पादौ किंचिद्वक्षः समुन्नतम् ।
हस्तौ कट्यूरुविन्यस्तौ 1स्वस्थे स्यादुपवेशने ।। २०९
स्वभावाभिनये चैव तथा स्वस्थोपवेशने ।
2आविष्कृतेषु सर्वेषु भावेष्वेतत्प्रयोजयेत् ।। २१०
3एकः प्रसारितः किंचित्पादोऽन्यस्त्वासनाश्रितः ।
4शिरः 5पार्श्वगतं चैव स्थानं मन्दालसं तु तत् ।। २११
चिन्तायां च तदौत्सुक्ये निर्वेदे विरहे तथा ।
विवादादिषु चाधेयं स्थानमेतत्प्रयोक्तृभिः ।। २१२
चिबुकापाश्रयौ हस्तौ बाहुशीर्षाश्रयं शिरः ।
6संप्रनष्टेन्द्रियमना विज्ञेयं 7क्लान्तमासनम् ।। २१३
8बलेन विगृहीतस्य रिपुणा खण्डितस्य च ।
शोकग्लानस्य चौत्सुक्ये स्थानमेतद्विनिर्दिशेत् ।। २१४
स्रस्तौ हस्तौ विमुक्तौ च शरीरमलसं तथा ।
खेदालसं तथा चक्षुर्यत्र स्रस्तालसं तु तत् ।। २१५
श्रमग्लानौ मदे चैव मूर्धायां व्याधितेषु च ।
मोहे प्राणभये चैव विषादे चैव तद्भवेत्9 ।। २१६
Notes
1 भ-स्वभावापि प्रवेशने (मध्ये लुप्तः स्यात्) 2 म-अविकृतेषु 3 न-एकः प्रसारितः पादस्त्वन्यश्चैवासनाश्रितः 4 भ-“शिरः पार्श्वगतं चैव चिन्तायुक्तोपवेशने” -इति सार्धश्लोकद्वयस्थाने । 5 न-पार्श्वानतं कार्यं 6 संप्रनष्टेन्द्रियमना भवेच्छोकोपवेशने । प्रसार्य बाहू शिथिलौ तथाचापाश्रयाश्रितः ।। श्रमग्लानिविषादेषु मदे चोपविशेद्बुधः । सर्वैः पिण्डीकृतैरङ्गैः स्रस्ताङ्घ्रिकरजानुकम् ।। व्याधावार्तौ च निद्रायां ध्याने चोपविशेन्नरः । तथा चोत्कटिकं स्थानं पुनः पार्ष्णिसमागमः ।। पित्रोर्निवापजप्ये च सन्ध्यास्वाचमनेषु च । आकुञ्चितः पुनश्चैव जानु भूमौ निपातयेत् ।। प्रियप्रसादने कार्यं होमादिकरणेषु च । इति सार्धश्लोकाष्टकस्थाने भसंज्ञके वर्तते । 7 न-क्रान्तं 8 न-छलेनापि 9 न-विषादेषूपवेशयेत् ।
विष्कम्भादञ्चितौ पादावूरू विष्कम्भितौ भुजौ ।
निमीलितं तथा चक्षुः स्थाने विष्कम्भनामनि1 ।। २१७
स्ववक्षोगतया दृष्ट्या योगध्याने विलीयते ।
स्वभावसंस्थया चैव नटानामुपगम्यते2 ।। २१८
समौ पादौ समाधाय समं यदुपविश्यते ।
अस्पृष्टभूतलं चैव ज्ञेयमुत्कटिकासनम् ।। २१९
पित्र्ये समाधिजप्ये च होमादिकरणेषु च ।
एतत्स्थानं विधातव्यं तथा चमनकर्मणि ।। २२०
एकं जानु यदास्यैव महीपृष्ठे निधीयते ।
मुक्तजानुकमेतद्धि विज्ञेयं ह्यासनं बुधैः ।। २२१
एतत्कृतव्यळी( ?ली)कानां प्रियाणां संप्रसादने ।
मार्जने कृट्टिमानां च तथाभूम्यनुलेपने ।। २२२
3महीगताभ्यां जानुभ्यां स्थानं जानूगतं भवेत् ।
4देवाभिवन्दने कार्यं रुष्टानां च प्रसादने ।। २२३
शोके चाक्रन्दने तीव्रे 5मृतानां चैव दर्शने ।
6संत्रासने कुसत्त्वानां नीचानां चैव याचने ।। २२४
7भूमौ यदूर्ध्वपतनं तद्विमुक्तमिति स्मृतम् ।
प्रहारे तत्प्रयोक्तव्यमावेगे क्रन्दिते तथा ।। २२५
8तथासनविधिः कार्यो विधिवन्नाटकाश्रयः ।
स्त्रीणां च पुरुषाणां च बाह्योऽथाभ्यन्तरस्तथा ।। २२६
देवानां नृपतीनां च योज्यं सिंहासनं तथा ।
पुरोधः श्रेष्ठ्यमात्यानां भवेद्वेत्रासनं तथा ।। २२७
मुण्डासनं तु कर्तव्यं सेनानीयुवराजयोः ।
काष्ठासनं ब्राह्मणानां कुमाराणां कुथासनम् ।। २२८
स्थानीया ये तु पुरुषाः कुलविद्याप्रकाशिताः ।
तेषामासनसत्कारः कर्तव्यो गुरुपार्थिवैः ।। २२९
Notes
समे समासनं चैव मध्ये मध्यं तथासनम् ।
अतिरि त्त्केऽतिरिक्तं च हीने भूम्यासनं तथा ।। २३०
उपाध्यायस्य नृपतेर्गुरूणां चाग्रतो बुधैः ।
भूम्यासनं तथा कार्यं काष्ठासनमथापि वा ।। २३१
नौनागरथभूमीषु तथा काष्ठासनेषु च ।
सहासनं न दुष्येत गुरूपाध्यायपार्थिवैः ।। २३२
एवं राजसभां प्राप्य कार्यस्त्वासनजो विधिः ।
प्रकृतीनां तु सर्वासां तथा ज्ञानसमुत्थितम् ।। २३३
पुरुषाणां भवेदेष विधिरासनसंश्रयः ।
स्त्रीणां चैवासनविधिं संप्रवक्ष्याम्यतः परम् ।। २३४
सिंहासनं महादेव्या राज्ञीनां मुण्डमासनम् ।
पुरोधोऽमात्यपत्नीनां भवेद्वेत्रासनं तथा ।। २३५
भगिनीनां तु कर्तव्यं वस्त्रचर्मकुथापि वा ।
1ब्राह्मणीनां तापसीनां पट्टासनमथापि च ।। २३६
वेश्यानामपि कर्तव्यामासनं हि मसूरकम् ।
शेषाणां प्रमदानां तु भवेद्भूम्यासनं बुधाः ।। २३७
एवमन्तःपुरे ज्ञेयो बाह्यश्चासनतो विधिः ।
तथा स्वगृहवार्तासु छन्देनासनमिष्यते ।। २३८
नियमस्थो मुनीनां तु भवेदासनतो विधिः ।
लिङ्गिनां चासनविधिः कार्यो व्रतसमाश्रयः ।। २३९
2ब्रुसीमुण्डासनप्रायं वेत्रासनमथापि च ।
होमयज्ञक्रियायां च पित्र्यर्थे च प्रयोजयेत् ।। २४०
आकुञ्चितं समं चैव प्रसारितविवर्तिते ।
उद्वाहितं नतं षोढा शय्यास्थानानि निर्दिशेत् ।। २४१
सर्वैराकुञ्चितैरङ्गैः शय्याविद्धे तु जानुनी ।
स्थानमाकुञ्चितं नाम शीतार्तानां प्रयोजयेत् ।। २४२
Notes
1 भ - एकः श्लोको भ संज्ञके नास्ति 2 श्लोकाः षट् भसंज्ञायां मातृकायां न वर्तन्ते ।
उत्तानितमुखं चैव प्रत्यङ्मुक्तकरं तथा ।
समं नाम प्रसुप्तस्य स्थानकं संविधीयते ।। २४३
एकं भुजमुपाधाय संप्रसारितजानुकम् ।
स्थानं प्रसारितं नाम सुखसुप्तस्य कारयेत् ।। २४४
अधोमुखस्थितं चैव विवर्तितमिति स्मृतम् ।
शस्त्रक्षतमृतोत्क्षिप्तमत्तोन्मत्तेषु कारयेत् ।। २४५
हस्तोपरि शिरः कृत्वा कूर्परक्षोभमेव च ।
उद्वाहितं तु विज्ञेयं लीलयाविशने विभोः ।। २४६
ईषत्प्रसारिते जङ्घे यत्र स्रस्तौ करावुभौ ।
आलस्यश्रमखेदेषु नतं स्थानं विधीयते ।। २४७
रङ्गे विकृष्टे भरतेन कार्यो गतागतैः पादगतिप्रचारः ।
त्र्यश्रे त्रिकोणश्र्चतुरश्रके वा समैर्गतैरर्थवशेन नित्यम् ।। २४८
वयोऽनुरूपः प्रथमस्तु वेषो वेषानुरूपेण गतिप्रचारः ।
गतिप्रचारानुगतं च पाठ्यं पाठ्यानुरूपोऽभिनयश्च कार्यः ।। २४९
गतिप्रचारस्तु मयोदितोऽयं नोक्तस्तु यः सोऽर्थवशेन साध्यः ।
अतःपरं रङ्गपरिक्रमस्य वक्ष्यामि कक्ष्यानुगतं विभागम् ।। २५०
इति श्रीभारतीये नाट्यशास्त्रे गतिप्रचारो नाम द्वादशोऽध्यायः ।