श्रीः
नाट्यशास्त्रम्
एकादशोऽध्यायः*
एताश्चार्यो 1मया प्रोक्ता यथावच्छस्त्रमोक्षणे ।
चारीसंयोगजानीह2 मण्डलानि निबोधत ॥ १
अतिक्रान्तं विचित्रं च तथा ललितसंचरम् ।
सूचीविद्धं4 दण्डपादं विहृतालातके तथा ॥ २
वामविद्धं4 सललितं क्रान्तं चाकाशगानि तु5 ।
[6मण्डलानि द्विजश्रेष्ठा भूमिगानि निबोधत ॥] ३
7भ्रमरास्कन्दितो स्यातामावर्तं च 8ततः परम् ।
9समोत्सरितमप्याहुरेडकाक्रीडितं10 तथा ॥ ४
Abh
गतिमण्डलवैचित्र्यमासूत्रयति या सदा ।
तथा1 नेदिष्ठनिर्मात्रीं शक्तिं वन्दे महेशितुः ॥
स्वल्पेऽपि पाठ्ये न त्याज्यः कोऽप्यध्यायो मया यतः ।
विभोर्विश्वात्मनः स्तोत्रं मुख्यमन्यत्प्रसङ्गतः ॥
शस्त्रमोक्षणे मण्डलानीति संबन्धः । इहेत्यस्मिन्नध्याये श्रुते श्रुतित- द्दिशान्यान्यपि निबोधत, एषामियत् सामान्यलक्षणं चारीसंयोगजानीति । आका-
Notes
1 द मN -यथान्यायं मयोक्ताः 2 द -संयोजनानीह 3 म-विहृतालातसंज्ञिते 4 ड-वामबन्धं म-वावबन्धं च 5 न-आकाशगानिह ड-च 6 भमयोरेव 7 न-भ्रमरास्पन्दिते 8 ड-तथा 9 च-समोसरित ड-समाक्रन्दित न-समोत्सारितमित्याहुः 10 ड-एलकाक्रीडितं ढ-एलकाक्रीडिते । 1 नेदिपतिर्मात्रीं ।
- द्वादशोध्यायः -N
अड्डितं शकटास्यं च तथाध्यर्धकमेव च1 ।
2पिष्टकुट्टं च विज्ञेयं तथा चाषगतं2a पुनः ॥ ५
3एतान्यपि दशोक्तानि भूमिगानीह नामतः ।
4अतः परं प्रवक्ष्यामि लक्षणानि यथाक्रमम् ॥ ६
5आद्यं पादं च5a जनितं कृत्वोद्वाहितमाचरेत् ।
6अलातं वामकं चैव 7पार्श्वक्रान्तं च दक्षिणम् ॥ ७
[*सूचीवामं पुनश्चैव पार्श्वक्रान्तं च दक्षिणम् ।
8सूचीं वामक्रमं दद्यादपक्रान्तं च दक्षिणम् ॥] ८
सूचीं वामं पुनश्चैव त्रिकं च परिवर्तयेत् ।
तथा दक्षिणमुद्वृत्तमलातं चैव वामकम् ॥ ९
परिच्छिन्नं तु9 कर्तव्यं बाह्यभ्रमरकेण हि10 ।
अतिक्रान्तं पूनर्वामं 11दण्डपादं च दक्षिणम् ॥ १०
विज्ञेयमेतद्व्यायामे त्वतिक्रान्तं12 तु मण्डलम् ।
Abh
शगतानां युद्धपरिक्रमेषु प्राधान्यात्पूर्वमुद्देशः आकाशभूचारीप्राचुर्यान्मण्डलेषु तथात्वम् । आद्यमिति दक्षिणम् । उद्वाहितमिति लक्षणैकदेशेन शकटास्यां सूचयति । एवमन्यत्र । त्रिकन्त्विति (? त्रिकं चेति) भ्रमरीमाह । बाह्यभ्रमरकं वामपादेन
Notes
1 द, N -अध्यर्धमिति स्मृतम् म-अध्यर्धिकमेव च 2 नमN -पृष्ठकुट्टं 2a-N चापगतं पुनः 3 ड-भूमिका मण्डलाह्येति (न्यते ?) लक्षणं च निबोधत 4 भमयोरेव 5 ड-आद्यपादं तु तं कृत्वा उद्वाहितमथाचरेत् 5a- N : तु 6 द-आत्मानं 7 म-पार्श्वक्रान्तं तु 8 छ-सूचीवामपदं 9 छ-च 10 न -तु 11 न-मन्दपादं 12 न-व्यायामेष्वतिक्रान्तं झ- व्यतिक्रान्तं । *न प्रक्षिप्तोऽयं श्लोकः किं तु मतान्तरानुसार्येव । मण्डलगतानां चारीणामभ्यावृत्तौ न्युनाधिकता न दोषाय ।
आद्यं तु जनितं कृत्वा तेनैव च निकुट्टनम्1 ॥ ११
2आस्पन्दितं तु3 वामेन 4पार्श्वक्रान्तं च दक्षिणम् ।
5वामं सूचीपदं दद्यादपक्रान्तं च दक्षिणम् ॥ १२
6aभुजङ्गत्रासितं 6वाममतिक्रान्तं च दक्षिणम् ।
7उद्वृत्तं दक्षिणं चैव ह्यलातं चैव वामकम् ॥ १३
8पार्श्वक्रान्तं पुनः सव्यं सूची वामक्रमं तथा ।
विक्षेपो दक्षिणस्य9 स्यादप्रकान्तश्च10a वामकः10 ॥ १४
[बाह्यभ्रमरकं चैव विक्षेपं चैव योजयेत् ।]*
विज्ञेयमेतद्व्यायामे विचित्रं नाम मण्डलम् ॥ १५
कृत्वोर्ध्वजानु11चरणमाद्यं सूचीं12 प्रयोजयेत्12a ।
13अपक्रान्तः पुनर्वाम आद्यः पार्श्वगतो भवेत् ॥ १६
14वामं सूचीं पुनर्दद्यात्त्रिकं च परिवर्तयेत् ।
15पार्श्वक्रान्तं 15aपुनश्चाद्यमतिक्रान्तं च वामकम् ॥ १७
16सूचीमाद्यक्रमं 17कृत्वा ह्यपक्रान्तं च वामकम् ।
18पार्श्वक्रान्तं 18aपुनश्चाद्यमतिक्रान्तं च वामकम् ॥ १८
Notes
1 ढ , N -निकुट्टकम् 2 जादिमान्तेषु आस्कन्दितं (आस्पन्दितस्थाने) न-आस्कन्दिकं 3 म-च 4 म N-पार्श्वाक्रान्तं 5 छभम-एव वर्तते 6 ढ-N सव्यं 6a-भुजङ्गात्रासितं सव्यं 7म-उद्वृत्तो दक्षिणश्चैव अलातश्चैव वामकः 8म-पार्श्वाक्रान्तं 9 ड-दक्षिणश्च 10 म-वामतः 10a: N: अपक्रान्तं च वामकम् । 11 च -वाम 12 म-सूचीमाद्यं 12a: N: प्रवर्तयेत् 13 म—अपक्रान्तं पूनर्वाममाद्यं पार्श्वगतं तथा ड-अपक्रान्तं पुनर्वाममाद्यं 14 ड- वामसूचीं ढ- वामः सूचीं 15 म-पार्श्वाक्रान्तः पुनश्चाद्यस्त्वभिक्रान्तश्च वामकः, 15a-N: पार्श्वाक्रान्तं पुनश्चाद्यमतिक्रान्तश्च नायकः 16 न-आदर्शे श्लोकार्धो न वर्तते 17 म-दद्यादतिक्रान्तं 18 म-पार्श्वक्रान्तं 18a-पार्श्वाक्रान्तः पुनश्चार्या वामोऽतिक्रान्त एव च । *श्लोकार्धोऽयं प्रक्षिप्तः, चछदभ- आदर्शेषु न वर्तते । शास्त्रकारैरपि वामचरणस्य भ्रमरीविक्षेपौ नात्र सूचितौ
1परिच्छिन्नं च कर्तव्यं 2बाह्यभ्रमरकेण च3 ।
एष चारी, प्रयोगस्तु कार्यो ललितसञ्चरे ॥ १९
4सूचीं वामपदं दद्यात्ति/?/कं च परिवर्तयेत् ।
5पार्श्वक्रान्तः5a पुनश्चाद्यो6 वामोऽतिक्रान्त एव च॥ २०
सूचीमाद्यं7 7aपुनर्दद्यादपक्रान्तं च वामकम् ।
8पार्श्वक्रान्तं पुनश्चाद्यं9 सूचीविद्धे तु मण्डंले ॥ २१
10आद्यस्तु जनितो भूत्वा स च दण्डक्रमो भवेत् ।
11वाम11aसूचीं पुनर्दद्यात्त्रिकं च12 परिवर्तयेत् ॥ २२
13उद्वृत्तो दक्षिणश्च स्यादलातश्चैव वामकः14 ।
15पार्श्वक्रान्तः 16पुनश्चाद्यो 17भुजङ्गत्रासितस्तथा ॥ २३
अतिक्रान्तः पुनर्वामो दण्डपादस्तु दक्षिणः ।
18वामः सूचीत्रिकावर्तो19 दण्डपादे 20तु मण्डले ॥ २४
Abh
आस्पन्दितमिति स्पन्दितां चारीमाह, तामेवान्ये अस्कन्दितेत्याहुः । दण्डक्रम इति दण्डपादा चारी त्रिकावर्तादि अन्ते पठितत्वात् परिसमाप्तिस्थानगतामेव
Notes
1 म–पार्श्वाक्रान्तं ड–पार्श्वक्रान्तः पुनश्चान्यो वामोऽतिक्रान्त एव च प–सूचीमाद्यक्रमं कृत्वा 2 मद–बाहु 3 म–तु ड– हि 4 ड–सूचीवामपदं विद्यात् विद्यात् प–सूचीमाद्यक्रमं 5 द–पार्श्वाक्रान्तः 5a:N:पार्श्वाक्रान्तः पुनश्चार्या, म–पादाक्रान्तः 6 ड–पुनश्चान्यो झ–पार्श्वक्रान्तं पुनश्चाद्यं 7 छ–सूची वामं 7a अ.भा. (Vol ll P.:94 line 12) ‘सूचीमाद्यं पदं दद्या/?/– 8 म–पार्श्वक्रान्तं 9 ड–पुनश्चान्यं 10 न–आद्यं तु जनितं कृत्वा म–आद्यं तु जनितं कुर्यात्ततो दण्डक्रमं बुधः 11 मद–वामसूची, 11a:–N: वामे Kavi –वामं सूचीं 12 द–तु 13 ड–उद्वर्त्तो 14 झ–अलातं चैव वामकम् 15 म–पार्श्वाक्रान्तः 16 ड–पुनश्चान्यो 17 म–भुजङ्गत्रासितं 18 ड– वामसूची 19 झ –त्रिकावृत्तो 20 ड –दण्डपाते ।
आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम्1 ।
2आस्पन्दितं च वामेन 3ह्युद्वृत्तं दक्षिणेन च4 ॥ २५
5अलातं वामकं पादं6 सूचीं दद्यात्तु7 दक्षिणम् ।
8पार्श्वक्रान्तः8a पुनर्वाम आक्षिप्तो दक्षिणस्तथा ॥ २६
9समावर्त्य त्रिकं चैव दण्डपादं प्रसारयेत् ।
10सूचीं वामपदं दद्यात्त्रिकं 11तु परिवर्तयेत्12 ॥ २७
भुजङ्गत्रासितश्चाद्यो13 वामोऽतिक्रान्त एव च ।
एष 14चारीप्रयोगस्तु 15विहृते मण्डले भवेत् ॥ २८
16सूचीमाद्यक्रमं दद्यादपक्रान्तं च वामकम् ।
17पार्श्वक्रान्तः 18पुनश्चाद्यो ह्यलातश्चैव वामकः ॥ २९
19भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् ।
षट्संख्यं 20सप्तसंख्यं वा ललितैः पादविक्रमैः21 ॥ ३०
Abh
भ्रमरीमाश्रित्य यन्मण्डलं दण्डपादाख्यं तत्रेति संबन्धः । निकुट्टकमित्यनेन तलसञ्चरपादो लक्ष्यते । उद्वृतमूरूद्वृत्तादिकं चारीम् । समावर्तनं सम्यगावर्तनं सव्यापसव्यभ्रमरकद्वयेन । एताभिश्चारीभिः पर्यायेण षट्कृत्वः सप्तकृत्वो वा प्रयुक्ताभिः परिमण्डले चतुर्दिक्कं भ्रान्त्वान्तरालिकैः पादक्षेपैरिदमिदं
Notes
1 ड– निकुट्टनम् 2 Kavi–आस्कन्दितं म–वामेनास्कन्दितं कुर्यादुद्वृत्तं 3 ज–उद्वृत्तं 4 द–तु 5 –अलाते 6 म–वामपादं च 7 न–सूची पादं तु म–दद्याच्च 8 म–पार्श्वाक्रान्तः ड–पार्श्वक्रान्तः पुनर्वामं 8a:N: –पार्श्वाक्रान्तं 9 म–परिवर्तत्रिकं पश्चाद्दण्डपादं न–झ –परिवृत्तत्रिकञ्चैव मन्दपादं डजपतढ N –परिवृत्य 10 ड–सूची 11 न–च 12 न –परिवर्जयेत् 13 ज–अन्यो 14 म–चारीप्रचारस्तु 15 च–विवृत्ते छ–विहिते 16 ढ–सूचीमाद्यं क्रमं कृत्वा अपक्रान्तं प–सूचीमाद्यक्रमं कृत्वा ह्यति क्रान्तं 17 न–श्लोकार्धो न वर्तते द–पार्श्वक्रान्तं 8 ड–ततश्चान्योप्यलातः म–ततश्चाद्यस्त्वलातः 19 म–एताभिश्चारिभिर्भ्रान्त्वा 20 न–पञ्चसंख्य 21 द–विभ्रमैः
[1आद्यं कुर्यादपक्रान्तमभिक्रान्तं च वामकम्]
2अपक्रान्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च ॥ ३१
3पादभ्रमरकश्च स्यादलाते 4खलु मण्डले ।
सूचीमाद्यक्रमं कृत्वा 5ह्यपक्रान्तं च वामकम् ॥ ३२
आद्यो दण्डक्रमश्चेव सूचीकार्यस्तु6 वामकः ।
कार्यस्त्रिकविवर्तश्च पार्श्वक्रान्तश्च6a दक्षिणाः ॥ ३३
आक्षिप्तं वामकं कुर्याद्दण्डपादं तु7 दक्षिणम् ।
ऊरूद्वृत्तं 8च तेनैव कर्तव्यं दक्षिणेन तु9 ॥ ३४
सूचीवामक्रमं10aकृत्वा10 त्रिकं च परिवर्तयेत् ।
अलातश्च भवेद्वामः पार्श्वक्रान्तश्च11 दक्षिणः ॥ ३५
अतिक्रान्तः पुनर्वामो 12वामबन्धे(/?/विद्धे) तु मण्डले ।
सूचीमाद्यक्रमं 13दद्यादपक्रान्तं च वामकम् ॥ ३६
पार्श्वक्रान्तः14 पुनश्चाद्यो15 भुजङ्गत्रासितः स च16 ।
*अतिक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा ॥ ३७
17अतिक्रान्तः पुनर्वाम ऊरूद्वृत्तस्तथैव च18 ।
Notes
1 भययोरेव 2 द–अतिक्रान्तः 3 न–वामो भ्रमरकश्च द–पादो 4 म–चारी 5 न–ह्यतिक्रान्चश्च वामकः 6 ड–पादस्तु 6a– N पार्श्वाक्रान्तश्च,
अलातश्च 1पुनर्वामः पार्श्वक्रान्तश्च1a दक्षिणः ॥ ३८
2सूचीवामं पुनर्दद्यादपक्रान्तश्च दक्षिणः ।
3अतिक्रान्तः पुनर्वामः कार्यो ललितसंचरः4 ॥ ३९
एष पादप्रचारस्तु5 ललिते मण्डले भवेत् ।
सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् ॥ ४०
6aपार्श्वक्रान्तं पुनश्चाद्यं6 7वामं पार्श्वक्रमं तथा ।
8भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम्9 ॥ ४१
10वामं सूचीं ततो 11दद्यादपक्रान्तं च दक्षिणम् ।
स्वभावगमने ह्येतन्मण्डलं संविधीयते ।। ४२
क्रान्तमेतत्तु12 विज्ञेयं नामतो13 नाट्ययोक्तृभिः ।
14aएतान्याकाशगानीह14 ज्ञेयान्येवं दशैव तु15 ।। ४३
अतः परं प्रवक्ष्यामि भौमानामपि 16लक्षणम् ।
आद्यस्तु जनितः कार्यो वामश्चास्पन्दितो 17भवेत् ।। ४४
शकटास्यः पुनश्चाद्यो18 19aवामश्चापि19 प्रसारितः ।
Abh
कुर्यादिति सङ्गतिः । संख्याशब्देनाभ्यावृत्तिर्लक्ष्यते । अतिक्रान्तस्यैव विशेषणं ललितं सञ्चरतीत्यत एव मण्डलस्येदमेव नाम । स चेति । स एवेत्यर्थः ।
Notes
1 झ–भवेद्वामः 1a: N: पार्श्वाक्रान्तश्च 2 कांदि चान्तेषु न दृश्यते । ग्रन्थपातः स्यात् 3 झ–अपक्रान्तः 4 ड–संज्ञकः 5 ड–प्रसारस्तु 6 ड–अन्यं 6a:N: पार्श्वाक्रान्तं; 7 ड–वामपार्श्वक्रमं द–वामपार्श्वाक्रमस्तथा 8 न–एताभिश्चारिभिर्भ्रान्त्वा म–एताभिः पादचारीभिः 9 म–पर्यायान्मण्डलं तथा 10 –ड–वामसूचीं 11 न –विद्यात् 12 च–क्रान्तमेव च 13 म–मण्डलं 14 च–आकाशगामीनि 14a:N: एतान्याकाशचारीभिः 15 म–दश ज्ञेयानि योक्तभिः 16 ड–इह 17 ड–आस्कन्दितो 18 ड–अन्यो 19 ड–वामश्चैव 19a:N:–वामश्वैवापसर्पितः *पार्श्वक्रम इति पार्श्वक्रान्तचरणः
आद्यो भ्रमरकः कार्यस्त्रिकं च1 परिवर्तयेत् ।। ४५
आस्पन्दितः2 पुनर्वामः2a शकटास्यश्च दक्षिणः ।
वामः 3पृष्ठापसर्पी च दद्याद्भ्रमरकं तथा4 ।। ४६
स एवास्पन्दितः5 कार्यस्त्वेद्भ्रमरमण्डलम् ।
आद्यो भ्रमरकः कार्यो वामश्चैवाड्डितो भवेत् ।। ४७
कार्यस्त्रिकविवर्तश्च शकटास्यश्च दक्षिणः ।
ऊरूद्वृत्तः स एव स्याद्वामश्चैवापसर्पितः ।। ४८
कार्यस्त्रिकविवर्तश्च दक्षिणः स्पन्दितो6 भवेत् ।
शकटास्यो भवेद्वामस्तदेवास्फोटनं 7भवेत् ।। ४९
एतदास्पन्दितं8 नाम व्यायामे युद्धमण्डलम् ।
9आद्यन्तु जनितं कृत्वा वामेन तु निकुट्टकम्10 ।। ५०
शकटास्यः पुनश्चाद्य11 ऊरूद्वृत्त स एव तु12 ।
13पृष्ठापसर्पी वामश्च स च चाषगतिर्भवेत्14 ।। ५१
15आस्पन्दितः पुनः सव्यः शकटास्यश्च वामकः16 ।
आद्यो भ्रमरकश्चैव17 त्रिकं तु18 परिवर्तयेत् ।। ५२
Notes
1पृष्ठापसर्पी 2वामश्चेत्यावर्ते मण्डले भवेत् ।
3कृत्वादौ 3aसमपादं तु स्थानं हस्तौ प्रसारयेत्4 ।। ५३
5निरन्तरादूर्ध्वतलावावेष्ट्योद्वेष्ट्य चैव हि6 ।
कटितटे6a विनिक्षिप्य 7चाद्यमावर्तयेत्क्रमात्8 ।। ५४
9यथाक्रमं पुनर्वाममावर्तेन प्रसारयेत् ।
10aचार्यानया च10 भ्रान्त्वा तु पर्यायेणाथ मण्डलम्11 ।। ५५
12समोसरितमेतच्च 13ज्ञेयं व्यायाममण्डलम् ।
पादैस्तु [भू]मिसंयुक्तैः 14सूचीविद्धैस्तथैव च ।। ५६
एलकाक्रीडितैश्चैव 15चूर्णैस्त्रिकविवर्तनैः16 ।
सूचीविद्धापविद्धैश्च क्रमेणावृत्य मण्डलम्17 ।। ५७
एलकाक्रीडितं 18विद्यात्खण्डमण्डलसंज्ञितम्19 ।
सव्यमुद्धट्टितं कृत्वा तेनैवावर्तमाचरेत्20 ।। ५८
तेनैवास्कन्दितः कार्यः 21शकटास्यश्च वामकः ।
आद्यः पृष्ठापसर्पी च 22स च चाषगतिर्भवेत् ।। ५९
अड्डितश्च पुनर्वाम आद्यश्चैवापसर्पितः ।
वामो भ्रमरकः कार्य आद्य आस्कन्दितो भवेत् ।। ६०
Notes
1 झ–पृष्ठापसर्पि 2 द–वामश्च आवर्ते म–वामश्च आवर्ताख्ये तु मण्डले 3 ड– समपादं बुधः कृत्वा झ–समपादं पुनः कृत्वा 3a– N समपादं वपुः कृत्वा, 4 द N–प्रयोजयेत् 5 झ–निरन्तरादूर्ध्वतलैः द–निरन्तरादूर्ध्वतलात् ढ–निरन्तरानूर्ध्वतलैः 6 म–तौ पुनः 6a–N कटीतटाद् 7 ड–आद्यं 8 न N–क्रमम् 9 ड N –तथाक्रमं 10 न– तु द–अथ 10a– N पर्यायेण हि 11 म–पर्यायान्मण्डलं भ्रमेत् 12 ड–समोत्सरितमेतत्तु न– समोत्सारितं 13 ड–कार्यं 11 द–सूच्याविद्धैः 15 ड–पूर्णैः प–तूर्णैः 16 ड–विवर्जितैः न–विवर्तकैः 17 म–पर्यायान्मण्डलं पुनः 18 म–नाम ड–दद्यात् 19 म–मण्डलमुच्यते 20 म –आदिशेत् 21 म–आस्कन्दितं कुर्यात् 22 प– सम
तेनैवास्फोटनं कुर्यादेतदड्डितमण्डलम् ।
आद्यं तु जनितं कृत्वा 1तेनैव च निकुट्टकम्2 ।। ६१
स एव शकटास्यश्च वामश्चास्कन्दितो3 भवेत् ।
4पादैश्च शकटास्यस्थैः पर्यायेणाथ मण्डलम् ।। ६२
5विज्ञेयं शकटास्यं तु व्यायामे युद्धमण्डलम् ।
आद्यस्तु जनितो भूत्वा स एवास्कन्दितो6 भवेत् ।। ६३
7अपसर्पी पुनर्वामः शकटास्यश्च दक्षिणः ।
भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम्8 ।। ६४
अध्यर्धमेतद्विज्ञेयं 9नियुद्धे 10चापि मण्डलम् ।
11सूचीमाद्यक्रमं कृत्वा 12ह्यपक्रान्तं च वामकम् ।। ६५
13भुजङ्गत्रासितश्चाद्य एवमेव च वामकः14 ।
15भुजङ्गत्रासितैर्भ्रान्त्वा पादैरपि च मण्डलम् ।। ६६
16पिष्टकुट्टं च विज्ञेयं चारीभिर्मण्डलं बुधैः17 ।
सर्वैश्चाषगतैः पादैः परिक्रम्य च मण्डलम्18 ।। ६७
एतच्चाषगतं विद्यान्नियुद्धे 19चापि मण्डलम् ।
Abh
आस्फोटनमिति पादतलेन भूमिताडनं युद्धेष्वास्फालनमिति प्रसिद्धम् । च शब्दोऽप्यर्थे । अतः परमपि मण्डलानि योजयेत् । कथमित्याहुः । समाः
Notes
1 न–तथैव 2 ज–निकुट्टनम् 3 प–आस्पन्दितो 4 म–शकटास्यस्थितैः पादैः भ्रमेत्पर्यायशः पुनः 5 म–शकटास्यं च विज्ञेयं 6 प–आस्पन्दितो 7 ड–अवसर्पी 8 म–पर्यायान्मण्डलं भ्रमेत् 9 द–व्यायामे चारिमण्डलम् 10 ड–चारिमण्डलम् 11 द N –धीरमाद्यक्रमं 12 ढजझ –व्यपक्रान्तं 13 द–आदर्शे श्लोकार्धो न वर्तते 14 ड–एष एव तु वामकः 15 म–भुजङ्गत्रासितैः पादैर्भ्रमेदपि च मण्डलम् 16 प–पृष्ठकुट्टं च 17 ड–नियुद्धे चारिमण्डलम् 18 म–मण्डलं तु परिभ्रमेत् 19 ड–चारिमण्डलम्.
नानाचारीसमुत्थानि मण्डलानि समासतः ।। ६८
उक्तान्यतः परं चैव 1समचारीं नियोजयेत् ।
समचारीप्रयोगो 2यस्तत्समं नाम मण्डलम् ।। ६९
आचार्यबुद्ध्या 3तानीह कर्तव्यानि प्रयोक्तृभिः4 ।
एतानि खण्डानि समण्डलानि
युद्धे नियुद्धे च5 परिक्रमे च6 ।
लीलाङ्गमाधुर्यपुरस्कृतानि
कार्याणि 7वाद्यानुगतानि तज्ज्ञैः ।। ७०
इति श्रीभारतीये नाट्यशास्त्रे मण्डलविकल्पनं8
नामैकादशोऽध्यायः9 ।
Abh
परस्परे योजनोचिताश्चार्यो यत्र तत्रोहनेऽप्युदाहरणं दर्शयति समचारीप्रयोग इति । समानां भौमत्वेनाकाशीयत्वेन च चारीणां प्रयोगो यत्र ।
एवमनया दिशा बहूनि कल्पयेदित्याह आचार्यबुद्ध्योपलभ्यो भागः प्रयोगयोग्यो भवतीति । खण्डानां प्राधान्यमपि दर्शयति खण्डानीति । वाद्येनानुगतानीति “गत्या वाद्यानुसारिण्या” (अ-४-२८२) इति नृत्तविषयतुर्याध्यायाद्धि वैपरीत्येन नाट्ये गतै प्राधान्यमाहेति शिवम् ।।
इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यां मण्डलाध्याय एकादशः समाप्तः ।।
Notes
1 म–समां चारीं 2 म–प्रचारो 3 ड–क4र्तव्यानीह तानि 4 ढ–प्रयोगतः 5 म–तु 6 च–परिचंक्रमे च 7 झ–बाह्यानुगतानि 8 ड–मण्डलविधानं म–मण्डलविधानो 9 जादिबान्तेषु द्वादशोऽध्यायः; N. द्वादशोऽध्यायः; द–श्लोकाः ६८ –आहत्य १९३९ ।