११ मण्डल-विकल्पनम्

श्रीः

नाट्यशास्त्रम्

एकादशोऽध्यायः*

एताश्चार्यो 1मया प्रोक्ता यथावच्छस्त्रमोक्षणे ।
चारीसंयोगजानीह2 मण्डलानि निबोधत ॥ १

अतिक्रान्तं विचित्रं च तथा ललितसंचरम् ।
सूचीविद्धं4 दण्डपादं विहृतालातके तथा ॥ २

वामविद्धं4 सललितं क्रान्तं चाकाशगानि तु5 ।
[6मण्डलानि द्विजश्रेष्ठा भूमिगानि निबोधत ॥] ३

7भ्रमरास्कन्दितो स्यातामावर्तं च 8ततः परम् ।
9समोत्सरितमप्याहुरेडकाक्रीडितं10 तथा ॥ ४

Abh

गतिमण्डलवैचित्र्यमासूत्रयति या सदा ।
तथा1 नेदिष्ठनिर्मात्रीं शक्तिं वन्दे महेशितुः ॥

स्वल्पेऽपि पाठ्ये न त्याज्यः कोऽप्यध्यायो मया यतः ।
विभोर्विश्वात्मनः स्तोत्रं मुख्यमन्यत्प्रसङ्गतः ॥

शस्त्रमोक्षणे मण्डलानीति संबन्धः । इहेत्यस्मिन्नध्याये श्रुते श्रुतित- द्दिशान्यान्यपि निबोधत, एषामियत् सामान्यलक्षणं चारीसंयोगजानीति । आका-

Notes

1 द मN -यथान्यायं मयोक्ताः 2 -संयोजनानीह 3 -विहृतालातसंज्ञिते 4 -वामबन्धं -वावबन्धं च 5 -आकाशगानिह -च 6 भमयोरेव 7 -भ्रमरास्पन्दिते 8 -तथा 9 -समोसरित -समाक्रन्दित -समोत्सारितमित्याहुः 10 -एलकाक्रीडितं -एलकाक्रीडिते । 1 नेदिपतिर्मात्रीं ।

  • द्वादशोध्यायः -N

अड्डितं शकटास्यं च तथाध्यर्धकमेव च1 ।
2पिष्टकुट्टं च विज्ञेयं तथा चाषगतं2a पुनः ॥ ५

3एतान्यपि दशोक्तानि भूमिगानीह नामतः ।
4अतः परं प्रवक्ष्यामि लक्षणानि यथाक्रमम् ॥ ६

5आद्यं पादं च5a जनितं कृत्वोद्वाहितमाचरेत् ।
6अलातं वामकं चैव 7पार्श्वक्रान्तं च दक्षिणम् ॥ ७

[*सूचीवामं पुनश्चैव पार्श्वक्रान्तं च दक्षिणम् ।
8सूचीं वामक्रमं दद्यादपक्रान्तं च दक्षिणम् ॥] ८

सूचीं वामं पुनश्चैव त्रिकं च परिवर्तयेत् ।
तथा दक्षिणमुद्वृत्तमलातं चैव वामकम् ॥ ९

परिच्छिन्नं तु9 कर्तव्यं बाह्यभ्रमरकेण हि10 ।
अतिक्रान्तं पूनर्वामं 11दण्डपादं च दक्षिणम् ॥ १०

विज्ञेयमेतद्व्यायामे त्वतिक्रान्तं12 तु मण्डलम् ।

Abh

शगतानां युद्धपरिक्रमेषु प्राधान्यात्पूर्वमुद्देशः आकाशभूचारीप्राचुर्यान्मण्डलेषु तथात्वम् । आद्यमिति दक्षिणम् । उद्वाहितमिति लक्षणैकदेशेन शकटास्यां सूचयति । एवमन्यत्र । त्रिकन्त्विति (? त्रिकं चेति) भ्रमरीमाह । बाह्यभ्रमरकं वामपादेन

Notes

1 , N -अध्यर्धमिति स्मृतम् -अध्यर्धिकमेव च 2 नमN -पृष्ठकुट्टं 2a-N चापगतं पुनः 3 -भूमिका मण्डलाह्येति (न्यते ?) लक्षणं च निबोधत 4 भमयोरेव 5 -आद्यपादं तु तं कृत्वा उद्वाहितमथाचरेत् 5a- N : तु 6 -आत्मानं 7 -पार्श्वक्रान्तं तु 8 -सूचीवामपदं 9 -च 10 -तु 11 -मन्दपादं 12 -व्यायामेष्वतिक्रान्तं - व्यतिक्रान्तं । *न प्रक्षिप्तोऽयं श्लोकः किं तु मतान्तरानुसार्येव । मण्डलगतानां चारीणामभ्यावृत्तौ न्युनाधिकता न दोषाय ।

आद्यं तु जनितं कृत्वा तेनैव च निकुट्टनम्1 ॥ ११

2आस्पन्दितं तु3 वामेन 4पार्श्वक्रान्तं च दक्षिणम् ।
5वामं सूचीपदं दद्यादपक्रान्तं च दक्षिणम् ॥ १२

6aभुजङ्गत्रासितं 6वाममतिक्रान्तं च दक्षिणम् ।
7उद्वृत्तं दक्षिणं चैव ह्यलातं चैव वामकम् ॥ १३

8पार्श्वक्रान्तं पुनः सव्यं सूची वामक्रमं तथा ।
विक्षेपो दक्षिणस्य9 स्यादप्रकान्तश्च10a वामकः10 ॥ १४

[बाह्यभ्रमरकं चैव विक्षेपं चैव योजयेत् ।]*
विज्ञेयमेतद्व्यायामे विचित्रं नाम मण्डलम् ॥ १५

कृत्वोर्ध्वजानु11चरणमाद्यं सूचीं12 प्रयोजयेत्12a ।
13अपक्रान्तः पुनर्वाम आद्यः पार्श्वगतो भवेत् ॥ १६

14वामं सूचीं पुनर्दद्यात्त्रिकं च परिवर्तयेत् ।
15पार्श्वक्रान्तं 15aपुनश्चाद्यमतिक्रान्तं च वामकम् ॥ १७

16सूचीमाद्यक्रमं 17कृत्वा ह्यपक्रान्तं च वामकम् ।
18पार्श्वक्रान्तं 18aपुनश्चाद्यमतिक्रान्तं च वामकम् ॥ १८

Notes

1 , N -निकुट्टकम् 2 जादिमान्तेषु आस्कन्दितं (आस्पन्दितस्थाने) -आस्कन्दिकं 3 -च 4 N-पार्श्वाक्रान्तं 5 छभम-एव वर्तते 6 ढ-N सव्यं 6a-भुजङ्गात्रासितं सव्यं 7-उद्वृत्तो दक्षिणश्चैव अलातश्चैव वामकः 8-पार्श्वाक्रान्तं 9 -दक्षिणश्च 10 -वामतः 10a: N: अपक्रान्तं च वामकम् । 11 -वाम 12 -सूचीमाद्यं 12a: N: प्रवर्तयेत् 13 —अपक्रान्तं पूनर्वाममाद्यं पार्श्वगतं तथा -अपक्रान्तं पुनर्वाममाद्यं 14 - वामसूचीं - वामः सूचीं 15 म-पार्श्वाक्रान्तः पुनश्चाद्यस्त्वभिक्रान्तश्च वामकः, 15a-N: पार्श्वाक्रान्तं पुनश्चाद्यमतिक्रान्तश्च नायकः 16 -आदर्शे श्लोकार्धो न वर्तते 17 -दद्यादतिक्रान्तं 18 -पार्श्वक्रान्तं 18a-पार्श्वाक्रान्तः पुनश्चार्या वामोऽतिक्रान्त एव च । *श्लोकार्धोऽयं प्रक्षिप्तः, चछदभ- आदर्शेषु न वर्तते । शास्त्रकारैरपि वामचरणस्य भ्रमरीविक्षेपौ नात्र सूचितौ

1परिच्छिन्नं च कर्तव्यं 2बाह्यभ्रमरकेण च3 ।
एष चारी, प्रयोगस्तु कार्यो ललितसञ्चरे ॥ १९

4सूचीं वामपदं दद्यात्ति/?/कं च परिवर्तयेत् ।
5पार्श्वक्रान्तः5a पुनश्चाद्यो6 वामोऽतिक्रान्त एव च॥ २०

सूचीमाद्यं7 7aपुनर्दद्यादपक्रान्तं च वामकम् ।
8पार्श्वक्रान्तं पुनश्चाद्यं9 सूचीविद्धे तु मण्डंले ॥ २१

10आद्यस्तु जनितो भूत्वा स च दण्डक्रमो भवेत् ।
11वाम11aसूचीं पुनर्दद्यात्त्रिकं च12 परिवर्तयेत् ॥ २२

13उद्वृत्तो दक्षिणश्च स्यादलातश्चैव वामकः14 ।
15पार्श्वक्रान्तः 16पुनश्चाद्यो 17भुजङ्गत्रासितस्तथा ॥ २३

अतिक्रान्तः पुनर्वामो दण्डपादस्तु दक्षिणः ।
18वामः सूचीत्रिकावर्तो19 दण्डपादे 20तु मण्डले ॥ २४

Abh

आस्पन्दितमिति स्पन्दितां चारीमाह, तामेवान्ये अस्कन्दितेत्याहुः । दण्डक्रम इति दण्डपादा चारी त्रिकावर्तादि अन्ते पठितत्वात् परिसमाप्तिस्थानगतामेव

Notes

1 –पार्श्वाक्रान्तं –पार्श्वक्रान्तः पुनश्चान्यो वामोऽतिक्रान्त एव च –सूचीमाद्यक्रमं कृत्वा 2 मद–बाहु 3 –तु – हि 4 –सूचीवामपदं विद्यात् विद्यात् –सूचीमाद्यक्रमं 5 –पार्श्वाक्रान्तः 5a:N:पार्श्वाक्रान्तः पुनश्चार्या, –पादाक्रान्तः 6 –पुनश्चान्यो –पार्श्वक्रान्तं पुनश्चाद्यं 7 –सूची वामं 7a अ.भा. (Vol ll P.:94 line 12) ‘सूचीमाद्यं पदं दद्या/?/– 8 –पार्श्वक्रान्तं 9 –पुनश्चान्यं 10 –आद्यं तु जनितं कृत्वा –आद्यं तु जनितं कुर्यात्ततो दण्डक्रमं बुधः 11 मद–वामसूची, 11a:–N: वामे Kavi –वामं सूचीं 12 तु 13 –उद्वर्त्तो 14 –अलातं चैव वामकम् 15 –पार्श्वाक्रान्तः 16 –पुनश्चान्यो 17 –भुजङ्गत्रासितं 18 – वामसूची 19 –त्रिकावृत्तो 20 –दण्डपाते ।

आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम्1 ।
2आस्पन्दितं च वामेन 3ह्युद्वृत्तं दक्षिणेन च4 ॥ २५

5अलातं वामकं पादं6 सूचीं दद्यात्तु7 दक्षिणम् ।
8पार्श्वक्रान्तः8a पुनर्वाम आक्षिप्तो दक्षिणस्तथा ॥ २६

9समावर्त्य त्रिकं चैव दण्डपादं प्रसारयेत् ।
10सूचीं वामपदं दद्यात्त्रिकं 11तु परिवर्तयेत्12 ॥ २७

भुजङ्गत्रासितश्चाद्यो13 वामोऽतिक्रान्त एव च ।
एष 14चारीप्रयोगस्तु 15विहृते मण्डले भवेत् ॥ २८

16सूचीमाद्यक्रमं दद्यादपक्रान्तं च वामकम् ।
17पार्श्वक्रान्तः 18पुनश्चाद्यो ह्यलातश्चैव वामकः ॥ २९

19भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् ।
षट्संख्यं 20सप्तसंख्यं वा ललितैः पादविक्रमैः21 ॥ ३०

Abh

भ्रमरीमाश्रित्य यन्मण्डलं दण्डपादाख्यं तत्रेति संबन्धः । निकुट्टकमित्यनेन तलसञ्चरपादो लक्ष्यते । उद्वृतमूरूद्वृत्तादिकं चारीम् । समावर्तनं सम्यगावर्तनं सव्यापसव्यभ्रमरकद्वयेन । एताभिश्चारीभिः पर्यायेण षट्कृत्वः सप्तकृत्वो वा प्रयुक्ताभिः परिमण्डले चतुर्दिक्कं भ्रान्त्वान्तरालिकैः पादक्षेपैरिदमिदं

Notes

1 – निकुट्टनम् 2 Kavi–आस्कन्दितं –वामेनास्कन्दितं कुर्यादुद्वृत्तं 3 –उद्वृत्तं 4 –तु 5 –अलाते 6 –वामपादं च 7 –सूची पादं तु –दद्याच्च 8 –पार्श्वाक्रान्तः –पार्श्वक्रान्तः पुनर्वामं 8a:N: –पार्श्वाक्रान्तं 9 –परिवर्तत्रिकं पश्चाद्दण्डपादं –परिवृत्तत्रिकञ्चैव मन्दपादं डजपतढ N –परिवृत्य 10 –सूची 11 –च 12 –परिवर्जयेत् 13 –अन्यो 14 –चारीप्रचारस्तु 15 –विवृत्ते –विहिते 16 –सूचीमाद्यं क्रमं कृत्वा अपक्रान्तं –सूचीमाद्यक्रमं कृत्वा ह्यति क्रान्तं 17 –श्लोकार्धो न वर्तते –पार्श्वक्रान्तं 8 –ततश्चान्योप्यलातः –ततश्चाद्यस्त्वलातः 19 –एताभिश्चारिभिर्भ्रान्त्वा 20 –पञ्चसंख्य 21 –विभ्रमैः

[1आद्यं कुर्यादपक्रान्तमभिक्रान्तं च वामकम्]
2अपक्रान्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च ॥ ३१

3पादभ्रमरकश्च स्यादलाते 4खलु मण्डले ।
सूचीमाद्यक्रमं कृत्वा 5ह्यपक्रान्तं च वामकम् ॥ ३२

आद्यो दण्डक्रमश्चेव सूचीकार्यस्तु6 वामकः ।
कार्यस्त्रिकविवर्तश्च पार्श्वक्रान्तश्च6a दक्षिणाः ॥ ३३

आक्षिप्तं वामकं कुर्याद्दण्डपादं तु7 दक्षिणम् ।
ऊरूद्वृत्तं 8च तेनैव कर्तव्यं दक्षिणेन तु9 ॥ ३४

सूचीवामक्रमं10aकृत्वा10 त्रिकं च परिवर्तयेत् ।
अलातश्च भवेद्वामः पार्श्वक्रान्तश्च11 दक्षिणः ॥ ३५

अतिक्रान्तः पुनर्वामो 12वामबन्धे(/?/विद्धे) तु मण्डले ।
सूचीमाद्यक्रमं 13दद्यादपक्रान्तं च वामकम् ॥ ३६

पार्श्वक्रान्तः14 पुनश्चाद्यो15 भुजङ्गत्रासितः स च16 ।
*अतिक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा ॥ ३७

17अतिक्रान्तः पुनर्वाम ऊरूद्वृत्तस्तथैव च18 ।

Notes

1 भययोरेव 2 द–अतिक्रान्तः 3 –वामो भ्रमरकश्च –पादो 4 –चारी 5 –ह्यतिक्रान्चश्च वामकः 6 –पादस्तु 6a– N पार्श्वाक्रान्तश्च,

अलातश्च 1पुनर्वामः पार्श्वक्रान्तश्च1a दक्षिणः ॥ ३८

2सूचीवामं पुनर्दद्यादपक्रान्तश्च दक्षिणः ।
3अतिक्रान्तः पुनर्वामः कार्यो ललितसंचरः4 ॥ ३९

एष पादप्रचारस्तु5 ललिते मण्डले भवेत् ।
सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् ॥ ४०

6aपार्श्वक्रान्तं पुनश्चाद्यं6 7वामं पार्श्वक्रमं तथा ।
8भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम्9 ॥ ४१

10वामं सूचीं ततो 11दद्यादपक्रान्तं च दक्षिणम् ।
स्वभावगमने ह्येतन्मण्डलं संविधीयते ।। ४२

क्रान्तमेतत्तु12 विज्ञेयं नामतो13 नाट्ययोक्तृभिः ।
14aएतान्याकाशगानीह14 ज्ञेयान्येवं दशैव तु15 ।। ४३

अतः परं प्रवक्ष्यामि भौमानामपि 16लक्षणम् ।
आद्यस्तु जनितः कार्यो वामश्चास्पन्दितो 17भवेत् ।। ४४

शकटास्यः पुनश्चाद्यो18 19aवामश्चापि19 प्रसारितः ।

Abh

कुर्यादिति सङ्गतिः । संख्याशब्देनाभ्यावृत्तिर्लक्ष्यते । अतिक्रान्तस्यैव विशेषणं ललितं सञ्चरतीत्यत एव मण्डलस्येदमेव नाम । स चेति । स एवेत्यर्थः ।

Notes

1 –भवेद्वामः 1a: N: पार्श्वाक्रान्तश्च 2 कांदि चान्तेषु न दृश्यते । ग्रन्थपातः स्यात् 3 –अपक्रान्तः 4 –संज्ञकः 5 –प्रसारस्तु 6 –अन्यं 6a:N: पार्श्वाक्रान्तं; 7 –वामपार्श्वक्रमं –वामपार्श्वाक्रमस्तथा 8 –एताभिश्चारिभिर्भ्रान्त्वा –एताभिः पादचारीभिः 9 –पर्यायान्मण्डलं तथा 10 ––वामसूचीं 11 –विद्यात् 12 –क्रान्तमेव च 13 –मण्डलं 14 –आकाशगामीनि 14a:N: एतान्याकाशचारीभिः 15 –दश ज्ञेयानि योक्तभिः 16 –इह 17 –आस्कन्दितो 18 –अन्यो 19 –वामश्चैव 19a:N:–वामश्वैवापसर्पितः *पार्श्वक्रम इति पार्श्वक्रान्तचरणः

आद्यो भ्रमरकः कार्यस्त्रिकं च1 परिवर्तयेत् ।। ४५

आस्पन्दितः2 पुनर्वामः2a शकटास्यश्च दक्षिणः ।
वामः 3पृष्ठापसर्पी च दद्याद्भ्रमरकं तथा4 ।। ४६

स एवास्पन्दितः5 कार्यस्त्वेद्भ्रमरमण्डलम् ।
आद्यो भ्रमरकः कार्यो वामश्चैवाड्डितो भवेत् ।। ४७

कार्यस्त्रिकविवर्तश्च शकटास्यश्च दक्षिणः ।
ऊरूद्वृत्तः स एव स्याद्वामश्चैवापसर्पितः ।। ४८

कार्यस्त्रिकविवर्तश्च दक्षिणः स्पन्दितो6 भवेत् ।
शकटास्यो भवेद्वामस्तदेवास्फोटनं 7भवेत् ।। ४९

एतदास्पन्दितं8 नाम व्यायामे युद्धमण्डलम् ।
9आद्यन्तु जनितं कृत्वा वामेन तु निकुट्टकम्10 ।। ५०

शकटास्यः पुनश्चाद्य11 ऊरूद्वृत्त स एव तु12 ।
13पृष्ठापसर्पी वामश्च स च चाषगतिर्भवेत्14 ।। ५१

15आस्पन्दितः पुनः सव्यः शकटास्यश्च वामकः16 ।
आद्यो भ्रमरकश्चैव17 त्रिकं तु18 परिवर्तयेत् ।। ५२

Notes

1पृष्ठापसर्पी 2वामश्चेत्यावर्ते मण्डले भवेत् ।
3कृत्वादौ 3aसमपादं तु स्थानं हस्तौ प्रसारयेत्4 ।। ५३

5निरन्तरादूर्ध्वतलावावेष्ट्योद्वेष्ट्य चैव हि6 ।
कटितटे6a विनिक्षिप्य 7चाद्यमावर्तयेत्क्रमात्8 ।। ५४

9यथाक्रमं पुनर्वाममावर्तेन प्रसारयेत् ।
10aचार्यानया च10 भ्रान्त्वा तु पर्यायेणाथ मण्डलम्11 ।। ५५

12समोसरितमेतच्च 13ज्ञेयं व्यायाममण्डलम् ।
पादैस्तु [भू]मिसंयुक्तैः 14सूचीविद्धैस्तथैव च ।। ५६

एलकाक्रीडितैश्चैव 15चूर्णैस्त्रिकविवर्तनैः16 ।
सूचीविद्धापविद्धैश्च क्रमेणावृत्य मण्डलम्17 ।। ५७

एलकाक्रीडितं 18विद्यात्खण्डमण्डलसंज्ञितम्19 ।
सव्यमुद्धट्टितं कृत्वा तेनैवावर्तमाचरेत्20 ।। ५८

तेनैवास्कन्दितः कार्यः 21शकटास्यश्च वामकः ।
आद्यः पृष्ठापसर्पी च 22स च चाषगतिर्भवेत् ।। ५९

अड्डितश्च पुनर्वाम आद्यश्चैवापसर्पितः ।
वामो भ्रमरकः कार्य आद्य आस्कन्दितो भवेत् ।। ६०

Notes

1 –पृष्ठापसर्पि 2 –वामश्च आवर्ते –वामश्च आवर्ताख्ये तु मण्डले 3 – समपादं बुधः कृत्वा –समपादं पुनः कृत्वा 3a– N समपादं वपुः कृत्वा, 4 N–प्रयोजयेत् 5 –निरन्तरादूर्ध्वतलैः –निरन्तरादूर्ध्वतलात् –निरन्तरानूर्ध्वतलैः 6 –तौ पुनः 6a–N कटीतटाद् 7 –आद्यं 8 N–क्रमम् 9 N –तथाक्रमं 10 – तु –अथ 10a– N पर्यायेण हि 11 –पर्यायान्मण्डलं भ्रमेत् 12 –समोत्सरितमेतत्तु – समोत्सारितं 13 –कार्यं 11 –सूच्याविद्धैः 15 –पूर्णैः –तूर्णैः 16 –विवर्जितैः –विवर्तकैः 17 –पर्यायान्मण्डलं पुनः 18 –नाम –दद्यात् 19 –मण्डलमुच्यते 20 –आदिशेत् 21 –आस्कन्दितं कुर्यात् 22 – सम

तेनैवास्फोटनं कुर्यादेतदड्डितमण्डलम् ।
आद्यं तु जनितं कृत्वा 1तेनैव च निकुट्टकम्2 ।। ६१

स एव शकटास्यश्च वामश्चास्कन्दितो3 भवेत् ।
4पादैश्च शकटास्यस्थैः पर्यायेणाथ मण्डलम् ।। ६२

5विज्ञेयं शकटास्यं तु व्यायामे युद्धमण्डलम् ।
आद्यस्तु जनितो भूत्वा स एवास्कन्दितो6 भवेत् ।। ६३

7अपसर्पी पुनर्वामः शकटास्यश्च दक्षिणः ।
भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम्8 ।। ६४

अध्यर्धमेतद्विज्ञेयं 9नियुद्धे 10चापि मण्डलम् ।
11सूचीमाद्यक्रमं कृत्वा 12ह्यपक्रान्तं च वामकम् ।। ६५

13भुजङ्गत्रासितश्चाद्य एवमेव च वामकः14 ।
15भुजङ्गत्रासितैर्भ्रान्त्वा पादैरपि च मण्डलम् ।। ६६

16पिष्टकुट्टं च विज्ञेयं चारीभिर्मण्डलं बुधैः17 ।
सर्वैश्चाषगतैः पादैः परिक्रम्य च मण्डलम्18 ।। ६७

एतच्चाषगतं विद्यान्नियुद्धे 19चापि मण्डलम् ।

Abh

आस्फोटनमिति पादतलेन भूमिताडनं युद्धेष्वास्फालनमिति प्रसिद्धम् । शब्दोऽप्यर्थे । अतः परमपि मण्डलानि योजयेत् । कथमित्याहुः । समाः

Notes

1 –तथैव 2 –निकुट्टनम् 3 –आस्पन्दितो 4 –शकटास्यस्थितैः पादैः भ्रमेत्पर्यायशः पुनः 5 –शकटास्यं च विज्ञेयं 6 –आस्पन्दितो 7 –अवसर्पी 8 –पर्यायान्मण्डलं भ्रमेत् 9 –व्यायामे चारिमण्डलम् 10 –चारिमण्डलम् 11 N –धीरमाद्यक्रमं 12 ढजझ –व्यपक्रान्तं 13 –आदर्शे श्लोकार्धो न वर्तते 14 –एष एव तु वामकः 15 –भुजङ्गत्रासितैः पादैर्भ्रमेदपि च मण्डलम् 16 –पृष्ठकुट्टं च 17 –नियुद्धे चारिमण्डलम् 18 –मण्डलं तु परिभ्रमेत् 19 –चारिमण्डलम्.

नानाचारीसमुत्थानि मण्डलानि समासतः ।। ६८

उक्तान्यतः परं चैव 1समचारीं नियोजयेत् ।
समचारीप्रयोगो 2यस्तत्समं नाम मण्डलम् ।। ६९

आचार्यबुद्ध्या 3तानीह कर्तव्यानि प्रयोक्तृभिः4 ।
एतानि खण्डानि समण्डलानि युद्धे नियुद्धे च5 परिक्रमे च6 ।
लीलाङ्गमाधुर्यपुरस्कृतानि कार्याणि 7वाद्यानुगतानि तज्ज्ञैः ।। ७०

इति श्रीभारतीये नाट्यशास्त्रे मण्डलविकल्पनं8
नामैकादशोऽध्यायः9 ।

Abh

परस्परे योजनोचिताश्चार्यो यत्र तत्रोहनेऽप्युदाहरणं दर्शयति समचारीप्रयोग इति । समानां भौमत्वेनाकाशीयत्वेन च चारीणां प्रयोगो यत्र ।

एवमनया दिशा बहूनि कल्पयेदित्याह आचार्यबुद्ध्योपलभ्यो भागः प्रयोगयोग्यो भवतीति । खण्डानां प्राधान्यमपि दर्शयति खण्डानीतिवाद्येनानुगतानीति “गत्या वाद्यानुसारिण्या” (अ-४-२८२) इति नृत्तविषयतुर्याध्यायाद्धि वैपरीत्येन नाट्ये गतै प्राधान्यमाहेति शिवम् ।।

इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदविवृतावभिनवभारत्यां मण्डलाध्याय एकादशः समाप्तः ।।

Notes

1 –समां चारीं 2 –प्रचारो 3 –क4र्तव्यानीह तानि 4 –प्रयोगतः 5 –तु 6 –परिचंक्रमे च 7 –बाह्यानुगतानि 8 –मण्डलविधानं –मण्डलविधानो 9 जादिबान्तेषु द्वादशोऽध्यायः; N. द्वादशोऽध्यायः; –श्लोकाः ६८ –आहत्य १९३९ ।