१० चारी-विकल्पः

श्रीः

नाट्यशास्त्रम्

दशमोऽध्यायः1

[2एवं पादस्य जङ्घाया 3ऊरोः कट्यास्तथैव च ।
समानकरणे चेष्टा4 चारीति परिकीर्तिता5 ॥] १

विधानोपगताश्चार्यो 6व्यायच्छन्ते परस्परम् ।
यस्मादङ्ग7समायुक्तास्तस्माद् व्यायाम उच्यते8 ॥ २

Abh

निश्चलस्थितिमद्व्योमभूचारीसद्गतिप्रदः ।
सर्वदा ध्वनिमात्रात्मा शम्भुर्विजयतात् प्रभुः ॥

चारीव्यायामलक्षणमित्युक्तम् । तत्र समासे सन्देहः व्यायामशब्दार्थे च, चरेर्हि (इञ्) करणे भावे वा औणादिक इति, ‘कृदिकारादक्तिन ङीष्’ इति च चारीशब्दः प्रसिद्धार्थ इत्यभिप्रायेण सन्देहद्वयमपाकर्त्तुमाह -विधानोपगता इति । अन्योन्ययोजनापतिताश्चार्यो व्यायामशब्दस्यार्थ इति तात्पर्यम् । चार्य एव व्यायाम इति कर्मधारय इत्यर्थः । अन्वर्थस्तु व्यायच्छन्ते इति परस्परतया आपतन्ति । कुत्र नियम इत्याह- परस्परं पूर्वा चारी परत्र नियता (न तु) पूर्वस्यामिति, तेनाकर्मकत्वादात्मनेपदं परस्परोपपदाच्चेति कर्मव्यतिहारजमात्मनेपदं निषेधति, न तु ‘आङोयमहन’ इति । ननु किं तन्नियमनमित्याह । विधानोपगता इति प्रधानेनैकस्या यतः अपरा उपगता बलादेवागता । नन्वेवमन्योन्याश्रयम् ? न, अङ्गेन प्रधानभूतेन केनचित्, सम्यगायुक्ताः प्रयुक्ताः प्रवर्तिता

Notes

1 -आदर्शे नात्राध्यायविभागः कृतः । नवमाध्यायमध्य एव दशमस्य प्रारम्भोऽस्ति। जादि भान्तादर्शेषु सर्वेष्वयमेकादश इत्येव गण्यते । N. also has एकादशोध्यायः 2 -अयं श्लोकः कखगघचाभादर्शेषु न वर्तते 3 -ऊर्ध्वं - उरु 4 -करणाचेष्टा -करणाच्चेष्टा -करणे चेष्टा 5 -सा चारीत्यभिधीयते -सा चारीत्यभिसंज्ञिता 6 -व्यायच्छन्ति -व्याश्रयन्ति 7 -समायुक्तः 8 -व्यायाममुच्यते ।

एकपादप्रचारो यः सा चारीत्यभिसंज्ञिता1 ।
2द्विपादक्रमणं यत्तु करणं नाम तद्भवेत् ॥ ३

करणानां समायोगः खण्ड इत्यभिधीयते ।
खण्डैस्त्रिभिश्चतुर्भिर्वा 4संयुक्तैर्मण्डलं भवेत् ॥ ४

चारीभिः 5प्रसृतं नृत्तं चारीभिश्चेष्टितं तथा ।
चारीभिः शस्त्रमोक्षश्च6 चार्यो युद्धे च कीर्तिताः7 ॥ ५

Abh

यत्नायत्नापेक्षया बहुवचनम् । एतदुक्तं भवति -किंचिदङ्गं प्रधानं यत् संभवति यथा हस्तो वा अभिनये, पादो वा गतौ, तदा तदुपयोगिनी चारी प्रधानं, तच्चारीसंपत्त्युचिता च पूर्वा चारी आश्रीयते परया चेति परस्परनियमवत्यश्चार्योव्यायाम इति। तत्र व्यायामस्य संक्षिप्तमध्यमविस्तीर्णतया भेदान्निरूपयति । एकपादप्रचारो एकः एकाकिपादेन, श्रोण्यादिप्रचारो व्याक्षिप्तः। द्विपादेति । पादशब्देन तत्प्रचारः । नामेति तुर्व्यायामप्रसिद्धादन्यदेवेदं संज्ञात्वेनाधुनैव नियम्यत इत्यर्थः । एष संक्षिप्तो व्यायामः अभिनयान्तरादौ । करणानामिति बहुवचनात् त्रीन् (त्रीणि?)‘कपिञ्जलानालभे’तेति यथा । अन्यथा बहुत्वानियमे खण्डानां मण्डलेभ्यः क्व प्रविभागः। एष मध्यमो व्यायामः उपवृत्त्येधमानौ । त्रिभिश्चतुर्भिरित्येतच्चतुरश्रतालाभिप्रायेण, वाग्रहणान्मिश्रणमपि सूचयन् सङ्ख्यान्तरमपि गृह्णीते । तथा हि-चतुर्थे सूचीविद्धाख्ये (तुलना -११-१२) मण्डले तु याश्चारीर्वक्ष्यति ‘वामं सूचीपदं दद्यौदित्यादि । (तुलना -११-१३) सप्तमे त्वलाताभिख्ये-‘भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् । षट्सङ्ख्यं सप्तसङ्ख्यं वा’ इति (तुलना ११-३०) द्वादशेऽद्धयर्धिका इति । एवमन्यत्र । तत्र लौकिकत्वं तावच्चारीणां दर्शयति चारीभिरिति नृत्तं वाऽङ्गहारात्मकत्वं च तच्चारीभिः प्रसृतं च व्याप्तमिति प्रत्येकं चेष्टितं गतिः। शस्त्रमोक्ष इति चक्रकुन्तादियुद्धं युद्धमिति, खङ्गहननादियुद्धं नियुद्धं च । प्रकृतेऽप्युपयोजयति

Notes

1 -चारित्याभिधीयते -सा चारीत्यभिसंज्ञिता 2 N-पादाभ्यां चरणं यत्तु करणं चेह तत्स्मृतम् । 3 -समायोगात् खण्डमित्याभिधीयते 4 -संयुक्तं 5 -संस्कृतं नृत्यं , N-प्रस्तुतं 6 -मोक्षञ्च 7 -प्रकीर्तिताः

1यदेतत्प्रस्तुतं2 नाट्यं तच्चारीष्वेव संस्थितम्3।
4न हि चार्या विना किंचिन्नाट्येऽङ्गं संप्रवर्तते5 ॥ ६

तस्माच्चारीविधानस्य6 संप्रवक्ष्यामि लक्षणम्7 ।
या यस्मिंस्तु 8यथा योज्या नृत्ते युद्धे गतौ तथा9॥ ७

10समपादा स्थितावर्ता शकटास्या तथैव च ।
11अध्यर्धिका 12चाषगतिर्विच्यवा च तथापरा13 ॥ ८

14एडकाक्रीडिता बद्धा 15ऊरूद्वृत्ता तथाड्डिता16 ।
17उत्स्पन्दिताथ17a जनिता स्यन्दिता चापस्यन्दिता18 ॥ ९

Abh

यदेतदिति । यच्छब्देन व्याख्यातधर्मपूर्वकं, एतच्छब्देन व्याख्यास्यमानधर्मयोगं परामृश्यत इति वितततां नाट्यस्याह । किं चिदङ्गमिति शिरोह्स्तादि, किं चिद्धि, चार्या सह किंचित्पूर्वापरभावेन । संप्रवर्तत इति संवर्तते खलत्वेन प्रवर्तते क्रियया, सम्यक् प्रवर्तते वा, अनित्येनेति वैकल्पिकोऽप्युपसर्गार्थयोगः तथाङ्गेऽपि स्वीकारतत्त्वं( ?) निरूप्यत इति भर्तृमित्राचार्यः । प्रकृताधिकारिखेदावहत्वाच्च न पदवाक्यवित्परिचितताप्रकटन- मात्रलालसात्मकमतिरिति विरमति(म्यते?) । लक्षणमिति उदाहरणम् । नृत्त हति, करणाङ्गहारादौ । यस्मिन्निति । ‘नपुंसक’मित्येकशेषः, तथेति उक्तं, वक्ष्यते चेति

Notes

1सोमत्सरितमत्तल्ली मत्तल्ली चेति षोडश ।
2एता भौभ्यः स्मृताश्चार्यः श्रृणुताकाशिकीः पुनः3 ॥ १०

अतिक्रान्ता ह्यपक्रान्ता4 पार्श्वक्रान्ता5 तथैव च ।
ऊर्ध्वजानुश्च सूची च6 तथा नूपुरपादिका ॥ ११

डोलापादा तथाक्षिप्ता 7आविद्धोद्वृत्तसंज्ञिते ।
विद्युद्भ्रान्ता ह्यलाता च8 भुजङ्गत्रासिता तथा ॥ १२

9मृगप्लुता च दण्डा च 10भ्रमरी10aचेति षोडश ।
आकाशिक्यः स्मृता ह्येता लक्षणं च निबोधत ॥ १३

पदैर्निरन्तरकृतैस्तथा समनखैरपि ।

Abh

शेषः । तत्र नृत्ते उक्तं, युद्धे वक्ष्यते न्यायेषूह्यामिति शेषः, गतौ च द्वादशाध्याये वक्ष्यते–इत्यध्यायत्रयस्यार्थ इह सूचितः । तत्रोद्देशमाह–सभावेति (भौम्यः इति ?) भूमौ भवा भौम्यः, एवमाकाशिक्यः उपरिचरताम् । स्मृता इति वेदोदाहरणेऽत्र यावत्स्मर्यते तावव्द्युत्पादनार्थं शिष्टानि । तैर्वक्तव्यम् तेनैतन्नाशङ्कनीयम् । यदि नेदं परिगणनं कियता भेदेनोक्तेति न तत्र स्पष्टम् । यल्लक्षणमन्वर्थं च, तव्द्याक्रियते ।

Notes

1 –समासादित –समोत्सारित , N –समोसरित –समासरित 2 –आदर्शे श्लोकार्धो न वर्तते 3 –आकाशिकाः पुनः –आकाशकीः पुनः 4 , N –अपक्रान्ता –त्वपक्रान्ता 5 –पार्श्वाक्रान्ता 6 –ऊर्ध्वजानुस्तथा चैव 7 –व्याविद्धोद्वृत्त –ह्याविद्धोद्वृत्त –ह्यावृत्तोद्वृत्त –आविद्धोद्वृत्तसंज्ञका 8 –तथालाता –ह्यताना च 9 – उत्कीर्णा दण्डपादा च भ्रमरी हरिणप्लुता (–बद्धा) आकाशगास्त्विमाश्चार्यो नियुद्धकरुणाश्रयाः ॥ द्वात्रिंशदेता निर्दिष्टा मया चार्यो द्विजोत्तमाः । पुनरासां प्रवक्ष्यामि लक्षणं कर्मणा सह ॥

समपादा तु सा1 चारी विज्ञेया स्थानसंश्रया2 ॥ १४

भूमिघृष्टेन3 पादेन कृत्वाभ्यन्तरमण्डलम् ।
4पुनरुत्सारयेदन्यं स्थितावर्ता5 तु सा स्मृता ॥ १५

निषण्णाङ्गस्तु चरणं6 प्रसार्य तलसञ्चरम् ।
उद्वाहितमुरः कृत्वा शकटास्यां प्रयोजयेत् ॥ १६

7सव्यस्य पृष्ठतो वामश्चरणस्तु8 यदा भवेत् ।
9तस्यापसर्पणं चैव ज्ञेया साध्यर्धिका बुधैः10 ॥ १७

Abh

अथ समपादा–ननु समपादा कथं वा चारीत्याह–स्थानसंश्रयेति यदा समपाद एव स्तानान्तरं गच्छति तदा चरणश्चारी भवत्येव योग्यतया तथा व्यपदेशादिति भावः ।

अथ स्थितावर्ता–भूमिघृष्टेनेति, अग्रतलसञ्चरेणाभ्यन्तरमण्डलं द्वितीयपार्श्व जानुस्वस्तिकान्तं, पुनः शब्दो विशेषं द्योतयन् सन्नि(वेश)योगमाह । तेन स चेत् स्वस्तिकत्वेन श्लिष्टस्ततो द्वितीयमुत्सारयेत् स्वापार्श्वं कर्षयेदेकस्य स्थानमपरस्यामिति तथा ॥

अथ शकटास्या–निषण्णाङ्गस्त्विति प्रयन्तघृतपूर्वकाय इत्यर्थः । शकटमसनीयं क्षेप्यं यया । एकस्मिन्नु पादे समेऽङ्गुल्याञ्चितं पक्षेतरं कृत्वा जाननुः कु़ञ्चने जङ्घाप्रसरणे च स्वपार्श्वे च त्युश्रिततलसञ्चरस्थापनं नु निरोधन(रेचन ?)मिवेति केचिदेनामाहुः । एतच्च लक्षणं लक्ष्यार्थासङ्गतमेव ।

अथाध्यार्धिका–सव्यस्येति दक्षिणस्य । पृष्ठत इति पार्ष्णिदेशे । तस्येति दक्षिणस्योपसर्पणे स्वपार्श्वार्धत्र्यश्रिततया स्थितिः । अव्यतिरेकेति अध्यर्धतालान्तरत्वादयो मन्तव्याः । एकस्य पूर्णता गतिरन्यस्य पादस्य पूर्णार्धकेत्यन्ये । करणप्रधान्याच्चैवमुक्तं वामस्यापि पृष्ठसङ्गतमेव ।

Notes

1 –स्मृता –समपादस्थिता –सृता 2 –संश्रिता 3 –कृष्टेन 4 –वाममुत्सारयेत्पादमावर्तां चारिमादिशेत् । –पुनरुत्सादयेदन्यं –पुनरुत्सारयेत्पादं 5 –स्थिरावर्ता –स्थिरावृत्ता 6 –निषण्णागात्रश्चरणं –सदृशं 7 –सव्यस्तु 8 –चरणस्य 9 –वामापसर्पणाच्चैव विज्ञेयाध्यर्धिका बुधैः । –तस्यापसर्पणश्चैव –तस्योपसर्पणं 10 –तथा –साध्यधिका बुधैः ।

पादः प्रसारितः सव्यः पुनश्चैवापसर्पितः1 ।
वामः 2सव्यापसर्पी वा 3aचाषगत्यां3 विधीयते ॥ १८

4विच्यवात्समपादाया 5विच्यवां संप्रयोजयेत् ।
निकुट्टयंस्तलाग्रेण6 पादस्य धरणीतलम् ॥ १९

7तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं तु यत् ।
8पर्यायशश्च क्रियते9 10एडकाक्रीडिता तु सा11 ॥ २०

Abh

अथ चाषगतिः–सव्येति दक्षिणस्य पृष्ठत इति, सव्योऽपसर्पत्येव सर्वत्र । प्रसारित इति तालमात्रमग्रतः पुनः स एवापसर्पितो द्वितालमात्रं पश्चान्नीतः वामः सव्येन सहापसर्पति । किंचिदुत्प्लुत्य सव्यवामावपसर्पतः श्लिष्यतश्चेति सत्रासमपसर्पणादौ चाषस्येव गतिः चाषगतिः । सव्योपसर्पि चेत्यन्ये पठन्ति, तत्र श्लिष्टत्वं शब्दो(सव्यो ?) क्तत्वमपसर्पणं चार्थः ॥

अथ विच्यवा–पादस्येति पादयेरित्यर्थः ।

अथैलकाक्रीडिता–उत्प्लुत्या किंचिदेकः सक्थिगुल्फदेशेभ्यः पुनरुत्प्लुतिः अङ्गान्तरेणैवमिति पर्यायशः पतनं यत्र चार्या सा अजिकागतितुल्यत्वादेडकाक्रीडिता ॥

Notes

1 –पुनश्चैवोपसर्पितः 2 –सव्यापसर्पी च –सव्योपसर्पी वा काशमित्यभिधीयते 3 –चाषगत्या 3a:N –काशगत्या 4 –आदर्शे त्वधिकोऽयं श्लोकः अन्योन्यजङ्घासंवेधात्स्वस्तिका सा तु कीर्तिता । ऊरुभ्यां वलनं यत्तु सा स्मृतोद्वर्तिका बुधैः । विच्यवेति श्लोकोऽड्डितालक्षणात्परमस्ति –एवं वा –विच्यवां समपादायां –विच्यवन्तं समादाय –वीच्यवाक्समपादाया 5 –वीच्यवां – विवृतं –विच्यवा –विश्लेषं –वीचिवत् 6 –तथाग्रेण 7 –तलसंचार –नव –पादयोस्तल– संचारादुत्क्षिप्य पतनं तु यत् । 8 –पर्यायतश्च 9 –क्रियतः 10 –सैडकाक्रीडिता स्मृता 11 –तथा

1अन्योन्यजङ्घासंवेधात्कृत्वा तु स्वस्तिकं ततः2 ।
ऊरुभ्यां वलनं 3यस्मात्सा बद्धा चार्युदाहृता4 ॥ २१

तलसञ्चरपादस्य पार्ष्णिर्बाह्योन्मुखी यदा5 ।
जङ्घाञ्चिता 6तथोद्वृत्ता ऊरूद्वृत्तेति सा स्मृता7 ॥ २२

अग्रतः पृष्ठतो वापि 8पादोऽग्रतलसञ्चरः ।
द्वितीयपादनिर्घृष्टो9 यस्यां स्यादड्डिता तु सा10 ॥ २३

Abh

अथ बद्धा–केवलयोरेवोर्वोर्वलनं स्थित एव जङ्घास्वस्तिक इति बद्धां केचिदाहुः । अन्ये तु स्वस्तिकापसरणेन पादतलाग्रयोर्मण्डलभ्रमणपूर्वकं स्वस्वपार्श्वगमनमिति यदूरुबन्धनमाहुः । जड्घयोः संबन्धनात् अनुबद्धा ॥

अथ ऊरूद्वृत्ता–अग्रतलसञ्चरस्य पादस्य संबन्धिनी पार्ष्णिर्द्वितीयपादपृष्ठभागौन्मुख्यं यदा भवति, जङ्घा च जानुनमनादाकुञ्चिता उद्वृत्ताद्वितीयजङ्घासम्मुखं वलनात् तथा । ऊरोरूर्ध्वविवर्तनात् लज्जेर्ष्यादिविषया ऊरूद्वृत्ता । अन्ये तु पार्ष्णिद्वितीयस्य तलसञ्चारबाह्योन्मुखीत्याहुः ॥

अथाड्डिता–अग्रत इति । अपिस्समुच्यये, वा पर्याये । तेन समस्थितस्यैकस्य द्वितीयस्तलसञ्चरः क्रमादग्रे पृष्ठे च निर्घृष्टः श्लिष्टः कार्य इति अड्डिता,

Notes

1 –आदर्शे पूर्वमेव निवेशितोऽयम् 2 –तु तत् द–यत्स्यात् 3 –चार्युदीरिता 4 –पार्ष्णिश्चेदुन्मुखी भवेत् –बाह्योन्मुखी स्थिता 5 –ततोद्वृत्ता 6 –सोरूवृत्ता तथेष्यते 7 –पादस्तु तलसंचरः 8 –पादो निर्घृष्टो –द्वितीयं पादनिर्घृष्टो, 8a–N पादस्तु तलसञ्चरः 9 –यत्र सा त्वड्डिता भवेत् । –यत्र स्यादड्डिता तथा 10 भ म–आदर्शयोरत्रैव विच्यवाजनितालक्षणमस्ति । ‘शनै’ रित्याद्युत्स्पन्दितालक्षणं तु जानिताया अनन्तरमेव दृश्यते । यथा– विच्यवात्समपादाया विच्यवा सा तु कीर्तिता । ( –दस्य) पुनर्निकुट्टनं चैव पादस्याग्रेण योजयेत् । पादः स्यात्तलसंचारः करश्चैव प्रलम्बितः । मुष्टिहस्तश्च वक्षःस्थो जनिता सा विधीयते ॥ शनैः पादविवर्तो यो बाह्येनाभ्यन्तरेण वा । रेचतस्यानुचरणाज्ज्ञेया चास्कन्दिता बुधैः ॥

1शनैः पादो निवर्तेत2 बाह्येनाभ्यन्तरेण च ।
यद्रेचकानुसारेण3 सा चार्युत्स्पन्दिता4 स्मृता ॥ २४

5मुष्टिहस्तश्च वक्षस्स्थः करोऽन्यश्च प्रवर्तितः6 ।
7तलसञ्चरपादश्च जनिता चार्युदाहृता ॥ २५

8पञ्चतालान्तरं पादं प्रसार्य स्यन्दितां9 न्यसेत् ।
द्वितीयेन तु पादेन10 तथापस्यन्दितामपि ॥ २६

Abh

पादस्य स्वस्थानातिक्रमणात् । अड्ड अतिक्रमहिंसयोरिति पठन्ति,सत्त्वे च रूपम्*॥ मधुसूदनी reads: अड्ड अतिक्रमहिंसयोरित्यस्य इतचि रूपं पठन्ति सत्त्वे च and observes इसी अड्ड धातु का भाव में यह रूप है । यहाँ ‘सत्त्वे’ का अर्थ भाव है ।

अथोत्स्पन्दिता–बाह्येन कनिष्ठाङ्गुलिभागेन अभ्यन्तराङ्गुष्ठभागेन निवर्तते चेदु(भयोः पादयोः) गमागमं कुरुते । किमवधीत्याह पादरेचितस्यापसारेण शोभापेक्षयोत्क्रान्तमस्याम् । यन्नद्याः प्रत्यावर्तनरूपस्पन्दितकृत् तत्तुल्यत्वादियमुत्स्पन्दिता । रेचकं नृत्तहस्तमत्र केचिदाहुः ॥

अथ जनिता–तलसञ्चरपादः प्रवर्तित इति । एतदेवास्याः स्वरूपं मुष्टेर्वक्षोगामित्वं हस्तान्तरस्य च प्रवर्तनमितिकर्तव्यतामात्रम् । समस्तगतीनामियं जननं करोति प्रारम्भरूपत्वादिति जनिता ।+

अथ स्यन्दितापस्यन्दिते –क्रमसमो निषण्णोरुः पादो दक्षिणस्तु पञ्चतालान् प्रसारितः । “तालः स्मृतः मध्यमया” इति । सा स्यन्दिता प्रसारणधर्मत्वात् । एतद्विपर्ययादस्या अपि सव्येन स्यन्दितेनेति अङ्गपर्यायाच्च लब्धाप्येषा प्रयोगे साहचर्यनियमख्यापनार्थं पुनर्निरूपिता । आलीढप्रत्यालीढयोस्तु पादद्वयमपि त्र्यश्रितसंस्थानं मण्डलस्थानतो जीवित्वं यद्वक्ष्यते ‘अस्यैव

Notes

1 –विवर्तेत 2 –कारेण 3 –सा चास्रच्छन्दिता 4 –चार्युत्सन्दिता 5 –स्वस्तिहस्तस्तु 6 –करोऽन्यश्च प्रकीर्तितः –करोऽन्यश्चापवर्तितः –करोऽन्यः परिवर्तितः । 7 –तलाग्रसंस्थितः पादोः जनितायामुदाहृता 8 –पञ्चतालान्तरं पादं प्रसार्य तलसंचरम् । द्वितीयं च नयेत्पार्श्वं सावस्कन्देति चोच्यते ॥ –यश्च 9 –स्पन्दितां 10 –पार्श्वेन

  • अग्रत एव प्रसिद्धेति कीर्तिधरः ।
  • जनिता चारी मुसलगाटिकाख्यवर्तनैवेति कीर्तिधरः ।

1तलसञ्चरपादाभ्यां 2घूर्णमानोपसर्पणैः ।
3समोत्सरितमत्तल्ली व्यायामे समुदाहृता ॥ २७

उभाभ्यामपि पादाभ्यां घूर्णमानोपसर्पणैः ।
उद्वेष्टितापविद्धैश्च 4हस्तैर्मत्तल्ल्युदाहृता ॥ २८

एता 5भौम्यः स्मृताश्चार्यो 6नियुद्धकरुणाश्रयाः ।
7आकाशिकीनां चारीणां संप्रवक्ष्यामि लक्षणम् ॥ २९

Abh

दक्षिणं पादं पञ्चतालान्’ इत्यादि स्यन्दितायास्तु नैवमिति शेषः । स्थानस्य स्थितिप्रधानता चार्यास्तु गतिप्रधानतेत्यपि विशेषः ।

अथ समोत्सरितमत्तल्ली–तलसञ्चरजङ्घास्वस्तिकेनाभ्यन्तरे यदान्यस्य तदेव च द्वितीयतलसञ्चरं करोति ततो घूर्णमानयोस्तयोः उपसर्पणमित्यन्ये । समः अविकलः । (अ) अवनं रक्षणं उत् तदर्थं सरितः गतिमान् मदनं मत् मदं तनोतीति मत्तत् तस्य लयो गमनं यस्यामिति समोत्सरितमत्तल्ली । सरितशब्दो रि गतौ विन्यस्यते सहेन समासे च मदनं मुत्क्षिपः लयनं लीः । सरिशब्दस्य प्रतिपदिकात् तृचि वा सरितशब्दः । सं आ उत् सरित इत्यन्ये पठन्ति*। मदेन यो न विकलीभूतः रक्षार्थं चान्यतरः पलायते तस्य वै द्विधा गतिरिति मध्यमदविषयेयं चारी सम्पद्यते ।

अथ मत्तल्ली–पादाभ्यामिति भूमिश्लिष्टाशेषतालाख्यामिति जङ्घास्वस्तिक– योगेनार्धत्र्यश्रिभागाभ्यां घूर्णमानत्वेनापसर्पणाद्वा, अगाढ(? गाढ) मदविषया मत्तल्ली ।

नियुद्धकरणाश्रया इति नियुद्धेऽनादिसिद्धा एताः करणाङ्गहारेषु च ततो नाट्ये । स्मृता इत्यानेनोपवेदसंबन्धत्वेन वेदोऽत्र प्रमाणमिति दर्शितं, विनियोगदिक्प्रदर्शनं चेदं मन्तव्यम् ।

Notes

1 भम–आदर्शयोः प्रतिज्ञापाठानुसारेण मत्तल्ल्या अनन्तरमेव समोसरितमत्तल्लीलक्षणं वर्तते । यथा– अञ्चितेन तु पादेन घूर्णमानोपसर्पणैः । उद्वेष्टितापविद्धत्वान्मत्तल्ली करयोर्मता ॥ उभयोः पादयोश्चापि घूर्णमानापसर्पणैः । समोत्सारितमत्तल्ली व्यायामे सा विधीयते ॥ 2 –घूर्णमानापसर्पणैः 3 –समोसरित 4 –करैः 5 –भूम्यः –भूमिगताः 6 –नियुक्त 7 –शस्त्रमोक्षाङ्गारेषु वक्ष्याम्याकाशगाः पुनः । –आकाशिकानां *‘ओसरिअ’ इत्यपसरणार्थकप्राकृतरूपस्य संस्कृतीकरणमिति केचित् । तत्रापशब्ददोषं परिजिहीर्षुणाचार्येण भङ्गीभेदेन निरुक्तिरनुगृहीतेति मन्यामहे ।

1aकुञ्चितं पादमुत्क्षिप्य पुरतः संप्रसारयेत्1 ।
उत्क्षिप्य पातयेच्चैनमतिक्रान्ता तु2 सा स्मृता ॥ ३०

3ऊरुभ्यां वलनं कृत्वा कुञ्चितं 4पादमुद्धरेत् ।
पार्श्वे विनिक्षिपेच्चैनमपक्रान्ता तु सा स्मृता5 ॥ ३१

कुञ्चितं पादमुत्क्षिप्य 9जानुस्तनसमं न्यसेत्6 ।
उद्धट्टितेन पादेन पार्श्वक्रान्ता विधीयते8 ॥ ३२

कुञ्चितं पादमुत्क्षिप्य 9जानुस्तनसमं न्यसेत्10 ।
द्वितीयं च 11क्रमस्तब्धमूर्ध्वजानुः 12aप्रकीर्तिता12 ॥ ३३

Abh

अथातिक्रान्ता–उत्क्षिप्ता यस्य पार्ष्णिरिति (९–२७७) कुञ्चितं तद्द्वितीयगुल्फक्षेत्रे कृत्वा किंचित् पुरतः प्रसार्य प्रकृतिभेदेन चतुस्तालाद्यन्तरमुत्क्षिप्याग्रेण भूमौ निपात्यत इति गन्तव्यातिक्रमादतिक्रान्ता ।1

अथापक्रान्ता–ऊरू च स्तनोपलक्षितां पूर्वं (बद्धां) कृत्वा ततः पादमुद्घृत्य पार्श्वे क्षिपेदित्यपक्रमणादपक्रान्ता2 ।

अथ पार्श्वक्रान्ता–कुञ्चितं पादं स्वपार्श्वेनोपरि नीत्वा भूमौ पाष्णर्या पातयेदिति पूर्वं कु़ञ्चनाद्बलादेवोद्घाटितत्वं भवति, तस्य हि लक्षणं “स्थित्वा पादतलाग्रेण पार्ष्णीर्भूमौ निपात्यत” इति (९–२६६)इयमेव पार्ष्णिचण्डघातेति प्रसिद्धा । अन्ये तु द्वितीयरुक्षेत्रं यावदुत्क्षिप्योद्घाटितेन पातयेदित्याहुः ॥

अथोर्ध्वजानुः–क्रमस्तब्धमिति यथा तस्योत्क्षेपस्तथास्य स्तब्धतेत्यर्थः ।

Notes

1 –संप्रयोजयेत् –संप्रकारयेत् 1a–N: पादस्य निर्गमं कृत्वा तथोपाङ्गानि योजयेत् 2 –पातयेच्चैकमति क्रान्तेति । 3 –ऊर्ध्वावलितकं –N ऊर्वोर्वलितकं –ऊरुभ्यां वलितं 4 –तु समुद्धरेत् 5 –प्रकीर्तिता 6 –जानूर्ध्वं संप्रसारयेत् –पार्श्वोत्थानोद्गतिर्भवेत् N –पार्श्वोत्थानोत्थितं न्यसेत् –पार्श्वेनोत्पतनं तथा 7 –उद्वाहितेन 8 –पार्श्वक्रान्ता भवेदियम् –पार्श्वाक्रान्ताभिघीयते 9 –जानुं 10 –तथा 11 –क्रमात्स्तब्धं 12 –ऊर्ध्वजानुरसौ स्मृता । 12a–N: प्रकीर्तितः 1 पार्श्व एव पातयेदिति सैव पार्ष्णिचण्डघातेति च कीर्तिधरः । 2 एषैव विक्षेपवलितमिति कीर्तिधरः ।

1कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं संप्रसारयेत्2 ।
पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता ॥ 34

3पृष्ठतो ह्यञ्चितं कृत्वा पादमग्रतलेन तु4 ।
द्रुतं 5निपातयेद्भूमौ चारी नूपुरपादिका ॥ 35

कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वन्तु6 दोलयेत् ।
7पातयेदञ्चितं चैव दोलपादा प्रकीर्तिता8 ॥ 36

9कुञ्चितं पादमुत्क्षिप्य 10आक्षिप्य त्वञ्चितं न्यसेत् ।
जङ्घास्वस्तिकसंयुक्ता चाक्षिप्ता11 नाम सा स्मृता12 ॥ 37

Abh

अथ सूची–जानूर्ध्वं जानुपर्यन्तां जङ्घां प्रसारयेत्, यदि वा जानुनोरूर्ध्वमूरुपर्यन्तां जङ्घां सकलां प्रसार्याग्रयोगेनापातयेदिति । सूच्याकारत्वात् सूची ॥

अथ नूपुरपादिका–पृष्ठत इति “पार्ष्णिर्यस्य स्थिता भूमौ” इत्यञ्चितं (९–२७५) कृत्वा तं पृष्ठतः स्फिक्पार्ष्णिश्लेषपर्यन्तं नीत्वा स्वपार्श्वेऽग्रतलेनाञ्चितं जङ्घां पातयेदिति । नूपुराणां झणज्झणिति शब्दजननात् स्वरितार्थत्वमनया भवति नूपुरयोजनं चेति तथोक्ता ।

अथ डो(? दो)लापादा–उत्क्षिप्येति दक्षिणक्षेत्रान्तं स्वपार्श्वं निनीय ततोऽपि स्वपाश्वँ दोलयेदिति दोलाकारेण नयेत् ततः स्वपार्श्वे पार्ष्ण्या निपातयेत् ।

अथाक्षिप्ता–आक्षिप्येति । अग्रतस्त्रितलोत्क्षेपादर्धमण्डलवत् पार्श्वान्तरं नीत्वा स्वस्तिकेन पार्ष्ण्या भुवि पातयेत् ।

Notes

स्वस्तिकस्याग्रतः पादः कुञ्चितश्च1 प्रसारितः ।
2निपतेदञ्चिताविद्धमाविद्धा नाम सा स्मृता ॥ ३८

3पादमाविद्धमावेष्ट्य4 समुत्प्लुत्य5 निपातयेत् ।
6परिवृत्य द्वितीयं च सोद्वृत्ता चार्युदाहृता7 ॥ ३९

पृष्ठतो वलितं पादं शिरोघृष्टं8 प्रसारयेत् ।
सर्वतो मण्डलाविद्धं विद्युद्भ्रान्ता तु सा स्मृता ॥ ४०

9पृष्ठप्रसारितः पादो वलितोऽभ्यन्तरीकृतः ।
10पार्ष्णिप्रपतितश्चैव 11ह्यलाता संप्रकीर्तिता ॥ ४१

Abh

अथाविद्धा–विश्लिष्टजङ्घस्यैव स्वस्तिकस्य संबन्धी कुञ्चितः पादः प्रसारितः तत आविद्धस्सन् स्वपार्श्वे द्वितीयपार्ष्णेः क्षेत्रे पाष्ण्र्या पातितः कार्यः ।

अथोद्वृत्ता–आविद्धमिति आविद्धचारीसंबन्धिनं कुञ्चितमित्यनेन आविद्धाशेषभूतेयमिति दर्शयति । आवेष्टनं द्वितीयोरुक्षेत्रगपार्ष्णित्वं । तमेव पादमुत्प्लुत्यं भ्रमरकं कृत्वा पातयेत् । ततो द्वितीयमित्यूर्ध्वं वर्तमानत्वादुद्वृत्ता ।

अथ विद्युद्भान्ता–पृष्ठत ऊरुमूलादिति केचित् । उपाध्यायस्तु पृष्ठतः पार्श्वात् पश्चाद्भागे वलितं कृत्वा शिरःसंश्लेषात् तद्द्वारेण सर्वत ऊर्ध्वाधःपार्श्वेषु मण्डलवद्भ्रमितं प्रसारयेदिति विद्युद्भान्ता (इति) ।

अथालाता–पूर्वं पश्चाद्भागे प्रसारितस्ततो वलनेनाभ्यन्तरीकृतो द्वितीयोरुदेशादभिमुखतलं च नीतः ततः स्वपार्श्वपाष्णर्या पतित इति अलातचक्राकृतिरलाता ।

Notes

1 –कुञ्चितः स्यात् , –कु़ञ्चितस्तु 2 –पातयेदञ्चिताविद्धं –पातयेदञ्चितं चैव ह्याविद्धा चारिरिष्यते । 3 –पादमविद्धकरणं परिवृत्य निवर्तितम् । प्रसारयेत्पृष्ठतश्च सोद्वृत्ता चारिरिष्यते ॥ 4 –आविश्य –पादमाविध्य चावेष्ट्य 5 –समुत्क्षिप्य 6 –परिवृत्त द्वितीयं तु 7 –सा वित्ता समुदाहृता 8 –शिरोद्घृष्टं –शिरोत्स्पृष्टं 9 –पृष्ठे –पृष्ठप्रसारितः 10 –पार्ष्णिप्रपतितः –पार्ष्णिः प्रस्फुरिता चासावलाता परिकीर्तिता 11 –आलाता सा ।

1कुञ्चितं पादमुत्क्षिप्य ञ्यश्रमूरुं विवर्तयेत्2 ।
कटीजानुविवर्ताच्च3 भुजङ्गत्रासिता3a भवेत् ॥ ४२

4अतिक्रान्तक्रमं कृत्वा 5चोत्प्लुत्य विनिपातयेत् ।
6जङ्घाञ्चिता परिक्षिप्ता सा ज्ञेया हरिणप्लुता7 ॥ ४३

8नूपुरं चरणं कृत्वा पुरतः संप्रसारयेत् ।
9क्षिप्रमाविद्धकरणं9a 10दण्डपादा10aतु सा स्मृता ॥ ४४

Abh

अथ भुजङ्गत्रासिता–द्वितीयोरुमूलक्षेत्रान्तं कुञ्चितमुत्क्षिप्य कटिजानुनिवर्तनेन नितम्बसम्मुखपार्ष्णित्र्यश्रमूरुं विवर्तयेत् । स्वपार्श्वगजानुकमुत्तानपादतलं कुर्यादिति पादोपान्तभुजगभयभावितगतिसादृश्याद्भुजङ्गत्रासिता ।

अथ हरिणप्लुता–अतिक्रान्तचार्युक्तकुञ्चितं पादमुत्क्षिप्योत्प्लुत्य च तमेव पातयेत् तदनन्तरं द्वितीय जङ्घा अञ्चितपाता सती पृष्ठभागे पश्चाद्देशे क्षिप्ता कार्येति मृगप्लुतितुल्या, “सव्धि (? त्थि)होदु” इत्यादौ विदूषकादेर्द्दश्यते ।

अथ दण्डपादा–नूपुरपादोक्तं कुञ्चितं पादं द्वितीयपार्ष्णिगं कृत्वाग्रतः प्रसारयेत्; कथं, क्षिप्रं कृत्वा तथा आविद्धकरणं, आविद्धस्वदेहक्षेत्रसम्मुखीकृतजान्वग्रात् क्रिया यत्र । ऊरुजानुजङ्घस्य स्तब्धत्वेन दण्डाकारत्वादृण्डपादा ।

Notes

1 –उत्क्षिप्य कुञ्चितं पादं 2 –निवर्तयेत् –प्रवर्तयेत् –सममूरु निवर्तयेत् 3 –विवर्तेन निवर्ताच्च प–विवर्तं च 3a: N भुजङ्गत्रासिता स्मृता 4 भमयोः भुजङ्गत्रासितानन्तरं तत्पाठक्रमेणोत्कीर्णालक्षणं वर्तते । यथा– कुञ्चितं पादमुत्क्षिप्य जानु चोर्ध्वं प्रसारयेत् । पादपृष्ठेन चोत्कीर्णा सोत्कीर्णा चारिरिष्यते ॥ –अतिक्रान्तं क्रमं 5 –त्रिकं तु परिवर्तयेत् N –समुत्प्लुत्य 6 N –जङ्घाञ्चितो परि 7 भम–आदर्शयोः भ्रमर्यनन्तरमेव हरिणप्लुतालक्षणं वर्तते– कृत्वा क्रान्तमपाक्रान्तमुत्प्लुत्य च निपातयेत् । जङ्घाञ्चितपरिक्षिप्ता सा भवेद्धारिणप्लुता ॥ 8 भमयोः–उत्कीर्णालक्षणानन्तरमेव दण्डपादायाः । तत्र–स्थित्वा नूपुरपादेन पादमूर्ध्वं प्रसारयेत् । इति पूर्वार्धः । उत्तरार्धः समान एव 9 –क्षिप्तं 9a–N: क्षिप्रमानं विद्धकरणं 10 –दण्डपाता । 10a–N दण्डपादन्तु

1अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् ।
द्वितीयपादभ्रमणात्तलेन भ्रमरी 2स्मृता ॥ ४५

3आकाशिक्यः स्मृता ह्येता ललिताङ्गक्रियात्मिकाः ।
4धनुर्वज्रासिशस्त्राणां 5प्रयोक्तव्या विमोक्षणे ॥ ४६

6अग्रगौ पृष्ठगौ वापि7 ह्यनुगौ वापि8 योगतः ।
पादयोस्तु द्विजा हस्तौ कर्तव्यौ नाट्ययोक्तृभिः ॥ ४७

Abh

अथ भ्रमरी–अतिक्रान्तचार्युक्तं कुञ्चितं पादमुत्क्षिप्य भुजङ्गत्रासितवत् त्र्यश्रमूरुं विवर्त्य द्वितीयपादतलभ्रमणे त्रिकं परिवर्तयेदिति सर्वशरीरपरिवर्तनद्वारेण नेमिभ्रमणाद्भमरी ।

इतिकर्तव्यताशेषं विनियोगादिकं चासां दर्शयति–ललिताङ्गक्रियात्मिका इति धनुर्वज्रेत्यादि च । अथ कायशोभां निरूपयन् व्यापकविनियोगं चारीणां दर्शयति– अग्रगावित्यादि । इदं तात्पर्यं–इह कदाचिद्गतेः प्राधान्यं, कदाचिद्धस्तव्यापारस्य, कदाचिद्द्वयोः, आद्ये पक्षे पादविक्षेपस्यानुगौ तदनुसारिणौ तत्पश्चाद्भाविनौ च हस्तौ, द्वितीये हस्तव्यापारस्यानुसारेण पश्चाद्भावेन च पादौ, तृतीये द्वयोरपि । तुल्यकालताविनियोगपारतन्त्र्येण च प्रवृत्तिः । योग औचित्यम् । कायशोभायोजनायेह चात्राध्यायाग्रे चार्यः प्रस्तुताः

Notes

1 –आक्षिप्तकरणं ,N– आक्षिप्तचरणं 2 –तलने भ्रमरी –भ्रमरा 3 भमयोः श्लोकद्वयस्थाने– एतास्त्वाकाशगाश्चार्यो ललिताश्चरणाश्रयाः । धनुर्वज्रादिशस्त्राणां कर्तव्यास्तु विमोक्षणे ॥ () (धनुश्शस्त्रप्रहरणे कर्तव्यास्तु विचक्षणैः) () सर्वासामेव चारीणां पृष्ठतस्त्वग्रतोऽपि वा । आकीर्णपतनं यत्स्याच्चारीविद्धं तु तद्भवेत् ॥ अग्रगौ समगौ वापि पुनश्चाप्यनुगौ तथा । (पुनश्चाप्यन्यथा हि तौ–) पादयोर्नर्तकैर्हस्तौ प्रयोक्तव्यौ सुसंगतौ ॥ (चारीणां–) 4 – धनुर्वज्रासिशस्त्राणां योक्तव्या शस्त्रमोक्षणे । 5 –प्रयोक्तव्यास्तु –प्रयोक्तव्या प्रयोक्तृभिः 6 , N –अग्रगौ वापि समगावनुगौ चापि योगतः । 7 –चापि 8 –चापि

यतः पादस्ततो हस्तो 1यतो हस्तस्ततस्त्रिकम् ।
पादस्य निर्गमं कृत्वा2 तथोपाङ्गानि योजयेत्3 ॥ ४८

4पादचार्यां यथा पादो धरणीमेव गच्छति ।
एवं हस्तश्चरित्वा तु कटीदेशं समाश्रयेत् ॥ ४९

एताश्चार्यो मया प्रोक्ता ललिताङ्गक्रियात्मिकाः5 ।
6स्थानान्यासां प्रवक्ष्यामि सर्वशस्त्रविमोक्षणे ॥ ५०

वैष्णवं समपादं च वैशाखं मण्डलं तथा ।
7प्रत्यालीढं तथालीढं स्थानान्येतानि षण्णृणाम्8 ॥ ५१

Abh

(१०–७३) इति तत्प्राधान्यं यदा भवति तदा प्रयोजना कीदृशी कार्येति स्पष्टयितुमाह–यतो हस्त इति । तथेति तेनैव प्रकारेण, उपाङ्गानि भ्रूनेत्रादीनि । ननु पादस्य क्रियायां यदि हस्तस्य गतिक्रिया तर्हि तद्विश्रान्तौ हस्तस्य को वृत्तान्त इत्याशङ्क्याह–पादचार्यामिति समाप्तायामिति शेषः । एवकारोऽप्यसंभावनां निरस्यते । हस्त इति । अर्धचन्द्रो नृत्ते नाट्ये, नृत्ते तु पक्षप्रद्योतौ पक्षवञ्चितावपि पादस्य धरणीप्राप्तौ कीदृक् कायसन्निवेश इत्याशयेन स्थानकान्यभिधित्सुः पूर्वोपसंहारपूर्वकं प्रतिजानीते –एताश्चार्य इति । ललितत्वमङ्गस्य यत इयतीभिरेवेमा उत्तानत्वे तावानेव गतिप्रकार इति यावत् । स्थानानि भावे करणेऽधिकरणे वा व्युत्पत्त्या कायसन्निवेशाश्च या उच्यन्ते । सर्वशस्त्रविमोक्षण इति साधारणो विनियोग उक्ता । आसामपि चारीणं गतिरूपत्वं गतेश्च पूर्वं पश्चाद्भाविनी स्थितिरिति भावः । नृणामिति स्थानकानि

Notes

1 –यतः पादस्ततः 2 –ज्ञात्वा –निर्गतिं कृत्वा –पादस्य तु गतिं ज्ञात्वा 3 –ततो वाङ्गानि योजयेत् –तत्रोपाङ्गानि –तत्राङ्गानि प्रयोजयेत् । 4 –पादचार्या –पादाचार्यो –कृत्वा चारीं यथा पादो 5 –क्रियाश्रयाः –समाश्रयाः 6 –स्थानानि संप्रवक्ष्यामि 7 –प्रत्यालीढमथालीढं 8 –नर्तॄणां स्थानकानि षट् ।

1द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् ।
तयोस्समुत्थितस्त्वेकसत्र्यश्रः पक्षस्थितोऽपरः ॥ ५२

किंचिदञ्चितजङ्घं च2 सौष्ठवाङ्गपुरस्कृतम्3 ।
वैष्णवं स्थानमेतद्धि विष्णुरत्राधिदैवतम् ॥ ५३

स्थानेनानेन कर्तव्यः संलापस्तु स्वभावजः4 ।
5नानाकार्यान्तरोपेतैर्नृभिरुत्तममध्यमैः ॥ ५४

[6चक्रस्य मोक्षणे चैव धारणे धनुषस्तथा7 ।
8धैर्योदात्ताङ्गलीलासु 9तथा क्रोधे प्रयोजयेत् ॥ ५५

Abh

तु निरूपयिष्यन्त इत्यर्थः । पक्षास्थित इति पार्श्वाभिमुखाङ्गुलिः । त्र्यश्र इति किंचिदग्राभिमुख्यमस्पृशत् । अञ्चिता कुटिला जानुनामनाज्जङ्घा यत्र । सौष्ठवे यदङ्गं वक्ष्यते तेन पुरस्कृतं पूजितं, सौष्ठव अप्रधाने वा अङ्गपुरस्कृतं प्रधानम् । हि यस्मात् विष्णुरत्राधिदैवतम् तस्माद्वैष्णवम् । तेन तस्य तादृशस्य वाऽस्त्रीप्रधानस्य सूत्रधारादेः प्रयोगे स्थानकमिदम् । एवमुत्तरत्र मन्तव्यम् । एतदे–

Notes

1 भमयोर्वैष्णवलक्षणं तु स्वभावसंस्थिस्त्वेकस्त्र्यश्रः पक्षस्थितोऽपरः । किंचित्तथाञ्चिता जङ्घा समुन्नतमुरस्तथा ।। हनुशीर्षे समे चैव कर्णादष्टाङ्गले स्थिते । उरः स्थानाच्च चिबुकं चतुरङ्गलसंस्थितम् ।। कटकस्त्रिपताको वा दक्षिणो नाभिसंस्थितः। त्रिपताकोऽर्धचन्द्रो वा वामः कटितटाश्रितः ।। पादयोरन्तरं यत्तत्तलद्वयमितं भवेत् । ज्ञेयं तद्वैष्णवं स्थानं कार्यमुत्तममध्ययोः ।। (विष्णुरत्राधिदैवतम्–) स्थानेनानेन कर्तव्यः सल्लापस्तु स्वभावजः । शेषं कार्यमनेनैव यदवस्थेन कर्मणा ।। 2 –जङ्घोऽसौ –जङ्घश्च 3 –समन्वितम् ढड–समन्वितः 4 –प्रभावतः 5 –नानाकार्यान्तरोपेतो 6 नद–आदर्शयोः “चक्रस्य” आदि “योजितम्” इति पर्यन्तो भागो न वर्तते । 7 –धनुषि स्थिते 8 जझयोस्त्रयः श्लोका न सन्ति –धैर्यदानाङ्ग –धैर्यादानाङ्ग 9 –तथोद्वाह्यः ।

इदमेव विपर्यस्तं प्रणयक्रोध1 इष्यते ।
उपालम्भकृते चैव प्रणयोद्वेगयोस्तथा2 ।। ५६

शङ्कासूयोग्रताचिन्तामतिस्मृतिषु चैव हि ।
दैन्ये 3चपलतायां च गर्वाभीष्ठेषु शक्तिषु ।। ५७

श्रृङ्गाराद्भुतबीभत्सवीरप्राधान्ययोजितम् ।]
4समपादे समौ पादौ तालमात्रान्तरस्थितौ ।। ५८

स्वभावसौष्ठवोपेतौ5 ब्रह्मा चात्राधिदैवतम् ।
अनेन कार्यं 6स्थानेन 7विप्रमङ्गलधारणम्8 ।। ५९

9रूपणं पक्षिणां चैव 10वरं कौतुकमेव च ।
11स्वस्थानां स्यन्दनस्थानां विमानस्थायिनामपि ।। ६०

लिङ्गस्थानां व्रतस्थानां स्थानमेतत्तु कारयेत्12 ।
13तालास्त्रयोऽर्धतालश्च पादयोरन्तरं भवेत् ।। ६१

Abh

वाह–स्थानेनानेनेति, स्वभावजः अनावेशितः । (विप्रमङ्गलेति) विप्रैः क्रियमाणं यन्मङ्गलाशीर्वचनादि तस्य धारणं प्रतीप्सन् । स्वस्थादीनामिदं स्थानकम् । लिङ्गस्थाः शैवाद्याः व्रतस्था ऊर्ध्वकायादिप्रज्ञाङ्गाः (?)। निषण्णावचलौ विश्रान्तौ तु (ऊरू) यत्र सूच्यपेक्षया । कियत्याकाशदेश इत्याह–तालास्त्रयोऽर्धता

Notes

1 –प्रणयः कोपः 2 –प्रकर्षाधिबलस्तथा 3 –चपलतायोगे 4 भमयोः–पदभ्यां तालान्तरस्थाभ्यां समपादं प्रकीर्तितम् –समपादसमौ 5 –सौष्ठवोपेतं 6 –कार्या 7 –क्षिप्र 8 –सत्क्रिया –कारणम् 9 –कर्तव्यं स्यादनेनैव वरकौतुकमङ्गलम् 10 –परं –पर 11 –स्वस्थानां 12 –समपादं प्रयोजयेत् 13 –तालाश्चत (स्त्र ?) योऽर्धतालं च निष्ण्णोरु प्रकल्पयेत् –द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् । तालास्त्रयोऽर्धतालश्च निष्ण्णोरु प्रवर्तयेत् (निषण्णार्धस्तथैव च–) जङ्घे चैवाञ्चिते यत्र पादौ पक्षस्थितौ पुनः ।

तालांस्रीनर्धतालांश्च1 निषण्णोरुं2 प्रकल्पयेत् ।
3त्र्यश्रौ पक्षस्थितौ चैव 4तत्र पादौ प्रयोजयेत् ।। ६२

वैशाखस्थानमेतद्धि5 स्कन्दश्चात्राधिदैवतम्6 ।
स्थानेनानेन 7कर्तव्यमश्वानां वाहनं बुधैः ।। ६३

8व्यायामो निर्गमश्चैव स्थूलपक्षिनिरूपणम्9 ।
10शरासनसमुत्कर्षे व्यायामकृतमेव च ।। ६४

रेचकेषु च कर्तव्यामिदमेव प्रयोक्तृभिः ।
11ऐन्द्रे तु मण्डले पादौ 12चतुस्तालान्तरस्थितौ ।। ६५

13त्र्यश्रौ पक्षस्थितौ चैव कटिजानू समौ तथा14 ।
15धनुर्वज्राणि शस्त्राणि मण्डलेन प्रयोजयेत् ।। ६६

वाहनं कुञ्जराणां तु16 स्थूलपक्षिनिरूपणम्17 ।

Abh

लाश्चेति सार्धतालत्रयादधो नभोदेश इत्यर्थः । विशाखः स्कन्दः । व्याप्याङ्गा– नामेव युद्धादौ निर्गमनात् तेषामेव वेगादानपार्ष्णिचोदनाक्रमेण । ऐन्द्रे त्विति शेषं द्योतयन् सार्धतालद्वयान्तर्न भोदेशनिष्णणोरुत्वमत्रापि सूचयन्निति । मण्डलेश्वरविषयत्वान्मण्डलम् । अश्वानां वाहने वैशाखं, इदं तु हस्तिनां तेभ्यस्स्थूलानामिति प्रक्रमात् [स्थूलतमात्] पक्षिणोऽत्र गरुडादयो मन्तव्याः ।

Notes

1 –तालं च 2 –निषण्णोरु 3 –त्र्यश्रौ पक्षस्थितौ चैव कटिजानुसमौ तथा । धनर्वज्रादिशस्त्राणां तत्र पादौ प्रयोजयेत् ।। 4 –पादावत्र 5 –वैशाखं नाम तत्स्थानं 6 –तस्याधिदैवतम् 7 –कर्तव्यं हयानां 8 –व्यायामनिर्गमं –व्यायामनिर्गमश्चैव 9 –प्रयोगो धनुषस्तथा 10 दजझनपभम–आदर्शेष्वयं श्लोको न वर्तते –शराणां च समुत्क्षेपं 11 –ऐन्द्रन्तु मण्डलं 12 –चतुस्तालान्तरं 13 –कटी जानुसमा चैव करौ पक्षस्थितौ तथा 14 –जानुसमास्थिता 15 –धनुर्वज्रादि –धनुर्वज्रं प्रहरणं मण्डलेन तु योजयेत् 16 –च 17 – पक्षतिरूपणम् –पक्षनिरूपणम् ।

अस्यैव दक्षिणं पादं पञ्चतालान्1 प्रसार्य तु ।। ६७

2आलीढं स्थानकं कुर्याद्रुद्रश्चास्याधिदैवतम् ।
अनेन कार्यं स्थानेन 3वीररौद्रकृतं तु यत् ।। ६८

उत्तरोत्तरसंजल्पो रोषामर्षकृतश्च यः4 ।
मल्लानां चैव 5संफेटः शत्रुणां च निरूपणम् ।। ६९

6तथाभिद्रवणं चैव शस्त्राणां चैव मोक्षणम् ।
7कुञ्चितं दक्षिणं कृत्वा वामपादं प्रसार्य च ।। ७०

आलीढपरिवर्तस्तु प्रत्यालीढमिति स्मृतम्8 ।
आलीढसंहितं 9शस्त्रं प्रत्यालीढेन मोक्षयेत्10 ।। ७१

नानाशस्त्रविमोक्षो हि कार्योऽनेन प्रयोक्तृभिः11 ।
12न्यायाश्चैवात्र विज्ञेयाश्चत्वारः शस्त्रमोक्षणे ।। ७२

भारतः सात्वतश्चैव वार्षगण्योऽथ कैशिकः13 ।

Abh

अस्यैवेति निषण्णोरुत्वं तथा त्र्यश्रत्वं द्वयोः सूचयति । आसमन्ताल्लीढा स्पृष्टा भूमिर्येनेत्यालीढम् । संफेटः संघर्षः ।

आलीढपरिवर्त इतीयदेव लक्षणं पूर्वमुक्तं त्वितिकर्तव्यतास्पष्टकरणार्थम् । कुञ्चितमिति प्रसारणविपरीतं भूय उत्तानाकुञ्चितोऽत्र पादः । ननु प्रयोक्तृभिः शस्त्रविमोक्षः कार्य इत्युक्तम् । तस्य प्रयोक्तृभिः न्यायानामित्यादि

Notes

1 -तालं 2 -आलीढस्थानमेतत्तु विज्ञेयं नाट्यकर्मणि 3 -रौद्रवीर 4 -समुद्भवः -कृताश्रयः 5 -संस्फोटः 6 -तथाहिद्रवणं -तथा विद्रावणं -तथा विद्रवणं चैव शस्त्राणां च विमोक्षणम् 7 जझयोः अञ्चितं -वामं पादं 8 -परिवर्ते यः प्रत्यालीढं तु तत् स्मृतम् -प्रत्यालीढ इति स्मृतः 9 -आलीढे सन्धितं -आलीढसन्धितं -आलीढसहितं 10 - मोचयेत् 11 -कार्यो व्यायामयोगतः 12 -न्यायाश्चैव प्रयोक्तव्या -न्यायाश्चैव हि 13 -कौशिकः -वार्षगण्यः सकैशिकः ।

भारते तु1 कटिच्छेद्यं2 3पादच्छेद्यं तु सात्वते ।। ७३

4वक्षसो वार्षगण्ये तु शिरश्छेद्यं तु कैशिके ।
एभिः प्रयोक्तृभिर्न्यायैर्नानाचारीसमुत्थितैः5 ।। ७४

6प्रविचाराः 7प्रयोक्ताव्या नानाशस्त्रविमोक्षणे ।
8न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः ।। ७५

9यस्माद्युद्धानि वर्तन्ते तस्मान्न्यायाः प्रवर्तिताः ।
वामहस्ते विनिक्षिप्य10 खेटकं दक्षिणेन च ।। ७६

शस्त्रमादाय हस्तेन प्रविचारमथाचरेत्11 ।
12प्रसार्य च करौ सम्यक् पुनराक्षिप्य चैव हि13 ।। ७७

खेटकं भ्रामयेत्पश्चा14त्पार्श्वात्पार्श्वमथापि च ।
शिरः परिगमश्चापि कार्यः शस्त्रेण योक्तृभिः ।। ७८

15कपोलस्यान्तरे वापि16 शस्त्रस्योद्घट्टनं तथा17 ।

Abh

व्यायामाच्चेति नामानुसारादेषां वृत्तिविभागे परिशेषता । आरभट्या वार्षगण्यः । कटिच्छेद्यमिति भावे कृत्यं । कटीस्थानादिषु परस्य हन्तव्येष्वतिक्रमेण चत्वारः । एभिरिति एभिर्न्यायैरुपलक्षिताः शस्त्रमोक्षणविषयाः प्रविचाराः प्रकृष्टा विचित्रा गतिविशेषाः परिश्रान्तिशब्दाश्चारीव्यायामखण्ड- मण्डलात्मकाः कार्याः । न्यायशब्दस्यार्थं दर्शयति न्यायेनाङ्गौचित्येन यान्यङ्गोदाहर-

Notes

1 -च 2 -कटिच्छेदं 3 -पादे 4 -वार्षगण्ये ह्युरश्लेद्यं 5 -न्याये नानाचारीसमन्विते । 6 -प्रविचारः -प्रविचार्य -प्रविचार 7 -प्रयोक्तव्यः सर्व -प्रयोक्तव्यो -प्रयक्तव्यो नानाशस्त्रप्रमोक्षणे 8 -न्याय्याश्रितैरङ्गहारैर्न्याय्याच्चैव -न्यायंश्रितेः 9 -तस्मात् -न्याय्याः प्रकीर्तिता -वामहस्तेन

1पुनश्च 2खङ्गहस्तेन ललितोद्वेष्टितेन च ।। ७९

खेटकेन च कर्तव्यः शिरःपरिगमो बुधौः ।
एवं 3विचारः कर्तव्यो भारते शस्त्रमोक्षणे ।। ८०

4सात्वते च5 प्रवक्ष्यामि प्रविचारं यथाविधि ।
6स एवं प्रविचारस्तु शस्त्रखेटकयोः स्मृतः ।। ८१

केवलं पृष्ठतः 7शस्त्रं 8कर्तव्यं खलु सात्वते ।
गतिश्च वार्षगण्येऽपि9 सात्वतेन क्रमेण तु10 ।। ८२

11शस्त्रखेटकयोश्चापि12 भ्रमणं संविधीयते13 ।
14शिरः परिगमस्तद्वच्छस्त्रस्येह भवेत्तथा15 ।। ८३

उरस्युद्वेष्टनं कार्यं शस्त्रस्यांसेऽथवा पुनः16 ।
भारते प्रविचारो यः17 कर्तव्यस्स तु18 कैशिके ।। ८४

19विभ्रमय्य19a तथा शस्त्रं केवलं मूर्ध्नि पातयेत् ।

Abh

णादि न्यायादेव च परबन्धनस्वभाविताप्तिरूपात् प्रवर्तितानि तैः यत एतयोः क्रिया अतो न्यायाख्याः। अथापि चेत्यनन्तरं चेत्यर्थः । परिवेष्टनेन गमनं नयनं परिगमः । मणिबन्धोद्वेष्टनेन शस्त्रस्योद्वेष्टनं उद्वेल्लितेनेत्युद्वेष्टितेन । पृष्ठत इति कायस्य पश्चाद्भागे । युद्धप्रसङ्गेन सर्वं प्रयोज्यमापततीत्याशङ्क्याह-

Notes

1 -तथा शृङ्गारहस्तेन 2 -शृङ्ग -खण्ड 3 -प्रचारः -कार्यः प्रविचारो 4 -सात्त्वते तु प्रविचारं व्याख्यास्याम्यनुपूर्वशः 5 डन-तु 6 -य एवं -एवमेव -स एव 7 -खङ्ग 8 - नेतव्यं तत्र 9 N-वार्षगण्ये हि 10 - च 11 - खङ्ग 12 दम N-कार्यं 13 N- द्विजसत्तमाः -संनिधीयते 14 -शिरः परिगमादस्मिंस्तस्य शस्त्रस्य केवलम् 15 -भवेदिह 16 -अंशेन चात्मनः -अङ्गेन वा पुनः -शस्त्रस्यादिषु वा पुनः 17 -चारोऽयं 18 -हि 19 भमयोः सार्धश्लोकस्य पाठान्तरम् - केवलं विभ्रमय्यास्त्रं शिरोदेशे प्रयोजयेत् । एवमेते प्रविचाराः प्रयोज्यास्त्वङ्गलीलया । शस्त्रे धनुषि वज्रे च नानाविधविमोक्षणे । 19 a: N: विभ्रमस्य

प्रविचाराः प्रयोक्तव्या1 ह्येवमेतेऽङ्गलीलया2 ।। ८५

3धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या विमोक्षणे ।
न भेद्यं 4नापि च च्छेद्यं न चापि रुधिरस्रुतिः5 ।। ८६

रङ्गे 6प्रहरणे कार्यो7 न चापि व्यक्तघातनम्8 ।
संज्ञामात्रेण कर्तव्यं9 शस्त्राणां मोक्षणं बुधैः ।। ८७

10अथवाभिनयोपेतं कुर्याच्छेद्यं विधानतः ।
11अङ्गसौष्ठवसम्पन्नैरङ्गहारैर्विभूषितम् ।। ८८

व्यायामं कारयेत्सम्यग्लयतालसमन्वितम्12 ।
13सौष्ठवे हि प्रयलस्तु कार्यो व्यायामवेदिभिः14।। ८९

15सौष्ठवं लक्षणं 16प्रोक्तं वर्तनाक्रमयोजितम् ।
शोभा सर्वैव नित्यं हि127 सौष्ठवं समुपाश्रिता ।। ९०

न हि सौष्ठवहीनाङ्गः शोभते नाट्यनृत्तयोः18 ।

Abh

न भेद्यमिति भावे प्रत्ययः । संज्ञामात्रेणेति यथा परो जानाति युध्येते इमाविति एवं त्विमावित्यादिविषयं निधाय नाटकादौ संज्ञामात्रेणापि तेन नानुचितमिति दर्शयति । अथवेति व्यवस्थितविकल्पः । अङ्गसौष्ठवं यदुक्तं तस्य सिद्धये परिकरमाह व्यायाममिति । व्यायामोऽङ्गशिक्षाभ्यामङ्गयोग्यकालमेव एवं द्रुतादेः

Notes

1 -च कर्तव्याः -प्रकर्तव्या 2 -अङ्गनालये 3 -धनुर्वज्रादि 4 -नैव -नापि तु 5 नमद, N-स्रवः 6 -प्रहरणैः 7 -कार्ये -कार्यं 8 -पातनम् 9 -योक्तव्यं -मात्रे प्रयोक्तव्यं 10 -अथ त्वभिनयोपेतं - अथवाभिनयोपेतं 11 -अङ्गसौष्ठवसंयुक्तं -अङ्गैः सौष्ठवसंयुक्तैः 12 -समन्वितः 13 -सौष्ठवे तु -सौष्ठवेऽतिप्रयत्नस्तु -प्रयत्नः सौष्ठवे कार्यो बुधैर्व्यायामयोगतः 14 , N-सेविभिः 15 अयं श्लोकः जझडढनपभादिष्वादर्शेषु नास्ति चम- सौष्टवे 16 -प्रोक्तवर्त्मना 17 - च 18 -नाटके शोभते नरः ।

अचञ्चलमकुब्जं1 च सन्नगात्रं तथैव च2 ।। ९१

3नात्युच्चं चलपादं च 4सौष्ठवाङ्गं प्रयोजयेत् ।
5कटी कर्णसमा यत्र कूर्परांसशिरस्तथा ।। ९२

समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् ।
6अत्र नित्यं प्रयोत्नो हि विधेयो मध्यमोत्तमैः ।। ९३

नाट्यं नृत्तं च सर्वं हि सौष्ठवे संप्रतिष्ठितम् ।
7कटीनाभिचरौ हस्तौ वक्षश्चैव समुन्नतम् ।। ९४

8वैष्णवं स्थानमित्यङ्गं9 चतुरश्रमुदाहृतम् ।
10परिमार्जनमादानं 11सन्धानं मोक्षणं तथा ।। ९५

12धनुषस्तु प्रयोक्तव्यं करणं तु चतुर्विधम् ।
13 प्रमार्जनं14 परामर्श आदानं ग्रहणक्रिया13a ।। ९६

Abh

एवं द्रुतादेः चञ्चत्पुटादेश्चानुसन्धेरङ्गमात्मीकृतन्तालाख्यं पठ्यते । सन्नं स्वविश्रान्तिपरिणतं गात्रं यस्य । कूर्परांसशिर इति प्राण्यङ्गत्वादेकवद्भावः । तथेति साम्येनेत्यर्थः । अधमानामत्र स्वातन्त्र्यं दर्शयति मध्यमोत्तमैरिति । सौष्ठवं यदर्थं तत्सर्वसामान्यभूतं चातुरश्र्यमाह-कटिनाभिचराविति क्रमेण यौगपद्येन च । खङ्गयुद्धे यथान्यायास्तथा धनुर्युद्धेऽपि कर्माणि सन्तीति दर्शयति । प्रमार्जनमिति प्रथमं धनुषो मार्जनं ततोऽपि बाणेन ग्रहस्ततोऽपि शरस्य सन्धानं ततो मोक्षः । व्यायामे प्रस्तुते तदुपयोगि सौष्ठवं तत्प्रसङ्गागतं च धनुः-

Notes

1 -आकुञ्चं 2 N-अथापि च 3 -नात्युच्चं न निपातं च - नात्युच्चतलपातं -नात्युच्चं च निपातं च 4 -सोष्ठवेऽङ्गं -सौष्ठवे तं 5 -कटीकर्णसमौ यत्र कूर्परावंसके शिरः 6 -आदर्श एव दृश्यते 7 -कटिवक्षश्चरौ डद-कटिनाभिचरौ 8 -वैष्णवं च तथा स्थानमङ्गैस्तु चतरं भवेत् । 9 -इत्यङ्गचतुरश्रं 10 -परिमार्जनमातानं 11 -बन्धनं 12 -धनुषः संविधातव्यं -धनुषस्तु प्रकर्तव्यं 13 अंय श्लोकः कचदभ-आदर्शेषु न वर्तते 13a: N: तैलाभ्यक्तेन गात्रेण यवागूस्वेदितेन च । 14 -संमार्जंनं ।

1संधानं शरविन्यासो विक्षेपो मोक्षणं भवेत् ।
तैलाभ्यक्तेन गात्रेण 2यवागूमृदितेन च ।। ९७

व्यायामं कारयेद्धीमान् भित्तावाकाशिके तथा3 ।
4योग्यायां मातृका भित्तिस्तस्माद्भित्तिं5 समाश्रयेत् ।। ९८

6भित्तौ प्रसारिताङ्गंतु व्यायामं कारयेन्नरम् ।
7बलार्थं च निषेवेत नस्यं वस्तिविधिं8 तथा ।। ९९

9स्निग्धान्यन्नानि च तथा रसकं पानकं 10aतथा10 ।
11आहाराधिष्ठिताः प्राणाः 12प्राणे योग्याः प्रतिष्ठिताः ।। १००

तस्माद्योग्या13प्रसिद्द्यर्थमाहारे यत्नवान् भवेत् ।
अशुद्धकायं 14प्रक्लान्तमतीव क्षुत्पिपासितम् ।। १०१

Abh

कर्माभिधाय प्रयोगमेव व्यायाममाह-तैलाभ्यक्तेनेति । तैलमत्र तिलतैलम् । यवागूर्यवान्नम् । योगाय विद्याविशेषसंबन्धाय प्रभवतीति योग्या गुणनिका । तस्य वस्तिविधिश्च तैलघृतादिभिः यथादेशकालप्रकृतीति मन्तव्यमायुर्वेदात् । रसकमिति मांसरसं सेवेतेति संबन्धः । पानकानि च स्निग्धानीति संबन्धः । योग्या वा किमनेनेत्याशङ्कयाह-आहाराधिष्ठिता इति । अशुद्धकायमित्यनेन वमनविरेचनविशुद्धगात्रस्य व्यायामेऽधिकार इति दर्शयति । अशुद्धगात्रत्वं

Notes

1 -बन्धनं 2 -यवाश्चाखेदितेन -यवाग्वास्वेदितेन -यवागूत्स्वेदितेन - यवागूखदितेन 3 -आकाशिकेऽपि वा -हितावाकाशिके तथा -आकाशके तथा 4 -योग्यतायां -योग्याय 5 -भित्यां 6 -भित्तिप्रसारिताङ्गस्तु -भित्त्यामृजुकृताङ्गस्तु व्यायामे शोभते नरः -भित्तौ प्रसारिताङ्गस्तु 7 - कारयेद्बुधः -कारयेन्नरम् 8 -बलार्थस्तु 9 -वर्तिविधिं -च त्रिविधं -वस्तिविधिस्तथा 10 -स्निग्धान्यन्नान्यभीष्टानि -स्निग्धान्यन्यान्यश्नानि दम-पानकानि च, 10a:N: स्निग्धान्यन्यान्यनुष्णानि रसकं पानकानि च ।। 11 -आहारे 12 -प्राणयोग्यान् 13 -प्रतिष्ठार्थं 14 -प्रश्रान्तं.

1अतिपीतं तथा भुक्तं 2व्यायामं नैव कारयेत् ।
अचलैर्मधुरैर्गात्रैश्चतुरश्रेण वक्षसा ।। १०२

व्यायामं कारयेद्धीमान्नरमङ्गक्रियार्थिनम्3 ।
एवं व्यायामसंयोगे4 कार्यश्चारीकृतो5 विधिः ।। १०३

अत उर्ध्वं6 प्रवक्ष्यामि मण्डलानां विकल्पनम्7 ।।

इति 8भारतीये नाट्यशास्त्रे चारीविधानो9 नाम 10दशमोध्यायः ।।

Abh

चाजीर्णयोगेऽपि । प्रक्लान्तमिति अध्वश्रमादिना । अचलैरिति यत्र यत्र क्रियायां योज्यते तत्र तत्रैव प्राप्तपरिणतिभिरित्यर्थः। मधुरैरिति ललितैः । अङ्गक्रिया अङ्गसिद्धिः । एवमित्युपसंहरन्नध्यायान्तरमासूत्रयति । (विकल्पनं) विचित्रतयां कलयन्ते येन प्रकारेण तं वक्ष्यामीति सूत्रयन्नङ्गानुसारायातचारीपरम्परात्मनां मण्डलात्मनामसङ्खयेयत्वं सूत्रयन्नुदाहरणमात्रार्थमध्यायान्तरमिति निरूपयतीति शिवम् ।

इत्थं दशममध्यायं व्याचष्टे च समासतः ।
शिवस्मृतिकृतार्थोऽपि परार्थं 1दुःखलात्मजः ।।

इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायां 2नाट्यवेदविवृतावभिनवभारत्यां चारी-विकल्पो नाम दशमोऽध्यायः ।।

।।श्रीः।।

Notes

1 - अति भुक्तं तथा पीतं 2 -व्यायामे 3 -क्रियात्मकम् 4 -संपत्तौ 5 -गतौ 6 -परं 7 -खण्डमण्डललक्षणम् 8 -श्रीभारतीये 9 -N-चारीविधानं -चारीविकल्पनं नामैकादशोऽध्यायः (श्लो-९२ आदितः १८२९) भम -अध्यायो दशमः 10 N(जादि बान्तेष्वादर्शेषु “एकादशोऽध्यायः”.) 1 दुस्सलात्मजः 2 नाट्यवेदवृत्तौ.