०९ आङ्गिकाध्यायः

श्रीः

नाट्यशास्त्रम्

नवमोऽध्यायः ।

1एवमेतच्छिरोनेत्रभ्रूनासोष्ठकपोलजम्2 ।
3कर्म लक्षणसंयुक्तमुपाङ्गानां4 मयोदितम् ॥ १

5हस्तादीनां प्रवक्ष्यामि कर्म नाट्यप्रजोजकम्6 ।
यथा येनाभिनेयं च गदतो मे निबोधत7 ॥ २

हस्तोरःपार्श्वजठरकटीजङ्घोरुपादतः8 ।
लक्षणं सम्प्रवक्ष्यामि 9विनियोगं च तत्त्वतः ॥ ३

Abh

अलङ्क्रियन्ते गात्राणि यत्स्पर्शविवशस्थितेः ।
स्पर्शतन्मात्रवपुषं संस्तुमः परमेश्वरम् ॥

शिष्याणामनुसन्धानवृद्धये प्राक्तनार्थोपसंहारपूर्वकं वक्र(स्त्व?)न्तरमासूत्रयन्नाह एवमेतदित्यादि1 । क्रियत इति कर्म अभिनेयमिर्त्थः । हस्तादीनामिति पादान्तानामनेनाध्यायेन लक्षणं वक्ष्यामि । 2विनियुज्यतेऽनेनेति (विनियोगः) तद्यथा- ‘एषोऽग्निवर्षधारानिरूपण3 (तुलनाः ९-२०)’ मित्यादि, तत्र चेतिकर्तव्यता-तद्यथा ‘प्रविरलचलिताङ्गुलि’ (९-२०) रित्यादि । तत्त्वत4 इति । अभिनयस्य द्विविधा 5इतिकर्तव्यता लोकधर्मी नाट्यधर्मी च । आद्या

Notes

पताकस्त्रिपताकश्च 1तथा वै कर्तरीमुखः ।
अर्धचन्द्रो ह्यरालश्च 2शुकतुण्डस्तथैव च ॥ ४

3मुष्टिश्च शिखराख्यश्च कपित्थः 4खटकामुखः ।
सूच्यास्यः पद्मकोशः सर्पशिरा मृगशीर्षकः5 ॥ ५

6काङ्गूलकोऽलपद्मश्च6a चतुरो भ्रमरस्तथा ।
हंसास्यो हंसपक्षश्च सन्दंशो6b मुकुलस्तथा ॥ ६

Abh

द्विविधा–6चित्तवृ–त्त्यर्पकत्वेनानुभावस्य, यथा–‘गर्वेऽप्यहमिति तज्ज्ञैर्ललाटदेशोच्छ्रित’ (तुलना–/?/देशोत्थित ? ९-१९) इति । केवलबाह्यावयवरूपा वा, यथा–पद्मकोशस्य कमपि निरूपणे । नाट्यधर्म्यपि द्विधा–नाट्योपयोगमूलभूतकैशिकीसम्पादनोचितालौकिकशोभाहेतुः यथा– आवेष्टितादिचतुर्विधकरुणरूपा । काचित्त्वंशेन लोकमुपजीवति1, यथा–वर्णातुरेण हस्तेन तत्र व्यवहितेन लोक उपजीव्यते । लोके ह्यनिर्देश्यताशेषं वस्तुनिर्दिदिक्षुरीदृशं तादृशमित्थम्भूतमित्यवसरे प्रयुक्तमेव चतुरैः । एवं जनान्तिकादौ वाच्यम् । नटसमयमात्ररूपा नाट्यधर्मी, समयस्याकिञ्चित्करस्य कल्पने प्रयोजनाभावात् ।

हस्तानुपदिशति पताक इत्यादिना । तथा चशब्देन त्रिपताकः प्रकारस्तस्यैव कर्तरीमुख इति दर्शनात्तन्निष्पत्तये संहिताकार्यदृष्टादध्ययनपरशब्दगतध्यानं शब्दवद्धस्तान्तरत्वेऽपि दृश्यमानेन तद्बुद्धिं विधेयेन दर्शयति । एवमन्येऽपि त्रिपताका(दयो) व्याख्येयाः । क्वचित्तु हस्तसदृशहस्तान्तरस्वीकाराय हंसपक्षश्च सन्दंश इति सन्दंशशब्दान्तरं चकारेण अङ्गुष्ठमध्यमाग्रनिष्पीडिताग्र2मर्मतर्जनीलक्षणोऽपि शून्यभास्वरविद्युदाद्यभिनय– विषये नृत्ताचार्यप्रवाहसिद्धः कोहललिखितोऽपि हस्तः सङ्गतो भवतीति हस्तान्त– राण्युत्प्रेक्ष्याणि । ते त्वसंयुता अपि भवन्ति । संयुतकरणं कार्य इति वक्ष्यते, यतः

Notes

1ऊर्णनाभस्ताम्रचूडश्चतुर्विंशतिरीरिताः2 ।
असंयुताः संयुतांश्च3 गदतो मे निबोधत ॥ ७

अञ्जलिश्च कपोतश्च कर्कटः 4स्वस्तिकस्तथा ।
5खटकावर्धमानश्च6 ह्युत्सङ्गो7 निषधस्तथा ॥ ८

दोलः8 पुष्पपुटश्चैव तथा मकर एव च ।
गजदन्तोऽवहित्थश्च9 10 वर्धमानस्तथैव च ॥ ९

11एते तु संयुता हस्ता मया प्रोक्तास्त्रयोदश ।
नृत्तहस्तानतश्चोर्ध्वं12 गदतो मे निबोधत ॥ १०

Abh

यत्राप्येनन्नास्ति तत्रापि प्रयोगयुक्त्या हस्तद्वयप्रयोगो भवत्येव, यथा परेण हारे नीयमाने भयात्पताकाद्वयस्यांसादिक्षेत्रे पराङ्मुखस्य प्रयोगः । एवं प्रतापनादावपि । एवमन्यत्रोत्प्रेक्ष– णीयम् । किञ्च पताकादीनामपि द्विशो युगपत्प्रयोगे युतत्वमभिनेयविशेषे । तद्यथा कपित्थस्याधस्तादधस्तलः पताकः छेदाभिनये “कुणिच्छ अह, अस्तमच्छरजहिसीसहिच्छ– जत्तंति” (?) । चित्राभिनये चैतत् । एते तु संयुता एव । नत्वेत एव, पताकादीनामपि प्रयोगे क्वचित्संयुतत्वात् । एते च त्रयोदश संयुतताव्यतिरेकेण न स्वार्थस्य गमकाः । एतेषां त्वभिनयहस्तानां छिद्रच्छादनेनैकवर्तनानुप्रवेशादलातचक्रप्रतिमतां दर्शयितुं, मसृणोद्धतवर्तनात्मकतया चैकवाक्यार्थविश्रान्ततां प्रथयितुं, नृत्तस्य च वस्तुभूतत्वेनोक्तस्य स्वरूपमभिधातुं, नृत्यन्त्यौ चेट्याविति नृत्तादिविषये च सूचाङ्कुरादावुपयोगमपि तु दर्शयितुं नृत्तशब्देन विशेष्यं निर्दिशति नृत्तहस्तानित्यादिना । संयुतासंयुतरूपोपजीविन एत इत्येकाकिनोऽपि प्रयुज्यन्ते [नाशंसन्त इति अन्येऽपि न न शंसन्ति…….दर्शयन्ति] नन्विदं

Notes

1चतरश्रौ तथोद्वृत्तौ तथा तलमुखौ स्मृतौ ।
स्वस्तिकौ विप्रकीर्णौ 2चाप्यरालखटकामुखौ ॥ ११

3आविद्धवक्रौ सूच्यास्यौ रेचितावर्धरेचितौ ।
उत्तानवञ्चितौ चैव4 पल्लवौ च तथा करौ ॥ १२

5नितम्बावपि विज्ञेयौ केशबन्धौ तथैव च ।
6लताख्यौ च तथा प्रोक्तौ करिहस्तौ तथैव च ॥ १३

7पक्षवञ्चितकौ चैव 8पक्षप्रद्यौतकौ तथा ।
9ज्ञेयौ गरुडपक्षौ च दण्डपक्षावतः परम्10 ॥ १४

ऊर्ध्वमण्डलिनौ चैव11, 11aपार्श्वमण्डलिनौ तथा ।
उरोमण्डलिनौ चैव उरःपाश्वार्धमण्डलौ ॥ १५

12मुष्टिकस्वस्तिकौ चारि12a नलिनीपद्मकोशकौ ।
13अलपल्लवोल्बणौ च ललितौ वलिंतौ तथा ॥ १६

चतुष्षष्टिकरा ह्येते नामतोऽभिहिता मया ।
14यथालक्षणमेतेषां कर्माणि च निबोधत ॥ १७

Abh

यथा लक्षणं यथा च कर्मण्यभिधेयतेति तथा निबोधतेति सम्बन्धः । अथ यथोद्देशं पताकादीनां लक्षणमाह प्रसारिताः समा इति । समा इति प्रकृतिस्था इत्यर्थः । प्रसारिताग्रा वा इति पाठः । प्रसारिताः प्रधाना इत्यर्थः । सहिता अविरलाः । कृञ्चितत्वं पादस्य वक्ष्यते तल्लक्षणोपजीवनेनाङ्गुष्ठसन्निवेशः कार्य इत्यर्थः । पताकाकारत्वात्पताकः । अत एव पताका–

Notes

1प्रसारिताः समाः सर्वाः 2यस्याङ्गुल्यो भवन्ति हि ।
कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः ॥ १८

एष प्रहारपाते 3प्रतापने 4नोदने प्रहर्षे च ।
5गर्वेऽप्यहमिति तज्ज्ञैर्ललाटदेशोत्थितः6 कार्यः ॥ १९

एषोऽग्निवर्षधारानिरूपणे पुष्पवृष्टिपतने च ।
संयुतकरणः कार्यः प्रविरलचलिताङ्गुलिर्हस्तः ॥ २०

स्वस्तिकविच्युति7करणा8त्पल्वलपुष्पोपहारशष्पाणि9 ।

Abh

प्यनेनैवाभिनेया । एवमन्येष्वपि हस्तेषु नामनिर्वचनानुसारेण विनियोगः प्रदर्शनीयः । प्रविरलचलिताङ्गुवलित्वादियोगेऽपि एकदेशविकारे तत्त्वप्रत्यभिज्ञानात्पूर्वापरकोट्योश्च मूलसन्निवेशाश्रयणात्पताकात्वमेव । एवमन्यत्रापि । प्रहारस्य पातने कर्तव्ये, परेण च क्रियमाणे । 1प्रतापने शीतशमनायाग्नि2स्पर्शग्रहणे, राज्ञां च प्रतापे । शत्रुहृदयम्लान3– निमित्तभूतप्रसिद्धिविशेषात्मनि तथा प्रकृष्टे चोद्धतादपि4 तथोपहरणाय “हस्तच्छत्रनिरुद्धचन्द्रमहस” (विद्धशालभञ्जिका) इत्यादौ । तथा अन्यस्य प्रेरणे अन्येव वा प्रेरणे तद्वारणाय । एषु च यथा लोकप्रसिद्धिः यथा नाट्याचार्यप्रवाहश्च ऊर्ध्वपार्श्वगाधोमुखसम्मुखपराङ्मुखोत्तानत्र्यश्रचञ्जलाचञ्जलत्वादिविभाग उत्प्रेक्षणीयः । प्रहारे हृदयलग्नतल ईषत्कम्पमानः, प्रहर्षे च रोमाञ्चसम्मुख उद्गतः । अपिशब्दार्थसहितो (अहं) यथा अस्मदर्थो भवति अहमपि ममापि मयापि मय्यपीत्यादौ गर्वगर्भे प्रयोगे पार्श्वान्तरात्स्वपार्श्वमागच्छल्ँललाटाभिमुख ऊर्ध्वः कर्तव्यः । एष इति एतस्मिन्नर्थेऽभिनेता स्या(दिति चे) द्विभक्तिरतन्त्रा, एतदर्थनिरूपण इत्यर्थः । अग्नेः धारा ज्वालाः पुष्पवृष्टिग्रहणप्रसिद्धपांसुरक्तादिवृष्टयन्तरोपलक्षणम् । संयुतकरण इति हस्तद्वयमीदृशं कर्तव्यामिर्त्थः । संयुतासंयुतसम्बन्धा लोकोचिता चलनलक्षणा क्रिया

Notes

1विरचितमुर्वीसंस्थं यद्द्रव्यं तच्च निर्दश्यम् ॥ २१

स्वस्तिकविच्युतिकरणात्पुनरेवाधोमुखेन कर्तव्यम् ।
संवृतविवृतं पाल्यं2 छन्नं निबिडं च गोप्यं च ॥ २२

अस्यैव चाङ्गुलीभिस्त्वधोमुख3प्रस्थितोत्थितचलाभिः ।
4aवायूर्मिवेगवेलाक्षोभश्चौघश्च कर्तव्यः4 ॥ २३

Abh

यस्य तेनाग्निज्वालासूर्ध्वगमनं, जलधारासु अधोगमनमङ्गुलीनामूर्ध्वमुखहस्तस्य पुष्पवृष्टौ शिरोदेशे अधोमुखस्य स्थितस्य क्रमाच्चलाङ्गुलेरधोगमनमिति सङ्गृहीतम् । तेनैकाकिनोऽपि यत्प्रयोगदर्शनं तदवरुद्धम् । अ(प्र?)विरलास्सत्यश्चलिताः अ(प्र?)विरलं कृत्वा चलिता अङ्गुल्यो यत्रेति समासः संयुतहस्तलक्षणात् स्वस्तिकमुपजीव्यं नृत्तहस्तलक्षणाद्वा । तेन1 सम्मुखौ पताकौ मणिबन्धभुवि न्यस्तौ कृत्वा बाहुपरिभ्रमणंयुक्त्या, स्वपार्श्वसमं2 विच्युतिः3, तत्क्रियायाः पल्वलं स्वल्पोदकं सरः पुष्पप्रकरं हृद्यं च 4तृणं, यच्च भूमौ पिच्छिलं5 बलितण्डुलवैचित्र्यन्यायेन6 स्थापितं तदाभिनयेदिति लोकांशोपजीविनी नाट्यधर्मी । पुनरेवेति वचनात् स्वस्तिकस्तद्विच्युतिः विच्युतिपूर्वकः स्वस्तिक इति क्रमः । तत्रा(धो)मुखेन स्वस्तिकेन तद्विच्युत्या च संवृतविवृतमर्धं संवृतमर्धं च विवृतम् । यथा–“घटयोद्धाट7कवाटघट्टितजवेन8 इति । पाल्यं पतमानाद्रक्षणीयं विच्युतिपूर्वकं शीघ्रं स्वस्तिककरणात्, छन्नं निबिडं9 स्पष्टं, तथैव गोप्यं, अन्यो मा द्राक्षीदिति, तज्जातं, करणं स्वस्तिककरणात् । चकारेण अपाल्ये, अप्रच्छन्ने, अनतिनिबिडे अगोप्ये चाभिनयः । स च स्वस्तिकविच्युतिरूप इति दर्शयति । रेचयति स्वसन्निवेशाद्यापयति स्वक्षेत्राद्वा या क्रिया तद्रेचककरणम् । तथा यथायोगं तत्र परस्योत्साहनं प्रेरणं10 उत्साहजननं सत्पुरुषाभिनयनं च विरलाङ्गुलिक्षेपेणालपल्लवाकारवत् प्रधानं

Notes

उत्साहनं 1बहु तथा महाजनप्रांशुपुष्करप्रहतम्2 ।
पक्षोत्क्षेपाभिनयं रेचककरणेन कुर्वीत3 ॥ २४

4परिघृष्टतलस्थेन तु धौतं मृदितं प्रमुष्टपिष्टे च5 ।
पुनरेव शैलधारणमुद्घाटनमेव6 चाभिनयेत् ॥ २५

[दशाख्याश्च शताख्याश्च सहस्राख्यास्तथैव च ।
पताकाभ्यां तु हस्ताभ्यामभिनेयः प्रयोक्तृभिः ॥] २६

एवमेष प्रयोक्तव्यः स्त्रीपुंसाभिनये करः ।

Abh

वस्तु अक्रमकरणेन निजपार्श्वगमनेन पार्श्वान्तरात् । प्रांशून्नतमूर्ध्ववगतात्, पुष्करप्रहणने अधः पातनं1, पक्षं पतित्रिणां, मुहुरूध्वँ कटिक्षेत्र उत्साहनवत् उत्क्षेपं कृतमथोर्ध्वगमनेन । अभिनयशब्दवत्पाल्यं च । (अभिनयशब्दस्य वैचि)त्र्यं पश्यन्तः उपाध्याया व्याचक्षते–अभिशब्देनाभिमुख्यं नशब्देन निषेधो, यशब्देन यदर्थो लक्ष्यते, तेन स्वपार्श्वोन्मुखदेशागमनेनाभिमुख्यमभिमुखत्वं पार्श्वक्षेत्रे तु रेचनपूर्वमधोमुखोत्तानपरिवर्तनेन च यच्छब्दार्थमभिनयेदिति । परिशब्दः शैघ्रयात्पार्श्वतोऽर्थे उभयतो वाऽतो समन्तादर्थे च, तेन परिघृष्टं यत्तलं तत् द्वितीयपताकहस्तेन पताकाकारेण क्षालनं मर्दनं मार्जनं पेषणं तद्विशिष्टमपि द्रव्यमभिनयेत् । यथाक्रमं च परिशब्दार्थे योज्यः पुनश्शब्दः । पर्वतोद्धारणशैलशिलादेश्चोद्धा(त्पा?)टनम् । चकाराद्वरदानमभयदानमित्येवमाद्यभिनयेत् । 2परिघृष्टेतीतिकर्तव्यतां प्रसक्तां वारयितुमेवकारः, “3एनतुपुणापरिआञ्चिइतिं कोणें जिजिआळिह” (?)इत्यादौ, यथा पुनरेवशब्दार्थे4 द्योतकस्तथाङ्गिकेऽपि पताकादिस्तथा व्यवहारदर्शनात् । न चैतावानेवास्य विषय इति दर्शयितुमाह एवमनेन प्रकारणे स्वबुद्धया तां तामितिकर्तव्यतामुत्प्रेक्ष्य प्रयोक्तव्यः । स्त्रीपुंसयोरुभयोरपि अभिनेत्रोरभिनेययोर्वा । अन्ये तु नपुंसक–

Notes

अतः परं प्रवक्ष्यामि त्रिपताकस्य लक्षणम् ॥ २७

पताके तु यदा वक्रानामिका त्वङ्गुलिर्भवेत्1 ।
त्रिपताकः स विज्ञेयः कर्म चास्य निबोधत ॥ २८

आवाहनमवतरणं विसर्जनं वारणं2 प्रवेशश्च3 ।
उन्नामनं प्रणामो निदर्शनं विविधवचनं च ॥ २९

4मङ्गल्यद्रव्याणां स्पर्शः4a शिरसोऽथ सन्निवेशश्च ।
उष्णीष 5मकुटधारणनासास्यश्रोत्रसंवरणम् ॥ ३०

Abh

लिङ्गस्य स्त्रीपुंसाभ्यामेव स्वीकारात् समस्ते शब्दार्थेऽभिनेतव्ये विशिष्टेतिकर्तव्यतायुक्तस्यार्थस्य प्रयोग इत्याहुः ।

अथ त्रिपताकमाह पताकेत्वित्यादि । अनामिका वक्रा कनीयसी (तर्जनीमध्यमानां) तिसृणां पताकवदवयवस्थानात् त्रिपताकः त्रित्वस्याभिनेयाद्वा । कर्मेत्यभिनेयम् । (आवाहनं) पराङ्मुखीनतर्जनीमध्यमाकुञ्चनात् “आर्ये इतस्ताव"दित्यादौ । अवतरणमुत्तरेण पार्श्वान्तरं गच्छता “अवतरत्वायुष्मा"नित्यादौ रथादेः । विसर्जनमनादरकृतमधस्तलकृतेन बहिरङ्गुलिद्वयक्षेपात् । वारणं “मा कार्षी"रिति प्राङ्गमुखेनाङ्गुलिद्वयचलनात् । प्रवेशनं पार्श्वतलेनाग्रगमनात् “यावत्प्रविशा"मीति । यथोन्नामनं चिबुकादौ लालनेनोत्तानेनाङ्गुलिद्वयेन । प्रणमनं शिरोगतेन पार्श्वगतेन प्रणयनं समर्पणम् । प्र(नि ?) दर्शनमुपमानोपमेयभावमीषद्विरलेनाङ्गुलिद्वयेन । विविधं विचित्रमिदं वा स्यादिदं वेत्यादि अङ्गुलियुगनामोन्नामात् । वचनं भाषणं मुखक्षेत्रे उत्तानस्याग्रगमनात् । मङ्गल्यद्रव्याणां पूर्णकुम्भादीनामधोमुखेनाङ्गुलिद्वयेन । स्पर्शः द्रव्यादीनां, शिरसः स्पर्शः निवेशनं निवेशः सम्बन्धोऽनामिकया शिरसो वा सन्निवेशनं तत्क्षेत्रे सम्मुखमण्डलगतेनोष्णीषधारणं शिरस्यधोमुखेन भ्रमता मकुटधारणं तूर्ध्वक्षेत्रे । (संवरणं) अनिष्टे गन्धे वचने च शब्देऽपि नासादौ अङ्गुली–

Notes

अस्यैव चाङ्गुली भ्यामधोमुखप्रस्थितोत्थितचलाभ्याम् ।
1लघुखगपतनस्रोतोभुजगभ्रमरादिकान्कुर्यात्2 ॥ ३१

अश्रुप्रमार्जनं तिलकविरचनं 3रोचनालभनकं च4 ।
त्रिपताकानामिकयोः5 स्पर्शनमलकस्य कर्तव्यम्6 ॥ ३२

[7स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने8 ।
परस्पराग्रसंश्लिष्टौ कार्यावुद्वाहदर्शने ॥ ३३

विच्युतौ चलितावस्थौ कर्तव्यौ नृपदर्शने ।
तिर्यक्स्वस्तिकसंबद्धौ स्यातां तौ ग्रहदर्शने ॥ ३४

Abh

द्वयेनाच्छादनम् । अस्यैव चेति । अतश्च मुकुटादिदर्शनेन तद्धेतोः राजादेरप्यभिनयः तेन येन ह्स्तेनाभिनेयं यत्राव्यभिचारित्वेन बहुशो निर्दिष्टं1 तदनिर्दिष्टमपि तेनैवाभिनेयम् । यथा मुकुटधारणाभिनयेन राजांशः रेचित पताकयोगेन गर्वितः । अङ्गुल्यौ ये नित्यश्लिष्टे इत्येवकारः तेन च त्रिपताकन्यस्त इत्यस्य ग्रहणात् । चकारेणान्वाचयकृतमङ्गुल्यन्तरस्य अधोमुखादि2रूपत्वमनुजानाति । अधोमुखे च द्वे प्रस्थानोत्थानयोः चले चेति समासः । लघून्पक्षिणश्चटकादीन्, कटीक्षेत्रे लघुचालं । 3लघु च स्रोतः क्रेमणोर्ध्वमधस्तिर्यग्गत्या4 लघुसर्पानग्रगत्याभिनयेत् । भ्रमरमक्षिकादीनां पुनरुपपादनं पक्षित्वेनाप्रसिद्धेः, तेन कटीक्षेत्रत्यागेन यथेष्टमेषां क्षेत्रमित्युक्तं भवति । अश्रुणस्तत्प्रमार्जनस्य चानामिकया स्वक्षेत्रगतयाधो गच्छन्त्याभिनयः । तिलकस्याभिनयो रोचनाचन्दनादिना तद्विरचनस्य च । एतेन क्रियाफलयोस्तुल्याभिनयोऽन्यत्रापीति सूचयति । तेन पतनवत्पतितोऽपि कर्तरीमुख इत्याद्यूह्यम् । रोचनाचन्दनस्य मङ्गल्यतिलकादिना स्वीकारादिकं व्याचक्षते । रोचनया अरुणरुचिर्लक्ष्यते,

Notes

1 –लघुमुखपवन –लघुवटपवन 2 –प्रमार्जन 3 –विरोचना 4 –लोचनालभौकश्च –लभनकरणम् 5 –अनामिकया 6 –दर्शनमलिकस्य कार्यं च 7 मयोरादर्शयोः 32–36 1/2 श्लोकाः न सन्ति 8 –पादवन्दनम् । 1 दृष्टं 2 रूपतामनु 3 लघूचापः 4 तिर्यग्जन्या ।

तपस्विदर्शने कार्यावूर्ध्वौ चापि पराङ्मुखौ ।1
परस्पराभिमुखौ च कर्तव्यौ द्वारदर्शने ॥ ३५

3उत्तानाधोमुखौ कार्यावग्रे वक्त्रस्य संस्थितौ ।
वडवानलसङ्ग्रामे मकराणां च3 दर्शने ॥ ३६

अभिनेयास्त्वनेनैव वानरप्लवनोर्मयः ।
4पवनश्च स्त्रियश्चैव नाट्ये नाट्यविचक्षणैः ॥ ३७

5संमुखप्रसृताङ्गुष्ठः कार्यो बालेन्दुदर्शने ।
पराङ्मुखस्तु कर्तव्यो याने नॄणां पयोक्तृभिः ॥] ३८

त्रिपताके यदा हस्ते6 भवेत्पृष्ठावलोकिनी ।
तर्जनी मध्यमायाश्च तदासौ कर्तरीमुखः ॥ ३९

7पथि 7aचरणरचनरञ्जनरङ्गण8 करणान्यधोमुखेनैव9 ।

Abh

तत्रानामिकाद्वयसङ्घेनाभिनयः । यथा–

कोउद्दळणाहं तथा तथा च केन समाणिविश्शक्रः ।
सुकरं भर्जसुखं च दुःखं च ॥ (?)

आलम्भनं शरीरस्पर्शनं द्रोहिकाचमनम्, तस्मात् संज्ञायामपि कन् । संज्ञैवेयमिति लभेरत्रासंभवात् नञ्समासः, स्वल्पत्पं च, अत्रातिगौरवातिस्त्नेहादिना तथानामिकयैव स्पर्शनात् “गामी अवा उच्चं अमीहउतोरउ” (?) इति । स्पर्शनमलकस्य रचनार्थं स्थानान्तरनयनं, यथा रत्नावल्यामुदयनेन सुसङ्गताया । अलिकस्य ललाटस्य दर्शनमलकभञ्जनेनोत्तालालकभञ्जनानीत्यादावित्यन्ये ।

कर्तरीमुखं लक्षयति त्रिपताक इति चकारेण परो नीयते । अवलोकिनीति असंश्लिष्ट इति यावत् । कर्तर्या ईदृशमेव रूपं साध्यते तथाभिनीयते । पथीति पृथक्पदं इतइत इत्यादौ मार्गप्रदर्शने, तेनात्राधोमुखेनेति संबध्यते । चरणस्य रचनं कस्तूरिकादिना पत्रभङ्गादिक्रिया, रञ्जनमलक्तकेन । रज्यत्यस्मिन् हृदयमिति रङ्गः कुङ्कुमादिकृतश्चतुष्कोष्ठे भङ्गस्तिलकादिः तं

Notes

ऊर्ध्वमुखेन तु कुर्याद्दष्टं शृङ्गं च लेख्यं च1 ॥ ४०

2पतनमरणव्यतिक्रमपरिवृत्तवितर्कितं3 तथा न्यस्तम् ।
भिन्नवलितेन कुर्यात्कर्तर्यास्याङ्गुलिमुखेन4 ॥ ४१

[5संयुतकरणो वा स्यादसंयुतो वा प्रयुज्यते तज्ज्ञैः ।
6रुरुचमरमहिषसुरगजवृषगोपुरशैलशिखरेषु7 ॥] ४२

8यस्याङ्गुल्यस्तु विनताः सहाङ्गुष्ठेन चापवत्9 ।
सोऽर्धचन्द्र इति ख्यातः10 करः कर्मास्य वक्ष्यते ॥ ४३

Abh

करोति रङ्गयति । एवकारेण 1तर्जनीमुखलक्षणमुखस्याधोगमनानन्तरमेव पृष्ठावलोकित्वं पुनरधोगमनं पुनः पृष्ठावलोकनमिति चनलमाह । दष्टमिति दंशनं तत्तुल्यं च 2कर्तनादि नासिकाक्षेत्रात् कर्णान्तं गच्छता, श्रृङ्गं स्वङ्गक्षेत्रे हस्तद्वयेन, लेखं (? ख्यं) पत्रकाविष्टस्य वाचनम् । व्यतिक्रमोऽपराधः3 । परिवृत्तं पराङ्मुखीभूतं विपर्यस्तं च । वितर्कितमूहनम् । न्यस्तं निक्षेपणम् । 4भेदनं वैपरीत्यं मध्ययोस्तर्जनीपृष्ठागत्वं चलनं पुनः स्वरूपाप्तिस्तयोः समाहारे द्वन्द्वः । एतेन यथा योगं सङ्घातविगृहीतविपर्यस्तप्रयोगो द्विस्त्रिश्चेत्याद्यूह्यम् । कर्तर्यास्यस्य कर्तरीमुखस्य यदङ्गुलीरूपं मुखं प्रधानं तेन भेदनवलनसहितेनेति सङ्गतिः ।

अर्धचन्द्रमाह सहाङ्गुष्ठेनेति । अङ्गुष्ठोऽपि विनतः चापवदिति श्लिष्टाहृस्वत्वं निषेधीत । ख्यात इति नाम्नैव लब्धरूपः । बालतरवश्चोर्ध्वं गच्छता, उपर्युत्तानेन

Notes

एतेन बालतरवः शशिलेखा कम्बुकलशवलयानि ।
1निर्घाटनमायस्तं मध्यौपम्यं च पीनं च2 ।। ४४

2रशनाजघनकटीना4माननतलपत्रकुण्डलादीनाम् ।
कर्तव्यो नारीणामभिनययोगोऽर्धचन्द्रेण5 ।। ४५

आद्या धनुर्नता कार्या कुञ्चितोऽङ्गुष्ठकस्तथा6 ।
शेषा भिन्नोर्ध्ववलिता ह्यरालेऽङ्गुलयः करे7 ।। ४६

एतेन सत्त्वशौण्डीर्य8वीर्यकान्ति9धृतिदिव्य10गार्म्भीयम् ।

Abh

अर्धेन्दुरित्यन्वर्थबलाल्लब्धम् । तेन शशिलेखेत्यनेन लेखामात्रमभिनेयं 1विश्लिष्टतर्जनीकेनेत्युक्तं भवति । कम्बरिति शङ्ख एवानेनाभिनेयः, तद्ग्रहणं तु कर्कटे वक्ष्यते । प्रकोष्ठान्तरसंमुखेन वलयः । निर्घाटनं बलान्निष्कासनमिति । तस्यायस्तमटवीघोषणामित्यसत्, आयस्तं खेदं पराङ्मुखेन गण्डभ्रू2विभ्रमात्तमभिनयेत् । मध्ये3 उदरादौ, उपमीयत इत्युपमा ततः ष्यञ् तेनायमर्थो मध्यस्य, तदुपादीयमानत्वं कार्श्यं तदभिनयेत् । पीनं च पीवरं, अर्धान्मध्यमेव । चकारादर्धचन्द्रद्वयेनाभिनयेत् । अन्ये तु पानं चषकादि व्याचक्षते पानमिति पठन्तः । जघनो नितम्बस्याग्रभागः, पार्श्वभागश्च कटी । आननतले च पत्राणि भङ्गाः । तलपत्रमाभरणविशेषः । पत्रं दन्तपत्रं नलिनीदलं वा । आदिशब्दान्मृणालादि । एतच्च तत्तत्क्षेत्रगेन यथायोगं पार्श्वद्वययोगं पार्श्वद्वयान्तावधोवर्तितलेनैकैकेनान्यसहितेन वाभिनयेत् ।

अरालमाह आद्या धनुर्नतेति । आद्यास्तर्जनी मध्यमादयः कनिष्ठान्ताः पूर्वस्याः पृष्ठेष्वदूरे तिष्ठन्तीति । अयं हस्तस्त्वरालः कुटिलत्वात् । अरालपक्ष्मण इत्यादौ वक्रार्थेऽरालशब्दः । सत्त्वं स्थैर्यम्, शौण्डीर्यं गर्वः, वीर्यमुत्साह, कान्तिश्शोभा, दिव्यं गगनस्थं गाम्भीर्यं

Notes

आशीर्वादाश्च तथा1 भावा हितसंज्ञकाः कार्याः2 ।। ४७

एतेन पुनः स्त्रीणां केशानां संङ्ग्रहस्तथोत्कर्षः3 ।
सर्वाङ्गिकं4 तथैव च निर्वर्णनमात्मनः कार्यम्5 ।। ४८

कौतुकविवाहयोगः 6प्रदक्षिणेनैव सम्प्रयोगं च ।
8अङ्गुल्यग्रस्वस्तिकयोगान्परिमण्डलेनैव ।। ४९

प्रादक्षिण्यं परिमण्डलं च कुर्यान्महाजनं चैव9 ।
10यच्च महीतलरचितं द्रव्यं तच्चाभिनेयं स्यात् ।। ५०

Abh

यस्य प्रभावादाकाराः क्रोधहर्षभयादिषु ।
भावेषु नोपलक्ष्यन्ते गाम्भीर्यमिति तत्स्मृतम् (२२-३६)

आशीर्वादाः स्वस्ति भद्रं पुण्याहमित्यादयः । हितसंज्ञकाः सुखभावाः । तत्र हृदि पार्श्वेऽग्रतः स्थैर्येण चलत्वेन भ्रमणागमनं यथायोगं प्रयोगः । एतावत्यंशेऽप्यभिनेयमरालेन । सङ्ग्रहो बन्धनं केशानाम् । उत्कर्षो विकीर्णतापादनं । पुनर्ग्रहणाद्द्विस्त्रिरन्तरालस्य गमनभ्रमणादि लभ्यते । तथैव चेति यथा सर्वाङ्गनिर्वर्णनं भवति तथा कार्यमिति । तेन द्वितीयपार्श्वात्स्वपार्श्वगमनं लभ्यते । कौतुकं 1विवाहात्पूर्वभावी वधूवरयोराचारः अन्तर्विवाहः प्रसिद्धः । विवाहोऽग्नौ साक्षिणि । अङ्गुल्यग्राणां हस्तद्वयगतानां स्वस्तिकाकारेण यद्योजनं तेनोपलक्षितेन परिमण्डलं प्रदक्षिणदिक्कमेव भ्राम्यता कौतुकविवाहयोगोऽभिनेयः । च शब्दस्तुशब्दस्यार्थे । एवकारो भिन्नक्रमः । सम्प्रयोगः संश्लेषमात्रस्तु अङ्गुल्यग्रस्वस्तिकयोगादेव केवलात् । देवताविषयं प्रदक्षिण–

Notes

1आह्वानं च निवारणनिर्माणे चाप्यनेकवचः ।
स्वेदस्य चापनयने2 गन्धाघ्राणे शुभः शुभे चैष3 ।। ५१

त्रिपताकहस्तजानि तु4 पूर्वं यान्यभिहितानि कर्माणि ।
5तानि त्वरालयोगात्स्त्रीभिः सम्यक्प्रयोज्यानि ।। ५२

अरालस्य यदा वक्रानामिका त्वङ्गुलिर्भवेत्6 ।
शुकतुण्डस्तु स करः कर्म चास्य निबोधत ।। ५३

Abh

क्रमं, परिमण्डलं वर्तुलं, महाजनं जनसमूहम् । विरचितं पुष्पप्रकरादि । एतेनैव परिमण्डलेन पार्श्वान्तरात्स्वपार्श्वं गच्छताभिनयेत् । आह्वाने पतदङ्गुलि निवारणे बहिः क्षिप्ताङ्गुलि । निर्माणं अपूर्व उदयः उदितो1 “भअवं मिअळंछक2(? णो) “इत्यादौ, निश्शेषेण वा मानं परिच्छेदो वर्तनं वा, यथा “जळणिहिअळंवेगा3” (?) इति । निर्दानं तृणाद्युत्पाटनमित्यन्ये । अभूता सृष्टिर्वीप्सा निर्दानमित्यन्ये4 । अनेकं पृथग्भूतं संबन्धाभावरूपं 5 यत्रोच्यते तत्र बहिः पुनः क्षिप्ताङ्गुले प्रयोगः । यथा “कहिं ह कहिं ह” इत्यादौ । गन्धस्य सुरभित्वादाघ्राणम् । शुभः शुभे चैप इति पाठः । एष हस्त इत्यर्थः । चैवेत्यन्ये पठन्ति अध्याहारं कल्पयन्तः, एवकारेण तत्क्षेत्रगत्वं ह्स्तस्येत्याहुः । त्रिपताकस्य यान्यावाहनमवतरणमित्यादीन्यभिनेयानि तान्यरालस्य6 यत्प्रयोगाङ्गयुक्त्या सम्पत्तिर्भवति तत्तेनापि प्रयोज्यानि स्त्रीभिः7 । न तु तासां त्रिपताको निषिध्यते, पुसंस्त्रिपताकस्थानेऽरालो निषिध्यते ।

शुकतुण्डमाहारालस्येति । तुः पूर्वस्माद्विशेषमाह । द्वितीयोऽपि शब्दार्थे, तर्जन्या अपि वक्रिमाणमनुजानाति तदाकारत्वात् । शुकतुण्ड इति शब्देन

Notes

1 –आवाहने निवारणनिदर्शने चाप्यनेकवचने च –आवाहननिर्वाहन…..वचः –आवहने निवापे निन्दाक्षेपाद्यनेकवचने च –आवाहने निवारणे सेवाद्यनेक वर्णे च –आवाहने निवापे निन्दास्ये व्याध्यनेकवचने च –आवाहने च तरणे, N आवर्तनं निवारणनिदाने चाप्यनेकवचनं च ।

एतेन त्वभिनेयं नाहं न त्वं न कृत्यमिति1 चार्थे ।
1aआवाहने विसर्गे धिगिति वचने च सावज्ञम्2 । ५४

अङ्गुल्यो यस्य हस्तस्य तलमध्येऽग्रसंस्थिताः3 ।
तासामुपरि चाङ्गुष्ठः स मुष्टिरिति संज्ञितः4 ।। ५५

एष प्रहारे व्यायामे निर्गमे पीडने तथा5 ।
संवाहनेऽसियष्टीनां दण्डकुन्तग्रहे तथा6 ।। ५६

Abh

प्रत्येकमेक एव ह्ययं वाक्यार्थः । नाहं न त्वं न कृत्यमिति न च सर्वथा निषेधे अयमभिनयः, अपि तु अर्थे अर्थनायां सत्यामीर्ष्याप्रणयकलहादाविति यावत्, अर्थनमर्थः, एरच् (पा ३-३-५६) । सावज्ञं यदाह्वानं विसर्गश्च पञ्चभिरङ्गुलिक्षेपात्स्पृश्य इतिकर्तव्यता, सकृत् द्विस्त्रिर्वा प्रयोगयुकत्या । धिगित्यनेन निन्दार्थेनानुपादेयं लक्ष्यते, “किन्तेन बालवधपातकदूषितेन” इत्यादावयमभिनय इत्यर्थः ।

मुष्टिमाह अङ्गुल्यो यस्येतितलमध्य इति अङ्गुष्ठमूलाशङ्कां शमयति । अग्रे सम्यक्स्थिता इति अग्रगोपनविरलत्वं च परिहरति । उपरीति मध्यमाङ्गुलिदेशं सम्पीडयन्नित्यर्थः । संज्ञितः लोके ह्यत्रेव मुष्टिशब्दः प्रसिद्ध इत्यर्थः । व्यायाम इति युद्धे प्रतिमल्लप्रकोष्ठग्रहणे खङ्गयुद्धे च । 1सकल(असि?) ग्रहणात् छुरिकायुद्धदण्डधारण इत्यादि योज्यम् । निर्गमस्यार्द्रकसुरसादेः । पीडने स्तनपीडने महिष्यादिदोहने । संवाहने मृत्पीडने । असियष्टीनाम्, तथेति संवाहने वारणे मार्जने ।

Notes

अस्यैव च यदा मुष्टेरूर्ध्वोऽङ्गुष्ठः प्रयुज्यते1 ।
हस्तः स शिखरो नाम 2तदा ज्ञेयः प्रयोक्तृभिः ।। ५७

3रश्मिकुशाङ्कुशधनुषां4 तोमरशक्तिप्रमोक्षणे5 चैव ।
अधरोष्ठपादरञ्जनमलकस्योत्क्षेपणे चैव6 ।। ५८

अस्यैव शिखराख्यस्य 7ह्ययङ्गुष्ठकनिपीडिता ।
8यदा प्रदेशिनी वक्रा स कपित्थस्तदा स्मृतः ।। ५९

असिचापचक्रतोमरकुन्तगदाशक्तिवज्रवर्गाणि9 ।
शस्त्राण्यभिनेयानि तु कार्यं पथ्यं च सत्यं च10 ।। ६०

उत्क्षिप्तवक्रा11 तु यदानामिका सकनीयसी ।

Abh

शिखरमाह अस्यैव चेति । पुनर्मुष्टिग्रहणं मुष्टिकर्तॄणामधिकारे1 शिखरेणाभिनेये द्वये तत्कर्मणां च दृढपीडनादौ मुष्टिमाह, अत एवोक्तं प्रयोक्तृभिरिति । रश्मिः प्रग्रहः किरणो वा तेषां संवाहनं ग्रहणमिति संबन्धः अत्र च द्वयोरेकस्य वा प्रयोगः उत्तानाधोमुखपार्श्वगोर्ध्वादिभिश्च । प्रयोगानुसारेणालकस्योत्क्षेपणं गण्डतलादेरुत्पीडनं वा कुटिलीकरणार्थम् ।

कपित्थमाह अस्यैवेति नामोच्चारणं पूर्ववत् प्रयोजनं, कपित्थाकारेऽस्मिन् अङ्गुष्ठतर्जन्यावङ्गुली । शस्त्राणीति शराकर्षणानीत्यर्थः । कार्यं सुकृतम्, अत्र छोटिकाप्रयोगः ।

अथ खटकामुखमाह उत्क्षिप्तवक्रेति । उत्क्षिप्ता सती वक्रा अनामिका कनीयसी । पुनर्नामोच्चारणात् शराकर्षणकार्यसत्यपथ्यादावस्य प्रयोगः ।

Notes

अस्यैव तु कपित्थस्य तदासौ 1खटकामुखः ।। ६०

2होत्रं हव्यं छत्रं प्रग्रहपरिकर्षणं व्यजनकं च3 ।
आदर्शधारणं खण्डनं तथा पेषणं चैव4 ।। ६१

5आयतदण्डग्रहणं मुक्ताप्रालम्बसङ्ग्रहं चैव6 ।
7स्रग्दामपुष्पमालावस्त्रान्तालम्बनं चैव ।। ६२

8मन्थनशरावकर्षणपुष्पावचयप्रतोदकार्याणि9 ।
अङ्कुशरज्ज्वाकर्षस्त्रीदर्शनमेव कार्यं च10 ।। ६३

खटकाव्ये यदा हस्ते तर्जनी संप्रसारिता11 ।
हस्तस्सूचीमुखो नाम तदा ज्ञेयः प्रयोक्तृभिः ।। ६४

Abh

तुरेकः पूर्वस्माद्विशेषे, तुर्द्वितीयोऽवधारणे । विरलत्वं मनाक् अनामिका कनिष्ठिकयोर्भवति सहशब्दात् विश्लेषाशङ्का न स्यात् । खट काङ्क्षायामित्यस्य क्षुत्तृट्पिपासार्तयोरिति वुन् । खटको विटभोग्रधूः(?)तस्य आमुखे यतोऽयं वक्ष्यतेऽतः खटकामुखः । होत्रं स्रुगादि उत्तानेन । हव्यमाज्याद्यामुखेन । प्रग्नहस्य वल्गादेः परिकर्षणं गतिरोधनाय, व्यजनं तालवृन्तादिकं चलता । आदर्शधारणं संमुखेन, आदर्शो ज्ञातो येनैव गौरीवाहाकारिकामनेनाभिनयन्ति(?)। खण्डनं तालवृन्तादेर्व्यजनव्यापारो वा । पेषणं कुङ्कमस्य मृगमदचन्द्रादेः हस्तद्वयेन भागाद्वये दीर्घवृत्तचक्रक्रमणाक्षैः ‘‘परिवृत्तपाद’’ इत्यादौ । आयतदण्डकाष्ठादीनां ग्रहणं, मुक्ताप्रालाम्बानामादौ बाहुद्वयमुभयान्तग्रहणसूचकम् । वस्त्रान्तालम्बनं

Notes

1 –कटकामुखः 2 –होत्रच्छत्रग्रहणं –होतृन् हव्यं छत्र 3 , N–प्रग्रहाकर्षणं व्यजनकं च –प्रग्रहपरिकर्षणं व्यञ्जनं च –तथा व्यजनम्न–प्रग्रहमाकर्षणं व्यजनकं च 4 –धारणं तथा कण्डनं पेषणं चैव –धारणं वा कण्डूयनं तथान्वेषणं चैव –तथान्वेषणं चैव –धारणं चावनतं तथा वेषं चैव –धारणं कण्डनं तथा पोषणं चैव 5 –आदर्शे श्लोकोऽर्धः ‘‘अंकुश’’ इत्यनन्तरमस्ति –अङ्कुश 6 –N कुशकेशकलापसंग्रहं चैव –कुशाङ्कुशकलापसंग्रहं चैव 7 –स्रग्दामधारणं खलु 8 –मन्थानशराकर्षण 9 –कान्यानि –काद्यानि 10 –एव कान्तं च –एककार्यं च 11 –स्यात्प्रसारिता ।

1अस्य विविधान्प्रयोगान्वक्ष्यामि समासतः प्रदेशिन्याः ।
2ऊर्ध्वनतलोल3कम्पितविजृम्भितोद्वाहितचलायाः4 ।। ६५

5चक्रं तडित्पताकामञ्जर्यः कर्णचूलिकाश्चैव6 ।
कुटिलगतयश्च सर्वे निर्देश्यास्साधुवादाश्च ।। ६६

बालोरग7पल्लवधूपदीपवल्लीलताशिखण्डाश्च8 ।
परिपतनवक्रमण्डलमभिनेयान्यूर्ध्वलोलितया9 ।। ६७

भूयश्चोर्ध्वविरचिता तारा 10घोणैकदण्ड्याष्टिषु च ।

Abh

विवाहे च वधूनां प्रणयकोपादौ च पथानुसरणे । आकर्षणस्य केलिवशेन केशादेरयमभिनयः । उत्तरीयालम्बनं स्वभावायोगात् स्त्रीप्रदर्शनेऽयमभिनयः स्वक्षेत्रे चातुरश्रयार्थं तत्कूर्परावधि द्वितीयस्य निवेशं कुर्वन्ति ।

सूचीमुखमाह खटकाख्य इति । सूच्याकारमेवास्य मुखम् । नताधोमुखा, लोला पार्श्वान्तरं यान्ती, कम्पिता तत्रैव स्पन्दमाना, विजृम्भिता कुञ्चिता प्रसारिता, ऊद्वाहिता ऊर्ध्वं गच्छन्ती, चला अभिनयत्वेन व्रजन्ती । (चक्रं) आयुधे कर्मोपकरणे रथाङ्गे च राष्ट्रजने च । चक्रे ऊर्ध्वमुखं पार्श्वगतं पार्श्वान्तरं भ्रमन्ती कार्या, विद्युत्युर्ध्वमुखा गतागता । एवमन्यत्रोत्प्रेक्ष्यम् । मञ्जर्यो लताः, कर्णचूलिका कर्णपूरः कुटिलगतयो मीनाद्याः, साधुवादाः भद्रं शोभनमित्याद्याः, बालसर्पाणां पृथगुपादानं गतिवैलक्षण्यान्मीनेभ्यः । वल्लीलतामञ्जरीणामवान्तरभेद उत्प्रेक्ष्यः तद्यथा–अलाबूप्रभृतयो बल्लयः द्राक्षाप्रभृतयो लताः, चूतादीनां मञ्जर्यः । शिखण्डः कुमारकाणां काकापक्षः । परिपतनं पातः, वक्रं वक्रत्वं, मण्डलं वर्तुलत्वं, समाहारे द्वन्द्वः । भूयो बुहतरमित्यस्मिन्नर्थे चायमभिनयः । ऊर्ध्वलोलिततत्वोक्तिः प्रयोगवृत्त्या वैचित्र्येण विभजनीया । तारा नक्षत्राणि । घोणा नासिका । (एकः) एकत्वसङ्खया । दण्डः

Notes

विनता च 1तथा कार्या दंष्ट्रिषु च तथास्ययोगेन2 ।।

पुनरपि मण्डलगतया सर्वग्रहणं तथैव लोकस्य3 ।
4प्रणतोन्नते च कार्ये ह्याद्ये दीर्घे च दिवसे च ।। ६९

5वदनाभ्याशे कुञ्चितविजृम्भिता वाक्यरूपणे कार्या6 ।
[श्रवणाभ्याशे वक्राविजृम्भणे वाक्यरूपणावसरे]
7मेति वदेति च योज्या7a प्रसारितोत्कम्पितोत्ताना ।। ७०

Abh

परं प्रति तर्जनम् । यष्टिः लगुडः पृथुर्वा, नक्षत्रे तर्जन्यूर्ध्वा । दंष्ट्रिषु चकाराद्दंष्ट्रित्वेनाप्रसिद्धेष्वपि राक्षसादिषु । आस्ये योगो भागः सृक्विलक्षणस्तेन सम्बद्धा नता सती । तथेति तेन दृष्ट्राकारेण कार्या सम्मुखतला कार्येत्यर्थः । पुनरपीत्यूर्ध्वाधोमुखत्वप्रसृतमवधार्यते । ग्रहणमिति, भावप्रधानः सर्वशब्दः, कात्स्न्र्येन ग्रहणमित्यर्थः । लोकस्य प्रत्यक्षेणावलोक्यमानस्य वा स्मर्यमाणस्य वा । तथैवेति अयमिति पुरोनिर्देशेन, स इति च कर्णक्षेत्रे परावृत्तिनिर्देशेन, ग्रहणस्य लोकतः स्मरणात्मकमभिनयः । एकशब्देन प्रथमत्वात् आद्यो मुख्यो हस्वश्च, वीप्सापेक्षया तत्र तत्र प्रणता, ऊर्ध्वा यान्ती दीर्घे तून्नता, विपरीता दिवसे एकतोऽधस्तलप्रणता अन्यतः प्रोत्तानतलोन्नता परस्परश्लिष्टा संयुतकरणत्वेन पार्श्वात्पार्श्वसंवरणादुदयास्तमयसूचिका । पूर्वं कुञ्चिता ततो विजृम्भिता प्रसारिता वक्रान्तिके कार्यविचारे यदा (?) याप्युत्सारिताभिनीयते । ‘‘श्रवणाभ्याशे वक्राधिका जृम्भणा रक्ता(वाक्य ?) रूपणावसरे’’ इति वा पाठः । मेति वारणार्थे प्रसारिता, वदेति अत्रार्थे उत्कम्पितोत्ताना कुञ्चितप्रसारितेत्यर्थः । रोषस्य दर्शने स्वेदमार्जने च प्रसारितैव ललाटपट्टादौ स्वेदं हरन्ती । कुन्तलाः केशाः, गण्डाश्रयाः पत्रभङ्गादयः, तद्विषयेऽभिनये

Notes

1 N–पुनः –ततः 2 –दंष्ट्रासु यथार्हयोगेन –तथार्थयोगेन –दंष्ट्रीषु तथास्ययोः कार्या 3 –लाभश्च 4 –प्रणतीकृता च कार्या ध्यायेदर्थे च दिवसे च , N–उन्नतनता च कार्या ह्याद्ये दीर्घे च 5 –वचनाभ्यासे 6 –विजृम्भिते वाक्यरूपणे कुर्यात् –वाक्यरूपेण –वाक्यरूपणे च मखे 7 –स इति पदे च – स इति वदिति नियोज्या –स इति तदिति । 7a–N–स इति वदेव योज्या

कार्या प्रकम्पिता 1रोषदर्शने स्वेदरूपणे2 चैव ।। ७१

कुन्तलककुण्डलाङ्गदगण्डाश्रयसंश्रयेऽभिनये3 ।
4गर्वेऽहमिति ललाटे रिपुनिर्देशे तथैव च क्रोधे ।। ७२

कोऽसाविति 5निर्देशे च कर्णकण्डूयने चैव ।
संयुक्ता संयोगे कार्या विश्लेषिता वियोगे च ।। ७३

कलहे स्वस्तिकयुक्ता परस्परोत्पीडिता बन्धे ।
द्वाभ्यां तु वामपार्श्वे6 दक्षिणतो 7दिननिशावसानानि ।। ७४

अभिमुखपराङ्मुखीभ्यां8 विश्लिष्टाभ्यां प्रयुञ्जीत9 ।
[द्वाभ्यां 10प्रदर्शयेन्नित्यं सम्पूर्णं चन्द्रमण्डलम् ।। ७५
श्लिष्टा ललाटे शक्रस्य कार्या ह्युत्तानसंश्रया11]

Abh

कर्तव्ये तत्क्षेत्रगा । गर्वे योऽहङ्कारः तत्राभिनये ललाटगता । रिपोः प्रत्यक्षस्य निर्देशे अग्रनता, परोक्षस्य रणपूर्वसंरभस्तु विशेषः अनुसन्धाने त्रितयात्मिका ‘‘स चायं दुष्टात्मा’’ इति । क्रोध इति संरम्भपूर्वः कोपः पूर्वकृत इति । किमर्थात्मा प्रश्नः, तत्रासाविति च दूरगतवस्तुनिर्देशे । 1कर्णकण्डूयनं प्रसिद्धम्2, कटुकवचनमपि च । संयुक्तेति अधस्तलयोः पार्श्वनैरन्तर्यादित्यर्थः । तद्विभागत्तु भुवि विश्लेषिताभ्यां 3द्वाभ्यामभिमुख [परिमुखे] पराङमुखाभ्यां वामपाश्वँ गच्छन्तीभ्यां दिनावसानमभिनयेत्4 । वामो हि सोमस्य दक्षिणस्तु सूर्यस्याग्रभागः दक्षिणपार्श्वं गच्छन्तीभ्यां निशावसानं । विश्लिष्टाभ्यामिति तालमात्रान्तराभ्यामिति दीर्घहृस्वतांशत्वादौपचारिकाभ्यां । द्वाभ्यां त्वित्यङ्गुष्ठ–

Notes

1 –रोमदर्शने 2 –स्वेदमार्जने –स्वेदरूपेणैव 3 –श्रयसंयथाभिनये –श्रयमण्डनाभिनये 4 –सर्वेऽहमिति 5 निर्देशेऽथ कर्णे –निर्देशे कर्ण 6 –वामगमनं 7 –दिशि 8 – मुखाभ्यां 9 –वियुञ्जीत 10 –संदर्शयेत् –तु दर्शयेत् 11 –कार्याभ्युत्थान संश्रिता –संस्थिता –कार्योत्थानं सुसंश्रितम् –कार्याम्युत्थानसंस्थिता ।

1परिमण्डलं भ्रमितया मण्डलमादर्शयेच्च चन्द्रस्य ।। ७६

हरनयने च ललाटे शक्रस्य च तिर्यगुत्ताना ।
[पुनरपि च 2भ्रमिताग्रा रूपशिलावर्तयन्त्रशैलेषु3 ।। ७७

परिवेषणे तथैव हि कार्या चाधोमुखी नित्यम्4 ।
5श्लिष्टा ललाटपट्टेष्वधोमुखी शम्भुरूपणे 6कार्या ।। ७८

शक्रस्याप्युत्ताना तज्ज्ञैस्तिर्यक्‌स्थिता कार्या]
यस्याङ्गुल्यस्तु विरलाः सहाङ्गुष्ठेन कुञ्चिताः ।। ७९

7ऊर्ध्वा ह्यसङ्गताग्राश्च स भवेत्पद्मकोशकः ।
बिल्वकपित्थफलानां ग्रहणं कुचदर्शनं च नारीणाम्8 ।। ८०

ग्रहणे ह्यामिषलाभे भवन्ति ताः कु़ञ्चिताग्रास्तु9 ।
[बहुजातिबीजपूरकमामिषखण्डं च निर्देश्यम् ।]10 ८१

Abh

प्रसारणे सति आकुञ्चनादित्यर्थः । परिमण्डलं भ्रमितया मण्डलमादर्शयेच्च चन्द्रस्येति । चशब्दो विकल्पार्थः । हरस्य भगवतस्मृतीयनयने प्रदर्शिते सति यदभिनयनं तत्र कर्तव्ये सति ललाटे ऊर्ध्वा वा कार्या । एवं शक्रस्याभिनयने ललाट एवोत्ताना तिरश्चीना च, अङ्गुल्या एवात्र प्राधान्यात् । खटकामुखमध्यमया यल्लोके महेश्वरशक्राभिनयनं दृश्यते तत्रालाक्षणिकं मन्तव्यम् ।

अथ पद्मकोशं लक्ष्यति यस्याङ्गुल्यस्तु विरला इति । ऊर्ध्वा इति चतुर्वेदवचना(?) इति यावत् । पद्यस्येव कोशोऽभ्यन्तरं विनतं यस्येति तथा । ग्रहणमिति गृह्यतेऽनेनेति ग्रहणमभिनय इत्यर्थः । एवं कुचौ दृश्येते अनेनेति कुचदर्शनं पद्मकोश इति पूर्वेण संबन्धः । बिल्वादीनां तु ग्रहणे ता एवाङ्गुल्योऽग्र-

Notes

1 –आदर्शे नास्ति 2 –भूमिकाग्राकूपशिला 3 –शिखरेषु

देवार्चनबलिहरणे समुद्गके1 साग्रपिण्डदाने च ।
कार्यः पुष्पप्रकरश्च पद्मकोशेन ह्स्तेन2 ।। ८२

3मणिबन्धनविश्लिष्टप्रविरलचलिताङ्गुलिकराभ्याम्4 ।
कार्यो 5विवर्तिताभ्यां विकसितकमलोत्पलाभिनयः ।। ८३

अङ्गुल्यः 6संहतास्सर्वाः 7सहाङ्गुष्ठेन यस्य च ।
तथा निम्नतलश्चैव स तु सर्पशिराः 8करः ।। ८४

एष सलिलप्रदाने भुजगगतौ तोयसेचने चैव ।
9आस्फोटने च योज्यः10 करिकुम्भास्फालनाद्येषु11 ।। ८५

अधोमुखीनां सर्वासामङ्गुलीनां समागमः12 ।
कनिष्ठाङ्गुष्ठकावूर्ध्वौ 13स भवेन्मृगशीर्षकः ।। ८६

Abh

पर्वण्यतिकुञ्चिताश्च भवन्ति । क्रव्यादानामामिषलाभे आमिषग्रहणे च । लभिरत्र ग्रहणे । आमिषलाभे सति यद्ग्रहणं तत्रेति केचित् । बलेर्हरणं दानं, वैचित्र्यप्रापणं वा । अग्रपिण्डो गवादेः,1 भोजनाय, मृतस्य वा, यत्र यत्रोत्सवादौ नान्दीमुखश्राद्धादावपसव्यता न कार्या पर्यग्रं पिण्डदानम् । पुष्पप्रकरश्चेति द्विस्त्रिर्विकीर्णाग्रेण ।

सर्पशिरसमाह अङ्गुल्यस्संहता इति । संहताः श्लिष्टाः सहाङ्गुष्ठेनेति कुञ्चितोऽङ्गुष्ठ इत्यर्थः । निम्नं तलं मध्यस्याभिमुखस्य, सर्पशिरस्तुल्यत्वाद्वा तस्येदं नाम । सलिलप्रदाने देवेभ्यः, सलिले च प्रतिग्रहर्थं प्रदीयमाने प्रति–

Notes

1 –समुद्गते –समग्रके –संहूते चाग्र 2 –पुष्पप्रकर्यःपुष्पप्रकरश्च पद्मकोशेन 3 –मणिबन्धश्लिष्टाभ्यां 4 –चतुराङ्गुलीकराभ्यां तु –चलिताङ्गुलीयुतकराभ्याम् – चलिताङ्गुलिभ्यां कराभ्याम् 5 –कार्योपवर्तिताभ्यां –कार्यो विचिन्तिताभ्यां 6 –संगताश्चोर्ध्वाः सताङ्गुष्ठेन यस्य तु –संहता 7 सर्वाङ्गुष्ठेन यस्य तु 8 –शिरः 9 –आस्फोटनेषु 10 –योध 11 –स्फालने चैव 11a-N योज्यस्त्वास्फालने चैव 12 –समागतः द, N–समासतः 13 , N–तदासौ । 1 गङ्गादेः ।

इह साम्प्रतमस्त्यद्य 1च शक्तेश्चोल्लासनेऽक्षपाते च ।
स्वेदापमार्जनेषु च कुट्टमिते प्रचलितस्तु2 भवेत् ।। ८७

3त्रेताग्निसंस्थिता मध्यातर्जन्यङ्गुष्ठका यदा4 ।
5काङ्गुलेऽनामिका वक्रा तथा चोर्ध्वा कनीयसी ।। ८८

एतेन तरुणफलरूपणानि6 नानाविधानि च 7लघूनि ।

Abh

गृहीतुरभिनयो येन । सर्पगतावधोमुखः । तोयोपसेचनं कुङ्कुमचन्दनादौ । आस्फोटनं मल्लयुद्ध ऊरबाह्वादिषु ।

मृगशीर्षकमाह मृगस्येव शिरस्थे श्रृङ्गे यस्य । शीर्षशब्दः प्रकृत्यन्तरम् । इहेति प्रत्यक्षाधिकरणनिर्देशे । साम्प्रतमिति वर्तमानकालनिर्देशे । अस्तीत्यभ्युपगमाभिनये संभवाभिनये च । अद्येति वर्तमाननिर्देशेन गतार्थत्वेऽपि साभिनयेन सूचीमुखेन बाधा माभूदिति पुनरुपात्तम् । एतावत्यधोमुखोऽयं । शक्तेरुल्लासनेऽक्षपाते चोर्ध्वमुखः । गण्डादौ स्वेदमार्जने तदाभिमुखतल ऊर्ध्वमुखः । कृट्टमितं हर्षवशात्सह दुःखोपचारेण स्त्रीणां चेष्टालङ्कारः, तत्राभिमुखतलो बाह्ये विकीर्णाङ्गुलिः1 ।

काङ्गुलमाह त्रेताग्निसंस्थिता इति । त्रेतारूपा अग्नयः आहवनीयादयः, तद्वत्संस्थानमासामिति । विरलयोः शिलष्ट एवाग्रगोऽङ्गुष्ठ2 इत्यर्थः । 3 कुङ्गुः प्रियङ्गुः तां लातीति तस्यायमर्थः । कङ्गूच्चयने कीदृशः करो भवति । काङ्गुलो वृश्चिक इति तु केचित् । एतेन तरुणानि फलानि तेषामुद्योते, मुक्ताफलबदराणि गत्या लघूनीति परिमितानि मृत्पिण्डग्रासानीत्यर्थः । अङ्गुल्यः अङ्गुष्ठस्तर्जनीमध्ये च तासां बहिःक्षेपः ।

Notes

1 –शक्योचेल्लालनेक्षुपाते च –शक्याचेल्लालनेऽक्ष –चशक्याश्चोल्लालोऽक्षपाते च । उत्कर्षे वस्त्रस्य च रशनायां चैव विनियोज्यः ।

कार्याणि 1रोषजानि स्त्रीवचनान्यङ्गुलिक्षेपैः2 ।। ८९

(3मरकतवैडूर्यादेः प्रदर्शनं सुमनसां च कर्तव्यम् ।
ग्राह्यं बिडालपदामिति तज्ज्ञैरेवं प्रयोगेषु ।।) ९०

4आवर्तिताः करतले यस्याङ्गुल्यो भवन्ति हि ।
5पार्श्वागतविकीर्णाश्च स भवेदलपल्लवः6 ।। ९१

प्रतिषेधकृते योज्यः कस्यत्वन्नास्ति शून्यवचनेषु7 ।
पुनरात्मोपन्यासः स्त्रीणामेतेन कर्तव्यः ।। ९२

तिस्रः 8प्रसारिता यत्र तथा चोर्ध्वा कनीयसी ।
तासां 9मध्ये स्थितोऽङ्गुष्ठः स करश्चतुरः 10 स्मृतः ।। ९३

Abh

अलपल्लवमाह आवर्तिता इति । कनिष्ठादिक्रमेण वर्तना परिवर्तनं वा कुर्वन्त्यः । इयर्तीत्यरः चलः चलत्पल्लवाकारत्वादलपल्लवः । अलपद्मक इति (च) तन्नाम । प्रतिषेधस्य कृते अभिनयकरणाय । कस्य त्वमिति, नास्तीति च मिथ्याधिक्षेपार्थे च । शून्यवचनानि ‘तच्छास्त्रमसत्प्रयुक्त’ मित्यादीनि । पुनरर्थे अहमर्थे उपन्यासे च विस्मये अभिनयः स्त्रीणामुपन्यस्यते पुनःपुनरभिनीयते विस्मयापादकत्वादित्युपन्यासः ।

चतुरमाह तिस्रः प्रसारिता यत्रेति । मध्य इति मध्यमाया मध्य एव । चत्वारोऽङ्गुल्यङ्गुष्ठाश्लिष्टत्वेन सन्त्यस्मिन्निति, अच्प्रत्ययाकारान्तश्चतुरशब्दः । चत्वार्यभिनयनाद्वा चतुरः सत्त्वकैतवादिषु मुखरागभेदाद्भेदः । विवृतं प्रकारमेकेन, अनावेशे आवेशे तु द्वाभ्यां, नयनयोरभिनेययोः उपमानोपमेयभावे पद्मदलादिके

Notes

1 -रोषजानि तु –रोषजानि च 2 –ह्यङ्गुलिक्षेपैः 3 –अयं श्लोकः क –योरेवास्ति 4 , N –आवर्तिन्यः 5 –पार्श्वगता 6 –सोऽलपद्म इति स्मृतः , N–अलपद्मः कीर्तितः भवेदलपद्मकः 7 –वचने च 8 N––प्रसारिताङ्गुल्यः –प्रसारिता यस्य –प्रसारिताङ्गुल्यस्तथा 9 –मध्यस्तथाङ्गुष्ठः 10 –करश्चतुरकः । 1लीलाद्यं तेन 2 आनुरूप्यं ।

1नयविनयनियमसुनिपुणबालातुरसत्त्वकैतवार्थेषु2 ।
3वाक्ये युक्ते पथ्ये सत्ये3a प्रशमे च विनियोज्यः ।। ९४

4एकेन द्वाभ्यां वा किञ्चिन्मण्डलकृतेन हस्तेन5 ।
6विवृतविचारितचरितं6a 7वितर्कितं 7aलज्जितं चैव ।। ९५

8नयनौपम्यं पद्मदलरूपणं हरिणकर्णनिर्देशः9 ।
10संयुतकरणेनैव तु चतुरेणैतानि कुर्वीत11 ।। ९६

12लीलारती रुचिं च 13स्मृतिबुद्धिविभावनाः क्षमां पुष्टिम्14 ।
संज्ञामात्रां प्रणयं15 विचारणं16 सङ्गतं शौचम् ।। ९७

चातुर्यं माधुर्यं दाक्षिण्यं मार्दवं सुखं शीलम्17 ।
प्रश्नं वार्तायुक्तिं18 वेषं19 मृदु शाद्वलं स्तोकम्20 ।। ९८

Abh

चैकाकितां निषेद्धुमेवकारः । परगतं लीलाद्यनेनाभिनीयत इति । रुचिं दीप्तिम् । विभावनां ऊहापोहरूपां प्रकर्षं वा । दृष्टिव्यापारे तु कर्तरीमुख एव । सङ्गतं मैत्रीमन्योन्यमग्रनश्लेषात्, मार्धुर्यं हृद्यं, शकारादिवचनादिषु, दाक्षिण्यमानुकूल्यं, मार्दवं मृदुत्वम् अङ्गुष्ठमध्यमादर्शनेन । शीलं स्वभावं, वेषं नेपथ्यं वेशं वा गणिकास्थानं, विभवं पार्श्वात्पार्श्वं गच्छता, अभि(वि?)भवमभि-

Notes

1 –नयननिपुणसमसुनिपुणवालातुरशाढ्यचकैतवार्थेषु –नयविनयमुनिप्रणिपुणबालान्तरसत्यकैतवार्थेषु –नयविनयनियमसुनिपुणरचितवितर्कितं लज्जितं चैव 2 –नियमसुनिपुणबालातुरसत्यकैतवार्थेषु 3 –वाक्ये मध्ये पुत्रे पद्ये प्रशमे , N–वाक्ये युक्ते पथ्ये मध्ये 4 –एतेन 5 –मण्डलितहस्तदण्डेन , N–मण्डलगतेन हस्तेन 6 –विधृतविचरितचरितं –विहृत विवारितचरितं 6a-N:– विकृतं विचारितं, 7 –विवर्तितं 7a-N लङ्घितं चैव; 8 –नयनौपम्ये 9 –कण्ठनिर्देशम् –कर्णनिर्देशाः 10 –संवृत –संयुतकरेणैव 11 –युञ्जीत 12 –लीलान्तरतिरुचिं –लीलारतिं –लीलां रतिं –लीलां रतिं कुचं च

1विभवाविभवौ सुरतं गुणागुणौ यौवनं गृहं2 दारान् ।
नानावर्णांश्च तथा चतुरेणैवं3 प्रयुञ्जीत ।। ९९

[सितमूर्ध्वेन तु कुर्याद्रक्तं पीतं4 च मण्डलकृतेन ।
परिमृदितेन 5तु नीलं6 वर्णांश्चतुरेण हस्तेन7 ।।] १००

मध्यमाङ्गुष्ठसन्दंशो8 वक्रा चैव प्रदेशिनी ।
ऊर्ध्वमन्ये प्रकीर्णे च द्व्यङ्गुल्यौ9 भ्रमरे करे ।। १०१

पद्मोत्पलकुमुदानामन्येषां चैव दीर्घवृन्तानाम्10 ।
पुष्पाणां ग्रहणविधिः कर्तव्यः कर्णपूरश्च ।। १०२

[11विच्युतश्च सशब्दश्च कार्यो निर्भर्त्सनादिषु ।
12बालालापे च शीघ्रे च 13ताले विश्वासने तथा ।।] १०३

तर्जनीमध्यमाङ्गुष्ठास्त्रेताग्निस्था निरन्तराः14 ।

Abh

गच्छता चाभिनयेदित्येवमन्यदुत्प्रेक्ष्यम् । दारान् संयुताभ्यां1 संमुखस्वस्तिकेन दर्शयेदिति । एवं वक्षःप्रभृतिशिरोऽन्तं2 क्षेत्रविशेषः संयुतासंयुतत्वे चञ्चलत्वस्थिरत्वे संमुखपराङ्मुखोत्तानाधोमुखत्र्यश्रत्वादिकं च यथायोगमुत्प्रेक्ष्य अभिनयविशेषं कुर्यात् ।

भ्रमरं दर्शयति मध्यमाङ्गुष्ठेति । सन्दंशोऽग्रसंयोगः । तदाकृतित्वाद्भमरो हस्यः ।

हंसवक्रमाह तर्जनीमध्यमाङ्गुष्ठा इति । निरन्तरा इति विरलत्वं निषेधति । श्लक्ष्णादयः श्लक्ष्णत्वादौ वर्तते । प्रस्पन्दनमर्दनमथनविधूननक्षेपणाभ्यावर्तापसारणादि रूपं यथायोगं युक्त्या योज्यम् ।

Notes

1 –विभवाभिभवौ 2 , N–गृहान् 3 –चतुरेणैव 4 –पातं 5 –च 6 –लीनां 7 –वर्णं चतुरं च युञ्जीत 8 –मध्यमाङ्गुष्ठकं देशे –संदंशौ 9 –अङ्गुल्यो 10 –दीर्घविवृतानाम् 11 –विद्युतश्च सहजश्व 12 –बलालापे 13 –ताल –बाल 14 –निरन्तरम् । 1 संयुक्ताभ्यां 2 पक्षःप्रभृतिशिखरान्तं ।

भवेयुर्हंसवक्त्रस्य शेषे द्वे सम्प्रसारिते ।। १०४

1श्लक्ष्णाल्पशिथिललाघवनिस्सारार्थे 2aमृदुत्वयोगे च2 ।
कार्योऽभिनयविशेषः किञ्चित्प्रस्पन्दिताग्रेण3 ।। १०५

4समाः प्रसारितास्तिस्रस्तथा चोर्ध्वा कनीयसी ।
अङ्गुष्ठः कुञ्चितश्चैव हंसपक्ष इति स्मृतः ।। १०६

5एष च निवापसलिले दातव्ये गण्डसंश्रये6 चैव ।
कार्यः प्रतिग्रहाचमन7भोजनार्थेषु विप्राणाम् ।। १०७

आलिङ्गने महास्तम्भदर्शने8 रोमहर्षणे चैव ।
9स्पर्शेऽनुलेपनार्थे योज्यः10 संवाहने चैव ।। १०८

पुनरेव च नारीणां स्तनान्तरस्थेन विभ्रमविशेषाः11 ।
कार्या यथारसं स्युर्दुःखे12 हनुधारणे चैव ।। १०९

Abh

इंसपक्षमाह समाः प्रसारिता इति कनीयस्या ऊर्ध्वम् । तथेति परिश्लिष्टा मूलविनताः कार्या इति यावत् । निवापसलिले तस्योदके दातव्ये धर्मार्थं चोदकदाने । पराङ्मुखाङ्गुलिपृष्ठेन च चिन्तया 1गण्डसंश्रयणे केचित् । तदसत्, हनुधारणं ह्येतत्, कस्माद्गण्डसंश्रयं पत्रभङ्गादि । आलिङ्गने महास्तम्भे चाभिनेये संयुतकरणत्वं मन्तव्यं, बाहुद्वयमण्डलीकरणेन रोमहर्षणाद्द्वितीयस्कन्धात् स्कन्धान्तरगमनं, परोक्षे प्रियजनस्पर्शे द्वितीयहस्तस्वस्तिकेन । अनुलेपने अङ्गसमालम्भने । यथारसमिति शृङ्गारहास्याद्भुतादौ करुणादावपि व्यभिचारिविशेषयोगात्2 संभाव्यत एवायम् । दुःखे च सति

Notes

तर्जन्यङ्गुष्ठसन्दंशस्त्वरालस्य1 यदा भवेत् ।
आभुग्रतलमध्यस्थः2 स सन्दंश इति स्मृतः ।। ११०

सन्दंशस्त्रिविधो ज्ञेयस्त्वग्रजो मुखजस्तथा ।
तथा पार्श्वगतर्श्चव3 रसभावोपबृंहितः ।। १११

पुष्पावचयग्रथने ग्रहणे तृणपर्णकेशसूत्राणाम् ।
4शल्यावयवग्रहणं प्रकर्षणे चाग्रसन्दंशः ।। ११२

वृन्तात्पुष्पोद्धरणं 5वर्तिशलाकादिपूरणं चैव ।
धिगिति 6aच वचनं रोषे6 मुखसन्दंशस्य कर्माणि ।। ११३

यज्ञोपवीत 7 धारणवेधन8 गुणसूक्ष्मबाणलक्ष्येषु9 ।
10योगे ध्याने स्तोके 11संयुतकरणस्तु कर्तव्यः ।। ११४

Abh

हनुधारणं यत्तदत्र रसेषु ये भावाः अनुभावा दृष्टिविशेषरोमाञ्चादयः तैरुपबृंहितः स्फुटीकृत (श्लो-१११) इति सर्वहस्तविशेषाय मन्तव्यं मध्ये परिभाषणात् ।

सन्दंशमाह तर्जन्यङ्गुष्टसन्दंश इति स्पष्टार्थः । पुष्पाणां सूक्ष्माणामपचये अग्रसन्दंशः शल्यानां कण्टकादीनां ग्रहणे । वृन्तमाकृष्य पुष्पस्योद्धरणं यदा कुङ्कुमपुष्पादिः । वर्तिशलाकया अञ्जननाडिकावर्तिकया 1न्यूनादीनां पूरणम् । वेधने मुक्तादीनां, यो गुणो धनुराकृते(ष्टे?)स्तत्र संयुतकरणत्वं च न संश्लेषणस्यैव, अपि तु हस्तद्वयस्याधारमात्रमेव । तच्च पार्श्वद्वयगतत्वेन

Notes

1 – संदंशो ह्यरालस्य 2 – मध्यश्च 3 – पार्श्वकृतश्चैव 4 –शिल्पायवय ग्रहणे –शल्याकर्षग्रहणापकर्षणे , N -शल्यावयवग्रहणापकर्षणे –शिल्पाकर्षग्रहणप्रकर्षणे –शल्यावयवग्रहणावकर्षणे 5 –वर्त 6 –धिगिति वचने च रोषे –भाषणमीषत् –वचने रोषात् 6a-N: धिग्धिगिति; 7 , N - निर्धन -निधन 8 -वर्धन 9 –बाणलक्षेषु –बाललक्ष्येषु, 9a– N गुणसूत्रबाणलक्ष्येषु 10 –योगस्थाने –योगध्याने 11 –संयुक्तकरस्तु –संयुतकरणाः प्रकर्तव्याः । 1 न्यूनादिना ।

1पेलवकुत्सासूयासदोषवचने2 च वामहस्तेन ।
किञ्चिद्विवर्तिताग्रः3 प्रयुज्यते पार्श्वसन्दंशः ।। ११५

आलेख्यनेत्ररञ्जनवितर्क4aवृन्त4प्रवालरचनं5a च5 ।
6निष्पीडनं तथालक्तकस्य कार्यं च नारीभिः ।। ११६

7समागताग्रास्सहिता यस्याङ्गुल्यो भवन्ति हि ।
8ऊर्ध्वा 9हंसमुखस्यैव स भवेन्मुकुलः करः ।। ११७

10देवार्चनबलिकरणे11 पद्मोत्पलमुकुलरूपणे12 चैव ।
विटचुम्बने च कार्यो विकुत्सिते13 विप्रकीर्णश्च14 ।। ११८

Abh

उपर्युपरिभावेनोत्प्रेक्ष्यम् । पेलवमसारम् । प्रवालस्य रचनं गण्डतलबाहुशिखरादौ पत्रभङ्गकरणमित्यर्थः यदि वा पल्लवस्यैव पत्रच्छेद्यालङ्कृतस्य ललाटादौ निवेशितस्य तत्रापसंश्लेषणार्थमस्य हस्तस्य प्रयोगः । नारीभिरिति, परिमितालक्तकपीडनमनेनेति दर्शयति ।

मुकुलमाह समागताग्रा इति । मुकुलाकारत्वान्मुकुलः । देवार्चनादि– प्रारम्भे मुकुलव्यापारावेशे तु पद्मकोशवदिति1 पठता पिटकस्य चुम्बन इति केचित् । शपिटेति (विटे ति ?) पाठः । स्वाभिप्रायमाविष्कर्तुं2 प्रमदासन्निधौ स्वहस्तमेवमुकुलितं विटाश्चुम्बन्तीति विटचुम्बनम् । यदि वा विटैर्नारीणां कुचचिबुकादिस्थानेषु अङ्गुलिपञ्चकेन समं सशब्दं नखस्पर्शने कामसूत्रेष्वा–

Notes

1 –एवं कुत्सा 2 –सदूषवचने 3 – कि ञ्चिद्वर्तिकराग्रः –कि ञ्चिद्विवर्तितोऽग्रः 4 –वृत्त 4aN– 6वर्ति –वचनं 5 –रचनेषु 5aN – प्रवालवचनेषु 6 –निष्पीडितं 7 –समागताग्रसहिता 8 –ऊर्ध्वं 9 –हंसमुखस्येव 10 –देवार्चने 11 –हरणे 12 –कुमुदरूपणे 13 –विकुत्सितो 14 –विप्रकीर्णस्य –विप्रकीर्णे च । 1 पद्मकोशमिति 2 आविष्कृतं ।

1भोजनहिरण्यगणनामुख2संङ्कोचप्रदानशीघ्रेषु ।
मुकुलितकुसुमेषु तथा तज्ज्ञैरेष प्रयोक्तव्यः3 ।। ११९

पद्मकोशस्य हस्तस्य ह्यङ्गुल्यः4 कुञ्चिता यदा5 ।
ऊर्णनाभः स विज्ञेयः 6केशचौर्यग्रहादिषु ।। १२०

शिरः कण्डूयने चैव 7कुष्ठव्याधिनिरूपणे ।
सिंहव्याघ्रेष्वभिनयः8 प्रस्तरग्रहणे9 तथा ।। १२१

मध्यमाङ्गुष्ठसन्दंशो10वक्रा11 चैव प्रदेशिनी ।
शेषे तलस्थे कर्तव्ये 12ताम्रचूलकरेऽङ्गुली13 ।। १२२

14विच्युतश्च सशब्दश्च कार्यो निर्भर्त्सनादिषु ।
15ताले15aविश्वासने चैव 16शीघ्रार्थे संज्ञितेषु च17 ।। १२३

Abh

च्छुरितकमिति तद्विटचुम्बनम् । हिरण्यं कङ्कणद्वारेणाभिनीयतेऽङ्गुलीयकादीनां तु मोचने । गणना पञ्चसंङ्खया । तज्ज्ञैरित्युचितामितिकर्तव्यतामनुसन्धापयति ।

ऊर्णनाभमाह पद्मकोशस्येति । ऊर्णनाभिर्जालकारः क्रिमिः । तस्य यतो मक्षिकादिग्रहणे ईदृक्करणानां सन्निवेशो भवत्यतो मत्वर्थीयोऽत्राच्प्रत्ययः । केशानां ग्रहणे चौर्येण परदर्शनशङ्कया1 लाघवाद्यद्ग्रहः । यत्र सिंहव्याघ्रादि स्वस्तिकेन चिबुकक्षेत्रगतेनाभिनयेत् । ते हि स्थिताः स्वस्तिकेन, आसने कररुहवन्तश्च । प्रस्तरः पाषाणः, निकषपाषाण इत्यन्ये । 2दर्भच्छटा इत्येके ।

ताम्रचूडमाह मध्यमाङ्गुष्ठसन्दंश इति । चूडामुक्तकुक्कुटाकारत्वात्ताम्रचूडः । तालेष्विति ? (ताल इति ?) कालमानो यथा क्वचित्तालभुवि सहिज्जु(?) इत्यादौ ।

Notes

1 –आदर्शे नास्ति 2 –गणतासुख 3 –तज्ज्ञैरेवं प्रयोक्तव्यम् 4 –त्वङ्गुल्यः –अङ्गुल्यः 5 –कुञ्चितास्तथा 6 –चौर्यकेश 7 –कुष्ठस्याधि 8 –व्याघ्राद्यभिनयः –व्याघ्राद्यभिनये –व्याघ्राभिनयने 9 –प्रशस्तग्रहणे –ग्रथने 10 –सन्दंशौ 11 –वक्रा 12 –ताम्रचूडे 13 –कराङ्गुली 14 –विच्युतिश्च –व्युत्पन्नश्च –व्युच्युतश्च 15 –तालेष्विष्वसिते –जालविश्वासने –बालविश्वासने 15a– N: काले 16 –शीघ्राक्षे 17 –शङ्कितेषु च । 1 पश्चात्सङ्ख्या 2 दर्भजटा ।

[तथा कलासु काष्ठासु निमेषे तु1 क्षणे तथा ।
एष एव करः कार्यो बालालापनिमन्त्रणे2 ।।] १२४

3अथवा –

अङ्गुल्यस्संयुता4 वक्रा उपर्यङ्गुष्ठपीडिताः ।
प्रसारिता कनिष्ठा च 5ताम्रचूडकरः स्मृतः ।। १२५

6शतं सहस्रं 7लक्षं च कनकं चापि8 दर्शयेत्9 ।
क्षिप्रमुक्ताङ्गुलीभिस्तु10 स्फुलिङ्गान्विप्रुषस्तथा11 ।। इति ।

असंयुताः करा ह्येते मया प्रोक्ता द्विजोत्तमाः ।
12[अथ संयुतहस्ताः] 13अतश्च संयुतान्हस्तान् गदतो14 मे निबोधत ।। १२७

Abh

संज्ञितं बालादेराह्वानम् । अन्ये तु लक्षणान्तरमस्य पठन्ति, “अङ्गुल्यः संयुता” इत्यादि । मुष्टिरेव प्रसारितकनिष्ठ इत्यर्थः । क्षिप्रं कृत्वा मुक्ताभिरङ्गुलीभिरिति ।

असंयुता इति । असंयुतास्तावदेते भवन्ति । न त्वेतेऽसंयुता एव । नाप्येत एव कोहलादिभिरन्येषां दर्शनात् । अतश्चेति । एभ्य एवानुसंयुतेभ्यः अन्यश्लेषाद्ये संयुत । उत्पद्यन्ते तान् स्वयं निबोधत मदीयं वचनमनादृत्योत्प्रेक्षध्वम् । तथा हि 1कूर्पराधीतत्रिपताकेन पार्श्वे खटकामुखेन स्त्रीणामभिनयः, खटकेन कर्णान्तमागच्छता वामेन च कपित्थष्ट्यन्यतरेण बाणमोक्षस्य । एतच्चित्राभिनये प्रतिजागरिष्याम इत्यास्तां तावत् । चकारादन्यानि च वक्ष्यमाणानि निबोधतेति सम्बन्धः ।

Notes

1 –निमेषेषु 2 –बालालापाभिमन्त्रणे 3 ढ, प–योर्नास्ति (द्वौ श्लोकौ च) 4 –सहिता –संहताः –संयुता वक्रा तूपर्यङ्गुष्ठपीडिता 5 – ताम्रचूडः करः स्मृतः 6 -नतं 7 –लक्षादि 8 –वापि 9 –करेणैकेन योजयेत् –करणे तेन योजयेत् 10 –अङ्गुलीभिश्च 11 –लिङ्गविष्फुलषास्तथा –लिङ्गविष्फुरुषस्तथा –स्फुलिङ्गविप्रुषस्तया 12 –आदर्श एव 13 , N –पुनश्च –यतश्च 14 –आदितो ।

पताकाभ्यां1 तु हस्ताभ्यां संश्लेषादञ्जलिः2 स्मृतः ।
देवतानां गुरूणां च मित्राणां3 चाभिवादने ।। १२८

[4स्थानान्यस्य पुनस्त्रीणि वक्षो वक्त्रं शिरस्तथा ।]
देवतानां शिरस्स्थस्तु गुरूणामास्यसंस्थितः ।। १२९

वक्षःस्थश्चैव मित्राणां5 स्त्रीणामनियतो भवेत्6 ।
उभाभ्यामपि हस्ताभ्यामन्योन्यं पार्श्वसङ्ग्रहात् ।। १३०

हस्तः 7कपोतको नाम कर्म चास्य निबोधत ।

Abh

तेषामञ्जलिं तावल्लक्षयति पताकाभ्यां त्विति । अन्यस्य श्लेषेऽपि न नामान्तरम् । यथा सूचीमुखयोः संबन्धान्यभिनयन्ते । अत्र तु नामान्तरमिति तुशब्दः । स्मृत इति लोकेऽपि “प्राञ्जलिः पुष्पकेतुः” (कुमा २-६४) इत्यादौ प्रसिद्ध इत्यर्थः । सम्यग्ग्रहणेन संमुखं सर्वासामङ्गलीनामयं श्लेषो लक्ष्यते । 1उक्तमेव विनियोगं विभजति देवतानामिति तिस्रोऽभिवन्दनापेक्षया कर्मणि षष्ठी; 2स्त्रीणामिति कर्तरि षष्ठी ।

कपोतमाह उभाभ्यामिति, सङ्ख्यापदोपादानं यथारुचि आधाराधेयभावप्रतिपत्त्यर्थम् । कम्पत इति कपोतो भीरुः पक्षी तत्प्रकृतिरन्योऽपि कपोतस्तस्य यतोऽयं भवत्यतो नाम्नैव भीतविषयतास्य । तथा हि –रामाभ्युदये प्रथमेऽङ्के वटोः । कुचाभिनयेऽयमेव प्रधानः । वक्षस्स्थ इति सर्वत्र संबध्यते । भीताभिनये तु कम्पितेऽपि । स्त्रीभिरित्यधमोपलक्षणम्, विनयग्रहणादौ कुट्टनादेरपि । अयमेव च कूर्माकारत्वात् कूर्मक इति लोके प्रसिद्धः । अङ्दुलि– परिघृष्यमाणावयवत्वात् अङ्गुलिघृष्यमाणस्समुखः । खेदश्चिन्ता ।

Notes

1 –च 2 –संश्लेषात्सोऽञ्जलिः 3 –मिश्राणां –विप्रणां 4 –आदर्श एव –विप्राणां 6 –शेषे त्वनियमो भवेत् –स्त्रीणां कार्यं यथेष्टतः –स्त्रीणां कार्यो यथेप्सितः –क्रोधेष्वनियमो भवेत् 7 –कपोतनामा स्यात्कर्म चास्याभिधीयते । 1 रक्तमेव 2 तिसृणां ।

1एष विनयाभ्युपगमे प्रणामकरणे गुरोश्च संभाषे2 ।। १३१

शीते भये च कार्यो वक्षस्स्थः कम्पितः3a स्त्रीभिः3 ।
4अयमेवाङ्गुलिपरिघृष्यमाणमुक्तस्तु खेदवाक्येषु5 ।। १३२

एतावदिति च कार्यो नेदानीं कृत्यमिति चार्थे6 ।
अङ्गुल्यो यस्य हस्तस्य 7ह्यन्योन्या8aन्तरनिस्सृताः8 ।। १३३

स कर्कट इति ज्ञेयः करः कर्म च वक्ष्यते9 ।
एष मदनाङ्गमर्दे सुप्तोत्थितजृम्भणे10 बृहद्देहे ।। १३४

11हनुधारणे च योज्यः शङ्खग्रहणेऽर्थतत्त्वज्ञैः12 ।

Abh

कर्कटकमाह अङ्गुल्यो यस्येति । अन्योन्यस्य चान्तराणि मध्यानि तैर्निस्सृताः1 । अन्योन्यसंमुखकर्कटदंष्ट्राद्वयाकारेण अङ्गुलीनामत्रावस्थानात् कर्कटः । मदनेऽङ्गकृते अङ्गमोटने, अग्रतः पार्श्वतः ऊर्ध्वं वा भुजयुगलात्पराङ्मुखाङ्गुलिः । सुप्तोत्थितपदमुपलक्षणम् । 2सर्वदा हि जृम्भणेऽस्य प्रयोगः । बृहद्देहाभिनये तूदरक्षेत्रे सम्मुखतलोऽयं हस्तः । हनुधारणेऽङ्गुलिपृष्ठप्रतिष्ठापितहनुदेशः । शङ्खग्रहणे किञ्चित्सङ्कुचितोऽन्योन्याभिमुखाङ्गुलिः । एतदेवाह अर्थेति –अभिनेयस्यार्थस्य यत्तत्त्वं परमार्थः तद्ये जानन्त्यभिनयेऽनुसन्धातुं शक्नुवन्ति तैः ।

Notes

1 –एषोऽभिनयाभिगमे –द्विषद्धियाभ्युपगमे 2 –संभावे 3 –कल्पितः स्त्रीभिः –कम्पितः स्त्रीणाम्,3a-N विकम्पितं प्रीतिः, 4 -एषोऽङ्गुलिविच्यवनात्प्रशिथिलमोश्क्षाच्च मन्दवाक्येषु 5 –भिन्नवाक्येषु –विन्नवाक्येषु 6 –भेदाङ्गीकृत्यमिति वार्थे 7 –अन्योन्य 8 –हस्तस्यान्योन्याभ्यन्तरनिस्सृताः 8a- N हस्तस्यस्यो, could be हस्तस्यान्योन्य, or हस्तस्य ह्यन्यो/?/ (7 प) 9 –लक्ष्यते –कर्मास्य कथ्यते –कर्म चास्य निबोधत 10 –सुप्तोत्थविजृम्भणे 11 –अनुधारणे 12 – ग्रहणे च तत्त्वज्ञैः । 1 तैर्निस्सृता 2 सर्वदा वि ।

मणिबन्धनविन्यस्तावरालौ स्त्रीप्रयोजितौ1 ।
उत्तानौ वामपार्श्वस्थौ स्वस्तिकः परिकीर्तितः ।। १३५

स्वस्तिकविच्युति2करणाद्दिशो घनाः3 खं वनं समुदाश्च4 ।
ऋतवो मही 5तथौघं विस्तीर्णं वाभिनेयं स्यात् 6 ।। १३६

7खटकः खटके7aन्यस्तः खटकावर्धमानकः ।
8शृङ्गारार्थेषु योक्तव्यः9 प्रणामकरणे तथा10 ।। १३७

Abh

अथ स्वस्तिकमाह मणिबन्धनविन्यस्ताविति । यत्र शुद्धमेव स्वस्तिकपदमुपादीयते तत्रेदृश एव सन्निवेशः प्रदेशेषु मन्तव्यः, यथा-चित्राभिनयादावर्थप्रकरणादिवशात्त्वन्यत्रापि प्रवर्त्येत । यथा– स्वस्तिकविच्युतिकरणादित्यादौ (९-२१) पताकयोगेऽपि तथापि मणिबन्धनविन्यस्तत्वं नामानुयाय्येव रूपम् । अत एव केचिदेतावतास्य लक्षणं परिशिष्टं तूदाहरणदिगर्थमिति प्रतिपन्नाः । स्त्रीप्रयोजिताविति । पताकस्वस्तिककर्माणि स्त्रीभिरमुनैव कार्याणीत्यर्थः । स्वस्तिकार्थलक्षणसमाकृतित्वात्स्वस्तिकः ।

खटकावर्धमानमाह खटक इति लभ्यते । अन्ये त्वन्योन्याभिमुखं खटकद्वयमस्य रूपमित्याहुः । खटकस्य आ समन्तात् बहिर्योगादिदं नाम । शृङ्गारार्थेषु शृङ्गारप्रयोजनेषु । ताम्बूलग्रहणादिषु । तथा हि वक्ष्यते – “खटकावर्धमानं तु कृत्वा विटगतिं व्रजेत्” इति । (अ १२-१११) तथेति प्रयोजन एव प्रायेणेश्वरीप्रसादनादौ प्रणाम इत्यर्थः । “कुमुदोत्पलकुन्देषु कर्तव्यः शङ्खधारणे” इति वा पाठः ।

Notes

1 न, N –वर्धमानकौ 2 – विच्युत 3 – करणादिशोच्चनाः –घनः 4 -खं समुद्राश्च 5 -तथोधं – तथोच्यं 6 –अभिनेतव्यम् – चाभिनेयं स्यात् 7 –कटकःकटकैर्न्यस्तः कटको –खटकः खेटके 7a–N खटके खटको 8 –प्रतोदरश्मिग्रहणे चन्द्रसूर्योदये तथा । कर्तव्यः स प्रणामे च शृङ्गारार्थे विधियते ।। 9 – शृङ्गरार्थे प्रयोक्तव्यः 10 –प्रमाणकरणे तथा न, N– प्रमाणकरणेषु च ।

[अन्ये-

कुमुदोत्पलवृन्तेषु कर्तव्य1श्छत्रधारणे ।। इति ] १३८

अरालौ तु विपर्यस्तावुत्तानौ वर्धमानकौ2 ।
उत्सङ्ग इति विज्ञेयः स्पर्शस्य ग्रहणे करः ।।3 १३९

4सनिष्पेषकृते चैव5 रोषामर्षकृतेऽपि च6 ।
7निष्पीडितः पुनश्चैव स्त्रीणामीर्ष्याकृते भवेत् ।। १४०

Abh

उत्सङ्गमाह अरालौ त्विति । विपर्यस्ताविति स्वस्तिकरूपौ । उत्तानाविति स्वसम्मुखौ, वर्धमानकाविति विनतौ तेन दक्षिणो वामस्कन्धक्षेत्र इति यावत्1 । अत एव च प्रकोष्ठस्वस्तिकत्वं लक्ष्यते । स्वस्तिक एव दक्षिणपार्श्वस्थ इति विपर्यस्तत्वमिति केचित् । अधोनखत्वमित्यन्ये । स्वस्तिकाकारौ कूर्परौ कृत्वा कक्षक्षेत्रात् प्रवेशमुक्ताद्बाह्येऽङ्गुल्यो यदा भवन्ति पृष्ठं च हस्तयोर्बहिर्मुखं तदा विपर्यस्तत्वमिति तु युक्ततरम् । उत्सङ्गग्रहणयोग्यत्वकरणादुत्सङ्ग । स्पर्शस्य परोक्षस्य ग्रहणेऽभिनये । निष्पेषः पीडनम् तेन सह यद्यत्क्रियते अतिप्रयत्नेन साध्य इत्यर्थः । रोषकरणे यथा– ‘एषोऽस्मि ते दृढनिपीडनबाहुयन्त्रे1त्यादौ । अमर्षकरणे यथा –विदूषकादेरीर्ष्याकरणे प्रसादनानङ्गीकरणे पर्यायात्सकृत्प्रक्षेपात्2 । सिंहावलोकित इत्यन्ते पठन्ति । कर्तरि कर्मणि वा षष्ठीति व्याचक्षते ।

Notes

1 –कर्तव्यौ 2 –उत्तानावूर्ध्वमानकौ –उत्तानावूर्ध्वमानतौ 3 –कार्यः सिंहावलोकिते 4 –आदर्शे द्वौ श्लोकौ न स्तः 5 –करश्चैव –कृतं चैव 6 – रोषामर्षकृतेषु च – रोषामर्षे कृतेऽपि च 7 –निपीडितः – निष्पीडितस्तथा चैव । 1 धार्यत 2 पर्यायादुपकूर्परक्षेपात् ।

1मुकुलं तु यदा हस्तं कपित्थः परिवेष्टयेत् ।
स मन्तव्यस्तदा हस्तो निषधो2 नाम नामतः ।। १४१

संग्रहपरिग्रहौ धारणं च समयश्च सत्यवचनं च ।
सङ्क्षेपः सङ्क्षिप्तं निपीडितेनाभिनेतव्यम् ।। १४२

[3शिखरस्तु यदा हस्तो मृगशीर्षेण पीडितः ।
निषधो नाम विज्ञेयः स भयार्ते विधीयते ।। १४३

4गृहीत्वा वामहस्तेन कूर्पराभ्यन्तरे भुजम् ।
दक्षिणं चापि वामस्य कूर्पराभ्यन्तरे न्यसेत् ।। १४४

स चापि दक्षिणो हस्तः सम्यङ्मुष्टिकृतो भवेत् ।
इत्येष निषधो हस्तः कर्म चास्य निबोधत ।। १४५

एतेन धैर्यमदगर्वसौष्ठवौत्सुक्यविक्रमाटोपाः ।
अभिमानावष्टम्भस्तम्भस्थैर्यादयः कार्याः ।। १४६

5अथवा–

ज्ञेयो वै निषधो नाम हंसपक्षौ पराङ्मुखौ ।
जालवातायनादीनां प्रयोक्तव्योऽभिघट्टने ।। ] १४७

Abh

निषधमाह मुकुलन्त्विति । कपित्थहस्तेन परिवेष्ट्ययमानमुकुलं तदभ्यन्तरे निषण्णमास्त इत्यतोऽयं निषधः । (सङ्ग्रहः) सम्यग्ग्रहणं शास्त्रार्थादेः, परिग्रहः स्वीकारः, धारणमत्यजनम्, समयो नियमः, सत्यवचनं तथ्यमिति, सङ्क्षेपस्तात्पर्यम्, समस्तमनेनैव संक्षिप्यंमाणमपि । स्वीकृताभिनयेन हि तद्वति द्रव्येऽभिनय इत्युक्तम् । संक्षिप्तं तु सम्यक् क्षिप्तं क्वाचित्स्थापितमित्यर्थः ।

Notes

अंसौ प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ1 ।
यदा भवेतां करणे स दोल2 इति संज्ञितः ।।१४८

3सम्भ्रमविषादमूर्च्छितमदाभिघाते तथैव चावेगे ।
व्याधिप्लुते च शस्त्रक्षते4 च 5aकार्योऽभिनययोगः5 ।।१४९

यस्तु सर्पशिराः प्रोक्तस्तस्याङ्गुलिनिरन्तरः6 ।
द्वितीयः पार्श्वसंश्लिष्टः स तु7 पुष्पपुटः स्मृतः । १५०

8धान्यफलपुष्पसदृशान्यनेन नानाविधानि युक्तानि9 ।
ग्राह्याण्युपनेयानि10 च तोयानयनापनयने11 च ।।१५१

Abh

दोलं लक्षयति अंसाविति । हस्तयोः प्रकर्षेण लम्बमानत्वादेव स्कन्धयोः शैथिल्यमदृढत्वं भवति । पताकाङ्गुलीनामवष्टम्भान्युद्धारणाय वा करणक्रियायामङ्गुलिशैथिल्यलक्षणायां सत्यामित्यर्थः । दोलाकारत्वेन दोला । अभिनयनव्यापारे योगो यस्य स तथाविधोऽयं हस्तः । कार्य इत्यनेन तत्र तत्राभिनेये पार्श्वात्पार्श्वान्तरगमनं निपतनं स्तब्धत्वमित्यादिकां तावदिति कर्तव्यतां सूचयति । अभितोऽग्न्यादिव्यसनजो दोषः(अभिघातः) ।

पुष्पपुटमाह यस्तु सर्पशिरा इति । अङ्गुलिस्थाने निरन्तरं बाढमपि । संमुखत्वं माभूदित्याह पाश्वेंतिद्वितीय इति सर्पशिराश्च हस्तः । हस्तपुटेनेदृशेन पुष्पग्रहणमिति । पुष्पपुट इतरः ।

Notes

1 -पताकौ च प्रलम्बितौ 2 -डोल 3 –सश्रम 4 –शत्रुक्षते 5 –योगस्तु 5a-N: कार्योऽयं नाट्यतत्त्वज्ञैः 6 –निरन्तरा –निरन्तरम् 7 –द्वितीयपार्श्वसुश्लिष्टा सा तु –द्वितीयपार्श्वसंश्लिष्टः स च –द्वितीयपार्श्वसंस्पृष्टः स तु 8 –धान्यजल –धान्यपुष्पभक्ष्यान्यनेकनानाविधानि युक्तेन –धान्यजलपुष्पसदृशान्येते न 9 –संयुक्तेन 10 –गेयानि 11 –तोयापनयापनयने –तोयापनयापनये ।

पताकौ तु1 यदा 2हस्तावूर्ध्वाङ्गुष्ठावधोमुखौ ।
उपर्युपरि विन्यस्तौ 3तदासौ मकरः स्मृतः ।।१५२

सिंहव्यालद्वीपिप्रदर्शनं4 नक्रमकरमत्स्यानाम् ।
ये चान्ये क्रव्यादा 5अभिनेयास्तेऽर्थयोगेन ।।१५३

कूर्परांसोचितौ6 हस्तौ यदास्तां सर्पशीर्षकौ ।
गजदन्तः स 7तु करः कर्म चास्य निबोधत ।।१५४

8एष च वधूवराणामुद्वाहे चातिभारयोगे च9 ।
स्तम्भग्रहणे च तथा 10शैलशिलोत्पाटने चैव ।। १५५

Abh

मकरमाह पताकौ त्विति । अङ्गुष्ठयोर्मकरकर्णद्वयवदवस्थानान्मकरः । द्वीपिनश्चित्रकायाः । मत्स्यानामिति प्रदर्शनमिति संबन्धः । अर्थयोगेनेति अग्रपार्श्वदिषु 1स्थितचलनादिनार्थवशात्प्रयोज्य इत्यर्थः ।

गजदन्तमाह कूर्परांसोचिताविति । कूर्परांसशब्देनोभयसामीप्यं तयोरन्तरालं गृह्यते पूर्वदक्षिणे तु यथा तत्राकुञ्चितौ तत्स्थानसंवेष्टनपरौ । तद्यथा वामे बाहौ दक्षिणो दक्षिणे वामहस्तः स्तम्भाकारवेष्टितदन्ताकृतियोगाद्गजदन्तः । वधूनां वराणां च विवाहस्थाननयने शिलोत्पाटने गतागतत्वं मन्तव्यम् ।

Notes

1 –च 2 –हस्तौ मुखाङ्गुष्ठौ –हस्तौ मुक्ताङ्गुष्ठौ 3 –हस्तः स मकरः स्मृतः –तदासौ मकरः करः –तदा स मकरः करः 4 –द्विपदर्शनं –द्विपददर्शने 5 –ह्यभिनेयास्तेन हस्तेन 6 – कूर्परांसाञ्चितौ –कोर्परांसाञ्चितौ –कूर्परे सन्धितौ 7 –विज्ञेयः –स विज्ञेयः करः कर्मास्य वक्ष्यते 8 –यानवधूग्रहणे वत्सोत्सङ्गादिभार –वरयानवधूग्रहणे वत्सोत्सङ्गादिभार –वरयानवधूग्रहणे बालग्रहणेऽतिभारयोगे च –भूधरवधूवराणां –पुत्रवधूभाराणामुद्वहने चापि भारयोगे च 9 –योगेन 10 –शौलस्योत्पाटने । 1 स्थिरचलत्वादिना ।

शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ ।
1शनैरधोमुखाविद्धौ सोऽवहित्थ इत स्मृतः ।।१५६

दौर्बल्ये निःश्वसिते गात्राणां दर्शने तनुत्वे च ।
उत्कण्ठिते च तज्ज्ञैरभिनययोगस्तु कर्तव्यः2 ।।१५७

3ज्ञेयो वै वर्धमानस्तु हंसपक्षौ पराङ्मुखौ ।
जालवातायनादीनां प्रयोक्तव्यो विघाटने4 ।।१५८

*[सङ्ग्रहपरिग्रहोद्धारणं च समयं च सत्यवचनं च ।
5संङ्क्षेपः 6संक्षिप्तं निपीडितेनाभिनेतव्यम् ।।] १५९

7उक्ता ह्येते द्विविधास्त्वसंयुताः8 संयुताश्च सङ्क्षेपात् ।
9अभिनयकरास्तु ये त्विह तेऽन्यत्राप्यर्थतः साध्याः ।।१६०

Abh

अवहित्थकमाह शुकतुण्डाविति । अभिमुखौ पूर्वाननावञ्चितौ वर्तनया अधोमुखौ सन्तावाविद्धावधोगमितौ । अवहित्थसूचकत्वादवहित्थः । एवं हि कुर्वन्नाशयमात्मीयं नो भिनत्ति ।

वर्धमानमाह-ज्ञेयो वै वर्धमानश्च हंसपक्षौ पराङ्मुखाविति । अन्योन्यं स्वस्तिकवदवस्थितौ लक्ष्ये तु अन्योन्यनिकटौ दृश्येते । स्वस्तिकताहीनावेव केवलं पराङ्मुखौ परस्परचलनेन विस्तारयोगाद्वर्धमानत्वम् । आदिशब्देन वक्षःकवा(?पा)टादि ।

उपसंहरन् सूचयति उक्ता ह्येत इति । उक्ता ह्येते यस्मादेते उक्ताः सङ्क्षेपमाश्रित्याभिनेयविषये निरूपिताः । तुरिति तस्मादन्यत्राप्युक्तात् अभिनेयात् अर्थादभिनया अर्थान्तरेऽपि साधयितुं शक्याश्चार्हाश्च । तुर्हेतौ, यस्मादाभिमुख्यतया, नार्थमनेकरीति त्वदृष्टार्थमर्थेऽर्थतः ।

Notes

1 –शनैरभिमुखाविद्धाववहित्थस्तु स स्मृतः । 2 –योगश्च कर्तव्यः –योगः प्रयोक्तव्यः 3 ड, N–मुकुलस्तु यदा हस्तः कपित्थपरिवेष्टितः वर्धमानः स विज्ञेयः कर्म चास्य निबोधत ।।(कीर्तिधरस्य पाठः)

[अन्यैरप्युक्तम्1–

2आकृत्या3 चेष्टया चिह्नैर्जात्या विज्ञाय वस्तुतः4 ।
स्वयं 5वितर्क्य कर्तव्यं हस्ताभिनयनं बुधैः ।। इति ] १६१

नास्ति कश्चिदहस्तस्तु6 नाट्येऽर्थोऽभिनयं7 प्रति ।
8यस्य य/?/दॄश्यते रूपं बहुशस्तन्मयोदितम् ।।१६२

अन्ये चाप्यर्थसंयुक्ता लौकिका ये करास्त्विह9 ।
10छन्दतस्ते प्रयोक्तव्या10a रसभावविचेष्टितैः ।।१६३

देशं कालं प्रयोगं चाप्यर्थयुक्तिमवेक्ष्य च11 ।
हस्ता ह्येते प्रयोक्तव्या नॄणां स्त्रीणां विशेषतः12 ।।१६४

Abh

एवमभिनयमभिधायाभिनयान्तरमप्यस्तीति दर्शयति नास्ति कश्चिदिति । नाट्यमिह तदुपयोगिनो विभावादयः । अत्र हेतुः यस्य यदॄश्यत इति ।

एवमुक्तानामेवाभिनयानां साङ्कर्येण प्रयोगमनुज्ञायानुक्तमपि सङ्ग्रही तुमाह अन्ये चापीति । अर्थोऽभिनयसामर्थ्यं शोभातिशयः । छन्दत इति नाट्याचार्येच्छाप्रवाहानुसारिण्यामित्यर्थः। रसाः स्थायिनः । भावाः सञ्चारिणः तत्सूचकानि यानि विचित्राणि चेष्टितानि सात्त्विकोपाङ्गानि तैः सह । एवं लोकधर्मीप्रदर्शने प्रसिद्धोदाहरणमात्रमभिनेयानां परिगणनमित्याख्येयम् । देशः क्षेत्रविशेषः प्रयोगः सुकुमारोद्धतरूपक विशेषः । अर्थस्य युक्तिरूपपत्तिः मुख्यगौणलाक्षणिकव्यङ्गयादिभेदेन । अवेक्ष्येति विचार्येत्यर्थः । प्रयोक्तव्या इति

Notes

1 कखगघच–आदर्शेष्वेवास्ति 2 द, म–योर्नास्ति 3 –प्रकृत्या 4 –तत्पुनः 5 –वितर्कात् 6 –अहस्तो हि 7 –नाट्याभिनयनं –नाट्ये ह्यभिनयं प्रति –हस्ताभियनं –नाटयार्थाभिनयं प्रति –नाट्येऽभिनयनंप्रति 8 –दृश्यते बहुरूपन्तु येषां ते गदिता मया 9 –ये दृष्टा लौकिकाः कराः -लौकिकात्मकरास्त्विह 10 –छन्दतस्तेऽपकर्तव्या रसभाव –छन्दतस्तेऽभिनेतव्या भिनेत्वय नानाभाव -छन्दतस्ते नियोक्तव्या –छन्दतस्तेऽपि योक्तव्या 10a–N द्वन्द्वतस्तेऽपि योक्तव्याः 11 –अर्थमुक्तिमवेक्ष्य च –वाप्यर्थयुक्तमपेक्षते 12 –प्रयोक्तव्याः स्त्रीणां नॄणां विशेषतः –स्त्रीणां नॄणामथापि च ।

सर्वेषामेव हस्तानां यानि कर्माणि सन्ति वै1 ।
2तान्यहं संप्रवक्ष्यामि रसभावकृतानि तु3 ।।१६५

उत्कर्षणं विकर्षणं तथा व्याकर्षणं पुनः4 ।
परिग्रहो निग्रहश्चाह्वानं तोदनमेव च5 ।।१६६

6संश्लेषश्च वियोगश्च रक्षणं मोक्षणं तथा ।
7विक्षेपधूनने चैव 8विसर्गस्तर्जनं तथा ।।१६७

9छेदनं भेदनं चैव स्फोटनं मोटनं तथा10 ।
11ताडनं चेति विज्ञेयं तज्ज्ञैः कर्म करान्प्रति ।।१६८

[12उत्तानः पार्श्वगश्चैव तथाधोमुख एव च ।
हस्तप्रचारस्त्रिविधो नाट्यतत्त्वसमाश्रयः ।।] १६९

Abh

शक्यार्थे कृत्यः । विशेषत इति । पुरुषाणां तदपेक्षया सामान्यानामाचारा भवन्ति । अत एवोत्तमानामतिस्वल्पप्रचारो हस्ताभिनयः । रसभावकृतानीति । स्थायिसञ्चारिभेदेन तत्ताद्विभावभेदवशादित्यर्थः । तथा हि, केशानां विदूषकं प्रत्याकर्षणं खटकामुखेन, प्रियां प्रत्यरालेन, क्रीडायां कलहे मुष्टिनेत्याद्युत्प्रेक्ष्यम् । ऊर्ध्वाधोदूरगमनादन्यथाकरणमुत्कर्षणादि । परिग्रहो मण्डलेन ग्रहणम् । निग्रहो विनाशनं, तोदनं, ताडनं, विक्षेपस्त्यागः सावज्ञं, धूननं कम्पनम् । विसर्गः सादरं त्यागः, स्फोटनं विकासनं, मोटनं सङ्कोचनं, इति प्रकारे । एवं प्रकारा अन्येऽपि । रसभावकृतानीति यदुक्तं तत्स्पष्टयितुमाह सर्वे नेत्रभ्रूमुखरागाद्यैर्व्यञ्जिताः कार्या इति प्रचार उर्ध्वोद्वर्तनपार्श्वाधोमुखादिः । परोक्षाभिनयने दृष्ट्यादयो हस्तानामनुगताः, प्रत्यक्षे तु विपर्ययः ।

Notes

1 –सन्तिहि –ज्ञेयं कर्म यथाक्रमम् । 2 –तदहं 3 –भावक्रियात्मकम् । 4 –चाकर्षणं पुनः –चैवापकर्षणम् । 5 –परिग्रहो निग्रहश्च आह्वानं नोदनं तथा –परिग्रहो निग्रहश्चाह्वानं नोदनमेव च –परिग्रहो निगूहश्च आह्वानं तोदनं तथा 6 –संश्लेषोऽथ –संक्षेपश्च 7 –विक्षेपो धूनने –विक्षेपो धूननं 8 –निसर्गस्तर्दनं –विसर्गस्तर्जनं 9 –तोटनं मीटनं चैव ताडनं मोदनं तथा 10 -स्फोटनं मोहनं तथा –छिद्रविस्फोटनं तथा –घोटनं मोटनं तथा 11–स्पोटनं चैव

सर्वे हस्तप्रचारश्च1 प्रयोगेषु यथाविधि।
नेत्रभ्रुमुखरागाद्यौः2 3कर्तव्या व्यञ्जिता बुधैः4।। १७०

5करणं कर्म स्थानं 6प्रचारयुक्तिं क्रियां च समवेक्ष्य7 ।
हस्ताभिनयः 8कार्यस्तज्ज्ञैर्लोकोपचारेण9 ।। १७१

10उत्तमानां कराः कार्या ललाटक्षेत्रचारिणिः ।
11वक्षस्स्थाश्चैव मध्यानामधमानामधोगताः ।। १७२

Abh

एतत्सर्वमुपसंहरति करणमिति । करणमावेष्टितादि, कर्म विधेयं, स्थानं, ललाटादिक्षेत्रं उत्तानादिसन्निवेशस्थितिश्च, प्रचारः स्वल्पादिः । युक्तिर्मु्ख्यगौणाद्युपपत्तिः, न हि गौरयं ब्राह्मण इत्यत्र मृगार्थो हरिणाभिनयेन कर्तरीमुखमृगशीर्षकप्रायेणाभिनीयते । अपि तु मौर्ख्याभिनये, चतुरशुकतुण्डशिखरनिषधप्रायेण । युक्तिश्च विशेषणविशेष्यभावादिविचारः । तद्यथा तद्गुण– संविज्ञाने बहुव्रीहौ वृत्तिपदार्थान्यपदार्थाः अभिनेयाः ‘‘सपुलकस्वेदोद्गमोत्कम्पये’’ ति(रत्ना १-१) उपलक्षणविमुक्ते त्वन्यपदार्थमात्रं, तत्राप्युलक्षणताप्रति पत्त्यै वृत्तिपदार्थोऽप्यभिनेयः । सत्वनावेश इति तूपाध्यायाः । क्रिया त्रिधा विधिनिषेधानुभयरूपा । गच्छ मागच्छेत्यादौ विधौ हि प्रत्ययार्थस्यैव, निषेधे चार्थस्यैव, अनुभयरूपे प्रकृत्यर्थस्यैव, अवतरत्वार्य इत्यादौ तु न विधिः, अपि तु प्रकृत्यर्थमात्रं प्रदर्शयितव्यम् । लोटा तु स्वाभिप्रायमात्रं प्रकाश्यमानमप्रधानमिति प्रकृत्यर्थ एवाभिनेयः । अत्र व्यापकं हेतुमाह लोकोपचारेणेति

करणं कृत्वे (कर्मे ?) त्यत्र स्थानमुक्तम् । तद्विभजत्युत्तमानामिति । उत्तमे सुवर्णादिद्रव्ये सन्निकृष्टाः मध्यमे मध्यमाः अधमे विप्रकृष्टाः । ललाटादिशब्दा– नामुपलक्षणार्थत्वादिति केचित् । एतेषु क्षेत्रेषु वर्तनानिवेशपूर्वकमुत्तमा–

Notes

1ज्येष्ठे स्वल्पप्रचाराः स्युर्मध्ये2 कुर्वीत मध्यमैः3 ।
4अधमेषु प्रकीर्णाश्च5 हस्ताः कार्याः प्रयोक्तृभिः ।।5a १७३

Abh

दयो राजामात्यविदूषकादयोऽभिनयान् यथोचित एवाभिनयस्थाने कुर्युरित्यनेनोत्तमा देवतागुरुनृपादयो यदा निर्दिश्यन्ते तदा ललाटक्षेत्रचारिभिः अञ्जल्यादिहस्तैः, मध्यमास्तु चतुरादिभिर्वक्षःक्षेत्रचरैः, अधमाः शुकतुण्डाद्यैरधः क्षेत्रचरैः । तेन चन्द्रतारादिदर्शनेऽधमस्यापि ललाटक्षेत्रचरा हस्ता इत्यादि न विरुद्धामिति । इदं च युक्ततरमित्युपाध्यायाः –ये चतुरारालाद्यैः सत्या– नृतगाम्भीर्यशौण्डार्यादिविरुद्धविषया उक्तास्तेषां विभागार्थमिदं वचनम् । ये धान्यादय उत्तमा अर्थास्तेषामभिनये ललाटक्षेत्रगत्वमित्यादिक्रमेण ।

अभिनयगतं विशेषान्तरमप्याह ज्येष्ठ स्वल्पप्रचाराः स्युरित्यादि । प्रयोगे ज्येष्ठे नाटकादौ चतुर्वर्गोपायोपदेशिनि प्रत्यक्षताप्राधान्यादल्पो हस्ताभिनयो, मध्यमे तु रञ्जाफले भाणकादौ मध्यमः प्रत्यक्षे हि तत्राकाशभाषितप्रधान्यात्, अधमे तु नृत्तकाव्ये षिद्गकादौ च काल-इति केचित् । एतत्त्वव्यवस्थित्वादयुक्तम् । नाटकेऽपि भूयस्त्वमस्य । परस्थस्याभिनेयत्वे उत्तमपात्रेण तु प्रधान एवाभिनयः कार्यो न विशेषणात् अस्मिन्नाट्ये गृहीतविशेषणा विशेषधीरिति मन्यमाना एतदमृष्यन्तोऽन्ये त्वाहुः–यत्र पदार्थसमुदायो ह्येकेनाभिनयेन शक्यप्रतिपत्तिरनेकेन वा चलत्वात् । तद्यथा ‘‘या स्रष्टुः सृष्टिराद्या’’ (शाकु १-१) इत्यत्र । तत्रैक एव जलहुताशनाभिनय उत्तमेन प्रयोज्यः । अधमेन त्वनेकश्च चलस्वभावत्वात् । मध्यमेन मध्यम इति प्रचारो वर्तना योत्तमेऽल्पेति वा । एतत्तु शोभाविच्युतिकारित्वात् “अथ नयनसमुत्थं” (रघु २-७५) इत्यादौ प्रयत्नोपहृतस्य (उपमानद्वयस्य) पदार्थे वाक्यवचनमित्यस्य प्रौढत्वस्याभिनये नानुसरणमप्रसङ्गान्नाद्रियते । ये परिमितमभिनेयं गमयन्ति ते स्फुटमेवार्थस्य गमकाः, अर्थप्रकरणादेस्तत्र सुखेन सहायत्वात् । अनन्तार्थजातव्यवच्छेदकत्वं हि क्लेशः । तादृशा उत्तमप्रकृतिषु हस्ताः । अधमास्तु यथावचनं श्लिष्टमाहुस्त (था प्रकीर्ण) भूयस्त्वमभिनेये सन्दिह्यमानस्याभिनयायत्तमुत्कर्षणं विकर्षम–

Notes

1 –ज्येष्ठेष्वल्प –आदर्शे श्लोको नास्ति 2 –स्तु मध्ये 3 , N–मध्य विचारिणः 4 –आदर्शे श्लोको नास्ति 5 –प्रकीर्णास्तु । 5a—N ‘कार्याः प्रकीर्णास्तु’ 1 विधावपि 2 विशेषणादिस्मिन्नाट्ये ।

लक्षणव्यञ्जिता हस्ताः कार्यास्तूत्तममध्यमैः ।
1लोकक्रियास्वभावेन 2नीचैरप्यर्थसंश्रयाः ।। १७४

अथवान्यादृशं प्राप्य प्रयोगं कालमेव च3 ।
4विपरीताश्रया हस्ताः प्रयोक्तव्या बुधैर्न वा5 ।। १७५

विषण्णे 6मूर्छिते ह्रीते7 जुगुप्साशोकपीडिते ।
ग्लाने स्वप्ने विहस्ते च निश्चेष्टे तन्द्रिते जडे8 ।। १७६

Abh

मित्यादि–एवं केचित् । अपरे त्वाहुः–प्रचारस्त्रिधा पञ्चधा च वक्ष्यते । तत्रोत्तमस्य च फलत्वादेकरस एवोत्तानादिकः प्रचारः, अधमस्य त्वतिसङ्कीर्ण इति । इदन्त्वत्र युक्ततमम् ज्येष्ठेऽभिनये प्रत्यक्षवर्तमानात्मज्ञस्थविषये हस्तव्यापारोऽल्पः । “हिअअ समस्सस” (शाकु अ ७) इत्यादौ । तथा “तन्वी मेघजलार्द्रवल्कलतया” (विक्र ४-३८) इत्यादौ । अत्र हि सात्त्विकभूयस्त्वात् ज्येष्ठत्वम् । अप्रत्यक्षभाविभूतपरस्थरूपे तु सात्त्विकावकाशाभावोऽनावेशादिति तत्राधमोऽभिनयः, “सत्त्वहीनोऽधमः (२२-२) स्मृतः” इति वचनात् । तत्र विप्रकीर्णा विक्षिप्ता बहुलतमा हस्ताः । यथा *कुञ्जरक *सुन्दरकादीनां परस्थवृत्तयुद्धवर्णने । एतद्व्यतिरिक्ते तु मध्यमो हस्तप्रयोगः । यथा विदूषकेण प्रत्यक्षं दृश्यमानेनावस्थावेशकारिणि उद्यानादिवर्णने ।

लक्षणं सौष्ठवं लक्ष्यते ।
सौष्ठवं लक्षणं प्रोक्तं वर्तनाक्रमयोजितम् (१०-७७) ।। इति ।

तद्धीना अधमानाम् । (अथवेत्यादि) । अन्ये त्वाहुः –यादृग्येषां लक्षणमुक्तं तेन्यथा परिपूर्णाश्लिष्टकृतयोऽभिनयाद्धीनानां श्लिष्टवर्णोच्चारणवदिति । (विपरीतेति) भयजुगुप्सादिप्रयोगे शीतकालादियोगे च सौष्ठवमस्फुटाकृतित्वं, अवहित्थादौ चासौष्ठवयोगेऽपि सोष्ठवमित्यादि वैपरीत्यम् । विहस्तो हस्तवैकल्याधानं, मत्तो मद्येन, प्रमत्तः प्रमादात्, उन्मत्तोऽपस्मारी । किं सर्व एवात्र हस्ताभिनय इत्याशङ्क्य प्रतिप्रसवार्थमाह

Notes

1 –नीचक्रिया –लोकक्रियाश्च 2 –नीचैरेवार्थ 3 –वा 4 –विपरीतक्रिया 5 –नरैः 6 –स्तंभिते 7 –भीते –हीने 8 –जने *तापसवत्सराजे +वेणीसंहारे ।

व्याधिग्रस्ते 1जरार्ते च भयार्ते शीतविप्लुते ।
2मत्ते प्रमत्ते चोन्मत्ते चिन्तायां तपसि स्थिते ।। १७७

3हिमवर्षहते 4बद्धे 5वारिणाप्लवसंश्रिते ।
6स्वप्नायिते च सम्भ्रान्ते नतसंस्फोटने तथा ।। १७८

न हस्ताभिनयः कार्यः7 कार्यः8 सत्त्वसमाश्रयः9 ।
[10तथा काकुविशेषश्च नानार्थरसभावकः11 ।।]१७९

12यत्र व्यग्रावुभौ हस्तौ 13तत्तदृष्टिविलोकनैः14 ।
15वाचिकाभिनयं कुर्याद्विरामैरर्थदर्शकैः ।। १८०

16उत्तानः पार्श्वगश्चैव तथाधोमुख एव च ।
प्रचारस्त्रिविधोऽङ्गानां नाट्यनृत्तसमाश्रयः ।। १८१

Abh

कार्य इति । ये हस्ता आन्तरीं चित्तवृत्तिं सूचयन्ति कपोतक इव भयं, कर्कटक इव मदनविजृम्भां दोल एव शोकं, शुकतुण्ड इवेर्ष्यां ते कार्या एव, सात्त्विकवदनुभावस्य भावत्वात्तेषां सात्त्विकश्च कार्य एवेत्यावृत्या ये तु बाह्यद्रव्यगुणादिगमकास्ते न कर्तव्या इति । यत्र तु सर्व एव न कर्तव्यास्तं विषयमाह यत्र व्यग्राविति यता सारथेः प्रतोदरश्मिव्यग्रहस्तायां । (विलोकनैरिति) विलोक्यते चित्तवृत्तिरनेनेति मुखरागादि, कुर्यादिति स्फुटयेदित्यर्थः अर्थदर्शकैरिति । अनुवृत्तिलक्षणोपरोधकृतैरित्यर्थः ।

Notes

1 –ज्वरातें च तपश्श्रान्ते भयान्विते 2 –मत्तोन्मत्तप्रमत्ते्षु शोकार्ते शीतविप्लुते 3–दचयोः श्लोको नास्ति –हिम वर्षगते 4 –बन्धे 5 –भारिणि –हारिणप्लव –चारिणी –वारिणि –चारिणा 6 –स्वप्रायिते स –स्वप्नायितेऽथ 7 –नभसः पतितेऽद्भुते –नभसः पतितेऽद्भुते 8 –योज्यः 9 , N–सत्त्वस्य संग्रहः –समुद्धवः –सत्त्वस्य संभवः 10 –तथैवाङ्गं –तथाकार –तथाकारु 11 –भावरसान्वितः , N –भावरसाश्रयः 12 ,–योः श्लोको नास्ति 13 –पत्र 14 –विलोकितैः 15 –आदर्शे सार्धः श्लोको न दृश्यते । 16 –उत्तलोऽधस्तलस्तिर्यगूर्ध्वाधोमुख एव च । हस्तप्रचारा विज्ञेया नाट्ये नृत्ते च पञ्चधा ।। –उत्तानोऽधस्तलत्र्यश्र ऊर्ध्वाधोमुख एव च । N–हस्तप्रचारस्त्रिविधो नाट्यनृत्तसमाश्रयः ।

1अन्ये तु1a–

2उत्तानो वर्तुलस्ञ्यश्रः स्थितोऽधोमुख एव च ।
3पञ्च प्रचारा हस्तस्य नाट्यनृत्तसमाश्रयाः 4इति ।। १८२

एवं ज्ञेयाः करा ह्येते नानाभिनयसंश्रयाः5 ।
अत उर्ध्वं प्रवक्ष्यामि करन्नृत्तसमाश्रयान्6 ।। १८३

Abh

हस्तानां दिग्भेदावस्थाकृतं प्रचारमाह उत्तान इत्यादि । उत्तानो यथा–‘विरचितमुर्वीसंस्थ’ मित्यभिनये (९-२२) पताकः, यथा वा जिह्वाभिनये आस्यक्षेत्रगोऽग्रगास्त्रिपताकः । पार्श्वगो यथा धनुरभिनये मुष्टिः । अधोमुखो यथा समुद्राभिनये ललाटक्षेत्रगः । स्वस्तिकपताको, यथा “संवृतविवृतं पाल्य” मित्यत्र त्रिपताकः “उत्तानोऽधस्तलस्ञ्यश्रोऽग्रगोऽधोमुख एव च । पञ्च प्रचारा हस्त” स्येति 1भट्टोद्भटः पठति । तत्राधस्तलेऽधोमुखोऽन्तर्भूतः उत्तानेऽग्रगः, ञ्यश्रः त्रिपार्श्वग एव । अत्रापि तु समविषमञ्यश्रिताद्यवान्तरभेद उत्तानादेर्भवति । इत्थं त्रैविध्यमेव युक्तम् । तत्र रसनिष्पादनमभिनयस्य वस्त्वियुक्तं तच्च करणानुभावात्मकं, तत्राङ्गहाराः करणसञ्चयाः, करणस्य च लक्षणमुक्तम् । “यानि स्थानानि याश्चार्यो नृत्तहस्ताः” (४-५९) इत्यादि । तत्र स्थानकचार्यः स्वक्षेत्रे (अ–१३) लक्षयिष्यन्ते ।

हस्तप्रसङ्गान्नृत्तहस्ता वक्तव्याः । किञ्चाभिनयकृताप्येषां क्वचिद्व्याकर्तुं यथा लताहस्तौ प्रतिपद्येते नृत्ताभिनयनं प्रति (९-२००), यथा वा करिहस्तस्य हस्त्यभिनयनम् । एवं चतुर श्रादीनामपि प्रयोगवशात् द्रष्टव्यमित्याशयेनाह अत ऊर्ध्वमिति । नृत्तस्य करणात्मकस्याश्रयाद्धेतुता । एभ्योऽभिनयहस्तेभ्य ऊर्ध्वमित्येतद्गणना पृष्ठेऽभिनयहस्तत्वेनापि गणनायोग्यादित्यर्थः । तत्र चातुरश्रयमूलं नृत्तेऽङ्गस्य

Notes

1वक्षसोऽष्टाङ्गुलस्थौ1a 2तु प्राङ्मुखौ* खटकामुखौ3 ।
समानकुर्परांसौ तु चतुरश्रौ प्रकीर्तितौ4 ।। १८४

हंसपक्षकृतौ हस्तौ व्यावृत्तौ तालवृन्तवत् ।4a
उद्वृत्ताविति विज्ञेयावथवा तालवृन्तकौ ।। १८५

चतुरश्रस्थितौ हस्तौ हंसपक्षकृतौ तथा5 ।
6तिर्यक्स्थितौ 7चाभिमुखौ ज्ञेयौ तलमुखाविति ।। १८६

Abh

जीवितमिति तन्निमित्तभुवौ चतुरश्रौ तावदाह वक्षस इति । वक्षोऽतिक्रम्य योऽष्ठाङ्गुलो देशः तत्रस्थौ । परस्परं त्वष्ठाङ्गुलान्तरत्वात् प्रत्युत चातुरश्रयं भवतीत्युत्प्रेक्ष्यमेव। प्राङ्मुखाविति यत्संमुखः प्रयोक्ता तत्संमुखावेव, न तु प्रयोक्तृसंमुखौ। कूर्परयोरंसयोश्च तूलाधारणवत्समत्वमवैषम्यम् । अङ्गचातुरश्रयदानाच्चतुरश्रौ । आकार्षणविशेष एवायमभिनयोऽपि द्विवचनादपवादविहीनत्वे द्वयोरेव प्रयोग उपपादनीयो हेतुर्हस्तान्तरस्य द्वितीयप्रकारयोगेऽपि केवलस्यैव चतुरश्रतापदेश एव, तुल्यरूपत्वाच्च न चतुष्षष्टिताव्याहतिरिति। एवं सर्वत्र ।

अथोद्वृतौ1 हंसपक्षकुताविति । आदौ चतुरश्रौ तत उद्वेष्ठितवर्तनया हंसपक्ष (कृत) इति, कृतशब्देनाह विधिम् । एको विवर्तते उत्तानः स तु, परस्त्वधोमुखः सन्नावर्तते वक्षस्स्थानमित्यर्थः। एतदेवाह तालवृन्तवदिति । आवर्तनकाल ऊध्वँ वर्तमानत्वादुद्वृतौ1 । नामान्तरेण तालवृन्तविषयत्वमभिनेयत्व ब्रुते ।

अथ तलमुखौ-चतुरश्रस्थिताविति । तथेति व्यावृत्तोद्वृत्तपूर्वकत्वमस्याह। तेन परिसमाप्तिकाले स्वस्वपार्श्वस्थाङ्गौ त्र्यश्रस्थितौ हंसपक्षावेव । अन्योन्यसंमुखतलत्वात्तलमुखौ । “मंडल महुरिजिम वज्जइ” (मर्दलं मधुरं वादयति ) इत्यादिविषये चायमभिनयोऽपि ।

Notes

1 -वक्षःस्था 1a- N: वक्षस्यष्टाङ्गुलस्थौ 2 -च 3 -कटकामुखौ 4 -चतुरश्रावितिस्मृतौ 4a-N -तालवृन्तकौ 5 -यदा 6 -तिर्यङ्मुखोर्ध्वाभिमुखौ - तिर्यङ्मुखौ चाभिमुखौ 7 - वाभिमुखौ *पराङ्मुखाविति सोमेश्वरः, संमुखाविति भोजः । 1 उद्वर्तौ ।

तावेव मणिबन्धान्ते 1स्वस्तिकाकृतिसंस्थितौ ।
स्वस्तिकाविति विख्यातौ विच्युतौ2 विप्रकीर्णकौ ।। १८७

अलपल्लवसंस्थानावूर्ध्वास्यौ3 पद्मकोशकौ ।
4अरालखटकाख्यौ 5चाप्यरालखटकामुखौ ।। १८८

6अन्यें तु-

7तथैव मणिबन्धान्ते ह्यरालौ विच्युतावुभौ ।
ज्ञेयौ प्रयोक्तृभिर्नित्यमरालखटकाविति ।। इति ।। १८९

भुजांसकूर्पराग्रैस्तु कुटिलावर्तितौ करौ8 ।
9पराङ्मुखतलाविद्धौ ज्ञेयावाविद्धवक्रकौ10 ।। १९०

Abh

अथ स्वस्तिकौ विप्रकीर्णो च-तावेवेति । तलमुखावेवेत्यर्थः । अन्तस्समीपः । स्वस्तिको नाम लक्षणविशेषः । (विच्युताविति) विशेषेण सहसाच्युतावित्यर्थः । एवं पूर्ववृत्तनृत्तकरचतुष्टयस्वरूपोपजीवित्वं (स्वस्तिक) विप्रकीर्णयोः ।

अरालखटकामुखौ-अरालखटकामुखावाह अलपल्लवसंस्थानाविति । स्वस्तिकवत्पताकौ कृत्वा अलपल्लवोपलक्षितया व्यावर्तितकरणवर्तनया परिवर्तनान्तया तावेवोर्ध्वमुखौ पद्मकोशौ विधाय समनन्तरमेव भाविनलिनीपद्मकोशाभ्यामरालवर्तनया एकमरालं द्वितीयं खटकामुखं चातुरश्रयसंस्थानेन कुर्यात् । स्वस्तिकेनेति त्वपरे । अरालौ ततः खटकावित्येके ।

Notes

1 -स्वस्तिकाविति 2 -विख्यातावरालौ 3 -संस्थानोपद्धास्यौ 4 -ज्ञेयावभिमुखौ तज्ज्ञैरराल 5 -वाप्यरालकरकामुखौ 6, 7 क ग च-आदर्शेष्वेव 8 -कुटिलावर्तिभिस्तथा -कुटिलावर्णितौ करौ -कुटिलावर्तितैः करैः 9 -अधोमुख -पराङमुखतया 10 -वक्रागौ -आविद्धाविति संज्ञितौ ।

1हस्तौ तु सर्पशिरसौ2 3मध्यामाङ्गुष्टकौ यदा ।
तिर्यक्प्रसारितास्यौ च तदा सूचीमुखौ स्मृतौ4 ।। १९१

5अन्ये-

6सर्पशीर्षौ यदा हस्तौ भवेतां7 स्वस्तिकस्थितौ ।
मध्यप्रसारि ताङ्गुष्ठौ ज्ञेयौ सूचीमुखौ तदा ।। १९२

रेचितौ चापि विज्ञेयौ हंसपक्षौ द्रुतभ्रमौ9 ।
प्रसारितोत्तानतलौ रेचिताविति संज्ञितौ10 ।। १९३

Abh

अथाविद्धवक्रौ-भुजांसकूर्पराग्रैरिति । वृत्तानुरोधादेवं पठितम् । अयं त्वर्थ; अंसाभ्यां कूर्पराग्राभ्यां भुजाग्राभ्यां च क्रमेणोपलक्षितं यत्कुटिलं सविलासं (*पताकौ) कृत्वा आवर्तनं व्यावर्तितकरणं कनिष्ठादि तद्युक्तावाविद्धौ हलधारिणौ सन्तावधोमुखतलौ यदा भवतस्तथेदं नाम ।

अथ सूचीमुखौ-हस्तौ तु सर्पशिरसाविति । चतुर श्रस्थानगौ सर्पशिरसौ मध्यामाङ्गुलिनिविष्टाङ्गुष्ठौ कृतौ यदा तिर्यक्प्रसारितं पार्श्वगमनेन सह विकाशितं मुखं तर्जन्यग्ररूपं द्वयोस्तादृशौ बाहु (बहिः ?) प्रसारणेन पर्यायशः क्रियते तदा सूचीमुखौ सूचीवद्बाहु (द्बहिः ?) प्रसारणात् । तत्र तुशब्दः पर्यायं द्योतयति।

सूचीमुखौ-मध्यप्रसारिताङ्गुष्ठौ स्वस्तिकौ सर्पशीर्षकौ ।

1इत्येकेषां पाठः ।

अथ रेचितौ-अर्धरेचितौ चापीति। केचित् रेचितावित्यस्य पौनरुक्त्य- परिजिहीर्षवो द्वे लक्षणे इत्याहुः । तेन द्रुतौ भ्रान्तावविकृतावेव हंसपक्षौ रेचितौ,

Notes

1 -श्लोको नास्ति 2 -शिरसो 3 -मध्यस्थाङ्गुष्ठकौ 4 -सूच्यग्राविति तौ स्मृतौ 5 -अन्यैः कचछ आदर्शेष्वेव, N does not read अन्ये 6 कचछम-आदर्शेष्वेव 7 -भवतः 8 -तदा सूचीमुखौ स्मृतौ 9 -हंसपक्षोद्धृतभ्रमौ -भ्रमदुतौ -भ्रमस्थितौ -भ्रमक्रमौ 10 - रेचितावेव संज्ञितौ -रेचितावेव संस्थितौ ।

चतुरश्रो भवेद्वामः सव्यहस्तश्च रेचितः ।
विज्ञेयौ 1नृत्ततत्त्वज्ञैरर्धरेचितसंज्ञितौ2 ।। १९४

अञ्चितौ कूपरांसौ तु त्रिपताकौ करौ कृतौ3 ।
किञ्चित्तिर्यग्गतावेतौ स्मृतावुत्तानवञ्चितौ ।। १९५

मणिबन्धनमुक्तौ तु पताकौ पल्लवौ स्मृतौ ।
4बाहुशीर्षाद्विनिष्क्रान्तौ नितम्बाविति कीर्तितौ5 ।। १९६

Abh

तथा प्रसारितोत्तानतलत्वेन विकृतावपि रेचिताविति । अन्ये त्वेकमेव वाक्यमित्याहुः । रेचितौ सन्तौ यौ द्रुतभ्रमो तौ रेचितसंज्ञाविति । न पौनरुक्त्यम् । संज्ञयैवार्धरेचिते लब्धे पुनर्वचनमविशेषेण चातुरश्रयस्य स्थितिं सूचयन् नृत्तहस्तान्तरेष्वपि अङ्गपर्यायेण प्रयोगं सूचयति।

अथोत्तानावञ्चितौ1 अञ्चिताविति । त्रिपताकौ हस्तावंसकपोलललाटनामन्यतमक्षेत्रे कृतौ अञ्चनक्रियया युक्तौ, अन्योन्याभिमुखावर्धतिरश्चीनौ, तथांसयोः कूर्परयोश्चाञ्चनं किञ्चिच्चलनं भवति । अञ्चनसमये उत्तानत्वप्राप्तेः पुनरप्यञ्चनेनोद्गमनक्रियायोगान्मृदूत्तानावञ्चितौ1 ।

अथ पल्लवौ-मणिबन्धनमुक्तौ त्विति । ऊर्ध्वव्यावर्तितकरणेन बाहू प्रसार्य परिवर्तितक्रियया स्वस्तिकाकृती पताकौ । पल्लवाकारत्वात् तथौक्तौ । शिथिलौ पल्लवावित्यन्ये पठन्तः त्रिपताकावित्यनुवर्तयन्ति ।

अथ नितम्बौ-बाहु शीर्षादिति । पताकाविति वर्तते । स्कन्धक्षेत्रा- द्विचित्रत्वेनोत्तानत्वाधोमुखत्वपर्यायत्वेन निष्क्रान्तौ पताकौ, नाम्ना क्षेत्रस्याक्षेपात् नितम्बक्षेत्रे तथैव पर्यायेण वर्तमानौ नितम्बौ । *

Notes
  • त्रिपताकावन्ये पताकस्थाने वर्तयन्ति ।

1केशदेशाद्विनिष्क्रान्तौ परिपार्श्वोत्थितौ तथा2 ।
विज्ञेयौ केशबन्धौ तु3 करावाचार्यसंमतौ ।। १९७

तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ तथैव च ।
4लताख्यौ च करौ ज्ञेयौ नृत्ताभिनयनं प्रति5 ।। १९८

समुन्नतो लताहस्तः पार्श्वात्पार्श्व विलोलितः6 ।
7त्रिपताकोऽपरः कर्णे करिहस्तः प्रकीर्तितः8।। १९९

Abh

अथ केशबन्धौ-केशदेशादिति । आदौ पार्श्वक्षेत्रात् तत्पार्श्वपरिवर्तनपूर्वकमुत्थितौ* शिरःक्षेत्रं प्राप्तौ अत एव केशदेशान्नितम्बहस्तोक्तवदेव विचित्रहस्तत्वेन निष्क्रान्तौ तथा तेनैव प्रकारेण पुन: केशदेश एव पर्यायशो गतागतत्वेन प्रत्यावर्तमानौ । केशसंबन्धात्केशबन्धौ । आचार्यसंमतौ च शोभातिशयकरणात् ।

अथ लताहस्तौ -तिर्यक्प्रसारितौ चेति । पताकाविति वर्तते । अन्ये तु नितम्बादिषु त्रिपताकावित्यनुवर्तयन्ति लताहस्तान्तेषु ।

अथ करिहस्तः-समुन्नत इत्यादि । संश्लेषक्रमेण य उन्नतः । विलोलित इति दोलावन्नीतः । अपरग्रहणात्त्रिपताक एवं ललाटाख्य इति केचित् । खटकाख्योऽपर इत्यन्ये पठन्ति । सजातीयतयानारम्भोऽस्य चतुर श्रवत् , विजातीयारम्भोऽपि नृत्ताभ्यासस्य व्यपदेशादरालखटकामुखवत् । अतो न द्विवचनम् । एककैस्य

Notes

1 -अंसदेश विनिष्क्रान्तौ -एकदेशविनिष्क्रान्तौः -केशदेशान्निवृत्तौ तु 2 -पार्श्वस्थितौ यदा -पार्श्वक्षितौ यदा 3 -बन्धाख्यौ 4 -चतुरश्रौ तु -लताख्यौ तु 5 -आदर्शे श्लोकोऽयमधिकोऽस्ति हस्तःपञ्चविधः कार्यो नाट्यनृत्तसमाश्रयः । उत्तानोऽधस्तलस्त्र्यश्र ऊर्ध्वाधोमुख एव च ।। 6 -पार्श्वविलोकितः -पार्श्वविलोडनः 7-द्वितीयःकटकाख्यश्च करिहस्तौ प्रकीर्तितौ 8 -करिहस्तौ प्रकीर्तितौ । *पताकाविति वर्तते । अन्ये त्रिपताकाविति, केचित्पल्लवाविति च वर्तयन्ति ।

1कटिशीर्षनिविष्ठौ द्वौ त्रिपताकौ यदा करौ ।
पक्षवञ्चितकौ हस्तौ तदा ज्ञेयौ प्रयोक्तृभिः2 ।। २००

तावेव तु परावृत्तौ पक्षप्रद्योतकौ3 स्मृतौ ।
4अधोमुखतलाविद्धौ ज्ञेयौ गरुडपक्षकौ ।। २०१

हंसपक्षकृतौ हस्तौ व्यावृत्तपरिवर्तितौ ।
तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ।। २०२

Abh

पृथक्प्रयोगे करिहस्तत्वाभावादित्येकवचनमेव । तदाकारत्वाच्चेदं नाम* ।

अथ पक्षवञ्चितौ पक्षप्रद्योतौ च-कटिशीर्षेति पाठः । वृत्तौ पक्षावञ्चितौ गतौ, तत्सम्मुखौ तु तं द्योतयतीति तथोक्तौ । एवकारेणानयोः व्यामिश्रतया प्रयोगशोभा भवतीत्याह ।

अथ गरुडपक्षौ-अधोमुखेति । अधोमुखै नितम्बक्षेत्रे भूत्वा तलेनाविद्धौ ऊर्ध्वगमनं झटिति कुर्वाणौ । तार्क्ष्यभुजाकाराक्षेपात् लिङ्गवाक्यप्रमाणत्वात्सुकरणं प्राप्तं त्रिपताकबाधेन पताकावुपलभ्येते ।

अथ दण्डपक्षौ-हंसपक्षकृताविति । एकस्य हंसपक्षस्य व्यावर्तने विलासेन पार्श्वाद्वक्षः क्षेत्रस्य निकटस्य वर्तनं तत्समकालमेव द्वितीयस्य स्वेदेहपरिवर्तनेन वर्तनं भुजप्रसारणपर्यन्तं पुनरपरेणाङ्गेनेति द्वावपि प्रसारितभुजौ व्यावर्तितपरिवर्तितौ च भवत इति पक्षे पार्श्वतो दण्डवद्भुज इति दण्डपक्षौ । युगपदेव द्वयोरपि प्रसारणं व्यावर्तनपरिवर्तने तु क्रमेणेत्यन्ये ।

Notes

1 -करिहस्तनिविष्टाग्रौ 2 -विज्ञेयौ नाट्यकोविदैः 3 -पक्षोद्द्योतकरौ 4 -चतुरश्रमुरः कृत्वा 1 तत्संमुखौ कृतम् । *यत्कीर्तिधराचार्येण त्वर्धरेचिताविति नामसाम्येन करिहस्ताविति द्विवचनान्तपाठ एव गृहीतः साधीयानिति समर्थितश्च तन्मतस्य खण्डनमेतद्वाक्यम् । अयं भावः-चतुर श्रावित्यादौ सजातीयकरद्वन्द्वेन वा, अरालखटकामुखादौ विजातीयतया वा द्विवचनं संभाव्यते । न तु करिहस्ते यत्राकृतित्वाच्च, द्वितीयहस्तप्रयोगगौणत्वाच्च, एकहस्तप्रयोग एव द्योत्यते ।

ऊर्ध्वमण्डलिनौ 1हस्तावूर्ध्वदेशाविवर्तनात् ।
तावेव पार्श्वविन्यस्तौ पार्श्वमण्डलिनौ स्मृतौ2 ।। २०३

उद्वेष्टितो भवेदेको द्वितीयश्चापवेष्टितः3 ।
4भ्रमितावुरसः स्थाने ह्युरोमण्डलिनौ स्मृतौ ।। २०४

5अलपल्लवकारालावुरोऽर्धभ्रमणक्रमात् ।

Abh

अथोर्ध्वमण्डलौ -ऊर्ध्वमण्डलिनाविति । वक्षोदेशाद्व्यावर्तितकरणेन ललाटक्षेत्रेण पार्श्वगमनं विधाय ततोऽपि मण्डलवद्भ्रमणेन प्रसारितावूर्ध्वमण्डलिनौ । प्रसारितभुजाविति वर्तते । ललाटप्राप्तिपर्यन्तेनैवानयोर्लक्षणं शिष्टं तु पार्श्वमण्डलिनोरिति केचित् । तावेव पार्श्वविन्यस्ताविति वचनान्नृत्तप्रसिद्ध (चक्र) वर्तनात्मकावूर्ध्वमण्डलावित्यन्ते * ।

अथ पार्श्वमण्डलौ -तावेविति । ऊर्ध्वमण्डलावेव पार्श्वगतौ पताकाकृती परस्परसम्मुखौ। *अन्ये तु निर्वचनसमर्थनाशयेन स्वपार्श्व एवाविद्धभुजभ्रमणवर्तनात्मकमनयो रूपमाहुः ।

अथोरोमण्डलिनौ -उद्वेष्टित इति । चकारसंनियोगेन यौगपद्यमाह । उरस इति पञ्चमी। तत आरभ्य पार्श्वक्षेत्रे भ्रमितावेकस्यागमनस्य परस्य गमनमिति वर्तनया । षष्ठीत्यन्ये वदन्तः तत्रैव स्थानमित्याहुः। ऊर्ध्वपार्श्वोरोमण्डलिषु हंसपक्षावित्यपरे वर्तयन्ति ।

अथोरःपार्श्वार्धमण्डलौ-अलपल्लवकारालाविति । वक्षोदेशत उत्तानो हस्तः संस्तम्भोऽलपल्लवसंस्थानदायिना व्यावर्तितकरणेन निष्कृष्यते ।

Notes

1 -ज्ञेयौ पुरो -हस्तावुरो 2 -करौ -विज्ञेयौ मण्डलौ करौ 3 -द्वितीयश्च विवेष्ठितः 4 -भ्रमितौ -तद्भ्रामितावुरःस्थाने ह्युरो 5 -अलपल्लवसंस्थानावूर्ध्वाग्रौ पद्मकोशकौ -अलपल्लवकारालानुरोर्ध्व -अलपल्लवकारालावधोर्ध्व । *अन्ये -कीर्तिधराचार्यादयः । ते पार्श्वमण्डलिनोः कक्षवर्तनेस्याहुः ।

1पार्श्वावर्तश्च विज्ञेयावुरःपार्श्वार्धमण्डलौ2 ।। २०५

हस्तौ तु मणिबन्धान्ते कुञ्चितावञ्चितौ यदा3 ।
4खटकाख्यौ कृतौ स्यातां मुष्टिकस्वस्तिकौ तदा ।। २०६

5पद्मकोशौ यदा हस्तौ 6व्यावृत्तपरिवर्तितौ ।
नलिनीपद्मकोशौ तु 7तदा ज्ञेयौ प्रयोक्तृभिः ।। २०७

Abh

तत्समकालं च पार्श्वप्रसारितभुजो द्वितीयो हस्तस्तर्जन्याद्युद्वेष्टितसन्निवेशेनारालरूपदायिना वक्षोदेशमानीयते । पुनरेवमिति । उरसि अर्धमेको हस्तः पार्श्वे च द्वितीयो मण्डलवद्गतागतक्रमणे कुरुत इति तथोक्तौ ।

अथ मुष्टिकस्वस्तिकौ-हस्तौ तु मणिबन्धान्त इति । एकः कुञ्चितोऽरालवर्तनया, अपरोऽञ्चितोऽलपल्लववर्तनया पुनरङ्गपर्याय1 इत्येवं वर्तनानन्तरं खटकामुखाभ्यां स्वस्तिक इति पारम्पर्येण मुष्टिप्रभवत्वात्खटकस्य मुष्टिकस्वस्तिकव्यपदेशो मुष्टिशिखरकपित्थखटकानामान्यतमप्रयोगानुज्ञानार्थमिति तद्विदः* ।

अथ नलिन्याख्यौ पद्मकोशौ-पद्मकोशाविति । पद्मकोशौ सम्मुखौ श्लिष्टमणिबन्धौ । ततोऽप्येकस्य कनीयसः संमुखमपरस्याङ्गुष्ठं मुखं क्रियया परिवर्तनमिति केचित् । इदं त्वत्र युक्तम्-व्यावृत्तेन परिवृत्तौ यदा पद्मकोशाविति सङ्गतिः । अस्मिन् मुष्टावेव स्वस्तिकक्षेत्रे करौ कृत्वा द्वयोरपि यदा व्यावर्तितकरणेन कनिष्ठादिना परिवर्तनमन्योन्यपराङ्मुखता तदनन्तरं च पद्मकोशद्वयं तदा । नलिन्यामनेककमलसंभावादिदं नाम ।+

Notes

1 -पार्श्वार्धतश्च -पार्श्वोर्ध्वत्श्च 2 -पार्श्वोर्ध्वमण्डलौ 3 -कुञ्चितावकुञ्जितौ 4 -खटकाख्यौ तु तौ -खटकास्यौ तु तौ - तदामुष्टयागतौ ज्ञेयौ संमुखौ तु परस्परम् । -पद्मकोशकृतौ 6 -व्यावर्त -न्यस्तौ तु स्वस्तिकौ यदा 7 --तौ नाम्नौ संप्रकीर्तितौ । 1 व्यवायः । *एकः कुञ्चितो मुष्टिरपरोञ्चितः खटकः इत्युक्त्वा तावेव खङ्गवर्तनेत्याह कीर्तिधराचार्यः । +कीर्तिधरस्तु पद्मकोशौ स्कन्धस्तनजानुष्वन्यतमक्षेत्रे विवर्तिताविति लक्षयति । तावेव पद्मवर्तनेति चाह ।

करावुद्वेष्टिताग्रौ च1 2प्रविधायालपल्लवौ ।
3ऊर्ध्वप्रसारिताविद्धौ 4कर्तव्यावुल्बणाविति ।। २०८

पल्लवौ 5च शिरोदेशं6 संप्राप्तौ 7ललितौ 8aस्मृतौ8 ।
कूर्परस्वस्तिकगतौ9 लताख्यौ वलिताविति10 ।। २०९

11[करणे तु प्रयोक्तव्या नृत्तहस्ता विशेषतः ।
तथार्थाभिनये चैव पताकाद्याः प्रयोक्तृभिः ।। २१०

सङ्करोऽपि भवेत्तेषां प्रयोगोऽर्थवशात्पुनः ।
प्राधान्येन पुनस्संज्ञा नाट्ये नृत्ते करेष्विह ।। २११

Abh

अथोल्बणौ ललितौ च । करावुद्धेष्टिताग्राविति । वक्षःक्षेत्रादुद्वेष्टितप्रधानौ हस्तौ विधायोर्ध्वस्कन्धक्षेत्रे प्रसारितावाविद्धौ च स्कन्धाभिमुखचलदङ्गुलीकावलपल्लवौ भवतस्तदोल्बणौ । हर्षपरवशां चित्तवृत्तिं सूचयतः इत्युल्बणौ ।

अथ ललितौ -अलपल्लवावेव तु शिरःक्षेत्रप्राप्तौ चलिनौ ललितौ चातुरश्रयेणाङ्गलालित्योपादानात् ।

अथ वलितौ -कूर्परस्वस्तिगताविति । कूर्परस्थाने स्वस्तिकौ लताहस्तौ बाह्वोर्वलनाद्वलितौ इति । शब्द एवंप्रकारवर्तनान्तरसूचकः ।

करणसंश्रायन्करान्वक्ष्यामीति करणासक्तत्वाद्विशेषणभागस्यैव संश्रियमाणस्य करणस्य प्रवचनं फलतः । यथा लोहितोष्णीषा ऋत्विजः प्रचरन्तीति वचनान्तरादृत्विजां प्रचारलाभात् द्वाविति ( ?) विभक्तिरुपपदार्थविधानपरेति करणं करणानि वा इति ह्यर्थे पाठः । (करणं) क्रियते सम्पाद्यते बलादेवाभिनयविशोषो, येनाङ्गुलितुलनक्रियाविशेषेण स्वसमाप्तौ निराकाङ्क्षायां स करणं, यथा कनिष्ठाद्यावर्तनेनालपल्लवः, विपरीतवर्तनायां तु परिसमाप्त्यभावे वर्तनायाः क्रियान्तराकाङ्क्षा । तदेवेदमङ्गतत्त्वविदस्त्रोटनमङ्गस्येति

Notes

1 -तु 2 -विच्युतावलपल्लवौ 3 -ऊर्ध्वं 4 -विज्ञेयौ 5 -तु 6 -देशे 7 -वलितौ 8 -लता 8a-N: तथा 9 - न्यस्तौ 10 -लताख्यवलिताविति -वलितौ स्मृतौ 11 द्वौ श्लोकौ नमयोरेव ।

1वियुतास्संयुताश्चैव नृत्तहस्ताः प्रकीर्तिताः2 । ]
3अतः परं प्रवक्ष्यामि करान्करणसंश्रयान्4 ।। २१२

सर्वेषामेव हस्तानां नाट्यहस्तनिदेशिभिः5 ।
6विज्ञातव्यं प्रयत्नेन करणं तु चतुर्विधम् ।। २१३

7अथावेष्टितमेकं स्यादुद्वेष्टितमथापरम् ।
व्यावर्तितं तृतीयं 8तु चतुर्थं परिवर्तितम् ।। २१४

9आवेष्ट्यन्ते यदाङ्गुल्यस्तर्जनव्याद्या यथाक्रमम् ।
10अभ्यन्तरेण करणं तदावेष्टितमुच्यते11 ।। २१५

12उद्वेष्ट्यन्ते यदाङ्गुल्यस्तर्जन्याद्या बहिर्मुखम्13 ।
क्रमशः करणं विप्रास्तदुद्वेष्टितमुच्यते ।। २१६

14आवर्त्यन्ते कनिष्ठाद्या 15अङ्गुल्योऽभ्यन्तरेण तु ।
16यथा क्रमेण करणं तद्व्यावर्तितमुच्यते ।। २१७

Abh

व्यवहरन्ति । तेन येषु हस्तेषु तर्जन्यादेः कुञ्चनं तेष्वरालवत्क्रिया, यथा शुकतुण्ड- चतुरमृगशीर्षकादिषु । एवमन्यदुत्प्रेक्ष्यम् । पताकस्य तु सर्ववर्तनासु कार्य- करणतया साधारण्यं सर्वप्रकृतित्वम् । तत एव प्राधान्यात् पताकव्यपदेशः । नाट्यशब्देनाभिनयनहस्ताः नृत्तशब्देन नृत्तहस्ताः सूचिताः । अभ्यन्तरेण तलसंमुखत्वेन

Notes

1 -असंयुताः संयुताश्च 2-हस्ताश्च कीर्तिताः 3 -वक्ष्याम्यतः परमहं 4 -करणं हस्तसंश्रयम् 5 -नृत्तप्रवेदिभिः -नृत्तप्रदर्शिभिः -नृत्तप्रदेशिभिः -ज्ञेयं कर्म चतुर्विधम् 6 -आदर्शे श्लोकार्धो नास्ति 7 -अपवेष्टित -उद्वेष्टितमपवेष्टितमावर्तविवेष्टितं चैव 8 -च 9 -उद्वेष्ट्यन्ते 10 -उद्वेष्टितं तु करणं तज्ज्ञेयं हस्तसंश्रयम् । -भवेत्तदपवेष्टितम् -आवेष्टितं तु करणं तदा ज्ञेयं प्रयोक्तृभिः 12 -आवेष्ट्यन्ते 13 -मुखाः -कनिष्ठाद्याः पुनः पुनः । तदावेष्ठितमित्याहुः करणं हस्तसंश्रयम् । यदाङ्गुल्योऽपवेष्ट्यन्ते कनिष्ठाद्याः पुनः पुनः । अपवेष्टितमित्याहुः करणं हस्तसंश्रयम् । कुञ्चितौ मणिबन्धान्ते व्यावृत्तपरिवेष्टितौ । शुकतुण्डे यदाहस्तं स्मृतं त्वावर्तितं तत् ।। 14 -आवेष्ट्यन्ते -आवर्त्यन्ते -आदर्शे द्वौ श्लोकौ न स्तः 15 ह्यङ्गुल्यौ 16 -यत्तु -यत्र ।

1उद्वर्त्यन्ते कनिष्टाद्या बाह्यतः2 क्रमशो यदा ।
अङ्गुल्यः करणं विप्रास्तदुक्तं परिवर्तितम् ।। २१८

3नृत्तेऽभिनययोगे च4 पाणिभिर्वर्तनाश्रयैः ।
मुखभ्रूनेत्रयुक्तानि करणानि प्रयोजयेत्5 ।। २१९

6तिर्यक्तथोर्ध्वसंस्थो ह्यधोमुखश्चाञ्चितोऽपविद्धस्तु ।
मण्डलगतिस्तथा स्वस्तिकश्च पृष्ठानुसारी च ।। २२०

Abh

बाह्यपार्श्वात् देहं प्रति वक्षःक्षेत्रपर्यन्तप्राप्त्या । अतो वैपरीत्येन बहिर्मुखत्वं कनिष्ठाद्यावर्तत इति तलसंमुखमेवाभ्यन्तरत्वं वक्षःक्षेत्रात्तु बहिर्निगर्मनम् । एतद्विपर्यासेन बाह्यता ।

ननु किमेतैरावेष्टिताद्यैरित्याशङ्क्य एतेषां साधकतमत्वं दर्शयति नृत्तेऽभिनययोगे चेति । नृत्ते नाट्ये च करणानि प्रकर्षेण योजयेत् । केन हेतुनेत्याह पाणिभिरिति, यतो वर्तना जाता जन्यजनकाश्च पूर्वपश्चाद्भावित्वेन । पाणयो नृत्तनाट्यहस्ताः । कथं प्रयोजयेदित्याह मुखभ्रूनेत्रयुक्तानीति । यतो हि वर्तना धावन्ति तत एव मुखा(दी)नीति तात्पर्यम् । नेत्रभ्रूमुखरागाः यैर्व्यञ्जिता इति त्वियमभिनयेषु पूरणार्था प्रक्रिया । इयं तु वर्तनास्वित्यपौनरुक्त्यम् ।

बाहुलग्नत्वाङ्गुलिक्रियायास्तद्भेदानाह तिर्यक्तथोर्ध्वसंस्थ इत्यादि । तिर्यगिति पार्श्वगत्या, ऊर्ध्वः शिरसोऽप्युपरि गच्छन्, अधोमुखो भुवमाश्लिष्यन्, अञ्चितो वक्षोदेशान्निष्क्रम्य शिरःक्षेत्रमेव प्रत्यागतः, अपविद्धो, मण्डलगतेः सर्वतो भ्रमन्. ।

Notes

1 –आवर्त्यन्ते –उद्वेष्टयन्ते 2 –बाह्यशः 3 –नृत्ते चाभिनये चापि हस्तैरेतानि नित्यशः 4 –तु 5 –करणानि तु कारयेत् । 6 , N–प्रभृतिष्वादर्शेषु– तिर्यगूर्ध्वगतश्चैव तथाधोमुख एव च । आविद्धश्चाप (पि–म) विद्धश्च मण्डलः स्वस्तिकस्तथा । अञ्चितः कुञ्जितश्चैव पृष्ठगश्चेति चोदितः (ताः –म) ।। बाहुप्रकारो (शो–ड, श–द) दशधा नाट्यनृत्तसमाश्रयः (प्रयोक्तृभिः –ड)

उद्वेष्टितः प्रसारित इत्येते वै स्मृताः प्रकारास्तु ।
बाह्वोरिति करणगता 1विज्ञेया नर्तकैर्नित्यम् ।। २२१

हस्तानां करणविधिर्मया समासेन निगदितो विप्राः ।
अत ऊर्ध्वं व्याख्यास्ये 2हृदयोदरपार्श्वकर्माणि3 ।। २२२*

4आभुग्नमथ निर्भुग्नं तथा चैव प्रकम्पितम् ।
उद्वाहितं समं चैव ह्युरः5 पञ्चविधं स्मृतम् ।। २२३

6निम्नमुन्नतपृष्ठं च 7व्याभुग्नांसं श्लथं क्वचित् ।
आभुग्नं 8तदुरो ज्ञेयं कर्म चास्य निबोधत ।। २२४

Abh

पृष्ठं स्वकायस्यानुसरतीति पृष्ठानुसारी । उद्वेष्टितो मणिबन्धनवर्तनया निष्क्रामणप्रसारितस्य तु स्पष्टमेवाग्रमनुधावन् । एतेषु करणेषु चतुर्षु द्रुतमध्यविलम्बितादिवैचित्र्येण बाहुपर्यायेण च समस्तानि योजनया यदा नियुज्यन्ते तदा घातवर्तनादिशतसहस्राण्यत्रैवान्तर्भूतानीति यदेके चत्वारिंशतमन्ये शतमाहुस्तन्मिथ्यैव । तदाह करणगता विशेषा अवश्यं ज्ञातव्या इति । नित्यमेतद्‌व्यतिरिक्तप्रयोजनाभावात् ।

अथोरसः कर्माण्याह आभुग्नमित्यादि । निम्नमिति ससङ्कोचम् । क्वचिदिति मध्ये मध्ये, श्लथं शिथिलं निरवष्टम्भं कृत्वा व्याभुग्नावधः पतन्ताविवांसौ । यत्र शीतेनापि विना दुर्दिने ।

Notes

1 – विशेषा 2 –हृदयोरः 3 –प्रभृति – पर्यन्तं सर्वासु मातृकासु “इति भारतीये नाट्यशास्त्रे हस्ताभिनयो नाम नवमोऽध्यायः –हस्ताध्यायः – नवमः (१८८ आदितः १६८८ श्लो) N –हस्ताध्यायो नवमः । 4 –आभुग्नमप्यनिर्भुग्नं 5 –उरः 6 –निम्नमध्यं भवेद्यत्त व्याभग्नांसं तथैव च । आभुग्नमिति तत्प्रोक्तं कर्माण्यस्य निबोधत ।। 7 –आभुग्नांसं – व्याभुग्नं संश्लथं 8 –च उरो *Vs २२२-२८३ (G.O.S) are read as ch. X दशमोऽध्यायः in(N) The colophon of ch IX(N)is given on p., ९२; and the colophon of ch X(N)is also given on p ९२.

1सम्भ्रमविषादमूर्च्छाशोकभयव्याधिहृदयशल्येषु2 ।
कार्यं 3शीतस्पर्शे वर्षे 4लज्जान्वितेऽर्थवशात् ।। २२५

5स्तब्धं च निम्न5aपृष्ठं च निर्भुग्नांस समुन्नतम् ।
उरो निर्भुग्नमेतद्धि कर्म चास्य निबोधत ।। २२६

स्तम्भे 6मानग्रहणे विस्मयदृष्टे च7 8स्तय8aवचने 8च ।
अहमिति च 9दर्पवचने 10गर्वोत्सेके च कर्तव्यम् ।। २२७

[11अत्र केचित् – क्षेपकोऽयम्– दीर्घनिःश्वसिते चैव जृम्भणे मोटने तथा ।
12बिब्बोके च पुनः स्त्रीणां तद्विज्ञेयं प्रयोक्तृभिः ।।] २२८

13ऊर्ध्वक्षेपैरुरो13a यत्र निरन्तरकृतैः कृतम्14 ।
15प्रकम्पितं च 16तज्ज्ञेयमुरो नाट्यप्रयोक्तृभिः ।। २२९

17हसितरुदितेषु कार्यं श्रमे भये श्वासकासयोश्वैव ।
18हिक्के दुःखे च तथा नाट्यज्ञैरर्थयोगेन ।। २३०

Abh

एवमेव मार्गे भ्रमणमिति वर्ष इत्युक्तम् । सम्यगुत्थितं कृत्वा निष्क्रान्तौ शुद्धा(भुग्रा ?) वंसौ यत्र । हिक्का स्पष्टम् ।

Notes

1––शस्त्रच्छेदे विषादे च हृच्छोके मूर्छिते भवेत् । खेदे कार्यं वर्षे शीतस्पर्शे लज्जान्वितेऽपि च ।। 2 –शिल्पेषु 3 –तेन स्पर्शे –शीते , N– शीते वर्षे स्पर्शे 4 –लज्जाः यिते 5 –स्तब्धं समुन्नतं चैव निम्नं पृष्ठं तथैव च 5a– N ऊध्वँ च निम्न 6 –मानप्रग्रहणे –माने ग्रहणे 7 तु 8 – दृष्टे च –विस्मयहर्षे च सत्त्वदृष्टे च 8a– N सत्त्वदृष्टे च; 9 –जल्प 10 –गर्वोत्साहे –गर्वे शोके –गर्वाद्वृत्ते विषादे च 11 अयं श्लोकः कखगच–आदर्शेष्वेवास्ति 12 –विद्वेषे 13 –ऊर्ध्वोत्क्षेपै –उरोक्षेपैः –ऊर्ध्वोक्षेपैरुरसो 13a– N –उरोक्षेपे करो यत्र 14 – कृतैर्युतम् 15 –आकम्पितं तु कर्तव्यं कर्म चास्य निबोधत 16 –तु विज्ञेयं ,N –तु तज्ज्ञेयं कर्म चास्य निबोधत 17 –हसिते रुदिते कार्यं दड–हसितरुदितादि (द–ति) संभ्रमभयश्रमव्याधिपीडितार्थेषु 17a–N हसितरुदितसंभ्रमभयश्रव्याधिपीडितार्थेषु 18 –हिल्के –हिक्का दड N–नानाभावोपगतं कार्यमुरो नाट्ययोगेषु

1उद्वाहितं तूर्ध्वकृतमुरो ज्ञेयं प्रयोक्तृभिः1a ।
2दीर्घोच्छ्वासोन्नतालोके जृम्भणादिषु चेष्यते ।। २३१

3सर्वैरेवाङ्गविन्यासैश्चतुरश्रकृतैः कृतम्4 ।
5उरः समं तु विज्ञेयं स्वस्थं सौष्ठवसंयुतम् ।। २३२*

एतदुक्तं मया सम्यगुरसत्तु विकल्पनम्6 ।
7अतः परं प्रवक्ष्यामि पार्श्वयोरिह8 लक्षणम् ।। २३३

नतं समुन्नतं चैव प्रसारितविवर्तिते9 ।
10तथापसृतमेवं तु पार्श्वयोः कर्म पञ्चधा ।। २३४

11कटी भवेत्तु व्याभुग्ना पार्श्वमाभुग्नमेव च12 ।
13तथैवापसृतांसं च किञ्चित्पार्श्वं नतं स्मृतम्14 ।। २३५

15नतस्यैवापरं पार्श्वं विपरीतं तु युक्तितः16 ।
17कटिपार्श्वभुजांसैश्चाभयुन्नतैरुन्नतं भवेत्18 ।। २३६

19आयामनादुभयतः पार्श्वयोः स्यात्प्रसारितम् ।

Notes

1परिवर्तात्ति/?/कस्यापि विवर्त्तितमिहेष्यते2 ।। २३७

3निवर्तनापनयनाद्भवेदपसृतं पुनः4 ।
5पार्श्वलक्षणमित्युक्तं विनियोगं निबोधत ।। २३८

6उपसर्पे नतं कार्यमुन्नतं चापसर्पणे7 ।
प्रसारितं 8प्रहर्षादौ परिवृत्ते विवर्तितम्8a ।। २३९

विनिवृत्ते त्वपसृंत पार्श्वमर्थवशाद्भवेत् ।
एतानि पार्श्वकर्माणि जठरस्य निबोधत9 ।। २४०

क्षामं खल्वं10 च पूर्णं च सम्प्रोक्तमुदरं त्रिधा11 ।
तनु क्षामं नतं 12खल्वं 13पूर्णमाध्मातमुच्यते ।। २४१

क्षामं14 हास्येऽथ रुदिते निःश्वासे जृम्भणे भवेत् ।
व्याधिते तपसि15श्रान्ते क्षुधार्ते खल्वमिष्यते ।। २४२

16पूर्णमुच्छ्वसिते स्थूले व्याधितात्यशनादिषु ।
17अन्ये तु– क्षामं खल्लं समं पूर्णमुदरं स्याच्चतुर्विधम् ।।] २४३

Notes

1 –परिवर्तः – परिवर्तितकस्यपि –परिवर्तं त्रिकस्याथ –परिवर्तनात्त्त्रिकस्यापि 2 –अथोच्यते 3 –तस्यैव चापगमनात् 4 –सृतं तु तत् 5 –प्रयोगमेषां वक्ष्यामि पुनस्तन्मे नत…। 6 –उपसर्पणे नतं कार्यं –द्वौ श्लोकौ न स्तः 7 –चापसर्पणम् 8 –स्यादायामे परावृत्ते –प्रकर्षादौ परिवृतौ –प्रकार्षोदौ परावृत्त्या –प्रहर्षादौ त्रासे चापसृतं भवेत् । विवर्तनं निवर्ते च करणे पार्श्वमिष्यते 8a–N: प्रसारितं स्यादायामे परावृत्ते विवर्जितम् । 9 –यथायोगं प्रयोजयेत् 10 – खल्लं 11 – बुधैः 12 –खल्लं 13 –पूर्णमायात –पूर्णमायात –पूर्णमाध्यात –पूर्णमाध्नात 14 – हासे च –तु हसिते कार्यं तथा चैव प्रञ्जृभण 15 –तपसा 16 –पूर्णं निःश्वसिते कार्यं भुक्ते पीते च योक्तृभिः –पूर्णमुच्छवासिते स्थूल –पूर्णमुच्चिलिते स्थूलव्याधितन्दद्यशनादिषु , N –पूर्णमुच्छवासितारोग्य 17 जादिमान्तेष्वादर्शेषु नास्ति । N does not read this.

1इत्येतदुदरस्योक्तं कर्म कटया निबोधत ।
2छिन्ना चैव निवृत्ता च रेचिता कम्पिता तथा3 ।। २४४

उद्वाहिता 4चेति कटी नाट्ये नृत्ते च पञ्चधा5 ।
6कटी मध्यस्य वलनाच्छिन्ना सम्परिकीर्तिता7 ।। २४५

8पराङ्मुखस्याभिमुखी निवृत्ता स्यान्निवर्तिता9 ।
सर्वतो भ्रमणाच्चापि विज्ञेया रेचिता कटी10 ।। २४६

11तिर्यग्गतागता क्षिप्रं 12कटी ज्ञेया प्रकम्पिता ।
13नितम्बपार्श्वोद्वहनाच्छनैरुद्वाहिता कटी ।। २४७

14पुनश्चासां प्रवक्ष्यामि 15aविनियोगप्रयोजनम्15 ।
16छिन्ना व्यायामसम्भ्रान्तव्यावृत्त17 प्रेक्षणादिषु ।। २४८

18निवृत्ता वर्तने चैव रेचिता भ्रमणादिषु19 ।
20कुब्जवामननीचानां गतौ कार्या प्रकम्पिता ।। २४९

स्थूलेषूद्वाहिता योज्या स्त्रीणां लीलागतेषु च ।
कम्पनं वलनं चैव स्तम्भनोद्वर्तने तथा ।। २५०

Notes

1 –इत्येतदुदरं प्रोक्तं कटयाः कर्म 2 –छिन्ना प्रकम्पिता चैव विवृत्ता रेचिता तथा 3 –भवेत् 4 –चैव कटी 5 –नृत्ते पञ्चविधास्मृता 6 –मध्यस्य वलनात्तत्र कटी छिन्नेति कीर्तिता –सा परिकीर्तिता 7 –आदर्शे श्लोकार्धो नास्ति 8 –विवृत्ता परिकीर्तिता 9 –भ्रमणाच्चैव रेचिता त्वभिसंहिता 10 –आदर्शे छिन्नालक्षणानन्तरमस्ति 11 –क्षिप्ता 12 –विज्ञेया सा प्रकम्पिता 13 –नितम्बोद्बाहनाच्चैव क्रमेणोद्वाहिता स्मृता 14 जड –कटिकर्म मया प्रोक्तं विनियोगं निबोधत 15 –योगं प्रयोगजम् –योगं प्रसादजम् । 15a–N: विनियोगप्रयोगजम् 16 –छिन्ना कार्या कटी भ्रान्ते विवृत्ता वर्तनेषु च 17 , N–पृष्ठतः 18 –रेचिता रेचितेषु स्यादन्या लीलागते स्त्रियः 19 –भ्रमणेषुच 20 –वृद्धवामनकुब्जानां गतौ कार्या प्रकम्पिता । व्यायामे त्वथ संभ्रान्ते विवृत्ता प्रेक्षितेषु च । निवृत्ता…

1विवर्तनं च पञ्चैतान्यूरुकर्माणि कारयेत्2 ।
3नमनोन्नमनात्पार्ष्णेर्मुहुः स्यादूरुकम्पनम् ।। २५१

4गच्छेदभ्यन्तरं जानु यत्तु तद्वलनं स्मृतम् ।
5स्तम्भनं चात्र विज्ञेयमपविद्ध6क्रियात्मकम् ।। २५२

वलिताविद्धकरणादुद्वर्तनमितीरितम्7 ।
पार्ष्णिरभ्यन्तरं गच्छेद्यत्र तत्तु निवर्तनम्8 ।। २५३

9गतिष्वधमपात्राणां भये चापि हि कम्पनम्10 ।
वलनं चैव कर्तव्यं स्त्रीणां स्वैरपरिक्रमे ।। २५४

11साध्वसे च विषादे च स्तम्भनं सम्प्रयोजयेत्12 ।
व्यायामे ताण्डवे चैव कार्यमुद्वर्तनं बुधैः13 ।। २५५

14विवर्तनं च कर्तव्यं सम्भ्रमादिपरिक्रमे15 ।

Abh

शिष्टकटीत्रिकस्कन्धकर्माणि पार्श्वकर्माणीति । गतेषु तदुक्तमपविद्धक्रियात्मकमिति निष्क्रियत्वमिति यावत् ।

Notes

1 –निवर्तनं 2 –योजयेत् 3 –नमनोन्नमनं पार्ष्ण्योर्महीपृष्ठे द्रुतभ्रमम् । स्थित्वा पादतलाग्रेण तदूर्ध्वं कम्पनंस्मृतम् । 4 –गच्छेच्चाभ्यन्तरा –गच्छेदभ्यन्तरे –गच्छेदभ्यन्तराज्जानु –गच्छेदभ्यन्तरज्जानु शनैर्यद्वलनं तु तत् । क्रियायाश्चाप्रवृत्तिर्या स्तम्भनं तदुदाहृतम् । 5 –आदर्शे नास्ति 6 –अपवृत्तं 7 –भावो यस्तदुद्वर्तनमिष्यते –N करणादूर्वोरुद्वर्तनं स्मृतम् 8–तत्र निवर्तनम् 9 , N–आदर्शयोः त्रयो विनियोगश्लोका न सन्ति 10 – भवेच्चापि हि कम्पनम् – कम्पनं संप्रयोजयेत् – भयतोऽपि हि कम्पनम् –प्रकम्पनम् 11 –ह्रीसाध्वसविषादेषु 12 –तु प्रयोजयेत् 13 –तथा 14 –निवर्तनं 15 –परिभ्रमे

1यथादर्शनमन्यच्च लोकद्ग्राह्यं प्रयोक्तृभिः ।। २५६

इत्यूर्वोर्लक्षणं प्रोक्तं जङ्घयोस्तु2 निबोधत ।
3आवर्तितं नतं 4क्षिप्तमुद्वाहितमथापि वा5 ।। २५७

परिवृत्तं तथा चैव जङ्घाकर्माणि पञ्चधा6 ।
7वामो दक्षिणपार्श्वेन दक्षिणाच्चापि वामतः ।। २५८

8पादो यत्र व्रजेद्विप्रास्तदावर्तितमुच्यते9 ।
[जङ्घास्वस्तिकयोगेन क्रमादावर्तितं नयेत्9a ।।] २५९

जानुनः कुञ्चनाच्चैव10 नतं ज्ञेयं प्रयोक्तृभिः ।
विक्षेपाच्चापि11जङ्घायाः क्षिप्तमित्यभिधीयते ।। २६०

[नतं स्याज्जानुनमनात्क्षिप्तं विक्षेपणाद्बहिः ।]
उद्वाहितं च12 विज्ञेयमूर्ध्वमुद्वाहनादिह13 ।। २६१

14प्रतीपनयनं यत्तु परिवृत्तं तदुच्यते15 ।
आवर्तितं प्रयोक्तव्यं 16विदूषकपरिक्रमे ।। २६२

17 नतं चापि हि कर्तव्यं स्थानासनगतादिषु ।
क्षिप्तं व्यायामयोगेषु ताण्डवे च प्रयुज्यते18 ।। २६३

तथा चोद्वाहितं 19कार्यमाविद्धगमनादिषु ।
ताण्डवादौ प्रयोक्तव्यं परिवृत्तं प्रयोक्तृभिः ।। २६४

Notes

1 -तथा 2 -जङ्घायास्तु -जङ्घयोश्च 3 -आवर्तनं -आवर्तितं तु तं 4 -क्षिप्र 5 -च 6 - कारयेत् N -पञ्चवै 7 -जङ्घास्वस्तिकयोगेन क्रमादावर्तितं भवेत् । नतं स्वाङ्गानुगमनाद्विक्षिप्तं क्षेपणाद्बहिः । 8 -पादो यत्राग्रतो विप्राः 9 - तदावर्तनमिष्यते 9a- N -भवेत् 10 -कुञ्चनं वापि 11 - विक्षेपाच्चैव 12 -तु 13 -उद्वाहनादपि उद्वाहनाद्बुधैः -उद्वाहनादथ 14 - प्रपात -प्रतीपगमनं 15 -तदिष्यते 16 - संभ्रमाति 17 -विनियोगश्लोकाः न सन्ति 18 -प्रयोजयेत् 19 -कुर्यात्

1इत्येवं जङ्घयोः कर्म पादयोस्तु2 निबोधत ।
3उद्धट्टितः समश्चैव तथाग्रतलसञ्चरः ।। २६५

अञ्चितः कुञ्चितश्चैव पादः पञ्चविधः स्मृतः3a ।
4स्थित्वा पादतलाग्रेण पार्ष्णिर्भूमौ5 निपात्यते6 ।
यस्य पादस्य करणे भवेदुद्धट्टितस्तु सः7 ।। २६६

8अयमुद्वेष्टितकरणेष्वनुकरणार्थं प्रयोगमासाद्य8a ।। २६७

9द्रुतमध्यमप्रचारः सकृदसकृद्वा प्रयोक्तव्यः10 ।
स्वभावरचितो11 भूमौ समस्थानश्च यो भवेत्12 ।
13समपादः स विज्ञेयः स्वभावाभिनयाश्रयः ।। २६८

स्थिरः स्वभावाभिनये नानाकरणसंश्रये ।
14चलितश्च पुनः कार्यो 15विधिज्ञैः पादरेचिते16 ।। २६९

Abh

बहिः पार्ष्णिक्षेपाच्च पतनमाविद्धमूरोः वर्तना करण इति क्रियायां सत्यामित्यनेन पुनः पुनः पादतलाग्रात्तु स्थानं च कर्तव्यमिति दर्शयति । ऊर्ध्वविकृतस्य घट्टनानुद्धट्टितः उद्वेष्टितरूपं यत्करणमुद्वेष्ट्यन्ते यदाङ्गुल्य इत्यादि तदेव बाहुकर्मभेदाद्बहुधा । तत्रास्य प्रयोग इति वर्तनाश्रयो विनियोगः। केचित्तु प्रयोगमासाद्यानुकरणार्थमप्यस्य प्रयोग इत्यूचुः । यथा विक्रमोर्वश्यादौ पुरूरवः प्रभृतेः। एतेन नाट्यविषयो विनियोग उक्तः ।

Notes

1 -इत्येतत् -एतत्तु 2 -पादयोश्च 3 -उध्दट्टितं समं चैव N-उद्धाटितः समस्त्य्श्रः—पादः षोढा प्रकीर्तितः 3a- N -पञ्च प्रकीर्तितः, 4 N -स्थित्वाग्रतलपादेन -स्थित्वा पादान्तलग्नेन 5 -पार्ष्णिभूमौ 6 -निवेशयेत् 7 - भवेदुद्धाटितस्तु सः -स तूद्धट्टित इष्यते 8 -अयमुद्धट्टित -अयमुद्धाटित 8a- N अनुकरणार्थे च योगमासाद्य 9 म द N -ललितमुधरप्रचारः 10 -वापि कार्यस्तु -समकृद्वा प्रयोक्तव्यः 11 -रचितौ 12 -समस्थानं च योजयेत् 13 - समो मतः स पादस्तु 14 -वलिता च पुनः कार्या -वलितश्च 15 -विक्षेपः 16 -रेचके

[1समस्यैव यदा पार्ष्णिः पादस्याभ्यन्तरे भवेत् ।
बहिः पार्श्वस्थितोऽङ्गुष्ठस्त्य्र/?/श्रपादस्तु स स्मृतः1a ।। २७०

त्यक्त्वा (कृत्वा?) समपदं स्थानमश्वक्रान्ते तथैव च।
स्याद्विक्लवादिष्वर्थेषु त्र्यश्रः पादो यथाविधि] ।। २७१

[2अस्यैव समपादस्य पार्ष्णिरभ्यन्तरे भवेत् ।। २७२

त्र्यश्रपादः स विज्ञेयः स्थानकादिषु संश्रयः ।]
उत्क्षिप्ता तु भवेत्पार्ष्णिः 3aप्रसृतोऽङ्गुष्ठकस्तथा3 ।। २७३

4अङ्गुल्यश्चाञ्चिताः सर्वाः पादेऽग्रतलसञ्चरे5 ।
6तोदननिकुट्टने7 स्थितनिशुम्भने भूमिताडने भ्रमणे8 ।। २७४

9विक्षेपविविधरेचकपार्ष्णिकृतागमनमेतेन10 ।
11पाष्णिर्यस्य स्थिता भूमौ पादमग्रतलं12 तथा ।। २७५

Abh

अग्रेण नतेन च न त्वरत इति । तथा तोदनं प्रेरणम् , निकुट्टनं तदवग्रहणं स्थितं स्थानकादि, शुम्भनं पीडनं, (ताडनं) हननं, विक्षेपो भूतस्यापसारणं

Notes

1 -आदर्श एव 1a- N संस्मृतः 2 ज द न-आदर्शेष्वेव 3 -पार्ष्णिरञ्चितोऽङ्गुष्ठस्तथा -पाष्णिरञ्चितोऽङ्गष्ठकस्तथा, 3a-N-स तेनाग्रतलेन च 4 -अङ्गुल्यग्राञ्चिताः 5 -पादोऽग्रतलसञ्चरे -पादोऽग्रतलसंचरः -पादे च तलसंचरे 6 -नोदन 7 - निकुट्टिते -निकुट्टनस्थितस्तम्भने 8 -स्थितिनिसुम्भिते भूमिताडने चैव - निशुम्भिते भूमिताडन भ्रमणे 9 -विक्षिप्त -विक्षेपविधिरेचकपाणिकृतगमन 10 - क्षताग्रगमनमेतेन -कृतं गमनमेतेन -क्षणगमनमेतेन -क्षतगमनमेतेन 11 -पार्ष्णिर्यस्य - ऊर्ध्वमग्रतलं यस्य पार्ष्णिर्भूमौ स्थिता तदा । अञ्चितः स स्मृतः पादः कर्म चास्य निबोधत ।। 12 N- यस्याञ्चिचा भूमावूर्ध्वमग्रतलं -भूमावुच्चमग्रतलं

अङ्गुल्यश्चाञ्चिताः1 सर्वाः स 2aपादोऽञ्चित उच्यते2 ।
3पादाग्रस्थितसञ्चारे3a वर्तितोद्वर्तिते4 तथा ।। २७६

5एष पादाहते कार्यो नानाभ्रमरकेषु च ।
उत्क्षिप्ता यस्य पार्ष्णिः स्यादङ्गुल्यः कुञ्चितास्तथा ।। २७७

6तथाकुञ्चितमध्यश्च स पादः कुञ्चितः स्मृतः ।
7उदात्तगमने चैव वर्तितोद्वर्तिते8 तथा ।। २७८

अतिक्रान्तक्रमे चैव पादमेतं9 प्रयोजयेत् ।
10[उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः11 ।। २७९

वामश्चैव स्वभावस्थः सूचीपादः प्रकीर्तितः ।
12नृत्ते नूपुरकरणे प्रयोगस्तस्य कीर्तितः13 ।। ] २८०

14पादजङ्घोरुकरणं समं कार्यं प्रयोक्तृभिः ।
पादस्य करणे सर्वं जङ्घोरुकृतमिष्यते15 ।। २८१

Abh

भ्रान्तकं मनसः, विविधरेचकः करपादरेचकः। अञ्चिता इति प्रसृताः । अञ्चितमुद्वर्तितं विदूषकादिगतौ । भ्रमरी चारी, येषु प्रयोगेषु ते भ्रमरकाः । सूचीं षष्ठं पादमन्ये पठन्ति नूपुरस्य पादभूषणस्य करणे बन्धने । कट्यूरुजङ्घापादकर्माण्येव परव्यामि श्रीभूततावैचित्र्येण समुदिततया प्रयुज्यमानानि चारीत्युच्यन्ते । तत्समुदायस्य मण्डलभेदेन गतिर्निष्पद्यत इति कट्यादिपादान्तकर्मणैव चार्य उक्ताः । अत एव तासां विनियोगः पृथङ्नोक्तः ।

समनन्तरं त्वध्यायत्रयं तद्वैचित्र्योदाहरणप्रदर्शनार्थमित्येतत्सर्वं मनसि कृत्वाह पादजङ्घोरुकरणमित्यादि । सममिति सह । अत्र हेतुः पादस्येति नाभिजङ्घोरुकरणमित्यादिकर्मस्वन्यं पादकर्मेत्यर्थः ।

1 -चालिताः 2 -पादस्त्वरितः स्मृतः 2a- N: पादश्चाञ्चितः स्मृतः; -पादस्त्वञ्चितः स्मृतः 3 -पादाग्रतल -पादाग्रक्षत -पादाग्रकृत -पादाग्रहत 3a-N: उदात्तगमने चैव 4 -ऊद्वर्तने 5 -नानाभ्रमरके चैव योज्यः पादोऽयमञ्चितः 6 -कुञ्चितश्च तथा मध्यः 7 - उपान्ते -तदानुगमने 8 -वर्तनोद्वर्तने 9 N -पादमेनं 10 जदनादर्शेषु नास्ति 11 -संस्थितिः -संस्थितम् 12 -नृत्तेऽन्तःपुर 13 -कीर्त्यते 14 -ऊरुजङ्घांघ्रिकरणं 15 -करणे चोक्तमूरुजङ्घाकृतं तथा

यथा पादः प्रवर्तेत तथैवोरुः1 प्रवर्तते ।
1aतयोः समानकरणात्पादचारीं2 प्रयोजयेत् ।। २८२

इत्येतदङ्गजं प्रोक्तं लक्षणं चैव कर्म हि3 ।
4अतःपरं प्रवक्ष्यामि चारीव्यायामलक्षणम् ।। २८३

इति श्रीभारतीये नाट्यशास्त्रे 5अङ्गाभिनयो5a नाम 6नवमोऽध्यायः ।।

Abh

एतदेव स्फुटयति यथा पाद इति । तयोरिति मध्ये जङ्घापि स्वीकृता । अत्रैवं सर्वमाङ्गिकमियतैवोक्तमिति दर्शयति इत्येतदिति । अनन्तरवक्तव्यमासूत्रयति अतः परमिति । चारीव्यायामा लक्ष्यन्ते उपलक्ष्यन्ते उदाहारणतया येनेति शिवम् ।।

शिशिरतरकिरणकलिकालङ्कारविभक्तिभक्तभङ्गुरतापः ।
अभिनवगुप्तो नवमाध्याये सन्देहतापमपनुदति स्म ।।

इति श्रीमहामाहेश्वराभिनवगुप्तविरचितायां नाटयवेद*विवृतावभिनवभारत्यां आङ्गिकाध्यायो नवमः ।।

Notes

1 -तथोर्वादि, 1a- N अनयोः 2 -करणां पादचारीं 3 -कर्मलक्षणमेव च -इत्येतल्लक्षणं प्रोक्तमङ्गजं कर्म चैव हि , N -कर्म चैव च । -चैव कर्मभिः 4 -अत ऊर्ध्वं 5- शरीराभिनयो. -शारीराभिनयो, 5a- N -हस्ताध्यायो नवमः; ch.X (N) has colophon : इति भारतीय नाटयशास्त्रे अङ्गप्रत्यङ्गलक्षणं नामाध्यायो दशमः । 6 -प्रभृति -पर्यन्तेष्वादर्शेषु -संज्ञके विना दशमोऽध्यायः । -संज्ञके अध्यायविभाग एव नास्ति , N- संज्ञके दशमोध्यायः ४९ ।। आदितः १७३७ ।।इति च। *वृत्तौ