श्रीः
नाट्यशास्त्रम्
अष्टमोऽध्यायः ।
ऋषय उचुः1
भावानां च रसानां च समुत्थानं यथाक्रमम् ।
त्वत्प्रसादाछुतं सर्वमिच्छामो वेदितुं पुनः2 ॥ १
नाट्ये कतिविधः कार्य3स्तज्ञैरभिनयक्रमः ।
कथं वाभिनयो4 ह्येष 5कतिभेदश्च कीर्तितः ॥ २
सर्वमेतद्यथातत्त्वं6 कथयस्व महामुने ।7
8यो यथाभिनयो यस्मिन्योक्तव्यः सिद्धिमिच्छता ॥ ३
तेषां तद्वचनं9 श्रुत्वा मुनीनां भरतो मुनिः ।
प्रत्युवाच पुनर्वाक्यं चतुरोऽभिनयान्प्रति ॥ ४
अहं वः10 कथयिष्यामि 11निखिलेन तपोधनाः ।
यस्मादभिनयो ह्येष 12विधिवत्समुदाहृतः ॥ ५
13यदुक्तं चत्वारोऽभिनया इति तान्वर्णयिष्यामः14 15अत्राह-16अभिनय इति कस्मात् । अत्रोच्यते17-अभी-
Notes
त्युपसर्गः1 । णीञित्ययं धातुः प्रापणार्थः2 । 3अस्याभिनी3aत्येवं व्यवस्थितस्य एरजित्यच्प्रत्ययान्तस्याभिनय4 इति रूपं सिद्धम् । एतच्च धात्वर्थवचनेनावधार्यम्5 । अत्र श्लोकौ6-
7अभिपूर्वस्तु णीञ्धातुराभिमुख्यार्थनिर्णये ।
यस्मात्प्रयोगं8 नयति तस्मादभिनयः स्मृतः ॥ ६
9विभावयति यस्माच्च नानार्थान्हि प्रयोगतः10 ।
शाखाङोपाङ्ग11 संयुक्तस्तस्मादभिनयः स्मृतः ॥ ७
चतुर्विधश्चैष12 भवेन्नाट्यस्याभिनयोः द्विजाः ।
अनेकभेदबहुलं 13नाट्यमस्मिन्प्रतिष्ठितम् ॥ ८
आङ्गिको वाचिकश्चैव 14ह्याहार्यः सात्त्विकस्तथा ।
ज्ञेयस्त्वभिनयो विप्राश्चतुर्धा परिकल्पितः15 ॥ ९
सात्त्विकः पूर्वमुक्तस्तु भावैश्च16 सहितो मया ।
अङ्गाभिनयमेवादौ गदतो मे निबोधत ॥ १०
Notes
1त्रिविधस्त्वाङ्गिको ज्ञेयः2 शारीरो मुखजस्तथा3 ।
तथा चेष्टाकृतश्चैव शाखाङ्गोपाङ्गसंयुतः4 ॥ ११
शिरो5हस्तकटीवक्षः पार्श्वपादसमन्वितः ।
अङ्गप्रत्यङ्गसंयुक्तः षडङ्गो नाट्यसंग्रहः6 ॥ १२
7तस्य शिरोहस्तोरः पार्श्वकटीपादतः षडङ्गनि ।
नेत्रभ्रूनासाधर8 कपोलचिबुकान्युपाङ्गानि ॥ १३
9अस्य शाखा च 10नृत्तं च तथैवाङ्कुर एव च ।
वस्तून्यभिनयस्येह विज्ञेयानि प्रयोक्तृभिः ॥ १४
आङ्गिकस्तु भवेच्छाखा ह्यङ्कुरः11 सूचना भवेत् ।
अङ्गहारविनिष्पन्नं 12नृत्तं तु करणाश्रयम् ॥ १५
मुखजेऽभिनये विप्रा नानाभावरसाश्रये13 ।
शिरसः प्रथमं कर्म 14गदतो मे निबोधत ॥ १६
आकम्पितं कम्पितं च 14aधुतं विधुतमेव च ।
15परिवाहितमाधूतमवधूतं तथाञ्चितम्16 ॥ १७
निहञ्चितं परावृत्तमुत्क्षिप्तं चाप्यधोगतम्17 ।
लोलितं 18चेति विज्ञेयं त्रयोदशविधं शितः ॥ १८
Notes
शनैराकम्पनादूर्ध्वमधश्चाकम्पितं1 भवेत् ।
द्रुतं तदेव बहुशः कम्पितं कम्पितं शिरः ॥ १९
[ऋजुस्थितस्य चोर्ध्वाधः क्षेपादाकम्पितं भवेत् ।
बहुशश्चलितं यच्च तत्कम्पितमिहोच्यते ॥] २०
2संज्ञोपदेशपृच्छासु स्वाभावाभाषणे तथा ।
3निर्देशावाहने चैव भवेदाकम्पितं शिरः ॥ २१
रोषे वितर्के विज्ञाने प्रतिज्ञानेऽथ तर्जने4 ।
व्याध्यमर्षणयोश्चैव शिरः कम्पितमिष्यते ॥ २२
शिरसो 6रेचनं सम्यक्छनैस्तद्धुतमिष्यते7 ।
द्रुतमारेचनादेतद्विधुतं9 तु भवेच्छिरः ॥ २३
अनीप्सिते विषादे च विस्मये प्रत्यये तथा ।
10पार्श्वावलोकने शून्ये प्रतिषेधे धुतं शिरः ॥ २४
11शीतग्रस्ते भयार्ते च त्रासिते ज्वरिते तथा ।
पीतमात्रे तथा मद्ये विधुतं तु भवेच्छिरः12 ॥ २५
13पर्यायशःपार्श्वगतं शिरः स्यात्परिवाहितम् ।
Notes
1.अधस्तात्कम्पितःड-अतश्चाकम्पितं
1आधूतमुच्यते तिर्यक्सकृदुद्वाहितं तु2 यत् ॥ २६
साधने विस्मये हर्षे 3स्मृते चामर्षिते तथा ।
विचारे 4विहृते चैव लीलायां परिवाहितम् ॥ २७
5गर्वेच्छादर्शने चैव पार्श्वस्थोर्ध्वनिरीक्षणे6 ।
आधूतं तु शिरो ज्ञेयमात्मसंभावनादिषु ।। २८
7यदधः सकृदाक्षिप्तमवधूतं तु तच्छिरः ।
8संदेशावाहनालापसंज्ञादिषु तदिष्यते ।। २९
किञ्चित्पार्श्व9नतग्रीवं9a शिरो विज्ञेयमञ्चितम् ।
व्याधिते मूर्छिते मत्ते 10चिन्तायां हनुधारणे11 ।। ३०
12उत्क्षिप्तांसावसक्तं यत्कुञ्चितभ्रूलतं मनाक् ।
निहञ्चितं 11तु विज्ञेयं स्त्रीणामेतत्प्रयोजयेत्14 ।। ३१
गर्वे 15माने विलासे15a च 16बिब्बोके किलिलिञ्चिते ।
Notes
1मोट्टायिते कुट्टमिते स्तम्भे माने निहच्चितम् ।। ३२
परावृत्तानुकरणात्परावृत्तामिहोच्यते2 ।
3तत्स्यान्मुखापहरणे पृष्ठतः प्रेक्षणादिषु4 ।। ३३
उत्क्षिप्तं चापि विज्ञेयमुन्मुखावस्थितं शिरः ।
प्रांशुदिव्यास्त्रयोगेषु 5स्यादुत्क्षिप्तं प्रयोगतः ।। ३४
6अवाङ्मुखस्थितञ्चापि बुधाः प्राहुरधोगतम् ।
लज्जायां च प्रणामे च दुःखे चाधोगतं शिरः7 ।। ३५
सर्वतो लोलनाश्वैव शिरः स्यात् परिलोलितम्8 ।
9मूर्छाव्याधिमदावेशग्रहनिद्रादिषु स्मृतम् ।। ३६
[ऋजुस्वभावसंस्थानं प्राकृतं तु स्वभावजम् ।
मङ्गल्याध्ययनध्यान9a स्वभावजयकर्मसु ।। ] ३७
10एभ्योऽन्ये बहवो भेदा लोकाभिनयसंश्रयाः11 ।
ते च लोकस्वभावेन प्रयोक्तव्याः प्रयोक्तृभिः ।। ३८
12त्रयोदशविधं ह्येतच्छिरः कर्म मयोदितम्13 ।
अतः परं प्रवक्ष्यामि 14दृष्टीनामपि लक्षणम् ।। ३९
Notes
कान्ता भयानका हास्या 1करुणा चाद्भुता तथा ।
रौद्री वीरा च 2बीभत्सा विज्ञेया रसदृष्टयः ।। ४०
स्निग्धा 3हृष्टा च दीना क्रुद्धा दृप्ता भयान्विता4 ।
5जुगुप्सिता विस्मिता च स्थायिभावेषु6 दृष्टयः ।। ४१
शून्या च मलिना चैव श्रान्ता लज्जान्विता तथा ।
ग्लाना च शङ्किता चैव विषण्णा मुकुला तथा ।। ४२
कुञ्चिता 7चाभितप्ता च जिह्मा सललिता तथा ।
वितर्कितार्धमुकुला विभ्रान्ता8 विप्लुता तथा ।। ४३
आकेकरा 9विकोशा च त्रस्ता च मदिरा तथा ।
षट्त्रिंशद्दृष्टयो ह्येतानामतोऽभिहिता मया10 ।। ४४
अस्य दृष्टिविधानस्य नानाभावरसाश्रयम् ।
लक्षणं संप्रवक्ष्यामि यथाकर्म प्रयोगतः ।। ४५
हर्षप्रसादजनिता 11कान्तात्यर्थं समन्मथा ।
12सभ्रूक्षेपकटाक्षा च श्रृङ्गारे दृष्टिरिष्यते ।। ४६
प्रोद्वृत्तनिष्टब्धपुटा स्फुरदुद्वृत्ततारका ।
दृष्टिर्भयानकात्यर्थं भीता ज्ञेया भयानके13 ।। ४७
क्रमादाकुञ्चिटपुटा सविभ्रान्ताल्पतारका14 ।
Notes
1 द– कराला
1हास्या दृष्टिस्तु कर्तव्या कुहकाभिनयं प्रति ।। ४८
2पतितोर्ध्वपुटा सास्रा मन्युमन्थरतारका ।
नासाग्रानुगता दृष्टिः करुणा करुणे रसे ।। ४९
3या त्वाकुञ्चितपक्ष्माग्रा 4साश्चर्योद्वृत्ततारका ।
5aसौम्या विकसितान्ता5 च साद्भुता दृष्टिरद्भुते ।। ५०
क्रूरा रूक्षारुणोद्वृत्ता 6निष्टब्धपुटतारका ।
भ्रुकुटीकुटिला दृष्टी रौद्री रौद्ररसे स्मृता7 ।। ५१
दीप्ता विकसिता क्षुब्धा गम्भीरा समतारका ।
उत्फुल्लमध्या दृष्टिस्तु8 वीरा वीररसाश्रया ।। ५२
निकुञ्चितपुटापाङ्गा 9घूर्णोपप्लुततारका ।
10संश्लिष्टस्थिरपक्ष्मा च बीभत्सा दृष्टिरिष्यते10a ।। ५३
[नासाग्रसक्तानिमिषा तथाधोभागचारिणी ।
आकेकरपुटा चैव शान्ता दृष्टिर्भवेदसौ ।। ] ५४
रसजा दृष्टयो ह्येता विज्ञेया लक्षणान्विताः ।
अतः परं लक्षयिष्ये स्थायिभावसमाश्रयाः11 ।। ५५
12व्याकोशमध्या मधुरा12a स्थितताराभिलाषिणी ।
13सानन्दभ्रूलता दृष्टिः स्निग्धेयं14 रतिभावजा ।। ५६
Notes
चला हसितगर्भा च विशत्तारानिमेषिणी ।
किञ्चिदाकुञ्चिता 1हृष्टा दृष्टिर्हासे प्रकीर्तिता ।। ५७
2ईषत्स्रष्टोत्तरपुटा रुद्धतारा2a जलाविला3 ।
मन्दसञ्चारिणी दीना सा शोके 4दृष्टिरुच्यते ( ?रिष्यते) ।। ५८
रूक्षा स्थिरोद्वृत्तपुटा5 निष्टब्धोद्वृत्ततारका ।
6कुटिलभ्रुकुटी दृष्टिः क्रुद्धा क्रोधे विधीयते7 ।। ५९
संस्थिते तारके यस्याः 8स्थिता विकसिता तथा ।
सत्त्वमुद्गिरती दृप्ता 9दृष्टिरुत्साहसंभवा ।। ६०
10विस्फारितोभयपुटा 11भयकम्पिततारका ।
11aनिष्क्रान्तमध्या दृष्टिस्तु भयभावे भयान्विता ।। ६१
संकोचिटपुटाक्षामा12 दृष्टिर्मीलिततारका ।
13पक्ष्मोद्देशात्समुद्विग्ना13a जुगुप्सायां 14जुगुप्सिता ।। ६२
15भृशमुद्वृत्ततारा च 16हृष्टोभयपुटाञ्चिता (?पुटान्विता) (श्रमण्डम्) ।
17समा विकसितादृष्टिर्विस्मिता विस्मये18 स्मृता ।। ६३
स्थायिभावाश्रया ह्येता विज्ञेया दृष्टयो बुधैः19 ।
सञ्चारिणीनां दृष्टीनां संप्रवक्ष्यामि लक्षणम् ।। ६४
Notes
1 प– दृष्टिर्हृष्टा हासे
समतारा समपुटा निष्कम्पा1 शून्यदर्शना ।
2बाह्यार्थाग्राहिणी क्षमा3 शून्यादृष्टिः प्रकीर्तिता ।। ६५
प्रस्पन्दमानपक्ष्माग्रा4 नात्यर्थमुकुलैः पुटैः ।
मलिनान्ता च मलिना दृष्टिर्विस्मिततारका5 ।। ६६
6श्रमात्प्रम्लापितपुटा क्षामान्ताञ्चितलोचना ।
सन्ना पतिततारा च श्रान्ता दृष्टिः प्रकीर्तिता ।। ६७
किञ्चिदञ्चितपक्ष्माग्रा पतितोर्ध्वपुटा ह्रिया7 ।
त्रुपाधोगततारा8 च दृष्टिर्लज्जान्विता तु सा ।। ६८
9ग्लानभ्रूपुटपक्ष्मा या शिथिला मन्दचारिणी ।
10क्लप्रविष्टतारा च ग्लाना दृष्टिस्तु सा स्मृत11 ।। ६९
किञ्चिच्चला स्थिरा किञ्चिदुद्गता तिर्यगायता12 ।
13गूढा चकिततारा च शङ्किता दृष्टिरिष्यते ।। ७०
विषादविस्तीर्णपुटा पर्यस्तान्ता निमेषिणी ।
किञ्चिन्निष्टब्धतारा च कार्या दृष्टिर्विषादिनी ।। ७१
14स्फुरिताश्लिष्टपक्ष्मार्धा14a मुकुलोर्ध्वपुटाञ्चिता ।
15सुखोन्मीलिततारा च मुकुला दृष्टिरिष्यते15a ।। ७२
16आनिकुञ्चितपक्ष्माग्रा पुटैराकुञ्चितैस्तथा ।
Notes
1सन्ना कुञ्चिततारा च कुञ्चिता दृष्टिरिष्यते ।। ७३
मन्दायमानतारा या2 पुटैः प्रचलितैस्तथा ।
3सन्तापोपप्लुता दृष्टिरभितप्ता तु सव्यथा ।। ७४
लम्बिता कुञ्चितपुटा शनैस्ति4aर्यङ्निरीक्षणा( ? क्षिणी)4 ।
5निगूढा गूढतारा च जिह्मा दृष्टिरुदाहृता ।। ७५
मधुरा कुञ्चितान्ता च सभ्रूक्षेपा च सस्मिता6 ।
समन्मथविकारा7 च दृष्टिः सा ललिता स्मृता ।। ७६
वितर्कोद्वर्तितपुटा 8तथैवोत्फुल्लतारका8a ।
9अधोगतविचारा च दृष्टिरिष्टा 10वितर्किता ।। ७७
अर्धव्याकोशपक्ष्मा11 च11a ह्लादार्धमुकुलैः पुटौः11b ।
12स्मितार्धमुकुला दृष्टिः किञ्चिल्लुलिततारका13 ।। ७८
14अनवस्थिततारा च विभ्रान्ताकुलदर्शना ।
विस्तीर्णोत्फुल्लमध्या15 च विभ्रान्ता दृष्टिरिष्यते16 ।। ७९
पुटौ प्रस्फुरितौ यस्य निष्टब्धौ पतितौ पुनः ।
विप्लुतोद्वृत्ततारा च दृष्टिरेषा तु विप्लुता ।। ८०
आकुञ्चितपुटापाङ्गा17 सङ्गतार्धनिमेषिणी ।
Notes
मुहुर्व्यावृत्ततारा च दृष्टिराकेकरा1 स्मृता ।। ८१
2विकोशितोभयपुटा प्रोत्फुल्ला चानिमेषिणी3 ।
3aअनवस्थिततारा च विकाशो दृष्टिरिष्यते4 ।। ८२
त्रासोद्वृत्तपुटा या तु5 5aतथोत्कम्पिततारका ।
6संत्रासोत्फुल्लमध्या च 7त्रस्ता दृष्टिरुदाहृता ।। ८३
व्याघूर्णमानमध्या या क्षामान्ताञ्चितलोचना8a ।
दृष्टिर्विकसितापाङ्गा मदिरा तरुणे मदे ।। ८४
किञ्चिदाकुञ्चितपुटा 9ह्यनवस्थिततारका ।
10तथा चलितपक्ष्मा च दृष्टिर्मध्यमदे11 भवेत् ।। ८५
12सनिमेषाऽनिमेषा च किञ्चिद्दर्शिततारका ।
अधोभागचरी दृष्टिरधमे तु मदे स्मृता13 ।। ८६
इत्येवं लक्षिता ह्येषाः 14षट्त्रिंशद्दृष्टयो मया ।
15सहजा (? रसजा) भावजाश्चासां विनियोगं निबोदत ।। ८७
16रसजास्तु रसेष्वेव स्थायिषु स्थायिदृष्टयः।
17श्रृणुत व्यभिचारिण्यः सञ्चारिषु यथाहि ताः18 ।। ८८
Notes
1 न-दृष्टिर्वै केकरा
शून्या दृष्टिस्तु चिन्तायं स्तम्भे चापि प्रकीर्तिता1 ।
निर्वेदे चापि मलिना1a वैवर्ण्ये च विधीयते ।। ८९
1bश्रान्ता श्रमार्ते स्वेदे च लज्जायां लज्जिता2 तथा ।
अपस्मारे तथा 3व्याधौ ग्लान्यां ग्लाना4 विधीयते ।। ९०*
शङ्कायां शङ्किता ज्ञेया विषादार्थे विषादिनी ।
निद्रास्वप्नसुखार्थेषु5 मुकुला दृष्टिरिष्यते ।। ९१
6कुञ्चितासूयितानिष्टदुष्प्रेक्षाक्षिव्यथासु च ।
अभितप्ता च निर्वेदे ह्यभिघाताभितापयोः7 ।। ९२
जिह्मा दृष्टिरसूयायां जडतालस्ययोस्तथा7a ।
8धृतौ हर्षे सललिता 9स्मृतौ तर्के वितर्किता ।। ९३
10आह्लादेष्वर्धमुकुला 11गन्धस्पर्शसुखादिषु ।
विभ्रान्ता दृष्टिरावेगे संभ्रमे विभ्रमे तथा ।। ९४
12विप्लुता चापलोन्माददुःखार्तिमरणादिषु ।
आकेकरा दुरालोके13 विच्छेदप्रेक्षितेषु च14 ।। ९५
15विबोधगर्वामर्षौग्र्यमतिषु स्याद्विकोशिता15a ।
त्रस्ता त्रासे भवेद्दृष्टिर्मदिरा च मदेष्विति16 ।। ९६
Notes
षट्त्रिंशददृष्टयो ह्येता यथावत्समुदाहृताः1 ।
रसजानां तु दृष्टीनां भावजानां तथैव च ।। ९७
तारापुटभ्रुवां कर्म गदतो मे निबोधत ।
भ्रमणं वलनं2 पातश्चलनं संप्रवेशनम् ।। ९८
विवर्तनं समुद्वृत्तं निष्क्रामः प्राकृतं तथा ।
पुटान्तर्मण्डलावृत्तिस्तारयोर्भ्रमणं स्मृतम् ।। ९९
[एतानि नवकर्माणि ताराकर्म द्विजोत्तमाः ।।
श्रृणुध्वं लक्षणं तावत्सांप्रतं प्रीतितः स्फुटम्]
वलनं गमनं त्र्यश्रं पातनं स्रस्तता तथा ।।
चलनं कम्पनं 4ज्ञेयः प्रवेशोऽन्तः प्रवेशनम् ।। १००
विवर्तनं कटाक्षस्तु समुद्वृत्तं समुन्नतिः।
निष्क्रामो निर्गमः प्रोक्तः प्राकृतं तु स्वभावजम्5 ।। १०१
6अथैषां रसभावेषु7 विनियोगं निबोधत8 ।
भ्रमणं वलनोद्वृत्ते निष्क्रामो9 विररौद्रयोः ।। १०२
निष्क्रामणं सवलनं10 कर्तव्यं हि11 भयनाके ।
हास्यबीभत्सयोश्चापि प्रवेशनमिहेष्यते ।। १०३
पातनं करुणे कार्यं निष्क्रामणमथाद्भुते ।
प्राकृतं शेषभावेषु श्रृङ्गारे च विवर्तितम्12 ।। १०४
Notes
1 ड-प्रतिपादिताः
स्वभावसिद्धमेवैतत्कर्म लोकक्रियाश्रयम्1 ।। १०५
एवं रसेषु भावेषु 2ताराकर्माणि योजयेत् ।
3अथात्रैव प्रवक्ष्यामि प्रकारान्4 दर्शनस्य तु ।। १०६
समं साच्यनुवृत्ते 5च ह्यालोकितविलोकिते ।
प्रलोकितोल्लोकिते चाप्यवलोकितमेव च ।। १०७
समतारञ्च सौम्यञ्च यद् दृष्टं तत्समं स्मृतम् ।
6पक्ष्मान्तर्गततारं य7त्त्र्यश्रं 8साचीकृतं तु तत् ।। १०८
रूपनिर्वर्णनायुक्तमनुवृत्तमिति स्मृतम्9 ।
सहसा दर्शनं यत्स्यात्तदालोकितमुच्यते ।। १०९
विलोकितं पृष्टतस्तु पार्श्वाभ्यां तु प्रलोकितम् ।
ऊर्ध्वमुल्लोकितं ज्ञेयमवलोकितमप्यध ।। ११०
10इत्येष दर्शनविधिः सर्वभावरसाश्रयः ।
11तारागतोऽस्यानुगतं पुटकर्म निबोधत ।। १११
उन्मेषश्च निमेषश्च प्रसृतं12 कुञ्चितं समम् ।
विवर्तितं प्रस्फुरितं13 पिहितं सविताडितम्14 ।। ११२
विश्लेषः पुटयोर्यस्तु 15स उन्मेषः प्रकीर्तितः ।
16समागमो निमेषः स्यादायामः प्रसृतं भवेत्17 ।। ११३
Notes
आकुञ्चितं कुञ्चितं स्यात्समं स्वाभाविकं स्मृतम् ।
विवर्तितं समुद्वृत्तं स्फुरितं स्पन्दितं तथा ।। ११४
स्थगितं पिहितं प्रोक्तमाहतं तु वितालितम्1 ।
अथैषां रसभावेषु विनियोगं निबोधत ।। ११५
क्रोधे 2विवर्तितं कार्यं निमेषोन्मेषणैः सह3 ।
4विस्मयार्थे च हर्षे च वीरे च प्रसृतं स्मृतम् ।। ११६
अनिष्टदर्शने गन्धे रसे स्पर्शे च कुञ्चितम् ।
श्रृङ्गारे च समं कार्यमीर्ष्यासु स्फुरितं भवेत्5 ।। ११७
सुप्तमूर्छितवातोष्णधूमवर्षाञ्जनार्तिषु6 ।
नेत्ररोगे च पिहितमभिघाते7 विताडितम् ।। ११८
8इत्येषु रसभावेषु तारकापुटयोर्विधिः ।
कार्यानुगतमस्यैव भ्रुवोः कर्म निबोधत ।। ११९
9उत्क्षेपः 10पातनं चैव भ्रुकुटी चतुरं तथा11 ।
कुञ्चितं रेचितं चैव सहजं चेति सप्तधा ।। १२०
12भ्रुवोरुन्नतिरुत्क्षेपः सममेकैकशोऽपि वा ।
13अनेनैव क्रमेणैव पातनं स्यादधोमुखम् ।। १२१
Notes
1भ्रुवोर्मूलसमुत्क्षेपाद्भ्रुकुटी परिकीर्तिता2 ।
चतुरं किञ्चिदुच्छ्वासान्मधुरायतयोर्भ्रुवोः3 ।। १२२
4एकस्या उभयोर्वापि मृदुभङ्गस्तु कुञ्चितम्5 ।
एकस्या एव 6ललितादुत्क्षेपाद्रेचितं भ्रुवः ।। १२३
सहजातं तु सहजं कर्म स्वाभाविकं स्मृतम् ।
अथैषां संप्रवक्ष्यामि रसभावप्रयोजनम् ।। १२४
7कोपे वितर्के हेलायां लीलादौ8 सहजे तथा ।
दर्शने श्रवणे चैव भ्रुवमेकां समुत्क्षिपेत् ।। १२५
उत्क्षेपो विस्मये हर्षे रोषे चैव द्वयोरपि ।
असूयिते जुगुप्सायां हासे10 घ्राणे च पातनम् ।। १२६
क्रोधस्थानेषु दीप्तेषु योजयेद्भ्रुकुटीं बुधः ।
श्रृङ्गारे ललिते सौम्ये सुखस्पर्शे प्रबोधने11 ।। १२७
एवं-विधेषु भावेषु चतुरं तु प्रयोजयेत् ।
[स्त्रीपुरुषयोश्च सल्लापे नानावस्थान्तरात्मके] ।। १२८
मोट्टायिते कुट्टमिते तथा च12 किलिकिञ्चिते ।
13निकुञ्चितं च कर्तव्यं 14नृत्ते योज्यं तु रेचितम् ।। १२९
Notes
अनाविद्धेषु भावेषु विद्यात्स्वाभाविकं बुधः1 ।
2इत्येवं तु भ्रुवोः प्रोक्तं नासाकर्म निबोधत ।। १३०
नता मन्दा विकृष्टा3 च सोच्छ्वासाथ विकूणिता4 ।
5स्वाभाविका चेति बुधैः षड्विधा नासिका स्मृता6 ।। १३१
नता मुहुःश्लिष्टपुटा मन्दा तु निभृता स्मृता ।
7विकृष्टोत्फुल्लितपुटा सोच्छ्वासाकृष्टमारुता ।। १३२
विकूणिता संकुचिता समा स्वाभाविकी स्मृता ।
नासिकालक्षणं ह्येतद्विनियोगं निबोधत ।। १३३
8मदोत्कम्पसमायुक्ते नारीणामनुरोधने ।
निःश्वासे च नता कार्या नासिका नाटययोक्तृभिः ।। १३४
निर्वेदौत्सुक्यचिन्तासु मन्दा शोके च योजयेत्9 ।
10तीव्रगन्धे विकृष्टां तां रौद्रे वीरे तथैव च ।। १३५
11इष्टघ्राणे तथोच्छ्वासे दीर्घोच्छ्वासां प्रयोजयेत्11a ।
12विकूणिता च कर्तव्या जुगुप्सासूयितादिषु ।। १३६
13कार्या शेषेषु भावेषु तज्ज्ञैः स्वाभाविका तथा ।
Notes
1 . Kavi-कुर्यात् स्वाभाविकं बुधः 2.छ -सप्त भ्रुकट्यः प्रोक्ताः ध-इत्येवं ढ-भ्रुवोःकर्म
क्षामं फुल्लं च 1घूर्णं च कम्पितं कुञ्चितं समम्2 ।। १३७
षड्विधं गण्डमुद्दिष्टमस्य3 लक्षणमुच्यते ।
4क्षामं चावनतं ज्ञेयं फुल्लं विकसितं भवेत् ।। १३८
विततं 5घूर्णमात्रोक्तं कम्पितं स्फुरितं भवेत् ।
स्यात्कुञ्चितं संकुचितं समं प्राकृतमुच्यते ।। १३९
गण्डयोर्लक्षणं5a प्रोक्तं विनियोगं निबोधत ।
क्षामं दुःखेषु कर्तव्यं प्रहर्षे फुल्लमेव च6 ।। १४०
7घूर्णमुत्साहगर्वेषु रोषहर्षेषु कम्पितम् ।
कुञ्चितं च सरोमाञ्चं8 स्पर्शे शीते भये ज्वरे ।। १४१
प्राकृतं शेषभावेषु गण्डकर्म भवेदिति9 ।
विवर्तनं 10कम्पनं च विसर्गो विनिगूहनम् ।। १४२
11संदष्टकं समुद्गं च षट्कर्माण्यधरस्य तु11a ।
Notes
विकूणनं विवर्तस्तु वेपनं 1कम्पनं स्मृतम् ।। १४३
विनिष्क्रामो विसर्गस्तु प्रवेशो विनिगूहनम् ।
2 संदष्टकं द्विजैर्दष्टं समुद्गः सहजोन्नतिः3 ।। १४४
4इत्योष्ठलक्षणं प्रोक्तं विनियोगं निबोधत ।
असूयावेदनावज्ञाहास्यादिषु5 विवर्तनम् ।। १४५
कम्पनं वेदनाशीतभयरोषजवादिषु6 (? ज्वरादिषु)।
स्त्रीणां विलासे बिब्बोके7 विसर्गे रञ्जने तथा8।। १४६
विनिगूहनमायासे सन्दष्टं क्रोधकर्मसु ।
समुद्गस्त्वनुकम्पायां चुम्बने9 चाभिनन्दने ।। १४७
इत्योष्ठकर्माण्युक्तानि चिबुकस्य निबोधत ।
कुट्टनं 10खण्डनं छिन्नं चुक्कितं लेहितं समम्11 ।। १४८
दष्टञ्च दन्तक्रियया चिबुकं त्विह लक्ष्यते ।
कुट्टनं दन्तसंघर्षः संस्फोटः खण्डनं12 मुहुः ।। १४९
छिन्नं तु गाढसंश्लेषश्चुक्कितं दूरविच्युतिः13।
लेहनं जिह्वया लेहः 14किञ्चित्श्लेषः समं भवेत् ।। १५०
दन्तैर्दष्टेऽधरे दष्टमित्येषां विनियोजनम् ।
Notes
1.म-संक्रान्तवक्रीकरणं विवर्तनमिति स्मृतम् । वेपनं चापि विज्ञेयमधरस्य तु कम्पनम् ।।
भयशीतज्वरक्रोध1ग्रस्तानां कुट्टनं भवेत् ।। १५१
2जपाध्ययनसल्लापभक्ष्ययोगे च3 खण्डनम् ।
4छिन्नं व्याधौ भये शीते व्यायामे रुदिते मृते5 ।। १५२
जृम्भणे चुक्कितं कार्यं तथा लौल्ये च6 लेहनम्6a ।
समं स्वभावभावेषु सन्दष्टं क्रोधकर्मसु ।। १५३
इति दन्तोष्ठजिह्वानां6b करणे चिबुकक्रिया7 ।
8विनिवृत्तं च विधुतं निर्भुग्नं9 भुग्नमेव च ।। १५४
10विवृतञ्च तथोद्वाहि कर्माण्यत्रास्यजानि तु ।
11व्यावृत्तं विनिवृत्तं स्याद्विधुतं तिर्यगायतम् ।। १५५
12अवाङ्मुखत्वं निर्भुग्नं व्याभुग्नं किञ्चिदायतम् ।
विश्लिष्टोष्ठं च13 विवृतमुद्वाह्याक्षिप्तमेव च14 ।। १५६
विनिवृत्तमसूयायामीर्ष्याकोपकृतेषु च15 ।
अवज्ञाविहृतादौ च स्त्रीणां कार्यं प्रयोक्तृभिः ।। १५७
विधुतं वारणे चैव नैवमित्येवमादिषु ।
निर्भुग्नं चापि विज्ञेयं गम्भीरालोकनादिषु ।। १५८
भुग्रं लज्जान्विते योज्यं यतीनां तु स्वभावतः16 ।
निर्वेदौत्सुक्यचिन्तासु तथा च विनिमन्त्रणे17 ।। १५९
Notes
1 ड, N-जराव्याधि न- ज्वरव्याधि 2 ड, N-जप्याध्ययन 3 च- योगेषु 4 प-चिन्ता 5 ड-रुषितेक्षिते न -रुषिते मृते प-रुषिते द्रुमे च-कूजिते मृते ध-रुषिते द्रुते 6 प-लेह्ये तु 6a- N -लौल्ये चैवावलेहनं, 6b-N -इति दन्तोष्ठजिह्वायां 7 प-करणाञ्चिबुकक्रिया 8 च-छ-ब-आदर्शेष्वष्टौ श्लोका न सन्ति 9 ड-प निभुग्नं 10 ड-निवृत्तं 11प -स्याद्वृत्तं 12 ड-अवाङ्मुखञ्च 13 म -विहृत 14 ड-उद्वाह्युत्क्षिप्तमेव तु 15 ड-ईर्ष्याक्रोधकृतेन च 16 ढ-स्वभावजम् 17 प-च विनिमन्त्रणे; Kavi-तथा विनयमन्त्रणे
1विवृतं वापि विज्ञेयं हास्यशोकभयादिषु ।
स्त्रीणामुद्वाहि लीलायां गर्वे गच्छत्यनादरे ।। १६०
एवं नामेति कार्यञ्च कोपवाक्ये विचक्षणैः ।
समं साचीकृताद्युक्तं 2यच्च दृष्टिविकल्पनम्3 ।। १६१
4तज्ज्ञैस्तदनुसारेण कार्यं तदनुगं मुखम् ।
अथातो मुखरागस्तु5 चतुर्धा संप्रकीर्तितः6 ।। १६२
स्वाभाविकः प्रसन्नश्च रक्तः श्यामोऽर्थसंश्रयः7 ।
स्वाभाविकस्तु कर्तव्यः स्वभावाभिनयाश्रयः ।। १६३
मध्यस्थादिषु भावेषु8 मुखरागः प्रकीर्तितः9 ।
प्रसन्नस्त्वद्भुते कार्यो हास्यशृङ्गारयोस्तथा ।। १६४
वीररौद्रमदाद्येषु10 रक्तः स्यात्करुणे तथा ।
भयानके सबीभत्से श्यामं संजायते मुखम् ।। १६५
एवं भावरसार्थेषु11 मुखरागं प्रयोजयेत् ।
शाखाङ्गोपाङ्गसंयुक्तः कृतोऽप्यभिनयः शुभः ।। १६६
मुखरागविहीनस्तु नैव शोभान्वितो भवेत् ।
12शारीराभिनयोऽल्पोऽपि मुखरागसमन्वितः ।। १६७
13द्विगुणां लभते शोभां रात्राविव निशाकरः ।
14नयनाभिनयोऽपि स्यान्नानाभावरसान्वितः ।। १६८
Notes
1 ड- विवृत्तं चाप्रि 2 ड-कृताद्युक्ता 3 न-विकल्पने ड- विकल्पितम् 4 ड-तज्ज्ञैस्तेनानुसारेण 5 प- N मुखरागश्च 6 ड- परिकीर्तितः च -स च कीर्तितः 7 प-अर्कसंश्रयः 8 प-रागेषु 9 न-प्रयोक्तृभिः 10 ड-भयाद्येषु 11 प-रसास्तेषु 12 न -शरीराभिनयो 13 ड-द्विगुणं 14 न-नयनाभिनयोऽल्योऽपि नानाभावरसान्वितः, Kavi-नानाभावरसस्फुटः
मुखरागान्वितो यस्मान्नाटयमत्र प्रतिष्ठितम् ।
1यथा नेत्रं प्रसर्पेत मुखभ्रूदृष्टिसंयुतम् ।। १६९
तथा भावरसोपेतं मुखरागं प्रयोजयेत् ।
2इत्येष मुखरागस्तु प्रोक्तो भावरसाश्रयः3 ।। १६०
अतः परं प्रवक्ष्यामि ग्रीवाकर्माणि वै द्विजाः4 ।
समा नतोन्नता त्र्यश्रा रेचिता कुञ्चिताञ्चिता ।। १७१
वलिता च 5विवृत्ता च ग्रीवा नवविधार्थतः6 ।
समा स्वाभाविकी ध्यानस्वभावजपकर्मसु7 ।। १७२
नता8 नतास्याऽलङ्कारबन्धे कण्ठावलम्बने ।
9उन्नताभ्युन्नतमुखी ग्रीवा चोर्ध्वादिदर्शने10 ।। १७३
त्र्यश्रा पार्श्वगता ज्ञेया11 स्कन्धभारे च12 दुःखिते ।
13रेचिता 14विधुता भ्रान्ता हावे मथननृत्तयोः15 ।। १७४
कुञ्चिताऽकुञ्चिता मूर्ध्नि 16भारिते 17गलरक्षणे ।
अञ्चिताऽपसृतोद्बद्धकेशकर्षोर्ध्वदर्शने18 ।। १७५
पार्श्वोन्मुखी स्याद्वलिता ग्रीवाभङ्गे 19च वीक्षिते ।
20विवृत्ताभिमुखीभूता 21स्वस्थानाभिमुखादिषु । १७६
Notes
1 ध-यस्मान्नेत्रं प्रसर्पेत्तु 2 ड-इत्येवं 3 प-मुखरागास्तु प्रोक्त । भावरसाश्रयाः 4 ध-द्विजकर्म द्विजोत्तमाः 5 ड-निवृत्ता 6 प-नवविधा स्मृता 7 प-सभारञ्जनकर्मसु
इत्यादिलोकभावार्था 1ग्रीवा भेदैरनेकधा ।
ग्रीवाकर्माणि सर्वाणि शिरःकर्मानुगानि हि2 ।। १७७
शिरसः कर्मणा कर्म ग्रीवायाः संप्रवर्तते ।
इत्येतल्लंक्षणं प्रोक्तं शीर्षोपाङ्गसमाश्रयम् ।। १७८
अङ्गकर्माणि शेषाणि गदतो मे निबोधत । १७९
इति भारतीये नाटयशास्त्रे3a उत्तमाङ्गाभिनयो3 नामाष्टमोऽध्यायः ।
Notes
1 ड- भङ्गै प-भावैः 2 ड- च 3 प -उपाङ्गविधानं ड-उपाङ्गभिनये 3a- N: उपाङ्गलक्षणं