०७ भाव-व्यञ्जकः

श्रीः

अथ सप्तमोऽध्यायः ।

भावानिदानीं व्याख्यास्यामः1 । अत्राह-भावा2 इति कस्मात् । किं भवन्तीति भावाः3, किं वा भावयन्तीति भावाः4 । 5उच्यते– वागङ्गसत्त्वोपेतान्काव्यार्थान्भावयन्तीति भावा इति6 ।

Abh

स्थायी प्रबुद्धहृदये व्यभिचारिभूतः कामाकुलासु जनतासु महानुभावः ।
अन्तर्विभावविषयो रसमात्रमूर्तिः श्रीमान्प्रसन्नहृदयोऽस्तु मम त्रिणेत्रः ।।

भावानिदानीमिति । नन्वध्यायान्त एवैतदासूत्रितमिति किमनेन पुनरुक्तेन । ‘भावाश्चापि कथं प्रोक्ताः’ (ना.शा. ६-३) इत्यत्रैव प्रश्ने कृते पुनरिहाध्याये ‘किं भवन्ति’ इत्यादि च किमर्थमुच्यते ।

अत्र केचिदाहुः- ‘भावाश्चापि’ इत्यध्यायादौ’ भावानामपि लक्षणम्’ इत्य- ध्यायान्ते च विभावादीनां सर्वे(षां) साधारण्येन प्रश्नप्रतिज्ञादि । अधुना तु विभावादिषु वक्तव्येषु प्रथमं तावत्प्राधान्याच्चित्तवृत्तिरूपाः स्थायिव्यभिचारिणो लक्षणीया इति तद्विषयैवेयं प्रतिज्ञा प्रश्नश्च ।

वयं तु ब्रूमः- भावशब्देन तावच्चित्तवृत्तिविशेषा एव विवक्षिताः । तथा च ‘एकोनपञ्चाशता भावैः’ इत्यादौ तानेवोपसंहरिष्यति । तेषां तु योग्यतावशाद्यथायोगं स्थायिसंचारिविभावानुभावरूपता संभवति । ये त्वेते ऋतुमाल्यादयो विभावा बाह्याश्च बाष्पप्रभृतयोऽनुभावा एकान्तजडस्वभावाः ते न भावशब्दव्यपदेश्याः ।

ननु रससंवित्स्वभावे निमज्जनादन एवोन्मज्जनाच्च तोऽपि संविदात्मकाः । एवं तर्हि विश्वमेव भावमयं स्यादुपचारात् विज्ञानवादाश्रयाद्वेत्यभिनयधर्म्यादीनां

Notes

(मू)

Abh

पृथक्तानुपपत्तिः । तस्मात्स्थायिव्यभिचारिसात्त्विका एव भावाः । विभावानुभावानां च प्रासङ्गिकं लक्षणम् । एतच्च वक्ष्यामः ।

यच्च पौनरुक्त्यं चोदितं तदसत् । तथा हि -रसाध्यायप्रारम्भे चोदितमङ्गमध्ये भावा अनुद्दिष्टा एव कथं तत्र तत्रोदीरिता इति । तन्निराकरणार्थमाह-भावानिति । यतोऽतीताध्यायान्ते भावानां लक्षणं रसलक्षणमेव अत इदानीमपि1 गतचोद्यांशकेऽवसरे भावान्वक्ष्यामो रसानामङ्गमध्ये पठितत्वादिति ।

ननु चित्तवृत्त्यात्मान एव चेद्भावास्तर्ह्येतेषु व्युत्पत्तिद्वयमपि संभाव्यते । तथा हि ‘भवति’र2भूतप्रादुर्भावे । प्रकर्षगतिश्च पुनरभिधानात् । तेन3 येऽन्तरतःअपूर्वतयैव प्रादुर्भवति न तु क्षणं व्यवतिष्ठते । ते(भ्यो)4 भावाश्चित्तवृत्त्यात्मा(नो)नुभावज्ञानस्य परिमितकालभावित्वात् । यदि वा भावयन्ति आस्वादनं कुर्वन्ति हृदयं व्याप्नुवन्तीति5 । ततश्च व्युत्पत्तिद्वयसंभावनात्कथं ‘भवन्ति’ इति पक्षमनाशङ्क्यैव ‘किं वा ते भावयन्ति’ इति प्रश्नोऽयुक्त इत्यभिप्रायेणानुद्भिन्नमर्थं प्रश्नस्योद्भेदयन् प्रश्नार्थमेवानुभाषते -किं भवन्तीत्यादि6 । 7भवन्ति भावयन्ति वा । भावयन्तीति च किमेतत्कुर्वन्ति व्याप्नुवन्ति वा । तत्र च द्वयेऽपि किं कर्म ।

एवं प्रश्नार्थमनुभाष्योत्तरमाह–वागङ्गसत्त्वोपेतानित्यादि । कोः कवतेर्वा कवनीयं काव्यम् । तत्र च पदार्थवाक्यार्थौ रसेष्वेव पर्यवस्यत इत्यसाधारण्यात्प्राधान्याच्च काव्यस्यार्थाः रसाः । अर्थ्यन्ते प्राधान्येनेत्यर्थाः । न त्वर्थशब्दोऽभिधेयवाची । स्वशब्दानभिधेयत्वं हि रसादीनां ध्वनिकारादिभिर्दशितम् । तच्च मदीयादेव तद्विवरणात्सहृदयालोकलोचनादवधा्रणीयम् । इह तु यथावसरं वक्ष्यत एव ।

एवं काव्यार्थान् रसान् भावयन्ति (संस्?)कुर्वते । स्थायिव्यभिचारिकलापेनैव ह्यास्वाद्योऽलौकिकार्थो 8निर्वर्त्यते । पूर्वं हि स्थाय्यादिकमवगच्छति9 ततः सर्वसाधारणतयाऽ ऽ10स्वादयति । तेन पूर्वावगमगोचरीभूतः सन्नुत्तरभूमिकाभागिन आस्वाद्यस्य भावको निष्पादक उच्यते । केन भावयन्तीति 11करणं दर्शयति-वागङ्गेति । वागादयस्तत्कर्मसु वर्तन्ते । तेन वर्णनाद्यात्मना12 वाचिकेन संनिवेशवलनादिना13- ङ्गिकेनान्तर्बहिरात्मना सात्त्विकेन करणभूतेनोपेतान् सम्बद्धान् ।

Notes

(व्या) 1.म. नीं विगत ।

भू इति (ण्यन्तः) करणे धातुः तथा च भावितं वासितंकृतमित्यन- र्थान्तरम्1 । 2लोकेऽपि च प्रसिद्धम् । अहो ह्यनेन गन्धेन3 रसेन वा

Abh

करणं हि कर्मणि कर्तरि च यद्यपि संबध्यते तथापि(पी)हास्य प्राधान्यात्संबन्धदृशि करणत्वमेव दर्शयितुं तृतीयादि(यया) निर्दिश्यते1–वागङ्गमुखरागेणेति । अत(त्र) आहार्यं तु यद्यपि नयत्कलताध्रुवायातोरङ्गमत् (नृत्यकलाध्रुवापातयोरन्तरङ्गः) तथापि तदनन्तरं चित्तवृत्त्यवगतौ वाचिकादीनामेवान्तरङ्गता । तथा हि काव्यादपि रसास्वादो भवतीत्युक्तम् । तत्र च न पूर्णताऽ ऽहार्यस्य । तेनास्य नोपादानम् ।

एतदुक्तं भवति-चित्तवृत्तय एव लौकिकाः वाचिकाद्यभिनयप्रक्रियारूढतया स्वात्मानमलौकिकदशायामास्वाद्यं कुर्वन्तीत्यतस्ता एव भावाः । भवतिर्हि ण्यन्तः प्रकृतं करोत्यर्थमाहेति दर्शयति-भू इतीति । त(च)कार उच्चारणार्थः । णिचा संबन्धेनेति इकारप्रत्यये सति भूधातुः करोत्यर्थे वर्तते । एतदेवोपसंहरति (भावितमिति)। अनर्थान्तरमिति । एकोऽर्थ इति यावत् ।

नन्वास्वाद्यान्तरान्तर्भाव्ये वाचिकादौ करणमितिकर्तव्यतांशे वक्तव्यमित्याशङ्क्य तन्त्रेण व्युत्पत्त्यन्तरं दर्शयन् तमाह–लोकेऽपि चेति । न केवलं भावितं कृतमिति लोके प्रसिद्धं यावद्व्याप्तमित्यपि । एतदपि चेत्यनेनोक्तम् । सर्वमित्येतद्गन्धरसमपि ।

ननु तत्रापि कृतमित्येवार्थोऽस्त्वित्याशङ्क्याह–तच्च व्याप्त्यर्थमिति । न हि कस्तूरिकागन्धेन वस्त्रं2 क्रियते । गुणस्यासंक्रान्तेः । न च तस्यदृशगुणान्तरोत्पत्तिः । यावद्द्रव्यभावित्वाद्गन्धादीनाम् । वस्त्रादौ च विनाशप्रतिपत्तेः । केवलं कस्तूरिकाद्रव्यमेव तावद्रूपदेशचैतन्याक्रमणस्वभावं वस्त्रादिकेऽपि तथा प्रतिपत्तिमाधत्ते । तद्वत्प्रकृतेऽपि । त एव हि वाचिकाद्या अभिनयाः प्रमुखदशायां देशकालविशेषगतत्वेन यद्यपि भान्ति तथापि नटस्य निर्गुणादिह न त(णत्वादिहत)त्त्वात् रामादेः 3पर(देरपर)मार्थसत्त्वात् भ्रान्तिज्ञानाभावाच्च नियततां विजहतः साधारणीभावमनुप्राप्ताः सामाजिकजनमपि

Notes

(मू)

(व्या)

सर्वमेव1 भावितमिति । तच्च व्याप्त्यर्थम्2 । श्लोकाश्चात्र–

3विभावेनाहृतो योऽर्थो ह्यनुभावैस्तु गम्यते ।
वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः ।। १ ।।

Abh

मृगमदामोददिशा व्याप्नुवन्ति स्वचित्तवृत्तिव्यापारद्वारेण । तेन भावयन्ति सामाजिका- त्मानमिति भावाः ।

अथ व्युत्पत्त्यन्तरमपि दर्शयितुं प्राक्तनीं च व्युत्पत्तिं संग्रहीतुमाह- श्लोकाश्चात्रेति । विभावो विषयः । तेन यः आहृतो निष्पादितः । तेन विभावापेक्षया भाव्यते क्रियत इति भावः । अनुभावानेभ्यो निरूपयति–वागङ्गेति

अन्ये तु वागङ्गसत्त्वाद्यभिनया येषामिति तद्गुणसंविज्झानेन बहुव्रीहिणा स्वाभिनयसहिता व्यभिचारिणो गृहीताः । तैरिति व्यभिचारिभिश्च भाव्यते मिश्रीक्रियत इति व्यभिचारिणामपि च व्यभिचारिणो भवन्ति । यथा निर्वेदस्य चिन्ता श्रमस्य निर्वेद1 इत्यादि निरूपयन्ति । तच्चासत् । स्थायिनो हि व्यभिचारिता भवति । न तु व्यभिचारिणां स्थायिता । एवं हि सति तदास्वादे रसान्तरमपि स्यात् । यत्रापि व्यभिचारिणि व्यभिचार्यन्तरं संभाव्यते तद्यथा-पुरूरवस उन्मादेऽपि तर्कचिन्तादि तत्रापि रतिस्थायिभावस्यैव व्यभिचार्यन्तरयोगः । स केवलममात्यस्थानीयेनोन्मादेन कृतोपरागः । एतच्च ‘यथा नरेन्द्र’(ना.शा. ७-१०) इत्यत्र वक्ष्यामः ।

एवं लोकानुसारेण कविनटशिक्षोपयोगिना व्युत्पत्त्यन्तरमभिधाय सामाजिकाभि- प्रायेण यो व्युत्पत्तिद्वयनिरूपितोऽर्थः तत्संग्रहाय श्लोकद्वयमाह–वागङ्गमुखरागेणेति । वागङ्गमुखरागात्मनाऽभिनयेन सत्त्वलक्षणेन चाभिनयेन करणेन कवेः साधारणं तदापि- (रणस्यापि) वर्णनानिपुणस्य यः अन्तर्गतोऽनादिप्राक्तनसंस्कारप्रतिभानमयो न तु लौकिक- विषयजो रागान्त(गस्स) एव देशकालादिभेदाभावात्सर्वसाधारणीभावेनास्वादयोग्यस्तं

Notes

(मू)

(व्या)

वागङ्गमुखरागेण1 सत्त्वेनाभिनयेन च ।
कवेरन्तर्गतं भावं भावयन्भाव उच्यते ।। २ ।।

नानाभिनयसंबद्धा2न्भावयन्ति रसानिमान् ।
यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ।। ३ ।।

3अथ विभाव इति कस्मात् । उच्यते-विभावो विज्ञानार्थः4 । विभावः कारणं निमित्तं हेतुरिति पर्यायाः5 । विभाव्यन्तेऽनेन वागङ्गसत्त्वाभिनया इत्यतो विभावः । यथा विभावितं विज्ञात- मित्यनर्थान्तरम् ।

Abh

भावयन् आस्वादयोग्यीकुर्वन् भावश्चित्तवृत्तिलक्षण एवोच्यते । सत्त्वं चितैकाग्र्यं तज्जनितं च कृतकं बाष्पादिप्राप्त्यवस्थात्मकं चेति यथायोगं मन्तव्यम् । तदन्तर्भूतोऽपि वैवर्ण्यात्मा मुखरागः प्राधान्यात्पुनरुक्तः । यद्वक्ष्यति–

‘शाखाङ्गोपाङ्गसंयुक्तः कृतोऽप्यभिनयः शुभः ।
मुखरागविहीनस्तु नैव शोभान्वितो भवेत् ।।’ (ना.शा.८-१६५) इति ।

अथेतिकर्तव्यतां निरूपयितुं सङ्ग्रहश्लोकमाह–नानाभिनयेति । रसनयोग्यान् चित्तवृत्तिविशेषान् भावयन्ति गमयन्ति बोधयन्ति बुद्धिविषयान् प्रापयन्ति । इमान् सामाजिकान् । भावयतिः बुद्ध्यर्थत्वाद् द्विकर्मकः । अभिनयसहितानित्यभिनया अपि बुद्धिगोचरं नीयन्ते । इयमेव चासौ अधिवासनात्सा भावना तथा तथा रसान् रसनयोग्यान्निजेन योग्येन रूपेण भावयति यथा निर्वेदोपरक्ता रतिरौत्सुक्योपरक्तेति । तथा रसानलौकिकास्वादविषयान् स्थायिनोऽधिवासयति । लौकिकरतिवासनानुविद्धो हि शृङ्गाररस इत्यादि ।

Notes

(मू)

1अत्र श्लोकः-

बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः2।
अनेन यस्मात्तेनायं विभाव इति संज्ञितः ।। ४ ।।

अथानुभाव इति कस्मात् । उच्यते–

3अनुभाव्यतेऽनेन वागङ्गसत्त्वकृतोऽभिनय इति । अत्र श्लोकः-

4वागङ्गाभिनयेनेह यतस्त्वर्थोऽनुभाव्यते ।
5शाखाङ्गोपाङ्गसंयुक्तस्त्वनुभावस्ततः स्मृतः ।। ५ ।।

Abh

विभावेनाहृत इत्युक्तम्-तत्र यद्यपि प्रकरणाच्चित्तवृत्त्युद्भवहेतुर्विषयो विभावशब्दस्यार्थ इति ज्ञातम् । तथापि तत्र प्रवृत्तिनिमित्तं जिज्ञासमानः तदेव प्रश्नयति- विभाव इतीतिकस्मात् । ऋतुमाल्यादयोऽत्र विभावशब्देन किमिति व्यपदिष्टा इति भावः।

अत्रोत्तरं विभाव्यन्त इत्यादि । वागादयोऽभिनया येषां स्थायिव्यभिचारिणां ते वागाद्यभिनयसहिता विभाव्यन्ते विशिष्टतया ज्ञायन्ते यैस्ते विभावाः। अभिनयानामनेकहेतुजत्वम् । तद्यथा-हर्षादिभ्यो हासः। घर्मधूमरोगादिभ्यो बाष्पः। तद्बाष्पात्किं प्रतीयताम् । विभावात्तु झडित्येव निश्चयः। अत एव…..*

1आश्रयाः इति । वागङ्गाभिनयद्वारेणैव स्थायिव्यभिचारिणां प्रतीतेः। अत एव व्याचष्टे प्रतीतिहेतव इति । वागाद्यभिनयाश्रया एव सन्तो विभाव्यन्ते, न तु निराश्रया एकका इत्यर्थः। यदि हि वागाद्यभिनया विशिष्टतया न ज्ञायन्ते तदा स्थायिव्यभिचारिणोऽपि तथा न ज्ञायन्त इति ।

Notes

(मू)

(व्या)

1एवं ते विभावानुभावसंयुक्ता भावा इति व्याख्याताः2। अतो ह्येषां3 भावानां सिद्धिर्भवति । तस्मादेषां4 भावानां विभावानुभावसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः। तत्र विभावानुभावौ लोकप्रसिद्धौ5 । लोकस्वभावा6नुगतत्वाच्च तयो7र्लक्षणं नोच्यतेऽतिप्रसङ्गनिवृत्त्यर्थम् ।

भवति चात्र श्लोकः-

लोकस्वभावसंसिद्धा लोकयात्रानुगामिनः8।
9अनुभावा विभावाश्च ज्ञेयास्त्वभिनये बुधैः10 ।। ६ ।।

तत्राष्टौ भावाः स्थायिनः। त्रयस्त्रिंशद्व्यभिचारिणः। अष्टौ सात्त्विका इति भेदाः11। एवमेते काव्यरसाभिव्यक्तिहेतव एकोनपञ्चाशद्भावाः प्रत्यवगन्तव्याः। एभ्यश्च सामान्यगुणयोगेन रसा 12निष्पद्यन्ते ।

13अत्र श्लोकः-

योऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः।
शरीरं व्याप्यते तेन शुष्कं काष्ठमिवाग्निना14 ।। ७ ।।

Notes

(मू)

अत्राह-यदि काव्यार्थ1संश्रितैर्विभावानुभावव्यञ्जितैरेकोन- पञ्चाशद्भावैः2 सामान्यगुणयोगेनाभिनिष्पद्यन्ते3 रसास्तत्कथं4 स्थायिन एव भावा रसत्वमाप्नुवन्ति (इति) । उच्यन्ते -(एवमेतदिति ।)5 यथा हि समानलक्षणास्तुल्यपाणिपादोदरशरीराः6 समानाङ्गप्रत्यङ्गा अपि7 पुरुषाः कुलशीलविद्याकर्मशिल्पविच8 क्षणत्वाद्राजत्वमाप्नुवन्ति तत्रैव चान्येऽल्पबुद्धयस्तेषामेवानुचरा भवन्ति तथा विभावानुभावव्यभिचारिणः स्थायिभावानुपाश्रिता9 भवन्ति । बह्वा10श्रयत्वात्स्वामिभूताः स्थायिनो भावाः। 11तद्वत्स्थानीयपुरुषगुणभूता अन्ये भावास्तान्गुणतया श्रयन्ते12 । स्थायिभावा रसत्वमाप्नुवन्ति13 । परिजनभूता व्यभिचारिणो भावाः। 14अत्राह-को दृष्टान्त इति । 15यथा नरेन्द्रो बहुजनपरिवारोऽपि16 स एव नाम लभते नान्यः सुमहानपि पुरुषः 17तथा विभावानुभाव- व्यभिचारिपरिवृतः18 स्थायी भावो रसनाम लभते19 । भवति चात्र श्लोकः-

Notes

(मू)

यथा नराणां नृपतिः शिष्याणां च यथा गुरुः1।
एवं हि सर्वभावानां भावः स्थायी महानिह ।। ८ ।।

2लक्षणं खलु पूर्वमभिहितमेषां रससंज्ञकानाम् । इदानीं भावसामान्यलक्षणमभिधास्यामः। तत्र3 स्थायिभावान्वक्ष्यामः-

4रतिर्नाम प्रमोदात्मिका5 ऋतुमाल्यानुलेपनाभरणभोजनवर- भवनानु6भवनाप्रतिकूल्यादिभिर्विभावैः समुत्पद्यते । 7तामभिनयेत्स्मित- वदन8मधुरकथनभ्रूक्षेपकटाक्षादिभिरनुभावैः।

9अत्र श्लोकः-

इष्टार्थविषयप्राप्त्या रति10रित्युपजायते ।
11सौम्यत्वादभिनेया सा वाङ्माधुर्याङ्गचेष्टितैः12 ।। ९ ।।

13हासो नाम–परचेष्टानुकरणकुहका14सम्बद्धप्रलापपौरोभाग्य- मौर्ख्यादिभिर्विभावैः समुत्पद्यते। तमभिनयेत्पूर्वोक्तैर्हसितादिभिरनुभावैः। भवति चात्र श्लोकः–

Notes

(मू)

परचेष्टानुकरणाद्धासः समुपजायते ।
1स्मितहासातिहासितैरभिनेयः स पण्डितैः2 ।। १० ।।

शोको नाम - इष्टजनवियोगविभवनाशवधबन्धदुःखानुभवनादि- भिर्विभावैः समुत्पद्यते । तस्यास्रपात3परिदेवितविलपितवैवर्ण्य- स्वरभेदस्रस्तगात्रताभूमिपतन4सस्वनरुदिताक्रन्दितदीर्घनिः श्वसितजड- तोन्मादमोहमरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः।

रुदितमत्र त्रिविधम्-आनन्दजमार्तिजमीर्ष्यासमुद्भवं चेति5 । 6भवन्ति चात्रार्याः-

(7आनन्देऽप्यार्तिकृतं त्रिविधं रुदितं सदा बुधैर्ज्ञयम् ।
तस्य त्वभिनययोगान्विभावगतितः प्रवक्ष्यामि ।।)

हर्षोत्फुल्लकपोलं सानुस्मरणा8दपाङ्गविसृतास्रम्।
9रोमाञ्चगात्रमनिभृतमानन्दसमुद्भवं भवति ।। ११ ।।

पर्याप्तविमुक्तास्रं सस्वनमस्वस्थगात्रगतिचेष्टम्10 ।
11भूमिनिपातनिवर्तितविलपितमित्यार्तिज भवति ।। १२ ।।

Notes

(मू)

प्रस्फुरितौष्ठकपोलं सशिरःकम्पं 1तथा सनिःश्वासम्2 ।
भ्रुकुटीकटाक्षकुटिलं स्त्रीणामीर्ष्याकृतं भवति ।। १३ ।।

स्त्रीनीचप्रकृतिष्वेष3 शोको व्यसनसम्भवः।
धैर्येणोत्तममध्यानां नीचानां रुदितेन च4 ।। १४ ।।

क्रोधो नाम-5आधर्षणाक्रुष्टकलहविवादप्रतिकूलादिभिर्विभावैः समुत्पद्यते । 6अस्य विकृष्टनासापुटोद्वृत्तनयनसन्दष्टोष्ठपुटगण्ड7- स्फुरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः।

रिपुजो8 गुरुजश्चैव प्रणयिप्रभवस्थथा।
भृत्यजः कृतकश्चेति क्रोधः पञ्चविधः स्मृतः ।। १५ ।।

9अत्रार्या भवन्ति–

भ्रुकुटीकुटिलोत्कटमुखः सन्दष्टोष्ठः10 स्पृशन्करणेन करम् ।
11क्रुद्धः स्वभुजप्रेक्षी12 शत्रौ निर्यन्त्रणं 13रुष्येत् ।। १६ ।।

किञ्चिदवाङ्मुखदृष्टिः सास्रस्वेदापमार्जनपरश्च14 ।
अव्यत्त्कोल्बणचेष्टो गुरौ विनययन्त्रितो15 रुष्येत् ।। १७ ।।

Notes

(मू)

अल्पतरप्रविचारो 1विकिरन्नश्रूण्यपाङ्गविक्षेपौः।
सभ्रुकुटीस्फुरितोष्ठः2 प्रणयोपगतां3 प्रियां रुष्यते ।। १८ ।।

4अथ परिजने तु रोषस्तर्जननिर्भर्त्सनाक्षिविस्तारैः।
विप्रेक्षणैश्च विविधैरभिनेयः क्रुरतारहितः5 ।। १९ ।।

कारणमवेक्षमाणः प्रायेणायासलिङ्गसंयुक्तः।
6वीररसान्तरचारी कार्यः कृतको भवति कोपः7 ।। २० ।।

उत्साहो नाम-उत्तमप्रकृतिः। स चाविषादशक्ति8धैर्य- शौर्यादिभिर्विभावैरुत्पद्यते । 9तस्य धैर्यात्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः। अत्र श्लोकः-

10असम्मोहादिभिर्व्यक्तो व्यवसायनयात्मकः11।
उत्साहस्त्वभिनेयः स्यादप्रमादोत्थितादिभिः12 ।। २१ ।।

भयं नाम–स्त्रीनीचप्रकृतिकम् । 13गुरुराजापराधश्वा14पदशून्या- गाराटवीपर्वतगहनगजाहिदर्शन15निर्भर्त्सनकान्तारदुर्दिननिशान्धकारोलक16- नक्तञ्चरारावश्रवणादिभिर्विभावैः समुत्पद्यते। तस्य 17प्रकम्पितकरचरण-

Notes

(मू)

हृदयकम्पनस्तम्भमुखशोषजिह्वापरिलेहनस्वेदवेपथुत्रास1परित्राणान्वेषण- धावनोत्क्रुष्टादिभिरनुभावैरभिनयः प्रयोक्तव्यः।

अत्र श्लोकाः-

2गुरुराजापराधेन रौद्राणां चापि दर्शनात् ।
श्रवणादपि घोराणां भयं मोहेन जायते ।। २२ ।।

गात्रकम्पनवित्रासैर्वक्त्रशोषणसम्भ्रमैः।
विस्फारितेक्षणैः कार्यमभिनेयक्रियागुणैः ।। २३ ।।

3सत्त्ववित्रासनोद्भूतं भयमुत्पद्यते नृणाम् ।
स्रस्ताङ्गाक्षिनिमेषैस्तदभिनेयं तु4 नर्तकैः ।। २४ ।।

अत्रार्या भवति-

करचरणहृदयकम्पैर्मुखशोषणवदनलेहनस्तम्भैः5।
सम्भ्रान्तवदनवेपथुसन्त्रासकृतैरभिनयोऽस्य6 ।। २५ ।।

जुगुप्सा नाम-स्त्रीनीचप्रकृतिका7 । सा चाहृद्यदर्शन8श्रवणादिभि- र्विभावैः समुत्पद्यते । तस्याः सर्वाङ्गसङ्कोचनिष्ठीवनमुखवि- कूणनहृल्लेखादिभिरनुभावैरभिनयः प्रयोक्तव्यः।

Notes

(मू) 1.N.ब.म.क्ष.‘त्रास’ इति नास्ति ।

1भवति चात्र श्लोकः-

नासाप्रच्छादनेनेह2 गात्रसङ्कोचनेन च ।
3उद्वेजनैः सहृल्लेखैर्जुगुप्सामभिनिर्दिशेत्4 ।। २६ ।।

विस्मयो नाम-5मायेन्द्रजालमानुषकर्मातिशय6चित्रपुस्त7शिल्प- विद्यातिशयादिभिर्विभावैः समुत्पद्यते । तस्य नयनविस्तारानिमेष8- प्रेक्षितभ्रूक्षेपरोमहर्षणाशिरःकम्पसाधुवादादिभिरनुभावैरभिनयः प्रयोक्तव्यः।

9भवति चात्र श्लोकः-

कर्मातिशयनिर्वत्तो10 विस्मयो हर्षसम्भवः।
सिद्धिस्थाने त्वसौ 11साध्यः प्रहर्षपुलकादिभिः ।। २७ ।।

एवमेते 12स्थायिनो भावा रससंज्ञाः प्रत्यवगन्तव्याः।

13व्यभिचारिण इदानीं व्याख्यास्यामः। अत्राह-व्यभिचारिण इति कस्मात् । उच्यते–वि अभि इत्येतावुपसर्गौ । 14चर इति गत्यर्थो धातुः। 15विविधमाभिमुख्येन रसेषु चरन्तीति व्यभिचारिणः। 16वागङ्गसत्त्वोपेताः प्रयोगे रसान्नयन्तीति व्यभिचारिणः। अत्राह-कथं

Notes

(मू)

नयन्तीति । उच्यते–लोकेसिद्धान्त एषः1 –यथा सूर्य इदं दिनं2 नक्षत्रं वा नयतीति । न च तेन बाहुभ्यां स्कन्धेन वा नीयते । किं तु लोकप्रसिद्धमेतत् । यथेदं सूर्यो नक्षत्रं3 दिनं वा नयतीति। एवमेते व्यभिचारिण इत्यवगन्तव्याः । तानिह4 सङ्ग्रहाभिहितां- स्त्रयस्त्रिंशद्व्यभिचारिणो भावान् वर्णयिष्यामः।

तत्र निर्वेदो नाम–दारिद्र्य5व्याध्यवमानाधिक्षेपाक्रुष्टक्रोध- ताडनेष्टजनवियोतत्त्वज्ञानादिभिर्विभावैः समुत्पद्यते स्त्रीनीचकुसत्त्वा- नाम्6। रुदितनिःश्वसितोच्छ्वसितसम्प्रधारणादिभिरनुभावैस्तमभिनयेत्7। 8भवति चात्र श्लोकः-

दारिद्र्‌येष्टवियोगाद्यैः9 निर्वेदो नाम जायते ।
सम्प्रधारणनिःश्वासैस्तस्य त्वभिनयो भवेत् ।। २८ ।।

अत्रानुवंश्ये आर्ये भवतः-

10इष्टजनविप्रयोगाद्दारिद्र्याद्व्याधितस्तथा दुःखात् ।
11परवृद्धिं वा दृष्ट्वा निर्वेदो नाम सम्भवति ।। २९ ।।

Notes

(मू)

बाष्पपरिप्लुतनयनः 1पुनः पुनः श्वासदीनमुखनेत्रः ।
योगीव ध्यानपरो2 भवति हि निर्वेदवान्पुरुषः ।। ३० ।।

ग्लानिर्नाम-वान्तविरिक्त3व्याधितपोनियमोपवासमनस्ता- पातिपान4मदन5मद्यसेवनातिव्यायामाध्वगमनक्षुत्पिपासानिद्राच्छेदादिभि– र्विभावैः समुत्पद्यते । तस्याः क्षामवाक्यनयनकपोल6मन्दपदोत्क्षेपणवेप7– नानुत्साहतनुगात्रवैवर्ण्य8स्वरभेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।

9अत्रानुवंश्ये आर्ये भवतः-

वान्तविरिक्त10व्याधिषु तपसा जरसा11 च जायते ग्लानिः ।
कार्श्येन साभिनेया मन्दभ्रमणेन कम्पेन12 ।। ३१ ।।

Abh

निर्वेद इति दारिद्र्यव्याध्यादिकारणजन्यो रुदितनिःश्वसितादीनां कारणं मनोविकारो दुःखरूपो भावविशेषः । शेषेष्वप्येवं विवृतिः । तत्त्वज्ञानं चिरं भ्रान्त्या गुणितहानोपादानादि- प्रबन्धस्य भ्रमनिवृत्तौ सत्यां धिङ्मां वृता भ्रान्तमिति निर्वेदं जनयति । यथा-

वृथा दुग्धोऽनड्वान् स्तनभरनता गौरिति चिरं परिष्वक्तः षण्ढो युवतिरिति लावण्यरहितः ।
कृता वैडूर्याशा विकचकिरणे काचशकले मया मूढेन त्वां कृपणमगुणज्ञं प्रणमता ।।

सम्प्रधारणं यद्यपि वितर्को भावान्तरं तथापि तदनुभावानामत्रानुभावत्वं मन्तव्यम् । न तु व्यभिचारी व्यभिचार्यन्तरेण युज्यते इति । दृष्ट्वा निर्वेदः सम्भवतीति कृदन्तनिर्वेदशब्दान्तर्गतक्रियापेक्षं दृशेस्तुल्यकर्तुकत्वमिति क्त्वाप्रत्ययः । निर्वेदवान् पुरुष इति मतुपा इदं दर्शयति न खल्वमी निर्वेदादयः इदन्तया घटादिवदवभासन्तेऽपि तु अहं निर्विण्ण इत्याश्रय पारतन्त्र्येणैव । विवेकेन तूद्ध्रियन्ते, यस्मिन् सत्येव प्रतीतिः स आन्तरो विकारो निर्वेदः । एवमन्यत्र । अयं च निर्वेदः स्वयं पुरुषार्थसिद्धये वोत्साहरत्यादिवदत्यन्तानुरञ्जनाय वा हासविस्मयादिवन्न प्रभवतीत्यन्यमुखप्रेक्षित्वाद् व्यभिचार्येव । एवं शेषेष्वपि वाच्यम् ।

वान्तं विरिक्तमिति भावे क्तः ।। मदनसेवनं सुरतसेवा । वाक्यं नयने कपोलौ

Notes

(मू)

गदितैः क्षामक्षामैर्नेत्रविकारैश्च दीनसञ्चारैः ।
1श्लथभावेनाङ्गानां मुहुर्मुहुर्निर्दिशेदग्लानिम्2 ।। ३२ ।।

शङ्कां नाम-3सन्देहात्मिका स्त्रीनीचप्रभवा । 4चौर्याभिग्रहण- नृपापराधपापकर्मकरणादिभिर्विभावैःसमुत्पद्यते5 । तस्या6मुहुर्मुहुरवलोक- नावकुण्ठनमुखशोषणजिह्वापरिलेहन7मुखवैवर्ण्यस्वरभेदपथुशुष्कोष्ठ8 कण्ठवायससाधर्म्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।

9चौर्यादिजनिता शङ्का प्रायः कार्या भयानके ।
प्रियव्यलीकजनिता तथा शृङ्गारिणी मता ।। ३३ ।।

Abh

चेति क्षामाणि । वाक्यस्य क्षामत्वं स्वरस्य नीचत्वात् । मन्दं कृत्वा पदोत्क्षेपणं तत्सहचरितं निक्षेपणमपि । वान्तेत्यादिनिमित्तसप्तमी । मुहुर्मुहुरिति । सजातीयचित्तवृत्तिप्रवाहमात्रे व्यभिचारिणां भवत्यपि नैकस्य चिरमवस्थानमिति सूचयति । (Commentary restored from KLV. throughout this chapter)

चौर्याभिग्रहण इति । यदा चौर्येणान्ये परिगृहीता विज्ञातास्तदा तत्सहायस्य तदानीमरिगृहीतस्याप्यनर्थसंशयस्वभावा शङ्का जायते । चौर्यग्रहणमकार्योपलक्षणम् । तेन ये समानमकार्यं कृतवन्तस्तन्मध्यादन्यतमपरिग्रहेऽन्यस्य तथात्वेनाऽज्ञातस्याऽपि शङ्का जायत इत्युक्तं भवति । तेन नृपापराधापिप्रदर्शनमस्यैव प्रपञ्चः । स्त्रीनीचानाम् इति । स्त्रीणामुत्तमस्वभावानां यद्यप्यकार्यं नास्ति अधमानां तु नीच ग्रहणादेव सङ्ग्रहस्तथापि स्त्रीग्रहणमकृतपापानामपि स्त्रीणामन्यत्र सापराधे परिगृहीते मनसि शङ्का जायत एव । भयशेषभूतत्वादस्या भीरुस्वभावत्वाच्च तासामिति प्रदर्शनार्थम् ।

एवं विभाविका शङ्का स्त्रीनीचानामिति दर्शयन्नायिकान्तरपरिचयाद्यपराधजनिता उत्तमानामपि शङ्का भवतीति दर्शयति । न ह्यत्र विभावा एत एवेति नियमः । नाप्येभ्यो विभावेभ्यः शङ्कैव, साप्येभ्यो भवत्येव शङ्केति । किं तु शङ्का तावत् स्वसामग्रीतः प्रत्यात्मवेद्या जायते । तन्मध्ये चैषामस्त्यनुप्रवेश इतीहोच्यते । अत एव याऽन्यगतत्वेन शङ्का यथा समुद्रदत्तस्य नन्दयन्त्यामनुरागशङ्का (पुष्पदूषितकप्रकरणे) दुर्योधनस्य वा भानुमत्यां (वेणीसंहारे), साऽपीह शङ्कात्वेन परिगृहीतैव । केवलमत्यन्तानौचित्यमत्र नायकस्येति नैवंविधं वर्णनोचितं भवति ।

Notes

(मू)

अत्राकारसंवरणमपि केचिदिच्छन्ति । तच्च1 कुशलैरुपाधिभिरि- ङ्गितैश्चोपलक्ष्यम् ।

अत्रार्ये भवतः-

द्विविधा शङ्का कार्या ह्यात्मसमुत्था च परसमुत्था च ।
या तत्रा2त्मसमुत्था सा ज्ञेय दृष्टिचेष्टाभिः ।। ३४ ।।

किञ्चित्प्रवेपिताङ्गस्त्वधोमुखो वीक्षते3 च पार्श्वनि ।
गुरुसज्जमानजिह्वः4 श्यामास्यः5 शङ्कितः पुरुषः ।। ३५ ।।

असूया नाम-6नानापराधद्वेषरैश्वर्यसौभाग्यमेधाविद्याली– लादिभिर्विभावै- समुत्पद्यते । तस्याश्च 7परिषदि दोषप्रख्यापन8– गुणोपघातेर्ष्याचक्षुःप्रदानाधोमुखभ्रुकुटीक्रियावज्ञाकुत्सनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।

Abh

आकारसंवरणम् इति । अवहित्थे यद् बाहुल्येन दृश्यते तदत्रापीति । तदनुभावयोगमाह-यदि वाऽवहित्थमत्र भवतीति प्रदर्शयत्यत्र स्थायिनि शङ्का व्यभिचारितामेति तत्र नियमेनाऽवहित्थमपीति प्रदर्श्यते । न तु व्यभिचारिणि व्यभिचार्यन्तरम् । एवं हि सति तस्मिन्यदन्यदित्यादि शृङ्खलया तदाद्यं व्यभिचारित्वं यायात् । यथा शङ्कायां चिन्ता, तत्रापि निर्वेदस्तत्र ग्लानिस्तत्रालस्यमित्यादि । एवं सर्वत्र व्यभिचारिलक्षण व्यभिचार्यन्तरोपादानं व्याख्येयम् । केचिदित्यनेनेदमाह- वस्तु- संवरणं कथं शङ्कां गमयतीत्याशङ्क्याह-तच्च इति । उपाधयः संवरणोपायाः कथाविच्छेदातिकथनादयः । उपाधीयते आच्छाद्यते प्रकृतं यैरिति । उपाधीयन्तेऽन्यत्र प्रस्तावे योज्यन्त इति वा । इङ्गितान्यङ्गोपरिस्पन्दाः सूक्ष्मा ये संवरीतुं न पार्यन्ते, संवरणस्य च प्राग्भाविनः संविवरीपितास्ते गृह्यन्ते तैरुपाध्यादिभिः करणभूतैः कुशलैः कर्तृभिस्तदाकारसंवरणं शङ्कानुभावत्वेनोपलक्षयितुं शक्यमेव ।

द्विविधेति । यदन्यैरुक्तमत्र द्वैविध्यं तत् सर्वव्यभिचारिणामस्ति । स्वात्मगतो हि निर्वेदः कदाचित् परगतो दृष्टिचेष्टाद्युपलक्ष्यः, अहं निर्विण्णोऽयं निर्विण्ण इति प्रत्ययात् । तस्मादयमत्रार्थः आत्मशब्देन स्वात्मगतोऽपराधं उच्यते, परशब्देन परगतोऽपराधः । तत्र परगतेऽपराधेऽसम्भाव्यमानेऽपि कुतश्चिन्निमित्ताम् सम्भावनापदवीमुपेयुषि या शङ्का यथा नन्दयन्त्यां दर्शिता सेह परोत्था विवक्षिता । एतदुक्तं भवति । स एव विभावाः स्वात्मनि शङ्का सम्भाव्यमानदण्डनादिविषयां जनयन्ति । त एव कदाचित् स्वरूपकर्मिकामपि शङ्कां सम्भाव्यमानदण्डानादिविषयां जनयन्ति । त एव कदाचित् स्वरूपकर्मिकामपि शड्कां जनयन्ति किं चौरोऽयं स्यादिति । ननु तथापि कथं परत्र चौर्याद्याशङ्का जायत इत्याह-दृष्टिचेष्टाभिः इति । स हि यदा परः कृतापराध इवावलोकयति चेष्टते वा कुतश्चिदप्रागल्भ्यभीरुत्वस्वभावादेर्निमित्तान्तरात्तदा सापराधा भवत्वन्यथा वा तत्र तु चौर्याद्यपराधविषया शङ्का जायत इति । पार्श्वानि इति । जसा पुनः पुनरलोकन दर्शयति । एतदेव च वायससाधर्म्यम् ।

Notes

(मू.)

1अत्रार्ये भवतः-

2परसौभाग्येश्वरतामेधालीलासमुच्छ्रयान्दृष्ट्वा ।
3उत्पद्यते ह्यसूया कृतापराधो भवेद्यश्च4 ।। ३६ ।।

भ्रुकुटिकुटिलोत्कटमुखैः5 सेर्ष्याक्रोधपरिवृत्तनेत्रैश्च6 ।
गुणनाशनविद्वेषैस्तत्राभिनयः प्रयोक्तव्यः7 ।। ३७ ।।

8मदो नाम-मद्योपयोगादुत्पद्यते । स च त्रिविधः 9पञ्चविध- भावश्च ।

अत्रार्या भवन्ति-

10ज्ञेयस्तु मदस्त्रिविधस्तरुणो मध्यस्तथावकृष्टश्च ।
करणं पञ्चविधं स्यात्तस्याभिनयः प्रयोक्तव्यः11 ।। ३८ ।।

कश्चिन्मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित् ।
12परुषवचनाभिधायी कश्चित्कश्चित्तथा स्वपिति ।। ३९ ।।

उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्रकृतिः ।
परुषवचनाभिधायी रोदित्यपि चाधमप्रकृतिः ।। ४० ।।

स्मितवचन13मधुररागो हृष्टतनुः किञ्चिदाकुलितवाक्यः ।
सुकुमारा14विद्धगतिस्तरुणमदस्तूत्तमप्रकृति ।। ४१ ।।

स्खलिताघूर्णितनयनः स्रस्तव्याकुलितबाहुविक्षेपः15 ।
कुटिलव्याविद्धगतिर्मध्यमदो16 मध्यमप्रकृतिः ।। ४२ ।।

नष्टस्मृतिर्हतगतिश्छर्दितहिक्काकफैः सुबीभत्सः17 ।
18गुरुसज्जमानजिह्वो निष्ठीवति चाधमप्रकृतिः ।। ४३ ।।

Abh

गुणो नाश्यते दोषीक्रियते येन वचनेन तत्तथोक्तम् । यथा तपोजपनियते दाम्भिकोऽयमिति ।

अवकृष्टो निकृष्ट इत्यर्थः । करणं क्रिया चेष्टा । तेन यैव पञ्चविधा चेष्टा स एव मदस्याभिनयः । स एव च भावशब्देन सूत्रे कथितः । तच्चेष्टापञ्च- कमाह-कश्चिदित्यादिना । हर्षशोकहासक्रोधमोहानां मदेनैकस्थायिकत्वं दर्शयति ।

Notes

(मू)

रङ्गे पिबतः1 कार्या मदवृद्धिर्नाट्ययोगमासाद्य ।
कार्यो मदक्षयो वै यः खलु2 पीत्वा प्रविष्टः स्यात् ।। ४४ ।।

सन्त्रासाच्छोकाद्वा 3भयात्प्रहर्षाच्च कारणोपगतात्4 ।
5उत्क्रम्यापि हि कार्यो 6मदप्रणाशः क्रमात्तज्ज्ञैः ।। ४५ ।।

एभिर्भावविशेषैर्मदा द्रुतं सम्प्रणाशमुपयाति ।
7अभ्युदयसुखैर्वाक्यैर्यथैव शोकः क्षयं याति8 ।। ४६ ।।

श्रमो नाम-9अध्वव्यायामसेवना10दिभिर्विभावैः समुत्पद्यते । तस्य 11गात्रपरिमर्दनसंवाहननिःश्वसितविजृम्भितमन्दपदोत्क्षेपणनयन- वदनविकूणन12सीत्करादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्या-

13नृत्ताध्वव्यायामान्नरस्य सञ्जायते श्रमो नाम ।
14निःश्वासखेदगमनैस्तस्याभिनयः प्रयोक्तव्यः ।। ४७ ।।

Abh

प्रकृतिभेदेन उत्तमस्तरुणमद एव मध्यमस्य मध्यम इत्यत्र न नियमः कश्चित् । अधमप्रकृतिरेव तु नष्टस्मृत्यादिस्वभाव इति । अनेन च तरुणो मदः सर्वेषां मध्यमो मध्यनीचयोरुत्कृष्टो नीचस्यैवेति दर्शितं भवति । शेत इत्यतिपाने सतीत्यर्थः । हृष्टा सरोमाञ्चा तनुरस्याः । सुकुमारं कृत्वा आविद्धा ईषत् स्खलन्तीत्यर्थः । कविनटोपदेशा- याह । रङ्गे पिबत इति । कारणया प्रेरणया प्रयत्नकृतया सन्त्रासादिनिमित्तज्ञापनया उपगत आयातः । एतदुक्तं भवति-त्रासादिवनिमित्तमेव मदादजानन् कथं त्रासादिना क्षीणमदः स्यात्तस्मात्तन्निमित्तपरिज्ञानं यत्नतो विधेयमिति । द्रुतमित्यनेनोत्क्रम्येति दर्शितं क्रमत्यागं व्याचष्टे । प्रसङ्गादन्यदपि एवंजातीयकं दर्शयति । अभ्युदयसुखैरिति । अभ्युदयेन वाच्येन सुखयन्तीति तथोक्तानि । वाक्यग्रहणं प्रमाणोपलक्षणम् ।

Notes

(मू)

आलस्यं नाम-1खेदव्याधिगर्भस्वभावश्रमसौहित्यादिभिर्विभावैः समुत्पद्यते स्त्रीनीचानाम् । तदभिनयेत्सर्वकर्मानभिलाप2शयनासननिद्रा- तन्द्रीसेवनादिभिरनुभावैः ।

अत्रार्या-

3आलस्यं त्वभिनेयं खेदोपगतं 4स्वभावजं चापि ।
आहारवर्जितानामारम्भाणामनारम्भात् ।। ४८ ।।

दैन्यं नाम-दौर्गत्यमनस्तापादि5भिर्विभावैः समुत्पद्यते । 6तस्याधृति- शिरोरोगगात्रगौरवान्यमनस्कतामृजापरिवर्जनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।

अत्रार्या-

7चिन्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनता पुंसाम् ।
सर्वमृजापरिहारैर्विविधो8ऽभिनयो भवेत्तस्य ।। ४९ ।।

चिन्ता नाम-ऐश्वर्यभ्रंशेष्टद्रव्यापहारदारिद्र्‌यादिभिर्विभावैरुत्पद्यते । तामभिनये9न्निःश्वसितोच्छ्वसित10सन्तापध्यानाधोमुखचिन्तनतनुकार्श्या- दिभिरनुभावैः ।

अत्रार्ये भवतः-

11ऐ/?/‌‍श्वर्यभ्रंशेष्टद्रव्यक्षयजा बहुप्रकारा तु ।
हृदयवितर्कोपगता नृणां चिन्ता समुद्धवति ।। ५० ।।

Abh

खेद इति श्रमो विवक्षितस्तेन भावो भावान्तरे विभावतां प्रतिपद्यत एवेति दर्शितम् । सौहित्यमतितृप्तता । आहारवर्जितानामिति । अलसोऽपि ह्यवश्यमाहारं करोत्येव । आरम्भाश्चतुर्वर्गोपायप्रवृत्तयस्तेषामनारम्भेण आरम्भव्यतिरिक्तेन शयनसेवनादिनेत्यर्थः । मृजा शरीरसंस्कारः ।

ऐश्वर्यभ्रंशस्तात्कालिकः । दारिद्र्‌यं तु कुलक्रमायातमपि भवतीति विशेषः । चिन्तनं स्मरणमिति मन्तव्यम् । चिन्तानुस्मृतेरन्यैव । चिति स्मृत्यामित्यादि

Notes

(मू)

1सोच्छ्वासैर्निःश्वसितैः सन्तापैश्चैव हृदयशून्यतया2 ।
अभिनेतव्या चिन्ता मृजाविहीनैरधृत्या च ।। ५१ ।।

मोहो नाम-दैवोपघातव्यसनाभिघातव्याधिभयावेगपूर्ववैरानु3- स्मरणादिभिर्विभावैः समुत्पद्यते । तस्य निश्चैत4न्यभ्रमणपतनाघूर्णना– दर्शनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । 5अत्र श्लोकस्तावदार्या च–

अस्थाने तस्कारान्दृष्ट्वा त्रासनैर्विविधैरपि6 ।
तत्प्रतीकारशून्यस्य मोहः समुपजायते ।। ५२ ।।

7व्यसनाभिघातभयपूर्ववैरसंस्मरणरोगजो मोहः8 ।
सर्वेन्द्रियसम्मोहात्तस्याभिनयः प्रयोक्तव्यः ।। ५३ ।।

स्मृतिर्नाम-सुखदुःखकृतानां भावानामनुस्मरणम् । सा च स्वास्थ्य– जघन्यरात्रिनिद्राच्छेदसमानदर्शनोदाहरणचिन्ताभ्यासादिभिर्विभावेः समुत्पद्यते । तामभिनयेच्छिरःकम्पनावलोकन9भ्रूसमुन्नमनादिभिरनुभावैः । अत्रार्ये भवतः10–

Abh

त्वदूरविप्रकर्षेणार्थनिर्देशः । सर्वधातूनां ह्यर्थोऽन्योऽन्यतो भिद्यत एव । तथा हि खेलु गताविति यद्यपि पठयते तथाऽपि सविलासगमनमेव विशिष्टं खेलनमिति प्रसिद्ध खेखेलगामीत्यादौ । ग्रेसनं च अक्रमकगर्वक्रोधावेशनिर्भरनिगरणविशिष्टमदनं न त्वदनमात्रम् । एवमन्यत्रावधेयम् । हृदये वितर्कस्योपगमो यस्याः सकाशाद् वितर्काद्वोपगमो यस्याः । अनेन चिन्तायाः पूर्वोत्तरकक्ष्ययोर्वितर्को भवतीति शिक्षयति ।

दैवोपघातोऽग्न्युदकाद्युपद्रवः । व्यसनं पीडादि । तत्कृतोऽभिघात इति केचित् । अभिघातस्तु मर्मप्रहारादिः पृथगेव पुष्कलार्थः । भावान्तरमपि विभावतामेतीत्याशयेनाह– भयेति । व्यभिचारिणि च स्थायीभावो यद्यपि विभाव एव । तथापि भयग्रहणं भये मोहस्य बाहुल्यसूचनार्थम् । भ्रमणमनवस्थानं चित्तस्य घूर्णनं तु देहस्य । तत्प्रतीकारशून्यस्येत्यनेन मोहस्य प्रागवस्थां किंकर्तव्यतालक्षणामपि मोहशब्दवाच्यां दर्शयति सर्वेन्द्रियसम्मोहादित्यनेनान्तरस्य संवेदनस्य मूढेऽप्यनष्टतां दर्शयन्मोहस्य चित्तापत्तिरूपतामाह ।

सुखदुःखयोः कृतं निष्पत्तिर्यतस्तेषामित्यनेन स्मृतेरशेषविषयव्यापकतामाह–जघन्यः पश्चिमो रात्रेर्भागः । धातुसाम्यकारीति स्मूतिहेतुर्यर्थोक्तं–‘रात्रियामस्तुरीयः कालः’ (वामन-काव्यालङ्कारसूत्रवृत्तौ) इति । निद्रोच्छेदोऽर्धरात्रादावपि । सदृशस्य दर्शनं श्रवणं वा । चिन्ता प्रणिधानम् । अभ्यासः पुनःपुनः परिशीलनं, अवलोकनमिति

Notes

(मू)

सुखदुःखमतिक्रान्तं तथा मतिविभावितं यथावृत्तम् ।
1चिरविस्मृतं स्मरति यः स्मृतिमानिति वेदितव्योऽसौ ।। ५४ ।।

स्वास्थ्याभ्याससमुत्था श्रुतिदर्शनसम्भवा स्मृतिर्निपुणैः ।
शिरउद्वाहनकम्पैर्भ्रुक्षेपैश्चाभिनेतव्या ।। ५५ ।।

2धृतिर्नाम– 3शौर्यविज्ञानश्रुतिविभवशौचाचारगुरु4भक्त्याधिक– मनोरथार्थलाभक्रीडादिभिर्विभावैः समुत्पद्यते । तामभिनयेत्प्राप्तानां विषयाणामुपभोगाद5प्राप्तातीतोपहतविनष्टानामननुशोचनादिभिरनुभावैः । अत्रार्ये भवतः–

6विज्ञानशौचविभवश्रुतिशक्तिसमुद्भवा धृतिः सद्भिः ।
भयशोकविषादाद्यै रहिता तु सदा प्रयोक्तव्या ।। ५६ ।।

प्राप्तानामुप7भोगः 8शब्दरसस्पर्शरूपगन्धानाम् ।
9अप्राप्तैश्च न शोको यस्यां हि भवेद्धृतिः सा तु ।। ५७ ।।

Abh

सदृशस्य । सुखदुःखमिति तज्जनकमित्यर्थः । विभावितमिति पटुप्रत्ययपरिगृहीतत्वमाह ।

विज्ञानं विवेकज्ञानं, श्रुतविभवो बाहुश्रुत्यं, शौचाचरणं तपःसेवादि, अधिकस्यार्थस्य मनोरथाविषयस्य लाभः मनोरथस्य चार्थस्य लाभः मनोरथ ईप्सितः । मन एव रथः प्राप्त्युपायो यस्मिन् अत्र कस्यचिद्विषयता, ईप्सितलाभे हि धृतो भवति संतुष्टत्वात् । कस्यचित् करणता, क्रीडया विनोद्यमानो दुःखितो धृतिं लभते । कस्यचिदुभयरूपता विज्ञानश्रुतविभवादेरिव प्राप्तानां विषयाणामुपभोगमवलम्ब्य यदप्राप्तादीनामननुशोचनं तदादिभिरनुभावैरिति सम्बन्धः तेन प्राप्तोपभोगपूर्वकत्वं सर्वेषामनुभावानामित्युक्तं भवति । न तु पृथगनुभावता प्राप्तभोगस्य । अप्राप्तः स्थितोऽपि तस्याऽविषय अतीतः स्थितोऽपि तद्विषयत्वादपगतः । उपहतो जीर्णादिरूपतां प्राप्तः । विनष्टो ध्वस्तः ।

Notes

(मू)

व्रीडा नाम-अकार्यकरणात्मिका । सा च गुरुव्यतिक्रमणाव– ज्ञानप्रतिज्ञातानिर्वहण1पश्चात्तापादिभिर्विभावैः समुत्पद्यते । 2तां निगूढवदनाधोमुखविचिन्तनोर्वीलेखनवस्त्राङ्गुलीयकस्पर्शननखनिकृन्त– नादिभिरनुभावैरभिनयेत् ।

अत्रार्ये भवतः3–

किञ्चिदकार्यं कुर्वन्नेवं4 यो दृश्यते शुचिभिरन्यैः ।
पश्चात्तापेन युतो व्रीडित इति वेदितव्योऽसौ ।। ५८ ।।

5लज्जानिगूढवदनो भूमिं विलिखन्नखांश्च विनिकृन्तन् ।
वस्त्राङ्गुलीयकानां संस्पर्शं व्रीडितः कुर्यात् ।। ५९ ।।

चपलता नाम-रागद्वेष6मात्सर्यामर्षेर्ष्याप्रतिकूलादिभिर्विभावैः समुत्पद्यते । तस्याश्च वाक्पारुष्यनिर्भर्त्सनवधनबन्धसम्प्रहार7ताडना– दिभिरनुभावैरभिनयः प्रयोक्तव्यः ।

8अत्रार्या भवति–

Abh

अकार्यकरणशब्देन तज्त्ज्ञानमुच्यते । अकरणीयं मयैवं कृतमित्येवं- भूतविज्ञानस्वभावेत्यर्थः । अतः एव स्त्रीबालादेरपूर्वपुरुषसन्निधौ लज्जा दृष्टा विनाप्यकार्यकरणात् । अकार्यकरणादात्मा यस्य इत्यन्ये । तत्पक्षे च गुरुव्यतिक्रमणादिप्रपञ्चमात्रं यत् पूर्वं स्वयं त्यक्तं पश्चात्तापं करोति ततो विवेकवतो लज्जा भवति । पूर्वापरविचारशून्यं मां लोकः कलयतीति विलेखनं भूम्यादेः । शुचिभिरिति उचितकार्यकारिभित्यर्थः । अकार्यकारिणां तु मध्ये मयैवाकार्यं कृतमिति न भवति संवित् । पश्चाद्यस्तापो मानसो विवेकः स हि तदा कृतस्योत्पुंसनायोगात् केवलं तापयत्येव । विनिकृन्तन् कुर्यादिति नात्र शत्रानुभावयौगपद्यं द्योत्यते, किन्तु नखादीनि निकृन्तति वस्त्रादीनि वा स्पृशतीत्येवं स्पष्टमेतत् ।

Notes

(मू)

1अविमृश्य तु यः कार्यं पुरुषो 2वधताडनं समारभते ।
3अविनिश्चितकारित्वात्स तु खलु तपलो बुधैर्ज्ञेयः ।। ६० ।।

हर्षो नाम-मनोरथ4लाभेष्टजनसमागमनमनःपरितोषदेव– गुरुराजभर्तुप्रसादभोजनाच्छादन5लाभोपभोगादिभिर्विभावैः समुत्पद्यते । तमभिनयेन्नयनवदनप्रसादप्रियभाषणालिङ्गनकण्टकित6पुलकितास्रस्वेदा– दिभिरनुभावैः ।

अत्रार्ये भवतः–

7अप्राप्ये प्राप्ये वा लब्धेऽर्थे प्रियसमागमे वाऽपि ।
हृदयमनोरथलाभे हर्षः सञ्जायते पुसाम् ।। ६१ ।।

8नयनवदनप्रसादप्रियभाषालिङ्गनैश्च रोमाञ्चैः ।
ललितैश्चाङ्गविहारैः9 स्वेदाद्यैरभिनयस्तस्य ।। ६२ ।।

Abh

वधताडनमिति । यत् पापरूपं सहसा न करणार्हं तदपीत्यननान्यदपि सूचितम् । स खलु चपल इति तेनाऽविमृश्याऽपर्यालोच्च स कार्यकरणं चापल्यमिति यावत् । परितोष इति । पुत्रादिगतस्य हर्षस्य हर्षकारणत्वं वदन् निःसजातीयोऽपि भावोऽन्यगतो भावस्य कारणं भवत्येव, यथा रामगतो निर्वेदचिन्तादिर्लक्ष्मणस्य निर्वेदचिन्ताद्युत्पत्तौ हेतुरिति सूचयति । अप्राप्य इति असम्भावनीयप्राप्तिके इत्यर्थः । हृदयं यद्यत्र वस्तुनि सारभूतं तल्लाभे हर्ष उत्पद्यते । तद्यथा सुवर्णार्थिनो देशान्तराणि भ्राम्यतो– ऽनन्तसुवर्णमूल्यरत्नलाभे मनोरथस्य तु हृदयग्रहणमाङ्गिकव्यापाराणां व्युदासायेति तु न युक्तं तेषां मनोरथेष्वसम्भाव्यत्वात् ।

Notes

(मु.)

आवेगो नाम-उत्पातवातवर्षाग्निकुञ्जरोद्भ्रमण1प्रियाप्रियश्रवण– 2व्यसनाभिघातादिभिर्विभावैः समुत्पद्यते । तत्रोत्पातकृतो नाम विद्यु– दुल्कानिर्घातप्रपतनचन्द्रसूर्योपरागकेतुदर्शन3कृतः । तमभिनये– त्सर्वाङ्ग4स्रस्ततावैनस्यमुखवैवर्ण्यविषादविस्मयादिभिः । वातकृतं पुनरवकुण्ठनाक्षि5परिमार्जनवस्त्रसङ्गूहनत्वरितगमनादिभिः । वर्षकृतं पुनः सर्वाङ्गसम्पिण्डनप्रधावनच्छन्नाश्रयमार्गणादिभिः6 । अग्निकृतं तु धूमाकुल7नेत्रताऽङ्गसङ्कोचनविधूननातिक्रान्तापक्रान्तादिभिः । कुञ्जरोद्– भ्रमणकृतं नाम8 त्वरितापसर्पणचञ्चलगमनभयस्तम्भवेपथुपश्चादव– लोकनविस्मयादिभिः । प्रियश्रवणकृतं नामाभ्यु9त्थानालिङ्गनवस्त्रा– भरण10प्रदानाश्रुपुलकितादिभिः । अप्रियश्रवणकृतं नाम 11भूमिपतनविषम– विवर्तनपरिधावनविलापनाक्रन्दनादिभिः । 12व्यसनाभिघातजं तु सहसापसर्पणशस्त्रचर्मवर्मधारणगजतुरगरथारोहण13सम्प्रधारणादिभिः14 ।

Abh

आविष्टहृदयानामेव प्रयोगयोग्यत्वादावेगः सर्वत्र प्रयोगे जीवितमित्याशयेन प्रतिविभावमस्यानुभावभेदेन प्रयोगवैचिञ्यं दर्शयति । तत्रोत्पातकृतो नामेत्यादिना । अतिक्रान्तापक्रान्ते चार्यौ ताभ्यामपसर्पेदित्यर्थः । उत्क्रान्तमर्यादं भ्रमणमुद्भ्रमणम् । अप्रियश्रवणे कस्यचिदावेगस्तत्र च शोकानुभावा एवोपर्युपरिपातिनः क्षिप्रगतयश्च (अधीरस्य)पश्चात्तु शोकः, धीरस्य तु प्रथममेव शोक इति श्रीशङ्कुकः । तच्चासत् । एवं ह्यावेगस्य स्थायित्वं स्यात्, शोकस्य च व्यभिचारिता । तस्मादधीरप्रकृतेः शोक

Notes

(मू)

1एवमष्टविकल्पोऽयमावेगः सम्भ्रमात्मकः ।
स्थैर्येणोत्तममध्यानां नीचानां चापसर्पणैः2 ।। ६३ ।।

अत्रार्ये भवतः–

अप्रियनिवेदनाद्वा सहसा ह्यवधारितारिवचनस्य3 ।
4शस्त्राक्षेपात् त्रासादावेगो 5नाम स्मभवति ।। ६४ ।।

अप्रियनिवेदनाद्यो विषादभावाश्रयोऽनुभावोऽस्य ।
6सहसारिदर्शनाच्चेत्प्रहरणपरिघट्टनैः कार्यः ।। ६५ ।।

जडता नाम-सर्वकार्याप्रतिपत्तिः । इष्टानिष्टश्रवणदर्शन7व्याध्या– दिभिर्विभावैः समुत्पद्यते । तामभिनयेदकथनाविभाषण8तूष्णीम्भावा– प्रतिभाऽनिमेषनिरीक्षणपरवशत्वादिभिरनुभावैः । अत्रार्या भवति -

इष्टं वाऽनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् ।
तूष्णीकः परवशगो9 भवति स जडसंज्ञितः पुरुषः ।। ६६ ।।

Abh

उत्पन्न एव द्वितीय एव क्षणे आवेगेनाक्रम्यते । धीरप्रकृतेस्तु भवन्नप्यावेगो धैर्यणावहित्थोचितेन संव्रियते, न तु नोद्भवति । तथा च वक्ष्यति । स्थैर्येणोत्तममध्यानामिति । न च व्यभिचारिसाहचर्यरहिता काचिदपि स्थायिनो दशास्ति । न च स्थायिभित्तिसम्भववन्ध्या व्यभिचारिचित्रस्थितिः । अपसर्पणैरिति । बहुवचनं प्रकारसूचकम् । पलायनादिभिः प्रकारैरित्यर्थः । अपसर्पणं च कुञ्जराग्न्यादिकृते आवेगे भूयसा भवतीत्युपात्तम् । अप्रियनिवेदनाद्य आवेगोऽस्य विषादाश्रयोऽनुभाव इति वदन्, व्यभिचारिणो व्यभिचार्यन्तरे इत्थं स्थितिर्भवतीति दर्शयति । दर्शितं चैतदादावेवास्माभिः सहसेति । पूर्वमनुपलब्धा गमनस्योरेर्दर्शनाद्यावेगः सम्भवति तदा प्रहरणपरिघट्टनं चलनं कार्यम् ।

कार्यविषयेऽप्रतिपत्तिरित्यनेन विवेकाभावो जडता । चक्षुर्भ्यामपि पश्यतः, श्रोत्राभ्यामपि शृण्वत इति दर्शयत् मोहादस्याः स्वरूपान्तरं दर्शयति । अकथनं प्रश्ने कृतेऽप्युत्तरस्य अभाषणं तु सामान्येन । सुहृदादौ वचनस्याप्रवर्तनम् । मोहादिति मोहात्पूर्व परतो वा भवतीति सम्बन्धः ।

Notes

(मू) 1.N. प.म.क्ष.अ.ब. इत्येषोऽष्टविधो ज्ञेय आवेगः ।

गर्वो नाम-ऐश्वर्यकुलरूपयौवनविद्या1बलधनलाभादिभिर्विभावैः समुत्पद्यते । तस्यासूयावज्ञा2धर्षणानुत्तरदानसम्भाषणाङ्गाव– लोकनविभ्रमापहसनवाक्पारुष्य3गुरुव्यतिक्रमणाधिक्षेपवचनविच्छेदा– दिभिरनुभावैरभिनयः प्रयोक्तव्यः ।

अत्रार्या भवति–

4विद्यावाप्ते रूपादैश्वर्यादथ धनागमाद्वापि ।
गर्वः स च5 नीचानां दृष्ट्‌य दृष्ट्‌यङ्गविचारणैः कार्यः ।। ६७ ।।

Abh

विभ्रमः स्त्रीणां गर्वेऽनुभावस्तस्य लक्षणम्–

विविधानामर्थानां वागङ्गाहार्यसत्त्वयुक्तानाम् ।
मदरागहर्षजनितो व्यत्यासो विभ्रमो ज्ञेयः ।।

मदादेरुपलक्षणत्वाद्गर्वोऽप्यत्र गृहीत एव भवति । स चेति । चोऽवधारणे । ये पूर्वं विद्यादिष्वयोग्यास्तेषां नीचानां तदाप्तौ गर्व एव भवति । भवत्येव च दृष्ट्यङ्गानां च विविधैरेव विकारपूर्वकैः सञ्चारणैरिति । तेन धारावाहितया स तेषां तिष्ठत्युत्तमानां तु क्षणद्युतिवत् भवत्येवेत्यावेदितमेव ।

Notes

(मू.) 1.N. च.ब.त. बलादिभिर्विभावैः समुत्पद्यते । तमसूया ।

विषादो नाम-कार्यानिस्तरण1दैवव्यापत्तिसमुत्थः । तमभि- नयेत्सहायान्वेषणोपायचिन्तनोत्साहविघातवैमन2स्यनिःश्वसितादि- भिरनुभावैरुत्तममध्यमानाम् । अधमानां तु विपरिधावनालोकनमुख- शोषणसृक्वपरिलेहननिद्रानिःश्वसितध्यानादिभिरनुभावैः ।

अत्रार्याश्लोकौ3-

कार्यानिस्तरणाद्वा4 चौर्याभिग्रहणराजदोषाद्वा5 ।
दैवादर्थविपत्तेर्भवति6 विषादः सदा पुंसाम् ।। ६८ ।।

7वैचित्र्योपायचिन्ताभ्यां कार्य उत्त8ममध्ययोः ।
निद्रानिःश्वसि9तध्यानैरधमानां तु योजयेत् ।। ६९ ।।

Abh

उपायैरप्यनुक्रान्तस्य कार्यस्य अनिस्तरणं फलासम्पत्तिर्यतस्तथाभूता या दैवव्याप्तेरदृष्टप्रतिकूलताया विषाद इति वदन् दैवदोषजां सदुपायेभ्योऽपि फलासम्पत्तिं विषादस्य विभावत्वेन सूचयति । क्रोधेऽयं न व्यभिचारीति केचित्तदसत् । दृश्यते हि रौद्रप्रकृतिनामपि विषादः यथा, रामाभ्युदये एतत्तु क्षतिमातनोति मनसो यद्वज्रधाराङ्किते कौर्येच्छाप्रणयः प्लवङ्गनखरैः प्राप्तः प्रहस्तोरसि । इति । मनःक्षतिर्हि दौर्मनस्यं विषादानुभावः । ये च प्लवङ्गाः पलायनैकशरणाः पशवस्तेषामेवंविधे क्रौर्येच्छैवानुचिता । किं तु तदीयः प्रणयो यावद- भिलषितवस्तुपरिपूर्णतेति दैवकृतेयं सदुपायेनापि फलासम्पत्तिरित्यनुभाव उक्तः । न चैतद्विषादस्य क्रोधव्यभिचारित्वं युक्त्यागमानुभवैर्विरुध्यत इत्यलम् ।

Notes

(मू)

औत्सुक्यं नाम-इष्टजनवियोगानु1स्मरणोद्यानदर्शनादिभिर्विभावैः समुत्पद्यते । 2तस्य दीर्घनिःश्वसिताधोमुखविचिन्तननिद्रा3तन्द्रीशयना- भिलाषादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।

4अत्रार्या भवति-

इष्टजनस्य5 वियोगादौत्सुक्यं जायते ह्यनुस्मृत्या ।
चिन्तानिद्रातन्द्रीगात्रगुरुत्वैरभिनयोऽस्य ।। ७० ।।

निद्रा नाम–6दौर्बल्यश्रमक्लममदालस्यचिन्ताऽत्याहारस्व- भावादिभिर्विभावैः समुत्पद्यते । तामभिनयेद्वदन7गौरवशरीरावलोकननेत्र- घूर्णनगात्रविजृम्भणमान्द्योच्छ्वसितसन्नगात्रताऽक्षिनिमीलनादिभिरनु- भावैः ।

Abh

अत्सूयत इत्युत्सूशब्देनाङ्कुरा्द्यभिमुखी भूतो बीजादिः । ततः प्रतिकृति ‘के’, केऽणो ह्रस्वे उत्सुक इति रूपम् । तस्य भाव औत्सुक्यम् । वियोगग्रहणं विप्रलम्भेऽस्य प्राधान्यं ख्यापयति । इष्टजनस्यालम्बनता । स्मृतेस्तूद्दीपनत्वमिति स्मरणग्रहणेन दर्शयति । शयनाभिलाषो विनापि निद्रया भवतीति भेदेनोपात्तः ।

दौर्बल्यं व्याध्यादिना क्षीणबलत्वं क्लमो घर्मादिकृतः ।

Notes

(मू.) 1.N. च.ब.त. स्मरणादिभिः ।

अत्रार्ये भवतः-

आलस्याद्दौर्बल्यात्क्लमाच्छ्रमाच्चिन्तनात्स्वभावाच्च ।
रात्रौ जागरणादपि निद्रा पुरुषस्य सम्भवति ।। ७१ ।।

तां मुखगौरवगात्रप्रतिलोलननयनमीलनजडत्वैः1।
जृम्भणगात्रविमर्दैरनुभावैरभिनयेत्प्राज्ञः2 ।। ७२ ।।

अपस्मारो नाम-देव3यक्षनागब्रह्मराक्षस4भूतप्रेतपिशाचग्रहणानुस्म- रणोच्छिष्टशून्यागार5सेवनाशुचि6कालान्तरापरिपतनव्याध्यादिभि- र्विभावैः समुत्पद्यते । तस्य 7स्फुरितनिःश्वसितोत्कम्पितधावनपतन- स्वेदस्तम्भनवदनफेन8जिह्वापरिलेहनादिभिरनुभावैरभिनयः प्रयोक्तव्यः। अत्रार्ये भवतः-

भूतपिशाचग्रहणानुस्मरणोच्छिष्टशून्यगृहगमनात् ।
कालान्तरातिपातादशुचेश्च9 भवत्यपस्मारः ।। ७३ ।।

सहसा भूमौ पतनं प्रवेपनं10 वदनफेनमोक्षश्च ।
11निःसंज्ञस्योत्थानं रूपाण्येतान्यपस्मारे ।। ७४ ।।

सुप्तं नाम12-निद्राभिभ13 वविषयोपगमनमोहनक्षितितल- शयनप्रसारणानुकर्षणादिभिर्विभावैः समुत्पद्यते निद्रासमुत्थम् ।

Abh

देवादिभिः पिशाचाद्यन्तैर्ग्रहैर्यदनुस्मरणमधिष्ठानाय। हीनसत्त्वो वा तान् स्मरन्नपस्मारी भवति । ग्रहणं तु प्रतीतम् । अशुचेः सतः कालान्त- रातिपातश्चिरावस्थानम् । धातूनां वातपित्तश्लेष्मणां वैषम्ये सति बुद्धिस्थाने समावृते सत्यपस्मारो यदाहुस्तच्च धीसत्त्वसंप्लवात् ।

Notes

(मू)

तदुच्छ्वसित1सन्नगात्राक्षिनिमीलनसर्वेन्द्रियसम्मोहनोत्स्वप्नायितादिभि2रनु- भावैरभिनयेत्।

3अत्रार्ये भवतः-

निद्राभिभवेन्द्रियोपरमणमोहनैर्भवेत्सुप्तम् ।
अक्षिनिमीलोच्छ्वसनैः स्वप्नायितजल्पितैः कार्यः ।। ७५ ।।

4सोच्छ्वासैर्निःश्वासैर्मन्दाक्षिनिमीलनेन निश्चेष्टः।
सर्वेन्द्रियसम्मोहात्सुप्तं स्वप्नैश्च युञ्जीत5 ।। ७६ ।।

विबोधो नाम-6आहारपरिणामनिद्राच्छेद7स्वप्नान्ततीव्रशब्द- स्पर्शश्रवणादिभिर्विभावैः समुत्पद्यते। 8तमभिनयेज्जृम्भणाक्षिपरिमर्दन- शयनमोक्षणादिभिरनुभावैः। अत्रार्या भवति -

9 आहारविपरिणामाच्छब्दस्पर्शादिभिश्च सम्भूतः।
प्रतिबोधस्त्वभिनेयो जृम्भणवदनाक्षिपरिमर्दैः10 ।। ७७ ।।

अमर्षो नाम- 11विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा समुत्पद्यते । 12तमभिनयेच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तनध्याना- ध्यवसायोपायसहायान्वेषाणादिभिरनुभावैः।

Abh

निद्रासमुत्थमित्यनेन निद्राया एव गाढावस्था सुप्तमिति दर्शयन्निद्राया विषयेभ्य उपरिरंसात्मकत्वं स्वरूपमाह–स्वप्नायितम् इति । प्रलपनमिति लोके प्रसिद्धं स्वप्नादसाधारणतात्कालिकविषयज्ञानाद्भिन्नमेव । स्वप्नस्य अयितं प्रतीतिर्यतः स्वप्ने ह्यनुस्मरन् किञ्चित्तथा प्रलपति प्रलापाच्च तस्य तथा स्मृतिरनुमीयते लोकैः।

निद्राया नियतमर्यादावशादाहारपरिणामादिना विनापि छेदो भवतीति, पृथग् निद्राच्छेद उक्तः। स्वप्नस्य योऽन्तः परिसमाप्तिः। शब्दादयस्तद्गता एवेति घण्टुकः। बाह्या एवेति युक्ततरम् ।

अमर्ष इति प्रतिकरणेच्छारूपोऽयं क्रोधादन्य एव । ध्यानं निर्लक्षतया-

Notes

(मू)

1अत्र श्लोकौ-

आक्षिप्तानां सभामध्ये विद्याशौर्यबलाधिकैः2।
नृणामुत्साह3संयोगादमर्षो नाम जायते ।। ७८ ।।

उत्साहाध्यवसायाभ्यामधोमुखविचिन्ततैः4।
शिरःप्रकम्पस्वेदाद्यैस्तं प्रयुञ्जीत पण्डितः5 ।। ७९ ।।

अवहित्थं नाम-आकारप्रच्छादनात्मकम्6 । तच्च7 लज्जाभयापजयगौरवजैह्म्यादिभिर्विभावैः समुत्पद्यते । 8तस्यान्यथाकथनावलोकितकथाभङ्गकृतकधैर्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः। अत्र श्लोको भवति-

धार्ष्ट्यजैह्म्यादि9सम्भूतमवहित्थं भयात्मकम्10 ।
11तच्चागणनया कार्य नातीवोत्तरभाषणात् ।। ८० ।।

12उग्रता नाम-चौर्याभिग्रहण13नृपापराधासत्प्रलापादिभिर्विभावैः समुत्पद्यते । तां च वधबन्धनताडननिर्भर्त्सनादिभिरनुभावैरभिनयेत् । अत्रार्या भवति-

14चौर्याभिग्रहणवशान्नृपापराधादथोग्रता भवति ।
वधबन्धताडनादिभिरनुभावैरभिनयस्तस्याः ।। ८१ ।।

Abh

ऽवस्थानमिति चिन्तातो भिद्यते । उत्साहसम्पन्न इति निरुत्साहानां प्राकृतानां न भवतीत्यर्थः। उत्साहाऽध्यवसायशब्देन तदनुभावाः।

आक्रियते बहिः प्रकाश्यते चित्तवृत्तिर्यैस्तेषां भ्रूविकारमुखरागादीनां संवरणमाच्छादनकारि यच्चित्तवृत्तिरूपं तदवहित्थम् । न बहिस्थं चित्तं येनेति निरुक्तं पृषोदरादित्वाच्च रूपमित्याहुः। जैहम्यगोपनीयेऽपि गोपनेच्छाकुटिलाशयत्वम् । प्रगल्भो ह्याकारं संवरीतुं जानातीति धार्ष्ट्येग्रहणम् । सलज्जोऽपि ह्यप्रगल्भो न जानाति । तेन धार्ष्ट्य सर्वविभावेष्वस्यानुयायीति मन्तव्यम् । अगणना तस्यार्थस्यावलेपेन स्थापनम् ।

चौर्यमुपलक्षणमकार्याणाम् । तन्निमित्तं गृहीते जने राजादीनामौग्र्यं निर्दयत्वम्। एवं राजन्यपराध्यत्यसत्प्रलापिनि मिथ्यादोषवादिनि ।

Notes

(मू)

मतिर्नाम-1नानाशास्त्रविचिन्तनोहापोहादिभिर्विभावैः समुत्पद्यते । तामभिनयेच्छिष्योपदेशार्थविकल्पनसंशयच्छेदादिभिरनुभावैः। भवति चात्र श्लोकः-

2नानाशास्त्रार्थबोधेन मतिः संजायते नृणाम् ।
3शिष्योपदेशार्थकृतस्तस्यास्त्वभिनयो भवेत् ।। ८२ ।।

व्याधिर्नाम-वातपित्तकफसन्निपातप्रभवः ।तस्याःज्वरादयो4 विशेषाः। ज्वरस्तु (खलु) द्विविधः सशीतः सदाहश्च । तत्र सशीतो नाम-प्रवेपितसर्वाङ्गोत्कम्पन5निकुञ्चनाग्न्यभिलाषरोमाञ्चहनु- वलननासाविकूणनमुखशोषणपरिदेवतादिभिरनुभावैरभिनेयः । सदाहो6 नाम-विक्षिप्ताङ्गकरचरणभूम्यभिलाषानुलेपनशीताभिलाष7परिदेवनमुखशो- षोत्क्रुष्टादिभि8रनुभावैः। ये चान्ये व्याधयस्तेऽपि खलु मुख- विकूणन9गात्रस्तम्भस्रस्ताक्षिनिःश्वसनस्तनितोत्क्रुष्टवेपनादिभिरनुभावै- भिनेयाः। अत्र श्लोको भवति-

समासतस्तु10 व्याधीनां कर्तव्योऽभिनयो बुधैः।
स्रस्ताङ्गात्रविक्षेपैस्तथा11 मुखविकूणनैः।। ८३ ।।

Abh

मतिरिति । अपूर्वप्रतिभानरूपा । ऊहापोहावन्वयव्यतिरेकप्रत्ययौ विधिनिषेध- विषयौ वा सम्भावनाप्रत्ययौ । नानाशास्त्राणां योऽर्थः प्रयोजनं विवेकलाभस्ततः सम्पन्ना जाता । शिष्योपदेशलक्षणेन प्रयोजनेन ये देहविकारा भ्रूत्क्षेपादयस्तैरस्या अभिनयः।

ज्वरस्य सर्वव्याधिमध्ये प्रधानत्वादुपादानम् । मदनविकारे च ज्वरस्य सम्भवात्। व्याधिसमये च या तत्तद्व्याधिसमुचिता व्याधिमतश्चित्तवृत्तिः सैवेह व्याधिशब्देन विवक्षिता । व्याधिसन्निधौ हि चित्तं न स्वरूपेणावतिष्ठत इति ।

Notes

(मू)

उन्मादो नाम-इष्टजनवियोगविभवनाशाभिघात1वातपित्तश्लेष्म- प्रकोपादिभिर्विभावैरुत्पद्यते । तमनिमित्तहसितरुदितोत्क्रुष्टा2सम्बद्ध- प्रलाप3शयितोपविष्टोत्थितप्रधावितनृत्तगीतपठितभस्मपांस्ववधूलन4- तृणनिर्माल्यकुचेलचीरघटकपालशरावाभरणधारणोपभोगेरन/?/- कैश्चानवस्थितैश्चेष्टानुकरणादिभिरनुभावैरभिनयेत् । 5अत्रार्ये भवतः-

इष्टजनविभवनाशादभिघाताद्वातपित्तकफकोपात् ।
विविधाच्चि6त्तविकारादुन्मादो नाम सम्भवति ।। ८४ ।।

अनिमित्तरुदितहसितोपविष्टगीतप्रधावितोत्क्रुष्टैः।
7अन्यैश्च विकारकृतैरुन्मादं सम्प्रयुञ्जीत ।। ८५ ।।

मरणं नाम8-व्याधिजमभिघातजञ्च । 9तत्र यदान्त्रयकृच्छूल- दोषवैषम्यगण्डपिटकज्वर10विषूचिकादिभिरुत्पद्यते तद्व्याधिप्रभवम् । अभिघातजन्तु शस्त्राहिदंशविषपानश्वापदगजतुरगरथ11पशुयानपात- विनाशप्रभवम् । 12एतेष्विदानीमभिनयविशेषान्वक्ष्यामः- तत्र व्याधिजं विष13ण्णगात्राव्यायताङ्गविचेष्टितनिमीलितनयनहिक्काश्वासोपेतानवेक्षि- तपरिजनाव्यक्ताक्षरकथनादिभिरनुभावैरभिनयेत्। 14अत्र श्लोको भवति-

Abh

इष्टजनवियोगादुत्तमस्यापि विप्रलम्भे भवत्युन्मादः पुरूरवस इव । विधवनाशात्त्वनुत्तमस्य । भवनशोके व्यभिचारी । अत एवानुभावाः प्रकृत्यौचित्येन विभजनीयाः। चित्तं विकरोतीति चित्तविकार इति टीकाकाराः। भट्टतोतस्तु- ‘चित्तस्य यो विकारो विकीर्णता एकत्राविश्रमणमनिश्चये सति तत उन्मादो भवति’ इति। तथाहि-पुरूरवसो झटिति प्रियामपश्यतस्तन्निमित्तं च किञ्चिदप्यलभमानस्योन्मादः। एतदेव हि प्रतिजागरितं कविकुलचक्रवर्तिना (कालिदासेन) ‘तिष्ठेत् कोपवशात्’ (विक्रमोर्वशीये) इत्यादिना । अनिमित्तता प्रसिद्धनिमित्ताभावात् । व्याधावन्त- र्भूतोऽप्युन्मादो विप्रलम्भादौ प्रयोगसौन्दर्यविचित्रचेष्टाभिः करोतीति पृथगुपात्तः। एवमपस्मारे वाच्यम्। स हि बीभत्सभयानकादेर्वैचित्र्यावहः।

Notes

(मू)

व्याधीनामेकभावो हि मरणाभिनयः स्मृतः।
विषण्णगात्रैर्निश्चेष्टैरिन्द्रियैश्च विवर्जितः ।। ८६ ।।

अभिघातजे तु नानाप्रकारा1 अभिनयविशेषाः 2शस्त्रक्षता- हिदृष्टविषपीतगजादिपतितश्वापदहताः । यथा तत्र शस्त्रक्षते3 तावत्सहसा भूमिपतन4वेपनस्फुरणादिभिरभिनयः प्रयोक्तव्यः। 5अहिदष्टे विषपीते वा नानाविषवेगाः। यथा–कार्श्यवेपथुविदाह6हिक्काफेनस्कन्ध- भङ्गजडतामरणानीत्यष्टौ विषवेगाः। 7अत्र श्लोकौ भवतः-

कार्श्य तु प्रथमे वेगे द्वितीय वेपथुर्भवेत्8 ।
दाहं तृतीये हिक्कां च चतुर्थे सम्प्रयोजयेत् ।। ८७ ।।

फेनञ्च पञ्चमे कुर्यात्षष्ठे स्कन्धस्य भञ्जनम्9 ।
जडतां सप्तमे कुर्यादष्टमे मरणं भवेत्10 ।। ८८ ।।

11अत्रार्या भवति-

श्वापदगजतुरगरथोद्भवं तु पशुयानपतनजं वाऽपि ।
12शस्त्रक्षतवत्कुर्यादनवेक्षित13गात्रसञ्चारम् ।। ८९ ।।

इत्येवं14 मरणं ज्ञेयं नानावस्थान्तरात्मकम् ।
प्रयोक्तव्यं बुधैः सम्यग्यथा भावाङ्गचेष्टितैः15 ।। ९० ।।

त्रासो नाम-विद्युदुल्काशनिपातनि16र्घाताम्बुधरमहासत्त्वपशुरवादि- भिर्विभावैरुत्पद्यते । तमभिनयेत्संक्षिप्ताङ्गोत्कम्पनवेपथुस्तम्भ17रोमाञ्च- गद्गदप्रलापादिभिरनुभावैः।

Abh

व्याधीनामेकभाव इति । एकत्वेन तुल्यत्वेन भवनमित्यनेन सर्वेभ्यो मरणं भवदेकरूपत्वेनैवाभिनीयते इत्युक्तं भवति । यदि वा व्याधीनां यदेकत्वेन निष्प्रतिद्वन्द्वित्वेन भावनमनेन व्याधिना न मे निवर्तितव्यमित्येवंरूपं चित्तं तदेव मरणमभिनीयमानमुच्यते। स एव हि प्राणानां त्यागः। तेन म्रियमाणावस्यैव चित्तवृत्तिरूपेह विवक्षिता। न तु मृतावस्था । तत्रानुभावादेरभावात् । विषण्णानि च तानि अत एव निश्चेष्टानि गात्राणि तैः। इन्द्रियैर्वर्जितोऽभिनय इति सर्वेन्द्रियसम्मोहमाह। ‘विषपीते’ विषं पीतम् अनेनेति समासः। जातिकालसुखादिभ्य इति निष्ठा तस्य परनिपातः।

Notes

(मू)

1अत्र श्लोको भवति -

महाभैरवनादाद्यैस्त्रासः समुपजायते ।
2स्रस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् ।। ९१ ।।

वितर्को नाम-सन्देहविमर्श3विप्रतिपत्त्यादिभिर्विभावैरुत्पद्यते। तमभिनये4द्विविधाविचारित5प्रश्नसम्प्रधारणमन्त्रसंगूहनादिभिरनुभावैः। 6अत्र श्लोको भवति -

विचारणादिसम्भूतः7 सन्देहातिशयात्मकः।
8वितर्कः सोऽभिनेयस्तु शिरोभ्रूक्षेपकम्पनैः ।। ९२ ।।

9एवमेते त्रयस्त्रिंशद्व्यभिचारिणो भावा देशकालावस्थानुरूप्ये- णात्मगतपरगतमध्यस्था उत्तममध्यमाधमैः स्त्रीपुंसैः स्वप्रयोगवशादुपपाद्या इति ।

Abh

भीरून् जनान् त्रासयतीति भैरवः । शेष इत्यण् । झटिति विधूननकारी चमत्कृतिस्वभावस्त्रासो भयात् पूर्वापरविचारपूर्वकादन्य एवेत्यक्षिनिमेषैरिति बहुवचनेन सूचयति ।

सन्देहः किञ्चिदित्युभयावलम्बी प्रत्ययः संशयरूपः। विमर्शो विशेषप्रतीत्याकाङ्- क्षात्मिका इच्छा बाधकप्रमाणेन पक्षान्तराभावप्रतीतिमात्रं विप्रत्ययः। विप्रतिपत्तिर्वो। एभ्योऽनन्तरं भवितव्यताप्रत्ययस्वभाव एकतरपक्षशैथिल्यदायी पक्षान्तरं तुल्य- कक्ष्यभावाच्च्यावयन् उन्मग्नतामन्यस्य दर्शयंस्तर्कः। स च संशयात् पृथगेव संशयेन तत्त्वबुभुत्सादिरूपस्य विमर्शादेः स्वीकारेऽपि कविशिक्षार्थ भङ्क्त्वा निरूपणम् । अन्ये तु धर्मिणि सन्देहो धर्मे तु विमर्शो भ्रान्तिज्ञानं विप्रत्यय इत्याहुः। विहृतेति धिया कार्यकलापानां पुनः पुनस्त्यागप्राप्ती विवक्षिते । मन्त्रसङ्गूहनग्रहणेनास्यावहित्थेन। तुल्यस्थायिकतामाह। विचारणापौर्वापर्यादि परामर्शः। आदिग्रहणेन बाधकप्रमाणादि ततो ह्येकपक्षस्य शैथिल्यं जायत इति विचारणादिपूर्वक इत्युक्तम् । नयस्य षाड्गुण्यप्रयोगस्यात्मा, यतः अन्यपक्षबलवत्वगतात् सम्भावनाप्रत्ययादेव हि सर्वो नीतिप्रयोगः। तथा च -दैवमचिन्त्यं पुरुषकारस्तु चिन्त्य इति वदन् चाणक्या- चार्यस्तर्कपूर्वकमेव समस्तं व्यवहारमाह। उक्तं च भट्टतोतेन- सम्भावनाप्रमाणो हि तीक्ष्णप्रज्ञोऽपि यद् वदेत् । मा गा व्याप्तं नभोऽम्भोदैरम्बुभारानतैरिति ।

Notes

(मू)

त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः1।
सात्त्विकांस्तु पुनर्भावान्प्र2वक्ष्याम्यनुपूर्वशः ।। ९३ ।।

अत्राह-किमन्ये भावाः 3सत्त्वेन विनाऽभिनीयन्ते यस्मादुच्यन्ते एते सात्त्विका इति ।

अत्रोच्यते -

इह हि सत्त्वं नाम मनःप्रभवम् । तच्च समाहितमनस्त्वा- 4दुच्यते । मनसः समाधौ सत्त्वनिष्पत्तिर्भवति5 । तस्य च योऽसौ 6स्व- भावो रोमाञ्चाश्रुवैवर्ण्यादिलक्षणो यथाभावोपगतः स न शक्योऽन्यमनसा कर्तुमिति । लोकस्वभावानुकरणत्वाच्च7 नाट्यस्य सत्त्वमीप्सितम् । 8को दृष्टान्तः-इह हि 9नाट्यधर्मिप्रवृत्ताः सुखदुःखकृता भावास्तथा सत्त्वविशुद्धाः कार्याः यथा सरूपा भवन्ति। तत्र दुःखं नाम 10रोदनात्मकं तत्कथमदुःखितेन सुखं च प्रहर्षात्मकमसुखितेन11 वाभिनेयम् । एतदेवास्य सत्त्वं यत् दुःखितेन सुखितेन वाऽश्रुरोमाञ्चौ दर्शयितव्यौ इति कृत्वा (सत्त्वमीप्सितमिति)सात्त्विका भावा इत्यभिव्याख्याताः12। त इमे13 -

Abh

एतदुपसंहरति-‘त्रयस्त्रिंशदमी भावा’ इति । अन्येषां त्वत्रैवान्तर्भावः। तद्यथा-दम्भस्यावहित्थे । उद्वेगस्य निर्वेदे । क्षुत्तृष्णादेर्ग्लानै । एवमन्यदप्यूह्यम् ।

अपरे तु मन्यन्ते कः खलु चित्तवृत्तीर्गमयितुं समर्थः। गणने वा तार्किकतर्किता- त्मगुणनवकेन वा साङ्ख्यसङ्ख्यातबुद्धिधर्माष्टकविपर्ययादिप्रत्ययचतुष्टयेन वा शाक्यशिक्षितचित्तचैत्तद्वयभेदेन वा सर्वसङ्ग्रहे किमियता ? अथ कविनटशिक्षार्थमेतावतो निरूपणमपरे तर्हि वक्तव्या एव । उक्ता एव वा सामान्याभि- नये मुनिना पुरुषप्रमदागतभावचेष्टालङ्कारनिरूपणेन । इहापि विभावानुभावगणनायां सूचिताः। तथा हि- ग्लानौ क्षुत्तृष्णयोरभिधानं विभावत्वेन केवलमतिप्रसिद्धत्वात्। कविनटोपयोगिलक्षणमेषां नातीवोपयुज्यत इति न लक्षिताः ।

अन्ये त्वाहुः । इयतामेव प्रयोगे सौन्दर्य भवति । तथा ह्येतावत्स्वेव सहचारिष्ववस्थाविशेषेषु प्रयोगे प्रदर्शितेषु स्थायी चर्वणयोग्यो भवति । एके तु मन्यन्ते -एते तावद्विज्ञेया एतज्ज्ञानदिशा त्वन्येषां लक्षणमूह्यमिति ।

Notes

(मू)

स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका 1मताः ।। ९४ ।।

2अत्रार्याः। तत्र-

क्रोधभयहर्षलज्जादुःखश्रमरोगतापघातेभ्यः।
3व्यायामक्लमधर्मैः स्वेदः सम्पीडनाच्चैव ।। ९५ ।।

हर्षभयशोक4विस्मयविषादरोषादिसम्भवः5 स्तम्भः।
शीतभयहर्षरोषस्पर्शजरारोगजः6 कम्पः ।। ९६ ।।

आनन्दामर्षाम्यां धूमाञ्जनजृम्भणा7 द्भयाच्छोकात् ।
अनिमेषप्रेक्षणतः शीतद्रोगाद्भवेदश्रु8 ।। ९७ ।।

शीतक्रोधभयश्रमरोगक्लमतापजं च वैवर्ण्यम्9 ।
स्पर्शभयशीतहर्षात्10 क्रोधाद्रोगाच्च रोमाञ्चः ।। ९८ ।।

स्वरभेदो भयहर्षक्रोधजरारौक्ष्यरोग11मदजनितः।
श्रममूर्छामदनिद्राभिघात12मोहादिभिः प्रलयः ।। ९९ ।।

एवमेते बुधैर्ज्ञेया भावा ह्यष्टौ तु सात्त्विकाः।
कर्म चैषां प्रवक्ष्यामि रसभावानुभावकम्13 ।। १०० ।।

14निःसंज्ञो निष्प्रकम्पश्च स्थितः शून्यजडाकृतिः15।
16स्कन्नगात्रतया चैव स्तम्भं त्वभिनयेद्बुधः ।। १०१ ।।

व्यजनग्रहणाच्चापि स्वेदापनयनेन च ।
17स्वेदस्याभिनयो योज्यस्तथा वाताभिलाषतः ।। १०२ ।।

मुहुः कण्टकितत्वेन तथोल्लुकसनेन च ।
18पुलकेन च रोमाञ्चं गात्रस्पर्शेन दर्शयेत् ।। १०३ ।।

Notes

(मू)

स्वरभेदोऽभिनेतव्यो1 भिन्नगद्गदनिस्वनैः।
वेपनात्फुरणात्कम्पाद्वेपथुं सम्प्रदर्शयेत् ।। १०४ ।।

मुखवर्णपरावृत्त्या नाडीपीडनयोगतः।
वैवर्ण्यमभिनेतव्यं प्रयत्नात्तद्धि दुष्कर2म् ।। १०५ ।।

3बाष्पाम्बुप्लुतनेत्रत्वान्नेत्रसम्मार्जनेन च ।
4मुहुरश्रुकणापातैरास्रं त्वभिनयेद्बुधः ।। १०६ ।।

5निश्चेष्टो निष्प्रकम्पत्वादव्यक्तश्वसितादपि ।
6महीनिपातनाच्चापि प्रलयाभिनयो भवेत् ।। १०७ ।।

एकोनपञ्चाशदिमे7 यथाव- 8द्भावास्त्र्यवस्था गदिता मयेह ।
9भूयश्च ये यत्र रसे नियोज्या- स्तान् श्रोतुमर्हन्ति च विप्रमुख्याः ।। १०८ ।।

(10अत्र श्लोकाः-

शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा ।
विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा ।।

रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि ।
स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा ।।

विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः।
मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते ।।

क्रोधामर्षौ च हासश्च शोकोऽपस्मार एव च ।
दैन्यं च मरणं चैव रतिरुत्साहसंयुता ।।

Notes

(मू)

त्रासवैवर्ण्यरुदितैः स्वरभेदः शमोऽपि च ।
जडता च तथा षट्च चत्वारिंशत्प्रकीर्तिताः।।)

1आलस्यौग्र्यजुगुप्साख्यैरेवं भावैस्तु वर्जिताः।
2उद्भावयन्ति शृङ्गारं सर्वे भावाः स्वसंज्ञया ।। १०९ ।।

(3यथाऽवसरमेते हि स्थायिसञ्चारिसत्त्वजाः।
उद्दीपयन्ति शृङ्गारं रसमासाद्य संज्ञितम् ।।)

ग्लानिः शङ्का ह्यसूया च श्रमश्चपलता तथा ।
सुप्तं निद्रावहित्थं च हास्ये भावाः प्रकीर्तिताः ।। ११० ।।

निर्वेदश्चैव चिन्ता स दैन्यं ग्लान्यास्रमेव च ।
जडता मरणं चैव व्याधिश्च करुणे स्मृताः4 ।। १११ ।।

गर्वोऽसूया 5मदोत्साहावावेगोऽमर्ष एव च ।
क्रोधश्चपलतौग्र्यं च विज्ञेया रौद्रसम्भवाः ।। ११२ ।।

असम्मोहस्तथोत्साह आवेगो हर्ष एव च ।
6मतिश्चैव तथोग्रत्वममर्षो मद एव च7 ।। ११३ ।।

रोमाञ्चः 8स्वरभेदश्च क्रोधोऽसूया धृतिस्तथा ।
गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति हि ।। ११४ ।।

स्वेदश्च वेपथुश्चैव9 रोमाञ्चो गद्गदस्तथा ।।
10त्रासश्च मरणञ्चैव वैवर्ण्यं च भयानके ।। ११५ ।।

Notes

(मू)

अपस्मारस्तथोन्मादो विषादो मद एव च ।
1मृत्युर्व्याधिर्भयं चैव भावा बीभत्स2संश्रयाः ।। ११६ ।।

स्तम्भः स्वेदश्च मोहश्च रोमाञ्चो विस्मयस्तथा ।
आवेगो जडता हर्षो मूर्च्छा चैवाद्भुताश्रयाः3 ।। ११७ ।।

4ये त्वेते सात्त्विका भावा नानाभिनय5सश्रिताः।
6रसेष्वेतेषु सर्वे ते ज्ञेया नाट्यप्रयोक्तृभिः ।। ११८ ।।

न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगतः7।
भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च8 ।। ११९ ।।

(9बहूनां समवेतानां रूपं यस्य भवेद्बहु ।
स मन्तव्यो रसः स्थायी शेषाः संचारिणो मताः।।

10दीपयन्तः प्रवर्तन्ते ये पुनः स्थायिनं11 रसम् ।
ते 12तु संचारिणो ज्ञेयास्ते हि स्थायित्वमागताः।।

13विभावानुभावयुतो ह्यङ्गवस्तुसमाश्रयः।
संचारिभिस्तु संयुक्तः स्थाय्येव तु रसो भवेत् ।।

स्थायी सत्त्वातिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः।
सञ्चार्याकारमात्रेण स्थायी यस्मादवस्थितः।।

ये त्वेते14 सात्त्विका भावा नानाभिनययोजिताः।
रसेष्वेतेषु सर्वेषु ते ज्ञेया नाट्यकोविदैः।।

न ह्येकरसजं काव्यं नैकभावैकवृत्तिकम् ।
विमर्दे रागमायाति प्रयुक्तं हि प्रयत्नतः।।

Notes

(मू)

भावा वाऽपि रसा वाऽपि प्रवृत्तिर्वृत्तिरेव वा ।
बीभत्साद्भुतशान्तानां त्रैविध्यं नात्र कथ्यते ।।

षण्णां रसानां त्रैविध्यं नानाभावरसान्वितम् ।
सत्त्वप्रयोजितो ह्यर्थः प्रयोगोऽत्र विराजते ।।

विदित्वा हि विराजन्ते लोके चित्रं हि दुर्लभम् ।)
1नानाभावार्थसंपन्नाः स्थायिसत्त्वाभिचारिणः2।
पुष्पावकीर्णाः कर्तव्याः काव्येषु हि रसा बुधैः3 ।। १२० ।।

4एवं रसाश्च भावाश्च त्र्यवस्था नाटके स्मृताः।
य एवमेताञ्जानाति स गच्छेत्सिद्धिमुत्तमाम् ।। १२१ ।।

इति श्रीभारतीये नाट्यशास्त्रे भाव5व्यञ्जको नाम सप्तमोऽध्यायः।।

(मू)