०६ रसाध्यायः

श्रीः

अथ षष्ठोऽध्यायः।

विश्वास-प्रस्तुतिः

पूर्वरङ्गविधिं श्रुत्वा
पुनराहुर् महत्तमाः ।
भरतं मुनयः सर्वे
प्रश्नान् पञ्चाभिधत्स्व नः ॥ १ ॥

English

After hearing about the rules regarding the Preliminaries, the great sages continued their inquiries and said to Bharata, “Answer five of our questions."

मूलम्

1पूर्वरङ्गविधिं श्रुत्वा पुनराहुर्महत्तमाः ।
2भरतं मुनयः सर्वे 3प्रश्नान्पञ्चाभिधत्स्व नः ॥ १ ॥

Abh
....	....	....	....	....

(पूर्वरङ्गविधिं श्रुत्वेति। पञ्च प्रश्नानिति । रसानां केन रसत्वमित्येकः प्रश्नः।)

....	....	....	....	....

तथापि नाट्यतत्त्वे सम्यङ्निर्ज्ञाते निर्णीतं1 भवति । न वचनमात्रात् । अनेनैवाभिप्रायेण दशरूपकनिरूपणे प्रथमप्रश्नार्थो निगमयिष्यते–

“भविष्यति युगे प्रायो भविष्यन्त्यबुधा नराः।” (ना.शा. १९-१५०) इत्यादि ।

तथा–

“बुद्धयः कर्मशिल्पानि वैचक्षण्यं कलासु च ॥” (ना.शा. १९-१५१) इत्यादि ।

सिद्ध्यध्याये च द्वितीयप्रश्नार्थविषयो निर्णेष्यते । “तुष्यन्ति तरुणाः कामे” (ना.शा. २७-५८) इत्यादिना । एवमन्यत्रापि तत्र तत्रेति । एतच्च तद्व्याख्यानप्रसङ्ग एव दर्शयिष्यामः। तेन पूर्वप्रश्नितवस्तुतत्त्वनिर्णय एव क्रियतामिति तात्पर्यम् । प्रश्नान् पञ्चेतिये रसा इत्यादि तु यत्प्रश्नत्रयं तत्रायं भावः– इहाङ्गणनायां " जग्राह पाठ्यम् " (ना.शा. १-१७) इत्यादौ पाठ्यगीतयोस्तावत्सुप्रसिद्धं रूपम् । अभिनयानामपि " महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि " इति (ना.शा. ४-१५)

Notes

(मू)

(व्या)

विश्वास-प्रस्तुतिः

ये रसा इति पठ्यन्ते
नाट्ये नाट्य-विचक्षणैः।
रसत्वं केन वै तेषाम्
एतद् आख्यातुम् अर्हसि ॥ २ ॥

English

Explain how the Sentiments enumerated by experts in dramatic art attain their [special] qualities.

विश्वास-प्रस्तुतिः

भावाश् चैव कथं प्रोक्ताः
किं वा ते भावयन्त्य् अपि ।
संग्रहं कारिकां चैव
निरुक्तं चैव तत्त्वतः ॥ ३ ॥

English

And why are the bhāvas (Psychological States, lit. feelings) so called, and what do they bhāvayanti (make us feel)?. Besides these, what are the real meanings of terms, such as, Digest (saṃgraha)4, Memorial Verse (kārikā) and Etymology (nirukta)”?

विश्वास-प्रस्तुतिः

तेषां तु वचनं श्रुत्वा
मुनीनां भरतो मुनिः।
प्रत्युवाच पुनर् वाक्यं
रस-भाव-विकल्पनम् ॥ ४ ॥

English

4. At these words of the sages, Bharata continued speaking, and mentioned in reply to their question the distinction between the Sentiments and the Psychological States.

मूलम्

ये रसा इति पठ्यन्ते नाट्ये 1नाट्यविचक्षणैः।
रसत्वं 2केन वै तेषामेतदाख्यातुमर्हसि ॥ २ ॥

3भावाश्चैव 4कथं प्रोक्ताः किं वा ते भावयन्त्यपि5 ।
संग्रहं कारिकां6 चैव निरुक्तं 7चैव तत्त्वतः ॥ ३ ॥

तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः।
प्रत्युवाच पुनर्वाक्यं रसभावविकल्पनम् ॥ ४ ॥

Abh

“यदा प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः कृतः “(ना.शा. ४-२६१) इत्यादिवचनबलाच्च स्वरूपं1 तावन्नातीव हृदयङ्गमम् ।

ये तु “रसानाथर्वणात् " (ना.शा. १-१७) इति रसा उक्तास्ते तावत्प्रसिद्धाः षाडवादयः। न प्रकृतौ न विकृतौ युक्ताः । ये त्वन्ये शृङ्गारादयः केचन रसशब्देन सह प्रयुक्ताः “शृङ्गाररसम्भवः” (ना.शा. ४-२६९) इति " ततो रौद्ररसं श्लोकम्” (ना.शा. ५-१३२) इति तत्रापि शृङ्गारादिषु कथं रसशब्दावाच्यत्वम् । वैशब्दो2ऽक्षर- (क्षमायाम् )। रसनेन्द्रियग्राह्ये हि रसशब्दः प्रसिद्धः। न चायमनादरस्थानभूतोऽर्थो येनाविचारित एवोपेक्ष्यते " खिन्नानां रसभावेषु " (ना.शा. ५-१५९) इत्यादावादरातिशयप्रतीतेः। अत एव शब्दप्रादुर्भाव इति शब्दो रसा इति पठ्यन्त इति । तेन प्राधान्यादङ्गाभिनयप्रश्नान्तर्भूतमप्येतत्पुनः प्रश्नितमित्यर्थः। पुनः प्रश्नाभिप्रायेणैवाख्यातुमर्हसीत्युपपन्नम् । पूर्वाख्यानेषु तु पुनरुक्तमभिधत्स्वेत्युक्तत्वात् ।

भावाश्चेति चशब्दस्तुशब्दार्थे । भावास्त्वपठिता अपि कथं प्रोक्ताः। अथ पाठ्यादय एव भावाः। तत्किमेषां रूपम् । तेनादरविषयत्वाद्रसे प्रश्नान्तरम्। (अ ?)3 भूतावृत्त्या विस्मयस्थानत्वाद्भावेषु प्रश्नचतुष्कम् । तथा हि –रससहभावेन भावाः केचन प्रोक्ताः " खिन्नानाम् " इत्यत्र । ते च केन प्रकारेणोक्ताः। “जग्राह” इत्यादौ हि तेषां नामापि न श्रुतम् । अथैतेष्वेव भावशब्दः प्रवर्तितः।तत्रापि भवन्तीति

Notes

(मू)

(व्या)

विश्वास-प्रस्तुतिः

अहं वः कथयिष्यामि
निखिलेन तपोधनाः ।
संग्रहं कारिकां चैव
निरुक्तं च यथाक्रमम् ॥ ५ ॥

English

And then he said, “O sages, I shall tell you in detail and in due order about the Digest, the Memorial Verse and the Etymology.

विश्वास-प्रस्तुतिः

न शक्यम् अस्य नाट्यस्य
गन्तुमन्तं कथञ्चन ।
कस्माद् बहुत्वाज् ज्ञानानां
शिल्पानां वाप्यनन्ततः ॥ ६ ॥

English

I am not able by any means to exhaust all the topics about drama; for knowledge,5 and arts and crafts6 connected with it are respectively manifold and endless in number.

मूलम्

अहं वः कथयिष्यामि निखिलेन तपोधनाः ।
संग्रहं कारिकां1 चैव निरुक्तं च यथाक्रमम्2 ॥ ५ ॥

न 3शक्यमस्य नाट्यस्य गन्तुमन्तं कथञ्चन ।
4कस्माद्बहुत्वाज्ज्ञानानां शिल्पानां 5वाप्यनन्ततः ॥ ६ ॥

Abh

व्युत्पत्तिः । भावयन्तीति किमेतत् । किमुत्पादयन्ति । अथ व्याप्नुवन्ति । द्वयोः कर्म किं स्यादिति वाशब्देन चशब्देनापिशब्देन च चत्वारो भावेषु प्रश्नाः । एवं प्राधान्यात्प्रश्नपञ्चकान्तरम् । वस्तुतः पुनः पञ्चप्रश्नी पूर्वोक्तैवेयं विष्फार्यते । सङ्ग्रहादिति चा(दि चा)भिधत्स्व । ननु तैरिह किं प्रयोजनम् । आह–तत्त्वत इति । (१-३)

तुशब्दो हेतौ । तदित्याख्यानं परामृष्टम् । यतस्तदाख्यानमत एवा(वै)भ्यः सङ्ग्रहादिभ्य उद्देशलक्षणपरीक्षादिषु प्राधान्यात्तदुपक्रममेव सर्वमभिधेयम् । तदाह । निखिलेन सङ्ग्राह्यलक्षणीयनिर्वचनीयात्मनोपलक्षितं सङ्ग्रहादित्रयमेव वक्ष्यामीति त्रय (त्रि)प्रकाररूपेभ्यः सदुपायेभ्यः । तस्मान्नोऽभिधत्स्वेति । पुनश्शब्दो भिन्नक्रमः । भरतमुनिः पुनः रसभावा विकल्प्यन्ते निश्चिचीयन्तेऽनेन (येन वचनेन) तादृग्वाक्यमुवाच न तु तदीयं वचनमुक्तमुत्तरदानेन समादृतमिति पुनश्शब्दार्थः । मुनेश्चायं भावो रसादिषु समुच्चयार्थश्चः । तदभिधानेऽन्यन्न किंचिदभिधेयमवशिष्यत इत्येवशब्दः । यथाक्रममिति । पूर्व (प्राप्त)सङ्ग्रहः । उद्देशप्रकारत्वादित्यादिक्रमेण स (स्व)बुद्धिविषयं बहुमानं गृहणताममीषामित्यभिप्रायेण भवद्भिर्युक्तमेतदुक्तम् ।

सङ्ग्रहमित्यादि । तान्निदर्शयन्मुनिराह–न शक्यमस्येति । शक्यमिति1 सामान्योपक्रमात् माध्यस्थ्यविवक्षा । गन्तुमिति प्राप्तुम् । अन्तो निश्चयः । कथञ्चनेति। अमुं सङ्ग्रहादिप्रकारं वर्जयित्वाऽन्येन प्रतिपदनिरूपणादिनेत्यर्थः । यत्किल प्रतिपदं निरूपयितुं न शक्यं तल्लक्षणद्वारेणोच्यते । लक्षणस्यैवाङ्गमुद्देशपरीक्षे । तस्य विषयप्रदर्शने परिशुद्धौ च तयोर्व्यापारात् । न चात्र प्रतिपदं निरूपणं युक्तमिति ।

अत्र हेतुमाह–बहुत्वादिति । ज्ञानाख्यानि व्याकरणादीनि शास्त्राणि । शिल्पानि चित्रपुस्तादिकर्माणि । तेषामनन्ता(न्तत्वा)दन्ताभावात् ।(४-६)

Notes

(मू)

(व्या)

विश्वास-प्रस्तुतिः

एकस्यापि न वै शक्यस्
त्व् अन्तो ज्ञानार्णवस्य हि ।
गन्तुं किं पुनर् अन्येषां
ज्ञानानाम् अर्थतत्त्वतः ॥ ७ ।।

English

I am not able by any means to exhaust all the topics about drama; for knowledge,5 and arts and crafts6 connected with it are respectively manifold and endless in number.

विश्वास-प्रस्तुतिः

किन्त्व् अल्पसूत्र-ग्रन्थार्थम्
अनुमान-प्रसाधकम् ।
नाट्यस्यास्य प्रवक्ष्यामि
रस-भावादि-सङ्ग्रहम् ।। ८ ।।

English

8. [Hence] I shall tell you about the Digest on Sentiments, Psychological States and such other matters, which has its concepts embodied in a small number of Sūtras but which promotes inference [in connection with the subject].

सङ्ग्रहः, कारिका, निरुक्तम्

विश्वास-प्रस्तुतिः

विस्तरेणोपदिष्टानाम्
अर्थानां सूत्र-भाष्ययोः ।
निबन्धो यः समासेन
सङ्ग्रहं तं विदुर् बुधाः ।। ९ ।।

English

9. When subjects taught in detail have been compressed and brought together in [a number of] Sūtras and their Bhāṣyas (commentary), these constitute according to the learned a Digest.

विश्वास-प्रस्तुतिः

रसा भावा ह्य् अभिनयाः
धर्मी वृत्ति-प्रवृत्तयः ।
सिद्धिः स्वरास् तथातोद्यं
गानं रङ्गश् च सङ्ग्रहः ।। १० ।।

English

10. The Digest [of the Nāṭyaveda treats] the Sentiments, the Psychological States, the Histrionic Representation, the Practices (dharmī), the Styles (vṛtti), Local Usages (pravṛtti), Success (siddhi), the notes (svara), the instrumental music (ātodya), songs and the stage.

मूलम्

एकस्यापि न वै 1शक्यस्त्वन्तो ज्ञानार्णवस्य हि2 ।
गन्तुं किं पुनरन्येषां ज्ञानानाम3र्थतत्त्वतः ।। ७ ।।

किन्त्वल्पसूत्र4ग्रन्थार्थमनुमानप्रसाधकम् ।
नाट्यस्यास्य प्रवक्ष्यामि रसभावादिसङ्ग्रहम् ।। ८ ।।

विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः ।
5निबन्धो यः समासेन सङ्ग्रहं तं विदुर्बुधाः ।। ९ ।।

6रसा भावा ह्यभिनयाः 7धर्मी वृत्तिप्रवृत्तयः ।
सिद्धिः स्वरास्तथातोद्यं गानं रङ्गश्च सङ्ग्रहः ।। १० ।।

Abh

एतदेवोद्बलयत्येकस्येति । नाट्याङ्गभूतस्य कस्यचिदिति शेषः । अर्थस्याभिधेयस्य तत्त्वतः। तननं विस्तारः। तेन । अन्येषामिति । अङ्गभूतस्यापि यान्यङ्गत्वेनायान्तीत्यर्थः।

सङ्ग्रहादयस्त्वत्र सदुपाया इति दर्शयति–किन्त्विति । नाट्यस्य नाट्यविषयस्यार्थस्य सङ्ग्रहं संक्षिप्य गृह्यतेऽनेनेति तमुद्देशं वक्ष्यामीति । कथं रसभावादि कृत्वा प्राधान्यात्तदुपक्रममित्यर्थः । किं तेनेत्याह । अनुमानप्रसाधकं लक्षणं तद्धि केवलव्यतिरेकिहेतुरूपम् । तस्य चोद्देशो धर्मिणः1 प्रकृष्टः साधकः आश्रयासिद्धश्च । शङ्काशमनेन पक्षधर्मत्वमूलाङ्गपोषकत्वात् । तस्य सङ्ग्रहस्य स्वरूपमाह–सूत्रग्रन्थयोर्लक्षणपरीक्षयोर्योऽर्थो लक्ष्यपरीक्षितस्य लक्षणस्तस्य संक्षेपः सोऽल्पः सङ्कुचितो नाममात्रेणोद्देश्यतया यत्र । अन्येऽप्येवमेव मन्यन्त इति दर्शयति– विस्तरेणेति । सूत्रं लक्षणम् । भाष्यं तद्व्यक्तीकरणरूपा परीक्षा । अल्पौ सूत्रग्रन्थौ यत्रार्थे सोऽर्थो यत्रेति तु व्याख्यानमनेन श्लोकेन न संवदते । (७-९)

सङ्ग्रहं दर्शयति–रसा भावा इत्यादिना । शब्द इतिशब्दार्थे । अभिनयत्रयं गीतातोद्ये चेति पञ्चाङ्गं नाट्यम् । नटस्य हि रसभावयोगे मरणादौ तत्त्वावेशो लयाभिभङ्गश्च स्यात् । दृष्टस्तु तत्प्रत्ययो नटे भ्रमः ।

अनेन तु श्लोकेन कोहलमतेनैकादशाङ्गत्वम् उच्यते । 1न तु भरते । तत्सङ्गृहीतस्यापि पुनरत्रोद्देशात् । निर्देशे चैतत्क्रमव्यत्यासनादित्यौद्भटाः । नैतदिति भट्टलोल्लटः। रसभावानामपि वा2सनावेशवशेन नटे सम्भवाद3नुसन्धिबलाच्च लयाद्यनुसरणादन्तर्भूतस्यापि प्रयोजनवशेन पुनरुद्देशदर्शनात् क्रमस्य चाविवक्षितत्वादिति । वयञ्चात्र तत्त्वमग्रे वितनिष्याम इत्यास्तां तावत् ।

Notes

(मू)

(व्या)

विश्वास-प्रस्तुतिः

अल्पाभिधानेनार्थो यः
समासेनोच्यते बुधैः ।
सूत्रतः साऽनुमन्तव्या (नु पठिता)
कारिकाऽर्थ-प्रदर्शिनी ।। ११ ।।

English

11. When a rule (lit. meaning) is explained (lit. uttered) briefly in a Sūtra with a minimum (lit. small) number of words, it is called the Memorial Verse which shows the meaning [of the rule clearly].7

मूलम्

अल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः ।
सूत्रतः 1साऽनुमन्तव्या (नु पठिता) कारिकार्थप्रदर्शिनी2 ।। ११ ।।

Abh

अथ कारिकां लक्षयति–अल्पाभिधानेनेति । अनेनार्थस्य कारिकात्वं लक्षणरूपस्य दर्शयति । तद्वाचकस्य सूत्रस्य तत्संक्षिप्तार्थविवरणात्मकस्य च श्लोकस्य । अनेन लक्षणवाक्यं द्विधेति तात्पर्यम् । योऽर्थोऽल्पैः शब्दैः समासेन बहुतरलक्ष्य- सङ्ग्रहेण सूत्रं वाचकमाश्रित्योच्यचे सोऽर्थः 4कारिका । ज्ञप्तिसाधकत्वात्तदर्थिनी 4कारिका । सूत्रतः सूत्रेण । तेन सूत्रमपि कारिका । तत्सूत्रमपेक्ष्य या अनु पश्चात्पठिता श्लोकरूपा सापि कारिका । तथा हि–सूचनात्मकत्वात्सूत्राल्लब्धो योऽर्थो लक्षणात्मकः स/?/ एव सम्यगिति श्रय्य(सम्यगतिश्रव्य)तया वर्णान्यनेनेति (वर्णनात्मनेति) वृत्तबन्धेनोच्यमानोऽल्पैश्च शब्दैनिरूप्यमाणोऽर्थस्य लक्षणीयस्य प्रकर्ष धर्म्यन्तराद्व्यवच्छेदं दर्शयन् धर्मं कारिका । क्रियतेऽनेन ज्ञप्तिरिति कारिका । लक्षणमिति यावत् । तदर्थप्रकाशकत्वात् श्लोकोऽप्युपचारात्कारिका ।

एतदुक्तं भवति–उद्दिष्टस्य धर्म्यन्तरव्यवच्छेदकं लक्षणं वक्तव्यम् । तच्च 5पूर्व- सूत्रेण । ततोऽप्यकृताक्षेपोत्तरप्रपञ्चेन तद्विवरणमात्ररूपेण सुखग्राह्येण श्लोकेन । उभयोरपि हि लक्षणमेव प्रतिपाद्यम् । तदेव कारिकोच्यते । सूत्रश्लोकावुपचारादिति । (१०-११)

अथ परीक्षात्मकं निरुक्तं लक्षयति श्लोकद्वयेन–नानानामेत्यादिना । समासेन संक्षेपेणानेकव्यक्तिभेदभिन्नस्यार्थस्य लक्षणीयस्य यः सूचकोऽर्थो लक्षणात्मकः स

Notes

(मू)

(व्या)

विश्वास-प्रस्तुतिः

नानानाम् आश्रयोत्पन्नं
निघण्टु-निगमान्वितम् ।
धात्व्-अर्थ-हेतु-संयुक्तं
नाना-सिद्धान्त-साधितम् ।। १२ ।।

स्थापितोऽर्थो भवेद् यत्र
समासेनार्थ-सूचकः ।
धात्व्-अर्थ-वचनेनेह
निरुक्तं तत् प्रचक्षते ।। १३ ।।

English

12-13. Etymology is the definitive meaning which arises in connexion with various nouns, is helped by dictionaries (lit. vocabularies), and the rules of grammatical interpretation, includes the significance of the root involved as well as the reasons modifying it, and is helped by various findings [of Śāstras], and this meaning [of a noun] is established [mainly] from a consideration of its root [and pratyaya or affix].

मूलम्

नानानामाश्रयोत्पन्नं निघण्टु1निगमान्वितम् ।
धात्वर्थहेतुसंयुक्तं नानासिद्धान्तसाधितम् ।। १२ ।।

1स्थापितोऽर्थो भवेद्यत्र समासेनार्थसूचकः2 ।
धात्वर्थवचनेनेह निरुक्तं 3तत्प्रचक्षते ।। १३ ।।

Abh

यत्राक्षेपप्रतिसमाधानलक्षणे वस्तुनि सति स्थापितो भवतीति तत्परीक्षारूपनिरुक्तम् । नचैवं परिभाषा । किन्त्वर्थमेतं निर्भज्याक्षेपप्रतिसमाधानाभ्यां लक्षणस्य वचनमिति । एतदाह–धात्वर्थवचनेनेति

कथं तल्लक्षणं स्थाप्यत इत्याशङ्क्य क्रियाविशेषणाभिधानद्वारेणाक्षेपप्रतिसमाधान- प्रकारं दर्शयति–नानानामेत्यादिना । नानाप्रकाराणि यानि नामानि लक्षणवाक्येऽर्थ- प्रतिपादकाः सुबन्ताः शब्दास्तानाश्रित्योत्पन्नः उत्पाद आक्षेपप्रतिसमाधानयोर्यत्र । ननु नामपदेषु कथमाक्षेपप्रतिसमाधाने । आह–निघण्टुनाऽभिधानकोशेन रूढिषु । अन्येषु प्रकृतिप्रत्ययविभागनिगमनया । अन्वितमन्वयो यत्रेति । एतत्पदद्वयं क्रियाविशेषणम् । यानि त्त लक्षणवाक्ये तिडन्तानि पदानि तेषु प्रकारमाह–धात्वर्थस्य क्रियाया हेतूनां च क्रियानिमित्तानां कारकाणां संयोजनं विचारो यत्र स्थापने । एतदपि क्रियाविशेषणम् । इयता लक्षणवाक्ये1 पूर्वं शब्दपरीक्षा दर्शिता । अयं शब्दः कथमत्रार्थे वर्तत इत्याक्षेपः । इत्थमिति च प्रतिसमाधानम् । एतत् प्रदर्शितवस्तुप्रणीतमेव ।

अर्थपरीक्षामपि दर्शयति–नानाप्रकारैः सर्वतन्त्रप्रतितन्त्रादिभिः सिद्धान्तैः। प्रमाणमूलैरर्थैः साधितमाक्षेपोत्तरयोः साधनं यत्र स्थापने । एवं परीक्षाऽनेन दर्शिता । तन्त्रादिन्यायास्तु तदङ्गम् । निरुक्तमपि । तच्चतुर्धा–नाम्ना, धातुना, नामधातुभ्यां समयेन चेति । तत्र नाम्ना यथा–ऊर्ध्वे खमस्योलूखलः । धातुना यथा–रस्यत इति रसः । द्वाभ्यां–पिशितमश्नातीति पिशाचः । समयः-सोऽपि त्रिधा–लौकिकः, वैदिकः प्रतिशास्त्रपार्शदश्चेति । तत्र लौकिको यथा–भू सत्तायाम् । वैदिको यथा– दीधीङ् दीप्तिदेवनयोः, वेवीङ्वेतिना तुल्ये । प्रतिशास्त्रपार्षदो यथा–गान्धर्ववेदे गीतकविशेषे वैणकादिशब्दः । तदेतदुक्तं नानानामेत्यादिना । निरुक्तस्य तु प्रयोजनं संक्षेपेणार्थावधारणम् । तदुक्तं स्थापित इति । (१२-१३)

Notes

(मू)

(व्या)

विश्वास-प्रस्तुतिः

सङ्ग्रहो यो मया प्रोक्तः
समासेन द्विजोत्तमाः ।
विस्तरं तस्य वक्ष्यामि
सनिरुक्तं सकारिकम् ।। १४ ।।

English

14. O the best of Brahmins, [the subjects included into] the Digest which I mentioned earlier, will now be discussed in detail with the necessary Memorial Verses and Etymologies connected with them.

विश्वास-प्रस्तुतिः

शृङ्गार-हास्य-करुणा
रौद्र-वीर-भयानकाः ।
बीभत्साद्भुत-संज्ञो चेत्य्
अष्टौ नाट्ये रसाः स्मृताः ।। १५ ।।

English

15. The eight Sentiments8 recognized in drama are as follows: Erotic (śṛṅgāra), Comic (hāsya), Pathetic (karuṇa), Furious (raudra), Heroic (vīra), Terrible (bhayānaka), Odious (bībhatsa) and Marvellous (adbhuta)9.

मूलम्

सङ्ग्रहो यो मया प्रोक्तः समासेन द्विजोत्तमाः ।
विस्तरं तस्य वक्ष्यामि सनिरुक्तं सकारिकम् ।। १४ ।।

4शृङ्गारहास्यकरुणा 5रौद्रवीरभयानकाः ।
बीभत्साद्भुतसंज्ञो6 चेत्यष्टौ नाट्ये रसाः7 स्मृताः ।। १५ ।।

Abh

अथोद्दिष्टानां विभागं सूचयति–सङ्ग्रहो यो मयेति । तस्येति सङ्ग्रहस्य । सङ्ग्रह एव विस्तारितो विभाग इत्यर्थः । किं तदुक्तावेव सर्वं सम्पन्नम् । सनिरुक्तं परीक्षापर्यन्तमित्यर्थः । अन्तवचनेना(?)व्ययीभावः । न चालक्षितस्य परीक्षेत्याह– सकारिकं कारिकासम्पदोपेतम् । सम्पत्तौ समासः ।

तत्र विभागं तावदाह–शृङ्गारहास्येत्यादिना नाट्यसङ्ग्रह (६-३१) इत्यन्तेन। तत्र नाट्यं नाम नटगताभिनयप्रभावसाक्षात्कारायमाणैकघनमानसनिश्चलाध्यवसेयः समस्तनाटकाद्यन्यतमकाव्यविशेषावद्योतनीयोऽर्थः । स च यद्यप्यनन्तविभावाद्यात्मा तथापि सर्वेषां जडानां संविदि तस्याश्च भोक्तरि भोक्तृवर्गस्य च प्रधाने भोक्तरि पर्यवसानान्नायकाभिधानभोक्तृविशेषस्थायिचित्तवृत्तिस्वभावः ।

सा चैकचित्तवृत्तिः स्वपरकीयमिति (परमिति प्रतीय)मानानन्तचित्तवृत्त्यन्तरश1त- विशेषिता लौकिक2गीतगेयपदादिलास्याङ्गदशकोपजीवनस्वीकृतलक्षणगुणा अलङ्कार- गीतातोद्यादिसम्यक्सुन्दरीभूतकाव्यमहिमप्रयोगमालाऽभ्या3सविशेषाश्रयत्वात् प्रच्याविता अत एव साधारणीभूततया सामाजिका4नपि स्वात्मसद्भावेन समावेशयन्ती तादात्म्या- देव 5चानुमानागमयो गिप्रत्यक्षादिकरणकतटस्थप्रमातृप्रमेयपरकीयलौकिकचित्त-

Notes

(मू)

(व्या)

सङ्ग्रहः

रसाः

विश्वास-प्रस्तुतिः

एते ह्य् अष्टौ रसाः प्रोक्ता
द्रुहिणेन महात्मना ।
पुनश् च भावान् वक्ष्यामि
स्थायि-सञ्चारि-सत्त्वजान् ।। १६ ।।

English

16. These eight are the Sentiments named by Druhiṇa (Brahmā). I shall now speak of the Durable and the Complementary Psychological States and the Sāttvika ones10.

मूलम्

एते ह्यष्टौ रसाः1 प्रोक्ता2 द्रुहिणेन महात्मना ।
पुनश्च भावान्वक्ष्यामि स्थायिसञ्चारिसत्त्वजान्3 ।। १६ ।।

स्थायि-भावाः

विश्वास-प्रस्तुतिः

रतिर् हासश् च शोकश् च
क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश् चेति
स्थायि-भावाः प्रकीर्तिताः ।। १७ ।।

English

17. The Durable Psychological States (sthāyibhāva)11 are known to be the following: love, mirth, sorrow, anger, energy, terror, disgust and astonishment.

मूलम्

रति4र्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेति5 स्थायिभावाः प्रकीर्तिताः ।। १७ ।।

Abh

वृत्तिविलक्षणतया निर्भासमाना परिमितस्वत्मन्या1श्रयतानिर्भासनाविरहाच्च लौकिकप्रमा- दिजनितनिजरतिशोकादिवत् 2षड्ज(तज्ज)हानादिचित्तवृत्त्यन्तरजननाक्षमा तत एव निर्विघ्नस्वसंवेदनात्मक(हर्ष)विश्रान्तिलक्षणेन रसनापरपर्यायेण व्यापारेण गृह्यमाणत्वाद्रसशब्देनाभिधीयते ।

तेन रस एव नाट्यम् । यस्य व्युत्पत्तिः फलमित्युच्यते । तथा च रसादृत (ना.शा. ६-३१) इत्यत्रैकवचनोपपत्तिः। ततश्च3 मुख्यभूतात् महारसात् स्फोटदृशीवा- सत्यानि वा अन्विताभिधानदृशीवोभ4यात्मकानि सत्यानि वा अभिहितान्वयदृशीव तत्समुदायिरूपाणि वा रसान्तराणि भागा(वा)भिनिवेशदृशा5 निरूप्यन्ते । तद्वक्ष्यन्ते " काव्यार्थान् भावयन्ति " इति । (रसस्य प्राधान्यात् प्रथमनिर्देशः) तेन प्रथमं रसाः। ते च नव । शान्तापलापिनस्त्वष्टाविति तत्र पठन्ति ।

तत्र कामस्य सकलजातिसुलभतयाऽत्यन्तपरिचितत्वेन सर्वान्प्रतिहत्येति (हृद्यतेति) पूर्व शृङ्गारः। तदनुगामी च हास्यः। निरपेक्षभावत्वात् तद्विपरीतस्ततः करुणः। ततस्तन्निमित्तमर्थप्रधानो6 रौद्रः। स चामर्षप्रधानः। ततः कामार्थयोर्धर्ममूलत्वाद्वीरः। स हि धर्मप्रधानः । तस्य च भीताभयप्रदानसारत्वात् । तदनन्तरं भयानकः । तद्विभावसाधारण्यसंभावनात् ततो बीभत्सः । इति 7इयद्वीरेणाक्षिप्तम् । वीरस्य पर्यन्तेऽद्भुतः फलमित्यनन्तरं तदुपादानम । तथा च वक्ष्यते " पर्यन्ते कर्तव्यो नित्यं हि रसोऽद्भुतः।” (ना.शा. १८-४३) इति । ततस्त्रिवर्गात्मकप्रवृत्त(त्ति)- धर्मविपरीतनिवृत्त(त्ति)धर्मात्मको मोक्षफलः शान्तः । तत्र स्वात्मावेशेन रसचर्वणेत्युक्तम्।

स च विभावादिबलादिति भावा वक्तव्याः। तत्र नाज्ञातलौकिकरत्यादिचित्तवृत्तेः कवेर्नटस्य वा तद्विषयविशिष्टविभावाद्याहरणं शक्यमिति स्थायिन उद्दिष्टाः। तत्र शान्तस्य

Notes

(मू)

व्यभिचारि-भावाः

विश्वास-प्रस्तुतिः

निर्वेद-ग्लानि-शङ्काख्यास्
तथासूया मदः श्रमः।
आलस्यं चैव दैन्यं च
चिन्ता मोहः स्मृतिर् धृतिः ।। १८ ।।

English

discouragement, weakness, apprehension, envy, intoxication, weariness, indolence, depression, anxiety, distraction, recollection, contentment,

मूलम्

1निर्वेदग्लानिशङ्काख्यास्तथासूया मदः श्रमः।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः2 ।। १८ ।।

विश्वास-प्रस्तुतिः

व्रीडा चपलता हर्ष
आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं
निद्रापस्मार+++(=epilepsy)+++ एव च ।। १९ ।।

English

shame, inconstancy, joy, agitation, stupor, arrogance, despair, impatience, sleep, epilepsy,

मूलम्

व्रीडा चपलता 3हर्ष आवेगो जडता 4तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ।। १९ ।।

विश्वास-प्रस्तुतिः

सुप्तं+++(=स्वप्नः)+++ विबोधो ऽमर्षश्
चाप्य् अवहित्थम्+++(=निगूहनम्)+++ अथोग्रता ।
मतिर्+++(=स्पष्टता)+++ व्याधिस् तथोन्मादस्
तथा मरणमेव च ।। २० ।।

English

dreaming, awakening, indignation,
dissimulation, cruelty,
assurance, sickness, insanity,

मूलम्

सुप्तं 5विबोधोऽ6मर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथो7न्मादस्तथा मरणमेव च ।। २० ।।

विश्वास-प्रस्तुतिः

त्रासश् चैव वितर्कश् च
विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशद् अमी भावाः
समाख्यातास् तु नामतः ।। २१ ।।

English

fright and deliberation.
These are the thirty-three Complementary Psychological States (vyabhicāribhāva)12 that are defined by their names.

मूलम्

त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ।। २१ ।।

सात्त्विक-भावाः

विश्वास-प्रस्तुतिः

स्तम्भः स्वेदोऽथ रोमाञ्चः
स्वर-भङ्गोऽथ वेपथुः।
वैवर्ण्यम् अश्रु प्रलय इत्य्
अष्टौ सात्त्विकाः स्मृताः ।। २२ ।।

English

22. Paralysis, Perspiration, Horripilation, Change of Voice, Trembling, Change of Colour, Weeping and Fainting are the eight Sāttvika States.13

मूलम्

स्तम्भः स्वेदोऽथ रोमाञ्चः 8स्वरभङ्गोऽथ वेपथुः।
वैवर्ण्यमश्रु प्रलय 9इत्यष्टौ सात्त्विकाः स्मृताः ।। २२ ।।

अभिनयाः

विश्वास-प्रस्तुतिः

आङ्गिको वाचिकश् चैव
ह्य् आहार्यः सात्त्विकस् तथा ।
चत्वारो ऽभिनया ह्य् एते
विज्ञेया नाट्यसंश्रयाः ।। २३ ।।

English

23. Four kinds of Histrionic Representation are Gestures (āṅgika)14, Words (vācika)15, Dresses and Make-up (āhārya)16 and the Representation of the Sattva (sāttvika).17

मूलम्

आङ्गिको वाचिकश्चैव ह्याहार्यः सात्त्विकस्तथा ।
चत्वारोऽभिनया ह्येते 10विज्ञेया नाट्यसंश्रयाः ।। २३ ।।

Abh

स्थायी ‘विस्मयशमा’ इति कैश्चित्पठितः। उत्साह एवास्य स्थायीत्यन्ये । जुगुप्सेति केचित् । सर्व इत्येके । तत्त्वज्ञानजो निर्वेदोऽस्य स्थायी। एतदर्थमेवोभय- धर्मोपजीवित्वख्यापनायामङ्गलभूतोऽप्यसौ पूर्व निर्दिष्टो व्यभिचारित्वा (षु। अ)- भिनयत्वो(स्यो)पजीवका इति (तदनन्तरं) सात्त्विकाः। स्थायिषु च सङ्ख्या नोक्तेत्यपरे। अत एव स्थायिन एते तु व्यभिचारिणोऽपि भवन्ति । एतच्चाग्रे वितनिष्यामः।

व्यभिचारिण एत इत्युभयतो नियमार्थ सङ्ख्योपादानम् । सात्त्विका व्यभिचारिवृत्तमभिनयवृत्तं चोपजीवन्तीति पृथगभिनयादिभ्यो गणिताः।

चत्वार इति । आहार्यस्यापि धनुःप्रतिशीर्षकमुकुटादेः प्रत्यक्षबुद्धावुपयोगे-

Notes

(मू)

धर्मी वृत्तिः, प्रवृत्तिः, सिद्धिः

विश्वास-प्रस्तुतिः

लोकधर्मी नाट्यधर्मी
धर्मीति द्विविधः स्मृतः।
भारती सात्वती चैव
कैशिक्य्-आरभटी तथा ।। २४ ।।

English

24. Practice of Representation (dharmī)18 in a dramatic performance is twofold: realistic (lokadharmī, lit. popular) and coventional (nāṭyadharmī, lit. theatrical).

And the Verbal (bhāratī), the Grand (sāttvatī), the Graceful (kaiśikī) and the Energetic (ārabhaṭī) …

मूलम्

लोकधर्मी नाट्यधर्मी धर्मीति2 द्विविधः स्मृतः।
3भारती सात्वती चैव 4कैशिक्यारभटी तथा ।। २४ ।।

विश्वास-प्रस्तुतिः

चतस्रो वृत्तयो ह्य् एता
यासु नाट्यं प्रतिष्ठितम् ।
आवन्ती दाक्षिणात्या च
तथा चैवोढ्र-मागधी ।। २५ ।।

मूलम्

चतस्रो वृत्तयो ह्येता यासु5 नाट्यं प्रतिष्ठितम् ।
आवन्ती दाक्षिणात्या च तथा चैवो6ढ्रमागधी ।। २५ ।।

English

are the four Styles.19

25-26. Āvanti, Dākṣinātyā, Oḍramāgadhī

विश्वास-प्रस्तुतिः

पाञ्चाल-मध्यमा चेति
विज्ञेयास् तु प्रवृत्तयः
दैविकी मानुषी चैव
सिद्धिः स्याद् द्विविधैव तु ।। २६ ।।

मूलम्

7पाञ्चालमध्यमा 8चेति 9विज्ञेयास्तु प्रवृत्तयः ।
10दैविकी मानुषी चैव 11सिद्धिः स्याद्द्विविधैव तु ।। २६ ।।

English

and Pañcālamadhyamā are the four Local Usages (pravṛtti)20 in a dramatic performance.

The Success21 in the dramatic performance is of two kinds: divine (daivikī) and human (mānuṣī).

स्वराः, वाद्यानि, ध्रुवा-गानं, रङ्गः

विश्वास-प्रस्तुतिः

शारीराश् चैव वैणाश्+++(←वीणा)+++ च
सप्त षड्जादयः स्वराः
(निषादर्षभ-गान्धार-
मध्य-पञ्चम-धैवताः।।)
ततं+++(←तन्त्री)+++ चैवावनद्धं च
घनं सुषिरम्+++(=बिलवत्)+++ एव च ।। २७ ।।

English

27-29. And [musical] notes such as, Ṣaḍja, Ṛṣabha etc. are seven22 in number, and they fall into two groups: human (śārirā, lit. from body) and instrumental (vaiṇava, lit. from the Vīṇā).23

(The musical instruments are of four kinds:) stringed (tata) covered (avanaddha), solid (ghana), and hollow (suṣira).

मूलम्

12शारीराश्चैव वैणाश्च सप्त षड्जादयः स्वराः ।
13(निषादर्षभगान्धारमध्यपञ्चमधैवताः।।)
ततं चैवावनद्धं च घनं सुषिरमेव च ।। २७ ।।

Abh

ऽन्तरङ्गत्वं सूचयति । नाट्यसंश्रया इति । लोके तु कदाचिन्न भवत्यपि गृहीतत्वात्। नाट्ये तु त एव जीवितम् । अत एव रसभावानन्तरमभिनया उद्दिष्टाः। (१४-२३)

अभिनयाश्च लौकिकं धर्म तन्मूलमेव तदुपजीविनं सामयिकं वानुवर्तन्त इत्यतस्तदनन्तरं धर्मी । न चाभिनयोऽभिनेतव्यमन्तरेणास्तीति दशरूपकयोगद्वारेण तदुपकारिण्यो वृत्तयः। द्वे तिस्रः पञ्चेति निराकरणाय चतस्र इत्युक्तम् । ता अपि देशवशादद्भूयसा भवन्तीति तदनन्तरं प्रवृत्तयः। सर्वमेतत्सिद्धिपर्यवसानमिति ततो द्विविधा सिद्धिः। स्वराः पाठ्यं गानसंगृहीता अपि पृथगुपात्ताः। केवलानामपि प्रयोगोपरञ्जकत्वं यल्लक्ष्ये दृश्यते । यत्रान्तरालाप इति प्रसिद्धिस्तदभ्युपगमार्थम् । लक्षणान्वितमिति। अन्यत्तु मल्लकपटफलकज्वालामुखपक्षवाद्यादि लौकिकं नैतत्सङ्गृहीतं बाध्यत्वादित्यर्थः।

Notes

(मू)

विश्वास-प्रस्तुतिः

चतुर्विधं च विज्ञेयम्
आतोद्यं लक्षणान्वितम् ।
ततं तन्त्री-गतं ज्ञेयम्
अवनद्धं तु पौष्करम् ।। २८ ।।

English

The musical instruments are of four kinds. Among these, the ‘stringed’ means an instrument with strings, the ‘covered’ means a drum,

मूलम्

चतुर्विधं च विज्ञेयमातोद्यं लक्षणान्वितम् ।
ततं तन्त्रीगतं1 ज्ञेयमवनद्धं तु पौष्करम् ।। २८ ।।

विश्वास-प्रस्तुतिः

घनस् तु तालो विज्ञेयः
सुषिरो वंश एव च ।
प्रवेशाक्षेप-निष्क्राम-
प्रासादिकम् अथान्तरम् ।। २९ ।।

English

the ‘solid’ a cymbal and the ‘hollow’ a flute.

(Songs which relate to Dhruvās are of five kinds):24 entering (praveśa), casual (ākṣepa), going out (niskrama), pleasing (prāsādika) and intermediate (āntara).

मूलम्

घनस्तु तालो विज्ञेयः सुषिरो वंश एव च ।
प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम्2 ।। २९ ।।

विश्वास-प्रस्तुतिः

गानं पञ्चविधं ज्ञेयं
ध्रुवा-योग-समन्वितम्3।
चतुरश्रो विकृष्टश् च
रङ्गस् त्र्यश्रश् च कीर्तितः ।। ३० ।।

मूलम्

गानं पञ्चविधं ज्ञेयं ध्रुवायोगसमन्वितम्3।
चतुरश्रो विकृष्टश्च रङ्गस्त्र्यश्रश्च4 कीर्तितः ।। ३० ।।

English

Songs which relate to Dhruvās are of five kinds. And the playhouse is of three types: oblong, square and triangular.

Abh

एतच्चान्ते लक्ष्यते । यदपि चतुर्विधं न सर्वमिदं1 बहुलचर्मकारादिवाद्यमपि च वक्ष्यमाणलक्षणान्वितम् । आतूद्यतेऽभिहन्यत इत्यर्थः। पुष्करशब्दश्रवणादागतं पुष्करवर्तकदेवताधिष्ठितं पद्मपत्राकारं चर्मपुटभाषं चेति पौष्करम् । हन्यते कलासाम्यार्थमिति घनः । अत एव तालैकप्रमाणत्वात्स्वरवर्णसम्भवात्ताल इत्युक्तः । कांस्यतालादिः। एवकारः 2काहलादिव्युदासाय ।

पात्रस्य प्रवेशे भावप्रकृत्यवस्थानादिसूचकं यद्गीयते तत्प्रवेशगानम् । प्रविष्टस्यान्तर्गतां चित्तवृत्तिं सामाजिकान्प्रति प्रसादयितुं प्रथयितुं 3प्रासादगानम् रसान्तरोपक्षेपार्थमाक्षेपगानम् । आन्तरमिति गतिपरिक्रमणनिरूपणादिरवसरः तत्र। यद्गीयते तदान्तरं गानम् । पात्रस्य निष्क्रमणे तु निष्क्रामगानम् । प्रवेशादय उपचाराद्गाने। प्रसादोऽस्य प्रयोजनं प्रासादिकम् । अन्ये तु समासान्मत्वर्थीयं ठनं कृत्वा प्रसादिकमिति। ध्रुवा गीत्याधारो नियतः पदसमूहः। तत्र योगेन युज्यमानतया समन्वितं तदर्थप्राधान्येन नियतरूपत्वादिति गानस्य गान्धर्वाद्भेदः सूचितः।

कक्ष्याविभागेन गत्युपकारेण सर्वाभिनयानुभावोपकारी गानातोद्योपकारी च मण्डपः यथोक्तम् " यश्चाप्यास्यगतो भाव " (ना.शा.२-२०) इति, तथा " गम्भीरस्वरता येन कुतपस्य " इत्यादि (ना.शा. २-८२) । रङ्गेणैव च कक्ष्याविभागः सङ्गृहीत इति नानुदृ(द्दि)ष्टत्वं4 कक्ष्यायाः । (२४-३०)

Notes

(मू)

सूत्र-ग्रन्थ-विकल्पनम्

विश्वास-प्रस्तुतिः

एवम् एषो ऽल्प-सूत्रार्थो
निर्दिष्टो नाट्य-संग्रहः ।
अतः परं प्रवक्ष्यामि
सूत्र-ग्रन्थ-विकल्पनम् ।। ३१ ।।

मूलम्

एवमेषोऽल्पसूत्रार्थो निर्दिष्टो1 नाट्यसंग्रहः ।
अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् ।। ३१ ।।

Abh

एतदुपसंहरत्येवमित्यादिना ।

एवमुद्देशविभागभेदेन द्विधा सङ्ग्रहमभिधाय लक्षणपरीक्षे वक्तुं प्रतिजानीते–अतःपरमिति । सूत्रग्रन्थविकल्पनमिति पाठः । सूत्रं सूत्रकं लक्षणं वक्ष्यामि। तेनैव च कारिका सङ्गृहीता । ग्रन्थो भाष्यम् । तत्कृतं च विकल्पनमाक्षेपप्रतिसमाधानात्मकमिति परीक्षा निरुक्तशब्दवाच्या प्रतिज्ञाता । सूत्रविवरणस्वभावा तु कारिका सूत्रमपि प्रकाशयन्ती बहुतराक्षेपसमाधान- व्याकुलशिष्यजन(नं)स्थिता(र)पक्षनिरूपणेनोपकरोतीति भाष्यस्य पश्चादस्याः पाठः ।

एवं सूत्रं भाष्यं परीक्षां च प्रवक्ष्यामीति प्रतिज्ञाय रसविषयमेव सूत्रप्रभृति प्रथममेव वक्तव्यमित्यत्र परिकरबन्धं घटयितुमाह–तत्रेति । तेषां रसादीनां मध्ये । एवकारोऽवधारणे । तावदिति क्रमे । अभितः आदितः सूत्रग्रन्थपरीक्षाक्रमेण विभज्य व्याख्यास्यामः।

उद्देशक्रमस्यैव पर्यनुयोज्यतामाशङ्क्यापरं क्रमहेतुमाह–न हीति । हि यस्मात् रसं विना विभावादिरर्थो बुद्धौ व्याख्येयतया न प्रवर्तते यतश्च तं विनाऽर्थः प्रयोजनं च प्रीतिपुरस्सरं व्युत्पत्तिमयं1 न प्रवर्तते यतश्च रसं प्रत्यादृते रसनात्मकप्रतीत्येकघनविश्रान्ते सामाजिकलोकेऽन्यो भावादिरर्थः प्रविभागेन बुद्धौ न वर्तते । सर्वस्य जडस्य चित्तवृत्त्यन्तरोपकृतप्रधानस्थायिनामधेयचित्तवृत्तिमग्नत्वेन विभावानुभावादिवर्गस्यावभासात् । अतो व्याख्यातृनटसामाजिकाभिप्रायेण तस्यैव प्राधान्यमिति रस एव तावत्पूर्वमुद्दिष्ट इति तस्यैव लक्षणादि कर्तव्यमिति तात्पर्यम्।

पूर्वत्र बहुवचनमत्र चैकवचनं प्रयुञ्जानस्यायमाशयः– एक एव तावत्परमार्थतो रसः सूत्रस्थानीयत्वेन रूपके प्रतिभाति । तस्यैव पुनर्भागदृशा विभागः।सोऽपि च न2 तदेकमुखप्रेक्षितामतिवर्तते। एतच्चोद्देश एवास्माभिरभिहितचरम् । अभिधास्यते चाग्रे।

Notes

(मू)

विश्वास-प्रस्तुतिः

तत्र रसान् एव तावद् आदाव् अभिव्याख्यास्यामः।
न हि रसाद् ऋते कश्चिद् अर्थः प्रवर्तते ।

English

In that connexion I shall first of all explain the Sentiments (rasa). No [poetic] meaning proceeds [from speech] without [any kind of] Sentiment.

मूलम्

तत्र रसानेव तावदादावभि1व्याख्यास्यामः।
न हि रसादृते 2कश्चिदर्थः प्रवर्तते ।

विश्वास-प्रस्तुतिः

तत्र विभावानुभाव-व्यभिचारि-संयोगाद् रस-निष्पत्तिः।

मूलम्

तत्र विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः।

English

Now the Sentiment is produced (rasa-niṣpattiḥ) from a combination (saṃyoga)25 of Determinants (vibhāva), Consequents (anubhāva) and Complementary Psychological States (vyabhicāri-bhāva).

Abh

एवं क्रमहेतुमभिधाय रसविषयं लक्षणसूत्रमाह–विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः । अत्र भट्टंलोल्लटप्रभृतयस्तावदेवं व्याचख्युः- विभावानुभावव्यभिः संयोगोऽर्थात् स्थायिनस्ततो रसनिष्पत्तिः । तत्र विभावश्चित्तवृत्तेः स्थाय्यात्मिकाया उत्पत्तौ कारणम् । अनुभावाश्च न रसजन्या अत्र विवक्षिताः। तेषां रसकारणत्वेन गणनानर्हत्वात्। अपि तु भावानामेव । ननु येऽनुभावाः व्यभिचारिणश्च चित्तवृत्त्यात्मकत्वात् यद्यपि न सहभाविनः स्थायिना तथापि वासनात्मनेह1 तस्य विवक्षिताः। दृष्टान्तेऽपि अभिव्यञ्जनादिमध्ये कस्यचिद्वासनात्मकता स्थायिवत्, अन्यस्य तूद्भूतता व्यभिचारिवत्। तेन स्थाय्येव विभावानुभावादिभिरुपचितो रसः, स्थायी भवत्य2नुपचितः। स चोभयोर3पि मुख्यया वृत्त्या रामादौ4 अनुकार्येऽनुकर्तर्यपि चानु5सन्धानबलात् –इति ।

चिरन्तनानां चायमेव पक्षः। तथा हि दण्डिना स्व(काव्या?)लङ्कारलक्षणेऽभ्यधायि। “रतिः शृङ्गारतां गता6 । रूपबाहुल्ययोगेन " इति (काव्यादर्शे २-२८१)। “अधिरुह्य परां कोटिं कोपो रौद्रात्मतां गतः ।"(२-२८३) इत्यादि च ।

एतन्नेति श्रीशङ्कुकः । विभावाद्ययोगे स्थायिनो लिङ्गाभावेनावगत्यनुपपत्तेर्भा- वानां पूर्वमभिधेयताप्रसङ्गात्; 7स्फीतदशायां लक्षणान्तरवैयर्थ्यात्, मन्दतरतममाध्यस्थ्या- द्यानन्त्यापत्तेः, हास्यरसे षोढात्वाभावप्राप्तेः, कामावस्थासु दशस्वसङ्- ख्यरसभावादिप्रसङ्गात्, शोकस्य प्रथमं तीव्रत्वं कालात्तु8 मान्द्यदर्शनं क्रोधोत्साहरतीनाममर्षस्थैर्यसेवाविपर्यये ह्रासदर्शनमिति विपर्ययस्य दृश्यमानत्वाच्च ।

तस्माद्धेतुभिर्विभावाख्यैः कार्यैश्चानुभावात्मभिः सहचारिरूपैश्च व्यभिचारिभिः प्रयत्नार्जिततया कृत्रिमैरपि तथानभिमन्यमानैरनुकर्तृस्थत्वेन लिङ्गबलतः प्रतीयमानः स्थायी भावो मुख्यरामादिगतस्थाय्यनुकरणरूपः । अनुकरणरूपत्वादेव च नामान्तरेण व्यपरिष्टो रसः ।

विभावा हि काव्यबलानुसन्धेयाः। अनुभावाः शिक्षातः। व्यभिचारिणः कृत्रिम-

Notes

(मू)

Abh

निजानुभावार्जनबलात् । स्थायी तु काव्यबलादपि नानुसन्धेयः। ’ रतिःशोक ’ इत्यादयो हि शब्दा रत्यादिकमभिधेयीकुर्वन्त्यभिधानत्वेन । न तु वाचिकाभिनय– रूपतयाऽवगमयन्ति। न हि वागेव वाचिकम् । अपि तु तया निर्वृत्तम् । अङ्गैरिवाङ्गिकम् । तेन–

(” विवृद्धात्माऽप्यगाधोऽपि दुरन्तोऽपि महानपि ।)1
वाडवेनेव जलधिः शोकः क्रोधेन पीयते ।।” इति ।

तथा–

" शोकेन कृतः स्तम्भः तथा 2स्थितो योऽनवस्थिताक्रन्दैः।
(हृदयस्फुटनभयार्तै 3रोदितुमभ्यर्थ्यते सचिवैः।।”) (तापसवत्सराजनाटके विनीतदेवोक्तिः)

इत्येवमादौ न शोकोऽभिनेयः। अपि त्वभिधेयः।

“भाति पतितो लिखन्त्याः (तस्या बाष्पाम्बुशीकरकणौघः।
स्वेदोद्गम इव करतलसंस्पर्शादेष मे वपुषि।।”) (रत्ना २-११)

इत्यनेन तु वाक्येन स्वार्थमभिदधता उदयनगतः सुखात्मा रतिः स्थायीभावोऽभिनीयते, न तूच्यते4 अवगमनशाक्तिर्ह्यभिनयनं वाचकत्वादन्या । अत एव स्थायिपदं सूत्रे भिन्नविभक्तिकमपि नोपात्तम्5 । तेन रतिरनुक्रियमाणा शृङ्गार इति तदात्मकत्वं तत्प्रभवत्वं च युक्तम् । अर्थक्रियापि मिथ्याज्ञानाददृष्टा6, यथा–7

( मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतोः।
मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ।।" इति ।) ( प्रमाणवार्तिके, प्रत्यक्षपरिच्छेदे ७७)

न चात्र नर्तक एव सुखीति प्रतिपत्तिः। नाप्ययमेव राम इति । न चाप्ययं न सुखीति । नापि रामः स्याद्वा न वायमिति । न चापि तत्सदृश इति । किन्तु (सम्यङ्मिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणा चित्रतुरगादिन्यायेन) यः सुखी रामः असावयमिति प्रतीतिरस्तीति । 8यदाह–

“प्रतिभाति न सन्देहो न तत्त्वं न विपर्ययः।
धीरसावयमित्यस्ति नासावेवायमित्यपि ।।

विरुद्धबुद्9ध्यसम्भेदादविवेचितसंप्लवः10।
युक्तया पर्यनुयुज्येत स्फुरन्ननुभवः कया ।। "
इति ।

(व्या)

तदिदमप्यन्तस्तत्त्वशून्यं न विमर्दक्षममित्युपाध्यायः। तथा हि–अनुकरणरूपो रस इति यदुच्यते तत्किं सामाजिकप्रतीत्यभिप्रायेण उत नटाभिप्रायेण किं वा वस्तुवृत्तविवेचकव्याख्यातृबुद्धिसमवलम्बनेन ‘यथाहुर्व्याख्यातारः खल्वेवं विवेचयन्ति’ (प्रमाणवार्तिके स्ववृत्तिः, पृ. ३९ Gndi’s edn.) इति ।

अथ भरतमुनिवचनानुसारेण 1तत्राद्यः पक्षोऽसङ्गतः। किञ्चिद्धि प्रमाणेनोपलब्धं तदनुकरणमिति शक्यं वक्तुम् । यथा- ’ एवमसौ सुरां पिबति ’ इति सुरापानानु- करणत्वेन पयःपानं प्रत्यक्षावलोकितं प्रतिभाति । इह च नटगतं किं तदुपलब्धं यद्रत्या2नुकरणतया भातीति चिन्त्यम् । तच्छरीरं तन्निष्ठं प्रतिशीर्षकादि रोमाञ्चक- गद्गदिकादिभुजाक्षेपवलनप्रभृति भ्रूक्षेप3कटाक्षादिकं च न रतेश्चित्तवृत्तिरूपा3 यानुकारत्वेन कस्यचित्प्रतिभाति । जडत्वेन भिन्नेन्द्रियग्राह्यत्वेन भिन्नाधिकरणत्वेन च ततोऽतिवैलक्षण्यात् ।(मुख्याव)लोकने4 च तदनुकरणप्रतिभासः। न च रामगतां रतिमुपलब्धपूर्विणः केचित् । एतेन रामानुकारी नट इत्यपि निरस्तः प्रवादः ।

अथ नटगता चित्तवृत्तिरेव प्रतिपन्ना सती रत्यनुकारः शृङ्गार इत्युच्यते, तत्रापि किमात्मकत्वेन सा प्रतीयत इति चिन्त्यम् । ननु प्रमदादिभिः कारणैः कटाक्षादिभिः कार्यैः धृत्यादिभिश्च सहचारिभिर्लिङ्गभूतैर्या लौकिकी कार्यरूपा कारणरूपा सहचारिरूपा च चित्तवृत्तिः प्रतीतियोग्या तदात्मकत्वेन नटचित्तवृत्तिः प्रतिभाति। हन्त तर्हि रत्याकारेणैव सा प्रतिपन्नेति दूरे रत्यनुकरणतावाचोयुक्तिः।

ननु ते विभावादयोऽनुकार्ये पारमार्थिकाः, इह त्वनुकर्तरि न तथेति विशेषः। अस्त्वेवम् । किन्तु ते हि विभावादयोऽतत्कारणातत्कार्यातत्सहचाररूपा अपि काव्य- शिक्षादिबलोपकल्पिताः कृत्रिमाः सन्तः किं कृत्रिमत्वेन सामाजिकैः गृह्यन्ते न वा? यदि गृह्यन्ते तदा तैः कथं रतेरवगतिः?

नन्वत एव तत्प्रतीयमानं रत्यनुकरणं मुग्ध5बुद्धेः कारणम् । कारणान्तरप्रभवे6 हि कार्ये7 (सु)शिक्षितेन वा तथा ज्ञाते8 वस्त्वन्तरस्यानुमानं तावद्युक्तम् । अ9सुशिक्षितेन तु तस्यैव प्रसिद्धस्य कारणस्य । 10यथा वृश्चिकविशेषाद्गोमयस्यैवानुमानम् । वृश्चिकस्यैव वा11 तत्परं मिथ्याज्ञानम् । यत्रापि लिङ्गज्ञानं मिथ्या तत्रापि वा 12तदाभासानुमानमयुक्तम्13। न हि बाष्पाद्धूमत्वेन ज्ञातादग्न्यनुकारानुमानम् । तदनुकारत्वेन14 प्रतिभासमानादपि लिङ्गात्तदनुकारानुमानं न युक्तम् । धूमानुकारत्वेन हि ज्ञायमानान्नीहारान्नाग्न्यनुकारजपापुष्पप्रतीतिर्दृष्टा ।

(व्या)

नन्वक्रुद्धोऽपि नटः क्रुद्ध इव भाति । सत्यम् । क्रुद्धेन सदृशः। सादृश्यं च भ्रुकुट्यादिभिः। 1गोरिव गवयेन मुखादिभिरिति नैतावताऽनुकारः कश्चित् । न चापि सामाजिकानां सादृश्यमतिरस्ति । सामाजिकानां च न 2भावशून्या नर्तके प्रतिपत्तिरित्युच्यते। अथ च तदनुकारप्रतिभास इति रिक्ता वाचोयुक्तिः ।

यच्चोक्तं रामोऽयमित्यस्ति प्रतिपत्तिः, तदपि यदि तदात्वे3 निश्चितं तदुत्तरकालभाविबाधकवैधुर्याभावे कथं न तत्त्वज्ञानं स्यात् ? बाधकसद्भावे वा कथं न मिथ्याज्ञानम् ? वास्तवेन च वृत्तेन4 बाधकानुदयेऽपि मिथ्याज्ञानमेव स्यात् । तेन विरुद्धबुद्ध्य5संभेदादित्यसत् । नर्तकान्तरेऽपि च रामोऽयमिति प्रतिपत्तिरस्ति। ततश्च रामत्वं सामान्यरूपमित्यायातम् ।

यच्चोच्यते विभावाः काव्या6दनुसन्धीयन्ते (इति) तदपि न विद्मः। नहि ‘ममेयं सीता काचित्’ इति स्वात्मीयत्वेन प्रतिपत्तिर्नटस्य । अथ सामाजिकस्य तथा प्रतीतियोग्याः क्रियन्त इत्येताव7देवानुसन्धानमुच्यते तर्हि स्थायिनि सुतरामनुसन्धानं स्यात्। तस्यैव हि मुख्यत्वेन ‘अस्मिन्नयम्’ इति सामाजिकानां प्रतिपत्तिः।8

यस्तु9 ‘वाग्वाचिकम्’ इत्यादिना भेदाभिधानसंरम्भगर्भमहीयानभिनयरूपताविवेकः कृतः स उत्तरत्र स्वावसरे (ना.शा. अ.-१४) चर्चयिष्यते । तस्मात्सामाजिक- प्रतीत्यनुसारेण स्थाय्यनुकरणं रस इत्यसत् ।

न चापि नटस्येत्थं प्रतिपत्तिः ’ रामं तच्चित्तवृत्तिं वाऽनुकारोमि ’ इति । सदृशकरणं हि तावदनुकरणमनुपलब्धप्रकृतिना न10 शक्यं कर्तुम् । अथ पश्चात्करणमनुकरणं तल्लोकेऽप्यनुकरणात्मता11तिप्रसक्ता । अथ न नियतस्य कस्यचिदनुकारः अपि तूत्तमप्रकृतेः शोकमनुकरोमीति12। तर्हि केनेति चिन्त्यम् । न तावच्छोकेन तस्य तदभावात्। न चाश्रुपातादिना शोकस्यानुकारः तद्वैलक्षण्यादित्युक्तम्। इयत्तु स्यात्- उत्तमप्रकृतेर्ये शोकानुभावाः ताननुकरोमीति । तत्रापि कस्योत्तमप्रकृतेः। यस्य कस्यचिदिति चेत्सोऽपि विशिष्टतां विना कथं बुद्धावारोपयितुं शक्यः। य एवं रोदितीति चेत् स्वात्मापि मध्ये नटस्यानुप्रविष्ट इति गलितोऽनुकार्यानुकर्तृभावः13।

किञ्च नटः शिक्षावशात्स्वविभावस्मरणाच्चित्तवृत्तिसाधारणीभावेन हृदयसंवादात्केवल14मनुभावान्प्रदर्शयन् काव्यमुपचितकाकुप्रभृत्युपस्कारेण पठंश्चेष्टत इत्येतावन्मात्रेऽस्य प्रतीति15र्नत्वनुकारं वेदयते ।

(व्या)

कान्तवेषानुकारवृद्धि1 न रामचेष्टितस्यानुकारः। एतच्च प्रथमाध्यायेऽपि दर्शितमस्माभिः। नापि वस्तुवृत्ता2नुसारेण तदनुकारत्वम् । अनुसंवेद्यमानस्य वस्तुवृत्तत्वानुपपत्तेः। यच्च वस्तुवृत्तं तद्दर्शयिष्यामः। न च मुनिवचनमेवंविधमस्ति क्वचित्स्थाय्यनुकरणं 3रसा इति। नापि लिङ्गमत्रार्थे मुनेरुपलभ्यते । प्रत्युत ध्रुवागानतालवैचित्र्यलास्याङ्गोप- जीवनं(न)निरूपणादि विपर्यये लिङ्गमिति सन्ध्यङ्गाध्यायान्ते वितनिष्यामः। ’ सप्तद्वीपानुकरणम् ‘(ना.शा. १-११७) इत्यादि त्वन्यथापि शक्यगमनिकमिति । तदनुकारेऽपि च क्व नामान्तरं कान्तवेषगत्यकरणादौ 4।

यच्चोच्यते वर्णकैर्हरितालादिभिः संयुज्यमान एव गौरित्यादि । तत्र यद्यभिव्यज्यमान इत्यर्थोऽभिप्रेतः, तदसत् । न हि सिन्दूरादिभिः पारमार्थिको गौरभिव्यज्यते प्रदीपादिभिरिव। किन्तु तत्सदृशः समूहविशेषो निर्वर्त्यते । त एव हि सिन्दूरादयो गवावयवसन्निवेशसदृशेन सन्निवेशविशेषेणावस्थिता गोसदृगिति प्रतिभासस्य विषयः, नैवं विभावादिसमूहो रतिसदृशताप्रतिपत्तिग्राह्यः5। तस्माद्भावानुकरणं रसा6 इत्यसत्।

येन त्वभ्यधायि–सुखदुःखजननशक्तियुक्ता विषयसामग्री बाह्यैव साङ्ख्यदृशा सुखदुःखस्वभावा7 रसः। तस्यां च सामग्य्रा दलस्थानीया विभावाः, संस्कारकाः अनुभावव्यभिचारिणः । स्थायिनस्तु तत्सामग्रीजन्या आन्तराः सुखदुःखस्वभावा इति। तेन ’ स्थायिभावान् रसत्व (मुपनेष्याम)8 ’ इत्यादावुपचारमङ्गीकुर्वता ग्रन्थविरोधं स्वयमेव बुध्यमानेन दूषणाविष्करणमौखर्यात्9 प्रामाणिको जनः परिरक्षित10 इति किमस्योच्यते । यत्त्वन्यतन्त्र11प्रतीतिवैषम्यप्रसङ्गादि तत्कियद12त्रोच्यताम् ।

भट्टनायकस्त्वाह –रसो न प्रतीयते, नोत्पद्यते, नाभिव्यज्यते। स्वगतत्वेन हि प्रतीतौ करुणे दुःखित्वं स्यात् । न च सा प्रतीतिर्युक्ता, सीतादेरविभावत्वात्, स्वकान्तास्मृत्यसंवेदनात्, देवतादौ13 साधारणीकरणायोग्यत्वात्, समुद्रलङ्घना14- देरसाधारण्यात् । न च 15तद्वतो रामस्य 16स्मृतिः अनुपलब्धत्वात्, न च शब्दानुमानादिभ्यः तत्प्रतीतौ लोकस्य सरसता युक्ता17 प्रत्यक्षादिव नायकयुगलकावभासे हि प्रत्युत लज्जाजुगुप्सास्पृहादिस्वोचितचित्तवृत्त्यन्तरोदय18व्यग्रतया का सरसत्व19कथापि स्यात् । परगतत्वेन प्रतीतौ ताटस्थ्यमेव भवेत् तत्र20 प्रतीतिरनुभवस्मृत्यादिरूपा रसस्य युक्ता21 । उत्त्पत्तावपि तुल्यमेतद्दूषणम् । शक्तिरूपत्वेन पूर्वं स्थितस्य पश्चादभिव्यक्तौ विषयार्जनतारतम्यापत्तिः। स्वगतत्वपरगतत्वादि च पूर्ववद्विकल्प्यम् ।

(व्या)

तस्मात्काव्ये दोषाभावगुणालङ्कारमयत्वलक्षणेन, नाट्ये चतुर्विधाभिनयरूपेण निबिडनिजमोहसङ्कटतानिवारण1कारिणा विभावादिसाधारणीकरणात्मनाऽभिधातो द्वितीयेनांशेन भावकत्वव्यापारेण भाव्यमानो रसोऽनुभवस्मृत्यादिविलक्षणेन रजस्तमोऽनुवेधवैचित्र्यबलाद्द्रुतिविस्तार2विकासलक्षणेन3 सत्त्वोद्रेकप्रकाशानन्दमय- निजसंविद्विश्रान्तिलक्षणेन4 परब्रह्मास्वादसविधेन भोगेन परं भुज्यत इति ।

(” अभिधा भावना चान्या तद्भोगीकृतमेव च5 ।
अभिधाधामतां याते शब्दार्थालङ्कृती ततः ।।)

भावनाभाव्य एषोऽपि शृङ्गारादिगणो हि यत्6 ।
(तद्भोगीकृति7रूपेण व्याप्यते सिद्धिमान्नरः ।। “)

तत्र पूर्वपक्षोऽयं भट्टलोल्लटपक्षानभ्युपगमादेव नाभ्युपगत इति तद्दूषणम- नुत्थानोपहतमेव । प्रतीत्यादिव्यतिरिक्तश्च संसारे को भोग इति न विद्मः । रसनेति चेत्, सापि प्रतिपत्तिरेव । केवलमुपायवैलक्षण्यान्नामान्तरं प्रतिपद्यतां दर्शनानुमिति- श्रुत्युपमितिप्रतिभानादिनामान्तरवत् । निष्पादनाभिव्यक्तिद्वयानभ्युपगमे च नित्यो वा असद्वा रस8 इति न तृतीया गतिः स्यात्9 न चाप्रतीतं वस्त्वस्तिता10व्यवहारे योग्यम् ।

अथोच्यते–प्रतीतिरिति रस11स्य भोगीकरणम् । तच्च द्रु12त्यादिस्वरूपम् । तदस्तु, तथापि न तावन्मात्रम् । यावन्तो हि रसास्तावत्य13 एव रसनात्मानः प्रतीतयो भोगीकरणस्वभावाः । (सत्त्वादि)14गुणानां चाङ्गाङ्गिवैचित्र्यमनन्तं कल्प्यमिति15 कात्रि16त्वेनेयत्ता–

इति तु17 यत् “काव्येन भाव्यन्ते रसाः” इत्युच्यते तत्र विभावादि- जनितचर्वणात्मकास्वादरूपप्रत्ययगोचरतापादनमेव यदि भावनं तदभ्युपगम्यत एव ।

यत्तूक्तम्–

“भावसंयोजना18 व्यङ्ग्यपरसंवित्तिगोचरः ।
आस्वादनात्माऽनुभवो रसः काव्यार्थ उच्यते ।। " इति ।

(संसर्गादिर्यथाशास्त्र एकत्वात् फलयोगतः ।
वाक्यार्थस्तद्वदेवात्र शृङ्गारादि रसो मतः19 ।।)

तत्र व्यज्यमानतया व्यङ्ग्यो लक्ष्यते । अनुभवेन च तद्विषय इति मन्तव्यम् । नन्वेवं कथं रसतत्त्वमास्ताम् ।

(व्या)

किं कुर्मः ।

आम्नायसिद्धे किमपूर्वमेत- त्संविद्विकासेऽधिगना1गमित्वम् ।
इत्थं स्वयंग्राह्यमहार्हहेतु- द्वन्द्वेन किं दूषयिता न लोकः ।।

ऊर्ध्वोर्ध्वमारुह्य यदर्थतत्त्वं धीः पश्यति श्रान्तिमवेदयन्ती ।
फलं2 तदाद्यैः परिकल्पितानां विवेकसोपानपरम्पराणाम् ।।

चित्रं निरालम्बनमेव मन्ये प्रमेयसिद्धौ प्रथमावतारम् ।
सन्मार्गलाभे सति सेतुबन्ध- पुरप्रतिष्ठादि न विस्मयाय ।।

तस्मात्सतामत्र न दूषितानि मतानि तान्येव तु शोधितानि ।
पूर्वप्रतिष्ठापितयोजनासु मूलप्रतिष्ठाफलमामनन्ति ।।

तर्ह्युच्यतां परिशुद्धतत्त्वम् ।

उक्तमेव मुनिना न त्वपूर्वं किञ्चित् । तथाह्याह-“काव्यार्थान् भावयतीति भावाः3 " इति (ना.शा.अ -७) तत्काव्यार्थो रसः ।

यथा हि ‘रात्रिमासत’ । ‘4तामग्नौ प्रादात्’ इत्यादावर्थितादिलक्षि- तस्याधिकारिणः प्रतिपत्तिमात्रा5दितिवृत्त6प्ररोचितात्प्रथमप्रवृत्तादनन्तरमधिकैवोपात्त- कालतिरस्कारेणैवास्ते संप्रददानीत्यादिरूपा संक्रमणादिस्वाभावा । यथादर्शनं प्रतिभाभावना7विध्युद्योगादिभाषाभिर्व्यवहृता प्रतिपत्तिस्तथैव काव्यात्मकादपि शब्दादधिकारिणोऽधिकाऽस्ति प्रतिपत्तिः ।

(व्या)

अधिकारी चात्र विमलप्रतिभानशालिहृदयः । तस्य च “ग्रीवाभङ्गाभिरामम् ।” इति (शाकु-अ.१) “उमापि नीलालक” इति (कुमा-३-६२) ‘हरस्तु किञ्चित्’ (कुमा. ३.६७) इत्यादिवाक्येभ्यो वाक्यार्थप्रतिपत्तेरनन्तरं मानसी साक्षात्कारात्मिकाऽप- हस्ति1ततत्तद्वाक्योपात्तकालादिविभागा तावत्प्रतीतिरुपजायते । तस्यां2 च यो मृगपोतका3- दिर्भाति तस्य विशेषरूपत्वाभावाद्भीत इति 4त्रासकस्यापारमार्थिकत्वाद्भयमेव परं देशकालाद्यनालिङ्गितम्, तत एव, ‘भीतोऽहं भीतोऽयं शत्रुर्वयस्यो मध्यस्थो’ वा इत्यादिप्रत्ययेभ्यो दुःखसुखादिकृतहा5नादिबुध्यन्तरोदयनियमवत्तया 6विघ्नबहुलेभ्यो विलक्षणं निर्विघ्नप्रतीतिनिग्राह्यं7 8साक्षादिव हृदये निधीय9मानं चक्षुषोरिव विपरिवर्तमानं भयानको रसः । तथाविधे हि भये नात्माऽत्यन्ततिरस्कृतो न विशेषत उल्लिखितः ।

एवं परोऽपि । तत एव न परिमितमेव साधारण्यम्, अपि तु विततम् । व्याप्तिग्रह इव धूमाग्न्योः, भयकम्पयोरेव वा तदत्र साक्षात्कारायमाणत्वे परिपोषिका नटादिसामग्री । यस्यां वस्तुस10तां काव्यार्पितानां च देशकालप्रमात्रादीनां नियमहेतूनामन्योन्यप्रतिबन्धबलादत्यन्तमपसरणे, स एव साधारणीभावः सुतरां पुष्यति । अत एव सर्वसामाजिकानामेकघनतैव11 प्रतिपत्तेः सुतरां रसपरिपोषाय । सर्वेषामनादिवासनाचित्रीकृतचेतसां वासनासंवादात् । सा चाविघ्ना संविच्चमत्कारः12 । तज्जो हि13कम्पपुलकोल्लुकसनादिर्विकारः । चमत्कारो यथा–

“अज्ज14 वि हरी चमक्कई कहकहविण15 मंदरेण दळिआइं ।
चंदकळाकंदळसच्छहाइं ळच्छीए अंगाई ।।”

तथा हि–स चातृप्तिव्यतिरेकेणाविच्छिन्नो भोगावेश इत्युच्यते । भुञ्जानस्याद्भुतभोगस्पन्दाविष्टस्य च16 मनःकरणं चमत्कार इति । स च साक्षात्कारस्वभावो मानसोऽध्यवसायो वा सङ्कल्पो वा स्मृतिर्वा तथात्वेन 17स्फुरन्नस्तु । यदाह–

“रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् - पर्यत्सुको भवति यत्सुखितोऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ।।” (शाकु ५-) इत्यादि ।

(व्या)

(अत्र1 हि स्मरतीति या स्मृतिरुपदर्शिता सा न तार्किकप्रसिद्धा, पूर्वमेतस्यार्थ- स्याननुभूतत्वात् । अपि तु प्रतिभानापरपर्यायसाक्षात्कारस्वभावेयमिति ।) सर्वथा तावदेषास्ति प्रतीतिरास्वादात्मा यस्यां रतिरेव भाति । तत2 एव विशेषान्तरानुपहितत्वात्सा रसनीया सती न लौकिकी, न मिथ्या, नानिर्वाच्या, न लौकिकतुल्या, न तदारोपादिरूपा । एषैव3 चोपचयावस्थासु देशाद्यनियन्त्रणादनुकारोऽप्यस्तु, भावानुगामितया करणात् । विषय4सामग्र्यपि भवतु विज्ञानवादावलम्बनात् । सर्वथा रसनात्मकवीतविघ्नप्रतीतिग्राह्यो भाव एव रसः ।

तत्र विघ्नापसारका विभावप्रभृतयः । तथा हि -लोके सकलविघ्नविनिर्मुक्ता संवित्तिरेव चमत्कार5निर्वेशरसनास्वादनभोगसमापत्तिलयविश्रान्त्यादिशब्दैरभिधीयते । विघ्ना6श्चास्यां सप्त । प्रतिपत्तावयोग्यता संभावनाविरहरूपा7 ।(१) स्वगतत्वपरगतत्वनियमेन देशकालविशेषावेशः(२) निजसुखादिविवशीभावः(३) प्रतीत्युपायवैकल्यं(४) स्फुटत्वाभावो(५) अप्रधानता(६) संशययोगश्च(७) ।

तथाहि–संवेद्यमसंभावयमानः संवेद्ये संविदं विनिवेशयितुमेव न शक्नोति । का तत्र विश्रान्तिरिति प्रथमो विघ्नः । तदपसारणे हृदय8संवादो लोकसामान्यवस्तुविषयः । अलोकसामान्येषु तु चेष्टितेष्वखण्डितप्रसिद्धिजनितगाढारूढप्रत्ययप्रसरकारी प्रख्यातरामादिनामधेयपरिग्रहः । अत एव निस्सामान्योत्कर्षोपदेशव्युत्पत्तिप्रयोजने नाटकादौ प्रख्यातवस्तुविषयत्वादि नियमेन निरूपयिष्यते, न तु प्रहसनादौ9 10एतच्च स्वावसर एव वक्ष्याम इत्यास्तां तावत् ।

स्वैकगतानां च सुखदुःखसंविदामास्वादे यथासंभवं तदपगमभीरुतया वा तत्परिरक्षाव्यग्रतया वा तत्सदृशार्जि11जीषया वा तज्जिहासया वा तत्प्रचिख्यापयिषया वा तद्गोपनेच्छया वा प्रकारान्तरेण वा संवेदनान्तरसमुद्गम एव परमो विघ्नः ।

परगतत्वनियमभाजामपि सुखदुःखानां संवेदने नियमेन स्वात्मनि सुखदुःखमोह- माध्यस्थ्यादिसंविदन्तरोद्गमनसंभावनादवश्यंभावी विघ्नः । तदपसारणे12 ‘कार्यो नातिप्रसङ्गो- ऽत्र’ (ना.शा. ५-१५८) इत्यादिना (पूर्वरङ्ग13विधिं प्रतीति)14पूर्वरङ्गानिगूहनेन (“15नटी विदूषको वापि " इति लक्षित)प्रस्तावनावलोकनेन च यो नटरूपताधिगमस्तत्पुरस्सरः प्रतिशीर्षकादिना तत्प्रच्छादनप्रकारोऽभ्युपायः अलौकिकभाषादिभेदलास्याङ्गरङ्गपीठ-

(व्या)

मण्डपगतकक्ष्यादिपरिग्रहनाट्यधर्मिसहितः । तस्मिन् हि सति1 ‘अ2स्यैवात्रैवैतर्ह्यैव3 च सुखं दुःखं4 वा’ इति न भवति प्रतीतिः,स्वरूपस्य निह्नवात्, रूपान्तरस्य चारोपितस्य प्रतिभास5विश्रान्तिवैकल्येन स्वरूपे विश्रान्त्यभावात् । सत्य6तदीयरूपनिह्नवमात्र एव पर्यवसानात् ।

तथा हि–आसीनपाठ्यपुष्पगन्धिकादि लोके न दृष्टम् । न च तन्न किञ्चित् । कथञ्चित्संभाव्यत्वात् इति एष सर्वो मुनिना साधारणीभावसिद्ध्या रसचर्वणोपयोगित्वेन परिकरबन्धः समाश्रित इति तत्रैव स्फुटीभविष्यतीति तदिह तावन्नोद्यमनीयम् । ततः स एष स्वपरनियतताविघ्नापसरणप्रकारो व्याख्यातः ।

तथा7 निजसुखादिविवशीभूतश्च कथं वस्त्वन्तरे संविदं 8विश्रमयेदिति 9तत्प्रत्यूहव्यपोहनाय प्रतिपदार्थनिष्ठैः साधारण्यमहिम्ना सकलभोग्यत्वसहिष्णुभिः शब्दादिविषयमयैरातोद्यगानविचित्रमण्डपपद10विदग्धगणिकादिभिरुपरञ्जनं समाश्रितम् । योनाहृदयोऽपि हृदयवैमल्यप्राप्त्या सहृदयीक्रियते । उक्तं हि “दृश्यं श्रव्यं च” (ना.शा. १-११) इति ।

किञ्च प्रतीत्युपायानामभावे कथं प्रतीतिः? अस्फुट11प्रतीतिकारिशब्दलिङ्ग- सम्भवेऽपि न प्रतीतिर्विश्राम्यति । स्फुटप्रतीतिरूपप्रत्यक्षोचितप्रत्ययसाकाङ्क्षत्वात् ।

यथाऽऽहुः ‘सर्वा चेयं प्रमितिः प्रत्यक्षपरा’ (न्यायसू. भा. १.१-१३) इति । स्वसाक्षात्कृते आगमानुमानशतैरप्य12नन्यथाभावस्य स्वसंवेदनात् । अलातचक्रादौ साक्षात्कारान्तरेणैव बलवता तप्तमित्यपसारणादिति लौकिकस्तावदयं क्रमः । तस्मात्तदुभयविघ्नविघातेऽभिनया लोकधर्मिवृत्तिप्रवृत्त्युपस्कृताः समभिषिच्यन्ते । अभिनयनं हि सशब्दलिङ्गव्यापारविसदृशमेव प्रत्यक्षव्यापारकल्पमिति निश्चेष्यामः ।

अप्रधाने च वस्तुनि कस्य संविद्विश्राम्यति ? तस्यैव प्रत्येयस्य13 प्रधानान्तरं प्रत्यनुधावतः स्वात्मन्यवि14श्रान्तत्वात् । अतोऽप्रधानत्वं जडे विभावानुभाववर्गे व्यभिचारिनिचये च संविदात्मकेऽपि नियमेनान्यमुखप्रेक्षिणि संभवतीति तदतिरिक्तः स्थाय्येव तथा चर्वणापात्रम् ।

(व्या)

तत्र पुरुषार्थनिष्ठाः काश्चित्संविद इति प्रधानम् । तद्यथा–रतिः कामः तदनुषङ्गिधर्मार्थनिष्ठा; क्रोधस्तत्प्रधानेष्वर्थनिष्ठः; कामधर्मपर्यवसितोऽप्युत्साहः; समस्त- धर्मादिपर्यवसितः शमश्च1 तत्त्वज्ञानजनितनिर्वेदप्रायोऽपि2 भावो3 मोक्षोपाय इति तावदेषां प्राधान्यम् । यद्यपि चैषामप्यन्योन्यं गुणभावोऽस्ति तथापि तत्तत्प्रधाने रूपके तत्तत्प्रधानं भवतीति रूपकभेदपर्यायेण सर्वेषां प्राधान्यमेषां लक्ष्यते । अ4दूरभागा- भिनिविष्टदृशा5त्वेकस्मिन्नपि रूपके पृथक्प्राधान्यम् ।

तत्र सर्वेऽमी सुखप्रधानाः, स्वसंविच्चर्वणरूपस्यैकघनस्य प्रकाशस्यानन्दसारत्वात् । तथा हि–एकघनशोकसंविच्चर्वणेऽपि लोकेऽस्ति6 स्त्री7लोकस्य हृदयविश्रान्तिरन्तरायशून्यविश्रान्तिशरीरत्वात्8 । अविश्रान्तिरूपतैव दुःखम् । तत एव कापिलैर्दुःखस्य चाञ्चल्यमेव प्राणत्वेनोक्तं रजोवृत्तितां वदद्भिरित्यानन्दरूपता सर्वरसानाम् । किन्तूपरञ्जकविषयवशात्के9षामपि10 कटु किम्ना अस्ति11 । स्पर्शो वीरस्येव12 । स हि क्लेश सहिष्णुतादिप्राण एव ।

एवं रत्यादीनां प्राधान्यम् । हासादीनां तु सातिशयं सकललोक- सुलभविभावतयोपरञ्जकत्वमिति13 प्राधान्यम् । अत एवानुत्तमप्रकृतिषु बाहुल्येन हासादयो भवन्ति । पामरप्रायः सर्वोऽपि हसति, शोचति, बिभेति, परनिन्दामाद्रियते, अल्पसु14 भाषितत्वेन च सर्वत्र विस्मयते । रत्याद्यङ्गतया तु पुमर्थोपयोगित्वमपि स्यादेषाम् । एतद्गुणप्रधानभावकृत एव च दशरूपकादिभेद इति वक्ष्यामः ।

स्थायित्वं चैतावतामेव । जात एव हि जन्तुर् इयतीभिः संविद्भिः परीतो भवति । तथा हि– " दुःखसंश्लेष-विद्वेषी सुखास्वादन-सादरः ।” इति न्यायेन सर्वो रिरंसया व्याप्तः
स्वात्मन्य् उत्कर्ष-मानितया परम् उपहसन्न्
अभीष्ट-वियोग-संतप्तस् तद्धेतुषु कोप-पर-वशो
ऽशक्ततया26 च ततो भीरुः,
किञ्चिद् आर्जिजीषुर् अप्य् अपरिचित27-वस्तुविषय-वैमुख्यात्मकतयाक्रान्तः,
किञ्चिद् अनभीष्टतया ऽभिमन्यमानस्
तत्-तत्-स्वकर्तव्य-दर्शन-समुदित-विस्मयः
किञ्चिच् च जिहासुरेव जायते ।

न ह्य् एतच् चित्त-वृत्ति-वासना-शून्यः प्राणी भवति ।

केवलं कस्यचित्काचिदधिका चित्तवृत्तिः

(व्या)1.KA.

काचिदूना; कस्यचिदुचितविषयनियन्त्रिता कस्यचिदन्यथा । तत्काचिदेव पुमर्थोपयोगिनीत्युपदेश्या । तद्विभाग1कृतश्चोत्तमप्रकृत्यादिव्यवहारः ।

ये पुनरमी ग्लानिशङ्काप्रभृतयश्चित्तवृत्तिविशेषास्ते समुचितविभावाज्ज2गन्मध्येऽपि न भवन्त्येव । तथा हि–रसायनमुपयुक्तवतो मुनेर्ग्लान्यालस्यश्रमप्रभृतयो नोत्तिष्ठान्ति । यस्यापि वा3 भवन्ति विभावबलात्तस्यापि हेतुप्रक्षये क्षीयमाणाः संस्कारशेषतां तावत् नावश्यमनुबध्नन्ति । उत्साहादयस्तु संपादितस्वकर्तव्यतया प्रलीनकल्पा अपि संस्कारशेषतां नातिवर्तन्ते, कर्तव्यान्तरविषयस्योत्साहादेरखण्डनात् ।

यथाह पतञ्जलिः4–न हि चैत्र एकस्यां स्त्रियां रक्त इत्यन्यासु विरक्तः ।” (पातञ्जल. व्यास. भा. २.४ ) इत्यादि ।

तस्मात्स्थायिरूपचित्तवृत्तिसूत्रस्यूता एवामी व्यभिचारिणः स्वात्मानमुदयास्तमय- वैचित्र्यशतसहस्रधर्माणं प्रतिलभमाना रक्तनीलादिसूत्रस्यूतविरलभावो(गो)- 5पलम्भनसम्भावितभङ्गीसहस्रगर्भस्फटिककाचा6भ्रकपद्मरागमरकतमहानीलादिमयगोलक- वत्तस्मिन् सूत्रे स्वसंस्कारवैचित्र्यमनिवेशयन्तोऽपि तत्सूत्रकृतमुपकारसन्दर्भं 7बिभ्रतः स्वयं च 8विचित्रार्थस्थायिसूत्रं च विचित्रयन्तोऽन्तरान्तरा शुद्धमपि स्थायिसूत्रं प्रतिभासावकाशमुपनयन्तोऽपि पूर्वापरव्यभिचारिरत्नच्छायाशबलिमानमवश्यमानयन्तः प्रतिभासन्त इति व्यभिचारिण उच्यन्ते ।

तथा हि–ग्लानोऽयमित्युक्ते कुत इति हेतुप्रश्नेना9स्थायितास्य सू्च्यते, न तु राम उत्साहशक्तिमानित्यत्र हेतुप्रश्नमाहुः । अत एव विभावास्तत्रोद्बोधकाः सन्तः स्वरूपोपरञ्जकत्वं विदधाना रत्युत्साहादेरुचितानुचितत्वमात्रमावहन्ति । न तु तदभावे सर्वथैव ते निरुपाख्याः, वासनात्मना सर्वजन्तूनां तन्मयत्वेनोक्तत्वात् । व्यभिचारिणां तु स्वविभावाभावे नामापि नास्तीति वितनिष्यते चैतद्यथायोगं व्याख्यावसरे । एवमप्रधानत्वनिरासः स्थायिनिरूपणायां10 ‘स्थायिथावान् रसत्वम् (ना. शा. अ. ६) इत्यनया सामान्यलक्षणशेषभूतया विशेषलक्षणनिष्ठया च कृतः ।

(व्या)

तत्रानुभावानां विभावानां व्यभिचारिणां च पृथक्स्थायिनि नियमो नास्ति, बाष्पादेरानन्दाक्षिरोगादिजत्वदर्शनात्, व्याघ्रादेश्च क्रोधभयादिहेतुत्वात् श्रम1चिन्तादे- रुत्साहभयाद्यनेकसहचरत्वावलो2कनात् । सामग्री तु न व्यभिचारिणी3 । तथा हि– बन्धुविनाशो यत्र विभावः परिदेविताश्रुपातादिस्त्वनुभावः चिन्ता4श्च5 दैन्यादि व्यभिचारी सोऽवश्यं शोक एवत्येवं संशयोदये शङ्कात्मकविघ्नशमनाय संयोग उपात्तः ।

तत्र लोकव्यवहारे कार्यकारणसहचारा6त्मकलिङ्गदर्शने7 स्थाय्यात्मपर- चित्तवृत्त्यनुमानाभ्यासपाटवादधुना तैरेवोद्यानकटाक्षवीक्षा8दिभिर्लौकिकीं कारणत्वादिभुवमतिक्रान्तैर्वि भावनानु भावनासमुपरञ्जकत्वमात्रप्राणैः, अत एवालौकिकविभावादिव्यपदेशभाग्भिः प्राच्यकारणादिरूपसंस्कारोपजीवनख्यापनाय9 विभावादि10नामधेयव्यपदेश्यैर्भावाध्यायेऽपि वक्ष्यमाणस्वरूपभेदैर्गुणप्रधानतापर्यायेण सामाजिकधियि सम्यग्योगं सम्बन्धमैकाग्र्यं वा11ऽ ऽसादितवद्भिरलौकिक- निर्विघ्नसंवेदनात्मकचर्वणागोचरतां नीतोऽर्थश्चर्व्यमाणतैकसारो न तु सिद्धस्वभावः तात्कालिक एव, न तु चर्वणातिरिक्तकालावलम्बी स्थायिविलक्षण एव रसः । न तु यथा शङ्कुकादिभिरभ्यधीयत, “स्थाय्येव विभावादिप्रत्याय्यो रस्यमानत्वाद्रस उत्यते ।” इति । एवं हि लोकेऽपि12 किं न रसः । असतोऽपि हि यत्र रसनीयता स्यात्तत्र वस्तुसतः कथं न भविष्यति? तेन स्थायिप्रतीतिरनुमितिरूपा 13वाच्या । 14न रसः । अत एव सूत्रे मुनिना15 स्थायिग्रहणं न कृतम् । तत्प्रत्युत शल्यभूतं स्यात् । केवलमौचित्यादेवमुच्यते स्थायी रसीभूत इति । औचित्यं16 तु तत्स्थायिगतत्वेन कारणादितया प्रसिद्धानामधुना चर्वणोपयोगितया विभावादित्वावलम्बनात् ।

तथा हि लौकिकचित्तवृत्त्यनुमाने का रसता? तेनालौकिकचमत्कारात्मा रसास्वादः स्मृत्यनुमानलौकिक17संवेदनविलक्षण एव ।

तथाहि–लोकिकेनानुमानेन संस्कृतः प्रमदादि न ताटस्थ्येन प्रतिपद्यते । अपि तु हृदयसंवादात्मकसहृदयत्वबलात्पूर्णीभविष्यद्रसास्वादाङ्कुरीभावेनानुमानस्मृत्यादिसोपान- मनारुह्यैव18 तन्मयीभावोचितचर्वणाप्राणतया । न च सा चर्वणा प्राङ्मानान्तरात् (जाता)19

(व्या) 1.KA.

येनाधुना स्मृतिः स्यात् । न चात्र लौकिकप्रत्यक्षादिप्रमाणव्यापारः । किन्त्वलौकिकविभावादिसंयोग1बलोपनतैवेयं चर्वणा । सा च प्रत्यक्षानुमाना- गमोपमानादिलौकिकप्रमाणजनितरत्याद्यवबोधतः तथा योगिप्रत्यक्षजनितट2- स्थपरसंवित्तिज्ञानात्सकलवैषयिकोपरागशून्यशुद्धपरयोगिगतस्वानन्दैकघ3नानुभवाच्च विशिष्यते । 4एतेषां यथायोगमर्जनादिविघ्नान्तरोदयात्ताटस्थ्यहेतुकेनास्फुटत्वेन5 विषयावेश6वैवश्येन7 च8 सौन्दर्यविरहात् । अत्र तु स्वात्मैकगतत्वनियमासंभवात् न विषया9-वेशवैवश्यम्, स्वानुप्रवेशात्परगतत्वनियमाभावात् न ताटस्थ्य(हेतुका) स्फुटत्वं10 तद्विभावादिसाधारण्यवशसंप्रबुद्धोचितनिजरत्यादिवासनावेशवशाच्च न विघ्नान्तरादीनां सम्भव इत्यवोचाम बहुशः । अत एव विभावादयो न निष्पत्तिहेतवो रसस्य, तद्बोधापगमेऽपि रससंभवप्रसङ्गात् । नापि ज्ञप्तिहेतवः येन प्रमाणमध्ये पतेयुः । सिद्धस्य कस्यचित्प्रमेयभूतस्य रसस्याभावात् । तर्हि किमतद्वि11भावादय इति । अलौकिक एवायं चर्वणोपयोगी विभावादिव्यवहारः । क्वान्यत्रेत्थं दृष्टमिति चेद्भूषणमेतदस्माकमलौकिकत्वसिद्धौ । पानकरसास्वादोऽपि किं गुडमरीचादिषु दृष्ट इति समानमेतत् ।

नन्वेवं रसोऽप्रमेयः स्यात्12 । एवं13 युक्तं भवितुमर्हति- रस्यतैकप्राणो ह्यसौ न प्रमेयादिस्वभावः । तर्हि सूत्रे निष्पत्तिरिति कथम्? नेयं रसस्य, अपि तु तद्विषयरसनायाः । तन्निष्पत्त्या तु यदि तदेकायत्तजीवितस्य रसस्य निष्पत्तिरुच्यते तन्न14 कश्चिदत्र दोषः । सा च रसना न प्रमाणव्यापारो न कारकव्यापारः । स्वयं तु नाप्रामाणिकी । स्वसंवेदनसिद्धत्वात् । रसना च बोधरूपैव; किन्तु बोधान्तरेभ्यो लौकिकेभ्यो विलक्षणैव, उपायानां विभावादीनां लौकिकवैलक्षण्यात् । तेन विभावादिसंयोगाद्रसना यतो निष्पद्यतेऽतस्तथाविधरसनागोचरो लोकोत्तरोऽ र्थो रस इति तात्पर्यं सूत्रस्य ।

अयमत्र संक्षेपः । 15मुकुटप्रतिशीर्षकादिना तावन्नटबुद्धिराच्छाद्यते । गाढप्राक्तन- संवित्संस्काराच्च काव्यबलानीयमानापि न तत्र रामधीर्विश्राम्यति । 16अत एवोभयदेशकालत्यागः । रोमाञ्चादयश्च भूयसा रतिप्रतीतिकारितया दृष्टास्तत्रापि लोकिका (17त्रावलोकिता) देशकालानियमेन 18तत्र रतिं गमयन्ति । यस्यां स्वात्माऽपि तद्वासनावत्त्वादनुप्रविष्टः । अत एव न तटस्थतया रत्यवगमः । न च नियतकारणतया, येनार्जनाभिषङ्गादि19सम्भावना । न च नियतपरात्मैकगततया । येन दुःखद्वेषाद्युदयः ।

(व्या)

तेन साधारणीभूता सन्तानवृत्तेरेकस्या एव वा संविदो गोचरी1भूता रतिः शृङ्गारः । साधारणी भावना च विभावादिभिरिति । तत्र विभावप्राधान्यस्य धामणिमया (प्राधान्येन साधारणीभावो यथा–)

" केलीकन्दलितस्य विभ्रममधो(:)धुर्यं वपुस्ते दृशो- र्भङ्गी भङ्गुरकामकार्मुकमिदं भ्रूर्नर्मकर्मक्रमः ।
आपाते(घ्रातो)ऽपि विकारकारणमहो वक्त्राम्बुजन्माऽ ऽसवः सत्यं सुन्दरि वेध2सस्त्रिजगतीसारं3 त्वमेका कृतिः ।।”

अत्र च विभावकृतं तत्सौन्दर्यं प्राधान्येन भाति । तदनुगतत्वेन केलीविभ्रमभङ्गुरनर्मादिपद4महिम्ना चानुभाववर्गो भङ्गीक्रमविकारादिशब्दबलाच्च व्यभिचारिवर्गः प्रतिभातीत्यत एव नास्फुटत्वाशङ्काऽत्र रत्यास्वादमये शृङ्गारे विधेया ।

अनुभावप्राधान्यं यथा-शुद्धसारस्वतप्रवाहपवित्रसकलवाङ्मयमहार्णवपूर्णभाव- संपादन5द्विजराजस्येन्दुराजस्य

" यद्विश्रम्य विलोकितेषु बहुशो निस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् ।
दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ।।”

अत्र विश्रम्येति बहुश इति प्रतिदिनमिति च पदसमर्पितो(ऽभिलाषचिन्तौत्सुक्य- निद्राधृतिग्लान्यालस्यश्रमस्मृतिवितर्कादि)6 व्यभिचारिगणः7 कृष्णइति8 पदार्पितश्च विभावो गुणत्वेन प्रतिभासते । विश्रान्तिलक्षणस्तम्भविलोकनवैचित्र्यगात्रतानवतारतम्यपुलक- वैवर्ण्यप्रभृतिस्त्वनुभावसञ्चयः प्रधानतया (प्रतिभासते)। व्यभिचारिणां तु प्राधान्यं तद्विभावानुभावप्राधान्यकृतम् । तत्राद्यम् । यथा–

“आत्तमात्तमधिकान्तमुक्षितुं9 कातरा शफरशङ्किनी जहौ ।
अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् ।।”

इत्यत्र सुकुमारमुग्ध10प्रमदाजनभूषणभूतस्य व्यभिचारिवर्गस्य वितर्कत्रासशङ्कादेः प्राधान्यं तद्विभावानां सौन्दर्यातिशयकृतां11 प्राधान्यात् । आत्तमित्याद्यर्पितानुभाववर्गस्तु तदनुयायी ।

(व्या) 1.KA. /?/गोचर/?/ RK

विश्वास-प्रस्तुतिः

को दृष्टान्तः। अत्राह–
यथा हि नाना-व्यञ्जनौषधि-द्रव्य-संयोगाद् रस-निष्पत्तिः,
तथा नाना-भावोपगमाद् रस-निष्पत्तिः।

यथा हि–
गुडादिभिर् द्रव्यैर् व्यञ्जनैर् औषधिभिश् च
स्वाद्वादयो रसा निर्वर्त्यन्ते,
तथा नाना-भावोपगता अपि स्थायिनो भावा रसत्वम् आप्नुवन्तीति।

English

Is there any instance [parallel to it]? [Yes], it is said that,
as taste (rasa) results from a combination of various spices, vegetables and other articles, and as six tastes are produced by articles such as, raw sugar or spices or vegetables,
so the Durable Psychological States (sthāyibhāva), when they come together with various other Psychological States, attain the quality of a Sentiment (i.e. become Sentiment).

मूलम्

को दृष्टान्तः1 । अत्राह–यथा हि नानाव्यञ्जनौषधिद्रव्यसंयोगा-
द्रसनिष्पत्तिः2 तथा नानाभावोपगमाद्रसनिष्पत्तिः। यथा हि–
गुडादिभिर्द्रव्यैर्व्यञ्जनैरौषधिभिश्च षाडवादयो3 रसा निर्वर्त्यन्ते तथा
1नानाभावोपगता2 अपि स्थायिनो भावा रसत्वमाप्नुव3न्तीति।

Abh

एवं द्वयप्राधान्ये सर्वप्राधान्ये च1 चोदाहार्यम् । किन्तु समप्राधान्य एव रसास्वादस्योत्कर्षः। तच्च प्रबन्ध एव भवति । वस्तुतस्तु दशरूपक एव । यदाह वामनः- " सन्दर्भेषु दशरूपकं श्रेयः। तद्विचित्रं चित्रपटवद्विशेषसाकल्यात्" (काव्यालं- सू. १.३.३०-३१) इति । तद्रूपसमर्पणया2 तु प्रबन्धे भाषावेषप्रवृत्त्यौचित्यादिकल्पनात्। तदुपजीवनेन मुक्तके । तथा च तत्र सहृदयाः पूर्वापरमुचितं परिकल्प्य ईदृगत्र वक्ताऽस्मिन्नवसरे इत्यादि बहुतरं पीठबन्धरूपं विदधते । तेन ये काव्याभ्यासप्राक्तनपुण्यादिहेतुबलादिति(भिः) सहृदयास्तेषां परिमितविभावाद्युन्मीलनेऽपि परिस्फुट एव साक्षात्कारकल्पः काव्यार्थः स्फुरति । अत एव तेषां काव्यमेव 3प्रीतिव्युत्पत्तिकृदनपेक्षितनाट्यमपि । तेषामपि तु नाट्यं " निपतिताः स्फुरिताः शशिरश्मयः" इति न्यायेन सुतरां निर्मलीकरणम् । अहृदयानां च तदेव नैर्मल्याधायि। यत्र पति(प्रती)ता गीतवाद्यगणिकादयो न व्यसनितायै पर्यवस्यन्ति नाट्योपलक्षणात्4। तत्र च नटो ध्यायिनामिवेदं ध्यानपदम्5 । न हि तत्रायमेव सिन्दूरादिमयो वासुदेवः स्मरणीय इति प्रतिपत्तिः। अपि तु तदुपायद्वारेणातिस्फुटीभूतसङ्कल्पगोचरो देवताविशेषो ध्यायिनां फलकृत् । तद्वन्नटप्रक्रिया6द्वारोदितातिस्फुटाध्यवसायविषयीकृतो नियतदेशकालाद्यस्पृष्टो ‘अत इदं फलम् ’ इति विधिस्थानीयोऽर्थो व्युत्पत्तिं वितरति। युते (यत्र) दृश्या(दृश्येऽ)न्यनियमादौ चित्तवृत्त्यादौ वा न बाधकोदयः सम्यग्ज्ञानभूतं ह्येवेदं पूर्णम् । तेन राम इत्येव प्रतीतिर्न त्वयं (यं न) रामोऽन्योऽयमिति। स्फुटीकरिष्यते चैतदग्रतः।

तंत्रालौकिकोऽयमर्थो न दृष्टान्तमन्तरेण हृदयङ्गमो भवेदित्याशयेनाह-को दृष्टान्त इति । बहूनां संयोगादपूर्वो रस उत्पद्यमानः क्व दृष्ट इत्यर्थः।

Notes

(मू.)

विश्वास-प्रस्तुतिः

अत्राह– रस इति कः पदार्थः?
उच्यते– आस्वाद्यत्वात्।

कथमास्वाद्यते रसः?
यथा हि नाना-व्यञ्जन-संस्कृतम् अन्नं भुञ्जाना रसान् आस्वादयन्ति
सुमनसः पुरुषा हर्षादींश् चाधिगच्छान्ति
तथा नाना-भावाभिनय-व्यञ्जितान् वाग्-अङ्ग-सत्त्वोपेतान् स्थायि-भावान् आस्वादयन्ति
सुमनसः प्रेक्षकाः हर्षादींश् चाधिगच्छन्ति ।

“तस्मान् नाट्य-रसा” इत्य् अभिव्याख्याताः +++(अग्रे)+++।

English

Now one enquires, “What is the meaning of the word rasa”?
It is said in reply [that, rasa is so called] because it is capable of being tasted (āsvādyate).

How is rasa tasted?
[In reply] it is said that just as well-disposed persons while eating food cooked with many kinds of spice, enjoy (āsvādayanti) its tastes, and attain pleasure and satisfaction,
so the cultured people taste the Durable Psychological States while they see them represented by an expression of the various Psychological States with Words, Gestures and the Sattva, and derive pleasure and satisfaction.
Thus is explained [the Memorial Verse ending with] tasmān nāṭyarasā iti.28

मूलम्

4अत्राह–रस इति कः पदार्थः। 5उच्यते–आस्वाद्यत्वात्। कथमा-
स्वाद्यते6 रसः। यथा हि नानाव्यञ्जनसंस्कृतमन्नं भुञ्जाना रसानास्वाद-
यन्ति सुमनसः पुरुषा हर्षा7दींश्चाधिगच्छान्ति तथा ना8नाभावाभिनयव्यञ्जितान् वागङ्गसत्त्वोपेतान् स्थायिभावानास्वादयन्ति सुमनसः
प्रेक्षकाः1 हर्षादींश्चाधिगच्छन्ति ।
तस्मान्नाट्यरसा 2इत्यभिव्याख्याताः।

Abh

अत्र प्रश्ने भाष्येण प्रतिवचनमाह-यथेत्यादिना आप्नुवन्तीत्यन्तेन । व्यञ्जनमुपसेचनद्रव्यम् । तच्च नानान्तप्रम(नानातिक्तम) धुरचु1क्रादिभेदा- दधिकाञ्जिकादि । ओषधयश्चिञ्चागोधूमदलहरिद्रादयः।द्रव्यं गुडादि। एषां पाकक्रमेण सम्यग्योजनारूपात्कुशलसम्पाद्यात्संयोगात् । षाडवादय इति लोकप्रसिद्धेभ्यः परस्परविविक्तेभ्यो मधुरतिक्ताम्ललवणकटुकषायेभ्यो मिश्रेभ्यश्च विलक्षणः षाडवशब्दवाच्यः। तत्प्रधाना बहुतरा रसनयोग्याः क्रियन्ते । तथैव नानाभूतैर्विभावादिभिरुप समीपं प्रत्यक्षकल्पतां गता लोकापेक्षया ये स्थायिनो भावास्ते रस्यमानतैकजीविनं2 रसत्वं तत्र प्रतिपद्यन्ते।

एतदुक्तं भवति–पाकरूपया सम्यग्योजनया तावदलौकिको रसो जायते । तत्र च प्रधानत्वेन जलस्य रसाभिव्यञ्जकत्वमिति व्यञ्जनं विभावस्थानीयम् । चिञ्चाहरिद्राद्यनुभावप्रायम् । द्रव्याणि तु गुडा(दीनि) तदीयचुक्रादिरसविलक्षण- मधुरादियोगद्व्यभिचारिकल्पम् । स्वात्मनि तदुपजीवनेन च परत्र च स्वरससङ्क्रमणया वैचित्र्याधायकत्वात् । अत्र तु स्थायिकल्पस्तन्मिश्रणासमयभावी रसविशेषो विभावकल्पव्यञ्जनजनितो मन्तव्यः। स हि लौकिकः। अयन्तु कुशलैकनिर्वर्त्यस्तद्विदां रसनीयो भवति । तेनाद(दनीय)स्येत्यध्याहारो न युक्तः। यथा हि दार्ष्टान्तिकसूत्रे स्थायिग्रहणं शल्यकल्पमिति त्रयमेवोपात्तं तथा दृष्टान्तेऽपि त्रयस्यैवोपादानं युक्तम्।

एवं सूत्रं व्याख्याय लक्षणपदं परीक्षितुमाक्षिपति–रस इति क इत्यादिना । मधुरादौ पारदे विषे सारे जलसंस्कारेऽभिनिवेशे क्वाथे देहधातोर्नि(तौ नि)र्यासे वाऽयं प्रसिद्धो न त्वन्यत्र । तेन रस इति पदस्य शृङ्गारादिषु प्रवर्तितस्य कोऽर्थः। कि3 प्रवृत्तिनिमित्तं कथ्यते स्वाभिधेयनियमाय शब्देन यदि वा तत्प्रयोक्तृप्रतिपत्तृभिरिति। अर्थः

Notes

(मू)

Abh

प्रवृत्तिनिमित्तम् । अत्रोत्तरम् । आस्वाद्यत्वात् । प्रवृत्तिहेतोर्यतः प्रश्नस्तेनोत्तरं हेतुविभक्त्यैव दत्तम् । तेन क्रिया प्रवृत्तिनिमित्तमस्येत्युक्तं भवति।

यस्तु भङ्क्त्वा व्याचष्टे -रस इति योऽयं (कोऽयं) शब्दः। तत्रोत्तरम् । पदार्थःउच्यत इति । तस्यानेनेत्यध्याहारं विना प्रकृतपदार्थवाचकोऽयं शब्द इति (न)तात्पर्यकल्पनं विना नातीव सङ्गतमुत्तरम् । प्रश्नमन्तरेण चास्वाद्यत्वादित्यल्प- पदप्रायमित्यास्तामेतत् ।

अथ प्रवृत्तिनिमित्तं व्याक्षिपति-कथमास्वाद्यत इति । आस्वादनं हि रसनेन्द्रिय- जज्ञानं प्रसिद्धमिति भावः। अत्रोपचरितक्रियाश्रयेणोत्तरमाह-यथा नानेत्यादिना। यथातथाशब्दाभ्यां सादृश्यमत्रोपचारे निमित्तमिति दर्शयति । तत्र भोग्यस्य भोक्तुः फलस्य च साम्यं दर्शयति । यथा हि व्यञ्जनसंस्कृतेऽन्ने आस्वाद्यता । एकाग्रमनसि च भोक्तर्या स्वादयितृता । अन्यचित्तस्य भुञ्जानस्याप्यास्वादाभिमानाभावात् । प्रहर्ष1(प्यायजीवन)पुष्टिबलारोग्याणां चास्वादफलता । तथाभिनयव्यञ्जिते2 स्थायिशब्दव्यपदेश्ये रसे आस्वाद्यता । 3एकाग्रमनसि च सामाजिके तन्मयीभूत आस्वादयितृता। हर्षप्रधानानां धर्मादिव्युत्पत्तिवैदग्ध्यादीनामास्वादफलत्वमिति कर्मकर्तृफलसादृश्याद्विभावादिजः प्रतीतिविशेषो रसनाक्रियेति व्यपदिष्ट इति तात्पर्यम्। येन4 सुमनसो भुञ्जाना हर्षादींश्च यान्ति तेन रसानास्वादयन्तीत्यनेन शब्देन5। अभितः सर्वत्र । विशेषेण अन्यभोक्तृविलक्षणतया। समन्तात् । ख्याताः प्रसिद्धाः। यथा चैते तथा प्रेक्षका अपि । तेन तेऽपि स्थायिनः आस्वादयन्तीति आभिमुख्येन सादृश्ये व्याख्याता अस्माभिर्व्यवहृताः। अत्रोपसंहारः। तस्मान्नाट्यरसाः।

अन्ये वादिशब्देन शोकादीनामत्र सङ्ग्रहः । स च न युक्तः । सामाजिकानां हि हर्षैकफलं नाट्यं न शोकादिफलम् । तथात्वे निमित्ताभावात्तत्परिहारप्रसङ्गाच्चेति मन्यमाना हर्षाश्चाधिगच्छन्तीति पठन्ति ।

Notes

(मू)

विश्वास-प्रस्तुतिः

अत्रानुवंश्यौ श्लोकौ भवतः-

English

For in this connexion there are two traditional couplets:

मूलम्

3अत्रानुवंश्यौ श्लोकौ भवतः-

विश्वास-प्रस्तुतिः

यथा बहु-द्रव्य-युतैर्
व्यञ्जनैर् बहुभिर् युतम् ।
आस्वादयन्ति भुञ्जना
भक्तं भक्त-विदो जनाः ।। ३२ ।।

English

Just as connoisseur of cooked food (bhakta) while eating food which has been prepared from various spices and other articles taste it,

मूलम्

यथा बहुद्रव्ययुतै1र्व्यञ्जनैर्बहुभिर्युतम् ।
आस्वादयन्ति भुञ्जना भक्तं2 भक्तविदो जनाः ।। ३२ ।।

विश्वास-प्रस्तुतिः

भावाभिनय-संबद्धान्
स्थायिभावांस् तथा बुधाः ।
आस्वादयन्ति मनसा
तस्मान् नाट्य-रसाः स्मृताः ।। ३३ ।।

English

so the learned people taste in their heart (manas) the Durable Psychological States (such as love, sorrow etc.) when they are represented by an expression of the Psychological States with Gestures. Hence these Durable Psychological States in a drama are called Sentiments.29

मूलम्

भावाभिनयसंबद्धा3न्स्थायिभावांस्तथा बुधाः ।
आस्वादयन्ति मनसा तस्मान्नाट्य4रसाः स्मृताः ।। ३३ ।।

Abh

एवं ग्रन्थयोजनायां स्पष्टयां यत् कैश्चिदत्र चोदितं दृष्टान्ते आत्मा रसना मनश्चेति त्रयम् । प्रकृते तु रसनै1वेति । परिहृतं चात्मन एवात्र स्थानान्तरसङ्क्रान्तस्य मनःस्थानीयता । मनसश्च रसनास्थानीयतेति । तत्सर्व वृथा नाट्यमात्रम् । उपचारबीजस्य सादृश्यस्यात्र प्राधान्येन प्रतिपिपादयिषितत्वादित्यास्ताम् ।

एवं रसत्वं केन तेषामिति यत्प्रश्नितं तत्प्रतिसमाहितम्। अत्रेति भाष्ये । अनुवंशे भवौ शिष्याचार्यपरम्परासु वर्तमानौ श्लोकाख्यौ वृत्तविशेषौ सूत्रार्थसंक्षेपप्रकटीकरणेन कारिकाशब्दवाच्यौ भवतः। तौ पठति-यथेत्यादि । मधुरादिभेदाद्वहूनि द्रव्याणि गुडादीनि। बहुभिरिति दधिकाञ्जिकादिभिः। अनेन विभावभेदं रसभेदे हेतुत्वेन सूचयति। भुञ्जाना आस्वादयन्तीति । रसनाव्यापाराद्भोजनादधिको यो मानसो व्यापारः स एवास्वादनमिति दर्शयति ।

एतदुक्तं भवति-न रसनाव्यापार आस्वादनम् । अपि तु मानस एव । स चात्राविकलोऽस्ति । केवलं लोके रसनाव्यापारानन्तरभावी स प्रसिद्ध इत्युपचार इह दर्शित इति। (2शुद्धतत्स्वरूपज्ञानस्वभावा) अत्र भावा विभावव्यभिचारिणः। आभिनया अनुभावा एव। इयं(दं)3 पृथग्वचनं प्राधान्यात् । तैर्ये4 सम्यग्बद्धा हृदयसंवादक्रमेण तन्मयीभावापन्नप्रमातृभूम्यभेदमुपसम्प्राप्ता अचिन्त्याः स्थायिनः तान्5 समन्तात्साधारणीभावेन निर्विघ्नप्रतिपत्तिवशात् । मनसा इन्द्रियान्तरविघ्नसंभावनाशून्येन स्वादयन्ति स्वपरविवेकशून्यस्वादचमत्कारपरवशतया लौकिकात्प्रत्ययादु- पार्जनादिविघ्नबहुलाद्योगिप्रत्ययाच्च विषयास्वादशून्यतापरुषाद्विलक्षणाकारसुखदुः- खादिविचित्रवासनानुवेधोपनतह्यद्यतातिशयसंविच्चर्वणात्मना भुञ्जते । बुधा इति पूर्वो (र्णो)पयोगो लौकिकानां प्रत्यक्षादीनामत्र दर्शितः।

एतदुपसंहरति-तस्मादिति । नाट्यात्समुदायरूपाद्रसाः । यदि वा नाट्यमेव रसाः । रससमुदायो हि नाट्यम्। (न)नाट्य एव च रसाः ।काव्येऽपि नाट्यायमान एव रसः। काव्यार्थविषये हि प्रत्यक्षकल्पसंवेदनोदये रसोदय इत्युपाध्यायाः

(मू)

यदाहुः काव्यकौतुके-

" प्रयोगत्वमनापन्ने काव्ये नास्वादसम्भवः।" इति ।
" वर्णनोत्कलिताभोगप्रौढोक्त्या सम्यगर्पिताः।
उद्यानकान्ताचन्द्राद्या भावाः प्रत्यक्षवत्स्फुटाः।।"
इति ।।

अन्ये तु काव्येऽपि गुणालङ्कारसौन्दर्यातिशयकृतं रसचर्वणमाहुः। वयं तु ब्रूमः-काव्यं तावन्मुख्यतो दशरुपकात्मकमेव । तत्र ह्युचितैर्भाषावृत्तिकाकुनैपथ्यप्रभृतिभिः पूर्यते रसवत्ता । सर्गबन्धादौ हि नायिकाया अपि संस्कृतैवोक्तिरित्यादि बहुतरमनुचितं केवलं शक्तिरहितत्वाद्व्यावर्ण्यते । तावतीव ह्यद्यमिति न्यायेनानौचित्यं न प्रतिहारि (न प्रतिभाति1)। तत एवोच्यते ‘सन्दर्भेषु दशरूपकम् (वामन.का.) इति । तेन तदंश- (दङ्ग)सन्ध्यादिसङ्घटनमुद्धृत्य सर्गबन्धादि यावन्मुक्तं(वतकम्)। यत्तु दशरूपकं तस्य योऽर्थस्तदेव नाट्यम् । यद्वक्ष्यते ‘नाट्यस्यैषा तनूः’(ना. शा. १४.२) इति तस्य हृदयसंवादतारतम्यापेक्षया श्रोतृप्रतिपत्तृस्फुरणं स्फुटास्फुटत्वेनातिविचित्रम् । तत्र ये स्वभावतो निर्मलमुकुरहृदयास्तत2 एव संसारोचितक्रोधमोहाभिलाषपरवशमनसो न भवन्ति तेषां तथाविधदशरूपकाकर्णनसमये साधारणरसनात्मकचर्वणग्राह्यो रससञ्चयो नाट्यलक्षणः स्फुट एव । ये त्वतथाभूतास्तेषां प्रत्यक्षोचिततथाविधचर्वणालाभाय नटादिप्रक्रिया । स्वगतक्रोधशोकादिसङ्कटहृदयग्रन्थिभञ्जनाय गीतादिप्रक्रिया च मुनिना विरचिता । सर्वानुग्राहकं हि शास्त्रमिति न्यायात् । तेन नाट्य एव रसा न लोक इत्यर्थः। काव्यञ्च नाट्यमेव ।

अत एव च नटे न रसः। कुत्र तर्हि । विस्मृतिशीलो न3 बोध्यते । उक्तं हि देशकालप्रमातृभेदानियन्त्रितो रस इति केयमाशङ्का । नटे तर्हि किम् ।आस्वादनो- पायः । अत एव च पात्रमित्युच्यते । न हि पात्रे मद्यास्वादः । अपि तु तदुपायकः। तेन प्रमुखमात्रे नटोपयोग इत्यलम् ।

चित्रपुस्ताद्यपि च नाट्यस्यैवार्थभागाभिष्यन्दो यथा सर्गबन्धादि शब्दभागाभिष्यन्दः। एतच्च ’ योऽर्थो हृदयसंवादी । ’ (ना.शा. ७.१०) इत्यत्र वितत्य वक्ष्यामः।

अन्ये त्वभिनयादिसामग्रीमयं बहिर्दृश्यमानं नाट्यं नटधर्मः कर्म रूपमित्याशयेन नाट्याद्रसा इत्याहुः। स्मृता इति सम्प्रदायाविच्छेदं दर्शयति । ये तु रत्याद्यनुकरणरूपं रसमाहुः अथ चोदयन्ति शोकः कथं सुखहेतुरिति । परिहरन्ति च अस्ति कोऽपि नाट्यगतानां विशेष इति । तत्र चोद्यं तावदसत् । शोको हि प्रतीयमानः किं स्वात्मनि प्रत्येतुर्दुःखं वितनोतीति नियमः। शत्रुदुःखे प्रहर्षात् । अन्यत्र च मध्यस्थत्वात्। उत्तरं तु भावना वस्तु स्वभावमात्रेणे(तत्रे)ति न किञ्चिदत्र तत्त्वम् ।

(व्या)

रसभावसम्बन्धः

विश्वास-प्रस्तुतिः

अत्राह–किं रसेभ्यो भावानाम् अभिनिर्-वृत्तिर् - उताहो भावेभ्यो रसनाम् इति ।
केषाञ्चिन् मतं परस्पर-सम्बन्धाद् एषाम् अभिनिर्वृत्तिर् इति ।
तन् न। कस्मात् +++(इति चेत् )+++-
दृश्यते हि भावेभ्यो रसानाम् अभिनिर्वृत्तिर्, न तु रसेभ्यो भावानाम् अभिनिर्वृत्तिर् इति ।

English

Now one enquires, “Do the Psychological States come out of the Sentiments or the Sentiments come out of the Psychological States?” On this point, some are of opinion that they arise from their mutual contact. But this is not so. Why?

It is apparent that the Sentiments arise from the Psychological States and not the Psychological States from the Sentiments.

मूलम्

अत्राह–किं रसेभ्यो भावानामभिनिर्वृत्तिरुताहो भावेभ्यो रसनामिति1 ।
केषाञ्चिन्मतं परस्परसम्बन्धादेषामभिनिर्वृत्तिरिति । त2न्न।
कस्मात् । दृश्यते हि भावेभ्यो रसानामभिनिर्वृत्तिर्न तु रसेभ्यो3
भावानामभिनिर्वृत्तिरिति ।

अस्मन्मते संवेदनमेवानन्दनघनमास्वाद्यते । तत्र का दुःखाशङ्का । केवलं तस्यैव चित्रताकरणे रतिशोकादिवासनाव्यापारः। तदुद्बोधने चाभिनायादिव्यापारः। (३३)

यदेतदुक्तं रसतत्त्वं तदेवो1पशोधयितुमुपक्रमते-अत्राहेत्यादिना चोद्यमुखेन। नर्तकगतेभ्यो रसेभ्यो भावाः सामाजिके2 । यथा करुणाच्छोकः। ततो विभावाद्युपचितसामाजिके करुण इति रसाद्भावो भावाद्रस इति सन्देहः। अत एव परस्परमपि3 जन्म कालभेदेनेति तृतीयः पक्षः । यदि वा नट एव राम एव वा4 पूर्व भावः, तत उपचये रसः। ततो5प्यपचये भाव इत्येवं पक्षत्रयोत्थानम् । इदं चासत्। एवम्भूतस्य रसस्वरूपस्य निराकृतत्वात् ।

श्रीशङ्कुकस्त्वाह–अनुकर्तरि रसानास्वादय6तोऽनुकार्ये भावप्रतीतिः प्रयोगे। लोके प्रकृति(तिः)रसं निष्पादयतीति । द्वितीयपक्षो नाट्याचार्याभिप्रेतशिक्षानुसारेण। अत एव च तृतीयोऽपि 7संभवतीति। एतदप्यसत् । न हि सामाजिकोऽनुकार्यानुकर्तृविभागमवैति। दूषितः स्वा(दूषितश्चा)नुकरणवादः।

तस्मादित्थमेतत्–किं रसेभ्यो भावा, उत विपर्ययः, आहो अन्योन्यजनकतेति त्रयः प्रश्नाः। आहोशब्दो भिन्नक्रमः। विभावादिभ्यस्तावद्रसनिष्पत्तिरुक्ता । स एव द्वितीयः पक्षोऽभ्युपगतपूर्वमे (गतः पूर्वम् । ए) तच्च कथम् ? न हि लोके विभावानुभावादयः केचन भवन्ति । हेतुकार्यावस्थामात्रत्वाल्लोके तेषाम् । अथ त एव रसनोपयोगित्वे विभावादिरूपतां प्रतिपद्यते । तर्हि रसप्रसादाद्धावा विभावादयः। अथोच्यते विभावादिप्रसादाद्रसो यथोक्तं प्राक् । रसप्रसादाच्च विभावादिरूपत्वम्। तर्हि परस्पराश्रयत्वम् । ‘इतरेतराश्रयाणि च (कार्याणि) न प्रकल्पन्त’ (महाभाष्ये I i.3) इत्याक्षेपः।

अत्र सिद्धान्तमाह–दृश्यते हीति । प्रमदादयः प्रतीताः सन्तो रसास्वादं विदधते यथोक्तं प्राक् । अतो न रसेभ्यो भावाः । भावशब्दार्थपर्यालोचनया चैतदेवोपपन्नमिति

Notes

(मू)

विश्वास-प्रस्तुतिः

भवन्ति चात्र श्लोकाः-

मूलम्

भवन्ति4 चात्र श्लोकाः-

English

For [on this point] there are [traditional] couplets such as:

विश्वास-प्रस्तुतिः

नानाभिनय-सम्बद्धान्
भावयन्ति रसान् इमान् ।
यस्मात् तस्माद् अमी भावा
विज्ञेया नाट्य-योक्तृभिः ।। ३४ ।।

English

The Psychological States are so called by experts it drama, for they make one feel (bhāvayanti) the Sentiments in connexion with various modes of dramatic representation.

मूलम्

नानाभिनयसम्बद्धा1न्भावयन्ति रसानिमान् ।
यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ।। ३४ ।।

विश्वास-प्रस्तुतिः

नाना-द्रव्यैर् बहु-विधैर्
व्यञ्जनं भाव्यते यथा ।
एवं भावा भावयन्ति
रसान् अभिनयैः सह ।। ३५ ।।

English

Just as by many articles of various kinds, auxiliary cooked eatable (vyañjana)30 is brought forth, so the Psychological States along with different kinds of Histrionic Representation will cause the Sentiments to be felt.

मूलम्

नानाद्रव्यैर्बहुविधैर्व्यञ्जनं भाव्यते यथा ।
एवं भावा भावयन्ति रसानभिनयैः सह ।। ३५ ।।

विश्वास-प्रस्तुतिः

न भाव-हीनो ऽस्ति रसो
न भावो रसवर्जितः ।
परस्पर-कृता सिद्धिस्
तयोर् अभिनये भवेत् ।। ३६ ।।

English

36. There can be no Sentiment prior to (lit. without) the Psychological States, and no Psychological States without the Sentiments [following it], and during the Histrionic Representation they result from their interaction.

मूलम्

न भावहीनोऽस्ति रसो 2न भावो रसवर्जितः ।
परस्परकृता सिद्धिस्तयोरभि3नये भवेत् ।। ३६ ।।

विश्वास-प्रस्तुतिः

व्यञ्जनौषधि-संयोगो
यथा ऽन्नं स्वादुतां नयेत् ।
एवं भावा रसाश् चैव
भावयन्ति परस्परम् ।। ३७ ।।

English

37. Just as a combination of auxiliary cooked eatables (vyañjana) and rice, imparts good taste to the food [in totality], so the Psychological States and the Sentiments cause one another to manifest themselves (bhāvayanti).

मूलम्

व्यञ्जनौषधिसंयोगो यथाऽन्नं 4स्वादुतां नयेत् ।
एवं भावा रसाश्चैव भावयन्ति परस्परम्5 ।। ३७ ।।

Abh

श्लोकनाह-नानाभिनयैः सम्यग्बद्धा1न् हृदयं गतान् भावयन्ति सम्पादयन्ति रसांस्तस्माद्भावाः। (३४)

नन्वेतद्भावशब्दप्रवृत्तिनिमित्तम् । न तत्प्रकृतं किञ्चिदुक्तमित्याशङ्क्य प्रकृते योजयितुमाह-नानाद्रव्यैरिति । व्यज्यत इति व्यञ्जनञ्चानुपानादि रसोऽत्राभिप्रेतः। बहुविधैरिति व्यञ्जनस्योपलक्षणम् । अभिनयौरित्यस्य वा विशेषणम् ।

एवं स्थितपक्षमुपसंहरति-न भावहीनोऽस्ति रस इति । अत्र चोद्यवादी स्वाशयमुन्मीलयति-न भावो रसवर्जित इति । लोके हि न कश्चिद्विभावादिव्यवहार इति भावः । अथोत्तरमाह-परस्परकृता सिद्धिस्तयोरभिनये भवेत् । अभिनये साक्षात्कारे संपन्ने तदुपयोगितया विभावादिव्यपदेश इत्यतो या परस्परकृता सिद्धिः सा (भद्रं) 2भवेदिति संभाव्यते । एवम्भूतमितरेतराश्रयजं न दूषणामित्यर्थः।

अत्रैव दृष्टान्तमाह–व्यञ्जनौषधिसंयोग इति । व्यञ्जनौषधिसंयोगोऽन्नं च कर्तृ यथा परस्परमन्योन्यं कर्मभूतं स्वादुतां नयेत् तथा भावा रसाश्चान्योन्यं भावयन्ति। भावा रसान्भावयन्ति निष्पादयन्ति । रसास्तु भावान् भवयन्ति । भावान्कुर्वन्ति । (वि)भावा3दिव्यपदेश्यान्कुर्वन्तीत्यर्थः।

एतदुक्तं भवति-एकत्रैकदा क्रियायामन्योन्याश्रयत्वं दोषो न तु क्रियाभेदे । यथा व्यञ्जनादिसंयोगेनान्नस्याह्लादि4रसवत्ता क्रियते । अन्नेन 5वाश्रयरूपेण सता व्यञ्जनसुख- 6भोग्यता कियते । एवं भावै रस्यमानता । रसैश्च विभावादिव्यपदेश्यता

Notes

(मू)

(व्या)

विश्वास-प्रस्तुतिः

यथा बीजाद् भवेद् वृक्षो
वृक्षात् पुष्पं फलं यथा ।
तथा मूलं रसाः सर्वे
तेभ्यो भावा व्यवस्थिताः ।। ३८ ।।

English

38. Just as a tree grows from a seed, and flowers and fruits from a tree, to the Sentiments are the source (lit. root) of all the Psychological States, and likewise the Psychological States exist [as the source of all the Sentiments],

मूलम्

यथा बीजाद्भवेद्वृक्षो वृक्षात्1पुष्पं फलं यथा ।
तथा मूलं रसाः सर्वे तेभ्यो2 भावा व्यवस्थिताः3 ।। ३८ ।।

रसविवृद्धिः

विश्वास-प्रस्तुतिः

तद् एषां रसानाम् उत्पत्ति-वर्ण-दैवत-निदर्शनान्य् अभिव्याख्यास्यामः।

मूलम्

4तदेषां रसानामुत्पत्तिवर्णदैव5तनिदर्शनान्यभिव्याख्यास्यामः।

Abh

कारणादीनाम् । यथा पदापेक्षया तन्तवः पटकारणमिति व्यपदेश्याः। तन्त्वपेक्षया पटः कार्यः। न चेत(रेत)राश्रयं(यत्वं) तथा प्रकृतेऽपीति । (३७)

ननु यदि भावेभ्यो रसास्तर्हि कथमुक्तं ’ न हि रसादृते कश्चिदप्यर्थः प्रवर्तते इति । तेन पूर्व न एवोद्देश्याः’ इत्याशंक्याह-यथेत्यादिना । बीजं यथा वृक्षमूलत्वेन स्थितं तथा रसाः। तन्मूलादि(हि) प्रीतिपूर्विका व्युत्पत्तिरिति ततरे(त एव) च 1व्याख्यानार्हात् कविगतसाधारणीभूतसंविन्मूलश्च काव्यपुरस्सरो नटव्यापारः। सैव च संवित्परमार्थतो रसः। सामाजिकस्य च तत्प्रतीत्या वशीकृतस्य पश्चादपोद्धारबुदध्या विभावादिप्रतीतिरिति प्रयोजने(ज्ये)2 नाट्ये काव्ये सामाजिकधियि च । तदेवं मूलबीजस्थानीयात्क (यः क) विगतो रसः कविर्हि सामाजिकतुल्य एव । तत एवोक्तं “शृङ्गारी चेत्कविः। " (ध्वन्यालो. ३-४२) इत्याद्यानन्दवर्धनाचार्येण । ततो वृक्षस्थानीयं काव्यम् । तत्र पुष्पादिस्थानीयोऽभिनयादिनटव्यापारः। तत्र फलस्थानीयः सामाजिकरसास्वादः । तेन रसमयमेव विश्वम् ।

अत्र च विज्ञानवादो द्विधाभिधानं (3स्फोटतत्त्वं) सत्कार्यवाद एकत्वदर्शनमित्यादि च द्रष्टव्यम् (इति केचित्)4। वयं तु प्रकृतानुपयोगिश्रुतलवसन्दर्शनमिथ्याप्रयाससंश्रयम- शिक्षितपू्र्विण इत्यास्ताम् ।

अन्ये तु बीजादिव भावाद्रसवृक्षस्ततोऽप्यभिनयकुसुमसुन्दरात्फलमिव भावः प्रतीत्या भुज्यत इति व्याचक्षते । तैः प्रकृतविरुद्धं सर्व व्याख्यातम् । एवं हि भावस्यैवोपक्रमपर्यवसानवर्तित्वमुक्तं स्यादित्यास्तां चैतत् । एवं त्रयोऽपि पक्षाः कथञ्चिदुपगता अभिप्रायवैचित्र्येणेति तात्पर्यम् ।

एवमुद्दिष्टानां विभक्तानां च रसानां सामान्यलक्षणं परीक्षापरिशुद्धमभिधाय तदनुवादपूर्वकं विशेषलक्षणं वक्तुं पीठबन्धं दर्शयति–तदेषामित्यादिना । यतः सामान्यलक्षणमेतेषां कृतं तस्माद्विशेषलक्षणांशपूरकाण्युत्पत्त्यादीनि व्याख्यास्यामः। तत्रोऽत्पत्तिरुत्पादकानामुत्पाद्यानां च विशेषलक्षणम् । अन्योन्यतो व्यवच्छेदात्।

Notes

(मू)

विश्वास-प्रस्तुतिः

तेषाम् उत्पत्तिहेतवश् चत्वारो रसाः।
तद्यथा– शृङ्गारो रौद्रौ वीरो बीभत्स इति । +++(5)+++

English

Sources of these [eight] Sentiments are the four [original] Sentiments e.g. Erotic, Furious, Heroic and Odious.31

मूलम्

तेषामुत्पत्तिहेतवश्चत्वारो रसाः। तद्यथा–शृङ्गारो रौद्रौ1 वीरो बीभत्स इति ।

विश्वास-प्रस्तुतिः

अत्र–

शृङ्गाराद् +धि भवेद् +धास्यो
रौद्राच् च करुणो रसः।
वीराच् चैवाद्भुतोत्पत्तिर्
बीभत्साच् च भयानकः ।। ३९ ।।

English

39. The Comic [Sentiment] arises from the Erotic, the Pathetic from the Furious, the Marvellous from the Heroic, and the Terrible from the Odious.

मूलम्

2अत्र–

शृङ्गाराद्धि3 भवेद्धास्यो रौद्राच्च4 करुणो रसः।
वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ।। ३९ ।।

विश्वास-प्रस्तुतिः

शृङ्गारानुकृतिर् या तु
स हास्यस् तु प्रकीर्तितः।
रौद्रस्यैव च यत् कर्म
स ज्ञेयः करुणो रसः ।। ४० ।।+++(5)+++

English

A mimicry of the Erotic [Sentiment] is called the Comic,32 and the result of the Furious Sentiment is the Pathetic

मूलम्

शृङ्गारानुकृतिर्या तु स 5हास्यस्तु प्रकीर्तितः।
रौद्रस्यैव6 च यत्कर्म स ज्ञेयः करुणो रसः ।। ४० ।।

Abh

उत्पादकानामप्येतदुत्पादकत्वमुत्पादकान्तराद्वैलक्षण्यमुत्पाद्य कृतम् । एवमुत्पाद्याना- मुत्पादककृतमिति परस्परलक्षणत्वम् । वर्णः श्वेतादि तु(स्तु) सुस्पष्टं वि(शेष) लक्षणादि। एवं निदर्शनं तु शृङ्गारो नामेत्यादिना विभावादिविशेषसंयोगः। उत्पत्तिलक्षणा(णे) ह्यन्योन्याश्रयश्रङ्का वर्णदेवतयोस्त्वागमानुविद्धत्वमिति स्फुटं निश्चयदर्शनोपाय- त्वमुत्पत्त्यादीनां न संभवति । विभावादिविशेषसंयोगस्तु तद्वैलक्षण्यान्निदर्शनमित्युक्तम्। (३८)

तत्रोत्पत्तिं तावदाह–तेषामित्यादिना । तेषां रसानामुत्पत्तौ हेतवः सूचका- श्चत्वारः। रसानामुत्पाद्योत्पादकप्रकारो यावान् सम्भवति स चतुर्भिरेव सूचित इति यावत् । तथा हि–1तदाभासत्वेन तदनुकाररुपतया हेतुत्वं शृङ्गारेण सूचितम् । यतो विभावाभासादनुभावाभासाद्व्यभिचार्याभासाद्रत्याभासे प्रतीते चर्वणाभाससारः शृङ्गाराभासः। कामना अभिलाषमात्ररूपा हि रतिरत्र व्यभिचारिभावो न स्थायी । तस्य स तु2 स्थायिकल्पत्वेनाभाति । तद्वशाद्विभावाद्याभासता । अतश्च स्थाय्याभासत्वं रतेः। यतो रावणस्य सीता द्विष्टा मय्युपेक्षिका वेति हृदयं नैव स्पृशतीति । तत्स्पर्शे ह्याभिमानो4ऽस्यापि लीयेतैव5। ’ मयीयमनुरक्ता’ इति6 तु निश्चयो ह्यानुपयोगी । कामजमोहसारत्वात्। शुक्तौ रूप्याभासवत् । यद्यपि–

“दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते श्रुतिं (चेतः कालकलामपि प्रसहते नावस्थितिं तां विना।
एतैराकुलितस्य विक्षतरतेरङ्गैरनङ्गातुरैः सम्पद्येत कथं तदाप्तिसुखमित्येतन्न वेद्मि स्फुटम् ।।”)

Notes

(मू)

Abh

इत्यादौ रावणवाक्ये1 तावति रत्याभासतैव । न तु हासः स्फुरति । तथापि 2सीताविभावल(विल)क्षणं रावणवयःप्रकृतिविरुद्धश्च चिन्तादैन्यमोहादिकव्य- भिचारिगणम(णोऽ)-श्रुपातपरिदेवितादि चानुभावजातमनौचित्यात्तदाभासरूपं3 सद्धास्य- विभावरूपम् । तद्वक्ष्यते–विकृतपरवेषालङ्कारेत्यादि । एवं तदाभासतया(तायाः) प्रकारः शृङ्गारेण सूचितः। तेन करुणाद्याभासेष्वपि हास्यत्वं सर्वेषु मन्तव्यम् । अनौचित्यप्रवृत्तिकृतमेव हि हास्यविभावत्वम् । तच्चा(त्रा)नौचित्यं सर्वरसानां विभावानुभावादौ सम्भाव्यते। तेन व्यभिचारिणामप्येषैव वार्ता । अत एव संवित्सतत्त्वनिपुणैश्चिचरन्तनै रसभावतदाभासव्यवहारस्तत्र तत्र क्रियते । अमोक्षहेतावपि तदाभासतायां4 शान्ताभासो हास्य एव। प्रहसनरूपकेण अनौ(स्वानौ) चित्यत्यागः सर्वपुरुषार्थेषु व्युत्पाद्यः(राजपुत्रादीनाम् ?)। एतच्च लक्षणे वक्ष्यते । तत्र हास्याभासो यथाऽस्मत्पितृव्यस्य वामनगुप्तस्य

" लोकोत्तराणि चरितानि न लोक एष सम्मन्यते यदि किमङ्गं वदाम नाम ।
यत्त्वत्र5 हासमुखरत्वममुष्य तेन पार्श्वोपपीडमिह को न विजाहसीति6।।”

एवं यो यस्य न बन्धुस्तच्छोके करुणोऽपि हास्य एवेति सर्वत्र योज्यम्। एतदेवोदाहरणम् । एवमन्यत्तेनानुमेयमिति मुनिना यथाग्रहणं कृतम् ।

यदीयफलानन्तरं द्वितीयरसोऽवश्यंभावी तस्योदाहरणं रौद्रः। रौद्रस्य हि फलं वधबन्धादि । तद्विभावकेनावश्यं करुणेन भाव्यम् । यथा वेणीसंहारे

“अद्यैवावां रणमुपगतौ तातमम्बां च दृष्ट्वा घ्रातस्ताभ्यां शिरसि विनतोऽहं च दुश्शासनश्च ।
तस्मिन्बाले प्रसभमरिणा प्रापिते तामवस्थां पित्रोः पार्श्व व्यपगतघृणः किं नु वक्ष्यामि गत्वा।।”

एवं रौद्रनन्तरं नियमेन भयानकः। शृङ्गारानन्तरं नियमेन करुणं(णः)। व्याप्रियते त्वसौ तज्जन्मनि यथा तापसवत्सराजे वासवदत्तादाहाद्वत्सराजस्य । ननु तत्रा(त्र)रतेरवि(तेर्वि)च्छेदाद्बन्धुताकृतः शोकः। नैतत् । करुणोत्पत्तिकालेऽपि हि क्रोधस्य विच्छेद एव ।

यदाह ’ निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः।’ (वेणी. अ-१-७) इति । न च बन्धुमा(तामा)त्रं हेतुः। एवं हि सति–

Notes

(व्या)

Abh

(‘उत्कम्पिनी भयपरिस्खलितांशुकान्ता) ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ।
(क्रूरेण दारुणतया सहसैव दग्धा धूमान्वितेन दहनेन न वीक्षिताऽसि ।।’) (तापसवत्सराजे २-१६)

इत्यादौ ते इति प्राणभूतं (पदं) निरुपयोगतां गमितं स्यात् । रतिप्रलापेषु च शृङ्गार एव करुणस्य जीवितम्-

‘हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् ।
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ।। (कुमार. ४-९)

इत्याद्युक्तिषु ।

एवं वीराद्भयानकोत्पत्तिः । यथा ‘कर्णस्यात्मजमग्रतः शमयतो भीतं जगत् फाल्गुनात्’ (वेणी. ५.५)

यत्त्वत्र श्रीशङ्कुकेनोक्तम्-नात्रोत्साहस्य व्यापार इति । तदसत् । एवं हि निर्विषय एवोत्साहः स्यात् । कर्तव्याननुसन्धानात् । युद्धवीरे च परपराजय1जनितः प्रतापापरपर्यायः शत्रुहृदयदाहदायी तद्वनितादिषु भयानक एव जीवितम् । यथा–

‘स पातु वो यस्य हतावशेस्तत्तुल्यवर्णाञ्जनरञ्जितेषु ।
2लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु ।।

नियमेन तु भवतीति वक्तव्यम् । नियमश्चकारेणोक्तो रौद्रादित्यानन्तर्यसूचकपञ्चम्यनन्तरं प्रयुक्तेन ।

यस्तु रसो रसान्तरं फलत्वेनाभिसन्धाय प्रवर्तते रस्योदाहरणं वीरः । महापुरुषोत्साहो हि जगद्विस्ययफलाभिसन्धानेनैव ।

यथा–‘दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत’ (महावीर २-५४) इत्यादि । रौद्रस्तु परविनाशनं फलत्वेनाभिसन्धाय प्रवर्तते न करुणामिति शे(विशे)षः । विदूषकहासस्तु नायिकाहासं फलत्वेनाभिसन्धत्त इति मन्तव्यम् ।

यस्तु रसस्तुल्यविभा3वत्वान्नियमेन रसान्तरं हि परमाक्षिपति तस्योदाहरणं बीभत्सः । तस्य हि ये विभावा4 रुधिरप्रभृतयस्तेऽवश्यं भयहेतवः । तथा तदव्य5भिचारिणो मरणमोहापस्माराद्याः । तदनुभावास्तु मुखविकूणनादयः ।

यथा वेणीसंहारे—

‘संस्तभ्यन्तां निहतदुश्शासनपीतशेषशोणितपी(तस्नपि)तबीभत्सवृको- दरदर्शनवैक्लव्यस्खलितप्रहरणानि रणाद्विद्रवन्ति बलानि’ इति (वेणी.४.)

Notes

(व्या)

विश्वास-प्रस्तुतिः

वीरस्यापि च यत् कर्म
सोऽद्भुतः परिकीर्तितः ।
बीभत्स-दर्शनं यच् च
ज्ञेयः स तु भयानकः ।। ४१ ।।

English

the result of the Heroic Sentiment is called the Marvellous, and that which is Odious to see, results in the Terrible.

मूलम्

वीरस्यापि1 च यत्कर्म सोऽद्भुतः परिकीर्तितः ।
बीभत्सदर्शनं यच्च2 ज्ञेयः स तु भयानकः ।। ४१ ।।

Abh

एव तदाभासतद्द्वा(1तदनु)रेण रसान्तराक्षेपकत्वे श्रृङ्गार उदाहरणम् । तेन श्रृङ्गारानुकृतिरित्यत्र तुशब्दो वीप्सायाम् । द्वितीयो हेतौ । तेनैवं योजना–या अनुकृतिः स हास्यो यतः प्रकीर्तितः(अतः)2 एवंविभावको हास्य इति शेषः । तद्यथा श्रृङगारा 3अर्श आद्यच् । श्रृङ्गारवत्यनुकृतिरित्यर्थः ।

यत्त्वत्र श्रृङ्गाराद्भुतोत्पत्तेराशङ्का ‘दृशः प्रथुतरीकृता’ (रत्ना२-१५) इत्यादौ (तत्) निर्मूलमेव । 4उदयने हि श्रृङ्गारः । ब्रह्मणि विस्मयसम्भावना । सा च न तात्कालिकत्वेन नोत्तरकालिकत्वेन । किन्तु पूर्वतरमेवेति न किञ्चिदेतत् ।

परस्पर(रम्परा)फलत्वेन रसान्तराक्षेपे5 रौद्र उदाहरणम् । रौद्रस्य यत्कर्म फलात्मकं वधादि चकारात्तस्य यत्कर्म फलरूपं स एव करणः । एवकारेणात्यन्तव्यवहितां परम्परां पराकरोति । (४०)

समनन्तरफलत्वेन रसान्तराक्षेपे वीरस्यापि6 उदाहरणम् । चस्सन्नियोगे वीरस्य सम्यङ्गनिकटं यत्फलं सोऽद्भुतः परितः7 समन्ताद्या कीर्तिः यशः प्रतापरूपा ततो हेतोः । अपिशब्दाच्छृङ्गारोऽपि वीरस्यानन्तरं फलं द्रौपदीस्वयंवरादौ । सहभावेन रसान्तराक्षेपे बीभत्स उदाहरणम् ।

यदेव बीभत्सस्य दर्शनं विभावादिरूपं स एव भयानकः । तद्विभावत्वादुपचारस्य । सहभावप्रतीतः(तिः) फलम् । तमेव शब्दो द्योतयति । तुः पूर्वतो8 विशेषमाह । अयमेव चाक्षेपप्रकाशश्चतुर्धैव9 संभाव्यते न त्वधिक इति । सा 10त्वस्यापि सन्न नोक्तः । ये चात्रोत्पत्तिहेतव उक्तास्ते यथा स्वयं पुरुषार्थचतुष्कव्याप्ताः । तद्धि तत्सौन्दर्यतिशयजननरूपम् । रञ्जका भा(हा)सादयस्तदनुगामित्वेन रूपकेषु निबन्धनीयाः ।

एतावन्त एव च रसा इत्युक्तं पूर्वम् । तेनानन्त्येऽपि पार्षदप्रसिद्ध्यैतावतां प्रयोज्यत्वमिति यद्धट्टलोल्लटेन निरूपितं तदवलेपेनापरा11मृश्येत्यलम् । (४१)

वर्णाभिधानं पूजादौ ध्यान उपयोगि । मुखरागेऽपीत्यन्ये । स्वच्छपीतौ शमाद्भुताविति शान्तवादिनां पाठः । तत्तद्रससिद्धौ सा सा देवता पूज्येति देवतानिरूपणम् । विष्णुः कामदेवः । प्रमथा भगवतो गणाः क्रीडापराः । रुद्रस्त्रैलोक्यसंहारकर्ता । अत एव चोदयतीति निय(च यमयतीति य)मेन वधादिके

Notes

(मू)

(व्या)

वर्णाः

अथ वर्णाः-

विश्वास-प्रस्तुतिः

श्यामो भवति श्रृङ्गारः
सितो हास्यः प्रकीर्तितः ।
कपोतः+++(=विधूसरः)+++ करुणश् चैव
रक्तो रौद्रः प्रकीर्तितः ।। ४२ ।।

English

The Erotic Sentiment is light green (śyāma), the Comic Sentiment white, the Pathetic (Sentiment) grey (kapota), the Furious Sentiment red,

मूलम्

1श्यामो भवति श्रृङ्गारः सितो हास्यः प्रकीर्तितः ।
2कपोतः करुणश्चैव रक्तो रौद्रः प्रकीर्तितः ।। ४२ ।।

विश्वास-प्रस्तुतिः

गौरो वीरस् तु विज्ञेयः
कृष्णश् चैव भयानकः ।
नीलवर्णस् तु बीभत्सः
पीतश् चैवाद्भुतः स्मृतः ।। ४३ ।।

English

the Heroic (Sentiment) yellowish (gaura), the Terrible (Sentiment) black,
the Odious (Sentiment) blue and the Marvellous (Sentiment) yellow.

मूलम्

गौरो वीरस्तु विज्ञेयः 3कृष्णश्चैव भयानकः ।
नीलवर्णस्तु बीभत्सः पीतश्चैवाद्भुतः स्मृतः ।। ४३ ।।

दैवतानि

विश्वास-प्रस्तुतिः

अथ दैवतानि

मूलम्

4अथ दैवतानि

विश्वास-प्रस्तुतिः

श्रृङ्गारो विष्णु-दैवत्यो
हास्यः प्रमथ-दैवतः ।
रौद्रो रुद्राधिदैवत्यः
करुणो यम-दैवतः ।। ४४ ।।

English

Viṣṇu is the god of the Erotic, Pramathas of the Comic, Rudra of the Furious, Yama of the Pathetic,

मूलम्

श्रृङ्गारो विष्णुदैवत्यो5 हास्यः प्रमथदैवतः ।
रौद्रो रुद्राधिदैवत्यः6 करुणो यमदैवतः ।। ४४ ।।

विश्वास-प्रस्तुतिः

बीभत्सस्य महाकालः
काल-देवो भयानकः ।
वीरो महेन्द्र-देवः स्याद्
अद्भुतो ब्रह्म-दैवतः ।। ४५ ।।

English

Mahākāla (Śiva) of the Odious, Kāla of the Terrible, Indra of the Heroic, and Brahmā of the Marvellous Sentiments.

मूलम्

बीभत्सस्य महाकालः 7कालदेवो भयानकः ।
वीरो8 महेन्द्रदेवः स्यादद्भुतो ब्रह्मदैवतः ।। ४५ ।।

विश्वास-प्रस्तुतिः

एवम् एतेषां रसानाम् उत्पत्ति-वर्ण-दैवतान्य् अभिव्याख्यातानि ।
इदानीम् अनुभाव-विभाव-व्यभिचारि-संयुक्तानां लक्षण-निदर्शनान्य् अभिव्याख्यास्यामः ।
स्थायिभावांश् च रसत्वम् उपनेष्यामः ।

English

Thus have been described the origin, colours and deities of these [Sentiments].
Now we shall explain the Determinants, the Consequents, the Complementary Psychological States, their combination, definition and examples.

We shall now enumerate the Durable Psychological States in different Sentiments.

मूलम्

एवमेतेषां रसानामुत्पत्तिवर्णदैवतान्यभिव्याख्यातानि ।
इदानीमनुभावविभा9वव्यभिचारिसंयुक्तानां लक्षण10निदर्शनान्यभिव्याख्यास्यामः ।
11स्थायिभावांश्च रसत्वमुपनेष्यामः ।

Abh

सम्पादिते करुणः । महाकालोऽधिदैवतमिति शेषः । स हि तद्विभावं कङ्कालं श्मशानादि सेवते । महेन्द्रस्त्रैलोक्यराजः । ब्रह्मा अचिन्त्याद्भुतस्रष्टा । (४५)

‘बुद्धः शान्तेऽब्जजोऽद्भुते’ इति शान्तवादिनः केचित्पठन्ति । बुद्धो जिनः परोपकारैकपरः प्रबुद्धो वा । तत्रोत्पत्तिलक्षणमन्योन्याश्रयत्वान्न निश्चयकारि । वर्णदैवतात्मकमप्यागमसिद्धत्वादित्येकप्रघट्टकेनोपसंहरत्येवमित्यादिना । एतेषामिति सर्वे- षामित्यर्थः ।

अथ विशेषलक्षणानि वक्तुमासूत्रयतीदानीमित्यादिना । विशेषलक्षणं सजातीया- द्व्यवच्छेदकम् । न विजातीयाद्व्यवच्छेदं विना सजातीयत्वम् । न चासौ सामान्यलक्षणं विनेति 1तत्पृष्ठे विशेषलक्षणमिति दर्शयितुं सामान्यलक्षणमनुवदत्यनुभावेत्यादिना । लक्षणानि चं तानि निदर्शनानि च विशेषात्मकानि । तेन प्रत्येकं लक्षणाविशेषा उच्यन्त

Notes

(मू)

(व्या)

शृङ्गारः

विश्वास-प्रस्तुतिः

तत्र शृङ्गारो नाम रति-स्थायि-भाव-प्रभवः । उज्ज्वल-वेषात्मकः ।
यत् किञ्चिल् लोके शुचि मेध्यम् उज्ज्वलं दर्शनीयं वा तच् छृङ्गारेणोपमीयते ।

English

Of these, the Erotic (śṛṅgāra) Sentiment proceeds from the Durable Psychological State of love (rati), and it has as its basis (lit. soul) a bright attire; for whatever in this world is white, pure, bright and beautiful is appreciated in terms of the Durable Psychological State of love.

मूलम्

तत्र शृङ्गारो नाम रतिस्थायिभावप्रभवः । उज्ज्वलवेषात्मकः1 ।
2यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं3 वा तच्छृङ्गारेणोपमीयते ।

Abh

इत्यर्थः । विशेषलक्षणानि वा सामान्यलक्षणस्य निदर्शनानि । येषु सामान्यलक्षणं योज्यते उदाह्नियते च । तद्विना तस्योदाहर्तुमशक्यत्वात् । चकारो लोकोत्तरतयाऽऽदरं सूचयति । ये स्थायिनो भावा लोके चित्तवृत्त्यात्मानो बहुप्रकारपरिश्रमप्रसवनिबन्ध- नकर्तव्यताप्रबन्धाभिधायिनस्तानपि नाम रसत्वं विश्रान्त्येकायतनत्वेपदेशदिशा नेष्यामः । विभावान् यथायोगमुपहरद्धिः कविनटैर्हि रसतां नीयन्ते । यदाह–

“या व्यापारवती रसान्रसयितुं काचित्कवीनां नवा (दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती ।
ते द्वे अप्यवलम्ब्य विश्वमनिशं निर्वर्णयन्तो वयं श्रान्ता नैव च लब्धमब्धिशयन त्वद्भिक्तितुल्यं सुखम् ।।)” इति ।

(ध्वन्या. ३.४३)

नटानां तु तदुपजीवितत्वान्न नवा दृक्पश्यति न रसयत्यतो नवेति । तस्माद्रसनोपयोगिविभावाद्यौचित्यमस्माभिरुपदिशद्भिः स्थायिनो रसतां नीता भवन्तीत्यनेन लक्षणरूपस्य फलं दर्शयति ।

(अथ श्रृङ्गाररसप्रकरणम्) ।

तत्र कामस्य फलत्वादशेषहृदयसंवादित्वाच्च तत्प्रधानं शृङ्गारं लक्षयति– तत्रेत्यादिनोज्ज्वलवेषात्मक इत्यन्तेन सूत्रेण । तत्रेति क्रमनिर्धारणे । एवं सतीत्यर्थे वा । एतत्सूत्रभाष्येण व्यक्तम् । यल्लक्ष्यपदं नामेति । व्याचष्टे यत्किञ्चिदित्यादिना । 2हस्तपृष्ठतादि(हारादि)मण्डितः शृङ्गार3वान् । तेन शुचिमेध्याद्युपमीयते । तेनोज्ज्वलवेषात्मके शृङ्गारशब्दः । न चातिप्रसङ्गः । आप्तोपदेशस्य नियामकत्वादिति चिरन्तनाः । तदनुपपन्नम् । उपमानोपमेययोर्विशेषविषयविभागानवभासात्तथा ।

तस्मादयमत्रार्थः । रतिरेवास्वाद्यमानो मुख्यः शृङ्गारः । रतिमास्वादयद्भिस्तद्बहुमानपरः शृङ्गारीत्युच्यते । 4यस्तु सज्जनादिप(दिःअप)र एव तद्यूसनिता (तु व्यसनी)। सा रसनास्वाददशा5 लोके भवन्त्यपि न चिरमवतिष्ठे । तदास्वादे चोपयोगि यथास्वविभावादि

Notes

(मू)

(व्या)

विश्वास-प्रस्तुतिः

यस् तावद् उज्ज्वल-वेषः स शृङ्गारवान् इत्य् उच्यते ।
यथा च गोत्र-कुलाचारोत्पन्नान्य् आप्तोपदेशसिद्धानि पुंसां नामानि भवन्ति,
तथैवैषां रसानां भावानां च नाट्याश्रितानां चार्थानाम् आचारोत्पन्नान्य् आप्तोपदेश-सिद्धानि नामानि ।

English

For example, one who is elegantly dressed is called a lovely person (śṛṅgārin).
Just as persons are named, after the profession of their father, mother or family in accordance with the traditional authority, so the Sentiments, the Psychological States and other objects connected with drama are given names in pursuance of the practice and the traditional authority.

मूलम्

यस्तावदुज्ज्वलवेषः1 स शृङ्गारवानित्युच्यते । यथा च गोत्रकुलाचारोत्पन्नान्याप्तोपदेशसिद्धानि पुंसां नामानि भवन्ति 2तथैवैषां रसानां भावानां च नाट्याश्रितानां चार्थानामाचारोत्पन्नान्याप्तोपदेशसिद्धानि नामानि ।

विश्वास-प्रस्तुतिः

एवमेष आचार-सिद्धो ह्य् अद्योज्ज्वल-वेषात्मकत्वाच् छृङ्गारो रसः ।
स च स्त्री-पुरुष-हेतुक
उत्तम-युव-प्रकृतिः ।

English

Hence the Erotic Sentiment has been so named on account of its usually being associated with a bright and elegant attire.
It owes its origin to men and women and relates to the fulness of youth.

मूलम्

3एवमेष आचारसिद्धो ह्यद्योज्ज्वलवेषात्मककत्वाच्छृङ्गारो4 रसः । स च 5स्त्रीपुरुषहेतुक 6उत्तमयुवप्रकृतिः ।

Abh

तथा शास्त्र(स्त्रा)निषिद्धमजुगुप्सितं संस्फुटं(यत् स्फुटं)मनोहरं च तदुपचाराच्छृङ्गार- शब्दवाच्यम् । तदाह–उपमीयते । तदुपयोगितया तथा मीयते लक्ष्यत इति यावत् ।

क्व य(त)थेति दर्शयति-यस्तावदिति । तावद्ग्रहणेनावधारणवाचिना शृङ्गारवाच्यो मुख्योऽर्थस्तत्र नास्तीति दर्शयति–स शृङ्गारवानिति । तदनु(दु)ज्ज्वलवेषे शृङ्गारशब्द उपचरित इत्याह । ननु मुख्यतया रत्यास्वादे शृङ्गारशब्दस्य प्रवृत्तौ किं निबन्धनमित्याशङ्क्याह-यथा चेत्यादि । गोत्रं पितृसन्तानादि । कुलं मातृसन्तानं सूचयति । आचारो व्यवहारः । तत उत्पन्नानि लोके प्ररूढानि । मूले तु न। आद्याप्तोपदेशेन नामकरणलक्षणेन समयेन सिद्धानिपुंसामिति मनुष्यजातेर्नराणां नारीणां च । नराणां हि पितृसन्तानानुसारि नाम विष्णुशर्मेत्यादि । स्त्रीणां तु मातृवंशानुसारि कनकप्रभा चन्द्रप्रभेति । एवं रसादीनां तच्छास्त्रवेदिवृद्धव्यवहारतो निरूढानि प्राक्तनब्रह्माद्याप्तप्रणीतानि नामानि ।

तदेवोपसंहरति–एवं श्रृङ्गारो रसः । स आचारव्यवहाराल्लोकेऽपि सिद्धः । कुतो हेतोः । हृद्यादिवेषात्मकत्वात् । एतदुक्तं भवति–प्रतिशास्त्रसमयानुसारिणोऽपि शब्दास्तद्वृद्धव्यवहारपरम्परया लोके प्रसिद्धा उपचारतोऽन्यत्रापि व्यवह्नियन्ते । यथा– ‘साङ्ख्यपुरुषोऽयं न किञ्चित्करोति । पूर्वरङ्गोऽत्र तेन मे विरचितः । अत्र महत- (त्ता)न्योन्यमस्य’ इति । तद्वदमी शृङ्गारादिशब्दा इहैव विषये रसेषु मुख्याः । लोके तु (औपचारिकाः)2 साङ्ख्यपुरुषादिशब्दवत् ।

यस्तु3 शृङ्गारशब्दस्या4न्मीयेन(स्य मत्वर्थीयेन) व्युत्पत्तिमाह तस्य रूपमिति विस्मृतम् । आरकान् हि प्रत्य5योऽत आरब्धः । (‘शृङ्गवृन्दाभ्यामारकन्’) (वार्तिक. ५.२.-१२१) वृन्दारक इति यथा । अत एवोणादिषु निपातितोऽयं शब्दः । (शृङ्गारभृङ्गारौ । उ.सु.) ।

Notes

(मू)

(व्या) 1.TV. 2.TV. 3.श्रृङ्गाशब्दान्मत्वर्थीयेन-Kan. 4.म. शब्दान्मीयेन व्युत्पत्ति । भ. शब्दमन्वन्मीयेन ।

Abh

यस्तु पृथग्भावेन गोत्रादिनामानि व्याचष्टे 1व्यावर्त्याभावात् 2तत्तदीक्षितानि । तस्य प्रकृते न किञ्चिदियमु(दप्यु)पयुज्यते । न च गोत्राचारोत्पन्ने नामनि नियामक आप्तोपदेशो लोके इत्यास्तामेतत् ।

अथ रतिः स्थायिति सूत्रभागं भाष्येण स्पष्टयति-स चेत्यादिना । स्त्रीपुरुषशब्देन परस्पराभिलाषसंभोग3लक्षणया लौकिक्या ‘अस्येयं स्त्री’ इति या (धिया)। तेनाभिलाषमात्रसारायाः कामावस्थानुवर्तिन्या व्यभिचारि4रूपाणिति या 5विलक्षणैव इयं स्थायिरूपा प्रारम्भादिफलप्राप्तिपर्यन्ता व्यापिनी परिपूर्णसुखैकफला रतिश(रु)क्ता भवति हेतुरस्य ।

कविर्हि लौकिकरतिवासनानुविद्धस्तथा विभावादीनाहरति नाट्यं चा(नटश्चा)- नुभावान् यथा रत्यास्वादः श्रृङ्गारो भवतीति । आस्वादयितुरपि प्राक्कक्ष्यायां रत्यवगम6 उपयोगीत्युक्तं प्राक् ।

एतदुक्तं भवति–रतिक्रीडासार्ध च (रतिः क्रीडा । सा च) परमार्थतः कामिनोरेव । तत्रैव सुखस्य धाराविश्रान्तेः । अपरस्य तु माल्यादिविषयसौन्दर्यस्य 7कविना कृतस्य संकल्पत्वात् । सवंदेनाद्वितयान्योन्यनिमज्जनात्मकमीलनाख्यो हि परमो भोगः । संविद एव प्रधानत्वात् । अन्यत्र तु जडस्य भोग्यत्वात् ।

अत एवाह– ‘श्वासायासविडम्बनैव वपुषि प्राणाः पुनर्जानकी’ इति । अत एव यत्कैश्चिदचोद्यत–रतेराधारभेदेन भेदात्कथमेको रस इति, तदनभिज्ञतया । एकैव ह्यसौ तावती रतिः । यत्रान्योन्यसंविदा 9एकवियोगो न भवति । अत एवोत्तमयुवप्रकृतिः । उत्तमश्चोत्तमा चोत्तमौ । एवं युवानौ । तत्रोत्तमयुवशब्देन तत्संविदुच्यते । न तु कायः । चैतन्यस्यैव हि परमार्थत उत्तमयुवत्वं विशेषः । स (सा) चावस्थावान् तत्र तत्र (स्था यत्र तत्र) व्यवहारस्य (सं)भूतत्वात् तत्प्रकृतिः । सा संविदास्वादयोग्यत्वात् शृङ्गाररसीभवतीति । अनुत्तमत्वे तु (न) दार्ढ्यमयुक्त्वे चेति न सा रतिसंवित् । वियोगस्य संभावनात् । अवियुक्तसंवित्प्राणस्तु शृङ्गारः । यथा–

वारिसिणिच्चरिहिअदि हिलग्गणाहुकंहविएक्व ।
हुहिमुळजळमरणिमअळहुतीतिहविपस्सि ।। “इति9 ।

व्याख्याता(तः) परस्परं जीवितसर्वस्वाभिमानरूपा(पः) । वेषयति व्यापयति

Notes

(व्या)

विश्वास-प्रस्तुतिः

तस्य द्वे अधिष्ठाने सम्भोगो विप्रलम्भश् च ।

English

It has two bases: union and separation.

मूलम्

तस्य द्वे अधिष्ठाने सम्भोगो विप्रलम्भश् च ।

विश्वास-प्रस्तुतिः

तत्र सम्भोगस् तावद् ऋतु-माल्यानुलेपन+अलङ्कार+इष्टजन-विषय–वर-भवनोपभोग+उपवन-गमनानुभवन-श्रवण-दर्शन-क्रीडा-लीलादिभिर् विभावैर् उत्पद्यते ।

English

Of these two, the Erotic Sentiment in union arises from Determinants like the pleasures of the season, the enjoyment of garlands, unguents, ornaments, [the company of] beloved persons, objects [of senses], splendid mansions, going to a garden, and enjoying [oneself] there, seeing [the beloved one], hearing [his or her words], playing and dallying [with him or her].

मूलम्

तत्र सम्भोगस् तावद् ऋतुमाल्या1नुलेपनालङ्कारेष्टजनविषयवरभवनोपभोगोपवन2गमनानुभवनश्रवणदर्शनक्रीडालीलादिभिर्विभावैरुत्पद्यते3 ।

Abh

चित्तवृत्तिमन्यत्र ज्ञापनया संक्रमयतीति वेषो विभावानुभावात्मा । वेषयति(न्ति) व्याप्नुवन्ति स्थायिनमिति व्यभिचारिणः । ते चोज्ज्वला उत्कृष्टा यस्मिंस्तथाभूत आत्मा यस्येति ।

सूत्रे संक्षिप्य यद्विभावादि निरूपितं तद्विभागेन व्याख्येयमित्याशयेन शृङ्गारस्यावस्थाभेदमाह–तस्य द्वे इत्यादिना । अधिष्ठाने अवस्थे इत्यर्थः । अधिष्ठीयतेऽवस्थात्र(त्रा) शृङ्गाररूपेण । तेन न1 शृङ्गारस्येमौ भेदौ । गोत्वस्येव शाबलेयत्वाबाहुलेयत्वे । अपि तु तद्दशाद्वयेऽप्यनुयायिनी या रतिरास्थाबन्धात्मि2का तस्याश्चास्वाद्यमानं रूपं शृङ्गारः । यदाहु–

“(एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कौलीनादसितनयने मय्याविश्वासिनी भूः ।)
स्नेहानाहुः किमपि विरहह्रासिनस्तेऽप्यभोगा- दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ।। इति ।। (मेघ. २.४५.)

अत एव सम्भोगे विप्रलम्भसम्भावनाभीरुत्वं विप्रलम्भेऽपि सम्भोगमनो3राज्या(रथा)नुवेध इति इयच्छृङ्गारस्य वपुः । अभिलाषेर्ष्याप्रवासादिदशास्त्वत्रैवान्तर्भूताः सत्यामास्थाबन्धात्मिकायां रतौ । तेन सम्भोगशृङ्गार इत्यादिव्यपदेशोऽभोगेऽप्युपचारात् । अत एतद्दशाद्वयमेलन एव सत्यतः सातिशयचमत्कारः । यथा–

“एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतो- रन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।
दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो- र्भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहम् ।। “(अमरुक-२३.)

तत्र हीर्ष्याविप्रलम्भसम्भोगमेलनात्मिकैवैकप्राणीभूतोभयगतविभावानुभावव्यभिचारिकृता सातिशया रसा4नुभूतिः । तेन 5यच्चोदितं श्रीशङ्कुकेन पुरूरवस उन्मादे वत्सराजस्य तापसत्वे चानुज्ज्वलवेषत्वं (कथं) विप्रलम्भशृङ्गारेऽपि (इति) तदनवकाशमेव । भोगस्य

Notes

(मू)

(व्या) 1 KA. & ND.

Abh

रसत्वाभावात् स्नानाद्यवस्थानमिव । यत्त्वत्रोत्तरं तावद्दतं1 स्थैर्यादुज्ज्वलवेषाभावेऽपि रतिमुत्तमा न विजहतीति तद्यक्षभाषितम् । प्रकृतचोद्यापरिहारात् ।

न हि(नु) चोदितमनुज्ज्वलवेषे कथं शृङ्गार इति । तदेवास्तु चोद्यमिति चेत्– न वचनस्यातिभारोऽस्ति । न तु मुनिनैवमुक्तं सत्युज्ज्वलवेषे शृङ्गार इति । 2अपि तु विपर्यय इत्यास्तामेतत् ।

तत्रेति । द्वयोरवस्थयोर्मध्ये सम्भोगावस्था तावदुच्यते । तत्रेह वस्तुतः स्त्रीपुंसौ परस्परं विभावौ । तयोरुत्तमत्वे चोपयोगीनि ऋत्वादीनि । उत्तमस्यानवसरे रत्यभावात् । ऋतुर्वसन्तादिः । माल्यं कुसुमादि । अनुलेपनं समालम्भनं यद्यत्कामस्योद्दीपकम् । अलङ्कारः कटकादिः । इष्टजनः विदूषकादिः । एतदुभयमुत्तत्वसूचकम् । यदाह–

‘असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
अनाक्रम्य जगत्कृत्स्नं किं सन्ध्यां भजते रविः ।।’ इति ।।

(राज. तर. ४.४.४२.) विषया गीतादयः । तदन्तर्भूतमपि माल्यादि प्राधान्यात्पृथगुक्तम् । वरभवनं इर्म्यादि । एतद्देशविशेषोपलक्षणम् । एषामुपभोगः । उपवनस्योद्यानस्यानुभवनं श्रवणं वा प(व)र- भवनस्थस्यापि । एतत्सङ्कल्पादेरप्युपलक्षणम् । क्रीडा जलावगाहनादिका । लीला इष्ट3जनस्यानुकृतिः । अनु(आदि)ग्रहणादन्यदपि हृद्यं हंसयुगलकचित्रपुस्तदर्शनादि । एतच्च समस्तमेव शृङ्गारविभावत्वेन मन्तव्यम् । यावान्कश्चिदयं विषयसम्भारो हृद्यतमस्तत्पूर्णतायां सत्यामुत्तमस्य रत्युदयः । अत एव रत्नावल्यां हर्म्यवर्णनमुद्यानगमनं कामदेवपूजा वसन्त इत्यादि सर्वमेवात्र संगृहीतं ‘राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः’ इत्यादिना । एवञ्च सर्व एव समुदितो विभाव इति काल्पनिकमालम्बनविभाव उद्दीपनविभाव इति । अत एव मुनिना नायं क्वचिद्विभाग उक्तः सूचितो वा । युक्तञ्चैतत् । यथैकत्रैव रूपके उद्यानर्तुमाल्यादीनां सर्वेषां दर्शनादेको रसः स्यात् । विभावाभेदात् ।

ननु प्रथमं (प्रम4दामात्र)दर्शने नोद्यनभवनादिसम्भवः । क एवमाह? ऐश्वर्यपूर्णस्य हि तावदात्मीयसमृद्धिसम्भारसंस्कारानव(राव)गमात् पूर्णतैव विभाववर्गस्य । तत्प्रधानं हि रूपकं तत्र तत्रोदाहरणम् । तेन पृथक्पृथगुदाहरण5दानमनुपपन्नम् ।

या तु मुक्तकादौ पृथक्तया भावेऽपि रससंवित् 6तापसस्तत्रानुसन्धानाच्चमत्कार इति । 7इत्यांस्त्वनुत्तमादिविषयेऽपरिपूर्णोद्दीपनत्वे न चमत्कारो दृश्यते–

Notes

(व्या)

विश्वास-प्रस्तुतिः

तस्य नयन-चातुर्य–भ्रू-क्षेप–कटाक्ष-सञ्चार–ललित-मधुराङ्ग-हार–वाक्यादिभिर् अनुभावैर् अभिनयः प्रयोक्तव्यः ।

English

It should be represented on the stage by Consequents such as clever movement of eyes, eyebrows, glances, soft and delicate movement of limbs, and sweet words and similar other things.

मूलम्

तस्य 1नयनचातुर्यभ्रूक्षेपकटाक्षसञ्चार2ललितमधुराङ्गहार3-वाक्यादिभिरनुभावैरभिनयः4 प्रयोक्तव्यः ।

Abh

यथा हि “1दीवडि तैल्लु नाहि पलु द्रम्मि गमिट्ठा ।
लावण्णुज्जलड्गु घरि ढोप्लु पइट्ठा ।।”

(छाया- दीपके तैलं नास्ति पलं द्रम्मं गवेषितम् ।
लावण्योज्ज्वलाङ्गो गृहे प्रियतमः प्रविष्टः ।।) इति

तथा ‘मासपसूअं छम्मासगब्भिणिं एक्कदिअहजरिअं च ।
रंगुत्तिण्णं च पिअं पुत्तअ कामंतओ होहि ।।’

2छायाः- (मासप्रसूतां षण्मासगर्भिणीमेकदिवसज्वरितां च ।
रङ्गोतीर्णा च प्रियां पुत्रक कामयमानो भव ।।)

इत्यादि (?)। तत्रैकाङ्गस्य सौभाग्यस्य प्रधान्याच्चमत्कारोदय इति तात्पर्यम् । न तु तदभावकृता चमत्कृतिः3 ।

एतैः कविनोपनिबद्धैर्नटेन च साक्षात्कारकल्पतामानीतैः सम्यगित्यविघ्न- भोगात्मकसम्भोगो रस उत्पद्यते झटित्येव । न हि गमनक्रियावत् पर्यन्ते रसनाक्रिया निष्पद्यते । अपि तु प्रथम एवावसरे । स च विभावसाक्षात्कारात्मक एव । तस्य तु प्रथमकक्ष्यायामेव रसनागोचरत्वाभिमतस्य नयनचातुर्यादिभी रसै(सो) रसनाद्याभिमुख्यं नीयते । अत एव तेऽभिनया अनुभावश्च । आभिमुख्यनयनमनुभावनं च । तद्रसास्वादे समर्थाचरणमुद्दीपनम् । अत एव तदभावे विभावादिवर्णनप्रधानेऽपि काव्ये न चमत्कारः । रसनायास्तत्राभावात् । यथा विन्दो(कवीन्दो)र्भट्टेन्दुराजस्य

“उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवद्भिरवेक्ष्यताम् ।
इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ।।’’ इति ।

एवमन्यत्राप्युपपद्यत इति तस्याभिनयादिर(दि यो) जनीयम् ।

ननु विभावानां 4साधारण्यं कथम् । नियमेनैवं5 हि न नाट्ये । इयांश्चात्र कविप्रयत्नसमर्प्यमाणः तेन तद्भावात्प्रयोजकधर्मोद्रेकप्रकाशविशिष्टसमब6लात्प्रमुख एव विशेषविश्रान्ततां याति । तथा ‘हा प्रिये जनकराजपुत्रीति’ 7इत्ययं श्रुत एव न रतिव्यतिरेकेण भावान्तरविभावता शङ्क्या । ‘एतेन कुणपं(पे) कामिनी’ इत्यादिसम्भावनं प्रत्युक्तम् ।

तत्र नयनचातुर्यादिना कान्ता दृष्टिर्लक्ष्यते । यत्तु भ्रवोर्मूलसमुत्क्षेपश्चतुरमिति(ना.शा. ८.४७) वक्ष्यते । 9सभ्रूक्षेपेण चोक्तम्–‘विवर्तनं कटाक्ष’ (ना.शा. ८-१००) इति ताराकर्म । एवं च योजना–नयनानां चातुर्येण

Notes

(मू)

(व्या)

विश्वास-प्रस्तुतिः

व्यभिचारिणश् चास्यालस्यौग्य्र-जुगुप्सा-वर्ज्याः ।+++(5)+++

English

Complimentary Psychological States in it do not include fear, indolence, cruelty and disgust.

मूलम्

1व्यभिचारिणश्चास्यालस्यौग्य्रजुगुप्सावर्ज्याः2 ।

विश्वास-प्रस्तुतिः

विप्रलम्भ-कृतस् तु निर्वेद-ग्लानि-शङ्काऽसूयाश्रम-चिन्तौत्सुक्य-निद्रा-स्वप्न-विबोध-व्याध्य्-उन्मादापस्मार-जाड्य-मरणादिभिर् अनुभावैर् अभिनेतव्यः ।

English

[The Erotic Sentiment] in separation should be represented on the stage by Consequents such as, indifference, langour, fear, jealousy, fatigue anxiety, yearning, drowsiness, sleep, dreaming, awakening, illness, insanity, epilepsy, inactivity, fainting, death and other conditions.

मूलम्

1व्यभिचारिणश्चास्यालस्यौग्य्रजुगुप्सावर्ज्याः2 । विप्रलम्भकृतस्तु
निर्वेदग्लानिशङ्कासूयाश्रमचिन्तौत्सुक्यनिद्रा3स्वप्नविबोधव्याध्युन्मादाप-
स्मारजाङ्यमरणादिभिरनुभावैरभिनेतव्यः ।

Abh

सभ्रूक्षेपेण कटाक्षेण च यद्यत्सञ्चारणं ललितं मन्थरं मधुरं नयनाभिरामं कृत्वा यान्यङ्गानां हरणानि स्वकर्तव्यकाले ललितानि सुकुमाराभिधेयानि मधुराणि च श्रवणसुखकराणि यानि वाक्यानीत्युपाङ्गाभिनय आङ्गिको वाचिकश्च लक्षितः ।

अत एव सामान्याभिनयाध्याय(ना.शा.अ-२२)वक्ष्यमाणाशेषचेष्टालङ्कारलाभ इति ललितमधुरशब्दौ तदर्थावित्यसत् । आदिग्रहणात्सात्त्विको मुखरागपुलकादिर्गृह्यते । अनुभावकत्वेन ताटस्थ्यपरिहारः । आभिमुख्यनयनेन स्वात्मैकविश्रान्तिशङ्कानिरासः । एवमुत्तरत्रापि ।

एवं विभावसमय एव रसनीयस्यानुभावावसरेऽवस्थावेशवैरस्यास्पदस्य पश्चा- दव्यभिचारिणः स्वामेव रसनीयतां चित्रयन्तः सातिशयं पुष्यन्तीति पश्चात्ते निरूप्यन्ते– व्यभिचारिणश्चास्येति । आलस्यौग्र्यजुगुप्सा वर्ज्यमाना येभ्यस्ते सर्वे व्यभिचारिणः । अस्येति दशाद्वयमयस्येत्यर्थः । जुगुप्सा स्थायिन्यपीह निषिद्धा न्यायसिद्धं1 स्थायिनामपि व्यभिचारित्वमनुज्ञापयति । आलस्यादि च स्वविभावप्रमा2(म)दादिविषयमेव निषिद्धम् । तेन ‘वपुरलसलसद्बाहु लक्ष्म्याः’ (वेणी.१-२) इति तथा’ कतिचिदहानि वपुरभूत् केवलमलसेक्षणं तस्याः’ (विक्र. ५-८) इत्यादि न3 4विरूपकं मन्तव्यम् । एवं प्रयोगे काव्ये च विभावादीनां क्रम 5एव समाश्रयणीयः । उत्पूर्वस्य (उद्भूतस्य) लब्धप्रतिष्ठता । तथाभूतस्य परिवारसंघटनमिति हि प्रतीतिक्रमः ।

ननु निर्वेदादयः सम्भोगे न व्यभिचारिण इत्याशङ्क्याह–विप्रलम्भकृतस्त्विति । तुशब्दो विशेषं द्योतयति6 ।

वाक्यैकवाक्यतया दुःखप्रायनिर्वेदादि मुक्त्वा7 आलस्यादिव्यतिरिक्ताश्च सुखमया एव धृत्यादयोऽत्र व्यभिचारित्वेन8 सम्भोग उपन्यस्ता इति प्रकटयति । परस्परा9शोपजीवनं

Notes

(मू)

(व्या)

Abh

चात्र जीवितमिति दर्शयितुमस्येत्यनुद्भिन्नमेवोक्तम् । तत एव च भगवदनुग्रहपवित्रवाचा कालिदासेन रघुवंशे सम्भोगविप्रलम्भात्मकव्यामिश्ररसनासम्पत्तये प्रत्यनीकोद्देशेन रामभद्रस्य स्वकर्म पूर्वावस्थावर्णनेनादृतम् ।

सुप्तान्तर्भूतोऽपि स्वप्नः प्राधान्यादुपात्तः। ’ क्व नीलकण्ठ व्रजसि1 ’ इति (कुमा-५-५४)। ‘सिविणअखणसुत्तुटिआए पुणरु1त्तदसणमणाए । बालाए णिमीलिअलोअणाए दिवसो वि वोलीणो2 ‘।। तथा ‘आहूतोऽपि सहायैः3’ इत्यादौ हि स एव प्राणः। सम्भोगदशायां तु विभावसान्निध्ये निद्राद्यभावाद्विबोधोऽपि व्यभिचारी। सम्भोगेऽपि रतिश्रमकृतनिद्रादि यद्यप्यस्ति तथाऽपि न रतौ तच्चित्रतामाधत्ते4। विप्रलम्भे तु तद्रतिभावना परम्परोदितमेव5 । निद्रादिबाहुल्यापेक्षं चेत्थमभिधानम् ।

उन्मादापस्मारव्याधीनां या नात्यन्तं कुत्सिता दशा सा काव्ये प्रयोगे च दर्शनीया। कुत्सिता तु सम्भवेऽपि नेति वृद्धाःवयं तु ब्रूमः। तादृश्यां दशायां स्वजीवितनिन्दात्मिकायां तद्देहोपभोगसाररत्यात्मका6स्थाबन्धोऽपि विच्छिद्यत एवेति 7असम्भव एव । मरणमचिरकालप्रत्यापत्तिमयमत्र मन्तव्यम् । येन शोकोऽवस्थानमेव न लभते । यथा –

“तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वो- र्देहत्यागादमरगणनालेख्यमासाद्य सद्यः ।
पूर्वावस्थाधिकचतुरया सङ्गतः कान्तयाऽसौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ।।” (रघु. ८-९५)

अत एव सुकविना वाक्यभेदेनापि मरणं8 ना9ख्यातम्।(तस्य) प्रतीतिविश्रान्तिस्थानत्वपरि- हाराय तृतीयपादेन विभावानुसन्धानकं दर्शनम्। पुनर्ग्रहणेन स एवार्थः सुतरां द्योतितः10।

अन्ये त्वाहुः मरणमिति न जीवितवियोग उच्यते । अपि तु चैतन्यावस्थैव प्राणत्यागकर्तृतात्मिका11 पाश12बन्धाद्यवसरगता मन्तव्या व्यभिचारिभावेनेति सुलभोदाहरणमेतदिति । आदिशब्देन दैन्यमोहादयः । एते व्यभिचारिणोऽपि स्वानुभावैरनुभाविता विप्रलम्भमनुभावयन्ति । तस्मादनुभावैरित्युक्तम् ।

Notes
विश्वास-प्रस्तुतिः

अत्राह– यद्य् अयं रति-प्रभवः शृङ्गारः,
कथम् अस्य करुणाश्रयिणो भावा भवन्ति।

English

Now it has been asked, “If the Erotic Sentiment Has its origin in love, why does it [sometimes] manifest itself through pathetic conditions?”

मूलम्

अत्राह–यद्ययं रतिप्रभवः शृङ्गारः कथमस्य करुणाश्रयिणो भाव1 भवन्ति।

विश्वास-प्रस्तुतिः

अत्रोच्यते– पूर्वम् एवाभिहितं सम्भोग-विप्रलम्भ-कृतः शृङ्गार इति।

English

[In reply to this] it is said, “It has been mentioned before that the Erotic Sentiment has its basis in union as well as in separation”.

मूलम्

अत्रोच्यते–2पूर्वमेवाभिहितं सम्भोगविप्रलम्भकृतः शृङ्गार इति।

Abh

अन्ये त्वादिशब्दं करुणवाचिनमाश्रित्य तदीयानुभावान्प्राधान्येन दर्शयन्ति । एकशेषेण द्वयमप्यन्ये । विप्रलम्भो विडम्बनं 1प्रसिद्धमिह तूपचारात्तदीयं फलं विरहात्मकं गृह्यते । ते2न हि परस्परं रतिमतो3रत्रविडम्बनमस्ति । तेन विरहेण कृतः सुष्ठुतमां 4पोषित इति दर्शयन्मुनिरनेन विना शृङ्गारो न प्रयोगे न काव्ये हृद्यतामवलम्बत इति दर्शयति ।

तथा हि–सम्भोगेऽप्येकघनशर्करास्वादस्थानीयतापरिहाराय वैषम्यं गोत्रस्खलितं स्पर्धामन्यद्वा कलहविप्रलम्भहेतुभूतं कवयो निबध्नन्ति । ‘वामो हि कामः’ (काम. शा. २-७-१) इति वात्स्यायनादिभिरभिहितम् । मुनिनापि वक्ष्यते। ‘यद्वामाभिनिवेशित्वम्’ इति (ना. शा. २२-२०७)। एते च व्यभिचारिणो विद्युदुन्मेषनिमेषयुक्त्यैव स्थायिसूत्रमध्ये प्रकटयन्तस्तिरोदधतश्च तद्वैचित्र्यमावहन्ति । न तु स्थिराः। यद्यपि स्थाय्यपि न स्थिरः तथाऽपि संस्काररूपतया धारावाहिसजातीयप्रवाहरूपतया च स्थिर एव । व्यभिचारिणस्तु नैवं क्षणमपि भवन्ति। संस्कारमपि स्वकं स्थायिसंस्कार एव प्रौढयन्ति । तथैव स्मरणाच्च।

तेन व्यभिचारिषु पृथक्पृथग्यैः क(थग्यत्कै)श्चिदुदाहृतं तन्न तन्त्रन्यायानुपाति। तथा हि –धृतौ यदुदाहृतं ‘असम्भाव्यं देवात् ’ इत्यादि तत्रापि हर्षविस्मयगर्वमति5प्रभृतीनां ‘च ते’ इति ‘माम6 इति’, ‘वलित’ इत्यादिसूचितानां सम्भार एव। ‘किमपरं त्रैलोक्यम्7 ’ इत्यादौ चावान्तरवाक्यारम्भे स्मृतिप्रभृतिभिः सर्वत्र भाव्यम् । अन्यथा हि धृत्येकवचनत्वे सर्वत्र श्लोकार्थे दृष्टिरेकैव चित्रन्यस्तेव भवेत् । ‘अस्यास्सर्गविधौ’ (विक्रमोर्व. १.१०) इत्यत्राप्यवान्तरवाक्यसमाप्तौ धृतिहर्षविस्मयादयो भवन्त्येव । अत एव विच्छिद्य वितर्कान्तरं समुदेति । न तु व्यभिचारी क्षणमप्यवतिष्ठते । चलं हि गुणवृत्तमिति हि तत्रभवन्तः। अत एव प्रयोगवैचित्र्यम् । अन्यथाऽवैचित्र्यात्स एव प्रयोगः स्यात् । मध्येऽन्ते चाश्रयाः स्फुटाः। ते च विस्मयधृतिप्रभृती8त्यास्तामेतत्।

Notes

(मू)

विश्वास-प्रस्तुतिः

वैशिक-शास्त्र-कारैश् च दशावस्थो ऽभिहितः।
ताश् च सामान्याभिनये वक्ष्यामः ।

English

Authorities on ars amatoria (vaiśikaśāstra) have mentioned ten conditions [of the persons separated from their beloved ones, which are pathetic]. We shall discuss them in the chapter on the Harmonious Histrionic Representation.33

मूलम्

वै1शिकशास्त्रकारैश्च2 दशावस्थोऽभिहितः।
3ताश्च सामान्याभिनये वक्ष्यामः ।

विश्वास-प्रस्तुतिः

करुणस् तु शाप-क्लेश-विनिपतित+इष्ट-जन-विभव-नाश–वध–बन्ध–समुत्थो निरपेक्ष-भावः।

English

The Pathetic Sentiment relates to a condition of despair owing to the affliction under a curse, separation from dear ones, loss of wealth, death or captivity,

मूलम्

4करुणस्तु 5शापक्लेशविनिपतितेष्टजनविभवनाशवधबन्धसमुत्थो निरपेक्षभावः।

विश्वास-प्रस्तुतिः

औत्सुक्य-चिन्ता-समुत्थः सापेक्ष-भावो विप्रलम्भ-कृतः।

English

while the Erotic Sentiment based on separation relates to a condition of retaining optimism arising out of yearning and anxiety.

मूलम्

औत्सुक्यचिन्तासमुत्थः6 सापेक्षभावो7 विप्रलम्भकृतः।

Abh

वाक्यैकवाक्यत्वेनावस्थाद्वयस्यूतस्य शृङ्गारस्य यत्स्वरूपमुक्तमेतदेव परिशोधयितुं पूर्वपक्षयति–अत्राहेति। करुणविषये आश्रयणं विद्यते येषां भूम्ना । अत एव कर्मधारयमत्वर्थीयाभ्यामितीह नाश्रितम् । भूम्ना वहति ह्यत्र (वहतीत्यत्र) पूर्वपक्षस्य प्राणितम् ।

ननु त्वयोक्तमसदेवास्त्वित्याशङ्क्याह-वैशिख्ये(के)त्यादि। वेशो वेश्यावर्गः। करणं च सम्भोगात्मकम् । तत्प्रयोजनं शास्त्रं कामसूत्रं ये कृतवन्तस्तैः। शृङ्गारो दशभिरभिलषितादिभिर्मरणान्ताभिरवस्थाभिर्युक्तो दर्शितः। अवस्थाग्रहणेन च तावन्तो बहवो विप्रलम्भा इत्याशङ्कां निराकरोति । तेन चिन्तादयोऽपि व्यभिचारित्वेन रतेस्तैरनु- 1ज्ञाता इति तात्पर्यम् । चकारेणेदमाह–परस्परास्थाबन्धात्मकत्वे रतिरूपे स्थिते सति तदङ्गंभूता दशावस्था विप्रलम्भाङ्गम् । यथोदयनस्य चित्रफलकावलोकनतः प्रभृति ।

ननु तत्रापि (न)रतिः क्व। अ(त)स्य विषयस्यानवगमात् । न हि चित्रमात्रम्। नलिनीसंस्तरादेः साक्षिणो विद्यमानत्वात् । आकृत्या च काम्यमानतौचित्यस्य लाभात्। यदि परं नाम त2ज्ज्ञास्त(न ज्ञातं त)त्कुत्रोपयोगीति । यदा तु विप्रलम्भाङ्गता न भवति तदा स्वातन्त्र्यं - यथा रावणस्यापि । तदुक्तमस्मदुपाध्यायभट्टतोतेन– स्वातन्ञ्येण प्रवृत्तौ तु सर्वप्राणिषु सम्भवः।’ इति ।

Notes

(मू)

विश्वास-प्रस्तुतिः

एवम् अन्यः करुणोऽन्यश् च विप्रलम्भ इति ।

English

Hence the Pathetic Sentiment, and the Erotic Sentiment in separation differ from each other.

मूलम्

एवमन्यः करुणोऽन्यश्च1 विप्रलम्भ इति ।

विश्वास-प्रस्तुतिः

एवमेष सर्वभाव-संयुक्तः शृङ्गारो भवति ।

English

And this is the reason why the Erotic Sentiment includes conditions available in all other Sentiments.

मूलम्

एवमेष सर्वभावसंयुक्तः शृङ्गारो भवति2 ।

विश्वास-प्रस्तुतिः

अपि च

सुख-प्रायेषु सम्पन्नः
ऋतु-माल्यादि-सेवकः ।
पुरुष-प्रमदा-युक्तः
शृङ्गार इति संज्ञितः ।। ४६ ।।

English

46. And the Sentiment called Erotic is generally happy, connected with desired objects, enjoyment of seasons, garlands and similar other things, and it relates to [the union of] man and woman.

मूलम्

अपि च3

सुखप्रायेषु4 सम्पन्नः ऋतुमाल्या5दिसेवकः ।
पुरुषः6 प्रमदायुक्तः शृङ्गार इति संज्ञितः ।। ४६ ।।

Abh

नन्वेवं व्यभिचार्यभेदाक्तरुणः कथं विप्रलम्भाद्भिद्यत इत्याशङ्क्याह- करुणस्त्विति। अधमप्रकृतेस्तावन्न विप्रलम्भः। स्थाय्यभावात् । तदभावो विभावसामग्रीवैकल्यादिति । तत्र तावत्करुणः पृथक् लब्धप्रतिष्ठः। एवमुत्तमप्रकृतावपि रतिविपरीतः शोकः करुणे स्थायी । अत एवाह निरपेक्षः । बन्धुजनादिविषये याऽपेक्षा रताविवालम्बनम् ।

यथोक्तम् –“आशाबन्धः कुसुमसदृशं1 प्रायश” इति (मेघ. १-१०) । ततो निष्क्रान्तो भावः शोकाख्यो यस्मिन् । शापक्लेशे विनिपतितस्येष्टजनस्य यो विभवनाशो वधो बन्धो वा ततः समुत्थानं यस्य। शापग्रहणेनाप्रतिकार्यत्वे सत्युत्तमप्रकृतेः शोकोदयस्थानमेतदिति दर्शयति । अन्यथोत्साहक्रोधादिविभावत्वं स्यात् । शोकत्वमेव च पराकर्तु कविकुलचक्रवर्तिना पुरूरवस ऊर्वशीशापप्राप्तिरनु2रूप(रनुप)लक्षितत्वेन निबद्धा। एवं विभावस्थायिविभेदो दर्शितः। येऽपि चैते निर्वेदाद्यास्तेऽपि वस्तुतो रत्यननुगृहिता निरपेक्षाच्छोकाद्भवन्त्यऽन्योन्य(न्तोऽन्य) एव । ततो3ऽप्याह निरपेक्षभाव इति ।

एवं प्रसङ्गात्करुणस्य स्वरूपमभिधाय प्रकृते योजयति–औत्सुक्यचिन्तेति । चिन्ताशब्दोऽशेषनिर्वेदाद्युपलक्षणंम् ।औत्सुक्यप्रधाना ये चिन्तादयस्तेभ्यः सम्यगुत्थानं विजृम्भो यस्य । अत एव सापेक्षो यत्र रत्याख्यो भावः। ते च सापेक्षाद्रत्याख्याद्भवन्ति। न हि विप्रलम्भे विभावः स्थायि च सम्भोगाद्भिद्यते । एक एवासाविति हि बहुश उक्तम् ।

एतदुक्तं भवति । औत्सुक्यं विषयौन्मुख्यम् । तच्च नष्टे विषये न सम्भवति ।

Notes

(मू)

विश्वास-प्रस्तुतिः

अपि चात्र सूत्रार्थानुविद्धे आर्ये भवतः ।

English

There are besides two Āryās related to the preceding Sūtra:

मूलम्

अपि चात्र सूत्रार्थानुविद्धे1 आर्ये भवतः ।

विश्वास-प्रस्तुतिः

ऋतु-माल्यालङ्कारैः
प्रियजन-गान्धर्व-काव्य-सेवाभिः।
उपवन-गमन-विहारैः
शृङ्गार-रसः समुद्भवति ।। ४७ ।।

English

The Erotic Sentiment arises in connexion with favourable seasons, garlands, ornaments, enjoyment of the company of beloved ones, music and poetry, and going to the garden and roaming there.

मूलम्

ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः।
उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ।। ४७ ।।

विश्वास-प्रस्तुतिः

नयन-वदन-प्रसादैः
स्मित-मधुर-वचो-धृति-प्रमोदैश् च ।
मधुरैश् चाङ्ग-विहारैस्
तस्याभिनयः प्रयोक्तव्यः ।। ४८ ।।

English

It should be represented on the stage by means of composure of the eyes and the face, sweet and smiling words, satisfaction and delight, and graceful movements of limbs.

मूलम्

नयनवदनप्रसादैः 3स्मितमधुरवचोधृतिप्रमोदैश्च4 ।
5मधुरैश्चाङ्गविहारैस्तस्याभिनयः प्रयोक्तव्यः ।। ४८ ।।

Abh

एवं परीक्ष्य परीक्षाफलमुपसंहारति–एवमेष इति । शृङ्गार इत्येकवचनेनैक एव शृङ्गार इत्युपसंहृतम् ।

एवं सूत्रार्थे परीक्ष्य स्थापिते तदर्थस्य सुखग्रहणार्थ सूत्रार्थविवरण- रूपत्वात्सूत्रसमीपेऽप्युपचितपाठात्कारिकामधुना पठति-अपि चेति । न केवलं सूत्रं परीक्षाऽपि यावदियं कारिकेति समुच्चयार्थः। एवं सर्वत्र मन्तव्यम् ।

तामेव कारिकां पठति–सुखेति । पुरुष इति भोक्ता संवेदनात्मकोऽभिप्रेतः। भोक्तैव च स्थायिसंविद्रूपः। व्यभिचारिणस्तु भोगस्वभावाः। तेन रतिरेव पुरुषः। तथा चोक्तम्- ‘श्रद्धामयोऽयं पुरुष’ इति । एवं प्रमदाऽपि । तत्र भोक्तृत्वे पुरुषस्य प्राधान्यम् । प्रमदायास्तु भोग्यत्वम् । प्राधान्यादेव च तस्य भोग्येनापरतन्त्रीकरणमिति नायिकान्तरयोगेऽपि न शृङ्गारहानिः। भोगस्य तु पारतन्त्र्यादेवान्यसम्मीलने शृङ्गारभङ्ग इति दर्शितम् । अत एव न स्थायिभेदः शङ्कनीयः। सुखप्रायेषु सम्पन्न इत्यादिपुरुषविशेषणत्वेन समुदितस्य विभावत्वं दर्शयति । 1विभावादयो (न) रसोदयं विनाऽऽस्वादैश्च भोक्तरीति निमग्नत्वे भोक्तृप्रधानत्वं च 2दर्शयन्ति । विषयसम्भारपूर्णताभिताभिमानजैव रतिरुचिता ।

एतदर्थमेव ‘जस्स3 अहं तादेण दिण्णेति’ ‘ईरिसस्सकण्वारअणस्स4 अवस्सं एव्व इरिसे वरे अहिलासेण होदव्वं ’ (Ratnāvalí II)5 इति (?) च। एतत्सर्वसम्पन्नत्वमेव नायिकायाः प्रदर्शितम् । अन्यथा नोत्तमत्वं स्यात् । निजजातिकुलानुरूपसम्पदभावे तु रतिः पुरुषार्थ6रूपत्वा(भावाद)नुपदेश्या । अत एव तत्र सर्वस्य प्रतीतिवैर(स्य)- स्यानन्तरसंभावनमिति श्लोकस्य तात्पर्यार्थः ।

Notes

(मू)

हास्यः

विश्वास-प्रस्तुतिः

अथ हास्यो नाम हास-स्थायि-भावात्मकः ।
स च विकृत-पर-वेषालङ्कार–धाष्ट्र्य–लौल्य–कुहक+++(=कलह)++++असत्-प्रलाप–व्यङ्ग+++(=विकृताङ्ग)+++-दर्शन–दोषोदाहरादिभिर् विभावैर् उत्पद्यते ।

English

Now the Comic (hāsya) has as its basis the Durable Psychological State of laughter.
This is created by Determinants such as, showing unseemly dress or ornament, impudence, greediness, quarrel, defective limb, use of irrelevant words, mentioning of different faults, and similar other things.

मूलम्

अथ हास्यो नाम हासस्थायिभावात्मकः ।
स च 1विकृत-परवेषालङ्कारधाष्ट्र्यलौल्य2कुहकासत्प्रलापव्यङ्गदर्शन3दोषोदाहरादिभिर्विभावैरुत्पद्यते ।

Abh

विषयसामग्रीसम्पूर्णो रस इति ये मन्यन्ते तेषाम1भ्रान्तिकारणमयं श्लोकः । स चेत्थं व्याख्यातो न भ्रान्तिजनकः। संश्रीयत (संज्ञित) इत्यनेनान्वर्थतां पराकरोति । तथा हि–उणादिषु (अव्युत्पन्नः)2 शृङ्गारशब्दो निपातित इति। (‘शृङ्गारभृङ्गारौ’ इत्युणादिसूत्रम्3 ४१६)

न केवलं श्लोकवृत्तमिदं सूत्रार्थानुविद्धे यावदार्ये अपित्यपि चेत्यस्य भिन्नक्रमस्यार्थः। प्रियो जनो विदूषकादिः। गान्ध्रर्वशब्दो गीतादिहृद्यविषयोपलक्षणम् । काव्यसेवाशब्देन विषयसङ्कल्पं विभावत्वेन लक्षयति ।

यस्त्वाह काव्यार्थीभूताद्रसात्काव्यार्थविदो भावान्तरं प्रादुर्भवति । अतः सुख- जनकत्वात्काव्यार्थो रस इति । स प्रत्युक्तः । न हि विषयसामग्री रस इति पूर्व दर्शितम् । धृतिप्रमोदशब्देन व्यभिचारिणो लक्षयति । एक एव च परमार्थतः शृङ्गार इत्यभिप्रायेणादाववस्थोपलक्षणद्वारेण सर्व एवोपसंहृतो मन्तव्यः।।

इति शृङ्गाररसप्रकरणम् ।।


अथ हास्यरसप्रकरणम् ।।

अथ हास्यं लक्षयितुमाह–अथेतिआत्मशब्देनेदमाह–रतिरास्वादनाख्यां प्रतीतिं विदधाना न तां रतिरूपामेव विधत्ते । प्रमुखे वि4भावादौ 5साधारण्यात् । हासे तु य आस्वादः सोऽपि विकृतवेषादीनां सामाजिकान्प्रति लोकवृत्तेन हासहेतुतेति विभावसाधारण्यद्वारेण तदेकस्वभाव एवेति हासात्मकरसनाख्यचर्वणाचर्वणीयत्वाच्चास्य 6रतिशोकावेव परमतज्जातीयसंविदास्वादौ7 धारारूढसुखदुःखरूपत्वेन निस्साधारणात्मीयंत्वनियमग्रहगृहीतहेतुबलादेवोत्पद्येते यतः अतोऽनयोर्मुनिना प्रभवग्रहणं कृतम् । अन्येषु तु विभावे साधारण्यसम्भावनात्तदात्मकग्रहणम् । नयविनयादेरन्याय- कारिणः 8समानं कालादेरपूर्ववस्तुनश्च सर्वान्प्रत्युत्साहक्रोध-भयजुगुप्साविस्मयहेतुत्वेन साधारण्यविभावत्वादित्यलं बहुना ।

Notes

(मू)

विश्वास-प्रस्तुतिः

तस्योष्ठ-नासा-कपोल-स्पन्दन–दृष्टि-व्याकोश+++(=विस्तार)++++आकुञ्चन-स्वेद+आस्य-राग–पार्श्व-ग्रहणादिभिर् अनुभावैर् अभिनयः प्रयोक्तव्यः ।

English

This (the Comic Sentiment) is to be represented on the stage by Consequents like the throbbing of the lips, the nose and the cheek, opening the eyes wide or contracting them, perspiration, colour of the face, and taking hold of the sides.

मूलम्

1तस्योष्ठनासाकपोलस्पन्दनदृष्टि2व्याकोशाकुञ्चन-स्वेदास्यरागपार्श्वग्रहणादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।

विश्वास-प्रस्तुतिः

व्यभिचारिणश् चास्यावहित्थालस्य-तन्द्रा-निद्रा-स्वप्न-प्रबोधासूयादयः।

English

Complementary Psychological States in it are indolence, dissimulation, drowsiness, sleep, dreaming, insomnia, envy and the like.

मूलम्

3व्यभिचारिणश्चास्यावहित्थालस्यतन्द्रानिद्रास्वप्नप्रबोधासूयादयः4 ।

विश्वास-प्रस्तुतिः

द्विविधश् चायम् - आत्मस्थः परस्थश् च ।

English

This (Sentiment), is of two kinds: self-centred and centred in others.

मूलम्

द्विविधश्चायमात्मस्थः परस्थश्च ।

विश्वास-प्रस्तुतिः

यदा स्वयं हसति तदाऽऽत्मस्थः ।
यदा तु परं हासयति तदा परस्यः।

English

When a person himself laughs, it relates to the self-centred (Comic Sentiment), but when he makes others laugh, it (the Comic Sentiments therein) is centred in others.

मूलम्

5यदा स्वयं हसति तदाऽऽत्मस्थः ।
यदा तु6 परं हासयति तदा परस्यः।

Abh

तत्र वेषः केशादिरचना। अलङ्कारः कटकादिः। स चोभयोऽपि विकृतो देशकालप्रकृतिवयोऽवस्थाविपरीतो हास्यस्य विभावः। एतेन सर्वे रसा हास्येऽन्तर्भूता इति दर्शितम् । अथ विदुषकोऽपि तद्वेषं विदधद्धास्याभासं प्रथयतीत्येतच्च प्रागेवोक्तम् । परस्य सम्बन्धी परः। एवंभूतो देवदत्तस्य वेषोऽयमलङ्कारो वा इत्युद्धट्टक (ना. शा. ४-१८७)भाण्डनृत्तादौ दर्श्यमानो हासं करोति । वेषालङ्कारौ गतागतिकादेरप्युपलक्षणम्। धाष्टर्य निर्लज्जता । लौल्यं विषयेष्वनियतता । कुहकं कक्षग्रीवादिस्पर्शनं विस्मापनविधिप्रसिद्धं बालानाम् । अङ्गविगमो विखुनादि व्यङ्गम् । एषां दर्शनमिति समासः । दोषा अतत्प्रकृतेरपि भयादयः अकार्यकरणादयश्च विकृतवेषादय एव वा। तेषामुदाहरणं वर्णनम् । आदिग्रहणात्सङ्कल्पस्मृत्यादि ।

ओष्ठादेः स्पन्दनशब्देन संबन्धः । व्याकोशनं विकासो निमीलनं च । आकुञ्चनं त्वीषत् । एतद्दृष्ट्या योज्यम् । आस्यरागो मुखरागः। पार्श्वयोर्ग्रहणं पीडनम् । तन्द्राशब्देन मोहः । एते च विभावा अनुभावा व्यभिचारिणश्च प्रकृतित्रयभेदेन ये स्मितादिभेदा वक्ष्यन्ते तेषु यथायोगं योजनीयाः।

द्विविधश्चायमिति । आत्मस्थैर्विभावैर्विकृतवेषादिभिर्विदूषकः स्वयं हसति स, तस्यात्मस्थः । देवी च हासयतीति तस्याःपरस्थः -तदिदमसत् । एवं हि विभावाना-

Notes

(मू)

विश्वास-प्रस्तुतिः

1अत्रानुवंश्ये आर्ये भवतः ।

English

There are two traditional Āryās here:

मूलम्

1अत्रानुवंश्ये आर्ये भवतः ।

विश्वास-प्रस्तुतिः

विपरीतालङ्कारैर्
विकृताचाराभिधान-वेषैश् च ।
विकृतैर् अर्थविशेषैर्
हसतीति रसः स्मृतो हास्यः ।। ४९ ।।

English

49. As one laughs with an exhibition of oddly placed ornaments, uncouth behaviour, words and dress and strange movements of limbs, it is called the Comic Sentiment.

मूलम्

विपरीतालङ्कारैर्विकृताचाराभिधानवेषैश्च2 ।
विकृतैरर्थवि3शेषैर्हसतीति रसः स्मृतो हास्यः ।। ४९ ।।

विश्वास-प्रस्तुतिः

विकृताचारैर् वाक्यैर्
अङ्ग-विकारैश् च विकृत-वेषैश् च ।
हासयति जनं यस्मात्
तस्माज् ज्ञेयो रसो हास्यः ।। ५० ।।

English

50. As this makes [other] persons laugh by means of his uncouth behaviour, words, movement of the limbs and strange dress, it is known as the Comic Sentiment.

मूलम्

4विकृताचारैर्वाक्यैरङ्गविकारैश्च विकृतवेषैश्च5 ।
हासयति जनं यस्मात्तस्माज्ज्ञेयो रसो हास्यः ।। ५० ।।

विश्वास-प्रस्तुतिः

स्त्रीनीच-प्रकृताव् एष
भूयिष्ठं दृश्यते रसः ।
षड् भेदाश् चास्य विज्ञेयास्
तांश् च वक्ष्याम्य् अहं पुनः ।। ५१ ।।

English

51. This Sentiment is mostly to be seen in women and men of the inferior type, and it has six varieties of which I shall speak presently.

मूलम्

स्त्रीनीचप्रकृतावेष6 भूयिष्ठं दृश्यते रसः ।
षड्भेदाश्चास्य विज्ञेयास्तांश्च वक्ष्याम्यहं पुनः ।। ५१ ।।

विश्वास-प्रस्तुतिः

स्मितम् अथ हसितं
विहसितम् उपहसितं चापहसितम् अतिहसितम् ।
द्वौ द्वौ भेदौ स्याताम्
उत्तम-मध्याधम-प्रकृतौ ।। ५२ ।।

English

52. They are: Slight Smile (smita), Smile (hasita), Gentle Laughter (vihasita), Laughter of Ridicule (upahasita), Vulgar Laughter (apahasita) and Excessive Laughter (atihasita). Two by two they belong respectively to the superior, the middling and the inferior types [of persons].

मूलम्

स्मितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितम् ।
द्वौ द्वौ भेदौ स्यातामुत्तममध्याधमप्रकृतौ7 ।। ५२ ।।

8तत्र

स्मितहसिते ज्येष्ठानां9 मध्यानां विहसितोपहसिते च ।
अधमानामपहसितं ह्यतिहसितं चापि10 विज्ञेयम् ।। ५३ ।।

Abh

मात्मस्थत्वविभागः स्यात । न हासस्य । किञ्च स्वामिन शोकोऽनुजीविषु शोकं करोतीति परस्थता सर्वत्र स्यात् । स्वयंभूर्हि परत्र देव्यादौ व्यक्तः परस्थ इति चेद्गम्भीरस्य 1प्रभोरनुजीविगतानुभावव्यक्तः क्रोधोऽपि परस्थो भवेत् । तद्विभाव आत्मस्थोऽतो2(न्य)- विभावकस्त्वन्य इत्यप्यसत् । परहासोऽपि तद्धासे विभावः स्यात्। एतच्च रत्यादिषु सर्वेष्वप्यस्ति । तस्मादयमत्रार्थः–परं हसन्तं दृष्ट्वा स्वयं विभावानपश्यन्नपि हसन्लोके दृष्टः। तथा विभावादिदर्शनेऽपि गाम्भीर्यादनुदितहासोऽपि परकीयहासावलोकने3 तत्क्षणं हासविवशः4 सम्पद्यत एवेति स्वभावः।यथाऽम्लदाडिमादिरसास्वादः सङ्क्रमणस्वाभावो-

Notes

(मू)

अत्र श्लोकाः-

1ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः।
अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत्2 ।। ५४ ।।

उत्फुल्लानननेत्रं तु3 गण्डैर्विकसितैरथ4 ।
किञ्चिल्लक्षितदन्तं च हसितं तद्विधीयते5 ।। ५५ ।।

अथ मध्यमानाम्6 :-

आकुञ्चिताक्षिगण्डं यत्सस्वनं मधुरं तथा7 ।
8कालागतं सास्यरागं तद्वै विहसितं भवेत्9 ।। ५६ ।।

Abh

ऽन्यत्रापि दन्तोदकविकारानु1रूपसङ्क्रमदर्शनादेव 2सङ्क्रामति एवं हासः स्वभावतः सङ्क्रमशील इति3 काष्ठकाऽस्य4 भूयिष्ठता । नानाभेदा इत्याह–षड्भेदाश्चेति। द्वौ द्वाविति । यथाक्रमं विभावतारतम्यमित्यादीति केचित् । तत्त्वसत् । भेदान्तराणामपि प्रसङ्गात् । तस्मात्सङ्क्रमणाभिप्रायेणैतत् । स्मितं हि यदुत्तमप्रकृतौ तत्सङ्क्रान्तं हसितं सम्पद्यते । अत एव व्यवस्थो हास इति वक्ष्यते । षडवस्थो ह्यन्यथा स्यात्।

स्मितस्येषत्तायां व्यपगतायां5 हसितं ततो विशेषेण, ततोऽपि परस्य समीपं गतम्, अन्यदपहसितमतिशयेन6 चेत्युपसर्गभेदादर्थभेदः। (५३)

सौष्ठवमनुल्बणता । द्विजा दन्ताः धीरमिति मन्थरं कृत्वा ईषत्त्वं निवार्याह7 विकासितैरितिअथेति । स्मितानन्तरं संक्रमणकाल इत्यर्थः। तदिति। स्मितमेव संक्रान्तं सदेवंरूपतामेतीत्यर्थः।

Notes

(मू)

उत्फुल्लनासिकं यत्तु1 जिह्मदृष्टिनिरीक्षितम्2 ।
3निकुञ्चिताङ्गकशिरस्तच्चोपहसितं भवेत् ।। ५७ ।।

अथाधमानात्4 :-

अस्थानहसितं यत्तु5 साश्रुनेत्रं तथैव च ।
उत्कम्पितांसकशिरस्तच्चापहसितं भवेत्6 ।। ५८ ।।

7संरब्धसाश्रुनेत्रं च विकृष्टस्वर8मुद्धतम् ।
करोपगूढपार्श्व 9च तच्चातिहसितं भवेत् ।। ५९ ।।

10हास्यस्थानानि यानि स्युः 11कार्योत्पन्नानि नाटके ।
उत्तमाधममध्यानामेवं तानि प्रयोजयेत् ।। ६० ।।

12इत्येष स्वसमुत्थस्तथा परसमुत्थश्च विज्ञेयः।
द्विविधस्त्रिप्रकृतिगतस्त्र्यवस्थभावो रसो हास्यः ।। ६१ ।।

Abh

जिह्माख्याया भाविन्या दृष्ट्या निरीक्षणं यत्र काल उचितं तेन 1संस्थानादौ। (५७)

अस्थान इत्यकाले शोकाद्यवसरे । विकृष्टं श्रवणकटु । नाटक इति । नाटकशब्दो रूपकमात्रवृत्तिः। स्वसमुत्थ इत्यसंक्रान्तस्मितविहसितापहसितलक्षणः। परसमुत्थः संक्रान्तो हसितोपहसितातिहसितरूपः। हसितादि2रूपसंक्रमणयो(मेवो)- त्कृष्टप्रकृतौ स्मितादिरूपम् । रतिक्रोधशोकादेस्तु न संक्रमणं भवतीत्युक्तमेव । तत्र हि युगपदेव वा स एव विभावस्तच्चित्तवृत्तिमान्वा पुरुषो विभावतामेति । न तु त एव विभावास्तस्य चित्तवृत्तिं प्रस्तूय 3संक्रमयाद्यस्य (मयन्त्यन्यस्य) प्रस्तुवतः। हासमिव(स एव) सर्वेषामात्मस्थपरस्थभेदोपलक्षणमेतदित्यन्ये । एतच्चासत् । अनुभवसिद्धमेव हीदं हासः संक्रामतीति ।

Notes

(मू)

अथ करुणो नाम1 शोकस्थायिभावप्रभवः2। स च 3शापक्लेश- विनिपतितेष्टजनविप्रयोग4विभवनाशवधबन्ध5विद्रवोपघात6 व्यसनसं- योगादिभिर्विभावैः समुपजायते । 7 तस्याश्रुपातपरिदेवनमुखशोषणवैवर्ण्य- 8स्रस्तगात्रतानिश्श्वासस्मृतिलोपादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्य निर्वेदग्लानिचिन्तौत्सुक्यावेगभ्रममोह9श्रमभयविषाद- दैन्यव्याधिजडतोन्मादापस्मार10त्रासालस्यमरणस्तम्भवेपथुवैवर्ण्या- श्रुस्वरभेदादयः।

Abh

अन्यस्त्वाह–तिसृषु प्रकृतिषु त्र्यवस्थो विभावतारतम्यात् द्विरूपः। पुनरात्मपरस्थत्वेन द्विधेति द्वादशभेदोऽयमिति कारिकातात्पर्यमिति । अत्र च पृथग्विभावनमपि भवति । तत्त्वतिप्रसङ्गावहं तन्मतमिति नोदाहृतम । (६१)

इति हास्यरसप्रकरणम् ।।


अथ करुणरसप्रकरणम्।।

इदानीमवसरायातं करुणं लक्षयति–अथ करुणो नामेति । अथेति क्रमे । तत्र चायं क्रमः- सम्भोगेन हास्योऽङ्गत्वेनापेक्षितः। विप्रलम्भेन च समानव्यभिचारीकत्वात्करुण इति टीकाकारः

एतच्च पूर्वापरविरुद्धम् । अस्माभिस्तूद्देशविभाग एव क्रमो दर्शितः। तस्याभिनयः प्रयोज्यो यस्यास्वाद्यमानस्य करुण इति व्यपदेशः। ‘सदहृदयता हि करुणा लोके प्रसिद्धा । सा च लिङ्गैरनुकर्तरि शोकं प्रतीयतां सामाजिकानामिति करुणव्यपदेशः, इति श्रीशङ्कुकः

एतच्च पूर्वापरविस्मरणविजृम्भितमस्य । यतः 1शोकप्रतिकृतिस्तस्य करुणा । दया च नाम परित्राणेच्छा । सा कथं शोकानुकरणम् । किं प्रति तेषां दयेति न विद्मः।

Notes

(मू)

अत्रार्ये भवतः-

इष्टवधदर्शनाद्वा विप्रियवचनस्य संश्रवा1द्वापि ।
एभिर्भावविशेषैः करुणरसो नाम संभवति ।। ६२ ।।

2सस्वनरुदितैर्मोहागमैश्च3 परिदेवितैर्विलपितैश्च ।
अभिनेयःकरुणरसो देहायासाभिघातैश्च ।। ६३ ।।

Abh

तस्मात् करुण इति शोकस्य1 सर्वसाधारणत्वेन प्राग्युक्त्या आस्वाद्यमानस्य संज्ञा। तदर्थमेव नामशब्दः। तत्प्रभवत्वं शृङ्गारवद्व्याख्येयम् । अशक्यप्रतीकारहेतूपलक्षणं शापग्रहणम् । शापक्लेशे पतितस्येष्टजनस्य ये विप्रयोगादयः। तत्र विप्रयोगोऽयं सङ्गमः (योगोऽसङ्गमः) विभवनाशादि प्रसिद्धम् । विद्रवो देशादुच्चाटनम् । तच्च विप्रयोगेऽपीति विशेषः। उपघातः 2पुत्रादिम3रणम् । अग्न्यादिकृतो विद्रवः चोरादिकृत उपघात इति त्वसत् । विभवनाशेन गतत्वात् । व्यसनेन मृगयाक्षादिनाऽनर्थजनकेन संयोगः। विभवनाशादयोऽपि स्वात्मगता नत्तोमप्रकृतेः 4शोकं कुर्युः। मध्यमाधमप्रकृतीनां तु कुर्युरेवेत्यादिग्रहणम् । परिदेवनमात्मानो दैवसान्यस्य चोपालम्भः । निश्वासशब्देन तदनन्तरभावी उच्छ्वासोऽप्यूर्ध्वश्वसनरूपो लक्ष्यते । स्मृतिलोपेन स्तम्भप्रलयौ लक्ष्येते। वैवर्ण्याश्रुस्वरभेदा अत्र बहिरुद्भिन्नस्वभावाश्चित्तवृत्त्यात्मानो गृह्यन्ते । तथा हि वक्तारो भवन्ति ’ अश्रुणा पूर्णोऽस्य कण्ठो न च नयनजलं दृष्टम् ’ इति । एते ह्यश्रुप्रभृतयो व्यभिचारित्वाभिनेयत्वोपजीवनायैव मध्ये निर्दिष्टा इत्यवोचाम वक्ष्यामश्च। तेन न पौनरुक्त्यम् । एवमन्यत्रापि । व्याधेरुन्मादापस्मारौ भेदेन वक्ष्यामः।

वधशब्दो बन्धादेरप्युपलक्षणम् । विप्रियमिष्टजनवधादि येन वाक्येनोच्यते तस्य श्रवणात् । तेन चेष्टजनस्य विभवनाशादि दृश्यमानं श्रूयमाणं वा कविभिः करुणविभावत्वेनोपनिबन्धनीयमिति तात्पर्यम् । एभिरित्येवंप्रकारैः। भावशब्दोऽत्रार्यायां विभाववाची । अनुभावांस्तद्द्वारेण च व्यभिचारिणोऽप्युपलक्षयितुमार्यान्तरं सस्वनेत्यादि। बहुवचनं प्रकृतिदेशकालदशाहेत्वादिभेदेनानेकप्रकारत्वज्ञापनार्थम् । मोहो जडता ।

Notes

(मू)

अथ रौद्रो नाम क्रोधस्थायिभावात्मकः रक्षोदानवोद्धतमनुष्य- प्रकृतिः1 संग्रामहेतुकः । स च क्रोधाधर्षणाधिक्षेपा2नृत3वचनोप- घातवाक्पारुष्याभिद्रोहमात्सर्यादिभिर्विभावैरुत्पद्यते । तस्य च ताडन- पाटनपीडनच्छेदन4भेदनप्रहरणाहरणशस्त्रसम्पात5सम्प्रहाररुधिराकर्षणा-

Abh

तेनान्ये व्यभिचारिण उपलक्ष्यन्ते । देहस्यायासनं पातनवेष्टनादि । अभिघात उरस्ताडनादिः। एते चानुभावाः प्रकृतिभेदेन यथायोगं विभजनीयाः करुणो रौद्रादित्युक्तम् । स की(ही)दृग्रौद्र इति क्रमं केचिदाहुः।। (६३)

इति करुणरसप्रकरणम् ।।


अथ रौद्ररसप्रकरणम् ।।

अधुना रौद्ररसं लक्षयति -अथ रौद्रो नामेति । आत्मग्रहणस्यायमाशयः। अन्यायकारिता प्राधान्येन क्रोधस्य विषयः । तादृशि च जने सर्वो(र्वे)ऽपि मनोरथैरपि रुधिरपानमपि नामाद्रियन्ते । तथा चाह लोकः- तादृशो यदि लभ्यते तत्तदीयं रुधिरमपि पीत्वा न तृप्यते । महाकविना भासेनापि स्वप्रबन्घ उक्तम् -

‘त्रेतायुग तद्धि न मैथिली सा रामस्य रागपदवी मृदु चास्य चेतः ।
लब्धा जनस्तु यदि रावणमस्य कायं प्रोत्कृत्य तन्न तिलशो न 1वितृप्तिगामी ।।’ इति ।

तेन हास्यवस्ताधारणविभावत्वाच्चर्वणापि क्रोधमय्येवेति तद्रसनाचरणौ(चर्वणो) रौद्रः क्रोधात्मक एव । उद्रिक्तं हन्तृत्वं येषां त उद्धताः। तद्वेषधारिणो ये नटास्ते प्रकृतिश्चर्वणोदयहेतुरस्य । अत्र व्याचक्षते -‘युद्धहेतुक उद्धतमनुष्येषु भीमसेनादिषु रुधिरपानादिलक्षणः। रक्षोदानवास्तु स्वभावरौद्रा’ इति । तदसत् । भीमस्य रुधिरपानं न युद्धहेतुकम् । अपि तु विपर्ययेण । उद्धतस्वभावत्वादेव ह्यसौ क्रोधपरवशः

Notes

(मू)

1द्यानि कर्माणि2 । पुनश्च रक्तनयन3भ्रुकुटीकरण4दन्तोष्ठपीडनगण्ड- स्फुरणह5स्ताग्रनिष्पेषादिभिरनुभावैरभिनयः प्रयोक्तव्यः।

Abh

सन्ननुचितमपि प्रतिज्ञातवान् । तन्निर्वाहायैव च राक्षसाधिष्ठानमस्य कविना वेणीसंहारे वर्णितम् । तस्मात्सर्व एवैते स्वभावात् क्रोधनाः। तदनुकारिणि नटे रौद्र आस्वाद्यत इति स तस्य प्रकृतिः1 । सङ्ग्रामहेतुक इति चायमर्थः- युद्धस्य कविनटप्रदर्श्यमाने हेतुकः 2कुस्तितहेतुः वीरो हि तस्योचितो हेतुर्न क्रोधः। तथा च प्राधान्येन युद्धेन वीर एव व्यपदेक्ष्यते ।

नन्वेते स्वभावक्रोधना अपि किमुद्दीपनमेक्षन्ते । ओमित्याह–स चेति। क्रोधादि परकर्तृकम् । आधर्षणं दारादिखलीकरणम् । अविक्षेपो देशजात्यभिजनविद्याकर्मनिन्दा। अनृतस्य कस्याप्यपसत्यस्य वचनम्उपघातो गृहभृत्याद्युपमर्दनम् । वाक्पारुष्यं वधाद्युपन्यासेन तर्जनम् । अभिद्रोहो जिघांसा । मात्सर्य गुणेष्वसूया । आदिग्रहणाद्राज्यापहरणादि । एतैरुत्पद्यते कविना विभावत्वेन वर्ण्यमानैः।

अस्य ताडनादीनि कर्माणि रक्तनयनादयोऽनुभावा इति पृथङ्निरूपणं तुल्येऽप्यनुभावत्वे विशेषख्यापनार्थम् । विशेषस्तु पूर्वेषां वचनमात्रेण व्यावर्णनम् । रङ्गे प्रत्यक्षतोऽप्रदर्शनीयत्वात् । यद्वक्ष्यते –

‘युद्धं राज्यभ्रंशो मरणं नगरोपरोधनं चैव।
अप्रत्यक्षकृतानि प्रवेशकैः संविधेयानि ।।’ इति ।। (ना.शा. १८-३८)

रक्तनयनादि रङ्गे प्रत्यक्षेण कृतम् ।

प्रहरणाहरणं3 तु पूर्वत्र प्रमादपठितमिति केचित् । इदं तु पृथगभिधाने तुच्छं प्रयोजनम् । अयं चात्राशयः-रक्षोदानवोद्धतमनुष्या उद्दीपनहेतुभिर्विनाऽपि चेष्टितमात्रं यदपि कुर्वते नर्मगोष्ट्याद्यपि च तत्र ताडनादि प्रधानम् । तद्वक्ष्यति – ’ यच्च किञ्चिदारभन्ते ’ इति । उद्दीपन/?/म्भते ताडनादिग्रस्त एव रक्तनयनाद्यधिकीभवति। अत एव पुनश्शब्दः। तत्र ताड/?/ तलाद्यभिघातः। पाटनं द्विधाकरणम् । पीडनं मर्दनम् । (छेदनं) कर्तनम् । भेदनं परस्परं मित्रादि4 वियोजनम् । भावे ल्युङन्ताः5। प्रहरणानामासमन्ताद्धरणम्

Notes

(मू) 1.क्ष. रुधिरास्राकर्षणाद्यानि । प.त. रधिरास्रावणाद्यानि । त. रुधिराकर्षणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । पुनश्च।

1भावाश्चास्यासम्मोहोत्साहावेगामर्षचपलतौग्य्रगर्व2स्वेदवेपथु- रोमाञ्चगद्गदादयः3।

अत्राह-यदभिहितं 4रक्षोदानवादीनां रौद्रो रसः। किमन्येषां 5नास्ति। उच्यते–अस्त्यन्येषामपि रौद्रो रसः। किन्त्वधिकारोऽत्र गृह्यते । ते हि स्वभावत एव रौद्राः। क6स्मात् । बहुबाहवो बहुमुखाः7

Abh

शस्त्रस्य सम्पातनमविदारयतोऽपि । सम्प्रहरणं विदारयतः पातनम् । तेन रुधिरस्याकर्षणम् । रक्षःप्रभृतयो हि नर्मणाऽपि प्रहरन्ति । किन्तु रुधिरागमनमात्रफलं न त्वधिकम्। रक्ते च ते नयने । भ्रुवोर्मूलसमुत्क्षेपो भ्रुकुटी । दन्तोष्ठस्य यथायोगं पीडनम् । हस्ताग्रयोरन्योन्यनिष्पेषः सङ्घर्षणम् ।

भावा इति व्यभिचारिणः। असंमोहः सम्मोहविपरीतः। विरोधे नञ् । तत्रावृत्तिसङ्गृहीतः सम्यग्बोधः। उत्साहोऽत्र व्यभिचारी । क्रोधस्य प्राधान्येन रसनीयत्वात्। स्वेदादयो बाह्याः । आभ्यन्तर-सात्त्विकाभावेऽपि विषस्पर्शज्वरादिना भवन्ति । ततोऽनैकान्तिकाः। आन्तरा अनुद्रिक्ता व्यजनग्रहणादिभिः, उद्रिक्ता बाह्यैः स्वेदादिभिर्व्यक्ता व्यभिचारिरूपाः पठिताः।

एष्वेव रौद्ररस इत्याभिप्रायं गृहीत्वा चोदक आह–यदभिहितमिति । सिद्धान्ती त्वेषु रौद्रो भवत्येवेत्यभिप्रायेणाह–अस्त्यन्येषामिति। अन्येषां कविनटाभ्यां प्रयुज्यमानानां सम्बन्धी जन्यत्वेन । अधिकारोऽनुवृत्तिः । अत्रेति -राक्षसादिषु । एतदेव व्यनक्ति– ते हीति । स्वभावशब्दानन्तरमेवकारेण भवन्त्येवेत्ययोगव्यवच्छेद एव सूचितः। स्वयं तेषां भवनं तत इत्यर्थः। तेनाङ्गरौद्रोपन्यासोऽप्यविरुद्धः। अन्यथा स्वभावरौद्र एव रक्ताक्षादिभिरभिधेयः स्यात् । न बहुबाहुमुखादि । तत्र राक्षसादयोऽपि न परिजने सदा क्रुद्धा इति प्रतीयन्त इत्याशयेनाह स्मादिति ।

Notes

(मू)

प्रोद्धूतविकीर्णपिङ्गलशिरोजाः रक्तोद्वृत्तविलोचना1 भीमासितरूपिण- श्चैव। यच्च किञ्चित्समारभन्ते स्वभाव2चेष्टितं वागङ्गादिकं तत्सर्व रौद्रमेवैते3षाम्। 4शृङगारश्च तैः प्रायशः प्रसभं सेव्यते । तेषां चानुकारिणो5 ये 6पुरुषास्तेषामपि सङ्ग्रामसम्प्रहारकृतो रौद्रो रसोऽनुमन्तव्यः ।

अत्रानुवंश्ये आर्ये भवतः-

Abh

अत्रोत्तरं बहुबाहव इति । लोकप्रसिद्धाकारविपरीतो हि तेषामाकारः । तत्र च परविनाशनाभिसन्धिजनितं तपश्चर्यादिकं दृष्टं वा कर्म तेषां व्याप्रियते । अतस्तादृशेष्वदृ(षुदृ)ष्टेषु स एव क्रोधात्मकोऽभिसन्धिर्गम्यत इति सामाजिकानां नान्तर्दृ- (कानान्तर्दृ)श्यते रौद्रास्वादः। तेन च रागादिव यत्क्रोधकाले दृष्टं तत्सदैव तेषामुद्वृत्तं तारकयोः रक्तविलोचनम् । अत एव भीममसितं कृष्णं सदैव रूपं येषाम् । नित्ययोग इनिः। अत एव1 च/?/न बहुव्रीहिरत्र कृतः। 2(भीमासितरूपाः इति बहुव्रीहिपदप्रयोगः न कृतः इत्यर्थः।)

न केवलं कायस्तदीय इत्थं यावच्चेष्टितमपि तदीयं दृश्यमानं रौद्रास्वादजनकमेवेति दर्शयति–यच्चेतिस्वभावेनेति (वेति)। चित्तस्याविकारेऽपि यच्चेष्टितं वाचिकं कायिकं वा तदेषां ताडनादिप्रधानमिति दृश्यमानं काव्ये प्रयोगे च रौद्रास्वादहेतुः। वागङ्गे आदिकारणे यस्य । मानसं तु चेष्टितमप्रत्यक्षत्वान्नोक्तम्।

सर्वमिति यदुक्तं तत्स्फुटयति -शृङ्गारश्चेति । शृङ्गारशब्देनात्र तद्विभावः प्रमदोद्यानादिः। सोऽपि तैः प्रसभमिति क्रूराकारतया सेव्यते । यत्रौग्र्यस्य वर्जनमुक्तं किं पुनरन्यदिति चशब्दस्यार्थः। तथा’आ। सीते पतिगर्वविभ्रमह(भ)रभ्राम्यद्भ्रूः (उदात्तराघवनाटके) इत्याद्युदाहरणम् । तथा नानादेवसे3वापि ‘गाढाम्रेडं मलयमरुतः शृङ्खलादाम दत्त’ (बाल.रामा. ५-५१) इति रौद्ररसत्वेन कदाचिदनुनयेनापीति दर्शयति–प्रायश इति ।

Notes

(मू)

1युद्धप्रहारघा2तनविकृतच्छेदनविदारणैश्चैव ।
सङ्ग्रामसम्भ्रमा3द्यैरेभिः सञ्जायते रौद्रः4 ।। ६४ ।।

नानाप्रहरणमोक्षैः5 शिरःकबन्धभुजकर्तनैश्चैव ।
6एभिश्चार्थविशेषैरस्या7भिनयः प्रयोक्तव्यः ।। ६५ ।।

इति रौद्ररसो दृष्टो रौद्रवागङ्गचेष्टितः।
शस्त्रप्रहारभूयिष्ठ उग्रकर्मक्रियात्मकः ।। ६६ ।।

Abh

ननूद्धतमनुष्येषु तर्हि कथं रौद्रादिविकारः। न हि ते बहुबाहुत्वादियुक्ता इत्याशङ्क्याह–तेषा चेति । राक्षसादीनाम् । अनुकारिण इति । तामसप्रकृतितया तत्सदृशा अनुगामित्वेन मन्तव्या इत्यर्थः। कथमित्याह-सङ्ग्रामेतिसम्प्रहारग्रहणेन पूर्वोक्तं ताडनपाटनादि गृह्यते । तेन बहुबाहुत्वाद्यभावेऽप्युद्धतमनुष्या वागङ्गचेष्टितेन क्रोधोचितेन रौद्रप्रकृतय इति लक्ष्यन्ते। एवं रक्षोदानवेत्यादावयोगव्यवच्छेदो निश्चितः। अन्येऽपि तु वीरप्रधाना अश्वत्थामजामदग्न्यादयः। तेषु कारणमहिम्ना भवत्येव क्रोधो रौद्रास्वादयोग्यः। राक्षसादीनामपि च हासशोकादिः स्वकारणोदितोऽभिभूतक्रोधः। हास्यकरुणादेश्चेह योगो भवत्येव । तेनैषां न रौद्र एव रसः। ननु सामाजिकानां तथाभूतराक्षसादिदर्शने कथं क्रोधात्मक आस्वादः? उच्यते-हृदयसंवाद आस्वादः। क्रोधे च हृदयसंवादस्तामसप्रकृतीनामेव सामाजिकानामिति दानवादिसदृशास्तन्मयीभूता एवान्यायकारिविषयं क्रोधमास्वादयन्तीति न किञ्चिदवद्यम्।

विकृतं यच्छेदनं व्यङ्गादिकरणम्। युद्धादीति परेण क्रियमाणौचित्यम् । तेन युद्धाद्यनुमितस्य परक्रोधादेर्विभावत्वमुक्तम् । सङ्ग्रामाय सम्भ्रमः। शस्त्राहरणे त्वरा।

अनुभावानाह-नानेति। मारणप्राधान्यं नानाप्रहरणेन दर्शयति । शिरःकर्तनादिमृ1त- शरीरस्यापि क्रोधातिशयं सूचयन्वीराद्भेदमाह । युद्धवीरेऽपि हि तन्नास्ति । इह तु

Notes

(मू)

अथ 1वीरो नामोत्तमप्रकृतिरुत्साहात्मकः। स चासंमोहाध्य- वसायनयविनयबल2पराक्रमशक्तिप्रतापप्रभावादिभिर्विभावैरुत्पद्यते । तस्य स्थैर्यधैर्यशौर्यत्याग3वैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः। 4भावाश्चास्य धृतिमतिगर्वावेगौग्य्रामर्षस्मृतिरोमाञ्चादयः5। अत्रार्ये6 रसविचारमुखे–

Abh

वक्ष्यते–उग्रकर्मेति । उग्राण्यौग्य्रप्रधानानि यानि शिरःकर्तनादीनि तेषां या क्रिया अप1नीतिः सा आत्मा प्रधानं यस्येति । भरतमुनिस्त्वेकेन श्लोकेनोपसंहरति–इति रौद्ररस इति ।।(६६)

इति रौद्ररसप्रकरणं समाप्तम्


अथ वीररसप्रकरणम्

क्रमप्राप्तं वीरं लक्षयति–(अथ वीरेति) संग्रामसम्प्रहारयोगो रौद्रेऽपीति वीरेऽजिघांसेति । आनन्तर्यमथशब्देनाह । उत्तमानां प्रकृतिः स्वभावो यत उत्साहोऽतो वीररसोऽपि तथा । यदि वा काव्ये नाट्ये च प्रयुज्यमान उत्तमप्रकृतिर्हेतुर्यस्य । उत्तमवर्णानां हि सर्वत्रोत्साह आस्वाद्यो भवति । अत एव चतुर्ष्वपि नायकेषु वी- रत्वमनुयायित्वेन वक्ष्यते धीरोदात्त इत्यादि। 2यद्यपि सर्वो जन उत्साहवानेव । 3तथापि 4तदुत्साहस्याविषयप्रवृत्तत्वात्तदीयं चरितं काव्यनाट्ययोर्नोपदेश्यम् । यदीयं तु चरितमुपदेशार्ह तेषामुचित एवावसरे उत्साहाभिव्यक्तिः । उचितत्वं चावसरस्यासंमोहादिसम्पत्तिरिति सैव विभावत्वेनोपदिष्टा । असंमोहेनाध्यवसायो हि वस्तुतत्त्वनिश्चय इति मन्त्रशक्तिर्दर्शिता । असद्वस्त्वभिनिवेशोऽसंमोहो रावणादिगत उत्साहकारीत्यसत् । अशब्दार्थत्वात् । तत्रापि च पराक्रमनयादिरेव विभावः। सन्ध्यादिगुणानां सम्यक्प्रयोगो नयः। इन्द्रियजयो विनयः। बलं हस्त्यश्वरथपादातम् ।

Notes

(मू)

उत्साहा(होऽ)ध्यवसायादविषादित्वादविस्मयामोहात्।
विविधादर्थविशेषाद्वीररसो नाम सम्भवति ।। ६७ ।।

स्थि1तिधैर्यवीर्यगर्वैरुत्साहपराक्रमप्रभावैश्च ।
वाक्यैश्चाक्षेपकृतैर्वीररसः सम्यगभिनेयः ।। ६८ ।।

Abh

पराक्रमः परकीयमण्डलाद्याक्रमेणावस्कन्दः। युद्धादिके सामर्थ्यं शक्तिःप्रतापः शत्रुविषये सन्तापकारिणी प्रसिद्धिः। प्रभावोऽभिजनधनमन्त्रिसम्पत् । आदिग्रहणेन यशःप्रभृति। एते च सम्पूर्णस्वभावा एव विभावा भवन्ति । उत्तमस्य कदाचित्कश्चिदधिक इति पृथक्पृथगुदाहरणमसत्1। वस्तुतो ह्यत्रोदाहरणं सर्वमेव रामादिचरितम् । सचिवायत्तसिद्धौ च वत्सराजप्राये नायके यथायोगं सचिवगता अप्येते मन्तव्याः। प्रतिनायकगता अपि च ते उत्साहव्यञ्जका इति यथायोगं व्यस्तसमस्तभेदकल्पनं कविना कार्यम् ।

स्थैर्यमचलनम् । गाम्भीर्यकृतं संवरणं धैर्यम्शौर्य युद्धादिक्रिया । त्यागो दानम् । वैशारद्यं सामाद्युपायचतुष्कस्यैकद्वित्रिचतुरादिभेदैर्यथाविषयं नियोजनम् ।

2अर्थ्यते इत्यर्थः। कर्मणि घञ् । धर्मादि चतुर्वर्गः। कर्मव्युत्पत्त्यैव हि धर्मादयः पुरुषार्थाः इत्युच्यन्ते। पुरुषेणार्थनीयत्वात् । अर्थविशेषस्य विविधत्वं धर्मादिभेदात्। तदयमर्थः। विविधं धर्मादिरूपमर्थविशेषमभिसन्धायं3 अविषादित्वात् अविस्मयासंमोहश्चेति द्वन्द्वे एकवद्भावः। अविस्मयादसंमोहाच्च हेतोर्योऽध्यवसायो निश्चयः स चोत्साहयतीति णिजन्तात् पचाद्यजन्तत्वेन व्युत्पत्त्या उत्साहहेतुः। उत्साहश्चासावध्यवसायश्चेति कर्मधारयः।

एतदुक्तं भवति–आपदि हृदयस्य निमग्नत्वं, तत्परवशत्वं, विषादित्वं, स्वल्पेऽपि सन्तोषो विस्मयः। मिथ्याज्ञानं मोह एतत्त्रयमपास्य यस्तत्त्वनिश्चयः स एवोत्साहहेतुः प्रधानतया । रौद्रे तु ममता4प्राधान्यादशास्त्रीयानुचितयुद्धा5द्यपीति मोहविस्मयप्राधान्यम्। एवं च विषादित्वादित्रयापासनपूर्वकमुद्भूतेनाध्यवसायेन हेतुना य उत्साह उत्पद्यते स वीररसो नाम।

स्थितिः स्थैर्यम् । वीर्य शौर्यम् । गर्वपदेन तदनुभावो लक्ष्यते । उत्साहनमुत्साहोऽबलस्य विषण्णप्रायस्योत्तेजनं यथा सेतुबन्धकाव्ये । पराक्रमः पराक्रमणा। इत्थमत्र भवद्भिरासितव्यं योद्धव्यमिति बलस्य व्यापारणादितिकर्तव्यतायां6 भृत्यानां प्रभावना प्रभावसम्पादनम् । आक्षेपो वस्त्वन्तरस्य सूचनं तेन कृतानि तत्प्रधानानि यानि वाक्यानीति गम्भीरदुरवगाहार्थत्वं वाक्यानामित्युक्तम् ।(६८)

इति वीररसप्रकरणं समाप्तम्

Notes

(मू)

अथ भयानको नाम भयस्थायिभावात्मकः1। स च 2विकृत- रवसत्त्वदर्शनशिवोलूक3त्रासोद्वेगशून्यागारारण्यगमनस्वजनवधबन्ध- दर्शनश्रुतिकथादिभिर्विभावैरुत्पद्यते । तस्य प्रवेपितकरचरणनयन4- चपलपुलकमुखवैवर्ण्यस्वररभेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः।

5भावाश्चास्य स्तम्भस्वेदगद्गदरोमाञ्चवेपथुस्वरभेदवैवर्ण्यशङ्का- मोहदैन्यावेगचापलजडतात्रासापस्मारमरणादयः।

अत्रार्याः6-

Abh

अथ भयानकरसप्रकरणम्

वीरस्य भीतावयव(भीताभय)प्रधानत्वाद्भयानकं लक्षयति-अथेति । विकृतो रवोऽट्टहासादिः। सत्त्वानां पिशाचानां दर्शनम् । त्रासोद्वेगौ परगतौ । शून्यागारस्यारण्यस्य च गमनं प्राप्तिः। स्वजनस्य यौ बधबन्धौ तयोर्दर्शनं प्रत्यक्षेण । श्रवणमागमेन । कथाचिरा1तिक्रान्तयोरपि पुनरनुसन्धानेन स्मरणम् ।

वेपितुं प्रवृत्तं यत्करचरणं आ(तदा)दिकर्मैव भयव्यञ्जकं व्याध्यादिवैलक्षण्य- सूचनात् । पुलको रोमकूपोन्नतिः। स्वरस्य भेदः स्वभावविपर्ययः।

गुरुनृपयोरिति । अयमाशयः- भयं तावत्स्त्रीनीचबालादिषु वक्ष्यते । नोत्तम- मध्यमप्रकृतिषु । तेऽपि (2उत्तममध्यमप्रकृतयोऽपि तु गुरुभ्यो राज्ञश्च (3कृत्रिमं) भयं दर्शयेयुः। तद्भावेऽप्येषां सुतरामुत्तमत्वं भवति । अप्रभुत्वं चामात्यानाम् । यथाह-‘स्वेच्छाचारी भीत एवास्मि’ इति । (रत्ना.१.७)। अनुभावाश्च तथा श्लिष्टास्तत्र

Notes

(मू)

विकृतरवसत्त्वदर्शनसंग्रामारण्यशून्यगृहगमनात् ।
गुरुनृपयोरपराधात्कृतकश्च 1भयानको ज्ञेयः ।। ६९ ।।

2गात्रमुखदृष्टिभेदै3रूरुस्तम्भा4भिवीक्षणोद्वेगैः ।
सन्नमुखशोषहृदय5स्पन्दनरोमोद्गमैश्च भयम् ।। ७० ।।

एतत्स्वभावजं स्यात्सत्त्वसमुत्थं तथैव कर्तव्यम् ।
पुनरेभिरेव भावैः कृतकं मृदुचेष्टितैः6 कार्यम् ।। ७१ ।।

करचरणवेपथुस्तम्भगात्रहृदयप्रकम्पेन7 ।
शुष्कोष्ठतालुकण्ठैर्भयानको नित्यमभिनेयः ।। ७२ ।।

Abh

क्रियन्ते लोके येन सत्यत एव भीतोऽयमिति गुर्वादीनां प्रतीतिर्भवति । अस्वाभाविकत्वाच्च कृतकत्वं, बहुतरकालानुवर्तनेनास्वाद्यत्वाच्च रसत्वम् । न च व्यभिचारित्वम् । तद्धि तदा स्याद्यदि स्वभावत एव कि1ञ्चित्काललवमुत्पद्यते (६९)

गात्रादीनां भेदो वर्णकर्मसंस्थानादिविपर्ययः । वीक्ष्यमति(भि)क्रा(क्रा)म्यति वीक्षणं का2न्दिशीकत्वेन निर्लक्षचक्षुःकृतम्3 । उद्वेगः चलनम् । सादो गात्राणां स्रस्तता । मुखस्य तालुनि शोषः । हृदयस्यन्दनमतिवेगेन । इह4 भयमित्यभिनेयमिति वीररस इत्यार्यातः सम्बध्यते ।

ता एता ह्यार्या एकप्रघट्टकतया पूर्वाचार्यैर्लक्षणत्वेन पठिताः । मुनिना तु सुखसङ्ग्रहाय यथास्थानं निवेशिताः ।

सत्त्वसमुत्थमिति । सत्त्वं मनस्समाधानं तज्जन्मकमिति नटस्येयं शिक्षा ।

सा च सर्वविषयेति टीकाकारः । तदिदमसत् । कविनटशिक्षार्थमेव सर्वमिदं प्रकरणम् । लोके विभावानुभावाभिनयादिव्यवहाराभावात् । तस्मादयमत्रार्थः-

Notes

(मू)

(व्या)

अथ बीभत्सो नाम जुगुप्सास्थायिभावात्मकः । स1 चाहृद्याप्रियाचोक्षानिष्टश्रवणदर्शनकीर्तनादिभिर्विभावैरुत्पद्यते । तस्य स2र्वाङ्गसंहारमुखविकूण3नोल्लेखननिष्ठीनोद्वेजनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । 4भावाश्चास्यापस्मारोद्वेगावेगमोहव्याधिमरणादयः । अत्रानुवंश्ये आर्ये भवतः5-

Abh

एतत्तावद्धयं स्वभावजं रजस्तमःप्रकृतीनां नीचानामित्यर्थः । येऽपि च सत्त्वप्रधानास्तेषां सत्त्वसमुत्थं प्रयत्नकृतमेभिरेवानुभावैः कार्यम्, किन्तु मृदुचेष्टितैः यतस्तत्कृतकम् । पुनःशब्दो विशेषद्योतकः । ननु च राजादिः किमिति गुर्वादिभ्यो भयं कृतं(तकं) दर्शयति । दर्शयित्वा किमिति मृदून् गात्रकम्पनादीन्प्रदर्शयति । किमिति च भयानक एव कृतकत्वमुक्तम् । सर्वस्य हि कृतकत्वमुक्तं भवति । यथा वेश्या 1धनार्थिनी कृतकां रतिमादर्शयति–इत्याशङ्क्य साधारणमुत्तरमाह–तथैव कार्यमिति । भये हि प्रदर्शिते गुरुर्विनीतं तं2 जानाति । मृदुचेष्टिततया चाधमप्रकृतिमेन न3 गणयति । कृतकशृङ्गार- रत्यादेश्चो4पदिष्टान्न5 काचित्पुरुषार्थसिद्धिः । तेनैव ह्युक्तेन प्रकारेण 6कार्यपुरुषार्थविशेषो लभ्यते । यत्र तु राजा न कृतकं परानुग्रहाय क्रोधविस्मयादीन्दर्शयति तत्र व्यभिचारितैव तेषां न स्थायितेत्येतदर्थसूचिकामेव गुरुवंशान्तरप्रसिद्धामार्यां पठति–करचरणेतिनित्यमिति । कृतकत्वेऽकृतकत्वे च । (७२)

इति भयानकरसप्रकरणम् ।।


अथ बीभत्सरसप्रकरणम् ।।

अवसरप्राप्तं बीभत्सरसं लक्षयति-अथेति । 7अहृद्यं हृद्यमपि किञ्चित्कस्यचिन्निसर्गतोऽप्रयतं (तोऽप्रियं) लशुनमिव द्विजानाम् । अप्रियं जात्यादिदोषात् । यथा श्लेष्मोपहतस्य क्षीरम् । अचोक्षं स्वरूपेणादुष्टमपि तु मलाद्युपहतम् । अनिष्टं यत्रानिशं भुक्तत्वेनेच्छा8 निवृत्ता । संहारः पिण्डीकरणम् । मुखस्येति तदङ्गानां सङ्कोचनम् । उल्लेखनमुल्लाघः । निष्टीवनं कफनिरासनम् ।

Notes

(मू) 1.ड. चाहृद्याप्रियापेक्षानि । ब. अ. हृद्याप्रशस्ताप्रियावेक्षा ।

(व्या)

1अनभिमतदर्शनेन च 2गन्धरसस्पर्शशब्ददोषैश्च ।
3उद्वेजनैश्च बहुभिर्बीभत्सरसः समुद्धवति ।। ७३ ।।

मुखनेत्रविकूण4नया नासाप्रच्छादनावनमितास्यैः5 ।
अव्यक्तपादपतनैर्बीभत्सः सम्यगभिनेयः6 ।। ७४ ।।

अथा7द्भुतो नाम विस्मयस्थायिभावात्मकः । स च दिव्यजनदर्शनेप्सितमनोरथावाप्त्यु 8पवनदेवकुलादिगमनस- भाविमानमायेन्द्रजालसम्भावनादिभिर्विभावैरुत्पद्यते । तस्य नयनविस्तारा- निमेषप्रेक्षणरोमाञ्चाश्रुस्वेदहर्षसाधुवाद9दानप्रबन्धहाहाकारबाहुवदनचेला- ङ्गुलि10भ्रमणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । 11भावाश्चास्य स्तम्भा-

Abh

उद्वेजनं गात्रोद्धूननम् । नासाप्रच्छादनं दुर्गन्धप्राये दृष्टम् । प्रतिघातादव्यक्तानि पादयोः पतनानि । यदि वाऽस्थिकङ्कालाद्याकुले पितृवने सञ्चरतोऽस्फुटितानि पादपतनानि क्वचिद्दीर्घाणि अन्यत्र ह्रस्वानि इति । (७४)

इति बीभत्सरसप्रकरणम् ।।


अथाद्भुतरसप्रकरणम्

सर्वत्रान्तेऽद्भुत इत्युक्तं लक्षयितुमाह-अथेतिदिव्या गन्धर्वादयः । ईप्सितः शक्यप्राप्तिरर्थः । अन्यो मनोरथः । तयोः प्राप्तिः । 1उपवने देवकुले च गमनम् । तस्याद्भुतविभावत्वं येन तत्रत्यं सरः2सं3निवेशादि न क्वचित् दृष्टम् । सभा गृहविशेषः । विमानादीनि दिव्यरथाः । माया रूपपरिवर्तनादिका । इन्द्रजालं मन्त्रद्रव्यहस्त4-

Notes

(मू) 1.क्ष.त.म. अनभिहित ।

(व्या)

श्रुस्वेदगद्गदरोमाञ्चावेगसम्भ्रम1जडताप्रलयादयः । अत्रानुवंश्ये आर्ये भवतः—

यत्त्वतिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं वा2 ।
3तत्सर्वमद्धुतरसे विभावरूपं हि विज्ञेयम् ।। ७५ ।।

4स्पर्शग्रहोल्लुकसनैर्हाहाकरैश्च साधुवादैश्च ।
वेपथुगद्गदवचनैः 5स्वेदाद्यैरभिनयस्तस्य6 ।। ७६ ।।

Abh

युक्त्यादिना असम्भद्वस्तुप्रदर्शनम् । तस्येत्यद्भुतस्य । हर्षशब्देनात्र तदनुभावाः । साध्विति वदनं साधुवादःदानं धनादेः । प्रबन्धं सततं कृत्वा हाहाशब्दस्य करणम् । चेलस्याङ्गुलेश्च भ्रमणम् ।

अतिशेत इत्यतिशयः । अन्यापेक्षया योऽर्थ उत्कुष्टः । तेन वाच्यभूतेन यु्क्तं यद्वाक्यं यच्च शिल्पं कर्मरूपं (1प्रशस्त)कर्मात्मकं, ‘प्रशंसायां रूपम्’ । सर्वमित्येवंप्रकारमिति यावत् । स्पर्शग्रहशब्देन तद्विभावादयः । अभिनयो ल(व)क्ष्यमाणो लक्ष्यते ।

‘किञ्चिदाकुञ्चिते नेत्रे कृत्वा भ्रूक्षेपमेव च ।
तथांसगण्डयोः स्पर्शात्स्पर्शमिवं विनिक्षिपेत् ।।’ (ना.शा. २२.७७) इति ।

गात्रस्योर्ध्वं साह्लादं धूननमुल्लुकसनम् । बहुवचनं प्रकृतिभेदेन प्रकारवैचित्र्यं सूचयति ।। (७६)

इत्यद्धुतरसप्रकरणं समाप्तम् ।


अथ प्रधानभूतविभावानुगुणभावप्रतिपादनं भेदप्रदर्शनव्याजेन करोति–शृङ्गार- मित्यादिना । वाक्यरौद्रो हि तत्र स्वभावरौद्र इति व्यवहरिष्यते । स्वभावानुसारित्वाद्वा–

Notes

(मू)

(व्या)

1शृङ्गारं त्रिविधं 2विद्याद्वाङ्नैपथ्यक्रियात्मकम् ।
अङ्गनैपथ्यवाक्यैश्च हास्यरौद्रौ 3त्रिधा स्मृतौ ।। ७७ ।।

धर्मोपघातज4श्चैव तथार्थापचयोद्धवः ।
तथा 5शोककृतश्चैव करुणस्त्रिविधः स्मृतः ।। ७८ ।।

दानवीरं धर्मवीरं 6युद्धवीरं तथैव च ।
रस7वीरमपि प्राह ब्रह्मा त्रिविधमेव हि8 ।। ७९ ।।

Abh

क्यस्य । धर्मोपघातज उत्तमानामपि शोभ(च)नहेतुत्वात् । शोकशब्देन स्वजनादिना– 1शश्च एते त्रयो विभावाः । धर्मशब्देनाग्निनष्टोमादिक्रिया । अत एतद्यजनादि न2 नियमेनानुभावात्मकम् । प्रतिनायकगतं तु विभावरूपमपि । व्याजादिति । कृतक इत्यर्थः । अनेनानुभावमार्दवं दर्शितम् । अपराध्यन्तीत्यपराद्धा(धा)श्चोरादयः । यत्तु स्वभावत्रस्तहृदयानां स्त्रीबालादीनां तृणेऽपि कम्पमाने भयं तद्वित्रासितकम् । विशेषेण त्रास्यत इति वित्रासितो बालादिः । तत्प्रकृतित्वाद्भयानकं तथोक्तम् । ततः संज्ञायां कन् ।

गुर्वाद्यपराधात्परमार्थतोऽप्युत्तमानां भयावेग3 इति त्वसत् । भयं हि विनाशशङ्कात्मकं नोत्तमेषु संभवति । 4तथा च भयं नाम स्त्रीनीचप्रकृतिकमिति सामान्येन लक्ष्यते ।

रुधिरान्त्रादिदर्शनाद्यो बीभत्सः क्षोभणत्वाच्छुद्धः । यस्तु विष्ठादिभ्यः स उद्वेगी हृदयं चलयति सोऽशुद्धः । अशुद्धविभाकत्वात् । उपाध्यायस्त्वाह– बीभत्सस्तावद्विभावविशेषात्5 द्विविधः6 । यत्र तु संसारनाट्यनायकराग7–प्रतिपक्षतया मोक्षसाधनत्वाच्छुद्धः । यदाहुः-‘8शोकात्स्वाङ्गजुगुप्सा’ इति तथा ‘वितर्कबाधने प्रतिपक्षभावनम् ।’ (योगसू. २.४०,३३) इति । तेन सोऽपि परमार्थतस्त्रिविध एव । द्वितीयक इत्यनेन तस्य दुर्लभत्वेनाप्राचुर्यं सूचयति ।

Notes

(मू) 1 त. पुस्तके इमे श्लोकाः शान्तरसप्रकरणात्परं दृश्यन्ते ।

(व्या)

व्याजाच्चैवापराधाच्च वित्रासितकमेव च ।
पुनर्भयानक1स्यापि विद्यात् त्रिविधमेव हि ।। ८० ।।

बीभत्सः क्षोभजः2 शुद्ध उद्वेगी 3स्यात् द्वितीयकः ।
विष्ठाकृमिभिरुद्वेगी क्षोभ4जो रुधिरादिजः ।। ८१ ।।

द्विव्यश्चानन्दजश्चैव द्विधा ख्यातोऽद्भुतो रसः ।
दिव्यदर्शनजो दिव्यो हर्षादानन्जजः स्मृतः ।। ८२ ।।

(5अथ शान्तो नाम शमस्थायिभावात्मको मोक्षप्रवर्तकः । स तु तत्त्वज्ञानवैराग्याशयशुदध्यादिभिर्विभावैः समुत्पद्यते । तस्य यमनियमाध्यात्मदध्यानधारणोपासनसर्वभूतदयालिङ्गग्रहणादिभिरनुभावैरभिनयः

Abh

दिव्य इति । यत्र सभाविमानादयोऽनुभावाः । आनन्दयतीत्यानन्दो मनोरथा- वाप्त्यादिः । स एव हर्षयतीति हर्षः

एषु च ‘शृङ्गारम्’ इत्यादिषु श्लोकेषु चकारा वि1भावानुभावान्तरनिरासशङ्कां पराकर्तुम् । एवकाराः इयन्त एव तेषां मुख्यत्वेन सङ्गता इति दर्शनार्थाः । तथाशब्दा अनुक्तविभावाद्यूहनार्था इति यथायोगं योज्यम् । (८२)

इत्यद्भुतरसप्रकरणं समाप्तम्


अथ शान्तरसविचारः

ये पुनर्नव रसा इति पठन्ति तन्मते शान्तस्वरूपमभिधीयते । तत्र केचिदाहुःशान्तः शमस्थायिभावात्मकस्तपस्या2योगिसम्पर्कादिभिः विभावैरुत्पद्यते । तस्य कामक्रोधाद्यभावरूपैरनुभावैरभिनयः । व्यभिचारी धृतिमतिप्रभृतिः (इति) ।

एतदपरे न सहन्ते । शमशान्तयोः पर्यायत्वात् । एकान्न(एकेन)पञ्चाशद्भावा इति सङ्ख्यात्यागात् । किञ्च विभावा ऋतुमाल्यादयस्तत्समनंन्तरभाविनि शृङ्गारादावनुसन्धीयन्ते इति युक्तम् । तपोऽध्ययनादयस्तु न शान्तस्य समनन्तर3हेतवः ।

Notes

(मू)

(व्या)

प्रयोक्तव्यः । व्यभिचारिणश्चास्य निर्वेदस्मृतिधृतिसर्वाश्रमशौच– स्तम्भरोमाञ्चादयः । अत्रार्याः श्लोकाश्च भवन्ति—

मोक्षाध्यात्म1समुत्थस्तत्त्वज्ञानार्थहेतुसंयुक्तः ।
नैःश्रेयसोपदिष्टः2 शान्तरसो नाम सम्भवति3 ।।

Abh

तत्त्वज्ञानस्यानन्तरहेतव इति चेत्पूर्वतरोदिततत्त्वज्ञानेऽपि तर्हि प्रयोज्यतेति तपोऽध्ययनादीनां विभावता त्यक्ता स्यात् । कामाद्यभावोऽपि नानुभावः । शा(अशा)- न्ताद्विपक्षादव्यावृत्तेः । अगमकत्वात्प्रयोगासमवायित्वाच्च । न हि चेष्टाव्युपरमः प्रयोगयोग्यः । सुप्तमोहादयोऽपि हि निःश्वासोच्छ्वासपतनभूश1यनादि- भिरश्चेष्टाभिरेवानुभाव्यन्ते । धृतिप्रभृतिरपि प्राप्तविषयोपभोगः कथं शान्ते स्यात् । न चाकिञ्चित्करत्वमात्रेण तत्त्वज्ञानोपाये व्युत्पाद्यन्ते विनेयाः2 । नैते3 परदुःखदुःखितमनसो दृश्यन्ते सम्यग्दर्शनसमावस्थां प्राप्ताः । अपि तु संसारे । तन्न शान्तो रस इति ।

अत्रोच्यते–यथा4 इह तावद्धर्मादित्रितयमेवं5 मोक्षोऽपि पुरुषार्थः । शास्त्रेषु स्मृतीतिहासादिषु च प्राधान्येनोपायतो व्युत्पाद्यत इति सुप्रसिद्धम् । यथा च कामादिषु समुचिताश्चित्तवृत्तयो रत्यादिशब्दवाच्याः कविनटव्यापारेणास्वादयोग्यताप्रापणद्वारेण तथा- विधहृदयसंवादवतः सामाजिकान्प्रति रसत्वं शृङ्गारादितया नीयन्ते तथा मोक्षाभिधानपरमपुरुषार्थोचिता चित्तवृत्तिः किमिति रसत्वं नानीयत इति वक्तव्यम् । या चासौ तताभूता चित्तवृत्तिः सैवात्र स्थायिभावः । एतत्तु चिन्त्यम् । किं नामासौ-तत्त्वज्ञानोत्थितो निर्वेद इति केचित् । तथा हि–दारिद्र्यादिप्रभवो यो निर्वेदः स ततोऽन्य एव । हेतोस्तत्त्वज्ञानस्य वैलक्षण्यात् । स्थायिसञ्चारिमध्ये चैतदर्थमेवायं पठितः । अन्यथा माङ्गलिको मुनिस्तथा न पठेत् । जुगुप्सां च व्यभिचारित्वेन शृङ्गारे निषेधन्मुनिर्भावानां सर्वेषामेव स्थायित्व6सञ्चारित्व7चित्तोपात्तत्वानुभावस्थत्वान्नि– (भावत्वानि) योग्यतोपनिपातितानि शब्दार्थबलाकृष्टान्यनुजानाति ।

तत्त्वज्ञानजश्च निर्वेदः स्थाय्यन्तरोपमर्दकः । (उपमर्दक) भाववैचित्र्यसहिष्णुभ्यो रत्यादिभ्यो यः परमः स्थायिशीलः स एव हि8 स्थाय्यन्तराणामुपमर्दकः । इदमपि

Notes

(मू)

बुद्धीन्द्रियकर्मेन्द्रियसंरोधाध्यात्मसंस्थितोपेतः1 ।
2सर्वप्राणिसुखहितः शान्तरसो नाम विज्ञेयः3 ।।
न यत्र दुःखं न सुखं न द्वेषो नापि मत्सरः ।

समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ।।

भावा विकारा रत्याद्याः शान्तस्तु प्रकृतिर्मतः ।

Abh

पर्यनुयुञ्जते–तत्त्वज्ञानजो निर्वेदो(प्यव) (दोऽस्य च) स्थायीति वदता तत्त्वज्ञानमेवात्र विभावत्वेनोक्तं स्यात् । वैराग्यस1बीजादिषु कथं 2विभावत्वम् ? तदुपायता(त्वा)दिति चेत्कारणकारणो(णे)ऽयं विभावताव्यवहारः । स चातिप्रसङ्गावहः ।

किञ्च निर्वेदो नाम सर्वत्रानुपादेयताप्रत्ययः वैराग्यलक्षणस्य च (णः । स च) तत्त्वज्ञानस्य प्रत्युक्तो(तो)पयोगी । विरक्तो हि तथा प्रयतते यथाऽस्य तत्त्वज्ञानमुत्पद्यते । तत्त्वज्ञानाद्धि मोक्षः । न तु 3तत्त्वं ज्ञात्वा निर्विद्यते निर्वेदाच्च मोक्ष इति । ‘वैराग्यात्प्रकृतिलयः ।’ इति हि तत्रभवन्तः(ई. कृ. सांख्यकारिका. ४५.)।

ननु तत्त्वज्ञानिनः सर्वत्र दृढतरं वैराग्यं दृष्टम् । तत्रभवद्धिरप्युक्तं– ‘तत्परं पुरुषख्यातेर्गुणवैतृष्णयम्’ इति (योगसूत्र-१-१६) । भवत्येवम् । तादृशं तु वैराग्यं ‘ज्ञानस्यैव परा काष्ठा ।’ इति (व्यासभाष्य-१-१६) भुजङ्गविभुनैव भगवताऽभ्यधायि । ततश्च तत्त्वज्ञानमेवेदं तत्त्वज्ञानमालया परिपोष्यमाणमिति न निर्वेदः स्थायी । किन्तु तत्त्वज्ञानमेव स्थायीति4 भवते । यत्तु व्यभिचारिव्याख्यानावसरे वक्ष्यते तच्चिरकालविभ्रमविप्रलब्धस्योपादेयत्वनिवृत्तये । यत्सम्यग्ज्ञानम्–

यथा–

‘वृथा दुग्धोऽनङ्वांस्स्तनभरनता गौरिति परं परिष्वक्तः षण्ढो युवतिरिति लावण्यरहितः ।
कृता वैडूर्याशा विकचकिरणे काचशकले मया मूढेन त्वां कृपणमगुणज्ञं प्रणमता ।।’ इति

Notes

(मू)

(व्या)

विकारः प्रकृतेर्जातः पुनस्तत्रैव लीयते ।।

स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते ।
पुनर्निमित्तापाये च शान्त एवोपलीयते ।।

एवं नवरसा दृष्टा नाट्यज्ञैर्लक्षणान्विताः ।)

Abh

तन्निर्वेदस्य खेदरूपस्य 1विभावत्वेन । एतच्च तत्रैव वक्ष्यामः ।

ननु मिथ्याज्ञानमूलो विषयगन्धस्तत्त्वज्ञानात्प्रशाम्यतीति दुःखजन्म2सूत्रेणा– क्षपादपादैर्वदद्भिर्मिथ्याज्ञानापचयकारणं तत्वज्ञानं वैराग्यस्य दोषापायलक्षणस्य कारण- मुक्तम् । ननु ततः किम् ? ननु वैराग्यं निर्वेदः ? क एवमाह ? निर्वेदो हि शोकुप्रवाहप्रसररूपश्चिमत्तवृत्तिविशेषः । वैराग्यं तु रागादीनां प्रध्वंसः ।

भवतु वा वैराग्यमेव निर्वेदः । तथापि तस्य स्वकारणवशान्मध्यभाविनोऽपि न मोक्षे साध्ये सूत्रस्थानीयता प्रत्यपादि3 आचार्येण । किञ्च तत्त्वज्ञानोत्थितो निर्वेद इति शमस्यैवेदं निर्वेदनाम कृतं स्यात् । न च4 शमशान्तयोः पर्यायत्वमाशङ्कनीयम्5 । 6हासहास्ययोरिव7 सिद्धसाध्यतया8 लौकिकालौकिकतया9 साधारणासाधारणतया च वैलक्षण्यात्10 । शमशान्तयोरपि सुलभमेव तस्मान्न निर्वेदः स्थायीति ।

अन्ये मन्यन्ते रत्यादय एवाष्टौ चित्तवृत्तिविशेषा उक्ताः । त एव कथितविभावविविक्तया(तया) श्रुता(त्या)द्यलौकिकविभावविशेषसंश्रया विचित्रा एव तावत् । ततश्च तन्मध्यादेवान्यतमोऽत्र स्थायी । तत्राना(व्या)हतानन्दमय11स्वात्मविषया रतिरेव मोक्षसाधनमिति सैव शास्त्रे रतिस्थायी । यथोक्तम्-

‘यश्चात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ।।’ (गीता ३-१७) ।

एवं समस्तविषयं वैकृतं पश्यतो विश्वं च शोच्यं विलोकयतः सांसारिकं च वृत्तान्तमपकारित्वेन पश्यतः सातिशयमसम्मोहप्रधानं 12वीर्यमाश्रितवतः सर्वस्माद्विषयसार्था- 13द्बिभ्यतः सर्वलोकस्पृहणीयादपि प्रमदादेर्जुगुप्समानस्यापूर्वस्वात्मातिशयलाभाद्वि-

Notes

(व्या)

Abh

स्मयमानस्य मोक्षसिद्धिरिति । (1रतिहासादीनां विस्मयान्तानामन्यतमस्य स्थायित्वं निरूपणीयम् । न चैतन्मुनेर्न सम्मतम् । यावदेव हि 2विशिष्टान् 3भावान्परिगणयति 4रत्यादिशब्देन च तत्प्रकारानेवान्यान्संगृह्णीते तावदेव तद्व्यतिरिक्तालौकिकहेतूपनतानां रत्यादीनामनुजानात्येवापवर्गविषयत्वम् । 5एवंवादिनां तु परस्परमेव 6विशारयतामेकस्य स्थायित्वं विशीर्यत एव । तदपायभेदात्तस्य तस्य स्थायित्वमित्यप्युच्यमानं 7प्रत्युक्तमेव । स्थायिभेदेन प्रतिपुरुषं रसस्याप्यनन्त्यापत्तेः8 । मोक्षैकफल9त्वादेको रस इति चेत् । 10क्षयै- कफलत्वे वीररौद्रयोरप्येकत्वं स्यात् । अन्ये तु पानकरसवदविभागं प्राप्ताः सर्व एव रत्यादयोऽत्र स्थायिन इत्याहुः । चित्तवृत्तीनामयुगपद्भावादन्योन्यं च विरोधादेतदपि न मनोज्ञम् ।

कस्तर्ह्यत्र स्थायी । उच्यते–इह तत्त्वज्ञानमेव तावन्मोक्षसाधनमिति तस्यैव मोक्षे स्थायिता युक्ता । तत्वज्ञानं च नामात्मज्ञानमेव । 11आत्मनश्च(श्चा)व्यतिरिक्तमिन्द्रिय- (क्तं स्याद)स्यैव ज्ञानम् ? परो ह्येवमात्माऽनात्मैव स्यात् । विपञ्चितं चैतदस्मद्गुरुभिः । अस्माभिश्चान्यत्र वितन्यत इतीह नातिनिर्बन्धः कृतः ।

तेनात्मैव ज्ञानान्दादिविशुद्धधर्मयोगी परिकल्पितविषयोपरागरहितोऽत्र स्थायी । न चास्य स्थायितयास्थायित्वं वचनीयम् । रत्यादयो हि तत्तत्कारणान्तरोदय- प्रलयोत्पद्यमाननिरुध्यमानवृत्तयः कञ्चित्कालमापेक्षिकतया स्थायिरूपात्मभित्तिसंश्रयाः षट्(सन्तः) स्थायिन इत्युच्यन्ते । तत्त्वज्ञानं तु सकलभावान्तरभित्तिस्थानीयं सर्वस्थायिभ्यः स्थायितमं सर्वाः रत्यादिकास्स्थायिचित्तवृत्तीर्व्यभिचारीभावयत् निसर्गत एव सिद्धस्थायिभावमिति तन्त्रवचनेन । अत एव पृथगस्य गणना न युक्ता । न हि खण्डमुण्डयोमर्मध्ये तृतीयं गोत्वमिति गण्यते । तेनैकान्न(नैकोन)पञ्चाशद्भावा इत्यव्याहतमेव ।

अस्यापि कथं (न) पृथग्गणनेति चेत्-पृथगास्वाद(दा)योगादिति ब्रूमहे । न हि रत्यादय इवेतरासम्पृक्तेन12 वपुषा तथाविधमात्मरूपं लौकिकप्रतीतिगोचरः (रम् ।) स्वगतमप्यविकल्परूपं व्युत्थानावसरेऽनुसन्धीयमानं चित्तवृत्त्यन्तरकलुषमेवावभाति ।

भासतां वा लोके तथा । तथापि न सम्भव13न्मात्र स्थायिनां गणनम् । रसेषूक्तेष्वनुपयोगात् । अपि तु व्यभिचारित्वाल्लक्षणीयत्वं नेति14 विज्ञायते । तथाह्येकान्न(ह्येकोन)पञ्चाशत्ता15 भावैरित्येतत्प्रघट्टकोपपत्तिः । न चास्यात्मस्वभावस्य व्यभिचारित्वमसम्भवादवौचित्र्यावहत्वादनौचित्याच्च । शमआत्मस्वभावः स शम शब्देन

Notes

(व्या) 1.VR.

Abh

मुनिना1 व्यपदिष्टः । यदि तु स एव शमशब्देन2 व्यपदिश्यते निर्वेदशब्देन3 वा तत्न कश्चिद्बधः । केवलं शमाश्चित्तवृत्यन्तरम् । निर्वेदोऽपि दारिद्र्यादिविभावान्तरोत्थितनिर्वेदतुल्यजातीयो न4 भवति तज्जातीय एव । हेतुभेदेऽपि तद्व्यपदेश्यो 5रतिभयादिरिव ।

तदिदमात्मस्वरूपमेव तत्त्वज्ञानं शमः । तथा च यत्कालुष्योपरागविशेषा एवात्मनो रत्यादयः । तदनुगमेऽपि विशुद्धमस्य रूपमव्यवधानसमाधिबलादधि6शय्य व्युत्थानेऽपि प्रशान्तता भवति । यथोक्तं ‘(तस्य) प्रशान्तवाहिता संस्कारात्’ (योगसू. ३.१०) इति । तत्त्वज्ञानलक्षणस्य च 7स्थायिनः समस्तोऽयं8 लौकिकालौकिकचित्तवृत्तिकलापो9 व्यभिचारितामभ्येति । तदनुभावा एव च यमनिमाद्युपकृता अनुभावा10 उपाङ्गाभिनया- द्य11ध्यायत्रये च ये स्वभावाभिनया वक्ष्यन्ते । अत एते 12एतद्विषया एव । अयमेव हि स्वभावः । विभावा अपि कथं ईश्वरानुग्रहप्रभृतयः प्रक्षयो13न्मुखाश्च14 रत्यादयोऽत्रास्वद्यान्ते15 । केवलं यथा विप्रलम्भे औत्सुक्यं संभोगेऽपि वा ‘प्रेमासमाप्तोत्सवम्’ (तापसवत्सराज. १-१७) इति, यथा च रौद्रे औग्र्यं; यथा च करुणवीरभयानकाद्भुतेषु निर्वेदधृतित्रासहर्षा व्यभिचारिणोऽपि प्राधान्येनावभासन्ते तथा शान्ते16 जुगुप्साद्याः17, सर्वथैव18 रागप्रतिपक्षत्वात् ।

तथा हि-महाव्रते 19नृकपालादिधारणम्-असु20भार्यादिसम्बन्धा21दि विस्तार- संक्षेपादिकर्मीकृतिर्हि धर्मे (?) जुगुप्साहेतुत्वेनैव । निजाभ्यञ्जन22देवरात्पुत्र- जन्मान्युपदिष्टम् ।

स्वात्मनि च कृतकृत्यस्य परार्थघटनायामेवोद्यम इत्युत्साहोऽस्य परोपकारविषयेच्छाप्रयत्नरूपो दयापरपर्यायोऽभ्यधिकोऽन्तरङ्गः । अत एव (23एत- द्व्याभिचारिबलात् ?) केचिद्दयावीरत्वेन व्यपदिशन्ति । अन्ये धर्मवीरत्वेन ।

ननूत्साहोऽहङ्कारप्राणः । शान्तस्त्वहङ्कारशै24थिल्यात्मकः । व्यभिचारित्वं हि विरुद्धस्यापि न नोचितं रताविव निर्वेदादेः ।

‘शय्या शाद्वलम्’ (आसनं शुचि शिला सद्म द्रुमाणामधः शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः ।
इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ।।) (नागानन्द. ४.२)इत्यादौ

Notes

(व्या) 1.VR.

Abh

हि परोपकारकरणे ह्युत्साहस्यैव प्रकर्षो लक्ष्यते । न तूत्साहशून्या काचिदप्यवस्था । इच्छाप्रयन्तव्यतिरेकेण पाषाणतापत्तेः । यत एव परिदृष्ट1परावरत्वेन स्वात्मोद्देशेन कर्तव्यान्तरं नावाशिष्यते अत एव शान्तहृदयानां परोपकाराय शरीरसर्वस्वादिदानं न शास्त्र2विरोधि । ‘आत्मानं गोपायेत्’ (गौतमधर्मसूत्र ९.३५) इत्यादिना ह्यकृतकृत्यविषयं शरीररक्षण3मुपदिश्यते । सन्न्यासिनां तद्रक्षादितात्पर्याभावात् । तथा हि–

‘धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः
तान्निघ्नता किन्न हतं रक्षता किं न रक्षितम् ।।’ (हितोपदेश-१.८३) इति

सुप्रसिद्धचतुर्वर्गसाधकत्वमेव देहरक्षायाः निदानं दर्शितम् । कृतकृत्यस्य ‘जलेऽग्नौ श्वभ्रे वा पतेत्’ इति सन्न्यासित्वे श्रवणात् । तद्4यथाकथञ्चित्त्याज्यं5 शरीरं यदि परार्थ त6त्त्यज्यते तत्किमिव न सम्पादितं भवति । जीमूतवाहनादीनां न यतित्वमिति चेत् किं तेन नः? तत्त्वज्ञानित्वं तावदवश्यमस्ति । अन्यथा देहात्ममानिनां देह एव सर्वस्वभूते धर्माद्यनुद्देशेन7 परार्थे त्यागस्यासम्भ8वात् । युद्धेऽपि हि न9 वीरस्य10 देह11त्यागायोद्यमः । परा12वज13योद्देशेनैव प्रवृत्तेः । भृगुपतनादावपि शुभतरदेहान्तरसम्पिपादयिषैवाधिकं विजृम्भते । तत्स्वार्थानुद्देशेन परार्थसम्पत्त्यै यद्यच्चेष्टितं देहत्यागपर्यन्तमुपदेशदानादि तत्तदलब्धात्मतत्त्वज्ञानानामसम्भाव्यमेवेति तेऽपि तत्त्वज्ञानिनः । ‘ज्ञानिनां सर्वेष्वाश्रमेषु मुक्तिः’ इति स्मार्तेषु श्रुतौ च । यथोक्तम्–

‘देवार्चनरतस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः ।
श्राद्धं कृत्वा14 ददद्द्रव्यं गृहस्थोऽपि हि मुच्यते ।।’ इति ।

केवलं परार्थाभिसन्धिजाद्धर्मात्परोपकारात्मकफलत्वेनैवाभिसंहितात् पुनरपि देहस्य तदुचितस्यैव प्रादुर्भावो बोधिसत्त्वादीनां तत्त्वज्ञानिनामपि । दृष्टश्चाङ्गेष्वपि15 विश्रान्तिलाभः, स्वभावौचित्यात् । यथा रामस्य वीराङ्गे16 पितुराज्ञां पालयितुः । एवं शृङ्गाराद्यङ्गेष्वपि मन्तव्यम् । अत एव शान्तस्य स्थायित्वेऽप्यप्राधान्यम् । जीमूतवाहने त्रिवर्गसम्पत्तेरेव परोपकृतिप्रधानायाः फलत्वात् । अनेनैवाशयेन नाटकलक्षणे वक्ष्यते ‘ऋद्धिविलासादिभिर्गुणैः’ (ना.शा. १८-११) इति । अनेन हि ऋद्धिविलास- प्रधानमर्थकामोत्तरं सर्वं 17चरितं सकललोकहृदयसंवादसुन्दरप्रयोजनं नाटके निवेशयितव्यमित्युक्तम् । एतच्च तत्रैव वर्णयिष्यामः ।

Notes

(व्या)

Abh

अनेनैव चाशयेन न शान्ते कश्चन मुनिना जात्यङ्गको1 विनियोक्ष्यते (ना. शा. २९.१-४)। तेन जात्यङ्गकविनियोगाभावात्तदसत्त्वमिति प्रत्युक्तम् ।

अन्ये तु जीमूतवाहनः ‘कस्ते पुत्र त्राता भविष्यति’ (नागनन्द. ४-९) इति शरणार्थिनीं वृद्धामेव त्रातवान् । शक्तिश्चास्य न काचित् । परहिंसा च न काचिदित्येवमाहुः । तच्चानुमतमेव (तच्चासङ्गतमेव?) । न हि बोधिसत्त्वानां पुनर2प्युत्थानात्मकजीवितमभिसन्धानानुप्रविष्टं शक्ति (श्चोदेति)। न च काकतालीयवृत्त्या शास्त्रमुपदिशति । तत्सिद्ध दयालक्षणो ह्युत्साहोऽत्र प्रधानम् ।

अन्ये तु व्यभिचारिणो यथायोगं भवन्ति3 । यथोक्तं ‘तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ।’ (योगसू. ४.२-७) इति । अत एव निश्चेष्टत्वादनुभावाभाव इति प्रत्युक्तम् । यदा तु पर्यन्तभूमिकालाभेऽनु4भावाभावस्तदास्यारप्रयोज्यत्वम् । रतिशोकादावपि पर्यन्तदशायामप्रयोगस्यैव युक्तत्वात् । हृदयसंवादोऽपि तथाविधतत्त्वज्ञान- बीजसंस्कारभावितानां भवत्येव । यद्वक्ष्यति-‘मोक्षे चापि विरागिणः’ (ना.शा. २७-५८) इति । ‘सर्वस्य न5 सर्वत्र हृदयसंवादो भयानके वीरप्रकृतेरभावात् ।

ननु तादृशि प्रयोगे वीरस्य क आस्वादः । उच्यते–यत्रेयं(त्रायं) निबध्यते तत्रावश्यं पुरुषार्थोपयोगि6शृङ्गारवीराद्यन्यतममस्त्येव । तन्निष्ठस्तेषामास्वादः । यत्रापि प्रहसनादौ हास्यादेः प्रधानता तत्राप्यनुनिष्पादित7रसान्तरनिष्ठ एवास्वादः । भिन्नभिन्नधिकार्यास्वादोद्देश एव रूपकभेद चिन्तननिमित्तमिति केचित् ।

तस्मादस्ति शान्तो रसः । तथा च चिरन्तनपुस्तकेषु ‘स्थायिभावान् रसत्वमुपनेष्यामः’ (ना.शा.पु. २९९) इत्यनन्तरं ‘शान्तो नाम शमस्थायिभावात्मकः’ (ना.शा.पु.३३२) इत्यादिशान्तलक्षणं पठ्यते । तत्र सर्वरसानां शान्तप्राय एवास्वादो विषयेभ्यो विपरिवृत्त्याऽतर्न्मुख8तालाभात्केवलं वासनान्तरोपहित इत्यस्य9 सर्वप्रकृतित्वाभिधानाय पूर्वमभिधानम् । लोके10 च पृथक्पृथक्सामान्यस्य न11 गणनमिति स्थाय्यस्य पृथङ्नोक्तः । सामान्यमपि तु विवेचकेन पृथगेव गणनीयमिति विवेचकाभिमतसामाजिकास्वादलक्षणप्रतीतिविषयतया स पृथग्भूत एव । इतिहासपुराणाभिधानकोशादौ च नव12 रसाः श्रूयन्ते श्रीमत्सिद्धान्तशास्त्रेष्वपि । तथा चोक्तम्–

Notes

(व्या)

Abh

‘अष्टानामिह देवानां शृङ्गारादीन् 1प्रदर्शयेत् ।
मध्ये च देवदेवस्य शान्तं रूपं प्रकल्पयेत् ।।’ (इति) ।

तस्य च वैराग्यसंसारभीरुतादयो विभावाः । स हि तैरुप2निबद्धैर्विज्ञायते । मोक्षशास्त्रचिन्तादयोऽनुभावाः । निर्वेदमतिस्मृतिधृत्यादयो व्यभिचारिणः । अत एवेश्वरप्रणिधानविषये भक्तिश्रद्धे स्मृतिमतिधृत्युत्साहाद्य3नुप्रविष्टेभ्योऽन्यथैवा- 4(स्यैवा)ङ्गमिति न तयोः पृथग्रसत्वेन गणनम् । अत्र सङ्ग्रहकारिका–

मोक्षाध्यात्मनिमित्तस्तत्त्वज्ञानार्थहेतुसंयुक्तः ।
निःश्रेयसधर्मयुतः शान्तरसो नाम विज्ञेयः ।।

विभावस्थाय्यनुभावयोगः क्रमाद्विशेषणत्रयेण दर्शितः ।
स्वं स्वं निमित्तमा5साद्य शान्ताद्भावः6 प्रवर्तते ।
पुनर्निमित्तापाये तु शान्त एव प्रलीयते ।।
इत्यादिना रसान्तरप्रकृतित्वमुपसंहृतम् ।

यत्तु डिमे ‘शृङ्गारहास्यवर्जं’ हास्यशृङ्गारपरिहारेण षड्रसत्वं च वक्ष्यते तत्रायं भावः । ‘दीप्तरसकाव्ययोनिः’ (ना.शा. १८-८५) इति भाविना लक्षणेन रौद्रप्रधाने तावड्डिमे तद्विरुद्धस्य शान्तस्य सम्भावनैव न । किं निषेधेन? शान्तासम्भवे तु दीप्तरसकाव्ययोनिरित्येतेन किं व्यवच्छेद्यम् । ‘शृङ्गारहास्यवर्ज षड्रसयुक्तः’ (ना.शा. १८-८४) इति ह्युक्ते कस्तत्र प्रसङ्गः ।

ननु करुणबीभत्सभयानकप्राधान्यमनेन पादेन व्यवच्छेद्यते । नैतत् । ‘सात्त्वत्यार- भटीवृत्तिसम्पन्नः’ (१८-८८) इत्यनेनैव तन्निरासात् । शान्ते तु सात्त्वत्येव वृत्तिरिति न7(?) तद्व्यवच्छेदकमेवैतत् । तेन डिमलक्षणं प्रत्युत शान्तरसस्य सद्भावे लिङ्गम् । शृङ्गारस्तु प्रसभं सेव्यमानः सम्भाव्य एव । तदङ्गं च हास्य इति तयोरेव प्रतिषेधः कृतः प्राप्तत्वात् । स सर्वसाम्याच्च विशेषतो वर्णदेवताभिधानमनुचितमप्यस्य तत्कल्पितमिति ज्ञेयम् । उत्प8त्तिस्तु शान्तस्यापि दर्शितैव । 9सत्त्वाभावो हि हास्यः । सहविभाव10त्वेन चास्य वीरबीभत्सौ । अत एवास्य रसस्य यमनियमेश्वर- प्रणिधानाद्युपदेशः11 12अनुपयो(भो)गितया महाफलत्वं सर्वप्राधान्यमितिवृत्तव्यापकत्वं चोपपन्नमित्यलमतिप्रसङ्गेन ।

तत्त्वास्वादोऽस्य कीदृशः? उच्यते–उपरागदायिभिरुत्साहरत्यादिभिरुपरक्तं यदात्मस्वरूपं तदेव विरलोम्भि13तरत्नान्तरालनिर्भासमानसिततर14सूत्रव15दाभातस्वरूपं

Notes

(व्या)

एवमेते रसा ज्ञेयास्त्वष्टौ लक्षणलक्षिताः ।
अत ऊर्ध्व प्रवक्ष्यामि भावानामपि लक्षणम् ।।83।।

इति भारतीये नाट्यशास्त्रे रसाध्यायः1 षष्ठः ।।

Abh

सकलेषु रत्यादिषूपरञ्जकेषु तथाभावेनापि सकृद्विभातोऽयमात्मेति न्यायेन भासमानं परो1न्मुखतात्मसकलदुःखजालहीनं परमानन्दलाभसंविदेकत्वेन काव्यप्रयोगप्रबन्धाभ्यां साधारणतया निर्भासमानमन्तर्मुखावस्थाभेदेन लोकोत्तरानन्दघनं2 तथाविधहृदयं विधत्त इति ।

3एवं ते नवैव रसाः । पुमर्थोपयोगित्वेन रञ्जनाधिक्येन वा इयतामेवोपदेश्यत्वात् । तेन रसान्तरसंभवेऽपि4 पार्षदप्रसिद्ध्या सङ्ख्यानियम इति यदन्यैरुक्तं तत्प्रत्युक्तम् । भावाध्यायेऽपि चैतद्वक्ष्यते । आर्द्रतास्थायिकः स्नेहो रस इति त्वसत् । स्नेहो ह्यभिषङ्गः । स च सर्वो रत्युत्साहादावेव पर्यवस्यति । तथा हि–बालस्य मातापित्रादौ स्नेहो भये विश्रान्तः । यूनोर्मित्रजने रतौ । लक्ष्मणादेः भ्रातरि स्नेहो धर्मवीर5 एव । एवं वृद्धस्य पुत्रादाविति द्रष्टव्यम् । एषैव गर्ध6स्थायिकस्य लौल्यरसस्य प्रत्याख्याने सरणिर्मन्तव्या । हासे वा रतौ वान्यत्र पर्यवसानात् । एवं भक्तावपि वाच्यमिति ।

अध्यायार्थमुपसंहरन् भाविनोऽवकाशं ददत्सङ्गतिं प्रकटीकर्तुमाह–एवमेते रसा ज्ञेया नवेति (स्त्वष्टाविति)। रसवद्गीतमित्यादिव्यपदेशात् स्तूयते । स (शास्तु ये ते रस? मूला एवोपचारा इति दर्शयति–लक्षणलक्षिता इति । भावानामपि लक्षणं रस- लक्षणमेव पूरयति । विभावव्यभिचार्यनुभावलक्षणेन रसलक्षणमेव पूर्यते । रतिस्थायिभावप्रभवः ऋतुमाल्यादिविभावको नयनचातुर्याद्यनुभावक इत्युक्तमपि साकाङ्क्षमेव । कीदृशी हि रतिः कश्च विभावः कश्चानुभावः । तेन यद्यप्यापाततो भावानां लक्षणमिदं प्रतिभाति महाचार्या (साहचर्यात्) तथापि वाक्यैकवाक्यतया रसलक्षणमेवेदमित्यपिशब्दस्यार्थ इति शिवम् ।

इ(र)त्यादिशक्त्यष्टकमध्यवृत्तिर्यस्य स्वहृन्मण्डलसम्प्रयोज्या(ज्यः)।
स्थायी शिवश्चेतसि तेन वृत्तिः कृता रसाध्याय इह क्रमेण ।।

इति श्रीमहामाहेश्वराभिनवगुप्तविरचितायां नाट्यवेदविवृतावभिनवभारत्यां

रसाध्यायः षष्ठः

समाप्तः

Notes

(मू) 1.क्ष.म. रसविकल्पो नाम । त. रसस्वरूपपरिपातनं नाम ।

(व्या)


  1. N.अ. अयं श्लोको नास्ति । तत्स्थाने ‘ऋषय ऊचुः’ इति पठ्यते । ↩︎

  2. म. मुनयो भरतम् । ↩︎

  3. क्ष.म. पञ्च प्रश्नान् ब्रवीहि नः । ↩︎

  4. For an assumed chronology of saṃgraha, kārikā, nirukta, sūtra and bhāṣya mentioned here see S. K, De, Skt. Poetics, Vol. I. pp. 28ff. ↩︎

  5. jñānāni vyākaraṇādīni śāstrāṇi (Ag). ↩︎ ↩︎

  6. śilpāni citrapustādi-karmāṇi (Ag). ↩︎ ↩︎

  7. One additional characteristic of the kārikā may be that it should be generally composed in metres like āryā or anuṣṭup, e.g. the Sāṃkhyakārikā. ↩︎

  8. rasa—A.K. Coomaraswamy is for translating the word as ‘flavour’ (M G. p. 17). ↩︎

  9. Later writers on Skt, poetics add one more rasa (śānta) to this number. ↩︎

  10. bhāva—A.B. Keith translates this word as ‘feeling’ or ‘emotion.’ See Skt. Drama, p. 319, A. K. Coomaraswamy and others translate it as “mood” (loc. cit.). Haas translates it as ‘State.’ See DR. p. 108. ↩︎

  11. sthāyibhāva—Keith translates the term as ‘dominant emotion’ (Skt. Drama) and Haas as ‘Permanent State’ (DR.) and others as ‘permanent mood’ (e.g. S. K. De, Skt Poetics, Vol. II. p. 26). ↩︎

  12. These are also known as sañcāri-bhāva which was translated as ‘transitory emotion or mood’. See SD. ↩︎

  13. sāttvika-bhāva—The word sāttvika cannot be properly translated into English. Keith does not make any such attempt (see Skt. Drama) Haas translates the sāttvika-bhāva as ‘Involuntary States.’ But this seems to be very misleading, for the NŚ. takes sattva to be connected with manas. (see VII 93), and most of the later writers follow this work in this respect. So the author of the ND. (III. 153) writes “avahitaṃ manaḥ sattvaṃ. tat-prayojanaṃ hetur asyeti sāttvikaḥ; mano’navadhāne hi na śakyante eva svara-bhedādayo nāṭyena darśayitum.”. The NŚ. has also a definition of sattva which is as follows: “dehātmakaṃ bhavet sattvam” (XXIV. 7). The author of the BhP. elaborately defines the term sattva and discusses the psychological process connected with its use; see (pp. 13-14). Viśvanātha in his SD. (164) defines sattva as follows: “sattvaṃ nāma sātma-viśrāma-prakrāśa-karo kaścanāntaro dharmaḥ”. ↩︎

  14. āṅgikā—means Gestures of special kind defined in the śāstra; see VIII-XII. ↩︎

  15. vācika—means words suitable for representation of the different States (bhāva) composed by the playwright. See XV-XXII. ↩︎

  16. See XXIII. ↩︎

  17. See XXIII. See XXIV. ↩︎

  18. dharmī—This word has not been very correctly used. But the meaning is clear; for details about dharmī see XIII. 69-81. ↩︎

  19. Haas translates vṛttis as Styles of Procedure (DR. p. 67). The four Styles are translated by him as Eloquent (bhāratī), Grandiose (sāttvatī), Gay (kaiśikī) and Horrific (ārabhaṭī). We follow Keith’s translation (Skt. Drama, p. 326). For details about vṛttis see XXII. lff. ↩︎

  20. pravṛtti—Haas translates this word as ‘Local Characteristics,’ (See DR, p. 74). The five geographical names (Avanti, Dākṣinātyā, Oḍra, Magadha and Pañcāla) indicate that these were the parts of India where dramatic show gained special popularity. For details about pravṛttis see XIV. 36-56. ↩︎

  21. siddhi (success)—For details about the Success see XXVII. lff. ↩︎

  22. See XXVIII. 21, 10. ↩︎

  23. See XXVIII. 1-2. ↩︎

  24. See XXXII. 60 ff. ↩︎

  25. The NŚ. nowhere explains the terms niṣpatti and saṃyoga of this definition and does not include the sthāyibhāva in it (the def.). Hence the theory of rasa has come to be interpreted differently in later times by Lollata, Śaṅkuka, (Bhaṭṭa) Nāyaka and Abhinavagupta.+++(4)+++ ↩︎

  26. ड.त. ह्येताः कैशिक्या सह कीर्तिताः। N. अ. विज्ञेया नाट्यसंश्रयाः। ↩︎

  27. म.भ. स्मृतिरुपलब्ध। ↩︎

  28. See below 33-34. ↩︎

  29. For a discussion on Bharata’s theory of rasa see Skt, Poetics, Vol. II. PP-25ff. ↩︎

  30. The reading of this passage seems to be confused. ↩︎

  31. According to Indian practice, boiled rice is the principle food (anna), and the various preparations from vegetables, meat and fish are only auxiliary eatables (vyañjana). ↩︎

  32. Bhoja criticises this view of the author of the NŚ. in his Sr. Pr. See Ramaswamy Sastri, Bh. P. introduction p. 28; also V. Raghavan, Śr. Pr, 27. ↩︎

  33. An example of this is the Prahasana. ↩︎