श्रीः
अथ पञ्चमोऽध्यायः ।
भरतस्य वचः श्रुत्वा नाट्यसन्तानकारणम्1 ।
पुनरेवाब्रुवन्वाक्यमृषयो हृष्टमानसाः ॥ १ ॥
यथा नाट्यस्य जन्मेदं2 जर्जरस्य च सम्भवः ।
विघ्नानां शमनं3 चैव देवतानां च पूजनम् ॥ २ ॥
4तदस्माभिः श्रुतं सर्वं गृहीत्वा चावधारितम् ।
निखिलेन5 यथातत्त्वमिच्छामो वेदितुं पुनः ॥ ३ ॥
पूर्वरङ्गं महातेजः6 सर्वलक्षणसंयुतम् ।
यथा बुद्ध्यामहे ब्रह्मंस्तथा व्याख्यातुमर्हसि ॥ ४ ॥
Abh
संसारनाट्यनिर्माणे याऽवकाशविधानतः ।
पूर्वरङ्गायते व्योममूर्तिं तां शाङ्करीं नुमः ॥
अध्यायसङ्गतिं कर्तुं पुराकल्पेनोपक्रमते–भरतस्येति । नाट्यसन्तानम् । नाट्यस्य सन्तानं नृत्तकथया विच्छेदाशङ्कानिरासेनाविच्छेदः । नाट्ये पृष्टे दैववशात् महाफलं नृत्तमपि तद्विवेकेन ज्ञातम् । तज्ज्ञानाच्च तद्विभक्तं नाट्यमपि सुष्ठु ज्ञातम् । तदनुरक्तं च नाट्यं हृद1यावर्जकमिति हृष्टमानसत्वम् । स्वगत(त)– त्त्वग्रहणधारणादिसामर्थ्यात्मकशिष्यसम्पद्दर्शनायत्त?गुरुप्रोत्साहनमित्यभिप्रायेणाहुः तथेति । पूजामध्य एव नृत्तं प्रविष्टमित्यध्यायचतुष्टयतात्पर्यं प्रत्यनुभाषितम् । ऊहापोहविज्ञानादिकमपि दर्शयति–गृहीत्वेति । चकारात् धारयित्वाऽवधारितं निश्चितम् । निखिलेन साकल्येनेति ।
Notes
(मू) 1.N.द.अ. लक्षणम् ।
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः ।
प्रत्युवाच पुनर्वाक्यं1 पूर्वरङ्गविधिं प्रति ॥ ५ ॥
पूर्वरङ्गं महाभागा 2गदतो मे निबोधत ।
पादभागाः कलाश्चैव परिवर्तास्तथैव च ॥ ६ ॥
Abh
यथातत्त्वमिति तत्त्वाभिनिवेशमाहुः । पूर्वरङ्गं वेदितुमिच्छाम इति जिज्ञासा दर्शिता । यथा सर्वलक्षणसंयुक्तं बुध्यामहे तथा व्याचक्ष्वेति व्यार्ख्याप्रकारविषये1ऽप्याचार्यान्वेषणम् । महत्तेजो ज्ञानात्मकमस्य तत् । आमन्त्रणं गुरुप्रोत्साहनार्थम् ।
“पूर्वरङ्गे कृते पूर्वं तत्रायं द्विजसत्तमाः॥” (ना.शा.४-१०)
इति जिज्ञासादर्शनपूर्वप्रयोज्यतया तथैव जिज्ञासा जाता ।
“पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयुज्यताम् ॥” (ना.शा.४-१४) इति ।
“यस्त्वयं पूर्वरङ्गस्तु त्वया शुद्धः ।” (४-१५) इति परमेश्वरादरवचनेन सुष्ठुतरां 2दृढीकृता । तथैव तावदवश्योपासनीयेति तात्पर्यम् (१-५) । गदत इति शब्दमात्रेण तावन्निरूपयत इत्यर्थः । आश्रावणादिस्वरूपं हि गेयाधिकारे (ना.शा. २९) सम्यक् निर्णेष्यते । अनादरे षष्ठी । 3निगदितमनादृत्य स्वबुद्ध्या बुद्ध्यध्वम् । यद्यपि मयाऽत्र 4क्रमेण नैतदुक्तं गेयाधिकारस्यापि सुदूरत्वात् । तथापि ’ यस्य येनार्थसम्बन्ध ' इत्यर्थक्रम आदर्तव्यो न खलु शाब्द इति 5गदनक्रमानादरणं गदितरि सङ्क्रमय्योक्तम् ।
तत्र पूर्वरङ्गशब्दं निरुक्त्या तावद्व्याचष्टे–पादभागा इत्यादिना । इह बहिर्यवनिकाङ्गान्येव पूर्वरङ्गः । तानि च गीतकानीत्युत्थापनानि ध्रुवारूपाणि । तत् द्विकलचञ्चत्पुटचाचपुटतालेन विशिष्टगतिगतेनेति तदेव पूर्वरङ्ग इति तावत्तात्पर्यम् । तत्र मात्रायाः यः षोडशो भागः तदारब्धा मात्रा । तदारब्धं वस्तु । एवं वस्तुनिबन्धेषु गीयमानं तावत्स्वीकृतम् । भागश्च द्विकलचतुष्कलयोर्मार्गस्य चञ्चत्पुटादीनां सङ्गेन भवति । यथाऽक्षरेषु तु चञ्चत्पुटादिषु कलादिभागलग्ना इति यथाऽक्षरमार्गः कलाग्रहणेन सङ्गृहीतः । यथाक्षरद्विकलचतुष्कलतया सर्वमेव
Notes
(मू)
1यस्माद्रङ्गे प्रयोगोऽयं 2पूर्वमेव प्रयुज्यते3 ।
4तस्मादयं पूर्वरङ्गो विज्ञेयो द्विजसत्तमाः5 ॥ ७ ॥
Abh
गीतकवर्धमानादि 1गानं गीयमानं मे(गे)यं रूपं सङ्गृहीतम् । कलाशब्देन च सप्तविधा तालकला निष्क्रामादिरुच्यते । तया समस्तो मानात्मकस्तालमार्गो गृहीतः । भिन्नार्थानामपि च सरूपाणामेकशेषः । पादा इत्यादि । एवं परिवर्तन्त इति परिवर्ताः । द्विसङ्ख्यातत्रि- सङ्ख्यातादिषु, परिवर्तैः सकलेतिकर्तव्यता परिगृहीता । चकारात्केवलं तन्त्र्यादि । एवकारेण केवलः प्रयोगः । तथाशब्देनाङ्गाङ्गिभावप्रयोगो यथायोगं दर्शितः । द्वितीयेनैवकारेण नाट्याङ्गता सूचिता । द्वितीयेन चकारेण च पाठ्यादि नृत्तं च । तेन गीततालवाद्यनृत्तपाठ्यं व्यस्तसमस्ततया प्रयुज्यमानं यन्नाट्याङ्गभूतं स पूर्वरङ्ग इत्युक्तं भवति । 2यस्माद्रङ्गे मण्डपे आधारे नाट्ये वा रङ्गे बुद्धिस्थे भविष्यति । युज्यत एव च पूर्वम्3 । प्रत्याहारादिकेन ह्यङ्गेन विना गायनादिसामग्य्रसम्पत्तेः कथं नाट्यप्रयोगः । न ह्यहो (ह्येव) किल तन्तुतुरीवेमादेः(विना) शक्यः पटः कर्तुम् । केवलं प्राङ्मुखान्नभोजनवन्नि(यमप्र)योजनत्वेऽपी(त्वमपी)ति वक्ष्यते । तेन पूर्वो रङ्ग इति पूर्वरङ्गः । सुप्सुपेति समासः । राजदन्तादित्वाद्वा परनिपातः।
श्रीहर्षस्तु रङ्गशब्देन तौर्यत्रिकं ब्रुवन् नाट्याङ्गप्रयोगस्य तस्यैव पूर्वरङ्गतां मन्यमानः पू्र्वश्चासौ रङ्गश्च इति समासममंस्त । यदाह–
“दृष्टा वेऽवस्थार्थे नाट्ये रङ्गाय पादभा4गाः स्युः ।
पूर्व त एव तु यस्मिन् शुद्धाः स्युः पूर्वरङ्गोऽसौ ॥” इत्यादि ।
रङ्गस्य पूर्वो भाग इति त्वसत् । न ह्ययं मण्डपस्यैकदेशः । नापि नाट्यस्य । नह्ययं भावानुकीर्तनात्मकव्याख्याना5नुकारस्वभावः । अपि तु शिक्षादिवत्पारमार्थिक एव प्रयोगसम्पत्त्युपकरणभूतो भोजनादितुल्यः प्रत्याहारादिरर्थः । नृत्तमप्यत्र वैचित्र्यकारित्वेन प्रविशत् “नाट्यरूपगतं नृत्तम्” इत्यङ्कुरसूचितनृत्तन्यायेनानुकारधुरारोहि । अपि तु देवतापरितोषणफलं सू(धू)पविलेपनादिदानवत् सत्यमेवेति पूर्वो रङ्गे इत्येष एव संन्या- (समा)सः ।(५-७)
Notes
(मू)
अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः ।
तन्त्रीभाण्डसमायोगैः1 पाठ्ययोगकृतैस्तथा2 ॥ ८ ॥
प्रत्याहारोऽवतरणं तथा ह्यारम्भ एव च ।
आश्रावणा वक्त्रपाणिस्तथा च परिघट्टना ।। ९ ।।
Abh
ननु प्रत्याहाराद्यङ्गसमूहः पूर्वरङ्गः । तत्कथमुक्तं गीतादिः पूर्वरङ्ग इत्याशङ्- क्याह– अस्याङ्गानि त्वित्यादि पूर्वरङ्गे भवन्ति हीत्यन्तेन श्लोकसप्तकेन सार्धेन महावाक्यम् । 1अस्य इति । पूर्वरङ्गस्य । तुर्हेतौ । लक्षिष्यमाणानि प्रत्याहारादीन्यासारितान्तानि नव 2अन्तर्जवनिकं3 प्रयोज्यानि । 4ततोऽनन्तरं गीतकादीनि प्ररोचनान्तानि दश जवनिकाया बहिः प्रयोज्यानीत्यर्थः । यानि च यवनिकाया बहिर्गीतकप्रयोगादीनि प्ररोचनान्तानि दश तानि सर्वाण्य(ण्यपि) पादभागाद्यु- 5पलक्षितादिरूपस्योक्तस्य सम्बन्धित्वेन यस्मात्कार्याणि तस्मात्6 पादभागादिरेव पूर्वरङ्ग इति पूर्वेण सम्बन्धः । अङ्गानां न्यूनाधिकभावे हि भूयांसः पूर्वरङ्गभेदाः । ते च गेयाधिकारे (अ-२९)दर्शयिष्यन्ते ।
इह तु दृ7(तूद्दि)श्यमानास्तन्त्रभावानभिज्ञानानां सम्प्रमोहफला एव ।
उक्तं च वार्तिके–“नान्द्यादिषट्के च रङ्गभेदः । न तु प्रत्याहारावतरणे । आद्यो (द्यानि) रङ्गद्वारादीनि । पाश्चात्यानि न पादभागाद्यारब्धानि” इति । सत्यम् । किन्तु समुदितत्वे नात्र रङ्गता रमणीयभावः सम्बन्धः । अपि तु सद्भावमात्रम् । तच्च सर्वत्रेव विद्यत इति वक्ष्यते । तदाह–यस्मादेतानि पूर्वरङ्गे संभवन्ति तस्मादस्य संबन्धित्वेन कार्याणि ।
तत्र यवनिका रङ्गपीठतच्छिरसोर्मध्ये । तस्या अन्तरागतैः प्रयोक्तृभिर्नटैः प्राधान्यात् यदि वा वैणिकादिभिरेव प्रयोक्तृभिः प्रयोज्यानि प्रत्याहारादीनि । गीतकपिण्ड्या(पाठ्या)दीनि तु यवनिकायामप8सारितायाम्9 गीतानामित्यादिना श्लोकेन गीतकवर्धमानान्यतरप्रयोग उक्तः । अन्ये तु अथापि स्थाने (ना. शा. ५-१३) अतोऽपीति पठन्त उभयप्रधानमनुजानते । तच्चान्त्यपदार्थेन विरुद्धम् । निर्देशविधौ चैकमेवाङ्गं भविष्यति । न तु द्वे ।
“कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा ।” (ना. शा. ५-२१) इति ।
Notes
(मू)
सङ्घोटना1 ततः कार्या मार्गासारितमेव2 च ।
ज्येष्ठमध्यकनिष्ठानि3 तथैवासारितानि च4 ।। १० ।।
एतानि 5तु बहिर्गीतान्यन्तर्जवनिकागतैः ।
प्रयोक्तृभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि तु ।। ११ ।।
6ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् ।
7विघाट्य वै जवनिकां 8नृत्तपाठ्यकृतानि तु9 ।। १२ ।।
गीतानां मद्रकादीनां 10योज्यमेकं तु गीतकम् ।
वर्धमानमथापीह11 ताण्डवं यत्र युज्यते12 ।। १३ ।।
ततश्चोत्थापनं कार्य परिवर्तनमेव13 च ।
नान्दी 14शुष्कावकृष्टा च रङ्गद्वारं तथैव च ।। १४ ।।
चारी चैव ततः कार्या महाचारी तथैव च ।
15त्रिकं प्ररोचना चापि पूर्वरङ्गे भवन्ति हि ।। १५ ।।
एतान्यङ्गानि कार्याणि पूर्वरङ्गविधौ द्विजाः16 ।
17एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ।। १६ ।।
Abh
उभयात्मकं तावदेवैकमङ्गमस्तीति केचित् । अपिशब्दाद्यानि कानि । उद्देशावसर एव ’ ताण्डवं यत्र ‘ इत्याभिधानमस्याङ्गस्य नृत्ते विनियोगं दर्शयति । तेन नाट्याद्यङ्गानि नृत्तशून्यान्यपि भवन्तीति दर्शयतीति तदैव च शुद्धत्वव्यवहारः । यद्वक्ष्यति शुद्धं चित्रमथापि च ।" इति (८-१५)
एवं पूर्वरङ्गसामान्यलक्षणसमाना(सा)र्थेऽपि यानि प्रयोज्यान्यङ्गानि तेषामयमेवोद्देशो भवतीति दर्शयति– एतानीति । क्रमकथनेनैततत्सङ्ख्यान्येव चेत्यर्थः ।
Notes
(मू)
कुतपस्य तु विन्यासः प्रत्याहार इति1 स्मृतः ।
तथावतरणं प्रोक्तं गायिकानां2 निवेशनम् ।। १७ ।।
Abh
यथोद्देशं लक्षणं कर्तुमुपक्रमते–एतेषामिति । तत्क्रममाह–कुतपस्य त्विति । नेपथ्यगृहद्वारयोर्मध्ये पूर्वाभिमुखो मार्दङ्गिकः । तस्य 1पाणविकदार्दरिकौ वामतः । रङ्गपीठस्य दक्षिणतः उत्तराभिमुखो गायनः । अस्याग्रे उत्तरतो दक्षिणाभिमुखस्थितयो 2गायन्यः । अस्य वामे वैणिकः । अन्यत्र वंशवाद3कावित्येवं कुतं पाति कुं तपतीति शब्दविशेषपालकस्य नाट्यभूमिकोज्ज्वलताधायिनश्च वर्गस्य यो विचित्रो न्यासः स विप्रकीर्णानामेकत्र ढौकनात्मा प्रत्याहारः ।
यद्यपि कुतपस्य विन्यासमध्य एव च गायकस्याभिमुख्यो रङ्गपीठस्योत्तरतो गायिन्य इति गायिकानां विन्यासः तथापि त्ववतरणं नाम पृथ4गङ्गमुक्तमङ्गनागीतस्यावश्यंभावित्वं रञ्जकवर्गे ख्यापयितुम् । 5यदुक्तम्–
“6यद्यपि पुरुषो गायति गीतविधानं तु लक्षणोपेतम् ।
स्त्रीविरहितः प्रयोगस्तथापि न सुखावहो भवति ।।” (ना.शा. ३३-५-७) इति ।
यस्त्वाह– “नारदाद्यैस्तु गन्धर्वैः” (ना.शा.५-३२) इति भाविश्लोके केवलं पुरुषाणां गातृत्वं वक्ष्यमाणमिहाशङ्क्य पृथगवतरणमुक्तम्(मिति) । तस्यैतदनवकाशम् । गन्धर्व्यश्च गन्धर्वाश्चेत्येकशेषेण स्त्रीगीतस्याप्यत्र संभावनात् । एवमवतरणान्तं वस्तुत एकमेवाङ्गम् अत एव प्रयोग एक उभयत्र कृतो भवति । यद्वक्ष्यति पुष्कराध्याये (ना. शा. ३४-१९८) 7आसनोपविष्टेषु मार्दङ्गिकादिषु " इत्युपक्रम्य प्रथमं त्रिसाम ।
“त्रिप्रकारं त्रिगुणितं तथैवात्रा8ड्डिताश्रयम् ।
त्रिकलं षट्कलं चैव त्रि9सामत्वात्रिसामसु ।।
(काशी. मु.ना.शा. ३३-२०१) त्रिसामान्वितः ।
10त्रिसामाक्षरविद्धस्तु गुरुलघ्वक्षरान्वितः ।
यकारश्च11 मकारश्च त्रिकैस्त्रिगुणितो भवेत् ।। (ना.शा. ३४-१५९)
(काशी -३३.२१०)
Notes
(मू)
परिगीतक्रियारम्भ आरम्भ इति कीर्तितः ।
आतोद्यरञ्जनार्थं तु1 भवेदाश्रावणाविधिः ।। १८ ।।
वाद्यवृत्तिविभागार्थं वक्त्रपाणिर्विधीयते ।
तन्त्र्योजःकरणार्थं2 तु भवेच्च3 परिघट्टना4 ।। १९ ।।
Abh
यस्त्रिसामा1 स प्रत्याहारो 2यावदवतीर्णकोटीति3 । अवतरणकोटौ छन्दः समम4क्षरसमं वा बहिर्गीतानुवर्ति वाद्यं स्त्रीबालमूर्खादिकुतूहलादिजननं प्रयोज्यम् ।
अन्ये मन्यन्ते निवेशनं स्थानस्वरादौ । न तूपवेशनमत्र । तथा च सप्तस्वर- परिग्रहोऽवतरणादाशुगत्या (णमिति जात्या) दिरूपाङ्गसप्तकेन शुद्धसप्तकेन शुद्धसप्तक- गीतिज्ञप्रयोज्यमिति । एतद्धनतालविधौ (ना.शा. ३१) वितत्य विचारयिष्यते । (१६-१७)
ननु च (यावत्) परिगीतक्रियाद्यारम्भो न कृतस्तावत् त्रिसामप्रयोगोऽपि कथम् । सत्यम् । किञ्चिद(किम)र्थमयं प्रयोगक्रम इत्यवधार्यताम् । इह दृष्टार्थान्येव तावदेतान्यङ्गानि । तथा हि–पूर्व 5उपरञ्जकवर्गढौकन रूपमवगन्तव्यमित्यर्थः । गेयत्वेन गीतस्योपरञ्जकस्य प्राधान्यात् । तस्य 6बिम्बभूतशारीरस्वरमूलभूतत्वात् । तदनुसन्धानात्मा7लापाख्य आरम्भः । ततोऽपि मानरूपतालप्रधानसर्वातोद्यगर्भमनुसन्धान- मासमन्ताच्छ्रावयतीत्याश्रावणा । ततोऽपि प्रतिबिम्बभूतवैणवस्वरस्वरूपानुसन्धानाय दक्षिणादिवृत्तिविभागानुसन्धानात्मा8 वक्त्रपाणिः । वक्त्रे प्रारम्भे हस्ताङ्गुलिव्यापारात्9 । दक्षिणादि इति । दक्षिणावृत्तिचित्राख्या वृत्तयः । तास्वयं विधिः । प्रधानं गीतमुभयं वाद्यं चेति यथाक्रमम् । गीतप्राधान्ये वाद्यगुणतायां दक्षिणा । गीतवाद्योभयप्राधान्ये वृत्तिः । वाद्यप्राधान्ये गीतगुणतायां चित्रेति । ततस्तु वृत्तिविभागगतशुष्कप्रयोगानुसन्धाना- त्मापरिघट्टना । घट्ट चलन इति पाठात् । शुष्कप्रयोग इति । निर्गीतं बहिर्गीतं शुष्कमित्युक्तम् । तत्रार्थप्रत्यायकपदरहितं यद् गीयते तन्निर्गीतम् । गीयमानेभ्यः सार्थकेभ्यःपदेभ्यो यद् बहिर्भूतं तद् बहिर्गीतम् । शूष्कैरक्षरैरनर्थकैः कंदुमाद्यैर्यत् प्रयुज्यते तत् शुष्कमित्यर्थः । पश्चाद्वीणावाद्योपजीवकत्वादवनद्धवाद्यस्यानुसन्धानं समपाण्यादिना प्रहारपञ्चकयोगेन क्रियत इति सङ्घोटना । घुट परिवर्तने । यतः पुष्कराध्यायेऽभिवक्ष्यते–
‘पूर्व शरीरदुद्भूता ततो गच्छति दारवीम् ।
ततः पुष्करजं च ।’ (ना.शा.३४-३१) इति । (१८-१९)
10**(समपाण्यादिना** इति ।
“अड्गभूता हि तालस्य यतिपाणिलयाः स्मृताः” इति पाणिस्तालस्याङ्गभूतः । स च त्रिविधः । तथा चाह ।
“समपाणिश्च विज्ञेयो ह्यर्धपाणिस्तथैव च ।
तथैवोपरिपाणिश्च गीतवाद्यसमाश्रयः ।।
लयेन यत् समं वाद्यं समपाणिः स कीर्त्यते ।
लयाद् यदर्धकृष्टं स्यात् सोऽर्धपाणिः प्रकीर्तितः ।
लयस्योपरि यद्वाद्यं पाणिः सोपरि कीर्त्यते ।।”
Notes
(मू)
तथा पाणिविभागा1र्थं भवेत्संघोट2नाविधिः ।
तन्त्रीभाण्डसमायोगा3न्मार्गासारितमिष्यते ।। २० ।।
4कलापातविभागार्थं भवेदासारितक्रिया ।
कीर्तनाद्देवतानां च ज्ञेयो गीत5विधिस्तथा ।। २१ ।।
Abh
सोपरि इति । सोऽपि लोपे चेत् पादपूरणम् । स इत्येतस्य सोर्लोपो भवति, लोपे चेत्पादपूरणम् । यदि लोपे सति पादः पूर्यते । प्रहारपञ्चक इति समप्राण्यर्धपाण्य- र्द्धार्धपाणिपार्श्वपाणिप्रदेशिनीपाणिभिर्यत् प्रहारपञ्चकं तद्योगेनेत्यर्थः ।) ततोऽपि प्रकृतिविकृतिमेयन्मानानुहार्यानुहर्तुरूपस्य वैणवपौष्करशब्दस्य परस्परसंमेलनं कार्यमिति मार्गासारितम् । मार्गे प्रकृत्यादिलक्षणे 1निजे गोचरे विकारादिरूपस्य पुष्करवाद्यस्या- समन्तात्सारणं गमनं यत्रेति । 2पश्चान्मेयमानस्वरूपे तु संहिते गेयवस्तुगततालस्वरूपोपक्षेपः । कलानामा(वा)पाद्यानां पातानां शम्यादीनां चानुसन्धिनेत्यासारितविधिः । एवं तावदन्तर्यवनिकाङ्गानां 3अदृष्टार्थ एव प्रयोगः । तान्यन्तरेण4 प्रयोगस्यैवासम्पत्तेः । तथा च भेज्जल5नाम्ना कविना निजरूपक6 उक्तम्– “मेघाशङ्किशिखण्डिताण्डवविधौ” इत्यादि ।
एवं 7 अदृष्टार्थे प्रयोगे पूर्वं कृते पश्चात् दृष्टार्थाङ्गानुसारेणैव बहिर्गीतविधिः । तदनुसारेण च तानि विशेषधातुवाद्ये8 (तन्निवेशगीतवाद्य)विधिः । तत्र प्रत्याहारावतरणयोस्त्रिसाम्ना प्रयोगः । रङ्गपीठस्य तिसृषु9 दिक्षु कुतपविन्यासात् ।
तालस्त्रिकलस्त्वादौ शम्यैककला कलाद्वये तालाः ।
वि(द्व)कला च पुनः शम्या तालो द्विकलस्तु कर्तव्यः ।। (ना.शा.२९-९५)
द्विकलश्च सन्निपातः पुनः पिता पुत्रकश्च षट्पूर्वः । (ना.शा.२९-१००)
चञ्चत्पुटस्तथा चेदारम्भे तालयोगस्तु ।
त्रिश्शम्योपरिपाणौ तालावित्येवमेककलः ।
समपाणौ द्वे शम्ये तालावप्येवमेवाथ ।। (ना.शा.२९-८९)
भूयश्शम्या तालाववपाणावुत्तरस्तथा चैव ।
चञ्चत्पुटस्तथा स्यादेवं ह्याश्रावणातालः ।। (ना.श. २९-९०)
शङ्कुकस्तु पठति “उत्तरस्तथा चैव” इति स्थाने “उत्तरस्तथा द्विकलः” इति, “एककल” इत्यत्र च स्थाने “निर्दिष्ट” इति ।
Notes
(मू)
(1अतः परं 2प्रवक्ष्यामि ह्युत्थापनविधिक्रियाम्3 ।)
यस्मादुत्थापयन्त्यत्र4 प्रयोगं नान्दिपाठकाः ।
पूर्वमेव तु रङ्गेऽस्मिंस्तस्मादुत्थापनं स्मृतम् ।। २२ ।।
Abh
केचिच्चा1ष्टाविंशेऽध्याये (२९-८६) आश्रवणायाः पूर्वमभिधानादिह चारम्भस्य पूर्वपाठाद् ज्ञापकाद्विकल्पमिच्छन्ति । अतः सर्वातोद्यस्वरूपानुसन्धिनिर्गीतालापक्रिया चेति (निर्गीततालप्रक्रियाचेति?) ।
“द्विकले मद्रके यत्तु शम्यातालादियोजनम् ।
तत्सर्वं वक्त्रपाणौ तु कार्यमष्टकले मुखे ।।
तस्याधस्तात्पुनः कार्यं पञ्चपाणिचतुष्टयम् ।
वक्त्रपाणेरयं तालो मुखप्रतिमुखाश्रयः ।।” (ना.शा. २९-९७)
केचित्तु वक्त्रवार्ध(पाण्यर्ध)गतमिच्छन्ति । तैर्वस्तुक्रमो वृत्तिशब्दश्च न चर्चितः । संपिष्टकवच्चास्यास्ताल (ना.शा. २९-११२) इति परिघट्टनातालः ।
तत्र-“सप्ताङ्गे द्वादशकलं द्वादशाङ्गे दशैव तु ।
निष्क्राममादितः कृत्वा शम्यास्तिस्रः प्रयोजयेत् ।।(ना.शा. ३१-२७८)
तालत्रयं ततश्चैव शम्यातालौ ततः परम् ।
2शम्यातालौ ततः कार्यौ सन्निपातोऽन्त्य एव च ।।(ना.शा. ३१-२७९)
ओवेणके तु सप्ताङ्गे सम्पिष्टकमिदं मतम् ।
द्विशम्यातालयोगेन द्वादशाङ्गे कला दश ।।” (ना.शा. ३१-२८०)
शङ्कुकस्तु “सम्पक्वेष्ट3कवदस्याताल” (ना.शा. २९-११२) इति पठति ।
“तालादिस्त्र्यश्रभेदोऽन्यो ज्ञेयः पक्वेष्टको बुधैः ।
गुरुपञ्चाक्षराभ्यान्तु(द्यन्त)प्लुतमात्रासमन्वितः ।।” (ना.शा. ३१-२१) इति,
अन्ये तु पठन्ति–
“गुरुपञ्चाक्षरेऽन्ते4 च प्लुतमात्राद्वयान्वितः ।” इति ।।
तथा द्वौ । सम्पिष्टशब्देतुव(शब्दव)त्करणवाचकं शीर्षकवदितिवत्(?) । न हि तस्य
Notes
(मू)
यस्माच्च लोकपालानां परिवृत्य1 चतुर्दिशम् ।
वन्दनानि प्रकुर्वन्ति तस्माच्च2 परिवर्तनम् ।। २३ ।।
Abh
च तदानीमङ्गता । केवलप्रयोगात्प्रकरणं चात्र साक्षी । शीर्षकवद्धा1लासारितवदिति चानयोर्मध्ये पठितमेतत् ।
पक्वेष्टकस्य तथैव तालाद्य(प्लुत)द्वयेत्य2र्थो ? न सङ्गतः ।
सङ्घोटनायां तालस्तु शीर्षवत्पञ्चपाणिना । (ना.शा. काशी. २९-१४२)
अनयोरप्यङ्गयोः पूर्ववत्केचित्क्रमविकल्पमिच्छन्ति ।
“बालासारितवच्चैव तालोऽस्य परिकीर्तितः ।” (ना.शा. २९-११६) इति मार्गासारितस्य तालः । अभिसृतपरिसृतान्यप्यत्र मार्गासारितमध्य एव तत्स्थाने वा विकल्पने प्रयोक्तव्यानि । 3लीलाकृतं नाम यत्तता(दा)तोद्यविधौ (ना.शा. २९-११७) वक्ष्यते तदिह न सङ्गृहीतम् । आसारितानां च त्रयाणां स्वत एकस्तालाध्याये (ना.शा. ३१-१४६-१७३) वितत्य वक्ष्यत इत्येवं प्रयोगक्रमः । अत एव पूर्वरङ्गे स4द्भावमात्रेण सप्रत्याहारका(रादा)वपि सामान्यलक्षणमनुगतमेव । अत्र च शुष्काक्षरधातुवाद्य- विधिरष्टाविंशेऽध्याये ततातोद्यविधौ भविष्यति ‘त्रिमाम्नि’ पुष्कराध्याये (ना. शा. ३४) तत एवावधार्यमिति । विस्तरभयात्तु न लिखितम् ।
अत्र च वैचित्र्यार्थ समुचितमात्र5मित्यादिप्रवृत्तिमपि भाविरूपकोचितं काव्यमपि पठ्यमानं केचिदिच्छन्ति । तथा हि सति “पाठ्ययोगकृतैस्तथा” (ना.शा. ५-८) इति न सङ्कोचितं भविष्यति । युक्तं चैतत् । यथा हि रमणीयात्यु(द्यु)- पकरणभूतशायनविरचनादौ प्रतिपादुकस्तम्भधूपवस्त्रादिष्वपि तदुचितनायक- युगलादिप्रायविचित्राकृतियोगो युद्धोचितसन्नाहक(स)ङ्कटादौ च कातरजनभयभावनं नृसिंहगरुडादिरचनाकृतियोगस्तथैव ह्यतिरमणीये नाट्ये भविष्यन्ति (ति) यदुपरञ्जकवर्ग- ढौकनादौ–6एतदपि सुकुमारतदुक्तगीतपाठ्याभिनययोगेनैव कार्यम् । तच्चापसारितायामेव यवनिकायाम् । उत्थापनाङ्गमध्ये ह्यस्यैककलः पाठ्यसहितः प्रयोगः । तथा हि वक्ष्यति " यस्मादुत्थापयन्ति " इत्यादि । रङ्गे यः पूर्व प्रयोगः कृतः प्रत्याहारादिस्तं यस्मादुत्थापयन्ति फलस्वरूपनिरूपकपाठ्यतदभिनयादिना स्फुटीकुर्वन्ति तस्मादित्यर्थः । पाठ्यावकाशदानार्थमेव चात्रेदं देवतास्तुतिगीतिफलविशेषाभिधानम् । अन्यथा देवतापरितोषायैतत्प्रयोज्यमिति सामान्येन वक्तव्यं स्यात् । विशेषोपदेशस्य प्रयोगे विफलत्वात् ।
Notes
(मू)
आशीर्वचनसंयुक्ता नित्यं यस्मात्प्रयुज्यते1 ।
देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता2 ।। २४ ।।
Abh
अन्ये तु प्रत्यङ्गं पश्चात्तत्प्रयोगमाहुः । तैस्तु प्रयोक्ता कस्तदेति निरूप्यम् । अत्र त्विदमित्यर्थः । कृतमित्युक्तिभङ्ग्या पाठ्यं तद्गीतप्रयोगः पदयुक्तोऽपि केवलमन्तर्यवनिकागतप्रत्याहारादिविषयत्वात्पाठ्ययोगादीनामप्यन्तर्यवनिकार्थमुच्यते । एवं नवाङ्गान्युक्तानि ।
अथ “विघाट्य वै यवनिकाम्” (ना.शा. ५.१२) इत्यादिना यद्गीतकविध्याद्यङ्गदशकं दर्शितं तत्क्रमेण लक्षयति –कीर्तनादित्यादि । कीर्तनं स्तुतिः । तस्मात्पाठ्याद्धेतोः । ततः परं शुष्काक्षरनिर्वृतिःगीतविधिः इति र्गीतकानामन्यतमं वर्धमानं वा । तत्र च तालस्तालाध्याये (एक)त्रिंशे वक्ष्यते । (२१)
यस्मादिति । तत्र प्रत्याहारीदीनि चेत् अत्र प्रयोज्यानि तत्पूर्वरङ्ग इत्यनुवादोऽयं स्यात् । क्रमस्य सिद्धत्वात् । नान्दिपाठका इति । तदुपलक्षितपूर्वरङ्गद्वारेणैव1 पुराणकवयो लिखन्ति स्म " नान्द्यन्त सूत्रधारः” इति । अहरहश्चैषा प्रयोगे प्रयोज्या । एषा च नित्यमेवंरूपैव । अन्यपाठ्यानामुत्थापनादीनां प्रयोगवशादन्यथात्वोपपत्तिर्दृश्यते । न तु नान्दीपाठस्येति नित्यशब्दस्याभिप्रायः । आदिग्रहणात्प्रेक्षापतिप्रभृतयः । एषैव च नान्दी भारत्यङ्गनिरूपणे प्ररोचनेति निर्देक्ष्यते–“जयाभ्युदयिनी चैव मङ्गल्या” (ना.शा. २०.२७) इत्यादिना । इह तु सा (या) प्ररोचना सा तत्र भविष्यति । अत्र नान्दीपदानामन्तरेषु चित्रे पूर्वरङ्गे वर्धमानं यत्प्रयोज्यं तत्पञ्चममङ्गं गणयति ।
नन्वेवं गीतकविधिः प्रथमाङ्गानन्तरमन्याङ्गमध्येऽपि च वर्धमानप्रयोगस्य चित्रेऽपि भावात्सङ्ख्याया अनवस्थानं न पदेऽपतदिति न पुनर्गणनार्हमिति न दोषः (इति) केचिदाहुः । (२४)
शुष्कावकृष्टा तु भवेदितीह । 2शुष्कावकृष्टैवादिष्टा । इह च असावेव च लक्षिता । अवकृष्टायास्त्वनुवादद्वारेण लक्षणं मन्तव्यम् । अन्यथा वक्ष्यमाणं
Notes
(मू)
1अत्र शुष्काक्षरैरेव ह्यवकष्टा2 ध्रुवा यतः ।
तस्माच्छुष्कावकृष्टेयं जर्जरश्लोकदर्शिका3 ।। २५ ।।
4यस्मादभिनयस्त्वत्र5 प्रथमं ह्यवतार्यते6 ।
रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् ।। २६ ।।
Abh
“युक्तायामपकृष्टायां प्रीता नागा भवन्ति हि ।
तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत् ।। (ना.शा. ५.५०)
इति तन्निर्विषयं स्यात् । तत्रावकृष्टाया लक्षणं–
“मुखप्रतिमुखोपेता ह्यवकृष्टा विधीयते ।” (ना.शा. ३२-१२) इति तालविधिः ।
“अन्यभावेषु कृष्टश्च (द्र१व्यहेतुषु पठ्यते ।)
यस्मात्कारुण्यसंयुक्ता ह्य(वकृष्टा भवेततः२ ।) “(ना.शा. ३२.३४१)
इति वाक्यार्थगानेतिकर्तव्यताविधिवृत्तस्वरूपं शम्यादेर्योजनं चाग्रेऽस्या वक्ष्यते । तदेतस्यां प्रयुक्तायां तदनन्तरं नाट्यम्3 । ईदृश्येव शुष्काक्षरैः प्रयोज्या । तत्रावकृष्टात्वसामान्यात् पृथक्कगवाते (थगवगते) (कमपातै ?)र्जर्जरश्लोकदर्शिका यत्त(तस्त)दनन्तरम् । शुष्कावकृष्टेयमिति । असाववकृष्टे(ष्टा) ध्रुवा । सा तस्माच्छुष्कावकृष्टा । आह । हि यस्मात् । अत्रेति अस्याङ्गतायाम् । अवकृष्टस्य(ष्टा) समस्ततल्लक्षणोपेता केवलं शुष्कैरक्षरैरनर्थकैः झंठुमाद्यैः ।
अन्ये त्वेकस्यामेव ध्रुवायां शुष्कावकृष्टत्वधर्मद्वयविषयोऽयं “युक्तायामपकृष्टायाम्” इति श्लोको भविष्यतीति मन्यन्ते । उपाध्यायास्तु शुष्कायामवकृष्टायामेवान्तर्भूतं फलं वक्ष्यते । अत्र तु शुष्कैव लक्ष्यते । अनेन च लक्षणेनावकृष्टापि सूचिताऽत्रेति इयमिति च पदाभ्याम् । (२५)
Notes
(मू) 1.N. अ. अयं श्लोको नास्ति । क्ष.ड.म. यत्र ।
शृङ्गारस्य प्रचरणाच्चारी सम्परिकीर्तिता ।
रौद्रप्रचरणाच्चापि1 महाचारीति कीर्तिता2 ।। २७ ।।
विदूषकः सूत्रधारस्तथा वै पारिपार्श्वकः ।
यत्र कुर्वन्ति सञ्जल्पं तच्चापि त्रिगतं मतम्3 ।। २८ ।।
उपक्षेपेण काव्यस्य4 हेतुयुक्तिसमाश्रया5 ।
सिद्धेनामन्त्रणा या तु6 विज्ञेया सा प्ररोचना ।। २९ ।।
Abh
अभिनीयत इत्यभिनयो रूपकविशेषः । सोऽवतार्यते संक्षेपेण तस्यार्थप्रयोज- नादिनिरूपणपाठ्यद्वारेण अभिनीयन्ते तथैव चाभिनयः क्रियते यत्र तद्रङ्गस्य भाविनो रूपकस्य द्वारमिव **रङ्गद्वारादु(रमु)**त्थापनाङ्गे सामान्येन नाट्यमुत्थापितम् । इह तु रूपकविशेषेणेति भेदः । (२६) शृङ्गारस्येति । शृङ्गारप्रधानं भगवतो महादेव्या सह यत्र चरितं वर्ण्यते काव्ये च तत्सुतिप्रधाने तदेव यत्राङ्गहारचार्यादिना प्रदर्श्यते प्रयुज्यते सा चारी । 1भगवतस्त्रिपुरमर्दनादीव गीतं रौद्ररसभूयिष्ठं यत्र काव्ये वर्ण्यते स्तुतिरूपेण तद्यत्र तदुचितैरेवोद्धतैर्मण्डलाङ्गहारैः प्रयुज्यते सा महाचारी ।
विदूषक इति । पारिपार्श्विकयोरन्यतरो विदूषकवेषभाषाचारो विदूषकः । यत्र इति नागानन्दादौ नाटके सञ्जल्पो भविष्यन्नाटकादिविशेषविषयो हास्यमिश्रः । यद्यप्युक्तः तथापि तद्विशेषो नागानन्दादिभिः विवक्षित इत्यपौनरुक्त्यम् । स एव काव्योपक्षेपस्त्रिषु समायत्तत्वात्त्रिगतशब्देनोक्तः ।
तेन काव्योपक्षेपेण हेतुभूतेन तद्विषये सामाजिकानां या आमन्त्रणा निमन्त्रणं सिद्धेन सिद्ध्योपलक्षितमित्यर्थः । यस्मात्खल्वतः प्रीतिव्युत्पत्तीर्भविष्यतः तस्मादवलोक्यतामेतदिति सा प्ररोचना प्रकृष्टरुचिहेतुभूतत्वात् । न च तद्वचनात्प्रवृत्तिर्भविष्यतीत्याह–हेतुयुक्तीति । हेतोर्या युक्तिर्योजना संक्षेपेणाभिधानं तन्निमित्तमस्या इति ।
एवमेतानि बहिर्यवनिकाङ्गान्यपि दश दृष्टफलान्येव । तथा हि गीत2कवर्धमानान्यु- पजीव्य ध्रुवागानं नाट्यम(मि)ति प्रकृतेरुपजीव्यत्वादवश्यं प्रथमं बुद्धौ कति (कर्तव्यम् ?) । ….
Notes
(मू)
अतः परं प्रवक्ष्यामि ह्याश्राव1णविधिक्रियाम् ।
बहिर्गीतविधौ सम्यगुत्पत्तिं2 कारणं तथा ।। ३० ।।
चित्रदक्षिणवृत्तौ तु सप्त3रूपे प्रवर्तिते4 ।
सोपोहने सनिर्गीते देवस्तुत्यभिनन्दिते ।। ३१ ।।
Abh
ततोऽपि यदारभ्यते तदा बुद्धौ निवेश्यं तावत्सामान्ये । ततः सदाचारपालनाय देवतावन्दनम् । ततः परमाशीर्वादनमभिमुखीकरणार्थम् । ततोऽपि शङ्क्यमानविघ्नशान्त्युपकरणभूतस्योत्तेजनम् । पुराकल्पद्वारेण ततोऽपि विशेषेण प्रयोक्तव्यानुसन्धानम् । ततोऽपि शृङ्गारवीरयोः सर्वत्र रञ्जकपरमपुमर्थताप्रकर्षादुपक्षेपः। तदपि नाट्यविनेयसुकुमारजने स्वच्छन्दता(कर)सर्वरञ्जकहास्यप्राधान्येन काव्यविशेषे भवदभिधेयानुसन्धानम् । तस्यापि प्रयोजननिरूपणम् ।
एवं यथा शास्त्रं कुर्वतामादिवाक्यपरिग्रहो लौकिकस्य वा कर्तव्यविषयमनुसन्धानं तथैव नाट्यारम्भे गीतकपिण्ड्यादिप्ररोचनान्तं लौकिकानुसार्येव । नात्र कस्यचिदङ्गस्य सामर्थ्यलक्ष्यत्वादि चोदनीयम् । सुकुमारजनविषयत्वादस्य प्रयोगस्य । तस्मान्नालौकिकं किञ्चिदेतत् । केवलं नाट्यस्य रचनाप्राधान्याद्वैचित्र्येण योजनीमदृष्टसम्पत्तये चेति मन्तव्यमित्यलं बहुना । (२७-२९)
ननु भवत्ये(त्वे)वम् । किञ्चारम्भाश्रावणादौ वेगगी(बहिर्गी)तशब्दस्वरूपम् । (पदार्थः) (तदर्थः)कोऽत्र पदार्थः । आश्रावणविधिक्रियाम् । तदयमर्थः– तेषामाश्रावणादीनां विधौ क्रियां प्रयोगरक्षात्मिकां बहिर्गीतशब्दस्य च वाचकत्वेन विधाने उत्पत्तिं बहिर्गीतस्य च विधौ प्रयोगे कारणं प्रयोजनं वक्ष्यामि । (३०)
तत्पुराकल्पद्वारेणाह–चित्रेत्यादिना श्लोकैकादशकेन “बहिर्गीतमिति स्मृतम् ।” इत्यन्तेन (५-४१) । गीतवाद्यगीतोभयप्रधानाः क्रमेण चित्रादयो वृत्तिमार्गाः । चित्रदक्षिणसहिता वृत्तिरिति मध्यमपदलोपी समासः । तद्विषयं यद्गीतकं सहोपोहनप्रत्युपोहनैः वर्धमाननिर्गीतेन च “आश्रावणा तथारम्भः” इत्यादिना अष्टाविंशे (ना.शा. २९-८२) (एकोनत्रिंशे)ऽ ध्याये वक्ष्यमाणेन सहितं देवस्तुत्या च वाच्यभूतयाऽभिनन्दितं समृद्धं 1ऋद्धम् । तस्मिन्प्रवर्तिते प्रयुक्ते सति तद्गानं गीयमानं
Notes
(मू)
नारदाद्यैस्तु1 गन्धर्वैः सभायां देवदानवाः ।
निर्गीतं2 श्राविताः सम्यग्लयतालसमन्वितम् ।। ३२ ।।
तच्छ्रत्वा 3तु सुखं गानं देवस्तुत्यभिनन्दितम् ।
अभवन्क्षुभिताः सर्वे मात्सर्याद्दैत्यराक्षसाः ।। ३३ ।।
सम्प्रधार्य च तेऽन्योन्यमित्यवोचन्नवस्थिताः ।
4निर्गीतं तु सवादित्रमिदं5 गृह्णीमहे वयम् ।। ३४ ।।
सप्तरूपेण6 सन्तुष्टा देवाः कर्मानुकीर्तनात् ।
7वयं गृह्णीम निर्गीतं तुष्यामोऽत्रैव सर्वदा8 ।। ३५ ।।
ते तत्र तुष्टा दैत्यास्तु साधयन्ति पुनः पुनः ।
9रुष्टाश्चापि ततो देवाः प्रत्यभाषन्त नारदम् ।। ३६ ।।
Abh
सुखजनकमपि श्रुत्वा दैत्याः क्षुभिताः । कुतः । मात्सर्यात् । तदपि कुतः । आह– देवैरहो रम्यं साधु साध्वित्यादिभिः । स्तुतिभिरभिनन्द्यमानं यतः । तुरप्यर्थः । केन वा प्रवर्तितं तदित्याह–नारदाद्यैरिति तदधिष्ठितैरित्यर्थः । तदिति सप्तरूपम् । (ना.शा. ३१.का मा. पु.५२१) । लयो द्रुतादिः । तालाः शम्यादिविशिष्टाः त्र्यश्रश्चतुरश्रो मिश्रश्चेति । सम्प्रधार्येत्यनेन परितोष्टव्यमन्यैस्त्वत्रेति । स्थितिं कृत्वावस्थिताः (अमित्राः?) । इति शब्दसूचितमुच्यमानं निर्दिशति–त्वमिति (निर्गीतमिति ।) वादित्रं तद्गतं शुष्काख्यं वीणावाद्यम् । ननु किं तस्य ग्रहणे निमित्तमित्याह–तुष्याम इति । स्तुतिकीर्तनाभावेऽप्याभिमानिकेन परितोषेणेत्यर्थः । दृष्टो ह्यभिमानकृतःप्रीतिविशेषो यथा राजाकर्णनेऽपि । तत्रेति निर्गीते । साधयन्ति । साधनं 1सिद्धिं ब्रुवते । (धातुवाद्याश्रयकृतमिति) 2धातवस्तन्त्रीविशेषाङ्गुलिविशेषसंयोगजा वैणवस्वराः । रञ्जनया अदृष्टविशेषस्य क्रमेण चतुष्टयपृथक्कृता विस्तारव्यञ्जनाविद्धकरणसंज्ञा ।
Notes
(मू)
1एते तुष्यन्ति निर्गीते दानवाः सह राक्षसैः ।
2प्रणश्यतु प्रयोगोऽयं कथं वा मन्यते भवान् ।। ३७ ।।
देवानां वचनं श्रुत्वा नारदो वाक्यमब्रवीत् ।
धातुवाद्याश्रयकृतं निर्गीतं मा प्रणश्यतु ।। ३८ ।।
किन्तूपोहनसंयुक्तं धातुवाद्यविभूषितम् ।
भविष्यतीदं निर्गीतं सप्तरूप3विधानतः ।। ३९ ।।
निर्गीतेनावबद्धाश्च दैत्यदानवराक्षसाः ।
न क्षोभं न विघातं च करिष्यन्तीह तोषिताः4 ।। ४० ।।
5एवं निर्गीतमेतत्तु दैत्यानां स्पर्धया द्विजाः ।
देवानां बहुमानेन बहिर्गीतमिति स्मृतम् ।। ४१ ।।
धातुभिश्चित्रवीणायां गुरुलघ्वक्षरान्वितम् ।
वर्णालङ्कारसंयुक्तं प्रयोक्तव्यं बुधैरथ ।। ४२ ।।
Abh
धातुवाद्यं सप्तभेदलक्षणम् । तस्य यदाश्रयणं तेन हेतुना कृतमिति चित्रम् । तत्तादृशेनादृष्ट(ष्टेन) को गुणो न त्वन(दृ)ष्टे स्तुतिनिरूपणेषु यद्विधानं तेन हि पूर्वमध्यान्तेषु प्रयुज्यमानेन वीणावाद्यवैचित्र्यावकाशदायिना । हृद्यतागतिकादिक- न्यायादिगुणान्तरमप्याह–निर्गीतेतेति । अपदावखेलने अयत्नेन बालहेवाकपोषणन्यायेन बद्धाः। स्वीकृता इत्यर्थः ।
एवमविनाशकारणं प्रतिपाद्य संज्ञानिर्वचनं निरूपयति–एवमिति निर्गीतमिति तावदाद्यं नाम । निरर्थकं गीतमिति । तत्तु गन्धर्वैबहिर्गीतमिति स्मृतम् । कुतो दैत्यानां स्पर्धयेति । तत्कृतोऽयं स्वीकारः । ततो हेतोः ।
ननु यदि तैः स्वीकृतं ततः किमित्येषा संज्ञा कृता । अत आह–देवानामिति । देवकर्मकं यद्बहुतयोत्कृष्टतया मननं तेन प्रयोजनभूतेन । वयं देवान्दानवेभ्यो बहुत्वेन मन्यामहे । तथा चेदं नाभ्यन्तरं बाह्यगीतमस्माभिर्गीयत इति तैरेवं1 वेदितव्यमित्यर्थः । (३१-४१)
Notes
(मू)
1निर्गीतं गीयते यस्मादपदं वर्णयोजनात् ।
असूयया च देवानां बहिर्गीतमिदं स्मृतम् ।। ४३ ।।
निर्गीतं यन्मया प्रोक्तं सप्तरूपसमन्वितम् ।
उत्थापनादिकं यच्च तस्य कारणमुच्यते2 ।। ४४ ।।
आश्रावणायां युक्तायां दैत्यास्तुष्यन्ति3 नित्यशः4 ।
5वक्त्रपाणौ कृते चैव नित्यं तुष्यन्ति दानवाः ।। ४५ ।।
Abh
ननु सप्तरूप एव किमिदं प्रयोज्यम् । नेत्याह–धातुभिरिति । चित्रा नाट्- योपरञ्जनार्था या वीणा तस्यामप्येतद्धातुभिरुक्तस्वरूपैः करतलनिष्कोटितादिभिः उप- लक्षितं प्रयोज्यम् । कथम् । भाण्डवाद्ये गत्यर्थे यानि गुरूणि “घृत् भृङ्” इत्यादिकानि लघूनि “मट कट " इत्यादिकानि । तत्रान्वितं कृत्वा । अनेन भाण्डवाद्योपरञ्जकत्वमुक्तम् । तथा ध्रुवागाने ये स्थाय्यादयो वर्णा ये च प्रसन्नादिप्रभृतयोऽलङ्कारास्तत्र सम्यगन्वितं संबद्धं कृत्वा । अनेन गानोपरञ्जकत्वं दर्शितम् । अथ शब्दोऽप्यर्थे । प्रयोज्यं कुशलैरथेति (वा) पाठः ।
ननु निर्गीतसंज्ञाऽस्य या पुराणी तत्र किन्निमित्तमित्याशङ्क्याह–निर्गीतमिति । पदमित्यर्थप्रत्यायकमित्यर्थः । वर्णा झंटुमादयः स्थाय्यादयश्च । ननु लक्षणाभ्यन्तर एव तदिति कथं बाह्यमित्याशङ्क्याह–असूयया चेति । तैर्यतोऽसूयितं बलादेवाविष्कृतबहुमानैः अतस्तदीयहृदयग्रहणायैवं व्याहृतम् । न च सर्वथा निर्निबन्धनमेवेदमिति दर्शयितुं चकारेणान्वर्थताप्यस्तीति सूचयति । गीयमानेभ्य सार्थकेभ्यः पदेभ्यो बहिर्गीतमिति । एवमविनाशकारणं संज्ञानियोजननिमित्तं च तैनैव क्रमेणाभिधाय प्रतिजानीते– निर्गीतमित्यादिना । आश्रावणादि निर्गीतं सप्तरूपसमन्वितम् । इति गीतकविधिः । उत्थापनादिकमित्यवशिष्टं बहिर्यवनिकाङ्गम् । तस्य कारणं प्रयोजनम् । (४२-४४)।
Notes
(मू) 1.अ. निर्गीयतेऽतो निर्गीतमपदं वल्गु गोजयेत् ।
परिघट्टनायां1 तुष्टा युक्तायां रक्षसां गणः ।
सङ्घोटनाक्रियायां च2 तुष्यन्त्यपि च3 गुह्यकाः ।। ४६ ।।
मार्गासारितमासाद्य प्रीता यक्षा भवन्ति ही ।
गीतकेषु प्रयुक्तेषु देवास्तुष्यन्ति4 नित्यशः ।। ४७ ।।
वर्धमाने प्रयुक्ते तु रुद्रस्तुष्यति सानुगः ।
तथा चोत्थापने युक्ते ब्रह्मा तुष्टो भवेदिह ।। ४८ ।।
तुष्यन्ति लोकपालाश्च प्रयुक्ते परिवर्तने ।
नान्दीप्रयोगेऽथ5 कृते प्रीतो भवति चन्द्रमाः ।। ४९ ।।
युक्तायामवकृष्टायां प्रीता6 नागा भवन्ति हि ।
7तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत् ।। ५० ।।
रङ्गद्वारे प्रयुक्ते तु विष्णुः प्रीतो भवेदिह ।
जर्जरस्य प्रयोगे तु तुष्टा विघ्नविनायकाः ।। ५१ ।।
Abh
तद्दर्शयति–आश्रावणायामित्यादिना भूतगणो भवेदित्यन्तेन श्लोकाष्टकेन । प्रत्याहाराद्याश्रावणायामेवान्तर्भूतम् । अवधित्वादस्याः । 1क्वचित्पुस्तके–
“प्रत्याहारे यातुधानाः प्रीयन्ते सह पन्नगैः ।
तुष्यन्त्यप्सरसस्तत्र कृतेऽवतरणे द्विजाः।।
तुष्यन्त्यपि च गन्धर्वा आरम्भे सम्प्रयोजिते ।”
इति सार्धश्लोको दृश्यते । यादृच्छिकसम्प्रधारितपरिग्रहबहुमानकृतः परितोषो विशिष्टविषयो मन्तव्यः । मार्गासारितमिति । मार्गश्च आसारितं च मार्गासारितम् । समाहारद्वन्द्वः । मार्ग इत्येकदेशेन मार्गासारितमुच्यते । आसारितशब्देनासारित- मित्यङ्गद्वयमुक्तम् । सर्वमङ्गं लक्षितम् । आसारितशब्देनासारितविधिरिति समाहारद्वन्द्वेन द्वयोरङ्गयोः फलमेतन्निरूपितम् । देवाः । रुद्र2 इति । तदीयकर्मस्तुतेः । एतच्च गीतकवर्धमानयोरन्यतरप्रयोगे वैकल्पिकं फलद्वयम् । ब्रह्मेति । ब्राह्मादिप्रथमसृष्टिः
Notes
(मू)
(व्या)
तथा चार्यां प्रयुक्तायामुमा तुष्टा भवेदिह ।
महाचार्यां प्रयुक्तायां तुष्टो भूतगणो भवेत् ।। ५२ ।।
1आश्रावणादिचार्यन्तमेतद्दैवतपूजनम् ।
पूर्वरङ्गे 2मया ख्यातं तथा चाङ्गविकल्पनम् ।। ५३ ।।
3देवस्तुष्यति यो येन यस्य यन्मनसः प्रियम् ।
तत्तथा पूर्वरङ्गे तु4 मया प्रोक्तं द्विजोत्तमाः ।। ५४ ।।
Abh
व्यापारः तत्र नाट्यविषयः । स चात्र पुष्पाञ्जलिना पूज्यते (सूच्यते ) । चन्द्रमा इति । “जितं सोमेन " इति (ना.शा. ५-११०) नान्द्यां पाठात् । नागा इत्यवकृष्टगतिः । जर्जरस्येति1 । शुष्कावकृष्टालक्षणस्यैवाङ्गस्य शेषभूतो जर्जरस्तुतिप्रदर्शकः श्लोको वक्ष्यते " ततः श्लोकं पठेदेकम् " (ना.शा. ५-११८) इति । तस्येदं प्रयोजनं –विघ्नानां यो विनायको निवारयिता स तुष्टो भवति । तन्निवारणोपकरणसमुत्तेजनाद्विघ्नविनायका विरूपाक्षादयः । ते विघातं न कुर्वन्तीति । सैव फलसाम्यात्तुष्टिरेषामिति केचित् । उमेति । तस्या एव स्वरूपकीर्तनात् । (४५-५२)
एतत्सर्वमुपसंहर्तुमाह–आश्रावणादीत्यादि कृतानि त्वित्यन्तं श्लोकचतुष्टयम् । प्रत्याहारादीनामाश्रावणायामन्तर्भावः । चारीशब्देनेह महाचारी परिगृह्यते । त्रिगतप्ररोचनयो- र्दृष्टैकं प्रयोजनत्वमिति तात्पर्यम् । पूर्वरङ्ग इति । तदुपश्लिष्टमित्यर्थः । ख्यातमित्युद्देशेन अङ्गविकल्पनम् । अङ्गानां चैषां विकल्पनं लक्षणमित्यर्थः । देवस्तुष्यतीत्यादिना प्रयोजनोपसंहारः । यस्य यन्मनसः प्रियमित्यभिमानिकपरिग्रहबलादित्यर्थः।
प्रशंसामस्य दर्शयति–सर्वैर्दैवतैः पूजार्हं प्रशंसनीयम् । अत्र हेतुः –यतो दैवतान्यनेन पूज्यन्ते । अत एव प्रेक्षापतिप्रयोक्तृप्रभृतीनामेव तत् । धनेषु यशस्यायुषि तत्साधु । तत्कारित्वात् । नह्यत्र कश्चिदपि (कस्यचिदपि) विरक्तिरिति । दैत्यदानवेति निर्गीतं दैत्यादिकस्य तुष्टिकृत् । गीतकादि च देवानाम् । (५३-५६)
Notes
(मू)
सर्वदैवतपूजार्हं1 सर्वदैवतपूजनम् ।
2धन्यं यशस्यमायुष्यं पूर्वरङ्गप्रवर्तनम् ।। ५५ ।।
दैत्यदानवतुष्ट्यर्थ सर्वेषां च दिवौकसाम् ।
निर्गीतानि सगीतानि पूर्वरङ्गकृतानि तु ।। ५६ ।।
(या3 विद्या यानि शिल्पानि या गतिर्यच्च चेष्टितम् ।
लोकालोकस्य जगतस्तदस्मिन्नाटकाश्रये ।।)
निर्गीतानां सगीतानां वर्धमानस्य़ चैव हि ।
ध्रुवाविधाने वक्ष्यामि लक्षणं कर्म चैव हि ।।५७।।
प्रयुज्य गीतकविधिं वर्धमानमथापि4 च ।
गीतकान्ते ततश्चापि कार्या ह्युत्थापनी ध्रुवा ।।५८।।
आदौ द्वे च चतुर्थं चाप्यष्टमैकादशे तथ ।
गुर्वक्षराणि जानीयात्पादे ह्येकदशाक्षरे ।।५९।।
Abh
नन्वस्य लक्षणं कुतो ज्ञेयम् । यत इह तावन्नोक्तम् । न चाङ्गप्रसङ्गतः लक्षणमस्य पश्यामो वयम् । इत्याशङ्क्य प्रसङ्गादत्र(दन्यत्र)लक्षणं वक्ष्यामिति प्रसङ्गावकाशं दर्शयितुमाह–निर्गितानामिति । तेषा लक्षणं " तथा रुन्द्रे " ति (यथा ऋंदुम् इति) लक्ष्यमुदाहरणं वक्ष्यामि । कर्म लक्ष्यम् । ध्रुवाणां विधाने (ना. शा. ३१-१२२) कर्तव्ये सतीत्यर्थः । न तु ध्रुवाविधाने ध्रुवाध्याये ।
एतदुक्तं भवति–ध्रुवागानस्येहोपरञ्जकज्येष्ठतया । तस्य वक्तव्यप्रकृतिभूतं गान्धर्व ज्ञातुं यत्तल्लक्षणं वक्ष्यते तत्रैतत्ततातोद्यविधाने तालाध्याये च वक्ष्यामि (इति) । एतदविदितत्व (दविदित्वा य) द्ध्रुवाशब्दोऽत्र छन्दोनिबद्धनिमित्ता(त्त ?) निर्गीतत्वे वर्तत इत्याहुः तदसत् । अनुक्तसमत्वादस्य । तद्विधाने तल्लक्षणं वक्ष्यामीति न किञ्चित् । अनार्षोऽयं श्लोक इति तु महत्साहसम् । (५७)
अथोत्थापनादीनां लक्षणशेषः पूरयितव्यः । तत्रोत्थापनस्यानुवादपूर्वकं ध्रुवालक्षणं तत्प्रयोगद्वारेण पूरणं कर्तुमाह–प्रयुज्येत्यादि योजयेदित्यन्तं श्लोकचतुष्टयम् । तत्र
Notes
(मू)
चतुष्पदा भवेत्सा तु 1चतुरश्रा तथैव च ।
चतुर्भिस्सन्निपातैश्च2 त्रिलया त्रियतिस्तथा ।। ६० ।।
परिवर्ताश्च चत्वारः पाणयस्त्रय एव च ।
जात्या चैव हि विश्लोका तां च3 तालेन योजयेत् ।। ६१ ।।
शम्या तु द्विकला कार्या तालो द्विकल एव च ।
पुनश्चैककला शम्या सन्निपातः 4कलात्रयम् ।। ६२ ।।
Abh
प्रथमः श्लोकोऽनुवादकः । गीतकवर्धमानयोरन्यतरत्प्रयुज्यते । गीतकान्ते । ततो वर्धमानादन्तरम् । उत्थापनी ध्रुवा कार्येत्यनुवादः । चो भिन्नक्रमो वार्थे । अन्ये तु समु्च्यये । निपातसमुदायं युगपद्गीतकवर्धमानप्रयोगाशयेनाहुः ।
ध्रुवाया लक्षणम्– आदौ द्वे चेति । शेषाणि तु लघूनि । एवम्भूताश्च- त्वारोऽस्याः पादाः । तालश्चास्याश्चञ्चत्पुटः द्विकलः । भाविविधिना तल्लाभेऽपि चतुरश्रग्रहणाद् द्विकलचञ्चत्पुटपादभागविषयो वक्ष्यमाणाङ्गुलिनयमोपजीवनार्थः । सर्व1- पादान्ते यतोऽस्याः सन्निपातस्तेन चतुस्सन्निपाता । द्रुतादयो लयाः । स्त्रोतोगतादयो यतयः । परिवर्ता गानक्रियाभ्यावृत्तयः । ते चत्वारः । समपाणिरपरपाणिरुपरिपाणिश्चेति त्रयः पाणयोऽस्यां कार्या इति शेषः । किमियं ध्रुवा वृत्तजातिमध्ये न गणितेत्याशङ्क्याह– विश्लोकाऽऽख्यवृत्तजातिरियम्–
" 2आद्यां(द्ये) चतुर्थमपि चाष्टमकं सैकादशं यदि भवेच्च गुरु ।
सा त्रैष्टुभे भवति पादविधौ विश्लोकजातिरवकृष्टकृता ।।
(ना. शा. ३२-१४९) (५८-६१)
चतुरश्रेति तालेन योजयेदिति च यदुक्तं तत्स्पष्टयति–शम्या त्वित्यादि । द्विकलचञ्चत्पुटस्य शम्यादेः स्वरूपमनेन दर्शितम् । 3सापि सशब्दपात4गतहस्त- निर्वर्त्यैव । पूर्वादिशब्दात् द्विकलेति दर्शयति–द्विकलेत्यादिना । तेन निष्क्रामशम्ये
Notes
(मू)
एवमष्टकलः कार्यः सन्निपातो विचक्षणौः ।
चत्वारः सन्निपाताश्च1 परिवर्तः सउच्यते ।। ६३ ।।
पूर्वं 2स्थितलयः कार्यः परिवर्तो विचक्षणैः ।
तृतीये सन्निपाते तु 3तस्य भाण्डग्रहो भवेत् ।। ६४ ।।
एकस्मिन्परिवर्ते तु गते प्राप्ते द्वितीयके ।
कार्य मध्यलये तज्ज्ञैः सूत्रधारप्रवेशनम् ।। ६५ ।।
पुष्पाञ्जलिं समादाय रक्षामङ्गलसंस्कृताः4 ।
5शुद्धवस्त्राः सुमनसस्तथा चाद्भुतदृष्टयः ।। ६६ ।।
Abh
दक्षिणेन । पुनः निष्क्रामतालौ वामेन । ततो दक्षिणेन शम्या । ततो द्वाभ्यां प्रवेशनिष्क्रामसन्निपाताः । तत्र–
“आवापसंज्ञकं ज्ञेयमुत्तानाङ्गुलिकुञ्चनम् ।
अधस्तलैन हस्तेन निष्क्रामोऽन्त्या(ल्प ? ) प्रसारणम् ।।
भूयश्चाकुञ्चनं ज्ञेयं प्रेवशाख्यमधस्तलम् । (ना. शा. ३१-३३-३४)
शम्या दक्षिणपातस्तु तालो वामेन कीर्तितः ।
उभयोः सन्निपातः स सन्निपात इति स्मृतः ।।”
चत्वारः सन्निपाता इति पादचतुष्टयस्यापि परिवर्तनमाह । स्थितलयो विलम्बितलय उक्तः । तृतीय1 इत्यन्त्यकलावर्जितपादत्रयं तन्त्रीगानसमन्वितं प्रयुज्य तृतीयपादान्त्यकला । ततः प्रभृति पुष्करवाद्यप्रयोगो यावत्तुर्यपादसमाप्ति । पुनर्मध्यलयेन गानम् । तत्समये सूत्रधारप्रवेशः । तस्येति–प्रथमपरिवर्तस्य । प्रथममपि च गानमन्यद्वितीया– दिसाहचर्यात्परिवर्तशब्देनोच्यते । अन्यत् द्विः पचतीति त्रयः2 पाकाः स्युः । सकृत्पचतीति द्वौ स्याताम् । सूत्रधारप्रवेशनमिति । सूत्रधारशब्देन तत्साहचर्यात्पारिपार्श्विकावपि । (६२-६५) तेषां प्रवेशे 3इतिकर्तव्यतामाह–पुष्पाञ्जलिमित्यादिना । पूर्वं पुष्पाञ्जलिः सूत्रधारस्यैव । इतरयो
Notes
(मू)
स्थानन्तु वैष्णवं कृत्वा 1सौष्ठवाङ्गपुरस्कृतम् ।
दीक्षिताः शूचयश्चैव प्रविशेयुः समं त्रयः ।। ६७ ।।
भृङ्गारजर्जरधरौ भवेतां 2पारिपार्श्विरकौ ।
3मध्ये तु सूत्रभृत्ताभ्यां 4वृत्तः पञ्चपदीं व्रजेत् ।। ६८ ।।
5पदानि पञ्च गच्छेयुर्ब्रह्मणो यजनेच्छया ।
6पदानाञ्चापि विक्षेपं व्याख्यास्याम्यनुपूर्वशः7 ।। ६९ ।।
Abh
र्भृङ्गारजर्जरधरत्वेन वक्ष्यमाणत्वात् । शुद्धं शुक्लम् । सुमनसः शोभनं सविस्मयं मनः येषाम् । विस्मयश्च ये श्रुत्यादिभिः दुर्विनेयास्तेऽस्माभिः सुखेन विनीयन्त इति ।
“या चाकु़ञ्चितपक्ष्माग्रा साश्चर्योद्वृत्ततारका ।
सौम्या विकसितान्ता च साद्भुता दृष्टिरद्भुते ।।” (ना. शा. 8-51)
सौष्ठवेत्यादिना लक्षणैकदेशेन वैष्णवमेव स्फुटयति । अन्यथा विष्णुत्वादावपि कस्यचित्सम्भावना भवेदन्वर्थतया ।
“द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् ।
तयोः समस्थितश्चैकः त्र्यश्रः पक्षगतोऽपरः ।। (ना. शा. १०-५२)
किञ्चिदञ्चितजङ्घं च सौष्ठवाङ्गपुरस्कृतम् ।
वैष्णवं स्थानमेताद्धि ।” (ना. शा. १०-५३)
दीक्षिता इति कृतोपवासाः ।। (६६-६७)
भृङ्गार शौचाय । जर्जरो विघ्नशान्त्यै । परिपार्श्व भवौ पारिपार्श्विकौ । अत एव सूत्रधारौ मध्ये द्वाभ्यां वृत्तस्सन्निति त्रयोऽपि पञ्चपदीं व्रजेयुरित्यर्थः । तत्प्रयोजनमाह–पदानीति । त्रयस्ताला अन्तरं मानं यस्य तादृशो विष्कम्भः ऊर्ध्वगमने परिमाणं यस्य चरणस्य तं पार्श्वोत्थानेन1 न तु स्पष्टतरोर्ध्वतयोत्थितं चरणं मध्ये द्वयोः पादयोः पातयेत् । गमनस्य प्रक्रान्तत्वात् । किञ्चित्पुरत इत्थमेवान्यानि चत्वारि पदानि । (६८-७०)
Notes
(मू)
त्रिताला1न्तरविष्कम्भमुत्क्षिपेच्चरणं शनैः ।
पार्श्वोत्थानोत्थितं चैव तन्मध्ये पातयेत्पुनः ।। ७० ।।
2एव 3पञ्चपदीं गत्वा सूत्रधारः सहेतरः ।
सूचीं वा4मपदे दद्याद्विक्षेपं 5दक्षिणेन च ।। ७१ ।।
पुष्पाञ्जल्यपवर्गश्च कार्यो ब्राह्मोऽथ मण्डले ।
6रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः ।। ७२ ।।
ततः सललितैर्हस्तैरभिवन्द्य7 पितामहम् ।
8अभिवादानि कार्याणि त्रीणि हस्तेन भूतले ।। ७३ ।।
कालप्रकर्षहेतो9श्च पादानां10 प्रविभागतः11 ।
सूत्रधारप्रवेशाद्यौ वन्दना12भिनयान्तकः13 ।। ७४ ।।
द्वितीयः परिवर्तस्तु कार्यो मध्यलयाश्रितः14 ।।
15ततः परं तृतीये तु मण्डलस्य प्रदक्षिणम् ।। ७५ ।।
Abh
अथ यदर्थ पञ्चपदविक्षेपः कृतस्तं पुष्पाञ्जलिविमोक्षं सेतिकर्तव्यताकमाह–सूची- मित्यादि ।
कुञ्चितं पादमुत्क्षिप्य जानूर्ध्व सम्प्रसारयेत् ।
पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता ।। (ना. शा. १०-३४)
पृष्ठदेश इति शेषः तस्य पादस्य बहिः क्षेपः मण्डलं स्थानम् । किन्तत् । ब्राह्म- मित्याह । रङ्गपीठस्येति । अभिवादनानीत्यर्थः । त्रीणीति । प्रत्येकं कथं वन्दनं कार्यमित्याह । कालस्य यः प्रकर्षो बहुतरत्वं तत्र । यो हेतुः1 नृत्तहस्तकरणप्रयोगात्मा तमवलम्ब्य । ननु कथमसौ कालप्रकर्षः इत्याशङ्क्य आह–पादानामिति । तदुपलक्षितानां कलानां यः प्रविभागः कालपरिमाणान्तरमाश्रित्य । ननु तासामिति को विधिरित्याह-सूत्रधारप्रवेशाद्य इति ।
Notes
(मू)
भवेदाचमनं चैव जर्जरग्रहणं तथा ।
उत्थाय मण्डलात्तुर्ण दक्षिणं पादमुद्धरेत् ।। ७६ ।।
1वेधं तेनैव कुर्वीत विक्षेपं वामकेन2 च ।
पुनश्च दक्षिणं पादं पार्श्वसंस्थं समुद्धरेत् ।। ७७ ।।
3ततश्च वामवेधस्तु विक्षेपो दक्षिणस्य च4 ।
इत्येनन 5विधानेन सम्यक्कृत्वा प्रदक्षिणम् ।। ७८ ।।
6भृङ्गारभृतमाहूय शौचं चापि समाचरेत् ।
यथान्यायं तु कर्तव्या तेन ह्याचमनवक्रिया ।। ७९ ।।
आत्मप्रोक्षणमेवाद्भिः 7कर्तव्यं तु यथाक्रमम् ।
प्रयत्नकृतशौचेन सूत्रधारेण यत्नतः ।। ८० ।।
Abh
एतदुक्तं भवति–द्वात्रिंशत्कलानां मध्ये प्रवेशः पञ्चपदीगमनं पुष्पत्यागोऽभि- वादनत्रयं चेति निर्वर्तनीयम् । तत्र यावतीषु कलासु पञ्चपदीगमनान्तं कर्म सम्पन्नं ततो या अवशिष्यन्ते कलास्तदभिवादनयोग्यं व्यावर्तितपरिवर्तितादिकरण- मुद्वृत्तनलिनीपद्मकोशादिनृत्तहस्तजातं वाऽवलम्ब्य सललितमभिवादनत्रयं कार्यम् ।
एवं द्वितीये परिवर्ते कर्मत्रयं प्रदर्श्य तृतीयपरिवर्ते द्रुतलये कर्मकलापमुपदिशति -ततः परमिति । मण्डलस्येति । ब्रह्मस्थानस्य । तत्कर्मत्र1यं क्रमेण लक्षयन्प्रथमस्य लक्षणमाह–उत्थायेति । अभिवादने हि जानुशिरोविनमितं भूश्लेषपर्यन्तं कृतम् । उद्धरेदिति । “कुञ्चितं पादम् ।” (ना.शा. १०-३४) इत्यादिसूची सूचयति । वेधमिति द्वितीयपादपार्ष्णिपृष्ठे पातनम् । पार्श्वसंस्थमिति पार्श्वक्रान्तां (ना.शा. १०-३२) चारीमाह ।
एतत्कर्मोपसंहरन्द्वितीयं शौचाख्यं लक्षयति–इत्यनेनेति । आहूयेति वचनाद्भृङ्गारधारिणः प्रदक्षिणभ्रमणे तूष्णींभावेन स्थितिरिति लक्ष्यते । शौचे प्रयोजनं वक्ष्यते । यतोऽभिवादने श्लिष्टं शिर इत्यादिन्यायस्मृत्यादितः प्राङ्मुख उपविश्याबहिर्जानुरित्यादिक्रमः । (७१-७९)
Notes
(मू)
1सन्निपातसमं ग्राह्यो जर्जरो विघ्नजर्जरः ।
प्रदक्षिणाद्यो विज्ञेयो 2जर्जरग्रहणान्तकः ।। ८१ ।।
तृतीयः परिवर्तस्तु विज्ञेयो वै 3द्रुते लये ।
गृहीत्वा जर्जरं 4त्वष्टौ कला 5जप्यं प्रयोजयेत् ।। ८२ ।।
6वामवेधं ततः कुर्याद्विक्षेपं 7दक्षिणस्य च ।
ततः पञ्चपदीं चैव गच्छेत्तु कुतपोन्मुखः ।। ८३ ।।
वामवेधस्तु तत्रापि 8विक्षेपो दक्षिणस्य 9तु ।
जर्जरग्रहणाद्योऽयं 10कुतपाभिमुखान्तकः ।। ८४ ।।
चतुर्थः परिवर्तस्तु 11कार्यो द्रुतलये पुनः ।
12करपादनिपातास्तु भवन्त्यत्र तु षोडश ।। ८५ ।।
Abh
तृतीयं कर्म दर्शयति–प्रयन्तेति । कस्मिन् सन्निपाते तदग्रहणमित्या- शङ्कामपाकर्तुमाह–प्रदक्षिणाद्य इति । तेन तिर्यपादासन्निपातकाले तदग्रहणमित्युक्तं भवति ।
अथ द्रुतलय एव चतुर्थे परिवर्ते कर्मद्वयं दर्शयति–गृहीत्वेति । ग्रहणं धारणम् । इहाष्टौ कला इति । प्रथमपादपातपर्यन्तमित्यर्थः । जप्यं जपनीयं तृतीयाध्यायोक्तम् । “अत्र विघ्नविनाशार्थम् (ना.शा.३-७८) इत्यादिश्लोकचतुष्टयं प्रतिकलमर्धश्लोक इत्यनेनावसानप्रकर्षेण योजयेदुच्चारयेदिति यावत् । (८०-८२)
ननु पञ्चपद्यां कियान् विक्षेपकाल इत्याशङ्क्याह–जर्जरग्रहणाद्य इति । इहापि ग्रहणं धारणम् । तेन चतुर्विशत्या कलानां कुतपगमनं कुर्यादिति तात्पर्यम् । षोडशेति । कलाद्वयेनैकं पतनमिति यावत् । (८३-८५)
Notes
(मू)
त्र्यश्रे द्वादश पा1तास्तु भवन्ति 2करपादयोः ।
वन्दनान्यथ कार्याणि त्रीणि हस्तेन भूतले ।। ८६ ।।
आत्मप्रोक्षणमद्भिश्च त्र्यश्रे नैव3 विधीयते ।
एवमुत्थापनं कार्यं ततस्तु परिवर्तनम् ।। ८७ ।।
4चतुरश्रं लये मध्ये 5सन्निपातैरथाष्टभिः ।
6यस्या लघूनि सर्वाणि केवलं 7नैधनं गुरु ।। ८८ ।।
भवेदतिजगत्यान्तु सा ध्रुवा 8परिवर्तनी ।
9वार्तिकेन तु मार्गेण वाद्येनानुगतेन च ।। ८९ ।।
ललितैः पादविन्यासैर्वन्द्या देवा यथादिशम्10 ।
द्विकलं पादपतनं 11पादचार्यां गतं भवेत् ।। ९० ।।
एकैकस्यां विधि तथा सन्निपातद्वयं भवेत्12 ।
वामपादेन वेधस्तु कर्तव्यो नृत्तयोक्तृभिः ।
द्वितालान्तरविष्कम्भो विक्षेपो दक्षिणस्य च ।। ९१ ।।
Abh
त्र्यश्र इति । प्रसङ्गादेतदुक्तम् । न चैतावत्प्रयोगात्मकमेतदङ्गमिति दर्शयितुमाह–एवमित्यादि । एवम्भूतायामिहेतिकर्तव्यतायां कृतायां
“सय्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः । पूर्वमेव तु रङ्गेऽस्मिन्” इति (ना.शा. ५-२२) श्लोकलक्षितं प्रत्याहारादीनां गीतकविध्यन्तानां प्रयोगस्य च नाट्यस्योत्थापनं व्याख्यातरूपं कार्यम् । चशब्दस्तुशब्दास्यार्थे । ततस्तु परिवर्तनम् । न तु ध्रुवाप्रयोगा1नन्तरमेव ।
Notes
(मू)
(व्या)
ततः पञ्चपदीं गच्छेदतिक्रान्तैः पदैरथ ।
ततोऽभिवादनं 1कुर्याद्देवतानां यथादिशम् ।। ९२ ।।
वन्देत प्रथमं पूर्वां दिशं शक्राधिदैवताम् ।
द्वितीयां दक्षिणामाशां वन्देन यमदैवताम् ।। ९३ ।।
वन्देत पश्चिमामाशां ततो वरुणदैवताम् ।
चतुर्थीमुत्तरामाशां वन्देत धनदाश्रयाम् ।। ९४ ।।
Abh
ये तूपसंहारग्रन्थत्वेनैतद्व्याचक्षते “तस्मादुत्थापयन्ति” इति न (तैः) किञ्चिदनुस्मृ(सृ)तं स्यात् । न हि ब्रह्माभिवादनजर्जराभिमन्त्रणमात्रेण किञ्चिदप्युत्थापितं भवति । विघ्नशमनोपयोगित्वेनोत्थापकत्वं परिवर्तनादावपि स्यात् । उत्थापनी- त्यन्वर्थत्वात् । नाट्यायितेन च प्रयोगोत्थापनान्तस्य च ध्रुवाभिनयरूपतयोचितार्थाक्षेपात् ।
“यत्तु काव्येन नोक्तं स्याद्गीतेन” इति ।
तथा “गीतं प्राणाः प्रयोगस्य” इति,
“परिक्रमेण रङ्गस्य तथैवार्थवशेन च ।
परिवर्तास्तु”
इति वचनेन गान्धर्व इव ध्रुवागाने परिवर्तानादृष्टार्थेतिकर्तव्यतारूपा(पत्वा)भावा1त् । स्फुटश्चैषामुपाये निर्दिष्टेनोचितेनार्थचतुष्टयेन युक्तेयं सुकविना ध्रुवा कार्येति वृद्धाः ।
ततश्चेति । चतुरश्रतालयुक्तध्रुवायोगात्परिवर्तनं चतुरश्रम् । पादैर्गीयत इति सन्निपाताच्च पादचतुष्टयोगात् । सन्निपाताष्टकमत्र लक्षयति–यस्या इति । अतिजगती त्रयोदशसाक्षरा । तेन परिवर्तनचतुष्टयम् । गुरुः वार्तिकमार्गो यत्र चतुर्मात्रा2 कला । गीतं यदनुगच्छत्यनुगतमेतद्भवेद्वाद्यम् । पादचार्या भौम्यामाकाशिक्यां वा कर्तव्यायां पादपतनं द्वे कले व्याप्नोति । एकस्यामुत्क्षेपोऽन्यस्यां पतनमिति यावत् । अन्ये तु शोभार्थं कलायां द्वौ पादपातौ वार्तिकमार्गे वर्णयन्त इत्थं व्याचक्षते–द्वित्वं वर्तयत्येको योऽ(न्यो)भिवर्तते । न विद्यते कले यस्य पादपतनस्य तद्विकलमिति । एवं3 च वदन्तः पूर्वोक्त उक्ते4त्यर्थः (उक्त इत्यर्थः) (पूर्वोत्तरविरुद्धतानभिज्ञाः?) । (८६-९२)
Notes
(मू)
(व्या)
दिशां तु वन्दनं कृत्वा वामवेधं प्रयोजयेत् ।
दक्षिणेनव 1च कर्तव्यं 2विक्षेपपरिवर्तनम् ।। ९५ ।।
प्राङ्गमुखस्तु ततः कुर्यात्पुरुषस्त्रीनपुंसकैः3 ।
4त्रिपद्या 5सूत्रभृद्रुद्रब्रह्मोपेन्द्राभिवादनम्6 ।। ९६ ।।
दक्षिणं तु पदं 7पुंसो वामं 8स्त्रीणां प्रकीर्तितम् ।
9पुनर्दक्षिणमेव स्यान्नात्युत्क्षिप्तं नपुंसकम् ।। ९७ ।।
वन्देत पौरुषेणेशं स्त्रीपदेन जनार्दनम् ।
नपुंसकपदेनापि तथैवाम्बुजसम्भवम्10 ।। ९८ ।।
परिवर्तनमेवं स्यात्तस्यान्ते प्रविशोत्ततः ।
11चतुर्थकारः पुष्पाणि प्रगृह्य विधिपूर्वकम् ।। ९९ ।।
Abh
शक्रोऽधिष्ठात्री देवता अस्या इति तां पूर्वां यजेतेति (वन्देतेति) । विशेष्येण वा विशेषेण1 वेदं बध्नातीति (विशेषणेन वा संबध्नातीति) सविशेषं वन्द्यमानत्वं शक्रस्य गम्यते ।
विक्षेपपूर्वकं परिवर्तनम् । येनोत्तराभिमुखं स्थितः2 परिवृत्य पूर्वाभिमुखो भवति । तत्र किं कुर्यादित्याह–प्राङ्मुखस्त्विति । त्रिपदीं दर्शयति–दक्षिणन्त्विति(त्ये)तया त्रिपद्या । अभिवादनं दर्शयति–वन्देतेति ।
एवं दिग्देवतावन्दनं परिवर्तिन्या ध्रुवया विद्यु(ध्यु)द्गी3यमानपदया कार्यम् । तस्यान्त इत्यादि । तस्येति परिवर्तस्य । सूत्रधारस्य पारिपार्श्विकयोश्च तिस्रः क्रियाः । तद्व्यतिरिक्तञ्चतुर्थं कर्म करोतीति चतुर्थकारः4 । विधिः“स्थानन्तु वैष्णवम्” इत्यादि (ना.शा. ५-६७) सूत्रधारोक्तः । पुष्पाणां प्रयोजनमाह–यथावदिति । तृतीयेऽध्याये पुष्कराध्याये (३४) च निरूपितदेवतापूजाक्रमेण (९३-१००) ।
Notes
(मू)
(व्या)
1यथावत्तेन कर्तव्यं पूजनं जर्जरस्य तु ।
2कुतपस्य च सर्वस्य सूत्रधारस्य चैव हि ।। १०० ।।
तस्य 3भाण्डसमः कार्यस्तज्ज्ञैर्गतिपरिक्रमः4 ।
न तत्र गानं कर्तव्यं तत्र 5स्तोभक्रिया भवेत् ।। १०१ ।।
6चतुर्थकारः पूजां तु 7स कृत्वान्तर्हितो भवेत् ।
ततो गेयावकृष्टा तु चतुरश्रा 8स्थिता ध्रुवा ।। १०२ ।।
गुरुप्राया तु सा कार्या तथा 9चैवावपाणिका ।
स्थायिवर्णाश्रयोपेता10 कलाष्टकविनिर्मिता11 ।। १०३ ।।
(12चतुर्थं पञ्चमं चैव सप्तमं चाष्टमं तथा ।
लघूनि पादे पङ्क्त्यान्तु सावकृष्टा ध्रुवा स्मृता ।।)
सूत्रधारः 13पठेत्तत्र मध्यमं स्वरमाश्रितः14 ।
15नान्दीं पदैर्द्वादशभिरष्टभिर्वाऽप्यलङ्कृताम् ।। १०४ ।।
Abh
भाण्डेनैव सम इति । पुष्करवाद्यमेवास्य गत्यर्थे परितः क्रमेण कार्यम् । गीयत इति गानमर्थवद्वाक्यम् । स्तोभानां शुष्काक्षराणाम् । क्रिया गानमित्यर्थः । स्थितेति । विलम्बितलया । गुरुप्रायेति । “नव गुर्वक्षराण्यादौ” इति (ना.शा. ५-१११) यच्छुष्कावकृष्टाया लक्षणं भविष्यति तदेवास्यामिति यावत् । “स्थिताः स्वराः समा यत्र स्थायी वर्णः स उच्यते” (ना.शा. २९-१९) । तमाश्रिता येऽलङ्कारा वक्ष्यन्ते तैरुपेताः । कलाष्टकं द्विकलचञ्चत्पुट उक्तपूर्वः (५-६२) (१०१-१०३)
एवं 1पूर्वामितिकर्तव्यतामभिधाय नान्दीमाह–सूत्रधार इति । तत्रे2त्यवकृष्टायां गीतायामित्यर्थः । तद्ध्रुवागानगतेन मध्यमस्वरेण पाठ इत्यतस्तस्या ध्रुवाया मध्यमांशको
Notes
(मू)
(व्या) 1.म.भ. ध्रुवामितिकर्तव्यामभि ।
नमोऽस्तु सर्वदेवेभ्यो 1द्विजातिभ्यः शुभं तथा ।
जितं सोमेन वै राज्ञा 2शिवं गोब्राह्मणाय च ।। १०५ ।।
ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मद्विषस्तथा ।
3प्रशास्त्विमां महाराजः पृथिवीं च ससागराम् ।। १०६ ।।
4राष्ट्रं प्रवर्धतां चैव 5रङ्गस्याशा 6समृद्ध्यतु ।
प्रेक्षाकर्तुर्महान्धर्मो7 भवतु ब्रह्मभाषितः8 ।। १०७ ।।
काव्यकर्तुर्यशश्चास्तु9 धर्मश्चापि प्रवर्धताम् ।
इज्यया चानया नित्यं प्रीयन्तां 10देवता इति ।। १०८ ।।
नान्दीपदान्तरेष्वेषु 11ह्येवमार्येति नित्यशः ।
वदेतां12 सम्यगुक्ताभिर्वाग्भिस्तौ13 पारिपार्श्विकौ ।। १०९ ।।
Abh
1जात्यंशको गृहीत इत्युक्तं भवति । एतदुपजीवनेनोक्तं कश्यपाचार्येण “पूर्वरङ्गे तु षाडबः2” इति ।
ना3न्दीं पठति–नमोऽस्त्वित्यादि देवता इत्यन्तम् । पदमत्रावान्तरवाक्यम् । तदन्तेष्वेवमार्येति । अन्तरशब्दो विशेषे । नान्दीपदविशेष उक्त इत्यर्थः । मध्यवाचिनीत्य(चिन्य)न्त4रशब्दो(ब्दे)ऽन्त्यं पदं न स्व(स्वी)कृतम् । वाग्रहणादपिशब्दाच्चतुष्षोडशपदत्वं चतुरश्रे पूर्वरङ्गे । त्र्यश्रे तु षट्पञ्च (त्रिषट्पद)- त्वमपि लभ्यते । एतच्च प्रथमाध्याय एवास्माभिरुक्तम् (पु. २५-२६) । रङ्गस्येति । नटकुशीलववर्गस्य । धर्म इति । “य इमं पूर्वरङ्गम्” इति (ना.शा. ५-१७०) वक्ष्यमाणः । (१०४-१०९)
एवमिति चतुर्थ5कारप्रवेशादितिकर्तव्यतेयमित्यर्थः ।
Notes
(मू) 1.N. ड.म.अ. द्विजातिभ्यश्च वै नमः ।
(व्या)
एवं नान्दी विधातव्या 1यथावल्लक्षणान्विता ।
2ततश्शुष्कावकृष्टा स्याज्जर्जरश्लोकदर्शिका3 ।। ११० ।।
नव4गुर्वक्षराण्यादौ षड्लघूनि गुरुत्रयम् ।
5शुष्कावकृष्टा तु भवेत्कला ह्यष्टौ प्रमाणतः ।। १११ ।।
यथा—
6दिग्ले दिग्ले 7दिग्ले दिग्ले जम्बुकपलितकते 8तेचाम् ।
कृत्वा 9शुष्कावकृष्टां तु यथावद्द्विजसत्तमाः ।। ११२ ।।
ततः श्लोकं पठेदेकं गम्भीरस्वरसंयुतम् ।
देवस्त्रोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते ।। ११३ ।।
राज्ञो वा यत्र भक्तिः स्यादथ वा ब्रह्मणस्स्तवम्10 ।
11गदित्वा जर्जरश्लोकं 12रङ्गद्वारे च यत्स्मृतम् ।। ११४ ।।
Abh
एवं नान्दीं लक्षणतः पूरयित्वा शुष्कावकृष्टाख्यमङ्गं पूरयति– ततश्शुष्कावकृष्टेत्यादिना । (ततः) एतत्प्रयोगानन्तरम्। जर्जरस्तुतिश्लोको यतः सूत्रधारेण पठ्यतेऽतो ज1यते तद्दर्शिका तत्पुरस्सरीत्यर्थः । शुष्कावकृष्टामात्राः । नव गुर्वक्षराणीति2 । उदाहरणं पठतीदं दिग्ले इत्यादि । यथावदित्यनेन तदनन्तरं जर्जरश्लोकपाठं सूचयति । तद्दर्शनेन तस्या उक्तत्वात् । ततः श्लोकमित्यनेन रङ्गद्वारमङ्गं निरूपयति । देवस्य विष्णोः स्तोत्रं पूर्वं कृत्वा यां देवतामुद्दिश्योत्सवादौ नाट्यं कृतं सा तत्र स्तोतव्या । अथवा एवमेव । राज्ञः नाट्यप्रवर्तकस्य तत्प्रेक्षापतेराराध्यदेवता । स चेदुदासीनस्तर्हि ब्रह्माणः अयमसौ । रङ्गद्वारमुपसंहर– श्चार्यख्यमङ्गं पूरयितुं तत्र पूर्वेतिकर्तव्यतामाह–गदित्वेति । जर्जरश्लोकं गदित्वा यो रङ्गद्वारे श्लोकस्तं च गदित्वा जर्जरोऽपि नाम्यते । वक्ष्यमाणतुलाधृतरूपतया येन3 श्लोकेन संपाद्यते तादृशमन्यं श्लोकं पठेत् । “अत्र विघ्नविनाशार्थम्”
Notes
(मू) 1.N. ड.म.अ. यथोक्ता लक्षणैर्मया ।
(व्या)
पठेदन्यं पुनः श्लोकं जर्जरस्य विनाशनम्1 ।
जर्जरं 2नमयित्वा तु 3ततश्चारीं प्रयोजयेत् ।। ११५ ।।
पारिपार्श्विकयोश्च स्यात्पश्चिमेनापसर्पणम्4 ।
5अड्डिता 6चात्र कर्तव्या ध्रुवा 7मध्यलयान्विता ।। ११६ ।।
चतुर्भिः सन्निपातैश्च चतुरश्रा प्रमाणतः ।
8आद्यमन्त्यं चतुर्थं च पञ्चमं च तथा9 गुरु ।। ११७ ।।
10यस्यां ह्रस्वानि शेषाणि सा ज्ञेया त्वड्डिता11 बुधैः12 ।
13अस्याः प्रयोगं वक्ष्यामि यथा पूर्वं महेश्वरः ।। ११८ ।।
Abh
(ना.शा. ३-७८) इत्युक्तश्लोका1 व्यतिरिक्तनाम्नाऽर्थाभिधायिनं श्लोकं चार्यङ्गभूतं पठेदिति यावत् ।
अन्ये तु शुष्कावकृष्टानन्तरं देवतास्तोत्रमिति श्लोकः । ततो जर्जरश्लोकः । ततो विष्णुस्तुतिकृद्रङ्गद्वारश्लोकः । ततो जर्जरश्लोक इत्याहुः (११०-११५) ।
पश्चिमेनेति । प्राङ्मुखावेव पृष्ठनिवृत्तिभिः पदैः पारिपार्श्विकावपसर्पेतामित्यनेन केवलसूत्रधारप्रयोज्यमानाश्चारीमहाचार्यः सूचिताः ध्रुवामाह–अड्डिता चात्रेति । रङ्गद्वारे चार्यां चेति केचित् । अन्ये तु सन्निधानाद्रङ्गद्वारेऽवकृष्टेवैत्याहुः । अध्रुवमेव रङ्गद्वारमित्येके । चतुरश्रा इति । प्रस्ताराञ्चित एव चञ्चत्पुटे स्यात् (ना.शा. ३१-पु. ५२२. का.मा.) इह छन्दोविशेषाभिधानेऽपि नियमो वक्ष्यते ‘उष्णिगनुष्टुब्बृहती पङ्क्तिश्चेति ।’ (ना.शा. ३२-३६) अड्डिता जातिरिति ।
अन्ये तु पठन्ति–
“2आद्यं चतुर्थ दशममष्टमैकादशे तथा।
गुरूणि दोध3के या स्यादड्डिता नाम सा स्मृता ।।”
इति ।
Notes
(मू)
(व्या)
सहोमया क्रीडितवान्नानाभावविचेष्टितैः ।
1कृत्वाऽवहित्थं स्थानं तु वामं चाधोमुखं भुजम् ।। ११९ ।।
2चतुरश्रमुरः कार्यमञ्चितश्चापि मस्तकः।
नाभिप्रदेशे विन्यस्य जर्जरं3 च तुलाधृतम् ।। १२० ।।
वामपल्लवहस्तेन पादैस्तालान्तरोत्थितैः4।
गच्छेत्पञ्चपदीं चैव 5सविलासाङ्गचेष्टितैः ।। १२१ ।।
वामवेधस्तु कर्तव्यो विक्षेपो 6दक्षिणस्य च ।
7शृङ्गाररससंयुक्ता पठेदार्यां विचक्षणः ।। १२२ ।।
Abh
“आद्यमन्त्यं चतुर्थं च पञ्चमं च तथा गुरु ।” इत्यन्ये ।। अस्या इति । चार्याः । सहेमयेति । ‘शृङ्गारस्य प्रचरणात् ।’ (ना.शा.५-२७) ‘उमा तुष्टा’ (ना.शा. ५-५२) इति प्रोक्तत्वादिति भावः । क्रीडितवानिति । स्त्रीचेष्टितेनेति भावः । कृत्वावहित्थं स्थानन्त्विति । अवहित्थं स्त्रीणां स्थानकम्–
“पूर्वो विरचितस्त्यश्रस्तदन्योऽपसृतः समः ।
पादस्तालान्तरन्यस्तस्त्रिकमीषत्समुन्नतम् ।।(ना.शा.१२-१६८)
पाणिर्लताख्यो यत्रैकस्तदन्यस्तु नितम्बगः ।
अवहित्थं समाख्यातम्” (ना.शा. १२-१६९) इति ।
जर्जरमिति । खटकामुखमध्ये स्त्रीगतौ हि वक्ष्यते– “नाभिप्रदेशे विन्यस्य सव्यं च1 खटकामुखम् ।” इति (ना.शा..१२-१७९) ।
वामपल्लवहस्तेनेति । वामपल्लवः– “मणिबन्धनमुक्तौ तु पताकौ पल्लवौ” इति (ना.शा.९-१९६) । पञ्चपदीं पू्र्वोक्तामेव स्मारयति । वामवेधस्त्विति । आर्यामिति । यत्र देव्या सह भगवतः पार्वतीप्रियस्य प्रणयकोपादि वर्ण्यते तेनेति । श्लोक आर्यैवात्र (११६-१२२)
Notes
(मू)
(व्या) 1.म.भ. सव्यके ।
चारीश्लोकं 1गदित्वा तु कृत्वा च परिवर्तनम् ।
तैरेव च पदैः कार्यं 2पश्चिमेनापसर्पणम् ।। १२३ ।।
3पारिपार्श्विकहस्ते तु न्यस्य जर्जरमुत्तमम्4 ।
महाचारीं ततश्चैव प्रयुञ्जीत यथाविधि ।। १२४ ।।
चतुरश्रा ध्रुवा 5तत्र तथा 6द्रुतलयान्विता ।
चतुर्भिस्सन्निपातैश्च 7कला ह्यष्टौ प्रमाणतः ।। १२५ ।।
8आद्यं चतुर्थमन्त्यं च सप्तमं दशमं गुरु ।
9लघु शेषं ध्रुवापादे चतुर्विंशतिके10 भवेत् ।। १२६ ।।
(यथा-)
11पादतलाहतिपातितशैलं
क्षोभितभूतसमग्रसमुद्रम् ।
ताण्डवनृत्तमिदं 12प्रलयान्ते
पातु 13जगत्सुखदायि हरस्य ।। १२७ ।।
भाण्डोन्मुखेन कर्तव्यं पादविक्षेपणं ततः ।
सूचीं 14कृत्वा पुनः कुर्याद्विक्षेपपरिवर्तनम् ।। १२८ ।।
Abh
अथ महाचारीप्रयोगमवतारयति–पारिपार्श्विकहस्ते त्विति । तत्र ध्रुवमाह- चतुरश्रेति । द्विकलेनोक्तेन चञ्चत्पुटेन । आद्यं चतुर्थमिति ध्रुवालक्षणम् । अस्याः प्रयोगमाह–भाण्डोन्मुखेनेति । पश्चिमाभिमुखेन । महेश्वरत्वं यस्य न्यस्यात्मनि तस्यात्मनीच्छता ऊनचतुस्तालता तच्चेष्टितानुसरणाच्च मध्यत्वेऽपि तद्- द्वितालतेत्यौचित्यात्तालान्तरत्वमुक्तम् । (१२४-१३१)
Notes
(मू)
अतिक्रान्तैः सललितैः 1पादैर्द्रुतलयान्वितैः ।
2त्रितालान्तरमुत्क्षेपैर्गच्छेत्पञ्चपदीं ततः ।। १२९ ।।
तत्रापि वामवेधस्तु विक्षेपो दक्षिणस्य च ।
3तैरेव च पदैः कार्यं प्राङ्मुखेनापसर्पणम् ।। १३० ।।
पुनः पदानि त्रीण्येव गच्छेत्प्राङ्मुख एव तु ।
ततश्च वामवेधः स्याद्विक्षेपो दक्षिणस्य च ।। १३१ ।।
ततो 4रौद्ररसं श्लोकं 5पादसंहरणं पठेत् ।
तस्यान्ते तु 6त्रिपद्याथ व्याहरेत्पारिपार्श्विकौ ।। १३२ ।।
तयोरागमने कार्यं गानं 7नर्कुटकं बुधैः ।
तथा च भारतीभेदे त्रिगतं8 सम्प्रयोजयेत् ।। १३३ ।।
विदूष9कस्त्वेकपदां सूत्रधारस्मितावहाम् ।
असम्बद्धकथाप्रायां कुर्यात्कथनिकां10 ततः ।। १३४ ।।
Abh
अथ महाचारीं सूचयति–ततो रौद्ररसमिति । रुद्रस्यायं रौद्रप्रायः स रसः । यत्र पादानां च संहरणं समासयोजनयैक्यं यत्रेत्योजःप्रधानत्वं दर्शितम् । तस्येति । पाठस्यान्ते । त्रिपद्येति । पारिपार्श्विकावामुखरूपया1 । अत्र च ध्रुवाया अनुक्तत्वात्पूर्वोक्तैवाड्डिता संश्रयणीया ।
अथ त्रिगतमङ्गं दर्शयति–तयोरित्यादिना । तयोः पारिपार्श्विकयोः । नर्कुटकध्रुवा वक्ष्यते ।
Notes
(मू)
(व्या)
(1वितण्डां गण्डसंयुक्तां2 3तालिकाञ्च प्रयोजयेत् ।
कस्तिष्ठति जितं केनेत्यादिकाव्यप्ररूपिणीम् ।
पारिपार्श्विकसञ्जल्पो विदूषकविरूपितः ।
स्थापितः सूत्रधारेण त्रिगतं सम्प्रयुज्यते ।।)
4प्ररोचना च कर्तव्या सिद्धेनोपनिमन्त्रणम्5 ।
रङ्गसिद्धौ6 पुनः कार्य काव्यवस्तुनिरूपणम् ।। १३५ ।।
7सर्वमेव विधिं कृत्वा सूचीवेधकृतैरथ ।
पादैरनाविद्धगतैर्निष्क्रामेयुः समं त्रयः ।। १३६ ।।
एवमेष8 प्रयोक्तव्यः पूर्वरङ्गो यथाविधि ।
चतुरश्रो द्विजश्रेष्ठासत्र्यश्रं 9चापि निबोधत ।। १३७ ।।
अयमेव प्रयोगः स्यादङ्गान्ये10तानि चैव हि ।
तालप्रमाणं सङ्क्षिप्तं केवलं तु विशेषकृत ।। १३८ ।।
शम्या तु द्विकला कार्या तालो ह्येककलस्तथा ।
पुनश्चैककला शम्या सन्निपातः कलाद्वयम् ।। १३९ ।।
Abh
अष्टौ नर्कुटकानां तु विज्ञेया मूलजातयः1 ।
2रथोद्धता बुद्बुदकम्” इत्यादि (ना.शा. ३२-२८०)
तदन्यतमध्रुवोपलक्षितं गानं नर्कुटकम् । भारतीभेद इति । भारतीवृत्यङ्गमुपसंहरत्येवमेष इति । चतुरश्रस्त्र्यश्रशशुद्धश्चित्र इति चतुर्धा पूर्वरङ्गः । यद्वक्ष्यति–
Notes
(मू)
(व्या)
अनेन हि प्रमाणेन कलाताललयान्वितः1 ।
कर्तव्य पूर्वरङ्गस्तु 2त्र्यश्रोऽप्युत्थापनादिकः ।। १४० ।।
आद्यं चतुर्थं दशममष्टमं 3नैधनं गुरु ।
यस्यास्तु 4जागते पादे सा त्र्यश्रोत्थापिनी ध्रुवा ।। १४१ ।।
वाद्यं 5गतिप्रचारश्च ध्रुवा तालस्तथैव च ।
6संक्षिप्तान्येव कार्याणि 7त्र्यश्रे नृत्तप्रवेदिभिः ।। १४२ ।।
वाद्यगीतप्रमाणेन 8कुर्यादङ्गविचेष्टितम् ।
9विस्तीर्णमथ सङ्गक्षिप्तं द्विप्रमाणविनिर्मितम्10 ।। १४३ ।।
हस्तपादप्रचारस्तु 11द्विकलः परिकीर्तितः ।
चतुरश्रे 12परिक्रान्ते 13पाताः स्युः षोडशैव तु ।। १४४ ।।
14त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः15 ।
एतत्प्रमाणं 16विज्ञेयमुभयोः पूर्वरङ्गयोः।। १४५ ।।
केवलं परिवर्ते तु गमने त्रिपदी भवेत् ।
दिग्वन्दने पञ्चपदी चतुरश्रे विधीयते ।। १४६ ।।
आचार्यबुद्ध्या कर्तव्यस्ञ्यश्रस्ताल17प्रमाणतः ।
18तस्मान्न लक्षणं प्रोक्तं पुनरुक्तं भवेद्यतः ।। १४७ ।।
एवमेष प्रयोक्तव्यः पूर्वरङ्गो द्विजोत्तमाः ।
19त्र्यश्रश्च चतुरश्रश्च शुद्धो भारत्युपाश्रयः ।। १४८ ।।
Notes
(मू)
एवं तावदयं शुद्धः पूर्वरङ्गो मयोदितः ।
चित्रत्वमस्य वक्ष्यामि यथाकार्यं प्रयोक्तृभिः ।। १४९ ।।
वृत्ते1 ह्युत्थापने विप्राः कृते च परिवर्तने ।
2चतुर्थकारदत्ताभिः 3सुमनोभिरलङ्कृते ।। १५० ।।
उदात्तगानैर्गन्धर्वैः परिगीते4 प्रमाणतः ।
देवदुन्दुभयश्चैव निनदेयुर्भृशं ततः ।। १५१ ।।
5सिद्धाः कुसुममालाभिर्विकिरेयुः समन्ततः ।
6अङ्गहारैश्च देव्यस्ता उपनृत्येयुरग्रतः ।। १५२ ।।
यस्ताण्डवविधिः प्रोक्तो 7नृत्ते पिण्डीसमन्वितः ।
रेचकैरङ्गहारैश्च न्यासोपन्याससंयुतः8 ।। १५३ ।।
नान्दीपदानां मध्ये तु एकैकस्मिन्पृथक्पृथक् ।
प्रयोक्तव्यो 9बुधैः सम्यक्चित्रभावमभीप्सुभिः10 ।। १५४ ।।
Abh
“त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा । “इति चित्र एव विशेषाञ्चितो भवति । तदा गमनकाले । ततोऽनन्तरम् । निष्क्रान्तासु नर्तकीषु ततः परं शुष्कावकृष्टादि यदङ्गजातं प्ररोचनान्तं तैरेव सूत्रधारादिभिस्तद(तः)परं कृत्वा ततः शुद्धादुत्कृष्टं चित्रं कृत्वाऽङ्गहारव्यामिश्रेण प्रयोक्तव्यम् ।
नान्य(अन्ये) च “नास्ति पुरुषस्य नृत्तम्” इत्याशयेन सर्वास्वित्यत्र नान्दीपदवैचित्र्याय याः प्रविष्टास्तासामेव निष्क्रामणमत्र पूर्वासां चतसृणाम् । तेन तत्कृतमेव गानं तेषु चित्रत्वमिति मन्यन्ते । (१३२-१५७) ।
Notes
(मू)
एवं कृत्वा यथान्यायं 1शुद्धं चित्रं प्रयत्नतः ।
2ततः परं प्रयुञ्जीत नाटकं लक्षणान्वितम् ।। १५५ ।।
ततस्त्वन्तर्हिताः सर्वा भवेयुर्दिव्ययोषितः ।
निष्क्रान्तासु च सर्वासु नर्तकीषु ततः परम् ।। १५६ ।।
पूर्वरङ्गे प्रयोक्तव्यमङ्गजातमतः परम्3 ।
एवं शुद्धो भवेच्चित्रः पूर्वरङ्गो विधानतः ।। १५७ ।।
कार्यो नातिप्रसङ्गोऽत्र 4नृत्तगीतविधिं प्रति ।
गीते वाद्ये च नृत्ते च 5प्रवृत्तेऽतिप्रसङ्गतः ।। १५८ ।।
खेदो भवेत्प्रयोक्तॄणां प्रेक्षकाणां तथैव च ।
खिन्नानां रसभावेषु स्पष्टता 6नोपजायते ।। १५९ ।।
Abh
कार्यो नातिप्रसङ्गं इति । तत्रैकाङ्गहारप्रयोग एव कार्य इत्यर्थः । अत एवा(ङ्गा)न्तर- गणनया षोडशैवाङ्गहाराः । तथा चोत्थापनं परिवर्तनमवकृष्टागानं नाट्यं नान्दीपाठः शुष्कावकृष्टजर्जरश्लोकाः ध्रुवा रङ्गद्वारमड्डिता आर्यापाठो ध्रुवा रौद्रश्लोकपाठो नर्कुटकं त्रिगतं प्ररोचना चेत्येते । अङ्गहारषोडशकमेव त्र्यश्रेऽपीति नान्दीपादान्तरेषु बहुतरं नृत्तम् ।
अन्ये तु तत्रैव नृत्तमिच्छन्ति मार्गान्तरेषु(नाङ्गान्तरेषु) । तच्चासङ्गतम् । एवं च सति ‘वृत्ते ह्युत्थापन’ इत्यादि तथा ‘निष्क्रान्तासु च सर्वासु’ इत्यादि चानुपात्तसममेव स्यात् । न चैकाङ्गा(ङ्गहार) विचित्रत्वाद्विमिश्रचित्रव्यपदेशे दृष्टान्तं(न्तो) ह्येकस्य तन्तोर्वर्णस्य (क)लावैचित्र्यं(त्र्ये) पटेऽपि स्यात् तथा व्यपदेशः । ‘एतद्विमिश्र’ इति चोक्तं प्राक् । (ना.शा. ४-१६) तदलमनेन ।
प्रेक्षकाणामित्यनेन सामाजिकानां पूर्वरङ्गे स्फुटैव नटबुद्धिर्भवतीति दर्शयति । तत्संस्कारसंस्कृतत्वात्तु धीः भ्रान्त्यादिबुद्धिश्च नाट्यधीर्भवतीति सूचयति । यदि हि तेषु नाट्य1बुद्धिरेवोत्पादनीया स्यात्प्रत्युत प्रयत्नेन नटबुद्धिसम्पादकं पूर्वरङ्गप्रस्तावनादि
Notes
(मू)
(व्या)
ततः शेषप्रयोगस्तु न रागजनको भवेत् ।
(1लक्षणेन विना बाह्यलक्षणाद्विस्मृतं भवेत् ।
लोकशास्त्रानुसारेण तस्मान्नाट्यं प्रवर्तते ।।)
त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा ।। १६० ।।
प्रयुज्य2 रङ्गान्निष्क्रामेत्सूत्रधारः सहानुगः ।
(3देवपार्थिवरङ्गानामाशीर्वचनसंयुताम् ।।
कवेर्नामगुणोपेतां वस्तूपक्षेपरूपिकाम् ।
लघुवर्णपदोपेतां वृत्तैश्चित्रैरलङ्कृताम् ।
अन्तर्यवनिकासंस्थः कुर्यादाश्रावणां ततः ।
आश्रावणावसाने च नान्दीं कृत्वा स सूत्रधृत् ।।
पुनः प्रविश्य रङ्गं तु कुर्यात्प्रस्तावनां ततः ।)
प्रयुज्य विधिनैवं तु पूर्वरङ्गं प्रयोगतः ।। १६१ ।।
Abh
तान्प्रति गोपनीयं स्यात् । दर्शितं चैतदस्माभिः प्रथमाध्याये (पु.३) । प्रयोक्तारः करणादेः1 प्रयोगे यतः2 खिन्नाः प्रेक्षकाश्चादौ ततः शेषः प्रयोगः प्रीतिं न कुर्यात् । तत्प्रधानं चेदं नाट्यं व्यत्पत्तिप्रदमित्युक्तम् ।
शुद्धमिति । यत्र गीतकवर्धमानविधावेव नृत्तं न तु सर्वथा शुद्धमधुना प्रयोगार्हम् । (१५८-१६०)
एवं प्ररोचनान्तमङ्गजातमुक्त्वा यत्पूर्वमुक्तं– “रङ्गंसिद्धौ पुनः कार्यं काव्यवस्तुनिरूपणम् ।” इति (ना.शा. ५-१३५) तद्वितत्य निरूपयति–प्रयोज्येति । प्रयोगेण प्रयोगतः । स्थापयति समस्तं रूपकवृत्तिमिति स्थापकः । सूत्रधारस्य गुणः सौमनस्यविस्मययोगाद्भुतदृष्टित्वशि3क्षादयः । आकृतिश्च
Notes
(मू)
(व्या)
स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः ।
स्थानं तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम् ।। १६२।।
प्रविश्य रङ्गं तैरेव 1सूत्रधारपदैर्व्रजेत् ।
स्थापकस्य 2प्रवेशे तु 3कर्तव्याऽर्थानुगा ध्रुवा ।। १६३ ।।
4त्र्यश्रा वा चतुरश्रा वा तज्ज्ञैर्मध्यलयान्विता ।
5कुर्यादनन्तरं चारीं देवब्राह्मणशंसिनीम् ।। १६४।।
सुवाक्यमधुरैः श्लोकैर्नानाभा6वरसान्वितैः ।
प्रसाद्य रङ्गं विधिवत्कवेर्नाम 7च कीर्तयेत् ।। १६५ ।।
Abh
वैष्णवादिरित्येतस्थापकभूमिं1 गतस्यापि भवति । तदेव स्पष्टयति–स्थानन्त्वित्यादिना । सूत्रधार एव स्थापक इति सूत्रधारः पूर्वरङ्गं प्रयुज्य स्थापकः सन् प्रविशेदिति न भिन्नकर्तृकता । अर्थानुगेति । सारसचक्राह्वा2द्युपमानक्रमेण तत्र प्रावेशिकी । तदर्थमप्येवमुत्थापन्यादि कार्यम्3 । मध्यलयान्विता इत्यद्यतनानामिष्टत्वात् । शोकाद्याविष्टे हि विलम्बितलया रोषाद्याविष्टे च 4द्रुतलया प्रावेशिकी । ततः प्रभृति हि सामाजिकानां हृदयं समुचितास्वादनयोग्यतां (योग्यम् ।) यैः संस्क(स्तु कः)र्तव्यमिति त्रिभिर्लयैर्न्याय्यम् । अन्यत्वे सर्वप्रावेशिकीगानं स्वातन्त्र्यभिप्रायेण (इति) तदविचारितबाण- (भाण)प्रसिद्धिमात्रमिति मन्तव्यम् । कुर्यादनन्तरं चारीमिति । महाचारीगतौ श्लोकौ वक्ष्येते । तेन श्रृङ्गाररसप्रधानं वीरादिरसप्रधानं वा देवाद्विजस्तोत्रोद्देशश्लोकं पठेदित्यर्थः ।
अन्तरचारीमित्यन्ये पठन्ति । व्याचक्षते च – स्वस्थानादन्यचारी, अनन्तर- प्रतिहारासनिकादिवत् । तत्र पुनः प्ररोचनया5 जयाशीर्वादादिक्रमेण रङ्गस्थसामाजिकवर्गप्रसादनं देवद्विजस्तोत्रोद्देशेन श्लोकं पठेत् (इति)। (प्रसादनं)6 हृदयनिर्मलीकरणं रसास्वादोचितसंस्कारात् ग्रहणयोग्यताधानार्थं कुर्यात् । ततः कविनाभ कीर्तयेत् । चशब्दात्तद्गुणादिकम् । येन प्रसिद्धादरणीयत्वं भवति (१६१-१६५)
Notes
(मू)
(व्या) 1.TV.
प्रस्तावनां ततः कुर्यात्काव्यप्रख्या1पनाश्रयाम् ।
2उद्धात्यकादि कर्तव्यं काव्योपक्षेपणाश्रयम् ।। १६६ ।।
दिव्ये3 दिव्याश्रयो भूत्वा मानुषे 4मानुषाश्रयः ।
दिव्यमानुषसंयोगे5 दिव्यो वा मानुषोऽपि वा ।। १६७ ।।
मुखबीजानुसदृशं नानामार्गस6माश्रयम् ।
नानाविधैरुपक्षेयैः का7व्योपक्षेपणं भवेत् ।। १६८ ।।
प्रस्ताव्यैवं तु निष्क्रामेत्काव्यप्रस्ता8वकस्ततः ।
एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि ।। १६९ ।।
Abh
ततो रूपकविशेषप्रख्यानमाश्रित्येति तत्प्रख्यापनव्याजेन भाविरूपकार्थस्य प्रस्तावनामुपक्रमोपक्षेपपर्यायां कुर्यात् । येन प्रथमत एतत्प्रभृति सामाजिकाः संक्षेपेण संस्कारवन्तो भवन्ति । साधारणलोकवृत्ताभिधानसंस्कारवन्तश्च । तथा हि दिव्ये काव्यार्थे डिमादौ तत्सदृशवस्तूपक्षेपः । दिव्यमानुषो रामादिः । वाग्रहणं समुच्चये ।
ननूपक्षेपात्मा प्रस्तावना मुखसन्ध्यङ्गादुपक्षेपाद्बीजलक्षणाया अर्थप्रकृतेश्च कथं भिद्यत इत्याशङ्क्याह–मुखबीजानुसदृशमिति । मुखं मुखसन्ध्यङ्गः । बीजवत् बीजः स्वल्पोद्दिष्टः कार्यहेतुः । मुखाङ्गे ह्युपक्षेपे तदेवोपक्षिप्यते । बीजे च तदेव स्वल्पमात्रम् । इह तु तत्समम् । तथा हि–नटीविदूषकपारिपार्श्विकैः समन्ता1दिति विचित्रभेदेन स्वकार्यनिरूपणव्याजेन ये नानाविधा उपक्षेपाः उपांशुछन्नत्वेन रूपकार्थबीजस्य सामाजिकहृदयभूमौ प्रक्षेपास्तैः काव्यं प्रस्ताव्य प्रस्तावकस्थापको2 निष्क्रामेत्3 ।
नन्विह पूर्वरङ्गशेषभूता चेत्प्रस्तावना तर्हि भारत्यङ्गभूतत्वेन पुनः किमित्यामुखं प्ररोचना चाभिधास्यते (ना.शा. २०-२७) । उच्यते । द्विविधा प्रस्तावना भवति– पूर्वरङ्गस्याङ्गभूताऽन्यस्य वा (वृत्तिभेदस्य =भारत्याः)4 । तत्र पूर्वरङ्गा5ङ्गे्ऽस्यां6 प्रस्तावनायां कविरुदासीनः ।(अस्याः पूर्वरङ्गाङ्गभूतायाः प्रस्तावनायाः)7 स्थापक एव स्वतन्त्रो निर्माता त्वन्यो वा कविः ध्रुवागानादावपि एवम् । यदाह श्रीहर्षः–अत एव हा(भा?)8 सा नामा (कविः) कस्मिंश्चिन्नाटके?” दिवं यातश्चित्तज्वरेणोत्क इ9त
Notes
(मू)
(व्या)
य इमं पूर्वरङ्गं तु विधिनैव प्रयोजयेत्1 ।
नाशुभं प्राप्नुयात्किञ्चित्स्वर्गलोकं च गच्छति2 ।। १७० ।।
यश्चापि विधिमुत्सृज्य यथेष्टं संप्रयोजयेत्3 ।
प्राप्नोत्यपचयं घोरं तिर्यग्योनिं च गच्छति ।। १७१ ।।
न तथाऽग्निः प्रदहति प्रभञ्जनसमीरितः ।
यथा ह्यपप्रयोगस्तु प्रयुक्तो दहति क्षणात् ।। १७२ ।।
4इत्येवावन्तिपाञ्चालदाक्षिणात्यौढ्र5मागधैः ।
कर्तव्यः पूर्वरङ्गस्तु द्विप्रमाणविनिर्मितः ।। १७३ ।।
एष वः कथितो विप्राः 6पू्र्वरङ्गाश्रितो विधिः ।
7भूयः किं कथ्यतां सम्यङ्नाट्यवेदविधिं प्रति ।। १७४ ।।
Abh
इति भारतीये नाट्यशास्त्रे पूर्वरङ्गप्रयोगो 8नाम पञ्चमोऽध्यायः9 ।। एवाभिवर्तते । अशक्यमस्य पुरतोऽवस्थातुम्” इत्यादि । सा द्वितीया सा(या) वृत्तिभेदमध्ये पठिता । एवं प्ररोचनादापवि मन्तव्यम् । यदाह–” तत्र काचित्काव्या1- भिमुखं नीयते पूर्वरङ्गविधिः । (द्विविधत्वम्)2 तदभिमुखं वा काव्यारम्भः तद्भवति सा द्विविधा “इत्यादि । एतच्च वृत्त्यध्याये व्याख्यास्यते “नटी विदूषको वापि” (ना.शा. २०-३०) इत्यादौ । शास्त्रत्यागे मनागपि न वर्तितव्यमिति दर्शयितुमेवमेष इति । (१६६-१६९)
यथाविधि प्रयोगेऽभ्युदयः स्यादित्याह-य इममिति । अन्यथा च प्रयोगे प्रत्यवायमाह–यश्चापीति । नाशुभमित्यादिना । शुभमिति दृष्टेऽभ्युदयः । स्वर्गमिति अदृष्टे । अपचयमिति । दृष्टे प्रत्यवाय इति । तिर्यग्योनिं चेत्यदृष्टे । दृष्टप्रत्यवायभीरुर्बाहुल्येन लोक इति । तमेवाधिकमवश्यंभावित्वेन दर्शयति–न तथाग्निरिति ।
ननु पाठ्यादियोजना च वेषाचारयोजना चात्र पूर्वरङ्गे नोक्तेत्याशङ्क्य तामनुवादद्वारेणाभिधातुं शुद्धश्चान्यत्वेन योज्य इत्याख्यातुं समुचितमुपसंहारं करोति-
Notes
(मू)
(व्या) 1.म. कार्या ।
(1पुनश्चित्रे तथा मिश्रे शुद्धे चैव ब्रवीम्यहम् ।
यथा योज्या ध्रुवाः पञ्च तथा वक्ष्यामि तत्त्वतः ।।
2आदावुत्थापनी कार्या परिवर्तस्तथा भवेत् ।
3अवकृष्टाड्डिता चैव विक्षिप्ता चैव पञ्चमी ।।
एवं पञ्च ध्रुवा ज्ञेय उपोहनसमन्विताः ।
कर्तव्यास्तु प्रयत्नेन पूर्वरङ्गे प्रयोक्तृभिः ।
अतः परं 4प्रवक्ष्यामि ह्युपोहनविधिक्रियाम् ।
उत्थापनस्याष्टकलं परिवर्तस्य षट्कलम् ।
5अवकृष्टं पुनः कार्यं कलाभिः पञ्चभिर्युतम् ।
ध्रुवायामड्डितायां च चतुष्कलमथापि च ।।
क्षिप्तायां चैव विज्ञेयं कलात्रयसमन्वितम् ।
एवं ह्युपोहनानां तु प्रमाणं समुदाहृतम् ।।
गुरुलाघवसंयुक्तं कलातालसमन्वितम् ।
पूर्वरङ्गं सदा ज्ञेयं चित्रमार्गे ह्युपोहनम् ।
चित्रे चैत्राः कला ज्ञेया मिश्रे वार्तिकमाश्रिताः ।
शुद्धे दक्षिणमार्गेण प्रयोक्तव्याः प्रयोक्तृभिः ।।
चतस्रो गीतयः कार्या मागधी ह्यार्धमागधी ।
संभाविता तथा चैव पृथुला च प्रकीर्तिता ।
Abh
इत्येवावन्तिपाञ्चालेत्यादि । यादृक्प्रवृत्तिविशेषे नियतो रूपकनायको भविष्यति तादृक्प्रवृत्तिसमुचितवेषभाषाचाराभिनयादिकमनुवर्तमानैः सूत्रधारादिभिः स्थापकान्तैः । पूर्वरङ्गो द्विविधसत्र्यश्रश्चतुरश्रश्च । एष इत्यनन्तरोक्तस्वभाव एव कर्तव्यो न शुद्धः । अन्ये मन्यन्ते आवन्त्या1 सात्त्विकीकैशिकीमिश्रेति । सा सूत्रधारस्य पाञ्चालमध्यमा भू ।………………………………. ……………………………..(१७०-१७४)
इति महामाहेश्वराचार्याभिनवगुप्तचितायां नाट्यवेदविवृतौ पूर्वरङ्गविधानं नाम पञ्चमोऽध्यायः ।।
Notes
(मू) 1.म. पुस्तक एवायं भागो दृश्यते । क्ष. पुस्तके च । N. omits
(व्या)
मागधी त्वथ 1कर्तव्या त्वथवा त्वर्धमागधी ।
पूर्वरङ्गे भवेच्चित्रे 2चित्रमार्गसमाश्रिता ।।
यथा3 मिश्रस्तु योक्तव्यः पूर्वरङ्गे4 भवेदिह ।
मिश्रे सम्भाविता कार्या तदा वार्तिकमाश्रिता ।
शुद्धे च पृथुला कार्या दक्षिणं मार्गमाश्रिता ।
अतः परं प्रवक्ष्यामि गुरुलाघवतः क्रियाम् ।।
उपोहनक्रियायां तु यथोयोज्यं प्रयोक्तृभिः ।
दिग्ले दिग्ले पुनः कार्यमन्ते झण्टुं सदा बुधैः ।।
मध्ये लघ्वक्षराणि स्युः षोडशैव तु नित्यशः ।
एवं ह्युपोहनं कृत्वा 5तथा वस्तु समाचरेत् ।
उत्थापन्यां प्रयोगेऽस्मिन्कलाकालसमन्वितम्6 ।
अक्षराणां कलायास्तु गुरुलाघमेव च ।।
पूर्वं 7तु कथितं यस्मात्तस्मानाभिहितं 8भवेत् ।
यथा–
देवं विभुं त्रिभुवनाधिपतिं कैलासपर्वतगुहाभिरतम् ।
शैलेन्द्रराजतनयायितं मूर्ध्ना नतोऽस्मि पुरनाशकरम्9 ।।
एवमुत्थापनी कार्या 10पूर्वरङ्गप्रयोक्तृभिः ।
अतोऽन्यत्परिवर्ताया लक्षणं संविधीयते ।।
अस्यास्तूपोहनं कार्यं षट्कलं परिसङ्ख्यया ।
आदौ 11दिग्ले द्विरुक्तस्तु अन्ते झण्टुं सदा भवेत् ।।
मध्ये लध्वक्षराण्येव द्वादशैव प्रयोजयेत् ।
वस्तुनोऽत्र प्रवक्ष्यामि गुरुलध्वक्षरक्रमम् ।।
द्वे चादौ12 च चतुर्थं च अष्टमं दशमं तथा ।
चतुर्दशं पञ्चदशं पादे गुर्वक्षराणि तु ।।
Notes
(मू)
सा ध्रुवा परिवर्ताख्या त्रिलया त्रियतिस्तथा ।
परिवर्तास्तु चत्वारः पाणयस्त्रय एव च ।।
चतुर्भिस्सन्निपातैस्तु1 द्वात्रिंशत्कलिकान्विता2 ।
पूर्वरङ्गे प्रयोक्तव्यः परिवर्तः प्रयोक्तृभिः ।।
यथा–
चन्द्रार्धभूषणजटं 3वरं 4वृषभकेतुं
कैलासपर्वतनिवासिनं5 सुरवरिष्ठम्6 ।
7शौलाधिराजतनयाप्रियं प्रमथनाथं
मूर्ध्ना नतोऽस्मि त्रिपुरान्तकं परमयोगिनम् ।।
अवकृष्टामिदानीं तु कथ्यमानां निबोधत ।
अस्यास्तूपोहनं कार्यं कलाभिः पञ्चभिर्युतम् ।।
8दिग्ले दिग्ले पुनश्चान्ते झण्टुमस्य प्रयोजयेत् ।
अष्टावेव तु कार्याणि मध्ये लघ्वक्षराणि तु ।।
तृतीयं चैव षष्ठं तु 9नवमैकादशे तथा ।
पादे पञ्चदशं चैव षोडशं च भवेद्गुरु ।।
10अष्टषष्ठिगणैः 11पादैरवकृष्टविधिर्बुधाः ।
चतुर्भिः सन्निपातैश्च पाणिभिस्त्रिभिरेव च ।।
Notes
(मू)1.म. सन्निपातैश्च ।
यथा
वरदं सगणं 1त्रिपुरान्तकं 2वृषभकेतुम् ।
गजचर्मपटं विषमेक्षणं 3भुवननाथम् ।
4भुजगाभरणं जगतां5 हितं 6भुवनयोनिम् ।
प्रणतोऽस्मि भवन्तमुमापतिं त्वसितकण्ठम् ।।
तृतीयं चैव षष्ठं च गुरुपादे त्रयोदशम् ।
7चतुर्गुणसमायुक्ता सा कार्या त्वड्डिता ध्रुवा ।।
तत्राप्युपोहनं कार्य चतुष्कलसमन्वितम् ।
अड्डितायाः प्रयोगज्ञैरन्ते 8झण्टुविभूतम् ।।
दिग्ले दिग्ले 9ततश्चैव 10कार्यमन्ते सदा बुधैः ।
चत्वार्येव तु कार्याणि मध्ये लध्वक्षराणि तु ।।
यथा
11प्रवरं वरदं 12प्रणमत सततम् ।
गजचर्मपटं 13मुनिजनसहितम् ।
उमया सहितं भुजगवलयिनम्14 ।
प्रणतोऽस्मि शिवं 15त्रिभुवनसहितम् ।।
प्रयोज्या त्वड्डिता ह्येवं पूर्वरङ्गें यथार्थतः ।
अतःपरं प्रवक्ष्यामि विक्षिप्तायास्तु लक्षणम् ।।
तृतीयं चैव षष्ठं च नवमं दशमं तथा ।
गुर्वक्षराणि 16पादे तु यस्यां 17विक्षिप्तका तु सा ।।
Notes
(मू)
1दिग्ले त्रिभिर्गुणैर्युक्ताः पातास्तस्य भवन्ति हि ।
त्रिकलं चापि निर्दिष्टमुपोहमतः परम् ।।
दिग्ले दिग्ले पुनः कार्यमन्ते झण्टुं2 प्रयोक्तृभिः ।
लघ्वक्षरैर्विहीनं तु विक्षिप्तोपोहनं भवेत् ।।
यथा–
त्रिपुरान्तकरं बहुलीलमुमया3 सहितं बहुरूपम् ।
भुजगाभरणं त्रिपुरान्तकं प्रणमामि सदा परमीशम् ।।
एवं सर्वा ध्रुवाः कार्या युग्मौजकृतगीतकाः ।
आचार्यबुद्ध्या कर्तव्याः पूर्वरङ्गे यथाविधि ।।
एवं वः कथितं सम्यक्पूर्वरङ्गं त्रिधा मया ।
किमन्यत्सम्प्रवक्ष्यामि 4भूयोऽभीष्टं द्विजोत्तमाः ।।
इति भारतीये नाट्यशास्त्रे पूर्वरङ्गविधानं नाम पञ्चमोऽध्यायः ।। )
Notes
(मू)