०४ ताण्डवलक्षणम्

श्रीः ।

अथ चतुर्थोऽध्यायः ।

एवं तु पूजनं कृत्वा मया 1प्रोक्तः पितामहः ।
आज्ञापय 2विभो क्षिप्रं कः प्रयोगः प्रयुज्यताम् ॥ १ ॥

Abh

स्वविलासैरिदं विश्वं यो दर्शयति सन्ततम् ।
(1समीरमूर्ती सः शम्भुः गिरिराजसुताप्रिय ॥)

एवन्त्विति । प्रथमाध्यायोक्ताभिप्रायेणेदमुच्यते । तथा हि– ‘‘मर्त्यलोकगताः सर्वे शुभां पूजामवाप्स्यथ ।’’ (१-१२२) इत्येवमवश्यकार्या पूजा । तत्र च–

रङ्गपूजां कुरुष्वेति मानेवं समचोदयत् । (१-१२७) इति वचनानुसारेण वा2 इदं प्रोक्तमित्येवमिति । (मयेति) द्रुहिणाज्ञप्तेन सतेत्यर्थः । मध्ये तु,

‘‘अथवा याः क्रियास्तत्र लक्षणं यच्च पूजनम् ।
भविष्यद्भिर्नरैः कार्यं कथं तन्नाट्यवेश्मनि ॥’’ (२-२)

इति मुनिप्रश्नितपूजा कथं कृतेति प्रसङ्गादेवमङ्गस्य यथासंभवं पूरकम्3 । सर्वात्मना दिव्ये नाट्यगृहे भोजनदानलाङ्गलोत्कर्षणादिविधेः समस्तस्यासम्भवादिति । प्रथमाध्यायान्तर्यमेवास्य तु कर्तव्यम्4 । क्षिप्रमिति । अनेन पूजानन्तरं प्रयोगेण न चिरायितव्यमित्युक्तं भवति । प्रयुज्यत इति प्रयोगो दशरूपकान्यतमम् । यद्यपि च सम्फेटविद्रवकृता प्रस्तावना बद्धेत्युक्तं (१-५८) तथापि प्रयोगो विघ्नैः स्तम्भित इति नाट्यमण्डपे विघ्नसान्त्वनदैवतपूजने च कृतेऽन्त्य एवायमुपक्रम इति युक्त एव प्रश्नः

Notes

(मू)

(व्या)

ततोऽ1स्म्युक्तो भगवता योजयामृतमन्थनम्2 ।
एतदुत्साहजननं 3सुरप्रीतिकरं तथा4 ॥ २ ॥

योऽयं समवकारस्तु धर्मकामार्थसाधकः ।
मया 5प्राग्ग्रथितो विद्वन्स प्रयोगः6 प्रयुज्यताम् ॥ ३ ॥

7तस्मिन्समवकारे तु प्रयुक्ते देवदानवाः ।
हृष्टाः समभवन्सर्वे कर्मभावानुदर्शनात् ॥ ४ ॥

Abh

कः प्रयोगः प्रयुज्यतामिति । अत्रोत्तरं श्लोकद्वयेनाह–ततोऽ1स्मीति । योजयेति । स्वपुत्रानटा (त्रान्नटां)स्तं प्रयोगं पुनरनुसन्धानशिक्षयेत्यर्थः । यो धर्मकामार्थोपायोपदेशको मया प्राङ्नाट्यवेदनिर्माणनान्तरीयकदशरूपकनिर्माणविधौ ग्रथितः । योऽयमिति च गुणनिकया त्वया सम्यक्साक्षात्कारकल्पत्वं नयनयोग्यत्वं कृतोऽमृतथनं नाम समवकाराख्यः प्रयोगः रूपकम् । सः विद्वन्नुनुप्रयोज्यतामिति श्लोकद्वये सङ्गतिः ।

तुर्हेतौ । यस्मादेतदुत्साहजननं चतुर्विधनायकस्थायिभावोत्साहप्रभववीररसात्मकम् । तथेति । तेन प्रकारेण सुराणां सर्वेषां प्रीतिं रसनारूपां चर्वणालक्षणां करोति । उत्साहो जननो यस्येति समासः । तेन च प्रीतिप्रकारेणोत्साहस्य त्रिवर्गोपायविषयस्य जननम् । एतेन दृश्यं श्रव्यमित्यनुसंहितम् । सङ्गतं महावाक्यर्थाभिप्राये2णापि किञ्चिच्छब्दोन्मीलनाभिप्रायेणात्र कार्यं तेन सम(समम)वकीर्यतेऽर्थो यत्र स समवकारः । सङ्गतिश्च–

“देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव ॥” (१८-६३) इत्यनेन दर्शितः (ता) । “अङ्कोऽङ्कस्त्वन्यार्थः कर्तव्यः” (१८-६९) इत्यनेन चावकीर्णता । एष च प्रयोगः समये (?) सुखभूयिष्ठतया एकरसे वस्तुन्यद्वेगशीलाः एकानुसंधानप्रयासभीरवश्च देवतुल्याः ।

अमृतमथनं समवकार इति भिन्रलिङ्गसामानाधिकरण्यसूचनद्वारेण तदेव तदिति साक्षात्कारकल्पनाद्वयवधान(नमध्यवसान) विषय…….स्याह । तत एव विक्रमोर्वशीय3स्वप्नवासवदत्ता4(त्ते)नाटकमिति कवयो व्यवहरन्ति । (१-४)

Notes

(मू)

(व्या)

कस्यचित्त्वथ कालस्य मामाहाम्बुजसम्भवः ।
नाट्यं सन्दर्शयामोऽद्य1 त्रिनेत्राय महात्मने ॥ ५ ॥

ततः सार्धं सुरैर्गत्वा 2वृषभाङ्कनिवेशनम् ।
3समभ्यर्च्य शिवं पश्चादुवाचेदं पितामहः ॥ ६ ॥

मया समवकारस्तु योऽयं सृष्टः सुरोत्तम ।
श्रवणे दर्शने चास्य प्रसादं कर्तुमर्हसि ॥ ७ ॥

पश्याम इति देवेशो द्रुहिणं 4वाक्यमब्रवीत् ।
ततो मामाह भगवान् 5सज्जो भव महामते ॥ ८ ॥

ततो हिमवतः पृष्ठे नानानगसमाकुले6 ।
बहुभूतगणा7कीर्णे रम्यकन्दरनिर्झरे ॥ ९ ॥

पूर्वरङ्गः कृतः8 पूर्वं तत्रायं द्विजसत्तमाः9 ।
तथा10 त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः ॥ १० ॥

Abh

एवमिहितासस्य परिसमाप्तिं पश्यन्सकलप्रयोगप्राणभूतकैशिकीसर्वस्वभूतनृत्तप्रयोग- प्रस्तावनायेतिहासमनुसन्धत्ते– कस्यचित्त्विति। यावता कालेन गतेन शिक्षणं सम्पद्यते तावता कालेन गतेन हेतुनेत्यर्थः । एतेन नाट्यप्रयोगस्तद्विदे1 प्रथमं दर्शनीय इति दर्शयति । तेन 2यद्बलात्प्रयोगो ब्रह्मणे दर्शित इति व्याख्यातं तदसदेव । न चोपयुक्तं वस्तु भगवते प्रदर्शयितुमु3(द्यो)योजयेदिति चासङ्गतं स्यात् । सन्दर्शयाम इति चानेन कवेस्तन्मध्ये प्रवेशसूचनेनोत्प्रेक्षकत्वसूचनं स्यादित्यलमनेन ।

महात्मशब्देन तस्यैवात्र प्रेक्षणे सम्यगौचित्यमित्याह । श्रवणे दर्शने चेत्यनुसन्धते । तथा पूर्वं परीक्षकः कविना श्रावयितव्य इति श्रवण इत्यनेनोक्तम् । सामाजिकास्तु श्रावयितव्या इति नातीव समञ्जसम् । तावत्तेषां प्रवृत्त्ययोगात् । श्रवणादेव चोपायसिद्धौ प्रयोगवैफल्यात् । परमेश्वरस्य परीक्षकत्वात् परितोष्यत्वाच्च ज्ञानातिशयेन रसचर्वणात्मक4महाभोगसमर्पणेन च । (५-९)

Notes

(मू)

(व्या)

ततो भूतगणा हृष्टाः कर्मभावानुकीर्तनात् ।
महादेवश्च सुप्रीतः पितामहमथाब्रवीत्1॥ ११ ॥

अहो नाट्यमिदं सम्यक् त्वया 2सृष्टं 3महामते ।
यशस्यं च शुभार्थं च पुण्यं 4बुद्धिविवर्धनम् ॥ १२ ।।

मयाऽपीदं स्मृतं नृत्यं5 सन्ध्याकालेषु नृत्यता6 ।
नानाकरणमसंयुक्तैरङ्गहारैर्विभूषितम्7।। १३ ।।

Abh

तत्र पूर्वरङ्गपूर्वकत्वं प्रयोगक्रमस्य दर्शयति – पूर्वरङ्ग इत्यादिना । अयमिति समवकारः । परमेश्वरचरितप्रधानश्च त्रिपुरदाहसंबन्धो (ज्ञको) डिमश्च । प्रयुक्त इत्यनेन परीक्षकपरितोषनिमित्तं प्रयोक्तृभिः किञ्चित्प्रयोज्यमित्याह । परितोषं फलतः प्रकटयति–मयापीदमिति । अनेनेदमाह–भरतमुनिना 1तावद्भगवन्नृत्त– कैशिकीदर्शनात्तत्प्रयोगार्थमनुसृत्य2 किञ्चिन्नियोजितम् । तत्तु सम्यगुपदेशाभावान्नातीव सुश्लिष्टमिति । अत एव वक्ष्यति–सम्यगिति । स्मृतमित्यनादित्वमस्य दर्शयति । बहुवचनेनादरविषयतामिति । अङ्गहार एव नृत्तं प्रयोगफलं3 प्रसूते । तदङ्गानि तु करणादीनि । द्वात्रिंशन्नृत्तकर्मणि प्रधानानीत्याशयेन विशेषणयोगमाह– नानेति । विनियोगमस्य निरूपयति–पूर्वरङ्गविधाविति । क(र)तिस्थाने रङ्गे नाट्यप्रयोगे यः पूर्वो रङ्गस्त्वया शुद्धो वैचि़ञ्यरहितः प्रयुक्तः स एतेन नृत्तेन मिश्रितश्चित्रो नामः । भरतमुनिना प्रत्याहाराद्यन्तर्यवनिकागतमङ्गनवकं गीतविरच(विधानादिप्ररोच)– नान्तकमङ्गदशकं यत्प्रयोगे नृत्तविरहिमेव प्रयुक्तं कर्तव्यमात्रेण, न तु कृतमङ्गदशकं यत्प्रयुक्तं तद्दृष्टादृष्टोभयप्रयोजनमपि यथा तत्र रञ्जकत्वं किञ्चित् । अनेन तु विमिश्रं विचित्रं दृष्टादृष्टात्मकफलं सम्यग्वितरतीत्यभिप्रायो महावाक्यस्य । अस्मिन्निति । त्वं प्र(त्वत्प्र ?)युयुक्षितप्रयोगोचितोद्धतपूर्वरङ्गप्रयोगविधौ । तत्प्रयुक्ता इमे करणाङ्गहाराः । सुकुमारपूर्वरङ्गे तु दैवी (देव्या) कृता अनुद्धता अङ्गहारा

Notes

(मू)

(व्या)

पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयोज्यताम्1 ।
2वर्धमानकयोगेषु3 गीतेष्वासारितेषु च ।। १४ ।।

महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि4 ।
यश्चायं पूर्वरङ्गस्तु त्वया शुद्धः प्रयोजितः ।। १५ ।।

5एभिर्विमिश्रितश्चायं चित्रो नाम भविष्यति ।
श्रुत्वा महेश्वरवचः 6प्रत्युक्तस्तु स्वयम्भुवा ।। १६ ।।

प्रयोगमङ्गहाराणामाचक्ष्व सुरसत्तम ।
7ततस्तण्डु समाहुय प्रोक्तवान् 8भुवनेश्वरः ।। १७ ।।

प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै9 ।
ततो ये10 तण्डुना11 प्रोक्तास्त्वङ्गहारा महात्मना ।। १८ ।।

तान्वः12 करणसंयुक्तान्व्याख्यास्यामि13 सरेचकान् ।
स्थिरहस्तोऽङ्गहारस्तु तथा 14पर्यस्तकः स्मृतः ।। १९ ।।

Abh

इत्यभिप्रायात् । महागीतं च यद्भीतकवर्धमानम1नादिरूपं तत्र सम्यग्वर्धमानादिक्रमेण 2तथा वाक्यार्थाभिनये यथायोगं योज्यमानाङ्गहारपिण्डीबन्धक्रमेण येनाभिनेतुं शक्ष्यसि । आचक्ष्व भरतायेति–अनेन मुनिः परमेश्वरप्रसादपात्रमात्मानं बहुमन्यमानो–मामेव प्रति देवेनैवेदं निरूपितं प्रयोजितस्त्वयाभिनेतुं शक्ष्यसीति (कथ)यता । प्रधानसन्निधौ तु नैव प्रतिवक्तव्यमित्याशयेन ‘‘श्रुत्वा महेश्वरवचः प्रत्युक्तं तु स्वयम्भुवा इत्युक्तमिति दर्शयति । तण्डु समाहूयेति। सर्वत्र पाठे तण्डुशब्द एव युक्तः, ताण्डवशब्दव्युत्पत्ति- दर्शनात् । तण्डुमुनिशब्दौ तयोरपरनामनी । य इति । आत्रेयप्रभृतीन्प्रति मुनिरेतदाह– सकरणान्सरेचकानिति । विशेषणत्वादङ्गहाराणामेव प्राधान्यम् । तत एव तेषामेव पूर्वमुद्देशः । उपायत्वात् । तत्र करणानां पू्र्वं लक्षणं तत्सञ्चयात्मकत्वात् तेषाम् । (१०-१९)

Notes

(मू)

(व्या)

सूचीविद्धस्तथा1 चैव ह्यपविद्धस्तथैव च ।
2आक्षिप्तकोऽथ विज्ञेयस्तथा 3योद्धट्टितः स्मृतः ।। २० ।।

विष्कम्भश्चैव सम्प्रोक्तस्तथा चैवापराजितः ।
विष्कम्भापसृतश्चैव मत्ताक्रीडस्तथैव च ।। २१ ।।

स्वस्तिको रेचितश्चैव4 पार्श्वस्वस्तिक एव च ।
वृश्चिकापसृतः5 प्रोक्तो भ्रमरश्च तथापरः ।। २२ ।।

6मत्तस्खलितकश्चैव 7मदाद्विलसितस्तथा ।
गतिमण्डलको8 ज्ञेयः परिच्छिन्नस्तथैव च ।। २३ ।।

परिवृत्तचितोऽथ9 स्यात्तथा वैशाखरेचितः ।
परावृत्तोऽथ विज्ञेयस्तथा 10चैवाप्यलातकः ।। २४ ।।

पार्श्वच्छेदोऽथ सम्प्रोक्तो विद्युद्भ्रान्तस्तथैव च ।
11ऊरूद्वृत्तस्तथा चैव स्यादालीढस्तथैव च ।। २५ ।।

12रेचितश्चापि विज्ञेयस्तथैवाच्छुरितः स्मृतः ।
आक्षिप्तरेचितश्चैव सम्भ्रान्तश्च तथापरः ।। २६ ।।

Abh

तत्राङ्गहारोद्देशमाह–स्थिरहस्त इत्यादिना द्वात्रिंशदेत इति (त्यन्तेन) । अयं भावः– अष्टोत्तरे करणशते ज्ञाते चतुष्षष्टिकरणयोजनयाऽ1त्रुटिताङ्गत्या2 (ङ्गगतरीत्या) यद्यप्यानन्त्यमङ्गहाराणां तथापि प्राधान्याद्दृष्टफलं प्रत्यधिकोपरक्ततया3 द्वात्रिंशन्नामतो निर्दिष्टाः । न तु परिगणनमेतत् । अङ्गानां देशान्तरे समुचिते प्रापणप्रकारोऽङ्गहारः । हरस्य चायं हारः प्रयोगः । अङ्गनिर्वर्त्यो हारोऽङ्गहारः । यद्वक्ष्यति–‘‘महेश्वरस्य चरितं य इदम्’’ इति । (ना. शा. ४-३३०) (१९-२७)

Notes

(मू)

(व्या)

अपसर्पस्तु1 विज्ञेयस्तथा चार्धनिकुट्टकः ।
द्वात्रिंशदेते सम्प्रोक्ता 2अङ्गहारास्तु नामतः ।। २७ ।।

एतेषां तु3 प्रवक्ष्यामि प्रयोगं करणाश्रयम् ।
हस्तपादप्रचारश्च4 यथा योज्यः प्रयोक्तृभिः ।। २८ ।।

अङ्गहारेषु5 वक्ष्यामि करणेषु च वै द्विजाः6 ।
सर्वेषामङ्गहारणां निष्पत्तिः 7करणैर्यतः ।। २९ ।।

तान्यतः8 सम्प्रवक्ष्यामि नामतः कर्मतस्तथा ।
हस्तपादसमायोगी9 नृत्यस्य करणं भवेत् ।। ३० ।।

Abh

तत्र निर्दिष्टानामेषां लक्षणं वाच्यमित्याशङ्क्याह–एतेषान्त्वित्यादि । करणे- षूक्तेष्वेव ते लक्षयितुं शक्यन्ते । ननु किं करणक्रमपाठ एव तेषां लक्षणं भविष्यति । नेत्याह– हस्तपादप्रचारश्चेति । अङ्गहारप्रयोगेषु कर्तव्येषु यानि करणानि तद्विषये करणात्करणान्तरसञ्चारे हस्तपादादेरङ्गस्य यः संहिताकार्य– कल्पप्रयोगः तमपि वक्ष्यामि चशब्दात्क्वचिन्न वक्ष्यामि । 1ऊहप्रदर्शनार्थम् । वैशब्दः आगम2प्रयोगद्योतकस्तु (कः) । अङ्गहारविषये 3वक्तव्ये पूर्व किं4 निरूपणार्हमित्याह–सर्वेषामिति। नामत उद्देशतया, न तु लक्षणतः । तत्र करणानामङ्गहाराणां च सामान्यलक्षणं कर्तुमाह–हस्तपादेत्यादिना। क्रिया करणम् । कस्य क्रिया । नृत्तस्य । गात्राणां हस्तोपलक्षितस्य विलासक्षेपस्य । हेयोपादेयविषयक्रियादिभ्यो व्यतिरिक्ता या तत्क्रिया करणमित्यर्थः । नृत्यस्येति । व्यपदेशिवत्त्वेन षष्ठी । तस्याः क्रियायाः स्वरूपमाह– हस्तपादसमायोगः। हस्तोपलक्षितस्य पूर्वकायवर्तिशाखाङ्गोपाङ्गादेः पादोपलक्षितस्य चापरकायगतपार्श्वकट्यूरुजङ्घाचरणादेः सङ्गततयाऽत्रुटितत्वे5वृत्तियोजने । पूर्वक्षेत्रसंयोगत्यागेन समुचितक्षेत्रान्तरप्राप्तिपर्यन्ततया एका क्रिया6 तत्करणमित्यर्थः । उत्तरसंयोगान्तं हि सर्वत्र कर्म । स चाप्यभिलषितोत्तरसंयोग ।

Notes

(मू)

(व्या)

द्वे नृत्तकरणे चैव भवतो नृत्तमातृका1 ।
द्वाभ्यां त्रिचतुराभि2र्वाप्यङ्गहारस्तु मातृभिः ।। ३१ ।।

3त्रिभिः कलापकं चैव चतुर्भिः षण्डकं4 भवेत् ।
पञ्चैव करणानि स्युः सङ्घातक इति5 स्मृतः ।। ३२ ।।

षड्भिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा ।
करणैरिह संयुक्ता6 अङ्गहाराः प्रकीर्तिताः ।। ३३ ।।

Abh

एव क्रियावधित्वेन लोके प्रसिद्ध इति नापूर्वमेतत् । एतावदेवेहा1धिकं (यत्) सौन्दर्यानुप्रवेशेन सविलासत्वं नाम । अत एव नृत्तशब्देन विशेषणं नृत्तकरणमिति । एकदेशाभिप्रायेण तु करणशब्दस्य प्रयोगे भीमसेने भीम इतिवत् ।

एवं तावत्करणस्य सामान्यलक्षणम् । तत्राङ्गहारस्य विशेषलक्षणं विरचयितुं पीठबन्धमाह–द्वे नृत्तकरणे इति । नृत्तमातृकेति । नृत्तस्याङ्गहारात्मनो मातृका उत्पत्तिकारणम् । नृत्तशब्देन विशेषणात् “यानि स्थानानि” इत्यादिना (ना.शा. ४-५९) याः कर2णमातृका वक्ष्यन्ते ताभ्यो विशेषं दर्शयति करणद्वयप्रयोगेण च 3विना4–द्वाभ्यां त्रिचतुराभिर्वेति । नृत्ताभिमानो5 नास्ति । ततः परं तु नृत्यतीत्यभिमानात्करणद्वयं नृत्तमातृकेत्युक्तम् । एवा6ग्रहणान्न्यू7 नाधिकसङ्ग्रहः । नृत्तमातृकालक्षणेनाङ्गहार– सामान्यलक्षणेन च करणद्वयमूहिताङ्गहारान्तरं च पिण्डीबन्धोपयोगि प्रयोज्यानुजानीते– एतेषामिति । अङ्गहाराणामेव संबन्धित्वेन हस्तपादविकल्पनं करणं वक्ष्यामि । जातावेकवचनम् ।

ननु स्थानकचार्यादीनां प्राक् लक्षणं वाच्यम् । नैवम् । तेषां नाट्यज्ञानादेव मुनिं प्रति विदितत्वात् । नृत्तहस्ता अपि8 वर्तनात्मानोऽस्य विदिता एव । यत उक्तम् ‘इदं नृत्तम्’ इति । तत एवाङ्गिके (ना. शा.१०) तेषामभिधास्यमानता । करणान्येव त्विव……..वाच्यम् । (त्विह वाच्यानि) (२८-३३)

Notes

(मू)

(व्या)

एतेषामेव1 वक्ष्यामि हस्तपादविकल्पनम् ।
2तलपुष्पपुटं पूर्वं वर्तितं वलितोरु च ।। ३४ ।।

अपविद्धं समनखं लीनं स्वस्तिकरेचितम् ।
मण्डलस्वस्तिकं चैव निकुट्टकमथापि च3 ।। ३५ ।।

तथैवार्धनिकुट्टं च कटिच्छिन्नं4 तथैव च ।
अर्धरेचितकं चैव वक्षःस्वस्तिकमेव च ।। ३६ ।।

उन्मत्तं स्वस्तिकं चैव पृष्ठस्वस्तिकमेव च ।
दिक्स्वस्तिकमलातं च तथैव च 5कटीसमम् ।। ३७ ।।

आक्षिप्तरेचितं चैव विक्षिप्ताक्षिप्तकं तथा ।
अर्धस्वस्तिकमुद्दिष्टमञ्चितं च तथापरम् ।। ३८ ।।

भुजङ्गत्रासितं प्रोक्त6मूर्ध्वजानु7 तथैव च ।
निकुञ्चितं च मत्तल्लि त्वर्धमत्तल्लि चैव हि ।। ३९ ।।

स्याद्रेचकनिकुट्टं च तथा पादापविद्धकम् ।
वलितं घूर्णितं चैव ललितं च तथापरम् ।। ४० ।।

दण्डपक्षं तथा चैव 8भुजङ्गत्रस्तरेचितम् ।
नूपुरं चैव सम्प्रोक्तं तथा वैशाखरेचितम् ।। ४१ ।।

भ्रमरं चतुरं चैव भुजङ्गाञ्चितमेव च ।
दण्डरेचितकं चैव तथा वृश्चिककुट्टितम्9 ।। ४२ ।।

10कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च ।
छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम् ।। ४३ ।।

Abh

तत्र तान्यतः संप्रवक्ष्यामि नामतः कर्मतश्चेत्युक्तम् । नामतस्तावदाह– तलपुष्पपुटमित्यादि ।

Notes

(मू)

वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम्1 ।
ललाटतिलकं 2क्रान्तं कुञ्चितं3 चक्रमण्डलम् ।। ४४ ।।

उरोमण्डलमाक्षिप्तं तथा तलविलासितम् ।
अर्गलं चाथ विक्षिप्तमावृत्तं4 दोलपादकम् ।। ४५ ।।

विवृत्तं5 विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम्6 ।
विद्युद्भ्रान्तमतिक्रान्तं 7विवर्तितकमेव च ।। ४६ ।।

गजक्रीडितकं चैव तलसंस्फोटितं तथा ।
गरुडप्लुतकं चैव गण्डसूचि तथापरम् ।। ४७ ।।

परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च ।
गृध्रावलीनकं चैव सन्नतं सूच्यथापि च ।। ४८ ।।

8अर्धसूचीति करणं सूचीविद्धं तथैव च ।
अपक्रान्तं च सम्प्रोक्तं मयूरललितं तथा ।। ४९ ।।

सर्पितं दण्डपादं च हरिणप्लुतमेव च ।
प्रेङ्खोलितं नितम्बं च स्खलितं करिहस्तकम् ।। ५० ।।

9प्रसर्पितकमुद्दिष्टं सिंहविक्रीडितं तथा ।
सिंहाकर्षितमुद्वृत्तं तथो10पसृतमेव च ।। ५१ ।।

11तलसङ्घट्टितं चैव जनितं चावहित्थकम् ।
निवेशमेलकाक्रीडमुरू12द्वृत्तं तथैव च ।। ५२ ।।

मदस्खलितकं चैव विष्णुक्रान्तमथापि च13 ।
14सम्भ्रान्तमथ विष्कम्भमुद्धट्टितमथापि च ।। ५३ ।।

Notes

(मू)

वृषभक्रीडितं चैव लोलितं च तथापरम् ।
नागा1पसर्पितं चैव शकटास्यं तथैव च ।। ५४ ।।

गङ्गावतरणं चैवेत्युक्तमष्टाधिकं शतम् ।
अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ।। ५५ ।।

नृत्ते युद्धे नियुद्धे च तथा 2गतिपरिक्रमे ।
गतिप्रचारे वक्ष्यामि युद्धचारीविकल्पनम् ।। ५६ ।।

3यत्र तत्रापि संयोज्यमाचार्यैर्नाट्य4शक्तितः ।
प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ।। ५७ ।।

चरणस्यानुगश्चापि दक्षिणस्तु भवेत्करः ।
हस्तपादप्रचारन्तु कटिपार्श्वोरुसंयुतम् ।। ५८ ।।

5उरःपृष्ठोदरोपेतं 6वक्ष्यमाणं निबोधत ।
7यानि स्थानानि याश्चार्यो नृत्तहस्तास्तथैव च ।। ५९ ।।

Abh

अष्टाधिकं शतमिति पर्यन्तमुक्तं यदङ्गहारोपयोगित्वे नियत1समप्रत्यस्तमयमिति किमनेन संख्यानिरूपणेनेत्याशङ्क्याह–अष्टोत्तरशतमित्यादिना । अभिनये वस्तुत्वेन यन्नृत्तं वक्ष्यतेऽभिनयान्तराल2वर्तिच्छिद्रप्रच्छादनादावेतप्रयुज्यते । ‘नृत्तयुद्धे नियुद्धे च तथा गतिपरिक्रमे’ इति । शस्त्रादियुद्धे बाहुयुद्धे चाङ्गप्रयोगसौष्ठवार्थमपि प्रयुज्यते । पृथक्तया गत्यध्याय– (ना.शा. १३)वक्ष्यमाणासु च गतिषु ये परिक्रमाः परिक्रमणानि तत्र पृथक् तेन पृथक्त्वेन3 प्रयोगदर्शनादष्टोत्तरशतत्वं न नोपयोगि । एष च यथा विनियोगो भविष्यति तथा समनन्तरमेव वक्ष्यामः । अत्र “अष्टोत्तरशतम्” इत्यादि श्लोकं केचिन्न पठन्ति । अन्ये(न्ते) ततोऽप्यधिकं– “हस्तपादप्रचारन्तु4 कटिपार्श्वोरुसंयुतम्” ।। इति श्लोकं पठन्ति (३४-५८) ।

Notes

(मू) 1.म. नागावस ।

(व्या)

सा मातृकेति विज्ञेया1 तद्योगात्करणं भवेत् ।
2कटी कर्णसमा यत्र 3कोर्परांसशिरस्तथा ।। ६० ।।

समुन्नतमुरश्चैव4 सौष्ठवं नाम तद्भवेत् ।
वामे पुष्पपुटः पार्श्वे पादोऽग्रतलसञ्चरः ।। ६१ ।।

Abh

तत्र महासामान्यरूपं करणमाह–यानि स्थानानीति । इहावस्थानं 1गतिश्चेति द्वयनिर्वर्त्यं करणम् । तत्रावस्थाने करकायोपयोगि स्थानकम् । गतौ तु चार्यः । पूर्वकाये2 तु गतौ नृत्तहस्ता दृष्टयश्च । स्थितौ पताकाद्याः । एतच्चकारेण सङ्गृहीतम् । तेन3 गतिस्थितिसंमिलिते(तं)करणमित्यानन्त्यं यद्यपि करणं(णानां) तथाप्यङ्गहारोपयोगित्वादेतावदुक्तमिति श्लोकस्य तार्त्ययम् ।

(1) तलपुष्पपुटम्

तत्रोद्देशक्रमेण लक्षणान्याह–वाम इत्यादिना ।

“यस्तु सर्पशिराः प्रोक्तस्तस्याङ्गुलिनिरन्तरः ।
द्वितीयः पार्श्वसंश्लिष्टः स तु पुष्पपुटः करः ।।” (ना.शा. ९-१५०)

“उत्क्षिप्ता तु भवेत्पार्ष्णिः प्रसृतोऽङ्गुष्ठकस्तथा ।
अङ्गुल्यश्चाञ्चिताः सर्वाः पादेऽग्रतलसञ्चरे ।।” (ना.शा. ९-२७३)

“कटी भवेच्च व्याभुग्ना पार्श्वमाभुग्नमेव च ।
तथैवापसृतांसं च किञ्चित्पार्श्वं नतं स्मृतम् ।।” (ना.शा. ९-२३५)

एषां योजनोच्यते ।

तत्र नृत्ते समपादतला ह5स्तद्वयपूर्वकं तत्ता(लता)वत्प्राचुर्येण सर्वत्र । ततश्चाध्यर्धिकया6 चार्या (ना.शा. १०-१७) दक्षिणपादनिष्क्रमणेन समकालं व्यावर्तितेन करयुगलेन दक्षिणपार्श्वे समं नीतेन परिवर्तितकरणवशादानीतेन वामपार्श्वे सौष्ठवेन वामस्तनक्षेत्रे पुष्पपुटहस्तबन्ध इति । अग्रतलपादपुष्पपुटयोगादेकदेशसूचनं नामेदं तलपुष्पपुटमिति । एवमन्यत्रापि नामवासना ऊह्याः ।

Notes

(मू)

(व्या)

तथा च सन्नतं 1पार्श्वं तलपुष्पपुटं भवेत् ।
कुञ्चितौ 2मणिबन्धे 3तु 4व्यावृत्तपरिवर्तितौ ।। ६२ ।।

Abh

तत्र(यत्र)क्वचिद्वाक्यार्थाभिनय एव प्राधान्येन दर्शिते(दृश्यते)तत्र करणानामेव प्राधान्यम् । यत्रापि पदार्थाभिनयाः क्रियन्ते तत्राप्येकवाक्यानुप्रवेशप्राधान्यप्रख्यापनायाम- वश्यमादौ मध्येऽन्ते वा यथावसरं करणमित्युपनिषत् । अत एव वक्ष्यति–

“अस्य शाखा च नृत्तं च तथैवाङ्कुर एव च ।
वस्तून्याभिनयस्येह ।” इति । (ना.शा. ८-१५)

1वर्तनानुप्रवेशो हि शाखयैव गतार्थः स्यात् तत्रैव च शाखान्ते भेदं वक्ष्यति । “आङ्गिकश्च भवेच्छाखा” (ना.शा. ८-१६) इत्युक्तम् । “अङ्गहारविनिष्पन्नं नृत्तं तु करणाश्रयम्” (ना.शा. ८-१६) एतत्स्फुटं तत्रैव व्याख्यास्यत इत्यास्तां तावत् । अत्रोदाहरणं दिक्प्रदर्शनाय “अभिजअइ मळविमुक्ककमळासणउदितस्स” इत्यादावनेन वाक्यार्थाभिनये, नाट्येऽपि “पादाग्रस्थितया”(रत्ना.१-१) इत्यादावुपसंहारवाक्यर्थाभिनये इय(द)मेव युक्तं करणम् । न नृ2 (यन्नृ)त्यस्य पादाग्रस्थितत्वस्य कुसुमाञ्जलिक्षेपः । स चानेनैव सम्पन्नेन चतुरश्रीभूतत्वादङ्गादनन्तरं यदा प्रयुज्यते तदा हस्तयोः स्वे स्वे पार्श्वे आवेष्टितकरणं (ना.शा. ९-२१५) कृत्वा ततः उद्वेष्टितकरणेन (ना.शा. ९-२१६) पुष्पपुटप्रयोगः ।

यदा तु करा(रणा)न्तरसन्निवेशानन्तरमिदं करणं प्रयुज्यते तदा त्यक्तव्यतदीयहस्तपादापेक्षया आदातव्यकरणगतहस्तपादाद्यपेक्षया च यथा वर्तनाक्रमेण स्वयमेव त्यागोपादाने अत्रुटिततया वा सम्पद्यते तथा कर्तव्यामित्यलं नृत्ताचार्यगोपिता (र्योपयोगि)नाऽनेन । एतच्च यथावसरं दर्शयित्वा सर्वं निरूपयिष्यामः ।

“सव्यस्य पृष्ठतो वामश्चरणस्तु यदा भवेत् ।
तस्यापसर्पणं चैव सा ज्ञेयाऽध्यर्धिका बुधैः ।।” (ना.शा. १०-१७)

“आवर्तन्ते कनिष्ठाद्या अङ्गुल्योऽभ्यन्तरेण तु ।।” (ना.शा. १-२१७)

“उद्वर्तन्ते कनिष्ठाद्या बाह्यतः क्रमशो यदा ।।” (ना.शा. १-२१८)

इति व्यावृत्तपरिवर्तिते । एवं तर्जन्यादितः आवेष्टितपरिवेष्टिते । (५९-६१)

Notes

(मू)

(व्या) 1.म. भ. वर्तमानानुप्रवेशो ।

हस्तौ निपतितौ चौर्वोर्वर्तितं करणं तु तत् ।
शुकतुण्डौ यदा हस्तौ व्यावृत्तपरिवर्तितौ1 ।। ६३ ।।

ऊरू च वलितौ 2यस्मिन्वलितोरुकमुच्यते3 ।
4आवर्त्य शुकतुण्डाख्यमूरुपृष्ठे निपातयेत् ।। ६४ ।।

Abh

(२) वर्तितम् ।

कुञ्चितावित्यादि । वक्षःक्षेत्रे उन्मुखं स्वस्तिकवदश्लिष्टमेव मणिबन्धनगतं करयुगलं कृत्वा तत्रैव विहस्तौ समकालं व्यावृत्तपरिवर्तौ (वृत्तौ) विधायोत्तानावेव यथास्वमूर्वोः पातनीयौ । असूयावाक्यार्थाभिनये चोत्तानौ पताकौ । यथा “तुव्झ कए सरिवं ररामर उण मरा1परागुण अ " आविद्ध2वर्तनावेव पताकौ । अधोमुखघृष्टमुखपा3तैरेतैर्यदा तदा रोषवाक्यार्थाभिनये यथा– “सव……..डओ गु महिलो नु” इत्यादौ । एवं कटकामुखशुकतुण्डादयोऽपि यथायथमत्र योजयितव्याः । तत एवात्र मुनिना हस्तावशेषो न निरूपितः । अग्रतलसञ्चर एवात्र पाद इति केचित् । तद्धस्तौचित्यानुसारी पादयोग इति नृत्ताचार्याः । (६२)

(६) वलितोरुकम्

शुकतुण्डावित्यादि

“आद्या धनुर्नता कार्या कुञ्चितोऽङ्गुष्ठकस्तथा ।
शेषा भिन्नो4र्ध्ववलिता ह्यरालेऽङ्गुलयः करे ।।” (ना.शा.९-४६)

“5अरालस्य यदा वक्रानामिका त्वङ्गुलिर्भवेत् ।
शुकतुण्डः स तु करः” (ना. शा. ९-५३)

“भवेदभ्यन्तरं जानु यत्राहुर्वलितं तु तत् ।” (ना.शा. ९-२५२)

योजना तु – वक्षःक्षेत्रात्समकालं हस्तौ व्यावर्तितौ कृत्वा आक्षिप्तया पादचार्या सह पततः । परिवर्तेनानुनीय वक्षःप्रदेशे शुकतुण्डावधोमुखौ स्थापयेत् । बद्धया च चार्या स्थितिः ।

एतन्मुग्धाविषयं च । यथा–” दुल्लणुल्लीति तुहिगुह्णविळुळिअ अह्व हुदौ सुणाहि दिडात्तसहि “।

‘त्रिपताका तर्जनी वक्रतया शुकतुण्डः’ इत्यतान्त्रिकैर्लिखितमुपेक्ष्यमेव ।

Notes

(मू) 1.ड. परिवर्तकौ ।

(व्या) 1.भ.म. रालरा । 2.V.R.

वामहस्तश्च 1वक्षःस्थोऽप्यपविद्धं तु तद्भवेत् ।
श्लिष्टौ 2समनखौ पादौ करौ चापि प्रलम्बितौ ।। ६५ ।।

देहः स्वाभाविको यत्र 3भवेत्समनखं तु तत् ।
पताकाञ्जलि वक्षःस्थं प्रसारितशिरोधरम् ।। ६६ ।।

Abh

“अन्योन्यजङ्घासंवेधात् कृत्वा तु स्वस्तिकं ततः । ऊरुभ्यां वलनं यत्स्यात् सा बद्धा चार्युदाहृता ।।” (ना. श.१०-२१) (६३)

(४) अपविद्धम्

“वक्षसोऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ कटकामुखौ ।” (ना.शा. ९-१८४) इति चातुरश्र्येण स्थित्वा ततो हस्तमावर्तितेन निष्क्रमय्य ततः समकालमाक्षिप्तिकां चारीं कृत्वा तमेव हस्तं शुकतुण्डीकृतं तस्योर्वोः(रोः) पृष्ठे निपातयेत् । वामहस्तश्च कटकामुखः । स तु वक्षस्येवेति दक्षिणस्य करपादस्यापर्यवसानात्तदुप- लक्षितवेगनिस्सरणादपविद्धमिति नाम्नैव वर्त1नायाश्चातुर्यं सूचितम् । असूयाकोपवाक्यार्थाभिनये चेदम् ।

यथा–

“विमाळकाळतुज्झ” इत्यादौ । मुनिविषयस्त्वस्यैव कैश्चित्प्रयोगो लिखितः तत्पात्रान्तरपरिवर्तन– दोषात्स्वयमलक्ष्यत्वाच्चेत्युपेक्ष्यम् ।

“कुञ्चितं पादमुत्क्षिप्य व्याक्षिप्तं त्वञ्चितं न्यसेत् । जङ्घा स्वस्तिकासंयुक्ता चाक्षिप्ता नाम सा स्मृता ।।” (ना.शा.१०-३७)(६४)

(५) समनखम्

प्रलम्बितौ कराविति लताहस्तौ मन्तव्यौ । न तु दोलाहस्तौ । 2तयोः शोक– विषययोरत्र वर्तना3याश्चातुरश्र्यभङ्गहेतुत्वात् ।

“तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ लताकरौ ।” (ना.शा. ९-१९८) एतच्च प्रथमप्रवेशे नृत्ते दृश्यते । जप्य(य)मङ्गलादिविषये नास्य प्रयोगो युक्तः यथा कैश्चिदिष्टः ।(६५)

Notes

(मू)

(व्या)

1निहञ्चितांसकूटं च तल्लीनं करणं स्मृतम् ।
स्वस्तिकौ 2रेचिताविद्धौ विश्लिष्टौ 3कटिसंश्रितौ ।। ६७ ।।

यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेचितम् ।
स्वस्तिकौ तु करौ कृत्वा प्राङ्मुखोर्ध्वतलौ समौ ।। ६८ ।।

Abh

(६) लीनम्

“पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः।” (ना.शा. ९-१२८)

प्रसारितसमाः सर्वा यस्याङ्गुल्यो भवन्ति हि ।
कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः ।। (ना.शा. ९-१८)

रेचितग्रीवा ।

“रेचिता 1विस्तृतभ्रान्ता 2भावे मथननृत्तयोः।।” (ना.शा. ८-१७३) इति केचित् । तदसत् । औचित्यायोगात् । तेन प्रणामापसारिता गमिता नत(नता) स्याद्ग्रीवा ।

“उत्क्षिप्तबाहुशिखरं निकुञ्चितशिरोधरम् ।
3निकुञ्चितं शिरः ।” (ना.शा. ८-३२)

तद्योगा4दंसकूटयोर्निहञ्चितत्वम् ।

योजना तूर्ध्वमण्डलिनौ (ना.शा. ९-२०३) नृत्तहस्तौ प्राक्प्रयुज्य तद्वर्तना5- क्रमेण वक्षोदेशेऽञ्जलिं रचयेत् । एतदेव पताकाग्रहणस्य प्रयोजनम् । अञ्जलेर्नलि6- नीपद्मकोशवर्तनया सम्पादनं माभूत् । अपि तूर्ध्वमण्डलवर्तनया । तथा पताकयोः स्फुटप्रयोगोत्पत्तिः । तथाऽप्यव्यभिचारात् पताकाग्रहणमफलमेव । लौकिकाञ्जलिशङ्काशमनं तु सति तान्त्रिके तुच्छफलम् ।

एतच्च प्रियप्रार्थनावाक्यार्थाभिनये । यथा– “पुरिपडाळपळदु॰ळडामं लिंबिल्लइ दुंदुं” । न तु देवताप्रणामे वक्षःस्थोऽप्यञ्जलिरत्र । देवताप्रणामे तु शिरःस्थ इति वक्ष्यामः । (६६)

(७) स्वस्तिकरेचितम्

पूर्वं रेचितौ तत आविद्धौ वक्रौ ततो देहक्षेत्रमागतौ स्वस्तिकौ । ततोऽपि विश्लिष्टौ विप्रकीर्णौ । ततः कटिसंस्थौ पक्षप्रद्योतपक्षवञ्चितकाख्यौ । एवं नृत्तहस्तषट्कात्मकमेतत्क7रणम् । तत्र–

Notes

(मू)

(व्या)

तथा च 1मण्डल स्थानं मण्डलस्वस्तिकं तु तत् ।
निकुट्टितौ यदा हस्तौ स्वबाहुशिरसोऽन्तरे ।। ६९ ।।

Abh

“रेचितावपि विज्ञेयौ हंसपक्षौ1 द्रुतभ्रमौ ।” (ना.शा. ९-१९३)

“समाः प्रसारितास्तिस्रः तथा चोर्ध्वा कनीयसी ।
अङ्गुष्ठः कुञ्चितश्चैव हंसपक्ष इति स्मृतः ।।” (ना. शा. ९-१०६)

“भुजांसकूर्पराग्रैस्तु कुटिलावर्तितौ करौ ।
पराङमुखतलाविद्धौ2 ज्ञेयावाविद्धवक्रकौ ।।” (ना.शा. ९-१९०)

“तावेव मणिबन्धान्ते स्वस्तिकाकृतिसंस्थितौ ।
स्वस्तिकाविति विज्ञेयौ विच्युतौ विप्रकीर्णकौ ।।” (ना.शा. ९-१८७)

“कटिशीर्षनिविष्टाग्रौ त्रिपताकौ यदा करौ ।
पक्षविञ्चितकौ ।” (ना. शा. ९-२००)

“तावेव तु परावृत्तौ पक्षप्रद्योतको स्मृतौ । “(ना.शा. ९-२०१) योजना तु –चातुरश्र्यान्तरे रेचितवर्तनया पक्षौ विधाय व्यावर्तितकरणेन शिरःक्षेत्रादधरगमनोपरिगमने च 3या आविद्धवक्रर्तना तया वक्षःक्षेत्रस्वस्तिकौ विधाय तावेव विप्रकीर्णौ कृत्वा पुनःपक्षवञ्चितौ पुनः पक्षप्रद्योताविति तद्योगात्स्वस्तिकरेचितम् ।

अत्र च तत्र तत्र नृत्तहस्ते प्रयोगवशादा(ला)(त) चार्या शतचार्यावदन्ते ……..बहिर्मण्डलसंस्थानकृतेन समनखौ पादावनुवर्तत इत्यसत् । एतच्च यत्र नृत्तमेव प्राधान्येनाभिनेयं तावत्कालं प्रहर्षादियोगे तत्र तत्र प्रयुज्यते ।

यथा “धण्णिइ धण्णिइ धणहिए अणुराहिणव्वहरासु । महुरकण्णे जितिसअउदाणकुळिणिणोसु ।” (६७)

(८) मण्डलस्वस्तिकम्

स्वस्तिकावृत्त(वुक्त)लक्षणौ । करौ । प्राङ्मुखौ चतुरश्रौ ऊर्ध्वतलौ । ऊर्ध्वमण्डलिनौ ।

“वक्षसोऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ कटकामुखौ ।
समानकूर्परांसौ च चतुरश्रौ प्रकीर्तितौ ।। (ना.शा. ९-१८४)

“ऐन्द्रे तु मण्डले पादौ चतुस्तालान्तरस्थितौ ।

Notes

(मू)

(व्या)

पादौ 1निकुट्टितौ चैव 2ज्ञेयं तत्तु 3निकुट्टकम् ।
अञ्चितौ4 बाहुशिरसि5 हस्तस्त्वक्षिमुखाङ्गुलिः6 ।। ७० ।।

Abh

त्र्यश्रौ वक्षःस्थितौ चैव कटी जानुसमा तथा ।। (ना.शा. १०-६५) योजना तु–चतुरश्रहस्ताभ्यां स्थित्वा ततो वि1च्यवाप्रयोगसमकालमुद्वेष्टितवर्तनया गत्वा तत ऊर्ध्वमण्डलिवर्तनिकया स्वस्तिकौ कुर्यात् । मण्डलस्थानकं च बन्धीयादिति । इति मण्डलस्वस्तिकम् ।

“विच्यवात्समपादाया विच्यवां सम्प्रयोजयेत् ।
निकुट्टयंस्तलाग्रेण पादस्य धरणीतलम् ।। (ना.शा. १०-१९)

तलाग्रोऽग्रतलसञ्चरः । निकारवाक्यार्थाभिनये । यथा–उव्वेळा वि अगात्थि अवळआ वाह्निअएहिशिं । जळचरिउ ससक्वसुण्णिमंमदउ” इत्यादौ । (६८)

() निकुट्टकम्

“उन्नमनं विनमनं स्यादङ्गस्य. निकुट्टनम् ।” इति कोहलः

तेन हस्तस्यालपल्लवस्य कनिष्ठाङ्गुलिपतनोत्पतनप्रकारो निकुट्टनम् । इहापि वक्ष्यते । अञ्चित इति पादस्याप्युद्धट्टितरूपता ।

“स्थित्वा पादतलाग्रेण पार्ष्णिं भूमौ निपातयेत् ।
यस्य पादस्य करणे भवेदुद्धट्टितस्तु सः ।।” (ना. शा. ९-२६६)

चकारेण मण्डलस्थानकमुच्यते । स्वबाहुशिरस इत्येकवचनाद्धस्ता2विति द्विवचनाच्च पर्यायेणाङ्गद्वयेन प्रयोगः । एवकाराद्दक्षिणेन प्रयोगे दक्षिण एव पादः वामेन वामः । तेन मण्डलस्थानके स्थित्वा चातुरश्र्यादन्तरमुद्वेष्टितकरणेन हस्तं नीत्वा स्कन्धशिरसि निकुट्टयेत् । तमेव पादमुद्धट्टितं कुर्यात् । वामं तु हस्तं यथावस्थितं पुनराविद्धवक्रवर्तनतया तं हस्तं चतुरश्रीकुर्यात् । तत्समकालं चोक्तविधिना द्वितीयमङ्गं निकुट्टयेदिति योजना ।

अस्य च पुनः पुनरात्मसम्भावनाप्रधाने वाक्यार्थेऽभिनेतव्ये प्रयोगः । यथा–

Notes

(मू)

(व्या)

1निकुञ्चितार्धयोगेन 2भवेदर्धनिकुट्टकम् ।
पर्यायशः कटिश्छिन्ना बाह्वोः शिरसि पल्लवौ ।। ७१ ।।

Abh

“भीउणजाणमिहउसू भवउकज्जी” ।। (६९)

(१०) अर्धनिकुट्टकम्

चरममेवार्धं लक्षणम् । आद्येन तु निकुट्टितस्य हस्तस्य युक्त्या लक्षणं कृतम् । अलपल्लव इति वक्तव्ये कुञ्चितग्रहणं क्रियाविशिष्टत्वप्रदर्शकम् ।

“आवर्तिन्यः करतले यस्याङ्गुल्यो भवन्ति हि ।
पार्श्वगास्ता विकीर्णाश्च स हस्तस्त्वलपल्लवः ।।” (ना.शा. ९-९१)

शङ्कुकादिभिस्त्वञ्चनं देहाभिमुख्येन पृष्ठभागेन मना1गाकर्षणमिति व्याख्यायितन्नाम्ना2 न3 सङ्गतमित्यास्ताम् ।

अस्य च प्रयोगः, स्वात्मसम्भावनाविषय एवाप्ररूढे वाक्यार्थे । यथा– ‘‘हउपरपरिवध उद्घटइध’’ (७०) ।

(११) कटिच्छिन्नम्

“कटिमध्यस्य वलनाच्छिन्ना ।” (ना.शा. ९-२४५) पर्यायश इत्युभयशेषः ।

“मणिबन्धनमुक्तौ तु पताकौ पल्लवौ स्मृतौ ।” (ना.शा. ९-१९६) योजना तु– भ्रमरिकया (ना.शा.१०-४५) चार्या पर्यायेण पार्श्वद्वयभ्रमणं कृत्वा मण्डलस्थानके (ना.शा. १०-६५) स्थित्वा बाहुशिरसि च पल्लवं पताकालपल्लवच्छायाद्वितीयं पर्यायेण बिभ्रद्विधेयः । पुनरपेरणाङ्गेनैवमिति । त्रिश्चतुर्वैषैव क्रिया ।

“अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् ।
द्वितीयपादभ्रमणात्तलेन भ्रमरी स्मृता ।।” (ना.शा. १०-४५)

“कुञ्चितं पादमुत्क्षिप्य पुरतः सम्प्रसारयेत् ।
उत्क्षिप्य पातयेच्चैनमतिक्रान्ता तु सा स्मृता” (ना.शा. १०-३०)

विस्मयप्रधानवाक्यार्थाभिनये चास्य प्रयोगः । यथा– “एभि उ/?/वि/?/ खु गिडत्थ गि4- ळित्थ उ/?/ वोरु/?/5 वदाणहुणं भूकुळावणइ” । विस्मयप्राधान्यख्यापनायैवात्रपल्लवस्यादौ

Notes

(मू)

(व्या)

पुनःपुनश्च करणं कटिच्छिन्नं तु तद्भवेत् ।
अपविद्धकरः सूच्या पादश्चैव निकुट्टितः1 ।। ७२ ।।

सन्नतं यत्र2 पार्श्वं च तद्भवेदर्धरेचितम् ।
स्वस्तिकौ चरणौ यत्र करौ वक्षसि रेचितौ3 ।। ७३ ।।

निकुञ्चितं तथा वक्षो वक्षस्वस्तिकमेव तत्4 ।
अञ्चितेन तु पादेन रेचितौ 5तु करौ यदा6 ।। ७४ ।।

Abh

प्रयोगः “अद्धक् खि आ6” इत्यादौ ।। (७१)

(१२) अर्धरेचितकम्

“हस्तौ तु सर्पशिरसौ मध्यमाङ्गुष्ठकौ1 यदा ।
तिर्यक्प्रसारितास्यौ च तदा सूचीमुखौ स्मृतौ ।।” (ना.शा. ९-१९१)

मण्डल एव स्थानके स्थित्वा करो वक्षसि कटकामुखः सूचीमुखेन हस्तेनाप2गमपूर्वकं विद्धो निकटयोजितः चपटचावसरे (तदपसारणे) च पार्श्वं सम्यक्सौष्ठवेन नतं पादश्च निकुट्टितस्तदा कायार्धस्य पर्यायेण रेचनाद्बहिर्गमनादर्धरेचितम् । एतच्चासमञ्जसचेष्टाप्रधानवाक्यार्थाभिनये । यथा– “गिरिगिइइळ/?/वमुं चोळउकज्जनुकारण’’ इत्यादौ । (७२) ।

(१३) वक्षःस्वस्तिकम्

वक्षसि तौ हस्तौ चतुरश्रौ स्थितौ तौ रेचितौ कृत्वा व्यावृत्तकरणेनानीय निकुञ्चिते आभुग्ने वक्षसि स्वस्तिकौ कार्यौ । हस्तस्वस्तिकानुसारेण च पादावन्योन्यं जङ्घानुगुल्फवलनेन स्वस्तिकौ कार्यौ ।

“निम्नमुन्नतपृष्ठं च व्याभुग्नांसं श्लथं क्वचित् ।
आभुग्नं तदुरः ।” (ना.शा. ९-२२४)

अत्र च नृत्तयोगात्सौष्ठवप्राधान्यमिति । भुग्नांसमिति । अंसौ हस्तापेक्षया । लज्जितजातानुतापप्रधाने वाक्यार्थे एवास्य प्रयोजनम् । यथा–“3भुंजइ सदेसदेसं

Notes

(मू)

(व्या)

उन्मत्तं 1करणं तत्तु2 विज्ञेयं नृत्तकोविदैः3 ।
4हस्ताभ्यामथ पादाभ्यां भवतः स्वस्तिकौ यदा ।। ७५ ।।

तत्स्वस्तिकमिति प्रोक्तं करणं करणार्थिभिः ।
विक्षिप्ताक्षिप्तबाहुभ्यां स्वस्तिकौ चरणौ यदा ।। ७६ ।।

Abh

धादंति बहिः णिं अमित 4एव वंसतिण्णवव5सिः अनु अन्नअविरंहीम । “(७३)

(१४) उन्मत्तकम्

“पार्ष्णिर्यत्र स्थिता भूमावूर्ध्वमग्रतलं तथा ।
अङ्गुल्यश्चाञ्चिताः सर्वाः स पादोऽञ्चित उच्यचे ।।’’ (ना.शा. ९-२७५)

आविद्धचार्या चास्य प्रयोगः ।

“स्वस्तिकस्याग्रतः पादः कुञ्चितस्तु प्रसारितः ।
निपतेदञ्चिताविद्धमाविद्धा नाम सा स्मृता ।।” (ना.शा.१०-३८)

एकवचनद्विवचनाभ्यामङ्गपर्यायः सूच्यते । एतस्यातिसौभाग्यादिजनितग1 र्वविषयः प्रयोगः । यथा-“इंतिइ2एण इहहि कह विमाखरिततवसिइ ।” (७४)

(१५) स्वस्तिकम्

उद्वेष्टिवर्तन3वामहस्तो निष्क्रम3स्य(निष्कास्य) व्यावर्तितस्य करणसमकालमुत्प्लुत्य5 युगपदेव हस्तपादस्य स्वस्तिकं रचयेत् । करणार्थिभिरिति वाक्यार्थाभिनयलक्षणा । नृत्ताङ्गहाररूपा गरिपरिक्रमादिस्वभावश्च क्रिया येऽर्थवन्त इति मध्ये तेन भङ्गिवचनेन सर्वेषां करणानां प्रयोजनं सूचितम् । तत्र युक्त्या द्वे(न्वे)षणनिषेधरहस्ये (राभस्ये?) च वाक्यार्थेऽभिनेतव्येऽस्य प्रयोगः । यथा “मणिचारिं ते मत्थिअरुअअं गढजांवणयेण6 वंति हिअंभुळणए किं त कंमणएण” ।। (७५)

(१६) पृष्ठस्वस्तिकम्

“ऊरुभ्यां वलनं कृत्वा कुञ्चितं पादमुद्धरेत् ।
पार्श्वे विनिक्षिपेच्चैनमपक्रान्ता तु सा स्मृता ।।” (ना.शा. १०-३१)

Notes

(मू)

(व्या)

अपक्रान्तार्धसूचिभ्यां1 तत्पृष्ठस्वस्तिकं भवेत् ।
पार्श्वयोरग्रतश्चैव यत्र 2श्लिलष्टः करो भवेत् ।। ७७ ।।

स्वस्तिकौ हस्तपादाभ्यां तद्दिक्स्वस्तिकमुच्यते ।
अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् ।। ७८ ।।

ऊर्ध्वजानुक्रमं 3कुर्यादलातकमिति स्मृतम् ।
स्वस्तिकापसृतः पादः करौ नाभिकटिस्थितौ ।। ७९ ।।

Abh

“कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् ।
पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता ।।” (ना.शा.१०-३४)

1ऊर्ध्व(अर्ध)शब्देन द्वितीयस्मिन्पादे सूची कार्या । न तु तस्मिन्नेव पर्यायेणेत्याह । तेनेत्थं योजना–उद्वेष्टितक्रियया बाहुद्वयविक्षेपसमकालमपक्रान्ता चारी2 । तया 3अपवेष्टितकरणसमकालं द्वितीयेन पादेन सूचीं विधाय स्वस्तिकं पादाभ्यां तथा 4हस्ताभ्यां कुर्यादिति । पृष्ठे पाश्चात्ये समे यत्स्वस्तिकं तथा दक्षिणपृष्ठे वामपादेन स्वस्तिकं त्रिकवलनया च पराङ्गमुखीभूय स्वस्तिकमिति पृष्ठस्वस्तिकम् । प्रयोगोऽस्योक्तविषय एव । अन्ये तु पृष्ठविषये हस्ताभ्यां स्वस्तिकमिच्छन्तो युद्धविषये परिक्रमे5ऽस्य प्रयोगमाहुः । (७६)

(१७) दिक्स्वस्तिकम्

हस्ताभ्यामथेत्यादिना यत्पश्चात्स्वस्तिकाख्यं करणमुक्तं तदेव यदा पार्श्वयोरग्रे चकारात्पृष्ठे चतुर्दिङमुखेष्वत्रुटितेनाङ्गेन क्रियतेऽत एवाङ्गश्लिष्ट इति । तदा दिक्स्वस्तिकमिति । अनेन मध्ये निरूपितेन सर्वेषां करणानामित्थं प्रयोगमनुजानीते । प्रयोगश्चास्यगीतपरिवर्तेषु । यद्वक्ष्यति “यदा गीत(ति)वशादङ्गं भूयो भूयो निवर्तते” (ना.शा. ४-३०६) । इत्यादि । (७७)

(१८) अलातकम्

“पृष्ठे प्रसारितः पादो वलितेनान्तरीकृतः7 ।
पार्ष्णिप्रपतिता चैवमलाता सा प्रकीर्तिता ।।” (ना.शा. १०-४१)

Notes

(मू)

(व्या)

1पार्श्वमुद्वाहितं चैव करणं तत्कटीसमम् ।
हस्तो हृदि भवेद्वामः सव्यश्चाक्षिप्तरेचितः ।। ८० ।।

Abh

अंसाद्विनिष्क्रमणं व्यंसयेदिति । तं च नृत्तहस्तं (नितम्बहस्तं) दक्षिणेन रचयति । यत्– “कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् ।
द्वितीयं च क्रमं तूर्ध्वमूर्ध्वजानुः प्रकीर्तिता ।।” (ना.शा. १०-३३)

ततश्चारीनिवेशाच्च पादस्याप्यलातादिसंज्ञा । एवं सर्वत्र ।

“बाहुपशीर्षाद्विनिष्क्रान्तौ नितम्बाविति कीर्तितौ ।” (ना.शा. ८-१९६) योजना तु–दक्षिणपादेनालातां चारीं प्रयुञ्जानो दक्षिणहस्तेन नितम्बं कृत्वा चतुरश्रमेव कुर्यात् । वामेन पादेनोर्ध्वजानुं ततो वामेनाप्यङ्गेन । एवमेतेऽप्यलातचार्या द्वि(द्विः)- प्रयोगात्तन्नामधेयमेवेदं करणम् । प्रयोगश्चास्य ललितनृत्तविषये । यथा–“देवं हं उणवशमिं” इत्यादौ । (७८)

(१९) कटीसमम्

स्वस्तिकादनन्तरम1पसृत इत्यनेन आक्षिप्तायाश्चार्या अनन्तरम2पक्रान्तायाश्चार्याः प्रयोगमाह । चकारेण करौ च स्वस्तिकाव3वधृतौ । तत एको नाभिस्थः 4खटकः । एवमपरः कट्यामर्धचन्द्रः । तदेव पार्श्वं नतमपरमुद्वाहितं द्वितीयेनाङ्गेन ।

“कुञ्चितं पादमुत्क्षिप्य आक्षिप्य त्वञ्चितं न्यसेत् ।
जङ्घास्वस्तिकसंयुक्त5माक्षिप्ता नाम सा स्मृता ।।” (ना.शा. १०-३७)

“उत्क्षिप्तच6क्रा तु यदाऽनामिका सकनीयसी ।
अस्यैव तु कपित्थस्य तदासौ खटकामुखः ।।” (ना.शा. ९-६१)

“यस्याङ्गुल्यस्तु विनताः सहाङ्गुष्ठेन चापवत् ।
सोऽर्धचन्द्रः” (ना.शा. ९-४३)

“उद्वाहितं तूर्ध्वगतमुरो ज्ञेयम् " इति । (ना.शा. ९-२३१) तत्पार्श्वमप्युद्वाहितम् । वैष्णवं चात्र स्थानकं कटिसमं तत्त्वबन्धाल्लभ्यते ।

Notes

(मू)

(व्या)

रेचितश्चापविद्धश्च तत्स्यादाक्षिप्तरेचितम् ।
विक्षिप्तं हस्तपादं च तस्यैवाक्षेपणं पुनः ।। ८१ ।।

यत्र तत्करणं ज्ञेयं विक्षिप्ताक्षिप्तकं द्विजाः ।
स्वस्तिकौ चरणौ कृत्वा 1करिहस्तं च दक्षिणम् ।। ८२ ।।

Abh

“द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् ।
तयोः समस्थितस्त्वेकः त्र्यश्रः पक्षस्थितोऽपरः ।।

किञ्चिदञ्चितजङ्घं च सौष्ठवाङ्गपुरस्कृतम् ।
वैष्णवं स्थानमेतद्धि विष्णुरत्राधिदैवतम् ।।” (ना.शा.१०-५२-५३)

जर्ज1राभिमन्त्रणावसरे सूत्रधारेणायं प्रयोक्तव्यः । (७९)

(२०) आक्षिप्तरेचितम्

हृदयक्षेत्रे वामः सव्यश्च यो हस्तः स आसमन्तादित्यूर्ध्वे पार्श्वद्वये च व्यावर्तितकरणेन क्षिप्तः स रेचितो हंसपक्षद्रुतभ्रमात्मा । (ना.शा. ९-१९३) । तत एक आक्षिप्तः स्ववक्षोदेशमधोमुख आनीतोऽञ्चितश्च रेचितः सन्नपविद्धश्च । गात्रक्षेत्रान्निष्क्रामित इत्याक्षिप्तरेचितं करणम् । पादावत्र प्रयोगानुसारेण अञ्चित2– सूचीरूपेण । त्यागोपादानप3रस्प(म्प)रात्मनि च4 वाक्यार्थेऽभिनेतव्येऽस्य प्रयोगः । यथा “हण्डे चिसुणइ एइं वइउं वण5” इत्यादौ ।। (८०)

(२१) विक्षिप्ताक्षिप्तकम्

6एकस्य हस्तस्य व्यावर्तनकरणकाले पादस्य बहिर्निष्क्रमणलक्षणो विक्षेपः । द्वितीयहस्तस्तु चतुरश्र एव । पुनः परिवर्तितकरणेन तस्य हस्तपादस्याक्षेपो द्वितीयस्य विक्षेपः । गमनागमनप्रधाने वाक्यार्थे चास्य प्रयोगः ।

यथा—“आवर्तउजंतउ पुणं रगइदम्” इत्यादाविति केचित् ।

उपाध्यायास्त्वाहुः–अभिनयहस्ता ये वक्ष्यन्ते तत्प्रधानस्य करणस्य वाक्यार्था भिनये प्रयोगः । न तु केवलवर्तनाप्रधानस्य केवलनृत्तहस्तप्रधानस्य वा । तस्य

Notes

(मू.)

(व्या)

वक्षःस्थाने तथा वाममर्धस्वस्तिकमादिशेत् ।
व्यावृत्तपरिवृत्तस्तु4 स एव तु करो यदा ।। ८३ ।।

अञ्चितो नासिकाग्रे तु तदञ्चितमुदाहृतम् ।
कुञ्चितं 2पादमुत्क्षिप्य 3त्र्यश्रमूरुं विवर्तयेत् ।। ८४ ।।

कटिजानुविवर्ताच्च4 भुजङ्गत्रासितं भवेत् ।
कुञ्चितं पादमुत्क्षिप्य5 जानुस्तनसमं6 न्यसेत् ।। ८५ ।।

Abh

तु नृत्ते प्रयोगः प्राधान्येन । अन्ये तु कदाचिदङ्ग1विच्छेदरक्षणे । यथायोगमभिनया- न्तराले गतिपरिक्रम(मे ?) तालान्तरसन्धाने युद्धनियुद्धचारीस्थानके सञ्चारे वा प्रयोग इति । एतच्च सर्वत्रानुसरणीयम् । (८१)

(२२) अर्धस्वस्तिकम्

“समुन्नतो लताहस्तः पार्श्वात्पार्श्वं तु दोलितः ।
त्रिपताकोऽपरः कर्णे करिहस्तः प्रकीर्तितः ।।”

“तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ लताभिधौ ।” (ना.शा. ९-१९८-१९९)

“कटिहस्तम्” इति केचित्पठन्ति । तत्र व्याख्या कट्यां यो हस्तोऽर्धचन्द्रः 2पक्षप्रद्योतकवञ्चितकौ । वाममिति खटकास्यम् (ना.शा. ९-६१) पादाभ्यामेव स्वस्तिकयोगादर्धस्वस्तिकम् । एतत्करणमभिनयहस्तरहितमेव । (८२)

(२३) अञ्चितम्

स एवेति योऽर्धस्वस्तिककरणे करिहस्त उक्तः स एव व्यावर्तितकरणेन यदा नासाक्षेत्रे3 अलपल्लवाकृतित्वादञ्चितोदञ्चितसारणा4नुकारि तदञ्चितम् । एतस्य संमुखीनात्मविषये स्वाति5शयकौतुके(क)प्रधाने वाक्यार्थे प्रयोगः । यथा– एवउवेम्मकुहेउको इति । (८३)

Notes

(मू)

(व्या)

प्रयोगवशगौ हस्तावूर्ध्वजानु प्रकीर्तितम्1 ।
2वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् ।। ८६ ।।

नासाग्रे दक्षिणं चैव ज्ञेयं तत्तु निकुञ्चितम्3 ।
वामदक्षिणपादाभ्यां 4घूर्णमानोपसर्पणैः ।। ८७ ।।

उद्वेष्टितापविद्धैश्च5 हस्तैर्मत्तल्ल्युदाहुतम् ।
6स्खलितापसृतौ पादौ वामहस्तश्च रेचितः ।। ८८ ।।

Abh

(२४) भृजङ्गत्रासितम्

नृत्तस्यानादिसिद्धत्वात्करणमिदमुक्तरूपमाशङ्कितदृष्टनिकटतः सर्पत्रासाविष्टस्येव गतिसंवर्ते भुजङ्गत्रासितं करणम् । हस्तौ तु पादवशाद्व्यावर्तितपरिवर्तितौ भवतः । क्रमेणैको दोलाहस्तः (ना.शा. ९-१४८) परः खटकास्य इति करणम् । एतत्सादृश्यात्तु भुजङ्गत्रासितचारी (ना.शा. १०-४२) वक्ष्यते । एवं करणतुल्यं नाम सर्वचारीषु वाच्यम् । (८४)

(२५) ऊर्ध्वजानु

“उत्क्षिप्ता यस्य पार्ष्णिः स्यादङ्गुल्यः कुञ्चितास्तथा ।
तथा कुञ्चितमध्यश्च स पादः परिकुञ्चितः ।। (ना.शा. ९-२७७)

ऊर्ध्वजानु एवं भविष्यति–कुञ्चितसमकालं स एव हस्त एव कुञ्चितस्तनसमजानूपरि वोर्ध्वमुखोऽलपल्लवोऽरालो वा । तत्रापरस्तु वक्षःस्थखटकामुखः । (८५)

(२६) निकुञ्चितम्

वृश्चिकाख्ये करणे यः पादो वक्ष्यते “पादः पृष्ठाञ्चितस्तथा " इति (ना.शा. ४-१०८) (स) वृश्चिकशब्देनेहोच्यते । तेन पश्चात्प्रसारितं चरणं कृत्वा तदेकं च हस्तं शिरःपार्श्वक्षेत्रेऽरालं द्वितीयं च नासाग्रक्षेत्रानुसारि वक्षस्यरालमेव कुर्यात् । अन्ये त्वाहुः– नासाग्रे एकः पताकः अन्यश्च सूच्यास्य इति । एतच्चाकाशगमनोन्मुखवितर्कप्रणिधानादिप्रधानवाक्यार्थाभिनये । यथा हनूमतः ‘एषोऽस्मि व्योममार्गे प्रसभमभिचरन्किं विलम्बैः’ । इत्यादौ ।। (८६)

Notes

(मू)

सव्यहस्तः कटिस्थः स्यादर्धमत्तल्लि तत्स्मृतम्1 ।
रेचितो2 दक्षिणो हस्तः पादः 3सव्यो निकुट्टितः ।। ८९ ।।

दोला चैव भवेद्वामस्तद्रेचितनिकुट्टितम्4 ।
कार्यौ 5नाभितटे हस्तौ प्राङ्मुखौ खटकामुखौ ।। ९० ।।

Abh

(२७) मत्तल्लि

चार्यप्येवंरूपैव (ना.शा. १०-२८) भविष्यति । घूर्णमानस्य ततो यान्युपसर्पणानि पादस्य तैरुपलक्षिताभ्यां पादाभ्याम् । घूर्णनं च पादस्य द्वितीयपादगुल्फस्वस्तिकोपसर्पणम् । तत्समकालं च हस्तौ नितम्बाख्यावुद्वेष्टितौ तदोपसर्पणकालेऽपविद्धोपवेष्टने (द्धावपवेष्टितौ) । एवं द्वितीयेनाङ्गेन । बहुवचनं पुनः पुनरित्थं क्रियेति सूचयति । 1मदनं मत्तं तनोतीति मत्तल्लि मदोत्कलस्य वीप्सायोगेन करणेन । तन्मत्तल्लित्रये विक्षेपः । मत्तशेखरकादिविषयोऽस्याः प्रयोगः । (८७)

(२८) अर्धमत्तल्लि

(वामः) रेचितो हंसपक्षो द्रुतभ्रमः । स्खलित इति षट् (कट्यां?) द्वितीयः पादनिकटं प्राप्तः । तरुणमदविषयः (प्रयोगः) । (८८)

(२९) रेचितनिकुट्टितम्

सव्य इति दक्षिण एव । निकुट्टित इत्युद्धट्टितक्रियया ।

“स्थित्वा पादतलाग्रेण पाष्णिर्भूमौ निपात्यते ।’’ (ना.शा. ९-२४८) स उद्धट्टितः ।

अंसौ प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ ।
यदा भवेतां करणे स दोल इति संज्ञिताः ।।’’ (ना.शा. ९-१३५)

स्त्रीलिङ्गयोगेन दोला हस्तस्य प्रेङ्खोलितं यद्वर्तनया गमनामगने सूचयति । (८९)

Notes

(मू) 1.N.क्ष.ठ.म. मत्तल्लिमादिशेत् ।

(व्या)

सूचीविद्धावपक्रान्तौ पादौ पादापविद्धके ।
अपविद्धो भवेद्धस्तः सूचीपादस्तथैव च ।। ९१ ।।

तथा त्रिकं विवृत्तं च वलितं नाम तद्भवेत् ।
1वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः ।। ९२ ।।

स्वस्तिकापसृतः पादः करणं घूर्णितं तु2 तत् ।
करिहस्तो भवेद्वामो दक्षिणश्च विवर्तितः ।। ९३ ।।

Abh

(३०) पादापविद्धकम्

नाभिक्षेत्रे पराङ्मुखौ । सूच्याख्येन पादेन द्वितीयं पादं विद्धं विधाय स एव सूचीपादोऽपक्रा1न्तचारीयुक्तः कार्यः । एवं द्वितीयोऽपि ।

“उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः ।”
सूचीपादः । (ना.शा. ९-२७९)

“ऊरुभ्यां वलनं कृत्वा” इत्यपक्रान्ता (ना.शा. १०-३१) पादात् पादान्तरमपविद्धमपसारित यत्र तदिदं करणम् । (९०)

(३१) वलितम्

“हस्तौ तु सर्पशिरसौ” (ना.शा. ९-१९१) इति सूचीमुखो हस्तः । स देह– क्षेत्रादपसृतः कार्यः । तत्समकालं सूचीपादोऽप्यपसृतः । ततो भ्रमरिकां चारी कृत्वा–

“अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् ।
द्वितीयपादभ्रमणात्तलेन भ्रमरी स्मृता ।।” (ना.शा. १०-४५)

तदिदं त्रिकवलनाद्वलितम् । (९१)

(३२) घूर्णितम्

पार्श्वक्षेत्रादूर्ध्वव्यावर्तितेनाधोमुखपरिवर्तितेन यदा दोलाहस्तत्वाद् घूर्णितम् । (९२)

Notes

(मू)

(व्या)

बहुशः 1कुट्टितः पादो ज्ञेयं तल्ललितं बुधैः ।
ऊर्ध्वजानुं 2विधायाथ तस्योपरि लतां न्यसेत् ।। ९४ ।।

दण्डपक्षं तु तत्प्रोक्तं करणं नृत्तवेदिभिः ।
भुजङ्गत्रासितं कृत्वा 3यत्रोभावपि रेचितौ ।। ९५ ।।

वामपार्श्वस्थितौ हस्तौ भुजङ्गत्रस्तरेचितम् ।
त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ ।। ९६ ।।

Abh

(३३) ललितम्

“समुन्नतो लताहस्तः पार्श्वात्पार्श्वविलोलितः ।
इत्ययं वामः । (ना.शा. ९-१९९)

दक्षिणं विविधं कृत्वा बहुशो वर्तितः ।

“बाहुशीर्षाद्विनिष्क्रान्तौ नितम्बौ ।” (ना.शा. ९-१९६)

“केशदेशाद्विनिष्क्रान्तौ परिपार्श्वोत्थितौ तथा ।
विज्ञेयौ केशबन्धौ ।।” (ना.शा. ९-१९७)

इत्येवंप्रकारनृत्तहस्तयोजनया वर्तितः । चकाराद्वर्तनान्ते “त्रिपताकोऽपरः कर्णे” (ना.शा. ९-१९९) इति करिहस्तः । पादश्च हस्तानुसारेण निकुट्टितः पुनः पुनरन्येनाङ्गेन1 । तदिति सविलासनृत्तविषयमेतत् । अत एव ललितं नाम करणम् । (९३)

(३४) दण्डपक्षम्

‘कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमम्’ इति (ना.शा. १०-३३) ऊर्ध्वजानुचारीं कुर्वन् “तिर्यक्प्रसारितौ” (ना.शा. ९-१९८) इति लताहस्तौ विधायैकं लताहस्तं तस्य जानुन उपरि क्षिपेत् । पुनर्द्वितीयेनाङ्गेनैवमित्येकत्र पार्श्वे दण्डवद्बाहुसमवस्थानाद्दण्डपक्षं करणम् । (९४)

(३५) भुजङ्गत्रस्तरेचितम् । तदित्यध्याहारः ।

“कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् ।” (ना.शा. १०-४२) इति विधाय द्वावपि हंसपक्षौ द्रुतभ्रमौ (ना.शा. ९-१९३) वामक्षेत्रगौ हस्तौ नेयौ । (९५)

Notes

(मू)

(व्या)

नूपुरश्च 1तथा पादः करणे नूपुरे 2न्यसेत् ।
रेचितौ हस्तपादौ 3च कटी ग्रीवा च रेचिता4 ।। ९७ ।।

वैशाखस्थानकेनैतद्धवेद्वैशाखरेचितम् ।
आक्षिप्तः स्वस्तिकः पादः 5करौ चोद्वेष्टितौ तथा ।। ९८ ।।

त्रिकस्य 6वलनाच्चैव ज्ञेयं भ्रमरकं तु तत् ।
अञ्चितः स्यात्करो वामः 7सव्यश्चतुर एव तु ।। ९९ ।।

Abh

(३६) नूपुरम्

“पृष्ठतोऽभ्यञ्चितं कृत्वा पादमग्रतलेन तु ।
द्रुतं निपातयेद् भूमौ चारी नूपुरपादिका ।।” (ना.शा. १०-३५)

तेन भ्रमरिकया चार्या (ना.शा. १०-४५) त्रिकवलनं कृत्वा ततो नूपुरपादिकां चारीं येन पादेन करोति तद्दिक्केनैव हस्तेन (रेचितम् ।। द्वितीयो लताहस्तः) । (९६)

(३७) वैशाखरेचितम्

रेचितौ नृत्तहस्तौ हंसपक्षौ द्रुतभ्रमाविति । तदनुकारेण पादग्रीवाकटिगतं रेचितं ज्ञेयम् । यथोक्तं राहुलकेन

“ग्रीवायां करयोः कट्यां पादयोश्च पृथक्पृथक् ।
भ्रमणं रेचितं विद्यात् ।” इति ।
“1तालास्त्रयोऽर्धतालश्च पादयोरन्तरं भवेत् ।
2तालांस्त्रीनर्धतालं च निषण्णोरुं प्रकल्पयेत् ।।

त्र्यश्रौ 3पक्षस्थितौ पादौ ।।” (ना.शा. १०-६१-६२)

वैशाखं स्थानम्4 । एतत्करणमभिवाहने । (९७)

(३८) भ्रमरकम्

अनेन पादेनाक्षिप्ता चारी सूचिता ।

“कुञ्चितं पादमुत्क्षिप्य व्याक्षिप्य त्वञ्चितं न्यसेत् ।
जङ्घास्वस्तिकसंयुक्तमाक्षिप्ता नाम सा स्मृता ।।” (ना.शा. १०-३७)

Notes

(मू)

(व्या)

दक्षिणः कुठ्ठितः पादश्चचुरं तत्प्रकीर्तितम् ।
भुजङ्गत्रासितः पादौ 1दक्षिणो रेचितः करः ।। १०० ।।

2लताख्यश्च करो वामो भुजङ्गाञ्चितकं भवेत् ।
विक्षिप्तं हस्तपादं तु समन्ताद्यत्र दण्डवत् ।। १०१ ।।

Abh

तेनैवं योजना–स्वस्तिकानन्तरं पादमाक्षिप्य तत्समकालमुद्वेष्ट्य “तर्जन्याद्या बहिर्मुख1म्” (ना.शा.९-२१६) इत्युद्वेष्टितमेकं हस्तं कृत्वा त्रिकवलनं कृत्वा पुनर्द्वितीयेनाङ्गेन तथैव । चकारात्तद्वलनानन्तरं स्वस्तिक एव पादः । एकवचनद्विवचनाभ्यां पर्यायेण प्रयोगोऽत्र सूचितः । यदि वोद्वेष्टितशब्देनोल्बणौ नृत्तहस्तावुपलक्षितौ ।

“करावुद्वेष्टिताग्रौ तु प्रविधायालपल्लवौ ।
ऊर्ध्वं प्रसारिताविद्धौ कर्तव्यावुल्बणौ ।। इति (ना.शा. ९-२०८)

तदा युगपदेव प्रयोगं कृत्वा पादस्वस्तिकभ्रमणाद्देहस्य साक्षात्कृतः । संज्ञायां कन् । एतदुद्धतपरिभ्रमणविषये प्रयोक्तव्यम् । (९८)

(३९) चतुरम्

अञ्चित इत्यलपल्लवः (ना.शा. ९-९१)

“तिस्रः प्रसारिता यत्र तथा चोर्ध्वा कनीयसी ।
तासां मध्ये तथाङ्गुष्ठः स करश्चतुरः स्मृतः ।।” (ना.शा. ९-९३)

एवकारेण वक्षःक्षेत्राद्2 द्वयोरप्यलम् । तु शब्देन सन्निवेशाधिक्यं केवलमिति सूच्यते । कुट्टित इति ।

“स्थित्वा पादतलाग्रेण पार्ष्णिर्भूमौ निपात्यते ।” (ना.शा. ९-२६६) इत्युद्धट्टिताङ्ग3रूपः । एतद्विदूषकस्य सविस्मयसूच्याभिनयादौ । यथा “सानुरे” खण्डदासवर्यमिसासा । (९९)

(४०) भुजङ्गाञ्चितकम्

(“4कुञ्चितं पादम् ।” (ना.शा. १०-४२) इत्यादि भुजङ्गत्रासितचार्यां पादः । “हंसपक्षौ द्रुतभ्रमौ ।” (९-१९३) इति दक्षिणो रेचितः । “तिर्यक्प्रसारितौ” इति (ना.शा. ९-१९८) वामो लताख्यो नृत्तहस्तः ।) (१००)

Notes

(मू)

(व्या)

रेच्यते1 तद्धि करणं ज्ञेयं दण्डकरेचितम् ।
वृश्चिकं 2चरणं कृत्वा द्वावप्यथ निकुट्टितौ ।। १०२ ।।

विधातव्यौ करौ तत्तु ज्ञेयं वृश्चिककुट्टितम् ।
सूचीं 3कृत्वापविद्धं च दक्षिणं चरणं न्यसेत् ।। १०३ ।।

4रेचिता च कटिर्यत्र कटिभ्रान्तं तदुच्यते ।
अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः ।। १०४ ।।

Abh

(४१) दण्डकरेचितम्

दण्डवद्धस्तविक्षेपेण रेचनेन च दण्डपक्षौ सूच्येते । पादविक्षेपेण तु दण्डपादा चारी ।

“हंसपक्षकृतौ हस्तौ व्यावृत्तपरिवर्तितौ ।
तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ।।” (ना. शा. ९-२०२)

“नूपुरं चरणं कृत्वा पुरतः सम्प्रसारयेत् ।
क्षिप्रमाविद्धकरणं दण्डपादा तु सा स्मृता ।।” (ना.शा. १०-४४)

तत्प्रमोदविषयं करणम् । उद्धतविषये चास्य प्रयोगः(इत्यन्ये) । (१०१)

(४२) वृश्चिककुट्टितम्

पृष्ठभागे रेचितजङ्घमुत्तानतलं वृश्चिकोपलक्षितं चरणं कृत्वा द्वावपि हस्तौ स्वबाहुशिरस्यलपल्लवौ निकुट्टितौ पर्यायेण विदध्यादिति । एतच्च विस्मयाकाशगमनेच्छादिप्रधाने वाक्यार्थविषये प्रयुज्यते । यथा, “पडिविधारिअं उवक्खंहिआ” इत्यादौ । (१०२)

(४३) कटिभ्रान्तम्

“कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् ।
पातयेदग्रयोगेन सा सूची परिकीर्तिता ।।” (ना.शा. १०-३४)

Notes

(मू)

लताख्यश्च करो वामस्तल्लतावृश्चिकं भवेत् ।
अलपद्मः कटीदेशे छिन्ना पर्यायशः कटी ।। १०५ ।।

वैशाखस्थानकेनेह तच्छिन्नं करणं भनेत् ।
वृश्चिकं 1चरणं कृत्वा स्वस्तिकौ च करावुभौ ।। १०६ ।।

रेचितौ वि2प्रकीर्णौ च करौ वृश्चिकरेचितम् ।
बाहुशीर्षाञ्चितौ हस्तौ पादः पृष्ठाञ्चितस्तथा ।। १०७ ।।

Abh

वामं द्रुतमपसारितं कृत्वा पार्श्वे दक्षिणं पादं न्यसेत् । समकालं पृष्ठपरावर्तनक्रमेण कटिं रेचयेत् । भ्रमरिकया वा चार्या (ना.शा. १०-४५) करयो1श्च प्रयोगवशगत्वेन (कटि)भ्रमणकाले तयोरपि व्यावर्तनपरिवर्तनकरणं योजनान्ते चतुरश्रावस्थानम् । गतिपरिक्रमेऽस्य तालाकारादि(लान्तरालादि) यतिपरिपूरणविषये प्रयोगः । (१०३)

(४४) लतावृश्चिकम्

प्रथमार्धेन वृश्चिकं । वामं चरणं भूमौ2 । आकाशादवपतनेऽस्य प्रयोगः । (१०४)

(४५) च्छिन्नम्

क्रमेण पार्ष्ण्योर्नमनोन्न3मनाभ्यां (ना.शा. (९-२५१,२३५) यदा कटिच्छेदः । पार्ष्ण्योर्नम4नोन्नमने पर्यायेण । तथैव च कटिपार्श्वक्षेत्र एव ।

“आवर्तिन्यः करतले यस्याङ्गुल्यः ।” (ना.शा. ९-९१) इत्येवंभूतोऽलपल्लवः । ईषद्गतागतपर्यायेण द्वाभ्यां हस्ताभ्यां प्रयुज्यते । वैशाखस्थानकेन “तालास्त्रयोऽर्धतालश्च” (ना.शा. १०-६१) इति “निष्क्रान्तौ” इति च लक्षणेन तदा कटिच्छेदयोगि छिन्नं नाम । अङ्गप्रतिसारणतालभञ्जनादिविषये चास्य प्रयोगः । (१०५)

(४६) वृश्चिकरेचितम्

“तावेव मणिबन्धान्ते ।” इति (ना.शा. ९-१८७) स्वस्तिकौ । विप्रकीर्णकौ रेचितौ हंसपक्षौ द्रुतभ्रमौ । एतदाकाशयानके प्रयोज्यम् । (१०६)

Notes

(मू) 1.N. करणम् ।

(व्या) 1.म.भ. करणयोश्च ।

दूरसन्नतपृष्ठं1 च वृश्चिकं तत्प्रकीर्तितम् ।
आलीढं स्थानकं यत्र2 करौ वक्षसि रेचितौ ।। १०८ ।।

ऊर्ध्वाधोविप्रकीर्णौ च 3व्यंसितं करणं तु तत् ।
हस्तौ तु स्वस्तिकौ पार्श्वे तथा पादो4 निकुट्टितः ।। १०९ ।।

Abh

(४७) वृश्चिकम्

द्विवचनैकवचने अङ्गस्यापरिहारं सूचयतः । हस्तस्य बाहुशिरस्यञ्चनेन करिहस्तप्रयोगः सूच्यते ।

“समुन्नतो लताहस्तः पार्श्वात्पार्श्वं विलोलितः ।
त्रिपताकोऽपरः कर्णे करिहस्तः ।।” (ना.शा. ९-१९९)

दूरसन्नतपृष्ठत्वं वृश्चिकप्रयोगनान्तरीयं(कं) सर्वत्र वृश्चिकप्रयोगेषु मन्तव्यम् । वृश्तिकपुच्छस्थानीयचरणं वृश्चिकमेतत्करणम् । तदुपलक्षितपादो वृश्चिकः । अस्याकाशगतौ च ऐरावणादिविषये प्रयोगः । यथा– “श्वेताभ्रभ्रान्तिकारी समवतरति रवादभ्रमूवल्लभोऽयम् " इति । (१०७)

(४८) व्यंसितम्

“मण्डले दक्षिणं पादं पञ्चतालान्प्रसार्य तु ।
आलीढं स्थानकं कुर्यात् ।।” (ना.शा. १०-६७)

एकस्य तर्जन्याद्युद्वेष्टितेन (ना.शा. ९-२१६) करणेनाधो विप्रकीर्णता । द्वितीयस्त1र्जन्यादिपरावर्तितकरणेनोर्ध्वगतः,2 क्षेत्रपर्यायेणैक3 उत्तानो हंसपक्षो द्रुतभ्रमलक्षणो रेचकम् । अव(प)रोऽधोमुख ऊर्ध्वाध इत्येकीकरणम् । तच्च करणमुभयत्र सम्बध्यते । एतच्च विभ्रमा4दि (हनुमदादि ?) परिक्रमविषयम् । (१०८)

(४१) पार्श्वनिकुट्टकम्

“तावेव मणिबन्धान्ते” इति (ना.शा. ९-१८७) स्वस्तिकौ । तथाशब्देन पार्श्वे

Notes

(मू)

यत्र तत्करणं ज्ञेयं बुधैः पार्श्वनिकुट्टितम्1 ।
वृश्चिकं 2चरणं कृत्वा पादस्याङ्गुष्ठकेन तु ।। ११० ।।

ललाटे तिलकं कुर्याल्ललाटतिलकं 3तु तत् ।
पृष्ठतः कुञ्चितं 4कृत्वा व्यतिक्रान्तक्रमं ततः ।। १११ ।।

आक्षिप्तौ च करौ कार्यौ क्रान्तके करणे द्विजाः ।
आद्यः 5पादो नतः कार्यः सव्यहस्तश्च कुञ्चितः ।। ११२ ।।

Abh

तयोर्निकुट्टितत्वं पर्यायेणो1च्यते । तस्य तलमेव च पादस्य निकुट्टितत्वम् । पुनर्द्वितीयेनाङ्गेनेति पार्श्वगतहस्तनिकुट्टितयोगात् पार्श्वनिकुट्टितम् । प्रकाशनसंवर2णाहार– (भ्यास?)प्रधाने वाक्यार्थे चास्य प्रयोगः । यथा “पुण्णाव” उडेहराभुइं कुहुएहमं………..पेताहं (“सहंसिपित”) इत्यादौ । (१०९)

(५०) ललाटतिलकम्

पादस्य तस्यैव पश्चाद्भागादितरस्याङ्गुष्ठेन तिलकं तिलकक्रियाहेतुभूतत्वेन लक्षितं संश्लेषं कुर्यादित्यासि(दि)कमेतत्करण3 विद्याधरगतिविषये प्रयुज्यते । (११०)

(५१) क्रान्तकम्

“कुञ्चितं पादमुत्क्षिप्य पुरतः सम्प्रसारयेत् ।
उत्क्षिप्य पातयेच्चैनमतिक्रान्ता ।। इति (ना.शा. १०-३०)

चारीं तां कृत्वा पात्यमानं चरणं कुञ्चितं स्थापयेत् । पृष्ठतः कुञ्चितं च समादाय क्रियान्तपरिक्रमेण प्रसारयेत् । हस्तौ विचार्य(ल्य?) व्यावर्तितकरणेन देहक्षेत्रान्निष्क्रान्तः पुनः परिवर्तितकरणेनाक्षिप्तः स (व)क्षसि खटकामुखः । पुनरपरेणाङ्गेन प्रयोगः । उद्धतपरिक्रमेऽस्य प्रयोगः । (१११)

Notes

(मू)

(व्या)

उत्तानो 1वामपार्श्वस्थस्तत्कुञ्चितमुदाहृतम् ।
प्रलम्बिताभ्यां बाहुभ्यां 2यद्गात्रेणानतेन च ।। ११३ ।।

अभ्यन्तरापविद्धः3 स्यात्तज्ज्ञेयं चक्रमण्डलम् ।
4स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा ।। ११४ ।।

उरोमण्डलकौ हस्तावुरोमण्डलिकन्तु तत् ।
5आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः ।। ११५ ।।

Abh

(५२) कुञ्चितम्

आद्यो नत इति जानुगमनेन भूत1लसञ्चको लक्ष्यते । दक्षिणहस्तश्च कुञ्चितः उत्तानालपल्लवरूपो वामपार्श्वे विधेयः । तदेतन्निर्भरानन्दपूर्ण2देवस्याभिनयविषये प्रयोक्तव्यम् । यथा “देहसुभाइउं मकरकलिअणुकापालविद्वेइचळणं धिआइं” इत्यादौ । (११२)

(५3) चक्रमण्डलम्

अड्डिता चात्रादौ चारी ।

“अग्रतः पृष्ठतो वाऽपि पादोऽग्रतलसञ्चरः ।
द्वितीयपादविर्घृष्टो यस्या3 स्यादड्डिता तु सा ।। (ना.शा. १०-२३)

उद्धतपरिक्रमपरिष्करणा(रिक्रमा)दिविषये चैतत् । (११३)

(५४) उरोमण्डलम्

“भूमिघृष्टेन पादेन कृत्वाभ्यन्तरमण्डलम् ।
पुनरुत्सारयेदन्यं4 स्थितावर्ता तु सा स्मृता ।।” (ना.शा. १०-१५)

इत्यनया चार्याऽपसारणं स्वस्तिकस्य कार्यम् । बद्धाचार्यात्वादाववस्थानमित्युक्तं भवति ।

“अन्योन्यजङ्घासंवेधात्कृत्वा तु स्वस्तिकं ततः ।
ऊरुभ्यां वलनम्” इति (ना.शा. १०-२१)

Notes

(मू) 1.ठ.म. वामपार्श्वश्च ।

(व्या)

आक्षिप्तं1 नाम करणं विज्ञेयं तद्द्विजोत्तमाः ।
ऊर्ध्वाङ्गुलितलः पादः पार्श्वेनोर्ध्वं 2प्रसारितः ।। ११६ ।।

प्रकुर्यादञ्चिततलौ हस्तौ तलविलासिते ।
पृष्ठतः प्रसृतः पादो द्वौ 3तालावर्धमेव च ।। ११७ ।।

Abh

तस्या रूपं स्वस्तिकसंस्थानाक्षिप्तम् ।

“उद्वेष्टितो भवेदेको द्वितीयश्चापवेष्टितः ।
भ्रमितावुरसः स्थाने ह्युरोमण्डलिनौ स्मृतौ ।।” (ना.शा. ९-२०४) (११४)

(५५) आक्षिप्तम्

“कुञ्चितं पादमुत्क्षिप्याञ्चितम्” । इति (ना.शा. १०-३७) आक्षिप्तया पादचार्या पार्श्वस्य किञ्चिन्नमनेन हस्तस्य चतुरश्रस्य खटकामुख्या क्षेपः इति विदूषकगतिविषयमाक्षिप्तकरणम् । (११५)

(५६) तलविलसितम्

तेनैवोर्ध्वगतेन पादेन सहाञ्चिततलो वा शिलष्टतलत्वात्कर्तव्यः । द्विवचनात्पर्यायेण द्वितीयेनाङ्गेन प्रयोगोऽभ्यासेन वा । पताकौ हस्तौ परस्परोपसंश्लिष्टाविति पादतलस्य हस्ततलस्य च विकृष्टे देशे आकाशे लसितं श्लेषणं यत्र तलविलसितम् । पादोद्धारसंज्ञया सूत्रधारादिविषये नाट्याचार्या योजयन्ति ।(११६)

(५७) अर्गलम्

द्वितीय1चरणकनिष्ठाभङ्गे 2सार्धान्तालाह्वजङ्घः सन् पादः प्रसृतो भवति । एतत्समकालं च हस्तबाहुद्वितीयं पार्श्वक्षेत्रं किञ्चिदग्रप्रसृतोऽलपल्लवाकारः तदन्तर्ज- (र्ग)लमर्गलयेत् । देहस्य नयम्यन्त्रणात् (नियन्त्रणात्?) (अर्गलम्) । परिक्रमे चैतद3ङ्गदप्रभृतीनां भवति ।

Notes

(मू) 1.N. क्ष. करणं नाम ।

(व्या)

1तस्यैव चानुगो हस्तः पुरतस्त्वर्गलं तु तत् ।
विक्षिप्तं हस्तपादं च2 पृष्ठतः 3पार्श्वतोऽपि वा ।। ११८ ।।

एकमार्गगतं यत्र तद्विक्षिप्तमुदाहृतम् ।
प्रसार्य कुञ्चितं पादं 4पुनरावर्तयेत् द्रुतम् ।। ११९ ।।

प्रयोगवशगौ हस्तौ 5तदावर्तमुदाहृतम् ।
कुञ्चितं 6पादमुत्क्षिप्य 7पार्श्वात्पार्श्वं तु 8डोलयेत् ।। १२० ।।

Abh

(५८) विक्षिप्तम्

वाग्रहणं चार्थे । तेन विद्युद्भ्रान्तादण्डपादाभ्यां (ना.शा. १०-४०-४४) चारीभ्यामुद्वेष्टितापवेष्टितरेचकवर्त1नया पार्श्वयोः पृष्ठेऽग्रे च हस्तपादविक्षेपः । (इद) मुद्धतगतिपरिक्रमसूचनादिविषयम् । (११८)

(५९) आवर्तम्

“पादः प्रसारितः सव्यः पुनश्चैवापसर्पितः ।
वामः सव्योपसर्पी च चाषगत्याम् । इति ।।” (ना.शा. १०-१८)

चाषगत्या चार्या प्रयोगः । हस्तौ च किञ्चिदुद्वेष्टितापवेष्टितरूपौ दोलावेवेति । आ ईषत् वर्तनं हस्तपादस्य यत्र तदिदमावर्तकरणम् । एत2न्नायकोपसर्पणे सागरिकापाशबन्धाद्यवसरे प्रयोज्यम् । (११९) (६०) डोलापादम्

पूर्वमूर्ध्वजानुचारी । (ना. शा. १०-३३)ततो दोलापादा ।

Notes

(मू) 1.ठ.म. तस्यैवानुगतो । छ.ब. आस्ये चानुगतो ।

(व्या)

प्रयोगवशगौ हस्तौ 1डोलापादं तदुच्यते ।
आक्षिप्तं 2हस्तपादं च त्रिकं चैव3 विवर्तयेत् ।। १२१ ।।

रेचितौ च तथा हस्तौ 4विवृत्ते करणे द्विजाः ।
सूचीविद्धं विधायाथ त्रिकं तु विनिवर्तयेत्5 ।। १२२ ।।

Abh

“(कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं विलोलयेत् ।
पातयेदञ्चितं तैव दोलापादा ।।”) (ना.शा. १०-३६)

डोलाहस्तावेव (ना.शा. ९-१४८) प्रयोगवशगौ इति डोलापादं करणम् । (१२०)

(६१) विवृत्तम्

आक्षिप्य वाम(पाद)माक्षिप्य स्वदेहक्षेत्रादपसारितवृत्त्याऽ ऽवर्त्य हस्तं च व्यावर्तितपरिवर्तिताभ्यां तथैवाक्षिप्य त्रिकं भ्रमरिकया (ना.शा. १०-४५)वलयेत् । तद्रेचितौ च हंसपक्षौ द्रुतभ्रमौ हस्ताविति त्रिकविवर्तनयोगात् विवृत्तम् । अस्योद्धतगतिपरिक्रमे प्रयोगः । (१२१)

(६२) विनिवृत्तम्

“कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् ।
पातयेच्चाग्रयोगेन सा सूची ।।” इति (ना.शा. १०-३४)

चार्या द्वितीयं पादं पार्ष्णिभागे स्वस्तिकयोजनया विद्धा(ध्वा) त्रिकस्यैकपार्श्वे विवर्तनस्य प्रत्यावर्तनक्रमेण निवृत्तिं कुर्यात् । “अन्योन्यजङ्घावेधेन बद्धया” (ना.शा.१०-२१) वा चार्योरुवलनं कुर्यात् । हस्तौ च रेचितौ हंसपक्षौ द्रुतभ्रमौ । उक्त एवास्य प्रयोगः (विवृत्तवत्) । (१२२)

Notes

(मू)

करौ च1 रेचितौ कार्यौ विनिवृत्ते द्विजोत्तमाः ।
पार्श्वक्रान्तक्रमं2 कृत्वा 3पुरस्तादथ पातयेत् ।। १२३ ।।

प्रयोगवशगौ हस्तौ 4पार्श्वक्रान्तं तदुच्यते ।
पृष्ठतः 5कुञ्चितः पादो वक्षश्चैव समुन्नतम् ।। १२४ ।।

तिलके च करः स्थाप्यस्तन्नि6स्तम्भितमुच्यते ।
पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् ।। १२५ ।।

Abh

(६३) पार्श्वक्रान्तम्

“कुञ्चितं पादमुत्क्षिप्य पार्श्वस्थाने स्थितं न्यसेत् ।” (ना.शा. १०-३२)

इति पार्श्वक्रान्ता चारी । तयाऽग्रे चरणं पातयेत् । हस्तयोश्च पादप्रयोगानुसारेण पर्यायेण पुरः प्रसारणम् । यदि वा प्रयुज्यत इति प्रयोगः गतिप्रचारयुद्धादिः । तत्र पादावुचितौ हस्तावित्येवं सर्वत्र । एतच्च रौद्रप्रधाने भीमसेनादेः परिक्रमे (१२३)

(६४) निस्तम्भितम्

द्वितीयपादस्य पृष्ठे पार्ष्णिभागे कुञ्चितः । समुन्नतमिति । निर्भुग्नं स्तब्धं च निम्नपृष्ठं चेति । खटकामुखः कर इति तदेतद्देशो मध्यमाङ्गुलिरूपो1 ललाटे तिलकवदिति । पादेन भुव आघातान्निस्तम्भितं महेश्वराभिनयविषयम् । वृश्चिकोऽत्र पाद इत्येके । (१२४)

(६५) विद्युद्भ्रान्तम्

पृष्ठत ऊरुमूलदेशात्प्रभृति वलितं चक्रवद्भ्रामितं तत एव प्रयोक्तुः शिरः क्षेत्रेण श्लिष्टं सर्वतो मण्डल2गत्या 3भ्रान्त्या आविद्धं चतुरं कृत्वा प्रसारयेत् । प्रकर्षेण स 4 सर्वासु दिक्षु पर्यायेण सारयेत् । तत्पदस्य विद्युत इव उद्भ्रमणाद्विद्युद्भ्रान्तमुद्धतगति परिक्रमादिविषयम् । (१२५)

Notes

(मू)

(व्या)

1सर्वतो मण्डलाविद्धं विद्युद्भ्रान्तं तदुच्यते ।
अतिक्रान्तक्रमं कृत्वा 2पुरस्तात्संप्रसारयेत् ।। १२६ ।।

प्रयोगवशगौ हस्तावतिक्रान्ते प्रकीर्तितौ ।
आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् ।। १२७ ।।

3द्वितीयो रेचितो हस्तो विवर्तितकमेव तत् ।
कर्णेऽञ्चितः4 करो वामो लताहस्तश्च दक्षिणः ।। १२८ ।।

दोलापादस्तथा चैव गजक्रीडितकं5 भवेत् ।
द्रुतमुत्क्षिप्य चरणं पुरस्तादथ पातयेत् ।। १२९ ।।

Abh

(६६) अतिक्रान्तम्

अतिक्रान्ता चारी (ना.शा. १०-३०) व्याख्याता । पुरस्तादिति स्वदेहस्याग्रेण । एतदपि गतिपरिक्रमादिविषयमेव । एवमन्यस्यापि यस्याभिनयविषये नोपयोगस्तस्य विषयो मन्तव्यः । (१२६)

(६७) विवर्तितकम्

आक्षिप्तहस्तापेक्षया द्वितीयो हस्तः । तं हंसपक्षद्रुतभ्रमक्रमं कुर्यात् । (१२७)

(६८) गजक्रीडितकम्

“समुन्नतो लताहस्तः पार्श्वात्पार्श्वं विलोलितः ।” (ना.शा. ९-१९९) इति यः करिहस्तो लक्ष्यते वृत्तमध्ये तस्यैव यदा त्रिपताकोऽसावञ्चितक्रियाविष्टो डोलापादचारी तदा गजक्रीडितकम् । क्रियाविष्टत्वाच्चाङ्गपर्यायोऽत्र लभ्यते । प्रयोगश्चास्य नामोचित एव विषये । यथा “1अरुवद्रणा” इत्यादौ । (१२८)

Notes

(मू) 1.क्ष. त.म.ब. हस्तौ च मण्डलाविद्धौ ।

(व्या)

तलसंस्फोटितौ हस्तौ 1तलसंस्फोटिते मतौ ।
पृष्ठप्रसारितः2 पादः लतारेचितकौ करौ3 ।। १३० ।।

समुन्नतं शिरश्चैव4 गरुडप्लुतकं5 भवेत् ।
सूचीपादो नतं6 पार्श्वमेको वक्षःस्थितः करः ।। १३१ ।।

द्वितीयश्चाञ्चितो गण्डे गण्डसूची तदुच्यते ।
7ऊर्ध्वापवेष्टितौ हस्तौ 8सूचीपादो विवर्तितः ।। १३२ ।।

Abh

(६९) तलसंस्फोटितम्

अतिक्रान्तया (ना.शा. १०-३०) चार्या दण्डपादया (ना.शा. १०-४४) वा चरणमुत्क्षिप्याक्षिप्तं कृत्वा तथैवाग्रे निपातयेत् । तत्समकालं च पताकौ हस्तौ संश्लेषितशब्दादभिहितौ इति तलसंस्फोटितम् । तस्यैतद्विषय एव प्रयोगो, यथा “तालाद्देवी सुसुखसुभसइ जणु” इत्यादौ । (१२१)

(७०) गरुडप्लुतकम्

वृश्चिकवच्चरणम् । एकोऽलातहस्तः (लताहस्तः) । द्वितीयो रेचितः । प्रयोगोऽस्य नामोचित एव विषये (१३०)

(७१) गण्डसूची

“उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः ।
वामश्चैव स्वभावस्थः ।।” (ना.शा. ९-२८०)

इति सूचीपादः । अञ्चितोऽलपल्लवो गण्डक्षेत्रे । अन्ये तु सूचीपादं गण्डक्षेत्रप्राप्तमिच्छन्ति । अन्ये तु सूचीमुखं नृत्तहस्तं गण्डाञ्चितं पुनः क्रियाविष्टमाहुः ।

“हस्तौ तु सर्पशिरसौ मध्यमाङ्गुष्ठकौ यदा ।
तिर्यक्प्रसारितास्यौ” (ना.शा.९-१९१) इति ।

अन्ये तु सूच्यास्यमभिनयहस्तमाहुः ।

Notes

(मू)

परिवृत्तत्रिकं चैव1 परिवृत्तं तदुच्यते ।
एकः 2समस्थितः पाद 3ऊरुपृष्ठे स्थितोऽपरः ।। १३३ ।।

मुष्टिहस्तश्च 4वक्षःस्थः पार्श्वजानु तदुच्यते ।
पृष्ठप्रसारितः पादः किञ्चिदञ्चित5जानुकः ।। १३४ ।।

Abh

“खटकाख्ये यदा हस्ते तर्जनी सम्प्रसारिता ।
हस्तः सूचीमुखो नाम ।।” इति (ना.शा. ९-६५)

अत्र पक्षे गण्डसंश्रयप्रधानभूषणाभिनयविषयोऽस्य प्रयोगः । यथा"गंडप्पळीळावण्णज्जळ एसो फळके अइदाम” इत्यादौ (१३१)

(७२) परिवृत्तम्

“ऊर्ध्वमण्डलिनौ हस्तावूर्ध्वदेशविवर्तनात् ।” (ना.शा. ९-२०३) सूचीलक्षणश्च (ना.शा. १०-३४) पादो बद्धाचारी(ना.शा. १०-२१)माश्रित्य विचित्र- रूपतया द्वितीयपादे (ना.शा. १०-४५) वर्तितः अन्योन्यजङ्घासंवेधादिति । ततोऽपि भ्रमरिकया त्रिकं परिवर्तितमाहुः । (१३२)

(७३) पार्श्वजानु

ऊरुपृष्ठजनि(स्थितः) तस्यैव समस्थितपादस्योरोः द्वितीयोऽस्या(पि) हस्तः कट्यामर्धचन्द्र इति पार्श्वजानु । पार्श्व ऊरुपृष्ठः तस्य पादस्य संबन्धि 1जानु यत्रेति । युद्धनियुद्धविषयमेतत् । (१३३)

(७४) गृध्रावलीनकम्

पार्श्वात्प्रसारिपादोऽङ्गुष्ठभूमिसंश्लेषादञ्चितजानुकः । लताहस्तौ च पार्श्वगौ । तत्पक्षिनिरूपणादौ गृध्रावलीनकम् । (१३४)

Notes

(मू)

(व्या)

यत्र प्रसारितौ बाहू तत्स्यात् गृध्रावलीनकम् ।
उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकस्थितौ ।। १३५ ।।

सन्नतौ च तथा हस्तौ सन्नतं तदुदाहृतम् ।
कुञ्चितं4 पादमुत्क्षिप्य कुर्यादग्रस्थितं भुवि ।। १३६ ।।

प्रयोगवशगौ हस्तौ 2सा सूची परिकीर्तिता ।
3अलपद्मः शिरोहस्तः सूचीपादश्च दक्षिणः ।। १३७ ।।

यत्र तत्करणं ज्ञेयमर्धसूचीति नामतः ।
पादसूच्या यदा पादो द्वितीयस्तु 4प्रविध्यते ।। १३८ ।।

Abh

(७५) सन्नतम्

“1कुञ्चितं पादमुत्क्षिप्य समुत्प्लुत्य निपातयेत् ।
जङ्घाञ्चितोप2रि क्षिप्ता सा ज्ञेया हरिणप्लुता ।।” (ना.शा. १०-४३)

इत्यनया चार्योत्प्लुत्याग्रदेशे पादं स्वस्तिकं कुर्यात् । सन्नतौ च दोलाहस्तौ । “अंसौ प्रशिथिलौ हस्तौ पताकौ तु प्रलम्बितौ” (ना.शा. ९-१४८) एतदधमप्रकीर्तनादुपसर्पणादिविषये । (१३५)

(७६) सूची

अग्रतः स्थितमिति । (१३६)

(७७) अर्धसूची

शिरःक्षेत्रे हस्तः शिरोहस्तः । 3तच्चार्यामेव करणमेकेनाङ्गेनेत्यर्धसूची4 । (१३७)

Notes

(मू)

(व्या)

1कटिवक्षःस्थितौ हस्तौ सूचीविद्धं तदुच्यते ।
कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत्2 ।। १३९ ।।

प्रयोगवशगौ 3हस्तावपक्रान्तं तदुच्यते ।
वृश्चिकं 4चरणं कृत्वा 5रेचितौ च तथा करौ ।। १४० ।।

तथा त्रिकं विवृत्तं च मयूरललितं भवेत् ।
अञ्चितापसृतौ पादौ6 शिरश्च परिवाहितम्7 ।। १४१ ।।

Abh

(७८) सूचीविद्धम्

प्रविध्यत इति सूचीपादौ । द्वितीय इति पादः पार्ष्णिस्थः क्रियत इत्यर्थः । कटिस्थितः पक्षवञ्चितकोऽर्धचन्द्रो वा द्वितीयः खटकामुख एव वक्षसि । चिन्ताविषयेऽस्य प्रयोगः । यथा–“कालीकरमिकस्सकहम्” इत्यादौ । (१३८)

(७९) अपक्रान्तम्

“ऊरुभ्यां वलनं कृत्वा कुञ्चितं पादमुद्धरेत् ।
पार्श्वे विनिक्षिपेच्चैतदपक्रान्ता ।।” (ना.शा. १०-३१)

इत्यपक्रान्तक्रमं कृत्वोरुवलितबद्धां चारीमन्योन्यजङ्घासंयोगात्कृत्वा तु स्वस्तिकमूरुभ्यां वलनमित्येवंभूतां कुर्यात् । (१३९)

(८०) मयूरललितम्

वृश्चिकं पादं विधाय रेचितौ हंसपक्षौ द्रुतभ्रमौ करौ कृत्वा पादं1 तमेवोरुदेशे निकुञ्च्य भ्रमरिकां चारीं कुर्यादिति मयूरनृत्तानुकारि मयूरललितम् ।

“अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् ।
द्वितीयपादभ्रमणात्तलेन भ्रमरी भवेत् ।।” (ना.शा. १०-४५) (१४०)

Notes

(मू)

(व्या)

रेचितौ च तथा हस्तौ1 तत्सर्पितमुदाहृतम् ।
नूपुरं चरणं2 कृत्वा दण्डपादं प्रसारयेत्3 ।। १४२ ।।

क्षिप्राविद्धकरं4 चैव 5दण्डपादं तदुच्यते ।
अतिक्रान्तक्रमं6 कृत्वा समुत्प्लुत्य 7निपातयेत् ।। १४३ ।।

जङ्घाञ्चितोपरि क्षिप्ता 8तद्विद्याद्धरिणप्लुतम् ।
डोलापादक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ।। १४४ ।।

Abh

(८१) सर्पितम्

“पार्ष्णी(ष्णिः) यस्य स्थितौ(ता) भूमावूर्ध्वमग्रतलं भवेत् ।
अङ्गुल्यश्चाञ्चिताः सर्वाः स पादोऽञ्चित उच्यते ।।” (ना.शा. ९-२७५)

अञ्चितपादः सन्नपसृतो द्वितीयपादनिकटात्पलायितकोऽर्यः (तो यः तत्) समकालमेव तत्पार्श्वगं शिरः । तथेति तत्पार्श्वग एव हस्तो रेचितः । पुनरयं द्वितीयकरपादस्य विधिः । तत्पार्श्वगतमेव च शिरः । अत एव च परिवाहितम् । यद्वक्ष्यति–

“पर्यायशः पार्श्वगतं शिरः स्यात्परिवाहितम् ।” (ना.शा. ८-२७) एतच्च पादकृतमदोपसर्पणविषयमिति मान(नाम)बलाद्गम्यते । (१४१)

(८२) दण्डपादम्

“पृष्ठतोऽभ्यञ्चितं कृत्वा पादमग्रतलेन तु ।
द्रुतं निपातयेद्भूमौ चारी नूपुरपादिका ।। “(ना.शा.१०-३५)

इत्येतदनन्तरमेव दण्डपादादिपुरश्चरणं कृत्वा दण्डपादं प्रसारयेत् ।

“क्षिप्रापविद्धकरणं दण्डपादा तु सा स्मृता ।” (ना.शा. १०-४४) इत्येतत्सहितमेव पादसहितदण्डत्वरितहस्तं न्यसेदिति साटोपपरिक्रमादिविषयमेतत् । (१४२)

(८३) हरिणप्लुतम्

ईदृशस्यैव हरिणप्लुता चारी (ना.शा. १०-४३) भविष्यति । तस्यास्तु करणप्रवेशः प्रागेवोक्तः (1भुजङ्गत्रासितकरणव्याख्यावसरे) । (१४३)

Notes

(मू)

(व्या)

परिवृत्तत्रिकं1 चैव तत्प्रेङ्खोलितमुच्यते2 ।
भुजावूर्ध्व3विनिष्क्रान्तौ 4हस्तौ चाभिमुखाङ्गुली ।। १४५ ।।

बद्धा चारी5 तथा तैव 6नितम्बे करणे भवेत् ।
दोलापादक्रमं7 कृत्वा हस्तौ तदनुगावुभौ ।। १४६ ।।

रेचितौ घूर्णितौ वापि8 स्खलितं करणं 9भवेत् ।
एको10 वक्षःस्थितो हस्तः 11प्रोद्वेष्टिततलोऽपरः ।। १४७ ।।

Abh

(८४) प्रेङ्खोलितकम्

कुञ्चितं पादं पार्श्वात्पार्श्वं दोला (ना.शा.१०-३६) । तमेवं कृत्वा द्वितीयेनोत्प्लुत्य भ्रमरिकां (ना.शा.१०-४५) कुर्यात् । (१४४)

(८५) नितम्बम्

अभिमुखाङ्गुली । अथोर्ध्वाङ्गुलौ पताकौ व्यावर्तितकरणेन शिरोदेशं नीत्वा ततः परिवर्तितकरणेनोर्ध्वक्षेत्रेण निष्कान्तौ बाहू कृत्वा यथासम1 देशेऽन्योन्यं वीक्ष्यमाणौ पताकौ स्थापयेत् । ततो देहाभिमुखाङ्गुलिहस्तौ तदनुगावुभौ रेचिताघूर्णितौ चापि नितम्बनृत्त– हस्तलक्षणौ कुर्यात् । एतत्त्रिभिर्मुखा(एतदभिमुखा)ङगुलित्वं निपातत्रयेण द्योतितम् । “बाहुशीर्षाद्विनिष्कान्तौ” (ना.शा. ९-१९६) निमेषा(वेशा)त्तद्योगात्करणान्वितम् । (१४५)

(८६) स्खलितम्

दोलापादगमनागमनसमकालं हंसपक्षोपलक्षितौ बाहू गमनागमनयुक्तं पुनरपरेणाङ्गेनेति । (१४६)

Notes

(मू)

(व्या)

अञ्चितश्चरणश्चैव1 प्रयोज्यः 2करिहस्तके ।
एकस्तु रेचितो हस्तो 3लताख्यस्तु तथा परः ।। १४८ ।।

4प्रसर्पिततलौ पादौ प्रसर्पितकमेव तत् ।
अलातं च पुरःकृत्वा द्वितीयं च द्रुतक्रमम् ।। १४९ ।।

हस्तौ पादानुगौ 5चापि सिंहविक्रीडिते स्मृतौ ।
पृष्ठप्रसर्पितः6 पादस्तथा हस्तौ निकुञ्चितौ7 ।। १५० ।।

Abh

(८७) करिहस्तकम्

प्रोद्वेष्टनक्रियया परः कर्णस्थः त्रिपताकस्तद्दिक्क एव च पादस्तत्प्रोद्वेष्टनसमकालमञ्चितः सम्प्रयोज्य निष्क्रमणीयः । करिहस्तेन नृत्तहस्तेन सदृशमेतदंश इत्येतत्तन्नामा । (1समुन्नतो लताहस्तः पार्श्वात्पार्श्वं विलोलितः । त्रिपताकोऽपरः कर्णे करिहस्तः) (ना.शा.९-१९९) (१४७)

(८८) प्रसर्पितकम्

हंसपक्षो द्रुतभ्रम इति रेचितः । अपरो लताख्यो (ना.शा. ९-१९८) नृत्तहस्तः । रेचितकरस्य दिक्पादः पादान्तरान्मन्दं मन्दं भूमिघर्षणाच्चलेत् । एतस्य खेचरसंचारविषये प्रयोगः । (१४८)

(८९) सिंहविक्रीडितम्

अलातां चारीमग्रगतां द्रुतं निक्षिप्य तदनुसारेणैव च हस्तं(ना.शा. १०-४१) द्वितीयमपि चक्रमेवंभूतं कुर्यादिति सिंहकरघातसाम्यात्सिंहविक्रीडितं रौद्रगतिविषयम् । (१४९)

Notes

(मू)

(व्या)

पुनस्तथैव कर्तव्यौ सिंहाकर्षितके द्विजाः ।
आक्षिप्तहस्तमाक्षिप्तदेहमाक्षिप्तपादकम्1 ।। १५१ ।।

2उद्वृत्तगात्रमित्येतदुद्वत्तं करणं स्मृतम् ।
आक्षिप्तश्चरणश्चैको3 हस्तौ तस्यैव 4चानुगौ ।। १५२ ।।

आनतं च तथा गात्रं तथोपसृतकं 5भवेत् ।
दोलापादक्रमं कृत्वा तलङ्घट्टितौ करौ ।। १५३ ।।

Abh

(९०) सिंहाकर्षितम्

वृश्चिक एकः पादः । निकुञ्चितौ स्वस्तिकेन 1पद्मकोशोर्णनाभौ (ना.शा. ९-८२-१२०) (दक्षिण)वामहस्तौ । पुनर्द्वितीयेन पादेन यदा वृश्चिकस्तदा तौ क्रियावर्तनावशादपसार्य पुनरपि तादृशावेव हस्ताविति सिंहाद्यभिनयविषयं 2सिंहाकर्षितकम् । (१५०)

(९१) उद्वृत्तम्

आक्षिप्तमासारितानीतं हस्तपादं यत्र । कथं सर्वदेहाक्षेपः । आह-उद्वृत्ताचारीयुक्तं कृत्वा–

“पादमाविद्धमावेष्ट्य समुत्प्लुत्य निपातयेत् ।
परिवृत्त्य द्वितीयं तु सोद्वृत्ता ।” (ना.शा.१०-३९) इति ।

अत एवोद्वृतं करणम् । (१५१)

(९२) उपसृतकम्

यथा “महादेवी विण्णवेदि” इति । (१५२)

Notes

(मू)

(व्या)

रेचयेच्च करं वामं1 तलसङ्घट्टिते 2सदा ।
एको वक्षःस्थितो हस्तो द्वितीयश्च प्रलम्बितः ।। १५४ ।।

3तलाग्रसंस्थितः पादो जनिते करणे भवेत् ।
जनिनं करणं कृत्वा हस्तौ चाभिमुखाङ्गुली ।। १५५ ।।

शनैर्नि4पतितौ चैव ज्ञेयं तदवहित्थकम् ।
करौ वक्षःस्थितौ कार्यावुरो निर्भुग्नमेव च ।। १५६ ।।

Abh

(९३) तलसंङ्घट्टितम्

कुञ्चितं पार्श्वात्पार्श्वमिति (ना.शा. १०-३६) दोलापादां चारीं कुर्वस्तत्समकालं पताकौ सम्यग्घट्टितमन्योन्यतलं ययोस्तादृशौ करौ कृत्वा वैष्णवे स्थानके “द्वौ तालौ” (ना.शा. १०-५२) इत्यत्र स्थित्वा दक्षिणं हस्तं कट्यां च द्वितीयं हंसपक्षद्रुतभ्रमात्मकं रेचकं कुर्यात् । अनुकम्पाप्रधाने वाक्यार्थेऽस्य प्रयोगः । “धाणवगळछिफ…..अ/?/ धिअचणारि” इत्यादि । (१५३)

(९४) जनितम्

वक्षसि मुष्टिहस्तः । प्रलम्बितो लताख्यः । अन्यासां क्रियाणामारम्भकाल एव तत्सन्निवेशजननयोगाद्यथोचितचारीवशानीतम् । (जनिताचारी ना.शा. १०-२५) (१५४)

(९५) अवहित्थकम्

“मुष्टिहस्तश्च वक्षःस्थः करोऽन्यश्च प्रवर्तते ।
तलसञ्चरपादश्च जनिता ।।"(ना.शा.१०-२५) इति ।

चारीपादं कृत्वा । तथाप्यभिमुखाङ्गुली इत्यरा1लालपल्लवतया ललाटवक्षःक्षेत्रगौ हस्तौ विधाय शनैरिति यथाक्रममुद्वेष्टितकरणावधरोर्ध्वक्रमेण पार्श्वगौ कृत्वा पुनरपवेष्टितपरिवर्तितक्रिययारालाला2पल्लवावन्योन्यं सम्मुखं वक्षोदेशे कुर्यात् । गोपनप्रधाने वाक्यार्थेऽस्य प्रयोगः । इत्यवहित्थक्रमे तद्यथा–“ऐथगअं गइकरिं थविफासहसश्व/?/ खे इअं बइसं परिहि” ।।

Notes

(मू)

(व्या)

मण्डल1स्थानकं चैव निवेशं करणं तु तत् ।
तलसञ्चरपादाभ्यामुत्प्लुत्य 2पतनं भवेत् ।। १५७ ।।

संनतं वलितं गात्रमेलकाक्रीडितं तु तत् ।
करमावृत्तकरणमूरुपृष्ठेऽञ्चितं3 न्यसेत् ।। १५८ ।।

जङ्घाञ्चिता 4तथोद्वृत्ता 5ह्यूरूद्वृत्तं तु तद्भवेत् ।
करौ प्रलम्बितौ कार्यौ शिरश्च परिवाहितम् ।। १५९ ।।

Abh

अन्ये तु (अवहित्थहस्तेन)

“शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ ।
शनैरधोमुखाविद्धोऽसाववहित्थः ।।"(ना.शा.९-१५६) ।।

इत्येतच्चिन्तादौर्बल्यविषयमाहुः । (१५५)

(९६) निवेशम्

“स्त1ब्धं च निम्नपृष्ठं च निर्भुग्नांसं समुन्नतम् ।
उरो निर्भुग्नम् ।” (ना.शा. ९-२२६)

ऐन्द्रे मण्डले पादौ चतुस्तालान्तरस्थितौ । (गजवा)हनादिविषयेऽनेन निवेशयेत् । गात्रस्याविश्रमणान्निवेशाख्यम् । (१५६)

(९७) एलकाक्रीडितम्

पतनकाले गात्रस्य नमनं ततो वलनम् । एवं नामैकरूपा चारी । (ना.शा.१०-२०) भविष्यति । अधमप्रकृतिगतिविषयमेतत् । (१५७)

(९८) ऊरूद्वृत्तम्

“तलसञ्चरपादस्य पार्ष्णिर्बाह्योन्मुखी यदा ।
जङ्घाञ्चिता तथोद्वृत्ता ऊरूद्वृत्ता ।” इति (ना.शा.१०-२२)

अनया चार्या सह व्यावर्तितकरणेनारालं खटकं चोरुदेशे पृष्ठे च क्षिपेत् । प्रणयकोपेर्ष्याप्रार्थनादिविषयमेतत्करणम् । (१५८)

Notes

(मू) 1.N. क्ष.म.भ. मण्डलं स्थानकम् ।

(व्या) 1.म.भ. निम्नमुन्नतपृष्ठम् ।

पादौ च वलिताविद्धौ मदस्खलितके द्विजाः ।
पुरः प्रसारितः1 पादः कुञ्चितो 2गगनोन्मुखः ।। १६० ।।

करौ च रेचितौ यत्र विष्णुक्रान्तं तदुच्यते ।
करमावर्तितं कृत्वा ह्यूरुपृष्ठे निकुञ्चयेत् ।। १६१ ।।

ऊरुश्चैव तथाविद्धः सम्भ्रान्तं करणं तु तत् ।
अपविद्धः करः सूच्या पादश्चैव 3निकुट्टितः ।। १६२ ।।

वक्षःस्थश्च करो वामो विष्कम्भे करणे भवेत् ।
पादावुद्धट्टितौ कार्यौ तलसङ्घट्टितौ 4करौ ।। १६३ ।।

Abh

(९९) मदस्खलितकम्

करौ दोलौ । पर्यायशः पार्श्वगतं शिरः । वलिताविद्धौ अवनतावनन्तरं स्वस्तिकापसृतौ (पादौ) पर्यायेणेति । मद्यमदविषयमेतत् । (१५९)

(१००) विष्णुक्रान्तम्

विष्णोरित्थं क्रमणमत्र । तत्तद्विषय एवास्य प्रयोगः । (१६०)

(१०१) सम्भ्रान्तम्

आविद्धायां चार्यां सत्यामूरुस्तथा ।

“स्वस्तिकस्याग्रतः पादः कुञ्चितश्च प्रसारितः ।
निपतेदञ्चिताविद्ध आविद्धा नाम सा स्मृता ।।” (ना.शा. १०-३८)

तच्चारीप्रयोगकाले च व्यावर्तितपरिवर्तितकरणेनालपल्लवमूरुपृष्ठे न्यसेत् । सम्भ्रमपरिक्रमविषयमेतत् । (१६१)

(१०२) विष्कम्भम्

वामः करो दक्षिणेन हस्तेन सूचीमुखं (ना.शा. ९-१९१) नृत्तहस्तात्मनापगमपूर्वकं विद्धः । स एव पादो निकुट्टितः । चकारात् द्वितीयेयैनैवाङ्गेन । एवकारेणेदमाह पुनः

Notes

(मू)

नतञ्च पार्श्वं1 कर्तव्यं बुधैरुद्धट्टिते सदा ।
प्रयुज्यालातकं पूर्वं2 हस्तौ चापि हि रेचयेत्3 ।। १६४ ।।

कुञ्चितावञ्चितौ चैव वृषभक्रीडिते सदा4 ।
रेचितावञ्चितौ हस्तौ लोलितं वर्तितं शिरः ।। १६५ ।।

Abh

सूच्या (ना.शा. १०-३४) चार्योपलक्षितः पादः । परश्च निकुट्टितोऽलपल्लवोऽन्यस्तु वामः । एवं पुनःकरणे सति क्रियाविष्कम्भनाद्विस्तारणाद्विष्कम्भाख्यं करणम् ।(१६२)

(१०३) उद्धट्टितम्

“स्थित्वा पादतलाग्रेण पार्ष्णी भूमौ ।।” इति (ना.शा. ९-२६६)

पादः । अन्योन्यमनेन तालिकादानोद्यतौ करौ पुनर्द्वितीयपाद उद्धट्टितः पर्यायेण च तथैव पार्श्वयोर्नम1नमिति । प्रमोदविषयमेतत् । (१६३)

(१०४) वृषभक्रीडितम्

अलातचारी (ना.शा. १०-४१) कुर्वन्हस्तौ रेचितौ कुर्यात् । ततः कुञ्चितौ व्यावर्तितकरणेन कृत्वा ततो बाहुशिरस्यलपल्लवाकृती अञ्चितौ विधेयाविति वृषभमङ्गद्वारद्वयप्र2योगात् वृषभक्रीडितम् । (१६४)

(१०५) लोलितम्

वैष्णवे स्थाने आदौ रेचितं हंसपक्षद्रुतभ्रमरूपं हस्तद्विती(त)यं चाञ्चितं वक्षस्यलपल्लवाकारं कुर्यात् । शिरश्च लोलितम् । सर्वतो लोलितमपि चोभयोः पार्श्वयोर्वर्तितं विश्रवमितम् । (१६५)

Notes

(मू)

(व्या)

उभयोः पार्श्वयोर्यत्र 1तल्लोलितमुदाहृतम् ।
2स्वस्तिकापसृतौ पादौ शिरश्च परिवाहितम् ।। १६६ ।।

रेचितौ च तथा हस्तौ स्यातां नागापसर्पिते ।
निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् ।। १६७ ।।

उद्वाहित3मुरः कृत्वा शकटास्यं प्रयोजयेत् ।
ऊर्ध्वाङ्गुलितलौ पादौ त्रिपताकावधोमुखौ ।। १६८ ।।

Abh

(१०६) नागापसर्पितम्

परिवाहितं पर्यायशः पार्श्वगतं कुटिलगतियोगान्नागापसर्पितम् । इदं तरुणमदविषयम् । (१६६)

(१०७) शकटास्यम्

निषण्णं निस्समीकृतमङ्गं येन तेन तज्जानुसमस्थिते पदे 1पुरो गुल्फदेशे कुञ्चितो न तु जानुरेव पादः स एवाध्यर्धतालान्तरसञ्चरः प्रसार्यः । तत्सहितोऽपि हस्तो द्वितीयो वक्षसि खटकः । ईदृश्येवेयं चारी (ना.शा.१०-१६) भविष्यति । अनेन सन्निवेशेन शकटस्यासनं क्षेप इति । तथाविधबालक्रीडादिविषये भाणिकादिविषयेऽस्य प्रयोगः । (१६७)

(१०८) गङ्गावतरणम्

अत्र केचिदूर्ध्वाङ्गुलितल इत्यनेन समपादा2ञ्चितभूमाववस्थानमुक्तमित्याहुः । एतच्चायुक्तमशब्दार्थत्वात् । तस्मादञ्चितो न पादः । अन्ये त्वाहुः- अनेन क्रमेणाग्रतलसञ्चारो वृश्चिक3पाद इति । अपरे तु–चकारेण भिन्नक्रमेण च पादस्य त्रिपताकाहस्तयोश्शिरसश्च सन्नतत्वात्तेन प्रथमं पादोद्धारं स्थित्वा पादमूर्ध्वं विधाय तदुपरि पताकाहस्तौ तं पादं क्रमेणाग्रतलसञ्चारो वृश्चिकपाद इति । (4अपरे तु चकारेण भिन्नक्रमेण च तदास्य त्रिपताकाहस्तयोः शिरसश्च सन्नतत्वात्तेन प्रथमः पादोद्धारः ।

Notes

(मू) 1.क्ष. N. ठ.अ. ज्ञेयं तल्लोलितं बुधैः ।

(व्या)

हस्तौ शिरस्सन्नतं च गङ्गावतरणं 1त्विति ।
2यानि स्थानानि याश्चार्यो व्यायामे 3कथितानि तु ।। १६९ ।।

पादप्रचारस्त्वेषां तु करणानामयं भवेत् ।
ये चापि नृत्त4हस्तास्तु गदिता नृत्त5कर्मणि ।। १७० ।।

तेषां समासतो योगः करणेषु विभाव्यते ।
प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ।। १७१ ।।

6चरणश्चानुगश्चापि दक्षिणस्तु भवेत्करः ।
7चार्यश्चैव तु याः प्रोक्ता नृत्तहस्तास्तथैव च ।। १७२ ।।

सा मातृकेति विज्ञेया तद्भेदात्करणानि तु ।
अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ।। १७३ ।।

अतः परं प्रवक्ष्यामि ह्यङ्गहारविकल्पनम् ।
प्रसार्योत्क्षिप्य चत करौ8 समपादं प्रयोजयेत् ।। १७४ ।।

Abh

स्थित्वा पादमूर्ध्वं विधाय तदुपरि च त्रिपताकहस्तौ तं पादं क्रमेण) सन्नमयेत् अवरोधयेत् । तदनुसारेण च त्रिपताका1हस्तं संनमयेत् । तथैव क्रमेण शिरः । एवमेव त्रिविक्रमपादप्रसरणपूर्वकं गङ्गादेव्या अवतरणमिति नाम्नैवास्य करणस्य विषयो दर्शितः । इतिशब्दः समाप्तौ । (१६८)

(इत्यष्टोत्तरशतकरणनिरूपणं समाप्तम्)

अङ्गहारलक्षणम्

तलपुष्पपुटस्य पूर्वं निर्देशात्सर्वत्र2 वर्तनाप्राधान्येनोपक्रम इति सूचितं 3परं प्रयोगमाह । उक्तमुपसंहरन् क्रमप्राप्तानङ्गहारान्यथोद्देशं लक्षणीयत्वेन प्रतिजानीते– अष्टोत्तरशतमित्यादिना । हि यस्मात्करणानामष्टोत्तरशतमुदितं (ततो) हेतोः परं विशिष्टमङ्गहारो कल्प्यते परस्परतो भेद्यते येन तदङ्गहारेष्वेव विशेषलक्षणं वक्ष्यामीति सम्बन्धः । जातावेकवचनम् । (१७३)

Notes

(मू)

(व्या)

व्यंसितापसृतं 1सव्यं हस्तमूर्ध्वं प्रसारयेत् ।
प्रत्यालीढं ततः कुर्यात्2 तथैव च निकुट्टकम् ।। १७५ ।।

ऊरू3द्वृत्तं ततः 4कुर्यादाक्षिप्तं स्वस्तिकं ततः ।
नितम्बं करि5हस्तं च कटिच्छिन्नं 6च योगतः ।। १७६ ।।

Abh

() स्थिरहस्तः

तत्रोद्देशक्रमेण स्थिरहस्तं लक्षयति–प्रसार्येत्यादिना हरप्रिय इत्यन्तेन । तत्र प्रसार्योत्क्षिप्य च कराविति त्रिपता1काञ्जलि वक्षःस्थमिति लक्षितस्य लीनाख्यस्य करणस्य (ना.शा. ४-६६) प्रथमेतिकर्तव्यतानिरूपणेनोपलक्षितम् । एतच्च तल्लक्षण एवोक्तमस्माभिः पताकशब्दस्य प्रयोजनं वदद्भिः । इदमिदं करणं योगतोऽन्यादौ ह्यनया जिघृक्षतीत्यक्षिकरणगतहस्तपादाद्यौचित्ययुक्तवर्तनाचारीयोजनया यदि भवति तत एव चाविच्छिन्ना शुभा च । प्रबन्धादलातचक्रवदेकबुद्ध्यनुसंहार्यं तदलम् । स्थिरहस्तो नामाङ्गहार इति सम्बन्धः । एवं सर्वत्र योगत इति सर्वाङ्गहारेषु सम्बध्यते ।

अन्ये तु योगात्समाधेरप्ययं भगवतः प्रीतय इति व्याचक्षते ।
समपादमिति समनखं करणम् । “पदं (पादौ) श्लिष्टौ समनखौ” इति (ना.शा. ४-६५) ।

व्यंसिते–

" आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ ।
ऊर्ध्वाधोविप्रकीर्णौ च व्यंसितं करणं तु तत् ।। (ना.शा. ४-१०८)

इति लक्षिते करणेऽपसृतौ विप्रकीर्णौ यौ हस्तौ तौ द्वावप्यूर्ध्वस्थानस्थितौ कृत्वा आलीढस्य परिवर्तनेन (ना.शा. १०-७०) प्रत्यालीढं स्थानकं कुर्यात् । ततो निकुट्टिते “निकुट्टितौ यदा हस्तौ” (ना.शा. ४-६९) इति नवमं करणम् । ततोऽपि “करमावृत्तकरणमूरुपृष्ठ” (ना.शा. ४-१५९) इत्यष्टनवतितमम् । ततः स्वस्तिकं हस्ताभ्यामथ पादाभ्यामिति (ना.शा. ४-७५) पञ्चदशम् । तत “आक्षिप्तं हस्तपादं चेति” (ना.शा.४-११५) पञ्चपञ्चाशत् ।

Notes

(मू) 1.क्ष.ठ.अ. सव्यमूर्ध्वं हस्तम् । ब. सव्यं पूर्वहस्तम् ।

(व्या) 1.म. कादण्डविलक्षमिति ।

स्थिरहस्तो 1भवेदेष त्वङ्गहारो 2हरप्रियः ।
तलपुष्पापविद्धे3 द्वे वर्तितं 4सनिकुट्टकम् ।। १७७ ।।

(N.प्रत्पालीढं ततः कृत्वा तथैव च निकुट्टकम् ।)
ऊरूद्वृत्तं 5तथाक्षिप्तमुरोमण्डलमेव च ।
6नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ।। १७८ ।।

Abh

“भुजावूर्ध्वं विनिष्क्रान्तौ हस्तौ चाभिमुखाङ्गुली” (ना.शा.४-१४६) इति नितम्बगतिः । ततः करिहस्तम्–

“वामो वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोपरि” (ना.शा.४-१४८) इति सप्ताशीतितमम् । ततः “पर्यायशः कटिश्छिन्ना बाहू शिरसि” (ना.शा. ४-७२) इत्येकादशम् ।

इत्येवं करणग्रामसम्यग्योजनया कृतं स्थिरहस्तमङ्गहारं निर्वर्तयति । अतः(त्र) सर्वेष्वङ्गहारेष्वित्यर्थः(हारेषु) करणावयववर्गं सर्वं करणजातं चतुर्दिङ्मुखेषु प्रयोज्यमिति नाट्याचार्या मन्यन्ते । अनागतातीतवे(दी मुनिस्तद)युक्तं मन्यमान एकान्नविंशतितमे हि परिवृत्तकरेचितेऽङ्गहारे (ना.शा.४-२१९) वक्ष्यति ’ पराङ्मुखविधिर्भूय एवमेव भवेत् ’ इत्यङ्गहारविधावित्यर्थायोगात् । तदाङ्गिकेष्वेव वक्ष्याम्: । उद्वेष्टितकरणस्वरूपं निरूपयतः प्रयोगश्चैषामदृष्टार्थ एव । प्रयोगे च तत्तद्वा1क्यार्थादूनं विप्रकर्षानुसारेण । एतच्च पूर्वरङ्गे (अ-५) यथोपदेशं वक्ष्यामः ‘युद्धे नियुद्धे च’ इत्यादौ (ना.शा.४-५६) विषयेणैतेषां (विशेषेणैतेषाम्) कदाचित्प्रयोगः । एवं स्थिरहस्त एव नानिर्व(र्तनं) लक्ष्यत इति न वृथा तन्निर्देशेनायासः । (१७६)

() पर्यस्तकः

तलपुष्पपुटेत्यादि । केचित्प्रसार्येत्यादिना प्रत्यालीढं ततः कुर्यादित्यन्तं सर्वेष्वङ्गहारेषु प्रथममितिकर्तव्यतां योजयन्ति प्रथमाङ्गस(ङ्ग)तिकरणयोगः कथमित्यभिप्रायेण । अन्ये तु प्रत्यङ्गहारसमुचिताः साधारणाः स्वयमूह्या इत्याहुः । श्रुतहानौ को गुण इत्यपरे ।

तत्र “वामे पुष्पपुट” (ना.शा.४-६१) इति प्रथमम् । “आवर्त्य शुकतुण्डाख्य– मूरुपृष्ठे” “वामहस्तश्च वक्षःस्थ” (ना.शा. ४-६४) इत्यपविद्धम् । “कुञ्चितौ मणिबन्धे तु” इति (ना.शा. ४-६२) वर्तितम् । “निकुट्टिताविति” (ना.शा.४-६९)

Notes

(मू)

(व्या)

एष पर्यस्तको नाम 1ह्यङ्गहारो हरोद्भवः2 ।
3अलपल्लवसूचीं च कृत्वा विक्षिप्तमेव च ।। १७९ ।।

आवर्तितं ततः कुर्यात्तथैव च निकुट्टकम् ।
ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च4 ।। १८० ।।

करिहस्तं 5कटिच्छिन्नं सूचीविद्धो भवेदयम् ।
अपविद्धं तु करणं सूचीविद्धं 6तथैव च ।। १८१ ।।

Abh

निकुट्टकम् । “करमावृत्तकरणम्” इति (ना.शा. ४-१५९) ऊरूद्वृत्तम् । (तत “आक्षिप्तं हस्तपादम्” (४-११६) इत्याक्षिप्तम् । “स्वस्तिकापसृता” विति (४-११५) उरोमण्डलम् । ततो “भुजावूर्ध्वविनिष्क्रान्ता"विति (४-१४६) नितम्बकरणम् । अनन्तरं “वामो वक्षःस्थित” इति (४-१४८) करिहस्तम् । ततः “पर्यायश” इति (४-७२) कटिच्छिन्नम् । एतेन करणदशकेन पर्यस्तकः ।।) (१७८)

() सूचीविद्धः

अर्घ(ल)पल्लवसूचीं चेति । “अलपद्मः शिरोदेशे (हस्तः) सूचीपादश्च” इति (ना.शा. ४-१३८) अलपल्लवोपलक्षितमर्धसूच्याख्यं सप्तसप्ततितमं करणम्–

“विक्षिप्तं हस्तपादं च पृष्ठतः पार्श्वतोऽपि वा ।
एकमार्गम् " इति (ना.शा. ४-११९) विक्षिप्तम् ।

एकान्नषष्टितमं यदावर्ताख्यं करणं

“प्रसार्य कुञ्चितं पादं पुरस्त्वा(नरा)वर्तयेद्य्रुतम् ।
प्रयोगवशगौ” इति (ना.शा. ४-१२०)

तदेवावर्तितशब्देनोक्तम् । ततो निकुट्टकादीनि षट् करणान्युक्ताङ्गहारवदेव (स्थिरहस्त इव) । (१८०)

() अपविद्धः

अपविद्धन्त्वित्यादि ।

“आवर्त्य2 शुकतुण्डाख्यमूरुपृष्ठे निपातयेत् ।
वामहस्तश्च वक्षःस्थोऽप्यपविद्धम् ।। (ना.शा. ४-६४)

Notes

(मू)

(व्या)

उद्वेष्टितेन हस्तेन त्रिकं तु परिवर्तयेत् ।
उरोमण्डलकौ हस्तौ कटिच्छिन्नं तथैव च ।। १८२ ।।

अपविद्धोऽङ्गहारश्च विज्ञेयोऽयं प्रयोक्तृभिः1 ।
करणं नूपुरं कृत्वा विक्षिप्तालातके पुनः ।। १८३ ।।

पुनराक्षिप्तकं कुर्यादुरोमण्डलकं तथा ।
2नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ।। १८४ ।।

Abh

“पादसूच्या यदा पादो द्वितीयश्च प्रविध्यते ।
कटिवक्षःस्थितौ हस्तौ सूचीविद्धं तत् ।।” (ना.शा. ४-१३९)

एवं करणद्वयं कृत्वोद्वेष्टितेन करणेन (ना.शा. ९-२१६) बद्धया चार्या त्रिकं वलितं कृत्वोरोमण्डलहस्तोपलक्षितमुरोमण्डलकरणं ततोऽपि कटिच्छिन्नं विदध्यात् ।

“स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा ।
उरोमण्डलकौ हस्तावुरोमण्डलं तु तत् ।।” (ना.शा. ४-११५)

प्रयोक्तृभिरिति ये प्रयोगकुशलास्तैः । स्वयमङ्गस्य गतिः सम्यग्विद्वद्भिर्ज्ञातुं न शक्य इत्यनेनेदमाह । एतेषु करणेषु यदा मध्यवर्तनशिरोभ्रूनेत्रादिकर्मसहितापि या योजना च सा अंशश्च स्वरूपतत्त्वविदा स्वयमङ्गीकर्तुं शक्यः । अन्यस्य तूक्तापि प्रयोक्तुमशक्या न चापि निरूपयितुं शक्या । गीतवाद्यलययन्ति(ति) वाक्यार्थभेदेन च तस्या एव योजना । योजने चानन्त्यम् । नहि सुशिक्षितोऽपि लक्षणकारो वाक्यानां प्रतिपदं लक्षणं कर्तुं शक्नोति । अस्य पश्चादिदं प्रयोज्यमिति दयापि(ज्ञापि)तेन किञ्चिदात्मनो योजना च संहिता कार्या । नियमनमग्रे वक्ष्याम इत्युक्तम् । तेन मण्डलादिस्थाननिरूपणमिह कैश्चित्कृतं निरुपयोगमेवेत्यास्ताम् । (१८२)

() आक्षिप्तकः

करणं नूपुरमित्यादि ।

“त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ” (ना.शा. ४-९७) (नू)पुरं च तथा पादकरणे नूपुरे “विक्षिप्तं हस्तपादं च” इति (ना.शा. ४-११९) विक्षिप्तम् ।

Notes

(मू) 1.ढ. हारस्तु विज्ञेयस्तत्प्रयोक्तृभिः । द.अ. अपविद्धस्तु विज्ञेयो ह्यङ्गहारः प्रयोक्तृभिः ।

आक्षिप्तकः स विज्ञेयो ह्यङ्गहारः प्रयोक्तृभिः ।
उद्वेष्टितापविद्धस्तु करः पादो 1निकुट्टितः ।। १८५ ।।

पुनस्तेनैव योगेन वामपार्श्वे भवेदथ ।
उरोमण्डलकौ हस्तौ 2नितम्बं करिहस्तकम् ।। १८६ ।।

3कर्तव्यं सकटिच्छिन्नं नृत्ते तूद्धट्टिते4 सदा5 ।
पर्यायोद्वेष्टितौ हस्तौ पादौ चैव निकुट्टितौ ।। १८७ ।।

Abh

“अलातं चरणं कृत्वाऽप्यंसयोर्दक्षिणं करम् ।
ऊर्ध्वजानुक्रमं कुर्यादलातकमिति स्मृतम् ।।” (ना.शा.४-७८)

यत्र यत्र पुनर्ग्रहणं तत्र तत्र केचित् द्विर्यो1गमाहुः । द्वितीयाङ्गहारोक्तमाक्षिप्तादिकरण- पञ्चकम् । (१८४)

() उद्धट्टितः

उद्वेष्टितापविद्धस्त्विति । अनेन प्रथमश्लोकेन पर्यायशोऽङ्गद्वयप्रयोगं निकुट्टकं करणमाह–निकुट्टितौ यदा हस्तौ” (ना.शा.४-६९) इति । उरोमण्डल- कादिकरणचतुष्कं द्वितीयाङ्गहारवदेव । (१८६)

() विष्कम्भः

पर्यायोद्वेष्टिताविति । अनेनार्धेनानन्तराङ्गहारवदेव प्रथममण्डलद्वयेन निकुट्टितं करणमित्याह । कुञ्चिताविति । हस्तौ पादौ चेति सम्बन्धः । तेन कुञ्चितस्य करणस्याञ्चितस्य चाङ्गद्वयपर्यायेण प्रयोज्यत्वमुक्तम् ।

“वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् । (ना.शा. ४-८७)
नासाग्रे दक्षिणं चैव निकुञ्चितम् ।।”

“स्वस्तिकौ चरणौ कृत्वा करिहस्तं च दक्षिणम् ।
वक्षःस्थाने तथा वाममर्धस्वस्तिकमादिशेत् " ।। (ना.शा.४-८३)

इत्यनन्तरं

“व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा ।
अञ्चितो नासिकाग्रे तु तदञ्चितम् ।।” (ना.शा. ४-८३)

चतुरश्रमिति अनेनार्धेनार्धनिकुट्टकं दशमं करणमाह–

Notes

(मू)

(व्या)

कुञ्चितावञ्चितौ चैव ह्यूरूद्वृत्तं1 तथैव च ।
चतुरश्रं करं कृत्वा पादेन च 2निकुट्टकम् ।। १८८ ।।

भुजङ्गत्रासितं चैव करं चोद्वेष्टितं पुनः ।
परिच्छिन्नं3 च कर्तव्यं त्रिकं भ्रमरकेण तु ।। १८९ ।।

4करिहस्तं कटिच्छिन्नं विष्कम्भे परिकीर्तितम् ।
दण्डपादं करं चैव5 विक्षिप्याक्षिप्या चैव हि ।। १९० ।।

व्यंसितं वामहस्तं च सह पादेन सर्पयेत् ।
निकुट्टकद्वयं कार्यमाक्षिप्तं मण्डलोरसि ।। १९१ ।।

6करिहस्तं कटिच्छिन्नं कर्तव्यमपराजिते ।
कुट्टितं7 करणं कृत्वा भुजङ्गत्रासितं तथा ।। १९२ ।।

Abh

“अञ्चितो बाहुशिरसि हस्तस्त्वभिमुखाङ्गुलिः ।
निकुञ्चितार्धयोगेन” (ना.शा. ४-७०) इति ।

द्वितीय हि तत्र प्राङ्गमुखं खटकरूपं चतुरश्रो हस्तः ।

“कु़ञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् ।
कटिजानुविवर्तश्च भुजङ्गत्रासितं भवेत् ।।” (ना.शा.४-८४)

भुजङ्गत्रासितं चतुर्विधम् । अत्रैवकारेण हस्तप्रयोगमनुक्तं निरूपयति–करं चोद्वेष्टितमिति तत्समकालं च भ्रमरकेणाष्टत्रिंशेन (ना.शा. ४-९९) करणेन परित इत्युभयाङ्गप्रयोगेण च्छिन्नत्रिकं कुर्यात् । कटिमध्यस्य वलनाच्छिन्ना । यतः–

“आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा । त्रिकस्य वलनाच्च ।”

इति भ्रमरकम् । ततः करिहस्तः कटिच्छिन्नश्च पूर्वाङ्गहारवदेव ।। (१८९)

() अपराजितः

दण्डपादमित्यादि ।

“नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् ।
क्षिप्राविद्धकरं चेति दण्डपादम् ।” (ना.शा. ४-१४३)

Notes

(मू)

रेचितेन तु 1हस्तेन पताकं हस्तमादिशेत् ।
आक्षिप्तकं प्रयुञ्जीत ह्युरोमण्डलकं तथा ।। १९३ ।।

लताख्यं 2सकटिच्छिन्नं विष्कम्भापसृते भवेत् ।
त्रिकं 3सुवलितं कृत्वा नूपुरं 4करणं तथा ।। १९४ ।।

भुजङ्गत्रासितं सव्यं तथा वैशाखरेचितम् ।
5आक्षिप्तकं ततः कृत्वा परिच्छिन्नं तथैव च ।। १९५ ।।

6बाह्यभ्रमरकं कुर्यादुरोमण्डलमेव च ।
नितम्बं करिहस्तं च कटिच्छिन्नं7 तथैव च ।। १९६ ।।

Abh

यदत्र करणे निरूपितं तदेवेह भङ्क्त्वा दर्शितं विक्षिप्येत्यादिना । “आलीढस्थानकं यत्र” (ना.शा. ४-१०९) इति व्यंसितं प्रथमाङ्गहारोक्तम् । वामहस्तेत्यादिना प्रसर्पितमष्टाशीतितमकरणमाह ।

“एकस्तु रेचितो हस्तः लताख्यश्च तथापरः ।
प्रसर्पितकम् ।” इति (ना.शा. ४-१४९)

निकुट्टकद्वयमिति । निकुट्टमर्धनिकुट्टं च (ना.शा. ४-६९-७०) “निकुट्टितौ यदा हस्तौ” इति । “अञ्चितो बाहुशिरसि हस्तस्तु” इति । मण्डलोरसीत्युरोमण्डले करणे (ना.शा. ४-११५) सतीत्यर्थः । आक्षिप्तादीनि कटिच्छिन्नान्तानि चत्वारि द्वितीयाङ्गहारवदेव ।

() विष्कम्भापसृतः

कुट्टितमित्यादि । निकुट्टकमर्धनिकुट्टकं चेति द्वे कुट्टितशब्देन साधारण्यात्सङ्गृहीते । “कु़ञ्चितं पादम्” (ना.शा. ४-८४) इत्यादि भुजङ्गत्रासितं चतुर्विंशतितमम् । रेचितेभ्यस्त्वि(तेने) त्यादिनार्धेन पञ्चत्रिंशकं (ना.शा. ४-९६) दर्शयतीति ।

“भुजङ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ ।
वामपार्श्वस्थितौ हस्तौ भुजङ्गत्रस्तरेचितम् ।।” (ना.शा.४-९६)

अस्य चाङ्गपर्यायेण प्रयोग इति पताकाग्रहणेनाह । आक्षिप्तकादित्रयं पूर्वाङ्गहारवदेव । केवलमत्र कटिच्छिन्ने करणे (ना.शा. ४-७१) पर्यायेणैको लताहस्तः ।

Notes

(मू)

मत्ताक्रीडो भवेदेष ह्यङ्गहारो 1हरप्रियः ।
रेचितं हस्तपादं च कृत्वा वृश्चिकमेव च ।। १९७ ।।

पुनस्तेनैव योगेन 2वृश्चिकं सम्प्रयोजयेत् ।
निकुट्टकं तथा चैव सव्यासव्यकृतं क्रमात्3 ।। १९८ ।।

लताख्यः 4सकटिच्छेदो भवेत्स्वस्तिकरेचिते ।
5पार्श्वे तु स्वस्तिकं बद्ध्वा 6कार्यं त्वथ निकुट्टकम् ।। १९९ ।।

द्वितीयस्य च पार्श्वस्य विधिः 7स्यादयमेव हि ।
ततश्च करमावर्त्य8 ह्यूरुपृष्ठे निपातयेत् ।। २०० ।।

ऊरूद्वृ9त्तं ततः कुर्यादाक्षिप्तं पुनरेव हि ।
10नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ।। २०१ ।।

पार्श्वस्वस्तिक इत्येष ह्यङ्गहारः प्रकीर्तितः ।
वृश्चिकं 11करणं कृत्वा लताख्यं हस्तमेव च ।। २०२ ।।

12तमेव च करं भूयो नासाग्रे 13सन्निकु़ञ्चयेत् ।
तमेवोद्वेष्टितं कृत्वा 14नितम्बं परिवर्तयेत् ।। २०३ ।।

करिहस्तं कटिच्छिन्नं 15वृश्चिकापसृते भवेत् ।
कृत्वा नूपुरपादं तु तथाक्षिप्तकमेव च ।। २०४ ।।

Abh

1त्रिकं सुवलितं कृत्वेति ।

Notes

(मू) 1.N. भव ।

(व्या)

1परिच्छिन्नं च कर्तव्यं सूचीपादं तथैव च ।
नितम्बं करिहस्तं चाप्युरोमण्डलकं तथा ।। २०५ ।।

2कटिच्छिन्नं ततश्चैव भ्रमरः स तु संज्ञितः ।
मत्तल्लिकरणं कृत्वा 3करमावर्त्य दक्षिणम् ।। २०६ ।।

कपोलस्य प्रदेशे तु 4कार्यं सम्यङ्निकुञ्चितम् ।
अपविद्धं 5द्रुतं चैव तलसंस्फोटसंयुतम् ।। २०७ ।।

6करिहस्तं कटिच्छिन्नं मत्तस्खलितके भवेत् ।
दोलैः करैः प्रचलितैः स्वस्तिकापसृतैः पदैः ।। २०८ ।।

अञ्चितैर्वलितैर्हस्तैस्तलसङ्घट्टितैस्तथा ।
7निकुट्टितं च कर्तव्यमूरूद्वृत्तं तथैव च ।। २०९ ।।

8करिहस्तं कटिच्छिन्नं मदाद्विलसिते भवेत् ।
मण्डलं स्थानकं कृत्वा तथा हस्तौ च रेचितौ ।। २१० ।।

9उद्घट्टितेन पादेन 10मत्तल्लिकरणं भवेत् ।
आक्षिप्तं करणं चैव ह्युरोमण्डलमेव11 च ।। २११ ।।

12कटिच्छिन्नं तथा चैव भवेत्तु गतिमण्डले ।
13समपादं प्रयुज्याथ परिच्छिन्नं त्वनन्तरम् ।। २१२ ।।

Notes

(मू)

आविद्धेन तु पादेन 1बाह्यभ्रमरकं तथा ।
2वामसूच्या त्वतिक्रान्तं भुजङ्गत्रासितं तथा ।। २१३ ।।

3करिहस्तं कटिच्छिन्नं परिच्छिन्ने विधीयते ।
शिरसस्तुपरि स्थाप्यौ स्वस्तिकौ विच्युतौ4 करौ ।। २१४ ।।

ततः सव्यं करं चापि गात्रमानम्य रेचयेत् ।
पुनरुत्था5पयेत्तत्र गात्रमुन्नम्य रेचितम् ।। २१५ ।।

6लताख्यौ च करौ कृत्वा वृश्चिकं सम्प्रयोजयेत् ।
रेचितं करिहस्तं च भुजङ्गत्रासितं तथा ।। २१६ ।।

आक्षिप्तकं प्रयुञ्जीत स्वस्तिकं 7पादमेव च ।
8पराङ्मुखविधिर्भूय एवमेव भवेदिह ।। २१७ ।।

Abh

लताख्यश्च करो वामः (ना.शा. ४-१०५) इति लतावृश्चिकम् । ‘‘एको वक्षःस्थितो हस्तः’’ इति (ना.शा.४-१४८) ।

रेचितमित्युन्मत्तकरणम् । “अञ्चितेन तु पादेन रेचितौ” इति (ना.शा.४-७४) । “एको वक्षःस्थितो हस्तः” इति करिहस्तकम् । “कु़ञ्चितं पादम्” इति (ना.शा

Notes

(मू)

1करिहस्तं कटिच्छिन्नं परिवृत्तकरेचिते ।
रेचितौ सह गात्रेण ह्यपविद्धौ करौ 2यदा ।। २१८ ।।

पुनस्तेनैव देशेन3 गात्रमुन्नम्य रेचयेत् ।
कुर्यान्नूपुरपादं च भुजङ्गत्रासितं तथा ।। २१९ ।।

रेचितं मण्डलं चैव बाहुशीर्षे निकुञ्चयेत् ।
ऊरू4द्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ।। २२० ।।

करिहस्तं कटिच्छिन्नं कुर्याद्वैशाखरेचिते ।
5आद्यं तु जनितं कृत्वा पादमेकं प्रसारयेत् ।। २२१ ।।

Abh

भुजङ्गत्रासितम् । “आक्षिप्तं हस्तपादम् ।” इत्याक्षिप्तकम् । (ना.शा. ४-११६)। स्वस्तिकं पादमित्यस्यैव पादस्वस्तिकपर्यन्ततया बद्धां चारीं सूचयन्नितम्बकरणमाह– “भुजावूर्ध्वं विनिष्क्रान्तौ” इति (ना.शा. ४-१४६) पराङ्मुखेति । अङ्गहारेषु मध्ये परिभाषमाणो मुनिरेतदाह–सर्वेष्वेव चाङ्गहारेषु पाश्चात्यं करणद्वयं वर्जयित्वा वर्तनीयानि करणानि । तानि चतुर्दिङ्मुखेषु प्रयुज्य संमुखमन्त्ये करणद्वयेन पूरयेदिति ।

(१०) वैशाखरेचितः

रेचिताविति । अनेन श्लोकेन क्रमेण वैशाखरेचितमङ्गद्वयेन प्रयोज्यमित्याह । “रेचितं हस्तपादं च” इत्यादि (ना.शा. ४-९८) वैशाखरेचितं करणम् ।

“त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ ।
नूपुरं च तथा पादम् ।” (ना.शा. ४-९७)

इति नूपुरोर्ध्वपादम् । कुञ्चितं पादमुत्क्षिप्येति (ना.शा. ४-८४) भुजङ्गत्रासितम् । रेचितमित्युन्मत्तकरणम् । “अञ्चितेन तु पादेन रेचितौ” इति (ना.शा. ४-७४) । मण्डलमिति मण्डलस्वस्तिकम्–

“स्वस्तिकौ तु करौ कृत्वा प्राङ्मुखोर्ध्वतलौ समौ ।
मण्डलस्थानकेन ।” इति (ना.शा. ४-६८)

Notes

(मू)

तथैवालातकं कुर्यात् त्रिकं तु परिवर्तयेत् ।
अञ्चितं वामहस्तं च 1गण्डदेशे निकुट्टयेत् ।। २२२ ।।

2कटिच्छिन्नं तथा चैव परावृत्ते प्रयोजयेत् ।
स्वस्तिकं 3करणं कृत्वा व्यंसितौ च 4करौ पुनः ।। २२३ ।।

Abh

बाहुशीर्ष इत्यनेन निकुट्टितं करणमाह ‘‘निकुट्टितौ यदा हस्तौ” इति (ना.शा. ४-६९) । ऊरूद्वृत्तादिकरणजातं क्रमेणोक्ताङ्गहारवत् ।

(११) परावृत्तः

आद्यन्त्विति ।

“एको वक्षःस्थितो हस्तो द्वितीयश्च प्रलम्बितः । तलाग्रसंस्थितः पादो जनितम् ।” (ना.शा. ४-१५५) इति । आद्य1शब्दो दक्षिणाङ्गप्रयोज्यत्वमस्याह । पादमेकं प्रसारयेदिति शकटास्यं करणमाह–

“निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् ।
उद्वाहितमुरःकृत्वा शकटास्यम् ।” (ना.शा.४-१६८)

“अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् ।
ऊर्ध्वजानुक्रमं कुर्यादलातकम्” (ना.शा.४-७८)

इत्यलातम् । त्रिकं तु परिवर्तयेदिति भ्रमरकम् ।

आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा ।
त्रिकस्य वलनाच्च” इति (ना.शा. ४-९९)

अञ्चितं वामहस्तं चेत्यनेनार्धेन करिहस्तं करणं गण्डदेशे निकुट्टयेदिति विशेषयुक्तमाह

“वामो वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोऽपरः ।
अञ्चितं चरणं चैव प्रयोज्यः करिहस्तकः ।। (ना.शा.४-१४८)

‘पर्यायश’ इति कटिच्छिन्नम् (ना.शा. ४-७१)

Notes

(मू) 1.N. ड.अ.म. गण्डे चैव निकुट्टितम् ।

(व्या) 1.म. अन्यश ।

अलातकं प्रयुञ्जीत ह्यूर्ध्वजानु निकुञ्चितम् ।
1अर्धसूची च विक्षिप्तमुद्वृत्ताक्षिप्तके तथा ।। २२४ ।।

2करिहस्तं कटिच्छिन्नमङ्गहारे 3ह्यलातके ।
निकुट्य वक्षसि करावूर्ध्वजानु 4प्रयोजयेत् ।। २२५ ।।

Abh

(१२) अलातकः

स्वस्तिकमित्यादि । स्वस्तिकाविति (ना.शा. ४-६८) स्वस्तिकम् । व्यंसितौ चेति द्विवचनेन पुनश्शब्दे स्वस्तिकव्यवधानेन व्यंसितस्य द्विप्रयोगमाह ।

“आलीढस्थानकं यत्र करौ वक्षसि रेचितौ ।
ऊर्ध्वाधोविप्रकीर्णो च व्यंसितम्” (ना.शा. ४-१०९)

“अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् ।
ऊर्ध्वजानुक्रमं कुर्यात्” इत्यलातकम् (ना.शा.४-७८)

“कु़ञ्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् ।
प्रयोगवशगौ हस्तावूर्ध्वजानु” (ना.शा. ४-८६)

“वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् ।
नासाग्रे दक्षिणं च” इति निकुञ्चितम् । (ना.शा. ४-८७)

“अलपद्यः शिरोदेशे सूचीपादश्च दक्षिणः” (ना.शा.४-१३८) इत्यर्धसूची ।

“विक्षिप्तं हस्तपादं च पाशर्वतः पृष्ठतोऽपि वा ।
एकमार्गगतं यत्र तद्विक्षिप्तम् ।” (ना. शा. ४-११९)

आक्षिप्तहस्तमाक्षिप्तपादमुद्वृत्तगात्रमुद्वृत्तं करणम् । (ना.शा. ४-१५२)

“आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः” (ना.शा. ४-११६) इत्याक्षिप्तम् ।

“वामो वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोऽपरः ।
‘अञ्चितश्चरणश्चैव’ (ना.शा.४-१४८)

इति करिहस्तम् । “पर्यायशः कटिच्छिन्ने"ति (ना.शा. ४-७२) कटिच्छिन्नम् ।

Notes

(मू) 1.प.ब. ऊर्ध्वसूची च ।

(व्या)

1आक्षिप्तस्वस्तिकं कृत्वा त्रिकं तु परिवर्तयेत् ।
उरोमण्डलकौ हस्तौ 2नितम्बं करिहस्तकम् ।। २२६ ।।

3कटिच्छिन्नं तथा चैव पार्श्वच्छेदे विधीयते ।
सूचीवामपदं दद्याद्विद्युद्भ्रान्तं च दक्षिणम् ।। २२७ ।।

दक्षिणेन पुनः 4सूची 5विद्युदभ्रान्तं च वामतः ।
परिच्छिन्नं तथा चैव 6ह्यतिक्रान्तं च वामकम् ।। २२८ ।।

Abh

(१३) पार्श्वच्छेदः

निकुट्येत्यादि । अनेन वृश्चिककुट्टितं द्विचत्वारिंशत्तमकरणमाह ।

“वृश्चिकं चरणं कृत्वा द्वावप्यथ निकुट्टितौ ।
विधातव्यौ करौ ।” (ना.शा. ४-१०३)

कुञ्चितं पादमित्यूर्ध्वजानु (ना.शा. ४-८६), “आक्षिप्तं हस्तपादं च” इत्याक्षिप्तकम् (ना.शा. ४-११६) “हस्ताभ्यामथ पादाभ्याम्” (ना.शा. ४-७५) इति स्वस्तिकम् । हस्तद्वारेणोरोमण्डलकरणम्–

“स्वस्तिकापसृतौ पादावाविद्धक्रमणं यदा ।
उरोमण्डलकौ हस्तौ ।” (ना.शा. ४-११५)

नितम्बादित्रयं पूर्ववत् ।

(१४) विद्युद्भ्रान्तः

सूचीत्यादि वामाङ्गप्रयोज्यमर्धसूचीकरणमाह–“अलपद्मः शिरोदेशे” इति (ना.शा.४-१३८), दक्षिणेन विद्युद्भ्रान्तं करणम्–

“पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् ।
सर्वतो मण्डलाविद्धं विद्युद्भ्रान्तम् ।” (ना.शा. ४-१२६)

एतद्दक्षिणेन । पुनरेतदेव द्वयमङ्गविपर्ययेण । तदाह दक्षिणेन पुनरिति । परिच्छिन्नमिति छिन्नं करणम् ।

“पल्लवौ तु कटीदेशे छिन्ना पर्यायशः कटी ।
वैशाखस्थानकेन” इति (ना.शा. ४-१०६)

Notes

(मू)

लताख्यं 1सकटिच्छिन्नं विद्युद्भ्रान्तश्च स स्मृतः ।
कृत्वा नूपुरपादं तु सव्यवामौ प्रलम्बितौ ।। २२९ ।।

करौ पार्श्वै ततस्ताभ्यां 2विक्षिप्तं सम्प्रयोजयेत् ।
ताभ्यां सूची तथा चैव त्रिकं तु परिवर्तयेत् ।। २३० ।।

लताख्यं 3सकटिच्छिन्नं कुर्यादुद्वृत्तके सदा ।
आलीढव्यंसितौ हस्तौ बाहुशीर्षे निकुट्टयेत् ।। २३१ ।।

Abh

“अतिक्रान्तक्रमं कृत्वा पुरस्तात्संप्रसारयेत् ।
प्रयोगवशगौ हस्तावतिक्रान्तम् ।” (ना.शा. ४-१२७)

एतद्वामेनाङ्गेन लताख्यमिति लतावृश्चिकम् ।

“अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः ।
लताख्यश्च करो वामः ।” (ना.शा. ४-१०५) इति

लतावृश्चिकम् । कटिच्छिन्नं प्राग्वत् ।

(१५) उद्वृत्तकः ।

कृत्वा नूपुरपादमिति

“त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ ।
नूपुरं च तथा पादं करणे नुपूरे न्यसेत् ।।” (ना.शा. ४-९७)

सव्यवामग्रहणेन पर्यायशः कराविति च द्विवचनेन यौगपद्यं सूचयन् भुजङ्गत्रासितं च द्वात्रिंशत्तमम् (भुजङ्गाञ्चितं चत्वारिंशत्तमम्) गृध्रावलीनकं चतुस्सप्ततितमं करणं दर्शयति ।

“भुजङ्गत्रासितः पादो रेचितो दक्षिणः करः ।
लताख्यश्च करो वामः” इति (ना.शा. ४-१०१)

“पृष्ठप्रसारितः पादः किञ्चिदञ्चितजानुकः ।
यत्र प्रसारितौ बाहू तत्स्याद् गृध्रावलीनकम् ।।” (ना.शा. ४-१३५)

अत एव करणद्वयमेवोपसंहरति ताभ्याम1नन्तरं विक्षिप्तमिति “विक्षिप्तं हस्तपादं च” इति (ना.शा. ४-११९) तदपीच्छाङ्गापर्यायेणेत्युपसंहारेणाह–ताभ्यामनन्तरं सूचीति ।

Notes

(मू)

(व्या)

1नूपुरश्चरणो वामस्तथालातश्च दक्षिणः2 ।
तेनैवाक्षिप्तकं कुर्यादुरोमण्डलकौ करौ ।। २३२ ।।

करिहस्तं 3कटिच्छिन्नमालीढे सम्प्रयोजयेत् ।
4हस्तं तु रेचितं कृत्वा पार्श्वमानम्य रेचयेत् ।। २३३ ।।

पुनस्तेनैव योगेन 5गात्रमानम्य रेचयेत् ।
रेचितं करणं 6कार्यमुरोमण्डलमेव च ।। २३४ ।।

Abh

तेनाङ्गपर्यायेण योगस्याक्षेपोपलब्धेः तेन सन्धानायोद्वृत्तं करणम् । 1(त्रिकपरिवर्तनेन बद्धया चार्या नितम्बं करणम् । ततो “अञ्चितः पृष्ठतः पाद” इत्यादिना लतावृश्चिकं चतुश्चत्वारिशत्तमम् । ततः कटिच्छिन्नम् ।

(१६) आलीढः

आलीढेति

“आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ ।
ऊर्ध्वाधो विप्रकीर्णौ च व्यंसितम् ।।” (ना.शा. ४-१०९)

इति व्यंसितं दर्शयति । बाहुशीर्ष इति निकुट्टकं नवमं करणम् । वामतो नूपुरं षट्त्रिंशत्) “निकुट्टितौ यदा हस्तौ” इति (ना.शा. ४-६१) निकुट्टितकरणम् । ततः “अलातं चरणं कृत्वा व्यंसये” दित्यलातकम् । (ना.शा.४-७८) । तेनैवेति दक्षिणेन ।” आक्षिप्तं हस्तपादं चे"त्याक्षिप्तम् (ना.शा. ४-११६) । उरोमण्डल– कादिकरणत्रयं पूर्ववत् ।

(१७) रेचितः

हस्तं तु रेचितमिति । अनेन श्लोकेन सर्वाणि हस्तरेचनवन्ति करणानि सङ्गृहणीते । तथा चोपसंहरिष्यति रेचितं करणमिति । जातावेकवचनेन हि किञ्चित्प्रतिपद्येत । रेचितं नाम करणमस्ति यदनेनोच्यते । कार्यमित्यनेन तावतां करणानां श्लिष्टाङ्गतया स्वबुद्ध्या स्वकार्यवद्धि चित्रमेव योजनं कार्यमिति सूचयति । अत एवायं विचित्रभेदसङ्कीर्णोऽङ्गहारः । तथा चान्यत्र श्रूयते ।

Notes

(मू)

(व्या)

1कटिच्छिन्नं तु कर्तव्यमङ्गहारे तु रेचिते ।
नूपुरं 2चरणं कृत्वा त्रिकं तु परिवर्तयेत् ।। २३५ ।।

Abh

“पञ्चविंशतिविचित्र(मातृका) प्रक्रमेण विविधं व्यरीरिचत् ।
रेचिताङ्गहरणं महेश्वरो गेय1मार्गमिव2 सप्तभिः स्वरैः ।।” इति ।

‘स्वस्तिकौ रेचिताविद्धौ’ (ना.शा. ४-६७) इति स्वस्तिकरेचितम् । ‘अपविद्धः करः सूच्या’ (ना.शा.४-७२) इत्यादीन्यर्धरेचितम् ।

वक्षः स्वस्तिकमुन्मत्तश्चेति द्वादशादीनि त्रीणी, “हस्तौ हृदि भवेद्वामः” इति (ना.शा.४-८०) आक्षिप्तरेचितम् । “स्खलितापसृतः पादः” इत्यर्धमत्तल्लि (ना.शा. ४-८९) । रेचकनिकुट्टकं च (ना.शा. ४-९०)

“भुजङ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ” इत्यादित्रयं भुजङ्गत्रस्तरेचितं (ना.शा. ४-९६) नूपुरं (ना.शा. ४-९७), वैशाखरेचितं च । (ना.शा. ४-९८)

“भुजङ्गत्रासितः पादो रेचितो दक्षिणः करः” (ना.शा. ४-१०१) इत्यादिकरणद्वयं भुजङ्गाञ्चितकं दण्डरेचितकं च (ना.शा. ४-१०२) “वृश्चिकं चरणं कृत्वा स्वस्तिकौ च” इत्यादि (ना.शा. ४-१०७) वृश्चिकरेचितम् । “आलीढस्थानकं यत्र” इत्यादि (ना.शा. ४-१०९) व्यंसितम् । आक्षिप्तं हस्तपादे"त्यादिद्वयम् । (ना.शा.४-१२२) विवृत्तं विनिवृत्तं च (ना.शा. ४-१२३)

“आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम्” (ना.शा. ४-१२८) इति विवर्तितकम् । “पृष्ठप्रसारितः पाद” इत्यादि (ना.शा.४-१३१) गरुडप्लुतकम् ।

“वृश्चिकं चरणं कृत्वा रेचितौ च तथा करौ” (ना.शा. ४-१४१) इति मयूरललितम् । सर्पितकं च, (ना.शा. ४-१४२) । “दोलापादक्रमः कार्यः” (ना.शा.४-१४७) इत्यादि स्खलितम् । “एकस्तु रेचित” इति (ना.शा.४-१४९) प्रसर्पितकम् । “दोलापादक्रम"मिति (ना.शा. ४-१६४) तलसङ्घट्टितम् ।

“प्रयुज्यालातक"मित्यादिद्वयं (ना.शा. ४-१६६) वृषभक्रीडितकं लोलितं च (ना.शा.४-१६६) । एवं करणपञ्चविंशतिर्वैचित्र्येण प्रयोज्याः । चतुष्षडादिक्रमेण

Notes

(मू)

(व्या)

1व्यंसितेन तु हस्तेन 2त्रिकमेव विवर्तयेत् ।
वामं चालातकं कृत्वा 3सूचीमत्रैव योजयेत् ।। २३६ ।।

करिहस्तं 4कटिच्छिन्नं कुर्यादाच्छुरिते सदा ।
5रेचितौ स्वस्तिकौ पादौ रेचितौ स्वस्तिकौ करौ ।। २३७ ।।

कृत्वा विश्लेषमेवं तु तेनैव विधिना पुनः ।
पुनरुत्क्षेपणं चैव 6रेचितैरेव कारयेत् ।। २३८ ।।

Abh

पुनरुक्ततया चतुर्दिङ्मुखेषु यावत्समाप्ता भवति । यत उक्तम्—

“द्वाभ्यां त्रिवतुराभिर्वाप्यङ्गहारस्तु मातृभिः” इति (ना.शा. ४-३१) “पुनस्तेनैव योगेन गात्रमानम्ये” त्यनेन मध्ये वैचिञ्याच्चक्रमण्डलेन (ना.शा. ४-११४) व्यवहितेयं करणपरम्परा प्रयोज्येत्याह ।

“प्रलम्बिताभ्यां बाहुभ्यां यद्गात्रेण नतेन च ।
अभ्यन्तरापविद्धं स्यात्तज्ज्ञेयं चक्रमण्डलम् ।।” (ना.शा. ४-११४)

आनम्येत्यादिरन्तर्भावितण्यर्थः । प्रयोग एवं प्रयोज्यः । प्राग्वदुरोमण्डलं कटिच्छिन्नं च ।

(१८) आच्छुरितः

नूपुरमित्यादि । त्रिकन्तु परिमितं नूपुरं परिवर्तयेदित्यनेन भ्रमरकम्– “आक्षिप्तः स्वस्तिकः पादः

(१९) आक्षिप्तरेचितः

रेचितौ स्वस्तिकावित्यादि । यत्र यत्र करणे करयोः पादयोर्वा रेचितस्वस्तिकसाहित्यं तत्तदिहाप्यनुजानाति पृथगभिधानेन । रेचितं स्वस्तिकं ह्येतेनैव ह्येतानि करणानि । स्वस्तिकरेचितं “स्वस्तिकौ रेचिताविद्धौ” इति पृष्ठस्वस्तिकं दिक्स्वस्तिकं च “विक्षिप्ताक्षिप्तबाहुभ्याम्” इत्यादि (ना.शा. ४-७६-७७) कटीसमं “स्वस्तिकापसृतः पाद” इत्यादि (ना.शा. ४-७९) । घूर्णितम्–

Notes

(मू)

उद्वृत्ताक्षिप्तके चैव1 ह्युरोमण्डलमेव च ।
2नितम्बं करिहस्तं च 3कटिच्छिन्नं तथैव च ।। २३९ ।।

आक्षिप्तरेचितो ह्येष4 करणानां विधिः स्मृतः ।
विक्षिप्तं करणं कृत्वा 5हस्तपादं मुखानुगम् ।। २४० ।।

Abh

“वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः ।
स्वस्तिकापसृतः पादः । “(ना.शा. ४-९३) इति

भ्रमरकम् “आक्षिप्तः स्वस्तिकः पाद” इति (ना.शा. ४-९९) । वृश्चिकरेचितम् । “वृश्चिकं चरणं कृत्वा स्वस्तिकं च” इति (ना.शा. ४-१०७) । पार्श्वनिकुट्टकम् । “हस्तौ तु स्वस्तिकौ पार्श्व” इति (ना.शा. ४-११०), उरोमण्डलकम् । “स्वस्तिकापसृतौ” इति (ना.शा.४-११५) । सन्नतम् । “उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकौ स्थितौ” (ना.शा. ४-१३६) इति, सिंहाकर्षितकम् । “पृष्ठप्रसारित” इति (ना.शा. ४-१५१) । नागापसर्पितम् । “स्वस्तिकापसृतौ पादौ” इति (ना.शा. ४-१६७) । वक्ष:स्वस्तिकादौ तु रेचनं नास्तीति न सङ्गृहीतम् । परे त्वङ्गपरिवर्तनक्रमेण तत्रापि रेचितमिच्छन्तस्तदपि सङ्गृह्णते ।

एवं हस्तपादस्वस्तिकश्च (कञ्च) तद्रेचितश्च (तञ्च) वैचित्र्येण विधाय तेनैव विधिनेत्यत्रुटितेनाङ्गेनोत्क्षेपणं हस्तपादस्य कार्यम् । अनेन यत्र यत्रैतदस्ति तत्तत्करणं सूचयति । तद्यथा दण्डपक्षम् “ऊर्ध्वजानुं विधायाथ तस्योपरि लतां न्यसेत्” इति (ना.शा.४-९५), ललाटतिलकं “वृश्चिकं चरणं कृत्वा” इति (ना.शा. ४-१११), तलविलासितम् “ऊर्ध्वाङ्गुलितलः पाद” इति (ना.शा. ४-११७), निशुम्भितं–

“पृष्ठतः कुञ्चितः पादो वक्षश्चैव समुन्नतम् ।
तिलके च करः स्थाप्यः ।” इति (ना.शा. ४-१२५)

विद्युद्भ्रान्तं “पृष्ठतो वलितं पादम् ।” इति (ना.शा. ४-१२६), गजक्रीडितं “कर्णेऽञ्चितः करो वामः” इति (ना.शा. ४-१२९), नितम्बं “भुजावूर्ध्वं विनिष्क्रान्ता"विति (ना.शा. ४-१४६), विष्णुक्रान्तम् “ऊर्ध्वं प्रसारितः पादः इति (ना.शा. ४-१६१) ।

Notes

(मू)

1वामसूचीसहकृतं 2विक्षिपेद्वामकं करम् ।
3वक्षःस्थाने भवेत्सव्यो वलितं त्रिकमेव च ।। २४१ ।।

नूपुराक्षिप्तके चैव ह्यर्धस्वस्तिकमेव च ।
नितम्बं करिहस्तं च 4ह्युरोमण्डलकं तथा ।। २४२ ।।

कटिच्छिन्नं च कर्तव्यं सम्भ्रान्ते नृत्तयोक्तृभिः ।
अ5पक्रान्तक्रमं कृत्वा व्यंसितं हस्तमेव च ।। २४३ ।।

Abh

तत उद्वृत्तमित्यूरूद्वृतम् । (ना.शा. ४-१५९); अत्र समाक्षिप्तकरणमध्ये तस्य दृष्टत्वात् करणमावृत्य तत्करणमिति । “आक्षिप्तं हस्तपादं च” इत्याक्षिप्तम् (ना.शा. ४-११६) । “स्वस्तिकापसृतौ पादौ” इत्युरोमण्डलम् (ना.शा. ४-११५) साहच1काराच्च (साहचर्याच्चकाराच्च) कटिच्छिन्नमप्यन्ते केचिदिच्छन्ति ।।

(२०) सम्भ्रान्तः

विक्षिप्तमित्यादि । “विक्षिप्तहस्तपादं च” इति (ना.शा. ४-११९) विक्षिप्तम् । “हस्तपादं मुखानुगम्” इत्यञ्चितं गण्डसूचीं गङ्गावतरणं चेति दर्शयति ।

“व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा ।
अञ्चतो नासिकाग्रे ।” इति (ना.शा. ४-८३)

“सूचीपादोन्नतं पार्श्वम्” इति (ना.शा. ४-१३२) गण्डसूची ।

“ऊर्ध्वाङ्गुलितलः पादस्त्रिपताकावधोमुखौ ।
हस्तौ च सन्नतौ” (ना.शा. ४-१६९) इति गङ्गावतरणम् ।

वामसूचीसहकृतमित्यनेनार्धसूचीं दण्डपादं च दर्शयति । “अलपद्मः शिरोदेशे” (ना.शा.४-१३८) इत्यर्धसूची ।

“नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् ।
क्षिप्राविद्धकरम्” (ना.शा.४-१४३) इति दण्डपादम् ।

Notes

(मू)

(व्या)

कुर्यादुद्वेष्टितं चैव ह्यर्धसूचीं तथैव च ।
विक्षिप्तं सकटिच्छिन्नमुद्वृत्ताक्षिप्तके तथा ।। २४४ ।।

1करिहस्तं कटिच्छिन्नं कर्तव्यमपसर्पिते ।
कृत्वा नूपुरपादं च 2द्रुतमाक्षिप्य च क्रमम्3 ।। २४५ ।।

Abh

एतच्च वामेनाङ्गेन । सव्य इति दक्षिणे वक्षसि । वामस्योपयोगित्वात् । अनेन चतुरं करणं सूचयति–

“अञ्चितः स्यात्करो वामः सव्यश्चतुर एव च ।
दक्षिणः कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् ।।” इति (ना.शा. ४-१००) ।

वलितं त्रिकमिति भ्रमरकम् –“आक्षिप्तः स्वस्तिक” इति (ना.शा. ४-९९), “त्रिकं सुवलितं कृत्वा” इति (ना.शा. ४-९७) नूपुरम् ।” आक्षिप्तं हस्तपादं च ।” इत्याक्षिप्तम् । (ना.शा. ४-११६) ।

“स्वस्तिकं चरणं कृत्वा कटिहस्तं च दक्षिणम् ।
वक्षःस्थाने तथा वाममर्धस्वस्तिकम् ।।” (ना.शा.४-८२)

इत्यर्धस्वस्तिकम् । नितम्बादिचतुष्कं पूर्ववत् । (२४२)

(२१) अपसर्पितः

अपक्रान्तमित्यादि । अपक्रान्तं–

“कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत् ।
प्रयोगवशगौ हस्तावपक्रान्तम् ।।” (ना.शा.४-१४०) इति ।

व्यंसितमिति “आलीढं स्थानकं यत्र करौ वक्षसि” इति (ना.शा. ४-१०९) । अतो व्यंसितात्करणात्करिक्रियामेव गृह्णीयादित्येवकारेणाह । एकवचनं जातौ । उद्वेष्टितमिति करिहस्तकरणं निर्दिशति–

“वामो वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोऽपरः ।” इति (ना.शा. ४-१४८) । “अलपद्मः शिरोदेशे सूचीपादः” (ना.शा. ४-१३८) इत्यर्धसूची । “विक्षिप्तं हस्तपादं च” इति (ना.शा. ४-११९) विक्षिप्तम् । “पर्यायशः कटीच्छिन्ना” इति (ना.शा. ४-७१) कटिच्छिन्नम् । उरूद्वृत्तमिहोद्वृत्तशब्देनोक्तम् । (ना.शा. ४-१५९) । प्राग्वद1न्ते (त्रीणि) करणानि । (२४४) अथार्धसूची–

Notes

(मू)

(व्या)

पादस्य चानुगौ हस्तौ त्रिकं च परिवर्तयेत् ।
निकुट्य करपादं चाप्युरोमण्डलकं पुनः ।। २४६ ।।

करिहस्तं कटिच्छिन्नं कार्यमर्धनिकुट्टके ।
द्वात्रिंशदेते 1सम्प्रोक्ता ह्यङ्गहारा द्विजोत्तमाः ।। २४७ ।।

Abh

(२२) अर्धनिकुट्टकः

कृत्वा नूपुरपादमित्यादि । “त्रिकं सुवलितं कृत्वा-“इति (ना.शा. ४-९७) नूपुरपादम् । द्रुतमाक्षिप्येत्यादिना विवृत्तं करणमाह

“आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् ।
रेचितौ च तथा हस्तौ विवृत्ते करणे द्विजाः ।।” इति (ना.शा.४-१२२)

निकुट्येत्यनने करपादनिकुट्टितं यत्र तानि करणान्याह निकुट्टितार्धनिकुट्टकादीनि । उरोमण्डलकादित्रयं पूर्वाङ्गहारवत् ।

ये येऽङ्गहारास्तेषां प्रतिकरणं गुरुपरिमाणं कलानिवर्तनकालस्तावता सम्यक्करणं वर्तनाक्रमेण शक्यम् । तत्र ये षड्द्वादशचतुर्विंश(ति)रित्यादिकरणात्मका एकेन द्वाभ्यां वाऽभ्यसितेन युक्तास्ते त्र्यश्रमानेन बोद्धव्याः । एकस्य द्वयोर्वा मध्ये तु प्रवेशयितुं तालकलाद्यभिसन्धानेन शक्यत्वात् । ते च षोडशात्र सन्ति । पूर्ववदेवाष्ट– षोडशादिकरणात्मका एकेन द्वाभ्यां वाऽभ्यसितेन किंचिदधिका वा ते चतुरश्रतालविषया द्रष्टव्याः । तेऽपि षोडशैव एकस्य क्वचिदूनत्वेऽपि कस्यचित्पुनः क्रियया तालहरणं शक्यमिति मन्तव्यम् ।

तत्रापविद्ध उद्धट्टितो विष्कम्भस्तदपसृतः स्वस्तिकरेचितो वृश्चिकापसृतो मत्तस्खलितो गतिमण्डलः परिवृत्तकरेचितः परावृत्तकोऽलातक उद्वृत्तको रेचित आक्षिप्तरेचितः सम्भ्रान्तोऽर्धनिकुट्टकश्चेति त्र्यश्रतालकाः षोडश । एषां चतुरश्राश्रयास्तावन्तः । तत्र द्विभेदभिन्नेष्ववान्तरभेदेन षोडशसु पूर्वरङ्गाङ्गेषूत्थापनादिप्ररोचनान्तेषु बहिर्यवनिकागतेषु प्रयोगात् द्वात्रिंशद्रूपतेत्येवं केचित् ।

एके त्वाहुः– चतसृणां नर्तकीनां प्रतिप्रयोगं चत्वार इति पुनः पिण्डीरेचक- न्यासापन्यासश्चतुर्धेति द्वात्रिंशत् । एतच्च पूर्वेरङ्ग(ना.शा.५)व्याख्याने स्पष्टयिष्याम इत्यलम् ।

Notes

(मू) 1.N. न. गदितास्त्वङ्ग ।

चतुरो रेचकांश्चापि गदतो मे निबोधत ।
पादरेचक 1एकः स्यात् द्वितीयः कटिरेचकः ।। २४८ ।।

कररेचकस्तृतीयस्तु चतुर्थः कण्ठरेचकः ।
(रै2चिताख्यः पृथग्भावे वलने चाभिधीयते ।।

उद्वाहनात्पृथग्भावाच्च3लनाच्चापि रेचकः ।
4पार्श्वात्पार्श्वे तु गमनं स्खलितैश्चलितैः पदैः5 ।।

Abh

अन्ये तु गीतकानामङ्गनिबन्धानां वस्तुनिबन्धानां च वस्तु त्रिविधम् । बद्ध– 1(वर्ध)मानकारणानि(नव) । चत्वारि आसारितानि । पाणिकैकप्रकारा । इत्येवंभूतं च यतो ब्रह्मगीतिवैचित्र्यं द्वात्रिंशद्भा2सितं तस्मात्तप्रयोगानात्मनोऽङ्गहारेऽपि तावदेवेत्याहुः । अन्ये तु परमेश्वरभाषितत्वादि यथा (दियता?) सफलसम्पत्तिहेतुत्वमित्याहुः । एतन्मनसि कृत्वोपसंहरति पुनः–द्वात्रिंशदेत इति । (२४७)

अथ रेचकानाह–पादरेचक इति । पादयो3रेव चलनं न च पार्ष्णिभूतयोरन्तर्बहिश्च सन्नतं4 नमनोन्नमनह(व्यं)सितं गमनमङ्गुष्ठाग्रस्य च । हस्तयोरेव चलनं हंसपक्षयोः पर्यायेण द्रुतभ्रमणम् । ग्रीवायास्तु रेचित5त्वं विधुतभ्रान्तता । सर्वतो भ्रमणाच्चापि विज्ञेयं तु रेचिताङ्गक इत्यादिसङ्ख्योपादानात्पृथगेते वैशाखमण्डलादिस्थानकस्थेन प्रयोज्या इति दर्शयन् वैशाखरेचितेन करणेन सङ्गृहीतत्वमेषां दर्शयति । पृथग6दृष्टार्थताख्यापनार्थं चैषां करणाङ्गहारान्त– र्भूतानामप्युपादानम् । सुकुमारगीतवाद्यप्रधाने च प्रयोग एषां प्रयोगः ।

तुम्बु7रुणेदमुक्तम्–

अङ्गहारादि8मध्यान्तकरणै रेचकान्विदुः (इति) । इहाष्येतन्मुनेर्मतामिति लक्ष्यते । यत्सहशब्देन तत्र तत्र निर्दिशति “व्याख्यास्यामि सरेचकान्” (ना.शा. ४-१९) इति । नन्वेवं करणाङ्गहाररेचकाः किं पूर्वरङ्गानेव(ङ्ग एव) वैचित्र्यकारित्वमात्रे (णै) वोपयुज्यन्ते । नेह प्रस्तुमः (नेति ब्रूमः) ।

Notes

(मू)

(व्या)

विविधैश्चैव पादस्य पादरेचक उच्यते ।
त्रिकस्योद्वर्तनं चैव 1कटीवलनमेव च ।।

तथाऽपसर्पणं चैव कटिरेचक उच्यते ।
2उद्वर्तनं परिक्षेपो विक्षेपः परिवर्तनम् ।।

विसर्पणं च हस्तस्य हस्तरेचक उच्यते ।
उद्वाहनं सन्नमनं 3तथा पार्श्वस्य सन्नतिः ।।

भ्रमणं 4चापि विज्ञेयो ग्रीवाया रेचको बुधैः ।)
रेचकैरङ्गहारैश्च नृत्यन्तं वीक्ष्य शङ्करम् ।। २४९ ।।

सुकुमारप्रयोगेण 5नृत्यन्तीं चैव पार्वतीम् ।
मृदङ्गभेरी6पटहैर्भाण्डडिण्डिमगोमुखैः ।। २५० ।।

Abh

कथं तर्हि । देवतापरितोषकत्वेनापि । तदापि च वैचित्र्यमात्रात् । यावत्तत्तद्देवता– ध्वज1प्रतिकृतिभूतपिण्डीबन्धनिष्पत्तिद्वारेणेत्यभिप्रायेण पिण्डीबन्धावतारणाय भरतमुनिः पुराकल्पमाह2 श्लोकचतुष्टयेन–रेचकैरङ्गहारैश्चेत्यादिना । इह चत्वारश्चकाराः । तत्रैको हेतावन्ये समुच्चये । तत्रैवमभिसम्बन्धः । यस्मात्प्रहर्षपरवश- प्रमथाभिहतैर्मृदङ्गदिभिरुपलक्षिते दक्षयज्ञे निहते प्रहर्षवशान्नर्तिनि । नृत्यं नृत्यन्तीमिति धातुसम्बन्धे प्रत्यया इत्यनेन प्रयोगः3 । अन्यथा नृत्तवन्तमित्यादि स्यात् । सन्ध्याकाले दिनात्यय इति प्रमोदविकासमये । तत एव पुण्यात्मके । सततमतिशयेन भृशं च नृत्यति तद्धेतोः । रेचकैरङ्गहारैश्चैव न तु सुकुमारं प्रणृत्यन्तं शङ्करं वीक्ष्य सुकुमारप्रयोगमेव कृत्वा तु अर्थतत्त्वेन नृत्यन्तीं भगवतीं च वीक्ष्य । तत एवेति तावतामेव । अङ्गहारा रेचकाश्चेति । तद्धेतुकान्पिण्डीबन्धान्दृष्ट्वा नन्दी तथा भद्रमुखवीरभद्रप्रभृतयो नन्दिभद्रदेवतागणास्तत्प्रमुखाः पिण्डीबन्धनाम चक्रुः । आकारसादृश्येऽयं (नः) च पिण्डीबन्धं प्रयोगं चक्रुः । सलक्षणं लक्षणपर्यन्तम् । अन्तवचनेऽव्ययीभावः । अङ्गहारप्रयोगान्तरीयकतया आकारविशेषसम्पत्तिं दृष्ट्वा सम्यक्प्रयुज्य लक्षणं विदधिर इति यावत् । द्वयोः प्रयोक्तृतया सुकुमारावृत्त–

Notes

(मू)

(व्या)

पणवैर्दर्दुरैश्चैव1 सर्वातोद्यैः2 प्रवादितैः3 ।
दक्षयज्ञे विनिहते सन्ध्याकाले महेश्वरः ।। २५१ ।।

नानाङ्गहारैः प्रानृत्यल्लयतालवशानुगैः4 ।
5पिण्डीबन्धांस्ततो दृष्ट्वा नन्दिभद्रमुखा गणाः ।। २५२ ।।

चक्रुस्ते नाम पिण्डीनां 7बन्धमासां सलक्षणम् ।
8ईश्वरस्येश्वरी पिण्डी नन्दिनश्चापि 9पट्टसी ।। २५३ ।।

Abh

नृत्तयोः समकालप्रयोगेण पिण्डीबन्धनिष्पत्तिं सूचयति– नन्दिभद्रमुखा गणा इति । अनेन चतुष्प्रभृतिप्रयोज्यतामप्याह–नन्दिभद्रनामैव गण इति । नन्दिकेश्वरनियतस्थानं मृदङ्गः । मुरजः भेरी कांस्यशकलान्तःपूर्णा महर्षकाभङ्गमर्दलः । डिण्डिमः करटिका । गोमुखा भङ्गी(ण्डी) । अन्तरीयुक्तस्ततन्त्रीयुक्तः पटहः पणवो दर्दुरो महाघटिकाधार इति सर्व एते चर्मावनद्धभेदाः । लयो दुतमध्यविलम्बितात्मा । तस्य यस्तालः प्रतिष्ठा । अपि च तत्त्वं विशिष्टवर्धमानगीतकादिनियतवैणस्वरविशेषात्मकधातुवाद्य- शेषभूतशुष्कप्रयोगप्रकृतिकावनद्धवाद्यगीतिनियतप्रतिष्ठितलयात्मकत्वम् । नाट्ये च प्रयोज्यचित्तवृत्तिपरिवृत्तानुसारेणान्यथान्यथाभावेन । तस्य यो वशः सामर्थ्यं तस्यानुषङ्गं कृत्वा तदनुसारित्वेनानुगम्यमानः अनुसृतं कृत्वेत्युभयथा तन्त्रेण द्रष्टव्यम् । लयतालवशस्यास्य लयतालवशत्वानुगो यत्रेति ।

ननु च नाट्य एवाङ्गानुसारित्वेन लयादि । न तु नृत्त एव । आङ्गिके नाट्यस्य भेदः । उच्यते–इहादृष्टविशेषसम्पत्तिहेतुत्वं वर्धमानादिप्रयोगस्य सोपकरण- नृत्तप्रयोगस्य च । तत्र गुणप्रधानभावं प्रति कामचारः । यदा गीतकादेः प्राधान्यं तदा तदनुसार्यङ्गं भवति । तदभिप्रायेणैव यद्वक्ष्यति–

“गत्या वाद्यानुसारिण्या तस्याश्चारीं प्रयोजयेत् " । इति (ना.शा.४-२८१) ।

Notes

(मू).

Abh

यदा तु नृत्तस्यादृष्टसम्पादकत्वे प्राधान्यं क्रियते तदा तदनुसारेण गीतकादेराश्रयणम् । यदाश्रयेण वक्ष्यति–

“गीतानां मद्रकादीनां योज्यमेकं तु गीतकम् ।
वर्धमानमथापीह ताण्डवं यत्र युज्यते ।।” (ना.शा.५-१३) इति ।

अनेन1 हि चतुर्थेन पादेन ताण्डवस्य प्राधान्यं तदुपयोगित्वं च गीतकादेरुक्तम् । न च नाट्यात्तु भेदः । नाट्ये ह्यङ्गं गीतकं चेत्युभयमप्यप्रतिष्ठितम् । तथा च करचरणचारीमण्डलादि यत्तत्राङ्गोपयोगि तत्स्वरूपेण लयादिव्यवस्थया वा नियतमेव यथारसं प्रयुज्यमानत्वेन विपर्ययात्2 । एवं ध्रुवागानादावपि द्रष्टव्यम् । सैव हि ध्रुवा कदाचित् द्रुता प्रयुज्यते कदाचिद्विलम्बितेति द्वयमपि (कुत्रचित्) । तत्रापि3 गीतं च प्रयोज्यचित्तवृत्ति (परिवर्तत्वं तन्त्रम्)(?)। इह तु गीतमङ्गं च द्वयमपि स्वप्रतिष्ठितम् । तथा हि यस्य यादृशं 4लययतिस्वरूपादिकं निरूपितं तन्न विपर्येति मन्त्रादिवत् । वेदवत् न वा (इह तु) योग्यतयाऽङ्गङ्गिभावः । तथा हि–“अपविद्धं द्रुतं चैव” (ना.शा. ४-२०७) इत्यङ्गहारे गीतकादावपि मध्ये स्त्रोतोगतलयादिरित्यादिकं नान्यथा क्रियते । तेन “प्रधानमनुभिद्य(बध्य)न्ते गुणाः” इत्येतदिह सङ्कोचयति । किन्तु स्वप्रतिष्ठितेऽपि द्वये येन यत्संमेलनयोग्यं तत्तत्र प्रयुज्यत इत्येतावानङ्गाङ्गिभावः । एवं शत्रुज्वलनप्रवृत्तामर्षा(त्तसा)भिमाननरपतिद्वितयवत् । अत एव प्रयुज्यत इत्युक्तम् । तेनैव तथाकरणं सूच्यते ।

तत्र दक्षयज्ञे निहते मृदङ्गादिवाद्यं प्रमथैः प्रवर्तितमिति तदनुगं नृत्तम् । सन्ध्याकालेषु हृदयभूतानन्दोल्लासात्मकेषु भगवन्नृत्तप्राधान्ये स्थिते वाद्यादिप्रवृत्तिः । एतदर्थमेवेत्थंभूतलक्षणतृतीयया साधारण्येनार्थोऽभिहितः । अवसरद्वयाभिधानं चैतदर्थमेव लक्षणमर्थत्वे तथैव दृश्यते ? । यथा हि –गीतमेव तदाऽन्यार्थं तदन्यगत्वेन नृत्तादि यथा डोम्बिकादौ । तत्र हि परिष्कर(क्रम)णाद्यपि सुकुमारेणैवाङ्गेन । तत्रापि वर्णाङ्गप्राधान्यं क्वचित् । यथा प्रस्थानादौ । क्वचिद्गींयमानरूपकाभिधेय- प्राधान्यं यथा त्रिपुरदाहडिमादौ (शि5ल्पकादौ) क्वचिद्वाद्यप्राधान्यं भाणकादिषु भग्न(ण्ड)- तालपरिक्रमणादौ । क्वचिन्नृत्तप्राधान्यं यथा डोम्बिकादिप्रयोगानन्तरं हुड्डक्कावाद्यावसरे ।

Notes

(व्या)

चण्डिकाया भवेत्पिण्डी 1तथा वै सिंहवाहिनी ।
तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयम्भुवः ।। २५४ ।।

शक्रस्यैरावती पिण्डी 2झषपिण्डी तु मान्मथी ।
शिखिपिण्डी कुमारस्य रूपपिण्डी भवेच्छ्रियः ।। २५५ ।।

धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च ।
वारुणी च नदीपिण्डी 3याक्षी स्याद्धनदस्य 4तु ।। २५६ ।।

Abh

अत एव तत्र लोकभाषया चिल्लिमार्ग1 इति प्रसिद्धिः । चारीमार्गो ह्यसावङ्गप्राधान्यात् । तत्रापि वैचित्र्येण मध्ये मध्ये गीतवाद्यादेरपि प्राधान्यम् । वाद्यस्यापि कूप (क्वचित्) सुषिरावनद्धभेदेन प्राधान्यं यथायोगं विवेचनीयमित्यलं बहुना ।

तत्रैते पिण्डीबन्धा आधाराङ्गप्रयोगसाधकतमभेदाद्बहुप्रकारं भिद्यन्ते । तत्र भूमिर्देश आकाशद्व2यभेदात्सप्तसप्तभेद एकैक इत्याधारभेदाः सप्त(?) । हस्तौ पादौ(अक्षिणी) शिर इत्यङ्गभेदा अपि सप्तेत्येकान्नपञ्चाशत् । एकोऽनेको वा प्रयोक्ता । सोऽपि समप्रयोगो विषमप्रयोगो वेति चतुर्धाकरणेन सम्पाद्यते अङ्गहारेण वेत्यष्टाभिरेकान्नपञ्चाशतो गुणनात् द्विनवत्यधिकं त्रिशतं पारमेश्वराः(पिण्डीबन्धाः) ।

“कल्पापायनिशान्तसान्ध्यसमये सद्व्योमरङ्गं गणः (ङ्गाङ्गणं) सम्प्राप्य प्रतताङ्गहारवलनावैचित्र्यचित्रस्थितिः ।
आकाशे स्ववपुष्यके(?)च विविधां सृष्टिं समासूत्रयन् त्रैलोक्यस्थपतिस्त्वमेव भगवन्विश्वाकृतिर्जृम्भसि ।। “इति ।

अनया च (दिशा) पिण्डीबन्धानां तत्तद्देवताप्रकृतिमद्भागादिसूचनद्वारेण केवलमपि करणं प्रयुज्यमानमेव हर्षदायि भवति । एवं तत्र प्रधानदेवतोद्देशेन तावत्पिण्डीबन्धान्दर्शयति श्लोकपञ्चकेनेश्वरस्येत्यादिना । भगवत एव प्राधान्यात् परितोषणीयतेति तस्याव्यक्तं यदीश्वरशब्दवाच्यं निर्विशेषं रूपं तस्य तादृश एव शिवलिङ्गाकृतिः पिण्डीबन्धः ।

Notes

(मू)

(व्या)

हलपिण्डी बलस्यापि सर्पपिण्डी तु भोगिनाम् ।
गाणेश्वरी महापिण्डी 1दक्षयज्ञविमर्दिनी ।। २५७ ।।

त्रि2शूलाकृतिसंस्थाना रौद्री स्यादन्धकद्विषः ।
एवमन्यास्वपि तथा देवतासु यथाक्रमम् ।। २५८ ।।

Abh

पिण्डी आधाराङ्गादिसङ्घातः । तया बध्यते बुद्धौ प्रवेश्यते तनुभावेन वा व्योमादाविति पिण्डीबन्ध आकृतिविशेषः । तस्यैकदेशाभिधानं पिण्डीति । यदि वा पिण्डीविशिष्टान्येव तान्याहेति । 1आबध्यते पुनरनेनेति पिण्डीबन्धः करणाङ्गहारादिः । अन्ते च भगवत एव व्यक्तरूपस्य पिण्डीबन्धो भविष्यति ।

परमेश्वरांनन्तरं च प्रधानभूतस्य पिण्डीबन्धलक्षणविधायिनो नन्दिनः । 2पट्टसः उभयत्र त्रिशूलाकृतिरायुधविशेषः । तदनन्तरं भगवत्याः । सिंहश्चासौ वाहनञ्च तस्यैवमिति । आक्रान्ततया । भूमि3र्वा लिङ्गस्य सिंहः । तदाकृतिकत्वं दर्शयति । तदनन्तरं विष्णोर्ब्रह्मणश्च । ऐरावतीति गजाकारा । रूपपिण्डी स्वा(पद्मा)कारा । 4धारापिण्डी पुनः पुनः प्रयुज्यमाना नदीपिण्डी भवति । याक्षी वैश्रवणायुधः मुद्गराकारा ।

एवं प्रतिपाद्यानभिधायान्यत्रापि दर्शयत्येवमित्यादिनाअन्यास्विति । तृतीयाध्याये पूज्यत्वेन निरूपितासु । तदभिप्रायेणैव यथाक्रममित्युक्तम् । ध्वजपूजाहुत्या- युधवाहनविशेषरूपाः । 5सचिह्नका इत्यनेनापि केनचित्कर्मादि(क्रमादि)सूचकेन रूपेणो- पलक्षिताः ।

एतदुक्तं भवति–या काचिद्देवतेत्युच्यते तस्याः पश्चान्नृत्तेन परितोषणं कार्यम् । तन्मध्ये च तदीयायुधवाहनकर्मभावाभ्य(द्य)नुकारी अङ्गप्रयोगो विधेयः । अत एव “पादाग्रस्थितया” (रत्ना १-१) इत्यत्र तलपुष्पपुटकरणेन कर्मणा विशेषसूचकेन भगवत्याः परितोषणं सम्पाद्यते । “तिलके च करः स्थाप्य” (६४करणम्) इत्यभिनयेन भगवतः परितोषः । “निकुट्टितौ यदा हस्तौ” (९ करणम्) इत्यनेन त्रिशूलाकृतिर्या कायसम्पत्तिः । गरुडप्लुतकेन तार्क्ष्याकारगतिसूचनम् । गङ्गावतरणेन धारापिण्डी । नागापसर्पितेन

Notes

(मू)

(व्या)

ध्वजभूताः प्रयोक्तव्याः पिण्डीबन्धाः सुचि1ह्निताः ।
2रेचका अङ्गहाराश्च पिण्डीबन्धास्तथैव च ।। २५९ ।।

Abh

भोगिपिण्डी । “प्रसार्योत्क्षिप्य च करौ” इत्यङ्गहारेण (ना.शा.४-१७४) आका(धा)- रीयभौमत्रिशूलशिवलिङ्गादिपिण्डीनिष्पत्तिः । रेचितेनाक्षिप्तरेचितेन च समस्तानामुक्तानां चारा(चाधारा)द्यनन्तभेदानां निष्पत्तिः । तथा च नन्दिमत उक्तम्–

“रेचिताख्योऽङ्गहारो यो द्विधा तेन ह्यशेषतः ।
तुष्यन्ति देवतास्तेन ताण्डवे तं नियोजयेत् ।।” इति ।।

एवमन्यदप्यूह्यमित्यनुपयोगात्समस्तं न लिखितम् । आगमभ्रंशरक्षणाय तु दिङ्निरूपिता ।

एतदुपसंहरति–रेचका इति । पिण्डीबन्धग्रहणेन शिखिपिण्डि- प्रभृत्युपायमयूरललितादिकरणसङ्ग्रहः । अत एवानया केवलस्यापि करणस्य देवता- परितोषणेनादृष्टार्थ प्रयोगः । यथा विष्णुक्रान्तस्य चक्र1मण्डलस्य च वैष्णवक्रीडासूचकस्य सः । एवकारेणाङ्गहारप्रयोगनान्तरीयकपिण्डीबन्धसम्बन्धः । अङ्गहारा एव पिण्डीबन्धाः तथान्येऽपि पिण्डीबन्धा इति केवलकरणसंग्रहः । चकारात्पिण्डीबन्धनिष्पत्त्युपायत्वं करणद्वयस्यापि यदा विद्यते अन्यस्य करणसमूहात्मनः कल्पितस्याङ्गहारस्य वा । तस्यापि प्रयोगे प्रत्यनुज्ञानमाह । एतदर्थमेव नृत्तमातृकाया लक्षणमङ्गहाराणां च सामान्यलक्षणं प्रणीतम् । (२४८-२४९)

सृष्ट्वेति । ननु स्मृतं नृत्तं सन्ध्याकालेष्वित्यनेनैतद्विरुद्ध्यते । न । स्थानकचारीनृत्तहस्तभ्रूताराकर्मादीनां वर्णानामिव प्रवाहानादित्वेऽपि विशिष्टपरमात्मना (नः) शोभाविशेषेण भगवता पुनः निर्माणं वेदानामिवेत्यविरोधः । वेदरचनापि हि वर्णानादि-नित्यत्वेऽपि प्रतिप्राणिस्थानकरणाभिघातसम्पत्त्यभिव्यक्तपौर्वापर्यनिबन्धना कृतका । सा परं पूर्वपूर्वरचनासजातीयत्वप्रवाहेण नित्या । तथा नृत्तमपीति न कश्चि– द्विरोधः ।

दत्ता इति । या तन्द्र्या(स्वातन्त्र्य)मनुजानानो निजबुद्धिकृतं यत्तेन तत्र वैचित्र्यमनुप्रवेशितं न तद्दृष्टप्रतिघातीति दर्शयति । तेन शोभाप्राधान्यमेवात्र ज्याय इत्यनद्यतन इति यावल्लक्ष्यं न विरूपमिति मन्तव्यम् । मुनये इत्यूहापोहादिकुशलाय ।

Notes

(मू)

(व्या)

1सृष्ट्वा भगवता 2दत्तास्तण्डवे मुनये 3तदा ।
4तेनापि हि ततः सम्यग्गा5नभाण्डसमन्वितः ।। २६० ।।

Abh

हि यस्मात् अर्था यतो दत्ताः अतो नृत्तात्मकः प्रयोगः सम्यग्वैचित्र्येण । स्प(सृ)ष्टःसम्यगिति समञ्चिततालसाम्यातिका(त्मिका)सङ्गेति (अञ्चन्ति) गच्छन्तीति सम्यग्भूतं यद्नानं गीतम् । भाण्डं भणति शब्दं करोतीति भडितव्याण्ण(?) इत्यनया वा पुष्कराध्यायोदितया व्युत्पत्त्या(तदादि)तदिति । इह तद्गीतं वाद्यं च सम्यगञ्चितं तदनुसारि । तत्प्रधानतया नृत्तप्रधानत्वेन गीतेन वाद्येन च समन्वितः । अत एव तण्डोरयं ताण्डव इति वैयाकरणैः स्मृतम् । (२६०)

अत्र भरतमुनिरेव परकीयामाशङ्कामुपनिबध्नाति । अनभिज्ञानाच्च मुनीनामभिनयादीनामप्यविदुषां कथम् । ‘अभिनयः कृत’ इति गीतकार्थेऽभि- हितेष्वासारितेष्विति च न वचनोपपत्तिस्स्यात् । तस्मान्मुनिरेवेदं स्वयमाशङ्कते । पूर्वपक्षत्वेन वा शङ्केयमिति प्रकटयितुं सुकुमारमिति(रमतिभिः)1मध्ये ‘ऋषय ऊचुः’ इति प्रक्षिप्तम् ।

तत्रेत्थमाशङ्का । नृत्तं नाट्याद्धिन्नमभिन्नं वा । भिन्नत्वेऽपि सप्रयोजनमप्रयोजनं वा । न तावद्भिन्नम् । अङ्गविक्षेपनृत्तगीतवत्त्वेनावैलक्षण्यात् । अभिनयप्रयोगस्य नीयमानपदार्थवाक्यार्थगत2नाट्यार्थगतविषयत्वे भाव्यविकलस्य दर्शनमस्ति तावत् । अवान्तरवैलक्षण्यं च दशरूपके न विद्यते । 3एकपात्रहार्ये त्वसन्निहितेऽपि च 4प्रियतमसखीप्रभृतौ तद्विषयोक्ति5प्रत्युक्त्यादिप्रयोगो नाट्येऽपि । आकाशभाषितादौ भाणरूपके च विद्यते । यथाह राहुलः

“परोक्षोऽपि हि वक्तव्यो नार्या प्रत्यक्षवत्प्रियः ।
सखी च नाट्यधर्मोऽयं भरतेनोदितं द्वयम् ।।” इति ।।

तथा

भाणे चैकाकी वा यो योज्योऽनेकाङ्गहारिणि । मुनिना हि वक्ष्यते “भाण- कवच्चैकहार्यं स्यात्” इति । वार्तिककृताप्युक्तम्–

Notes

(मू)

(व्या)

Abh

“वाच्यानुगतेऽभिनये प्रतिपाद्येऽर्थे च गात्रविक्षेपैः ।
उभयोपरि हि समाने को भेदो नृत्तनाट्यगतः(योः) ।।”

अत्रोच्यते । (यदि) साक्षाद्बुद्ध्यभावान्न नाट्यं तदसत् । इयं प्रियतमगुणकीर्तनपरा नृत्यति । खण्डिता नृत्यति । कलहान्तरिता नृत्यति-इति बुद्धेः सम्भवात् । यदाह–

“या चैवंविधगुणकीर्तनवचनेषु प्रियतमस्य संरक्ता ।
सख्याः समक्षमुच्चैः प्रमदा सैवानुकार्याऽत्र ।।”

एतेनोत्साहगातव्यानामर्थेऽनुकार्यत्वं दर्शितम् ।

Abh

अथ गीयमानरूपकाभिनयदर्शनात्1 नाट्यतो वैलक्षण्यं न तत्तावत् । वैलक्षण्यमात्रप्रयोजकावान्तरभेदस्य सर्वत्र सम्भवादिति ह्युक्तम् । न चेदं वैलक्षण्यम् । नाट्येऽपि तस्य भावात् । वक्ष्यते2 चाङ्गोपाङ्गकशारीराभिनयलक्षणविधौ

“स्थाने ध्रुवास्वभिनयो यत् क्रियते हर्षशोकरोषाद्यैः ।
भावरससंप्रयुक्तं ज्ञेयं नाट्यायितं तच्च ।।” इति ।। (ना.शा.२२-४७)

उपरञ्चकमपि तत्र गीतं नाट्ययितं रूपकं वाच्याभिनययोश्च व्यक्त इति । तत्प्रयोगस्य(श्च) सर्वत्र । डोम्बिकाप्रस्थानषिद्नकभाणकभाणिकाराग- काव्यादेर्दशरूपकलक्षणेनासङ्ग्रहान्नाट्याद्भेद इति चेत् । तदैकान्तिकम् । तोटकप्रकरणिकारासकप्रभृतेस्तदसङ्गृहीतस्यापि नाट्यरूपत्वात् ।” कोहलस्तु ब्रवीति” इति च परिहारस्य समानत्वात् । वाचिकोऽप्यभिनय आसीनपाठ्यादौ क्वचिदस्त्येव । “अहो गाणगाणबुल्लिभाण” इत्यादौ । आहार्यस्तु प्राधान्येनैकः कृतः भाणादावपि न क्षणे क्षणे परिवर्तते । सात्त्विकोऽप्यङ्गीकृत एव कोहलाद्यैः “सत्त्वातिरित्त्कोऽभिनयः” इत्यादिवचनमालिखद्भिः । आङ्गिस्तु स्कुट एव । अस्त्री(अन्यस्त्री)3 डोम्बिकाषिद्नकानामन्योन्यानन्वितत्वं4 वाक्यानामिव । समवकारेऽपि अङ्गानामस्त्रीप्रधानेऽर्थे तत्रान्वय इति चेदिहापि समानम् । देवतास्तुतेः स्त्रीपुंभावाश्रयस्य च श्रृङ्गारस्य सर्वत्रानुगमात्तस्यैव च प्राधान्याद्वक्ष्यति–“देवस्तुत्याश्रयकृतं स्त्रीपुंभावसमाश्रयम् ।” इति । अत एव च चूडामणिडोम्बिकायां प्रतिज्ञातं “बिंदुगुणं वमि सहि इहोदिवचो अमिदुणधं । महसारकः गेते उं (?) ।” अत एव सहृदयाः स्मरन्ति “वध(स) मचूडामणिआ” (इति । तस्मान्नृत्तं नाट्यादभिन्नं5 तल्लक्षणोपेतत्वात् ।

Notes

(व्या)

नृत्तप्रयोगः 1सृष्टो यः स ताण्डव इति स्मृतः ।
ऋषय ऊचुः–यदा 2प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः 3कृत) ।। २६१ ।।

Abh

एतदाह–यदा प्राप्त्यर्थमिति । यतो हेतोरर्थानां काव्यार्थानां प्राप्त्यर्थं साक्षात्कारबुद्ध्या स्वीकारार्थं तज्ज्ञैः प्रयोक्तृभिराङ्गिकाद्यभिनयः कृतः । तत्र तस्मादेतन्नृत्तं कृतम् । नृत्तशब्देन व्यपदिष्टम् । न तु नाट्यशब्देनैवेत्यर्थः । भवतु वा भिन्नं तथापि कं स्वभावं लक्षणमपेक्षते च स्वात्मन्यङ्गीकरोति । लौकिकत्वं लोकोत्तरत्वं वा ? लौकिकत्वे घटादिवस्तुतुल्यत्वं तदनुकारत्वं प्रतिबिम्बादिरूपता वा । तत्रापि नाट्यच्छायात्मकतैव । नाट्यस्यैव ह्यमी भागनिष्यन्दाश्चित्रपुत्रिकापुस्तप्रभृतयो ग्रन्थकारकल्पिताः साक्षात्कारकल्पप्रत्ययसम्पदा कथापर्यन्तम् । तथा लोकोत्तरत्वे तु नाट्यस्यैवावान्तरभेदमात्रं तत् ।

तथाविधमपि च तन्न निष्प्रयोजनम् । तद्भावाद्युपलक्षणीयं स्यात् । असिद्धमेतत् –चतुर्वर्गोपदेशस्य राघवविजयादिकरागकाव्येषु दृष्टत्वात् । डोम्बिकादौ तु कामस्यैव प्रच्छन्नरागपरमरहस्योपदेशात् ।” यद्वामाभिनिवेशित्वम्” (ना.शा. २२-१९९) इत्यनेन सामान्याभिनये प्रच्छन्नरागस्यातीव देव(मन्मथ)सारसर्वस्वत्वेनाभिधानात् । 1सिंहसूकरभल्लूककासरादिवर्णनेनापि भाणप्रेरणभाणिकादावप्रस्तुतप्रशंसार्थान्तर- न्यासदृष्टान्तादिना पुरुषार्थस्यैवोपदेशदर्शनादिति प्रयोजनभेदादपि न भेदः । तदाह–यदा प्राप्त्यर्थमिति । यदा यतोऽर्थानां धर्मादि प्रयोजनानां प्राप्त्यर्थं तज्ज्ञैः कविभिरभिनय इत्यभिनीयमानो रागकाव्यादिः कृतः । तस्मात्कस्माद्धेतोरेतन्नृत्तं न नाट्यम् नाट्यं च कस्मान्न नृत्तम् । गात्रविक्षेपात्मकं हि तदपि । तुल्ये च तथाऽर्थे कं भेदकं स्वभावमपेक्षते । नास्त्यसौ भिन्नस्वभाव इति यावत् । यद्वार्तिकम्

“एवमवान्तरवाक्यैरुपदेशो रागदर्शनीयेषु ।
सिंहादिवर्णनैर्वा क्वचिदप्यर्थान्तरन्यासात् ।।” इति ।।

तस्मात्स्वभावस्य प्रयोजनस्य चाभेदान्नृत्तं नाट्यादभिन्नमिति ।

अथोच्यते (राघवविज3यादि)रागकाव्यादि प्रयोगो नाट्यमेव । अभिनययोगात् । यत्त्वभिनयादिशून्यं केवलं वलनावर्तनाभ्रूक्षेपताराचलनचरणधारणकम्पस्फुरितकटिच्छे-

Notes

(मू)

(व्या)

Abh

दरेचकादि तदस्माकं नृतं भविष्यति । यत्र नाट्यशङ्कापि नास्ति । ननु किं तेन मो(प्रे)क्षितेन प्रयोजनम् । ननूक्तं नाट्योपयोगित्वं–

“तस्य शाखा च नृत्तं च तथैवाङ्कुर एव च ।
वस्तून्यभिनयस्य” इति (ना.शा. ८-१५) ।

Abh

एतद्दूषयति–यदा प्राप्त्यर्थमिति । इह “योऽयं स्वभावो लोकस्य” इति (ना.शा.१-११९) लक्षणेन नाट्यं लक्षितम् । तत्राभिनयानामुपयोग उक्तार्थाभिमुख्यप्राप्तिः । नृत्तस्य तूक्तरूपस्य न किञ्चित्प्रयोजनम् । उपरञ्जकतया गीतवाद्यादिवदुपयोग इति चेत् गीतस्य तावत्–

“यत्तु काव्येन नोक्तं स्यात्तद्नितेन प्रसाधयेत् ।।” इति

“यानि वाक्यैस्तु न ब्रूयात्” इति “न तैरेव तु वाक्यार्थेः” इति न्यायेन प्रकृतिचित्तवृत्तिकथावस्थादि सूचयतोऽस्त्युपयोगः । वाद्यस्यापि गीतसाम्याक्षिप्ततालोद्दीप- कत्वेन । एतन्मध्यात्तु नृत्तं कर्तृ कं स्वभावमपेक्षते । न युद्धनियुद्धगति- परिक्रमादावस्योपयोग इत्युक्तम् । तत्रापि कं स्वभावं लौकिकमलौकिकं वाऽपेक्षते । लौकिकत्वे प्रयोज्यत्वेन लोकधर्म्या सङ्ग्रहोऽस्य । चारीमण्डलादिक्रमेण च तस्याङ्ग एव निरूपणं भविष्यति । अथाप्यलौकिकस्तथापि सिद्धम् । ‘ऊर्ध्वेन तु कुर्यात्’ इत्यादि चतुरहस्ताभिनेतव्यविषयविभागन्यायेनाभ्यधिकं सुन्दरोपरञ्जकभागानुप्रवेशेन नाट्यधर्म्यनुप्रवेशे पुनरपि नाट्यादभ्यधिकता ।

अथोच्यते–पूर्वरङ्गप्रयोगस्य वैचित्र्यसिद्ध्यै तदेतदिति । तत्रापि पूर्वरङ्गप्रयोज्यया ब्रह्मगीत्या साकम् । अस्या(था)ङ्गाङ्गिभावेन वा । तत्राद्ये पक्षे1 स्यादसामञ्जस्यम् । अन्त्ये तु पक्षे कथमाहित(ङ्गिक)हस्तचार्याद्यभावः ।

तदुक्तम्–

“महागीतेषु चैवार्थान् सम्यगेवाभिनेष्यसि ।” इति (ना.शा. ४-१५) । अत्राह–यदा प्राप्त्यर्थमिति । अर्थानां गीतकपदाभिधेयानां प्राप्त्यर्थमभिमुखं नयनार्थम् । यद्ययं नृत्ताभिमतोऽभिनयो विहितस्तत्कस्मादभिनयत्वे तुल्ये नृत्तमेतन्न नाट्यम् । तथाहि–गीतकार्थाभिनये कर्तव्ये कमन्यमाङ्गिकहस्तका(चा)र्याद्य– भिनयव्यतिरिक्तं स्वभावमपेक्षते । न कञ्चिदन्यमित्यर्थः ।

Notes

(व्या)

1कस्मान्नृत्तं कृतं ह्येतत्कं स्वभावमपेक्षते ।
न गीतकार्थसम्बद्धं2 न चाप्यर्थस्य भावकम् ।। २६२ ।।

3कस्मान्नृत्तं कृत्तं ह्येतद्गीतेष्वासारितेषु च ।
(4भरतः)–अत्रोच्यते न खल्वर्थं कंचिन्नुत्तमपेक्षते ।। २६३ ।।

Abh

अथोच्यते–न गीतकादिपदार्थाभिनयतयाऽस्योपयोग इति । किन्तर्ह्यन्यथा गीतकादावस्योपयोग इति । तत्राह–न गीतकार्थसम्बद्धं न चाप्यर्थस्य भावकमिति । इह गीतकार्थास्तदारम्भकाः वस्त्वङ्गप्रभृतयः । तेषु न संबद्धं तन्मध्ये न परिगणितमित्यर्थः । यदि ह्यङ्गवस्त्वादित(व)न्मध्यपरिगणनमस्य भवेन्न तद्भवेदप्यन्यतदुपयोगस्तदारम्भकत्वात् । नचैतदुपगतम् । न च युक्तम् । नृत्तस्य गीतद्वितीयजातीयत्वात् ।

ननु यथा तत्सुषिरादिवाद्यं तदङ्गसम्बद्धमपि तत्रोपयोगि तथेदं भविष्यतीत्याशङ्क्याह–न चाप्यर्थस्येति । 1अर्थ्यते प्रधानतया गीतकादौ निरूप्यत इत्यर्थः स्वरूपपदतालादिः । तस्याप्येतद्भावकं प्रापकं न भवति ।

एतदुक्तं भवति–स्वरात्मके भागे प्रतिबिम्बरूपतया लग्नस्वरत्वेन स्थानप्रदायितया स्वरपरमार्थप्रापकतया स्वरात्मगीतिभागे स्तुतः सुषिरोपयोगः । अवनद्धस्यापि तत्साम्योपायतालांशप्रापकत्वेन पदपातादभिधेयोपयोगित्वेऽप्यभिनयरूपया(पतया) नाट्यादभेद एव स्यादित्युक्तम् ।

अथोच्यते रेचकाङ्गहारनिबन्धात्मकं यन्नृत्तं न तेन कश्चिदर्थोऽभिनीयते । अपि तु यथा विशिष्टैर्मन्त्रैः भावनाविशेषैश्चाभ्युदयसिद्धिः तथा । विशिष्टदेवतासूचकैर्मन्त्रैस्तथा तद्नीते चाभ्यधायि । गीतेष्वासारितेषु चेति । 2भावारम्भगीताङ्गवस्तुषु सप्तविंशतिसङ्– ख्येष्वासारितेषु वर्धमानारम्भकेषु चतुर्षु चकारात्पाणिकायमित्येतेषु(न?) सम्बद्धमेतदङ्गहारात्मकं द्वात्रिंशत्प्रकारं नृत्तमिति तत्संबन्धश्चेदानीं न किञ्चित् । एवं पृथङ्वृत्त(नृत्त)काव्यादौ नाट्यरूपतैव । नाट्योपयोगित्वेनापि नृत्ततालगितकाद्युपयोगोऽपि दुर्घट इति त्रिधा पूर्वपक्षसंक्षेपः ।

एतत्परिहर्तुमाह–अत्रोच्यत इत्यादिश्लोकत्रयेण । अस्मिम्पूर्वपक्षे तूच्यंते प्रत्युत्तरमिति शेषः । तत्र यदुक्तमङ्गविक्षेपनृत्तगीतमयत्वान्नात्यादेर्भेदो(दभेदो)

Notes

(मू)

(व्या) 1 म. अन्ये तु प्रधा ।

Abh

रागकाव्यादिनृत्तस्येति तदनैकान्तिक(त्व)मस्य हेतोः लौकिकनृत्तेऽपि स्फुटम् । नाट्यादिलक्षणसहगोपने तु लोकिके गात्रविक्षेपणं(णे) पठ्यमानमभिनीयमानं वा यावत्पदजातमर्थो नाभिनीयते इति किं नानुसन्धीयते । किं वा न साक्षात्क्रियायोग्यतां नीयते । प्राप्यकल्पोऽसिद्धः । लोकेऽपि सौमनस्याभावादङ्गोपाङ्गपरिक्षेपानुयातस्य वाक्यादीरितस्य दृष्टवात् । गीयता (गायता) पदार्थसंवादकृततन्मयीभावदग्धा(बद्धा)- याश्च स्फुटमेव सात्त्विकाङ्गतावलोकनात् ।

अथापरः पक्षस्तु नृत्तेऽपि समानम्(नः) । तथाहि–नृत्तकाव्ये डोम्बिकादौ वर्णच्युतादिव वर्णादिप्रयोगे तावदभिनयकथैव नास्तीति किं तत्र विचार्यते । केवलं नृत्तस्वभावमात्रमपि तत्केवलं भावितकाव्यार्थगतार्थतत्त्वसौकुमार्यकृतमङ्गस्य तथात्वमिति निर्णेष्यत इत्यास्तां तावदेतत् ।

तदनन्तरं तु धारापरिक्रमपूर्वकलयप्रयोगावसरे “1पाआलअलोससाहिणिहुजयजय ळच्छिमच्चमलिआ” इत्यादि यद्नीयते तत्कस्योक्तिरूपम् । यदि तावन्नर्तितुमागताया लौकिक्या डोम्बिकाप्रवृत्तनर्तक्याः तदा सैवेदानीमेवंभूतं वस्तुरूपं लौकिकं वचनमभिधत्ते । गायनादिस्वक्रमिकस्ववाक्यत एकवाक्यतः साक्षात्कारकल्पार्थः । साक्षात्कारकल्पानुव्यवसायगोचरकार्यत्वं च नाट्यस्य लक्षणमित्यवोचाम ।

तेन यथा कश्चित्कंचिदन्यापदेश2गानादिक्रमेण वस्तूद्बोधनकरणद्वारेण वा छन्दानुप्रवेशितया वा कस्यचिन्मनस्यावर्जनातिशयं विधत्ते । नृत्यन्नपिं गायन्नपि तद्वदेव डोम्बिकादौ द्रष्टव्यम् । विडम्बिडोम्बित्यादावपि (?) वचसि सैव डोम्बिका । नरपतिपरितोषकार्थाभिधायिवचननिष्ठेन गीतेन नृत्तेन वान्येन (वाद्येन) च राजानमनुरञ्जयितुं गृहीतो मन्त्रित्वेन पूर्वं स्थित्वा मध्ये काचिदीदृशी चौर्यकामुककेलीवासमनासाद्य कापि पुनरेवंविधा कश्चिदेवम्भूतश्चौर्यकामुकैः कोऽप्येवम्भूतस्तत्र काचिदेवम्भूता प्रौढदूतीत्येवमादि राजपुत्रहृदयानुप्रवेशयोग्यं तत्प्रसादेन धनार्जनोपायमभिदधती तमेव राजपुत्रं परत्वेन तथैव वा धनमुहिश्यान्यदपि चेष्टितमभिधीयते । डोम्बिकाकृत्यमेवोपसंहरति गुणमालायां “जामि हरार्धातुं गिअपुण्णं चिसमि” इत्यादौ । तत्र सा नृत्यती डोम्बिका च बहुतरोपरञ्जकगीतादिपटुचेटकपरिवृता त्वां प्रत्येवमहमुपश्लोकितवतीति तन्मध्यवर्तिगायनमुखसङ्क्रमितनिजवचना लौकिकेनैव रूपेण तद्गीयमानरूपकगतलयतालसाम्येन तावन्नृत्यति । तद्नीयमानपदार्थस्य

Notes

(व्या)

Abh

सातिशयमावर्जनीये राजादौ हृदयानुप्रवेशितां दर्शयितुं लौकिकव्यवहारगतहस्त– भ्रूकर्मरोमाञ्चाक्षिविकारतुल्ययोगक्षेमतयैवाङ्गविकारादिसंभवप्याक्षिपति ।

एवं गीतेन रञ्जनं प्राधान्येन विधाय तदुपयोगिनं चाङिगनं चाङ्गव्यापारं प्रदर्श्य नृत्तेन पुनस्तच्चित्तग्रहणं कुर्वती नृत्तं प्रधानभावं गीतं च तदुपसर्जनभावं नयन्ती तत एव तदभिनयमनाद्रियमाणा तद्गीयमानांद्भावाद/?/क्षिप्ततदुदितभावमेवाङ्गविक्षेपं करोति लयपरिष्वक्तकरणादौ । तत्रेयत्यंशे लौकिकमातस्वभावरामनटादिव्यवहारवत् क्व प्रयोज्यप्रयोजकभावाशङ्का । कस्य वा सामाजिकस्यं व्युत्पादनमाभिसंहितम् । तदनन्तरं च यथैव सा गीतनृत्तादि प्रायुङ्क्त तथैव सदृशं न नर्तकी प्रयुङक्ते । न तु डोम्बिका साक्षात्कारकल्पेन दर्शयति तदीयाहार्यादिना स्वात्मरूपप्रच्छादनाद्यभावात् । तत एव न डोम्बिकां साक्षात्कारकल्पेन सा दर्शयति । अपि तु तथैव नृत्तं साभिनयं केवलं च प्रदर्शयति तेन नाट्याङ्गतायां यत् दृष्टं पताकादि तद्दर्शनमात्रतया। अतो नाट्यं संस्कारकं नृत्तस्येत्यङ्गादिव्यपदेश इत्युपचारादुच्यते ।

नाट्यस्य प्रस्तावनाप्राणप्रतिबिम्बकल्पं नृत्तमित्ययमपि व्यवहारस्ततस्य एव । नाट्यस्यात्र नामाप्यस्ति पदमूर्ध्वादौ चातुरश्र्यभङ्गाभावे (?) तद्भावाद्ययोगात् नाट्यरूपत्वे हि साक्षात्कारकल्पानुव्यवसायसम्पत्त्युपयोगिनः पात्रं प्रति भाषानियमस्य छन्दोऽलङ्कारादिनियमोऽवश(श्य)रूपाद्योगयोगिन आहार्यविशेषस्य जात्यंशकादे(रि)ति परिक्रमादेश्च स नास्यैवोपयोगे भवेत् । न वैवमस्ति । मूलभूतस्य च पाठ्यस्य सम्भावनानुषक्तमाकाशभाषितमपि स्यात् । पादताडितकादि भाणरूपक इव । इह तु मूलत एव न केनचित्किञ्चिदुच्यते । “अहो गाणे” त्यादि गायनं यच्चोक्तं “प्रमदा सैवानुकार्यात्र” इति तदप्यनेन प्रतिसमाहितं नर्तक्याः स्वरूपानाच्छादनात् । कलहान्तरितेयं खण्डितेयं नृत्यतीति व्यवहार औपचारिकः । तदर्थगीयमानरूपकगतगीतवाद्यनुसारित्वात्तन्नृत्तस्य । न तु मुख्यः । लम्बालकत्ववेणीधारणमङ्गलवलयापरिग्रहादितदुचितवेषादिपरिग्रहवैकल्यात् । यच्च नाट्यायितत्वमाशङ्कितं तदस्थाने भ्रान्तम् । सहृदयैर्नाट्यायितमिति हि तावन्तं गीयमानमभिनीयते असाङ्गत्यापत्तेः । अपि तु यादृशा लयतालादिना यादृगर्थसूचनयोग्याभिनयः सात्त्विकादिप्रधानरसानुसारितया प्रयोग– योग्यस्तदुचितार्थपरिपूरणं ध्रुवागीतेन क्रियते । सूच्या(क्ष्मा) ह्यमी पल्लवप्रकारा अङ्कुरादयो निवृत्त्यङ्कुरान्ता ये विघ्नायितवच्च नाट्यायितम् । एतच्च स्वक्षेत्र एव वितनिष्यामः ।

एवं नाट्यायितशङ्काऽप्यत्र न काचित् । मूलभूतस्याभिनयस्यैवाभावात् । तद्भावे यथा – मुंचइ वळवि अंअअ इरोअगुहंसणळिण अग्नि चिङज” इत्यादौ

किं तु शोभां 1प्रजनयेदिति 2नृत्तं प्रवर्तितम् ।
प्रायेण सर्वलोकस्य नृत्तमिष्टं स्वभावतः ।। २६४ ।।

Abh

मूर्च्छादिसाक्षात्कारः शय्यायाश्चाङ्गनिपतनादिबाहुस्तथा नृत्तकाव्येऽपि स्यात् । “होशं दणषक हमहुमाइषक” इत्यादौ । नचैवमस्तीत्युक्तमसकृत् । एतेन प्रयोजनभेदोऽपि प्रत्याप्तः (त्युक्तः) । नहि सामाजिकाः प्रीयन्तां व्युत्पद्यन्तां वेत्यभिसन्धिना नृत्तप्रयोगः । तत्संपत्तिस्तु नान्तरीयकत्वाद्भवतु । ज्योतिष्टोमादिप्रयोगसङ्गीतापनोदादिवददृष्ट- विशेषोद्देशेनैव हि तस्य प्रयोगः । डोम्बिकादेर्दृष्टोद्देशेन राजपुत्रादिप्रीतये यद्यपि प्रवृत्तिर्लौकिकी सा । अद्यत्वे तु न द्वयम् । नर्तक्याः प्रवृत्तिः प्रवर्तना वा देवतापरितोषणफलैव । यथोक्तं तत्र–

यत्किञ्चिल्लास्यमेतेन देवस्तु(वी तु)ष्यति नित्यशः ।
यत्किञ्चित्ताण्डवं तेन सोमः सानुचरः शिवः ।।” इति ।।

मूले च सूदादेरिव वस्तुभूतरूपरसादिमध्यपातिविषयविशेषयोजनया कृता प्रीतिः साध्या । डोम्बिकावर्णनगतस्यैवालौकिकरूपान्तरप्रादुर्भावान्तरस्येति व्युत्पत्त्यभिसन्धानं चानुभवतीति केयं सम्भावना गेयेऽपि। नाट्ये तु तदेव प्रधानं भरतमुनिप्रभृतीनां तथैव 1मूलतः प्रवृत्तेः । अन्यत्वे तु जीविता (का) पर्यवसितत्वनिति पुरुषमि(म)तिपुरुषदौरात्म्य– मेतद्धर्मादिचतुष्टयोपदेशि पुराकल्पोपदेशनमिव पुस्तकवाचकानां मूलेन प्रवर्तनात्तत्र व्युत्पत्त्यभिसन्धेरेवेति फलभेदः ।

अन्योऽपि लक्षणभेदो नाट्यरूपताशङ्कापरकरणहेतुग्रन्थ2व्याख्यानावसरे वक्ष्यते । तन्नाट्यलक्षणप्रयोजनाभेदादित्यसिद्धो हेतुः । तदाह नृत्तं कर्तृ कंचिदर्थमर्थ्यमानं साक्षात्कारं प्राप्यमानं नाट्यवेदं नापेक्षते येन लक्षणाभेदः स्यात् । तथा न कश्चिदर्थः सामाजिकान्प्रति व्युत्पादनीयधर्माद्युपायान्यतमं व्यपेक्षते येन प्रयोजनाभेदोऽपि स्यादित्यतो हेतोरेतन्नृत्तं प्रवर्तितं नृत्तवाचोयुक्त्यैव व्यवहृतम् । ननु(तु) नाट्यमिति ।

किञ्चिदपि शुद्धं नाट्याङ्गं पूर्वरङ्गादिकं वेति पाठो वा इयता तदनु प्राप्त्यर्थमित्यादि प्रतिसमाहितम् । ननु भवत्वेवंभूतं नृत्तं, नाट्ये तु कथमस्योपयोग इत्युक्तं गीतकस्यापि कथमुपयोगः ।

Notes

(मू)

(व्या) 1.म. दूतः प्रवृ ।

मङ्गल्यमिति कृत्वा च नृत्तमेतत्प्रकीर्तितम् ।
विवाह1प्रसवावा2हप्रमोदाभ्युदयादिषु ।। २६५ ।।

3विनोदकारणं चेति नृत्तमेतत्प्रवर्तितम् ।
अतश्चैव प्रतिक्षेपाद्भूतसङ्घैः प्रवर्तिताः ।। २६६ ।।

Abh

उक्तं– “यानि वाक्यैस्तु न ब्रूयात्” इति” यत्तु काव्येन नोक्तं स्यात्” इति । ध्रुवायास्तु सम्पाठमात्रमेवास्तु । अलं वर्णालङ्कारयोजनात्मकगानक्रियादि- प्रसारायासेन ।

ननु रामरावणादिगत(ता)ग्राम्यत्याज्यरूपचरितार्थडम्बरस्य हृदयानुप्रवेशद्वारभूतं हृद्यं तत्सूचीकल्पं स्वयं हृदयानुप्रवेशित्वादित्युक्तं प्राक् । स एव तर्हि नृत्तस्य वलनावर्तनादेरन्तरङ्गेऽस्य नाट्य उपयोगः । विशेषतो हि तद्विनाऽलातचक्रप्रतिमत्वे तैर्बुद्धिग्राह्यमेव नाट्यं न स्यात् । तत एव विमलाभिनयमाणिक्यगुम्फविधायिसूत्रस्थानीयं वलनादिरूपनृत्तसजातीयत्वान्निकटत्वादन्तरङ्गीतादिव्यापि नाट्यम् ।

तदेतदाह–किन्तु शोभां प्रजनयेदिति । नृत्तं प्रवर्तितं प्रकृष्टमत्रुटितं वर्णनाविलासवलनादिदक्षिणं यद्वर्णितं कायावयवानां कायस्य च विलासचेष्टावस्थानात्मकं वर्तितं तदात्मकं यन्नुत्तं तच्छोभां रञ्जनायोग्यत्वं शोभानान्तरीयकचमत्कारं प्रकर्षेण गानादिवैलक्षण्येन जनयेदिति नृत्तं प्रवर्तितमित्यन्तेनाभिसम्बन्धः । हेतौ लिङ् ।

ननु रञ्जकत्वं भोजनादीनामप्यस्ति । तत्तदनुप्रवेशनीयमत्रेत्याशङ्कां मध्येऽपाकरौति–प्रायेणेतिविवाहप्रसवावाहादिपु सर्वस्य लोकस्य स्वभावतः स्वभावेष्वात्माभिमतेषु स्वदेहेनात्मना नर्तनमिष्टं वल्लभम् । सर्वोऽपि जनो स्वभावतः स्वाभिमते विवाहादौ नृत्यति योऽपि वादयन्नृत्यपि तेनापि । दुर्दुरूटेनापि मङ्गल्यमितिविवाहो वध्वा आनयनम् । तत्पूर्वकः सर्व उत्सवः । पुत्रजन्म प्रसवः । ततो जामातुः सवधूकस्य सर्वत्र श्वशुरभवनगमनमावाहःप्रमोदा राज्ञामर्थकरणादयः । अभ्युदयो मनोरथप्राप्तिरभिलषितस्योदय इति । आदिग्रहणेनानाकाङ्क्षितशुभप्राप्त्यादि । एतेन निनिमिति (विनोदनमिति) श्लोकत्रयस्य सम्बन्धः । एतच्च “कैशिकीमपि योजय” (ना.शा.१-४२) इत्यत्र दर्शितम् ।

कं स्वभावमपेक्षत इति प्रतिसमाधातुमाह–अतश्चैवेति । अतश्च कारणन्नृत्तं प्रवर्तितम् । प्रारम्भे पूर्वरङ्गे लक्षणवर्तितं योजितमिति संबन्धः । एवकारो हेतौ

Notes

(मू)

ये गीतकादौ युज्यन्ते सम्यङ्नृत्तविभागकाः1 ।
देवेन चापि 2सम्प्रोक्तस्तण्डुलस्ताण्डपूर्वकम् ।। २६७ ।।

Abh

यस्मात्प्रतिक्षेपात् । ज्झण्टुमाद्याः शुष्काक्षराः देवैः प्रतिक्षिप्तत्वात् भूतसङ्घैश्च दैत्यादिभिः प्रवर्तिताः । (२६६)

“निर्गीतं तु सवादित्रमिंद गृह्णीमहे वयम् ।” (ना.शा. ५-३५) इति वक्ष्यते ।

अत एवम्भूता गीतानां मद्रकादीनामादौ सम्यङ्नृत्तस्याभिनेयपदार्थाभावे– नाभिनयशून्यतया नाश(तयाश)ङ्किता नाट्याङ्गस्य शुद्धस्य विभागका विभागप्रापका आदौ प्रयुज्यन्ते । एतदुक्तं भवति–गीतकानां यान्युपोहनानि तत्र तावन्नृत्तं शुद्धमेवं कर्तव्यम् । यद्वक्ष्यति–

“तत्रावतरणं कार्यं नर्तक्याः सर्वभाण्डकम् ।
क्षेपप्रतिक्षेपकृतम् ।” इति (ना.शा. ४-३००)

तद्नत(तत)श्च गीतकाङ्गमध्ये तु प्रवेशाभावोऽसि(भावस्सि)द्धः । विचारणीयस्य चावापनिष्क्रामादेरगीतकाङ्गत्वमस्त्येव । यद्यपि “महागीतेषु चैवार्थान्” (ना.शा. ४-१५) इत्युक्तं वक्ष्यते च “ततोऽभिनयमाचरेत्” (ना.शा. ४-४९०) इति प्रथमत्वेऽभिनयनेऽस्यापि तथापि तत्र न मुख्यो नाट्यप्रसिद्धोऽभिनयार्थ इत्युक्तम् ।

किञ्चाभिनेयत्वेन नाट्याङ्गत्वदशायामवलोकनात् तथा वाचोयुक्तिः । लौकिककथास्विवाङ्गव्यवहारादावभिमुखीभावमात्रनयनश्चापि स्वार्थो यथावाच्यमभिनीतः । नहि तत्र साक्षात्कारकल्पतापादनमभिनयार्थः । किन्तु तल्लयाद्याहारित्वमात्रम् । एवमत्रापि तदर्थानुसारित्वमात्रं परप्रतिपत्तिमात्रं स्यात् ।

…….दस्थेनैवाङ्गभूतत्वेऽप्य1नुगयिते(गमित)कालात्पृथग्भूत एवादौ प्रयुज्यमानो लोकप्रसिद्धप्रथमगीयमानाक्षिप्तडोम्बिकाप्रायः प्रचुरस्तुतिपदयुक्तो गीतिविशेषप्रतिक्षेप इत्याह । इदं भरतमुनिना न क्वचिल्लक्षितम् ।

अन्ये तु गीतान्ते 2प्रयोज्याश्छन्दकादय एवं नृत्तवैचित्र्याश्रया यथारुचि प्रतिक्षिप्यमाणाङ्गकाः प्रतिक्षेपाः । आदिशब्दश्च व्यवस्थायामासारितादिसङ्ग्रहार्थः प्रयुक्तः । सतीति चाध्याहार इति । मुनिमतं चाद्य तयोरनुग्राहकम् ।

Notes

(मू)

(व्या)

गीतप्रयोगमाश्रित्य 1नृत्तमेतत्प्रवर्त्यनाम्2 ।
प्रायेण3 ताण्डविविधर्देवस्तुत्याश्रयो भवेत् ।। २६८ ।।

Abh

एवं नाट्याङ्गता नृत्तस्य गीतादिवदुपयोगश्च समर्थितः । अधुना नृत्तप्रधानरागकाव्यादिर्विषयः काव्यं च नाट्याङ्गमिति दर्शयन्पुराकल्पच्छायया प्रकारान्तरमपि नृत्तस्य समर्थयितुमाह–देवेनेत्यादि । चकार एवकारार्थे । देवेनैव महेश्वरेणैव । तण्डुः सन्तोषपूर्वकं प्रकर्षेणादरेणोक्तः । किमित्याह–गीयत इति गीतं काव्यम् । तस्य यः प्रकर्षेण योगस्तदर्थानुप्रवेशलक्षण(स्त)माश्रित्य न छायाम् । आसमन्ताच्छ्रित्वा । अङ्गविक्षेपिताङ्गत्वं सामरस्यलयसत्त्वादिना नृत्तं तच्छब्दस्वभावमपि यदभूत्ताण्डवप्रभृति (नृत्तं तद्नीयमानरूपकगतवर्णालङ्कारलयपदार्थवाक्यार्थसम्मिलितं यत्तत्प्रवर्त्यताम् ।) तदुक्तं कोहलेन

“सन्ध्यायां नृत्यतः शम्भोर्भक्त्याऽर्द्रो नारदः पुरा ।
गीतवांस्त्रिपुरोन्माथं तच्चित्तस्त्वथ गीतके ।।

चकाराभिनयं प्रीतस्ततस्तण्डुं च सोऽब्रवीत् ।
नाट्योक्त्याभिनयेनेदं वत्स योजय ताण्डवम् ।।” इति ।।

अथशब्दान्न केवलमिदं शुद्धमेव । नापि गानक्रिया । भाण्डवाद्यमात्रसम्बन्धमेव यावद्नीत्याधारपदानुसार्यपि । तदर्थानुसरणाच्च तदनुसारणमिति ।

ननु किं तत्ताण्डवप्रवृत्तिनिमित्तमित्याशंक्याह–प्रायेणेति । ताण्डवमिति सर्वं नृत्तमुच्यते । लास्यशब्देन सन्निधौ गोबलीवर्दन्यायेन प्रवर्तते । तत्र विधीयतेऽस्मिन्नृत्तमिति विधिः विधीयमानं काव्यं सदैव(यद्दैव) स्तुतिं वर्णनीयत्वेन चाश्रयति । तेन धर्मवीर- प्रधानं तत्र काव्यम् । तत्र रसान्तरमप्यस्ति । नाट्ये शृङ्गारः । प्रयुज्यत इति प्रयोगः काव्यं सुकुमारो मसृणोऽनुसृतो यस्य तं दर्शयति । शृङ्गाररसस्य सम्भवो विद्यमान- त्वमस्मिन् । शृङ्गाररसाच्च परिपूर्णात्सम्भवो यस्य कामावस्था मनसोऽस्मिन्नस्तीति । शृङ्गारेण पूर्णापूर्णरूपेण मसृणप्रयोगोपलक्षणम् । यद्यपि च नाट्यान्नान्यत्र रस इति वक्ष्यते तथापि काव्यं नाट्यनिष्यन्द एवेत्यस्ति रसानुप्रवेशः । अनेन च रसाङ्गं नृत्तस्य नाट्यम् । प्रायेणेति वचनान्नरपतिचाटुकाद्यपि सङ्गुहीतम् । चकारान्मसृणमप्युद्धतमिश्रमुद्धतं मसृणमिश्रमित्यादिकमपि सङ्गृहीतं भविष्यतीति सर्वं लक्ष्यमनेन सूचितम् । तथाहि–डोम्बिकासु नरपतिचाटुप्राधान्येन प्रवृत्तासु सुकुमारमेव

Notes

(मू)

Abh

शुद्धं रूपम् । भाणकेषु नृसिंहादिचरितवर्णनमुद्धतमेव । यत्पुनर्मसृणेऽप्युद्धतं प्रविशति तत्तदुचितमेव । अत्राप्यल्पत्वबहुत्वकृतो भेदः (1पूर्वः प्रस्थानप्रबन्धः । उत्तरः षिद्नकभेदः) उद्धते तु मसृणानुप्रवेशाद्भाणिकाभेदः । अन्यदपि प्रेरणरामाक्रीडकरासकहल्ली– सकादिकमल्पत्वबहुत्ववैचित्र्यकृतमितीहैव प्रविष्टं वेदितव्यम् ।

तदुक्तं चिरन्तनैः

“छनानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः ।
आवर्ज्यते मनः सा तु मसृणा डोम्बिका मता ।।

नृसिंहसूकरादीनां वर्णनां कल्पयेद्यतः ।
नर्तकी तेन भाणः स्यादुद्धताङ्गप्रवर्तितः ।।

गजादीनां गतिं तुल्यां कृत्वा प्रवसनं तथा ।
अल्पाविद्धं सुमसृणं तत्प्रस्थानं प्रचक्षते ।।

सख्याः समक्षं 2भर्तुर्यदुद्धतं वृत्तमुच्यते ।।

मसृणं च क्वचि3द्धूर्तचरितं षिद्नकस्तु सः ।।

बालक्रीडानियुद्धादि तथा सूकरसिंहजा ।
ध्वजादिना कृता क्रीडा यत्र सा भाणिका मता ।।

हास्यप्रायं प्रेरणं तु स्यात्प्रहेलिकयाऽन्वितम् ।
ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते ।।

मण्डलेन तु यन्नृत्तं हल्लीसकमिति स्मृतम् ।
एकस्तत्र तु नेता स्याद्नोपस्त्रीणां यथा हरिः ।।

अनेकनर्तकीयोज्यं चित्रताललयान्वितम् ।
आचतुष्षष्टियुगलाद्रासकं मसृणोद्धतम् ।।” इत्यादि

एते प्रबन्धा नृत्तात्मकाः न नाट्यात्मकनाटकादिविलक्षणाः । राघवविजयमारीचवधादिकं रागकाव्यम् । एतच्च ग्रन्थविस्तारभीत्या बहुतरं यथासम्भवं न लिखितमनुपयोगाच्च । यत्तूपयोगि तद्यथावसरं वर्णयिष्यामः ।

एष तावत्पदगते चोद्यकप्रकारः । तत्र तु परस्परमसङ्गतिदोषोऽयं कैश्चिदुद्भाव्यते ।

Notes

(व्या)

सुकुमारप्रयोगश्च1 शृङ्गाररससम्भवः ।
तस्य 2तण्डुप्रयुक्तस्य ताण्डवस्य 3विधिक्रियाम् ।। २६९ ।।

Abh

स पूर्वादिनैव प्रतिसमाहितः । एष एव तु प्रकारः कलाविधिना निबध्यमानो राघवविजयमारीचवधादिकं रागकाव्यभेदमुद्धावयतीति । यथोक्तं (1कोहलेन)–

(“2लयान्तरप्रयोगेण रागैश्चापि विवेचितम् ।)
नानारसं सुनिर्वाह्य कथं काव्यमिति स्मृतम् ।।”

लयतश्चास्य गीत्याधारत्वेनाप्राधान्ये गीतेरेव प्राधान्यमिति न काव्यार्थविपर्यासवशेन रागभावादिविपर्यासो नाट्य इव ।

तथा हि राघवविजयस्य हि ठक्करागेणैव विचित्रवर्णनीयत्वेऽपि निर्वाहः । मारीचवधस्य ककुभग्रामरागेणैव । अत एव रागकाव्यानीत्युच्यन्त एतानि । रागो गीत्यात्मकत्वात्स्व (कः स्व)रस्य तदाधारभूतं काव्यमिति । एवमिदं च नृत्तं सप्तकृतिप्रकारैर्भगवत एव प्रसृतम् । तथाहि–शुद्धमेव नृत्तं रेचकाङ्गहारात्मकम् । ततो गीतकाद्यभिनयोन्मुखम् । ततोऽपि गानक्रियामात्रानुसारि वाद्यतालानुसारि च । (3बाहु)प्रेङ्खणोरःकम्पपार्श्वनमनोन्नमनचरणसरणस्फुरितकम्पितभ्रूतारापरिस्पन्द- कटिच्छेदाङ्गवलनमात्ररूपम् । यत्रो(च्चो)क्तं–

“तण्डुनापि ततः सम्यग्गानभाण्डसमन्वितः ।
नृत्तप्रयोगः ।” इत्यादि । (ना.शा. ४-२६०)

गीतिर्गानमिति ह्यत्र व्युत्पत्तिरुक्ता । ततोऽप्युद्धतसुकुमारमिश्रात्मकभेदचतुष्टय- भिन्नकाव्यार्थानुसारितया चुतुर्विधम् । तत्र प्रथमो भेदो लौकिके स्वतन्त्रनृत्ते देवतातोषणादौ वा । द्वितीयः पूर्वरङ्गविधौ परिशिष्टनृत्तलक्ष्यतया वास्य ताण्डवादि विश्वं व्याप्तमितीह पूर्वमुक्तम्–

“प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै ।” इति (ना.शा. ४-१८)

भवगता तत्र तण्डुनाऽङ्गहाराः सप्रयोगाः प्रोक्ताः । तत्रैवंभूतास्तावदङ्गहारा मह्यं प्रोक्ता इति रेचकैः पिण्डीबन्धैश्च सहितं मुनिना निरूपिताः । करणान्यपि तदुपयोगित्वे- नाशाङ्कितचोद्यनिराकरणप्रसक्तानुप्रसक्तं नृत्तस्वरूपं दर्शितम् । अधुना तु प्रयोगःकीदृशोऽङ्ग-

Notes

(मू)

(व्या)

वर्धमानकमासाद्य संप्रवक्ष्यामि लक्षणम् ।
कलानां वृद्धिमासाद्य4 ह्यक्षराणां च वर्धनात् ।। २७० ।।

Abh

हाराणां प्रोक्त इति प्रकृतमेवानुसन्धातुमाह–तस्य तण्डुप्रयुक्तस्येति । तत्र पूर्वरङ्गोचितत्वायाङ्गहारप्रयोग इत्युक्तम् । तत्र च “ताण्डवं यत्र युज्यते ।” (ना.शा.५-१३) इति वर्धमानकताल एव ताण्डवयोगयोग्य इति पूर्वं वर्धमानं गृह्णाति । तदनन्तरं तु गीतकादिविषयो विधिर्वक्ष्यते । तस्येति व्यवहितानुसन्धानार्थः परामर्शः तण्डुप्रयुक्तग्रहणं समनन्तरोक्तनृत्तकाव्यादिविषयताण्डवशङ्कां निरस्यति । विधीयतेऽनेनेति विधिः गात्रम् । तत् दृष्ट्वा येयं क्रिया प्रयोगः सैव लक्षणम् । अन्यतो व्यवच्छेदकत्वात् । तत्र क्रियात्मकं लक्षणं वक्ष्यामीति सम्बन्धः । (२६९)

ननु सा क्रियोक्ता करणाङ्गहारविषया । सत्यम् । गीततालसंमिश्रा तु नोक्ता । इह तु वर्धमानाख्यं तालमासाद्य साम्यापादनायोपायतां नीत्वा तत्प्रमितिगीत्याधारत्वाच्च वर्धमानशब्दवाच्यं “देवं देवैः संस्तुतमीशम् ।” (ना.शा. ३१-९८) इत्यादिवाक्यसमूहमासाद्याभिनेयतयाश्रित्य तदाक्षिप्तञ्च गीतविशेषमासाद्याङ्गस्य वलनावर्तनादिगतद्रुततारादिनियमकारित्वेनावलम्ब्य वक्ष्यामीति सम्बन्धः । वर्धमानकगीततालाभिनयसम्बन्धतयोदितं ताण्डवं वक्ष्यतीति यावत् ।

तत्र वर्धमानस्य भविष्यल्लक्षणानुवादेन (ना.शा. अ-३१) ताण्डवोपयोगाभिधा- नायाद्यरूपमाह–कलानामित्यादि । सप्तदशकलः कनिष्ठासारितकः । स एव द्विगुणलयो लयान्तरः । त्रयस्त्रिंशत्कलो मध्यमः । पञ्चषष्टिकलो ज्येष्ठः । तेन कलानां लयद्वारेण सङ्ख्याद्वारेण च वृद्धिः। तद्वृदध्यैव च हीयमानपदवृद्धिराक्षिप्ता । यद्वक्ष्यति –“चत्वारस्तु गणा युग्मे ओजे” इत्यादि (ना.शा. ३२-९७)। इह त्वक्षराणि तेषां वृद्धिः कलानुसारेणैव नर्तकीनां च वृद्धिः । एका हि प्रथमासारिते नृत्ते प्रयोक्त्री । द्वितीये द्वे इत्यादिक्रमेण । अतो वृद्धियोगाद्वर्धमानकम् । संज्ञायां कन् । कण्डिकानां च दशपरिवर्तक्रमो भविष्यति । प्रयोगे यथा यथाक्षरं विनिवृत्तमित्यपि यो भेदो भविष्यति तेनापि क्रमेण कलादीनां वृद्धिः । अतोऽत्राङ्गहारप्रयोगस्य परिपूर्णस्य च पिण्डीबन्धविधेः सम्यङ्निष्पत्तिर्भवतीति तात्पर्यम् । (२७०)

Notes

(मू)

1लयस्य वर्धनाच्चापि वर्धमानकमुच्यते ।
कृत्वा कुतपविन्यासं यथावद् द्विजसत्तमाः2 ।। २७१ ।।

Abh

एवं लक्षणानुवादेन ताण्डवोपयोगमभिधाय विधिदृष्टां क्रियां प्रतिज्ञानपूर्वमाह– कृत्वेत्यादि । पूर्वरङ्गविधौ वक्ष्यते–

“कलापातविभागार्थं भवेदासारितक्रिया ।
कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा ।।” (ना.शा. ५-२१) ।

तत्र प्रथमार्धेन शुष्काक्षरैरासारितप्रयोगमाह । तथा च वक्ष्यति–

“एतानि तु बहिर्गीते त्वन्तर्यवनिकागतैः ।।” इति (ना.शा. ५-११) ।

बहिर्गीतशब्देन द्वितीयार्धेन सार्थकपदयुक्तमासारितप्रयोगमाह । तत्रैव चोच्यते–

“ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् ।
विघाट्य वै यवनिकां नृत्तपाठ्यकृतानि तु ।।”

गीतानां मद्रकादीनाम् । (ना. शा. ५-१२) इत्यादि ।

तस्मिन्नवसरेऽयं1 नृत्तप्रयोग इति तमेवावसरं दर्शयति–कृत्वेत्यर्धेन । कुतं2 शब्दं पातीति चतुर्विधमातोद्यं कुतपं तत्प्रयोक्तृजातञ्च । तस्य विशेषण न्यासः व्यवस्थापनम् । तत्र विशेषेण न्यासो यथायोगं स्वरताललयकलादिनिवेशनम् । स एव प्रत्याहारादिरासारितक्रियान्तः परिपूर्णो विन्यासः । आसारितक्रिययाभिघातातोद्ये तत्प्रयोक्तरि च प्रयोक्ष्यमाणासारितगतकलापातप्रस्ताव एवं क्रियत इत्युक्तम् । स च परिपूर्णो विन्यासो यथावच्छब्देन दर्शितः । अनुपूर्वश इति पाठे प्रत्याहारावतरणाद्यङ्गजातं सूचयति । तेन (ए)तदुक्तं भवति–अन्तर्यवनिकागते शुष्काक्षरप्रयोगप्राण– भविष्यदातोद्यप्रयोगप्रस्तावनात्मके दृष्टफले दैत्यादिपरितोषणया तद्विघ्नशमनशास्त्रीयफले च प्रयुक्तेऽङ्गकलापेऽयं प्रयोगविधिः । आसारितप्रयोग इति सार्थकपदं य इत्यर्थः । प्रयोक्तृभिरित्यातोद्यान्तरसाहित्यं बहुवचनेनाह ।

प्रयोगक्रमं दर्शयति–तत्र त्वित्यादिना । उपोहनं शुष्काक्षरं कनिष्ठासारिते पञ्चकलम् । उपोह्यन्ते समासव्यासतः पदकालतालमभिहिताः स्वरा यस्मिन्नङ्गे तत्थथोक्तम् । गानं सुषिरातोद्यं गीयते यतः स्थानस्वरादिति स्वराणि सादिनादीति ।

Notes

(मू)

(व्या)

1आसारितप्रयोगस्तु ततः2 कार्यः प्रयोक्तृभिः ।
3तत्र तूपोहनं कृत्वा 4तन्त्रीगानसमन्वितम् ।। २७२ ।।

कार्यः प्रवेशो नर्तक्या भाण्डवाद्यसमन्वितः ।
विशुद्धकरणायां तु जात्यां वाद्यं5 प्रयोजयेत् ।। २७३ ।।

गत्या वाद्यानुसारिण्या6 तस्याश्चारीं प्रयोजयेत् ।
वैशाखस्थानकेनेह सर्वरेचकचारिणी ।। २७४ ।।

पुष्पाञ्जलिधरा भूत्वा प्रविशेद्रङ्गमण्डपम् ।
पुष्पाञ्जलिं विसृज्याथ रङ्गपीठं परीत्य च ।। २७५ ।।

Abh

तेन घनावनद्धातोद्यद्वयस्यात्र निरासः । उपोहनसमाप्तौ नर्तक्याः प्रवेशः । तत्र भाण्डवाद्यं पुष्करवाद्यं तच्च विशुद्धकरणजातौ1 । सा च मध्यस्त्रीणां लक्ष्यते । तत एवात्रानुकारसाक्षात्कारशङ्कानिराकरणम् ।

तथा हि–सति परमेश्वरस्य रामादिवत्प्रयोज्यत्वे प्रथमप्रकृत्या- 2दिचित्तजातिप्रसङ्गः ।

तत्र–

“एकाक्षरं विशुद्धायां वाद्यं स्यात्सर्वमार्गकम् ।”
“द्धं द्धं खो खो णा णादि या विहितवाक्या ।
सा शुद्धा विज्ञेया मध्यस्त्रीणां समा3 जातिः ।।” इति ।

(ना.शा. ३४-१३६-१३८) विशुद्धमेकाक्षरवाच्यम् । करणमङ्गहारम् । आद्यत्वे अयमेव वर्णस्तत्तत् “रुन्दहि रुन्दहि” इत्यादि । तथाविधवाद्यानुसारिणी या गतिः तदुपलक्षणचारीति संबन्धः । ‘करणाङ्गहारान्प्रयुञ्जीत’ इति भाण्डवाद्यस्यानुप्रयोज्यता प्रधान्येनोक्ता । यथोक्तं भवति भट्टतोतेन-‘‘पर्यायशस्त्रस्यास्य प्रयोगः’’ इति । तदनन्तरं प्रयोगमाह- वैशाखस्थानकेनेत्यादि । वैशाखरेचितकरणमनेन लक्षयति–

“रेचितं हस्तपादं च कटिग्रीवं च रेचितम् ।” इति (ना.शा.४-९७) (२७४) पुष्पाञ्जलिधरेति । तलपुष्पपुटकरणमनेन लक्ष्यते–विसृज्येति । पुष्पाक्षेपमङ्गप्रक्रमेण प्रदर्श्येत्यर्थः ।

Notes

(मू)

(व्या)

प्रणम्य देवताभ्यश्च ततोऽभिनयमाचरेत् ।
यत्राभिनेयं 1गीतं स्यात्तत्र वाद्यं2 न योजयेत् ।। २७६ ।।

अङ्गहारप्रयोगे तु भाण्डवाद्यं 3विधीयते ।
समं रक्तं विभक्तं च 4स्फुटं शुद्धप्रहारजम् ।। २७७ ।।

Abh

अन्ये तु सद्य एव पुष्पाञ्जलिं तन्मोक्षं चाहुः–रङ्गपीठे यः परिगमः समन्ततः परिष्वङ्गकरणं मध्य एव देवतानां पूर्वपूजितानां प्रणामाभिनय इत्येककालत्वं चशब्देनोक्तत्वात् द्वयं चाचरेदित्येतदुपेक्ष्यम् । पौर्वकाल्यमाश्रित्य ततोऽभिनयमिति । भक्त्यतिशयेन तदर्थभावनया विशिष्टविषयतां प्रदर्शयितुम् । आसारितवाक्यस्य पदार्थवाक्यार्थविषयोऽभिनयः स्वात्मन्याभिमुख्यनयनात् । न तु सामाजिकान्प्रति ।

यत्रेति निपातो यतो हेतोरित्यर्थे । तेन यतो गीतमिति गीयमानं वाक्यमभिनेयं स्वात्माभिमुख्यं नेयम् । तच्च गानं वर्णालङ्कारलक्षणमाभिमुख्यमङ्गसाम्यं नेयम् । ततो हेतोस्तस्यैव प्राधान्यात्तस्मिन्कालेऽवनद्धवाद्यं तदाच्छादनकारि भवतीति स्वातन्त्र्येण न योजयेदतिशयेन न नयेत् । यत्रेति च वीप्सया परिभाषां सार्वत्रिकीमाह । (२७६)

अनुवादमुखेन परिशिष्टं प्रयोगमाह–अङ्गहारप्रयोगेत्विति । तुशब्द एवकारार्थे । अङ्गहारस्य शुद्धस्यैवाभिनयशून्यस्य प्रयोगे नृत्तप्राधान्ये तदनुसारि वाद्यम् । विशेषेणान्तरयोगा(नन्तरयोगा)पेक्षया स विधेयो1 विधीयते धार्यते । अत एव चानुपादानात्–

“तदेव हि पुनर्वस्तु भूयो नृत्तेन योजयेत् ।” (ना.शा. ४-२८४) इति वक्ष्यमाणस्य नर्तक्या2 समाकर्षणे पुनरासारितगाने शुद्धनृत्त3मिति वाद्यस्य4 गीयमान- सहितस्य गानस्य नृत्तस्य च क्रमेण प्रधान्येन प्रयोगो दर्शितः ।

भाण्डवाद्यं विधीयत इत्युक्तम् । तदीदृशमिति दर्शयति सममिति । अक्षराङ्गताललययतिपाणिग्रहन्यासविकृतमष्टविधकालेदेशसमतात्मकं साम्यं पुष्कराध्याये च वक्ष्यते । तत्र षोढा तालकृतम् । द्विधा स्वरोच्चारणस्थानदेशकृतम् । तद्योगात् समरक्तभावः शब्दस्य हृद्यस्वरूपता । सा च मायूर्यादिमति(मत्रि)विधमार्जनायोगात् । तेन सम्यङ्मार्जनायोगात् रक्तं विभक्तम् । आहत्यानन्तरं च पीडितयोगेन विच्छेदप्रतिभा-

Notes

(मू)

(व्या)

नृत्ताङ्गग्राहि वाद्यज्ञै1र्वाद्यं योज्यं तु ताण्डवे ।
प्रयुज्य 2गीतवाद्ये तु निष्क्रामेन्नर्तकी ततः ।। २७८ ।।

अनेनैव विधानेन प्रविशन्त्यपराः 3पृथक् ।
अन्याश्चानुक्रमेणाथ4 पिण्डीं बध्नन्ति 5याः स्त्रियः ।। २७९ ।।

Abh

समानाक्षरम् । स्फुटमिति कादिवर्णानामनुहारो यत्र स्पष्टो भवति । प्रहारजा वर्णान्ते शुद्धविशुद्धका(क)रणान्ते स्थिताः । यदि वा आलिप्तिकादिमार्गादन्यतम एव मार्गे स्थिताः । यत्र नृत्तमङ्गहारात्मकं तदङ्गानीव करणानि । यदि वा गीताङ्गानि मुखादीनि गृह्णाति समया(तया)स्वीकुरुते एतच्च संममिति गतार्थम् । तेनायमर्थःनृत्तकर्मभूतमङ्गकर्तृभूतं यद्वाद्यं ग्राहयति नृत्तं तन्नृत्यतेति यदङ्गानि प्रयुङ्क्त इव स्वयं वैचित्र्यप्रयोगात्सविलासमिव श्रूयमाणमेव यद्बलादङ्गानि नर्तयतीति तत्तथोक्तम् । तद्यथा कर्तृ ककतकणककुन्दन्तरकरहतत्तततर्हीकटिच्छिदशतहीत इति चञ्चत्पुटे । यदेवंविधं वाद्यं पुष्कराध्याये वक्ष्यते तत्ताण्डवे इहावसरे योज्यम् । पुष्कराध्याये त्वीदृश एव श्लोको भविष्यति (ना.शा. ३४-१७२)। तत्र विध्यनुवादाविह द्वौ विपर्यसनीयौ । ताण्डवमुक्तं प्राक् । तत्रैवंविधं वाद्यं कार्यमिति ।

एवं प्रथमासारितस्य प्रयोगमुपसंहरत्यर्धेन - प्रयुज्येत्यनेन । एषां च प्रयोगे प्रथमं परिभाषां करोति श्लोकत्रयेण–अनेनैवेत्यादिना-करणान्वितमित्यन्तेन । गानमिति गीयते च गीतम् । गीतवाद्ये प्रधानतयावस्थिते नर्तकी नृत्तेन प्रयुज्य तथा स्वरागतो नृत्तप्राधान्यं तदौचित्याय गीतवाद्यं प्रयुज्य स्वानुसारिणीकृत्य । नर्तकी न तु नाट्य इव साक्षाद्रामादिरूपताप्रच्छन्नात्मिका । सा निष्क्रामेदपसरेत् । न तु सर्वथैव निर्गच्छेत् । द्वे द्वितीयमिति (ना.शा. ४-२८६) वक्ष्यमाणत्वात् । अपराः किं युगपत्प्र- विंशन्ति नेत्याह । पृथक् एकैकक्रमेण प्रविशेदित्यर्थः ।

ननु कियत्यस्ता अपरा या अनेनैव विधिना प्रविशन्तीत्याशङ्क्याह–अन्याश्चेति । अनुक्रमेण कनिष्ठादिषु चतुर्ष्वासारितेषु यथासङ्ख्यं वक्ष्यमाणाश्चतुरः पिण्डीबन्धप्रकारान् या अन्याः बध्नन्ति ताः अपराः । अनेन चतस्र एवेत्युक्तं भवति । पिण्डीमिति जातावेकवचनम् । (२७९)

Notes

(मू)

तावत्पर्यस्तकः1 कार्यो यावत्पिण्डी, 2न बध्यते ।
3पिण्डीं बध्वा ततः सर्वा निष्क्रामेयुः स्त्रियस्तु ताः ।। २८० ।।

4पिण्डीबन्धेषु वाद्यं तु कर्तव्यमिह वादकैः ।
पर्यस्तकप्रमाणेन 5चित्रौघकरणान्वितम् ।। २८१ ।।

Abh

एवं प्रवेशपृथक्त्वं परिभाष्य परिभाषान्तरमाह– तावत्पर्यस्तक इति । ‘यावत्पिण्डी न बध्यते’ इति पाठः । तावद्यावदिति भिन्नक्रमः । यावत्पर्यस्तकः केवलासारिताभी (भिहि)-तलक्षणः प्रयोगः कार्यः तावन्न पिण्डी बध्यते । तावत्पिण्डीबन्धो न कार्यः । तदनन्तरं तु कर्तव्य इत्यर्थः । पूर्वप्रविष्टया नर्तक्या परिवर्ज्यते । महावाक्यानुसारादेकघन एव वाहिन्यात्मकोऽङ्गविक्षेपो यत्र प्रयोगे स पर्यस्तको नृत्ताचार्यभाषया पर्यस्तक इति प्रसिद्धः । अभिनयशून्य(आ)ङ्गिकविधिः पर्यस्तकः । स च पिण्डीबन्धे न कार्यः । तदनन्तरं तु कर्तव्य इत्यर्थः । पूर्वप्रविष्टाया नर्तक्याः शिक्षार्थमित्याद्यसङ्गतमेव कैश्चिदुक्तं तदुपेक्ष्यमेव । यावच्च पिण्डीबन्धोपयोगी नृत्तं न प्रवर्तते तावत्प्रविष्टनर्तकीनिवर्तनेनैकाकिन्यैवासारिताभिनयः प्रयोक्तव्य इति परिभाष्यते ।

परिभाषान्तरमाह–पिण्डीं बध्वेति । तस्यासारितस्य नृत्तप्रयोगं कृत्वा सर्वास्ता निष्क्रामेयुरपसरेयुः । अत एवैतत्स्थानोपजीविभिरेव श्रीराणकादिकविभिर्डोम्बिकादौ चतुरपसारकः प्रयोगः । (२८०)

परिभाषान्तरमाह–पिण्डीबन्धेष्विति । यावदेव पर्यस्तक आसारिताभिनयप्रयोगे वाद्ये तावदेव तदन्तरतापि(पाति)नि पिण्डीबन्धोपयोगिन्यङ्गहारप्रयोगे । किन्तु चित्रं विचित्रं नानाप्रकारं प्रयोजितमोघे च वाद्यविधौ (ना.शा. अ-३४) वक्ष्यमाणानि यानि करणानि क्रिया याभिवेध्या भगवत्यारूपास्ताभिरन्वितम् (?)। द्विमात्रा यत्र कला स चित्रमार्ग ओघशब्दादेव लब्धः । तत्रैव ह्योघो लक्ष्यते । (२८१)

एवं पृथक्प्रवेश एकाकिन्या अभिनयप्रयोगः सम्भूयाङ्गहारप्रयोगः तदनन्तरमपसारस्तावत्कालता नृत्तस्य वाद्यस्य वैचित्र्यमिति परिभाषाषट्कं कृवा द्वितीयस्य

Notes

(व्या)

1तत्रोपवहनं भूयः कार्यं पूर्ववदेव हि ।
ततश्चासारितं भूयो 2गायनं तु प्रयोजयेत् ।। २८२ ।।

पूर्वेणैव विधानेन प्रविशेच्चापि नर्तकी ।
3गीतकार्थं त्वभिनयेद् द्वितीयासारितस्य तु ।। २८३ ।।

4तदेव च पुनर्वस्तु 5नृत्तेनापि प्रदर्शयेत् ।
6आसारिते समाप्ते तु निष्क्रामेन्नर्तकी ततः ।। २८४ ।।

7पूर्ववत्प्रविशन्त्यन्याः प्रयोगः स्यात्स 8एव हि ।
एवं पदे पदे कार्यो विधिरासारितस्य तु ।। २८५ ।।

Abh

लयान्तरस्यासारितप्रयोगमाह–तत्रोपवहनमिति । तत्रैवं परिभाषयति1 तावत् । यत्रेति पूर्वं कनिष्ठासारितं प्रयुक्तम् । भूय इति बहुतरं षट्कलमित्यर्थः । भूय इति लयाधिकत्वात्कथंचिदभ्यधिकमित्यर्थः । पूर्वेणैवेति । तत्र तूपोहनमित्यादिना । अपिशब्दात् “गत्या वाद्यानुसारिण्या” इत्यादि “प्रणम्य देवतां च” इत्यनन्तरमुद्दिष्टम् । ततः सा द्वितीया नर्तकी आसारितस्य तालविशेषसंबन्धि यद्गीतकं गीयमानं च वाक्यं तस्यार्थमभिनयेत् । पुनस्तदेव लयान्तरासारितलक्षणं वस्तु । सा द्वितीया । चकारात्पूर्वप्रविष्टा च । नृत्तेन च केवलाङ्गहारात्मनाऽभिनयस्तत्साम्येन प्रदर्शयेत् । आसारितप्रयोगानन्तरं तया सह साऽप्यपसरेत् । (२८४)

अथ तृतीयचतुर्थयोरासारितयोरतिदेशेन प्रयोगमाह–पूर्वंवदिति । पृथक्त्वेनेत्यर्थः । स एवेति । तत्र तूपोहनं कृत्वेति य उक्तो यश्च परिभाषाषट्केनोक्त इत्यर्थः ।

अथ यदैकमेवापसारितं प्रयुज्यते तदायं प्रयोगवैचित्र्यक्रमं इत्यतिदेशेन दर्शयति –एवमित्यादिना । एकवचनमतन्त्रम् । एकमप्यासारितं यदा प्रयुज्यते तदास्य यानि

Notes

(मू)

(व्या)

भाण्डवाद्य1कृते2 चैव तथा 3गानकृतेऽपि च ।
4एका तु प्रथमं योज्या द्वे द्वितीयं तथैव च ।। २८६ ।।

तिस्रो वस्तु तृतीयं तु चतस्रस्तु चतुर्थकम् ।
पिण्डीनां विधयश्चैव चत्वारः सम्प्रकीर्तिताः ।। २८७ ।।

Abh

पदानि छेदाश्चत्वारो मुखप्रतिमुखशरीरसंहरण(ना.शा. ३१-८०) लक्षणास्तदाश्रयेणायं वर्धमानवच्चतुरपसारप्रयोगो भाण्डवाद्यक्रियायां गीतिक्रियायां च कार्यः । यद्वक्ष्यति ‘‘इत्येवं चतुरङ्गानि’’ इति (ना.शा. ३१-८२) । एतदेव स्पष्टयत्येकं त्वित्यादिना (एका त्वित्यादिना ।) वस्त्वित्यङ्गम् । युञ्ज्यादि (योज्या इ)ति नृत्तेनेति शेषः । त्रिमात्रादिकं यदत्र वस्तु केचित् द्विः कुर्वते तदसदेव । अन्ये त्वेवं पदे पद इत्यादि सार्धश्लोकमुपसंहारवाक्यं वर्धमानप्रयोगस्येति वर्णयाञ्चक्रुः । अपरे पुनराहुः- आसारितस्य पदमभिव्यक्तिस्थानं 1कण्डिकानां दश 2परिवर्तितेन प्रयोगः । तथा हि- विशाला सङ्गता सुनन्दा सुमुखीति चतस्रः कण्डिका वक्ष्यन्ते (ना.शा. अ. ३१-१२०) क्रमेण नवाष्टौ षोडश द्वात्रिंशत्कलाः । तस्य विशालामनु सङ्गता अनुविशालं सुनन्दा सङ्गता विशालामनु सुमुखी सुनन्दा सङ्गता विशालेति दश परिवर्ताः । तत्र विशालादिपरिवर्तत्रये सङ्गताः परिवर्ताः काकाक्षिवदुभयत्र संबन्ध इति सप्तदशकलस्य द्विः प्रयोगे कनिष्ठलया3न्तरितयोः स्थानं भवति । ततः सुनन्दादिपरिवर्तत्रये त्रयस्त्रिंशत्कलस्य मध्यमासारितस्य स्थानं भवति । ततः सुमुख्यादिचतुष्टये पञ्चषष्टिकलस्य ज्येष्ठासारितस्य । एवमासारितस्य पदेषु स्थानेषु कण्डिकादिपरिवर्तेषु चतुरपसारको नर्तकीप्रयोगः । तदाहैकापीति (एका त्विति)। वस्त्वासारितस्थानमित्येवं कण्डिकाव4र्धमान(परिवर्तन?)स्यायं प्रयोगोऽतिदेश इति तृतीयव्याख्यानतात्पर्यम् । द्वितीये तु व्याख्याने न किञ्चिदधिकमुक्तमिति तदुपेक्ष्यमेव ।

पिण्डीबन्धप्रकारा अनुक्रमेणासारितेषु प्रयोज्या इत्युक्तम् । के त इत्याह- पिण्डीनामित्यादि । विधयः प्रकाराः । तत्र विशेषान्तरहृद्यमेकप्रयोज्यं पिण्डीबन्धरूपामित्येकः प्रकारो विशेषनामधेयविरहात्सामान्यशब्देनोक्तः । तदाह-पिण्डीबन्धः पिण्डत्वादिति

Notes

(मू)

(व्या)

पिण्डी 1श्रृङ्खलिका चैव लताबन्धोऽथ भेद्यकः2 ।
पिण्डीबन्धस्तु पिण्डत्वादुल्मः3 श्रृङ्खलिका4 भवेत् ।। २८८ ।।

जालोपनद्धा5 च लता सनृत्तो भेद्य6कः स्मृतः ।
पिण्डीबन्धः कनिष्ठे तु शृङ्ख7ला तु लयान्तरे ।। २८९ ।।

मध्यमे च लताबन्धो ज्येष्ठे चैवाथ 8भेद्यकः ।
पिण्डीनां 9विविधा योनिर्यन्त्रं10 भद्रासनं तथा ।। २९० ।।

Abh

नर्तकीप्रयोज्यः परस्परसंबन्ध एव पिण्डीबन्धः1द्विप्रकारः । सजातीयो वा एकता(ना)– लावबद्धकमलयुगलवत् विजातीयो वा हंसवदनपरिगृहीतनालनलिनवत् गुल्मः श्रृंखलिकाशब्दवाच्यः । नर्तकीत्रयप्रयोज्यस्तु ततोऽपि वैचित्र्यसहिष्णुत्वाज्जालवद्विचित्रतां गच्छत्पूर्ववत्सजातीयविजातीयात्मा लताबन्धः । चतुष्टयप्रयोज्य स्तु2गतो(ते)ऽत्र रूपत्रयो (य) महावाक्ये तावद्भिः प्रकारैर्भेदनीय इति तेभ्य एकसत्त्वयोजनाच्चाज्ञातो भेद्यकः । महावाक्यार्थ इति वैकस्यां योजनायां प्रविष्ट इत्यर्थः । स तूक्तविधैस्त्रिभिः नृत्तैः सह वर्तते । (२८८)

एकादिप्रयोज्यत्वं स्पष्टयति–पिण्डीबन्धः कनिष्ठेत्वित्यादिना । ननु कथमेते पिण्डीबन्धान्निष्पद्यन्त इत्याशंक्याधा3रादिभेदकृतां निष्पत्तिं दर्शयति–पिण्डीना विविधा योनिरित्यादिना । तत्र यत्र पुत्रकादीनां यथा पृथग्भूताङ्गानामनुसन्धिस्तथैव भूमिदेहाकाशाद्याधारखण्डलकाद्यनुसन्धानं यन्त्रम् । तस्य भूयसा सम्भावात्पूर्वमभिधानम् । अनेन मिश्रा भेदाः सङ्गृहीताः । भद्रं स्फुटमेवेत्यस्यासनं स्थानं भूम्यादौ स्फुटमेव दर्शनादित्येकभेदसङ्ग्रहः । अनेनाधाराङ्गभेदो दर्शितः । प्रयोक्तृप्रयोगभेदस्तु पूर्वमेव दर्शितः इहापि चोक्तः । शिक्षायोग इति । करणाङ्गहारविशेषणष्वङ्गविक्षे4पवैचित्र्याभ्यास

Notes

(मू)

(व्या)

1शिक्षायोगस्तथा चैव 2प्रयोक्तव्यः प्रयोक्तृभिः ।
एवं प्रयोगः कर्तव्यो वर्धमाने 3तपोधनाः ।। २९१ ।।

Abh

इति साधकतमभेदो दर्शितः । इत एवोपजीव्यास्माभिर्वितत्योक्तं “रेचकैरङ्गहारैश्च” (ना.शा. ४-२४९) इत्यादिव्याख्यानावसरे । विविधग्रहणेन तद्व्यायामिश्रणया भेदानन्त्यं सूचयति । तच्चास्माभिः पूर्वमेव दर्शितम् । (२९०)

ननु सर्वोऽयं पिण्डीबन्धप्रकार इहोपयोगी वा न वेत्याशङ्क्याह–तथा चैव प्रयोक्तव्य इति । तैः सर्वैरेव प्रकारैः पिण्डीशृङ्खलकादिबन्धो योज्यत इति यावत् । यत्रच्छेद्यकर्म चर्मयन्त्रं काष्ठमयी प्रकृतिर्भद्रासनमिति केचिदत्र व्याख्यां कुर्वन्ति । युक्तायुक्ततां तु सहृदया एव विदुः ।

एवं गीतकाङ्गवाद्यनर्तकीपिण्डीबन्धादिदर्शनादपि नाट्यान्नृत्य(न्नृत्त?)मभिन्नमित्यपि सूचितम् । न चायं पिण्डीबन्धप्रकारे लक्ष्ये विच्छिन्नः । केवलनृत्तक1पक्षयोः पतितमहौषधिवदनवस्थि2तैरभ्युद्धर्तुं न शक्यते सावधानतया तु शक्यत एवेति नात्रालस्यं शयितव्यम् । अन्यथा प्रयोगमाहुः । तथा हि –एकं तु प्रथममित्यत्र प्रथमासारितमभिनयति । ततो द्वितीय द्वितीयासारितम् । तत्समकालं तु प्रथमा केवलमङ्गहारं करोतीति । एवं तृतीया तृतीयासारितार्थमभिनयति । तदा द्वेऽङ्गहारं प्रयुञ्जाते । चतुर्थी चतुर्थीभिनयं यदा करोति तिस्रोऽङ्गहारं रञ्जयन्ति । अन्ये त्वभिनयप्रयोगेऽपि सहिततामाहुः । जालशृङ्खलिकादिपिण्डीबन्धजातं चान्योन्यं बाहुबन्धवैचित्र्यरचितमिच्छन्ति ।

अथ वर्धमानकमासाद्येति प्रतिज्ञातमुपसंहरति–एवमित्यादिना । एवं प्राधान्याद्वर्धमानप्रयोगमभिधाय “गीतानां मद्रकादीनाम् ।” (ना.शा. ५-१३) इति यद्वक्ष्यते तन्निर्णयाय प्रतिजानीते –गीतानामित्यादि । चकारः सर्वशेषतां द्योतयति अन्वाचयं च । आसारितादिपर्यन्तप्रयोज्यानां छन्द3कादीनां तच्छेषतयैव लक्षणं वक्ष्यते । तथाहि तालाध्याये (ना.शा. अ.-३१)वर्धमानासारिगीतकपाणिलतान्तेच्छन्दक4प्रयोगश्चतुष्प5- दाप्रयोगश्चाभिधास्यते ।

Notes

(मू)

(व्या)

गीतानां 1छन्दकानां च भूयो वक्ष्याम्यहं विधिम् ।
यानि 2वस्तुनिबद्धानि यानि चाङ्गकृतानि तु3 ।। २९२ ।।

गीतानि तेषां वक्ष्यामि प्रयोगं 4नृत्तवाद्ययोः ।
5तत्रावतरणं कार्यं 6नर्तक्याः सार्वभाण्डिकम् ।। २९३ ।।

क्षेपप्रतिक्षेपकृतं 8भाण्डापोहनसंस्कृतम् ।
प्रथमं त्वभिनेयं 9स्याद्गीतके सर्ववस्तुकम् ।। २९४ ।।

Abh

“सर्वेषामेव गीतानामन्ते छन्दक इष्यते ।
चतुरङ्ग1स्ततः त्र्यङ्गो नवाङ्गो युग्म एव च ।। (ना.शा. ३१-२९३)

चतुष्पदा तथैकाङ्गा ।” इत्यादौ । तेन प्रधानतया तावद्गीतकादिविशेषाणां विधिस्तत्प्रयोगे न तु स्वतन्त्राणाम् । गीतकगतवस्त्वङ्गादि यत्र स्वेच्छया समांश्रित्यैकद्वित्र्याद्यनियमेन प्रयुज्यते तानि च्छन्दकानि । यान्यद्यत्वे नृत्ततालात्मना डोम्बिकानर्तकीलयचंरणादिरूपेण प्रसिद्धानि । भूय(इति) । उक्तो हि वर्धमानविधिस्तत्राप्याधिकं2 वस्तु वक्ष्यते ।

तत्र गीतकतालाश्रितनृत्तविधानं तावद्दर्शयितुमुपक्रमते यानीति । भूयांसि खण्डलकादिवस्तूनि । स्वल्पानि त्वङ्गानि । तत्र वस्तुनिबन्धनानि त्रीणि गीतकानि –मद्रकः परान्तकं प्रकरी च । अन्यानि चत्वार्यङ्गान्युल्लोप्यकं 3रोचितकमोवेणकमुत्तरं च । तेषां क्रमेणाह–तेषामिति । तेषामपि नृत्ते वाद्ये च यो विधिस्तं वक्ष्यामि । तत्र गीतकेषु ये क्षेपाः प्रथमवस्त्वादावुपोहनानि ये च प्रतिक्षेपाः द्वितीयवस्त्वादिषु प्रत्युपोहनानि, मतान्तरे त्वनन्तर्भूतपृथक्कालात्मकगीतशेषरूपाणि तानि तन्त्रीगतानि (गा)- नयुक्तानि प्रयुज्य नर्तक्या अवतरणं भाण्डवाद्यसहितं पुष्कराध्यायभाविना प्रविर4- लचलदङ्गुलि–(ना.शा.९-२०) दलाभिहन्यमानाङ्गिकप्राधान्येन कार्यम् ।

एतदुक्तं भचति–प्रथमे वस्तुन्याक्षिप्तिकामुपोहनं च प्रयुज्य नर्तकीप्रवेशः । द्वितीयादौ प्रत्युपोहनम् । पदयोजना तु-तन्त्रीगानान्वितं कृत्वा क्षेपप्रतिक्षेपयोः कृतं

Notes

(मू)

(व्या)

तदेव च पुनर्वस्तु 1नृत्तेनापि प्रदर्शयेत् ।
यो विधिः पूर्वमुक्तस्तु नृत्ताभिनयवादिते2 ।। २९५ ।।

आसारितविधौ 3स स्याद्गीतानां 4वस्तुकेष्वपि ।
5एवं वस्तुनिबन्धा6नां गीतकानां विधिः स्मृतः ।। २९६ ।।

7शृणुताङ्गनिबद्धानां गीतानामपि लक्षणम् ।
य एव 8वस्तुकविधिर्नृत्ताभिनयवादिते ।। २९७ ।।

9तमेवाङ्गनिबद्धेषु च्छन्दकेष्वपि योजयेत् ।
वाद्यं गुर्वक्षरकृतं 10तथाल्पाक्षरमेव च ।। २९८ ।।

मुखे सोपोहने कुर्याद्वर्णानां विप्रकर्षतः ।
यदा 11गीतिवशादङ्गं भूयो भूयो निवर्तते ।। २९९ ।।

Abh

परिसमाप्तता यत्र । तादृगवतरणात्का(णं का)र्यं सर्वभाण्डवाद्याद्या1विर्भावम् । प्रथममित्यादावित्यर्थः । वस्त्वेव वस्तुकम् । त2त्सर्वमादावभिनेयं पुनर्नृत्तेन योज्यम् । (२९४)

कथमित्याह–यो विधिरिति । आसारितविधौ यः प्रकारः स एवात्र प्रकारः । यथाऽऽसारितेष्व(षु) सङ्ख्यानियमो नर्तकीवृद्ध्या नृत्तप्रयोगः । पूर्वं चैकाकिन्याऽभिनयः । नृत्ते च भाण्डवाद्यादिप्रयोगः । तथात्रापि । तेन वस्तुसङ्ख्यां (सङ्ख्यया) नर्तक्य इहेति मन्तव्यम् ।

एतदुपसंहरन्नन्यदुपक्रमते–एवं वस्तुनिबन्धानामित्यादि । वादिते च विशुद्धकरणायामित्यादि योजयेत् । तदेवाङ्गनिबन्धेषु योजयेत् । तथा सर्वशेषभूतेषु स्वतन्त्रके छन्दकेष्वपि । (२९७)

विशेषं तु दर्शयति–वाद्यमिति । घिंघिं ढन् त्रन् इत्यादीनि रूपाणि गुरूण्यपि कदाचित्प्रयत्नशीघ्रतया ताले प्रयुक्तानि बहूनि भवन्ति । यथोत्साहच्छटादौ त्थीत्थीत्थी- त्थन् धृत् दत्थकुदहिं–एषैका कला । अत आह–अल्पाक्षरमयेऽपि च भवत्य3र्धादौवाद्य- योजनात्कला4र्धादेश्च शून्यत्वात् । तथा चञ्चत्पुटे प्रथमकलायां त् 5हिविटा ? एव ।

Notes

(मू)

(व्या)

1तत्राद्यमभिनेयं स्याच्छेषं नृत्तेन योजयेत् ।
यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ।। ३०० ।।

Abh

तत्परिहारर्थमाह–वर्णानां गुरूणां विशेषेणाणुपर्यन्तं त्रिमात्रचतुर्मात्रतया प्रकृष्टं तद्वाद्यं कर्तव्यम् । मुखनाम्युपवहसंज्ञके वाऽङ्गे वस्तुनिबन्धेष्वप्युपोहनेऽङ्गेऽयं वाद्यविधिः । अङ्गाल्पत्वात्तु तत्र नाङ्गनिबन्धव्यपदेशः ।

अथ वक्तव्यं सर्वशेषत्वेनाह–यदा गीतिवशादङ्गमित्यादि । मुख्याङ्गानि यदा पुनः पुनरावर्तन्ते । कथम् । गीतेश्चतुर्विधाया मागध्या1दिकाया वशात्सामर्थ्यात् । वक्ष्यते हि ध्रुवाध्यायान्ते–

“अ(त्रिः) निवृत्त्या पदानां तु मागधी समुदाहृता ।” (ना.शा. ३२-४३८) । इत्यादि । गीतवशादित्यपि पाठ एवमर्थः । गीतिं वा गीयमानं वा । तत्र विधिमिति । तालाध्याये वक्ष्यते–

“यथाक्षरं द्विसंख्यातं त्रिसंख्यातमथापि च ।” ना.शा. ३१-१०३) इति । तत्रेति । निवर्तने । आद्यमिति । आद्य आवर्तः । शेषमित्यादि । आवर्तान्तराणि शुद्धनुत्तप्रयोज्यानि । तेन न केवलं वस्त्वङ्गादिसमाप्तौ नृत्तम् । यावन्मध्येऽपि कदाचित्परिवर्तेषु भवतीति दर्शनम् । यत्तु राहुलकेनोक्तमपौनरुक्त्येनाभिनयनं तदेवंविधमेव मन्तव्यम् ।

यत्तु अहं? “जळणिहिचुळुइ माइमा” इत्यत्र, जलनिधिचुलुके मानितेन चोन्मीयत इत्यादि कैश्चिदुत्प्रेक्षितं तत्र सर्वत्र निर्वहतीत्यास्तां तावत् । (३००)

तत्र वाद्यविधिमाह । आवर्तमानगीतवशादङ्गं शाखाचारीप्रयोगात्मकं यदाऽऽवर्तते तदा वाद्यप्राधान्येन नृत्तमिव वाद्यस्य यथासंभवं वैचित्र्यं प्रदर्शनीयम् । पूर्वं हि तद्वैचित्र्यं काव्यार्थेन नियन्त्रितम् । अधुना तु सङ्कोचोऽस्य नास्ति । तथा च लक्ष्ये प्रावेशिक्यां पात्रकृतसङ्कोचाद्यभावं मन्यमाना गीताचार्याः त्रितयप्रयोगमाहुः । एतच्च विचारयिष्यत इत्यास्तां तावत् ।

समपाणिरुपारि2पाणिरर्ध(रव)पाणिश्चेति (ना.शा.३१-३२९) त्रिधापाणिः तालः । तदभिव्यङ्ग्यत्वात् । सङ्गीतनृत्ताभ्यां सह या (वा) पूर्वं वेति त्रिधा । छन्दोऽक्षरपदानां

Notes

(मू)

(व्या)

त्रिपाणिलयसंयुक्तं तत्र वाद्यं प्रयोजयेत् ।
यथा लयस्तथा वाद्यं 1कर्तव्यमिह वादकैः ।। ३०१ ।।

(2ततं चानुगतं 3चापि ओघं च करणान्वितम्4 ।
स्थिरे5 तत्त्वं(तं) प्रयोक्तव्यं मध्ये चानुगतं भवेत् ।।

6भूयश्चौघः प्रयोक्तव्यस्त्वेष वाद्यगतो विधिः ।
छन्दोगीतकमासाद्य 7त्वङ्गानि परिवर्तयेत् ।।

एष कार्यो विधिर्नित्यं नृत्ताभिनयवादिते ।
यानि वस्तुनिबद्धानि तेषामन्ते 8ग्रहो भवेत् ।।
अङ्गानां तु 9परावृत्तावादावेव ग्रहो मतः ।।)

Abh

साम्यं लयः । कलाकालान्तरकृतो द्रुतादिभेदस्त्रिविधः (ना.शा. ३१-३२६) । एतच्च त्रेविध्यं यतिमार्गादिभेदस्याप्युपलक्षणम् ।

ननु प्रथम आवर्ते कीदृशं वाद्यमित्याशंक्याह–यथा लय इति । प्रथमे 1ह्यावर्ते काव्यार्थाभिनयवशादङ्गस्य य उचितो लयो द्रुतादिस्तदनुसार्येव वाद्यं कार्यम् । अन्ये तु यथातथाशब्दा2वविचार्यास्य पूर्वशेषत्वेनैव श्लोकार्थं गमयन्ति–यथा वाद्यं त्रिपाणिलयवैचित्र्ययुक्तं तथाङ्गस्य गीतस्य च लयः कार्य इति । (३०१)

नचैवं तद्व्ययतिक्रमणीयमिति सहेतुकं दर्शयति पादोनेन श्लोकेन–एवमेष इति । हि यस्माद्देवस्य भगवतो महादेवस्य स्तुतिनिमित्तं परितोषणप्रयोजनमेतन्नृत्तमतो हेतोरुन्नीय– माना दृष्टसम्पत्त्यै । एष एव गीतकासारितेषु च तच्चैषु (तच्छेषेषु) च छन्दकेषु विधिः । पाणिका तु परिमितशरीरत्वात्स्वयं ताण्डवभाजनं न भवति । सा हि सुकुमारे पूर्वरङ्गे लास्यप्रधाने तत्सत्तावैदग्ध्यायोक्ताल्लास्यस्वरूपादेव निश्चीयते । अन्यथा पूर्वरङ्गोपयोगे प्रकान्ते तत्राध्याये लास्यस्य कोऽवसरः । वाद्याङ्गमात्रे तदुन3पयोगीति चेत् तत्र दशाङ्गस्य चेत्प्रयोज्यतादेरतिप्रसङ्गः । स च निषेत्स्यते । तदप्रयोगे 4कृतानि

Notes

(मू)

(व्या)

एवमेष विधिः कार्यो गीतेष्वासारितेष्वपि1 ।
देवस्तुत्याश्रयं ह्येतत्सुकुमारं निबोधत ।। ३०२ ।।

स्त्रीपुंसयोस्तु संलापो यस्तु2 कामसमुद्भवः ।
तज्ज्ञेयं सुकुमारं3 हि शृङ्गाररससम्भवम् ।। ३०३ ।।

Abh

गेयपदानीति न मिन्मः । तालाध्याये चैतद्भविष्यति । गीतकादिशेषत्वे तु छन्दकसङ्गृहीतैवेति नात्रोक्ता । गीतकं च स्वतन्त्रेऽप्यासारिते भवति । ताण्डवप्रयोगस्तु यदा त्वेष पिण्डीबन्धैर्विकल्प्यते प्रत्येकमङ्गविन्यासस्तदा तेषां पृथक्पृथग्गति त….दोतातिदेशेनासारितेष्यप्येवमेव । मुख्यान्यङ्गचतुष्टयविभागेन नर्तकीक्रमप्रवेशा- दिप्रयोगः । एतदर्थमेव वर्धमानेऽप्युक्ते पुनरासारितसङ्कीर्तनम् । परपूर्वरङ्गे चापिशब्दात्तत्सङ्ग्रहो व्याख्येयः ।

“सर्वेषामेव गीतानामन्ते1” इत्युपक्रम्य
“चतुष्पदा तथैकाङ्गा……युग्मौ यौ वा प्रमाणतः ।”
“तथा शृङ्गारभूयिष्ठा” “त्रिलया वा” (ना.शा. ३१-२९३)

इति निरूप्य दशाङ्गं लास्यं तालाध्याये (ना.शा. ३१) निरूपयिष्यते । मुनेश्चतुष्पदान्तर्भूतं लास्यगानमित्यादि भूयो भविष्यत ए(त्ये)व । विशाखिलादिप्रणीतं लास्यगानान्तरं मुनिनाऽभिहित2चतुष्पद एव सङ्गृहीतत्वात् । सा चतुष्पदा गीतकानामन्ते पाणिकान्ते वा प्रयोज्येति दर्शितम् । तदभिप्रायेणोपक्रममाह–सुकुमारं निबोधतेति । तु शब्द उत्तरतोऽपेक्षणीयः सुकुमारं त्विति यावत् । अत एवोक्तरञ्जकताविधिं निजयोहापोहधिया कल्पयति । तत्रापि ह्यङ्गवृद्ध्या नर्तकीवृद्धिरित्यादि सर्वमुन्नेयमित्यर्थः । (३०२)

ननु किं तत्सुकुमारमित्याह–स्त्रीपुंसयोस्त्विति । एकस्तुशब्दः पूर्वत्र नीतः । द्वितीयः सुकुमारकं विशेषयति । तदेव हि सुकुमारं न तु करुणहास्यादिमयम् । किं तदित्याह । स्त्रीपुंसयोर्यः कामः । स्त्रियाः पुरुषस्य कामना । पुंसो वा स्त्रियाः । तस्मात्कविहृदयस्थिताद्विवक्षाक्रमेण समुद्भवो यस्य लापस्य काव्यव्यु(त्पादकवा)क्यस्य तत्सुकुमारम् । तत एव परस्परहेतुकत्वं भवति । अत एवाह–शृङ्गाररसस्य परस्परहेतुकत्वे संभवमात्रमयोगव्यवच्छेदनं यत्र । तेन तदवस्थामात्रोपनिबन्धोऽपि डोम्बिकादिकविरुद्धषिद्गकादौ चावगन्तव्योत्साहादौ शृङ्गाररसस्याव्यापत्तिबन्धः । परमेश्वरे

Notes

(मू)

(व्या)

यस्यां यस्यामवस्थायां 1नृत्तं योज्यं प्रयोक्तृभिः ।
2तत्सर्वं सम्प्रवक्ष्यामि तच्च मे शृणुत द्विजाः ।। ३०४ ।।

अङ्गवस्तुनिवृत्तौ3 तु तथा वर्णनिवृत्तिषु ।
तथा चाभ्युदयस्थाने 4नृत्तं तज्ज्ञः प्रयोजयेत् ।। ३०५ ।।

5यत्तु संदृश्यते किञ्चिद्दम्पत्योर्मदनाश्रयम् ।
6नृत्तं तत्र प्रयोक्तव्यं 7प्रहर्षार्थगुणोद्भवम् ।। ३०६ ।।

Abh

हि तपस्यति(न्ती) भगवती तदेकहृदया बभूवेति तावति परस्परास्था(नु)बन्धात्मकरत्यभावे कामावस्थामात्रकम् । परतस्त्वर्धशरीराक्रमाणादौ श्रृङ्गारहास्ये इत्येवं परमेश्वरचरिते सुकुमारस्य वि(द्वि)शाखत्वेनाप्रसरात्तस्यैवाद्यापि पक्षे स्थितिः । करुणादिर्भगवति न सम्भवति । नापि तत्तत्र समुचितमिति न तत्सुकुमारम् ।

यत्तु राघवविजयादौ भी(सी)तामूर्च्छादिव्यावर्णनान्तं ताण्डवम् । न च तत्र (सी)तरिचितसुकुमाराङ्गहारात्मकनृत्तयोजना । अपि तु गीतकार्थभावनान्यायेन ‘रौद्रस्य चैव यत्कर्म स करुण’ इति प्रसक्त्या तत्र तथाविधाभिनययोग इत्यलं बहुना । (३०३)

वक्तव्यशेषमाह–यस्यां यस्यामित्यादि । सुकुमारं यत्काव्यं तदाश्रितं गानमपि तथा । अन्तर्लग्नं नृत्तमपि । तत्र यदुक्तं–

‘तदेव हि पुनर्वस्तु’ (ना.शा. ४-२९५) इति तथा “यदा गीतिवशादङ्गम्” (ना.शा. ४-२९९) इति । नृत्तयोजनं तु तदनुवादपूर्वकं नियम इति । (३०४)

अङ्गवस्तुनिवृत्तौ त्विति । तुर्भिन्नक्रमोऽवधारणे । वर्णानां स्थाय्यादीनां गीतक्रियाविस्ताररूपाणां निवृत्तिर्यथा परान्तकादौ । प्रतिशाखायां यद्वक्ष्यते– “प्रतिशाखाद्यपि च” इति तेनाङ्गवस्तुवर्णापरावर्तेषु यत्तथाभूतेनैववाद्यादिवैचित्र्यप्रकारेण नृत्तमुक्तं तदध्यायाभ्युदयस्थानभेदभावज्ञो नृत्ताचार्यः प्रयोजयेत् । (३०५)

तदनु(तदु)दाहरति–यत्तु संदृश्यत इति । यत्काव्यखण्डं दम्पत्योः स्त्रीपुंसयोः कामकृतं 1वाच्यत्वेन श्रूयते, अन्यच्च प्रहर्षार्थगुणोद्भवम् । प्रहर्षप्रयोजनो यो गुणः

Notes

(मू)

यत्र सन्निहिते कान्ते 1ऋतुकालादिदर्शनम् ।
गीतकार्थाभिसंबद्धं नृत्तं तत्रापि चेष्यते ।। ३०७ ।।

खण्डिता विप्रलब्धा वा कलहान्तरितापि वा ।
यस्मिन्नङ्गे2 तु युवतिर्न3 नृत्तं तत्र योजयेत् ।। ३०८ ।।

सखीप्रवृत्ते संलापे तथाऽसन्निहिते प्रिये ।
नहि नृत्तं प्रयोक्तव्यं यस्या वा प्रोषितः प्रियः ।। ३०९ ।।

Abh

आस्थाबन्धो वचनं, दूतीवचनाकर्णनादिरंशस्तदुद्भवं तदाब्धं तत्र नृत्तं योज्यमिति कामावस्थासु मन्तव्यम् । श्रृङ्गारेऽप्यनेन1 वासकसज्जाभिसारिकाविषयं नृत्तमुक्तम् । (३०६)

स्वाधीनभर्तृकाविषयमाह–यत्र सन्निहित इति । यस्मिन्नङ्गे गीतकस्य गीयमानस्य काव्यस्यार्थत्वेन वाच्यत्वेन संबन्धः । कान्तसन्निधाने ऋतोर्वसन्तादेः2 कालस्य चन्द्रोदयादेरवलोकनं भवति तत्र नृत्तम् । (३०७)

“नियमफलं दर्शयितुमाह–खण्डितेत्यादि ।
“व्यासङ्गादुचिते यस्या वासके नागतः प्रियः ।
सा खण्डिता " (ना.शा. २२-२०९)

“यस्या दूतीं प्रियः प्रेष्प दत्त्वा सङ्केतमेव च ।
नागतः कारणेनेह विप्रलब्धा तु सा ।” (ना.शा. २२-२१०)

“ईर्ष्याकलहनिष्क्रान्तो यस्या नागच्छति प्रियः ।
साऽनुतापवशप्राप्ता कलहान्तरिता ।” (ना.शा. २२-२०८)

अङ्ग इति । तदाधारभूते काव्यखण्डे । किमियत्येव न नृत्तमित्याशङ्कयाह- सखीप्रवृत्त इति । तथा असन्निहिते प्रिये 3यद्विषयकसल्लापतत्समागमोपायपर्यालोचनादि- रूपवृत्त(त्तान्त)स्तत्रापि न नृत्तं योज्यम् । अनेन विरहोत्कण्ठिता लक्षिता । वासकसज्जा प्रियानागमने तथोक्ता । खण्डिता ज्ञाततदी4यव्यलीकेति विशेषः । यस्या वा प्रेषितः प्रिय इति । प्रोषितभर्तृकावस्थास्वपि यदा प्रियोऽसन् दुर्लभः खि(ख)लो वेति हृदये(य)निहितो वेति तदा(न)नृत्तम् । तत्र हि करणानन्तरमेव परिसमाप्तिः ।

Notes

(मू)

(व्या) 1.म. रोप्यनेन न वास ।

(1दूत्याश्रयं यदा तु2 स्यादृतुकालादि3दर्शनम् ।
4औत्मुक्यचिन्तासंबद्धं न नृत्तं तत्र योजयेत् ।।)

यस्मिन्नङ्गे 5प्रसादं तु गृह्णीयान्नायिका क्रमात् ।
ततःप्रभृति नृत्तं तु शेषेष्वङ्गेषु6 योजयेत् ।। ३१० ।।

Abh

तथा विधेय(यं) यथा क्षरत्वात्तत्र तदेवाश्रयणीयम् । न तु द्विसङ्ख्यातं त्रिसङ्ख्यातं वेत्युक्तं भवति । व्यतिरेकलब्धेऽप्यु1दाहरणे प्रदर्शितोऽप्यर्थो नृत्तस्येह प्राधान्येनाभीष्टत्वान्न स्वेन कण्ठेनोच्यते । (३०१)

यस्मिन्नङ्ग इतिप्रसादमिति । प्रसन्नहृदयत्वं येन प्रकारेण युवतिर्लभेतेति । तेन(न)खण्डिताविषयमेवैतदपि तु सर्वविषयं मन्तव्यम् । ततः प्रभृति शेषेष्वङ्गेष्वित्यस्यायं भावः । लब्धास्थाबन्धा यदि(दा) भवति तद्वति (यदि) प्रियोऽसन्निहितो भवति तदा नृत्तं योज्यमेव । एतस्मिन्प्रकरणे नाट्यगतानि नाटकोदाहरणानि कैश्चिद्दत्तानि तान्ययुक्तानीति मन्तव्यम् ।

खण्डितादयो नायिका यत्र साक्षात्क्रियन्ते तत्र वलनावर्तनादिरूपनृत्तं न योज्यमिति यदुच्यते तदनवकाशमेव । तथाहि–

“चिन्तानिश्वासखेदेन हृद्दाहाभिनयेन च ।
सखीभिः सह संलापैरात्मावस्थावलोकनैः ।।

ग्लानिदैन्याश्रुपातैश्च रोषस्याभिनयेन च ।
निर्भूषणामृजात्वेन दुःखेन रुदितेन च ।।

खण्डिता विप्रलब्धा च कलहान्तरितापि च ।
तथा प्रोषितनाथा च भावानेतान्प्रयोजयेत् ।। (ना.शा. २२-२१४-२१६)

इति सामान्याभिनये वक्ष्यते ।

“विषण्णे मूर्च्छिते भीते जुगुप्साशोकपीडिते ।
ग्लाने सुप्ते विहस्ते च निश्चेष्टे तन्द्रिते तथा ।।

मत्ते प्रमत्ते चोन्मत्ते चिन्तायां तपसि स्थिते ।
2व्याधिते रुग्ज्वरार्ते च भयार्ते शी3तविप्लुते ।।

न ह4स्ताभिनयः कार्यः कार्यः सत्त्वसमाश्रयः” (ना.शा. ९-१७६-१७८)

Notes

(मू)

(व्या)

देवस्तुत्याश्रयकृ1तं यदङ्गं तु भवेदथ2 ।
माहेश्वरैरङ्गहारैरु3द्धतैस्तत्प्रयोजयेत् ।। ३११ ।।

यत्तु4 शृङ्गारसंबद्धं गानं स्त्रीपुरुषाश्रयम् ।
5देवीकृतैरङ्गहारैर्ललितैस्तत्प्रयोजयेत् ।। ३१२ ।।

चतुष्पदा नर्कुटके खञ्जके 6परिगीतके ।
विधानं 7सम्प्रवक्ष्यामि 8भाण्डवाद्यविधिं प्रति ।। ३१३ ।।

खञ्जनर्कुटसंयुक्ता भवेद्या तु चतुष्पदा ।
पादान्ते सन्निपाते तु तस्या भाण्डग्रहो भवेत् ।। ३१४ ।।

Abh

इत्याङ्गिकाभिनये वक्ष्यति ।

तदेवं स्थिते हस्ताभिनयस्यैवात्रावकाशो नास्तीति कस्तत्र तत्संमेलनात्मनो वलनावर्तनादेराशङ्कावकाशो 1यन्निषेधोऽत्र वचनीयः स्यात् । न चेह नाट्यं प्रकृतमित्यास्ताम् । एवं गीतकादेरन्ते च्छन्दकं पाणिकायास्तु लास्यगानस्वीकारिणी चतुष्पदा प्रयोज्या । इयता गीतकादि पूर्णं प्रयुक्तम् । एतदर्थमेव “वीक्ष्य शङ्करम् । सुकुमारप्रयोगेण नृत्यन्तीं चैव पार्वतीम् ।” (ना.शा. ४-२४९)इत्युपक्रमात्प्रभृति द्विशाखत्वेनैव नृत्तस्वरूपमुपदर्शितम् ।(३१०)

तदत्र द्विविधे नृत्तविभागमाह श्लोकत्रयेण । देवस्तुत्याश्रयमिति । यदङ्गमिति । छन्दकसम्बन्धि । उद्धतैरिति । विद्युद्भ्रान्तगरुडप्लुतकादिप्रधानैः । अत्र हेतुर्यतस्ते महेश्वरप्रयुक्ताः । यत् द्वितीयचतुष्पदासंबन्धि । ललितैरिति । तलपुष्पपुटलीन– नितम्बाद्यारब्धैः । अत्र हेतुः यतस्ते देवीकृताः । (३१२)

एवं नृत्तविधिश्चतुष्पदायां सला2स्यगानस्वीकारिण्यामुक्तः । अधुना भाण्डविधिर्वक्तव्यः । तत्र चतुर्भिः पादैर्ध्रुवा क्रियते । ते च पादौ शुष्काक्षरैर्झ- ण्टुमादिभिः (दिग्ल इत्यादिभिर्वा) यद् वक्ष्यते–

“आसनेषूपविष्टैर्यत्तन्त्रीगानसमन्वितम् ।
गायनैर्गीयते शुष्कं तद्गेयपदमुच्यते ।।” (का.मा.ना.शा. १८-१८५)

Notes

(मू)

(व्या)

या ध्रुवा छन्दसा युक्ता समपादा समाक्षरा ।
तस्याः पादावसाने तु प्रदेशिन्या ग्रहो भवेत् ।। ३१५ ।।

कृत्वैकं 1परिवर्तं तु 2गानस्याभिनस्य3 च ।
पुनः पादनिवृ4त्तिं तु 5भाण्डवाद्येन योजयेत् ।। ३१६ ।।

Abh

इति । सार्थकपदैर्वा । तत्रापि वर्णवृत्तकृता पादा मात्रावृत्तकृता वा । ते समा अर्धसमाः विषमा वा । ते च प्राधान्येन खञ्जनर्कुटकवृत्तैर्योज्यन्ते । यद्वक्ष्यते ध्रुवाध्याये

“अष्टौ नर्कुटकानां तु । तिस्रः खञ्जकजातयः ।” (का. मा.ना.शा.३२-२८०; ३०१) इत्युपक्रम्य

“आभ्यो विनिस्सृताश्चान्या युग्मौजा विषमास्तथा ।” इति (ना.शा. ३२-३०८) एतद्विषयं भाण्डवाद्योपक्रमं करोति । चतुष्पदा नर्कुटक इति । चतुष्पदापि सन्निधानाच्चतुष्पदायां1 परिगीतमपि ध्रुवाध्याये त्रिवृत्तकं यदि वा शुष्कगीतं तत्रैव । तदेतेषु त्रिषु प्रकारेषु भाण्डवाद्यस्य पुष्करवाद्यस्य विधिं वक्ष्यामि ।

खञ्जकजात्या नर्कुटकजात्या वा या चतुष्पदा ध्रुवा क्रियतेऽस्यां प्रथमपादस्य यावदुपा (न्त्या) (कला) तावच्च श्री2वंशान्वितं गानम् । अन्ये(न्या) तु या सन्निपाताख्या हस्तद्वयसमायोगशब्दपरिच्छेद्या कला तद्गानसमये भाण्डवाद्यमारम्भणीयम् । येषामर्ध (एषोऽर्ध)समविषमो(म)वृत्तात्मकं(को) नर्कुटकखञ्जकजात्यारब्धायां चतुष्पदायां विधिः । (३१४)

वर्णवृत्तसमवृत्तात्मकतज्जात्यारब्धायां तु विधिमाह–या ध्रुवेतिसमुपादा चतुष्पादा । तदयमर्थः–या चतुष्पदा । छन्दसा युक्तेति । युक्ता जातिगतवर्ण- वृत्तयोजिता । समाक्षरेति । तज्जातिकसमवृत्तमयी । तस्याः प्रथमे पादे परिसमाप्ते द्वितीयपादे या प्रदेशिनी तर्जनी तदुपलक्षिता या चातीतकलमप्र(चात्र त्रिकलप्र)भृति भाण्डवाद्यं योज्यम् । तत्र युग्मेन मानेन यदा चतुष्पदा भवति–यद्वक्ष्यते “3युग्मौजा वा प्रमाणतः ।” (ना.शा. ३१-२९३) इति त्रि(द्वि)कलश्च मार्गः तदा द्वितीयपादे सप्तमी । या निष्क्रामकला सा तर्जनीप्रयोज्यत्वार्त्तर्जनी । चतुष्कलमाने तु त्रयोदशी ।

Notes

(मू)

(व्या)

अङ्गवस्तुनिवृत्तौ1 तु वर्णान्तरनिवृत्तिषु ।
तथोपस्थापने चैव भाण्डवाद्यं प्रयोजयेत् ।। ३१७ ।।

येऽपि चान्तरमार्गास्स्युः2 तन्त्रीवाक्करणैः3 कृताः ।
तेषु सूची4 प्रयोक्तव्या भाण्डेन सह ताण्डवे ।। ३१८ ।।

Abh

आवापकालतर्जनी । यदा तु त्र्यश्रेण मानेन तदा द्विकले पञ्चमी । कनिष्ठा निष्क्रामकला तर्जनी । चतुष्कले तु नवमी । आवापकला तर्जनी ।

एतच्च तालाध्याये वक्ष्यते–“कनिष्ठाङ्गुलिनिष्क्रामः” इत्याद्युपक्रम्य “तर्जनीकृतो निष्क्रामः” (ना.शा. ३१-४१,४२) इत्यादिना । दत्तिलाचार्येण तु संक्षिप्योक्तमेतत् –

“आद्यद्वितीयमध्यान्तात्पादभागाद्विदुः क्रमात् ।
कनिष्ठानामिकायुक्तो मध्यमादेशिनीकृतात् ।।
अयुग्ममध्यहीनः स्यात्1” इति ।

एवं तर्जनीप्रयोज्यो2 योऽसौ द्वितीयपादे कलापातः त(तस्त)त्र भाण्डग्रहस्तदुपलक्षितश्च नर्तकीप्रवेश इत्युक्तं भवति । अन्ये त्वाकाशग्रहासु निश्शब्दकलातो ग्रहं मन्यमानाः सन्निपातप्रकरणात्सशब्दात्पातादेव ग्रह इहेति वदन्तः प्रदेशिनीशब्देन तदुपलक्षितपादभागगमनं सशब्दमेव पादग्रहावधिके3नाचक्षते । पञ्चपाणिप्रपाता ये पुष्कराध्याये वक्ष्यन्ते तन्मध्यात्प्रदेशिनीपातेन भाण्डग्रह इति व्याख्यानं “सन्निपातोऽनुग्रहः” इति प्रकरणेन तथा ध्रुवाध्याये वक्ष्यमाणेन “चतुर्ग्रहा ध्रुवा” इत्युपक्रम्य,

“सन्निपातग्रहाः काश्चित्तथाकाशग्रहाः पराः ।
प्रदेशिनीग्रहास्त्वन्यास्तथैवान्याः समग्रहाः ।।”
(ना.शा. ३२-४२३) इति विधिना विरुद्धमित्युपेक्षितं लक्ष्यवेदिभिः (३१५)

नन्वेवं नर्तकी प्रविष्टा ततः प्रभृत्यभिनयं तावत्करोति । यस्त्वसावाद्यः पादस्ततोऽधिकोऽपि वा भागस्तत्र नर्तकी नैव प्रविष्टिति वा (का) तत्र वार्तेत्याशङ्- क्याह–कृत्वैकमिति । योऽसौ शुद्धविभागः पूर्व गीतः स परावर्तनीयो भाण्डवाद्येन

Notes

(मू)

महेश्वरस्य चरितं य इदं सम्प्रयोजयेत् ।
सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ।। ३१९ ।।

Abh

सहाभिनेतव्य इति पश्चादसौ प्रयोज्य इत्युक्तं भवति । पादग्रहणमुपलक्षणम् । तेन यावान्भागो भाण्डवाद्येन प्राङ्नियोजितोऽत एव नाभिनीतस्तावतो निवृत्तिः परावर्तनं कार्यमित्युक्तं भवति । (३१८)

अथात्र चतुष्पदायां भाण्डवाद्यविशेषाभिधानव्याजेन नृत्तस्थानं दर्शयति– अङ्गवस्तुनिवृत्तौ त्विति । तुर्भिन्नक्रमोऽवधारणे । अङ्गस्यैकस्य वा वस्तुनो वा सर्वस्य ध्रुवाशरीरस्य स्थाय्यादिविशेषस्य वा प्रतिशाखान्यायेन तत्परावर्तनं यच्चोपस्थान- मूहा(?)(पस्थापना)त्मकं1 तेषु प्रकर्षेण भाण्डवाद्यं वैचित्र्ययुक्तं योजयेत् । तद्वशाच्च तत्र नृत्ताङ्गहारयोजनां कुर्यादित्यर्थः । (३१७)

अथ शुष्काक्षरायाश्चतुष्पदाया विधिर्वक्तव्यः । सा च पूर्वमेव प्रयुज्यते “आसने- षूपविष्टेषु” इत्युक्तत्वात् । अत एव गेये गातव्ये काव्ये पदमवगमयन्त इति तत्पीठबन्धरूपत्वं तस्याः । तथा चान्यत्वे 2षिद्गकेषु गातव्यात्पूर्वं तावतीति नाका- (रे?) । अत एव गेये ध्रुवागीते गेयं गातव्यमिति ह्येकोऽर्थः । तं विधिमाह–येऽपि चान्तरमार्गा इति । अन्तरं परस्परवैलक्षण्यं मा3र्ग्यते येनोपायेन सोऽन्तरमार्यः । संवाद्यनुवादिन्या4 स स्वर उपलक्षणात्मकोऽर्थप्राधान्याभावाच्च तेनैव व्यपदेशः । अत एवाह तन्त्रीक्रियया वाक्क्रियया । तदे(ए)व निरर्थकतया योजितास्तेषु समग्रहत्वेनैव भाव(ण्ड)प्रयोगः । नर्तक्या रचहाद्वि(रचनाद्धि)लास्याङ्गतकाव्यार्थानुसारिहस्ता- भिनयशून्यः सात्त्विकाङ्गवलनादिमात्रेण सूच्याभिनयः । यद्वक्ष्यति–

" वाक्यार्थो वाक्यवस्त्वङ्गैर्योज्यते यदा पूर्वम् । " इति । पश्चाद्वाचाऽभिनय इत्ययं त्वङ्ग इहोपलक्ष्यः । एतच्च गातव्यप्रयोगे त्रिप्रकारकृततावन्मात्र- तालगानसूच्याऽभिनयनमद्यापि दृश्यते ।

एवं वर्धमानकप्रयोगो गीतकप्रयोगो वा छन्दकप्रयोगेन चतुष्पदाप्रयोगेन च सहेतुकः परिपूर्णो भवति । अत एव तालाध्याय इत्यु(एतदु)पक्रमानुसारेणैव वर्धमाना- सारितकगीतकच्छन्दकचतुष्पदा तदन्तर्भूतलास्यगानस्य5 विधेः क्रमेण निरूपणं भविष्यती-

Notes

(व्या)

एवमेष विधिः सृ(र्दृ)ष्टस्ताण्डवस्य 1प्रयोगतः ।
भूयः किं 2कथ्यतामन्यन्नाट्यवेद3विधिं प्रति ।। ३२० ।।

इति भारतीये नाट्यशास्त्रे ताण्डवलक्षणं नाम चतुर्थोऽध्यायः ।।

Abh

तीयता “गीतानां मद्रकादीनाम्” (ना.शा. ५-१३) इति पूर्वरङ्गाध्याये श्लोको भविष्यति । तस्यार्थः पुरस्तादेव निर्णीत । तेन तदपसारेणैतदप्यालोच्योदीरितोऽयमर्थोऽनुष्ठेयः । (३१८)

नन्वत्र पूर्वरङ्गगतप्रधानफलेनैव किं फलवत्ता उत फलान्तरमप्यस्तीत्याशङ्क्याह–(महेश्वरस्येति) । पृथक्फलवत्त्वं च दशर्यन् स्वातन्त्र्येण प्रयोज्यमिदमिति दर्शयति–महेश्वरस्येतिचरितमिति चेष्टितम् । प्रयोजयेदिति स्वार्थे हेतुमति च तन्त्रेण णिचि । तेन प्रयोक्तुं(क्तुः) प्रेक्षाप्रवर्तयितुश्चार्थपतेः सामाजिकवर्गस्य च पापविशुद्धिः शिवलोकगतमनन्तफलं नृत्तस्येति नान्य- (ट्य)दृष्टैकप्रयोजनाद्भिन्नप्रयोजनत्वमुक्तम् । स्वातन्त्र्येण प्रयोगे च छन्दकाना चतुष्पदायाश्च केवलत्वेनापि प्रयोगो ह्यनुज्ञातो भवति । तदङ्गानां च पुनः “पुष्पाञ्जलिधरा भूत्वा” इत्याद्यनुसारेण वर्णानां लोके प्रयोगः । “तस्याः पादावसाने तु " इत्याद्यनुसारेण धारापरिक्रमादेः “यदा गीतवशात्” (ना.शा.४-३००) इत्यनुसारेण द्विगुणाद्यर्थ1- गुणालकवारणकगुञ्जियकादेश्चतुरपसारकादिविधा च डोम्बिकादिषु क्रमेण नर्तकीवृद्धिराचार्यैराधेया(?) । तालानुसारेण च ‘त्रिपाणिलयसंयुक्तम्’ इत्याद्यनुसारेण धारापरिक्रमादेः लयपरिष्वङ्कितलयतालपरिक्रमादेः । (३१९)

तदेतत्सर्वमीश्वरपरितोषकार्येवेति तथैतदुपसंहारपूर्वकमध्यायान्तरावकाशं करोति– एवमेष इत्यादिना । एवं पूर्वोक्तेन प्रकारेण । प्रयोगत2 इति । प्रयोगं नाट्यात्मकमपेक्ष्य ततोऽन्यस्तद्विलक्षणो विधिः प्रकारो दृष्टः । तथा नाटकादिसा(दौ सा)माजिकवत्प्रयोक्तृतन्मयीभाववशेन नाट्यं संस्कारमपेक्ष्याभिनयादिविधिर्दृष्टो न तु साक्षात्कारकल्प्यनाट्यरूपताऽत्रास्ति । चतुर्विधाभिनययोगाभावाद्रसभावाप्राधान्याद्गीत- वाद्यनृत्तानां यथेष्टं प्राधान्यं नर्तकीवृद्धेः । काव्ये वस्त्वपेक्षत्वान्नाट्यप्रस्तावनाप्राण- प्रतिबिम्बात्मकता त्रिविधत्वान्मदमूर्च्छादौ तत्त्वापत्त्ययोगाद्गीतकादेश्च नियमादृष्ट- प्रयुक्तत्वाद्गीतादिप्राधान्येनैव प्रयोगात्कुलकाच्छेद्यात्मनः काव्यस्य गीत्याधारतानान्तरीय- कत्वमात्रेण गमनपिण्डीबन्धप्रकारवैचित्र्यान्ते नृत्तमात्रविश्रान्तेः3 प्रयोक्तृप्रवर्तयितृगा- तृदृष्टफलप्राधान्याच्च तद्विलक्षणं नाट्यं तद्वृत्तिर्भिद्यत इति एवं शब्दस्यार्थ इत्युपाध्याय- मतम् ।

Notes

(मू)

Abh

“रसभावदृष्टिहस्तशिर आद्यं यद्यङ्गं पूर्ण वाऽपूर्ण वा कृ(कु)त एव नाट्य- नृत्तयोर्भेदस्तुल्यानुकारत्वे " इति हर्षवार्तिकम् । " शिक्षार्हस्वेच्छान्यनृत्तकतिपयनाट्- याङ्गकृतं नृत्तमभ्यासफलम् । " इति भट्टयन्त्रः ।” समयमात्रमित्यादिमङ्गलवद्विवाहादौ” इति भट्टलोल्लटः । दशरूपकभेदवल्लास्यताण्डवप्रयोगो नाट्यभेद एव । तत्र पूर्णानुकार- रूपत्वात् ।

तथाहि -प्रवेशेऽश्वत्थाम्नः सूचीविद्धोर्ध्वजान्वादि । पुरूरवसोऽलपल्लवसूची । गरुडस्य गरुडप्लुतकम् । रावणस्य पुष्करो वैशाखरेचितकः । वत्सराजस्या- ग्निसम्भ्रमोऽ(तिक्रा)न्तः । जटायुषो गृध्रावलीनकमेलकाक्रीडितं चेति “चित्राभिनयेन बाल्ये(वान्ये)न करणप्रयोग एव । अभिनेयपदादीनां च नाट्येऽपि सक्ते(क्तते)“ति नाट्यमेवेदमिति कीर्तिधराचार्यः ।

एतच्च (वञ्च) स्वमतानुसारेण एवं शब्दार्थमाहुः । युक्तायुक्ततां तत्र परीक्षका एव विदुरित्यलं बहुना ।

प्रसङ्गाङ्ग(ग)तया नृत्ततया (वार्तया) प्रसक्तानुप्रसक्तत्वेन नृत्तगतमेवान्यक्तिञ्चित्प्र- सिद्धिः(द्ध)प्रकृता(त)नाट्यगतानां(गतता मा) विच्छेदीत्यभिप्रायेणाह–नाट्येति । नाट्यमेव वेदस्तस्य यो विधिः प्रयोगस्तं प्रतीति शिवम् । (३२०)

रविशशिहुतभुक्कल्पितनयनत्रयकि1रणदलिततिमिरततिः ।
अभिनवगुप्तस्ताण्डवमेनं व्यवृणुत तत्(?)स्पष्टम् ।।

इति माहेश्वराचार्याभिनवगुप्तविरचितायामभिनवभारत्यां नाट्यशास्त्रविवृतौ ताण्डवविधानाध्यायश्चतुर्थः ।।

Notes

(व्या) 1.म.चर । भ. नद्वरण ।