०३ रङ्ग-दैवत-पूजनम्

श्रीः ।

अथ तृतीयोऽध्यायः ।

सर्वलक्षणसम्पन्ने कृते नाट्यगृहे शुभे ।
गावो वसेयुः सप्ताहं सह जप्यपरैर्द्वजैः ॥ १ ॥

ततोऽधिवासयेद्वेश्म रङ्गपीठं तथैव च ।
मन्त्रपूतेन तोयेन 1प्रोक्षिताङ्गो निशागमे ॥ २ ॥

यथास्थानान्तरगतो दीक्षितः प्रयतः शुचिः ।
त्रिरात्रोपोषितो भूत्वा 2नाट्याचार्योऽहताम्बरः ॥ ३ ॥

नमस्कृत्य महादेवं 3सर्वलोकोद्भवं भवम् ।
4जगत्पितामहं चैव विष्णुमिन्द्रं गुहं तथा ॥ ४ ॥

सरस्वतीं च लक्ष्मीं च सिद्धिं मेधां 5धृतिं स्मृतिम् ।
6सोमं सूर्यं च मरुतो लोकपालांस्तथाश्विनौ ॥ ५ ॥

मित्रमग्निं 7सुरान्वर्णान् रुद्रान्कालं कलिं तथा ।
मृत्युं च 8नियतिं चैव 9कालदण्डं तथैव च ॥ ६ ॥

Abh

यदाप्यायपरा लो…………………।
………….तत्तेजोवपुरैश्वरम् ॥

निष्पन्ने मण्डपे पूजाऽवश्यं कर्तव्येति सङ्गतिः । तत्र प्रयोगक्रमोऽयम् । त(अत)– थात्वेऽध्या(गताध्या)यानन्तरं पूर्वरङ्गाभिधानापत्तेः । तस्मान्मण्डपविधानशेष ए(व) दर्शयि)–ष्यते । अवश्यपूज्यत्वात् । जप्यपरैरिति । ये रक्षोघ्ना मन्त्रास्तज्जा– पकैरित्यर्थः । तत इति ।

Notes

(मू)

विष्णुप्रहरणं चैव नागराजं च वासुकिम्1 ।
वज्रं/?/ विद्युत्समुद्रांश्च गन्धर्वाप्सरसो मुनीम्2 ॥ ७ ॥

3भूतान् पिशाचान् यक्षांश्च गुह्यकांश्च महेश्वरान्4 ।
असुरान्नाट्यविघ्नाश्च तथाऽन्यान्दैत्यराक्षसान् ॥ ८ ॥

तथा 5नाट्यकुमारीश्च 6महाग्रामण्यमेव च ।
7यक्षांश्च गुह्यकांश्चैव भूतसङ्घांस्तथैव च ॥ ९ ॥

एतांश्चान्यांश्च देवर्षीन्प्रणम्य8 रचिताञ्जलिः ।
9यथास्थानान्तरगता10न्समावाह्य ततो वदेत् ॥ १० ॥

11भवद्भिर्नो निशायां तु कर्तव्यः 12सम्परिग्रहः ।
साहाय्यं चैव दातव्यमस्मिन्नाट्ये सहानुगैः ॥ ११ ॥

13सम्पूज्य सर्वानकत्र कुतपं सम्प्रयुज्य च ।
जर्जराय प्रयुञ्जीत पूजां नाट्यप्रसिद्धये ॥ १२ ॥

14त्वं महेन्द्रप्रहरणं सर्वदानवसूदनम् ।
15निर्मितस्सर्वदेवैश्च सर्वविघ्ननिबर्हण16 ॥ १३ ॥

Abh

सप्ताहादनन्तरम् । अधिवासयेदिति । देवता मण्डपमधिवसन्त्यगच्छन्ति । नाट्याचार्यो धर्म(र्यकृतमुपरि)तनदेवतोपनिमन्त्रणमधिवासनं वेश्मनः । दीक्षितो गृहीतव्रतः । नायको नाट्याचार्यः । नमस्कृत्यावाह्य । वदेदिति सम्बन्धः । परमेश्वरस्मरणं च प्रथममुचितमिति महादेवमिति । महाग्रामणीर्गणपतिः । अन्यांश्चेति । प्रथमाध्यायोक्त्तान् । (१-१०)

एकत्रेति । स्थण्डिलभूभागे । कुतपमिति । चतुर्विधातोद्यभाण्डानि । एकत्र निवेशनं जर्जरस्य पूजार्थमवस्था1पनम् । 2आर्येण निवसनीयमिति उपास्यमिति भावे कृत्यः ।

Notes

(मू)

(व्या)

1नृपस्य विजयं शंस रिपूणां च पराजयम् ।
गोब्राह्मणशिवं2 चैव नाट्यस्य च विवर्धनम् ॥ १४ ॥

एवं कृत्वा यथान्यायमुपास्यं3 नाट्यमण्डपे ।
निशायां तु4 प्रभातायां पूजनं 5प्रक्रमेदिह ॥ १५ ॥

आर्द्रायां वा 6मघायां वा याम्ये 7पूर्वेषु वा त्रिषु ।
आश्लेषामूलयोर्वापि कर्तव्यं रङ्गपूजनम् ॥ १६ ॥

आचार्येण 8तु युक्तेन शुचिना दीक्षितेन च ।
रङ्गस्योद्योतनं कार्यं देवतानां च पूजनम् ॥ १७ ॥

दिनान्ते दारुणे घोरे मुहूर्ते 9यमदैवते ।
आचम्य तु यथान्यायं 10देवता वै निवेशयेत् ॥ १८ ॥

रक्ताः प्रतिसराः 11सूत्रं रक्तगन्धाश्च पूजिताः ।
रक्ताः सुमनसश्चैव यच्च रक्तं फलं भवेत ॥ १९ ।।

यवैस्सिद्धार्थकैर्लाजैरक्षतैः शालितण्डुलैः12 ।
नागपुष्पस्य चूर्णेन13 वितुषाभिः प्रियङ्गुभिः ।। २० ।।

Abh

भरणीनक्षत्रम् । पूर्वेष्वि1ति नक्षत्रापेक्षानिर्देशः । तानि पूर्वफल्गुनी पूर्वाषाढा पूर्वा भाद्रपदा च । (उद्योतनमिति ।) ज्वलितदर्भोल्मुकेन स्प(द)र्शनं नीरा2च (राज)– नमिति प्रसिद्धम् । प्रतिसरा इति । सूत्रविनिर्मिता ग्रन्थिमन्तः कङ्कणविशेषाः । मण्डपस्य रङ्गपीठादेश्चोपर्युक्तं3 सर्वं निवेश्यते । सूत्रमिति समन्ततो….रित्येतत्सर्वं शेष (षम् ।) निवेशनमित्यावाहनकालेऽर्घ्य4दानमित्यर्थः । अन्ये तन्नि(तु नि)वेशनमित्यधिकरणे ल्युट् । मण्डलविशेषणं चैतत् । मण्डलं च यवादिभिरित्यादि । नागपुष्पं नागदन्तः । (११-२१)

Notes

(मू) 1.ग.ब. नृत्यस्य । क्ष.ज.म.त. नृपाय विजयं देहि ।

(व्या)

एतैर्द्रव्यैर्युतं 1कुर्याद्देवतानां निवेशनम् ।
आलिखेन्मण्डलं2 पूर्वं यथास्थानं यथाविधि ।। २१ ।।

2aसमन्ततश्च 3कर्तव्यं हस्ताः षोडश 4मण्डलम् ।
द्वाराणि चात्र कुर्वीत 5विधानेन चतुर्दिशम् ।। २२ ।।

मध्ये चैवात्र कर्तव्ये द्वे रेखे तिर्यगूर्ध्वगे ।
तयोः 6कक्ष्याविभागेन7 दैवतानि निवेशयेत् ।। २३ ।।

पद्मोपविष्टं ब्रह्माणं 8तस्य मध्ये निवेशयेत् ।
आदौ निवेश्यो भगवान्सार्धं भूतगणैः शिवः9 ।। २४ ।।

नारायणो महेन्द्रश्च 10स्कन्दः सूर्योऽश्विनौ शशी ।
11सरस्वती च लक्ष्मीश्च श्रद्धा मेधा च पूर्वतः ।। २५ ।।

पूर्वदक्षिणतो वह्निर्निवेश्यः स्वाहया सह12 ।
विश्वेदेवाः सगन्धर्वा 13रुद्राः सर्पगणास्तथा ।। २६ ।।

दक्षिणेन निवेश्यस्तु 14यमो मित्रश्त सानुगः ।
पितॄन्पिशाचानुरगान् गुह्यकांश्च निवेशयेत् ।। २७ ।।

Abh

षोडशहस्तं यथा भवति तथा कार्यमिति । अतः चतुर्हस्तं रङ्गपीठपृष्ठ एव मण्डलमित्युक्तं भवति । तेन शङ्कुकादिभिः षोडशहस्तावकाशाभावः आसनस्तम्भादिवशात् । तस्मादकृत एव रङ्गपीठे इत्यादि वृथैव बहुतर1(मुपन्यस्तम् । द्वे रेखे इति । प्राक्तने ।) तिर्यग्गतैका दक्षिणोत्तरगता । पृष्ठे द्वितीया पूर्वपश्चिमगता । तयोः2 रेखयोः । कक्ष्या स्थानान्तराणि । तेषु विभागेन भाविता3नि । तस्येति । मण्डलस्य । पद्मोपविष्टमिति । मध्ये पद्मं कार्यमित्यर्थः । आदाविति । तेन आदिदेशे

Notes

(मू)

(व्या)

नैऋ/?/त्यां राक्षसांश्चैव 1भूतानि च निवेशयेत् ।
पश्चिमायां समुद्रांश्च वरुणं 2यादसां पतिम् ।। २८ ।।

3वायव्यायां दिशि तथा सप्त वायून्निवेशयेत् ।।
4तत्रैव विनिवेश्यस्तु गरुडः पक्षिभिः सह ।। २९ ।।

5उत्तरस्यां 6दिशि तथा धनदं संनिवेशयेत् ।
नाट्यस्य मातॄश्च तथा यक्षानथ 7सगुह्यकान् ।। ३० ।।

(तथैवोत्तरपूर्वायां 8नन्द्याद्यांश्च गणेश्वरान् ।
ब्रह्मर्षिभूतसंघांश्च यथाभागं निवेशयेत् ।। ३१ ।।)

स्तम्भे सनत्कुमारं तु दक्षिणे दक्षमेव च9 ।
10ग्रामण्यमुत्तरे स्तम्भे 11पूजार्थं संनिवेशयेत् ।। ३२ ।।

अनेनैव विधानेन यथास्थानं12 यथाविधि ।
13सुप्रसादानि सर्वाणि दैवतानि निवेशयेत् ।। ३३ ।।

स्थाने स्थाने यथान्यायं 14विनिवेश्य तु देवताः ।
15तासां प्रकुर्वीत ततः पूजनं तु यथार्हतः16 ।। ३४ ।।

Abh

ऐशानकोणे । प्रथमावसरे च तथैवावाहनस्योक्तत्वात् । पद्मोपम(पविष्टमि)मिति प्रतिदिशः सम्बन्ध1नीयत्वेन(सम्बन्धीनि । तेन) नवपद्ममण्डलमित्युक्तं भवति ।

Notes

(मू)

देवताभ्यस्तु1 दातव्यं सितमाल्यानुलेपनम् ।
2गन्धर्ववह्निसूर्येभ्यो रक्तमाल्यानुलेपनम् ।। ३५ ।।

गन्धं माल्यं च3 धूपं च यथावदनुपूर्वशः ।
दत्त्वा ततः प्रकुर्वीत 4बलिं पूजां यथाविधि ।। ३६ ।।

ब्रह्माणं5 मधुपर्केण पायसेन सरस्वतीम् ।
शिवविष्णुमहेन्द्राद्याः सम्पूज्या मोदकैरथ ।। ३७ ।।

घृतौदनेन 6हुतभुक्सोमार्कौ तु गुडौदनैः ।
विश्वेदेवाः सगन्धर्वा मुनयो मधुपायसैः ।। ३८ ।।

यममित्रौ 7च सम्पूज्यावपूपैर्मोदकैस्तथा ।
पितॄन्पिशाचानुरगान् सर्पिःक्षीरेण तर्पयेत् ।। ३९ ।।

पक्वान्नेन8 तु मांसेन सुरासीधुफलासवैः ।
अर्चयेद्भुतसंघांश्च चणकैः 9पललाप्लुतैः ।। ४० ।।

अनेनैव विधानेन सम्पूज्या मत्तवारणी ।
10पक्वामेन तु मांसेन सम्पूज्या रक्षसां गणाः ।। ४१ ।।

11सुरामांसप्रदानेन 12दानवान्प्रतिपूजयेत् ।
13शेषान्देवगणांस्तज्ज्ञः सापूपोत्कारिकौदनैः ।। ४२ ।।

Abh

दक्षिणपूर्वे आग्नेयस्तम्भ इति । उत्तरपूर्वे ऐशानस्तम्भ इत्यर्थः । सुप्रसादानीति । तथा 1ध्यानेन निवेशितानीत्यर्थः । यथार्हतः तत्तदागमेषु यो यस्यां विधिर्दृश्यंते देवतायां तेन क्रमेण । (२२-३४ ।)

Notes

(मू)

(व्या)

मत्स्यैश्च पिष्टभक्ष्यैश्च सागरान्सरितस्तथा ।
1सम्पूज्य वरुणं चापि दातव्यं घृतपायसम् ।। ४३ ।।

नाना2मूलफलैश्चापि3 मुनीन्सम्प्रतिपूजयेत् ।
वायूंश्च पक्षिणश्चैव 4विचित्रैर्भक्ष्यभोजनेः ।। ४४ ।।

5मातॄर्नाट्यस्य सर्वास्ता धनदं च सहानुगैः6 ।
7अपूपैर्लाजिकामिश्रैर्भक्ष्यभोज्यैश्च पूजयेत्8 ।। ४५ ।।

एवमेषां बलिः कार्यो नानाभोजनसंश्रयः ।
पुनर्मन्त्रविधानेन9 बलिकर्म च वक्ष्यते ।। ४६ ।।

देवदेव 10महाभाग 11सर्वलोकपितामह ।
मन्त्रपूतमिमं सर्वं 12प्रतिगृह्णीष्व मे बलिम् ।। ४७ ।।

देवदेव13 महादेव 14गणेश त्रिपुरान्तक ।
प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः15 ।। ४८ ।।

16नारायणामितगते पद्मनाभ सुरोत्तम ।
प्रगृह्यतां बलिर्देव मन्त्रपूतो मयार्पितः17 ।। ४९ ।।

पुरन्दरामरपते वज्रपाणे शतक्रतो ।
प्रगृह्यतां बलिर्देव विधिमन्त्रपुरस्कृतः18 ।। ५० ।।

देवसेनापते स्कन्द भगवन् शङ्करप्रिय19 ।
बलिः प्रीतेन मनसा षण्मुख प्रतिगृह्यताम् ।। ५१ ।।

Notes

(मू) क्ष.ठ.म. अभ्यर्च्य । च.ब. सदृशं वरुणायाथ ।

(1महादेव महायोगिन्देवदेव सुरोत्तम ।
संप्रगृह्य बलिं देव रक्ष विघ्नात्सदोत्थितात् ।।)

देवि देव2महाभागे सरस्वति हरिप्रिये ।
प्रगृह्यतां बलिर्मातर्मया भक्त्या समर्पितः ।। ५२ ।।

नानानि3मित्तसम्भूताः पौलस्त्याः सर्व एव तु4 ।
राक्षसेन्द्रा महासत्त्वाः 5प्रतिगृह्णीत मे बलिम् ।। ५३ ।।

लक्ष्मीः सिद्धिर्मति6र्मेधा सर्वलोकनमस्कृताः ।
मन्त्रपूतमिमं दाव्यः प्रतिगृह्णन्तु मे बलिम् ।। ५४ ।।

7सर्वभूतानुभावज्ञ लोकजीवन मारुत ।
प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ।। ५५ ।।

8देववक्त्र सुरश्रेष्ठ धूमकेतो हुताशन ।
भक्त्या समुद्यतो देव बलिः सम्प्रति गृह्यताम् ।। ५६ ।।

सर्वग्रहाणां प्रवर तेजोराशे दिवाकर ।
भक्त्या मयोद्यतो देव बलिः सम्प्रति गृह्यताम् ।। ५७ ।।

सर्वग्रहपते सोम द्विजराज जगत्प्रिय ।
प्रगृह्यतामेष बलिर्मन्त्र9पूतो मयोद्यतः ।। ५८ ।।

10महागणेश्वराः सर्वे नन्दीश्वरपुरोगमाः ।
11प्रगृह्यतां बलिर्भक्त्या मया 12सम्प्रति चोदितः ।। ५९ ।।

Notes

(मू)

नमः पितृभ्यः सर्वेभ्यः 1प्रतिगृह्णन्त्विमं बलिम् ।
(2भूतेभ्यश्च नमो नित्यं 3येषामेष बलिः प्रियः ।)
कामपाल नमो नत्यं यस्यायं ते विधिः कृतः ।। ६० ।।

नारदस्तुम्बुरुश्चैव विश्वावसुपुरोगमाः ।
परिगृहणन्तु मे सर्वे गन्धर्वा बलिमुद्यतम्4 ।। ६१ ।।

यमो मित्रश्च भगवानीश्वरौ लोकपूजितौ ।
इमं मे प्रतिगृह्णीतां5 बलिं मन्त्रपुरस्कृतम् ।। ६२ ।।

रसातलगतेभ्यश्च पन्नगेभ्यो नमोनमः ।
दिशन्तु सिद्धिं नाट्यस्य पूजिताः पापनाशनाः6 ।। ६३ ।।

सर्वाम्भसां पतिर्देवो वरुणो हंसवाहनः ।
पूजितः प्रीतिमानस्तु ससमुद्रनदीनदः ।। ६४ ।।

वैनतेय महासत्त्व सर्वपक्षिपते विभो ।
प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ।। ६५ ।।

धनाध्यक्षो यक्षपतिर्लोकपालो धनेश्वरः ।
7सगुह्यकस्सयक्षश्च प्रतिगृह्णातु मे बलिम् ।। ६६ ।।

नमोऽस्तु नाट्यमातृभ्यो ब्राहम्याद्याभ्यो नमोनमः ।
सुमुखीभिः प्रसन्नाभिर्बलिरद्य प्रगृह्यताम्8 ।। ६७ ।।

रुद्रप्रहरणं 9सर्वं प्रतिगृह्णातु मे बलिम् ।
विष्णुप्रहरणं चैव विष्णुभक्त्या मयोद्यतम् ।। ६८ ।।

तथा 10कृतान्तः कालश्च सर्वप्राणिवधेश्वरौ11 ।
मृत्युश्च नियतिश्चैव 12प्रतिगृह्णात् मे बलिम् ।। ६९ ।।

Notes

(मू) 1.प.अ.त.ब. प्रतिगृह्णन्तु मे ।

याश्चास्यां मत्तवारण्या संश्रिता1 वास्तुदेवताः ।
मन्त्रपूतमिमं सम्यक्प्रतिगृह्णन्तु मे बलिम् ।। ७० ।।

2अन्ये ये देवगन्धर्वा दिशो दश समाश्रिताः ।
दिव्यान्तरिक्षभौमाश्च तेभ्यश्चायं बलिः कृतः ।। ७१ ।।

कुम्भं सलिलसम्पूर्णं 3पुष्पमालापुरस्कृतम् ।
स्थापयेद्रङ्गमध्ये तु सुवर्णं चात्र दापयेत् ।। ७२ ।।

(4आतोद्यानि तु सर्वाणि कृत्वा वस्त्रोत्तराणि तु ।
गन्धैर्माल्यैश्च धूपैश्च भक्ष्यैर्भोज्यैश्च पूजयेत् ।।)

पूजयित्वा तु सर्वाणि दैवतानि यथाक्रमम् ।
जर्जरस्त्वभिसंपूज्यः स्यात्ततो विघ्नजर्जरः ।। ७३ ।।

श्वेतं शिरसि वस्त्रं स्यान्नीलं रौद्रे 5च पर्वणि ।
विष्णुपर्वणि वै पीतं रक्तं स्कन्दस्य पर्वणि ।। ७४ ।।

6मृडपर्वणि चित्रं तु देयं वस्त्रं हितार्थिना ।
सदृशं च प्रदातव्यं धूपमाल्यानुलेपनम् ।। ७५ ।।

आतोद्यानि च सर्वाणि वासोभिरवगुण्ठ्येत् ।
गन्धैर्माल्यैश्च धूपैश्च भक्ष्यभोज्यैश्च पूजयेत् ।। ७६ ।।

सर्वमेवं विधिं कृत्वा 7गन्धमाल्यानुलेपनैः ।
विघ्नजर्जरणार्थं तु जर्जरं त्वभिमन्त्रयेत् ।। ७७ ।।

Abh

माल्यानुलेपनम् । (उभय)त्रापि सुरादिप्रधानो बलिरित्यर्थः । अत्र पूजितस्थापितस्य कुम्भस्य विनियोगो भविष्यति ।

Notes

(मू)

1अत्र विघ्नविनाशार्थ पितामहमुखैस्सुरैः ।
निर्मतस्त्वं महावीर्यो2 वज्रसारो महातनुः ।। ७८ ।।

शिरस्ते रक्षतु ब्रह्मा 3सर्वैर्देवगणैः सह ।
द्वितीयं च हरः पर्व तृतीयं च जनार्दनः ।। ७९ ।।

चतुर्थं 4च कुमारस्ते पञ्चमं पन्नगोत्तमः ।
नित्यं 5सर्वेऽपि पान्तु त्वां 6सुरार्थे च शिवो भव ।। ८० ।।

नक्षत्रेऽभिजिति त्वं हि7 प्रसूतोऽहितसूदन8 ।
जयं चाभ्युदयं चैव 9पार्थिवस्य समावह ।। ८१ ।।

जर्जरं पूजयित्वैवं10 बलिं सर्व 11निवेद्य च ।
अग्नौ होमं ततः कुर्यान्मन्त्राहुतिपुरस्कृतम् ।। ८२ ।।

12हुताश एव दीप्ताभिरुल्काभिः परिमार्जनम् ।
नृपतेर्नर्तकीनां च 13कुर्याद्दीप्त्याभिवर्धनम् ।। ८३ ।।

अभिद्यत्य सहातोद्यैर्नृपतिं नर्तकीस्तथा ।
मन्त्रपूतेन तोयेन पुनरभ्युक्ष्य तान्वदेत् ।। ८४ ।।

14महाकुले प्रसूताः स्त गुणौघैश्चाप्यलङ्कृताः ।
यद्वो जन्मगुणोपेतं तद्वो15 भवन्तु नित्यशः ।। ८५ ।।

16एवमुक्त्वा ततो वाक्यं नृपतेर्भूतये बुधः ।
नाट्ययोगप्रसिद्ध्यर्थमाशिषस्सम्प्रयोजयेत् ।। ८६ ।।

सरस्वती धृतिर्मेधा ह्रीः श्रीर्लक्ष्मीस्स्मृतिर्मतिः ।
पान्तु वो मातरः 17सौम्यास्सिद्धिदाश्च भवन्तु वः ।। ८७ ।।

Notes

(मु) 1.क्ष.ठ.म.विघ्नानां शमनार्थ हि देवैर्ब्रह्मपुरोगमैः ।

होमं कृत्वा यथान्यायं हविर्मन्त्रपुरस्कृतम् ।
भिन्द्यात्कुम्भं ततश्चैव नाट्याचार्यः प्रयत्नतः ।। ८८ ।।

अभिन्रे तु भवेत्कुम्भे स्वामिनः शत्रुतो भयम् ।
1भिन्रे चैव तु विज्ञेयः 2स्वामिनः शत्रुसंक्षयः ।। ८९ ।।

भिन्रे कुम्भे ततश्चैव नाट्याचार्यः प्रयत्नतः3 ।
प्रगृह्य दीपिकां दीप्तां सर्वं रङ्गं प्रदीपयेत् ।। ९० ।।

4क्ष्वेडितैः स्फोटितैश्चैव वल्गितैश्च प्रधावितैः ।
रङ्गमध्ये तु तां दीप्तां 5सशब्दां सम्प्रयोजयेत् ।। ९१ ।।

6शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवैस्तथा ।
सर्वातोद्यैः प्रणदितै रङ्गे 7युद्धानि कारयेत् ।। ९२ ।।

8तत्र च्छिन्नं च भिन्नं च दारितं च सशोणितम् ।
क्षतं प्रदीप्तमायस्तं निमित्तं सिद्धिलक्षणम् ।। ९३ ।।

सम्यगिष्टस्तु रङ्गो वै स्वामिनः 9शुभमावहेत् ।
10पुरस्याबालवृद्धस्य तथा जनपदास्य च ।। ९४ ।।

11दुरिष्टस्तु तथा रङ्गो दैवतैर्दुरधिष्ठितः ।
नाट्यविध्वंसनं कुर्यान्नृपस्य च तथाऽशुभम् ।। ९५ ।।

Abh

आहुतिराहवनम् । हुत्वा हवनं तथा सत्या1हुतिः स्यात् । दीप्ताभि….। कुम्भस्य विनियोगमाह– भिन्द्यादिति।

Notes

(मू)

(व्या)

1य एवं विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् ।
प्राप्नोत्यपचयं शीघ्रं तिर्यग्योनिं च गच्छति ।। ९६ ।।

यज्ञेन 2सम्मितं ह्येतद्रङ्गदैवतपूजनम् ।
अपूजयित्वा रङगं तु नैव प्रेक्षां प्रयोजयेत् ।। ९७ ।।

पूजिताः पूजयन्त्येते मानिता मानयन्ति च ।
तस्मात्सर्वप्रयत्नेन कर्तव्यं रङ्गपूजनम् ।। ९८ ।।

3न तथा प्रदहत्यग्निः प्रभञ्जनसमीरितः ।
यथा ह्यापप्रयोगस्तु प्रयुक्तो दहति क्षणात् ।। ९९ ।।

शास्त्रज्ञेन विनीतेन शुचिना दीक्षितेन च ।
नाट्याचार्येण शान्तेन4 कर्तव्यं रङ्गपूजनम् ।। १०० ।।

स्थानभ्रष्टं तु यो दद्याद्बलिमुद्विग्नमानसः ।
मन्त्रहीनो यथा होता प्रायश्चित्ती भवेत्तु सः ।। १०१ ।।

5इत्ययं यो विधिर्दृष्टो रङ्गदैवतपूजने ।
नवे नाट्यगृहे कार्यः प्रेक्षायां 6च प्रयोक्तृभिः ।। १०२ ।।

इति भारतीये नाट्यशास्त्रे रङ्गदैवतपूजन7 नाम तृतीयोऽध्यायः समाप्तः ।।

Abh

उद्विग्नमानस इत्यनवधानरूपं लक्ष्यते । नवे नाट्यगृह इति मण्डपशेषत्वमेवोक्तम् । प्रेक्षायां चेति । नवायामिति केचित्संबन्धयन्ति । तेन……पूजा कार्योति । अन्ये तु प्रेक्षारम्भे सर्वथा(दा) पूजा कार्येत्याहुरिति शिवम् ।। (३५-१०२) ।।

इत्थं तृतीयमध्यायं ग्रन्थिस्थानेषु योजये(यन्) ।
बुद्ध्याऽभिनवगुप्तोऽहं शिवतातत्त्वबृंहितः ।।

इति श्रीमहामाहेश्वराभिनवगुप्तविरचितायां भारतीयनाट्यशास्त्रविवृतावभिनवभारत्यां रङ्गदैव1तपूजनं नाम तृतीयोऽध्यायः समाप्तः ।।

Notes

(मू)

(व्या)