श्रीः ।
अथ द्वितीयोऽध्यायः ।
1भरतस्य वचः श्रुत्वा 2पप्रच्छुर्मुनयस्ततः3 ।
भगवन् श्रोतुमिच्छामो यजनं 4रङ्गसंश्रयम् ॥ १ ॥
अथ वा याः5 क्रियास्तत्र लक्षणं यच्च पूजनम् ।
6भविष्यद्भिर्नरैः कार्यं कथं 7तन्नाट्यवेश्मनि ॥ २ ॥
Abh
संसारनाट्यजननधातृबीजलताजुषीम् ।
जलमूर्तिं शिवां पत्युः सरसां पर्युपास्मेहे ॥ १ ॥
वृत्तेऽध्याये यथातत्त्वमिति (१-५) वचनवशात् भरतमुनिर्यजनादेः पाठ्या– दिवदन्तरङ्गतां पश्यन्परमार्थनिर्णयेन कुर्यात् का तु कथा (पश्यति परमार्थनिर्णयेन । द्वितीय तु कथम्) मण्डपलक्षणं स्यात् । अत एव 1मुनिः ‘गानं रङ्गश्च सङ्ग्रहः’ (६-१०) इति रङ्गं सर्वं पश्चाद्वक्ष्यति । तस्मात्कदाचिदे(त्कथमे)तदित्याशङ्कमाना (नानां) ‘मुनय पप्रच्छुः’ इति परमात्मानं परिकलप्य मुनिराह–भरतस्य वच इति. ब्रह्येव कविः, शक्र इव प्रयोजयिता, भरत इव नाट्या2चार्यः, कोहलादय इव नटाः, अप्सरस इव सुकुमारोपकरणं, स्वातिरिवानद्धवित्, नारदवद्गीतज्ञः, सुरक्षितो मण्डपः, इन्द्रोत्सवसदृशः प्रयोगकालः, प्रशान्तरागद्वेषादिकाः3 सामाजिकाः, देवतापूजनपूर्वकः प्रयोग इत्येवं सङ्ग्रहेण पूर्वाध्यायनिरूपितमर्थवधार्येत्यर्थः । (यजनमिति) ‘रङ्गपूजां कुरुष्व’ इति निवृत्तेऽध्याये निरूपितमिति सङ्गतिः । देवविषये यजनस्य मण्डपस्य क्रियां विना न निष्पत्तिरिति प्रथमं क्रियाप्रश्नस्तेषां विस्मृतोऽपि झटिति स्मृतिं गत इत्यभि4प्रायेण दर्शयति - अथ वेति । पूर्वप्रश्नार्थोप5मर्दनाय । अत एव पूजन–
Notes
(मू.)
(व्या)
1इहादिर्नाट्ययोगस्य2 नाट्यमण्डपम एव हि2 ।
तस्मात्तस्यैव तावत्त्वं लक्षणं वक्तुमर्हसि ॥ ३ ॥
तेषां तु वचनं श्रुत्वा मुनीनां भरतोऽब्रवीत् ।
लक्षणं पूजनं चैव श्रूयतां नाट्यवेश्मनः4 ॥ ४ ॥
5दिव्यानां मानसी सृष्टिर्गृहेषूपवनेषु च ।
(6यथाभावाभिनिर्वर्त्याः सर्वे भावास्तु मानुषाः) ।
7नराणां यत्नत: कार्या लक्षणाभिहिता क्रिया ॥ ५ ॥
श्रूयतां तद्यथा 8यत्र कर्तव्यो नाट्यमण्डपः ।
तस्य 9वास्तु च पूजा च 10यथा योज्या प्रयत्नतः ॥ ६ ॥
Abh
मिति पुनर्वचनम् । क्रियाः इतिकर्तव्यता । लक्षणं सन्निवेशपरिमाणादि । अतीतेषूपदेशो व्यर्थ इति भविष्यद्भिरित्युक्तम् । देवानां मनसा सम्पत्तेः नरैरिति । ननु लक्षणं किं कार्यम् । लक्ष्यत इति लक्षणं सन्निवेश इत्यदोषः । अथ वा भाविभिर्यत्कार्यं नाट्यवेश्म तत्र यत्क्रियालक्षणं पूजनं तत्कथमिति सम्बन्धः । (१-२)
पूर्वकृते प्रश्नपञ्चके निर्णयं कृत्वेदं प्रश्नान्तरं निर्णयेदित्याशङ्कमाना मुनयः पुनराहुरिहादिरिति । नाट्यस्य योग 1उत्पत्तिः । तावदित्यनेन पूर्वप्रश्नितस्यात्याग उक्तः । एवकारो लक्षणशब्दानन्तरम् । इतिकर्तव्यतायाः तदङ्गत्वात् । यजनस्य च तन्निष्पत्यनन्तरत्वात् । तेषामिति । अन्यथा तु न ब्रूयादेवोक्ताद्धेतोः । अनेन श्लोकेन लक्षणपूजनज्ञानं देवानामप्युपयोगि । सङ्कल्पिस्यापि निर्माणस्य ज्ञानापेक्षित्वादित्युक्तम् । अत एवात्र क्रियेति नोक्तम् । (३-४)
ननु किं 2क्रियै(या ने)वोच्यत इत्याह–दिव्यानामिति । श्रूयतामित्यनुवर्तते । नराणां कार्या क्रिया इतिकर्तव्यता च श्रूयताम् । चकाराल्लक्षणपूजने । शास्त्रे3णोक्ता नराणामेव कस्मादित्याह–दिव्यानामिति । सृज्यमानत्वेन कर्मणोऽपि विषयत्ववि(त्वमेव) यत्र जन्मक्रमनियतप्ररोहकुसुमफलानि बहुविचित्रतरुलतास्थलीसरोवराक्रीडमयान्युपवनान्यपि
Notes
(मू.)
(व्या)
इह 1प्रेक्षागृहं दृष्ट्वा 2धीमता विश्वकर्मणा ।
त्रिविधः सन्निवेशश्च शास्ततः 3परिकल्पितः ॥ ७ ॥
विकृष्टश्चतुरश्रश्च त्र्यश्रश्चैव तु मण्डपः ।
तेषां त्रीणि प्रमाणानि ज्येष्ठं 4मध्यं तथाऽवरम् ॥ ८ ॥
प्रमाणमेषां 5निर्दिष्टं हस्तदण्डसमाश्रयम् ।
6शतं चाष्टौ चतुःषष्टिर्हस्ता द्वात्रिंशदेव च7 ॥ ९ ॥
Abh
मानसानि, तत्र गृहे का सम्भावनेति । श्रूयतामिति । तदिति । यतो नराणां यत्नतः कार्यताप्रकारः । यत्रेति देशकालौ । वास्त्विति । गृहभूमिगतं परिमाणमिह मन्तव्यम् । (पूजा)लक्षणोक्तेत्युक्तम् । (५-६)
तत्र किं तल्लक्षणमित्याह–इह प्रेक्षागृहमिति । इह नाट्यमण्डपे । सन्निवेशः चशब्दात्प्रमा1णमेतत् । विश्वकर्मणा परिकल्पितः । किं स्वबुदध्या । न । अपि तु शास्त्रतः प्रेक्षागृहे विचार्य । शक्तश्चासौ विचार इत्याह-धीमतेति। ज्ञायत इत्याह । शास्त्रं कृतं तदप्यपरशास्त्रमूलमिति प्रवाहानादित्वमुक्तम् । कोऽसौ त्रिविध इत्याह– विकृष्टश्चेति । विभागेन कृष्टो दीर्घो न तु चतसृष्टु दिक्षु साम्येन । तिस्रोऽश्रय2– स्त्य/?/श्री, (श्रयो यस्य त्र्यश्रि) तदस्मिन्निति मत्वर्थीयोऽच् । एतान्येव त्रीणि ज्येष्ठादीनीति केचित् । अन्ये तु प्रत्येकं त्रित्वमिति नवैतेऽत्र भेदा इत्याहुः । एतदेव युक्तम् । तथा चाह–तेषामिति । प्रमाणं हस्तदण्डाश्रयं ज्येष्ठादित्वम् । न तु सन्निवेशाश्रयमिति यावत् ।
‘शत3 चाष्टौ चतुःषष्टिर्द्धात्रिंशच्चेति निश्चयात् ।’
इति केचित्पठन्ति । तेषां चास्ति(पि) हस्तदण्डसमाश्रयत्वं वाचकं भवति । एतच्च सर्वं सम्भवमात्रेणोच्यते । अ4नु(नानु)वादकतया । न त्वियन्तो भेदा उपयोगिनः । एवं चाष्टादश भेदास्तावच्छास्त्रे दृष्टाः । ते चान्यत्वे(द्यत्वे) यद्यप्यनुपयोगिनः तथापि च सम्प्रदायाविच्छेदार्थं निर्दिष्टाः । केषाञ्चित्कदाचिदुपयोगो भविष्यतीति । यथोक्तम्– ‘अप्रयुक्ते दीर्घसत्रवत्’ इति । (७-९)
Notes
(मू.) 1.क्ष. ठ.म. प्रेक्षागृहाणां तु । न. प्रेक्षागृहं दृष्टम् ।
(व्या)
अष्टाधिकं शतं ज्येष्ठं चतुःषष्टिस्तु मध्यमम् ।
1कनीयस्तु तथा वेश्म 2हस्ता द्वात्रिशंदिष्यते ॥ १० ॥
3देवानां तु भवेज्ज्येष्ठं नृपानां मध्यमं भवेत् ।
शेषाणां प्रकृतीनां तु कनीयः संविधीयते ॥ ११ ॥
(4प्रेक्षागृहाणां सर्वेषां प्रशस्तं मध्यमं स्मृतम् ।
तत्र पाठ्यं च गेयं च सुखश्राव्यतरं भवेत् ॥
प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः ।
विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव 5प्रयोक्तृभिः ॥
कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् ।
ज्येष्ठं विकृष्टं विज्ञेयं 6नाट्यवेदप्रयोक्तृभिः॥)
7प्रमाणं यच्च निर्दिष्टं लक्षणं विश्वकर्मणा ।
प्रेक्षागृहाणां सर्वेषां तच्चैव हि निबोधत ॥ १२ ॥
अणु रजश्च वालश्च लिक्षा यूका यवस्तथा ।
अङ्गुलं 8च तथा हस्तो 9दण्डश्चैव प्रकीर्तितः ॥ १३ ॥
Abh
इदन्त्वि1होपयोगीति दर्शयति–अष्टाधिकं शतमित्यादि । इष्यत इति । अन्यत्वेऽपीत्याशयः । देवानामिति । यत्र देवासुरप्राया एव नायकप्रतिनायकास्तत्र 2डिमादावारभटीप्रधाने विततरङ्गपीठोपयोगात् भाण्डवाद्यप्रधानत्वाच्च परिक्रमणादेरुच्च3– तरदीर्घतरदीर्घतालपरिग्रहादियोगाच्च4 भक्तभावस्यासम्भवादष्टोत्तरशतहस्तो मण्डप इत्यर्थः । यस्तु व्याचष्टे प्रेक्षका अत्र देवादयो विवक्षिता न तु प्रयोज्याः । तेषां नियतसंख्याकत्वादिति । तस्यास्मदभिप्रायो न स्मृतिपथमागतः सननपि दशरूपकादौ । स चानन्तरमेव दर्शयिष्यते । (१०-११)
प्रमाणं लक्षणं यन्निर्दिष्टमिति 5जातावेकवचनम् ।
Notes
(मू) 1.N. कनीयश्च ।
(व्या)
अणवोऽष्टौ रजः प्रोक्तं तान्यष्टौ वाल उच्यचे ।
वालास्त्वष्टौ भवेल्लिक्षा यूका लिक्षाष्टकं4 भवेत् ॥ १४ ॥
यूकास्त्वष्टौ 2यवो ज्ञेयो 3यवास्त्वष्टौ तथाङ्गुलम् ।
4अङ्गुलानि तथा हस्तश्चतुर्विंशतिरुच्यते॥ १५ ॥
चतुर्हस्तो भवेद्दण्डो निर्दिष्टस्तु प्रमाणतः ।
अनेनैव 5प्रमाणेन वक्ष्याम्येषां विनिर्णयम् ॥ १६ ॥
Abh
कानि प्रमाणानीत्याह–अणु रजश्चेत्यादिना । तेषां लक्षणान्याह– अणवोऽष्टावित्यादि । यतः प्रभृति दृश्यता प्रवर्तते सोऽणुः । अणुः प्रसिद्धोऽणुपरिणामः । द्व्यणुकद्व1यपरमाणुद्वयारब्धा अणव एव वा महत्त्वयुक्ताः । परमाणुद्वयारब्धे तु द्व्यणुकेऽणुपरिमाणमस्तु । कोऽत्र विरोध इत्यलमवान्तरेण । अनेनैवेति । ‘देवानान्तु भवेत्’ इत्येन2न यदुक्तम् । मण्डपाः–तद्यथा ज्येष्ठप्रमाणं डिमप्राये । यद्वक्ष्यति–
निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः ।
युद्धनियुद्धाघर्षणसम्फेटकृतश्च विज्ञेयः ॥
देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ।
षोडशनायकबहुलः सात्त्वत्यारभटिकायुतस्तु डिमः ॥
(ना.शा. १८.)इति ।
तथा मध्यमप्रमाणं नृपतिप्रायप्रयोज्ये नाटकादौ यद्वक्ष्यति–
निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः ।
युद्धनियुद्धाघर्षणसम्भवकृतश्च विज्ञेयः ॥
3नृपतीनां यच्चरितम् । (ना.शा. १८.) इत्यादि ।
शेषास्तु प्रकृतयो भाणप्रहसनादौ । यच्च वक्ष्यति–
विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यस्तु । (ना.शा. १८.)
तथा ‘भगवत्तापसविप्रैरन्यैरपि च (ना.शा. १८.) इत्यादि । एवंभूतप्रकृतिप्रधाने प्रयोगे कनीयःप्रमाणो मण्डपः इति । एषां मण्डपानां मध्ये यो विनिर्णय एव सर्वसाधारणः मध्यमे मण्डपे नाटकभाणप्रयोगात् 4कनीयसि च, डिमरूपे एव(ष) मण्डपं(पः) तं
Notes
(मू)
(व्या)
चतुःषष्टिकरान्कुर्याद्दीर्घत्वेन तु मण्डपम्1 ।
2द्वात्रिंशतं च विस्तारान्मर्त्यानां यो भवेदिह3 ॥ १७ ॥
अत ऊर्ध्वं न कर्तव्यः कर्तृभिर्नाट्यमण्डपः ।
यस्मादव्यक्तभावं हि 4तत्र नाट्यं 5व्रजेदिति ॥ १८ ॥
मण्डपे विप्रकृष्टे तु पाठ्यमुच्चारितस्वरम् ।
6अनिस्सरणधर्मत्वाद्विस्वरत्वं भृशं व्रजेत्7 ॥ १९ ॥
Abh
वक्ष्यामीति । अयमभिप्रायः– ज्येष्ठमाने नाटकादिप्रयोगसौकर्याभावान्मध्यम एव युक्तः । स एव निर्णयः । विविधोऽपि दिव्यनृपप्रकृता(त्या)दिस्वभावो निश्चयाभि- मुख्यमभिनयप्रयोगद्वारेण नीयते यत्रेति । (१२-१६)
तं दर्शयति–चतुष्षष्टिं करानित्यादि । प्रयोक्तुः पुरस्तात्पृष्ठतश्च मण्डपेऽस्मिन् सति(पोऽस्मिन्नसति) करणार्हो न भवतीत्यर्थः । कर्तृभि1रिति । किं तेषां वृथा प्रयासोत्पादनेनेति यावत् । तत्रेति । अतोऽधिकप्रमाणे अत्यन्तं न्यूनप्रमाणे चेत्यर्थः । नाट्यमिति । सकलावान्तरभेदे प्रभेदं दर्शयितुम् । नाट्यतोऽभि(ट्यं यतोऽभि)व्यक्तं भवतीति समुदायाभिप्रायेण मन्तव्यम् । तदेव दर्शयति-मण्डप इति । दीर्घत्वम् । पार्श्वयो 2र्विस्तारः । मर्त्यानामित्यनेन मण्डपकरणात् किमित्यकारणं प्रयोगेणैव(गो नैव)- वेद्यत इत्याशयः । एतदेवाह– अत ऊर्ध्व नेति। अत इत्येवविधो यतो मध्यमोऽस्ति ततो हेतोरित्यर्थः । ऊर्ध्वमिति । प्रमाणस्याधिक्यं न्यूनातिरेकाभ्यामिति मन्तव्यम् । कर्तव्य इति । प्रकर्षः प्रकृष्टं तदतिक्रान्तो विप्रकृष्टः । किन्नियोगमानः तस्मिश्च तत्र ज्येष्ठे । पाठ्यं यन्मुख्ये (ख्यं) ‘नाट्यस्यैषा तनूस्मृता’ (ना.शा. १४-२) इति दर्शयिष्यते । तद्विस्वरत्वं विशेषेणोपतापकत्वं निकटवर्तिनः प्रति व्रजेत् । अत्र हेतुः उच्चं कृत्वा 3चारितोऽतिक्लेशेन सम्पादितः स्वरः काक्वा4 (कखा) दिविभागो यत्र । तथा दूरवर्तिनः
Notes
(मू.)
(व्या)
1यश्चाप्यास्यगतो भावो नानादृष्टिसमन्वितः ।
2स वेश्मनः प्रकृष्टत्वाद्व्रजेदव्यक्ततां 3पराम् ॥ २० ॥
प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते ।
4यावत्पाठ्यं च गेयं च तत्र श्रव्यतरं भवेत्5 ॥ २१ ॥
Abh
सामाजिकान्प्रति विस्वरत्वं विगतशब्दकत्वमनाकर्णनीयत्वं ब्रजेत । अत्र हेतुः अनि- स्सरणधर्मत्वात् । निरन्तरे देशे सरणं द्वितीयशब्दारम्भः । स 1यस्य धर्मो नास्ति शब्दान्तरप्रसराभावादित्यर्थः । तथाऽतिकनीयसि मण्डपे पाठ्यमुच्चरितस्वरं सदनिस्सरणधर्मत्वादनुर2णनात्मकमधुरशब्दान्तरानारम्भात् विनष्टः स्वरो मधुरो यस्य तादृशत्वं व्रजेत् । अनुरणनं हि स्वरस्य पाठ्यसिद्धिरूपमिति गेयाधिकारे वक्ष्यामः । अनेन समानयोगक्षेमत्वात् अधिकातोद्यविस्वरत्वमपि लक्षितं भवति । तथा चोपसंहरिष्यति गेयं चेति । विस्वरत्वमिति, ‘स्वृ शब्दोपतापयोः’ इत्यस्य रूपम् । (१७-१९)
प्रधानस्य पाठ्यस्य प्रधानानुरणनभूतस्य च गीततोद्यादेर्विनाशं प्रतिपाद्याभिनय- वर्गस्यापि प्रतिपादयति–यश्चापीति । आस्यगतो मुखगतो भावः योऽनुभावलक्षणो दृष्टिबाष्पस्वेदवैवर्ण्यादिः तथा मकुटप्रतिशीर्षादिः । चकारादाङ्गिकः । स वेश्मनः प्रकृष्टत्वादतिविस्तीर्णत्वादव्यक्ततां व्रजेत् । तथा प्रगतं कृष्टं कर्षण दैर्घ्यं यस्य तस्य भावः । ततः कनीयस्त्वाद्धेतोः परां द्वितीयामव्यक्ततामतिसामींव्यकृतां व्रजेत् । प्रथमं ह्यतिदूरत्वं कृत्वा सोक्ता । एवमुभयमण्डपाभिप्रायेणेदं व्याख्येयम् । अन्यथा तस्मान्मध्यममिष्यत इत्युपसंहारो न श्लिष्यति । तदाह - प्रेक्षागृहाणामित्यादि । मध्ये भवं मध्यमम् । तदिष्यते यतः सर्वेषां रूपाणां संबंधि यत्पाठ्यं प्रधानं तनूरूपप्राणोप3- रञ्जकरूपं च गीतं चकारादातोद्यं च श्रव्यतरं भवति । द्वितीयचकारादभिनयान्तरमपि दृश्य4तरं भवतीत्यर्थः । (२०-२१)
Notes
(मू)
(व्या)
(प्रे1क्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः ।
विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥
कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं च मध्यमम् ।
ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेश्म प्रयोक्तृभिः ॥)
देवानां मानसी सृष्टिर्गृहेषूपवनेषु च ।
2यत्नभावाभिनिष्पन्नाः सर्वे भावा हि3 मानुषाः ॥ २२ ॥
4तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः ।
5मानुषस्य तु गेहस्य सम्प्रवक्ष्यामि लक्षणम् ॥ २३ ।।
6भूमेर्विभागं 7पूर्वं तु परीक्षेत 8प्रयोजकः ।
ततो 9वास्तु प्रमाणेन प्रारभेत 10शुभेच्छया ।। २४ ।।
Abh
ननु यद्येवंभूतः प्रयोगक्रमस्तर्हि हस्तसमाश्रये1णैव विधिर्वक्तव्यः । सोऽपि यत्र परिपूर्णो नोपकारी तत्र दण्ड2समाश्रयेणातोद्यमानेन । अथ कदाचिद्दिव्यप्रकृतिप्रेक्षकाभिप्रायेण तदुच्यते तत्रापि कः स्तोका3न्तरत्वेनेति न्यायेन का इति(ह) सम्भावनेत्याशङ्कां पराकर्तुं श्लोको भा4वी । अत एव पूर्वश्लोकेन सह नात्र पौनरुक्त्यं शङ्कितव्यम् । तस्यान्यथोपक्षेपात् । तच्छ्लोकमाह–देवानामित्यादि । मनसस्तदीयस्य सत्त्वबहुलत्वात् तत्कृत5 इन्द्रियविसर्जनलक्षणे व्यापारो6ऽतिरूपव्यापी । अपवनेष्वपि वितत7विततेषु । का कथा मण्डपविषये । अत एव गृहष्विति बहुवचनमुपात्तम् । तेन तदपेक्षया ते मण्डया उक्ता इत्यर्थः । न त्वेवं मानुषाणां राजसानां मनः । तदाह-देवकृतैरिति । यत एवं तस्मान्मानुषस्यैव गेहस्य लक्षणं सम्यक्प्रवक्ष्यामि । तशब्द एवकारार्थे । (२२-२३)
सम्यगिति यदुक्तं तदाह– भूमेरित्यादि । विभागो हेयोपादे8यत्वेन । वास्त्विति । ग्रहणं प्रमाणं चेत्युपलक्ष्यमाणरूपेण प्रारभेत । कर्तुमिति शेषः ।
Notes
(मू.)
(व्या)
समा स्थिरा 1तु कठिना कृष्णा गौरी च या भवेत् ।
भूमिस्तत्रैव2 कर्तव्यः कर्तृभिर्नाट्यमण्डपः ।। २५ ।।
प्रथमं शोधनं कृत्वा लाङ्गलेन 3समुत्कृषेत् ।
अस्थिकीलकपालानि4 तृणगुल्मांश्च शोधयेत् ।। २६ ।।
शोधयित्वा वसुमतीं प्रमाणं निर्दिशेत्ततः ।
(त्री5ण्युत्तराणि सौम्यं च विशाखापि च रेवती ।।
हस्ततिष्यानुराधाश्च प्रशस्ता नाट्यकर्मणि ।)
पुष्यनक्षत्रयोगेन6 शुक्लं सूत्रं 7प्रसारयेत् ।। २७ ।।
कार्यासं 8बाल्बजं वापि मौञ्जं वाल्कलमेव च ।
सूत्रं 9बुधैस्तु कर्तव्यं 10यस्य च्छेदो न विद्यते ।। २८ ।।
Abh
तं विभागमाह– समेत्यादि । समा स्वभावान्नातिनिम्नोन्नतेत्यर्थः । स्थिरा अचलनस्वभावा । कठिना अनूषरा । कृष्णा गौरीचेति । चो वार्थे । अन्ये तु व्यामिश्रितत्वमाहुः । कर्तव्य इति करणार्हः । कथमित्याह-प्रथममित्यादि । शोधनमुपरि- गताशुचिशर्कराद्यपसारणम् । ततो हलेनोद्धृतगुल्मपाषाणादिकां कुर्यात् । एतदेवाह- अस्थीत्यादिना ।
एवं बाह्याभ्यन्तरतो भूमिशुद्धिं निरूप्यानन्तरकरणीयमाह– शोधयित्वेति । 1कथं प्रमाणनिर्देश इत्याह-पुष्येति । शुक्ल2 सूत्रत्वं तावत्पिष्टरञ्जनादिना । चर्मकृ3तं मानसूत्रं न कार्यमिति च तात्पर्यम् । स्वामिनः प्रेक्षापतेः । प्रयोक्तुर्नाट्याचार्यस्य । प्रयत्नेन रज्जुग्रहणमित्यच्छेद्या4नुभरणीया । तादृशी च सावधानतयावष्टम्भवियोगाद्युभयथा तथा प्रयत्नतो योज्यम् । नित्यमिति । न केवलमत्र प्रथमपरिग्रहे यावदन्यभाविस्तम्भवि- निवेशाय भूभागमानग्रहणादावित्यर्थः । प्रयत्नेन मानमित्यूनाधिकादिदोषवर्जनायायं यत्न
Notes
(मू)
(व्या)
अर्धच्छिन्ने भवेत्सूत्रे स्वामिनो मरणं ध्रुवम् ।
1त्रिभागच्छिन्नया रज्ज्वा 2राष्ट्रकोपो विधीयते ।। २९ ।।
छिन्नायां तु चतुर्भागे प्रयोक्तुर्नाश उच्यते ।
3हस्तात्प्रभ्रष्टया वापि 4कश्चित्त्वपचयो भवेत् ।। ३० ।।
5तस्मान्नित्यं प्रयत्नेन 6रज्जुग्रहणमिष्यते ।
कार्यं चैव 7प्रयत्नेन मानं नाट्यगृहस्य तु ।। ३१ ।।
मुहूर्तेनानुकूलेन तिथ्या8 9सुकरणेन च ।
ब्राह्मणांस्तर्पयित्वा तु10 पुण्याहं वाचयेत्ततः11 ।। ३२ ।।
12शान्तितोयं ततो दत्त्वा ततः सूत्रं प्रसारयेत् ।
चतुष्पष्टिकरान्कृत्वा 13द्विधा कुर्यात्पुनश्च तान् ।। ३३ ।।
पृष्ठतो यो भवेद्भागो 14द्विधाभूतस्य तस्य तु ।
15सममर्धविभागेन रङ्गशीर्ष 16प्रकल्पयेत् ।। ३४ ।।
Abh
इत्यपौनरुक्त्यम् । मुहूर्तो ब्राह्मादिः । तिथिर्हदा(र्नन्दा)दिः । करणं विष्ट्यादिरहितम् (२४-३२)।
सूत्रप्रसारणेन यत्कृत्यं तदाह-चतुष्षष्टिरित्यादि । चतुष्षष्टिर्हस्तदैर्घ्याद्विस्ताराच्च द्वात्रिंशत्करं क्षेत्रं गृहीत्वा मध्ये सूत्रं विस्तारेण दद्यात् । पुरस्ताद्भागः प्रेक्षकभागः । अपरस्ताद्भागः प्रयोक्तृभागः । तत्र यत्प्रयोक्तुः पृष्ठगं भविष्यति 1तदेव पृष्ठम् । तस्य मध्ये विस्तारेण सूत्रं दद्यात् । ततः षोडशहस्तौ द्वौ भागौ भवतः । तयोः पाश्चात्यभागः षोडशहस्तो नेपथ्यगृहम् । पूर्वभागमपि द्विधा कुर्यात् । पृष्ठगतं भागमर्धेन विभज्याष्टहस्तं रङ्गशिरः । प्रविशतां पात्राणां चान्तस्स्थानम् । नाट्यमण्डपस्य ह्युत्तानसुप्तवदवस्थितस्य रङ्गपीठं मुख्यम् । तदष्टहस्तं शिरः । तत्पृष्ठे तु दैर्घ्याद्धि2 षोडशहस्तं नेपथ्यगृहं भवति । विस्तारात्तु द्वात्रिंशत्करमेव तत्3 । नैपथ्यादिकं
Notes
(मू)
(व्या)
1पश्चिमे च विभागेऽथ नेपथ्यगृहमादिशेत् ।
2विभज्य भागान्विधिवद्यथावदनुपूर्वशः ।। ३५ ।।
शुभे नक्षत्रयोगे च मण्डपस्य निवेशनम् ।
3शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवादिभिः ।। ३६ ।।
4सर्वातोद्यैः प्रणुदितैः स्थापनं कार्यमेव तु5 ।
उत्सार्याणि त्वनिष्टानि 6पाषण्ड्याश्रमिणस्तथा ।। ३७ ।।
काषायवसनाश्चैव विकलाश्चैव ये नराः ।
निशायां च बलिः कार्यो नानाभोजनसंयुतः7 ।। ३८ ।।
गन्धपुष्पफलोपेतो दिशो दश समाश्रितः ।
पूर्वेण शुक्लान्नयुतो 8नीलान्नो दक्षिणेन च ।। ३९ ।।
पश्चिमेन बलिः पीतो रक्तश्चैवोत्तरेण तु ।
9यादृशं दिशि यस्यां तु दैवतं परिकल्पितम् ।। ४० ।।
तादृशस्तत्र दातव्यो बलिर्मन्त्रपुरस्कृतः ।
स्थापने ब्राह्मणेभ्यश्च दातव्यं घृतपायसम् ।। ४१ ।।
Abh
च तत्र गृह्यते । तदाह–पश्चिमे चेति । तत्र रङ्गपीठं विस्तारतः षोडश -दैर्घ्यतस्त्वष्टहस्ता इति केचित् । अन्ये त्वेतदेव विपर्यासयन्ति । सर्वथा तावदङ्गपीठस्यापि विकृष्टत्वं विधेयमिति तात्पर्यम् । यद्वक्ष्यते–रङ्गो विकृष्टो भरतेन कार्यः (ना.शा. १२-२०) इत्यादि । (३३-३५)
एवं मानविधिमभिधायेष्टकास्थाप1नरूपे निवेशने विधिमाह-शुभे नक्षत्रयोग इत्यादिना । 2दशसु तिर्यगूर्ध्वाधोरूपासु दिक्षु बलिः कार्य इत्युक्त्वा चतसृषु दिक्षु बलिविधिरुक्तो नान्यथेत्यभिप्रायेण व्यापकं विधिमाह-यादृशमित्यादिना । तेनाग्नेये
Notes
(मू)
(व्या)
मधुपर्कस्तथा राज्ञे कर्तृभ्यश्च गुडौदनम् ।
नक्षत्रेण तु कर्तव्यं मूलेन स्थापनं बुधैः ।। ४२ ।।
मुहुर्तेनानुकूलेन 1तिथ्या सुकरणेन च ।
एवं तु स्थापनं कृत्वा भित्तिकर्म प्रयोजयेत् ।। ४३ ।।
भित्तिकर्मणि निर्वृत्ते स्तम्भानां स्थापनं ततः ।
तिथिनक्षत्रयोगेन शुभेन करणेन च ।। ४४ ।।
2स्तम्भानां स्थापनं कार्य रोहिण्या श्रवणेन वा ।
आचार्येण सुयुक्तेन त्रिरात्रोपोषितेन च ।। ४५ ।।
स्तम्भानां स्थापनं 3कार्य प्राप्ते सूर्योदये शुभे ।
प्रथमे ब्राह्मणस्तम्भे सर्पिस्सर्षपसंस्कृतः4 ।। ४६ ।।
सर्वशुक्लो विधिः कार्यो दद्यात्पायसमेव च ।
ततश्च क्षत्रियस्तम्भे वस्त्रमाल्यानुलेपनम् ।। ४७ ।।
सर्व रक्तं प्रदातव्यं द्विजेभ्यश्च गुडौदनम् ।
वैश्यस्तम्भे विधिः कार्यो दिग्भागे पश्चिमोत्तरे ।। ४८ ।।
5सर्व पीतं प्रदातव्यं द्विजेभ्यश्च 6घृतौदनम् ।
शूद्रस्तम्भे विधिः कार्यः सम्यक्पूर्वोत्तराश्रये ।। ४९ ।।
Abh
रक्तवर्ण इत्याद्यूह्यम् । मन्त्रा 1वरुणपूजाविधौ वक्ष्यमाणाः । ते च कर्मशंसोप2(र्मसं) योगिनोहेन युक्ता विधेयाः । ‘मन्त्रेण स्मृतं कर्म करोति’ इति हि स्मृतिः । अन्ये तु तद्देवताकैः श्रुतिमन्त्रैरेव बलिकर्मेत्याहुः । तल्लिङ्गैरित्यन्ये । चकारो 3भिन्नक्रमः । न केवलं 4मानोपक्रमे ब्राह्मणतर्पणं यावत्स्थापनेऽपीत्यर्थः । (३६-४३)
एवं मानविधिं स्थापनविधिं भित्तिविधिं च कृत्वा स्तम्भविधिः कार्य इति दर्शयति -भित्तिकर्मणीति । स्थापनमुच्छ्रयणम् । प्रथमं त्वाग्नेयः कोणः । तस्य विशेषणैः
Notes
(मू.)
(व्या) 1.भ. रण । रङ्ग ।
नीलप्रायं 1प्रयत्नेन 2कृसरं च द्विजाशनम् ।
3पूर्वोक्तब्राह्मणस्तम्भे शुक्लमाल्यानुलेपने4 ।। ५० ।।
5निक्षिपेत्कनकं मूले 6कर्णाभरणसंश्रयम् ।
ताम्रं 7चाधः प्रदातव्यं स्तम्भे क्षत्रियसंज्ञके ।। ५१ ।।
8वैश्यस्तम्भस्य मूले तु रजतं सम्प्रदाफ्येत् ।
9शूद्रस्तम्भस्य मूले तु दद्यादायसमेव च10 ।। ५२ ।।
11सर्वेष्वेव तु निक्षेप्यं 12स्तम्भमूलेषु काञ्चनम् ।
स्वस्तिपुण्याहघोषेण जयशब्देन चैव हि ।। ५३ ।।
स्तम्भानां 13स्थापनं कार्य 14पुष्पमालापुरस्कृतम् ।
15रत्नदानैः सगोदानैर्वस्त्रदानैरनल्पकैः16 ।। ५४ ।।
ब्राह्मणांस्तर्पयित्वा17 तु स्तम्भानुत्थापयेत्ततः ।
अचलं 18चाप्यकम्पञ्च तथैवाव19लितं पुनः ।। ५५ ।।
20स्तम्भस्योत्थापने सम्यग्दोषा ह्येते प्रकीर्तिताः ।
21अवृष्टिरुक्ता चलने वलने 22मृत्युतो भयम् ।। ५६ ।।
Abh
अनुवादलिङ्गविधिकल्प्यं (लिङ्गविधिः कल्प्यः) । शुभं(क्लं) सर्वत्र पायसमिति- द्विजेभ्य इति प्रकरणात् । सर्वस्य विध्यनुसारेणैव भोजनं शुक्लादिवर्णमिति मन्तव्यम् । ततश्चेति । तैरन्त(तदन्त) इत्यर्थः । (४४-५४)
अचलमिति । स्थानान्तरा1 निवेशलक्षणमनोनोक्तम् । अविद्यमाना चलना यस्येति । अकम्प्यमिति । तत्रैव स्थानशिथिलता येन न भवति । अवलितमिति । वलयाकृत्यादिना परिवर्तनं यस्य करणीयं न भवति । दोषसूचकत्वाद्दोष2कारित्वाच्च दोषाः । तान्दोषानाह- अवृष्टिरित्यादि । (५५-५७)
Notes
(मू)
(व्या)
कम्पने परचक्रात्तु1 भयं 2भवति दारुणम् ।
दोषैरेतैर्विहीनं तु स्तम्भमुत्थापयेच्छिवम्3 ।। ५७ ।।
4पवित्रे ब्राह्मणस्तम्भे दातव्या दक्षिणा च गौः ।
शेषाणां 5भोजनं कार्य स्थापने6 कर्तृसंश्रयम् ।। ५८ ।।
7मन्त्रपूतं च तद्देयं नाट्याचार्येण धीमता ।
पुरोहितं नृपं चैव भोजयेन्मधुपायसैः8 ।। ५९ ।।
कर्तॄनपि तथा सर्वान्कृसरां लवणोत्तराम्9 ।
सर्वमेवं विधिं कृत्वा सर्वातोद्यैः प्रवादितैः ।। ६० ।।
अभिमन्त्र्य यथान्यायं 10स्तम्भानुत्थापयेच्छुचिः ।
‘यथाऽचलो गिरिर्मेरुर्हिमवांश्च 11महाबलः ।। ६१ ।।
जयावहो नरेन्द्रस्य 12तथा त्वमचलो भव ।’
स्तम्भद्वारं च भित्तिं च नेपथ्यगृहमेव च ।। ६२ ।।
एवमुत्थापयेत्तज्ज्ञो13 विधिदृष्टेन कर्मणा ।
रङ्गपीठस्य 14पार्श्वे तु कर्तव्या मत्तवारणी ।। ६३ ।।
Abh
दातव्येति। द्विजायेति दातव्यबलाल्लभ्यते । अभिमन्त्र्येति सूचितो यः मन्त्रस्तमाह- यथेति। प्रणवनमस्कारमध्यवर्ती चायं पठितव्य1 इति वास्तुविद्याविदः । अचलो भवेति । पू(अपू)र्वविधिः । न (तेन) तदनुवादेन जयावहो भवेत्यस्य न पौनरुक्त्यम् (?) एवमिति । तेन भित्तौ स्त्रीत्वेन गृहे नपुंसकत्वेनोहः कार्यः । पार्श्व इति । विशेषानुपादानात्तयोस्तुल्यम् (ना.शा. २-६५) इति च द्विवचनाल्लिङ्गाद्भाविनोर्द्वयोः पार्श्वयोरिति लभ्यते । (५८-६३)
स्तम्भाश्चत्वारः बहिर्मण्डपान्निष्कासनं कृत्वा ध्रि2यन्ते मण्डपक्षेत्राद्बहिः । तेन भित्तिच्छ्रेदावधौ स्तम्भद्वयम् । ततोऽपि बहिर्भित्तेरष्टहस्तान्तरस्तम्भापेक्षयाऽप्यष्टहस्तान्तर-
Notes
(मू)
(व्या)
चतुःस्तम्भसमायुक्ता रङ्गपीठप्रमाणतः ।
अध्यर्धहस्तोत्सेधेन1 कर्तव्या मत्तवारणी ।। ६४ ।।
ऊत्सेधेन 2तयोस्तुल्यं कर्तव्यं रङ्गमण्डपम् ।
तस्यां माल्यं च धूपं च गन्धं वस्त्रं तथैव च ।। ६५ ।।
3नानावर्णानि देयानि तथा भूतप्रियो बलिः ।
4आयसं तत्र दातव्यं स्तम्भानां कुशलैरधः ।। ६६ ।।
5भोजने कृसराश्वैव 6दातव्यं ब्राह्मणाशनम्7 ।
एवं 8विधिपुरस्कारैः कर्तव्या मत्तवारणी ।। ६७ ।।
रङ्गपीठं ततः कार्यं विधिदृष्टेन कर्मणा ।
रङ्गशीर्षन्तु कर्तव्यं षड्दारुकसमन्वितम्9 ।। ६८ ।।
Abh
स्तम्भद्वयमित्येतावदि1त्यष्टहस्तविस्तारा समचतुरश्रा मत्तवारणी भवति । आयामस्तु प्रमाणमिति ये वदन्ति तेषां2 मते दैर्घ्यादष्टहस्तं विस्तारात् षोडशहस्तमित्येवं विकृष्टता रङ्गपीठस्य भवति । अन्येषां हस्त3मानोऽत्र (मानमत्र) यथा रङ्गपीठापेक्षया च सार्धहस्तपरिमाण उच्छ्रायः कार्यो मत्तवारण्याः । तयोरिति द्विव4चनं ज्ञाप– कमेतच्चरितार्थमितीह 5नापेक्षित इति । तस्या एव यावानुत्सेधस्तावान्रङ्गपीठस्य । तेन बुध्नभूभागापेक्षया सार्धहस्तप्रमाणो6न्नतं रङ्गपीठमित्युक्तं भवति । तेन मत्तवारण्यालोकेन7 नात्यर्थं रङ्गपीठस्य दुष्प्रेक्षता । एतच्चोत्सेधेनेत्येकवचनेन सूचितम् । अन्यथोत्सेधाभ्यामित्युच्येत ।
माल्यधूपाद्यत्र निर्माणकाल एव देयम् । तदधिष्ठातृणां भूतादीनामुग्रत्वेन यत्नो– पचरणीयत्वात् । तदाह–विधिपुरस्कारैरिति । पुरस्कारशब्देन विधिर्वास्तुविद्याशास्त्रीक्तः । (६४-६७) ।
रङ्गपीठे कार्ये रङ्गशिरस्तावदाह–रङ्गशीर्षमिति । नेपथ्यगृहभित्तिलग्नौ द्वौ स्तम्भा वष्टहस्तान्तरावन्योन्यं निवेश्य तयोर्यन्मुखादेरपे8क्षया चतुर्हस्तान्तरं स्तम्भद्वयम् । तेषामधस्तनं काष्ठमुपरितनं चेति षड् दारूणि । यत्र षड् दारूणि तत्षड्दारूकम् ।
Notes
(मू)
(व्या)
कार्यं द्वारद्वयं चात्र नेपथ्यगृहकस्य 1तु ।
पूरणे मृत्तिका चात्र कृष्णा देया प्रयत्नतः ।। ६९ ।।
2लाङ्गलेन समुत्कृष्य निर्लोष्टतृणशर्करम्3 ।
लाङ्गले शुद्धवर्णो4 तु धुर्यौ योज्यौ प्रयत्नतः ।। ७० ।।
कर्तारः पुरुषाश्चात्र5 र्ये6 ऽङ्गदोषविवर्जिताः ।
7अहीनाङै्गश्च वोढव्या मृत्तिका पिटकैर्नवेः8 ।। ७१ ।।
9एवंविधैः प्रकर्तव्यं रङ्गशीर्षं प्रयत्नतः ।
कूर्मपृष्ठं न कर्तव्यं मत्स्यपृष्ठं तथैव च ।। ७२ ।।
शुद्धादर्शतलाकारं10 रङ्गशीर्ष11 प्रशस्यते ।
रत्नानि चात्र देयानि पूर्वे वजं/?/ विचक्षणैः ।। ७३ ।।
वैडूर्यं दक्षिणे 12पार्श्वे स्फटिकं पश्चिमे तथा ।
प्रवालमुत्तरे चैव 13मध्ये तु कनकं भवेत्44 ।। ७४ ।।
Abh
संज्ञायां कन् । तत्तेन विचित्ररचनोपेतत्वं लभ्यते । अत्र नेपथ्यगृहस्य द्वारद्वयं कार्यम् । एकं दक्षिणतः । अपरमुत्तरतः । तच्च द्वारद्वयमापादितं कूर्परा1भिन(म)त्या भवति । तत्पात्राणां विश्रान्त्यै आगच्छतां च गुप्त्यै रङ्गस्य शोभायै रङ्गशिरः कार्यम् ।
अन्ये तु– पार्श्वद्वयोर्ध्वाधरदारुमण्डितं स्तम्भद्वयोपेतमिहाच्छपात2कम् ।
इति षड्दारुकमाहुः । अन्ये (अत्र) तुर्धू3स्तम्भशिरसो दूरं 4निर्गतकाष्ठादप्रत्यूहस्ततो(हतो) विनिर्गता तुलासञ्जवनफलकाः स्मृताः । आकाशे भित्तिव्याख्याः स्तम्भाश्रिताः सिंहादयो व्यालानुबन्धाश्च निर्यू5हास्तुलान्तान्निस्सृताः फलकभित्तिमयाः कुहराणि पर्वतपुरनिकुञ्जगह्वररूपाणीति षड्दारुकम् । सर्वत्र च पक्षे दाक्षिणोत्तरगतं द्वारद्वयं पात्राणां प्रवृत्तिभेदकृतात्प्रदाक्षिणा6प्रदक्षिणप्रवेशत्वात् । शुद्धवर्णो । शुक्लौ । धुर्यौ दान्तौ । (६८-७१)
Notes
(मू)
(व्या)
एवं रङ्गशिरः कृत्वा दारुकर्म प्रयोजयेत्1 ।
ऊहप्रत्यूहसंयुक्तं नानाशिल्पप्रयोजितम्2 ।। ७५ ।।
नानासञ्जवनोपेतं बहुव्यालोपशोभितम् ।
3ससालभञ्जिकाभिश्च समन्तात्समलङ्गकृतम् ।। ७६ ।।
निर्व्यूहकुहरोपेतं नानाग्रथितवेदिकम् ।
4नानाविन्याससंयुक्तं 5चित्रजालगवाक्षकम् ।। ७७ ।।
सुपीठधारिणीयुक्तं कपोतालीसमाकुलम् ।
नानाकुट्टिमविन्यस्तैः स्तम्भैश्चाप्युपशोभितम् ।। ७८ ।।
एवं काष्ठविधिं कृत्वा भित्तिकर्म प्रयोजयेत् ।
स्तम्भं वा नागदन्तं वा वातायनमथापि वा ।। ७९ ।।
Abh
कूर्मपृष्ठमिति । समन्ततो निम्नं मध्ये च वर्तलरूपं मन्दम् । तत्तादृगेव मध्ये दीर्घरूपं मत्स्यपृष्ठम् । तदुभयं 1नात्र कार्यम् । समं तुल्यं कार्यम् । रत्नानि तदायुधं तद्वर्णानु– रूपत्वेन यथायोगम् । कृत्वेति । पूर्वं विभज्य बुद्ध्येति यावत् । दारुकर्मेत्युक्तं विभजति– ऊहप्रत्यूहसंयुक्तमित्यादिना स्तम्भैश्चाप्युपशोभितमित्यन्तेन । कुहराणि पर्वतनिकुञ्जगृहाणि वनरूपाणि । सालभञ्जिकाः काष्ठमय्यः कान्ता(न्त)प्रकृतयः । नानाकृतिभिर्ग्रथिताः वेदिकाश्चतुरश्रिकाः यत्र । चित्राणि जालानि चतुरश्राष्टाश्रच्छिद्ररूपाणि गवाक्षाणि च वर्तुलच्छिद्रात्मकानि यत्र । पीठानि स्तम्भोपरि । तेषु धारिण्यस्तुलाः । कपोताली विटङ्कपाली । कुट्टिमस्य नानात्वं रङ्गशिरोरङ्गपीठमत्तवारणीद्वयभेदात् । सर्वत्र तथाविधदारुकसूचकम् । रकक्तसितनीलपीतादिभेदाद्वा । अत्रोहप्रत्यूहावन्ययव्यतिरेक2तर्कोपयोगिनौ केचिदाहुः । (७२-७८)
प्रतिद्वारमवान्तरद्वारं द्वारेण विद्धं परस्परसंमुखीभूतमध्यं न कुर्यात् । नागदन्तं स्तम्भोर्ध्वनीचस्था3शकं(नीडस्थाङगकं) पुत्रिकाधारणार्थं गजमुखमिति केचित् । द्वे भूमी रङ्गपीठस्याधस्तनोपरितनरूपेणेति केचित् । मत्तवारणी बहिर्निर्गमनप्रमाणेन सर्वतो द्वितीयभित्तिनिवेशेन देवप्रसादाद्धा(दद्वा)रिका (देवप्रासादाट्टालिका ?) प्रदक्षिणसदृशी
Notes
(मू)
(व्या)
1कोणं वा सप्रतिद्वारं 2द्वारविद्धं न 3कारयेत् ।
4कार्यं शैलगुहाकारो द्विभूमिर्नाट्यमण्डपः ।। ८० ।।
मन्दवातायनापेतो 5निर्वातो धीरशब्दवान्6 ।
तस्मान्निवातः कर्तव्यः कर्तृभिर्नाट्यमण्डपः ।। ८१ ।।
7गम्भीरस्वरता येन8 9कुतपस्य 10भविष्यति ।
भित्तिकर्मविधिं कृत्वा भित्तिलेपं प्रदापयेत् ।। ८२ ।।
सुधाकर्म 11बहिस्तस्य विधातन्यं प्रयत्नतः ।
भित्तिष्वथ विलिप्तासु12 13परिमृष्टासु सर्वतः14 ।। ८३ ।।
समासु जातशोभासु चित्रकर्म 15प्रयोजयेत् ।
चित्रकर्मणि16 चालेख्याः पुरुषाः स्त्रीजनास्तथा ।। ८४ ।।
लताबन्धाश्च17 कर्तव्याश्चरितं चात्मभोगजम् ।
एवं विकृष्टं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः ।। ८५ ।।
Abh
द्वितीया भूमिरित्यन्ते । उपरि मण्डपान्तरनिवेशनादित्यपरे । अद्विभूमिरित्येके । उपाध्यायास्तु वीप्सागर्भं व्याचक्षते । द्वे द्वे भूमी यत्न निम्नाते (निम्नोन्नते) ततोऽप्युन्नता इति निक्रमेण (निम्नोन्नक्रमेण) रङ्गपीठनिकटा1त्प्रभृति द्वारपर्यन्तं यावद्रङ्गपीठोत्सेधतुल्योत्सेधा भवति । एवं हि परस्परानाच्छादनं सामाजिकानाम् । शैलगुहाकारत्वं(त्वात्) स्थिरशब्दादित्वं च भवति । मन्दत्वं वातायनानां जलकपान– (जालकपाट) योगात्कार्यम् । कुतपः2 संफेटकगायनवादकसमूहः । कुर्नाट्यभूमिस्तां तपति उज्ज्वलयतीति कृत्वा । कुतं शब्दं पातीत्यन्ये । गम्भीरत्वं तत्रैव शब्दस्य भ्रमणादन्योन्य– प्रतिश्रुतिकारसमारम्भसम्पूर्णाच्च (?) । भित्तिलेपो भङ्ग(शङ्ख)वालुकाशुक्तिकालेपः । लताबन्धा द्रुमलता3दिबन्धसन्निवेशा वा मा4लत्यादिलतागतातोद्यवेष्टनवैचित्र्यप्रकारा वा वक्ष्यमाणपिण्डीबन्धप्रकारविशेषाश्च । एतदुपसंहरति–एवं विकृष्टमिति । (७९-८५) ।
Notes
(मू.)
(व्या)
पुनरेव1 हि वक्ष्यामि चतुरश्रस्य लक्षणम् ।
2समन्ततश्च कर्तव्या हस्ता द्वात्रिंशदेव तु ।। ८६ ।।
शुभभूमिविभागस्थो नाट्यज्ञैर्नाट्यमण्डपः ।
यो विधिः पूर्वमुक्तस्तु लक्षणं 3मङ्गलानि च ।। ८७ ।।
4विकृष्टे तान्यशेषाणि चतुरश्रेऽपि कारयेत् ।
चतुरश्रं समं कृत्वा सूत्रेण प्रविभज्य च ।। ८८ ।।
बाह्यतः सर्वतः कार्या भित्तिः 5श्लिष्टेष्टका दृढा ।
6तत्राभ्यन्तरतः कार्या रङ्गपीठोपरि स्थिताः ।। ८९ ।।
Abh
यद्यपि समचतुरश्रोऽत एव शक्य ऊहितुं तथापि विस्पष्टार्थं वक्ष्यामीत्याशयेन पुनः शब्देनोपक्रमते–पुनरेवेति । ननु विकृष्टे स्तम्भविभागङ्गयोजनादि नोक्तं तत्कथं प्रतिपत्तव्यमित्याशङ्कायामावृत्त्याऽनेनैवोत्तरं–चतुरश्रसम्बन्धि यल्लक्षणं तत्पुनर्यस्माद्वक्ष्यामो घटस्य (यदस्य) विकृष्टस्य सम्बन्धित्वेन तस्मान्नापूर्णं विकृष्टलक्षणम् । तथा यदस्य लक्षणमुक्तं तच्चतुरश्रेऽपि सञ्चारणीयमिति पुनश्शब्देन दर्शयति । तेनातिदेशा(शम)– नागतापेक्षणाख्यं तत्र युराति (योजयति) । चतुरश्रमाह–समन्तत इति । सर्वेष्वन्तेषु चतसृष्वपि दिक्ष्वित्यर्थः । प्रविभज्य चेति । पूर्ववदेवेत्यर्थः । यदि बाह्यतो भित्तिरभ्यन्तरे किमित्याह–तत्राभ्यन्तर इति । अष्टभिर्भागैः सर्वतः क्षेत्रं विभजेत् । येन चतुरङ्गफलकवच्चतुष्षष्टिकोष्ठं भवति । तत्र मध्यमकोष्ठकचतुष्के रङ्गपीठं सर्वतोऽष्टहस्तम् । तस्य पश्चिमे भागे प्राक्पश्चिमं द्वादशहस्तं दक्षिणोत्तरतो द्वात्रिंशत्करं तत्क्षेत्रमवशिष्यते । (अत्र1 यद्रङ्गपीठेन स्वीकृतं तद्धि हस्ताष्टकमेव ।) यदवशिष्टं क्षेत्रं तन्मध्याद्रङ्गपीठनिकटगतं प्राक्पश्चिमतश्चतुर्हस्तं विस्तारेण द्वात्रिंशद्धस्तं क्षेत्रांशाद्विभज्य तावत्प्रमाणमेव पश्चिमभागेऽपि ष(ड्दारु)कसंस्थानं रङ्गशिरः कुर्यात् । ततोऽपि पश्चिमे तावदेव नेपथ्यग्रहणम्(गृहम्) । एवं स्थिते रङ्गपीठं लक्षयित्वा दश स्तम्भाः षड्दारुकस्तम्भव्यतिरिक्ता देयाः । तत्र कोणचतुष्टये तावच्चत्वारः । तत्राग्नेयस्तम्भाच्चतुर्हस्तान्तरो दक्षिणदिश्येकः स्तम्भः । तथैव नैऋ/?/तस्तम्भाद् द्वितीयः ।
Notes
ण(मू.)
(व्या)
दश प्रयोक्तृभिः स्तम्भाः1 2शक्ता मण्डपधारणे ।
स्तम्भानां बाह्यतश्चा3पि सोपानाकृति4 पीठकम् ।। ९० ।।
5इष्टकादारुभिः कार्यं प्रेक्षकाणां निवेशनम् ।
हस्तप्रमाणैरुत्सेधैर्भूमिभागसमुत्थितैः ।। ९१ ।।
6 रङ्गपीठावलोक्यं7 तु 8कुर्यादासनजं विधिम् ।
9 षडन्यानन्तरे चैव पुनः स्तम्भान्यथादिशम्10 ।। ९२ ।।
Abh
एवमुदीच्यामपि स्तम्भद्वयम् । पूर्वभागे ऐशानाग्नि1गतात्स्तम्भद्वयाच्चतुर्हस्तान्तरं स्तम्भद्वयमिति षट् । कोणगाश्चत्वार इति ये दश त एव । बहिः सामाजिकासनानि सर्वेभ्यो वा बहिः । अतिसामीप्ये दृष्टिविघातात् । अत एवाह रङ्गपीठावलोकने साधुभूतमिति । अनेन द्विभूमित्वमेवानुसंहितम् ।
अन्तरे स्तम्भविधिमाह–षडन्यानिति । रङ्गपीठस्य दक्षिणतो निवेशितस्तम्भद्वयाच्चतुर्हस्तान्तरौ अन्योन्यमष्टहस्तान्तरौ द्वौ । तत आग्नेयस्तम्भसम्मुखो योऽन्यस्तु पूर्वः स्तम्भः ततश्चतुर्हस्तान्तरं दक्षिणस्तम्भं कुर्यादिति पू्र्वन्यस्तानां दक्षिणस्तम्भानां दक्षिणाभित्तेश्चान्तराले स्तम्भत्रयम् । एवमुत्तरस्यामपि ।
तेषामुपरीति । अधिकानष्टौ दद्यात् । तत्र दक्षिणभित्तेरुदग्भागे चतुर्हस्तान्तरं पूर्वस्थापितस्तम्भाद्भित्ते्श्चेकं स्तम्भं दद्यात्पूर्वम् । एवमुत्तरभित्तेर्दक्षिणादिग्भागे । ततः पूर्वभित्तेश्चतुर्हस्तान्तरौ रङ्गभागद्वयानुसारेण2 द्वौ (द्वौ द्वौ) । ततोऽपि चतुर्हस्तान्तरौ द्वावित्यष्टौ ।
विद्धमास्यं मुखं यस्य तत् पद्मादिविरचितं मुखं स्तम्भेष्वष्टहस्तं पीठं निक्षिपेत् । विद्धास्यस्योपरि हस्तप्रमाणधारिणीनां तुलानां धारकाः3 स्तम्भा……..श्रयाः इति चतुरश्रे स्तम्भाविधिः ।
तमेव विकृष्टे4 त्रिकोणेषु स्वबुद्ध्या योजयेदिति श्रीशङ्कुकाद्याः । अन्ये तु —‘अष्टौ स्तम्भान्पुनश्च’ इति नेपथ्यगृहविषयानेतानाहुः ।
Notes
(मू.)
(व्या)
विधिना 1स्थापयेत्तज्ज्ञो दृढान्मण्डपधारणे ।
अष्टौ स्तम्भान्पुनश्चैव तेषामुपरि 2कल्पयेत् ।। ९३ ।।
3स्थाप्यं चैव ततः पीठमष्टहस्तप्रमाणतः ।
विद्धास्यमष्टहस्तं च पीठं तेषु ततो न्यसेत्4 ।। ९४ ।।
Abh
वार्तिककृत्तु1–
‘अन्तर्नेपथ्यगृहं स्तम्भौ द्वौ पीठकाश्च चत्वारः ।
……..न्ये चत्वारो दशैवमुक्ता भवन्त्येते ।।
भित्तेः स्तम्भानां च स्यादन्तरमष्टहस्तमेवान्ते ।’ इति ।
दत्तोऽद्यवाताथः2, सोऽथा नानाभवेदुक्तः3 (?) ।
चत्वारः पीठगताः पश्चादग्रे च याविह द्वौ द्वौ ।।
षट् सान्तरास्तथान्ये कार्या इति शास्त्रा(तात्पर्यम्) ।
………पीठगताः पश्चादग्रे च याविह द्वौ द्वौ ।। (?)
तेषामष्टावन्येऽप्युपरि निवेश्या य उद्दिष्टाः ।
तैरुत्क्षिप्तैरिह तले स्यादालोकः समस्तरङ्गस्य4 ।।
सोपानाकृति पीठकमत्र विधेयं समन्ततो रङ्गे ।
येनालोक…………ष्युपरि काष्ठासु ।। इति ।।
अन्येऽपि चैवंविधा बहवः प्रवादा ग्रन्थविस्तरभया5न्न लिखिताः ।
अयं च6न्द्रसोदर (चात्र सार) इत्युपाध्यायाः । इह प्रेक्षामण्डपस्य त्रिधा कल्पना कृता । अधोभूमिः रङ्गपीठं रङ्ग इति । तेषु चायं स्तम्भविन्यासविधिविच्छेद उक्तः ।
तथा हि–अधोभूमौ स्तम्भानाह–तत्राभ्यन्तरत इति । विस्तारे द्वादश– हस्तायाममेवं च चतु
Notes
(मू)
(व्या)
तत्र स्तम्भाः प्रदातव्यास्तज्ज्ञैर्मण्डपधारणे ।
1धारणीधारणास्ते च शा2लस्त्रीभिरलङ्कृताः ।। ९५ ।।
नेपथ्यगृहकं चैव ततः कार्यं 3प्रयत्नतः ।
द्वारं चैकं भवेत्तत्र रङ्गपीठप्रवेशनम्4 ।। ९६ ।।
जनप्रवेशनं5 चान्यदाभिमुख्येन कारयेत् ।
रङ्गस्याभिमुखं कार्यं द्वितीयं द्वारमेव तु ।। ९७ ।।
Abh
हस्तान्तरावन्योन्यापेक्षया चाष्टहस्तान्तरौ । अन्योन्यं तयोरन्तरं तथा कार्यं येन द्वारविद्धता न भवति । इत्येवं पञ्चतुलासु दश ।
एतत्स्तम्भदशकव्यतिरिक्तायां भूमावासनविधिरित्याह–स्तम्भानां बाह्य– तश्चापीत्यादि । पूर्ववदव्याख्येयम् । अथ रङ्गपीठे स्तम्भन्यासमाह–षडन्यानित्यादि । उपरि रङ्गपीठमुखोपलक्षितस्य वा (?) नेपथ्यगृहस्य1 वारुणकोण इत्युक्तं भवति । रङ्गपीठस्य यत्पृष्ठं रङ्गशिरस्तत्र द्वितीयमिति राश्यपेक्षयैकवचनम् । तेन द्वारद्वयमेव रङ्गशिरसि नेपथ्यगतपात्रप्रवेशाय कर्तव्यम् । चकारादन्य(प्रवेशा)र्थम्2 । जनप्रवेशनद्वारम् । त्रीणि वा कार्याणि मतान्तरे इति सङ्गृहीतं भवति । सर्वग्रहाणादन्यूनाधिकत्वमत्र दर्शयन् विकृष्टे स्तम्भानामाधिक्यमभ्यनुजानीते (?) (८६-९४)
त्र्यश्ररङ्गपीठे तु प्रतिरङ्गमध्य इति । रङ्गोऽत्र तच्छिरः । ततः 3पृष्ठतः रं…गेयादिवाभितः4 (?) कर्मप्रवचनीयो वर्जगा(न)द्योतकः । रङ्गपीठं वर्ज5– यित्वा तदभ्यन्तरमण्डपस्य । तत्र द्वात्रिंशद्धस्तेषु रङ्गपीठे प्रतिकोणस्तम्भा इत्यष्टहस्तान्तराश्चत्वारः । तदनन्तरं स्तम्भद्वयमिति षडप्येतेऽष्टहस्तान्तरं ततो द्वादशहस्तायामं यदवशिष्यते तत्र चतुर्हस्तायामं द्वात्रिंशद्धस्तविस्तारं यद्रङ्गशिरस्तत्र द्वे तुले दातव्ये । प्रतितुलं चाष्टहस्ता(न्तरं स्तम्भचतुष्टयं) वर्जयित्वेत्यष्टौ भवन्ति । अत एव हि विद्धास्यमष्टहस्तं चतुर्हस्तान्तरालेऽपि तिरश्चीनं देयम् । येन तुलितं चित्रं भवति । एतदाहाष्टौ स्तम्भानित्यादि ।…..शादसौभौयादिको वा सिरयमुपरीति(?) । रङ्गपीठस्य यदुपरि शिरोरूपमित्यर्थः । तथा च विकृष्टमण्डपे रङ्गपीठापेक्षया
Notes
(मू)
(व्या)
अष्टहस्तं तु कर्तव्यं रङ्गपीठं प्रमाणतः ।
चतुरश्रं1 समतलं वेदिकासमलङ्कृतम् ।। ९८ ।।
पूर्वप्रमाणनिर्दिष्टा कर्तव्या मत्तवारणी ।
चतुःस्तम्भसमायुक्ता वेदिकायास्तु पार्श्वतः ।। ९९ ।।
समुन्नतं समं चैव 2रङ्गशीर्षं तु3 कारयेत् ।
विकृष्टे 4तून्नतं कार्यं चतुरश्रे समं तथा ।। १०० ।।
एवमेतेन विधिना चतुरश्रं गृहं भवेत् ।
अतः परं प्रवक्ष्यामि त्र्यश्रगेहस्य5 लक्षणम् ।। १०१ ।।
त्र्यश्रं त्रिकोणं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः ।
मध्ये त्रिकोणमे6वास्य रङ्गपीठं तु कारयेत् ।। १०२ ।।
द्वारं 7तेनैव कोणेन कर्तव्यं 8तस्य 9वेश्मनः ।
द्वितीयं चैव कर्तव्यं रङ्गपीठस्य पृष्ठतः ।। १०३ ।।
Abh
रङ्गशिंर उन्नत वक्ष्यते । तत्र नियमादष्टस्तम्भा न्यस्यन्ते । अपि तु दृढा न्यसनीया इति दर्शयति– तत्र स्तम्भा इति । अथा1वशिष्टषु हस्तेषु विधिमाह-नेपथ्य– गृहकमिति । रङ्गपीठप्रवेशनमिति वचनेनेदमाह–कक्ष्याविभागेन तावत् द्वे द्वारे तेन द्वारमिति जातावेकवचनम् । एकशब्दश्च राश्यभिप्रायेण । राशिकरणे च निमित्तं पात्रप्रवेशोपायनम् । तथा च कक्ष्याध्याये वक्ष्यति–
‘ये नेपथ्यगृहद्वारे मया पूर्वं प्रकीर्तिते । तयोर्भाण्डस्य विन्यासः ।’ (ना.शा. १३-२)इति । (जन)प्रवेशनं च तृतीयद्वारने2पथ्यगृहस्य । येन भार्यामादाय नटपरिवारः प्रविशति । अन्यत्तु द्वारमाभिमुख्येन पूर्वस्यां दिशि कुर्यात् । द्वारवृत्त्या सामाजिकजनप्रवेशार्थंम् । ननु किमपेक्षमाभिमु(ख्यम्।कक्ष्यापे) क्षयैव पूर्वादिभिरित्युक्तम् । यद् वक्ष्यति च– ‘यतो मुखं भवेद्भाण्डद्वारं नेपथ्यकस्य तु । सा मन्तव्या तु दिक् पूर्वा नाट्ययोगे विपश्चिता ।।’ (ना.शा. १३-११) इति एवं चतुर्द्वारं नाट्यगृहम् ।
Notes
(मू.) N. ठ.ब. चतुरश्रे ।
(व्या)
1विधिर्यश्चतुरश्रस्य भित्तिस्तम्भसमाश्रयः2 ।
स तु सर्वः प्रयोक्तव्यस्त्र्यश्रस्यापि प्रयोक्तृभिः ।। १०४ ।।
एवमेतेन विधिना कार्या नाट्यगृहा3 बुधैः ।
4पुनरेषां प्रवक्ष्यामि पूजामेवं5 यथाविधि ।। १०५ ।।
इति भारतीये नाट्यशास्त्रे मण्डपविधानो6नाम द्वितीयोऽध्यायः ।।
Abh
अन्ये त्वाद्यद्वार(द्वयमि)वाद्येन हेतुनाऽन्यद्वारद्वयं पार्श्वस्थितं कुर्यादालोकसिद्ध्य– र्थमिति षड्द्वारं नाट्यगृहमाचक्षते । अथ रङ्गपीठरङ्गशिरसोर्वक्तव्यशेषं निरूपयति– अष्टहस्तन्त्विति । वेदिके शोभायुक्ते कार्ये । पूर्वप्रमाणम् । अध्यर्धहस्तोत्सेधत्वम् । समुन्नतमिति । रङ्गपीठापेक्षया । एतच्चेह प्रसङ्गात्सूचयन् विकृष्टे तेनैव प्रकारेण स्तम्भत्रय्यधिका कर्तव्या । अन्तरमप्यत्रैव दर्शितम् । (९५-१०१)
अथ त्र्यश्रस्यातिदेशद्वारेण लक्षणं कर्तुमुपक्रममाह-त्र्यश्रमिति । त्रिकोणमिति लक्षणम् । उभयानुग्रहाच्च विकृष्टचतुरश्रमानद्वयमेव भवति । मध्ये च त्रिकोणमेव रङ्गपीठम् । तथैव रङ्गशिरसः । नेपथ्यगृहं च । तेनैव कोणेनेति । वारुणीगतेन । द्वारं जनप्रवेशनम् । न तस्मिन्नेव कोणे द्वारे कर्तव्ये । सङ्गतिं सूचयति– एवमेतेनेति । एतेन विधिना बहवो नाट्यमण्डपाः, न तु पूर्वोक्ताष्टादशभेदकलनयेत्यर्थः । बुधैरित्यूहापोहविद्भिः । पुनरिति । यद्यपि1 गदिताः सर्वे शुभदाः । पूजामिति । तथापि वक्ष्यामीति पुनश्शब्दार्थः । तत्र हि विधाने(नं) नोक्तम् । तदाह–यथाविधीति । एवामिति । मण्डपस्था देवताः । अनेनोपचारादुक्ताः । (१०२-१०५)
इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायामभिनवभारत्यां भारतीय– नाट्यशास्त्रविवृतौ मण्डपाध्यायो द्वितीयः ।।
Notes
(मू)
(व्या)