श्रीरस्तु ।
भरतमुनिप्रणीतं
नाट्यशास्त्रम् ।
प्रथमोऽध्यायः ।
प्रणम्य शिरसा देवौ
पितामहमहेश्वरौ ।
नाट्यशास्त्रं प्रवक्ष्यामि
ब्रह्मणा यदुदाहृतम्1 ॥ १ ॥
Abh
अभिनवभारती ।
श्रीमदभिनवगुप्तविरचिता विवृतिः ।
यस्तन्मयान्हृदयसंवदनक्रमेण
द्राक्चित्रशक्तिगणभूमिविभागभागी ।
हर्षोल्लसत्परविकारजुषः करोति
वन्देतमां तमहमिन्दुकलावतंसम् ॥ १ ॥
षड्विंश(षट्त्रिंश) कात्मकजगद्गगनावभास-
संविन्मरीचिचयचुम्बित1बिम्बशोभम् ।
षट्त्रिंशकं भरतसूत्रमिदं विवृण्व-
न्वन्दे शिवं श्रुतितदर्थविवेकि2 धाम ॥ २ ॥
विश्वबीजप्ररोहार्थं मूलाधारतया स्थितम् ।
धर्तृ3शक्तिमयं वन्दे धरणीरूपमीश्वरम् ॥ ३ ॥
सद्विप्रतोत4वदनोदितनाट्यवेद-
तत्त्वार्थमर्थिजनवाञ्छितसिद्धिहेतोः ।
माहेश्वराभिनवगुप्तपदप्रतिष्ठः
संक्षिप्तवृत्तिविधिना विशदीकरोति ॥ ४ ॥
Notes
(मू)
(व्या)
Abh
उपादेयस्य सम्पाठस्तदन्यस्य प्रतीकनम् ।
स्फुटव्याख्या1 विरोधानां परिहारः सुपूर्णता ॥ ५ ॥
लक्ष्यानुसरणं श्लिष्टवक्तव्या2शविवेचनम् ।
सङ्गतिः पौनरुक्त्यानां समाधानसमाकुलम् ॥ ६ ॥
सङ्ग्रहश्चेत्ययं व्याख्याप्रकारोऽत्र समाश्रितः ॥
भरतमुनिरुचितदेवतानमस्कारपूर्वकमभिधेयगुणीभावेन प्रयोजनं मुख्यया वृत्त्या प्रतिजानानो विशेषणद्वारेण गुरुपर्वक्रममर्थाक्षिप्ततया चाभिधेयप्रयोजन*तत्सम्बन्धान्द- र्शयति– प्रणम्येत्यादिना–
‘पितामहोऽत्र न पितुः पिता महेश्वरश्च न राजादिरिति देवशब्दः । एतच्च नाशङ्कनीयं प्रसिद्धेः । एको विजिगीषुर्नाट्यप्रवर्तयितेति देवः । भगवांस्त्वानन्दनि- र्भरतया क्रीडाशीलः सन्धादौ नृत्यतीति नाट्ये तदुपस्कारिणि च नृत्ते तदुपज्ञं 3प्रवृत्तिरिति तावेवात्राधिदैवतं गुरू चेति नमस्कार्यौ । लक्ष्मीपतिस्तु यद्यपि वृत्तीनां निर्माता तथापि पितामहादिवदसौ स्वकर्तव्य4मात्रनिष्ठस्तथाचरन्नात्र नाट्ये लोकवदुपजीवित इति गुरुत्वाभावन्न नमस्कृतः ।’ (इत्ये)तदपि नमस्कारहेतुनिरूप- णस्यानुचितत्वादसत् ।
5तस्मात्प्रणमनं प्रह्वीभावः कायेन वाचा मनसा च । आद्यः शिरसेति दर्शितः । 6 द्वितीयो देवावित्यनेन । प्रणम्यस्य निरुपपदनामग्रहणानौचित्यात् । तेन प्रथमं देवावित्युक्तम् । अभिनेयप्राधान्याच्चाङ्गिकः शिरसेति । वाचिकश्च देवावित्यादिना वाक्याभिनयो दर्शितः7 । लोकसिद्धो ह्ययमभिनयो न च नाट्यधर्मिरूपः । चतुर इव भुजादावूर्ध्वादिभिन्न इत्यभिनेयो8ऽपि प्रदर्शनीय एव । मानसी तु प्रह्वता वाक्कायव्यापारगम्येति नासौ पृथगुक्ता । 9पितामहमहेश्वराविति क्रमः छेकानुप्रासार्थः । सालङ्कारस्य च वाक्याभिनयतां दर्शयितुम् । सालङ्कारस्य देवतापरितोषहेतुत्वं च
Notes
1 म. के वाक्य ।
Abh
दर्शयितुम् । पितामहमहेश्वरावित्यनेन देवयोर्लोकहितैषित्वमुक्तम् । नाट्यशास्त्रमिति ।
नाट्यस्य नटवृत्तस्य, शास्त्रं शासनोपायं ग्रन्थं प्रवक्ष्यामीति ।
नैतदित्यन्ये । ‘नाट्यवेदः नाट्यशास्त्रम्’ इति हि पर्यायौ । तत्र नाट्यशास्त्र- शब्देन चेदिह ग्रन्थः, तद्ग्रन्थस्येदानीं करणम् । न तु प्रवचनम् । तद्धि व्याख्यानरूपं करणाद्भिन्नं कठेन प्रोक्तमिति यथा । ग्रन्थस्य च नाट्यवेदत्वे उत्पत्त्यादिपञ्चकस्य तद्गतस्यान्यग्रन्थसाधारण्यात् प्रश्नासङ्गतिः । उत्तरग्रन्थस्य चानुपपत्तिः- ‘दृश्यं श्रव्यं च यद्भवेत्’ (१-११) ‘जग्राह पाठ्यमृग्वेदात्’ (१-१७) इत्यादेर्ग्रन्थं प्रत्यसङ्गतत्वात् । तस्मान्नाट्यं च तच्छास्त्रञ्च । व्यत्पुत्तिप्रदत्वात् । तत् प्रवक्ष्यामि व्याख्यास्ये । नाट्याख्यं वेदं लक्षणतो निरूपयिष्य इत्यर्थः ।
एतदप्यमनोरमम् । शब्दात्मताव्यतिरेकेण प्रवचनायोगात् । नाट्यस्य चाशब्दात्म- कत्वात् । निरूपणमात्रे च प्रवचने ग्रन्थस्यापि प्रवचनोपपत्तेः । नाट्यस्य च प्रोच्य- मानतयैवालाक्षणिकबाह्यस्वरूपनिरासलाभे शास्त्रशब्दानर्थक्यप्रसङ्गात् । ‘य इमं शृणु- यात्प्रोक्तं नाट्यवेदम्’ इति शास्त्रान्ते यद्वक्ष्यते तस्यासङ्गत्यापत्तेः । शब्दविषय- तातिरेकेण शृणुयादित्यस्यावाचकत्वात् ।
तस्मादित्थमेतदिति मद्रुरवः । ‘सकलहितकरणप्रवृत्त’ 1उत्साहसम्पदोपेतस्त– दभिवृद्धये तत्प्रत्यूहापसिसारविषया स्वविज्ञानक्रमोपारूढगुरुरूप2ब्रह्मसर्वाधिपति– परमेश्वरविषया स्मृत्यौत्सुक्यधृतिमत्यादिलक्षणां व्यभिचारसरणिं बाह्यकरणीयविषयं च जडतावहित्थप्रभृतिभावगणं पुरस्सरीकृत्य धर्मवीरानुप्रविष्टस्तदुचिताङ्गिकवाचि- कानुभाव3 प्रकटनपूर्वं स्वप्रवृत्तिप्रयोजनमेव निरूपयति4 । प्रयोजनस्यैव प्रवर्त- कत्वात् । यदाहुः- ‘यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम्’ (न्या. सू. १-१-२४) इति ।
तत्र नाट्यं नाम लौकिकपदार्थव्यतिरिक्तं तदनुकारप्रतिबिम्बालेख्यसादृश्या- रोपाध्यवसायोत्प्रेक्षास्वप्नमायेन्द्रजालादिविलक्षणं तद्ग्राहकस्य सम्यग्ज्ञानभ्रान्तिसंशयान- वधारणानध्यवसायविज्ञानभिन्न5वृत्तान्तास्वादनरूपसंवेदनसंवेद्यं वस्तु रसस्वभावमिति6 वक्ष्यामः । तस्य शास्त्रं शासनं बाह्यभाण्डनाट्यादिवैलक्षण्येन सम्यक्तत्स्वरूपाव– गमोपायं प्रकर्षेण परब्रह्मशिष्योदीरितानुपयोगिविकासत्वावधानेन7 (विकासावधूननेन?)
Notes
Abh
वक्ष्यामि । यद्वक्ष्यति–
य इमं शृणुयात्प्रोक्तं नाट्यवेदं स्वयम्भुवा ।
कुर्यात्प्रयोगं यश्चैनं तथाऽधीयीत वा नरः ॥
या गतिर्वेदविदुषां या गतिर्यज्ञवेदिनाम् ।
या गतिर्दानशीलानां तां गतिं प्राप्नुयात्तु सः ॥ इति ॥
(
एतेन “कामजो 1दशको गणः” (मनु. ७-४७) इति वर्जनीयत्वेन नाट्यस्यानु- पादेयतेति यत्केचिदाशशङ्किरे 2तदयुक्तीकृतम् । याज्ञवल्क्यस्मृतिपुराणादौ चास्य प्रशंसाभूयस्त्वश्रवणात् । न चागमादृते धर्मोऽनुमानगम्य इति न्यायात् ।
एतत्तु वृथैवास्थानभीरून्प्रति शङ्काशमनार्थमभिधीयते नाम । तथा हि-नटानांताव3– देतत्स्वधर्माम्नायरूपतयाऽनुष्ठेयमेव । न चास्माकं तच्चेष्टितं विचार्यम् । सोमक्रयो- पदेशिनो विधिवाक्यस्य न तद्विक्रेष्यद्5ब्राह्मणान्तरगतकृत्याकृत्यविचारणोद्योगो युक्तः । न चाप्यस्योपदिश्यते ‘गायेन्नृत्येत्’ इति । किन्तु प्रथमनाट्यावसरक्रमप्रवृत्तविरिञ्च– वचनप्रवर्तकभरतमुनिशासनानुवर्तिशिष्यपरम्परापरिचयागताद्यतनकालावधिमहा- नटजनस्वकप्रवृत्तिविशेषोपदेशपरम् । 6अत एव तद्गतसिद्धिसंपत्तिसदुपायोपदेशन- परमिदं शास्त्रमिति ।
नटस्य तावन्नानेन किञ्चिदुपदिश्यते, तं प्रत्युपकारादृते । कवेरपि स्वहृदयायतन– सततोदितप्रतिभाभिधानपरवाग्देवतानुग्रहोत्थितविचित्रा7पूर्वार्थनिर्माणशक्तिशालिनः प्रजापतेरिव 8कामजनितजगतः । परं 9प्रत्याशङ्का यदि परमत्रावशिष्यते 10व्युत्पाद्यो वराकः । तस्यापि तु नेह ‘गायेन्नृत्येद्वादयेत्तन्निरतो वा भवेत्’ इत्युपदेशः क्रियते । अपि तु स्वरसत एव तावन्मनोज्ञविषयास्वादप्रवृत्तस्यात एव वेदशास्त्र– पुराणादिभीरुहृदयस्य तन्मनोज्ञवस्तुमध्ये तादृगिदं वस्त्वनुप्रवेशितं यद्बलादेव पुमर्थो- पायावगतिं करोतीति वक्ष्यामः । उत्पत्त्यादिप्रश्नास्तु ये भविष्यन्ति ते नाट्याख्यवे– दविषयाः । न तु नाट्यवेदशास्त्रविषयाः । यतो “नाट्यवेदः कथं ब्रह्मन्” (ना. शा. १-४) इत्यत्र नाट्यमेव वेद इति व्याख्यास्यामः ।
एतच्च नाट्यवेदशास्त्रं ब्रह्मणोदाहृतं मह्यमुक्तम् । यद्वक्ष्यते- “आज्ञापितो
Notes
समाप्त-जप्यं व्रतिनं
1स्वसुतैः परिवारितम् ।
अनध्याये कदाचित् तु2
भरतं नाट्यकोविदम् ॥ २ ॥
मुनयः पर्युपास्यैनम्
आत्रेय-प्रमुखाः पुरा ।
पप्रच्छुस् ते महात्मानो
3नियतेन्द्रिय-बुद्धयः ॥ ३ ॥
Abh
“विदित्वाऽहं नाट्यवेदं पितामहात् । पुत्रानध्यापयामास” (ना. शा. १-२५) इति । अत्र तु नाट्यस्य वेदः शास्त्रमिति समासः । अन्यथाऽध्यापनासम्भवात् । तेन ब्रह्मप्रोक्तमेव मया यथापरिपाटि निरूप्यत इति यावत् ।
नाट्यं च ब्रह्मणोद्धृत्योद्धत्य वेदङ्गान्याहृतमिति तद्विषयं शास्त्रमप्युदाहृतमित्युक्तम् । यदि हि नाट्यस्य वेदनं सत्तालाभो विचारश्च यत्र तन्नाट्यवेदशब्देन नाट्याश्रयरूपं दशरूपकमित्युच्यते-यद्वक्ष्यति “इतिहासो मया दुष्टः” इति, (ना. शा. १-१९) । अत्र पक्षे ब्रह्मणोदाहृतं प्रदर्शितोदाहरणं कृतनिदर्शनमित्यर्थः ।
अन्ये तु नटनीयमनुकरणं दशरूपकमेव नाट्यम् । तस्येदं शास्त्रम् । दशरूपकलक्षणमेव हीदम् । 1एवं दशरूपकं कविना कार्यम् । एवं च नटनीयमिति ग्रन्थातात्पर्यात् । रसादीनां पदार्थानां तत्रैव पर्यवसानात् । तच्च ब्रह्मणोदाहृतं कृतनिदर्शनम् ।
अन्ये तु ब्रह्मणा वेदाख्येन भगवता शब्दराशिनोदाहृतं निरूपितं त्याज्यानु- ष्ठेयरूपमायदागच्छत् व्युत्पाद्यतया स्वीकुर्वन्नाट्यशास्त्रं प्रवक्ष्यामीति प्रयोजनमनेनैव स्वीकृतमित्याहुः ।
भट्टनायकस्तु ‘ब्रह्मणा परमात्मना यदुदाहृतमविद्याविरचितनिस्सारभेदग्रहे यदुदाहरणीकृतं 2नाट्यं तद्वक्ष्यामि । यथा हि कल्पनामात्रसारं तत एवान– वस्थितैकरूपं क्षणेन कल्पनाशतसहस्त्रसहं स्वप्नादिविलक्षणमपि सुष्ठुतरां हृदयग्रहनिदानमत्यक्तस्वालम्बनब्रह्यकल्पनटोपरचितं रामरावणादिचेष्टितमसत्यं कुतोऽप्यभूताद्भुतवृत्त्या3 भाति । तथा भासमानमपि च 4पुमर्थोपायतामेति । तथा तादृगेव विश्वमिदमसत्यनामरूपप्रपञ्चात्मकमथ च श्रवणमननादिवशेन परमपुमर्थ5प्रापकमिति लोकोत्तरपरमपुरुषार्थसूचनेन शान्तरसोपक्षेपोऽयं भविष्यति ।
‘स्वं स्वं निमित्तमादाय 6शान्तादुत्पद्यते रसः ।’ इति ॥ (ना. शा. ६.) तदनेन पारमार्थिकं प्रयोजनमुक्तम् ।’ इति व्याख्यानं हृदयदर्पणे पर्यग्रहीत् । यदाह–
Notes
(मू)
योऽयं भगवता सम्यग्1
ग्रथितो वेद-सम्मितः2 ।
नाट्यवेदः कथं ब्रह्मन्न्
उत्पन्नः कस्य वा कृते ॥ ४ ॥
3कत्य् अङ्गः किंप्रमाणश् च
प्रयोगश् चास्य कीदृशः ।
सर्वम् एतद् यथातत्त्वं
भगवन् वक्तुम् अर्हसि ॥ ५ ॥
Abh
‘नमस्त्रैलोक्यनिर्माणकवये शम्भवे यतः ।
प्रतिक्षणं जगन्नाट्यप्रयोगरसिको जनः ॥’ इति ॥
एवं नाट्यशास्त्रप्रवचनं प्रयोजनमुक्तम् । तत्प्रयोजनन्तु दर्शितमेव । अभिधेयश्च नाट्यवेदः । व्युत्पाद्यव्युत्पादकभावलक्षणश्च सम्बन्धः । यच्च शास्त्र1 यो जिज्ञासते स तावत्तदवसरे तच्छास्त्रप्रणेतरि प्रसिद्धे सिद्धवदेव2 प्रामाण्य3मभिमन्यत इति 4तद्वचनो- क्ताय सम्बन्धाभिधेयप्रयोजनाय तदैव निर्विशङ्कः प्रवर्तते । परस्त्वधिगतसकलशास्त्रा- र्थो बहुमन्यते न वेति तदिदमन्यत् । प्रथमं तावत्प्रवृत्तमादिवाक्यं 5प्रयुक्तमेवेति स्वा- नुभवप्रसिद्धम् । तेनार्थसंशयतर्ककौतुकज(न)नादिवाक्यं प्रवर्तकमिति किमनेन । (१) ।
6अत्र मुनिः सकललोकहितकरणप्रवृत्तोत्साहसंपदुपेतो धर्मपीठानुप्रविष्टस्तदुचि– ताङ्गिकवाचिकानुभावप्रकटनपुरस्सरं स्वप्रवृत्तिप्रयोजनमेव निरूपितवान् । अस्य च पितामहमहेश्वरौ प्रति स्मृत्यौत्सुक्यधृतिमत्त्यादयो व्यभिचारिभावाः प्रतीयन्ते ।
अथ मुनिरात्मानमेव परत्वेन कल्पयन्ब्रह्मणा यदुदाहृतमित्येतदेव पुराकल्पप्रदर्शनेन निश्चाययति-समाप्तजप्यमित्यादिना श्लोकद्वयेना । अनुरागित्वं नाट्यवेदयोग्यता नाट्यस्यादुष्टता विनोदहेतुता सुज्ञानत्वं प्रश्नावसरलाभयोगः प्रसिद्धत्वं चाचार्ययोग्यता शिष्टप्रामाणिकत्वं नियमपूर्वशास्त्रग्रहणं प्रसिद्धादरणा- नुमेयोपादेयत्वप्रकटनमनिद7म्प्राथम्यप्रवृत्तता शिष्याणामूहापोहपाटवं ग्रहणयोग्यता चेति क्रमेण पदानां तात्पर्यमपुनरुक्तम । (२-३) ।
किं पप्रच्छुरिति दर्शयति–योऽयमिति । भगवता तत्रभवता गुरुणेति भरतमुनिरेवैवमुक्तः । तेन भरतमुनिया यो ग्रथितः सुन्दरतमवस्तुसमाहरणयोजनया गुम्फितः कोऽप्ययं वस्तुविशेषः स तावत्प्रयोगसमयेऽस्माभिर्दृष्ट इति प्रत्यक्षत्वेन अयमिति परामर्शः । अविदितान्तस्सारतया चास्माकं प्रत्यक्षोऽप्यप्रत्यक्षकल्प इति यच्छब्देनानिर्वाच्यविशेषत्वमुक्तम् । अत एव न तच्छब्दसङ्गतिरित्र मृग्यते8 यथा यत्किञ्चिद्वदतिति । स चायं परीक्षणीय9तत्त्वो यतो वेदैः सम्मितः तुल्यः ।
Notes
(मू)
(व्या)
Abh
तथा हि– धीरोदात्तधीरललितधीरोद्धतधीरप्रशान्तानां पूर्णोपायप्रवृत्तत्वेन नायकानाम1तादृगुपायाश्रयेण प्रतिनायकानां च चरितं सफलत्वाफलत्वेन साक्षा- त्क्रियमाणं वीराद्भुताभ्यां वीरशृङ्गारहास्यैः वीररौद्रभयानककरुणैः वीरबीभत्सशान्तैश्च प्रतिनायकगतरसान्तरसान्तरतया सातिशयचमत्कारगोचरीभूतैर्हृदयानुप्रवेश विदधद्धर्मा- दिचतुष्कोपायोपादेयधियमधर्मादिभ्यश्च निवृत्तिं निर्विशङ्कं विधत्त2 इत्यस्माक- मधिगतश्रुतितत्त्वानामपि प्रत्यक्षसिद्धमेवैतत् । प्रसिद्धा चास्य नाट्यवेद3संज्ञा । अत एवोपदेशहेतुत्त्वाद्धेदः । एवं च जिज्ञास्यतत्त्व एवायम ।
स कथमुत्पन्नः । केन प्रकारेणोत्पन्नः । तत्प्रयोजनस्य वेदेभ्य एव सिद्धेः । उत्पन्न इति यदि पूर्वमेव 4वेदवद(नादिपदा?) र्थः स्यात्तत्कथं नामायं पर्यनुयुज्येत । श्रुतिचतुष्टयवेदवेत्यर्थः । अथ यस्य वेदेभ्यो नोपदेशः सिद्धः, स कस्तादृगित्याह- कस्याधिकरिणः । कृते प्रयोजनकरणाय । किं वेदाधिकृत एवात्राधिकारी उत तदन्योऽपीत्यधिकारिविषयोऽयं प्रश्नः । पूर्वस्तु सिद्धसाध्यतया निष्प्रयोजन– त्वेनाक्षे5पोऽयं प्रश्नः । कत्यङ्ग इति । यद्यस्य सुबहून्यङ्गानि तद्दुरवधारतया- ऽशक्य6निर्णयः । तथा परिदृश्यमानगीतातोद्याभिनयादिमध्ये कत्यस्याङ्गानि । किञ्च तदङ्गिरूपमुताङ्गसमुदायमात्रं नाट्यमिति तृतीयः प्रश्नः ।
किंप्रमाणश्चेति । ननु प्रत्यक्षप्रमाणसिद्धत्वं तावन्नाट्यस्य । यद्वक्ष्यति- ‘दृश्यं श्रव्यं च यत्’ (ना. शा. १-११) इति । श्रेयःप्राप्त्युपायज्ञापकत्वमपि मुनीनां स्वसंवेदनसिद्धम् । अन्यथा तु विचार्यत्वमेवास्य न स्यादित्युक्तम् । तत्कोऽयं प्रश्नः । सत्यम । किन्तु 7अङ्गविषयोऽयं प्रश्नः । किं प्रमाणः किं प्रमाणाङ्ग इति यावत् । यान्यङ्गानि कानिचित्तानि यदि विज्ञेयानि, केन प्रमाणेन किमङ्ग8 ज्ञायते । तथा केन प्रमाणेनाङ्गाङ्गिभावनियमोऽत्र ज्ञेयः । प्रमाणमत्र निश्चयजनकम् ।
अन्ये तु नाट्यगतानां रूपकादीनां पाठ्याभिनयरसगीतानां च किं प्रमाणं का सङ्ख्येति विभागविषयोऽय9 प्रश्न इत्याचक्षते ।
अस्येति नाट्यस्य । कीदृक्प्रयोगः । यदि युगपदङ्गानि प्रयुज्यन्ते तद्भिन्नाक्षग्राह्येषु युगपत्संवेदनाभावात् कथमेकं नाट्यमिति प्रतिपत्तिः । क्रमप्रयोगेऽपि नि(न)तराम् । तस्मात्कथं प्रयोग इति । तथा किं नियतेनैवाङ्गाङ्गिभावेन प्रयोग उतानियतेनेति नाट्यङ्गाप्रयोगद्वारेण सामान्याभिनयचित्राभिनयनाटकादिरूपकवैचित्र्यविषयः प्रश्नः
Notes
तेषां तु 1वचनं श्रुत्वा
मुनीनां भरतो मुनिः ।
प्रत्य्-उवाच ततो वाक्यं
नाट्य-वेद-कथां प्रति ॥ ६ ॥
भवद्भिः शुचिभिर्भूत्वा तथाऽवहितमानसैः ।
श्रूयतां नाट्यवेदस्य 2सम्भवो ब्रह्म3निर्मितः ॥ ७ ॥
Abh
पञ्चमः । एवं प्रश्नपञ्चकात् कविप्रयोक्त्रोरुपदेशपरं शास्त्रमिति लक्ष्यते । तेन यदाह1 ‘तस्मात्कर्तृर्द्रष्टुः प्रयोक्तुरुपदेशपरमिदं शास्त्रम्’ इति, तत्र द्रष्टुरित्यसत् । न ह्यनेन सामाजिको विनीयते । अयोग्यत्वात् । श्रुतिस्मृतीतिहासादिष्विवात्रापि न च तदुपदेशोऽत्र श्रूयते । द्रष्टा तु यदि प्रेक्षाप्रवर्तक उच्यते तदा तस्यापि न प्रबन्धेनोपदेशः । अपि तु क्वचिदेव ‘नर्तकोऽर्थपतिर्वा इत्यादौ । एवं चोपदेश्यत्वे स्थपतिमालाकारप्रभृति विश्वमपीहोपदेश्यं स्यादित्यलमनेन ।
यथातत्त्वमिति । नात्र क्रमं प्रति भरोऽस्माकम् । नापीयत्तां प्रति । अज्ञा हि वयमत्र प्रष्टारः । अत एवोपेय2परत्वेनैव मुख्यतया प्रश्नो यथा बालक आह-‘दुःखं मे3 शमय’ इति । तज्ज्ञस्तूपायं प्रश्नयति ‘कुतोऽन्नं लभ्यत’ इति । तेनोपे4यमुखेन प्रवृत्तमिदं शास्त्रमुत्तरदानोपनतवस्त्वन्तरोपेयप्रश्नक्रमेण तदुपेयोपायादिप्रबन्धेन स्थितमिति मन्तव्यम् । तेन यादृशा क्रमेण रूपणयोग्यं तथाप्यप्र(थाऽप्र)श्नितमपि यदि किञ्चिदस्ति तदपि स्वयमेव निरूपयेति । तत्त्वानतिक्रमेण तत्त्वयोग्यं 5तत्त्वं च निरूपणीयम् । एतदिति । लक्षणपरीक्षापर्यन्तमेतत् । (४-५)
यदि त एवं पप्रच्छुः भरतमुनिः किमकार्षीदित्याह- तेषां त्विति । तुरवधारणे । श्रेत्वैव न तु विलम्ब्येति । पौर्वकाल्यमात्रे क्त्वाल्यपोर्विधानात् । तत इति । यतः स तत्त्वविन्मुनिः ते च तदुपदेशयोग्याः तस्माद्धेतोः । कथाग्रहणं यथातत्त्वमित्येतस्यैवार्थं स्फुटीकरोति ।
यत्तु प्रयोगप्रश्ने प्रत्यक्षेण प्रयोगप्रकटनमुत्तरं स्यादित्याशङ्कां परिहर्तुं कथाग्रहण- मिति तत्त्वसत् । वक्तुमर्हसीत्युक्ते तस्याः कोऽवसरः । एवं भरतमुनिः परवदात्मानं प्रकल्प्येन्तं ग्रन्थमभिहितवान् । अन्ये त्वियन्तं ग्रन्थं कश्चिच्छिष्यो व्यरीरचत् । तत्र ब्रह्मणेति भरतमुनिः प्रथमश्लोके निर्दिष्टः । कथं ब्रह्मन्नुत्पन्न इत्येतदेवमेकवाक्यत्वेन निर्वहति । तदनन्तरन्तु भवद्भिः शुचिभिरित्यादिर्भरतमुनिरचितो ग्रन्थः । मध्येऽत्र
Notes
(मू)
(व्या)
पूर्वं1 कृतयुगे विप्रा
वृत्ते स्वायम्भुवेऽन्तरे ।
त्रेतायुगेऽथ2 सम्प्राप्ते
मनोर् वैवस्वतस्य तु3 ॥ ८ ॥
ग्राम्य-धर्म4-प्रवृत्ते तु
5कामलोभ-वशं गते ।
ईर्ष्याक्रोधादि6संमूढे
लोके सुखित-दुःखिते ॥ ९ ॥
Abh
षट्त्रिंशदध्याय्यां यानि प्रश्नप्रचिवचनयोजनवचनानि तानि तच्छिष्यवच- नान्येवेत्याहुः ।
तच्चासत् । एकस्य ग्रन्थस्यानेकवक्तृवचनसन्दर्भत्वे प्रमाणाभावात् । स्वपरव्यवहारेण पूर्वपक्षोत्तरपक्षादीनां श्रुतिस्मृतिव्याकरणर्कादिशास्त्रेष्वेकविरचितेष्वपि दर्शनात् ।
एतेन सदाशिवब्रह्मभरतमतत्रयविवेचनेन ब्रह्ममतसारताप्रतिपादनाय मतत्रयी– सारासारविवेचनं तद्ग्रन्थखण्डप्रक्षेपेण विहितमिदं शास्त्रम्, न तु मुनिविरचितमिति यदाहुर्नास्तिकधुर्योपाध्यायास्तत्प्रत्युक्तम् । सर्वानपह्रवनीयाबाधितशब्दलोक- प्रसिद्धिविरोधाच्च ।
अत्र केचिदाहुः-प्रश्नपञ्चकमत्रैवाध्याये तावन्निर्णीयते । उद्देशस्थित्या तद्विभागल- क्षणपरीक्षापराणि चाध्यायान्तराणीति । अन्ये त्वाहुः पञ्चभिरध्यायैः पूर्वरङ्ग– विधानपर्यन्तैः प्रश्नद्वयं निर्णीतम् । सामान्याभिनयचित्राभिनयान्तैः शिष्टैस्तु प्रश्नत्रयमिति ।
वयं तु ब्रूमः-नात्र क्रमः कश्चित् । अपि तु यथावसरं महावाक्यात्मना षट्सहस्रीरूपेण प्रधानतया प्रश्नपञ्चकनिरूपणपरेण शास्त्रेण तत्त्वं निर्णीयते । न तु क्रमः कश्चित् । एतच्च ग्रन्थव्याख्यानप्रसङ्ग एव स्फुटीकरिष्यामः । (६)
तत्र ‘कथं कस्य वा’ इत्यमुमर्थं निर्णिनीषुराह–भवद्भि1रित्यादि । घटादीनामुत्पत्तिर्व्यवहारसिद्धैव कुलालादिभिरनुगम्यत इति घटः क्रियत इति युक्तम् । नत्वेवं नाट्यस्य । तस्य तूत्पत्तिरेव विरिञ्चोपज्ञतया स्थितेति सम्भवो ब्रह्मनिर्मित इत्युक्तम् । केचिदत्रानादित्वं वेदवन्नाट्यस्याचक्षाणाः उत्पत्त्यादिशब्दान् स्मरणाभिव्यञ्जनादावुपचरन्ति (७) ।
तत्र सम्भूतेः कारणमुखेनाभिधाने कर्तव्ये कालस्य सर्वत्र पूर्वकारणत्वा- दुचितकालपरिग्रहेण तद्विधाधिकारिविषयतां दर्शयितुमाह–पूर्वमित्यादिश्लोकपञ्चकम् ।
Notes
(मू)
(व्या)
देवदानवगन्धर्व1-
यक्ष-रक्षो-महोरगैः ।
जम्बूद्वीपे समाक्रान्ते
लोक-पाल2प्रतिष्ठिते ॥ १० ॥
महेन्द्र-प्रमुखैर् देवैर्
उक्तः किल पितामहः ।
क्रीडनीयकम् इच्छामो
दृश्यं श्रव्यं3 च यद्भवेत्4 ॥ ११ ।।+++(5)+++
Abh
अस्मिन्नवसरे पितामहो देवैरिदभुक्त इति महावाक्यस्य सङ्गतिः-कस्मिन्नवसरे पूर्वगिति । नास्मिन्नेव कल्पेऽपि तु पूर्वकल्पेष्वपीत्यर्थः । मन्वन्तराणि चतुर्दश, तावत्कल्पोऽयं तद्ब्राह्यं दिनम् । तत्र स्वायम्भुवं नाम यत्कल्पस्य प्रथमं मन्वन्तरम् । वैवस्वतमन्वन्तरन्तु सप्तमम्, यत्राद्य वर्तामहे । तत्र सर्वेष्वेव मन्वन्तरेषु त्रेतावसरे ब्रह्मणा नाट्यवेदः प्रवर्तितः । कृतयुगे तु नेति तात्पर्यम् । योजना तु-स्वायम्भुवे आद्ये मन्वन्तरे यत्कृतयुगं तस्मिन् निवृत्ते सति यत्त्रेतायुगं तस्मिन् सम्यक्सन्ध्यतिक्रमेण स्फुटतरं प्रवृत्ते । न केवलं तत्रैव मन्वन्तरे । तु शब्दो यावच्छब्दार्थे । यावद्वैवस्वतस्य मनोरन्तरे समये यत्त्रेतायुगं तस्मिन्प्रवृत्तेऽपि । तेनाद्यत्ननिरूपणेन सर्वेषां मध्वममन्वन्तराणां सङ्ग्रहः । तेन सर्वेषु त्रेतायुगेषु नाट्यप्रवृत्तिरित्युक्तं भवति ।
अस्मिन्नवसरे किमसावुक्तः । आह– जम्बूद्वीपे कर्मभूमिस्थाने यो लोकः सुखित– दुःखितश्च तद्विषयं1 क्रीडनीयकं क्रीड्यते चित्तं विक्षिप्यते विह्रियते येन तदिच्छामः । करणे कृत्यो बाहुलकात् । चित्तं च इतोऽमुतश्च नीयमानं मार्गेऽपि नि2योज्यते । यदि वा क्रीडनाय हितं क्रीडनीयकम् । उभयत्राज्ञाताद्यर्थे कः । इदमस्माकं गुडप्रच्छन्नकटुकौषधकल्पं चित्तविक्षेपमात्रफलमिति यन्न ज्ञायते । तच्च क्रीडनीयकं सुखितदुःखित एव भवति । न ह्येकन्तसुखिते काले देशे वा क्रीडया किञ्चित् । नाप्येकान्तदुःखिते । तेन कृतयुगे कलिप्रान्ते वा इलावृतादिनिवासिनि जने नारके वा न क्रीडोपपत्तिः । उत्तरपदार्थप्रधानस्तत्पुरुषः दुःखस्य बाहुल्यमाह । कथं ज्ञायते सुखितदुःखितो लोक इति । यतः ईर्ष्याकोधादिभिः संमूढोऽधिवासितहृदयः । आदिग्रहणादनुरागतृष्णादिभिः । तत्र क्रमेण कारणमाह–कामवशगतत्वादीर्ष्यादयो राज्यलोभादिना क्रोधादयः । किमित्यधिकौ कामलोभौ ? यतः सुखितदुःखितत्वस्य कारणं कामादीनां हेतुः ग्राम्यधर्मप्रवृत्तत्वम् । ग्राम्योऽश्रुतशास्त्रार्थजनाकीर्णदेशोचितो धर्मः स्वधर्माननुपालनलक्षणः । तद्विषये यतोऽसौ लोकः प्रवृत्तः । (८-९)
Notes
(मू)
(व्या)
न वेद-व्यवहारोऽयं
संश्राव्यः शूद्र-जातिषु ।
तस्मात् सृजापरं वेदं
पञ्चमं सार्व-वर्णिकम् ।। १२ ।।+++(5)+++
Abh
नन्वेवं 1त्वधर्मबाहुल्यात् सुखमेषां कुत इत्याह-देवैः श्रीमद्विजयाविमुक्तादिरुद्रा– वतारैः तथा राजसतामसहृदय2जनकल्ष्यमानसपर्याकैर्दानवादिभिराक्रान्ते जम्बूद्वीपे । देवादिभिश्चाक्रान्ते स्ववशीक्रियमाणे । नन्वेवं सत्सु विशुद्धव्यामिश्रधर्मसाधनेषु कथं धर्मः ? तेषां तत्राप्रवर्तमानत्वात् । सत्यम् । किन्तु लोकपालैः लोकपालांशसंविभा– गसमुत्पादितैः नरपतिभिः प्रतिष्ठिते स्वधर्मसाधनं प्रति नियोजिते लोके । दृश्यं श्रव्यं चेति । द्रष्टु श्रोतुं चार्हम् । न धर्मसाधनम् । शक्यं च । न तु दुर्भग3परुष– प्रायम् । लोक इत्येकवचनेन सर्वसाधारणतयैव यद्योग्यं तच्च स्पृश्यादिरूपं न भवति । दृश्यश्रव्ययोस्तु बहुतरसाधारण्योपपत्तिः । असाधारणे चेर्ष्याक्रोधादय एव प्रवर्तन्ते ।
एतदुक्तं भवति–कृतयुगे सत्त्वप्रधाने स्वधर्ममात्रनिष्ठो लोको न सुखःदुःखे प्रति हेयोपादेयधिया प्रयस्यति । त्रेतायान्तु राजसत्त्वाद्दुःखं जिघांसति । सुखं च प्रेप्सति । रजसश्चलत्वात् । तदाऽसौ शास्त्रितेषु राजनियन्त्रणया प्रवर्त्यते । तत्र च तादृगुपायो निरूप्यो येन स्वयमेषां भवति प्रवृत्तिः । तच्च नाट्यमेवेति ।
चकारेणेदमाह-तादृशा केनचिदुपायेन सम्बन्ध(त?)स्तत्कुरुते(स्तु कृतः) येन भिन्नेन्द्रियग्राह्ये अपि दृश्यश्रव्ये एकानुसन्धानविषयत्वं न विजहीत इति सामान्याभिनय4कालप्राणत्वं प्रयोगस्य सूचितम् । दृश्यमिति हृद्यं श्रव्यमिति व्युत्पत्तिप्रदमिति प्रीतिव्युत्पत्तिदमित्यर्थ इति । अनेन 5त्वि(नन्वि)न्द्रादीनां क एतावता स्वार्थः ? आह । लोकपालप्रतिष्ठिते6 जम्बूद्वीपे गता ये लोकाः ते हि स्वधर्मावस्थिता इज्यादिना नाकमाप्याययन्ति । अत एवेच्छाम इति सर्वेषामैकमत्यमाह । अतोऽन्योन्योपकारवृत्त्या च दैवमानुषसर्गौ7 निरूपितौ विन्ध्यवासिप्रभृतिभिः । अन्ये तु स्वप्रयोजनमेव क्रीडा महेन्द्रादीनामित्याहुः । त्रेतायुगे प्रवृत्ते एवम्भूते च लोक इत्यनेनेदमुक्तं भवति– स्वर्गेऽपि हि तदा तदा मानुष8गतराजसधर्माभिसम्बन्ध– चित्रितयागादियोगसरजसीकृतहृदयत्वाद्देवा अपि क्रीडनीयकमभिलेषुरिति । (१०-११)
एवं शास्त्राधिकृतोऽपि जनः नाट्येन सुखं विनीयत इति प्रयोजनप्रयोजनमुक्त्वा प्रयोजनान्तरमप्याह–न वेदव्यवहार इत्यादिना । कृतयुगे सत्त्वोत्कर्षबलादेव सर्वः
Notes
- N omits
एवम् अस्त्व् इति तान् उकत्वा
देवराजं विसृज्य च ।
स1स्मार चतुरो वेदान्
योगम् आस्थाय त2त्त्व-वित् ।। १ ।।
नेमे3 वेदा यतः श्राव्याः
स्त्री-शूद्राद्यासु जातिषु ।
वेदम् अन्यत् ततः स्रक्ष्ये
सर्वश्राव्यं तु पञ्चमम् ।।
Abh
स्वधर्ममनुपालयति । 1अद्यत्वे तु राजसत्वात् शूद्रप्रकाराः करणादिजातीयाः सर्वेऽखर्वगर्वाक्रान्ता वर्णत्रयानुवृत्तिं न विदधते । शास्त्रं भवद्भ्य एवमादिशतीति च ते वचनमात्रेण नाद्रियन्ते । न च ते वेदशास्त्रोपदेशयोग्याः । अतः एवमाह–स2म्यगिह स्थाने । श्रुत्या भवतामेतदुपदिष्टमिति ना(न) श्रा3व्याः । सार्ववर्णिकमिति । अधिकृतानामनधिकृतानामपि सुकुमाराणां व्युत्पत्तिदायीत्यर्थः । सर्वे वर्णाः प्रयोजनं वि4नेयत्वेव यस्तेत्यनेन पूर्वोक्तस्याधुनोक्तस्य च समस्तस्योपसंहारः ।
अन्ये तु पौनरुक्त्यं परिहर्तुमाहुः- ‘सर्वेषां वर्णानां सरससुकुमारेण नयेन स्वकर्तव्यनिरूपणं यत्र काव्ये तस्निम् भवं तदाश्रितम् । येन सर्वो जमः सरससुकु- मारानुरज्यदाशयः तदुपभोगनान्तरीयकतयैव कार्याकार्यज्ञानमप्युपयुङ्क्ते क्षीरमध्या– वस्थितौषधोपयोगवत् । ते5नाधिकृतानामनधिकृतानामपि सुकुमाराणां व्युत्पत्तिदायि ना6ट्यम् । अश्रुतशास्त्राणामपि संवादादविचलकार्याकार्यविवेकसिद्धिरिति । (१२)
एवमस्त्विति तानिति । देवराजमिति । तानुक्त्वा तान्विसृज्य । देवराजं विसृज्येति प्राधान्यादुक्तम् । इन्द्रादिन् विसृज्येत्यर्थः ।7 योगमिति । युगपत् सर्ववेदाभासकरम् । तत्त्वविदिति समस्तलोकवेदज्ञ इत्यर्थः । (१३)
ततः किं चकारेत्याह श्लोकत्रेण धर्म्यमित्यादिना । एवमिति (१-१३) धर्म्म– मित्यादियुगलोक्त8मर्थं सङ्कल्प्य । चतुर्वेदस्मरणेन हेतुना तत इति । चतुर्भ्यो नाट्यवेदं चक्रे । हेतौ शता । धर्म्यमिति । धर्मे साधूपदेशाय । एवमर्थेऽपि । अन्ये तु धर्मार्थाभ्यामनपेतं यशः प्रयोजनमस्येति । अत्र व्याखानद्वयेऽपरपुरुषार्थासङ्ग्रहः स्यात् । नाट्योत्पत्तिगर्भाधानकल्पे चास्मिन् सङ्कल्पे यत्त्यक्तं तत्त्यक्तमेव । यशसश्च धर्मफलत्वात् पृथगुपादानं किमर्थम् । सोपदेशमित्यादेश्च पौनरुक्त्यम् । तस्मादयमत्रार्थः- धर्मशब्देन चत्वारोऽपि पुरुषार्थाः । तेषु साधु साधकम् । ननु किं साक्षात् । नेत्याह ।
Notes
(मू)
(व्या)
धर्म्यमर्थ्यं 1यशस्यं च
सो2पदेशयं ससङ्ग्रहम् ।
भविष्यतश् च लोकस्य3
सर्वकर्मानु-दर्शकम्4 ।। १४ ।।
सर्वशास्त्रार्थ-सम्पन्नं
सर्वशिल्प5-प्रवर्तकम्6 ।
ना7ट्याख्यं पञ्चमं वेदं
सेतिहासं करोम्यहम् ।। १५ ।।
Abh
सोपदेश्यं सहोपदिश्यमानैरुपायैः (पुरुषार्थचतुष्टयोपायैः दशरूपकैरुपेतं) यद्वर्तते चतुर्वर्गोपायप्रदर्शकमिकत्यर्थः । ननु वेदादयोऽप्येवम् । नैतत् । 1सम्यग्ग्रहणं सङ्गहः । यतः परं निर्विशङ्कप्रतीत्यर्थं प्रमाणान्तरं नाभ्यर्थ्यते । तच्च साक्षात्काररूपमेव । यदाहुः- “सर्वा च प्रमा प्रत्यक्षपरा” इति । तेन सहेति ससङ्ग्रहम् । एवमपि प्रत्यक्षेण सदाचा2रयज्ञादिदर्शानात्कोऽस्य भेदः । आह– सर्वकर्मानुदर्शकम् । सर्वेषां कर्मणां क्रियमाणानामनु पश्चादचिरेणैव कालेन दर्शकं पञ्चषादिभिरेव दिवसैः शुभाशुभकर्मतत्फलसम्बन्धसाक्षात्कारो यत्रेत्यर्थः । कस्येत्याह– लोकस्य । यो यः कश्चिदस्मात्क्षणादूर्ध्वं भविष्यति लोकस्तस्योपदेश्यस्येत्यर्थः ।
अ3नुकार्याभिप्रायेणात्र भविष्यत इति व्याख्यातम् । (न) च शब्देन भूतवर्तमान– ग्रहणमित्यधरोत्तरीभूतम् । वृत्तराजर्षिवंशकीर्तनादेर्हि प्रधानतया स्वकण्ठेनाभिधानं युक्तम् । न तु भविष्यत इत्यास्तामेतत् ।
तस्मात् व्युत्पाद्याभिप्रायेणैव लोकस्येति व्याख्येयम् ।
एवमपि तत्रैव केन लोकः प्रवर्त्यत इत्याह–अर्थ्यम् । हृद्यतया सर्वजनानामपि नानाधिकारत्वेनाभिलषणीयमित्यर्थः । ननु प्रथममज्ञातपरमार्थे कथमभिलषणम् ? आह । यशस्यम् । सर्वत्र हृद्यतया प्रथितम् ।
न केवलं प्रधानपुरुषार्थोपायदर्शकं यावत्सर्वेषां शास्त्राणां कलाप्रधानानां येऽर्था गीतनृत्तवाद्यादयस्तैः सम्पन्नं युक्तम् । तथा सर्वाणि शिल्पानि चित्रपुस्तादीनि प्रवर्तयति सोपयोगत्वेनाक्षिपतीत्येवमेकेन यत्नेन समस्तवस्तुसिद्धिर्यतो भवति तन्नाट्यनमित्युक्तुं भवति । तच्च सेतिहासम् । इतिहासोपदेशकरूपं सप्रभेदम् । इतिरेवमर्थे प्रत्यक्षनिर्देशं
Notes
(मू) 1 ड. धर्मकामार्थसंयुक्तम् ।
(व्या)
1एवं सङ्कल्प्य भगवान्
2सर्व-वेदान्3 अनुस्मरन् ।
नाट्यवेदं ततश् चक्रे
चतुर्वेदाङ्ग-सम्भवम् ।। १६ ।।4
जग्राह पाठ्यम् ऋग्-वेदात्
सामभ्यो6 गीतम् एव च ।
यजुर्-वेदाद् अभिनयान्
रसान्6 आथर्वणाद् अपि ।। १७ ।।+++(5)+++
Abh
द्योतयति । हः इहशब्द आगमः । आसनमासः । एवंप्रकाराः प्रत्यक्षपरिदृश्यमाना 1आगमिकार्थाः कर्मफलसम्बन्धस्वभावा यत्रासते तेनेतिहासेन सहेतिपाठे मत्वर्थीयोऽकारः । इतिः ज्ञानम् । तस्य हासो हर्षपूर्वको विकासो यत इति केचित् । इतिहासश्च–तल्लक्षणमित्थं किलासनं यत्र रूपकभेदानां भण्यते2 । उपदेशशब्देन च दशरूपकं तदुपयोगवदेव3 (वद्देश) द्विहस्तादिलक्षणनाट्यवेदशास्त्रम् । तत्सहितस्यैव करणीयत्वेन सङ्कल्पः । अन्यथा बुद्ध्या कलितस्यापि नाट्यस्य कथमन्यत्र सङ्क्रमणम् । तेन च विना कथं प्रयोगः । पञ्चममिति । य एकोऽपि चतुर्वेदानतिशेत इत्यर्थः । अहमिति यस्य सर्वलोककृत्योद्वहनमेव परं कृत्यम् ।
एवं सङ्कल्प्येति । सङ्कल्पव्यापार एवायं बुद्ध्या वेदाङ्गैकीकारलक्षणो ब्रह्मणो नाट्यवेदोत्पादनम् । ननु वेदस्मरणेन तत्र कथं हेतुता लब्धा । आह । चतुर्वेदाङ्गसम्भवमिति । चत्वारो वेदाः4 । अङ्गानां पाठ्यादीनां सम्भवो यस्य । सम्भवत्यस्मादिति सम्भवः । अत एव वेदचतुष्टयमपि यत्राङ्गानि प्रत्युप– करणीभूतमिति (स तथोक्तः) (१४-१६) ।
कुत्राङ्गे कस्य वेदस्योपयोग इति दर्शयति-जग्राह पाठ्यमृग्वेदादिति । इह पठ व्यक्तायां वाचीत्युक्तं व्यक्तत्वं विवक्षाविशिष्टस्वार्थार्पणक्षमत्वम् । तच्च काक्वध्यायवक्ष्यमाणस्वरालङ्कारादिसामग्रीयोजनेन भवतीति तयोपस्कृतं पाठ्यमुच्यते । तच्च प्राधान्यात्प्रथममुपात्तम् ।
तथा हि वक्ष्यति -
वाचि यत्नस्तु कर्तव्यो नाट्यस्यैषा तनूः स्मृता ।
अङ्गनैपथ्यसत्त्वानि वाक्यार्थं व्यञ्चयन्ति हि ।।
इति (१४-२)
Notes
(मू)
(व्या)
धर्मकर्मार्थसंयुक्तं
सापदेशं ससंग्रहम् ।
रुचिभिः सर्वलोकस्य
सर्वकर्मानुदर्शकम् ।।
सर्वशास्त्रार्थसंपन्नं
सर्वशिल्पसमन्वितम् ।
नाट्याख्यं पञ्चमं
वेदम् इतिहासम् अचिन्तयत् ।।1
2वेदोपवेदैः सम्बद्धो
नाट्यवेदो महात्मना3 ।
एवं भगवता सृष्टो
4ब्रह्यणा सर्ववेदिना ।। १८ ।।
5सर्वलोकहितार्थं तु
नाट्यवेदो महात्मना ।
उत्पाद्य नाट्यवेदं तु
6ब्रह्मोवाच सुरेश्वरम् ।
इतिहासो मया 7सृष्टः
स सुरेषु नियु6ज्यताम् ।। १९ ।।
Abh
अत एवाभिनयान्तर्भूतत्वेऽपि पृथगुपात्तम् । तदृग्वेदाद्गृहीतम् । तस्य त्रैस्वर्यप्रधानस्य स्तोत्रशब्द(शस्त्र)द्वारेण यागोपकारित्वात् । पाठ्यमपि च त्रैस्वर्योपेतम् । ऐकस्वर्ये काक्व(भाव)भावाभ्यां 1च स्वरस्यादौ (चैकस्वभावाच्च स्वरादौ) गीतरूपापत्तेरिति हि वक्ष्यामः । (ना. शा. १७)
पाठ्यगतस्वरप्रसङ्गात् तदनन्तरं सामभ्यो गीतं जग्राहेत्युक्तम् । उपरञ्चकत्वेन हि पश्चात्तस्याभिधानं न्याय्यमिति केचित् । ‘गीतं प्राणाः प्रयोगस्य’ इति वक्ष्यमाणत्वात् । तदायत्तत्वाद्रसचर्वणायाः समुचितमस्यात्रैवाभिधानमित्यस्मदुपाध्यायाः । चकारेणैतत्तुल्य2कक्ष्यतामाह । एवकारेण गीतमात्रं ततो गृहीतं ‘गीतिषु सामाख्या’ (जैमिनि. २-१-३६) इति न्यायात् । तदाधारध्रुवापदयोजनमृग्वेदादेवेति दर्शयति । तत एव ध्रुवाध्याये वचनादत्रैव सङ्गृहीतम् (?) ।
घनावनद्धरूपिसामगानक्रियाप्राणभूतकाल3साध्यात्मकतालसामान्यं स्वीकृतमत्रैव प्रविष्टम् (?) । आध्वर्यवकर्मप्रधाने तु यजुर्वेदेऽङ्गकर्मणां प्रदक्षिणगमनादिक्रम (कम्?) एव प्रथमम् । पठिष्यति ‘या ऋचः पाणिका4’ (३२-२) इत्यादि । ततसुषिरात्मकं चाप्यातोद्यं स्वरप्राधान्यात् ।
आथर्वणवेदे तु शान्तिकमारणादिकर्मसु नटस्येव तस्यर्त्विजः प्राष्टुदवैषुण्णा5 (?) द्यनुभावानां प्रजाशत्रुप्रभृतिनाऽवधानग्रहणादिना लोहितोष्णीषादेर्नेपथ्यस्य तेषु तेषु च कर्मसु विशिष्टप्रयत्नपुरुषसम्पाद्यमनोवष्टम्भात्मनः सत्त्वस्य सम्भवात्
Notes
(मू) 1 Only in N. instead of 12a.
(व्या)
कुशला ये विदग्धाश् च
प्रगल्भाश्च 1जितश्रमाः ।
तेष्व् अयं नाट्यसंज्ञो2 हि
वेदः संक्राम्यतां त्वया3 ।। २० ।।+++(4)+++
तच्छ्रुत्वा वचनं4 शक्रो ब्रह्मणा य5दुदाहृतम् ।
प्राञ्जलिः प्रणतो6 भूत्वा प्रत्युवाच पितामहम् ।। २१ ।।
ग्रहणे धारणे ज्ञाने7 प्रयोगे चास्य सत्तम ।
8अशक्ता भगवन् देवा अयोग्या नाट्यकर्मणि9 ।। २२ ।।
Abh
ततोऽभिनयनामग्रहणम् । वाचिकस्त्वभिनयः पूर्वमेवोक्तः । प्राधान्यवि(न्यात् वि)भावानां धृतिप्रमोदादिव्यभिचारिणां च परमार्थसतां समाहरणं प्रधानमिति विभावादिसामग्रीरूपरसात्मकचर्वणासम्भव इति ततस्तद्ग्रहणमुक्तमिति न तटस्था एवैते । अत एव रस्यन्ते । तत्रैव च रस्यन्त इति हि वक्ष्यामः ।
तदेवं नाट्यादिरूपकोपक्रमं गीतातोद्यप्राणाभिनयवर्गपरिपुष्यद्रसचर्वणात्मकं परप्रीतिमयमेव नाट्यम् । ततस्तद्व्युत्पत्तिरिति नाट्यमेव वेद इति क्रमेण प्रदर्शितम् । तेनाक्रम्य योजनात्मकनियोगात्मकशासनप्राणशास्त्रवैलक्षण्येन स्वयमुपारूढज्ञानाभि– धानविदः1 प्राणवेदरूपता नाट्य2स्यैवेति सिद्धम् ।
एतदुपसंहरति–वेदोपवेदैरित्यादि । वेदा व्याख्याताः । वेदार्थानामुपकारकोऽर्थो वेद्यते येन स उपवेदात्मा । तद्यथा ऋग्वेदस्य3 मन्त्रार्थवादादिव्याख्यानोपनयन– प्रजारक्षणप्रदर्शक आयुर्वेदः । यतो महात्मा ततः सर्ववेदी । सर्ववित्त्वाच्च तथाविधसृष्टिशक्तः । एवमित्युपसंहरन् प्रश्नत्रयं कृतोत्तरमिति दर्शयति । प्रयोजनस्याधिकारिणामङ्गानामङ्गाङ्गिभावस्य च निर्णीतत्वात् (१७-१८) ।
एवं पितामहसदृशेन सर्वदा नाट्यवेदशरीररूपकनिर्माणे कविना भाव्यमिति प्रदर्श्य तत्र विभवयुक्तो विधेयनटजनश्च राजा प्रयोजयिता । भरतमुनिसदृशश्च सम्पन्नपरि- वारः सर्ववित्प्रयोक्ता । प्रयोजक4महोत्सवप्रायः प्रयोगकालः । क्रीडाप्रस्तावव्याजोप- देशकाः विगतरागद्वेषा मध्यस्थवृत्तयः निर्मलहृदयमुकुरे सति तन्मयीभवनयोग्यतोपेताः रसास्वादननिपुणाः । सामाजिका इत्येतत् पुराकल्पमुखेन दर्शयत्यध्यापन– (ध्ययान्त?) ग्रन्थेन– उत्पाद्य नाट्यवेदं त्वित्यादिना । राजैव प्रयोजयितुं शक्त इति तु शब्दः ।
Notes
(मू) 1 प. जितक्लमाः ।
(व्या)
य इमे वेदगुह्यज्ञा 1ऋषयः 2संशितव्रताः ।
3एतेऽस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा ।।२३।।
4श्रुत्वा तु शक्रवचनं मामाहाम्बुजसम्भवः ।
त्वं पुत्रशतसंयुक्तः5 प्रयोक्ताऽस्य भवानघ ।। २४ ।।
आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् ।
6 पुत्रानध्यापयामास प्रयोगं चापि तत्त्वतः ।। २५ ।।
Abh
इतिहासो दशरूपकम् । कुशलाः । ग्रहणधारणयोग्याः । विदग्धाः । ऊहापोहसमर्थाः । प्रगल्भाः । परिषद्यभीरवः । जितश्रमाः । योग्याः समुचितदेहा अखिन्नकायाश्च । ग्रहणे इति । (पूर्व) गुरुमुखादवगमः । धारणं तस्याविस्मरणम् । ज्ञानमूहापोहविचारः । प्रयोगः पर्षदि प्रकटीकरणम् । चकारेण च तदुपयोगिगुणनिका व्यायामाभ्यासादिः । देवाः सुखभूयिष्ठत्वात् । स्वाम्यादेशात्कथमपि यदि प्रवर्तेरन् तत्पूर्णपर्यवसानत्वं दुर्लभमेतैरित्यर्थः । (१९-२२)
तर्हि किं क्रियतामित्याह–य इम इति । वेदज्ञा इति ग्रहणधारणसामर्थ्यम् । गुह्यज्ञत्वेनाध्यात्मोपनिषदर्थवेदनधारणकौशलेन । रसाद्युपयोगिसात्त्विकसम्पादितसाम- र्थ्यम् । यद्वक्ष्यति- ‘सत्त्वं मनःप्रयत्ननिर्वर्त्यम्’ इत्यादि । तेन–
न्यस्येत्प्राणं भ्रुवोर्मध्ये स्तम्भो बाष्पश्च चाक्षुषः ।
स्वेदो हृदि गुदे कम्पः पुलको मूर्ध्नि वक्त्रतः ।।
वैवर्ण्यं स्वरितं कण्ठे प्रलयो नासिकान्तरे ।।
इत्यादियोग्यत्वं तेषाम् । अत एवानुषङ्गतो नटस्यापि परमपुरुषार्थलाभो धारणादिवशात् । ऋषय इति । दर्शा(र्शना)दृषिरिति । ऊहापोहयोग्याः । संशितव्रता इति ।
Notes
(मू)
शाण्डिल्यं 1चैव 2वात्स्यं च कोहलं 3दत्तिलं 4तथा ।
5जटिलाम्बष्टकौ चैव 6तण्डुमग्नि7शिखं तथा ।। २६ ।।
सैन्धवं 8सपुलोमानं 9शाड्वलिं 10विपुलं तथा ।
11कपिञ्जलिं 12बादिरं च यमधूम्रायणौ तथा ।। २७ ।।
13जम्बुध्वजं 14काकजङ्घं 15स्वर्णकं तापसं16 तथा ।
17कैदारिं शालिकर्णं च दीर्घगात्रं च शालिकम्18 ।। २८ ।।
19कौत्सं 20ताण्डायनिं चैव 21पिड्गलं 22चित्रकं तथा ।।
23बन्धुलं 24भल्लकं चैव मुष्ठिकं सैन्धवायनम् ।। २९ ।।
Abh
अभ्यासे शक्ताः । तथेति । ग्रहणादीनामार्थक्रमः प्रदर्शनीय इत्यर्थः । इम1 इति प्रत्यक्षेणैव दृष्टमेषां तदिति दर्शयति । (२३)
श्रुत्वा त्विति । मां त्विति तु शब्देन ऋषिभ्योऽप्यन्येभ्योऽस्य विशेषमाह । ब्रह्मैव मामाहेत्यादरातिशयः । पुत्रशतयोगाद्य(द)न्योन्यप्रवर्तितबहुतरपरिवारयोगः । अनघे– त्यध्येषणया सोत्साहपरिषदा कृतसम्मानस्य सम्यक्प्रयोगनिष्पत्तिरिति सूचितम् । आज्ञापित इत्यनुल्लङ्घनीयवचनताऽस्योक्ता । पितामहादित्यनाचार्योषितत्वाशङ्कां व्युदस्यति । प्रयुज्यत इति प्रयोगो दशरूपकम् । प्रयुज्यते निर्वर्त्यतेऽनेनेति प्रयोगः । नाट्यलक्षणशास्त्रम् । तदहं पुत्रान्पाठयाञ्चकार । प्रयुक्तिश्च प्रयोगः । तमध्यवसायपर्यन्तमहं पुत्रानध्यापयामास । तथाऽहं चकार यथा प्रयुक्तिं ते पुत्राः सम्यक्प्राप्तवन्त इत्यर्थः । चापिशब्दाभ्यां सूचिते द्वे द्वे आवृत्ती । मुनिसमुचितकर्तव्यान्तरव्यासङ्गोऽपि लिटा2 सूचितः । तत्त्वत इति नाट्याचार्यस्य सम्यगाप्तत्वं गम्यते । (२४-२५)
Notes
(मू)
(व्या)
1तैतिलं भार्गवं चैव शुचिं बहुलमेव च ।
2 अबुधं बुधसेनं च 3पाण्डुकर्णं 4सुकेरलम् ।। ३० ।।
5 ऋजुकं मण्डकं चैव 6शम्बरं 7वञ्जुलं तथा ।
मागधं 8सरलं 9चैव कर्तारं 10चोग्रमेव च ।। ३१ ।।
11तुषारं 12पार्षदं चैव गौतमं 13बादरायणम् ।
14विशालं शबलं चैव सुनाभं मेषमेव च ।। ३२ ।।
15कालियं भ्रमरं चैव तथा पीठमुखं मुनिम् ।
16नखकुट्टाश्मकुट्टौ च षट्पदं 17सोत्तमं तथा ।। ३३ ।।
18 पादुकोपानहौ चैव 19श्रुतिं चाषस्वरं तथा ।
अग्निकुण्डाज्यकुण्डौ20 च 21वितण्ड्यं ताण्ड्यमेव च ।। ३४ ।।
22कर्तराक्षं हिरण्याक्षं 23कुशलं दुस्सहं तथा ।
24लाजं भयानकं चैव बीभत्सं 25सविचक्षणम् ।। ३५ ।।
Abh
पुत्रान्नामभिर्दर्शयति– शाण्डिल्यमित्यादिना । अत्र प्रसिद्धत्वं1 नटानामादरकारणमिति तावन्मुख्यं नामग्रहणे प्रयोजनम् । आनुषङ्गिकं त्वन्यदपि । तद्यथा विदूषक– तापसादिनाम्नां तलाकमीनां (तथाकर्मिणां?) निर्वचनलब्धार्थयुक्त्या भूमिकाविशेषोपयोग इति । अन्यस्त्वाह– शतमेवेह पठितम् । कञ्चना2(तच्चा)भिनेयानां स्थाय्युत्पादन3– रसनवकतद्गतव्यभिचारित्रयस्त्रिंशत्सात्त्विकाष्टकानुरूपाणां पञ्चाशतोऽर्थानां न्याय्यान्याय्यभेदेन नायकप्रतिनायकविषयतया प्राधान्याभिप्रायेणेति । तत्र तु ‘कैशिक्यपि4 प्रयुक्ता स्यात्’ इत्युत्तरग्रन्थावकाशाभाव इत्यलमसहृदयाभिनिवेशव्याख्याभिः । (२६-३९)
Notes
(मू)
1पुण्ड्राक्षं पुण्ड्रनासं 2चाप्यसितं सितमेव च ।
विद्युज्जिह्वं महाजिह्वं 3शालङ्कायनमेव च ।। ३६ ।।
4श्यामायनं माठरं च लोहिताङ्गं तथैव च । 5
संवर्तकं 6पञ्चशिखं त्रिशिखं 7शिखमेव च ।। ३७ ।।*
(शङ्खवर्णमुखं 8षण्डं शङ्कुकर्णमथापि च ।
शक्रनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा ।। ३८ ।।)
Abh
यस्मिन्निति । उत्तमप्रकृतिविचेष्टितादि । यथेति1 । कश्चित् तदीयहृदयहृर्षप्रदर्शन– प्रकारेण योग्योऽन्यस्तदीयशोकप्रकटीकरणेनेति । (४०)
अथ सकलप्रयोगप्राणभूतकैशिक्युपयुज्यमानोपकरणान्तसंहरणा2योपक्रमं दर्शयति भारतीमित्यादि । वृत्तिमिति । धर्मादिपुरुषार्थचतुष्टये साध्ये वागङ्गसत्त्वचेष्टासामान्यम् । तच्च संक्षिप्तेनावान्तरभेदेन चतुर्धां । यद्यत्किल कर्मारभ्यते तत्र वाङ्मनः- कायव्यापारस्तावदस्ति । तत्र कस्यचिल्लालित्यवैचित्र्यक्रमस्यानुप्रवेशः । यत उत्तमप्रकृतीनां सौष्ठवमय एव सर्वो व्यापारः । तदेव तद्वृत्तिचतुष्टयम् । भारती वाग्वृत्तिः । मनोव्यापाररूपा सात्त्विकी सात्त्वती मनोवृत्तिः । तदिति प्रख्यारूपं संवेदनम् । तद्यत्रास्ति तत्सत्त्वं मनः । तस्येयमिति । ‘इयर्ति'4 इत्यरा भटाः सोत्साहा अनलसाः । तेषामियमारभटी 5कायवृत्तिः । केशाः किञ्चिदप्यर्थक्रियाजातमकुर्वन्तो देहशोभोपयोगिनः । तद्वत्सौन्दर्योपयोगी व्यापारः कैशिकीवृत्तिरिति तावन्मुख्यः क्रमः । अन्यस्य तु यस्तद्व्यपदेशः स तत्प्रधानत्वादनेकरसप्रधानं पानकरीत्या कैशिकींत्यादि मधुरव्यपदेशवत् । एतच्च 6प्रागे वितनिष्यामः ।
Notes
(मू)
(व्या)
विद्युतं शातजङ्घं च 1रौद्रं वीरमथापि च ।
पितामहाज्ञयाऽस्माभिर्लोकस्य च गुणेप्सया2 ।। ३९ ।।
3प्रयोजितं पुत्रशतं 4यथाभूमिविभागशः ।
5यो यस्मिन्कर्मणि यथा 6योग्यस्तस्मिन् स योजितः ।। ४० ।।
भारतीं सात्त्वतीं चैव वृत्तिमारभटीं तथा ।
समाश्रितः प्रयोगस्तु प्रयुक्तो वै मया द्विजाः ।। ४१ ।।
परिगृह्य प्रणम्याथ ब्रह्मा विज्ञापितो मया7 ।
अथाह मां सुरगुरुः कैशिकीमपि 8योजय ।। ४२ ।।
Abh
एवं यत्किञ्चिल्लालित्यं तत्सर्वं कैशिकीविजृभ्भितम् । सा च तैः (पुरुषैः) प्रयोक्तुमशक्येति तुशब्देनोक्तम् । तेन दशरूपं सर्व वैचित्र्यशून्यं तान्प्रति योजितम् । अत एव तादृशे प्रयोगेऽवज्ञां वै शब्देन द्योतयति । प्रयुक्त इति । तेषामभ्यासभूमौ योजित इत्यर्थः । (४१)
क्षममिति । प्रयोगसमर्थ सादरविचित्रं प्रयुङ्क्ते । अत अवाह–द्रव्यम् । सुन्दरम् । यतः सौन्दर्यप्राणैव सा कैशिकी । एवमिति । बुद्धिकौशलं ज्ञातुं 1मदीयं तेनाहमेतत्पृष्टः । चकारेण प्रत्युत्पन्नप्रतिभानत्वं दर्शयति । अनेन झटिति कविहृदयग्रहणयोग्यत्वं नाट्याचार्यगुण इति सूचयति । (४२-४३)
न चात्यन्तापरिदृष्टे वस्तुनि उपकरणमुन्नेतुं शक्यम् । ब्रह्मणा तूपदेशसमये वचनमात्रेणोक्तमेतन्मध्ये हृदयहारि वैचित्र्यं योजनीयमिति । अनेनाभिप्रायेण कैशिकीसाक्षात्करणं वर्णयति नृताङ्गहारेत्यादिना युगलकेन । नर्तनं नृत्तम् । गात्राणामङ्गोपाङ्गानां विलासेन क्षेपः । न तु केनचित्कर्तव्यांशेन । लोकोऽप्येवंविधे विषये एवमेवाह-‘नृत्यतीव गच्छति’ इत्यादि । तत्र येऽङ्गहारा अङ्गानां हरणानीति अत्रुटितरूपतया समुचितस्थान2प्राप्तिः तैः सम्पन्ना । 3शङ्करस्यैव भगवतः परिपूर्णानन्दनिर्भरीभूतदे4होच्चलदान्तरनिर्वारसुन्दराकारस्य अत एव नृत्यतः इतिकर्तव्यान्तरवैकल्यादानन्दनृत्तमात्रस्थितस्य । प्रयोज्यत्वेन मया दृष्टा ।
Notes
(मू.)
(व्या)
यच्च तस्याः क्षमं द्रव्यं तद्ब्रूहि द्विजसत्तम ।
एवं तेना1स्म्यभिहितः प्रत्युक्तश्च मया प्रभुः ।। ४३ ।।
2दीयतां भगवन्द्रव्यं कैशिक्याः सम्प्रयोजकम् ।
3नृताङ्गहारसम्पन्ना4 5रसभावक्रियात्मिका ।। ४४ ।।
6दृष्टा मया भगवतो7 8नीलकण्ठस्य नृत्यतः ।
कैशिकी श्लक्ष्णनैपथ्या9 शृङ्गाररससम्भवा ।। ४५ ।।
10अशक्या पुरुषैः 11सा तु प्रयोक्तुं 12स्त्रीजनादृते ।
ततोऽसृजन्महातेजा मनसाऽप्सरसो विभुः ।। ४६ ।।
Abh
ननु सा नाट्योपयोगिनी कथम् । आह । सैव यदि श्लक्ष्णेन श्लिष्यतोचितेन नेपथ्येन सहिता भवति । यद्वक्ष्यति- ‘शृङ्गार उज्ज्वलवेषात्मक’ (ना. शा. ६-५०) इति तन्नाट्योक्तशृङ्गाररसः सम्भवति । नान्यथा । नेपथ्यग्रहणं सुकुमारस्याङ्गिकादेरप्युपलक्षम् । तेन शृङ्गाराभिव्यक्तिहेतौ सुकुमारे चतुर्विधेऽप्यभिमये योजिते मधुरमन्थरवलनावर्तनाभ्रूक्षेपकटाक्षादिना विना शृङ्गाररसास्वादस्य नामापि न भवति ।
किमत्रैव सोपयोगेत्याह– रसभावक्रियात्मिकेति । रसानां भावो भावना कविनटसामाजिकहृदयव्याप्तिः । तस्या या क्रिया इतिकर्तव्यता सैवात्मा स्वभावो यस्याः । एतदुक्तं भवति– रौद्रादिरसाभिव्यक्तावपि कर्तव्यायां योऽभिनय उपादीयते सोऽप्यनु– प्रासवलनावर्तनाद्यात्मकसुन्दरवैचित्र्यस्यामिश्रणया दुःश्लिष्टोऽश्लिष्ट एव वा न रसाभिव्यक्तिहेतुर्भवतीति सर्वत्रैव कैशिकी प्राणाः । यद्वक्ष्यति–‘अस्य शाखा च नृत्तं च वस्तून्यभिनयस्य’ (ना.शा.८-१५) इति । शृङ्गाररसस्य तु नामग्रहणमपि न तया विना शक्यम् । स्त्रीजनादृत इति । अयं भावः- यावन्निजहृदयरसविकस्वर– निर्वारचमत्कारपवित्रता न जाता भगवत इव, तावच्छिक्षाशतैरपि वैचित्र्यमनाहार्यम् । मुनीनां च निसर्गविषयविमुखचित्तवृत्तीनां को निर्वृतिचमत्कारः । योऽपि वा ससमाधिजः सोऽपि देहपर्यन्ततां न भजति । प्रत्युत ततः1 पलायमानाः (नः) । अतः स्त्रीणां तादृगस्ति वैचित्र्यम् । तत्सम्पर्कसम्भव2दार्द्रभावास्तु कदाचिच्छक्नुयुरपि ।
Notes
(मू)
(व्या)
नाट्यालङ्कारचतुराः1 प्रादान्मह्यं प्रयोगतः2 ।
3मञ्जुकेशीं सुकेशीं च मिश्रकेशीं सुलोचनाम्4 ।। ४७ ।।
5सौदामिनीं देवदत्तां देवसेनां मनोरमाम्6 ।
7सुदतीं सुन्दरीं चैव विदग्धां 8विपुलां तथा ।। ४८ ।।
Abh
ये त्वाहुः-‘न भगवतः कैशिकीप्रयोगसामर्थ्यम् । तेन दृष्टोमयेति पाठः उमया सह भगवतो नृत्यतो भगवन्तमप्यनादृत्य भगवत्या प्रयुज्यमाना मया दृष्टा’ इति-त उक्तनीत्या पराकृताः । तथा–
विचित्रैरङ्गहारैस्तु देवो लीलासमन्वितैः ।
बबन्ध यः शिखापाशं कैशिकी तत्र निर्मिता ।।
(ना. शा. २०-१३)
इति भगवतो विष्णोः कैशिकीनिर्माणमनुचितं स्यादित्यलं बहुना । जनशब्देन रागिताशङ्कां परिहरति । ततोऽसृजदिति । मनसेति । यथारुचि विनिर्मिता इत्यर्थः । (४४-४६) ।
नाट्यस्य योऽलङ्कारो वैचित्र्यहेतुः कैशिकी (लीलाविलासादिर्वा ।) तत्र चतुराः । अन्ये तु नाट्यालङ्काराः सामान्याभिनये (अ-२२) वक्ष्यमाणाः स्वभावजा ‘लीला विलास’ इत्याद्या दश ‘शोभा कान्तिः’ इत्याद्याश्च सप्त(प्ता)यत्नजा इति । अनेन मुनिकन्यानामत्रायोग्यत्वं तावदुक्तम् । तासां नामग्रहणे पूर्ववत्प्रयोजनं निरूप्यम् । मे ददाविति । नाट्याचार्यपरवशत्वमुपकरणसम्भारस्य दर्शितम्1 । ताश्च मया यथोचितं शिक्षादानेन प्रतिगृहीता इति सूचयन् कैशिकीमप्यहं योजितवानिति दर्शयति । एवं वृत्तिचतुष्टयसम्पूर्णं नाट्यं गुणनिका2यामभ्यस्तमिति प्रदर्श्य गीतातोद्याभ्यामुपरञ्जकाभ्यां योगं दर्शयति-स्वातिरित्यादि । स्वातिः ऋषिविशेषः । येन जलधरसमयनिपतत्सलिलधारावैचित्र्याभिहन्यमानपुष्करदलविलसितरचितविचित्रवर्णानुहरणयोजनया 3यथास्वं वृत्तिनियमेन पुष्करवाद्यनिर्माणं कृतमित्यर्थः । सह शिष्यैरिति । त्रिपुष्करस्य वाद्यस्यापूरकपणवमृदङ्गझल्लर्याद्युपयोगेन पक्षातोद्यपरिग्रहः उक्तः । भाण्डस्यात्र पूर्वमुपादानं वृत्ति(त्ते)र्येन तस्यैव परिक्रमणादौ सति सोपयोगात् । कैशिकी चात्र
Notes
(मू)
(व्या)
1सुमालां 2सन्ततिं चैव सुनन्दां सुमुखीं 3तथा ।
मागधीमर्जुनीं चैव सरलां केरलां धृतिम्4 ।। ४९ ।।
नन्दां सपुष्कलां 5चैव कलमां6 चैव मे ददौ ।7
स्वातिर्भाण्डनियुक्तस्तु सह शिष्यैः स्वयम्भुवा8 ।। ५० ।।
नारदाद्याश्च गन्धर्वा गानयोगे9 नियोजिताः ।
एवं10 नाट्यमिदं सम्यग्बुद्ध्वा11 सर्वैः सुतैः सह ।। ५१ ।।
स्वातिनारदसंयुक्तो वेदवेदाङ्गकारणम् ।12
उपस्थितोऽहं 13ब्रह्माणं प्रयोगार्थं कृताञ्जलिः ।। ५२ ।।
नाट्यस्य14 ग्रहणं प्राप्तं ब्रूहि किं करवाण्यहम् ।
एतत्तु वचनं श्रुत्वा प्रत्युवाच पितामहः ।। ५३ ।।
Abh
मध्ये नियोजितेत्युक्तम् । न (तेन) तत्प्रधानमेतत् । गानयोग इति । गानशब्देन ततसुषिरपरिग्रहः । गानशब्देन गान्धर्वस्यात्रानुपयोगमाह । नियुक्तो नियोजित इत्यनेन वादकगायकादीनां नाट्याचार्यायत्ततां दर्शयति । 1नृत्तगीतातोद्याभिनयानां साम्यसिद्ध्यर्थमेकीभावेन मेलनं कृत्वा प्रयोगः कार्य इति दर्शयति श्लोकद्वयेन–एवं नाट्यमित्यादिना । एवं 2मेलनिकायां ‘नाट्यमिदम्’ इत्येकबुद्धिग्राह्यं सम्मिलितं सम्यक्सम्पन्नमिति बुद्ध्वा ज्ञात्वा । पुत्रैः 3स्वातिनारदाभ्यां च सह ब्रह्माणमुपस्थितः उपनिमन्त्रणार्थं ब्रह्मणोऽग्रे स्थित इत्यर्थः । (४७-५२)
उपनिमन्त्रणं दर्शयति–नाट्यस्येति । ग्रहणमिति । गृहीतं शिक्षितं तावन्ना- ट्यमित्यर्थः । ग्रहणं 4तदवलोकनं तत्प्राप्तं प्रेक्षणयोग्यं जातमित्यर्थः । एतत्त्विति । तुशब्द एवकारार्थेः । श्रुत्वैव । अत एव प्रत्युपस्थितः अयत्नादेवाभिमुख्येनोपस्थितो दैवसङ्घटित इत्यर्थः । ध्वजस्येन्द्रार्थस्य महनं पूजनं यत्र स ध्वजमहः । ध्वजमहस्य विशेषणद्वारेण सम्भवं दर्शयति निहतासुरदानव इत्यादिना ।
तत्र प्रयोगे क्रमं दर्शयति -’पूर्वं कृता मया नान्दीति । नान्द्याख्यं मुख्यं मङ्गलं
Notes
(मू)
(व्या)
महानयं1 2प्रयोगस्य समयः 3प्रत्युपस्थितः ।
अयं ध्वजमहः श्रीमान् 4महेन्द्रस्य प्रवर्तते ।। ५४ ।।
5अत्रेदानीमयं वेदो नाट्यसंज्ञः 6प्रयुज्यताम् ।
7ततस्तस्मिन्ध्वजमहे निहतासुरदानवे ।। ५५ ।।
प्रहृष्टामरसंकीर्णे महेन्द्रविजयोत्सवे ।
8पूर्वं कृता मया नान्दी ह्याशीर्वचनसंयुता ।। ५६ ।।
Abh
सकलपूर्वरङ्गाङ्गोपलक्षणमिति केचित् । पूर्वरङ्गाङ्गानां मध्यान्नान्दी केवलापि प्रयोज्ये– त्येवंपरमेतदित्यन्ये । अस्मदुपाध्यायास्तु– यावद्दैत्यैस्तत्र विघ्नाद्याचरणं न कृतं तावत्पूर्वरङ्गस्य विधिपूर्वकस्य कोऽवकाशः । स हि विघ्नरक्षाकरणेन मण्डपभागनिवेशितदेवतापरितोषहेतुः प्राधान्येन । नान्तरीयकतया च दैत्यपरितोषकारणम् । विघ्नास्तु यदा जातास्ततः प्रभृति पूर्वरङ्गः । तथा चतुर्थेऽध्याये वक्ष्यते- (ना.शा. ४-१०) पूर्वरङ्गे कृते मया भगवते शिवभट्टारकाय दर्शित इति-यथा तथा तु यः कुतपविन्यासा1– दि न(दिः स न) पूर्वरङ्गशब्दवाच्यः । तस्मादिह नान्दीमात्रस्य प्रयोगः । किमर्थाऽसावित्याह–वेदनिर्मिता । ‘तत्राशिषमाशास्ते’ इति हि श्रुतिः सर्वकर्मस्वाशीःपूर्वकत्वमाह । यत्ततो नान्दीप्रयोगः । न तु पूर्वरङ्गाङ्गत्वेन । (५३-५६)
अष्टौ यान्यङ्गभूतानि पदानि वाक्यं महावाक्यं वा । तानि सुप्तिङन्तान्यवान्तरवाक्यानि वेत्युभयथा । अत एव विचित्रेत्युक्तम् । तेन–
जितमुडुपतिना नमः सुरेभ्यो द्विजवृषभा निरुपद्रवा भवन्तु ।
अवतु च पृथिवीं समृद्धसस्यां प्रतिपच्चन्द्रवपुर्नरेन्द्रचन्द्रः ।।
(रत्ना.१-४)
इत्येषाऽपि भारतीयत्वेन प्रसिद्धा कोहलेन प्रदर्शिता नान्द्युपपन्ना भवति । अत्र तु
पक्षे-
नान्दीपदान्तरेष्वेषु ह्येवमस्त्विति नित्यशः ।
2वदेतां 3सम्यगुक्ताभिर्वाग्भिस्तौ 4पारिपार्श्विकौ ।। (ना.शा. ५-११४)
इति श्लोकेऽन्तरशब्दोऽवान्तरवाक्यविच्छेदी द्रष्टव्यः ।
Notes
(मू.)
(व्या)
अष्टाङ्गपदसंयुक्ता विचित्रा 1वेदनिर्मिता ।
2तदन्तेऽनुकृतिर्बद्धा यथा दैत्याः सुरैर्जिताः ।। ५७ ।।
सम्फेटविद्रवकृता च्छेद्य3भेद्याहवात्मिका ।
ततो ब्रह्मादयो देवाः प्रयोगपरितोषिताः ।। ५८ ।।
4प्रददुर्मत्सुतेभ्यस्तु सर्वोपकरणानि 5वै ।
प्रीतस्तु प्रथमं शक्रो दत्तवान्स्वं6 ध्वजं शुभम् ।। ५९ ।।
Abh
विवेचकास्त्वाहुः–अङ्गग्रहणादत्रावान्तरवाक्यान्ये1व तावतोपात्तानि । तत्र चाष्टद्वादशसङ्ख्या चतुरसत्र्यश्रतालानुसारी पूर्वङ्गद्वयाभिप्रायेण । तत्र
नान्दीं पदैर्द्वादशभिरष्टभिर्वाप्यलङ्कुताम् ।। (ना.शा. ५-१०९) इत्यत्रापिशब्दाच्चतुष्पदत्वं षोडशपदत्वं चतुरश्रगतं लभ्यते । त्र्यश्रगतं च त्रिपदत्वं षट्पदत्वं चेत्येवमल्पमपि तद्भेदेन तिस्रस्तिस्रो नान्द्यः । ततः परमपि2 भूयस्त्वात् । तेन जितमुडुपतिनेति चतुष्पदेयम् । षोडशपदा तु ‘जयति भुवनकारणम्’ इत्यादि । तदन्त इति । नान्द्यन्ते परिसमाप्तौ । अनुकृतिरिति नाट्यम् । तत्र च बद्धेति गुणनिका योजिता । न तु प्रयोग इत्येतच्चासत् । तत्पूर्वोत्तरव्याघातात् । पूर्वं ह्युक्तम् –एवं नाट्यमिदमित्यादि नान्दी कृतेत्यन्तम् । वक्ष्यते च– ब्रह्मादयः प्रयोगपरितोषिता इति । तस्माद्बद्धेति प्रस्ताविता । न तु निष्पादिता । प्रस्तावना तावत्प्रयुक्तेत्यर्थः ।
अन्ये त्वनुकृतिरिति नाट्यानुकाररूपा प्रस्तावनेत्याहुः । 3कुता तदन्तेऽनुकृतिः’ इति च पठन्ति । एतदुपजीवनेनैव चिरन्तनाः कवयो ‘नान्द्यन्ते (ततः प्रविशति) सूत्रधारः ‘इति पुस्तके लिखन्ति स्म । किं प्रस्तावितमित्याह–यथा दैत्या इति । डिमसमवकारेहामृगादीनामन्यतमः प्रयोगः प्रास्तावीत्यर्थः । यद्यपिभरपुत्रेर्दशरूपकमभ्यस्तं तथापि न युगपत्सर्वः प्रयोक्तुं पार्यत इत्येवमुक्तम् । तेन यत्केचिदचूचुदन् –समवकारे कः कैशिकीयोजनावसर इति पूर्वग्रन्थोऽसङ्गत इति तन्निरवकाशमेव । समवकारादावपि च सौन्दर्यात्मकं वैचित्र्यं कैशिकीविजृम्भ एवेत्युक्तम् । (५७)
Notes
(मू)
(व्या)
ब्रह्मा 1कुटिलकं चैव भृङ्गारं वरुणः शुभम्2 ।
3सूर्यश्छत्रं 4शिवस्सिद्धिं वायुर्व्यजनमेव च5 ।। ६० ।।
विष्णुः सिंहासनं चैव कुबेरो मकुटं तथा ।
6श्राव्यत्वं प्रेक्षणीयस्य 7ददौ देवी सरस्वती ।। ६१ ।।
शेषा ये देवगन्धर्वा यक्षराक्षसपन्नगाः ।
तस्मिन्सद8स्यभिप्रेतान्नानाजातिगुणाश्रयान्9 ।। ६२ ।।
अंशांशैर्भाषितं10 भावान् रसान् रूपं बलं11 तथा ।
12दत्तवन्तः प्रहृष्टास्ते मत्सुतेभ्यो दिवौकसः ।। ६३ ।।
Abh
रोषग्रथितवाक्यं तु सम्फेटः । शङ्काभयत्रासकुतो विद्रवः । छेदमर्हतीति च्छेद्यं शस्त्राहवः । भेदमर्हतीति भेद्यं मल्लयुद्धात्मकं नियुद्धम् । तत इति । प्रभुपरितोषाय प्रभुचरितं कदाचिन्नाट्ये वर्णनीयमिति यथा दैत्याः सुरैर्जिता इत्येतस्माल्लभ्यत इति केचिदाहुः । तदसत् । दशरूपकलक्षणयुक्तिविरोधात् । तत्र हि किञ्चित्प्रसिद्धचरितं किञ्चिदुत्पाद्यचरितमिति वक्ष्यते । न च वर्तमानचरितानुकारो युक्तः । विनेयानां तत्र रागद्वेषमध्यस्थतादिना तन्मयीभावाभावे प्रीतेरभावेन व्युत्पत्तेरप्यभावात् । वर्तमानचरिते य च धर्मादिकर्मफलसम्बन्धस्य प्रत्यक्षत्वे प्रयोगवैयर्थ्यम् । अप्रत्यक्षत्वे ‘भविष्यति प्रमाणाभावात्’ इति न्यायेन व्युत्पत्तेरसम्भवान्नानुकारः । एतच्च दशरूपकाध्याये वितनिष्याम इत्यास्तां तावत् ।
देवानां 1त्वद्य प्रसिद्धवर्णनीयासम्भवात्पूर्वकल्पमन्वन्तरादिगतदेवासुरचरितकीर्तनम् । अनादित्वात्संसारस्य श्रुतिस्मृत्यनुमतदेवासुरकीर्तनवदिति । तत्र वर्तनो2 (वर्तमानो)– पवर्णनं तज्जातीयानाम् । अथ3 चारित्रभ्रमविप्रलब्धास्त्वसुराश्चुक्षुभिरे इति वक्ष्यामः । न च स्वचरितव्यावर्णनाद्देवानां परितोष इह । यत आह–प्रयोगपरितोषिता इति । ध्वजमिति । यस्य विघ्नशान्त्यै पूजार्थमुपयोगो भावी । (५८-५९)
कुटिलकमिति विक्रदण्डको विदूषकोपयोगी । ब्रह्मायुधात्मा दण्डः । अपकामत्वेन
Notes
(मू)
(व्या)
एवं प्रयोगे प्रारब्धे 1दैत्यदानवनाशने ।2
3अभवन्क्षुभिताः सर्वे दैत्या ये तत्र 4सङ्गताः ।। ६४ ।।
विरूपाक्ष5पुरोगांश्च विघ्नान्प्रो6त्साह्य तेऽब्रुवन् ।
न 7क्षमिष्यामहे नाट्यमेतदागम्यतामिति ।। ६५ ।।
ततस्तैरसुरैः सार्धं विघ्ना मायामुपाश्रिताः ।
वाचश्चेष्टां स्मृतिं चैव स्तम्भयन्ति स्म नृत्यताम् ।। ६६ ।।
8तथा विध्वंसनं दृष्ट्वा 9सूत्रधारस्य देवराट् ।
कस्मात्प्रयोगवैषम्यमित्युक्त्वा ध्यानमाविशत् ।। ६७ ।।
Abh
भीषणत्वाकृत्यापीत्यर्थः । भृङ्गारः पारिपार्श्विकोपयोगी । छत्रमत्र वितानः जलदानां सूर्योद्भवत्वात् तत्प्रतिमः । यदाहुः– ऋतवे वर्षान्ते महतो मेघसम्प्रवानिति । (मेघसंप्लवादिति (?) ) । भगवदायत्ता दैवी मानुषी च सिद्धिरिति मध्ये तदुपादानं सर्वव्यापकत्वं दैव्याः सिद्धेः प्रतिपादयितुम् । व्यजनं घर्मापनुत्तये । सिंहासनादि राजभूमिकायामुपयोगि । यक्षादयो ये तत्त्वज्ञा नाट्यस्य । भाषितमिति । तत्तद्भूमिकोपयोगिवाचिके शिक्षा । भावानिति । विभावादिषु । तथा हि रक्तमांसादीनि भयजुगुप्साविभावरूपाणि यक्षरक्षसां हर्षोत्साहविभावतां यान्तीति तदुपदेशादेव तज्ज्ञेयम् । रसानिति* । स्वोचितस्थायिभावसम्बध्यमानतत्तद्रसोपयोगिनोऽनुभावव्यभिचारिवर्गस्य शिक्षा दर्शिता । रूपमिति मुखरागस्य । बलमित्याङ्गिकस्य । प्रतिभूमिकं परितुष्टेन । अन्ततोऽत्र शिष्टा(क्षा)पि काचिद्देया । सामाजिकेभ्यश्च धनविज्ञानमित्याहरणीयातोद्या (द्याद्या) जिहीर्षता च परिषत्परितोषाय यतितव्यमित्येतदनेन दर्शितम् । (६०-६३)
अथ विघ्नोपशमनाय जर्जरपूजा कार्येति दर्शयितुमितिहासेनोपक्रमते–एवं प्रयोग इति । दैत्यादीनां विनाशनं यत्र प्रयोज्यतया । आगम्यतामिति । अवधार्यतां यदि वा सम्भूयास्यताम् । मायामिति अदृश्यत्वमित्यर्थः । चेष्टेत्याङ्गिकी । यद्यपि स्मृतिस्तम्भनेन सर्वं स्तम्भितं भवति तथापि तत्तदभिनेयप्राधान्येन तदेव स्तम्भितमित्युक्तम् । सूत्रधारस्येति सपरिवारस्येति । प्रस्तावनाप्रयोगमध्य एवायं विघ्न इति यावत् । ध्यानमिति । यत्र माया न प्रभवति । (६४-६७)
Notes
(मू)
(व्या) *रसानिति रौद्ररसोपयोगिनो व्यभिचारिवर्गस्य ।
अथापश्यत्सदो* विघ्नैः समन्तात्परिवारितम् ।
1सहेतरैः सूत्रधारं नष्टसंज्ञं जडीकृतम् ।। ६८ ।।
2उत्थाय त्वरितं शक्रः 3गृहीत्वा ध्वजमुत्तमम् ।
सर्वरत्नोज्ज्वल4तनुः किञ्चिदुद्वृत्त5लोचनः ।। ६९ ।।
रङ्गपीठगतान्विघ्नानसुरांश्चैव देवराट् ।
जर्जरीकृतदेहांस्तानकरोज्जर्जरेण सः ।। ७० ।।
निहतेषु च सर्वेषु विघ्नेषु6 सह दानवैः ।
7सम्प्रहृष्य ततो वाक्यमाहुः सर्वे दिवौकसः ।। ७१ ।।
अहो प्रहरणं दिव्यमिदमासादितं त्वया ।
8जर्जरीकृतसर्वाङ्गा येनैने दानवाः कृताः ।। ७२ ।।
यस्मादनेन ते विघ्ना सासुरा जर्जरीकृताः ।
तस्माज्जर्जर 9एवेति 10नामतोऽयं भविष्यति ।। ७३ ।।
शेषा ये चैव 11हिंसार्थ12मुपयास्यान्ति हिंसकाः13 ।
14दुष्टवैव जर्जरं तेऽपि गमिष्यन्त्येवमेव तु ।। ७४ ।।
15एवमेवास्त्विति ततः शक्रः प्रोवाच तान्सुरान् ।
16रक्षाभूतश्च सर्वेषां भविष्यत्येष17 जर्जरः ।। ७५ ।।
Abh
सद इति यत्र प्रयोगः क्रियते सीदत्यस्मिन्निति । जीर्यत्यतिशयेनेति पचाद्यचि (यङ्लुकि)रूपम् । अतिशयेन जीर्णींकृतो देहो येषान्ते तथा । जर्जरेणेति यङ्लुगन्ताण्णिचि पुनः पचाद्यचि रूपम् । एवं राज्ञा सिद्धिविघातका दण्ड्या इति दर्शितम् ।
Notes
(मू) *क्ष. तदा । 1.N.सहानुगैः । ठ. तदेतरैः । ड. तथैतरैः । त. सहेतरं सूत्रधारं नष्टसंज्ञं जलीकृतम् ।
प्रयोगे प्रस्तुते ह्येवं1 स्फीते शक्रमहे पुनः2 ।
3त्रासं सञ्जनयन्ति स्म विघ्नाः 4शेषास्तु नृत्यताम् ।। ७६ ।।
दृष्ट्वा तेषां व्यवसितं 5दैत्यानां 6विप्रकारजम् ।
उपस्थितोऽहं ब्रह्माणं 7सुतैः सर्वैः समन्वितः ।। ७७ ।।
8निश्चिता भगवन्विघ्ना नाट्यस्यास्य विनाशने ।
9अस्य रक्षाविधिं सम्यगाज्ञापय 10सुरेश्वर ।। ७८ ।।
11ततश्च विश्वकर्माणं 12ब्रह्मोवाच प्रयत्नतः ।
कुरु लक्षणसम्पन्नं नाट्यवेश्म महामते13 ।। ७९ ।।
ततोऽचिरेण कालेन विश्वकर्मा महच्छुभम् ।
सर्वलक्षणसम्पन्नं 14कृत्वा नाट्यगृहं तु सः ।। ८० ।।
15प्रोक्तवान्द्रुहिणं गत्वा सभायान्तु कृताञ्जलिः ।
सज्जं नाट्यगृहं देव तदवेक्षितुमर्हसि ।। ८१ ।।
ततः सह16 महेन्द्रेण सुरैः सर्वैश्च 17सेतरैः ।
18आगतस्त्वरिता द्रष्टुं द्रुहिणो नाट्यमण्डपम् ।। ८२ ।।
Abh
यदि वा मूलत एव तत्परिरक्षायै मण्डपः कार्यः । ये च दण्डस्याविषया वातातपवर्षादयश्च तत्कृतो हि सिद्धिविघातो मण्डपे सति न भवति । एतेनैवाभिप्रायेण पुराकल्पमाह–प्रयोग इत्यादि । शेषा इति । जर्जरीकृतशरीरशेषा अपीत्यर्थः । यद्वक्ष्यति– ‘निश्चिता भगवन्विघ्ना’ इति । तथाऽस्मिन् जर्जरीकरणकाले एते चासन्निहिता अभूवन् । त्रासमिति । सर्वथा तु न शक्ता नाशयितुमिति । जर्जरप्रभावः ‘गमिष्यत्येवमेव’ इति ह्युक्तम् । ततो विश्वकर्मेति । वास्तुविद्या तत्त्वविदो नाट्यमण्डपे स्थपतित्वं सूचयति । द्रुहिण इति ब्रह्मा । इतरे विद्याधरगन्धर्वाद्याः ।
Notes
(मू)
दृष्ट्वा नाट्यगृहं ब्रह्मा प्राह सर्वान्सुरांस्ततः ।1
अंशभागैर्भवद्भिस्तु रक्ष्योऽयं नाट्यमण्डपः ।। ८३ ।।
रक्षणे 2मण्डपस्याथ 3विनियुक्तस्तु चन्द्रमाः ।
4लोकपालास्तथा दिक्षु विदिक्ष्वपि च मारुताः ।। ८४ ।।
नेपथ्यभूमौ मित्रस्तु निक्षिप्तो वरुणोऽम्बरे ।
5वेदिकारक्षणे वह्नि6र्भाण्डे सर्वदिवौकसः ।। ८५ ।।
वर्णाश्चत्वार 7एवाथ स्तम्भेषु विनियोजिताः ।
आदित्याश्चैव रुद्राश्च 8स्थिताः स्तम्भान्तरेष्वथ ।। ८६ ।।
9धारणीष्वथ भूतानि शालास्वप्सरसस्तथा ।
10सर्ववेश्मसु यक्षिण्यो महीपृष्ठे महोदधिः ।। ८७ ।।
Abh
अंशभागैरिति । अंशैर्यानि 1भाजनान्यधिष्ठानानि तैः । मण्डपस्यांशेषु वः भवतां ये तृतीयचतुर्थादयो भागास्तैः । (६८-८३)
अंशविभागमेवाह-रक्षण इति । अनेन चैतत्तुल्या एव मण्डपभागरक्षा2 काचिन्नियोज्या इति दर्श्यते । मण्डपस्य सर्वस्याधिष्ठाता हि सौम्यप्रकृतिः सोमः प्रधानो योज्य इति दर्शयति-चन्द्रमा इति । अपि चेति । विदिक्ष्विति । न केवलं पश्चिमोत्तररूपे स्वकोण यावदन्यास्वपि विदिक्षु । चकाराद्दिक्ष्वपि । ते हि घर्मदोषवारकत्वादत्य- न्तोपकारिणः । अनेन गवाक्षकरणं सूच्यत इत्येके । आदित्ये मित्रशब्दः पुल्लिङ्ग इति । तेन यद्वार्तिककारी(रीयं) ‘तदुपलक्षितो नर्तकी हि(भिः) लज्जापरिहारहेतोः नपुंसको नेपथ्यगृहे’ इति तदपरामृष्टाभिधानम् । मित्र इति तेजस्विता आहार्योपयोगी 3रत्नादेरुक्ता । वेदिका । रङ्गवेदिका । तत्र तीक्ष्णोऽधिष्ठातेत्यर्थः । भाण्ड इति । त्रिपुष्करे सोपकरणे । दिवौकसो मेघा मन्द्रगम्भीरशब्दसिद्धये । इत्येवं सर्वत्र दृष्टमपि सदृशोपलक्षणान्तं प्रयोजनमुत्प्रेक्ष्यम् । सर्वथा4 तदलाभे नियमाद्दृष्टमेव । वर्णा इति । तदधिष्ठातारो देवताविशेषाः । स्तम्भान्तरेष्विति । वर्णस्तम्भचतुष्कादिरित्येषु । न अन्येषु स्तम्भोष्वित्यर्थः । (८४-८६)
Notes
(मू)
(व्या)
द्वारशालानियुक्तौ तु कृतान्तः काल एव च ।
स्थापितौ द्वार1पत्रेषु 2नागमुख्यौ महाबलौ ।। ८८ ।।
देहल्यां यमदण्ड3स्तु शूलं 4तस्योपरि स्थितम् ।
द्वारपालौ स्थितौ चोभौ 5नियतिर्मृत्युरेव च ।। ८९ ।।
पार्श्वे च रङ्गपीठस्य6 महेन्द्रः स्थितवान्स्वयम् ।7
स्थापिता मत्तवारण्यां विद्युद्दैत्यनिषूदनी ।। ९० ।।
स्तम्भेषु मत्तवारण्याः स्थापिताः 8परिपालने ।
9भूतयक्षपिशाचाश्च गुह्यकाश्च महाबलाः ।। ९१ ।।
जर्जरे 10तु विनिक्षिप्तं वज्रं दैत्यनिबर्हणम् ।
11तत्पर्वसु विनिक्षिप्ताः सुरेन्द्रा ह्यमितौजसः ।। ९२ ।।
Abh
शालास्विति । स्तम्भद्वयमष्टवेश्मनि गवाक्षनेपथ्यगृहद्वितीयभूमिसन्निवेशादिति । नागमुख्याविति । अनन्तगुलिकौ । द्वार1पत्रं कवाटात्मकम् । द्वारबहुत्वाच्च बहुवचनम् । देहल्यामिति । द्वाराधस्तनकाष्ठे । तस्येति । शूलमिति । एतेन प्रक्रान्तद्वारमेव परामृष्टम् । तेनोर्ध्वकाष्ठे उत्सङ्गशब्दवाच्ये त्रिशूलमित्यर्थः । पार्श्वे स्वयमिति । राजादेस्तत्स्थानमित्युक्तम् । चकारात्स्वदिशि अंशेनावस्थानमनुस्मृतम् । विद्युदिति । वज्रायुधरूपा । स्तम्भेष्वपि चतुर्षु यथाक्रमं तद्भूतादयः । ते च नाट्यतत्त्वविदः । अत एव विघ्नैः सह ये(ते)नयेन मिलिता इति द्रष्टव्यम् । एतेन सिद्धिविघातका भेदाख्येनाप्यु- पायेन दुर्बलीकर्तव्या इति सूचितम् । *प्रतिष्ठित इति । सदैव सन्निहितो वास्तुमध्य इत्यर्थः । कवेश्च सन्निधानं सूचितम् ।
अधस्तादिति । येन सुरङ्गाखननादि विघ्नकरणं निवार्यत इत्यर्थः । प्रधानपात्राणि पृथग्रक्षणीयानीत्याह-नायकमिति । हास्यशृङ्गाराङ्गत्वाद्विदूषकमित्युक्तम् । अत एव दशरूपकप्रयोगसूचनमेतत् । समवकारे विदूषकाभावात् । हर इति । बहुमूर्तिप्रथमत्वात् । देवता एव दैवतम् । (८७-९८)
Notes
(मू) 1.क्ष.न.त. द्वारपत्रे तु । ठ.ब.म. पार्श्वे ।
(व्या)
1शिरःपर्वस्थितो ब्रह्मा द्वितीये शङ्करस्तथा ।
तृतीये 2च स्थितो विष्णुश्चतुर्थे स्कन्द एव च ।। ९३ ।।
पञ्चमे च महानागाः शेषवासुकितक्षकाः ।
एवं विघ्नविनाशाय स्थापिता जर्जरे सुराः3 ।। ९४ ।।
रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः ।
4इष्ट्यर्थ रङ्गमध्ये तु क्रियते पुष्पमोक्षणम् ।। ९५ ।।
पातालवासिनो ये च यक्षगुह्यकपन्नगाः ।
अधस्ताद्रङ्गपीठस्य रक्षणे ते5 नियोजिताः ।। ९६ ।।
नायकं रक्षतीन्द्रस्तु 6नायिकां च7 सरस्वती ।
विदूषकमथौङ्कारः शेषास्तु प्रकृतीर्हरः8 ।।९७।।
यान्येतानि नियुक्तानि दैवतानीह रक्षणे ।
9एतान्येवाधिदैवानि भविष्यन्तीत्युवाच सः ।। ९८ ।।
एतस्मिन्नन्तरे देवैः सर्वैरुक्तः पितामहः ।
साम्ना तावदिमे विघ्नाः स्थाप्यन्तां वचसा त्वया ।। ९९ ।।
पूर्वं साम प्रयोक्तव्यं द्वितीयं दानमेव च ।
तयोरुपरि भेदस्तु ततो दण्डः 10प्रयुज्यते ।। १०० ।।
देवानां वचनं श्रुत्वा ब्रह्मा विघ्नानुवाच ह ।
11कस्माद्भवन्तो नाट्यस्य 12विनाशाय समुत्थिताः13 ।। १०१ ।।
ब्रह्मणो वचनं श्रुत्वा14 विरूपाक्षोऽब्रवीद्वचः15 ।
दैत्यैर्विघ्नगणैः सार्ध सामपूर्वमिदं ततः16 ।। १०२ ।।
योऽयं भगवता 17 सृष्टो नाट्यवेदः सुरेच्छया18 ।
प्रत्यादेशोऽयमस्माकं 19सुरार्थ भवता कृतः ।। १०३ ।।
Notes
(मू) 1.न. शिरो रक्षन् स्थितो ब्रह्मा हरः पर्वण्यनन्तरे । ब. शिरः पार्श्वे । 2.क्ष. न.म. भगवान् ।
Abh
अथ नाट्यतत्त्वघाते1 (त्त्वविघाते) स तन्निरूपणार्थमुपक्रमते- एतस्मिन्निति । अशक्तस्य सामाङ्गीकरोति दुर्जन इति पूर्वं रक्षाकरणम् । इत्युक्तद्वय (सर्वैरुक्त ) इति । कविरनुविधेयवचनो भवतीति दर्शयति । सामादिप्रयोगे तावच्छब्दसूचितं क्रमं स्फुटयति-पूर्वं सामेत्यादि । तत इति । सर्वोपायप्रतिहताविति यावत् । तत्र ज्ञाताभिप्रायः प्रतिसमाधातुं सुशक इत्यभिप्रायेणाह-देवानामिति । सुरार्थमित्यस्यैव दाढर्यायोक्तं सुरेच्छयेति । प्रत्यादेश इति खलीकार इत्यर्थः । भवतेति । यस्यानुचितमेतदित्यर्थः । अनौचित्यमेव लोकपितामहेत्यामन्त्रणेनाह । तदेव पितामहत्वं दर्शयति -यथेति । आ(त्मनो भ)2वा देवा दैत्याश्चेत्याह-सर्व इति । (९९-१०४)
वचनमिति । सुपरिहरमेतत् । नात्र भूयान्प्रयास इत्येकवचनेन दर्शयति । अत एव सिद्धवदुपक्रमते-अलं व इति । मिथ्याज्ञानगृहीतसर्पत्रासवद्यो भ्रान्तिमात्रकृत इत्यर्थः । 3दैत्यानामशुभकारिता लोकप्रसिद्धा । कुरु(कृत)रङ्गविभागञ्चैषां चेष्टितमस्तु । देवानां तद्विपर्यय इति नाट्यस्य न तात्पर्य येन भवतां मन्युः । किं तर्हीत्याह । शुभकारिणः शुभं फलमशुभकारिणोऽशुभं फलमित्येतावदेवास्माकं प्रतिसाक्षात्कारकल्पे नाट्ये प्रदर्शनीयम् । न तत्र देवेषु दैत्येषु वा कश्चिद्भरः4 । अत एव भवतामपि धर्मादौ यः 5सदुपायः सोऽपि शुभविपाकत्वेनैव दर्शितः । अत एव शुभग्रहणमेकतरपक्षशैथिल्यदर्शनाय दैत्यसम्बन्धनार्थ प्रथमभुपात्तम् । शुभमशुभं च धर्माधर्मरूपं सुखदुःखफलत्वेन विभेदेन कल्पयत्यध्यवसाययति नाट्यवेदः । कीदृक्-कर्मभावान्वयापेक्षीति। तद्यथा- कर्म धर्माधर्मादिरूपं धर्मो दानं स्नानमित्यादिः । अधर्मो हिंसा स्तेयमित्यादिः । भाव आशयः 6स्त्री (स्व) प्रसङ्गोदिता स्वार्थतापरार्थताद्यभिसन्धिरित्यादिः । अन्वयोऽभिजनः आर्यावर्तादिर्ब्राह्मण्यादि चेति (ण्यञ्चेति) । तानपेक्षते सहकारितया ।
एतदुक्तं भवति - अस्मिन्देशेऽस्मिन्काले ईदृशेन कर्मणा यः शुभमशुभं चार्जयति स एवंविधफलभागी भवतीति न तावदिहोपदिश्यते । विकल्पक इति द्वौ णिचौ । (१०५-१०६)
Notes
(व्या)
तन्नैतदेवं कर्तव्यं त्वया लोकपितामह ।
यथा देवास्तथा दैत्यास्त्वत्तः सर्वे विनिर्गताः ।। १०४ ।।
1विघ्नानां वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् ।
अलं वो मन्युना दैत्या 2विषादं त्यजतानघाः ।। १०५ ।।
भवतां देवतानां च शुभाशुभ3विकल्पकः ।
कर्मभावान्वयापेक्षी4 नाट्यवेदो मया कृतः ।। १०६ ।।
नैकान्ततोऽत्र भवतां देवानां 5चानुभावनम् ।
त्रैलोक्यस्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् ।। १०७ ।।
Abh
ननु चैव1मप्यस्मत्पृष्ठे किमे2तद्योजितमित्याह–नैकान्तत इति । अयं भावः– न युष्मत्पृष्ठे केनचिदेतद्योजितम् । देवासुरस्य बहिर्यथावस्थमवस्थानम् । अत्रेति नाट्यवेदे । न देवासुराणामेकान्तेनानुभावनम् । नैव तेऽनुभाव्यन्ते केनचित्प्रकारेण ।
तथाहि–तेषु न तत्त्वेन धीः । न सादृश्येन यमलकवत् । न भ्रान्तत्वेन रूप्य– स्मृतिपूर्वकशुक्तिरूप्यवत् । नारोपेण सम्यग्ज्ञानबाधानन्तरमिथ्याज्ञानरूप्यवत् । न तदध्यवसायेन गौर्वाहीकवत् । नोत्प्रेक्ष्यमाणत्वेन मुखचन्द्रवत् । न तत्प्रतिकृतित्वेन चित्रपुस्तवत् । न तदनुकारेण गुरुशिष्यव्याख्याहेवाकवत् । न तात्कालिकनिर्माणेनेन्द्र- जालवत् । न युक्तिविरचिततदाभासतया हस्तलाघवादिमायावत् । सर्वेष्वेतेषु पक्षेष्वसाधारणतया द्रष्टुरौदासीन्ये रसास्वादायोगात् । कवेश्च नियतवर्णनीयनिश्चितत्वे काव्यस्यैवासम्पत्तेरनौचित्यवर्जनायोगात् । लौकिकमिथुनदृशीव सांसारिकहर्ष3(ईर्ष्या)- क्रोधान्वयितापत्तेरुभयदर्शनकु(मू)लतया 4मुख्यदृष्टौ प्रयोक्तृदृष्टौ तत्संविद्वि- श्रान्त्यभावात् ।
किं तर्ह्येतत् । आह-त्रैलोक्यस्येति । एतदुक्तं भवति–एतादृशं तैः रामादयो न कदाचन प्रमाणपथमवतार्यन्ते5 यदाऽ ऽगमेन वर्ण्यन्ते। तदा तद्विशेष6बुद्धिः यद्यपि रामायणप्रायादेकस्मान्महावाक्यादुल्लसति, तथापि वर्तमानतयैव विशेषाणां सम्भाव्यमानार्थक्रियासामर्थ्यात्मकस्वालक्षण्यपर्यवसानात्। न च तेषां वर्तमानतेत्युपगता
Notes
(मू)
(व्या)
तावद्विशेषबुद्धिः । काव्येष्वपि हृदयमेव (हृदय एव) तावत्साधारणी भावो विभावादीनां तत्रापि कथामात्रे साधारणी भावः सम्भवति यद्यपि तथापि ‘एवं ये कुर्वन्ति तेषामेतद्भवति’ इति वाक्यवद्रञ्जनातिशयाभावान्न चित्तवृत्ते(त्ति)र्निर्णयगता भवति ।
काव्ये तु गुणालङ्कारमनोहरशब्दार्थशरीरे ळोकोत्तर1रसप्राणके हृदयसंवादवशात् निमग्नाकारिका तावद्भवति चित्तवृत्तिः । किन्तु सर्वस्य प्रत्यक्षसाक्षात्कारकल्पा तत्र न धीरुदेति ।
नाट्ये तु पारमार्थिकं किञ्चिदद्य मे कृत्यं भविष्यतीत्येवंभूताभिसन्धिसंस्कारा- भावात्सर्वपरिषत्साधारणप्रमोदसारापर्यन्तरसना(समा)दरणीयलोकोत्तरदर्शनश्रवणयोगी भविष्यामीत्यभिसन्धिसंस्कारादुचितगीतातोद्य2चर्वणाविस्मृतसांसारिक भावतया विमलमुकुरकल्पीभूतनिजहृदयः, सूच्याद्यभिनयावलोकनोद्भिन्नप्रमोदशोकादितन्मयीभावः, पाठ्याकर्णनपात्रान्तरप्रवेशवशात् समुत्पन्ने देशकालविशेषावेशानालिङ्गिते सम्यङ्मिथ्यासंशयसम्भावनादिज्ञानविज्ञेयत्वपरामर्शानास्पदे, रामरावणादिविषयाध्यवसाये, तत्संस्कारानुवृत्तिकारणभूततत्सहचरहृद्यवस्तुरूपगीतातोद्यप्रमदानुभवसंस्कारसूचितसमनुगत- तदुक्तरूपरामाध्य3वसायसंस्कार एव भवत्पञ्चषैर्दिवसैः सचमत्कारतदीयचरित- मध्यप्रविष्टस्वात्मरूपमतिः स्वात्मद्वारेण विश्वं तथा पश्यन्4 प्रत्येकं सामाजिकों देशकालविशेषाणामपरामर्शेन एवंकारिणामिदमिति लीढा(लिङा)त्मकविधिसमर्पितं संविज्जातीयमेव संविद्विशेषरञ्जकप्राणवल्लभाप्रतिमरसास्वादसहचररम्यगीतातोद्यादि- संस्काररसा(नुप्र)वेशेन हृदयाभ्यन्तरनिखातं तत एवनुत्पुं सनशतैरपि5 म्लानिमात्रमप्यभजमानं भजंस्तत्तच्छु भाशु भप्रेप्साजिहासासततस्यूतवृत्तित्वादेव शुभमाचरत्यशुभं समुज्झति । इदानीमुपायसंवेदनालाभात् तदिदमनुकीर्तनमनु- व्यवसायविशेषो नाट्यापरपर्यायः । नानुकार इति भ्रमितव्यम् । अनेन भगण्डेन राजपुत्रस्यान्यस्य वा6नुकृतेऽन्या(कृतावन्या)दिबुद्धेरभावात् । तद्धि विका(क)रणमिति प्रसिद्धं हासमात्रफलं मध्यस्थानाम् । यदभिप्रायेण मुनिर्वक्ष्यति-
परचेष्टानुकरणाद्धासस्समुपजायते (अ. ७-१०) इति ।।
तत्पक्षीयाणान्तु तदेव द्वेषासूयानि(नु)वृत्त्यादिफलम् । तद्बुध्यैव हि दैत्यानां हृदयक्षोभः ‘एवम्भूता वयमुपहासभाजनम्’ इति । उपहास्यताभीरवश्च निवर्तन्ते ततः । न तूपदेशेन ।
Notes
(व्या)
Abh
नन्वेनं तावता नियतानुकारो माभूत् । अनुकारेण तु किमपराद्धम् । न किञ्चिदसम्भवादृते । अनुकार इति हि सदृशकरणम् । तत्कस्य । न तावद्रामादेः । तस्याननुकार्यत्वात् । एतेन प्रमदादिविभावानामनुकरणं पराकृतम् । न चित्तवृत्तीनां शोकक्रोधादिरूपाणाम् । न हि नटो रामसदृशं स्वात्मनः शोकं करोति । सर्वथैव तस्य तत्राभावात् । भावे वाननुकारत्वात् । न चान्यद्वस्त्वस्ति यच्छोकेन सदृशं स्यात् । अनुभावांस्तु करोति । किन्तु सजातीयानेव । न तु तत्सदृशान् । साधारणरूपस्य कः केन सादृश्यार्थः । त्रैलोक्यवर्तिनः सदृशत्वन्तु न विशेषात्मना यौगपद्येनोपपद्यते । कदाचित्क्रमेण नियत एवानुकृतः स्यात् । सामान्यात्मकत्वे कोऽनुकारार्थः । तस्मादनियतानुकारो1 नाट्यमित्यपि न भ्रमितव्यम् । अस्मदुपाध्यायकृते काव्यकौतुकेऽप्ययमेवाभिप्रायो मन्तव्यः । न त्वनियतानुकारोऽपि ।
तेनानुव्यवसायविशेषविषयीकार्यं नाट्यम् । तथा चाहार्यविशेषादिना2 निवृत्ते तद्देशकालचैत्रमैत्रादिनटविशेषप्रत्यक्षाभिमाने विशेषलेशोपक्रमेण च विना प्रत्यक्षा3- प्रवृत्तेरायाते रामादिशब्दस्यात्रोपयोगात् प्रसिद्धतदर्थतयाऽऽदरणीयचरितवाचकस्यासम्भा- वनामात्रनिराकरणेनानुव्यवसायस्य प्रत्यक्षकल्पनाट्ये हृद्यगीताद्यनुस्यूततया चमत्कारस्थानत्वाद्धृदयानुप्रवेशयोग्यत्वमभिनयचतुष्टयेन स्वरूपप्रच्छादनं, प्रस्तावनादिना नटज्ञानजसंस्कारसाचिव्यं, तेन रञ्जकसामग्रीमध्यानुप्रविष्टेन प्रच्छादितस्वस्वभावेन प्राक्प्रवृत्तलौकिकप्रत्यक्षानुमानादिजनितसंस्कारसहायेन सहृदयनज्ञानसंस्कारसचिवेन हृदयसंवादतन्मयीभ5वनसहकारिणा प्रयोक्त्रा दृश्यमानेन योऽनुव्यवसायो जन्यते सुखदुः– खाद्याकारतत्तच्चित्तवृत्तिरूपरूषितनिजसंविदानन्दप्रकाशमयः अत एव विचित्रो रसनास्वादनचमत्कारचर्वणनिर्वेशभोगाद्यपरपर्यायः तत्र यदवभासते6 वस्तु तन्नाट्यम् । तच्च ज्ञानाकारमात्रमारोपितं स्वरूपं सामान्यात्मकं तत्कालनिर्मितरूपं चान्यद्वा7 किञ्चिदस्तु । नात्राप्रस्तुतलेखनेनात्मनो दर्शनान्तरकथापरिचयप्रकटनफलेन8 प्रकृतवस्तुनिरूपणविघ्नमाचरन्तः सहृदयान्खेदयामः । तस्मादनुव्यवसायात्मकं कीर्तनं रूषितविकल्पसंवेदनं नाट्यम् । तद्वेदनवेद्यत्वात् । न त्वनुकरणरूपम् । यदि त्वेवं मुख्यलौकिककरणानुसारितयाऽनुकरणमित्युच्यते तन्न कश्चिद्दोषः । स्थिते वस्तुतो भेदे शब्दप्रवृत्तेरविवादास्पदत्वात् । एतच्च यथावसरं वितनिष्यत इत्यास्तां तावत् ।
Notes
(व्या) 1.म. तस्यायतानुकारो ना ।
क्वचिद्धर्मः क्वचित्क्रीडा क्वचिदर्थः क्वचिच्छमः1 ।
क्वचिद्धास्यं क्वचिद्युद्धं क्वचित्कामः क्वचिद्वधः ।। १०८ ।।
धर्मो धर्मप्रवृत्तानां2 कामः कामोपसेविनाम् ।
निग्रहो दुर्विनीतानां 3विनीतानां दमक्रिया ।। १०९ ।।
क्लीबानां धाष्ट्र्य4जननमुत्साहः शूरमानिनाम् ।
अबुधानां विबोधश्च वैदुष्यं5 विदुषामपि ।। ११० ।।
Abh
यतश्चेदं नानुकरणं ततो यत्कैश्चिच्चोदितं तदनवकाशम्-’ न च गीतवाद्ययुक्तः सर्वावस्थासु कश्चिदनुकार्यः’ इति । न त्वनुकार्यत्वेन गीतादय इत्युक्तम् । परिहारोऽपि य उक्तः ‘आसनगमनस्नानस्वापप्रतिबोधभोजनाद्यासु वस्तुतो गीतवाद्यं लोके चेष्टास्वतिप्रथितम्’ इत्यादि, तदप्यनुपपन्नम् । न हि गमनादौ तद्ध्रुवातालादिरूपेण गीतादि लोकेऽस्ति मङ्गलमात्रत्वादृते । गायनवादनादिष्वपि चानुकारबुद्ध्यापत्तेरित्यलम् । (१०७)
ननु त्रैलोक्यस्य ये भावास्तेषां यद्यनुकीर्तनं नाट्यं तदेकत्रैव रूपके एकत्रैव 1चाङ्कादौ सर्वमेव दृश्येतेत्याशङ्कानिराकरणपूर्वकं पूर्वप्रयोजनेन सप्रयोजनत्वमुपसंहरति-क्वचिद्धर्म इत्यादिना ‘लोकोपदेशजननं नाट्यमेतद्भविष्यति’ इत्यन्तेन श्लोकाष्टकेन । एतच्च कैश्चिद्धिन्नवाक्यतया प्रतिश्लोकं व्याख्यातम् । तच्च पौनरुक्त्याध्याहारपरस्परासङ्गत्यादिदोषोपहतं स्यादित्युपेक्ष्यमेव । तस्मादित्थमत्र योजना -नानाप्रकारैर्भावैः स्थायिव्यभिचारि(वि)भावादिभिरुपसम्पन्नं सर्वतो व्याप्तम् । तेषां च भावादीनां देशकालप्रकृत्त्यवस्थान्तरभिन्नस्वभावत्वात्तदपि नानावस्थात्मकम् । अत एवाहोत्तमाधमेति । एवम्भूतमेतद्भविष्यति । काले विश्रान्तिजननं हितोपदेशजननं च भविष्यतीति सम्बन्धः ।
के के नानाप्रकारा भावा इत्याह-क्वचिद्धर्म इत्यादि । यथायोगं धर्मादयः शब्दास्तदचितस्थायिव्यभिचार्यादिसूचकाः । तेन धर्मोऽर्थ इत्युत्साहादिः । क्रीडेति विस्मयादिः । शम इति निर्वेदादिः । हास्यमिति हासादिः । युद्धमिति रौद्रादिः । काम इति रत्यादिः । वध इति क्रोधभयजुगुप्साशोकादिः । अमीभिश्च समुचितव्यभिचा– रिभावविभावाः2 स्वीकृताः । क्वचिदिति शब्देन दशरूपकान्यतममुच्यते । त(य) था
Notes
(मू)
(व्या)
नाटकाद्यनेकरूपकगतो विशेषस्तथैकं ना(कना)टकादिविशेषको विभागः । एतदुक्तं भवति -किञ्चिद्धर्मप्रधानं रूपकं यथा नाटकं प्रकरणं वा । क्रीडाप्रधानं तथा प्रसिद्धानां यथा भाणः । अर्थप्रधानत्वं प्रकरणादावेव । एवं दशरूपकलक्षणानुसारेण सर्वमनुसरणीयम् । तथा क्वचिन्नाटके धर्मः प्रधानम्– यथा छलितरामे रामस्याश्वमेधयागः । क्वचित्क्रीडा-यथा स्वप्नवासवदत्तायाम् । एवमन्यत्राप्यतुसरणीयम्। 1तथैकत्रापि नाटके क्वचिदंशे2 धर्मो यथाऽभिज्ञानशाकुन्तले– ‘अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा स्यात्’ (अङ्क-१) । एवं प्रतिनाटकमेकदेशेषु सुलक्षा एवं क्रीडादय इति ग्रन्थविस्तरभीरुभिरस्माभिर्न परिवर्णिताः3 ।
नन्ववस्थादेशकालप्रकृतिविशेषसमुचितभावानुकीर्तनमात्रमेव कर्तव्यम् । किं रामाय- (दि)रावणेत्यादिसमाश्रयेणेत्याशङ्क्याह धर्म इति । चो हेतौ । यस्माल्लोकवृत्तानुसारेण करणं प्रयोगरूपं नाट्यं मया कृतमेतदित्येतस्मात्कारणाद्धर्मप्रवृत्तानां रामयुधिष्ठिरादीनां सम्बन्धित्वेन धर्म उक्तः । निग्रह इति वधः । विनीतानां जितेन्द्रियाणां सम्बन्धित्वेन दमस्य शमस्य क्रिया योजना । विनयो हीन्द्रियजयः । एवं क्लीबानामुपहास्यानां धाष्ट्रर्यजननमिति विभावेन हासोऽत्रोक्तः । धाष्ट्र्याज्जननं जन्म यस्य हास्यवस्तुनः । यद्वक्ष्यति- ‘विकृतपरवेषालङ्कारधाष्ट्र्यादिभिः’ (अ-६.) इत्यादि । विबोध इति ण्यन्तस्य रूपम् । अबुद्धत्वेन प्रसिद्धानां सम्बन्धित्वेन बोधनमुपायोपदेशेन व्युत्पाद्यत्वम् । विदुषां भीष्मादीनाम् । उपायव्युत्पाद्यत्वेन वैदुष्यम् । अनेन स्मृतिमतिप्रभृतीनां निरूपणम् । विलास इति क्रीडा । स्थैर्यमिति व्यवसायात्मकमुत्साहरूपमेव । चशब्द एवकारार्थे । दुःखार्दितत्वेन यः प्रसिद्धस्तस्यैव सम्बन्धित्वेनेत्यर्थः । धृतिर्धेर्यम् । एतदुक्तं भवति- लोकवृत्तानुसारेण यत इयं नाट्यक्रिया4 लोके च धर्मादयोऽनाश्रयाः न संवेदनयोग्याः तेन धर्मादिविषये यो यथा प्रसिद्धो रामादिः स शब्दमात्रोपयोगित्वेन मुख्यपात्र- प्रणालिकया गृहीतः ।
एवंभूतं यन्नाट्यं तत्प्रेक्षकाणां दुःखेन व्याध्यादिकृतेन श्रमेणाध्वक्लेशादिजेन शोकेन बन्धुमरणादिकृतेनार्तानां पीडितानां तथा तपस्विनामनवरतकृच्छ्रचान्द्रयणाद्याचरण- कलितदौर्बल्यातिशयपरिखिन्नहृदयानां विश्रान्तिजननं दुःखप्रसरणविघातकम् । प्रतिहतदुःखानां चाह्लादात्मक5 धृत्यादिकारणं यथायोगम् । तद्यथा-शोकार्तस्य धृतिर्व्याध्यार्तस्य क्रीडा । श्रमार्तस्य सुखम् । आदिग्रहणेन तपस्विनो मतिविबोधादय6 इति मन्तव्यम् ।
Notes
(व्या)
ईश्वराणां विलासश्च 1स्थैर्यं दुःखार्दितस्य च ।
अर्थोपजीविनामर्थो 3धृतिरुद्विग्नचेतसाम् ।। १११ ।।
4नानाभावोपसम्पन्नं नानावस्थान्तरात्मकम् ।
लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ।। ११२ ।।
5उत्तमाधममध्यानां नराणां कर्मसंश्रयम् ।
हितोपदेशजननं धृतिक्रीडासुखादिकृत्5 ।। ११३ ।।
6एतद्रसेषु भावेषु सर्वकर्मक्रियास्वथ6 ।
सर्वोपदेशजननं 8नाट्यं लोके भविष्यति ।।
दुःखार्तानां 9श्रमार्तानां शोकार्तानां तपस्विनाम् ।
10विश्रान्तिजननं 11काले नाट्यमेतद्भविष्यति12 ।। ११४ ।।
Abh
नचैतावदेव यावत्कालान्तरेऽपि1 विपरीपाकं सुखमुपदेशजं जनयतीत्येवं दुःखितानां तत्प्रशमसुखवितरण2कालान्तरसुखलाभाः प्रयोजनम् । ये न दुःखिताः3 सुखभूयिष्ठवृत्तय एव राजपुत्राद्यास्तेषां लोकवृत्ते धर्माद्युपायवर्गे उपदेशकार्येतन्नाट्यम् । लोकशब्देन लोकवृत्तम् ।
Notes
(मू)
(व्या)
धर्म्यं यशस्यमायुष्यं हितं बुद्धिविवर्धनम् ।
लोकोपदेशजननं नाट्यमेतद्भविष्यति4 ।। ११५ ।।
2न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला ।
3नासौ योगो न तत्कर्म 4नाट्येऽस्मिन् यन्न दृश्यते ।। ११६ ।।
Abh
ननु किं गुरुवदुपदेशं करोति । नेत्याह । किन्तु बुद्धिं विवर्धयति । स्वप्रतिभामेव तादृशीं वितरतीत्यर्थः । न च सा दुष्टा प्रतीतिरित्याह-हितम्–हितप्रति– भाजनकत्वात् । अत्र हेतुमाह-यतो धर्मादनपेतम् । यशश्शब्देन लोकप्रसिद्धिहेतुभूतमद्– भुतकारि वस्तूच्यते, यथा रामस्य सप्तसालव्यथनादि । तदुपदेशे साधु यशस्यम् । आयुर्वृद्धिहेतव आचारा आयुः । तेषु साधु आयुष्यम् । एवं दुःखितानामदुःखितानां चेदमुपादेयमित्युक्तम् । दुःखं च शारीरं मानसं वा । शारीरमपि दैवकृतं स्वयंकृतमपि दृष्टं फलो(ष्टफलो)द्देशेनान्येन चेत्येतावानेव दुःखितवर्ग इति दुःखार्तानामित्यादिभेदोपादानस्य फलम् ।
केचित्तु धर्मो धर्मप्रवृत्तानामित्यादि सामाजिकविषयत्वेन व्याचक्षते हृदयसंवाद– योग्यतातात्पर्येण । अन्ये त्वकारप्रश्लेषादिव्याख्याप्रकारेणाधर्मप्रवृत्तानामित्यादि विपरी– तत्वेन व्याचक्षते उपदेश्यत्वाभिप्रायेण । उभयमप्येतदसत्, पौनरुक्त्यादि दोषापातात् । चैतद्धर्म्य यशस्यमित्यादेः पुनरुक्तम् । (१०८-११५)
न चानेन प्रधानमात्र एवोपदेशः कृतः पुरुषार्थोपायमात्रे वा । यावत्तदुपायोपेयादिष्वपीति दर्शयति-न तदिति । अस्मिन्निति । सप्तद्वीपगतभावानुकीर्तनद्भरूपे नाट्ये दृश्यमाने यन्न दृश्यते न हृदयगोचरमेति तादृग्ज्ञानादिकं नास्तीति शेषः । ज्ञानमित्यु पादेयमात्मज्ञानादि ।
यथा वेणीसंहारे–‘आत्मारामा विहितरतयो निर्विकल्पे समाधौ’ (१-२३) इत्यादि । शिल्पमिति । मालाचित्रपुस्तादियोजनम् ।
यथ ‘वेष्टितग्रथितगुम्फसंहतैराततैश्च कुसुमैस्सपल्लवैः’ इत्यादौ । विद्या दण्डनीत्यादि ।
Notes
(मू)
तन्नात्र मन्युः कर्तव्यो भवद्भिरमरान्प्रति ।1
सप्तद्वीपानुकरणं 2नाट्यमेतद्भविष्यति ।। ११७ ।।
(3येनानुकरणं नाट्यमेतत्तद्यन्मया कृतम् ।।)
देवानामसुराणां4 च 5राज्ञामथ कुटुम्बिनाम् ।
(कृतानुकरणं लोके नाट्यमित्यभिधीयते ।)6
ब्रह्मर्षीणां च विज्ञेयं नाट्यं वृत्तान्त7दर्शकम् ।। ११८ ।।
योऽयं स्वभावो लोकस्य सुखदुःस्वसमन्वितः ।
सोऽङ्गाद्यभिनयोपेतो नाट्यमित्यभिधीयते8 ।। ११९ ।।
Abh
यथा ‘शमव्यायामाभ्यां प्रतिविहिततन्त्रस्य नृपतेः ।’ (बाल. रा. १-२४) इत्यादौ । कला गीतवाद्यादिका ।
यथा ‘व्यक्तिर्व्यञ्जनधातुना’ (नागानन्द १-१४) इत्यादौ ।
योगो योजनं तेषामेव ज्ञानादीनां कलान्तानां स्वभेदैरन्योन्यस्वभेदैः । यथा–
“मेघाशङ्किशिखण्डिताण्डवविधावाचार्यकं कल्पय–
न्निर्ह्रादो मुरजस्य मूर्च्छतितरां वेणुस्वनापूरितः ।
वीणायाः कलयन् लयेन गमकानुग्राहिणीं मूर्च्छनां
कर्षत्येष च 1कालकूटितकलारम्यश्रुतिं षाडबे ।।”
(भेज्जल-राधाविप्रलम्भ)
इत्यादौ । तत्रेहातोद्यनिचयगीतयोजना कृता ।
अन्योन्यं यथा- ‘आविलपयोधराग्रं लवलीदलपाण्डुकोलच्छायम्’ (विक्रमो ५-८) इत्यादौ । अत्र हि श्रृङ्गाराङ्गस्य वैद्यकविद्यया योजना ।
कर्मेति युद्धनियुद्धादिर्व्यापारः । यथा–
“आलीढस्थितटङ्कितस्य निमितां दृष्टित्रयीं तन्वतः
पुङ्खाग्रक्रमसर्पणेन विशिखप्रान्तादथोच्चैस्तमाम् ।
चक्रीभूतशरासनस्य न 2मनाल्ल (क् ल) क्ष्यादमी विच्यु3ता–
श्चित्रं चित्रमुमाधवस्य युगपत्सर्वे सुरेन्द्रद्विषः ।।”
इति ।।
Notes
(मू)
(व्या)
एवं सप्रयोजनत्वमभिधाय प्रकृतमेव पुराकल्पमनुबध्नाति– तन्नान्नेति । तदिति । तस्मात् । अत्र नाट्येऽमरान्प्रति न मन्युः कार्यः । तेऽपि तत्र न केचित् ।
एतदेवाह–सप्तद्वीपानुकरणमयी हि 1क्रिया(नटक्रिया)रङ्गे दृश्यते । न च सागरद्वीपादीनां कश्चित्तत्र सम्भव इति भावः (११६-११७) ।
ननु किमर्थमेषां नामानि गृहीतानीत्याशङ्क्याह–देवानामित्यादि । एतेषामेवाधिकारिपुरुषत्वात्2 निराधारस्य वृत्तस्य दर्शयितुमशक्यत्वात् । एतच्चोक्तं पूर्वम् । अत एव यत्र निर्व्याजसहजौदार्यधर्मादिविषये बलिप्रह्लादप्रभृतेः प्रसिद्धिस्तत्र सोऽ– प्युदीरित आश्रयत्वेन । तदाह–असुराणामिति । न च भवद्वैरिण एवात्र वर्णिताः अपि तु ब्रह्मर्षयोऽपि । अनेन ‘प्रत्यादेशोऽयमस्माकम् । सुरार्थम् ।।’ इत्याशङ्काद्वयमपि परिहृतम् । एतत्तात्पर्येणोपसंहरति योऽयमिति । अयमिति– प्रत्यक्षकल्पानुव्यवसायविषयः लोकप्रसिद्धसत्यासत्यादि विलक्षणत्वात् यच्छब्दवाच्यः । लोकस्य सर्वस्य साधारणतया स्वत्वेन भाव्यमानश्चर्व्यमाणोऽर्थो नाट्यम् । स च सुखदुःख3रूपेण विचित्रेण समनुगतः । न तु तदेकात्मा ।
तथा हि–रतिहासोत्साहविस्मयानां सुखस्वभावत्वम् । तत्र तु चिरकालव्या– पिसुखानुसन्धिरूपत्वेन विषयौन्मुख्यप्राणतया तद्विषयाशंसाबाहुल्येनापायभीरुत्वाद् दुःखांशानुवेधो रतेः । हासस्य सानुसन्धानस्य विद्युत्सदृशतात्कालिकाल्पदुःख– रूपः सुखानुगतौ । उत्साहस्य तात्कालिकदुःखायासरूपनिमज्जनानुसन्धिना भाविबहुजनो– पकारिचिरतरकालभाविसुखसञ्चिकीर्षात्मना सुखरूपता । विस्मयस्य निरनुसन्धानतटित्तुल्यसुखरूपता ।
क्रोधभयशोकजुगुप्सानां तु दुःखस्वरूपता । तत्र चिरकालदुःखानुसन्धिप्राणो विषयगतात्यन्तिकसुखभावनाकांक्षाप्राणतया सुखदुःखानुवेधवान् क्रोधः । निरनुसन्धितात्कालिकदुःखप्राणतया तदपगमाकांक्षोत्प्रेक्षितसुखानुसम्भिन्नं भयम् । द्वैकालिकस्त्वभीष्टविषयनाशजः प्राक्तनसुखस्मरणानुविद्धः सर्वथैव दुःखरूपः शोकः । 4उत्पाद्यामानसुखानुसन्धानजीवितविषयात्प(या प)लायनपरायणरूपान्नि(पा नि) षिध्य– मानशङ्कितसुखानुविद्धा जुगुप्सा । समस्तम(त)त्पूर्वदुःखसञ्चयसंस्मरणप्राणितः(तोऽ) संभावितदुःखबहुलसुख(दुःख)योनिः निर्वेदः । एवं व्यभिचारिप्रभृतिष्वपि वाच्यम् । संवित्स्वभावाः सुखादय इति च दर्शने न तत्स्वभावत्वम् । अन्येत्व(तैस्त्व)त्र तद्वेदनरूपत्वमेव तेषां मन्तव्यम् । एवं लौकिका ये सुखदुःखात्मनो भावाः
Notes
(व्या)
(1वेदविद्येतिहासानामाख्यानपरिकल्पनम् ।
विनोदकरणं लोके नाट्यमेतद्भविष्यति ।।
श्रुतिस्मृतिसदाचारपरिशेषार्थकल्पनम् ।
विनोदजननं लोके नाट्यमेतद्भविष्यति ।।)
एतस्मिन्नन्तरे देवान् सर्वानाह पितामहः ।
2क्रियतामद्य विधिवद्यजनं नाट्यमण्डपे ।। १२० ।।
बलिप्रदानैर्होमैश्च मन्त्रौषाधिसमन्वितैः ।
3भोज्यैर्भक्ष्यैश्च 4पानैश्च बलिः समुपकल्प्यताम् ।। १२१ ।।
5मर्त्यलोकगताः सर्वे शुभां पूजामवाप्स्यथ ।
अपूजयित्वा रङ्ग तु नैव प्रेक्षां प्रवर्तयेत्6 ।। १२२ ।।
Abh
तत्सदृशस्तत्संस्कारानुविद्धो नाट्यलक्षणोऽर्थः समुदायरूपस्तस्यैव भागानुसरणयः ।
एवं दयारत्यादिरूपानुसरणभूतो (एवंभूतो) नाट्यलक्षणोऽर्थः कथं प्रतीतिगोचरी– भवतीत्याह–अङ्गादीति । येऽभिनयाःआङ्गिकादयः न च ते लिङ्गसङ्केतादिरूपाः । अपि तु प्रत्यक्षसाक्षात्कारकल्पलौकिकसम्यङ्मिथ्याज्ञानादिरूपः । तस्यैव भावाः शृङ्गारादयो रत्यादिविलक्षणास्वादपर्यायप्रतीत्युपयोगिनः । अत एवाभिमुख्यनयनहेतुत्वादन्यलोक– शास्त्रा1 प्रसिद्धेनाभिनयशब्देन व्यपदेश्याः । तथाऽङ्गानि शाखानृत्तगीतानि आद्यः प्रधाना येषां तेऽङ्गादयः । तथाऽङ्गानि व्यभिचारिणो भावादयो हेतुरूपा विभावाः । अभिनयाः अनुभवाः । त एते रसाभिमुख्यनयनहेतवः यद्वक्ष्यति विभावानुभाव ‘व्यभिचारि– संयोगाद्रसनिष्पत्तिः’ इति । (अ-६) तैरुपेतः । उप समीपमितः संविद्दर्पणमभिसङ्गक्रान्तः । एवंभूतोऽर्थो नाट्यं नटनीयं नर्तनीयम् । तथा गमनीयं यत्नेन स्वरूपतो हृदयेनानु– प्रवेष्टव्यम् । तथा नाटकानां (नटानां) पारम्पर्यात्मकं वृत्तं नाट्यं धर्माम्नायरूपं च । तच्च सुखदुःखाभ्यां फलरूपाभ्यां सम्यगन्वितम् । तेषां पश्चाद्भावित्वात् ।
Notes
(मू) 1.म. इदं पद्यद्वयं न दृश्यते । त. ब. द्वितीयं पद्यं न दृश्यते । द्वयोरपि व्याख्या नास्ति ।
(व्या)
1अपूजयित्वा रङ्गं तु यः प्रेक्षां कल्पयिष्यति ।
2निष्फलं तस्य तत् ज्ञानं तिर्यग्योनिं च यास्यति3 ।। १२३ ।।
यज्ञेन संमि4तं ह्येतद्रङ्गदैवतपूजनम् ।
तस्मात्सर्वप्रयत्नेन कर्तव्यं 5नाट्ययोक्तृभिः ।। १२४ ।।
नर्तकोऽर्थपतिर्वापि यः पूजां न करिष्यति ।
6न कारयिष्यत्यन्यैर्वा प्राप्नोत्यपचयं7 तु सः ।। १२५ ।।
यथाविधि 8यथादृष्टं यस्तु पूजां करिष्यति ।
स लप्स्यते शुभानर्थान् स्वर्गलोकं च 9यास्यति ।। १२६ ।।
Abh
तेन हेयोपादेयव्युत्पत्तिः फलम् । एतच्च वितत्याग्रे भावस्वरूपं निरूपयिष्यामः । (११८-११९) ।
एवं सान्त्वेनापसारितेष्वपि विघ्नेषु दिव्यनिदेशना1नाममोधत्वात् पूर्वविनियुक्त– देवतां2शानां तत्र तत्र सन्निधानाद्यजनमवश्यकार्यमिति प्रदर्शयितुक्तमेवेतिहासमनु– सन्धन्निरूपयति–एतस्मिन्रिति । अन्तर इति समये । विधिवदिति व्याचष्टे– बलिप्रदानै– रित्यादि । बल्यन्ते आप्याय्यन्ते देवता अनेनेति बलिः । विचित्रवर्णतण्डुलादिरचनाविशेषः । 3तिलादयश्चाग्नौ हूयन्त इति होमाः । उभयत्र विशेषणं मन्त्रौषधीति । मन्त्रा वक्ष्यमाणाः । ओषधयो वचाबलाजमोदप्रभृतयः । प्रशस्तानि धान्यानि च । खरविशदं शष्कुलीमोदकादि भोज्यं भक्ष्यमुच्यते । भक्षणीयन्तु भक्ष्यं पायसकृसरादि । पानानि क्षीरक्षुद्राक्षारसादीनि । बलिः पूर्वोक्तो रचनाविशेषः । एतैविच्छित्तियोजितैर्विविधतया कल्प्यताम् । शोभाप्रधानं हि नाट्ये सर्वम् ।
ननु देवानां देवपूजाकरणे किं फलमित्याह–मर्त्यलोकगता इत्यादि । यद्यदाचरति श्रेष्ठ इति न्यायादिति भावः । प्रवर्तयोदिति । देवानुष्ठिताचारानुवर्तित्वात् । लोक इति शेषः । (१२०-१२२) ।
ननु यदि लोकः सदाचारं नानुवर्तेत ततः किमित्याह–अपूजयित्वेति ।
Notes
(मू)
(व्या)
1 एवमुक्त्वा तु भगवान्द्रुहिणः सहदैवतैः ।
रङ्गपूजां कुरुष्वेति मामेवं समचोदयत् ।। १२७ ।।
इति भारतीये नाट्यशास्त्रे नाट्योत्पत्ति2र्नाम प्रथमोऽध्यायः।।
Abh
निष्फलमिति । तस्येति । नाट्याचार्यस्य । पारलौकिकमपि प्रत्यवायमाह–तिर्यग्योनिं चेति । (१२३) ।
ननु यद्यपूजेन प्रत्यवायस्तर्हि पूजने किं तन्निवृत्तिमात्रं फलम् । नेत्याह– यथा विधीति । यथा देवैर्विहिता । कथमेतज्ज्ञायत इत्याह– यथादृष्टमिति शास्त्रदृष्टोऽसौ विधिरित्यर्थः । अर्थान् शुभानिति । ऐहलौकिकधनमानप्रसिद्धिलाभ उक्तः । (१२४-१२६)
एवं मर्त्यान्प्रत्याभिधाय प्रकृतमेव पुराकल्पमनुसन्धत्ते–एवमुक्त्वेति। नाट्या– चार्यस्यैव देवयजनेऽधिकारः । तस्यैव फललाभः । कवेः प्रेक्षाप्रवर्तयितुश्च तत्प्रोक्तृत्वमित्यनेनोक्तम् । रज्यतेऽनेनेति रङ्गो नाट्यम् । तदाधारत्वान्मण्डपः । तदधिष्ठातृत्वाच्च देवता अपीति मण्डपाध्यायस्य द्वितीयस्योपोद्धातं करोतीति 1शिवम् । (१२७)
त्रिणेत्रपादाब्जसदास्तवो2 (समाश्रयो)ल्लस–
त्प्रसादभाक्स्फुटमिह नाट्यशासने ।
प्रवर्तितेयं हृदये महाधियां
प्रकाशतामभिनवगुप्तभारती ।।
इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायामभिनवभारत्यां भारतीय– नाट्यशास्त्रविवृतौ नाट्योत्पत्तिर्नामः प्रथमोऽध्यायः ।।
Notes
(मू.)
(व्या)