दशरूपकम्

[[दशरूपकम् Source: EB]]

[

[TABLE]

विक्रीस तयार.

<MISSING_FIG href="../books_images/U-IMG-1724574108IMG_20240825_135051.png"/>

निर्णयसागर छापखान्यांतील पुस्तकें.
संस्कृत.

[TABLE]

थकृत घण्टापथ टीकेसहित तुलसीमाहात्म्य
कुमारसंभव काव्य-कालिदासकृत, मल्लिनाथकृत (१-८ सर्ग) व सीतारामकृत (८-१७सर्ग) संजीविनी टीकेसहित त्रिकालसंध्या हिरण्यकेशीया (आपस्तंबी)
कुवलयानंदकारिका-आशाधरकृत, स्वकृत अलंकारदीपिका टीकेसहित त्रिकालसंध्या हिरण्यकेशीया ऋग्वेदीया
कृष्णसहस्रनाम दत्तात्रेयसहस्रनामावलि
गंगालहरीमूल दत्तात्रेयस्तोत्र
गणपतिस्तोत्र दमयंतीकथा (नलचंपू ) त्रिविक्रमभट्टकृत, चण्डपालकृत विषमपदप्रकाश टीकेसहित
गणेशाष्टक दशकुमारचरित-दण्डिकृत, पूर्वपीठिका, उतरपीठिका, कवीन्द्रनसरस्वतीकृत पदचन्द्रिका टीका, शिवरामकृत भूषणा टीका, लघुदीपिका टीका (दशकुमारचरितावर) व पदचन्द्रिका टीका (पूर्वपीठिकेवर) यांसहित
गणेशगीता (साधी) दुर्गास्तोत्र-नारायणभट्ट पर्वणीकरकृत
गणेशगीता(रे.पु.). देवीसहस्रनामावलि
गणेशसहस्रनामावलि द्वादशस्तोत्र-भगवत्पादाचार्यकृत
चतुःश्लोकी भागवत जैनस्तोत्रसंग्रह (यांत भक्तामरस्तोत्र, कल्याणमंदिरस्तोत्र, एकीभावस्तोत्र, विपापहारस्तोत्र व जिनचतुर्विशतिका इतकीं स्तोत्रें आहेत.) धातुरूपावलि
ज्योतिर्लिंगस्तोत्र व शिवमानसपूजा श्रीहर्षविरचित नैषधीयचरित-नैषधीयप्रकाशाख्य (नारायणी) टीकेसहित
तर्ककौमुदी-लौगाक्षिभास्करकृत नर्मदाष्टकस्तोत्र-शंकराचार्यकृत
तर्कसंग्रह-अन्नंभट्टकृत, स्वकृत दीपिका टीका, व इंग्रजी भाषांतर यांसहित नारदभक्तिसूत्रें
नीतिशतक-भर्तृहरिकृत, कृष्णशास्त्री महाबलकृत टीकेसहित
नीति-शृङ्गार-वैराग्य-शतकें-भर्तृहरिकृत, कृष्णशास्त्री महाबलकृत टीकेसहित॥ भगवद्गीता(मध्यमाक्षर रे. पु.)
पंचरत्नी गीता (यांत भगवद्गीता, विष्णुसहस्रनाम, भीष्मस्तवराज, अनुस्मृति व गजेंद्रमोक्ष इतकीं प्रकरणें आहेत) (रे. पु .) (स्थूलाक्षर) भगवद्गीता(सूक्ष्माक्षर)
पंचरत्नी गीता (यांत भगवद्गीता, विष्णुसहस्रनाम, भीष्मस्तवराज, अनुस्मृति व गजेंद्रमोक्ष इतकीं प्रकरणें आहेत) (रे. पु .) (मध्यमाक्षर ) साधी (मध्यमाक्षर )
पंचरत्नी गीता (यांत भगवद्गीता, विष्णुसहस्रनाम, भीष्मस्तवराज, अनुस्मृति व गजेंद्रमोक्ष इतकीं प्रकरणें आहेत) (रे. पु .) (सूक्ष्माक्षर) ” बुसाईज (म.अ.)
पंचरत्नी गीता (यांत भगवद्गीता, विष्णुसहस्रनाम, भीष्मस्तवराज, अनुस्मृति व गजेंद्रमोक्ष इतकीं प्रकरणें आहेत) (रे. पु .) (साधी) ” शंकरानंदसरस्वतीकृत गीतातात्पर्यबोधिनी टीकेसहित
पंचायतन देवाची पृथक् पृथक् अष्टोत्तरशत नामावलि भट्टिकाव्य-भट्टिकृत,जयमङ्गलकृत जयमङ्गला टीकेसहित
पांडवगीता भट्टिकाव्याचा १४ वा व १५ वा सर्ग इंग्रजी टीपांसहित. प्रत्येक सर्गास
पार्वतीपरिणय नाटकबाणकृत पंडितराज जगन्नाथ विरचित भामिनीविलास काव्य अच्युतराव मोडककृत प्रणयप्रकाश टीकेसहित
प्रश्नोत्तरपयोनिधि-बलरामदासमुनिकृत मनुस्मृति-कुल्लूकभट्टकृत मन्वर्थमुक्तावलि टीकेसहित
प्रसन्नराघव नाटक-जयदेवकृत महालक्ष्म्यष्टक
प्रातःस्मरण महावीरचरितनाटक-भवभूतिकृत, वीरराघवकृत टीकेसहित
पुरुषोत्तम सहस्रनाम मालतीमाधव नाटक-भवभूतिकृत, त्रिपुरारिकृत टीका, नान्यदेवकृत टीका व जगद्धरकृत टीका यांसहित
बृहत्स्तोत्ररत्नाकरः (सचित्र) कापडी मालविकाग्निमित्र नाटक-कालिदासकृत, काटयवेमकृत टीकेसहित॥
” (कागदी) मालविकाग्निमित्र नाटक–इंग्रजी टीपांसहित
ब्रह्मनामावलि–शंकराचार्यकृत विशाखदत्तविरचित मुद्राराक्षस नाटक, धुंडिराजकृत टीकेसहित॥
श्रीमद्भागवत मूल(रेशमी गुटका ) मेघदूत काव्य–कालिदा-
भगवद्गीता (रेशमी पुठ्ठा स्थूलाक्षर )

THE

DAS’ARÛPAKA
OF

DHANANJAYA

WITH
The Commentary of Dhanika.

<MISSING_FIG href="../books_images/U-IMG-1725030563IMG_20240830_203615.png"/>

EDITED BY

KÂSHÎNÂTH PÂNDURANG PARAB.

<MISSING_FIG href="../books_images/U-IMG-1725031303IMG_20240830_205056.png"/>
PRINTED AND PUBLISHED

BY

TUKÂRÂM JÂVAJÎ

PROPRIETOR OF JÂVAJÎ DÂDÂJÎ’S “NIRṆAYA-SÂGAR” PRESS,

Bombay:

————-
1897.

————-
Price 12 Annas.

(Registered according to act XXV of 1867)

(All rights reserved by the publisher.)

॥श्रीः॥

<MISSING_FIG href="../books_images/U-IMG-1725172533IMG_20240830_205056.png"/>
श्रीधनंजयविरचितं
दशरूपकम्।
धनिककृतयावलोकाख्यया व्याख्यया समेतम्।

<MISSING_FIG href="../books_images/U-IMG-1724985310IMG_20240829_233345.png"/>
काशीनाथ पाण्डुरङ्ग परब
इत्यनेन संस्कृतम्।

<MISSING_FIG href="../books_images/U-IMG-1725172656IMG_20240830_205056.png"/>
तच्च

शाके १८१९ वत्सरे

मुम्बय्यां
निर्णयसागरयन्त्रालयाधिपतिना स्वकीये मुद्रायन्त्रे
मुद्रापयित्वा प्राकाश्यं नीतम्।

————
मूल्यं १२ आणकाः।

दशरूपकविषयानुक्रमणिका।

<MISSING_FIG href="../books_images/U-IMG-1724573859IMG_20240825_134659.png"/>

**प्रथमः प्रकाशः ** प्रकाशे
मङ्गलाचरणम् १–२
श्रोतृप्रवृत्तिनिमित्तम्
ग्रन्थकर्तृप्रवृत्तिनिमित्तम्
पौनरुक्त्यपरिहारः
दशरूपकफलम्
नाट्यलक्षणम्
रूपलक्षणम्
रूपकलक्षणम्
भेदसंख्यानियमनम्
दशभेदनामकथनम्
नृत्यलक्षणम्
नृत्तलक्षणम्
नृत्यनृत्तयोर्द्वैविध्यम् १०
रूपाणां भेदकनिरूपणम् ११
वस्तुनो द्वैविध्यम् ११
आधिकारिकनिरूपणम् १२
प्रासङ्गिकनिरूपणम् १३
प्रासङ्गिकस्य द्वैविध्यम् १३
पताकास्थानकम् १४
आधिकारिकपताकाप्रकरीणां त्रिविधत्वम् १५
इतिवृत्तफलम् १६
इतिवृत्तसाधनम् १७
अवान्तरबीजसंज्ञान्तरम् १७
प्रयोजनसिद्धिहेतवः १८
प्रकाशे श्लोकः
अवस्थापञ्चकम् १९
आरम्भलक्षणम् २०
प्रयत्नलक्षणम् २०
प्राप्त्याशालक्षणम् २१
नियताप्तिलक्षणम् २१
फलयोगलक्षणम् २२
संधिलक्षणम् २३
संधिभेदनामानि २४
मुखलक्षणम् २४
मुखभेदकथनम् २५
मुखभेदनामानि २५-२६
उपक्षेपलक्षणम् २७
परिकरलक्षणम् २७
परिन्यासलक्षणम् २७
विलोभनलक्षणम् २७
युक्तिलक्षणम् २८
प्राप्तिलक्षणम् २८
समाधानलक्षणम् २८
विधानलक्षणम् २८
परिभावनालक्षणम् २९
उद्भेदलक्षणम् २९
करणलक्षणम् २९
भेदलक्षणम् २९
प्रतिमुखलक्षणम् ३०
प्रतिमुखाङ्गसंख्याकथनम् ३०
प्रतिमुखाङ्गनामानि ३१
विलासलक्षणम् ३२
परिसर्पलक्षणम् ३२-३३
प्रकाशे श्लोकः
विधूतलक्षणम् ३३
शमलक्षणम् ३३
नर्मलक्षणम् ३३
नर्मद्युतिलक्षणम् ३३
प्रगमनलक्षणम् ३४
निरोधलक्षणम् ३४
पर्युपासनलक्षणम् ३४
पुष्पलक्षणम् ३४
उपन्यासलक्षणम् ३५
वज्रलक्षणम् ३५
वर्णमहाराणम् ३५
गर्भसंधिलक्षणम् ३६
गर्भसंध्यङ्गनामानि ३७
अभूताहरणलक्षणम् ३८
मार्गलक्षणम् ३८
रूपलक्षणम् ३९
उदाहरणलक्षणम् ३९
क्रमलक्षणम् ३९
संग्रहलक्षणम् ४०
अनुमानलक्षणम् ४०
अधिबललक्षणम् ४०
तोटकलक्षणम् ४०
तोटकलक्षणान्तरे ४१
उद्वेगलक्षणम् ४२
संभ्रमलक्षणम् ४२
आक्षेपलक्षणम् ४२
अवमर्शलक्षणम् ४३
अवमर्शाङ्गनामानि ४४
प्रकाशे श्लोकः
अपवादलक्षणम् ४५
संफेटलक्षणम् ४५
विद्रवलक्षणम् ४५
द्रवलक्षणम् ४५
शक्तिलक्षणम् ४६
द्युतिलक्षणम् ४६
प्रसङ्गलक्षणम् ४६
छलनलक्षणम् ४६
व्यवसायलक्षणम् ४७
विरोधनलक्षणम् ४७
प्ररोचनालक्षणम् ४७
विचलनलक्षणम् ४८
आदानलक्षणम् ४८
निर्वहणसंधिलक्षणम् ४८
निर्वहणाङ्गनामानि ४९–५०
संधिलक्षणम् ५१
विबोधलक्षणम् ५१
ग्रथनलक्षणम् ५१
निर्णयलक्षणम् ५१
परिभाषणलक्षणम् ५२
प्रसादलक्षणम् ५२
आनन्दलक्षणम् ५२
समयलक्षणम् ५२
कृतिलक्षणम् ५३
भाषणलक्षणम् ५३
पूर्वभावलक्षणम् ५३
उपगूहनलक्षणम् ५३
काव्यसंहारलक्षणम् ५४
प्रकाशे श्लोकः
प्रशस्तिलक्षणम् ५४
अङ्गप्रयोजनभेदकथनम् ५४
षट्प्रयोजननामानि ५५
पुनर्वस्तुविभागकथनम् ५६
सूच्यलक्षणम् ५७
दृश्यश्रव्यलक्षणम् ५७
सूच्यप्रतिपादनप्रकारकथनम् ५८
विष्कम्भलक्षणम् ५९
विष्कम्भद्वैविध्यम् ६०
प्रवेशकलक्षणम् ६०
चूलिकालक्षणम् ६१
अङ्कास्यलक्षणम् ६२
अङ्कावतारलक्षणम् ६२
पुनर्वस्त्रैविध्यकथनम् ६३
सर्वश्राव्यलक्षणम् ६३
स्वगतलक्षणम् ६४
नियतश्राव्यभेदकथनम् ६५
जनान्तिकलक्षणम् ६६
अपवारितलक्षणम् ६६
आकाशभाषितलक्षणम् ६७
वस्तुभेदोपसंहारकथनम् ६८
**द्वितीयः प्रकाशः **
नायकभेदकथनम् १-२
विनीतः
मधुरः
त्यागी
दक्षः
प्रियंवदः
प्रकाशे श्लोकः
रक्तलोकः
वाङ्मी(ग्ग्मी)
रूढवंशः
स्थिरः
युवा
नेतृविशेषकथनम्
ललितः
शान्तः
धीरोदात्तः
धीरोद्धतः
शृङ्गारनायकभेदाः
दक्षिणः
शठः
धृष्टः
अनुकूलः
सहायाः
प्रतिनायकः
सात्त्विका नायकगुणाः १०
नीचे घृणा ११
गुणाधिके स्पर्धा ११
शौर्यशोभा ११
दक्षशोभा ११
विलासः ११
माधुर्यम् १२
गाम्भीर्यम् १२
स्थैर्यम् १३
तेजः १३
ललितम् १४
प्रकाशे श्लोकः
औदार्यम् १४
नायिकाभेदाः १५
स्वीयालक्षणभेदाः १५
शीलवती १५
आर्जवादियोगिनी १५
लज्जावती १५
मुग्धा १६
वयोमुग्धा १६
काममुग्धा १६
रतवामा १६
कोपमृदुः १६
मध्या १६
यौवनवती १६
कामवती १६
मध्यासंभोगः १६
मध्यामानवृत्तिः १७
धीरामध्यामानवृत्तिः १७
धीराधीरामध्यामानवृत्तिः १७
अधीरामध्यामानवृत्तिः १७
प्रगल्भा १८
गाढयौवना १८
भावप्रगल्भा १८
रतप्रगल्भा १८
प्रगल्भाकोपचेष्टा १९
सावहित्थादरा १९
रतावुदासीना १९
अधीरप्रगल्भा १९
धीराधीरप्रगल्भा १९
प्रकाशे
मध्याप्रगल्भयोर्द्वादशविधत्वम् २०
परकीया २०
साधारणस्त्री २१
साधारणस्त्रीव्यवहारः २२
अस्या निबन्धनियमः २३
नायिकाभेदान्तराणि २३
स्वाधीनपतिका २४
वासकसज्जा २४
विरहोत्कण्ठिता २५
खण्डिता २५
कलहान्तरिता २६
विप्रलब्धा २६
प्रोषितभर्तृका २७
अभिसारिका २७
खण्डितादीनां चिन्तादियुक्तत्वम् २८
स्वाधीनपतिका-वासकसज्जयोर्व्रीडादियुक्तत्वम् २८
नायिकासहायिन्यः २९
योषिदलंकाराः ३०
शरीरजालंकाराः ३१
सप्त भावा अयत्नजाः ३२
दश भावाः स्वभावजाः ३४
हावः ३४
शोभा ३५
कान्तिः ३५
माधुर्यम् ३६
दीप्ति ३६
प्रागल्भ्यम् ३६
प्रकाशे श्लोकः
औदार्यम् ३६
धैर्यम् ३७
लीला ३७
विलासः ३८
विभ्रमः ३८
किलकिञ्चितम् ३९
मोट्टायितम् ३९
कुट्टमितम् ४०
विब्बोकः ४०
ललितम् ४१
विहृतम् ४१
नायकसहायाः ४२
सहायविभागः ४२
धर्मसहायाः ४३
दण्डसहायाः ४३
अन्तःपुरसहायाः ४४
नायकादीनां विशेषः ४४
नायकव्यापारः ४५
नर्माष्टादशभेदाः ४७
वचोहास्यनर्म ४८–५०
वेषनर्म ५०
क्रियानर्म ५०
शृङ्गारवदात्मोपक्षेपनर्म ५०
संभोगनर्म ५०
माननर्म ५०
भयनर्म ५०
नर्मस्फिञ्जः ५१
प्रकाशे श्लोकः
नर्मस्फोटः ५१
नर्मगर्भः ५२
सात्त्वती ५३
सात्त्वत्यङ्गानि ५३
संलापकः ५४
उत्थापकः ५४
साङ्घात्यः ५५
परिवर्तकः ५५
आरभटीलक्षणम् ५६
आरभट्यङ्गानि ५६
संक्षिप्तिका ५७
संफेटः ५८
वस्तूत्थापनम् ५९
अवपातः ५९
वृत्त्युपसंहारः ६०–६१
वृत्तिनियमः ६२–६४
संस्कृतादिपाठ्यं प्रति विशेषः ६४
आमन्त्रणप्रकारः ६७
**तृतीयः प्रकाशः **
नाटकस्यैव पूर्वोक्तौ हेतुः
नस्य पूर्वकर्तव्यता
सूचननियमः
रङ्गं प्रसाद्य भारतीवृत्त्याश्रयणम्
भारतीभेदनामानि
प्ररोचना
वीथ्यङ्गानि
कथोद्घातः
प्रवृत्तकम् १०
प्रकाशे श्लोकः
प्रयोगातिशयः ११
वीथ्यङ्गनामानि १२
उद्घात्यलक्षणभेदाः १३
अवलगितम् १४
प्रपञ्चः १५
त्रिगतम् १६
छलनम् १७
वाक्केली १७
अधिबलम् १८
गण्डः १८
अवस्यन्दितम् १९
नालिका १९
असत्प्रलापः २०
व्याहारः २०
मृदुवम् २१
प्रस्तावनोत्तरं सूत्रधारव्यापारः २२
नायकविशेषे विधेयविशेषः २३
नायकरसानुचितं त्याज्यम् २४
संधिविभागकरणम् २५
अङ्गसंख्यान्यासौ २६
विष्कम्भकादिकरणम् २८
विष्कम्भकनियमाः २९
अङ्करचनानियमाः ३०
अङ्कलक्षणम् ३०
अङ्गिपरिपोषणप्रकारः ३१
वस्तुविच्छेदनिषेधः ३२
रसतिरोधाननिषेधः ३३
मुख्यतया वीरशृङ्गारान्यतररसाश्रयणम् ३३
प्रकाशे श्लोकः
अन्यरसानामङ्गतैव ३४
प्रत्यक्षमनिर्देश्यानि ३५
नायकवधसूचननिषेधः ३६
आवश्यकं न त्याज्यम् ३६
अङ्के पात्रसंख्या ३७
अङ्कान्ते पात्रनिर्गमः ३७
अङ्करचनप्रकारः ३७
नाटकेऽङ्कसंख्या ३८
प्रकरणे विषयाः ३९
प्रकरणे वर्णनीयनायिका ४१
नाटिकाविषयनिर्णयः ४३
नाटिकायां विशेषः ४५
नाटिकायां प्राप्यनायिका ४६
नाटिकायां नायकः ४७
नाटिकायां वृत्तिनियमः ४८
भाणविषयाः ४९
लास्याङ्गानि ५२
प्रहसनभेदनामानि ५४
शुद्धप्रहसनम् ५५
विकृतसंकीर्णप्रहसने ५५-५६
प्रहसने हास्यरसः ५६
डिमे विषयनियमाः ५७
व्यायोगे विषयनियमाः ६०
समवकारे विषयनियमाः ६२
विथ्यां विषयनियमाः ६८
अङ्के विषयनियमाः ७०
ईहामृगे विषयनियमाः ७२
प्रकाशे श्लोकः
**चतुर्थः प्रकाशः **
रसनिरूपणम्
विभावलक्षणभेदौ
आलम्बनविभावः
उद्दीपनविभावः
अनुभावः
भावः
सात्त्विकभावलक्षणम्
स्तम्भादिसात्त्विकभावानां नामलक्षणे ५–६
व्यभिचारिभावलक्षणम्
व्यभिचारिभावनामानि
निर्वेदः
ग्लानिः १०
शङ्का ११
श्रमः १२
धृतिः १२
जडता १३
हर्षः १४
दैन्यम् १४
औग्र्यम् १५
चिन्ता १६
त्रासः १६
असूया १७
अमर्षः १८
गर्वः १९
स्मृतिः २०
मरणम् २१
मदः २१
प्रकाशे श्लोकः
सुप्तम् २२
निद्रा २३
विबोधः २४
व्रीडा २४
अपस्मारः २५
मोहः २६
मतिः २७
आलस्यम् २७
आवेगः सभेदः २८
वितर्कः २८
अवहित्थम् २९
व्याधिः २९
उन्मादः ३०
विषादः ३१
औत्सुक्यम् ३२
चापलम् ३३
स्थायी ३४
स्थायिनामानि ३४
शान्तरसे शमस्थायिनि विप्रतिपत्तिः ३५
स्थायिभावोपसंहारः ३६
काव्येषु स्थायिभावस्यैव वाक्यार्थत्वम् ३७
रसिकमात्रवृत्तित्वं रसस्य ३८
धीरोदात्ताद्यवस्थाप्रतिपादकाः ४०
धीरोदात्ताद्यवस्थानामेव रसहेतुत्वम् ४१
श्रोतॄणामावादहेतुत्वम् ४२
नर्तकेऽप्यास्वादः ४२
आस्वादस्य लक्षणं भेदाश्च ४३
शमस्यानिर्वचनीयता ४५
प्रकाशे श्लोकः
विभावाद्युपसंहारः ४६
रसभावयोर्लक्षणैक्यप्रतिज्ञा ४७
शृङ्गार ४८
भावसंख्या ४९
शृङ्गारस्य भेदाः ५०
अयोगः ५०
तस्य दशावस्था ५१
अभिलाषः ५३
दर्शनश्रवणे ५४
वृत्तीनां दशावस्थानामपि महाकविनिबन्धेष्वनेकविधत्वम् ५४
दिङ्मात्रम् ५५
विप्रयोगद्वैविध्यम् ५६
मानद्वैविध्यम् ५७
प्रणयमानः ५८
ईर्ष्यामानत्रैविध्यम् ५८
श्रुतिः ५९
आनुमानिकस्त्रिविधः ५९
दृष्टः ६०
मानोपचारः ६०
साम ६१
भेदः ६२
दानम् ६२
सामादीनां कार्यासाधकत्वे उपेक्षा ६३
रभसादिना कोपनाशे रसान्तरत्वम् ६३
कार्यजप्रवासविप्रयोगस्त्रिधा ६४
संभ्रमजप्रवासविप्रयोगः ६६
शापजप्रवासः ६६
मृते तु शोक एव न शृङ्गारः ६७
प्रकाशे श्लोकः
उत्का ६८
प्रोपितप्रिया ६८
कलहान्तरिता ६८
खण्डिता ६८
संभोगः ६९
संभोगे लीलाद्या दश चेष्टाः ७०
नायककर्तव्यम् ७१
वीरस्त्रिधा ७२
रौद्रस्त्रिधा ७३
हास्यस्त्रिधा ७४
स्मितम् ७५
हसितम् ७६
विहसितम् ७६
उपहसितम् ७६
अपहसितम् ७६
अतिहसितम् ७७
उत्तममध्यमाधमभेदेन हसितभेदाः ७७
हासव्यभिचारिणः ७७
अद्भुतः ७८
अद्भुतानुभावव्यभिचारिणः ७८
भयानकः ७९
भयानकानुभावव्यभिचारिणः ८०
करुणः ८०
करुणानुभावव्यभिचारिणः ८१
प्रीतिभक्त्यादीनामन्तर्भावः ८२
भूषणादीनामन्तर्भावः ८३
सर्वस्यापि रसभावोपादानम् ८५
ग्रन्थसमाप्तिः ८६

——————

॥श्रीः॥
श्रीधनंजयविरचितं

दशरूपकम्

धनिककृतयावलोकाख्यया व्याख्यया समेतम्

<MISSING_FIG href="../books_images/U-IMG-1726052239654.png"/>

प्रथमः प्रकाशः।

इह सदाचारं प्रमाणयद्भिरविघ्नेन प्रकरणस्य समाप्त्यर्थमिष्टयोः प्रकृताभिमतदेवतयोर्नमस्कारः क्रियते श्लोकद्वयेन—

नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते।
मदाभोगघनध्वानो नीलकण्ठस्य ताण्डवे॥१॥

यस्य कण्ठः पुष्करायते मृदङ्गवदाचरति। मदाभोगेन घनध्वानो निबिडध्वनिः। नीलकण्ठस्य शिवस्य ताण्डव उद्धते नृत्ते। तस्मै गणेशाय नमः। अत्र खण्डश्लेषाक्षिप्यमाणोपमाच्छायालंकारः। नीलकण्ठस्य मयूरस्य ताण्डवे यथा मेघध्वनिः पुष्करायत इति प्रतीतेः॥

दशरूपानुकारेण यस्य माद्यन्ति भावकाः।
नमः सर्वविदे तस्मै विष्णवे भरताय च॥२॥

एकत्र मत्स्यकूर्मादिप्रतिमानामुद्देशेन,अन्यत्रानुकृतिरूपनाटकादिना यस्य भावका ध्यातारो रसिकाश्च माद्यन्ति हृप्यन्ति तस्मै विष्णवेऽभिमताय प्रकृताय भरताय च नमः॥
श्रोतुः प्रवृत्तिनिमित्तं प्रदर्श्यते—

कस्यचिदेव कदाचिद्दयया विषयं सरस्वती विदुषः।
घटयति कमपि तमन्यो व्रजति जनो येन वैदग्धीम्॥३॥

तं कंचिद्विषयं प्रकरणादिरूपं कदाचिदेव कस्यचिदेव कवेः सरस्वती योजयति। येन प्रकरणादिना विषयेणान्यो जनोविदग्धो भवति॥
स्वप्रवृत्तिविषयं दर्शयति—

उद्धृत्योद्धृत्य सारं यमखिलनिगमान्नाट्यवेदं विरिञ्चि–
श्चक्रे यस्य प्रयोगं मुनिरपि भरतस्ताण्डवं नीलकण्ठः।
शर्वाणी लास्यमस्य प्रतिपदमपरं लक्ष्म कः कर्तुमीष्टे
नाट्यानां किंतु किंचित्प्रगुणरचनया लक्षणं संक्षिपामि॥४॥

यं नाट्यवेदं वेदेभ्यः सारमादाय ब्रह्मा कृतवान्, यत्संबद्धमभिनयं भरतश्चकार करणाङ्गहारानकरोत्,हरस्ताण्डवमुद्धतं लास्यं सुकुमारं नृत्तं पार्वती कृतवती,तस्य सामस्त्येन लक्षणं कर्तुं कः शक्तः। तदेकदेशस्य तु दशरूपस्य संक्षेपः क्रियत इत्यर्थः॥

विषयैक्यप्रसक्तं पौनरुक्तयं परिहरति—

व्याकीर्णे मन्दबुद्धीनां जायते मतिविभ्रमः।
तस्यार्थस्तत्पदैस्तेन संक्षिप्य क्रियतेऽञ्जसा॥५॥

व्याकीर्णे विक्षिप्ते विस्तीर्णे च रसशास्त्रे मन्दबुद्धीनां पुंसां मतिमोहो भवति, तेन तस्य नाट्यवेदस्यार्थस्तत्पदैरेव संक्षिप्य ऋजुवृत्त्या क्रियत इति॥

इदं प्रकरणं दशरूपज्ञानफलम्। दशरूपं किंफलमित्याह—

आनन्दनिस्यन्दिषु रूपकेषु व्युत्पत्तिमात्रं फलमल्पबुद्धिः।
योऽपीतिहासादिवदाहसाधुस्तस्मै नमः स्वादुपराङ्मुखाय॥६॥

तत्र केचित् ‘धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च। करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम्॥’ इत्यादिना त्रिवर्गादिव्युत्पत्ति काव्यफलत्वेनेच्छन्ति तन्निरासेन स्वसंवेद्यः परमानन्दरूपो रसास्वादो दशरूपाणां फलम्, न पुनरितिहासादिवत्त्रिवर्गादिव्युत्पत्तिमात्रमिति दर्शितम्। नम इति सोल्लुण्ठम्॥

‘नाट्यानां लक्षणं संक्षिपामि’ इत्युक्तम्। किं पुनस्तन्नाट्यमित्याह—

अवस्थानुकृतिर्नाट्यं

काव्योपनिबद्धधीरोदात्ताद्यवस्थानुकारश्चतुर्विधाभिनयेन तादात्म्यापत्तिर्नाट्यम्॥

रूपं दृश्यतयोच्यते।

तदेव नाट्यं दृश्यमानतया रूपमित्युच्यते। नीलादिरूपवत्॥

रूपकं तत्समारोपाद्

नटे रामाद्यवस्थारोपेण वर्तमानत्वाद्रूपकम्। मुखचन्द्रादिवदित्येकस्मिन्नर्थे प्रवर्तमानस्य शब्दत्रयस्य ‘इन्द्रः पुरंदरः शक्रः’ इतिवत्प्रवृत्तिनिमित्तभेदो दर्शितः॥

दशधैव रसाश्रयम्॥७॥

रसानाश्रित्य वर्तमानं दशप्रकारकम्। एवेत्यवधारणं शुद्धाभिप्रायेण नाटिकायाः संकीर्णत्वेन वक्ष्यमाणत्वात्॥

तानेव दशभेदानुद्दिशति—

नाटकं सप्रकरणं भाणः प्रहसनं डिमः।
व्यायोगसमवकारौ वीथ्यङ्केहामृगा इति॥८॥

ननु ‘डोम्बी श्रीगदितं भाणो भाणीप्रस्थानरासकाः। काव्यं च सप्त नृत्यस्य भेदाः स्युस्तेऽपि भाणवत्॥’ इति रूपकान्तराणामपि भावादवधारणानुपपत्तिरित्याशङ्क्याह—

अन्यद्भावाश्रयं नृत्यं

रसाश्रयान्नाट्याद्भावाश्रयं नृत्यमन्यदेव। तत्र भावाश्रयमिति विषयभेदान्नृत्यमिति नृतेर्गात्रविक्षेपार्थत्वेनाङ्गिकबाहुल्यात्तत्कारिषु च नर्तकव्यपदेशाल्लोकेऽपि चात्र प्रेक्षणीयकमिति व्यवहारान्नाटकादेरन्यन्नृत्यम्। तद्भेदत्वाच्छ्रीगदितादेरवधारणोपपत्तिः। नाटकादि च रसविषयम्। रसस्य च पदार्थभूतविभावादिकसंसर्गात्मवाक्यार्थहेतुकत्वाद्वाक्यार्थाभिनयात्मकत्वं रसाश्रयमित्यनेन दर्शितम्। नाट्यमिति च ‘नट अवस्पन्दने’ इति नटेःकिंचिच्चलनार्थत्वात्सात्त्विकबाहुल्यम्। अतएव तत्कारिषु नटव्यपदेशः। यथा च गात्रविक्षेपार्थत्वे समानेऽप्यनुकारात्मकत्वेन नृत्तादन्यन्नृत्यं तथा वाक्यार्थाभिनयात्मकान्नाट्यात्पदार्थाभिनयात्मकमन्यदेव नृत्यमिति॥

प्रसङ्गान्नृत्तं व्युत्पादयति—

नृत्तं ताललयाश्रयम्।

तालश्चञ्चत्पुटादिः। लयो द्रुतादिः। तन्मात्रापेक्षोऽङ्गविक्षेपोऽभिनयशून्यो नृत्तमिति॥

अनन्तरोक्तं द्वितयं व्याचष्टे—

आद्यं पदार्थाभिनय मार्गो देशी तथा परम्॥९॥

नृत्यं पदार्थाभिनयात्मकं मार्ग इति प्रसिद्धम्। नृत्तं च देशीति॥

द्विविधस्यापि द्वैविध्यं दर्शयति—

मधुरोद्धतभेदेन तद्द्वयं द्विविधं पुनः।
लास्यताण्डवरूपेण नाटकाद्युपकारकम्॥१०॥

सुकुमारं द्वयमपि लास्यमुद्धतं द्वितयमपि ताण्डवमिति। प्रसङ्गोक्तस्यो-

पयोगं दर्शयति—तच्च नाटकाद्युपकारकमिति। नृत्यस्य क्वचिदवान्तरपदार्थाभिनयेन नृत्तस्य च शोभाहेतुत्वेन नाटकादावुपयोग इति॥

अनुकारात्मकत्वेन रूपाणामभेदात्किंकृतो भेद इत्याशङ्क्याह—

वस्तु नेता रसस्तेषां भेदको

वस्तुभेदान्नायकभेदाद्रसभेदाद्रूपाणामन्योन्यं भेद इति॥

वस्तुभेदमाह—

वस्तु च द्विधा।

कथमित्याह—

तत्राधिकारिकं मुख्यमङ्गं प्रासङ्गिकं विदुः॥११॥

प्रधानभूतमाधिकारिकम्। यथा रामायणे रामसीतावृत्तान्तः। तदङ्गभूतं प्रासङ्गिकम्। यथा तत्रैव विभीषणसुग्रीवादिवृत्तान्त इति॥

निरुक्त्याधिकारिकं लक्षयति—

अधिकारः फलस्वाम्यमधिकारी च तत्प्रभुः।
तन्निर्वर्त्यम1भिव्यापि वृत्तं स्यादाधिकारिकम्॥१२॥

फलेन स्वस्वामिसंबन्धोऽधिकारः फलस्वामी चाधिकारी तेनाधिकारेणाधिकारिणा वा निर्वृत्तं फलपर्यन्ततां नीयमानमितिवृत्तमाधिकारिकम्॥

प्रासङ्गिकं व्याचष्टे—

प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः।

यस्येतिवृत्तस्य परप्रयोजनस्य सतस्तत्प्रसङ्गात्स्वप्रयोजनसिद्धिस्तत्प्रासङ्गिकमितिवृत्तं प्रसङ्गनिर्वृत्तेः॥

प्रासङ्गिकमपि पताकाप्रकरीभेदाद्विविधमित्याह—

सानुबन्धं पताकाख्यं प्रकरी च प्रदेशभाक्॥१३॥

दूरं यदनुवर्तते प्रासङ्गिकं सा पताका। सुग्रीवादिवृत्तान्तवत्। पताकेवासाधारणनायकचिह्नवत्तदुपकारित्वात्। यदल्पं सा प्रकरी। श्रवणादिवृत्तान्तवत्॥

पताकाप्रसङ्गेन पताकास्थानकं व्युत्पादयति—

प्रस्तुतागन्तुभावस्य वस्तुनोऽन्योक्तिसूचकम्।
पताकास्थानकं तुल्यसंविधानविशेषणम्॥१४॥

प्राकरणिकस्य भाविनोऽर्थस्य सूचकं रूपं पताकावद्भवतीति पताकास्थानकम्। तच्च तुल्येतिवृत्ततया तुल्यविशेषणतया च द्विप्रकारम्। अन्योक्तिसमासोक्तिभेदात्। यथा रत्नावल्याम्—

‘यातोऽस्मि पद्मनयने समयो ममैष सुप्ता मयैव भवती प्रतिबोधनीया।
प्रत्यायनामयमितीव सरोरुहिण्याः सूर्योऽस्तमस्तकनिविष्टकरः करोति॥’

यथा च तुल्यविशेषणतया,—

‘उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा–
दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं
पश्यन्कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम्॥’

एवमाधिकारिकद्विविधप्रासङ्गिकभेदात्त्रिविधस्यापि त्रैविध्यमाह—

प्रख्यातोत्पाद्यमिश्रत्वभेदात्त्रेधापि तत्त्रिधा।
प्रख्यातमितिहासादेरुत्पाद्यं कविकल्पितम्॥१५॥

मिश्रं च संकरात्ता2भ्यां दिव्यमर्त्यादिभेदतः।

इति निगदव्याख्यातम्॥

तस्येतिवृत्तस्य किं फलमित्याह—

कार्यं त्रिवर्गस्तच्छुद्धमेकानेकानुबन्धि च॥१६॥

धर्मार्थकामाः फलम्। तच्च शुद्धमेकैकमेकानुबन्धं द्वित्र्यनुबन्धं वा॥

तत्साधनं व्युत्पादयति—

स्वल्पोद्दिष्टस्तु तद्धेतुर्बीजं विस्तार्यनेकधा।

स्तोकोद्दिष्टः कार्यसाधकः पुरस्तादनेकप्रकारं विस्तारी हेतुविशेषो बीजवद्बीजम्। यथा रत्नावल्यां वत्सराजस्य रत्नावलीप्राप्तिहेतुरनुकूलदैवो यौगंधरायणव्यापारो विष्कम्भके न्यस्तः— ‘यौगंधरायणः—कः संदेहः।(‘द्वीपादन्यस्मात्–‘इति पठति।)’ इत्यादिना ‘प्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौ ‘इत्यन्तेन।

यथा च वेणीसंहारे द्रौपदीकेशसंयमनहेतुर्भीमक्रोधोपचितयुधिष्ठिरोत्साहो बीजमिति। तच्च महाकार्यावान्तरकार्यहेतुभेदादनेकप्रकारमिति॥

अवान्तरबीजस्य संज्ञान्तरमाह—

अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम्॥१७॥

यथा रत्नावल्यामवान्तरप्रयोजनानङ्गपूजापरिसमाप्तौ कथार्थविच्छेदे सत्यनन्तरकार्यहेतुः—‘उदयनस्येन्दोरिवोद्वीक्षते। सागरिका—(श्रुत्वा।) क3हं एसो सो उदयणणरिन्दो जस्स अहं तादेण दिण्णा’ इत्यादि। बिन्दुर्जले तैलबिन्दुवत्प्रसारित्वात्॥

इदानीं पताकाद्यं प्रसङ्गाद्व्युत्क्रमोक्तं क्रमार्थमुपसंहरन्नाह—

बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणः।
अर्थप्रकृतयः पञ्च ता एताः परिकीर्तिताः॥१८॥

अर्थप्रकृतयः प्रयोजनसिद्धिहेतवः॥

अन्यदवस्थापञ्चकमाह—

अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः॥१९॥

यथोद्देशं लक्षणमाह—

औत्सुक्यमात्रमारम्भः फललाभाय भूयसे।

इदमहं संपादयामीत्यध्यवसायमात्रमारम्भ इत्युच्यते। यथा रत्नावल्याम्—‘प्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौ दैवे चेत्थं दत्तहस्तावलम्बे।’ इत्यादिना सचिवायत्तसिद्धेर्वत्सराजस्य कार्यारम्भो यौगंधरायणमुपेदर्शितः॥
अथ प्रयत्नः—

प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः॥२०॥

तस्य फलस्याप्राप्तावुपाययोजनादिरूपश्चेष्टाविशेषः प्रयत्नः। यथा रत्नावल्यामालेख्याभिलेखनादिर्वत्सराजसमागमोपायः—‘त4हावि णत्थि अण्णो दंसणुवाओ त्ति जहातहा आलिहिअ जधासमीहिअं करिस्सम्।’ इत्यादिना प्रतिपादितः॥

प्रात्याशामाह—

उपायापायशङ्काभ्यां प्रात्याशा प्राप्तिसंभवः।

उपायस्यापायशङ्कायाश्च भावादनिर्धारितैकान्ता फलप्राप्तिः प्राप्त्याशा। यथा रत्नावल्यां तृतीयेऽङ्के वेषपरिवर्ताभिसरणादौ समागमोपाये सति वासवदत्तालक्षणापायशङ्कायाः—‘ए5वं जदि अआलवादाली विअ आअच्छिअ अण्णदो ण णइस्सदि वासवदत्ता।’ इत्यादिना दर्शितत्वादनिर्धारितैकान्ता समागमप्राप्तिरुक्ता॥

नियताप्तिमाह—

अपायाभावतः प्राप्तिर्नियताप्तिः सुनिश्चिता॥२१॥

अपायाभावादवधारितैकान्ता फलप्राप्तिर्नियताप्तिरिति। यथा रत्नावल्याम्—’विदूषकः—सा6गरिका दुक्करं जीविस्सदि।’ इत्युपक्रम्य ‘किं7 ण उपायं चिन्तेसि।’ इत्यनन्तरम् ‘राजा—वयस्य, देवीप्रसादनं मुक्त्वा नान्यमत्रोपायं पश्यामि।’ इत्यनन्तराङ्कार्थबिन्दुनानेन देवीलक्षणापायस्य प्रसादनेन निवारणान्नियता फलप्राप्तिः सूचिता॥

फलयोगमाह—

समग्रफलसंपत्तिः फलयोगो यथोदितः।

यथा रत्नावल्यां रत्नावलीलाभचक्रवर्तित्वावाप्तिरिति॥

संधिलक्षणमाह—

अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः॥२२॥
यथासंख्येन जायन्ते मुखाद्याः पञ्च संधयः।

अर्थप्रकृतीनां पञ्चानां यथासंख्येनावस्थाभिः पञ्चभिर्योगाद्यथासंख्येनैव वक्ष्यमाणा मुखाद्याः पञ्च संघयो जायन्ते॥

संधिसामान्यलक्षणमाह—

अन्तरैकार्थसंबन्धः संधिरेकान्वये सति॥२३॥

एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरैकप्रयोजनसंबन्धः संधिः॥

के पुनस्ते संधयः—

मुखप्रतिमुखे गर्भः सावमर्शोपसंहृतिः।

यथोद्देशं लक्षणमाह—

मुखं बीजसमुत्पत्तिर्नानार्थरसस8ंभवा॥२४॥
अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात्।

बीजानामुत्पत्तिरनेकप्रकारप्रयोजनस्य रसस्य च हेतुर्मुखसंधिरिति व्याख्येयम्। तेनात्रिवर्गफले प्रहसनादौ रसोत्पत्तिहेतोरेव बीजत्वमिति। अस्यच बीजारम्भार्थयुक्तानि द्वादशाङ्गानि भवन्ति॥

तान्याह—

उपक्षेपः परिकरः परिन्यासो विलोभनम्॥२५॥

युक्तिः प्राप्तिः समाधानं विधानं परिभावना।
उद्भेदभेदकरणान्यन्वर्थान्यथ लक्षणम्॥२६॥

एतेषां स्वसंज्ञाव्याख्यातानामपि सुखार्थं लक्षणं क्रियते—

बीजन्यास उपक्षेपः

यथा रत्नावल्याम्—’(नेपथ्ये।)

द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात्।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः॥’

इत्यादिना यौगंधरायणो वत्सराजस्य रत्नावलीप्राप्तिहेतुभूतमनुकूलदैवं स्वव्यापारं बीजत्वेनोपक्षिप्तवानित्युपक्षेपः॥

परिकरमाह—

तद्बाहुल्यं परिक्रिया।

यथा तत्रैव—‘अन्यथा क्व सिद्धादेशप्रत्ययप्रार्थितायाः सिंहलेश्वरहितुः समुद्रे प्रवहणभङ्गमग्नोत्थितायाः फलकासादनम्।’ इत्यादिना ‘सर्वथा स्पृशन्ति स्वामिनमम्युदयाः।’ इत्यन्तेन बीजोत्पत्तेरेव बहूकरणात्परिकरः॥

परिन्यासमाह—

तन्निष्पत्तिः परिन्यासो

यथा तत्रैव—

‘प्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौ दैवे चेत्थं दत्तहस्तावलम्बे।
सिद्धेर्भ्रान्तिर्नास्ति सत्यं तथापि स्वेच्छाकारी भीत एवास्मि भर्तुः॥’

इत्यनेन यौगंधरायणः स्वव्यापारदैवयोर्निष्पत्तिमुक्तवानिति परिन्यासः॥

विलोभनमाह—

गु9णाख्यानं विलोभनम्॥२७॥

यथा रत्नावल्याम्—

‘अस्तापस्तममस्तभासि नभसः पारं प्रयाते रवा-
वास्थानीं समये समं नृपजनः सायंतने संपतन्।
संप्रत्येष सरोरुहद्युतिमुषः पादांस्तवासेवितुं
प्रीत्युत्कर्षकृतो दृशामुदयनस्येन्दोरिवोद्वीक्षते॥’

इति वैतालिकमुखेन चन्द्रतुल्यवत्सराजगुणवर्णनया सागरिकायाः समागमहेत्वनुरागबीजानुगुण्येनैव विलोभनाद्विलोभनमिति।

यथा च वेणीसंहारे—

‘मन्थायस्तार्णवाम्भःप्लुतकुहरवलन्मन्दरध्वानधीरः
कोणाघातेषु गर्जतप्रलयघनघटान्योन्यसंघट्टनण्ड।
कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः
केनास्मन्सिंहनादप्रतिरसितमग्वो दुन्दुभिस्ताडितोऽयम्॥’

इत्यादिना ‘यशोदुन्दुभिः।’ इत्यन्तेन द्रौपद्या विलोभनाद्विलोभनमिति॥

अथ युक्तिः—

संप्रधारणमर्थानां युक्तिः

यथा रत्नावल्याम्—‘मयापि चैनां देवीहस्ते सबहुमानं निक्षिपता युक्तमेवानुष्ठितम्। कथितं च मया यथा बाभ्रव्यः कञ्चुकी सिंहलेश्वरामात्येन वसुभूतिना सह कथंकथमपि समुद्रादुत्तीर्य कोशलोच्छित्तये गतस्य रुमण्वतो घटितः।’ इत्यनेन सागरिकाया अन्तःपुरस्थाया वत्सराजस्य सुखेन दर्शनादिप्रयोजनावधारणाद्वाभ्रव्यसिंहलेश्वरामात्ययोः स्वनायकसमागमहेतुप्रयोजनत्वेनावधारणाद्युक्तिरिति॥

अथ प्राप्तिः—

प्राप्तिः सुखागमः।

यथा वेणीसंहारे**—‘चेटी**—भ10ट्टिणि, परिकुविदो विअ कुमारो लक्खीयदि।’ इत्युपक्रमे ‘भीमः

मथ्नामि कौरवशतं समरे न कोपा–
द्दुःशासनस्य रुधिरं न पिबाम्युरस्तः।
संचूर्णयामि गदया न सुयोधनोरू
संधिं करोतु भवतां नृपतिः पणेन॥

द्रौपदी—(श्रुत्वा सहर्षम्।) ना11ध, अस्सुदपुव्वं खु एदं वअणम्। ता पुणो पुणो भण।’ इत्यनेन भीमक्रोधबीजान्वयेनैव सुखप्राप्त्या द्रौपद्याः प्राप्तिरिति।
यथा च रत्नावल्याम्—’सागरिका—( श्रुत्वा सहर्षे परिवृत्य सम्पृहं पश्यन्ती।) क12धं अअं सो राआ उदयणो जस्स अहं तादेण दिण्णा। ता परप्पेसणदूसिदं मे जीविदं एदस्स दंसणेण बहुमदं संजादम्।’ इति सागरिकायाः सुखागमातप्राप्तिरिति॥

अथ समाधानम्—

बीजागमः समाधानं

यथा रत्नावल्याम्—’वासवदत्ता—तेण13हि उअणेहि मे उवअरणाइं।सागरिका—भ14ट्टिणि, एदं सव्वं सज्जम्। वासवदत्ता—(निरूप्यात्मगतम्।) अ15हो पमादो परिअणस्स। जस्स एव्व दंसणपहादो पत्ते रक्खीअदि तस्स ज्जेव कहं दिट्ठिगोञरं आअदा। भोदु। एव्वं दाव। (प्रकाशम्।) हञ्जे सागरिए, कीस तुमं अज्ज पराहीणे परिअणे मअणूसवे सारिअं मोत्तूण इहागदा। ता तहिं ज्जेव गच्छ।’ इत्युपक्रमे ‘सागरिका—(स्वगतम् ) ‘सा16रिआ तमए सुसंगदाए हत्थे समप्पिदा। पेक्खिदुं च मे कुतूहलम्। ता अलक्खिआ पेक्खिस्सम्।’ इत्यनेन वासवदत्ताया रत्नावलीवत्सरातयोर्दर्श-

नप्रतीकारात्सारिकायाः सुसंगतार्पणेनालक्षितप्रेक्षणेन च वत्सराजसमागमहेतोर्बीजस्योपादानात्समाधानमिति।

यथा च वेणीसंहारे—’भीमः—भवतु। पाञ्चालराजतनये. श्रूयतामचिरेणैव कालेन

चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य।
स्त्यानावनध्दघनशोणितशोणपाणिरुत्तमयिष्यति कचांस्तव देवि भीमः॥’

इत्यनेन वेणीसंहारहेतोः क्रोधबीजस्य पुनरुपादानात्समाधानम्॥

अथ विधानम्—

विधानं सुखदुःखकृत्॥२८॥

यथा मालतीमाधवे प्रथमेऽङ्के—’माधवः

यान्त्या मुहुर्वलितकन्धरमाननं त–
दावृत्तवृत्तशतपत्रनिभं वहन्त्या।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या
गाढं निखात इव मे हृदये कटाक्षः॥

यद्विस्मयस्तिमितमस्तमितान्यभाव–
मानन्दमन्दममृतप्लवनादिवाभूत्।
तत्संनिधौ तदधुना हृदयं मदीय–
मङ्गारचुम्बितमिव व्यथमानमास्ते॥

इत्यनेन मालत्यवलोकनस्यानुरागस्य समागमहेतोर्बीजानुगुण्येनैव माधवस्य सुखदुःखकारित्वाद्विधानमिति।
यथा च वेणीसंहारे—’द्रौपदी—णा17ध,पुणोवितुम्मेहिं अहं आअच्छिअ समासासिदव्वा। भीमः ननु पाञ्चालराजतनये, किमद्याप्यलीकाश्वासनया।

भूयः परिभवक्लान्तिलज्जाविधुरिताननम्।
अनिःशेषितकौरव्यं न पश्यसि वृकोदरम्॥’

इति सङ्ग्रामस्य सुखदुःखहेतुत्वाद्विधानमिति॥

अथ परिभावना—

परिभावोऽद्भुतावेश

यथा रत्नावल्याम्—’सागरिका—(दृष्ट्वा सविस्मयम्।) क18धंपञ्चक्खो ज्जेव अणङ्गो पूअं पडिच्छेदिता। अहंपि इध ट्ठिद ज्जेव णं पूजइस्सम्।’ इत्यनेन वत्सराजस्यानङ्गरूपतयापह्नवादनङ्गस्य च प्रत्यक्षस्य पूजाग्रहणस्य लोकोत्तरत्वादद्भुतरसावेशः परिभावना।

यथा च वेणीसंहारे—’द्रौपदी—कि19ं दाणिं एसो पलअजलधरत्थणिदमंसलो खणे खणे समरदुन्दुभी ताडीयदि।’ इति लोकोत्तरसमरदुन्दुभिध्वनेर्विस्मयरसावेशाद्द्रौपद्याः परिभावना॥

अथोद्भेदः—

उद्भेदो गूढभेदनम्।

यथा रत्नावल्यां वत्सराजस्य कुसुमायुधव्यपदेशगूढस्य वैतालिकवचसा ‘अस्तापास्त—’ इत्यादिना ‘उदयनस्य— ‘इत्यन्तेन बीजानुगुण्येनैवोद्भेदनादुद्भेदः।

यथा च वेणीसंहारे —‘आर्य, किमिदानीमध्यवस्यति गुरुः।’ इत्युपक्रमे ‘(नेपथ्ये।)

यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं
यद्विस्मर्तुमपीहितं शमवताशान्तिं कुलस्येच्छता।
तद्य्युतारणिसंभृतं नृपसुताकेशाम्बराकर्षणैः
क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते॥

भीमः—(सहर्षम्।) जृम्भतां जृम्भतां संप्रत्यप्रतिहतमार्यस्य क्रोधज्योतिः।’ इत्यनेन छन्नस्य द्रौपदीकेशसंयमनहेतोर्युधिष्ठिरक्रोधस्योद्भेदनादुद्भेदः॥

अथ करणम्—

करणं प्रकृतारम्भो

यथा रत्नावल्याम्—‘ण20मो दे कुसुमाउह, ता अमोहदंसणोमे भविस्ससि त्ति। दिट्ठंजं पेक्खिदव्वम्। ता जाव ण को वि मं पेक्खइ ता गमिस्सम्।’ इत्यनेनानन्तराङ्कप्रकृतनिर्विघ्नदर्शनारम्भणात्करणम्।

यथा च वेणीसंहारे—‘तत्पाञ्चालि, गच्छामो वयमिदानीं कुरुकुलक्षयाय’ इति। सहदेवः—आर्य, गच्छाम इदानीं गुरुजनानुज्ञाता विक्रमानुरूपमाचरितुम्।’ इत्यनेनानन्तराङ्कप्रस्तूयमानसङ्ग्रामारम्भणात्करणमिति। सर्वत्र चेहोद्देशप्रतिनिर्देशवैषम्यं क्रियाक्रमस्याविवक्षितत्वादिति॥
अथ भेदः—

भेदः प्रोत्साहना मता॥२९॥

यथा वेणीसंहारे— ‘णा21ध, मा क्खु जण्णसेणीपरिभवद्दीविदकोवा अणवेक्खिदसरीरा परिक्कमिस्सध। जदो अप्पमत्तसंचरणीयाइं सुणीयन्ति रिउबलाइं। भीमः—अयि सुक्षत्रिये,

अन्योन्यास्फालभिन्नद्विपरुधिरवसासान्द्रमस्तिष्कपङ्के
मग्नानां स्यन्दनानामुपरिकृतपदन्यासविक्रान्तपत्तौ।
स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कबन्धे
सङ्ग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः॥’

इत्यनेन विपण्णाया द्रौपद्याः क्रोधोत्साहबीजानुगुण्येनैव प्रोत्साहनाद्भेद इति॥

एतानि च द्वादशमुखाङ्गानि बीजारम्भद्योतकानि साक्षात्पारम्पर्येण वा विधेयानि। एतेषामुपक्षेपपरिकरपरिन्यासयुक्त्तयुद्भेदसमाधानानामवश्यं भावितेति॥

अथ साङ्गं प्रतिमुखसंधिमाह—

22क्ष्यालक्ष्यतयोद्भेदस्तस्य प्रतिमुखं भवेत्।
बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश॥३०॥

तस्य बीजस्य किंचिल्लक्ष्यः किंचिदलक्ष्य इवोद्भेदः प्रकाशनं तत्प्रतिमुखम्। यथा रत्नावल्यां द्वितीयेऽङ्के वत्सराजसागरिकासमागमहेतोरनुरागबीजस्य प्रथमाङ्कोक्षिप्तस्य सुसङ्गताविदूषकाभ्यां ज्ञायमानतया किंचिल्लक्ष्यस्य वासवदत्तया च चित्रफलकवृत्तान्तेन किंचिदुन्नीयमानस्य दृश्यादृश्यरूपतयोद्भेदः प्रतिमुखसंधिरिति।

वेणीसंहारेऽपि द्वितीयेऽङ्के भीष्मादिवधेन किंचिल्लक्ष्यस्य कर्णाद्यवधाच्चालक्ष्यस्य क्रोधबीजस्योद्भेदः

‘सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम्।
स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतः सुयोधनम्॥’

इत्यादिभिः

‘दुःशासनस्य हृदयक्षतजाम्बुपाने
दुर्योधनस्य च यथा गदयोरुभङ्गे।
तेजस्विनां समरमूर्धनि पाण्डवानां
ज्ञेया जयद्रथवधेऽपि तथा प्रतिज्ञा॥’

इत्येवमादिभिश्चोद्भेदः प्रतिमुखसंधिरिति॥

अस्य च पूर्वाङ्कोपक्षिप्तबिन्दुरूपबीजप्रयत्नार्थानुगतानि त्रयोदशाङ्गानि भवन्ति। तान्याह—

विलासः परिसर्पश्च विधूतं शमनर्मणी।
नर्मद्युतिः प्र23गमनं निरोधः पर्युपासनम्॥३१॥

वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि।

यथोद्देशं लक्षणमाह—

24त्यर्थेहा विलासः स्याद्

यथा रत्नावल्याम्—‘सागरिका—हिअ25अ, पसीद प्रसीद। किं इमिणा आआसमेत्तफलेण दुल्लहजणप्पत्थणाणुबन्धेण।’ इत्युपक्रमे ‘त26हावि आलेखगदं तं जणं कदुअ जधासमीहिदं करिस्मम्। तहावि तस्स णत्थि अण्णो दंसणोवाउत्ति।’ इत्येतैर्वत्सराजसमागमरतिं चित्रादिजन्यामप्युद्दिश्य सागरिकायाश्चेष्टाप्रयत्नोऽनुरागबीजानुगतो विलास इति॥

अथ परिसर्पः—

दृष्टनष्टानुसर्पणम्॥३२॥

परिसर्पो

यथा वेणीसंहारे—’कञ्चुकी—योऽयमुद्यतेषु बलवत्सु, अथवा किं बलवत्सु, वासुदेवसहायेष्वरिष्वद्याप्यन्तःपुरसुखमनुभवति। इदमपरमयथातथं स्वामिनः।

आशस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने-
स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः।
प्रौढानेकधनुर्धरारिविजयश्रान्तस्य चैकाकिनो
बालस्यायमरातिलनधनुषः प्रीतोऽभिमन्योर्वधात्॥’

इत्यनेन भीष्मादिवधे दृष्टस्याभिमन्युवधान्नष्टस्य बलवतां पाण्डवानां वासुदेवसहायानां सङ्ग्रामलक्षणबिन्दु बीजप्रयत्नान्वयेन कञ्चुकिमुखेन बीजानुसर्पणं परिसर्प इति।
यथा च रत्नावल्यां सारिकावचनचित्रदर्शनाभ्यां सागरिकानुरागबीजस्य दृष्टनष्टस्य ‘क्वासौ क्वासौ’ इत्यादिना वत्सराजेनानुसरणात्परिसर्प इति॥

अथ विधूतम्—

विधूतं स्यादरतिस्

यथा रत्नावल्याम्—" सागरिका—स27हि, अहिअं मे संतावो बाधेदि। (सुसङ्गता दीर्घिकातो नलिनीदलानि मृणालिकाश्चानीयास्या अने ददाति।) सागरिका—(तानि क्षिपन्ती।) स28हि, अवणेहि एदाइं। किं अआरणे अत्ताणं आयासेसि। णं भणामि।

दुल्लहजणाणुराओ लज्जा गरुई परव्वसो अप्पा।
पिअसहि विसमं पेम्मं मरणं सरणं णवर एक्कम्॥’

इत्यनेन सागरिकाया बीजान्वयेन शीतोपचारविधूननाद्विधूतम्।

यथा च वेणीसंहारे भानुमत्या दुःस्वप्नदर्शनेन दुर्योधनस्यानिष्टशङ्कया पाण्डवविजयशङ्कया वा रतेर्विधूननमिति॥

अथ शमः—

तच्छमः शमः।

तस्या अरतेरुपशमः शमः। यथा रत्नावल्याम्—’राजा—वयस्य, अनया लिखितोऽहमिति यत्सत्यमात्मन्यपि मे बहुमानस्तत्कथं न पश्यामि।’ इति प्रक्रमे ‘सागरिका—(आत्मगतम्।) हिअ29अ, समस्सस। मणोरहो विदे एत्तिअं भूमिं ण गदो।’ इति किंचिदरत्युपशमाच्छम इति॥

अथ नर्म—

परिहासवचो नर्म

यथा रत्नावल्याम्—’सुसङ्गता—स30हि, जस्स कए तुमं आअदा सो अअं पुरदो चिट्ठदि। सागरिका —(सासूयम्) सु31सङ्गदे, कस्स कर अहं आअदा। सुसङ्गता—अ32इ अप्पसङ्किदे, णं चित्तफलअस्स। ता गेण्ह एदम्।’ इत्यनेन बीजान्वितं परिहासवचनं नर्म।

यथा च वेणीसंहारे—(दुर्योधनश्चेटीहस्तादर्घपात्रमादाय देव्याः समर्पयति। पुनः) भानुमती—(अर्घं दत्वा।) ह33ला, उवणेहि मे कुसुमाइं जाव अवरादेवाणं सवरिअं णिवत्तेमि। (हस्तौ प्रसारयति। दुर्योधनः पुष्पाण्युपनयति। भानुमत्यास्तत्स्पर्शजातकम्पाया हस्तात्पुष्पाणि पतन्ति।)’ इत्यनेन नर्मणा दुःस्वप्नदर्शनोपशमार्थं देवतापूजाविघ्नकारिणा बीजोद्घाटनात्परिहासस्य प्रतिमुखाङ्गत्वं युक्तमिति॥

अथ नर्मद्युतिः—

धृतिस्तज्जा द्युतिर्मता॥३३॥

यथा रत्नावल्याम्—‘सुसङ्गता—स34हि, अदिणिङ्कुरा दाणिं सि तुमम्। जा एवं पि भट्टिणा हत्थावलम्बिदा कोवं ण मुञ्चसि। सागरिका—(सभ्रुभङ्गमीपद्विहस्य।) सु35सङ्गदे, दाणिं पि ण विरमसि।’ इत्यनेनानुरागबीजोद्घाटनान्वयेन धृतिर्नर्मजा द्युतिरिति दर्शितमिति॥

अथ प्रगमनम्—

उत्तरा वाक्प्र36गमनं

यथा रत्नावल्याम्—‘विदूषकः—भो37 वअस्स, दिट्ठिआ बसे।राजा—(सकौतुकम्।) वयस्य, किमेतत्। विदूषकः— भो38, एदं क्खु

तं जं मए भणिदं तुमं एव्व आलिहिदो। को अण्णो कुसुमाउहव्ववदेसेण णिण्हवअदि।’ इत्यादिना

‘परिच्युतस्तत्कुचकुम्भमध्यात्कि शोपमायासि मृणालहार।
न सूक्ष्मतन्तोरपि तावकस्य तत्रावकाशो भवतः किमु स्यात्॥’

इत्यनेन राजविदूषकसागरिकासुसङ्गतानामन्योन्यवचनेनोत्तरोत्तरानुरागबीजोद्घाटनात्प्रगमनमिति॥

अथ निरोधः—

हितरोधो निरोधनम्।

यथा रत्नावल्याम् —‘राजा—धिङ् मूर्ख,

प्राप्ता कथमपि दैवात्कण्ठमनीतैव सा प्रकटरागा।
रत्नावलीवकान्ता मम हस्ताभ्रंशिता भवता॥’

इत्यनेन वत्सराजस्य सागरिकासमागमरूपहितस्य वासवदनाप्रवेशसूचकेन विदूषकवचसा निरोधान्निरोधनमिति॥

अथ पर्युपासनम्—

पर्युपास्तिरनुनयः

यथा रत्नावल्याम्—‘राजा—

प्रसीदेति ब्रूयामिदमसति कोपे न घटते
करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः।
न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा
किमेतस्मिन्वक्तुं क्षममिति न वेद्मि प्रियतमे॥’

इत्यनेन चित्रगतयोर्नायकयोर्दर्शनात्कुपिताया वासवदत्ताया अनुनयनं नायकयोरनुरागोद्घाटयन्वयेन पर्युपासनमिति॥

अथ पुष्पम्—

पुष्पं वाक्यं विशेषवत्॥३४॥

यथा रत्नावल्याम्—’(राजा सागरिकां हस्ते गृहीत्वा स्पर्श नाटयति।) विदूषकः—भो39, एसा अपुब्वा सिरी तए समासादिदा। राजा—वयस्य,सत्यम्।

श्रीरेषा पाणिरप्यस्याः पारिजातस्य पल्लवः।
कुतोऽन्यथा स्रवत्येष वेदच्छद्मामृतद्रवम्॥’

इत्यनेन नायकयोः साक्षादन्योन्यदर्शनादिना सविशेषानुरागोद्घाटनात्पुष्पम्॥

अथोपन्यासः—

40पन्यासस्तु सोपायं

यथा रत्नावल्याम्—‘सुसङ्गता—भ41ट्टा, अलं सङ्काए। मए वि भट्टिणी पसाएण कीलिदं एव्व। ता किं कण्णाभरणेण। अदो वि मे गरुओ पसाओ, जं कीस तए अहं एत्थ आलिहिअ त्ति कुविआ मे पिअसही साअरिआ। ता पसादीअदु।’ इत्यनेन सुसङ्गतावचसा सागरिका मया लिखिता सागरिकया च त्वमिति सूचयता प्रसादोपन्यासेन बीजोद्भेदादुपन्यास इति॥

अथ वज्रम्—

वज्रं प्रत्यक्षनिष्ठुरम्।

यथा रत्नावल्याम्—’वासवदत्ता—(फलकं निर्दिश्य) अ42ज्जउत्त, एसावि जा तुह समीवे, एदं किं वसन्तअस्स विष्णाणम्।’ पुनः ‘अ43ज्जउत्त, ममावि एदं चित्तकम्म पेक्खन्तीए सीसवेअणा समुप्पण्णा।’ इत्यनेन वासवदत्तया वत्सराजस्य सागरिकानुरागौद्भेदनात्प्रत्यक्षनिष्ठुराभिधानं वज्रमिति॥

अथ वर्णसंहारः—

चा44तुर्वण्यपगमनं वर्णसंहार इष्यते॥३५॥

यथा वीरचरिते तृतीयेऽङ्के—

‘परिषदियमृषीणामेष वृद्धो युधाजि–
त्सह नृपतिरमात्यैर्लोमपादश्च वृद्धः।
अयमविरतयज्ञो ब्रह्मवादी पुराणः
प्रभुरपि जनकानामो याचकास्ते॥

इत्यनेन ऋषिक्षत्रियामात्यादीनां संगतानां वर्णानां वचसा रामविजयाशंसिनः परशुरामदुर्णयस्याद्रोहयाच्ञाद्वारेणोद्भेदनाद्वर्णसंहार इति॥
एतानि च त्रयोदश प्रतिमुखाङ्गानि मुखसंध्युपक्षिप्तबिन्दुलक्षणावान्तरबीजमहाबीजप्रयत्नानुमतानि विधेयानि। एतेषां च मध्ये परिसर्पप्रशमवज्रोपन्यासपुष्पाणां प्राधान्यम्। इतरेषां यथासंभवं प्रयोग इति॥

अथ गर्भसंधिमाह—

गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः।
द्वादशाङ्गः पताका स्यान्न वा स्यात्प्राप्तिसंभवः॥३६॥

प्रतिमुखसंधौ लक्ष्यालक्ष्यरूपतया स्तोकोद्भिन्नस्य बीजस्य सविशेषोद्धेदपूर्वकः सान्तरायो लाभः पुनर्विच्छेदः पुनः प्राप्तिः पुनर्विच्छेदः पुनश्च तस्यैवान्वेषणं वारंवारं सोऽनिर्धारितैकान्तफलप्राप्त्याशात्मको गर्भसंधिरिति। तत्र चौत्सर्गिकत्वेन प्राप्तायाः पताकाया अनियमं दर्शयति—‘पताका स्यान्न वा’ इत्यनेन। प्राप्तिसंभवस्तु स्यादेवेति दर्शयति—‘स्यात्’ इति। यथा रत्नावल्यां तृतीयेऽङ्के वत्सराजस्य वासवदत्तालक्षणापायेन तद्वेपपरिग्रहसागरिकाभिसरणोपायेन च विदूषकवचसा सागरिकाप्राप्त्याशा प्रथमं पुनर्वासवदत्तया विच्छेदः पुनः प्राप्तिः पुनर्विच्छेदः पुनरपायनिवारणोपायान्वेषणं ‘नास्ति देवीप्रसादनं मुक्त्वान्य उपायः’ इत्यनेन दर्शितमिति॥

स च द्वादशाङ्गो भवति। तान्युद्दिशति—

अभूताहरणं मार्गो रूपोदाहरणे क्रमः।
संग्रहश्चानुमानं च तोटकाधिबले तथा॥३७॥

उद्वेगसंभ्रमाक्षेपा लक्षणं च प्रणीयते।

यथोद्देशं लक्षणमाह—

अभूताहरणं छद्म

यथा रत्नावल्याम्— ‘सा45धु रे अमञ्च वसन्त, साधु। अदिसइदो तए अमञ्चो जोगन्धराअणो इमाए संधिविग्गहचिन्ताए।’ इत्यादिना प्रवेशकेन गृहीतवासवदत्तावेषायाः सागरिकाया वत्सराजाभिसरणं छद्म विदूषकसुसङ्गताक्लृप्तकाञ्चनमालानुवादद्वारेण दर्शितमित्यभूताहरणम्॥

अथ मार्गः—

मार्गस्तत्वार्थकीर्तनम्॥३८॥

यथा रत्नावल्याम्—‘विदूषकः—दि46ट्ठिआ वड्ढसि समीहिदव्भविकाए कज्जसिद्धीए। राजा—वयस्य, कुशलं प्रियायाः। विदूषकः—अ47इरेण सअं ज्जेव्व पेक्खिअ जाणिहिसि। राजा—दर्शनमपि भविष्यति। विदूषकः—(सगर्वम्।) की48स ण भविस्सदि, जस्स दे उवहसिदविहप्फदिबुद्धिविहवो अहं अमच्चो। राजा—तथापि कथमिति श्रोतुमिच्छामि।विदूषकः—( कर्णे कथयति।) ए49व्वम्। इत्यनेन यथा विदूषकेण सागरिकासमागमः सूचितः, तथैव निश्चितरूपो राज्ञे निवेदित इति तत्त्वार्थकथनान्मार्ग इति॥

अथ रूपम्—

रूपं वितर्कवद्वाक्यं

यथा रत्नावल्याम्—‘राजा—अहो, किमपि कामिजनस्य स्वगृहिणीसमागमपरिभाविनोऽभिनवं जनं प्रति पक्षपातः। तथाहि।

प्रणयविशदां दृष्टिं वक्त्रे ददाति न शङ्किता
घटयति घनं कण्ठाश्लेषे रसान्न पयोधरौ।
वदति बहुशो गच्छामीति प्रयत्नधृताप्यहो
रमयतितरां संकेतस्था तथापि हि कामिनी॥’

48थं चिरयति वसन्तकः। किं नु खलु विदितः स्यादयं वृत्तान्तो देव्याः इत्यनेन रत्नावलीसमागमप्रात्याशानुगुण्येनैव देवीशङ्कायाश्च वितर्कात् द्रुपमिति॥

अथोदाहरणम्—

सोत्कर्षं स्यादुदाहृतिः।

यथा रत्नावल्याम्—‘विदूषकः—(सहर्षम्।) ही50 ही भोः, कोसम्बीरज्जयाहेणावि ण तादिसो वअस्सस्स परितोसो आसि, यादिसो मम सआ-

सादो पिअवअणं सुणिअ भविस्सदि त्ति तक्केमि।’ इत्यनेन रत्नावलीप्राप्तिवार्तापि कौशाम्बीराज्यलाभादतिरिच्यत इत्युत्कर्षाभिधानादुदाहृतिरिति॥

अथ क्रमः—

क्रमः संचिन्त्यमानाप्तिर्

यथा रत्नावल्याम्—‘राजा—उपनतप्रियासमागमोत्सवस्यापि मे किमिदमत्यर्थमुत्ताम्यति चेतः। अथवा।

तीव्रः स्मरसंतापो न तथादौ बाधते यथासन्ने।
तपति प्रावृषि सुतरामभ्यर्णजलागमो दिवसः॥

विदूषकः—(आकर्ण्य।) भो51दि सागरिए, एसो पिअवअस्सो तुमं ज्जेव उद्दिसिअ उक्कण्ठाणिब्भरं मन्तेदि। ता निवेदेमि से तुहागमणम्।’ इत्यनेन वत्सराजस्य गागरिकाममागममभिल्पन एव भ्रान्तसागरिकाप्राप्तिरिति क्रमः॥

अथ क्रमान्तरं मतभेदेन—

भावज्ञानमथापरे॥३९॥

यथा रत्नावल्याम्—‘राजा—(उपसत्य) प्रिये सागरिके,

शीतांशुर्मुखमुत्पले तव दृशौ पद्मानुकारौ करौ
रम्भागर्भनिभं तवोरुयुगलं बाहू मृणालोपमौ।
इत्याह्लादकराखिलाङ्गि रभसान्निःशङ्कमालिङ्ग्य मा-
मङ्गानि त्वमनङ्गतापविधुराण्येह्येहि निर्वापय॥’

इत्यादिना ‘इह तदप्यस्त्येव बिम्बाधरे॥’ इत्यन्तेन वासवदत्तया वत्सराजभावस्य ज्ञातत्वात्क्रमान्तरमिति॥

अथ संग्रहः—

संग्रहः सामदानोक्तिर्

यथा रत्नावल्याम्—‘साधु वयस्य, साधु। इदं ते पारितोषिकं कटकं ददामि।’ इत्याभ्यां सामदानाभ्यां विदूषकस्य सागरिकासमागमकारिणः संग्रहात्संग्रह इति॥

अथानुमानम्—

अभ्यूहो लिङ्गतोऽनुमा।

यथा रत्नावल्याम्—‘राजा—धिङ् मूर्ख, त्वत्कृत एवायमापतितोऽस्माकमनर्थः। कुतः।

समारूढा प्रीतिः प्रणयबहुमानात्प्रतिदिनं
व्यलीकं वीक्ष्येदं कृतमकृतपूर्वं खलु मया।
प्रिया मुञ्चत्यद्य स्फुटमसहना जीवितमसौ
प्रकृष्टस्य प्रेम्णः स्खलितमविषह्यं हि भवति॥

विदूषकः—भो52 वअस्स, वासवदत्ता किं करइस्सदि त्ति ण जाणामि।सागरिआ उण दुक्करं जीविस्सदि त्ति तक्केमि।’ इत्यत्र प्रकृष्टप्रेमस्खलनेनसागरिकानुरागजन्येन वासवदत्ताया मरणाभ्यूहनमनुमानमिति॥

अथाधिबलम्—

अधिवलमभिसंधिः

यथा रत्नावल्याम्—’काञ्चनमाला—भ53ट्टिणि, इअं सा चित्तसालिआ। ता वसन्तअस्स सण्णं करेमि। (छोटिकां ददाति।)’ इत्यादिना वासवदत्ताकाञ्चनमालाभ्यां सागरिकासुसङ्गतावेषाभ्यां राजविदूषकयोरभिसंधीयमानत्वादधिबलमिति॥

अथ तोटकम्—

संरब्धं तोटकं वचः॥४०॥

यथा रत्नावल्याम्—’वासवदत्ता—(उपसृत्य) अ54ज्जउत्त, जुत्तमिणंसरिसमिणम्। (पुनः सरोषम्।) अज्जउत्त, उट्ठेहि। किं अज्जवि आहिजाईए सेवादुक्खमणुभवीअदि। कञ्चणमाले, एदेण ज्जेव पासेण बन्धिअ आणेहि एणं दुट्ठबह्मणम्। एदं पि दुट्ठकण्णअं अग्गदो करेहि।’ इत्यनेन वासवदत्तासंरव्यवचसा सागरिकासमागमान्तरायभूतेनानियतप्राप्तिकारणंतोटकमुक्तम्॥

यथा च वेणीसंहारे—

‘प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशाम्’

इत्यादिना

“धृतायुधो यावदहं सावदन्यैः किमायुधैः।’

इत्यन्तेनान्योन्यं कर्णाश्वत्थाम्नोः संरब्धवचसा सेनाभेदकारिणा पाण्डवविजयप्राप्त्याशान्वितं तोटकमिति॥

ग्रन्थान्तरे तु—

तोटकस्यान्यथाभावं ब्रुवतेऽधिबलं बुधाः।

यथा रत्नावल्याम्—‘राजा—देवि, एवमपि प्रत्यक्षदृष्टव्यलीकः किं विज्ञापयामि।

आताम्रतामपनयामि विलक्ष एव
लाक्षाकृतां चरणयोस्तव देवि मूर्ध्ना।
कोपोपगमजनितां तु मुखेन्दुबिम्बे
हर्तुं क्षमो यदि परं करुणा मयि स्यात्॥’

संरब्धवचनं यत्तु तोटकं तदुदाहृतम्॥४१॥

यथा रत्नावल्याम् ‘राजा प्रिये वासवदत्ते, प्रसीद प्रमोद वासवदत्ता—(अधणि धारयन्ती।) अ55ज्जउत्त, मा एवं भण। अण्णमङ्कनाः खु एदाइं अक्खराइंत्ति।’

यथा च वेणीसंहारे—’राजा—अये सुन्दरक, कच्चित्कुशलमङ्गराजस्य।पुरुषः—कु56सलं सरीरमेत्तकेण। राजा—किं तस्य किरीटिना हता धौरेयाः, क्षत्तः सारथिः, भग्नो वा रथः। पुरुषः— देव57, ण भग्गो रहो। भग्गो से मणोरहो। राजा—(ससंभ्रमम्) कथम्। इत्येवमादिना संरब्धवचसा तोटकमिति॥

अथोद्वेगः—

उद्वेगोऽरिकृता भीतिः

यथा रत्नावल्याम्—‘सागरिका—(आत्मगतम्।) क58हं अकिदपुण्णेहि अत्तणो इच्छाए मरिउं पि ण पारीअदि।’ इत्यनेन वासवदत्तातः सागरिकाया भयमित्युद्वेगः। यो हि यस्यापकारी स तस्यारिः।

यथा च वेणीसंहारे—’सूतः—(श्रुत्वा सभयम्।) कथमासन्न एवासौ कौरवराजपुत्रमहावनोत्पातमारुतो मारुतिरनुपलब्धसंज्ञश्च महाराजः। भवतु। दूरमपहरामि स्यन्दनम्। कदाचिदयमनार्यो दुःशासन इवास्मिन्नप्यनार्यमाचरिष्यति।’ इत्यरिकृता भीतिरुद्वेगः॥

अथ संभ्रमः—

शङ्कात्रासौ च संभ्रमः।

यथा रत्नावल्याम्—’विदूषकः—(पश्यन्।) का59 उण एसा। (ससंभ्रमम्।) कधं देवी वासवदत्ता अत्ताणं वावादेदि। राजा—(ससंभ्रममुपसर्पन्।) क्वासौ क्वासौ।’ इत्यनेन वासवदत्ताबुद्धिगृहीतायाः सागरिकाया मरणशङ्कया संभ्रम इति।

यथा च वेणीसंहारे—’ (नेपथ्ये कलकलः।) अश्वत्थामा—( ससंभ्रमम्।) मातुल, मातुल, कष्टम्। एष भ्रातुः प्रतिज्ञाभङ्गभीरुः किरीटी समं शरवर्षैर्दर्योधनराधेयावभिद्रवति। सर्वथा पीतं शोणितं दुःशासनस्य भीमेन।’ इति शङ्का। तथा ‘(प्रविश्य संभ्रान्तः सप्रहारः) सूतः—त्रायतां त्रायतां कुमारः।’ इति त्रासः। इत्येताभ्यां त्रासशङ्काभ्यां दुःशासनद्रोणवधसूचकाभ्यां पाण्डवविजयप्राप्त्याशान्वितः संभ्रम इति॥

अथाक्षेपः—

गर्भबीजसमुद्भेदादाक्षेपः परिकीर्तितः॥४२॥

यथा रत्नावल्याम् —’राजा—वयस्य, देवीप्रसादनं मुक्त्वा नान्यतत्रोपायं पश्यामि।’ पुनः क्रमान्तरे ‘सर्वथा देवीप्रसादनं प्रति निष्प्रत्याशीभूताः स्मः।’ पुनः ‘तत्किमिह स्थितेन देवीमेव गत्वा प्रसादयामि।’ इत्यनेन देवीप्रसादायत्ता सागरिकासमागमसिद्धिरिति गर्भबीजोद्भेदादाक्षेपः।

यथा च वेणीसंहारे—‘सुन्दरकः—अ60हवा किमेत्थ देव्वं उआलहामि। तस्स क्खु एदं णिभच्छिदविदुरवअणबीअस्स परिभूदपिदामहहिदोवदेस-

ङ्कुरस्ससउणिप्पोच्छाहणारूढमूलस्स कूडविससाहिणो पञ्चालीकेसग्गहणकुसुमस्स फलं परिणमेदि।’ इत्यनेन बीजमेव फलोन्मुखतयाक्षिप्यत इत्याक्षेपः।

एतानि द्वादश गर्भाङ्गानि प्राप्त्याशाप्रदर्शकत्वेनोपनिबन्धनीयानि। एषां च मध्येऽभूताहरणमार्गतोटकाधिबलाक्षेपाणां प्राधान्यम्। इतरेषां यथासंभवं प्रयोग इति साङ्गो गर्भसंधिरुक्तः।

अथावमर्शः—

क्रोधेनावमृशेद्यत्र व्यसनाद्वा विलोभनात्।
गर्भनिर्भिन्नबीजार्थः सो61ऽवमर्शोऽङ्गसंग्रहः॥४३॥

अवमर्शनमवमर्शः पर्यालोचनम्। तच्च क्रोधेन वा व्यसनाद्वा विलोभनेन वा भवितव्यम्। अनेनार्थनेत्यवधारितैकान्तफलप्राप्त्यवसायात्मा गर्भसंभ्युद्भिन्नबीजार्थसंबन्धो विमर्शोऽवमर्शः। यथा रत्नावल्यां चतुर्थेऽङ्केऽग्निविद्रवपर्यन्तो वासवदत्ताप्रसक्त्या निरपायरत्नावलीप्राप्त्यवसायात्मा विमर्शो दर्शितः।

यथा च वेणीसंहारे दुर्योधनरुधिराक्तभीमसेनागमपर्यन्तः

‘तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निर्वृते
कर्णाशीविषभोगिनि प्रशमिते शल्येऽपि याते दिवम्।
भीमेन प्रियसाहसेन रभसादल्पावशेषे जये
सर्वे जीवितसंशयं वयममी वाचा समारोपिताः॥’

इत्यत्र ‘स्वल्पावशेषे जये’ इत्यादिभिर्विजयप्रत्यर्थिसमस्तभीष्मादिमहारथवधादवधारितैकान्तविजयावमर्शनादवमर्शनं दर्शितमित्यवमर्शसंधिः।

तस्याङ्कसंग्रहमाह—

तत्रापवादसंफेटौविद्रवद्रवशक्तयः।
द्युतिः प्रसङ्गश्छलनं व्यवसायो विरोधनम्॥४४॥

प्ररोचना विचलनमादानं च त्रयोदश।

यथोद्देशं लक्षणमाह—

दोषप्रख्यापवादः स्यात्

यथा रत्नावल्याम्—‘सुसङ्गता—सा62 खु तवस्सिणी भट्टिणीए उज्जइणिं णीअदित्ति पवादं करिअ उवत्थिदे अद्धरते ण जाणीअदि कहिंपि णीदेत्ति। विदूषकः—(सोद्वेगम्।) अ63दिणिग्घिणं क्खु कदं देवीए।’ पुनः। ‘भो64 वअस्य, मा खु अण्णधा संभावेहि। सा खु देवीए उज्जइणीं पेसिदा। अदो अप्पिअं त्ति कहिदम्। राजा—अहो निरनुरोधा मयि देवी।’ इत्यनेन वासवदत्तादोषप्रख्यापनादपवादः।

यथा च वेणीसंहारे—’युधिष्ठिरः—पाञ्चालक, कच्चिदासादिता तस्य दुरात्मनः कौरवापसदस्य पदवी। पाञ्चालकः—न केवलं पदवी। स एव दुरात्मा देवीकेशपाशस्पर्शपातकप्रधानहेतुरुपलब्धः।’ इति दुर्योधनस्य दोषप्रख्यापनादपवाद इति।

अथ संफेटः—

संफेटो रोषभाषणम्।

यथा वेणीसंहारे—‘भोः कौरवराज, कृतं बन्धुनाशदर्शनमन्युना। भवं विषादं कृथाः। पर्याप्ताः पाण्डवाः समरायाहमसहाय इति।

पञ्चानां मन्यसेऽस्माकं यं सुयोधं सुयोधन।
दंशितस्यात्तशस्त्रस्य तेन तेऽस्तु रणोत्सवः॥

इत्थं श्रुत्वासूयात्मिकां निक्षिप्य कुमारयोर्दृष्टिमुक्तवान्धार्तराष्ट्रः—

कर्णदुःशासनवधात्तुल्यावेव युवां मम।
अप्रियोऽपि प्रियो योद्धुं त्वमेव प्रियसाहसः॥

इत्युत्थाय च परस्परक्रोधाधिक्षेपपरुषवाक्कलहप्रस्तावितघोरसङ्ग्रामौ—‘इत्यनेन भीमदुर्योधनयोरन्योन्यरोषसंभाषणाद्विजयबीजान्वयेन संफेट इति।

अथ विद्रवः—

विद्रवो वधबन्धादिर्

यथा छलितरामे —

‘येनावृत्य मुखानि साम पठतामत्यन्तमायासितं
बाल्ये येन हृताक्षसूत्रवलयप्रत्यर्पणैः क्रीडितम्।
युष्माकं हृदयं स एष विशिखैरापूरितांसस्थलो
मूर्च्छाघोरतमःप्रवेशविवशो बध्द्वा लवो नीयते॥’

यथा च रत्नावल्याम् —

‘हर्म्याणां हेमशृङ्गश्रियमिव शिखरैरर्चिषामादधानः
सान्द्रोद्यानद्रुमाग्रग्लपनपिशुनितात्यन्ततीत्राभितापः।
कुर्वन्क्रीडामहीधं सजलजलधरश्यामलं धूमपातै-
रेष प्लोषार्तयोपिज्जन इह सहसैवोत्थितोऽन्तःपुरेऽग्निः॥’

इत्यादि। पुनः। ‘वासवदत्ता—अ65ज्जउत्त, ण क्खु अहं अत्तणो कारणदो भणामि। एसा मए णिग्घिणहिअआए संजदा सागरिआ विवज्जदि।’ इत्यनेन सागरिकावधबन्धाग्निभिर्विद्रव इति।

अथ द्रवः —

द्रवो गुरुतिरस्कृतिः॥४५॥

यथोत्तरचरिते —

‘वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते
सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते।
यानि त्रीण्यकुतोमुखान्यपि पदान्यासन्खरायोधने
यद्वा कौशलमिन्द्रसूनुदमने तत्राप्यभिज्ञो जनः॥’

इत्यनेन लवो रामस्य गुरोस्तिरस्कारं कृतवानिति द्रवः।

यथा च वेणीसंहारे—’युधिष्ठिरः—भगवन् कृष्णाग्रज सुभद्राभ्रातः,

ज्ञातिप्रीतिर्मनसि न कृता क्षत्रियाणां न धर्मो
रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन।
तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः
कोऽयं पन्था यदसि विगुणो मन्दभाग्ये मयीत्थम्॥’

इत्यादिना बलभद्रं गुरुं युधिष्ठिरस्तिरस्कृतवानिति द्रवः।

अथ शक्तिः —

विरोधशमनं शक्तिस्

यथा रत्नावल्याम् — ‘राजा

सव्याजैः शपथैः प्रियेण वचसा चित्तानुवृत्त्याधिकं
वैलक्ष्येण परेण पादपतनैर्वाक्यैः सखीनां मुहुः।
प्रत्यासत्तिमुपागता न हि तथा देवी रुदत्या यथा
प्रक्षाल्यैव तयैव बाप्पसलिलैः कोपोऽपनीतः स्वयम्॥’

इत्यनेन सागरिकालाभविरोधिवासवदत्ताकोपोपशमनाच्छक्तिः।

यथा चोत्तरचरिते लवः प्राह —

विरोधो विश्रान्तः प्रसरति रसो निर्वृतिधन-
स्तदौद्धत्यं क्वापि व्रजति विनयः प्रह्वयति माम्।
झटित्यस्मिन्दृष्टे किमपि परवानस्मि यदि वा
महार्घरस्तीर्थानामिव हि महतां कोऽप्यतिशयः॥’

अथ द्युतिः —

तर्जनोद्वेजने द्युतिः।

यथा वेणीसंहारे — ‘एतच्च वचनमुपश्रुत्य रामानुजस्य सकलनिकुञ्जपूरि ताशातिरिक्तमुद्भ्रान्तसलिलचरशतसंकुलं त्रासोद्वत्तनक्रग्राहमालोड्य सरःसलिलं भैरवं च गर्जित्वा कुमारवृकोदरेणाभिहितम्।

जन्मेन्दोरमले कुले व्यपदिशस्यद्यापि धत्से गदां
मां दुःशासनकोप्णशोणितसुराक्षीबं रिपुं भाषसे।
दर्पान्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे
मत्त्रामान्नृपशो विहाय समरं पङ्केऽधुना लीयसे॥’

इत्यादिना ‘त्यक्त्वोत्थितः सरभसम्’ इत्यनेन दुर्वचनजलावलोडनाभ्यां दुर्योधनतर्जनोद्वेजनकारिभ्यां पाण्डवविजयानुकूलदुर्योधनोत्थापनहेतुभ्यां भीमस्य द्युतिरुक्ता।

अथ प्रसङ्गः —

गुरुकीर्तनं प्रसङ्गश्

यथा रत्नावल्याम् —‘देव, यासौ सिंहलेश्वरेण स्वदुहिता रत्नावली नामायुष्मती वासवदत्तां दग्धामुपश्रुत्य देवाय पूर्वप्रार्थिता सती प्रतिदत्ता।’ इत्यनेन रत्नावल्या लाभानुकूलाभिजनप्रकाशिना प्रसङ्गाद्गुरुकीर्तनेन प्रसङ्गः।

तथा मृच्छकटिकायाम् —’चाण्डालकः—ए66स सागलदत्तस्स सुओ अज्जविणअदत्तस्स णत्तू चालुदत्तो वावादिदं वज्झट्ठाणं णीअदि। एदेण किल गणिआ वसन्तसेणा सुवण्णलोभेण वावादिद त्ति। चारुदत्तः

मखशतपरिपूतं गोत्रमुद्भासितं य-
त्सदसि निबिडचैत्यब्रह्मघोषैः पुरस्तात्।
मम निधनदशायां वर्तमानस्य पापै-
स्तदसदृशमनुष्यैर्घुप्यते घोषणायाम्॥’

इत्यनेन चारुदत्तवधाभ्युदयानुकूलं प्रसङ्गाद्गुरुकीर्तनमिति प्रसङ्गः।

अथ छलनम् —

छलनं चावमाननम्॥४६॥

यथा रत्नावल्याम् —’राजा—अहो निरनुरोधा मयि देवी।’ इत्यनेन वासवदत्तयेष्टासंपादनाद्वत्सराजस्यावमाननाच्छलनम्।

यथा च रामाभ्युदये सीतायाः परित्यागेनात्रमाननाचलनमिति।

अथ व्यवसायः —

व्यवसायः स्वशक्त्युक्तिः

यथा रत्नावल्याम् —‘ऐन्द्रजालिकः —

किं67 धरणीए मिअङ्को आआसे महिहरो जले जलणो।
मज्झण्हम्मि पओसो दाविज्जउ देहि आणत्तिम्॥

अहवा किं बहुणाजम्पिएण।

मज्झ पइण्णा एसा भणामि हिअएण जं महसि दट्ठुम्।
तं ते दावेमि फुडं गुरुणो मन्तप्पहावेण॥’

इत्यनेनैन्द्रजालिको मिथ्याग्निसंभ्रमोत्थापनेन वत्सराजस्य हृदयस्थसागरिकादर्शनानुकूलां स्वशक्तिमाविष्कृतवान्।

यथा च वेणीसंहारे —

‘नूनं तेनाद्य वीरेण प्रतिज्ञाभङ्गभीरुणा।
बध्यते केशपाशस्ते स चास्याकर्षणे क्षमः॥’

इत्यनेन युधिष्ठिरः स्वदण्डशक्तिमाविष्करोति।

अथ विरोधनम् —

सं68रब्धानां विरोधनम्।

यथा वेणीसंहारे —’राजा—रे रे मरुत्तनय, किमेवं वृद्धस्य राज्ञः पुरतो निन्दितव्यमात्मकर्म श्लाघसे। अपि च।

कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा
प्रत्यक्षं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी।
अस्मिन्वैरानुबन्धे तव किमपकृतं तैर्हता ये नरेन्द्रा
बाह्वोर्वीर्यातिसारद्रविणगुरुमदं मामजित्वैव दर्पः॥

(भीमः क्रोधं नाटयति।) अर्जुनः—आर्य, प्रसीद। किमत्र क्रोधेन।

अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा।
हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा॥

भीमः—अरे भरतकुलकलङ्क,

अद्यैव किं न विसृजेयमहं भवन्तं
दुःशासनानुगमनाय कटुप्रलापिन्।
विघ्नं गुरू न कुरुतो यदि मत्कराग्र–
निर्भिद्यमानरणितास्थिनि ते शरीरे॥

अन्यच्च मूढ,

शोकं स्त्रीवन्नयनसलिलैर्यत्परित्याजितोऽसि
भ्रातुर्वक्षःस्थलविदलने यच्च साक्षीकृतोऽसि।
आसीदेतत्तव कुनृपतेः कारणं जीवितस्य
क्रुद्धे युष्मत्कुलकमलिनीकुञ्जरे भीमसेने॥

राजा—दुरात्मन् भरतकुलापसद पाण्डवपशो, नाहं भवानिव विकत्थनाप्रगल्भः। किं तु।

द्रक्ष्यन्ति न चिरात्सुप्तं बान्धवास्त्वां रणाङ्गणे।
मद्गदाभिन्नवक्षोऽस्थिवेणिकाभङ्गभीषणम्॥’

इत्यादिना संरब्धयोर्भीमदुर्योधनयोः स्वशक्त्युक्तिर्विरोधनमिति।

अथ प्ररोचना—

सिद्धामन्त्रणतो भाविदर्शिका स्यात्प्ररोचना॥४७॥

यथा वेणीसंहारे —’पाञ्चालकः—अहं च देवेन चक्रपाणिना’ इत्युपक्रम्य ’ कृतं संदेहेन।

पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते
कृष्णात्यन्तचिरोज्झिते च कबरीबन्धे करोतु क्षणम्।
रामे शातकुठारभासुरकरे क्षत्रद्रुमोच्छेदिनि
क्रोधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः॥’

इत्यादिना ‘मङ्गलानि कर्तुमाज्ञापयति देवो युधिष्ठिरः।’ इत्यन्तेन द्रौपदीकेशसंयमनयुधिष्ठिरराज्याभिषेकयोर्भाविनोरपि सिद्धत्वेन दर्शिका प्ररोचनेति।

अथ विचलनम्—

विकत्थना विचलनम्

यथा वेणीसंहारे —’भीमः—तात, अम्ब,

सकलरिपुजयाशा यत्र बद्धा सुतैस्ते
तृणमिव परिभूतो यस्य गर्वेण लोकः।
रणशिरसि निहन्ता तस्य राधासुतस्य
प्रणमति पितरौ वां मध्यमः पाण्डवोऽयम्॥

अपि च। तात,

चूर्णिताशेषकौरव्यःक्षीबो दुःशासनासृजा।
भङ्क्तासुयोधनस्योर्वोर्भीमोऽयं शिरसाञ्चति॥’

इत्यनेन विजयबीजानुगतस्वगुणाविष्करणाद्विचलनमिति।

यथा च रत्नावल्याम् —’यौगंधरायणः

देव्या मद्वचनाद्यथाभ्युपगतः पत्युर्वियोगस्तदा
सा देवस्य कलत्रसंघटनया दुःखं मया स्थापिता।
तस्याः प्रीतिमयं करिष्यति जगत्स्वामित्वलाभः प्रभोः
सत्यं दर्शयितुं तथापि वदनं शक्नोमि नो लज्जया॥’

इत्यनेनान्यपरेणापि यौगंधरायणेन ‘मया जगत्स्वामित्वानुबन्धी कन्यालाभो वत्सराजस्य कृतः।’ इति स्वगुणानुकीर्तनाद्विचलनमिति।

अथादानम्—

आदानं कार्यसंग्रहः।

यथा वेणीसंहारे —’भीमः—ननु भोः समन्तपञ्चकसंचारिणः,

रक्षो नाहं न भूतं रिपुरुधिरजलाप्लाविताङ्गः प्रकामं
निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि।
भो भो राजन्यवीराः समरशिखिशिग्वादग्वशेषाः कृतं व-
स्त्रासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत्॥’

इत्यनेन समस्तरिपुवधकार्यस्य संगृहीतत्वादादानम्।
यथा च रत्नावल्याम् —’सागरिका—(दिशोऽवलोक्य) दि69ट्ठिआ समन्तादो पज्जलिदो भअवं हुअवहो अज्ज करिस्सदि दुक्खावसाणम्।’ इत्यनेनान्यपरेणापि दुःखावसानकार्यस्य संग्रहादादानम्। यथा च ‘जगत्स्वामित्वलाभः प्रभोः’ इति दर्शितमेवम्। इत्येतानि त्रयोदशावमर्शाङ्गानि। तत्रैतेषामपवादशक्तिव्यवसायप्ररोचनादानानि प्रधानानीति।

अथ निर्वहणसंधिः —

बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम्॥४८॥
ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत्।

यथा वेणीसंहारे —’कञ्चुकी (उपसृत्य सहर्षम्।) महाराज, वर्धसे वर्धसे। अयं खलु कुमारभीमसेनः सुयोधनक्षतजारुणीकृतसकलशरीरो दुर्लक्षव्यक्तिः।’ इत्यादिना द्रौपदीकेशसंयमनादिमुखसंध्यादिबीजानां निजनिजस्थानोपक्षिप्तानामेकार्थतया योजनम्।
यथा च रत्नावल्यां सागरिकारत्नावलीवसुभूतिबाभ्रव्यादीनामर्थानां मुखसंध्यादिषु प्रकीर्णानां वत्सराजैककार्यार्थत्वम् ‘वसुभूतिः—(सागरिकां निर्वर्ण्यापवार्य) बाभ्रव्य, सुसदृशीयं राजपुत्र्या।’ इत्यादिना दर्शितमिति निर्वहणसंधिः।

अथ तदङ्गानि—

संधिर्विबोधो ग्रथनं निर्णयः परिभाषणम्॥४९॥

प्रसादानन्दसमयाः कृतिभाषोपगूहनाः।
पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश॥५०॥

यथोद्देशं लक्षणमाह—

संधिर्बीजोपगमनं

यथा रत्नावल्याम् —’वसुभूतिः—बाभ्रव्य, सुसदृशीयं राजपुत्र्या। बाभ्रव्यः—ममाप्येवमेव प्रतिभाति।’ इत्यनेन नायिकाबीजोपगमात्संधिरिति।

यथा च वेणीसंहारे—’भीमः—भवति यज्ञवेदिसंभवे, स्मरति भवती यत्तन्मयोक्तम्।

चञ्चद्भुजभ्रमितचण्डगदाभिघात-
संचूर्णितोरुयुगलस्य सुयोधनस्य।
स्त्यानावबद्धशोणितशोणपाणि-
रुत्तंसयिष्यति कचांस्तव देवि भीमः॥’

इत्यनेन मुखोपक्षिप्तस्य बीजस्य पुनरुपगमात्संधिरिति।

अथ विबोधः—

विबोधः कार्यमार्गणम्।

यथा रत्नावल्याम्—’वसुभूतिः—(निरूप्य।) देव, कुत इयं कन्यका।राजा—देवी जानाति। वासवदत्ता—अ70ज्जउत्त, एसा सागरादो पावि-

अत्ति भणिअ अमच्चजोगन्धराअणेण मम हत्थे णिहिदा। अदो ज्जेव सागरिअत्ति सद्दावीअदि। राजा— (आत्मगतम्।) यौगंधरायणेन न्यस्ता। कथमसौ ममानिवेद्य करिष्यति।’ इत्यनेन रत्नावलीलक्षणकार्यान्वेषणाद्विबोधः।

यथा च वेणीसंहारे—’भीमः—मुञ्चतु मुञ्चतु मामार्यः क्षणमेकम्। युधिष्ठिरः किमपरमवशिष्टम्। भीमः—सुमहदवशिष्टम्। संयमयामि तावदनेन दुःशासनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम्। युधिष्ठिरः—गच्छतु भवान्। अनुभवतु तपस्विनी वेणीसंहारम्।’ इत्यनेन केशसंयमनकार्यस्यान्वेषणाद्विबोध इति।

अथ ग्रथनम्—

ग्रथनं तदुपक्षेपो

यथा रत्नावल्याम्—’यौगंधरायणः—देव, क्षम्यतां यद्देवस्यानिवेद्य मयैतत्कृतम्।’ इत्यनेन वत्सराजस्य रत्नावलीप्रापणकार्योपक्षेपाद्ग्रथनम्।

यथा च वेणीसंहारे—’भीमः—पाञ्चालि, न खलु मयि जीवति संहर्तव्या दुःशासनविलुलिता वेणिरामपाणिना। तिष्ठतु तिष्ठतु। स्वयमेवाहं संहरामि।’ इत्यनेन द्रौपदीकेशसंयमनकार्यस्योपक्षेपाद्ग्रथनम्।

अथ निर्णयः—

ऽनुभूताख्या तु निर्णयः॥५१॥

यथा रत्नावल्याम्—‘यौगंधरायणः—(कृताञ्जलिः।) देव, श्रूयताम् इयं सिंहलेश्वरदुहिता सिद्धादेशेनोपदिष्टा, योऽस्याः पाणिंग्रहीष्यति स सार्वभौमो राजा भविष्यति। तत्प्रत्ययादस्माभिः स्वाम्यर्थे बहुशः प्रार्थ्यमानापि सिंहलेश्वरेण देव्या वासवदत्तायाश्चित्तखेदं परिहरता यदा न दत्ता, तदा लावणिके देवी दग्धेति प्रसिद्धिमुत्पाद्य तदन्तिकं बाभ्रव्यः प्रहितः।’ इत्यनेन यौगंधरायणः स्वानुभूतमर्थं ख्यापितवानिति निर्णयः।

यथा च वेणीसंहारे—’भीमः—देव देव अजातशत्रो, क्वाद्यापि दुर्योधनहतकः। मया हि तस्य दुरात्मनः

भूमौ क्षिप्त्वा शरीरं निहितमिदमसृक्चन्दनाभं निजाङ्गे
लक्ष्मीरार्ये निषिक्ता चतुरुदधिपयःसीमया सार्धमुर्व्या।

भृत्या मित्राणि योधाः कुरुकुलमखिलं दग्धमेतद्रणाग्नौ
नामैकं यद्ब्रवीषि क्षितिप तदधुना धार्तराष्ट्रस्य शेषम्॥’

इत्यनेन स्वानुभूतार्थकथनान्निर्णय इति।

अथ परिभाषणम् —

परिभाषा मिथो जल्पः

यथा रत्नावल्याम् — ‘रत्नावली—(आत्मगतम्।) क71आवराहा देवीए ण सक्कुणोमि मुहं दंसिदुम्। वासवदत्ता—(सास्रम्। पुनर्बाहू प्रसार्थ।) ए72हि अयि णिट्ठुरे, इदाणीं पि बन्धुसिहं दंसेहि। (अपवार्य।) अज्जउत्त,लज्जामि क्खु अहं इमिणा णिसंसत्तणेण। ता लहुं अवणेहि से बन्धम्।राजा—यथाह देवी। (बन्धनमपनयति।) वासवदत्ता—(वसुभूतिं निर्दिश्य) अ73ज्ज, अमच्चयोगन्धरायणेण दुज्जणीकदह्मि जेण जाणन्तेण वि णाचक्खिदम्।’ इत्यनेनान्योन्यवचनात्परिभाषणम्।

यथा च वेणीसंहारे —’**भीमः—**कृष्टा येनासि राज्ञां सदसि नृपशुना तेन दुःशासनेन।’ इत्यादिना ‘क्वासौ भानुमती योपहसति पाण्डवदारान्।’ इत्यन्तेन भाषणात्परिभाषणम्।

अथ प्रसादः —

प्रसादः पर्युपासनम्।

यथा रत्नावल्याम् —‘देव, क्षम्यताम्।’ इत्यादि दर्शितम्।

यथा च वेणीसंहारे—’भीमः—(द्रौपदीमुपसृत्य।) देवि पाञ्चालराजतनये, दिष्ट्या वर्धसे रिपुकुलक्षयेन।’ इत्यनेन द्रौपद्या भीमसेनेनाराधितत्वाप्रसाद इति।

अथानन्दः—

आनन्दो वाञ्छितावाप्तिः

यथा रत्नावल्याम् —’राजा—यथाह देवी। (रत्नावलीं गृह्णाति।)’

यथा च वेणीसंहारे—’द्रौपदी—णा74ध, विसुमरिदह्मि एदं वावारम्। णाधस्स प्पसादेण पुणो सिक्खिस्सम्। (केशान्बध्नाति।)’ इत्याभ्यां प्रार्थितरत्नावलीप्राप्तिकेशसंयमनयोर्वत्सराजद्रौपदीभ्यां प्राप्तत्वादानन्दः।

अथ समयः—

समयो दुःखनिर्गमः॥५२॥

यथा रत्नावल्याम्—’वासवदत्ता—(रत्नावलीमालिङ्ग्य।) स75मस्सस समस्सस बहिणिए।’ इत्यनेन भगिन्योरन्योन्यसमागमेन दुःखनिर्गमात्समयः।
यथा च वेणीसंहारे—‘भगवन्, कुतस्तस्य विजयादन्यद्यस्य भगवान्पुराणपुरुषः स्वयमेव नारायणो मङ्गलान्याशास्ते।

कृतगुरुमहदादिक्षोभसंभूतमूर्तिं
गुणिनमुद्यनाशस्थानहेतुं प्रजानाम्।
अजममरमचिन्त्यं चिन्तयित्वापि न त्वां
भवति जगति दुःखी किं पुनर्देव दृष्ट्वा॥

इत्यनेन युधिष्ठिरदुःखापगमं दर्शयति।

अथ कृतिः —

कृतिर्लब्धार्थशमनं

यथा रत्नावल्याम्—’राजा—को देव्याः प्रसादं न बहु मन्यते।वासवदत्ता—अ76ज्जउत्त, दूरे से मादुउलम्। ता तथा करेसु जधा बन्धुअणं न सुमरेदि।’ इत्यन्योन्यवचमा लब्धायां रत्नावल्यां राज्ञः सुश्लिष्टय उपशमनात्कृतिरिति।

यथा च वेणीसंहारे — ‘कृष्णः—एते खलु भगवन्तो व्यासवाल्मीकि—‘इत्यादिना ‘अभिषेकमारब्धवन्तस्तिष्ठन्ति।’ इत्यनेन प्राप्तराज्यस्याभिषेकमङ्गलैः स्थिरीकरणं कृतिः।

अथ भाषणम्—

मानाद्याप्तिश्च भाषणम्।

यथा रत्नावल्याम्—’राजा—अतःपरमपि प्रियमस्ति।

यातो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले
सारं सागरिका ससागरमहीप्राप्त्येकहेतुः प्रिया।
देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोशलाः
किं नास्ति त्वयि सत्यमात्यवृषभे यस्मै करोमि स्पृहाम्॥’

इत्यनेन कामार्थमानादिलाभाद्भाषणमिति।

अथ पूर्वभाबोपगूहने—

कार्यदृष्ट्यभ्दुतप्राप्ती पूर्वभावोपगूहने॥५३॥

कार्यदर्शनं पूर्वभावः। यथा रत्नावल्याम्—’यौगंधरायणः—एवं विज्ञाय भगिन्याः संप्रति करणीये देवी प्रमाणम्। **वासवदत्ता—**फ77ुडं ज्जेव किं ण भणेसि। पडिवाएहि से रअणमालं त्ति।’ इत्यनेन ‘वत्सराजाय रत्नावली दीयताम्।’ इति कार्यस्य यौगंधरायणाभिप्रायानुप्रविस्य वासवदत्तया दर्शनात्पूर्वभाव इति।

अद्भुतप्राप्तिरुपगूहनम्। यथा वेणीसंहारे —’ (नेपथ्ये।) महासमरानलदग्धशेषाय स्वस्ति भवते राजन्यलोकाय।

क्रोधान्धैर्यस्य मोक्षात्क्षतनरपतिभिः पाण्डुपुत्रैः कृतानि
प्रत्याशं मुक्तकेशान्यनुदिनमधुना पार्थिवान्तःपुराणि।
कृष्णायाः केशपाशः कुपितयमसखो धूमकेतुः कुरूणां
दिष्ट्या बद्धः प्रजानां विरमतु निधनं स्वस्ति राजन्यकेभ्यः॥

युधिष्ठिरः—देवि, एष ते मूर्धजानां संहारोऽभिनन्दितो नभस्तलचारिणा सिद्धजनेन।’ इत्येतेनाद्भुतार्थप्राप्तिरुपगूहनमिति। लब्धार्थशमनात्कृतिरपि भवति।

अथ काव्यसंहारः—

वराप्तिः काव्यसंहारः

यथा—‘किं ते भूयः प्रियमुपकरोमि।’ इत्यनेन काव्यार्थसंहरणात्काव्यसंहार इति।

अथ प्रशस्तिः—

प्रशस्तिः शुभशंसनम्।

यथा वेणीसंहारे—‘प्रीततरद्भवान्, तदिदमेवमस्तु।

अकृपणमतिः कामं जीव्याज्जनः पुरुषायुषं
भवतु भगवद्भक्तिर्द्वैतं विना पुरुषोत्तमे।
कलितभुवनो विद्वद्बन्धुर्गुणेषु विशेषवि-
त्सततसुकृती भूयाद्भूपः प्रसाधितमण्डपः॥’

इति शुभशंसनात्प्रशस्तिः। इत्येतानि चतुर्दश निर्वहणाङ्गानि। एवं चतुःषष्ठ्यङ्गसमन्विताःपञ्चसंधयः प्रतिपादिताः।

षट्प्रकारं चाङ्गानां प्रयोजनमित्याह—

उक्ताङ्गानां चतुःषष्टिः षोढा चैषां प्रयोजनम्॥५४॥

कानि पुनस्तानि षट्प्रयोजनानि—

इष्टस्यार्थस्य रचना गोप्यगुप्तिः प्रकाशनम्।
रागः प्रयोगस्याश्चर्यं वृत्तान्तस्यानुपक्षयः॥५५॥

विवक्षितार्थनिबन्धनं गोप्यार्थगोपनं प्रकाश्यार्थप्रकाशनमभिनेयरागवृद्धिश्चमत्कारित्वं च काव्यस्येतिवृत्तस्य विस्तर इत्यङ्गैः षट्प्रयोजनानि संपाद्यन्त इति।

पुनर्वस्तुविभागमाह—

द्वेधा विभागः कर्तव्यः सर्वस्यापीह वस्तुनः।
सूच्यमेव भवेत्किंचिदृश्यश्रव्यमथापरम्॥५६॥

कीदृक्सूच्यं कीदृग्दृश्यश्रव्यमित्याह—

नीरसोऽनुचितस्तत्र संसूच्यो वस्तुविस्तरः।
दृश्यस्तु मधुरोदात्तरसभावनिरन्तरः॥५७॥

सूच्यस्य प्रतिपादनप्रकारमाह—

अर्थोपक्षेपकैः सूच्यं पञ्चभिः प्रतिपादयेत्।
विष्कम्भचूलिकाङ्कास्याङ्कावतारप्रवेशकैः॥५८॥

तत्र विष्कम्भः—

वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः।
संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः॥५९॥

अतीतानां भाविनां च कथावयवानां ज्ञापको मध्यमेन मध्यमाभ्यां वा पात्राभ्यां प्रयोजितो विष्कम्भक इति।

स द्विविधः—शुद्धः संकीर्णश्चेत्याह—

एकानेककृतः शुद्धः संकीर्णो नीचमध्यमैः।

एकेन द्वाभ्यां वा मध्यमपात्राभ्यां शुद्धो भवति। मध्यमाधमपात्रैर्युगपत्प्रयोजितः संकीर्ण इति।

अथ प्रवेशकः —

तद्वदेवानुदात्तोक्त्या नीचपात्रप्रयोजितः॥६०॥
प्रवेशोऽङ्कद्वयस्या78न्तः शेषार्थस्योपसूचकः।

तद्वदेवेति भूतभविष्यदर्थज्ञापकत्वमतिदिश्यते। अनुदात्तोक्त्या नीचेन नीचैर्वा पात्रैः प्रयोजित इति विष्कम्भलक्षणापवादः।अङ्कद्वयस्यान्त इतिप्रथमाङ्के प्रतिषेध इति।

अथ चूलिका—

79न्तर्जवनिकासंस्थैश्चूलिकार्थस्य सूचना॥६१॥

नेपथ्यपात्रेणार्थसूचनं चूलिका। यथोत्तरचरिते द्वितीयाङ्कस्यादौ—’(नेपथ्ये।) स्वागतं तपोधनायाः। (ततः प्रविशति तपोधना।)’ इति नेपथ्यपात्रेण वासन्तिकयात्रेयीसूचनाच्चूलिका।

यथा वा वीरचरिते चतुर्थाङ्गस्यादौ—(नेपथ्ये।) भो भो वैमानिकाः प्रवर्त्यन्तां प्रवर्त्यन्तां मङ्गलानि।

कृशाश्वान्तेवासी जयति भगवान्कौशिकमुनिः
सहस्राशोर्वंशे जगति विजयि क्षत्रमधुना।
विनेता क्षत्त्रारेर्जगद्भयदानत्रतधरः
शरण्यो लोकानां दिनकरकुलेन्दुर्विजयते॥’

इत्यत्र नेपथ्यपात्रैर्देवै रामेण परशुरामो जित इति सूचनाच्चूलिका।

अथाङ्कास्यम्—

अङ्कान्तपात्रैरङ्कास्यं छिन्नाङ्कस्यार्थसूचनात्।

अङ्कान्त एव पात्रमङ्कान्तपात्रम्। तेन विश्लिष्टस्योत्तराङ्कमुखस्य सूचनं तद्वशेनोत्तराङ्कावतारोऽङ्कास्यमिति। यथा वीरचरिते द्वितीयाङ्कान्ते—’(प्रविश्य।) सुमन्त्रः— भगवन्तौ वसिष्ठविश्वामित्रौ भवतः सर्भागवानाह्वयतः। इतरे—क्व भगवन्तौ। सुमन्त्रः— महाराजदशरथस्यान्तिके।इतरे— तदनुरोधात्तत्रैव गच्छामः। इत्यङ्कसमाप्तौ’ (ततः प्रविशन्त्युपविष्टा वसिष्ठविश्वामित्रपरशुरामाः।)’ इत्यत्र पूर्वाङ्कान्त एव प्रविष्टेनसुमन्त्रपात्रेण शतानन्दजनककथार्थविच्छेद उत्तराङ्कमुखसूचनादङ्कास्यमिति।

अथाङ्कावतारः—

अङ्कावतारस्त्वङ्कान्ते पा80तोऽङ्कस्याविभागतः॥६२॥
एभिः संसूचयेत्सूच्यं दृश्यमङ्कैः प्रदर्शयेत्।

यत्र प्रविष्टपात्रेण सूचितमेव पूर्वाङ्काविच्छिन्नार्थतयैवाङ्कान्तरमापतति प्रवेशकविष्कम्भकादिशून्यं सोऽङ्कावतारः। यथा मालविकाग्निमित्रे प्रथमाङ्कान्ते—’विदूषकः—तेण81 हि दुवेवि देवीए पेक्खागेहं गदुअ सङ्गीदोवअरणं करिअ तत्थभवदो दूदं विसज्जेध। अधवा मुदङ्गसद्दो ज्जेव णं उत्थावयिस्सदि।’ इत्युपक्रमे मृदङ्गशब्दश्रवणादनन्तरं सर्वाण्येव पात्राणि प्रथमाङ्कप्रक्रान्तपात्रसंक्रान्तिदर्शनं द्वितीयाङ्कादावारभन्त इति प्रथमाङ्कार्थाविच्छेदेनैव द्वितीयाङ्कस्यावतरणादङ्कावतार इति।

पुनस्त्रिधा वस्तुविभागमाह—

नाट्यधर्ममपेक्ष्यैतत्पुनर्वस्तु त्रिधेष्यते॥६३॥

केन प्रकारेण त्रैधं तदाह—

सर्वेषां नियतस्यैव श्राव्यमश्राव्यमेव च।

तत्र।

सर्वश्राव्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम्॥६४॥

सर्वश्राव्यं यद्वस्तु तत्प्रकाशमित्युच्यते। यत्तु सर्वस्याश्राव्यं तत्स्वगतमिति शब्दाभिधेयम्।

नियतश्राव्यमाह—

द्विधान्यन्नाट्यधर्माख्यं जनान्तमपवारितम्।

अन्यत्तु नियतश्राव्यं द्विप्रकारं जनान्तिकापवारितभेदेन।

तत्र जनान्तिकमाह—

त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम्॥६५॥
अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम्।

यस्य न श्राव्यं तस्यान्तर ऊर्ध्वसर्वाङ्गुलं वक्रानामिकत्रिपताकलक्षणं करं कृत्वान्येन सह यन्मन्त्र्यते तज्जनान्तिकमिति।

अथापवारितम्—

रहस्यं कथ्यतेऽन्यस्य परावृत्त्यापवारितम्॥६६॥

परावृत्त्यान्यस्य रहस्यकथनमपवारितमिति।

नाट्यधर्मप्रसङ्गादाकाशभाषितमाह—

किं ब्रवीप्येवमित्यादि विनापात्रं ब्रवीति यत्।
श्रुत्वेवानुक्तमप्येकस्तत्स्यादाकाशभाषितम्॥६७॥

स्पष्टार्थः।

अन्यान्यपि नाट्यधर्माणि प्रथमकल्पादीनि कैश्चिदुदाहृतानि। तेषामभारतीयत्वान्नाममालाप्रसिद्धानां केषांचिद्देशभाषात्मकत्वान्नाट्यधर्मत्वाभावाल्लक्षणं नोक्तमित्युपसंहरति—

इत्याद्यशेषमिह वस्तुविभेदजातं
रामायणादि च विभाव्य बृहत्कथां च।
आसूत्रयेत्तदनु नेतृरसानुगुण्या-
च्चित्रांकथामुचितचारुवचःप्रपञ्चैः॥६८॥

वस्तुविभेदजातं वस्तु वर्णनीयं तस्य विभेदजातं नामभेदाः। रामायणादि बृहत्कथां च गुणाढ्यनिर्मितां विभाव्य आलोच्य। तदनु एतदुत्तरम्। नेत्रिति। नेता वक्ष्यमाणलक्षणः, रसाश्च तेषामानुगुण्याच्चित्रां चित्ररूपां कथामाख्यायिकाम्। चारूणि यानि वचांसि तेषां प्रपञ्चैर्विस्तारैरासूत्रदनुग्रथयेत्। तत्र बृहत्कथामूलं मुद्राराक्षसम्—

‘चाणक्यनाम्ना तेनाथ शकटालगृहे रहः।
कृत्यां विधाय सहसा सपुत्रो निहतो नृपः॥

योगानन्दयशः शेषे पूर्वनन्दसुतस्ततः।
चन्द्रगुप्तः कृतो राजा चाणक्येन महौजसा॥

इति बृहत्कथायां सूचितं श्रीरामायणोक्तं रामकथादि ज्ञेयम्॥

इति श्रीविष्णुसुनोर्धनिकस्य कृतौ दशरूपावलोके
प्रथमः प्रकाशः समाप्तः।

——————

द्वितीयः प्रकाशः।

रूपकाणामन्योन्यं भेदसिद्धये वस्तुभेदं प्रतिपाद्येदानीं नायकभेदः प्रतिपाद्यते —

नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः।
रक्तलोकः शुचिर्वाङ्मी रूढवंशः स्थिरो युवा॥१॥

बुद्ध्युत्साहस्मृतिप्रज्ञाकलामानसमन्वितः।
शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः॥२॥

नेता नायको विनयादिगुणसंपन्नो भवतीति।

तत्र विनीतः। यथा वीरचरिते—

‘यद्ब्रह्मवादिभिरुपासितवन्द्यपादे
विद्यातपोव्रतनिधौ तपतां वरिष्ठे।
देवात्कृतस्त्वयि मया विनयापचार-
स्तत्र प्रसीद भगवन्नयमञ्जलिस्ते॥

मधुरः प्रियदर्शनः। यथा तत्रैव—

‘राम राम नयनाभिरामतामाशयस्य सदृशीं समुद्वहन्।
अप्रतर्क्यगुणरामणीयकः सर्वथैव हृदयंगमोऽसि मे॥’

त्यागी सर्वस्वदायकः। यथा—

‘त्वचं कर्णः शिबिर्मासं जीवं जीमूतवाहनः।
ददौ दधीचिरस्थिति धीरस्थीनि महात्मनाम्॥’

दक्षः क्षिप्रकारी। यथा वीरचरिते—

‘स्फूर्जद्वज्रसहस्रनिर्मितमिव प्रादुर्भवत्यग्रतो
रामस्य त्रिपुरान्तकृद्दिविषदां तेजोभिरिद्धं धनुः।
शुण्डारः कलभेन यद्वदवले वत्सेन दोर्दण्डक-
स्तस्मिन्नाहित एव गर्जितगुणं कृष्टं च भग्नं च तत्॥’

प्रियंवदः प्रियभाषी। यथा तत्रैव—

‘उत्पत्तिर्जमदग्नितः स भगवान्देवः पिनाकी गुरु-
र्वीर्यं यत्तु न तद्गिरां पथि ननु व्यक्तं हि तत्कर्मभिः।
त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः
सत्यब्रह्मतपोनिधेर्भगवतः किं वा न लोकोत्तरम्॥’

रक्तलोकः। यथा तत्रैव—

‘त्रय्यास्त्राता यस्तवायं तनूज-
स्तेनाद्यैव स्वामिनस्ते प्रसादात्।
राजन्वन्तो रामभद्रेण राज्ञा
लब्धक्षेमाः पूर्णकामाश्चरामः॥’

एवं शौचादिष्वप्युदाहार्यम्। तत्र शौचं नाम मनोनैर्मल्यादिना कामाद्यनभिभूतत्वम्। यथा रघौ—

‘का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति॥’

वाङ्मी। यथा हनुमन्नाटके—

‘बाह्वोर्बलं न विदितं न च कार्मुकस्य
त्रैयम्बकस्य तनिमा तत एष दोषः।
तच्चापलं परशुराम मम क्षमस्व
डिम्भस्य दुर्विलसितानि मुदे गुरूणाम्॥’

रुद्रवंशो यथा—

‘ये चत्वारो दिनकरकुलक्षत्रसंतानमल्ली-
मालाम्लानस्तबकमधुपा जज्ञिरे राजपुत्राः।
रामस्तेषामचरमभवस्ताडकाकालरात्रि-
प्रत्यूषोऽयं सुचरितकथाकन्दलीमूलकन्दः॥’

स्थिरो वाङ्मनःक्रियाभिरचञ्चलः। यथा वीरचरिते—

‘प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात्।
न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम्॥’

यथा वा भर्तृहरिशतके—

‘प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविता विरमन्ति मध्याः।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमगुणास्त्वमिवोद्वहन्ति॥’

युवा प्रसिद्धः। बुद्धिर्ज्ञानम्। गृहीतविशेषकरी तु प्रज्ञा। यथा मालविकाग्निमित्रे—

‘यद्यत्प्रयोगविषये भाविकमुपदिश्यते मया तस्यै।
तत्तद्विशेषकरणात्प्रत्युपदिशतीव मे बाला॥’

स्पष्टमन्यत्।

नेतृविशेषानाह—

भेदैश्चतुर्धा ललितशान्तोदात्तोद्धतैरयम्।

यथोद्देशं लक्षणमाह—

निश्चिन्तो धीरललितः कलासक्तः सुखी मृदुः॥३॥

सचिवादिविहितयोगक्षेमत्वाच्चिन्तारहितः। अत एव गीतादिकलाविष्टो भोगप्रवणश्च शृङ्गारप्रधानत्वाच्च सुकुमारसत्त्वाचारो मृदुरिति ललितः।

यथा रत्नावल्याम्—

‘राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः
सम्यक्पालनललिताः प्रशमिताशेषोपसर्गाः प्रजाः।
प्रद्योतस्य सुता वसन्तसमयस्त्वं चेति नाम्ना धृतिं
कामः काममुपैत्वयं मम पुनर्मन्ये महानुत्सवः॥’

अथ शान्तः—

सामान्यगुणयुक्तस्तु धीरशान्तो द्विजादिकः।

विनयादिनेतृसामान्यगुणयोगी धीरशान्तो द्विजादिक इति विप्रवणिक्सचिवादीनां प्रकरणनेतॄणामुपलक्षणम्। विवक्षितं चैतत्। तेन नैश्चिन्त्यादिगुणसंभवेऽपि विप्रादीनां शान्ततैव न लालित्यम्। यथा मालतीमाधवमृच्छकटिकादौ माधव-चारुदत्तादिः।

‘तत उदयगिरेरिवैक एव
स्फुरितगुणद्युतिसुन्दरः कलावान्।
इह जगति महोत्सवस्य हेतु-
र्नयनवतामुदियाय बालचन्द्रः॥’

इत्यादि। यथा वा—

मखशतपरिपूतं गोत्रमुद्भासितं य-
त्सदसि निबिडचैत्यब्रह्मघोषैः पुरस्तात्।
मम निधनदशायां वर्तमानस्य पापै-
स्तदसदृशमनुष्यैर्घुष्यते घोषणायाम्॥’

अथ धीरोदात्तः—

महासत्त्वोऽतिगम्भीरः क्षमावानविकत्थनः॥४॥
स्थिरो निगूढाहंकारो धीरोदात्तो दृढव्रतः।

महासत्त्वः शोकक्रोधाद्यनभिभूतान्तःसत्त्वः। अविकत्थनोऽनात्मश्लाघनः। निगूढाहंकारो विनयच्छन्नावलेपः। दृढव्रतोऽङ्गीकृननिर्वाहको धीरोदात्तः। यथा नागानन्दे—’जीमूतवाहनः

शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति।
तृप्तिं न पश्यामि तवैव तावत्किं भक्षणात्त्वं विरतो गरुत्मन्॥’

यथा च रामं प्रति—

‘आहूतस्याभिषेकाय विसृष्टस्य वनाय च।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः॥’

यञ्चकेषांचित्स्थैर्यादीनां सामान्यगुणानामपि विशेषलक्षणे कचित्संकीर्तनं तत्तेषां तत्राधित्यप्रतिपादनार्थम्। ननु च कथं जीमूतवाहनादिर्नागानन्दादावुदात्त इत्युच्यते। औदात्त्यं हि नाम सर्वोत्कर्षेण वृत्तिः। तच्च विजिगीषुत्व एवोपपद्यते। जीमूतवाहनस्तु निर्जिगीषुतयैव कविना प्रतिपादितः। यथा—

‘तिष्ठन्भाति पितुः पुरो भुवि यथा सिंहासने किं तथा
यत्संवाहयतः सुखं हि चरणौ तातस्य किं राज्यतः।
किं भुक्ते भुवनत्रये धृतिरसौ भुक्तोज्झिते या गुरो-
रायासः खलु राज्यमुज्झितगुरोस्तत्रास्ति कश्चिद्गुणः॥’

इत्यनेन।

‘पित्रोर्विधातुं शुश्रूषां त्यक्त्वैश्वर्यं क्रमागतम्।
वनं याम्यहमप्येष यथा जीमूतवाहनः॥

इत्यनेन च। अतोऽस्यात्यन्तशमप्रधानत्वात्परमकारुणिकत्वाच्च वीतरागवच्छान्तता। अन्यच्चात्रायुक्तं यत्तश्चाभूतं राज्यसुखादौ निरभिलाषं नायकमुपादायान्तरा तथाभृतमलयवत्यनुरागोपवर्णनम्, यच्चोक्तं सामान्यगुणयोगी द्विजादिर्धीरशान्त इति, तदपि पारिभाषिकत्वादवास्तवमित्यभेदकम्। अतो वस्तुस्थित्या बुद्ध-युधिष्ठिर-जीमूतवाहनादिव्यवहाराः शान्ततामाविर्भावयन्ति।

अत्रोच्यते—यत्तावदुक्तं सर्वोत्कर्षेण वृत्तिरौदात्त्यमिति, न तज्जीमूतवाहनादौ परिहीयते। न ह्येकरूपैव विजिगीषुता। यः केनापि शौर्यत्यागदयादिनान्यानतिशेते स विजिगीषुः, न यः परापकारेणार्थग्रहादिप्रवृत्तः। तथात्वे च मार्गदूषकादेरपि धीरोदात्तत्वप्रसक्तिः। रामादेरपि जगत्पालनीयमिति दुष्टनिग्रहे प्रवृत्तस्य नान्तरीयकत्वेन भूम्यादिलाभः। जीमूतवाहनादिस्तु प्राणैरपि परार्थसंपादनाद्विश्वमप्यतिशेत इत्युदात्ततमः। यथोक्तम्—‘तिष्ठन्भाति—‘इत्यादिना विषयसुखपराङ्मुखतेति, तत्सत्यम्। कार्पण्यहेतुषु स्वसुखतृष्णासु निरभिलाषा एव जिगीषवः। यदुक्तम्—

‘स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः
प्रतिदिनमथवा ते वृत्तिरेवंविधैव।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं
शमयति परितापं छाययोपाश्रितानाम्॥’

इत्यादिना मलयवत्यनुरागोपवर्णनं त्वशान्तरसाश्रयं शान्तनायकतां प्रत्युत निषेधति। शान्तत्वं चानहंकृतत्वं तच्च विप्रादेरौचित्यवाप्तमिति वस्तुस्थित्या विप्रादेः शान्तता न स्वपरिभाषामात्रेण। बुद्धजीमूतवाहनयोस्तु कारुणिकत्वाविशेषेऽपि सकामनिष्कामकरुणत्वादिधर्मत्वाद्भेदः। अतो जीमूतवाहनादेर्धीरोदात्तत्वमिति।

अथ धीरोद्धतः—

दर्पमात्सर्यभूयिष्ठो मायाछद्मपरायणः॥५॥
धीरोद्धतस्त्वहंकारी चलश्चण्डो विकत्थनः।

दर्पः शौर्यादिमदः। मात्सर्यमसहनता। मन्त्रबलेनाविद्यमानवस्तुप्रकाशनं माया। छद्म वञ्चनामात्रम्। चलोऽनवस्थितश्चण्डो रौद्रः स्वगुणशंसी विकत्थनो धीरोद्धतो भवति। यथा जामदग्न्यः—‘कैलासोद्धारसारत्रिभुवनाविजय—’ इत्यादि। यथा च रावणः—‘त्रैलोक्यैश्वर्यलक्ष्मीहठहरणसहा बाहवो रावणस्य।’
धीरललितादिशब्दाश्च यथोक्तगुणसमारोपितावस्थाभिधायिनो वत्सवृषभमहोक्षादिवन्न जात्या कश्चिदवस्थितरूपो ललितादिरस्ति। तदा हि महाकविप्रबन्धेषु विरुद्धानेकरूपाभिधानमसंगतमेव स्यात्, जातेरनपायित्वात्। तथा च भवभूतिनैक एव जामदग्न्यः—

‘ब्राह्मणातिक्रमत्यागो भवतामेव भूतये।
जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते॥’

इत्यादिना रावणं प्रति धीरोदात्तत्वेन ‘कैलासोद्धारसार—‘इत्यादिभिश्च रामादीन्प्रति प्रथमं धीरोद्धतत्वेन पुनः ‘पुण्या ब्राह्मणजातिः’ इत्यादिभिश्च धीरशान्तत्वेनोपवर्णितः। न चावस्थान्तराभिधानमनुचितमङ्गभूतनायकानां नायकान्तरापेक्षया महासत्त्वादेरव्यवस्थितत्वादङ्गिनस्तु रामादेरेकप्रबन्धोपात्तान्प्रत्येकरूपत्वादारम्भोपात्तावस्थातोऽवस्थान्तरोपादानमन्याय्यम्। यथोदात्तत्वाभिमतस्य रामस्य छद्मना वालिवधादमहासत्त्वतया स्वावस्थापरित्याग इति। वक्ष्यमाणानां च दक्षिणाद्यवस्थानां पूर्वाप्रत्यन्ययाहृत इति नित्यसापेक्षत्वेनाविर्भावादुपादस्थातोऽवम्यान्तराभिधानमङ्गाङ्गिनोरप्यविरुद्धम्।

अथ शृङ्गारनेत्रवस्थाः—

स दक्षिणः शठो धृष्टः पूर्वा प्रत्यन्यया हृतः॥६॥

नायकप्रकरणात्पूर्वां नायिकां प्रत्यन्ययापूर्वनायिकयापहृतचित्तस्त्र्यवस्थो वक्ष्यमाणभेदेन स चतुरवस्थः। तदेवं पूर्वोक्तानां चतुर्णां प्रत्येकं चतुरवस्थत्वेन षोडशधा नायकः।

तत्र—

दक्षिणोऽस्यां सहृदयः

योऽस्यां ज्येष्ठायां हृदयेन सह व्यवहरति स दक्षिणः। यथा ममैव—

‘प्रसीदत्यालोके किमपि किमपि प्रेमगुरवो
रतिक्रीडाः कोऽपि प्रतिदिनमपूर्वोऽस्य विनयः।
सविश्रम्भः कश्चित्कथयति च किंचित्परिजनो
न चाहं प्रत्येमि प्रियसखि किमप्यस्य विकृतिम्॥’

यथा वा—

‘उचितः प्रणयो वरं विहन्तुं बहवः खण्डनहेतवो हि दृष्टाः।
उपचारविधिर्मनस्विनीनां ननु पूर्वाभ्यधिकोऽपि भावशून्यः॥’

अथ शठः—

गूढविप्रियकृच्छठः।

दक्षिणस्यापि नायिकान्तरापहृतचित्ततया विप्रियकारित्वाविशेषेऽपि सहृदयत्वेन शठाद्विशेषः। यथा—

‘शठोऽन्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा
यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः।
तदेतत्क्वाचक्षे घृतमधुमयत्वद्बहुवचो-
विषेणाघूर्णन्ती किमपि न सखी मे गणयति॥’

अथ धृष्टः—

व्यक्ताङ्गवैकृतो धृष्टो

यथामरुशतके—

‘लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले
वक्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः।
दृष्ट्वा कोपपिधायिमण्डनमिदं प्रातश्चिरं प्रेयसो
लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः॥’

भेदान्तरमाह—

ऽनुकूलस्त्वेकनायिकः॥७॥

यथा—

‘अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु य-
द्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः।
कालेनावरणात्ययात्परिणते यत्स्नेहसारे स्थितं
भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्राप्यते॥’

किमवस्थः पुनरेषां वत्सराजादिर्नाटिकानायकः स्यादित्युच्यते। पूर्वमनुपजातनायिकान्तरानुरागोऽनुकूलः। परतस्तु दक्षिणः। ननु च गूढविप्रियकारित्वाद्व्यक्ततरविप्रियत्वाच्च शाठ्यधार्ष्ट्येऽपि कस्मान्न भवतः। न तथाविधविप्रियत्वेऽपि वत्सराजादेराप्रबन्धसमाप्तेर्ज्येष्ठां नायिकां प्रति सहृदयत्वाद्दक्षिणतैव। न चोभयोज्यैष्ठाकनिष्ठयोर्नायकस्य स्नेहेन न भवितव्यमिति वाच्यमविरोधात्। महाकविप्रबन्धेषु च—

‘स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसु-
र्द्यूते रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च।

इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते
देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः॥’

इत्यादावपक्षपातेन सर्वनायिकासु प्रतिपत्त्युपनिबन्धनात्।

तथा च भरतः—

‘मधुरस्त्यागी रागं न याति मदनस्य नापि वशमेति।
अवमानितश्च नार्या विरज्यते स तु भवेज्ज्येष्ठः॥’

इत्यत्र न रागं याति न मदनस्य वशमेतीत्यनेनासाधारण एकस्यां स्नेहो निषिद्धो दक्षिणस्येति। अतो वत्सराजादेशप्रबन्धसमाप्तिस्थितं दाक्षिण्यमिति। षोडशानामपि प्रत्येकं ज्येष्ठमध्यमाधमत्वेनाष्टाचत्वारिंशन्नायकभेदाभवन्ति।

सहायानाह—

पताकानायकस्त्वन्यः पीठमर्दो विचक्षणः।
तस्यैवानुचरो भक्तः किंचिदूनश्च तद्गुणैः॥८॥

प्रागुक्तप्रासङ्गिकेतिवृत्तविशेषः पताका तन्नायकः पीठमर्दः प्रधानेतिवृत्तनायकस्य सहायः। यथा मालतीमाधवे मकरन्दः, रामायणे सुग्रीवः।

सहायान्तरमाह —

एकविद्यो विटश्चान्यो हास्यकृच्च विदूषकः।

गीतादिविद्यानां नायकोपयोगिनीनामेकस्या विद्याया वेदिता विटः। हास्यकारी विदूषकः। अस्य विकृताकारवेषादित्वं हास्यकारित्वेनैव लभ्यते। यथा शेखरको नागानन्दे विटः। विदूषकः प्रसिद्ध एव।

अथ प्रतिनायकः—

लुब्धो धीरोद्धतः स्तब्धः पापकृद्व्यसनी रिपुः॥९॥

तस्य नायकस्येत्थंभूतः प्रतिपक्षनायको भवति। यथा रामयुधिष्ठिरयो रावणदुर्योधनौ।

अथ सात्त्विका नायकगुणाः—

शोभा विलासो माधुर्यं गाम्भीर्यंस्थै82र्यतेजसी।
ललितौदार्यमित्यष्टौ स83त्वजाः पौरुषा गुणाः॥१०॥

तत्र—

नीचे घृणाधिके स्पर्धा शोभायां शौर्यदक्षते।

नीचे घृणा। यथा वीरचरिते—

‘उत्तालताडकोत्पातदर्शनेऽप्यप्रकम्पितः।
नियुक्तस्तत्प्रमाथाय स्त्रैणेन विचिकित्सति॥’

गुणाधिकैः स्पर्धा यथा—

‘एतां पश्य पुरःस्थलीमिह किल क्रीडाकिरातो हरः
कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः।
इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापते-
र्मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डलम्॥’

शौर्यशोभा। यथा ममैव —

‘अन्त्रैः स्वैरपि संयताग्रचरणो मूर्च्छाविरामक्षणे
स्वाधीनव्रणिताङ्गशस्त्रनिचितो रोमोद्गमं वर्मयन्।
भग्नानुद्वलयन्निजान्परभटान्संर्जयन्निष्ठुरं
धन्यो धाम जयश्रियः पृथुणस्तम्भे पताकायते॥’

दक्षशोभा। यथा वीरचरिते—

‘स्फूर्जद्वज्रसहस्रनिर्मितमिव प्रादुर्भवत्यग्रतो
रामस्य त्रिपुरान्तकृद्दिविषदां तेजोभिरिद्धं धनुः।
शुण्डारः कलभेन यद्वदचले वत्सेन दोर्दण्डक-
स्तस्मिन्नहित एवगर्जितगुणं कृष्टं च भग्नं च तत्॥’

अथ विलासः—

गतिः सधैर्या दृष्टिविलासे सस्मितं वचः॥११॥

यथा—

‘दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा
धीरोद्धता नमयतीव गतिर्धरित्रीम्।
कौमारकेऽपि गिरिवद्गुरुतां दधानो
वीरो रसः किमयमेत्युत दर्प एव॥’

अथ माधुर्यम्—

श्लक्ष्णो विकारो माधुर्यं संक्षोभे सुमहत्यपि।
महत्यपि विकारहेतौ मधुरो विकारो माधुर्यम्। यथा—
‘कपोले जानक्याः करिकलभदन्तद्युतिमुषि
स्मरस्मेरं गण्डोड्डमरपुलकं वक्रकमलम्।

मुहुः पश्यञ्शृण्वन्रजनिचरसेनाकलकलं
जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः॥’

अथ गाम्भीर्यम्—

गाम्भीर्यं यत्प्रभावेन विकारो नोपलक्ष्यते॥१२॥

मृदुविकारोपलम्भाद्विकारानुपलब्धिरन्येति माधुर्यादन्यद्गाम्भीर्य‍।

यथा—

‘आहूतस्याभिषेकाय विसृष्टस्य वनाय च।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः॥’

अथ स्थैर्यम्—

व्यवसायादचलनं स्थैर्यं विघ्नकुलादपि।

यथा वीरचरिते—

‘प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात्।
न त्वेवं दूषयिष्यामि शस्त्रग्रहमहाव्रतम्॥’

अथ तेजः—

अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि॥१३॥

यथा—

‘ब्रूत नूतनकूष्माण्डफलानां के भवन्त्यमी।
अङ्गुलीदर्शनाद्येन न जीवन्ति मनस्विनः॥’

अथ ललितम्—

शृङ्गाराकारचेष्टात्वं सहजं ललितं मृदु।

स्वाभाविकः शृङ्गारो मृदुः। तथाविधा शृङ्गारचेष्टा च ललितम्। यथा ममैव—

‘लावण्यमन्मथविलासविजृम्भितेन
स्वाभाविकेन सुकुमारमनोहरेण।
किंवा ममेव सखि योऽपि ममोपदेष्टा
तस्यैव किं न विषमं विदधीत तापम्॥’

अथौदार्यम्—

प्रियोक्त्याजीविताद्दानमौदार्यं सदुपग्रहः॥१४॥

प्रियवचनेनसहाजीवितावधेर्दानमौदार्यं सतामुपग्रहश्च। यथा नागानन्दे—

‘शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति।
तृप्तिं न पश्यामि तवैव तावत्किं भक्षणात्त्वं विरतो गरुत्मन्॥’

सदुपग्रहो यथा—

‘एते वयममी दाराः कन्येयं कुलजीवितम्।
ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु॥’

अथ नायिका—

स्वान्या साधारणस्त्रीति तद्गुणा नायिका त्रिधा।

तद्गुणेति यथोक्तसंभवे नायकसामान्यगुणयोगिनी नायिकेति। स्वस्त्री परस्त्री साधारणस्त्रीत्यनेन विभागेन त्रिधा। तत्र स्वीयाया विभागगर्भं सामान्यलक्षणमाह—

मुग्धा मध्या प्रगल्भेति स्वीया शीलार्जवादियुक्॥१५॥

शीलं सुवृत्तम्। पतिव्रताऽकुटिलालज्जावती पुरुषोपचारनिपुणा स्वी84या नायिका। तत्र शीलवती यथा—

‘कु85लवालिआए पेच्छह जोव्वणलाअण्णविब्भमविलासा।
पसवंति व्व पवसिए एंति व्व पिये घरं एत्ते॥’

आर्जवादियोगिनी यथा—

‘ह86सिअमविआरमुद्धं भमिअं विरहिअविलाससुच्छाअं।
भणिअं सहावसरलं घण्णाण घरे कलत्ताणम्॥’

लज्जावती यथा—

‘ल87ज्जापज्जत्तपसाहणाइं परतित्तिणिप्पिवासाइं।
अविणअदुम्मेहाइं धण्णाण घरे कलत्ताइं॥’

सा चैवंविधा स्वीया मुग्धा-मध्या-प्रगल्भाभेदात्त्रिविधा।

तत्र—

मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि।

प्रथमावतीर्णतारुण्यमन्मथा रमणे वामशीला सुखोपायप्रसादना मुग्धनायिका।

तत्र वयोमुग्धा यथा—

‘विस्तारी स्तनभार एष गमितो न स्वोचितामुन्नतिं
रेखोद्भासिकृतं वलित्रयमिदं न स्पष्टनिम्नोन्नतम्।
मध्येऽस्या ऋजुरायतार्धकपिशा रोमावली निर्मिता
रम्यं यौवनशैशवव्यतिकरोन्मिश्रं वयो वर्तते॥’

यथा च ममैव—

‘उच्छ्वसन्मण्डलप्रान्तरेखमाबद्धकुङ्मलम्।
अपर्याप्तमुरोवृद्धेः शंसत्यस्याः स्तनद्वयम्॥’

काममुग्धा यथा—

‘दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा
श्रोत्रे प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि।
पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग्यथा
बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः॥’

रतवामा यथा—

‘व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः॥’

मृदुः कोपे यथा—

‘प्रथमजनिते बाला मन्यौ विकारमजानती
कितवचरिते नासज्याङ्के विनम्रभुजैव सा।
चिबुकमलिकं चोन्नम्योच्चैरकृत्रिमविभ्रमा
नयनसलिलस्यन्दिन्योष्ठै रुदन्त्यपि चुम्बिता॥’

एवमन्येऽपि लज्जासंवृतानुरागनिबन्धना मुग्धा व्यवहारा निबन्धनीयाः। यथा—

‘न मध्ये संस्कारं कुसुममपि बाला विषहते
न निःश्वासैः सुभ्रुर्जनयति तरङ्गव्यतिकरम्।

नवोढा पश्यन्ती लिखितमिव भर्तुः प्रतिमुखं
प्ररोहद्रोमाञ्चा न पिबति न पात्रं चलयति॥’

अथ मध्या—

मध्योद्यावनानङ्गा मोहान्तसुरतक्षमा॥१६॥

संप्राप्ततारुण्यकामा मोहान्तरतयोग्या मध्या।

तत्र यौवनवती यथा—

‘आलापान्भ्रूविलासो विरलयति लसद्बाहुविक्षिप्तियातं
नीवीग्रन्थिं प्रथिम्ना प्रतनयति मनाङ्मध्यनिम्नो नितम्बः।
उत्पुष्पत्पार्श्वमूर्च्छत्कुचशिखरमुरो नूनमन्तः स्मरेण
स्पृष्टा कोदण्डकोट्याहरिणशिशुदृशो दृश्यते यौवनश्रीः॥’

कामवती यथा—

‘स्मरनवनदीपूरेणोढाः पुनर्गुरुसेतुभि-
र्यदपि विधृतास्तिष्ठन्त्यारादपूर्णमनोरथाः।
तदपि लिखितप्रख्यैरङ्गै परस्परमुन्मुखा
नयननलिनीनालाकृष्टं पिबन्ति रसं प्रियाः॥’

मध्यासंभोगो यथा—

‘ता88व च्चिअ रइसभए महिलाणं विब्भमा विराअंति।
जाव ण कुवलयदलसच्छहाइ मउलेंति णअणाइं॥’
एवं धीरायामधीरायां धीराधीरायामप्युदाहार्यम्।

अथास्या मानवृत्तिः—

धीरा सोत्प्रासवक्रोक्त्या मध्या साश्रु कृतागसम्।
खेद्ययेद्दयितं कोपादधीरा परुषाक्षरम्॥१७॥

मध्याधीरा कृतापराधं प्रियं सोत्प्रासवक्रोक्त्या खेदयेत्। यथा माघे—

‘न खलु वयममुष्य दानयोग्याः
पिबति च पाति च यासकौ रहस्त्वाम्।
व्रज विटपममुं ददस्व तस्यै
भवतु यतः सदृशोश्चिराय योगः॥’

धीराधीरा साश्रु सोत्प्रासवक्रोक्त्या खेदयेत्। यथामरुशतके—

‘बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं
खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि।
तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते
नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते॥’

अधीरा साश्रु परुषाक्षरम्। यथा—

‘यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि मादरं कृथाः।
खण्डिताधरकलङ्कितं प्रियं शक्नुमो न नयनैर्निरीक्षितुम्॥’

एवमपरेऽपि व्रीडानुपहिताः स्वयमनभियोगकारिणो मध्याव्यवहारा भवन्ति। यथा—

‘स्वेशग्भःकणिञ्चितेऽपि वदने जातेऽपि रोमोद्गमे
विश्रम्भेऽपि गुरौ पयोधरभरोत्कम्पेऽपि वृद्धिं गते।
दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रिय-
स्तन्वङ्गया हठकेशकर्षणघना श्लेषामृते लुब्धया॥’

स्वतोऽनभियोजकत्वं हठकेशकर्षणघनाश्लेषामृते लुब्धयेवेत्युत्प्रेक्षाप्रतीतेः।

अथ प्रगल्भा—

यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके।
विलीयमानेवानन्दाद्रतारम्भेऽप्यचेतना॥१८॥

गाढयौवना। यथा ममैव—

‘अभ्युन्नतस्तनमुरो नयने च दीर्घे
वक्रे भ्रुवावतितरां वचनं ततोऽपि।
मध्योऽधिकं तनुरतीवगुरुर्नितम्बो
मन्दा गतिः किमपि चाद्भुतयौवनायाः॥’

यथा च—

‘स्तनतटमिदमुत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम्।
विषमे मृगशावाक्ष्या वपुषि नवे क इव न स्खलति॥’

भावप्रगल्भा यथा—

‘न जाने संमुखायाते प्रियाणि वदति प्रिये।
सर्वाण्यङ्गानि किं यान्ति नेत्रतामुत कर्णताम्॥’

रतप्रगल्भा यथा—

‘कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धना-
द्वासः प्रश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम्।
एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः
कोऽसौ कास्मि रतं नु किं कथमिति स्वल्पापि मे न स्मृतिः॥’

एवमन्येऽपि परित्यक्तहीयन्त्रणावैदग्ध्यप्रायाः प्रगल्भा व्यवहारा वेदितव्याः। यथा—

‘क्वचित्ताम्बूलाक्तः कचिद्गरुपङ्काङ्कमलिनः
क्वचिच्चूर्णोद्गारी क्वचिदपि च सालक्तकपदः।
वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः
स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः॥’

अथास्याः कोपचेष्टा—

सावहित्थादरोदास्ते रतौ धीरेतरा क्रुधा।
संतर्ज्य ताडयेन्म89ध्या मध्याधीरेव तं वदेत्॥१९॥

सहावहित्थेनाकारसंवरणेनादरेण चोपचाराधिक्येन वर्तते सा सावहित्थादरा। रतावुदासीना क्रुधा कोपेन भवति।

सावहित्थादरा। यथामरुशतके—

‘एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद्दूरत-
स्ताम्बूलाहरणच्छलेन रभसाश्लेषोऽपि संविघ्नितः।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः॥’

रतानुदासीना यथा—

‘आयस्ता कलहं पुरेव कुरुते न स्रंसने वाससो
भग्नभ्रूगतिखण्ड्यमानमधरं धत्ते न केशग्रहे।
अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने
तन्व्या शिक्षित एष संप्रति कुतः कोपप्रकारोऽपरः॥’

इतरा त्वधीरप्रगल्भा कुपिता सति संतर्ज्य ताडयति। यथामरुशतके—

‘कोपात्कोमल लोलबाहुलतिकापाशेन बद्ध्वादृढं
नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः।

भूयोऽप्येवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एष निह्नुतिपरः प्रेयान्रुदन्त्या हसन्॥’

धीराधीरप्रगल्भा मध्याधीरेव तं वदति सोत्प्रासवक्रोक्तया। यथा तत्रैव—

‘कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं
यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं
त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः॥’

पुनश्च—

द्वेधा ज्येष्ठा कनिष्ठा चेत्यमुग्धा द्वादशोदिताः।

मध्याप्रगल्भाभेदानां प्रत्येकं ज्येष्ठकनिष्ठात्वभेदेन द्वादश भेदा भवन्ति। मुग्धात्वेकरूपैव। ज्येष्ठाकनिष्ठे यथामरुशतके—

‘दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा-
देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छदः।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा-
मन्तर्हासिलसत्कपोलफलकां धूर्तोऽपरां चुम्बति॥’

न चानयोर्दाक्षिण्यप्रेमभ्यामेव व्यवहारः। अपि तु प्रेम्णापि। यथा चैतत्तथोक्तं दक्षिणलक्षणावसरे। [एषां च धीरमध्या-अधीरमध्या-धीराधीरमध्या-धीरप्रगल्भा-अधीरप्रगल्भा-धीराधीरप्रगल्भाभेदानां प्रत्येकं ज्येष्ठाकनिष्ठाभेदादशानां वासवदत्ता-रत्नावलीवत्प्रबन्धनायिकानामुदाहरणानि महानविप्रबन्धेष्वनुसर्तव्यानि।]

अथान्यस्त्री—

अन्यस्त्री कन्यकोढा च नान्योढाङ्गिरसे क्वचित्॥२०॥
कन्यानुरागमिच्छा90तः कुर्यादङ्गाङ्गिसंश्रयम्।

नायकान्तरसंबन्धिन्यन्योढा। यथा—

‘दृष्ट हे प्रतिवेशिनि क्षणमिहाप्यस्मिन्गृहे दास्यति
प्रायेणास्य शिशोः पिता न विरसाः कौपीरषः पास्यति।
एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं
नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदानलग्रन्थयः॥’

इयं त्वङ्गिनि प्रधाने रसे न क्वचिन्निबन्धनीयेति न प्रपञ्चिता। कन्यका तु पित्राद्यायत्तत्वादपरिणीताप्यन्यस्त्रीत्युच्यते। तस्यां पित्रादिभ्योऽलभ्यम्यमानायां सुलभायामपि परोपरोधस्वकान्ताभयात् प्रच्छन्नं कामित्वं प्रवर्तते। यथा मालत्यां माधवस्य सागरिकायां च वत्सराजस्येति, तदनुरागश्च स्वेच्छया प्रधानाप्रधानरससमाश्रयो निबन्धनीयः। यथा रत्नावली-नागानन्दयोः सागरिका-मलयवत्यनुराग इति।

साधारणस्त्री गणिका कलाप्रागल्भ्यधौर्त्ययुक्॥२१॥

तद्व्यवहारो विस्तरतः शास्त्रान्तरे निदर्शितः। दिङ्मात्रं तु—

छन्नकामसुखार्थाज्ञस्वतन्त्राहंयुपण्डकान्।
रक्तेव रञ्जयेदाढ्यान्निःस्वान्मात्रा विवासयेत्॥२२॥

छन्नं ये कामयन्ते ते छन्नकामाः श्रोत्रियवणिग्लिप्रभृतयः, सुखार्थेऽप्रयासावाप्तधनः सुखप्रयोजनो वा, अज्ञो मूर्खः, स्वतन्त्रो निरङ्कुशः,अहंयुरहंकृतः पण्डको वातपण्डादिः, एतान्बहुवित्तान्रक्तेव रञ्जयेदर्थार्थम्। तत्प्रधानत्वात्तद्वृत्तेः। गृहीतार्थान्कुट्टन्यादिना निष्कासयेत्पुनः प्रतिसंधानाय। इदं तासामौत्सर्गिकं रूपम्।

रूपकेषु तु—

91क्तैव त्वप्रहसने नैषा दिव्यनृपाश्रये।

प्रहसनवर्जिते प्रकरणादौ रक्तैवैषा विधेया। यथा मृच्छकटिकायां वसन्तसेना चारुदत्तस्य। प्रहसने त्वरक्तापि हास्यहेतुत्वात्। नाटकादौ तु दिव्यनृपनायके नैव विधेया।

अथ भेदान्तराणि—

आसामष्टाववस्थाः स्युः स्वाधीनपतिकादिकाः॥२३॥

स्वाधीनपतिका वासकसज्जा विरहोत्कण्ठिता खण्डिता कलहान्तरिता विप्रलब्धा प्रोषितप्रिया अभिसारिकेत्यष्टौ स्वस्त्रीप्रभृतीनामवस्थाः। नायिकाप्रभृतीनामप्यवस्थारूपत्वे सत्यवस्थान्तराभिधानं पूर्वासां धर्मित्वप्रतिपादनायाष्टाविति न्यूनाधिकव्यवच्छेदः। न च वासकसज्जादेः स्वाधीनपतिकादावन्तर्भावः। अनासन्नप्रियत्वाद्वासकसज्जाया न स्वाधीनपतिकात्वम्। यदि चैप्यत्प्रियापि स्वाधीनपतिका प्रोषितप्रियापि न पृथग्वाच्या। न चेयता

व्यवधानेनासत्तिरिति नियन्तुं शक्यम्। न चाविदितप्रियव्यलीकायाः खण्डितत्वं नापि प्रवृत्तरतिभोगेच्छायाः प्रोषितप्रियात्वं स्वयमगमनान्नायकं प्रत्यप्रयोजकत्वान्नाभिसारिकात्वम्। एवमुत्कण्ठिताप्यन्यैव पूर्वाभ्यः। औचित्यप्राप्तप्रियागमनसमयातिवृत्तिविधुरा न वासकसज्जा। तथा विप्रलब्धापि वासकसज्जावदन्यैव पूर्वाभ्यः। उक्त्वा नायात इति प्रतारणाविक्याच्च वासकसज्जोत्कण्ठितयोः पृथक्। कलहान्तरिता तु यद्यपि विदितव्यलीका तथाप्यगृहीतप्रियानुनया पश्चात्तापप्रकाशितप्रसादा पृथगेव खण्डितायाः। तत्स्थितमेतदृष्टाववस्था इति।

तत्र—

आसन्नायत्तरमणा हृष्टा स्वाधीनभर्तृका।

यथा—

‘मा गर्वमुद्वह कपोलले चकास्ति
कान्तस्वहस्तलिखिता मम मञ्जरीति।
अन्यापि किं न सखि भाजनमीदृशानां
वैरी न चेद्भवति वेपथुरन्तरायः॥’

अथ वासकसज्जा—

मुदा वासकसज्जा स्वं मण्डयत्येष्यति प्रिये॥२४॥

स्वमात्मानं वेश्म च हर्षेण भूषयत्येष्यति प्रिये। वासकसज्जा यथा—

‘निजपाणिपल्लवतटस्खलनादभिनासिकाविवरमुत्पतितैः।
अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः॥’

अथ विरहोत्कण्ठिता—

चिरयत्यव्यलीके तु विर92होत्कण्ठितोन्मनाः।

यथा—

‘सखि स विजितो वीणावाद्यैः कथाप्यपरस्त्रिया
पणितमताभ्यां तत्र क्षपाललितं ध्रुवम्।
कथमितरथा शेफालीषु स्खलत्कुसुमास्वपि
प्रसरति नभोमध्येऽपीन्दौ प्रियेण विलम्ब्यते॥’

अथ खण्डिता—

ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकपायिता॥२५॥

यथा—

‘नवनखपदमङ्गं गोपयस्यंशुकेन
स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम्।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प-
न्नवपरिमलगन्धः केन शक्यो वरीतुम्॥’

अथ कलहान्तरिता—

कलहान्तरितामर्षाद्वि93धूतेऽनुशयार्तियुक्।

यथा—

‘निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मध्यते
निद्रा नैति न दृश्यते प्रियमुखं नक्तंदिवं रुद्यते।
अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः
सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः॥’

अथ विप्रलब्धा—

विप्रलब्धोक्तसमयमप्राप्तेऽतिविमानिता॥२६॥

यथा—

‘उत्तिष्ठ दूति यामो यामो यातस्तथापि नायातः।
यातः परमपि जीवेज्जीवितनाथो भवेत्तस्याः॥’

अथ प्रोषितप्रिया—

दूरदेशान्तरस्थे तु कार्यतः प्रोषितप्रिया।

यथामरुशतके—

‘आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया
विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति।
दत्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणे
माभूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम्॥’

अथाभिसारिका—

कामार्ताभिसरेत्कान्तं सारयेद्वाभिसारिका॥२७॥

यथामरुशतके—

‘उरसि निहितस्तारो हारः कृता जघने घने
कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ।
प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा
यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे॥’

यथा च—

‘न च मेऽवगच्छति यथा लघुतां
करुणां यथा च कुरुते स मयि।
निपुणं तथैनमुपगम्य वदे-
रभिदूति काचिदिति संदिदिशे॥

तत्र—

चिन्तानिःश्वासखेदाश्रुवैवर्ण्यग्लान्यभूषणैः।
युक्ताः षडन्त्या द्वे चाद्ये क्रीडौज्ज्वल्यप्रहर्षितैः॥२८॥

परस्त्रियौ तु कन्यकोढे। संकेतात्पूर्वं विरहोत्कण्ठिते पश्चाद्विदूषकादिना सहाभिसरन्त्यावभिसारिके। कुतोऽपि संकेतस्थानमप्राप्ते नायके विप्रलब्धे इति व्यवस्थितैवानयोरिति। अस्वाधीनप्रिययोरवस्थान्तरायोगात्। यत्तु मालविकाग्निमित्रादौ’ योऽप्येवं धीरः सोऽपि दृष्टो देव्याः पुरतः’ इति मालविकावचनानन्तरम्—’राजा

दाक्षिण्यं नाम बिम्बोष्ठि नायकानां कुलव्रतम्।
तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः॥’

इत्यादि, तन्न। खण्डिनानुनयाभिप्रायेण। अपि तु सर्वथा मम देव्यधीनत्वमाशङ्क्य निराशा मा भूदिति कन्याविश्रम्भणायेति। तथानुपसंजातनायकसमागमाया देशान्तरव्यवधानेऽप्युत्कण्ठितात्वमेवेति न प्रोषितप्रियात्वमनायतप्रियत्वादेवेति।

अथासां सहायिन्यः—

दूत्यो दासी सखी कारूत्रेयी प्रतिवेशिका।
लिङ्गिनी शिल्पिनी स्वं च नेतृमित्रगुणान्विताः॥२९॥

दासी परिचारिका। सखी स्नेहनिबद्धा। कारू रजकीप्रभृतिः। धात्रे-

य्युपमातृसुता। प्रतिवेशिका प्रतिगृहिणी। लिङ्गिनी भिक्षुक्यादिका। शिल्पिनी चित्रकारादिस्त्री। स्वयं चेति दूतीविशेषा नायकमित्राणां पीठमर्दादीनां निसृष्टार्थत्वादिना गुणेन युक्ताः। तथा च मालतीमाधवे कामन्दकीं प्रति—

‘शास्त्रेषु निष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी।
कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु॥’

तत्र सखी। यथा—

‘मृगशिशुदृशस्तस्यास्तापं कथं कथयामि ते
दहनपतिता दृष्टा मूर्तिर्मया न हि वैधवी
इति तु विदितं नारीरूपः स लोकदृशां सुधा
तव शठतया शिल्पोत्कर्षो विधेर्विघटिष्यते॥’

यथा च—

‘स94च्चं जाणइ दट्ठुं सरिसम्मि जणम्मि जुज्जए राओ।
मरउ ण तुमं भणिस्सं मरणं पि सलाहणिज्जं से॥’

स्वयं दूती। यथा—

‘म95हु एहि किं णिवालअ हरसि णिअं वाउ जइ वि मे सिचअम्।
साहेमि कस्स सुन्दर दूरे गामो अहं एक्का॥’

इत्याह्यम्।

अथ योषिदलंकाराः—

यौवने सत्वजाः स्त्रीणामलंकारास्तु विंशतिः।

यौवने सत्त्वोद्भूता विंशतिरलंकाराः स्त्रीणां भवन्ति।

तत्र—

भावो हावश्च हेला च त्रयस्तत्र शरीरजाः॥३०॥

शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता।
औदार्यं धैर्यमित्येते सप्त भावा अयत्नजाः॥३१॥

तत्र भावहावहेलास्त्रयोऽङ्गजाः। शोभा कान्तिर्दीप्तिर्माधुर्यं प्रागल्भ्यमौदार्यं धैर्यमित्ययत्नजाः सप्त।

लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम्।
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा॥३२॥

विहृतं चेति विज्ञेया दश भावाः स्वभावजाः।

तानेव निर्दिशति—

निर्विकारात्मकात्सत्त्वाद्भावस्तत्राद्यविक्रिया॥३३॥

तत्र विकारहेतौ सत्यप्यविकारकं सत्त्वम्। यथा कुमारसंभवे—

‘श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरःप्रसंख्यानपरो बभूव।
आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति॥’

तस्मादविकाररूपात्सत्त्वाद्यः प्रथमो विकारोऽन्तर्विपरिवर्ती बीजस्योच्छूनतेव स भावः। यथा—

‘दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा
श्रोत्रे प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि।
पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग्यथा
बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः॥’

यथा वा कुमारसंभवे—

‘हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि॥’

यथा वा ममैव—

‘तं96 च्चिअ वअणं ते च्चेअ लोअणे जोव्वणं पि तं च्चेअ।
अण्णा अणङ्गलच्छी अण्णं च्चिअ किं पि साहेइ॥’

अथ हावः—

हेवा97कसस्तु शृङ्गारो हावोऽक्षिभ्रूविकारकृत्।

प्रतिनियताङ्गविकारकारी शृङ्गारः स्वभावविशेषो हावः। यथा ममैव—

‘जं98किं पि पेच्छमाणं भणमाणं रे जहा तह च्चेअ।
णिज्झाअ णेहमुद्धं वअस्स मुद्धं णिअच्छेहि॥’

अथ हेला—

स एव हेला सुव्यक्तशृङ्गाररससूचिका॥३४॥

हाव एव स्पष्टभूयोविकारत्वात्सुव्यक्तशृङ्गाररससूचको हेला। यथा ममैव—

‘त99ह झत्ति से पअत्ता सव्वङ्गं विब्भमा थणुब्भेए।
संसइअबालभावा होइ चिरं जह सहीणं पि॥’

अथायत्नजाः सप्त। तत्र शोभा—

रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम्।

यथा कुमारसंभवे—

‘तां प्राङ्मुखीं तत्र निवेश्य बालां क्षणं व्यलम्बन्त पुरो निषण्णाः।
भूतार्थशोभाद्रियमाणनेत्राः प्रसाधने संनिहितेऽपि नार्यः॥’

इत्यादि। यथा च शाकुन्तले—

‘अनाघ्रातं पुष्पं किसलयमलूनं कररुहै–
रनाविद्धं रत्नं मधु नवमनास्वादितरसम्।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं
न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥’

अथ कान्तिः—

100न्मथावापितच्छाया सैव कान्तिरिति स्मृता॥३५॥

शोभैव रागावतारघनीकृता कान्तिः। यथा—

‘उन्मीलद्वदनेन्दुदीप्तिविसरैर्दूरे समुत्सारितं
भिन्नं पीनकुचस्थलस्य च रुचा हस्तप्रभाभिर्हतम्।

एतस्याः कलविङ्ककण्ठकदलीकल्पं मिलत्कौतुका-
दप्राप्ताङ्गसुखं रुषेव सहसा केशेषु लग्नं तमः॥’

यथा हि महाश्वेतावर्णनावसरे भट्टवाणस्य।

अथ माधुर्यम्—

अनुल्बणत्वं माधुर्यं

यथा शाकुन्तले—

‘सरमिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम्॥’

अथ दीप्तिः—

दीप्तिः कान्तेस्तु विस्तरः।

यथा—

‘देआ101 पसिअ णिअन्तसुमुहससिजोण्हाविलुत्ततमणिवहे।
अहिसारिआण विग्धं करेसि अण्णाण विहआसे॥’

अथ प्रागल्भ्यम्—

निःसाध्वसत्वं प्रागल्भ्यं

मनःक्षोभपूर्वकोऽङ्गसादः साध्वसम्, तदभावः प्रागल्भ्यम्। यथा ममैव—

‘तथा व्रीडाविधेयापि तथा मुग्धापि सुन्दरी।
कलाप्रयोगचातुर्ये समास्वाचार्यकं गता॥’

अथौदार्यम्—

औदार्यं प्रश्रयः सदा॥३६॥

यथा—

‘दिअ102हं खु दुक्खिआए सअलं काऊण गेहवावारम्।
गरुएवि मण्णुदुक्खे भरिमो पाअन्तसुत्तस्स॥’

यथा वा—‘भ्रुभङ्गे सहसोद्गता’ इत्यादि।

अथ धैर्यम्—

चापलाविहता धैर्यं चिद्वृत्तिरविकत्थना।

चापलानुपहता मनोवृत्तिरात्मगुणानामनाख्यायिका धैर्यमिति। यथा मालतीमाधवे—

‘ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी
दहतु मदनः किंवा मृत्योः परेण विधास्यति।
मम तु दयितः श्लाध्यस्ततो जनन्यमलान्वया
कुलममलिनं न त्वेवायं जनो न च जीवितम्॥’

अथ स्वाभाविका दश। तत्र—

प्रियानुकरणं लीला मधुराङ्गविचेष्टितैः॥३७॥

प्रियकृतानां वाग्वेषवेष्टानां शृङ्गारिणीनामङ्गनाभिरनुकरणं लीला। यथा ममैव—

‘त103ह दिट्ठं तह भणिअं ताए णिअदं तहा तहा सीणम्।
अवलोइअं सइण्हं सविब्भमं जह सवत्तीहिं॥’

यथा वा—‘तेनोदितं वदति याति तथा यथासौ’ इत्यादि।

अथ विलासः—

तात्कालिको विशेषस्तु विलासोऽङ्गक्रि104यादिषु।

दयितावलोकनादिकालेऽङ्गे क्रियायां वचने च सातिशयविशेषोत्पत्तिर्विलासः। यथा मालतीमाधवे—

‘अत्रान्तरे किमपि वाग्विभवातिवृत्त-
वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः।
तद्भरिसात्विकविकारविशेषरम्य-
माचार्यकं विजयि मान्मथमाविरासीत्॥’

यथा ममैव—

‘सभ्रूभङ्गं करकिसलयावर्तनैरालपन्ती
सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन।
विन्यस्यन्ती चरणकमले लीलया स्वैरयातै-
र्निःसंगीतं प्रथमवयसा नर्तिता पङ्कजाक्षी॥’

अथ विहृतम्—

प्राप्तकालं न यद्ब्रूयाद्व्रीडया विहृतं हि तत्।

प्राप्तावसरस्यापि वाक्यस्य लज्जया यदवचनं तद्विहृतम्। यथा—

‘पादाङ्गुष्ठेन भूमिं किसलयरुचिना सापदेशं लिखन्ती
भूयो भूयः क्षिपन्ती मयि सितशबले लोचने लोलतारे।
वक्रं ह्रीनम्रमीषत्स्फुरदधरपुटं वाक्यगर्भं दधाना
यन्मां नोवाच किंचित्स्थितमपि हृदये मानसं तद्दुनोति॥’

अथ नेतुः कार्यान्तरसहायानाह—

मन्त्री स्वं वोभयं वापि सखा तस्यार्थचिन्तने॥४२॥

तस्य नेतुरर्थचिन्तायां तन्त्रावापादिलक्षणायां मन्त्री वात्मा वोभयं वा सहायः।

तत्र विभागमाह—

मन्त्रीणा ललितः शेषा मन्त्रिस्वायत्तसिद्धयः।

उक्तलक्षणो ललितो नेता मन्त्र्यायत्तसिद्धिः। शेषा धीरोदात्तादयः। अनियमेन मन्त्रिणा स्वेन वोभयेन वाङ्गीकृतसिद्धय इति।

धर्मसहायास्तु—

ऋत्विक्पुरोहितौ धर्मे तपस्विब्रह्मवादिनः॥४३॥

ब्रह्म वेदस्तं वदन्ति व्याचक्षते वा तच्छीला ब्रह्मवादिनः। आत्मज्ञानिनो वा। शेषाः प्रतीताः।

दुष्टदमनं दण्डः। तत्सहायास्तु—

सुहृत्कुमाराटविका दण्डे सामन्तसैनिकाः।

स्पष्टम्। एवं तत्तत्कार्यान्तरेषु सहायान्तराणि योज्यानि। यदाह—

अन्तःपुरे वर्षवराः किराता मुकवामनाः॥४४॥
म्लेच्छाभीरशकाराद्याः स्वस्वकार्योपयोगिनः।

शकारो राज्ञः श्यालो हीनजातिः।

विशेषान्तरमाह—

ज्येष्ठमध्याधमत्वेन सर्वेषां च त्रिरूपता॥४५॥
तारतम्याद्यथोक्तानां गुणानां चोत्तमादिता।

एवं प्रागुक्तानां नायकनायिकादूतदूतीमन्त्रिपुरोहितादीनामुत्तममध्यमाधमभावेन त्रिरूपता। उत्तमादिभावश्च न गुणसंख्योपचयापचयेन किं तर्हि गुणातिशयतारतम्येन।

एवं नाट्ये विधातव्यो नायकः स105परिच्छदः॥४६॥

उक्तो नायकः। तद्व्यापारस्तूच्यते—

तद्व्यापारात्मिका वृत्तिश्चतुर्धा तत्र कैशिकी।
गीतनृत्यविलासाद्यैर्मृदुः शृङ्गारचेष्टितैः॥४७॥

प्रवृत्तिरूपो नेतृव्यापारस्वभावो वृत्तिः। सा च कैशिकी-सात्त्वती-आरभटी-भारतीभेदाच्चतुर्विधा। तासां गीतनृत्यविलासकामोपभोगाद्युपलक्ष्यमाणो मृदुः शृङ्गारी कामफलावच्छिन्नो व्यापारः कैशिकी। सा तु—

नर्मतत्स्फि106ञ्जतत्स्फोटतद्गर्भैश्चतुरङ्गिका।

तदित्यनेन सर्वत्र नर्म परामृश्यते।

तत्र—

वैदग्ध्यक्रीडितं नर्म प्रियोपच्छन्दनात्मकम्॥४८॥

हास्येनैव सशृङ्गारभयेन विहितं त्रिधा।
आत्मोपक्षेपसंभोगमानैः शृङ्गार्यपि त्रिधा॥४९॥

शुद्धमङ्गं भयं द्वेधा त्रेधा वाग्वेषचेष्टितैः।
सर्वं सहास्यमित्येवं नमष्टादशधोदितम्॥५०॥

अग्राम्य इष्टजनावर्जनरूपः परिहासो नर्म। तच्च शुद्धहास्येन सशृङ्गार-

हास्येन सभयहास्येन च रचितं त्रिविधम्। शृङ्गारवदपि स्वानुरागनिवेदनसंभोगेच्छाप्रकाशन-सापराधप्रियप्रतिभेदनैस्त्रिविधमेव। भयनर्मापि शुद्धरसान्तराङ्गभावाद्द्विविधम्। एवं षड्विधस्य प्रत्येकं वाग्वेषचेष्टाव्यतिकरेणाष्टादशविधत्वम्।

तत्र वचोहास्यनर्म यथा—

‘पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम्।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान॥’

वेषनर्म यथा नागानन्दे विदूषकशेखरकव्यतिकरे। क्रियानर्म यथा मालविकाग्निमित्रे उत्स्वप्नायमानस्य विदूषकस्योपरि निपुणिका सर्पभ्रमकारणं दण्डकाष्ठं पातयति। एवं वक्ष्यमाणेष्वपि वाग्वेषचेष्टापरत्वमुदाहार्यम्।

शृङ्गारवदात्मोपक्षेपनर्म यथा—

‘मध्याह्नंगमय त्यज श्रमजलं स्थित्वा पयः पीयतां
मा शून्येति विमुञ्च पान्थ विवशः शीतः प्रपामण्डपः।
तामेव स्मर घस्मरस्मरशरत्रस्तां निजप्रेयसीं
त्वच्चित्तं तु न रञ्जयन्ति पथिक प्रायः प्रपापालिकाः॥’

संभोगनर्म यथा—

‘सा107लोए च्चिअ सूरे घरिणी घरसामिअस्स वेत्तूण।
णेच्छन्तस्स वि पाए धुअइ हसन्ती हसन्तस्स॥’

माननर्म यथा—

‘तदवितथमवादीर्यन्मम त्वं प्रियेति
प्रियजनपरिभुक्तं यद्दुकूलं दधानः।
मधिवसति मागाः कामिनां मण्डनश्री-
र्व्रजति हि सफलत्वं वल्लभालोकनेन॥’

भयनर्म यथा रत्नावल्यामालेख्यदर्शनावसरे—’सुसंगता—जा108णिदो मए एसो सव्वो वुत्तन्तो समं चित्तफलहएण। ता देवीए णिवेदइस्सम्। ‘इत्यादि।

शृङ्गाराङ्गं भयनर्म। यथा ममैव—

‘अभिव्यक्त्तालीकः सकलविफलोपायविभव-
श्चिरं ध्यात्वा सद्यः कृतकृतकसंरम्भनिपुणम्।
इतः पृष्ठे पृष्ठे किमिदमिति संत्रास्य सहसा
कृताश्लेषं धूर्तः स्मितमधुरमालिङ्गति वधूम्॥’

अथ नर्मस्फिञ्जः—

109र्मस्फञ्जः सुखारम्भो भयान्तो नवसंगमे।

यथा मालविकाग्निमित्रेसंकेते नायकमभिसृतायां नायिकायां नायकः—

‘विसृज सुन्दरि संगमसाध्वसं ननु चिरात्प्रभृति प्रणयोन्मुखे।
परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि॥’

मालविका—भ110ट्टा, देवीए भयेण अत्तणो वि पिअं काउं ण पारेमि’ इत्यादि।

अथ नर्मस्फोटः—

नर्मस्फोटस्तु भावानां सूचितोऽल्परसो लवैः॥५१॥

यथा मालतीमाधवे—’मकरन्दः

गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं
श्वसितमधिकं किं न्वेत्स्यात्किमन्यदतोऽथ वा।
भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं
ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम्॥’

इत्यत्र गमनादिभिर्भावलेशैर्माधवस्य मालत्यामनुरागः स्तोकः प्रकाश्यते।

अथ नर्मगर्भः—

छन्ननेत्रप्रतीचारो नर्मगर्भोऽर्थहेतवे।
अङ्गैः सहास्यनिर्हास्यैरेभिरेषात्र कैशिकी॥५२॥

यथामरुशतके—

‘दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा-
देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः।

ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा-
मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति॥’

यथा प्रियदर्शिकायां गर्भाङ्के वत्सराजवेषसुसंगतास्थाने साक्षाद्वत्सराजप्रवेशः।

अथ सात्त्वती—

विशोका सात्वती सत्त्वशौर्यत्यागदयाजवैः।
संलापोत्थापकावस्यां साङ्घात्यः परिवर्तकः॥५३॥

शोकहीनः सत्त्वशौर्यत्यागदयाहर्षादिभावोत्तरो नायकव्यापारः सात्त्वती। तदङ्गानि च संलापोत्थापकसाङ्घात्यपरिवर्तकाख्यानि। तत्र—

संलापको गभीरोक्तिर्नानाभावर111सा मिथः।

यथा वीरचरिते—’रामः—अयं स यः किल सपरिवारकार्त्तिकेयविजयावर्जितेन भगवता नीललोहितेन परिवत्सरसहस्रान्तेवासिने तुभ्यं प्रसादीकृतः परशुः। परशुरामः—राम राम दाशरथे, स एवायमाचार्यपादानां प्रियः परशुः।

शस्त्रप्रयोगखुरलीकलहे गणानां
सैन्यैर्वृतो विजित एव मया कुमारः।
एतावतापि परिरभ्य कृतप्रसादः
प्रादादमुं प्रियगुणो भगवान्गुरुर्मे॥’

इत्यादिनानाप्रकारभावरसेन रामपरशुरामयोरन्योन्यगभीरवचसा संलाप इति।

अथोत्थापकः—

उत्थापकस्तु यत्रादौ युद्धायोत्थापयेत्परम्॥५४॥

यथा वीरचरिते—

‘आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा
वैतृष्ण्यं नु कुतोऽद्य संप्रति मम त्वद्दर्शने चक्षुषः।
त्वत्सांगत्यसुखस्य नास्मि विषयः किं वा बहुव्याहृतै-
रस्मिन्विश्रुतजामदग्न्यविजये बाहौ धनुर्जुम्भताम्॥’

अथ साङ्घात्यः—

मन्त्रार्थदैवशक्त्यादेः साङ्घात्यः सङ्घभेदनम्।

मन्त्रशक्त्तया। यथा मुद्राराक्षसे राक्षससहायादीनां चाणक्येन स्वबुद्धया भेदनम्। अर्थशक्त्या तत्रैव। यथा पर्वतकाभरणस्य राक्षसहस्तगमनेन मलयकेतुसहोत्थायिभेदनम्। दैवशक्त्या तु। यथा रामायणे रामस्य दैवशक्त्या राद्विभीषणस्य भेद इत्यादि।

अथ परिवर्तकः—

प्रारब्धोत्थानकार्यान्यकरणात्परिवर्तकः॥५५॥

प्रस्तुतस्योद्योगकार्यस्य परित्यागेन कार्यान्तरकरणं परिवर्तकः। यथा वीरचरिते—

‘हेरम्बदन्तमुसलोल्लिखितैकभित्ति
वक्षो विशाखविशिखव्रणलाञ्छनं मे।
रोमाञ्चकञ्चुकितमद्भुतवीरलाभा-
द्यत्सत्यमद्य परिरब्धुमिवेच्छति त्वाम्॥

रामः—भगवन्, परिरम्भणमिति प्रस्तुतप्रतीपमेतत्।’ इत्यादि।

सात्त्वतीमुपसंहरन्नारभटीलक्षणमाह—

एभिरङ्गैश्चतुर्धेयं सात्त्वत्यारभटी पुनः।
मायेन्द्रजालसङ्ग्रामक्रोधोद्भ्रान्तादिचेष्टितैः॥५६॥

संक्षिप्तिका स्यात्संफेटो वस्तूत्थानावपातने।

मायामन्त्रबलेनाविद्यमानवस्तुप्रकाशनम्। तन्त्रबलादिन्द्रजालम्।

तत्र—

संक्षिप्तवस्तुरचना संक्षिप्तिः शिल्पयोगतः॥५७॥
पूर्वनेतृनित्यान्ये नेत्रन्तरपरिग्रहः।

मृद्वंशदलचर्मादिद्रव्ययोगेन वस्तूत्थापनं संक्षिप्तिः। यथोदयनचरिते किलिञ्जहस्तिप्रयोगः। पूर्वनायकावस्थानिवृत्त्यावस्थान्तरपरिग्रहमन्ये संक्षिप्तिकां मन्यन्ते। यथा वालिनिवृत्त्या सुग्रीवः। यथा च परशुरामस्यौद्धत्यनिवृत्त्या शान्तत्वापादनं ‘पुण्या ब्राह्मणजातिः—‘इत्यादिना।

अथ संफेटः—

संफेटस्तु समाघातः क्रुद्धसंरब्धयोर्द्वयोः॥५८॥

यथा माधवाघोरघण्टयोर्मालतीमाधवे। इन्द्रजिल्लक्ष्मणयोश्च रामायणपतिबद्धवस्तुषु।

अथ वस्तूत्थापनम्—

मायाद्युत्थापितं वस्तु वस्तूत्थापनमिष्यते।

यथोदात्तराघवे—

‘जीयन्ते जयिनोऽपि सान्द्रतिमिरव्रातैर्वियद्व्यापिभि-
र्भास्वन्तः सकला रवेरपि रुचः कस्मादकस्मादमी।
एताश्चोग्रकबन्धरन्ध्ररुधिरैराध्मायमानोदरा
मुञ्चन्त्याननकन्दरानलमुचस्तीव्रा रवाः फेरवाः॥’

इत्यादि।

अथावपातः—

अवपातस्तु निष्कामप्रवेशत्रासविद्रवैः॥५९॥

यथा रत्नावल्याम्—

‘कण्ठे कृत्वावशेषं कनकमयमधः शृङ्खलादाम कर्ष-
न्क्रान्त्वा द्वाराणि हेलावलचरणवलत्किङ्किणीचक्रवालः।
दत्तातङ्को गजानामनुसृतसरणिः संभ्रमादश्वपालैः
प्रभ्रष्टोऽयं प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दुरातः॥’

नष्टं वर्षवरैर्मनुष्यगणनाभावादकृत्वा त्रपा-
मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः।
पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं
कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः॥’

यथा च प्रियदर्शनायां प्रथमेऽङ्के विन्ध्यत्ववस्कन्दे।

उपसंहरति—

एभिरङ्गैश्चतुर्धेयं नार्थवृत्तिरतः परा।
चतुर्थी भारती सापि वाच्या नाटकलक्षणे॥६०॥

कैशिकीं सात्त्वतीं चार्थवृत्तिमारभटीमिति।
पठन्तः पञ्चमीं वृत्तिमौद्भटाः प्रतिजानते॥६१॥

सा तु लक्ष्ये क्वचिदपि न दृश्यते न चोपपद्यते रसेषु हास्यादीनां भारत्यात्मकत्वात्। नीरसस्य च काव्यार्थस्य चाभावात्। तिस्र एवैता अर्थवृत्तयः। भारती तु शब्दवृत्तिरामुखसङ्गत्वात्तत्रैव वाच्या।

वृत्तिनियममाह—

शृङ्गारे कैशिकी वीरे सात्त्वत्यारभटी पुनः।
रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती॥६२॥

देशभेदभिन्नवेषादिस्तु नायकादिव्यापारः प्रवृत्तिरित्याह—

देशभाषाक्रियावेषलक्षणाः स्युः प्रवृत्तयः।
लोकादेवा112वगम्यैता यथौचित्यं प्रयोजयेत्॥६३॥

तत्र पाठ्यं प्रति विशेषः—

पाठ्यं तु संस्कृतं नॄणामनीचानां कृतात्मनाम्।
लिङ्गिनीनां महादेव्या मन्त्रिजावेश्ययोः क्वचित्॥६४॥

क्वचिदिति देवीप्रभृतीनां संबन्धः।

स्त्रीणां तु प्राकृतं पायः सौ113रसेन्यधमेषु च।

प्रकृतेरागतं प्राकृतम्। प्रकृतिः संस्कृतं तद्भवं तत्समं देशीत्यनेकप्रकारम्। सौरसेनी मागधी च स्वशास्त्रनियते।

पिशाचात्यन्तनीचादौ पैशाचं मागधं तथा॥६५॥

यद्देशं नीचपात्रं यत्तद्देशं तस्य भाषितम्।
कार्यतश्चोत्तमादीनां कार्यो भाषाव्यतिक्रमः॥६६॥

स्पष्टार्थमेतत्।

आमन्त्र्यामन्त्रकौचित्येनामन्त्रणमाह—

भगवन्तो वरैर्वाच्या विद्वद्देवर्षिलिङ्गिनः।
विप्रामात्याग्रजाश्चार्या नटीसूत्रभृतौ मिथः॥६७॥

आर्याविति संबन्धः।

रथी सूतेन चायुष्मान्पूज्यैः शिष्यात्मजानुजाः।
वत्सेति तातः पूज्योऽपि सुगृहीताभिधस्तु तैः॥६८॥

अपिशब्दात्पूज्येन शिप्यात्मजानुजास्तातेति वाच्याः। सोऽपि तैस्तातेति सुगृहीतनामा चेति।

भावोऽनुगेन सूत्री च मार्षेत्येतेन सोऽपि च।

सूत्रधारः पारिपार्श्वकेन भाव इति वक्तव्यः। स च सूत्रिणा मार्ष इति।

देवः स्वामीति नृपतिर्भूत्यैर्भट्टेति चाधमैः॥६९॥
आमन्त्रणीयाः पतिवज्ज्येष्ठमध्याधमैः स्त्रियः।

विद्वद्देवादिस्त्रियो भर्तृवदेव देवरादिभिर्वाच्याः।

तत्र स्त्रियं प्रति विशेषः।

समा हलेति प्रेष्या च हञ्जे वेश्या114ज्जुका तथा॥७०॥

कु115ट्टिन्यम्बेत्यनुगतैः पूज्या वा जरती जनैः।
विदूषकेण भवती रा116ज्ञी चेटीति शब्द्यते॥७१॥

पूज्या जरती अम्बेति। स्पष्टमन्यत्।

चेष्टागुणोदाहृतिसत्त्वभावानशेषतो नेतृदशाविभिन्नान्।
को वक्तुमीशो भरतो न यो वा यो वा न देवः शशिखण्डमौलिः॥७२॥

दिङ्मात्रं दर्शितमित्यर्थः। चेष्टा लीलाद्याः, गुणा विनयाद्याः, उदाहृतयः संस्कृतप्राकृताद्या उक्तयः, सत्त्वं निर्विकारात्मकं मनोभावः सत्त्वस्य प्रथमोविकारस्तेन हावादयो ह्युपलक्षिताः॥

इति श्रीविष्णुसूनोर्धनिकस्य कृतौ दशरूपावलोके
नेतृप्रकाशो नाम द्वितीयः प्रकाशः समाप्तः।

——————

तृतीयः प्रकाशः।

तृतीयः प्रकाशः।

बहुवक्तव्यतया रसविचारातिलङ्घनेन वस्तुनेतृरसानां विभज्य नाटकादिषूपयोगः प्रतिपाद्यते —

प्रकृतित्वादथान्येषां भूयो रसपरिग्रहान्।
संपूर्णलक्षणत्वाच्च पूर्व नाटकमुच्यते॥१॥

उद्दिष्टधर्मकं हि नाटकमनुद्दिष्टधर्माणां प्रकरणादीनां प्रकृतिः प्रतीतम्।

तत्र—

पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते।
प्रविश्य तद्वदपरः काव्यमास्थापयेन्नटः॥२॥

पूर्वं रज्यतेऽस्मिन्निति पूर्वरङ्गो नाट्यशाला। तत्स्थप्रथमप्रयोगव्युत्थापनादौ पूर्वरङ्गता। तं विधाय विनिर्गते प्रथमं सूत्रधारे तद्वदेव वैष्णवस्थानकादिना प्रविश्यान्यो नटः काव्यार्थं स्थापयेत्। स च काव्यार्थस्थापनासूचनात्स्थापकः।

दिव्यमर्त्येस तद्रुपो मिश्रमन्यतरस्तयोः।
सूचयेद्वस्तु बीजं वा मुखं पात्रमथापि वा॥३॥

स स्थापको दिव्यं वस्तु दिव्यो भूत्वा मर्त्यं च मर्त्यरूपो भूत्वा मिश्रं च दिव्यमर्त्ययोरन्यतरो भूत्वा सूचयेत्। वस्तु बीजं मुखं पात्रं वा। वस्तु यथोदात्तराघवे—

‘रामो मूर्ध्नि निधाय काननमगान्मालामिवाज्ञां गुरो–
स्तद्भक्त्या भरतेन राज्यमखिलं मात्रा सहैवोज्झितम्।
तौ सुग्रीवविभीषणावनुगतो नीतौ परां संपदं
प्रोद्वृत्ता दशकन्धरप्रभृतयो ध्वस्ताः समस्ता द्विषः॥’

बीजं यथा रत्नावल्याम्—

‘द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात्।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः॥’

मुखं यथा—

‘आसादितप्रकटनिर्मलचन्द्रहासः
प्राप्तः शरत्समय एष विशुद्धकान्तः।

उत्खाय गाढतमसं घनकालमुग्रं
रामो दशास्यमिव संभृतबन्धुजीवः॥’

पात्रं यथा शाकुन्तले—

‘तवास्मि गीतरागेण हारिणा प्रसभं हृतः।
एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा॥’

रङ्गं प्रसाद्य मधुरैः श्लोकैःकाव्यार्थसूचकैः।
ऋतुं कंचिदुपादाय भारतीं वृत्तिमाश्रयेत्॥४॥

रङ्गस्य प्रशस्ति काव्यार्थानुगतार्थैः श्लोकैःकृत्वा—

‘औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया
तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः।
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे
संरोहत्पुलका हरेण हसता श्लिष्टा शिवा पातु वः॥’

इत्यादिभिरेव भारतीं वृत्तिमाश्रयेत्।

सा तु—

भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः।
भेदैः प्ररोचनायुक्तैर्वीथीप्रहसनामुखैः॥५॥

पुरुषविशेषप्रयोज्यः संस्कृतबहुलो वाक्प्रधानो नटाश्रयो व्यापारो भारती। प्ररोचना वीथीप्रहसनामुखानि चास्यामङ्गानि।

यथोद्देशं लक्षणमाह—

उन्मुखीकरणं तत्र प्रशंसातः प्ररोचना।

प्रस्तुतार्थप्रशंसनेन श्रोतॄणां प्रवृत्त्युन्मुखीकरणं प्ररोचना। यथा रत्नावल्याम्—

‘श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी
लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम्।
वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुन–
र्मभ्दाग्योपचयादयं समुदितः सर्वो गुणानां गणः॥’

वीथी प्रहसनं चापि स्वप्रसङ्गेऽभिधास्यते॥६॥

वीथ्यङ्गान्यामुखाङ्गत्वादुच्यन्तेऽत्रैव तत्पुनः।

सूत्रधारो नटीं ब्रुते मार्षं वाथ विदूषकम्॥७॥

स्वकार्यं प्रस्तुताक्षेप चित्रोक्त्या यत्तदामुखम्।
प्रस्तावना वा तत्र स्युः कथोद्धातः प्रवृत्तकम्॥८॥

प्रयोगातिशयश्चाथ वीथ्यङ्गानि त्रयोदश।

तत्र कथोद्धातः—

स्वे117तिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः॥९॥
गृहीत्वा प्रविशेत्पात्रं कथोद्धातो द्विधैव सः।

वाक्यं यथा रत्नावल्याम्—’यौगंधरायणः—द्वीपादन्यात्मादपि—इति।

वाक्यार्थं यथा वेणीसंहारे—’भीमः

‘निर्वाणवैरिदहनाः प्रशमादरीणां
नन्दन्तु पाण्डुतनयाः सह केशवेन।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च
स्वस्था भवन्तु कुरुराजसुताः सभृत्याः॥

ततोऽर्थेनाह—’भीमः

लाक्षागृहानलविषान्नसभाप्रवेशैः
प्राणेषु वित्तनिचयेषु च नः प्रहृत्य।
आकृष्टपाण्डववधूपरिधानकेशाः
स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः॥’

अथ प्रवृत्तकम्—

कालसाम्यसमाक्षिप्तप्रवेशः स्यात्प्रवृत्तकम्॥१०॥

प्रवृत्तकालसमानगुणवर्णनया सूचितपात्रप्रवेशः प्रवृत्तकम्। यथा—

‘आसादितप्रकटनिर्मलचन्द्रहासः
प्राप्तः शरत्समय एष विशुद्धकान्तः।
उत्खाय गाढतमसं घनकालमुग्रं
रामो दशास्यमिव संभृतबन्धुजीवः॥

(ततः प्रविशति यथानिर्दिष्टो रामः।) '

अथ प्रयोगातिशयः—

एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतः।
पात्रप्रवेशो यत्रैष प्रयोगातिशयो मतः॥११॥

यथा—‘एष राजेव दुष्यन्तः’ इति।

अथ वीथ्यङ्गानि—

उद्धात्यकावलगिते प्रपञ्चत्रिगते छलम्।
वाक्केल्यधिबले गण्डमवस्यन्दितनालिके॥१२॥

असत्प्रलापव्याहारमृदवानि त्रयोदश।

तत्र—

गूढार्थपदपर्यायमाला प्रश्नोत्तरस्य वा ॥१३॥
यत्रान्योन्यं समालापो द्वेधोद्धात्यं तदुच्यते।

गूढार्थं पदं तत्पर्यायश्चेत्येवं माला। प्रश्नोत्तरं चेत्येवं वा माला। द्वयोरुक्तिप्रत्युक्तौ तद्द्विविधमुद्धात्यकम्। तत्राद्यं विक्रमोर्वश्यां यथा—‘विदूषकः—भो118 वअस्स,को एसो कामो जेण तुमं पि दूमिज्जसे। सो किं पुरसो आदु इत्थिति। राजा— सखे,

मनोजातिरनाधीना सुखेष्वेव प्रवर्तते।
स्नेहस्य ललितो मार्गः काम इत्यभिधीयते॥

** विदूषकः**—ए119वं पि ण जाणे। राजा—वयस्य, इच्छाप्रभवः स इति।

** विदूषकः**—किं120 जो जं इच्छदि सो तं कामेदित्ति। राजा—अथ किम्।

** विदूषकः**—ता121 जाणिदं जह अहं सूअआरसालाए भोअणं इच्छामि।’

द्वितीयं यथा पाण्डवानन्दे—

‘का श्लाघ्या गुणिनां क्षमा परिभवः को यः स्वकुल्यैः कृतः
किं दुःखं परसंश्रयो जगति कः श्लाघ्यो य आश्रीयते।

को मृत्युर्व्यसनं शुचं जहति के यैर्निर्जिताः शत्रवः
कैर्विज्ञातमिदं विराटनगरे छन्नस्थितैः पाण्डवैः॥’

अथावलगितम्—

यत्रैकत्र समावेशात्कार्यमन्यत्प्रसाध्यते॥१४॥
प्रस्तुतेऽन्यत्र वान्यत्स्यात्तच्चावलगितं द्विधा।

तत्राद्यं यथोत्तरचरिते समुत्पन्नवनविहारगर्भदोहदायाः सीताया दोहदकार्येऽनुप्रविश्य जनापवादादरम्ये त्यागः। द्वितीयं यथा छलितरामे—’रामः—लक्ष्मण, तात वियुक्तामयोध्यां विमानस्थो नाहं प्रवेष्टुं शक्नोमि। तदवतीर्य गच्छामि।

कोऽपि सिंहासनस्याधः स्थितः पादुकयोः पुरः।
जटावानक्षमाली च चामरी च विराजते॥ ‘

इति भरतदर्शनकार्यसिद्धिः।

अथ प्रपञ्चः—

122सद्भूतं मिथःस्तोत्रं प्रपञ्चो हास्यकृन्मतः॥१५॥

असद्भुतेनार्थेन पारदार्यादिनैपुण्यादिना यान्योन्यस्तुतिः स प्रपञ्चः। यथा कर्पूरमञ्जर्याम्—’भैरवानन्दः

123ण्डा चण्डा दिक्खिदा धम्मदारा मज्जं मंसं पिज्जए खज्जए अ।
भिक्खा भोज्जं चम्मखण्डं च सेज्जा कोलो धम्मो कस्स णो होइ रस्मो॥’

अथ त्रिगतम्—

श्रुतिसाम्यादनेकार्ययोजनं त्रिगतं त्विह।
नटादित्रितयालापः पूर्वरङ्गे तदिष्यते॥१६॥

यथा विक्रमोर्वश्याम्—

‘मत्तानां कुसुमरसेन षट्पदानां
शब्दोऽयं परभृतनाद एष धीरः।
कैलासे सुरगणसेविते समन्ता–
त्किन्नर्यः कलमधुराक्षरं प्रगीताः॥’

अथ छलनम्—

प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य छ124लनाच्छलम्।

यथा वेणीसंहारे—’भीमार्जुनौ—

कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम्।
कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः
क्वास्ते दुर्योधनोऽसौ कथयत पुरुषा द्रष्टुमभ्यागतौ स्वः॥’

अथ वाक्केली—

विनिवृत्त्यास्य वाक्केली द्विस्त्रिःप्रत्युक्तितोऽपि वा॥१७॥

अस्येति वाक्यस्य प्रक्रान्तस्य साकाङ्क्षस्य विनिवर्तनं वाक्केली। द्वित्रिर्वा उक्तिप्रत्युक्तयः। तत्राद्या यथोत्तरचरिते—’ वासन्ती—

त्वं जीवितं त्वमसि मे हृदयं द्वितीयं
त्वं कौमुदी नयनयोरमृतं त्वमङ्गे।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां
तामेव शान्तमथवा किमतः परेण॥’

उक्तिप्रत्युक्तितो यथा रत्नावल्याम्—’विदूषकः—भो125दि मअणिए,मं पि एदं चच्चरिं सिक्खावेहि। मदनिका—ह126दास, ण क्खु एसा चञ्चरी। दुवदिखण्डअं क्खु एदम्। विदूषकः—भो127दि किं एदिणा खण्डेण मोदआ करीअन्ति। मदनिका—128हि। पढीदि क्खु एदम्। इत्यादि। अथाधिबलम्—

अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिवलं भवेत्।

यथा वेणीसंहारे—’अर्जुनः

सकलरिपुजयाशा यत्र बद्धा सुतैस्ते
तृणमिव परिभूतो यस्य गर्वेण लोकः।
रणशिरसि निहन्ता तस्य राधासुतस्य
प्रणमति पितरौ वां मध्यमः पाण्डुपुत्रः॥’

इत्युपक्रमे ‘राजा—अरे, नाहं भवानिव विकत्थनाप्रगल्भः। किंतु।

द्रक्ष्यन्ति न चिरात्सुप्तं बान्धवास्त्वां रणाङ्गणे।
मद्गदाभिन्नवक्षोऽस्थिवेणिकाभङ्गभीषणम्॥’

इत्यन्तेन भीमदुर्योधनयोरन्योन्यवाक्यस्याधिक्योक्तिरधिबलम्।

अथ गण्डः—

गण्डः प्रस्तुतसंबन्धिभिन्नार्थं सहसोदितम्॥१८॥

यथोत्तरचरिते—’रामः

इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो–
रसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः
किमस्या न प्रेयो यदि परमसह्यस्तु विरहः॥

(प्रविश्य।) प्रतीहारी—देव129, उअत्थिदो। रामः—अयि, कः। प्रतीहारी—देव130स्स आसण्णपरिचारओ दुम्मुहो।’ इति।

अथावस्यन्दितम् —

रसोक्तस्यान्यथा व्याख्या यत्रावस्यन्दितं हि तत्।

यथा छलितरामे—’सीता—जा131द, कल्लं क्खु तुह्येहि अजुज्झाए गन्तव्यम्। तर्हिसो राआ विणएण णमिदव्वो। लवः—अम्ब, किमावाभ्यां राजोपजीविभ्यां भवितव्यम्। सीता—जा132द, सो क्खु तुम्हाणं पढ़ा।लवः—किमावयो रघुपतिः पिता। सीता—(साशङ्कम्।) जा133द, ण क्खु परं तुह्माणम्। सअलाए ज्जेव्व पुहवीए।’ इति।

अथ नालिका—

सोपहासा निगूढार्थानालिकैव प्रहेलिका॥१९॥

यथा मुद्राराक्षसे—’चरः—‘ह134ंहो बह्मण, मा कुप्प। किं पि तुह

अज्झाओ जाणादि। किं पि अह्मारिसा जणा जाणन्ति। शिष्यः—किमस्मादुपाध्यायस्य सर्वज्ञत्वमपहर्तुमिच्छसि। चरः—य135दि दे उवज्झाओ सव्वं जाणादि ता जाणादु दाव कस्स चन्दो अणभिप्पेदो त्ति। शिष्यः—किमनेन ज्ञातेन भवति।’ इत्युपक्रमे ‘चाणक्यः— चन्द्रगुप्तादपरक्तान्पुरुपाञ्जानामि।’ इत्युक्तं भवति।

अथासत्प्रलापः—

असंबद्धकथाप्रायोऽसत्प्रलापो य136थोत्तरः।

ननु चासंबद्धार्थत्वेऽसंगतिर्नाम वाक्यदोष उक्तः। तन्न। उत्खप्नायितमदोन्मादशैशवादीनामसंबद्धप्रलापितैव विभावः। यथा—

‘अर्चिष्मन्ति विदार्य वक्रकुहराण्यासृक्कतो वासुके-
रङ्गुल्या विषकर्बुरान्गणयतः संस्पृश्य दन्ताङ्कुरान्।
एकं त्रीणि नवाष्ट सप्त षडिति प्रध्वंस्तसंख्याक्रमा
वाचः क्रौञ्चरिपोः शिशुत्वविकलाः श्रेयांसि पुष्णन्तु वः॥’

यथा च—

‘हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता।
विभावितैकदेशेन देयं यदभियुज्यते॥’

यथा वा—

‘भुक्ता हि मया गिरयः स्नातोऽहं वह्निना पिबामि वियत्।
हरिहरहिरण्यगर्भा मत्पुत्रास्तेन नृत्यामि॥’

अथ व्याहारः—

अन्यार्थमेव व्याहारो हास्यलोभकरं वचः॥२०॥

यथा मालविकाग्निमित्रे लास्यप्रयोगावसाने—’(मालविका निर्गन्तुमिच्छति।)विदूषकः—मा137 दाव। उवएससुद्धा गमिस्ससि।’ इत्युपक्रमे ‘गणदासः—(विदूषकं प्रति।) आर्य, उच्यतां यस्त्वया क्रमभेदो लक्षितः। विदूषकः—प138ढमं पच्चूसे बह्मणस्स पूआ भोदि। सा तए लङ्घिदा। (मालविका स्मयते।)’

इत्यादिना नायकस्य विश्रब्धनायिकादर्शनप्रयुक्तेन हास्यलोभकारिणा वचनेन व्याहारः।

अथ मृदवम्—

दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत्।

यथा शाकुन्तले—

‘मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः
सत्त्वानामुपलक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः।
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः॥

इति मृगयादोषस्य गुणीकारः।

यथा च—

‘सततमनिर्वृतमानसमायाससहस्रसंकुलक्लिष्टम्।
गतनिद्रमविश्वासं जीवति राजा जिगीषुरयम्॥’

इति राज्यगुणस्य दोषीभावः।

उभयं वा—

‘सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः
सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा।
अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो
युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः॥ ‘

इति प्रस्तावनाङ्गानि।

एषामन्यतमेनार्थं पात्रं चाक्षिप्य सूत्रभृत्॥२१॥
प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रपञ्चयेत्।

तत्र—

139भिगम्यगुणैर्युक्तो धीरोदात्तः प्रतापवान्॥२२॥

कीर्तिकामो महोत्साहस्रय्यास्राता महीपतिः।
प्रख्यातवंशो राजर्षिर्दिव्यो वा यत्र नायकः॥२३॥

तत्प्रख्यातं विधातव्यं वृत्तमत्राधिकारिकम्।

यत्रेतिवृत्ते सत्यवागसंवादकारिनीतिशास्त्रप्रसिद्धाभिगामिकादिगुणयुक्तो रामायणमहाभारतादिप्रसिद्धो धीरोदात्तो राजर्षिर्दिव्यो वा नायकस्तत्प्रख्या—तमेवात्र नाटक आधिकारिकं वस्तु विधेयमिति।

यत्तत्रानुचितं किंचिन्नायकस्य रसस्य वा॥२४॥

विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ।

यथा छद्मना वालिवधो मायुगजेनोदात्तराघवे परित्यक्तः।

वीरचरिते तु रावणसौहृदेन वाली रामनार्थमागतो रामेण हत इत्यन्यथा कृतः।

आद्यन्तमेवं निश्चित्य पञ्चधा तद्विभज्य च॥२५॥

खण्डशः संधिसंज्ञांश्च विभागानपि खण्डयेत्।

अनौचित्यरसविरोधपरिहारपरिशुद्धीकृतसूचनीयदर्शनीयवस्तुविभागफलानुसारेणोपक्लृप्तबीजबिन्दुपताकाप्रकरीकार्यलक्षणार्थप्रकृतिकं पञ्चावस्थानुगुण्येन पञ्चधा विभजेत्। पुनरपि चैकैकस्य भागस्य द्वादश त्रयोदश चतुर्दशेत्येवमङ्गसंज्ञानां संधीनां विभागान्कुर्यात्।

चतुःषष्टिस्तु तानि स्युरङ्गानीत्यपरं तथा॥२६॥

पताकावृत्तमप्यूनमेकाद्यैरनुसंधिभिः।
अङ्गान्यत्र यथालाभमसंधिं प्रकरीं न्यसेत्॥२७॥

अपरमपि प्रासङ्गिकमितिवृत्तमेकाद्यैरनुसंधिभिर्न्यूनमिति प्रधानेतिवृत्तादेकद्वित्रिचतुर्भिरनुसंधिभिर्नूनं पताकेतिवृत्तं न्यसनीयम्। अङ्गानि च प्रधानाविरोधे यथालाभं न्यसनीयानि। प्रकरीतिवृत्तं त्वपरिपूर्णसंधि विधेयम्।

तत्रैवं विभक्ते—

आदौ विष्कम्भकं कुर्यादङ्कं वा कार्ययुक्तितः।

इयमत्र कार्ययुक्तिः।

अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम्॥२८॥

या संदर्शयेच्छेषं कुर्याद्विष्कम्भकं तदा।
यदा तु सरसं वस्तु मूलादेव प्रवर्तते॥२९॥

आदावेव तदाङ्कः स्यादामुखाक्षेपसंश्रयः।

सच—

प्रत्यक्षनेतृचरितो बिन्दुव्याप्तिपुरस्कृतः॥३०॥
अङ्को नानाप्रकारार्थसंविधानरसाश्रयः।

रङ्गप्रवेशे साक्षान्निर्दिश्यमाननायकव्यापारो बिन्दूपक्षेपार्थपरिमितोऽनेकप्रयोजनसंविधानरसाधिकरण उत्सङ्ग इवाङ्कः।

तत्र च—

अनुभावविभावाभ्यां स्थायिना व्यभिचारिभिः॥३१॥
गृहीतमुक्तैः कर्तव्यमङ्गिनः परिपोषणम्।

अङ्गिन एवाङ्गिरसस्थायिनः संग्रहात्स्थायिनेति रसान्तरस्थायिनो ग्रहणम्। गृहीतमुक्तैः परस्परव्यतिकीर्णैरित्यर्थः।

न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत्॥३२॥
रसं वा न तिरोदध्याद्वस्त्वलंकारलक्षणैः।

कथासंध्यङ्कोपमादिलक्षणैर्भूषणादिभिः।

एको रसोऽङ्गीकर्तव्यो वीरः शृङ्गार एव वा॥३३॥
अङ्गमन्ये रसाः सर्वे कुर्यान्निर्वहणेऽद्भुतम्।

ननु च रसान्तरस्थायिनेत्यनेनैव रसान्तराणामङ्गत्वमुक्तम्। तन्न। यत्र रसान्तरस्थायी स्वानुभावविभावव्यभिचारियुक्तो भूयसोपनिबध्यते तत्र रसान्तराणामङ्गत्वम्। केवलस्थाय्युपनिबन्धे तु स्थायिनो व्यभिचारितैव।

दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम्॥३४॥

संरोधं भोजनं स्नानं सुरतं चानुलेपनम्।
140म्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत्॥३५॥

अङ्कैर्नैवोपनिबध्नीत प्रवेशकादिभिरेव सूचयेदित्यर्थः।

नाधिकारिवधं क्वापि त्याज्यमावश्यकं न च।

अधिकृतनायकवधं प्रवेशकादिनापि न सूचयेत्। आवश्यकं तु देवपितृकार्याद्यवश्यमेव क्वचित्कुर्यात्।

एकाहाचरितैका141र्थमित्थमासन्ननायकम्॥३६॥
पात्रैस्त्रिचतुरैरङ्कं तेषामन्तेऽस्य निर्गमः।

एकदिवसप्रवृत्तैकप्रयोजनसंबद्धमासन्ननायकमबहुपात्रप्रवेशमङ्कं कुर्यात्। तेषां पात्राणामवश्यमङ्कस्यान्ते निर्गमः कार्यः।

पताकास्थानकान्यत्र बिन्दुरन्ते च बीजवत्॥३७॥

एवमङ्काः प्रकर्तव्याः प्रवेशादिपुरस्कृताः।
पञ्चाङ्कमेतदवरं दशाङ्कं नाटकं परम्॥३८॥

इत्युक्तं नाटकलक्षणम्।

अथ प्रकरणे वृत्तमुत्पाद्यं लोकसंश्रयम्।
अमात्यविप्रवणिजामेकं कुर्याच्च नायकम्॥३९॥

धीरप्रशान्तं सा142पायं धर्मकामार्थतत्परम्।
शेषं नाटकवत्संधिप्रवेशकरसादिकम्॥४०॥

कविबुद्धिविरचितमितिवृत्तम्। लोकसंश्रयमनुदात्तममात्याद्यन्यतमधीरप्रशान्तनायकं विपदन्तरितार्थसिद्धिं कुर्यात्। प्रकरणे मन्त्री अमात्य एव। सार्थवाहो वणिविशेष एवेति। स्पष्टमन्यत्।

नायिका तु द्विधा नेतुः कुलस्त्री गणिका तथा।
क्वचिदेकैव कुलजा वेश्या क्वापि द्वयं क्वचित्॥४१॥

कुलजाभ्यन्तरा बाह्या वेश्या नातिक्रमोऽनयोः।
आभिः प्रकरणं त्रेधा संकीर्णं धूर्तसंकुलम्॥४२॥

वेशो भृतिः सोऽस्या जीवनमिति वेश्या। तद्विशेषो गणिका। यदुक्तम्—

‘आभिरभ्यर्थिता वेश्या रूपशीलगुणान्विता।
लभते गणिकाशब्दं स्थानं च जनसंसदि॥’

एवं च कुलजा वेश्या उभयमिति त्रेधा प्रकरणे नायिका। यथा वेश्यैव तरङ्गदत्ते कुलजैव पुष्पदूषितके। ते द्वेऽपि मृच्छकटिकायामिति। कितवद्यूतकारादिधूर्तसंकुलं तु मृच्छकटिकादिवत्संकीर्णप्रकरणमिति।

अथ नाटिका—

लक्ष्यते नाटिकाप्यत्र संकीर्णान्यनिवृत्तये।

अत्र केचित्—

‘अनयोश्च बन्धयोगादेको भेदः प्रयोक्तृभिर्ज्ञेयः।
प्रख्यातस्त्वितरो वा नाटीसंज्ञाश्रिते काव्ये॥’

इत्यमुं भरतीयं श्लोकमेको भेदः प्रख्यातो नाटिकाख्य इतरस्त्वप्रख्यातः प्रकरणिकासंज्ञो नाटीसंज्ञया हे काव्ये आश्रिते इति व्याचक्षाणाः प्रकरणिकामपि मन्यन्ते। तदसत्। उद्देशलक्षणयोरनभिधानात्समानलक्षणत्वे वा भेदाभावात्। वस्तुरसनायकानां प्रकरणाभेदात्प्रकरणिकायाः। अतोऽनुद्दिष्टाया नाटिकाया यन्मुनिना लक्षणं कृतं तत्रायमभिप्रायः। शुद्धक्षणसंकरादेव तल्लक्षणे सिद्धे लक्षणकरणं संकीर्णानां नाटिकैव कर्तव्येति नियमार्थं विज्ञायते।

तमेव संकरं दर्शयति—

तत्र वस्तु प्रकरणान्नाटकान्नायको नृपः॥४३॥

प्रख्यातो धीरललितः शृङ्गारोऽङ्गी सलक्षणः।

उत्पाद्येतिवृत्तत्वं प्रकरणधर्मः प्रख्यातनृपनायकादित्वं तु नाटकधर्म इति। एवं च नाटकप्रकरणनाटिकातिरेकेण वस्त्वादेः प्रकरणिकायामभावादङ्कपात्रभेदाद्यदि भेदः।

तत्र—

स्त्रीप्रायचतुरङ्कादिभेदकं यदि चेष्यते॥४४॥

एकद्वित्र्यङ्कपात्रादिभेदेनानन्तरूपता।

तत्र नाटिकेति स्त्रीसमाख्ययौचित्यप्राप्तं स्त्रीप्रधानत्वम्। कैशिकीवृत्त्याश्रयत्वाच्च तदङ्गसंख्ययाल्पावमर्शत्वेन चतुरङ्कत्वमप्यौचित्यप्राप्तमेव।

विशेषस्तु—

देवी तत्र भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा॥४५॥

गम्भीरा मानिनी कृच्छ्रात्तद्वशान्नेतृ143संगमः।

प्राप्या तु—

ना144यिका तादृशी मुग्धा दिव्या चातिमनोहरा॥४६॥

तादृशीति नृपवंशजत्वादिधर्मातिदेशः।

अन्तःपुरादिसंबन्धादासन्ना श्रुतिदर्शनैः।

अनुरागो नवावस्थो नेतुस्तस्यां यथोत्तरम्॥४७॥
नेता तत्र प्रवर्तेत देवीत्रासेन शङ्कितः।

तस्यां मुग्धनायिकायामन्तःपुरसंबन्धसंगीतकसंबन्धादिना प्रत्यासन्नायां नायकस्य देवीप्रतिबन्धान्तरित उत्तरोत्तरो नवावस्थानुरागो निबन्धनीयः।

कैशिक्यङ्गैश्चतुर्भिश्च युक्ताङ्कैरिव नाटिका॥४८॥

प्रत्यङ्कोपनिबद्धाभिहितलक्षणकैशिक्यङ्गचतुष्ट्यवती नाटिकेति।

अथ भाणः—

भाणस्तु धूर्तचरितं स्वानुभूतं परेण वा।
यत्रोपवर्णयेदेको निपुणः पण्डितो विटः॥४९॥

संबोधनोक्तिप्रत्युक्ती कुर्यादाकाशभाषितैः।
सूचयेद्वीरशृङ्गारौ शौर्यसौभाग्यसंस्तवैः॥५०॥

भूयसा भारती वृत्तिरेकाङ्कं वस्तु कल्पितम्।
मुखनिर्वहणे साङ्गे लास्याङ्गानि दशापि च॥५१॥

धूर्ताश्चौरद्यूतकारादयस्तेषां चरितं यत्रैक एव विटः स्वकृतं परकृतं वोपवर्णयति स भारतीवृत्तिप्रधानत्वाद्भाणः। एकस्य चोक्तिप्रत्युक्तय आकाशभाषितैराशङ्कितोत्तरत्वेन भवन्ति। अस्पष्टत्वाच्च वीरशृङ्गारौ सौभाग्यशौर्योपवर्णनया सुचनीयौ।

लास्याङ्गानि—

गेयं पदं स्थितं पाठ्यमासीनं पुष्पगण्डिका।
मच्छेदकस्त्रिगूढं च सैन्धवाख्यं द्विगूढकम्॥५२॥

उत्तमोत्तमकं चैव145उक्तप्रत्युक्तमेव च।
लास्ये दशविधं ह्येतदङ्गनिर्देशक146ल्पनम्॥५३॥

शेषं स्पष्टमिति।

अथ प्रहसनम्—

तद्वत्प्रहसनं त्रेधा शुद्धवैकृतसंकरैः।

तद्वदिति भाणवद्वस्तुसंधिसंध्यङ्गलास्यादीनामतिदेशः।

तत्र शुद्धं तावत्—

पाखण्डिविप्रप्रभृतिचेटचेटीविटाकुलम्॥५४॥

चेष्टितं वेष147भाषाभिः शुद्धं हास्यवचोन्वितम्।

पाखण्डिनः शाक्यनिर्ग्रन्थप्रभृतयः। विप्राश्चात्यन्तमृजवः। जातिमात्रोपजीविनो वा। प्रहसनाङ्गिहास्यविभावास्तेषां च यथावत्स्वव्यापारोपनिबन्धनं चेटचेटीव्यवहारयुक्तं शुद्धं प्रहसनम्।

विकृतं तु—

कामुकादिवचोवेषैः षण्ढकञ्चुकितापसैः॥५५॥

विकृतं संकराद्वीथ्या संकीर्णं धूर्तसंकुलम्।

कामुकादयो भुजङ्गचारभटाद्याः। तदेशभाषादियोगिनो यत्र षण्ढकञ्चुकितापसंवृद्भादयस्तद्विकृतम्। स्वस्वरूपप्रच्युतविभावत्वात्। वीथ्यङ्गैस्तु संकीर्णत्वात्संकीर्णम्।

रसस्तु भूयसा कार्यः षड्विधो हास्य एव तु॥५६॥

इति स्पष्टम्।

अथ डिमः—

डिमे वस्तु प्रसिद्धं स्याद्वृत्तयः कैशिकीं विना।
नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः॥५७॥

भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः।
रसैरहास्यशृङ्गारैः षड्भिर्दीप्तैः समन्वितः॥५८॥

मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः।
चन्द्रसूर्योपरागैश्चन्याय्ये रौद्ररसेऽङ्गिनि॥५९॥

चतुरङ्कश्चतुःसंधिर्निर्विमर्शो डिमः स्मृतः।

डिमसंघात इति नायकसंघातव्यापारात्मकत्वाड्डिमः। तत्रेतिहासप्रसिद्धमितिवृत्तम्। वृत्तयश्च कैशिकीवर्जास्तिस्रः। रसाश्च वीररौद्रबीभत्साद्भूतकरुणभयानकाः षट्। स्थायी तु रौद्रो न्यायप्रधानो विमर्शरहिता मुखप्रतिमुखगर्भनिर्वहणाख्याश्चत्वारः संघयः साङ्गाः। मायेन्द्रजालाद्यनुभावसमाश्रयाः। शेषं प्रस्तावादिनाटकवत्। एतञ्च—

‘इदं त्रिपुरदाहे तु लक्षणं ब्रह्मणोरितम्।
ततस्त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः॥’

इति भरतमुनिना स्वयमेव त्रिपुरदाहेतिवृत्तस्य तुल्यत्वं दर्शितम्।

अथ व्यायोगः—

ख्यातेतिवृत्तो व्यायोगः ख्यातोद्धतनराश्रयः॥६०॥

हीनो गर्भविमर्शाभ्यां दीप्ताः स्युर्डिमवद्रसाः।
अस्त्रीनिमित्तसंग्रामो जामदग्न्यजये यथा॥६१॥

एकाहाचरितैकाङ्को व्यायोगो वहुभिर्नरैः।

व्यायुज्यन्तेऽस्मिन्बहवः पुरुषा इति व्यायोगः। तत्र डिमवद्रसाः षट् हास्यशृङ्गाररहिताः। वृत्त्यात्मकत्वाच्च रसानामवचनेऽपि कैशिकीरहितेतरवृत्तित्वं रसवदेव लभ्यते। अस्त्रीनिमित्तश्चात्र संग्रामः। यथा परशुरामेण पितृवधकोपात्सहस्रार्जुनवधः कृतः। शेषं स्पष्टम्।

अथ समवकारः—

कार्यं समवकारेऽपि मुखं नाटकादिवत्॥६२॥

ख्यातं देवासुरं वस्तु निर्विमर्शास्तु संधयः।
वृत्तयो मन्दकैशिक्यो नेतारो देवदानवाः॥६३॥

द्वादशोदात्तविख्याताः फलं तेषां पृथक्पृथक्।
बहुवीररसाः सर्वे यद्वदम्भोधिमन्धने॥६४॥

अङ्कैस्त्रिभिस्त्रिकपटस्त्रिशृङ्गारस्त्रिविद्रवः।
द्विसंधिरङ्कः प्रथमः कार्यो द्वादशनालिकः॥६५॥

चतुर्द्विना148लिकावन्त्यौना149लिका घटिकाद्वयम्।
वस्तुस्वभावदैवारिकृताः स्युः कपटास्त्रयः॥६६॥

नगरोपरोधयुद्धे वाताग्न्यादिकविद्रवाः।
धर्मार्थकामैः शृङ्गारो नात्र बिन्दुप्रवेशकौ॥६७॥

वीथ्यङ्गानि यथालाभं कुर्यात्प्रहसने यथा।

समवकीर्यन्तेऽस्मिन्नर्था इति समवकारः। तत्र नाटकादिवदामु-मिनि

समस्तरूपकाणामामुखप्रापणम्। विमर्शवर्जिताश्चत्वारः संधयः। देवासुरादयो द्वादशनायकाः। तेषां च फलानि पृथक्पृथग्भवन्ति। यथा समुद्रमन्थने वासुदेवादीनां लक्ष्म्यादिलाभाः। वीरश्चाङ्गी। अङ्गभूताः सर्वे रसाः। त्रयोऽङ्काः। तेषां प्रथमो द्वादशनालिकानिर्वृत्तेति वृत्तप्रमाणः। यथासंख्यं चतुर्द्विनालिकावन्त्यौ नालिका च घटिकाद्वयम्। प्रत्यङ्कं च यथासंख्यं कपटाः। तथा नगरोपरोवयुद्धवाताग्न्यादिविद्रवाणां मध्य एकैको विद्रवः कार्यः। धर्मार्थकामशृङ्गागणामेकैकः शृङ्गारः। प्रत्यङ्कमेव विधातव्यः। वीथ्यङ्गानि च यथालाभं कार्याणि। बिन्दुप्रवेशकौ नाटकोक्तावपि न विधातव्यौ। इत्ययं समवकारः।

अथ वीथी—

वीथी तु कैशिकीवृत्तौसंध्यङ्गाङ्कैस्तु भाणवत्॥६८॥

रसः सूच्यस्तु शृङ्गारः स्पृशेदपि रसान्तरम्।
युक्ता प्रस्तावनाख्यातैरङ्गैरुध्दात्यकादिभिः॥६९॥

एवं वीथी विधातव्या द्व्येकपात्रप्रयोजिता।

वीथीवद्वीथीमार्गोऽङ्गानां पङ्क्तिर्वा भाणवत्कार्या। विशेषस्तु रसः शृङ्गारोऽपरिपूर्णत्वाद्भूयसा सूच्यः। रसान्तराण्यपि स्तोकं स्पर्शनीयानि। कौशिकी वृत्ती रसौचित्यादेवेति। शेषं स्पष्टम्।

अथाङ्कः—

उत्सृष्टिकाङ्के प्रख्यातं वृत्तं बुद्ध्या प्रपञ्चयेत्॥७०॥

रसस्तु करुणः स्थायी नेतारः प्राकृता नराः।
भाणवत्संधिवृत्त्यङ्कैर्युक्तः स्त्रीपरिदेवितैः॥७१॥

वाचा युद्धं विधातव्यं तथा जयपराजयौ।

उत्सृष्टिकाङ्क इति नाटकान्तर्गताङ्कव्यवच्छेदार्थम्। शेषं प्रतीतमिति।

अथेहामृगः—

मिश्रमीहामृगे वृत्तं चतुरङ्कं त्रिसंधिमत्॥७२

नरदिव्यावनियमान्नायकप्रतिनायकौ।
ख्यातौ धीरोद्धतावन्त्यो विपर्यासादयुक्तकृत्॥७३॥

दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः।

शृङ्गाराभासमप्यस्य किंचित्किंचित्प्रदर्शयेत्॥७४॥

संरम्भं परमानीय युद्धं व्याजान्निवारयेत्।
वधप्राप्तस्य कुर्वीत वधं नैव महात्मनः॥७५॥

मृगवदलभ्यां नायिकां नायकोऽस्मिन्नीहते इतीहामृगः। ख्यातास्ख्यातं वस्त्वन्त्यः प्रतिनायको विपर्यासाद्विपर्ययज्ञानादयुक्तकारी विधेयः। स्पष्टमन्यत्।

इत्थं विचिन्त्य दशरूपकलक्ष्ममार्ग–
मालोक्य वस्तु परिभाव्य कविप्रबन्धान्।
कुर्यादयत्नवदलंकृतिभिः प्रबन्धं
वाक्यैरुदारमधुरैः स्फुटमन्दवृत्तेः॥७६॥

स्पष्टम्॥

इति श्रीविष्णुसूनोर्धनिकस्य कृतौ दशरूपावलोके
रूपकलक्षणप्रकाशो नाम तृतीयः प्रकाशः समाप्तः।

चतुर्थः प्रकाशः।

चतुर्थः प्रकाशः।

अथेदानीं रसभेदः प्रदर्श्यते—

विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः।
आनीयमानः स्वा150द्यत्वं स्थायी भावो रसः स्मृतः॥१॥

वक्ष्यमाणस्वभावैर्विभावानुभावव्यभिचारिसात्त्विकैः काव्योपात्तैरभिनयोपदर्शितैर्वा श्रोतृप्रेक्षकाणामन्तर्विपरिवर्तमानो रत्यादिर्वक्ष्यमाणलक्षणः स्थायी स्वादगोचरतां निर्भरानन्दसंविदात्मतामानीयमानो रसः। तेन रसिकाः सामाजिकाः। काव्यं तु तथाविधानन्दसंविदुन्मीलनहेतुभावेन रसवदायुर्घृतमित्यादिव्यपदेशवत्।

तत्र विभावः—

ज्ञायमानतया तत्र विभावो भावपोषकृत्।
151लम्बनोद्दीपनत्वप्रभेदेन स च द्विधा॥२॥

तत्रालम्बनविभावो यथा—

‘अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकनिधिः स्वयं नु मदनो मासो नु पुष्पाकरः।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥’

उद्दीपनविभावो यथा—

‘अयमुदयति चन्द्रश्चन्द्रिकाधौतविश्वः
परिणतविमलिम्नि व्योम्नि कर्पूरगौरः।
ऋजुरजनशलाकाम्पर्धिभिर्यम्य पादै–
र्जगदमलमृणादीपजस्तं विभाति॥

अनुभावो विकारस्तु भावसंसूचनात्मकः।

स्थायिभावाननुभावयतः सामाजिकान्मभ्रुविक्षेपकटाक्षादयो रसपोषकारिणोऽनुभावाः। एते चाभिनयकाव्ययोरप्यनुभावयतां साक्षाद्भावकानुभवकर्मतयानुभूयन्त इत्यनुभवनमिति चानुभावा रसिकेषु व्यपदिश्यन्ते। विकारो भावसंसूचनात्मक इति तु लौकिकरसापेक्षया इह तु तेषां कारणत्वमेव। यथा ममैव—

‘उज्जृम्भाननमुल्लसत्कुचतटं लोलभ्रमभ्द्रुलतं
स्वेदाम्भःस्नपिताङ्गयष्टिविगलड्रीडं सरोमाञ्चया।
धन्यः कोऽपि युवा स यस्य वदने व्यापारिताः संस्पृहं
मुग्धे दुग्धमहाब्धिफेनपटलप्रख्याः कटाक्षच्छटाः॥’

इत्यादि यथारसमुदाहरिष्यामः।

हेतुकार्यात्मनोः सिद्धिस्तयोः संव्यवहारतः॥३॥

तयोर्विभावानुभावयोर्लौकिकरसं प्रतिहेतुकार्यभूतयोः संव्यवहारादेव सिद्धत्वान्न पृथग्लक्षणमुपयुज्यते। तदुक्तम्—‘विभावानुभावौ लोकसंसिद्धौ लोकयात्रानुगामिनौ लोकस्वभावोपगतत्वाच्च न पृथग्लक्षणमुच्यते’ इति। अथ भावः—

सुखदुःखादिकैर्भावैर्भावस्तद्भावभावनम्।

अनुकार्याश्रयत्वेनोपनिबध्यमानैः सुखदुःखादिरूपैर्भावैस्तद्भावस्य भावकचेतसो भावनं वासनं भावः। तदुक्तम्—‘अहो ह्यनेन रसेन गन्धेन वा सर्वमेतद्भावितं वासितम्’ इति। यत्तु रसान्भावयन्भाव इति, कवेरन्तर्गतं भावं भावयन्भाव इति च, तदभिनयकाव्ययोः प्रवर्तमानस्य भावशब्दस्य प्रवृत्तिनिमित्तकथनम्।

ते च स्थायिनो व्यभिचारिणश्चेति वक्ष्यमाणाः।

पृथग्भावा भवन्त्यन्येऽनुभावत्वेऽपि सात्विकाः॥४॥

सत्त्वादेव समुत्पत्तेस्तच्च तद्भावभावनम्।

परगतदुःखहर्षादिभावनायामत्यन्तानुकूलान्तःकरणत्वं सत्त्वम्। यदाह—‘सत्त्वं नाम मनः प्रभवम्। तच्च समाहितमनस्त्वादुत्पद्यते। एतदेवास्य सत्त्वं यतः खिन्नेन प्रहर्षितेन चाश्रुरोमाञ्चादयो निर्वर्त्यन्ते। तेन सत्त्वेन निर्वृत्ताः सात्त्विकाग्न एव भावास्तत उत्पद्यमानत्वादश्रुप्रभृतयोऽपि भावा भावसंसूचनात्मकविकाररूपत्वाच्चानुभावा इति द्वैरूप्यमेषाम्।

ते च—

स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू॥५॥

अश्रुवैस्वर्यमित्यष्टौ स्तम्भोऽस्मिन्निष्क्रियाङ्गता।
प्रलयो नष्टसंज्ञत्वं शेषाः सुव्यक्तलक्षणाः॥६॥

यथा—

वेव152इ सेअदवदनी रोमञ्चिअ गत्तिए ववइ।
विललुल्लु तु वलअ लहु वाहोअल्लीए रणेत्ति॥

मुहऊ सामलि होई खणे विमुच्छइ विग्घेण।
मुद्धा मुहल्ली तुअ पेम्मेण सावि ण धिज्जइ॥’

अथ व्यभिचारिणः। तत्र सामान्यलक्षणम्—

विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः।
स्थायिन्युन्मग्ननिर्मग्नाः कल्लोला इव वारिधौ॥७॥

यथा वारिधौ सत्येव कल्लोला उद्भवन्ति विलीयन्ते च तद्वदेव रत्यादौ स्थायिनि सत्येवाविर्भावतिरोभावाभ्यामाभिमुख्येन चरन्तो वर्तमाना निर्वेदादयो व्यभिचारिणो भावाः। ते च—

निर्वेदग्लानिशङ्काश्रमधृतिजडताहर्षदैन्यौग्र्यचिन्ता–
स्त्रासेर्ष्यामर्षगर्वाः स्मृतिमरणमदाः सुप्तनिद्राविबोधाः।
व्रीडापस्मारमोहाः समतिरलसतावेगतर्कावहित्था
व्याध्युन्मादौ विषादोत्सुकचपलयुतास्त्रिंशदेते त्रयश्च॥८॥

तत्र निर्वेदः—

तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमाननम्।
तत्र चिन्ताश्रुनिःश्वासवैवर्ण्योच्छ्वासदीनताः॥९॥

तत्त्वज्ञानान्निर्वेदो यथा—

‘प्राप्ताः श्रियः सकलकामदुघास्ततः किं
दत्तं पदं शिरसि विद्विषतां ततः किम्।
संप्रीणिताः प्रणयिनो विभवैस्ततः किं
कल्पं स्थितं तनुभृतां तनुभिस्ततः किम्॥’

आपदो यथा—

‘राज्ञो विपद्बन्धुवियोगदुःखं देशच्युतिर्दुर्गममार्गखेदः।
आस्वाद्यतेऽस्याः कटुनिष्फलायाः फलं मयैतच्चिरजीवितायाः॥’

ईर्ष्यातो यथा—

‘धिग्धिक्शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्गग्रामटिकाविलुण्ठनपरैः पीनैः किमेभिर्भुजैः।
न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः
सोऽप्यत्रैव निहन्ति राक्षसभटाञ्जीवत्यहो रावणः॥’

वीरशृङ्गारयोर्व्यभिचारी निर्वेदो यथा—

‘ये बाहवो न युधि वैरिकठोरकण्ठ–
पीठोच्छलद्रुधिरराजिविराजितांसाः।
नापि प्रियापृथुपयोधरपत्रभङ्ग–
संक्रान्तकुङ्कुमरसाः खलु निष्फलास्ते॥’

आत्मानुरूपं रिपुं रमणीं वालभमानस्य निर्वेदादियमुक्तिः। एवं रसान्तराणामप्यङ्गभाव उदाहार्यः।

रसानङ्गः स्वतन्त्रो निर्वेदो यथा—

‘कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं
वैराग्यादिव वक्षि साधु विदितं कस्माद्यतः श्रूयताम्।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न च्छायापि परोपकारकरणी मार्गस्थितस्यापि मे॥’

विभावानुभावरसाङ्गानङ्गभेदादनेकशाखो निर्वेदो निदर्शनीयः।

अथ ग्लानिः—

रत्याद्यायासतृट्क्षुद्भिर्ग्लनिर्निष्प्राणतेह च।
वैवर्ण्यकम्पानुत्साहक्षामाङ्गवचनक्रियाः॥१०॥

निधुवनकलाभ्यासादिश्रमतृट्क्षुद्वमनादिभिर्निष्प्राणतारूपा ग्लानिः। अस्यां च वैवर्ण्यकम्पानुत्साहादयोऽनुभावाः।

यथा माघे—

‘लुलितनयनताराः क्षामवक्रेन्दुबिम्बा
रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः।
तिमिरमिव दधानाः स्रंसिनः केशपाशा–
नवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः॥’

शेषं निर्वेदवदूह्यम्।

अथ शङ्का—

अनर्थप्रतिभा शङ्का परक्रौर्यात्स्वदुर्नयात्।
कम्पशोषा153भिवीक्षादिरत्र वर्णस्वरान्यता॥११॥

तत्र परक्रौर्याद्यथा रत्नावल्याम्—

‘ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं
द्वयोर्दृष्ट्वालापं कलयति कथामात्मविषयाम्।
सखीषु स्मेरासु प्रकटयति वैलक्ष्यमधिकं
प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा॥

स्वदुर्नयाद्यथा वीरचरिते—

‘दूराद्दवीयो धरणीधराभं यस्ताटकेयं तृणवद्व्यधूनोत्।
हन्ता सुबाहोरपि ताडकारिः स राजपुत्रो हृदि बाधते माम्॥’

अनया दिशान्यदनुसर्तव्यम्।

अथ श्रमः—

श्रमः खेदोऽध्वरत्यादेः स्वेदोऽस्मिन्मर्दनादयः।

अध्वतो यथोत्तररामचरिते—

‘अलसलुलितमुग्धान्यध्वसंजातखेदा–
दशिथिलपरिरम्भैर्दत्तसंवाहनानि।

परिमृदितमृणालीदुर्बलान्यङ्गकानि
त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता॥’

रतिश्रमो यथा माघे—

‘प्राप्य मन्मथरसादतिभूमिं दुर्वहस्तनभराः सुरतस्य।
शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः॥’

इत्याद्युत्प्रेक्ष्यम्।

अथ धृतिः—

संतोषो ज्ञानशक्त्त्यादेर्धृतिरव्यग्रभोगकृत्॥१२॥

ज्ञानाद्यथा भर्तृहरिशतके—

‘वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या
सम इह परितोषो निर्विशेषो विशेषः।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः॥ ‘

शक्तितो यथा रत्नावल्याम्—

‘राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः
सम्यक्पालनपालिताः प्रशमिताशेषोपसर्गाः प्रजाः।
प्रद्योतस्य सुता वसन्तसमयस्त्वं चेति नाम्ना धृतिं
कामः काममुपैत्वयं मम पुनर्मन्ये महानुत्सवः॥’

इत्याद्यूह्यम्।

अथ जडता—

अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः।
अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र॥१३॥

इष्टदर्शनाद्यथा—

‘एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति।
सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये॥’

अनिष्टश्रवणाद्यथोदात्तराघवे—‘राक्षसः—

तावन्तस्ते महात्मानो निहताः केन राक्षसाः।
येषां नायकतां यातास्त्रिशिरः खरदूषणाः॥

** द्वितीयः**—गृहीतधनुषा रामहतकेन। प्रथमः—किमेकाकिनैव।

** द्वितीयः**—अदृष्ट्वा कः प्रत्येति। पश्य तावतोऽस्मद्बलस्य।

सद्यश्छिन्नशिरःश्वभ्रमज्जत्कङ्ककुलाकुलाः।
कबन्धाः केवलं जातास्तालोत्ताला रणाङ्गणे॥

प्रथमः—सखे, यद्येवं तदाहमेवंविधः किं करवाणि।’ इति।

अथ हर्षः—

प्रसत्तिरुत्सवादिभ्यो हर्षोऽश्रुस्वेदगद्गदाः।

प्रियागमनपुत्रजननोत्सवादिविभावैश्चेतःप्रसादो हर्षः। तत्र चाश्रुस्वेदगद्गदादयोऽनुभावाः। यथा—

‘आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्घ्यतां
गेहिन्या परितोषबाष्पकलिलामासज्य दृष्टिं मुखे।
दत्त्वा पीलुशमीकरीरकवलान्खेनाञ्चलेनादरा–
दुन्मृष्टं करभस्य केसरसटाभाराग्रलग्नं रजः॥’

निर्वेदवदितरदुन्नेयम्।

अथ दैन्यम्—

दौर्गत्याद्यैरनौजस्यं दैन्यं कार्ष्ण्यामृजादिमत्॥१४॥

दारिद्र्यन्यक्कारादिविभावैरनौजस्कता चेतसो दैन्यम्। तत्र च कृष्णतामलिनवसनदर्शनादयोऽनुभावाः। यथा—

‘वृद्धोऽन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहं
कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो।
यत्नात्संचिततैलबिन्दुघटिका भग्नेति पर्याकुला
दृष्ट्वा गर्भभरालसां सुतवधूं श्वश्रूश्चिरं रोदिति॥’

शेषं पूर्ववत्।

अथौग्र्यम्—

दुष्टेऽपराधदौर्मुख्यक154्रौर्यैश्चण्डत्वमुग्रता।
तत्र स्वेदशिरःकम्पतर्जनाताडनादयः॥१५॥

यथा वीरचरिते—‘जामदग्न्यः

उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषा–
दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंश्यान्।
पित्र्यं तद्रक्तपूर्णह्रदसवनमहानन्दमन्दायमान–
क्रोधाग्नेः कुर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः॥’

अथ चिन्ता—

ध्यानं चिन्तेहितानाप्तेः शून्यताश्वासतापकृत्।

यथा—

‘पक्ष्माग्रग्रथिताश्रुबिन्दुनिकरैर्मुक्ताफलस्पर्धिभिः
कुर्वन्त्या हरहासहारि हृदये हारावलीभूषणम्।
बाले बालमृणालनालवलयालंकारकान्ते करे
विन्यस्याननमायताक्षि सुकृती कोऽयं त्वया स्मर्यते॥’

यथा वा—

‘अस्तमितविषयसङ्गा मुकुलितनयनोत्पला बहुश्वसिता।
ध्यायति किमप्यलक्ष्यं बाला योगाभियुक्तेव॥’

अथ त्रासः—

गर्जितादेर्मनःक्षोभस्त्रासोऽत्रोत्कम्पितादयः॥१६॥

यथा माघे—

‘त्रस्यन्ती चलशफरीविघट्टितोरू–
र्वामोरूरतिशयमाप विभ्रमस्य।
क्षुम्यन्ति प्रसभमहो विनापि हेतो–
र्लीलाभिः किमु सति कारणे रमण्यः॥’

अथासूया—

परोत्कर्षाक्षमासूया गर्वदौर्जन्यमन्युजा।
दोषोक्त्यवज्ञे कुटमन्युक्रोधेङ्गितानि च॥१७॥

गर्वे यथा वीरचरिते—

‘अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत
द्रुह्यन्दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया

उत्कर्षं च परस्य मानयशसोर्विस्त्रंसनं चात्मनः
स्त्रीरत्नं च जगत्पतिर्दशमुखो दृप्तः कथं मृष्यते॥’

दौर्जन्याद्यथा—

‘यदि परगुणा न क्षम्यन्ते यतस्व गुणार्जने
नहि परयशो निन्दाव्याजैरलं परिमार्जितुम्।
विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथो
दिनकरकरान्पाणिच्छत्रैर्नुदञ्श्रममप्यसि॥’

मन्युजा यथामरूशतके—

‘पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः
प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः।
स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो
गता येन व्यक्तिं पुनरवयवैः सैव तरुणी॥
ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा
मनस्विन्या गेपप्रणयरभसाद्गद्गदगिरा।
अहो चित्रं चित्रं स्फुटमिति निगद्याश्रुकलुषं
रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः॥’

अथामर्षः—

अधिक्षेपापमानादेरमर्षोऽभिनिविष्टता।
तत्र स्वेदशिरःकम्पतर्जनाताडनादयः॥१८॥

यथा वीरचरिते—

‘प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात्।
न त्वेवंदूषयिष्यामि शस्त्रग्रहमहाव्रतम्॥’

यथा वा वेणीसंहारे—

‘युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं
प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा–
नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव॥’

अथ गर्वः—

गर्वोऽभिजनलावण्यबलैश्वर्यादिभिर्मदः।
कर्माण्याधर्षणावज्ञा सविलासाङ्गवीक्षणम्॥१९॥

यथा वीरचरिते—

‘मुनिरयमथ वीरस्तादृशस्तत्प्रियं मे
विरमतु परिकम्पः कातरे क्षत्रियासि।
तपसि विततकीर्तेर्दर्पकण्डूलदोष्णः
परिचरणसमर्थो राघवः क्षत्रियोऽहम्॥’

यथा वा तत्रैव—

‘ब्राह्मणातिक्रमत्यागो भवतामेव भूतये।
जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते॥’

अथ स्मृतिः—

सदृशज्ञानचिन्ताद्यैः संस्कारात्स्मृतिरत्र च।
ज्ञातत्वेनार्थभासिन्यां भ्रूसमुन्नयनादयः॥२०॥

यथा—

‘मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं
शक्तिस्तस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावण–
मा ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति॥’

यथा वा मालतीमाधवे—‘माधवः—मम हि प्राक्तनोपलम्भसंभावितात्मजन्मनः संस्कारस्यानवरतप्रबोधात्प्रतायमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रियतमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोति वृत्तिसारूप्यतश्चैतन्यम्।

‘लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च
प्रत्युप्तेव च वज्रसारघटितेवान्तर्निखातेव च।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि–
श्चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया॥’

अथ मरणम्—

मरणं सुप्रसिद्धत्वादनर्थत्वाच्च नोच्यते।

यथा—

‘संप्राप्तेऽवधिवासरे क्षणमनुत्वद्वर्त्मवातायनं
वारंवारमुपेत्य निष्क्रियतया निश्चित्य किंनिञ्चिरम्।

संप्रत्येव निवेद्य केलिकुररीं सास्त्रं सखीभ्यः शिशो–
र्माधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः॥’

इत्यादिवच्छृङ्गाराश्रयालम्बनत्वेन मरणे व्यवसायमात्रमुपनिबन्धनीयम्। अन्यत्र कामचारः। यथा वीरचरिते—‘पश्यन्तु भवन्तस्ताडकाम्।

‘हृन्मर्मभेदिपतदुत्कटकङ्कपत्र–
संवेगतत्क्षणकृतस्फुरदङ्गभङ्गा।
नासाकुटीरकुहरद्वयतुल्यनिर्य–
दुद्बुद्बुदध्वनदमृक्प्रसरा मृतैव॥’

अथ मदः—

हर्षोत्कर्षो मदः पानात्स्खलदङ्गवचोगतिः॥२१॥
निद्रा हासोऽत्र रुदितं ज्येष्ठमध्याधमादिषु।

यथा माघे—

‘हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः।
चक्रिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन॥’

इत्यादि।

अथ सुप्तम्—

सुप्तंनिद्रोद्भवं तत्र श्वासोच्छ्वासक्रियापरम्॥२२॥

यथा—

‘लघुनि तृणकुटीरे क्षेत्रकोणे यवानां
नवकलमपलालस्त्रस्तरे सोपधाने।
परिहरति सुषुप्तं हालिकद्वन्द्वमारा–
त्कुचकलशमहोष्माबद्धरेखस्तुपारः॥’

अथ निद्रा—

मनःसंमीलनं निद्रा चिन्तालस्यक्लमादिभिः।
तत्र जृम्भाङ्गभङ्गाक्षिमीलनोत्स्व155प्नतादयः॥२३॥

यथा—

‘निद्रार्धमीलितदृशो मदमन्थराणि
नाप्यर्थवन्ति न च यानि निरर्थकानि।

अद्यापि मे मृगदृशो मधुराणि तस्या–
स्तान्यक्षराणि हृदये किमपि ध्वनन्ति॥’

यथा च माघे–

‘प्रहरकमपनीय स्वं निदिद्रासतोच्चैः
प्रतिपदमुपहूतः केनचिज्जागृहीति।
मुहुरविशदवर्णां निद्रया शून्यशून्यां
दददपि गिरमन्तर्बुध्यते नो मनुष्यः॥’

अथ विबोधः—

विबोधः परिणामादेस्तत्र जृम्भाक्षिमर्दने।

यथा माघे—

‘चिररतिपरिखेदप्राप्तनिद्रासुखानां
चरममपि शयित्वा पूर्वमेव प्रबुद्धाः।
अपरिचलितगात्राः कुर्वते न प्रियाणा–
मशिथिलभुजचक्राश्लेषभेदं तरुण्यः॥’

अथ व्रीडा—

दुराचारादिभिर्व्रीडा धार्ष्ट्याभावस्तमुन्नयेत्।
साचीकृताङ्गावरणवैवर्ण्याधोमुखादिभिः॥२४॥

यथामरुशतके—

‘पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाश्लेपं वाञ्छत्यपहरति गात्राणि निभृतम्।
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः॥’

अथापस्मारः—

आवेशो ग्रहदुःखाद्यैरपस्मारो यथाविधिः।
भूपातकम्पप्रस्वेदलालाफेनोद्गमादयः॥२५॥

यथा माघे—

‘आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम्।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के॥’

अथ मोहः—

मोहो विचित्तता भीतिदुःखावेशानुचिन्तनैः।
तत्राज्ञानभ्रमाघातघूर्णनादर्शनादयः॥२६॥

यथा कुमारसंभवे—

‘तव्राभिषङ्गप्रभवेन वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम्।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव॥’

यथा चोत्तररामचरिते—

‘विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते॥’

अथ मतिः—

भान्तिच्छेदोपदेशाभ्यां शास्त्रादेस्तत्त्वधीर्मतिः।

यथा किराते—

‘सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः॥’

यथा च—

‘न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते संतुलयन्ति तत्त्वम्।
तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम्॥’

अथालस्यम्—

आलस्यं श्रमगर्भादेजह्वयजृम्भासितादिमत्॥२७॥

यथा ममैव—

‘चलति कथंचित्पृष्टा यच्छति वचनं कथंचिदालीनाम्।
आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः॥’

अथावेगः—

आवेगः संभ्रमोऽस्मिन्नभिसरजनिते शस्त्रना156गाभियोगो
वातात्पांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः।
उत्पातात्स्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा
वह्नेर्धूमाकुलास्यः करिजमनु भयस्तम्भकम्पापसाराः॥२८॥

अभिसरो राजविद्रवादिः। तद्धेतुरावेगः। यथा ममैव—

‘आगच्छागच्छ सज्जं कुरु वरतुरगं संनिधेहि द्रुतं मे
खङ्गः क्वासौ कृपाणीमुपनय धनुषा किं किमङ्गप्रविष्टम्
संरम्भोन्निद्रितानां क्षितिभृति गहनेऽन्योन्यमेवं प्रतीच्छ–
न्वादः स्वप्नाभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत्॥’

इत्यादि।

‘तनुत्राणं तनुत्राणं शस्त्रं शस्त्रं रथो रथः।
इति शुश्रुविरे विष्वगुद्भटाः सुभटोक्तयः॥’

यथा वा—

‘प्रारब्धां तरुपुत्रकेषु सहसा संत्यज्य सेकक्रिया–
मेतास्तापसकन्यकाः किमिदमित्यालोकयन्त्याकुलाः।
आरोहन्त्युटद्रुमांश्च वटवो वाचंयमा अप्यमी
सद्यो मुक्तसमाधयो निजवृषीष्वेवोच्चपादं स्थिताः॥’

वातावेगो यथा—‘वाताहतं वसनमाकुलमुत्तरीयम्’ इत्यादि।

वर्षजो यथा—

‘देवे वर्षत्यशनपवनव्यापृता वह्निहेतो–
र्गेहाद्गेहं फलकनिचितैः सेतुभिः पङ्कभीताः।
नीध्रप्रान्तानविरलजलान्पाणिभिस्ताडयित्वा
शूर्पच्छत्रस्थगितशिरसो योषितः संचरन्ति॥

उत्पातजो यथा—

‘पौलस्त्यपीनभुजसंपदुदस्यमान–
कैलाससंभ्रमविलोलदृशः प्रियायाः।
श्रेयांसि वो दिशतु निह्नुतकोपचिह्न–
मालिङ्गनोत्पुलकमासितमिन्दुमौलेः॥’

अहितकृतस्त्वनिष्टदर्शनश्रवणाभ्याम्। तद्यथोदात्तराघवे—’चित्रमायः—(ससंभ्रमम्।) भगवन् कुलपते रामभद्र, परित्रायतां परित्रायताम्। (इत्याकुलतां नाटयति।)’ इत्यादि। पुनः ‘चित्रमायः

मृगरूपं परित्यज्य विधाय विकटं वपुः।
नीयते रक्षसानेन लक्ष्मणो युधि संशयम्॥

रामः—

वत्सस्याभयवारिधेः प्रतिभयं मन्ये कथं राक्षसा-
त्रस्तश्चैष मुनिर्विरौति मनसश्चास्त्येव मे संभ्रमः।
माहासीर्जनकात्मजामिति मुहुः स्नेहाद्गुरुर्याचते
न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः॥’

इत्यन्तेनानिष्टप्राप्तिकृतसंभ्रमः।

इष्टप्राप्तिकृतो यथात्रैव—’(प्रविश्य पटाक्षेपेण संभ्रान्तो वानरः।)वानरः—म157हाराअ,एदं खु पवणणन्दणागमणेण पहरिस—’ इत्यादि ‘देव158स्स हिअआणन्दजणणं विअलिदं महुवणम्।’ इत्यन्तम्।

यथा वा वीरचरिते—

‘एह्येहि वत्स रघुनन्दन पूर्णचन्द्र
चुम्बामि मूर्धनि चिरस्य परिष्वजे त्वाम्।
आरोप्य वा हृदि दिवानिशमुद्वहामि
वन्देऽथवा चरणपुष्करकद्वयं ते॥’

वह्निजो यथामरुशतके—

‘क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददार्नोऽशुकान्तं
गृह्णान्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण।
आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः॥’

यथा वा रत्नावल्याम्—

‘विरम विरम वह्ने मुञ्च धूमाकुलत्वं
प्रसरयसि किमुच्चैरर्चिषां चक्रवालम्।
विरहहुतभुजाहं यो न दग्धः प्रियायाः
प्रलयदहनभासा तस्य किं त्वं करोषि॥ ‘

करिजो यथा रघुवंशे—

‘स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार॥’

करिग्रहणं व्यालोपलक्षणार्थम्। तेन व्याघ्रशूकरवानरादिप्रभवा आवेगा व्याख्याताः।

अथ वितर्कः—

तर्को विचारः संदेहाद्भ्रूशिरोऽङ्गुलिनर्तकः।

यथा—

‘किं लोभेन विलङ्घितः स भरतो येनैतदेवं कृतं
सद्यः स्त्रीलघुतां गता किमथवा मातैव मे मध्यमा।
मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु–
र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम्॥’

अथवा।

‘कः समुचिताभिषेकादार्यं प्रच्यावयेद्गुणज्येष्ठम्।
मन्ये ममैष पुण्यैः सेवावसरः कृतो विधिना॥’

अथावहित्थम्—

लज्जाद्यैर्विक्रियागुप्ताववहित्थाङ्गविक्रिया।

यथा कुमारसंभवे—

‘एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी।
लीलाकमलपत्राणि गणयामास पार्वती॥’

अथ व्याधिः—

व्याधयः सन्निपाताद्यास्तेषामन्यत्र विस्तरः॥२९॥

दिङ्मात्रं तु यथा—

‘अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुम्योऽर्पिता
दत्तं दैन्यमशेषतः परिजने तापः सखीष्वाहितः।
अद्य श्वः परिनिर्वृतिं व्रजति सा श्वासैः परं खिद्यते
विश्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया॥’

अथोन्मादः—

अप्रेक्षाकारितोन्मादः सन्निपातग्रहादिभिः।
अस्मिन्नव159स्था रुदितगीतहासासितादयः॥३०॥

यथा—‘आः क्षुद्रराक्षस, तिष्ठ तिष्ठ। क्व मे प्रियतमामादाय गच्छसि’ इत्युपक्रमे ‘कथम्।

नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः
सुरधनुरिदं दूराकृष्टं न तस्य शरासनम्।
अयमपि पटुर्धारासारो न बाणपरम्परा
कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी॥’

इत्यादि।

अथ विषादः—

प्रारब्धकार्यासिद्ध्यादेर्विषादः सत्त्वसंक्षयः।
निःश्वासोच्छ्वासहृत्तापसहायान्वेषणादिकृत्॥३१॥

यथा वीरचरिते—‘हा आर्ये ताडके, किं हि नामैतत्। अम्बुनि मज्जन्त्यलाबूनि, ग्रावाणः प्लवन्ते ।

नन्वेष राक्षसपतेः स्खलितः प्रतापः
प्राप्तोऽद्भुतः परिभवो हि मनुष्यपोतात्।
दृष्टः स्थितेन च मया स्वजनप्रमाथो
दैन्यं जरा च निरुणद्धि कथं करोमि॥’

अथौत्सुक्यम्—

कालाक्षमत्वमौत्सुक्यं रम्येच्छारतिसंभ्रमैः।
तत्रोच्छ्वासत्व160निःश्वासहृत्तापस्वेदविभ्रमाः॥३२॥

यथा कुमारसंभवे—

‘आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी।
हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः॥’

यथा वा तत्रैव—

‘पशुपतिरपि तान्यहानि कृच्छ्रादनिनयदद्रिसुतासमागमोत्कः।
कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः॥’

अथ चापला—

मात्सर्यद्वेषरागादेश्चापलं त्वनवस्थितिः।
तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः॥३३॥

यथा विकटनितम्बायाः—

‘अन्यासु तावदुपमर्दसहासु भृङ्ग
लोलं विनोदय मनः सुमनोलतासु।
बालामजातरजसं कलिकामकाले
व्यर्थं कदर्थयसि किं नवमल्लिकायाः॥’

यथा वा—

‘विनिकषणरणत्कठोरदंष्ट्राक्रकचविशङ्कटकन्दरोदराणि।
अहमहमिकया पतन्तु कोपात्सममधुनैव किमत्र मन्मुखानि॥’

अथवा प्रस्तुतमेव तावत्सुविहितं करिष्ये।’ इति।

अन्ये च चित्तवृत्तिविशेषा एतेषामेव विभावानुभावस्वरूपानुप्रवेशान्नपृथग्वाच्याः।

अथ स्थायी—

विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः।
आत्मभावं नयत्यन्यान्स स्थायी लवणाकरः॥३४॥

सजातीयविजातीयभावान्तरैरतिरस्कृतत्वेनोपनिबध्यमानो रत्यादिः स्थायी। यथा बृहत्कथायां नरवाहनदत्तस्य मदनमञ्जूषायामनुरागः। तत्तदवान्तरानेकनायिकानुरागैरतिरस्कृतः स्थायी। यथा च मालतीमाधो श्मशानाङ्के बीभत्सेन मालत्यनुरागस्यातिरस्कारो मम हि प्राक्तनोपलम्भसंभावितात्मजन्मनः संस्कारस्यानवरतप्रबोधात्प्रतीयमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रियतमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोत्यन्तर्वृत्तिसारूप्यतश्चैतन्यमित्यादिनोपनिबद्धः। तदनेन प्रकारेण विरोधिनामविरोधिनां च समावेशो न विरोधी। तथाहि। विरोधः सहानवस्थानं बाध्यबाधकभावो वा। उभयरूपेणापि न तावत्तादात्म्यमस्यैकरूपत्वेनैवाविर्भावात्। स्थायिनां च विभावादीनां यदि विरोधस्तत्रापि न तावत्सहानवस्थानं रत्याद्युपरक्ते चेतसि स्रक्सूत्रन्यायेनाविरोधिनां व्यभिचारिणां चोपनिबन्धः समस्तभावकस्वसंवेदनसिद्धः। यथैव स्वसंवेदनसिद्धस्तथैव काव्यव्यापारसंरम्भेणानुकार्येऽप्यावेश्यमानः स्वचेतःसंभेदेन तथाविधानन्दसंविदुन्मीलनहेतुः संपद्यते। तस्मान्न तावद्भावानां सहानवस्थानम्। —— भावान्तरैर्भावान्तरतिरस्कारः। स च व्यभिचारिणां स्थायिनामविरुद्धव्यभिचारिभिः स्थायिनोऽवि–

रुद्धास्तेषामङ्गत्वात्प्रधानविरुद्धस्य चाङ्गत्वायोगादानन्तर्यविरोधित्वमप्यनेन‌ प्रकारेणापास्तं भवति। तथा च मालतीमाधवे शृङ्गारानन्तरं बीभत्सोपनिबधेऽपि न किंचिद्वैरस्यं तदेवमेव स्थिते विरुद्धरसैकावलम्बनत्वमेव विरोधे हेतुः। सत्त्वविरुद्धरसान्तरव्यवधानेनोपनिबध्यमानो न विरोधी। यथा—

‘अ161ण्णहुणाहुमहेलिअहुनुहुपरिमलुसुसुअन्धु।
मुहुकन्तह अगत्थणहअङ्ग ण फिट्टइ गन्धु॥’

इत्यत्र बीभत्सरसस्याङ्गभूतरसान्तरव्यवधानेन शृङ्गारसमावेशो न विरुद्धः प्रकारान्तरेणैकाश्रयविरोधी परिहर्तव्यः। ननु यत्रैकतात्पर्येणेतरेषां विरुद्धानामविरुद्धानां च न्यग्भूतत्वेनोपादानं तत्र भवत्वङ्गत्वेनाविरोधः। यत्र तु समप्रधानत्वेनानेकस्य भावस्योपनिबन्धनं तत्र कथम्। यथा—

‘ए162क्कत्तो रुअइ पिआ अण्णत्तो समरतूरणिग्घोसो।
पेम्मेण रणरसेण अ भडस्स डोलाइअं हिअअम्॥’

इत्यादौ रत्युत्साहयोः। यथा वा—

‘मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु।
सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम्॥’

इत्यादौ रतिशमयोः। यथा च—

‘इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः
स चायं दुष्टात्मा स्वसुरपकृतं येन मम तत्।
इतस्तीव्रः कामो गुरुरयमितः क्रोधदहनः
कृतो वेषश्चायं कथमिदमिति भ्राम्यति मनः॥’

इत्यादौ तुरतिक्रोधयोः।

‘अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल–
व्यक्तोत्तंसभृतः पिनद्धशिरसा हृत्पुण्डरीकस्रजः।
एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिब–
न्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः॥’

इत्यादावेकाश्रयत्वेन रतिजुगुप्सयोः।

‘एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः
पार्वत्या वदनाम्बुजस्तनतटे शृङ्गारभारालसम्।

अन्यद्दूरविकृष्टचापमदनक्रोधानलोद्दीपितं
शंभोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः॥ ‘

इत्यादौ शमरतिक्रोधानाम्।

‘एकेनाक्ष्णा प्रविततरुषा वीक्षते व्योमसंस्थं
भानोर्बिम्बं सजललुलितेनापरेणात्मकान्तम्।
अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी
द्वौ संकीर्णौरचयति रसौ नर्तकीव प्रगल्भा॥’

इत्यादौ रतिशोकक्रोधानां समप्राधान्येनोपनिबन्धस्तत्कथं न विरोधः। अत्रोच्यते—अत्राप्येक एव स्थायी। तथाहि। ‘एक्कत्तो रुअइ पिआ’ इत्यादौ स्थायिभूतोत्साहव्यभिचारिलक्षणवितर्कभावहेतुसंदेहकारणतया करुणसङ्ग्रामतूर्ययोरुपादानं वीरमेव पुष्णातीति भटस्येत्यनेन पदेन प्रतिपादितम्। न च द्वयोः समप्रधानयोरन्योन्यमुपकार्योपकारकभावरहितयोरेकवाक्यभावो युज्यते। किंचोपक्रान्ते सङ्ग्रामेसुभटानां कार्यान्तरकरणेन प्रस्तुतसङ्ग्रामौदासीन्येन महदनौचित्यम्। अतो भर्तुः सङ्ग्रामैकरसिकतया शौर्यमेव प्रकाशयन्प्रियतमाकरुणो वीरमेव पुष्णाति। एवम् ‘मात्सर्यम्—’ इत्यादावपि चिरप्रवृत्तरतिवासनाया हेयतयोपादानाच्छमैकपरत्वम् ‘आर्याः समर्यादम्’ इत्यनेन प्रकाशितम्। एवम् ‘इयं सा लोलाक्षी’ इत्यादावपि रावणस्य प्रतिपक्षनायकतया निशाचरत्वेन मायाप्रधानतया च रौद्रव्यभिचारिविषादविभाववितर्कहेतुतया रतिक्रोधयोरुपादानं रौद्रपरमेव।’ अन्त्रैः कल्पितमङ्गलप्रतिसराः’ इत्यादौहास्यरसैकपरत्वमेव। ‘एकं ध्याननिमीलनात्’ इत्यादौशंभोर्भावान्तरैरनाक्षिप्ततया शमस्थस्यापि योग्यन्तरशमाद्वैलक्षण्यप्रतिपादनेन शमैकपरतैव ‘समाधिसमये’ इत्यनेन स्फुटीकृता। ‘एकेनाक्ष्णा’ इत्यादौ तु समस्तमपि वाक्यं भविष्यद्विप्रलम्भविषयमिति न क्वचिदनेकतात्पर्यम्। यत्र तु श्लेषादिवाक्येष्वनेकतात्पर्यमपि तत्र वाक्यार्थभेदेन स्वतन्त्रतया चार्थद्वयपरतेत्यदोषः। यथा—

‘श्लाघ्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजित–
त्रैलोक्यां चरणारविन्दललितेनाक्रान्तलोको हरिः।
बिभ्राणां मुखमिन्दुसुन्दररुचं चन्द्रात्मचक्षुर्दध–
त्स्थाने यां स्वतनोरपश्यदधिकां सा रुक्मिणी वोऽवतात्॥’

इत्यादौ। तदेवमुक्तप्रकारेण रत्याद्युपनिबन्धे सर्वत्राविरोधः। यथा वा श्रूयमाणरत्यादिपदेष्वपि वाक्येषु तत्रैव तात्पर्यं तथाग्रे दर्शयिष्यामः।

ते च—

रत्युत्साहजुगुप्साः क्रोधो हासः स्मयो भयं शोकः।
शममपि केचित्प्राहुः पुष्टिर्नाट्येषु नैतस्य॥३५॥

इह शान्तरसं प्रति वादिनामनेकविधा विप्रतिपत्तयः। तत्र केचिदाहुः—नास्त्येव शान्तो रसः। तस्याचार्येण ……प्रतिपादनाल्लक्षणाकरणात्। अन्ये तु वस्तुतस्तस्याभावं वर्णयन्ति। अनादिकालप्रवाहायातरागद्वेषयोरुच्छेत्तुमशक्यत्वात्। अन्ये तु वीरबीभत्सादावन्तर्भावं वर्णयन्ति। एवं वदन्तः शममपि नेच्छन्ति। यथा तथास्तु। सर्वथा नाटकादावभिनयात्मनि स्थायित्वमस्माभिः शमस्य निषिध्यते। तस्य समस्तव्यापारप्रविलयरूपस्याभिनयायोगात्। यत्तु कैश्चिन्नागानन्दादौ शमस्य स्थायित्वमुपवर्णितम्, तत्तु मलयवत्यनुरागेणाप्रबन्धप्रवृत्तेन विद्याधरचक्रवर्तित्वप्राप्त्याविरुद्धम्। न ह्येकानुकार्यविभावालम्बनौ विषयानुरागापरागावुपलब्धौ। अतो दयावीरोत्साहस्यैव तत्र स्थायित्वम्। तत्रैव शृङ्गारस्याङ्गत्वेन चक्रवर्तित्वावाप्तेश्च फलत्वेनाविरोधादीप्सितमेव च सर्वत्र कर्तव्यमिति परोपकारप्रवृत्तस्य विजिगीषोर्नान्तरीयकत्वेन फलं संपद्यत इत्यावेदितमेव प्राक्। अतोऽष्टावेव स्थायिनः। ननु च ‘रसनाद्रसत्वमेतेषां मधुरादीनामिवोक्तमाचार्यैः। निर्वेदादिष्वपि तत्प्रकाममस्तीति तेऽपि रसाः॥’ इत्यादिना रसान्तराणामप्यन्यैरभ्युपगतत्वात्स्थायिनोऽप्यन्ये कल्पिता इत्यवधारणानुपपत्तिः।

अत्रोच्यते—

निर्वेदादिरताद्रूप्यादस्थायी स्वदते कथम्।
वैरस्यायैव तत्पोषस्तेनाष्टौ स्थायिनो मताः॥३६॥

विरुद्धाविरुद्धाविच्छेदित्वस्य निर्वेदादीनामभावादस्थायित्वम्। अत एव ते चिन्तादिस्वस्वव्यभिचार्यन्तरिता अपि परितोषं नीयमाना वैरस्यमावहन्ति। न च निष्फलावसानत्वमेतेषामस्थायित्वनिबन्धनं हास्यादीनामप्यस्थायित्वप्रसङ्गात्। पारम्पर्येण तु निर्वेदादीनामपि फलवत्त्वात्। अतो निष्फलत्वमस्थायित्वे प्रयोजकं न भवति। किंतु विरुद्धैरविरुद्धैर्भावैरतिरस्कृतत्वम्। न च निर्वेदादीनामिति न ते स्थायिनः। ततो रसत्वमपि न तेषामुच्यते। अतोऽस्थायित्वादेवैतेषामरसता। कः पुनरेतेषां काव्येनापि संबन्धः।

न तावद्वाच्यवाचकभावः स्वशब्दैरनावेदितत्वात्। न हि शृङ्गारादिरसेषु काव्येषु शृङ्गारादिशब्दा रत्यादिशब्दा वा श्रूयन्ते। येन तेषां तत्परिपोषस्य वाभिधेयत्वं स्यात्। यत्रापि च श्रूयन्ते तत्रापि विभावादिद्वारकमेव रसत्वमेतेषां न स्वशब्दाभिधेयत्वमात्रेण। नापि लक्ष्यलक्षकभावस्तत्सामान्याभिधायिनस्तु लक्षकस्य पदस्याप्रयोगात्। नापि लक्षितलक्षणया तत्प्रतिपत्तिः। यथा ‘गङ्गायां घोषः’ इत्यादौ। तत्र हि स्वार्थे स्त्रोतोलक्षणे घोषस्यावस्थानासंभवात्स्वार्थे स्खलद्गतिर्गङ्गाशब्दः स्वार्थं विना भूतार्थोपलक्षितं तटमुपलक्षयति। अत्र तु नायकादिशब्दाः स्वार्थेऽस्खलद्गतयः कथमिवामित्रान्निराः। को वा निमित्तप्रयोजनाभ्यां विना मुख्ये सत्युपचरितं प्रयुञ्जीत। ‘सिंहो माणवकः’ इत्यादिवत्। अतएव गुणवृत्त्यापि नेयं प्रतीतिः। यदि वाच्यत्वेन रसप्रतिपत्तिः स्यात्तदा केवलवाच्यवाचकभावमात्रव्युत्पन्नचेतसामप्यरसिकानां रसास्वादो भवेत्। न च काल्पनिकत्वमविगानेन सर्वसहृदयानां रसास्वादोद्भूतेः। अतः केचिदभिधालक्षणागौणीभ्यो वाच्यान्तरपरिकल्पितशक्तिभ्यो व्यतिरिक्तं व्यञ्जकत्वलक्षणं शब्दव्यापारं रसालंकारवस्तुविषयमिच्छन्ति। तथाहि। विभावानुभावव्यभिचारिमुखेन रसादिप्रतिपत्तिरुपजायमाना कथमिव वाच्या स्यात्। यथा कुमारसंभवे—

‘विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्बालकदम्बकल्पैः।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन॥’

इत्यादावनुरागजन्यावस्थाविशेषानुभाववद्गिरिजालक्षणविभावोपवर्णनादेवाशब्दापि शृङ्गारप्रतीतिरुदेति। रसान्तरेष्वप्ययमेव न्यायः। न केवलं रसेष्वेव यावद्वस्तुमात्रेऽपि। यथा—

‘भ163म धम्मिअ वीसद्धो सो सुणहो अज्ज मारिओ तेण।
गोलाणइकच्छकुडङ्गवासिणा दरिअसीहेण॥’

इत्यादौ निषेधप्रतिपत्तिरशब्दापि व्यञ्जकशक्तिमूलैव। तथालंकारेष्वपि—

‘लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मि–
न्स्मेऽधुना तव मुखे तरलायताक्षि।
क्षोभं यदेति न मनागपि तेन मन्ये
सुव्यक्तमेव जलराशिरयं पयोधिः॥

इत्यादिषु चन्द्रतुल्यं तन्वीवदनारविन्दमित्याद्युपमाद्यलंकारप्रतिपत्तिर्व्यञ्जकत्वनिबन्धनीति। न चामावर्थापत्तिजन्या। अनुपपद्यमानार्थापेक्षाभावात्। नापि वाक्यार्थत्वं व्यङ्ग्यस्य तृतीयकक्षाविषयत्वात्। तथाहि—‘भ्रम धार्मिक’ इत्यादौ पदार्थविषयाभिधालक्षणप्रथमकक्षातिक्रान्तक्रियाकारकसंसर्गात्मकविधिविषयवाक्यार्थकक्षातिक्रान्ततृतीयकक्षाक्रान्तो निषेधात्मा व्यङ्ग्यलक्षणोऽर्थो व्यञ्जकशक्त्यधीनः स्फुटमेवावभासते। अतो नासौ वाक्यार्थः। ननु च तृतीयकक्षाविषयत्वमश्रूयमाणपदार्थतात्पर्येषु ‘विषं भुङ्क्ष्व’ इत्यादि—वाक्येषु निषेधार्थविषयेषु प्रतीयत एव वाक्यार्थः। न चात्र व्यञ्जकत्ववादिनापि वाक्यार्थत्वं नेष्यते तात्पर्यादन्यत्वाद्ध्वनेः। तत्र स्वार्थस्य द्वितीयकक्षायामविश्रान्तस्य तृतीयकक्षाभावात्। सैव निषेधकक्षा तत्र द्वितीयकक्षाविधौ क्रियाकारकसंसर्गानुपपत्तेः। प्रकरणात्पितरि वक्तरि पुत्रस्य विषभक्षणनियोगाभावात्। रसवद्वाक्येषु च विभावप्रतिपत्तिलक्षणद्वितीयकक्षायां रसानवगमात्। तदुक्तम्—

‘अप्रतिष्ठमविश्रान्तं स्वार्थे यत्परतामिदम्।
वाक्यं विगाहते तत्र न्याय्या तत्परतास्य सा॥
यत्र तु स्वार्थविश्रान्तं प्रतिष्ठां तावदागतम्।
तत्प्रसर्पति तत्र स्यात्सर्वत्र ध्वनिना स्थितिः॥’

इत्येवं सर्वत्र रसानां व्यङ्ग्यत्वमेव। वस्त्वलंकारयोस्तु क्वचिद्वाच्यत्वं क्वचिद्व्यङ्ग्यत्वम्। तत्रापि यत्र व्यङ्ग्यस्य प्राधान्येन प्रतिपत्तिस्तत्रैव ध्वनिः, अन्यत्र गुणीभूतव्यङ्ग्यत्वम्। तदुक्तम्—

‘यत्रार्थः शब्दो वा यमर्थमुपसर्जनीकृतस्वार्थौ।
व्यक्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः॥

प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः।
काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः॥’

यथा—‘उपोढरागेण’ इत्यादि। तस्य च ध्वनेर्विवक्षितवाच्याविवक्षितवाच्यत्वेन द्वैविध्यम्। अविवक्षितवाच्योऽप्यत्यन्ततिरस्कृतस्वार्थोऽर्थान्तरसंक्रमितवाच्यश्चेति द्विधा। विवक्षितवाच्यश्च असंलक्षिक्रमः क्रमद्योत्यश्चेति द्विविधः। तत्र रसादीनामसंलक्ष्यक्रमे ध्वनित्वं प्राधान्यप्रतीतौसत्यामङ्गत्वेन प्रतीतौ रसवदलंकार इति।

अत्रोच्यते—

वाच्या प्रकरणादिभ्यो बुद्धिस्था वा यथा क्रिया।
वाक्यार्थः कारकैर्युक्ता स्थायी भावस्तथेतरैः॥३७॥

यथा लौकिकवाक्येषु श्रूयमाणक्रियेषु ‘गामभ्याज—’ इत्यादिष्वश्रूयमाणक्रियेषु च ‘द्वारं द्वारम्’ इत्यादिषु स्वशब्दोपादानात्प्रकरणादिवशाद्बुद्धिसंनिवेशिनी क्रियैव कारकोपचिता वाक्यार्थस्तथा काव्येष्वपि स्वशब्दोपादानात्क्वचित् ‘प्रीत्यै नवोढा प्रिया’ इत्येवमादौ, क्वचिच्च प्रकरणादिवशान्नियताविहितविभावाद्यविनाभावाद्वा साक्षाद्भावकचेतसि विपरिवर्तमानो रत्यादिः स्थायी स्वस्वविभावानुभावव्यभिचारिभिस्तत्तच्छब्दोपनीतैः संस्कारपरम्परया परं प्रौढिमानीयमानो रत्यादिवाक्यार्थः। न चापदार्थस्य वाक्यार्थत्वं नास्तीति वाच्यम्। कार्यपर्यवसायित्वात्तात्पर्यशक्तेः। तथाहि पौरुषेयमपौरुषेयं वाक्यं सर्वं कार्यपरम्। अतत्परत्वेऽनुपादेयत्वादुन्मत्तादिवाक्यवत्काव्यशब्दानां चान्वयव्यतिरेकाभ्यां निरतिशयसुखास्वादव्यतिरेकेण प्रतिपाद्यप्रतिपादकयोः प्रवृत्तिविषययोः प्रयोजनान्तरानुपलब्धेः स्वानन्दोद्भूतिरेव कार्यत्वेनावधार्यते। तदुद्भूतिनिमित्तत्वं च विभावादिसंसृष्टस्य स्थायिन एवावगम्यते। अतो वाक्यस्याभिधानशक्तिस्तेन तेन रसेनाकृष्यमाणा तत्तत्स्वार्थापेक्षितावान्तरविभावादिप्रतिपादनद्वारा स्वपर्यवसायितामानीयते। तत्र विभावादयः पदार्थस्थानीयास्तत्संसृष्टो रत्यादिर्वाक्यार्थः। तदेतत्काव्यवाक्यम्। यदीयं ताविमौ पदार्थवाक्यार्थौ। न चैवं सति गीतादिवत्सुखजनकत्वेऽपि वाच्यवाचकभावानुपयोगः। विशिष्टविभावादिसामग्रीविदुषामेव तथाविधरत्यादिभावनावतामेव स्वादोद्भूतेस्तदनेनातिप्रसङ्गोऽपि निरस्तः। ईदृशि च वाक्यार्थनिरूपणे परिकल्पिताभिधादिशक्तिवशेनैव समस्तवाक्यार्थावगतेः शक्त्यन्तरपरिकल्पनं प्रयासः। यथावोचाम काव्यनिर्णये—

‘तात्पर्यानतिरेकाच्च व्यञ्जकत्वस्य न ध्वनिः।
किमुक्तं स्यादश्रुतार्थतात्पर्येऽन्योक्तिरूपिणि॥

विषं भक्षय पूर्वो यश्चैवं परसुतादिषु।
प्रसह्यते प्रधानत्वाद्ध्वनित्वं केन वार्यते॥

ध्वनिश्चेत्स्वार्थविश्रान्तं वाक्यमर्थान्तराश्रयम्।
तत्परत्वं त्वविश्रान्तौ तन्न विश्रान्त्यसंभवात्॥

एतावत्येव विश्रान्तिस्तात्पर्यस्येति किं कृतम्।
यावत्कार्यप्रसारित्वात्तात्पर्यं न तुलाधृतम्॥

भ्रम धार्मिक विश्रब्धमिति भ्रमिकृतास्पदे।
निर्व्यावृत्ति कथं वाक्यं निषेधमुपसर्पति॥

प्रतिपाद्यस्य विश्रान्तिरपेक्षापूरणाद्यदि।
वक्तुर्विवक्षितप्राप्तेरविश्रान्तिर्न वा कथम्॥

पौरुषेयस्य वाक्यस्य विवक्षा परतन्त्रता।
वक्त्रभिप्रेततात्पर्यमतः काव्यस्य युज्यते॥

इति। अतो न रसादीनां काव्येन सह व्यङ्ग्यव्यञ्जकभावः। किं तर्हि भाव्यभावकसंबन्धः काव्यं हि भावकम्। भाव्या रसादयः। ते हि स्वतो भवन्त एव भावकेषु विशिष्टविभावादिमता काव्येन भाव्यन्ते न चान्यत्र शब्दान्तरेषु भाव्यभावकलक्षणसंबन्धाभावात्काव्यशब्देष्वपि तथा भाव्यमिति वाच्यम्। भावनाक्रियावादिभिस्तथाङ्गीकृतत्वात्। किंच मा चान्यत्र तथास्त्वन्वयव्यतिरेकाभ्यामिह तथावगमात्। तदुक्तम् —

‘भावाभिनयसंबन्धान्भावयन्ति रसानिमान्।
यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः॥

इति। कथं पुनरगृहीतसंबन्धेभ्यः पदेभ्यः स्थाय्यादिप्रतिपत्तिरिति चेल्लोके तथाविधचेष्टायुक्तस्त्रीपुंसादिषु रत्याद्यविनाभावदर्शनादिहापि तथोपनिबन्धे सति रत्याद्यविनाभूतचेष्टादिप्रतिपादकशब्दश्रवणादभिधेया विनाभावेन लाक्षणिकी रत्यादिप्रतीतिः। यथा च काव्यार्थस्य रसभावकत्वं तथाग्रे वक्ष्यामः।

रसः स एव स्वाद्यत्वाद्रसिकस्यैव वर्तनात्।
नानुकार्यस्य वृत्तत्वात्काव्यस्यातत्परत्वतः॥३८॥

द्रष्टुः प्रतीतिर्व्रीडेर्ष्यारागद्वेषप्रसङ्गतः।
लौकिकस्य स्वरमणीसंयुक्तस्येव दर्शनात्॥३९॥

काव्यार्थोपप्लावितो रसिकवर्ती रत्यादिः स्थायीभावः स इति प्रतिनिर्दिश्यते। स च स्वाद्यतां निर्भरानन्दसंविदात्मतामापाद्यमानो रसो रसिकवर्तीति वर्तमानत्वान्नानुकार्यरामादिवर्ती वृत्तत्वात्तस्य। अथ शब्दोपहितरूपत्वेनावर्तमानस्यापि वर्तमानवदवभासनमिष्यत एव। तथापि तदवभास–

स्यास्मदादिभिरनुभूयमानत्वादसत्समतैकास्वादं प्रति विभावत्वेन तु रामादेर्वर्तमानवदवभासनमिष्यत एव। किंच न काव्यं रामादीनां रसोपजननाय कविभिः प्रवर्त्यते। अपि तु सहृदयानानन्दयितुम्। स च समस्तभावकस्वसंवेद्य एव। यदि चानुकार्यस्य रामादेः शृङ्गारः स्यात्ततो नाटकादौ तद्दर्शने लौकिक इव नायके शृङ्गारिणि स्वकान्तासंयुक्ते दृश्यमाने शृङ्गारवानयमिति प्रेक्षकाणां प्रतीतिमात्रं भवेन्न रसानां स्वादः सत्पुरुषाणां च लज्जेतरेषां त्वसूयानुरागापहारेच्छादयः प्रसज्येरन्। एवं च सति रसादीनां व्यङ्ग्यत्वमपास्तम्। अन्यतो लब्धसत्ताकं वस्त्वन्येनापि व्यज्यते। प्रदीपेनेव घटादि। न तु तदानीमेवाभिव्यञ्जकत्वाभिमतैरापाद्य स्वभावम्। भाव्यन्ते च विभावादिभिः प्रेक्षकेषु रसा इत्यावेदितमेव।

ननु च सामाजिकाश्रयेषु रसेषु को विभावः। कथं च सीतादीनां च देवीनां विभावत्वेनाविरोध उच्यते।

धीरोदात्ताद्यवस्थानां रामादिः प्रतिपादकः।
विभावयति रत्यादीन्स्वदन्ते रसिकस्य ते॥४०॥

न हि कवयो योगिन इव ध्यानचक्षुषा ध्यात्वा प्रातिस्विकीं रामादीनामवस्थां इतिहासवदुपनिबध्नन्ति। किं तर्हि सर्वलोकसाधारणाः स्वोत्प्रेक्षाकृतसन्निधयो धीरोदात्ताद्यवस्थाः क्वचिदाश्रयमात्रदायिन्यो दधति।

ता एव च परित्यक्तविशेषा रसहेतवः।

तत्र सीतादिशब्दाः परित्यक्तजनकतनयादिविशेषाः स्त्रीमात्रवाचिनःकिमिवानिष्टं कुर्युः। किमर्थं तर्ह्युपादीयन्त इति चेदुच्यते—

क्रीडतां मृण्मयैर्यद्वद्बालानां द्विरदादिभिः॥४१॥
स्वोत्साहः स्वदते तद्वच्छ्रोतॄणामर्जुनादिभिः।

एतदुक्तं भवति। नात्र लौकिकशृङ्गारादिवत्स्त्र्यादिविभावादीनामुपयोगः। किं तर्हि प्रतिपादितप्रकारेण लौकिकरसविलक्षणत्वं नाट्यरसानाम्। यदाह—‘अष्टौ नाट्यरसाः स्मृताः’ इति।

काव्यार्थभावनास्वादो नर्तकस्य न वार्यते॥४२॥

नर्तकोऽपि न लौकिकरसेन रसवान्भवति। तदानीं भोग्यत्वेन स्वमहिलादेरग्रहणात्काव्यार्थभावनया त्यम्मदादिवत्काव्यरसास्वादोऽस्यापि न वार्यते।

कथं च काव्यात्स्वादोद्भूतिः किमात्मा चासाविति व्युत्पाद्यते—

स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः।
विकाशविस्तरक्षोभविक्षेपैः स चतुर्विधः॥४३॥

शृङ्गारवीरबीभत्सरौद्रेषु मनसः क्रमात्।
हास्याद्भुतभयोत्कर्षकरुणानां त एव हि॥४४॥

अतस्तज्जन्यता तेषामत एवावधारणम्।

काव्यार्थेन विभावादि संसृष्टस्थाय्यात्मकेन भावकचेतसः संभेदेऽन्योन्यसंचलने प्रत्यस्तमितस्वपरविभागे सति प्रबलतरस्वानन्दोद्भूतिः स्वादः। तस्य च सामान्यात्मकत्वेऽपि प्रतिनियतविभावादिकारणजन्यत्वेन संभेदेन चतुर्धा चित्तभूमयो भवन्ति। तद्यथा—शृङ्गारे विकासः, वीरे विस्तरः, बीभत्से क्षोभः, रौद्रे विक्षेप इति। तदन्येषां चतुर्णां हास्याद्भुतभयानककरुणानां स्वसामग्रीलब्धपरिपोषाणां त एव चत्वारो विकासाद्याश्चेतसः संभेदाः। अत एव—

‘शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः।
वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः॥’

इति। हेतुहेतुमद्भाव एव संभेदापेक्षया दर्शितो न कार्यकारणभावाभिप्रायेण तेषां कारणान्तरजन्यत्वात्।

‘शृङ्गारानुकृतिर्या तु स हास्य इति कीर्तितः।’

इत्यादिना विकासादिसंभेदैकत्वस्यैव स्फुटीकरणादवधारणमप्यत एवाष्टाविति संभेदानां भावात्। ननु च युक्तं शृङ्गारवीरहास्यादिषु प्रमोदात्मकेषु वाक्यार्थसंभेदादानन्दोद्भव इति। करुणादौ तु दुःखात्मकत्वे कथमिवासौ प्रादुष्यात्। तथाहि। तत्र करुणात्मककाव्यश्रवणाद्दुःखाविर्भावोऽश्रुपातादयश्च रसिकानामपि प्रादुर्भवन्ति। न चैतदानन्दात्मकत्वे सति युज्यते। सत्यमेतत्। किंतु तादृश एवासावानन्दः सुखदुःखात्मको यथा प्रहरणादिषु संभोगावस्थायां कुट्टमिते स्त्रीणामन्यश्च लौकिकात्करुणात्काव्यकरुणः। तथाह्यत्रोत्तरोत्तरा रसिकानां प्रवृत्तयः। यदि वा लौकिककरुणवद्दुःखात्मकत्वमेवेह स्यात्तदा न कश्चित्तत्र प्रवर्तेत। ततः कारुण्यैकरसानां रामायणादिमहाप्रबन्धानामुच्छेद एव भवेदश्रुपातादयश्चेति वृत्तवर्णनाकर्णनेन विनिपातितेषु लौकिकवैक्लव्यदर्शनादिवत्प्रेक्षकाणां प्रादुर्भवन्तो न विरुध्यन्ते। तस्माद्रसान्तरवत्करुणस्याप्यानन्दात्मकत्वमेव।

ननु शान्तरसस्यानभिधेयत्वाद्यद्यपि नाट्येऽनुप्रवेशो नास्ति तथापि सूक्ष्मातीतादिवस्तूनां सर्वेषामपि शब्दप्रतिपाद्यताया विद्यमानत्वात्काव्यविषयत्वं न निवार्यते। अतस्तदुच्यते—

शमप्रकर्षो निर्वाच्यो मुदितादेस्तदात्मता॥४५॥

शान्तो हि यदि तावत्

‘न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा।
रसस्तु शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु शमप्रधानः॥’

इत्येवंलक्षणः, तदा तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां प्रादुर्भावात्तस्य च स्वरूपेणानिर्वचनीयता। तथाहि श्रुतिरपि स एष नेति नेत्यन्यापोहरूपेणाह न च तथाभूतस्य शान्तरसस्य सहृदयाः स्वादयितारः सन्त्यथ तदुपायभूतो मुदितामैत्रीकरुणोपेक्षादिलक्षणस्तस्य च विकाशविस्तारक्षोभविक्षेपरूपतैवेति। तदुक्त्यैव शान्तरसास्वादो निरूपितः।

इदानीं विभावादिविषयावान्तरकाव्यव्यापारप्रदर्शनपूर्वकः प्रकरणेनोपसंहारः प्रतिपाद्यते—

पदार्थैरिन्दुनिर्वेदरोमाञ्चादिस्वरूपकैः।
काव्याद्विभावसंचार्यनुभावप्रख्यतां गतैः॥४६॥

भावितः स्वदते स्थायी रसः स परिकीर्तितः।

अतिशयोक्तिरूपकाव्यव्यापाराहितविशेषैश्चन्द्राद्यैरुद्दीपनविभावैः प्रमदाप्रभृतिभिरालम्बनविभावैर्निर्वेदादिभिर्व्यभिचारिभावै रोमाञ्चाश्रुभ्रूक्षेपकटाक्षाद्यैरनुभावैरवान्तरव्यापारतया पदार्थीभूतैर्वाक्यार्थः स्थायीभावो विभावितो
भावरूपतामानीतः स्वदते स रस इति प्राक्प्रकरणे तात्पर्यम्।

विशेषलक्षणान्युच्यन्ते—तत्राचार्येण स्थायिनां रत्यादीनां शृङ्गारादीनां च पृथग्लक्षणानि विभावादिप्रतिपादनेनोदितानि। अत्र तु—

लक्षणैक्यं विभावैक्यादभेदाद्रसभावयोः॥४७॥

क्रियत इति वाक्यशेषः।

तत्र तावच्छृङ्गारः—

रम्यदेशकलाकालवेषभोगादिसेवनैः।
प्रमोदात्मा रतिः सैव यूनोरन्योन्यरक्तयोः।
प्रहृष्यमाणा शृङ्गारो मधुराङ्गविचेष्टितैः॥४८॥

इत्थमुपनिबध्यमानं काव्यं शृङ्गारास्वादाय प्रभवतीति। कव्युपदेशपरमेतत्।

तत्र देशविभावो यथोत्तररामचरिते—

‘स्मरसि सुतनु तस्मिन्पर्वते लक्ष्मणेन
प्रतिविहितसपर्यासुस्थयोस्तान्यहानि।
स्मरसि सरसतीरां तत्र गोदावरीं वा
स्मरसि च तदुपान्तेष्वावयोर्वर्तनानि॥’

कलाविभावो यथा—

‘हस्तैरन्तर्निहितवचनैः सूचितः सम्यगर्थः
पादन्यासैर्लयमुपगतस्तन्मयत्वं रसेषु।
शाखायोनिर्मृदुरभिनयः षड्विकल्पोऽनुवृत्तै–
र्भावे भावे नुदति विषयान्रागबन्धः स एव॥’

यथा च—

‘व्यक्तिर्व्यञ्जनधातुना दशविधेनाप्यत्र लब्धामुना
विस्पष्टो द्रुतमध्यलम्बितपरिच्छिन्नस्त्रिधायं लयः।
गोपुच्छप्रमुखाः क्रमेण गतयस्तिस्रोऽपि संपादिता–
स्तत्त्वौघानुगताश्च वाद्यविधयः सम्यक्त्रयो दर्शिताः॥’

कालविभावो यथा कुमारसंभवे—

‘असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि।
पादेन चापैक्षत सुन्दरीणां संपर्कमासिञ्जितनूपुरेण॥’

इत्युपक्रमे—

‘मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः।
शृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः॥’

वेषविभावो यथा तत्रैव—

‘अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम्।
मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ति॥’

उपभोगविभावो यथा—

‘चक्षुर्लुप्तमषीकणं कवलितस्ताम्बूलरागोऽधरे
विश्रान्ता कबरी कपोलफलके लुप्तेव गात्रद्युतिः।

जाने संप्रति मानिनि प्रणयिना कैरप्युपायक्रमै–
र्भग्नो मानमहातरुस्तरुणि ते चेतःस्थलीवर्धितः॥’

प्रमोदात्मा रतिर्यथा मालतीमाधवे—

‘जगति जयिनस्ते ते भावा नवेन्दुकलादयः
प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलोचनचन्द्रिका
नयनविषयं जन्मन्येकः स एव महोत्सवः॥’

युवतिविभावो यथा मालविकाग्निमित्रे—

‘दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः
संक्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव।
मध्यः पाणिमितो नितम्बि जघनं पादावरालाङ्गुली
छन्दो नर्तयितुर्यथैव मनसः स्पष्टं तथास्या वपुः॥

यूनोर्विभावो यथा मालतीमाधवे—

‘भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं
दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था।
साक्षात्कामं नवमिव रतिर्मालती माधवं य–
द्गाढोत्कण्ठा लुलितललितैरङ्गकैस्ताम्यतीति॥’

अन्योन्यानुरागो यथा तत्रैव—

‘यान्त्या मुहुर्वलितकन्धरमाननं त–
दावृत्तवृत्तशतपत्रनिभं वहन्त्या।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या
गाढं निखात इव मे हृदये कटाक्षः॥’

मधुराङ्गविचेष्टितं यथा तत्रैव—

‘स्तिमितविकसितानामुल्लसद्भ्रूलतानां
मसृणमुकुलितानां प्रान्तविस्तारभाजाम्।
प्रतिनयननिपाते किंचिदाकुञ्चितानां
विविधमहमभूवं पात्रमालोकितानाम्॥’

ये सत्त्वजाः स्थायिन एव चाष्टौ
त्रिंशत्रयो ये व्यभिचारिणश्च।

एकोनपञ्चाशदमी हि भावा
युक्त्या निबद्धाः परिपोषयन्ति।
आलस्यमौग्र्यं मरणं जुगुप्सा
तस्याश्रयाद्वैतविरुद्धमिष्टम्॥४९॥

त्रयस्त्रिंशद्व्यभिचारिणश्चाष्टौ स्थायिन अष्टौ सात्त्विकाश्चेत्येकोनपञ्चाशत्। युक्ताङ्गत्वेनोपनिबध्यमानाः शृङ्गारं संपादयन्त्यालस्यौग्र्यजुगुप्सामरणादीन्येकालम्बनविभावाश्रयत्वेन साक्षादङ्गत्वेन चोपनिबध्यमानानि विरुध्यन्ते। प्रकारान्तरेण चाविरोधः पापानि एव।

विभागस्तु—

अयोगो विप्रयोगश्च संभोगश्चेति स त्रिधा।

अयोगविप्रयोगविशेषत्वाद्विप्रलम्भस्यैतत्सामान्याभिधायित्वेन विप्रलम्भशब्द उपचरितवृत्तिर्मा भूदिति न प्रयुक्तः। तथाहि। दत्त्वा संकेतमप्राप्तेऽवध्यतिक्रमे साध्येन नायिकान्तरानुसरणाच्च विप्रलम्भशब्दस्य मुख्यप्रयोगो वञ्चनार्थत्वात् ।

तत्रायोगोऽनुरागेऽपि नवयोरेकचित्तयोः॥५०॥
पारतन्त्र्येण दैवाद्वा विप्रकर्षादसंगमः।

योगोऽन्योन्यस्वीकारस्तदभावस्त्वयोगः। पारतन्त्र्येण विप्रकर्षाद्दैवपित्राद्यायत्तत्वात्सागरिकामालत्योर्वत्सराजमाधवाभ्यामिव दैवाद्गौरीशिवयोरिवासमागमोऽयोगः ।

दशावस्थः स तत्रादावभिलाषोऽथ चिन्तनम्॥५१॥

स्मृतिर्गुणकथोद्वेगप्रलापोन्मादसंज्वराः।
जडता मरणं चेति दुरवस्थं यथोत्तरम्॥५२॥

अभिलाषः स्पृहा तत्र का164न्ते सर्वाङ्गसुन्दरे ।
दृष्टे श्रुते वा तत्रापि विस्मयानन्दसाध्वसाः॥५३॥

साक्षात्प्रतिकृतिस्वप्नच्छायामायासु दर्शनम्।
श्रुतिर्व्याजात्सखीगीतमागधादिगुणस्तुतेः॥५४॥

अभिलाषो यथा शाकुन्तले—

‘असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः॥’

विस्मयो यथा—

‘स्तनावालोक्य तन्वङ्ग्याः शिरः कम्पयते युवा।
तयोरन्तरनिर्मग्नां दृष्टिमुत्पाटयन्निव॥’

आनन्दो यथा विद्धशालभञ्जिकायाम्—

‘सुधाबद्धग्रासैरुपवनचकोरैः कवलितां
किरञ्ज्योत्स्नामच्छां लवलिफलपाकप्रणयिनीम्।
उपप्राकाराग्रं प्रहिणु नयने तर्कय मना–
गनाकाशे कोऽयं गलितहरिणः शीतकिरणः॥’

साध्वसं यथा कुमारसंभवे—

‘तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि–
र्निक्षेपणाय पदमुद्धृतमुद्वहन्ती।
मार्गाचलव्यतिकराकुलितेव सिन्धुः
शैलाधिराजतनया न ययौ न तस्थौ॥’

यथा वा—

‘व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः॥’

सानुभावविभावास्तु चिन्ताद्याः पूर्वदर्शिताः।

गुणकीर्तनं तु स्पष्टत्वान्न व्याख्यातम्।

दशावस्थत्वमाचार्यैः प्रायो वृत्त्या निदर्शितम्॥५५॥
महाकविप्र165बन्धेषु दृश्यते तदनन्तता।

दिङ्मात्रं तु—

दृष्टे श्रुतेऽभिलाषाच्च किं नौत्सुक्यं प्रजायते॥५६॥
अप्राप्तौ किं न निर्वेदो ग्लानिः किं नातिचिन्तनात्।

शेषं प्रच्छन्नकामितादि कामसूत्रादवगन्तव्यम्।

अथ विप्रयोगः—

विप्रयोगस्तु विश्लेषो रूढविस्रम्भयोर्द्विधा॥५७॥

मानप्रवासभेदेन मानोऽपि प्रणयेर्ष्ययोः।

प्राप्तयोरप्राप्तिर्विप्रयोगः। तस्य द्वौ भेदौ—मानः प्रवासश्च। मानविप्रयोगोऽपि द्विविधः— प्रणयमान ईर्ष्यामानश्चेति।

तत्र प्रणयमानः स्यात्कोपा166वसितयोर्द्वयोः॥५८॥

प्रेमपूर्वको वशीकारः प्रणयः। तद्भङ्गो मानः प्रणयमानः। स च द्वयोर्नायकयोर्भवति। तत्र नायकस्य यथोत्तररामचरिते—

‘अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः
सा हंसैः कृतकौतुका चिरमभूद्गोदावरीसैकते।
आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया
कातर्यादरविन्दकुडलनिभो मुग्धः प्रणामाञ्जलिः॥’

नायिकाया यथा श्रीवाक्पतिराजदेवस्य—

‘प्रणयकुपितां दृष्ट्वा देवीं ससंभ्रमविस्मित-
स्त्रिभुवनगुरुर्भीत्या सद्यः प्रणामपरोऽभवत्।
नमितशिरसो गङ्गालोके तया चरणाहता–
ववतु भवतस्त्र्यक्षस्यैतद्विलक्षमवस्थितम्॥’

उभयोः प्रणयमानो यथा—

‘प167णअकुविआण दोह्णवि अलिअपसुत्ताण माणइन्ताणम्।
णिच्चलणिरुद्धणीसासदिण्णअण्णाण को मल्लो॥’

स्त्रीणामीर्ष्याकृतो मानः कोपोऽन्यासङ्गिनि प्रिये।
श्रुते वानुमिते दृष्टे श्रुतिस्तत्र सखीमुखात्॥५९॥

उत्स्वप्नायितभोगाङ्कगोत्रस्खलनकल्पितः।
त्रिधानुमानिको दृष्टः साक्षादिन्द्रियगोचरः॥६०॥

ईर्ष्यामानः पुनः स्त्रीणामेव नायिकान्तरसङ्गिनि स्वकान्ते उपलब्धे सत्यन्यासङ्गः श्रुतो वानुमितो दृष्टो वा स्यात्। तत्र श्रवणं सखीवचनात्तस्या विश्वास्यत्वात्। यथा ममैव—

सुभ्रु त्वं नवनीतकल्पहृदया केनापि दुर्मन्त्रिणा
मिथ्यैव प्रियकारिणा मधुमुखेनास्मासु चण्डीकृता।

किं त्वेतद्विमृश क्षणं प्रणयिनामेणाक्षि कस्ते हितः
किं धात्रीतनया वयं किमु सखी किं वा किमस्मत्सुहृत्॥’

उत्स्वप्नायितो यथा रुद्रस्य—

‘निर्मग्नेन मयाम्भसि स्मरभरादाली समालिङ्गिता
केनालीकमिदं तवाद्य कथितं राधे मुधा ताम्यसि।
इत्युत्स्वप्नपरम्परासु शयने श्रुत्वा वचः शार्ङ्गिणः
सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः॥’

भोगाङ्कानुमितो यथा—

‘नवनखपदभङ्गं गोपयस्यंशुकेन
स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम्।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प–
न्नवपरिमलगन्धः केन शक्यो वरीतुम्॥’

गोत्रस्खलनकल्पितो यथा—

‘केली168गोत्तक्खलणे विकुप्पए केअवं अआणन्ती।
दुठ्ठ उअसु परिहासं जाआ सच्चं विअ परुण्णा॥’

दृष्टो यथा श्रीमुञ्चस्य—

‘प्रणयकुपितां दृष्ट्वा देवीं ससंभ्रमविस्मित–
स्त्रिभुवनगुरुर्भीत्या सद्यः प्रणामपरोऽभवत्।
नमितशिरसो गङ्गालोके तया चरणाहता–
ववतु भवतस्त्रयक्षस्यैतद्विलक्षमवस्थितम्॥’

एषाम्—

यथोत्तरं गुरुः षड्भिरुपायैस्तमुपाचरेत्।
साम्ना भेदेन दानेन नत्युपेक्षारसान्तरैः॥६१॥

तत्र प्रियवचः साम भेदस्तत्सख्युपार्जनम्।
दानं व्याजेन भूषादेः पादयोः पतनं नतिः॥६२॥

सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम्।
रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम्॥६३॥

कोपचेष्टाश्च नारीणां प्रागेव प्रतिपादिताः।

तत्र प्रियवचः साम यथा ममैव—

‘स्मितज्योत्स्नाभिस्ते धवलयति विश्वं मुखशशी
दृशस्ते पीयूषद्रवमिव विमुञ्चन्ति परितः।
वपुस्ते लावण्यं किरति मधुरं दिक्षु तदिदं
कुतस्ते पारुष्यं सुतनु हृदयेनाद्य गुणितम्॥’

यथा वा—

‘इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्लवेन।
अङ्गानि चम्पकदलैः स विधाय वेधाः कान्ते कथं रचितवानुपलेन चेतः॥’

नायिकासमीवर्जनभेद यथा ममैव—

‘कृतेऽप्याज्ञाभङ्गे कथमिव मया ते प्रणतयो
धृताः स्मित्वा हस्ते विसृजसि रुपं सुभ्रुबहुशः।
प्रकोपः कोऽप्यन्यः पुनरयमसीमाद्य गुणितो
वृथा यत्र स्निग्धाः प्रियसहचरीणामपि गिरः॥

दानं व्याजेन भूषादेर्यथा माघे—

‘मुहुरुपहसितामिवालिनादै–
र्वितरसि नः कलिकां किमर्थमेनाम्।
अधिरजनि गतेन धाम्नि तस्याः
शठ कलिरेव महांस्त्वयाद्य दत्तः॥’

पादयोः पतनं नतिर्यथा—

‘णेउ169रकोडिविलग्गं चिहुरं दइअस्स पाअपडिअस्स।
हिअअं माणपउत्थं उम्मोअं त्ति च्चिअ कहे॥’

उपेक्षा तदवधीरणं यथा—

‘किं गतेन न हि युक्तमुपैतुं नेश्वरे परुषता सखि साध्वी।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः॥’

रभसत्रासहर्षादेरसान्तरात्कोपभ्रंशो यथा ममैव—

‘अभिव्यक्तालीकः सकलविफलोपायविभव–
श्चिरं ध्यात्वा सद्यः कृतकृतकसंरम्भनिपुणम्।

इतः पृष्ठे पृष्ठे किमिदमिति संत्रास्य सहसा
कृताश्लेषां धूर्तः स्मितमधुरमालिङ्गति वधूम्॥’

अथ प्रवासविप्रयोगः—

कार्यतः संभ्रमाच्छापात्प्रवासो भिन्नदेशता॥६४॥
द्वयोस्तत्राश्रुनिःश्वासकालम्बालकादिता।
स च भावी भवन्भूतस्त्रिधाद्यो बुद्धिपूर्वकः॥६५॥

आद्यः कार्यजः समुद्रगमनसेवादिकार्यवशप्रवृत्तौ बुद्धिपूर्वकत्वाद्भूतभविष्यद्वर्तमानतया त्रिविधः।

तत्र यास्यत्प्रवासो यथा—

‘होन्त170पहिअस्स जाआ आउच्छणजीअधारणरहस्सम्।
पुच्छन्ती भमइ घरं घरेसु पिअविरहसहिरीआ॥’

गच्छत्प्रवासो यथामरुशतके—

‘प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेऽथवा
दिनकृति गते वास्तं नाथ त्वमद्य समेष्यसि।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालालापैः सबाष्पगलज्जलैः॥’

यथा वा तत्रैव—

‘देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै–
र्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि।
उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णे दृशौ
तामाशां पथिकस्तथापि किमपि ध्यात्वा चिरं तिष्ठति॥’

गतप्रवासो यथा मेघदूते—

‘उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां
मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा।
तन्त्रीमार्द्रांनयनसलिलैः सारयित्वा कथंचि–
द्भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती॥’

आगच्छदागतयोस्तु प्रवासाभावादेष्यत्प्रवासस्य च गतप्रवासाविशेषात्रैविध्यमेव युक्तम्।

द्वितीयः सहसोत्पन्नो दिव्यमानुषविल्ववात्।

उत्पातनिर्घातवातादिजन्यविप्लवात्परचक्रादिजन्यविप्लवाद्वाबुद्धिपूर्वकत्वादेकरूप एव संभ्रमजः प्रवासः। यथोर्वशीपुरूरवसोर्विक्रमोर्वश्यम्। यथा च कपालकुण्डलापहृतायां मालत्यां मालतीमाधवयोः।

स्वरूपान्यत्वकरणाच्छापजः सन्निधावपि॥६६॥

यथा कादम्बर्यां वैशंपायनस्येति।

मृते त्वेकत्र यत्रान्यः प्रलपेच्छोक एव सः।
व्या171श्रयत्वान्न शृङ्गारः प्रत्यापन्ने तु नेतरः॥६७॥

यथेन्दुमतीमरणादजस्य करुण एव रघुवंशे। कादम्बर्यां तु प्रथमं करुण आकाशसरस्वतीवचनादूर्ध्वं प्रवासशृङ्गार एवेति।

तत्र नायिकां प्रति नियमः—

प्रणयायोगयोरुत्का प्रवासे प्रोषितप्रिया।
कलहान्तरितेर्ष्यायां विप्रलब्धा च खण्डिता॥६८॥

अथ संभोगः—

अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ।
दर्शनस्पर्शनादीनि स संभोगो मुदान्वितः॥६९॥

यथोत्तररामचरिते—

‘किमपि किमपि मन्दं मन्दमासत्तियोगा–
दविरलितकपोलं जल्पतोरक्रमेण।
सपुलकपरिरम्भव्यापृतैकैकदोष्णो–
रविदितगतयामा रात्रिरेव व्यरंसीत्॥’

अथवा। ‘प्रिये, किमेतत्।

विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः।

तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते॥’

यथा च ममैव—

‘लावण्यामृतवर्षिणि प्रतिदिशं कृष्णागरुश्यामले
वर्षाणामिव ते पयोधरभरे तन्वङ्गि दूरोन्नते।
नासावंशमनोज्ञकेतकतनुर्भ्रूपत्रगर्भोल्लस–
त्पुष्पश्रीस्तिलकः सहेलमलकैर्भृङ्गैरिवापीयते॥’

चेष्टास्तत्र प्रवर्तन्ते लीलाद्या दश योषिताम्।
दाक्षिण्यमार्दवप्रेम्णामनुरूपाः प्रियं प्रति॥७०॥

ताश्च सोदाहृतयो नायकप्रकाशे दर्शिताः।

रमयेच्चाटुकृत्कान्तः कलाक्रीडादिभिश्च ताम्।
न ग्राम्यमाचरेत्किंचिन्नर्मभ्रंशकरं न च॥७१॥

ग्राम्यः संभोगो रङ्गे निषिद्धोऽपि काव्येऽपि न कर्तव्य इति पुनर्निषिध्यते। यथा रत्नावल्याम्—

‘स्पृष्टस्त्वयैष दयिते स्मरपूजाव्यापृतेन हस्तेन।
उद्भिन्नापरमृदुतरकिसलय इव लक्ष्यतेऽशोकः॥’

इत्यादि। नायकनायिकाकैशिकीवृत्तिनाटकनाटिकालक्षणाद्युक्तं कविपरम्परावगतं स्वयमौचित्यसंभावनानुगुण्येनोत्प्रेक्षितं चानुसंधानः सुकविः शृङ्गारमुपनिबध्नीयात्।

अथ वीरः—

वीरः प्रतापविनयाध्यवसायसत्त्व–
मोहाविषादनयविस्मयविक्रमाद्यैः।
उत्साहभूः स च दयारणदानयोगा–
त्रेधा किलात्र मतिगर्वधृतिप्रहर्षाः॥७२॥

प्रतापविनयादिभिर्विभावितः करुणायुद्धदानाद्यैरनुभावितो गर्वधृतिहर्षामर्षस्मृतिमतिवितर्कप्रभृतिभिर्भावित उत्साहः स्थायी स्वदते भावकमनोविस्तारानन्दाय प्रभवतीत्येष वीरः। तत्र दयावीरो यथा नागानन्दे जीमूत–

वाहनस्य। युद्धवीरो वीरचरिते रामस्य। दानवीरः परशुरामबलिप्रभृतीनाम्। ‘त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः’ इति।

‘खर्वग्रन्थिविमुक्तसंधि विकसद्वक्षःस्फुरत्कौस्तुभं
निर्यन्नाभिसरोजकुमलकुटीगम्भीरसामध्वनि।
पात्रावाप्तिसमुत्सुकेन बलिना सानन्दमालोकितं
पायाद्वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर्वपुः॥

यथा च ममैव—

‘लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः।
बलिरेष स येनास्य भिक्षापात्रीकृतः करः॥’

विनयादिषु पूर्वमुदाहृतमनुसंधेयम्। प्रतापगुणावर्जनादिना वीराणामपि भावात्रैधं प्रायोवादः। प्रस्वेदरक्तवदननयनादिक्रोधानुभावरहितो युद्धवीरोऽन्यथा रौद्रः।

अथ बीभत्सः—

बीभत्सः कृमिपूतिगन्धिवमथुप्रायैर्जुगुप्सैकभू–
रूद्वेगि रुधिरान्त्रीकसवसामांसादिभिः क्षोभणः।
वैराग्याज्जघनस्तनादिषु घृणाशु172द्धोऽनुभावैर्वृतो
नासावक्रविकूणनादिभिरिहावेगार्तिशङ्कादयः॥७३॥

अत्यन्ताहृद्यैः कृमिपूतिगन्धिप्रायविभावैरुद्भूतो जुगुप्सास्थायिभावपरिपोषणलक्षण उद्वेगी बीभत्सः। यथा मालतीमाधवे—

‘उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोपभूयांसि मांसा–
न्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा।
आर्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का–
दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति॥

रुधिरान्त्रवसाकीकसमांसादिविभावः क्षोभणो बीभत्सः।

यथा वीरचरिते—

‘आन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कण–
प्रायप्रेङ्खितभूरिभूषणरवैराघोषयन्त्यम्बरम्।

पीतोच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लस–
द्व्यालोलस्तनभारभैरववपुर्बन्धोद्धतं धावति॥’

रम्येष्वपि रमणीयजघनस्तनादिषु वैराग्याद्धृणाशुद्धो बीभत्सः। यथा—

‘लालां वक्रासवं वेत्ति मांसपिण्डौ पयोधरौ।
मांसाम्बिकुटं जघनं जनः कामग्रहातुरः॥

न चायं शान्त एव विरक्तो यतो बीभत्समानो विरज्यते।

अथ रौद्रः—

क्रोधो मत्सर वैरिवैकृतमयैः पोषोऽस्य रौद्रोऽनुजः
क्षोभः स्वाधरदंशकम्पभ्रुकुटिस्वेदास्यरागैर्युतः।
शस्त्रोल्लासविकत्थनांसधरणीघातप्रतिज्ञाग्रहै-
रत्रामर्षमदौ स्मृतिश्चपलतासूयौग्र्यवेगादयः॥७४॥

मात्सर्यविभावो रौद्रो यथा वीरचरिते—

‘त्वं ब्रह्मवर्चसधरो यदि वर्तमानो
यद्वा स्वजातिसमयेन धनुर्धरः स्याः।
उग्रेण भोस्तव तपस्तपसा दहामि
पक्षान्तरस्य सदृशं परशुः करोति॥’

वैरिवैकृतादिर्यथा वेणीसंहारे—

‘लाक्षागृहानलविषान्नसभाप्रवेशैः
प्राणेषु वित्तनिचयेषु च नः प्रहृत्य।
आकृष्टपाण्डववधूपरिधानकेशाः
स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः॥’

इत्येवमादिविभावैः प्रस्वेदरक्तवदननयनाद्यनुभावैरमर्षादिव्यभिचारिभिः कोधपरिपोषो रौद्रः। परशुरामभीमसेनदुर्योधनादिव्यवहारेषु वीरचरित–वेणीसंहारादेरनुगन्तव्यः।

अथ हास्यः—

विकृताकृतिवाग्वेषैरात्मनोऽथ परस्य वा।
हासः स्यात्परिपोषोऽस्य हास्यस्त्रिप्रकृतिः स्मृतः॥७५॥

आत्मस्वान्विकृतवेषभाषादीन्परस्थान्वा विभावानवलम्बमानो हासस्तत्परिपोषात्मा हास्यो रसो व्द्यधिष्ठानो भवति। स चोत्तममध्यमाधमप्रकृतिभेदात्षड्विधः।

आत्मस्थो यथा रावणः—

‘जातं मे परुषेण भस्मरजसा तच्चन्दनोद्धूलनं
हारो वक्षसि यज्ञसूत्रमुचितं क्लिष्टा जटाः कुन्तलाः।
रुद्राक्षैः सकलैः सरत्नवलयं चित्रांशुकं वल्कलं
सीतालोचनहारि कल्पितमहो रम्यं वपुः कामिनः॥’

परस्थो यथा—

‘भिक्षो मांसनिषेवणं प्रकुरुषे किं तेन मद्यं विना
किं ते मद्यमपि प्रियं प्रियमहो वाराङ्गनाभिः सह।
वेश्या द्रव्यरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा
चौर्यद्यूतपरिग्रहोऽपि भवतो दासस्य कान्या गतिः॥’

स्मितमिह विकासिनयनं किंचिल्लक्ष्यद्विजं तु हसितं स्यात्।
मधुरस्वरं विहसितं सशिरःकम्पमिदमुपहसितम्॥७६॥

अपहसितं सास्राक्षं विक्षिप्ताङ्गं भवत्यतिहसितम्।
द्वे द्वे हसिते चैषां ज्येष्ठे मध्येऽधमे क्रमशः॥७७॥

उत्तमस्य स्वपरस्थविकारदर्शनात्स्मितहसिते मध्यमस्य विहसितोपहसितेऽधमस्यापहसितातिहसिते। उदाहृतयः स्वयमुत्प्रेक्ष्याः। व्यभिचारिणश्चास्य—

निद्रालस्यश्रमग्लानिमूर्छाश्च सहचारिणः।

अथाद्भुतः—

अतिलोकैः पदार्थैः स्याद्विस्मयात्मा रसोऽद्भुतः॥७८॥

कर्मास्य साधुवादाश्रुवेप173थुस्वेदगद्गदाः।
हर्षावेगधृतिप्राया भवन्ति व्यभिचारिणः॥७९॥

लोकसीमातिवृत्तपदार्थवर्णनादिविभावितः साधुवादाद्यनुभावपरिपुष्टो विस्मयः स्थायिभावो हर्षावेगादिभावितो रसोऽद्भुतः। यथा—

‘दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्धत–
ष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः।
द्राक्पर्याप्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर–
भ्राम्यत्पिण्डितचण्डिमा कथमसौ नाद्यापि विश्राम्यति॥

इत्यादि

अथ भयानकः—

विकृतस्वरसत्त्वादेर्भयभावो भयानकः।
सर्वाङ्गवेपथुस्वेदशोष174वैचित्त्यलक्षणः।
दैन्यसंभ्रमसंमोहत्रासादिस्तत्सहोदरः॥८०॥

रौद्रशब्दश्रवणाद्रौद्रसत्त्वदर्शनाच्च भयस्थायिभावप्रभवो भयानको रसः। तत्र सर्वाङ्गवेपथुप्रभृतयोऽनुभावाः। दैन्यादयस्तु व्यभिचारिणः। भयानको यथा प्रागुदाहृतः—

‘शस्त्रोतत्समुत्सृज्य कुब्जीभूय शनैः शनैः।
यथायथागतेनैव यदि शक्नोषि गम्यताम्॥’

यथा च रत्नावल्याम्—‘नष्टं वर्षवरैः’ इत्यादि।

यथा च—

‘स्वगेहात्पन्थानं तत उपचितं काननमथो
गिरिं तस्मात्सान्द्रद्रुमगहनमस्मादपि गुहाम्।
तदन्वङ्गान्यङ्गैरभिनिविशमानो न गणय–
त्यरातिः क्वालीये तव विजययात्राचकितधीः॥’

अथ करुणः—

इष्टनाशादनिष्टा175प्तौ शोकात्मा करुणोऽनु तम्।
निःश्वासोच्छ्वासरुदितस्तम्भमलपितादयः॥८१॥

स्वापापस्मारदैन्याधिमरणालस्यसंभ्रमाः।
विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः॥८२॥

इष्टस्य बन्धुप्रभृतेर्विनाशादनिष्टस्य तु बन्धनादेः प्राप्त्या शोकप्रकर्षजः

करुणः। तमन्विति तदनुभावनिःश्वासादिकथनम्। व्यभिचारिणश्च स्वापापस्मारादयः। इष्टनाशात्करुणो यथा कुमारसंभवे—

‘अयि जीवितनाथ जीवमीत्यभिधायोत्थितया तया पुरः।
ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम्॥’

इत्यादि रतिप्रलापः। अनिष्टावाप्तेः सागरिकाया बन्धनाद्यथा रत्नावल्याम्।

प्रीतिभक्त्यादयो भावा मृगयाक्षादयो रसाः।
हर्षोत्साहादिषु स्पष्टमन्तर्भावान्न कीर्तिताः॥८३॥

स्पष्टम्।

षट्त्रिंशद्भूषणादीनि सामादीन्येकविंशतिः।
176क्ष्यसंध्यन्तराङ्गानि सालंकारेषु तेषु च॥८४॥

‘विभूषणं चाक्षरसंहतिश्च शोभाभिमानौ गुणकीर्तनं च’ इत्येवमादीनि षट्त्रिंशत्काव्यलक्षणानि। ‘साम भेदः प्रदानं च’ इत्येवमादीनि संध्यन्तराण्येकविंशतिरुपमादिष्विवालंकारेषु हर्षोत्साहादिष्वन्तर्भा177वान्न पृथगुक्तानि।

रम्यं जुगुप्सितमुदारमथापि नीच–
मुग्रं प्रसादि गहनं विकृतं च वस्तु।
यद्वाप्यवस्तु कविभावकभाव्यमानं
तन्नास्ति यन्न रसभावमुपैति लोके॥८५॥

विष्णोः सुतेनापि धनंजयेन विद्वन्मनोरागनिबन्धहेतुः।
आविष्कृतं मुखमहीशगोष्ठीवैदग्ध्यभाजा दशरूपमेतत्॥८६॥

** इति श्रीविष्णुसूनोर्धनिकस्य कृतौ दशरूपावलोके**

रसविचारो नाम चतुर्थः प्रकाशः समाप्तः।

—————–
समाप्तश्चायं ग्रन्थः।

——————

दशरूपकावलोके प्रमाणत्वेन समुपन्यस्तानां
ग्रन्थानां ग्रन्थकाराणां च नामानि

<MISSING_FIG href=”../books_images/U-IMG-1724985427IMG_20240830_080615.png"/>

अमरुशतकम्‌—४९, ५६, ५७, ५८, ६१, ६२, ७३, १०५, १०८, १११, १३२.

उत्तरचरितम्‌ (उत्तररामचरिते वा)—२७, २८, ३९, ८३, ८४, ८५, १०१, १०९, ११५, १२९, १३३,

उदात्तराघचम्‌—७६, ७९, ८८, १०२, ११०.

कर्पूरमञ्जरी—८३.

कादम्बरी—१३३.

कामसूत्रम्—१२८.

**काव्यनिर्णयः—**१२०.

किरातम्‌—१०९.

कुमारसंभवम्‌—६४, ६५, ६८, १०९, ११२, ११३, ११८, १२५, १२८, १३९.

छालितरामम्‌—२७, ८३, ८५.

धनिकः (अवलोककृत्‌)—४८, ५१, ५२, ५४, ५६, ६४, ६५, ६६, ६७, ६८, ६९, ७०, ७३, ९८,१०९, ११०, १२९, १३१, १३३, १३५,

नागानन्दम्‌—४६, ५०, ५३, ५९, ५२, १३४.

पद्मगुप्तः—६८

पाण्डवानन्दम्—८२.

प्रियदर्शिका (प्रियदर्शना वा)—७४, ७६.

बृहत्कथा (गुणाढ्यनिर्मिता)—४१, ४२, ११४.

भट्टबाणः—६६

भरतमुनिः—९४

भर्तृहरिः—९७.

भर्तृहरिशतकम्‌—४४, १०२.

भवभूतिः—४७.

महाभारतम्‌—८८.

माघम्‌—५५, १०१, १०२, १०४. १०७, १०८, १३१.

मालतीमाधवम्‌—११, ४५, ५०, ६३, ६७, ७३, ७५, १०६, ११४, ११५, १२६, १३३, १३५.

मालविकाग्निमित्रम्‌—४०, ४४, ६२, ७२, ७३, ८६, १२६.

मुञ्जः—१३०.

मुद्राराक्षसम् (बृहत्कथामूलम्)—४१, ७५, ८५,

मृच्छकटिका—२९, ४५, ५९, ९०.

मेघदूतम् —१३२.

रघुः (रघुवंशो वा )—४४, १११, १३३.

रत्नावली—५, ६, ७, ८, ९, १०, १२, १३, १४, १५, १६, १७, १८, १९,२०, २१, २२, २३, २४,२५, २६, २७, २८, २९, ३२, ३३, ३४,३५, ३६, ३७, ४५, ५९, ७२, ७६, ७९, ८०, ८१, ८४, १०१, १०२, १३४, १३८, १३९.

रामाभ्युदयम्—२९.

रामायणम्—४, ४१, ५०, ७५, ८८, १२३.

रुद्रः—१३०.

वाक्पतिराजदेवः—१२९

विकटनितम्बा—११४.

विक्रमोर्वशी—८२, ८३, १३३.

विद्धशालभञ्जिका—१२८.

वीरचरितम्—८, ३९, ४०, ४३, ४४, ५१, ५२, ७४, ७५, ८८, १०१, १०४, १०५, १०६, १०७, १११, ११३,१३५, १३६.

वेणीसंहारम्—५, ९, ११, १२, १३, १४, १६, २२, २३, २४, २५, २६, २७, २८, ३०, ३१, ३२, ३३, ३४, ३५, ३६, ३७, ३८, ८१, १०५, १११, १३६.

शाकुन्तलम्—६५, ६६, ८०, ८७, १२८.

षट्सहस्रीकृत्—९७.

हनुमन्नाटकम्—४४.

दशरूपकावलोकोदाहृतश्लोकानां मातृकावर्ण-
क्रमेणानुक्रमणी।

<MISSING_FIG href="../books_images/U-IMG-1725687760IMG_20240907_111134.png"/>

**श्लोकाः **
अकृपणमतिः कामं जीव्यात्… …. वेणीसंहारे… …….
अच्छिन्नं नयनाम्बु… …. [अमरुशतके ]… …….
अण्णहुणाहुमहेलिअ… …. … ………. …….
अत्रान्तरे किमपि वाग्विभ… …. मालतीमाधवे… …….
अद्यैव किं न विसृजेयमहं… …. वेणीसंहारे… …….
अद्वैतं सुखदुःखयोरनु… …. [उत्तररामचरिते ]… …….
अनाघ्रातं पुष्पं किसलय… …. शाकुन्तले… …….
अन्त्रै स्वैरपि संयताग्र… …. मम (धनिकस्य)… …….
अन्त्रैः कल्पितमङ्गल… …. [मालतीमाधवे]… …….
अन्यासु तावदुपमर्द… …. विकटनितम्बायाः… …….
अन्योन्यास्फालभिन्नद्विप… …. वेणीसंहारे… …….
अप्रियाणि करोत्येष… …. वेणीसंहारे… …….
अभिव्यक्तालीकः सकल… …. मम (धनिकस्य)… …….
अभ्युद्गते शशिनि… …. … ………. …….
अभ्युन्नतस्तनमुरो नयने… …. मम (धनिकस्य)… …….
अयमुदयति चन्द्रश्च… …. … ………. …….
अयि जीवितनाथ जीवती …. कुमारसंभवे… …….
अर्विष्मन्ति विदार्य… …. … ………. …….
अर्थित्वे प्रकटिकृतेऽपि… …. वीरचरिते… …….
अलसलुलितमुग्धान्यध्व… …. उत्तररामचरिते… …….
अशोकनिर्भर्सितपद्म… …. कुमारसंभवे… …….
असंशयं क्षत्रपरिग्रह… …. शाकुन्तले… …….
असूत सद्यः कुसुमान्यशोकः …. कुमारसंभवे… …….
अस्तमितविषयसङ्गा [गोवर्धनस्य]… …….
अस्तापांस्तसमस्तभासि रत्नावल्याम्… …….
अस्मिन्नेव लतागृहे उत्तररामचरिते… … ….
अस्याः सर्गविधौ… …. [विक्रमोर्वश्याम्]… ….
**श्लोकाः **
आगच्छागच्छ सज्जं कुरु… … मम (धनिकस्य)… ……
आताम्रतापनयामि… … रत्नावल्याम्… …… …
आत्मानमालोक्य च… … कुमारसंभवे… …… …
आदृष्टिप्रसरात्प्रियस्य… … अमरुशतके… …… …
आनन्दाय च विस्मयाय… … वीरचरिते… …… …
आन्त्रप्रोतबृहत्कपाल… … वीरचरिते… …… …
आयस्ता कलहं पुरेव… … [अमरुशतके]… …… …
आयाते दयिते मरु… … [अमरुशतके]… …… …
आलापान्भ्रूविलासो… …… … … …… …… …
आशस्त्रग्रहणादकुण्ठपरशो… … वेणीसंहारे… …… …
आश्लिष्टभूमिं रसितार… … माघे… …… …
आसादितप्रगटनिर्मल… …… … … …… …… …
आतम्याभिषेकाय… …… … … . … …..
इन्दीवरेण नयनं… … … …… …
इयं गेहे लक्ष्मीरियममृत… … उत्तरचरिते …. …… …
इयं सा लोलाक्षी त्रिभु… … … …… …… …
उचितः प्रणयो वरं विहन्तुं… … [मालविकाग्निमित्रे]… …
उच्छ्वसन्मण्डलप्रान्तरेख… … मम (धनिकस्य)… …
उज्जृम्भाननमुल्लसत्… … मम (धनिकस्य)… …… …
उत्कृत्योत्कृत्य कृत्ति… …. मालतीमाधवे… …… …
उत्कृत्योत्कृत्य गर्भानपि… … वीरचरिते… …… …
उत्तालताडकोत्पातदर्शने वीरचरिते
उत्तिष्ठ दूति यामो यामो… … … …… …
उत्पत्तिर्जमदग्नितः स… … वीरचरिते… …… …
उत्सङ्गे वा मलिनवसने… … मेघदूते… …… …
उद्दामोत्कलिकां विपाण्डुर… … [रत्नावल्याम्]… …… …
उन्मीलद्वदनेन्दुदीप्ति… … … …… …
उरसि निहितस्तारो हारः… … [अमरुशतके]… …… …
एकत्रासनसंस्थितिः… … [अमरुशतके]… …… …
एकं ध्याननिमीलना… … … …… …… …
एकेनाक्ष्णा प्रवितत… … [चन्द्रकस्य]… …… …
एक्कत्तो रुअइ पिआ… … … …… …
एतां पश्य पुरःस्थली… … … …… …
**श्लोकाः **
एते वयममी दाराः… …. … [कुमारसंभवे]… …. …
एवंवादिनि देवर्षौ… …. … कुमारसंभवे… …. …
एवमालि निगृहीतसाध्व… …. [कुमारसंभवे]… …. …
एह्येहि वत्स रघुनन्दन… …. वीरचरिते… …. …
औत्सुक्येन कृतत्वरा… …. [रत्नावल्याम्]… …. …
कः समुचिताभिषेकादार्ये… …. … … …. …
कण्ठेकृत्वावशेषं कनक… …. रत्नावल्याम्… …. …
कपोले जानक्याः करि… …. [हनुमन्नाटके]… …. …
कर्णदुःशासनवधात्… …. वेणीसंहारे… …. …
कर्णार्पितो रोध्रकषाय… …. कुमारसंभवे… …. …
कर्ता द्यूतच्छलानां जतुमय… वेणीसंहारे… …. …
कस्त्वं भोः कथयामि… …. … … …. …
का त्वं शुभे कस्य… …. … रघौ… …. …
कान्ते तल्पमुपागते… …. [अमरुशतके]… …. …
का श्लाघ्या गुणिनां… …. पाण्डवानन्दे… …. …
किं लोभेन विलङ्घ्रितः… …. … …. …
किं गतेन न हि युक्त… …. [किरातार्जुनीये]… …. …
किं धरणीए मिअङ्को… …. रत्नावल्याम्… …. …
किमपि किमपि मन्दं… …. उत्तररामचरिते… …. …
कुलबालिआए पेच्छह… …. … … …. …
कृतगुरुमहदादिक्षोभ… …. वेणीसंहारे… …. …
कृतेऽप्याज्ञाभङ्गे कथमिव… …. मम (धनिकस्य)… …. …
कृशाश्वान्तेवासी जयति वीरचरिते
कृष्टा केशेषु भार्या… …. वेणीसंहारे… …. …
केलीगोत्तक्खलणे… …. … … …. …
कैलासोद्धारसार… …. … [वीरचरिते]… …. …
कोपात्कोमललोलबाहु… …. अमरुशतके… …. …
कोऽपि सिंहासनस्याधः… …. छलितरामे… …. …
कोपो यत्र भ्रुकुटिरचना… [अमरुशतके]… …. …
क्रोधान्धैर्यस्य मोक्षात्क्षत… …. वेणीसंहारे… …. …
क्वचित्ताम्बूलाक्तः क्वचिद… [अमरुशतके]… …. …
क्षिप्तो हस्तावलग्नः प्रसभ… …. अमरुशतके… …. …
खर्वग्रन्थिविमुक्तसंधि… …. … … …. …
**श्लोकाः **
गमनमलसं शून्या … … मालतीमाधवे… …… …
चक्षुर्लुप्तमषीकणं… …… … … …… …
चञ्चद्भुजभ्रमितचण्डगदा… … वेणीसंहारे… …… …
चलति कथंचित्पृष्टा… … मम (धनिकस्य)… …… …
चाणक्यनाम्ना तेनाथ… … बृहत्कथायाम्… …… …
चित्रवर्तिन्यपि नृपे… … पद्मगुप्तस्य… …… …
चिररतिपरिखेदप्राप्त… … माघे… …… …
चूर्णिताशेषकौरव्यः… … वेणीसंहारे… …… …
जगति जयिनस्ते ते… … मालतीमाधवे… …… …
जं किं पि पेच्छमाणं… … मम (धनिकस्य)… …… …
जन्मेन्दोरमले कुले… … वेणीसंहारे… …… …
जातं मे परुषेण भस्म… …… … … …… …
जीयन्ते जयिनोऽपि सान्द्र… उदात्तराघवे… …… …
ज्ञातिप्रीतिर्मनसि न कृता… वेणीसंहारे… …… …
ज्वलतु गगने रात्रौ रात्रा… मालतीमाधवे… ……
णेउरकोडिविलग्गं… … [गाथासप्तशत्याम्]… ……
तं वीक्ष्य वेपथुमती… … कुमारसंभवे… …… …
तं च्चिअ वअणं ते च्चेअ… … मम (धनिकस्य)… … …
तत उदयगिरेरिवैक… … मालतीमाधवे… …… …
ततश्चाभिज्ञाय स्फुरद… … अमरुशतके… …… …
तथा व्रीडाविधेयापि… … मम (धनिक)… …… …
तदवितथमवादीर्यन्मम… … [माघे]… …… …
तनुत्राणं तनुत्राणं शस्त्रं… …… … … …… …
तवास्मि गीतरागेण… … शाकुन्तले… …… …
तह झत्ति से पअत्ता… … मम (धनिकस्य)… ……
तह दिट्ठं तह भणिअं… … मम (धनिकस्य)… … …
तां प्राङ्मुखीं तत्र निवेश्य … कुमारसंभवे …… …
ताव च्चिअ रइसमए… … [गाथासप्तशत्याम्]… …
तावन्तस्ते महात्मानो… … उदात्तराघवे… … …
तिष्ठन्भाति पितुः पुरो… … [नागानन्दे]… …… …
तीर्णे भीष्ममहोदधौ… … वेणीसंहारे… …… …
तव्रः स्मरसंतापो न… … रत्नावल्याम्… …… …
**श्लोकाः **
तव्राभिषङ्गप्रभवेन … … कुमारसंभवे… … …
तेनोदितं वदति याति… …… … … …… …
त्यक्त्वोत्थितः सरभसं… … वेणीसंहारे… …… …
त्रय्यास्त्राता यस्तवायं… … वीरचरिते… …… …
त्रस्यन्ती चलशफरी… … माघे… …… …
त्रैलोक्यैश्वर्यलक्ष्मी… … वीरचरिते (?)… ……
त्वचं कर्णः शिबिर्मांसं… …… … … …… …
त्वं जीवितं त्वमसि मे… … उत्तरचरिते… …… …
त्वं ब्रह्मवर्चसधरो… … वीरचरिते… …… …
दाक्षिण्यं नाम बिम्बोष्ठि… … मालविकाग्निमित्रे… …… …
दिअहं खु दुक्खिआए… … [गाथासप्तशत्याम्]… …
दीर्घाक्षं शरदिन्दुकान्ति… … मालविकाग्निमित्रे… ……
दुःशासनस्य हृदयक्षतजा… … वेणीसंहारे… …… …
दुलहजणाणुगओ लज्जा… … रत्नावल्याम्… …
दूराद्दवीयो धरणीधराभं… … वीरचरिते… …… …
दृष्टिं हे प्रतिवेशिनि… … [विज्जकायाः]… … …
दृष्टिः सालसतां बिभर्ति… …… … … …… …
दृष्टिस्तृणीकृतजगत्रय… … [उत्तररामचरिते]… …
दृष्ट्वैकसनसंस्थिते प्रिय… … अमरुशतके… …… …
देआ पसिअ णिअन्तसु… …… … … …… …
देव्या मद्वचनाद्यथाभ्युप… … रत्नावल्याम्… …
देवे वर्षत्यशनपवन… …… … … …… …
देशैरन्तरिता शतैश्च… … अमरुशतके… …… …
दोर्दण्डाञ्चितचन्द्रशेखर… …… … … …… …
द्रक्ष्यन्ति न चिरात्सुप्तं… … वेणीसंहारे… …… …
द्वीपादन्यस्मादपि… … रत्नावल्याम्… ……
धिग्धिक्शक्रजितं… … [हनुमन्नाटके]… ……
धृतायुधो यावदहं… … वेणीसंहारे… …… …
न खलु वयममुष्य… … माघे… …… … …
न च मेऽवगच्छति यथा… … [माघे]… …… …
न जाने संमुखायाते… … [अमरुशतके]… … …
नन्वेष राक्षसपतेः स्खलितः… … वीरचरिते… …… …

[TABLE]

**श्लोकाः **
प्रहरकमपनीय स्वं … … माघे… …… … …
प्रहरविरतौ मध्ये… … … अमरुशतके… …… …
प्राप्ताः श्रियः सकलकाम… … [भर्तृहरिशतके]… … …
प्राप्ता कथमपि दैवात्… … रत्नावल्याम्… ……
प्राप्य मन्मथरसादति… … माघे… …… … …
प्रायश्चित्तं चरिष्यामि… … वीरचरिते… … …
प्रारब्धां तरुपुत्रकेषु… …… … … …… …
प्रारभ्यते न खलु विघ्न… … भर्तृहरिशतके… … …
प्रारम्भेऽस्मिन्स्वामिनो… … रत्नावल्याम्… … …
बाले नाथ विमुञ्च…. … … अमरुशतके… … …
बाह्वोर्बलं न विदितं… … … हनुमन्नाटके… … …
ब्राह्मणातिक्रमत्यागो… … वीरचरिते… … …
ब्रूत नूतनकूष्माण्ड… …… … … …… …
भम धम्मिअ वीसध्दो… … [गाथासप्तशत्याम्]… …
भिक्षो मांसनिषेवणं… …… … … …… …
भुक्ता हि मया गिरयः… …… … … …… …
भूमौ क्षिप्त्वा शरीरं… … वेणीसंहारे …. …… …
भूयः परिभवक्लान्ति… … वेणीसंहारे …. …… …
भूयो भूयः सविधनगरी… … मालतीमाधवे… … …
भ्रूभङ्गे सहसोद्गता… … [रत्नावल्याम्]… … …
मखशतपरिपूतं गोत्र… … मृच्छकटिकायाम्… … …
मज्झ पट्टण्णा एसा… … रत्नावल्याम्…. …… …
मत्तानां कुसुमरन विक्रमोर्वश्याम् (१)
मथ्नामि कौरवशतं समरे… … वेणीसंहारे… …… …
मधु द्विरेफः कुसुमैकपात्रे… … कुमारसंभवे… …… …
मध्याह्नं गमय त्यज श्रम… …… … … …… …
मन्थायस्तार्णवाम्भःप्लुत… … वेणीसंहारे… …… …
मनोजातिरनाधीना… … विक्रमोर्वश्याम्… … …
महु एहि किं णिवालअ… …… … … …… …
मा गर्वभुद्वह कपोल… …… … … …… …
मातः कं हृदये निधाय… …… … … …… …
मात्सर्यमुत्सार्य विचार्य… … [भर्तृहरिशतके]… … …
**श्लोकाः **
मुनिरयमथ वीरस्तादृश … … वीरचरिते… …… …
मुहुरुपहसितामिवा… … माघे… …… …
मृगरूपं परित्यज्य… … उदात्तराघवे… … …
मृगशिशुदृशस्तस्यास्तापं… …… … … …… …
मेदश्छेदकृशोदरं लघु… … शाकुन्तले… …… …
मैनाकः किमयं रुणद्धि… … [हनुमन्नाटके]… … …
यत्सत्यव्रतभङ्गभीरुमनसा… … वेणीसंहारे… …… …
यदि परगुणा न क्षम्यन्ते … … [महेन्द्रस्य]… … …
यद्ब्रह्मवादिभिरुपासित … वीरचरिते… …… …
यद्यत्प्रयोगविषये …. … … मालविकाग्निमित्रे…. … …
यद्विस्मयस्तिमितमस्तमिता … मालतीमाधवे… … …
यातु यातु किमनेन… …… … … …… …
यात विक्रमबहुरात्म… … रत्नावल्याम्… … …
यातोऽस्मि पद्मनयने… … रत्नावल्याम्… … …
यान्त्या मुहुर्वलितकन्धर … मालतीमाधवे… …
युष्मच्छासनलङ्घना… … वेणीसंहारे… …… …
ये चत्वारो दिनकर… … [महानाटकात्]… … …
येनावृत्य मुखानि साम… … छलितरामे… …… …
ये बाहवो न युधि… …… … … …… …
योगानन्दयशःशेषे… … बृहत्कथायाम्… …… …
रक्षो नाहं न भूतं रिपु… … वेणीसंहारे… …… …
रण्डा चण्डा दिक्खिदा… … कर्पूरमञ्जर्याम्… … …
रतिक्रीडाद्यूते कथमपि… … मम (धनिकस्य)… … …
राज्ञो धिपद्बन्धुवियोग… …… … … …… …
राज्यं निर्जितशत्रु… … रत्नावल्याम्… … …
राम राम नयनाभिराम… वीरचरिते… …… …
रामो मूर्ध्नि निधाय कानन … उदात्तराघवे… … …
लक्ष्मीपयोधरोत्सङ्ग… … मम (धनिकस्य)… …
लघुनि तृणकुटीरे… … [कमलायुधस्य]… … …
लज्जापज्जत्तपसाहणाइं… …… … … …… …
लाक्षागृहानलविषान्न… … वेणीसंहारे … … …
**श्लोकाः **
लाक्षालक्ष्म ललाटपट्ट … … अमरुशतके… …… …
लालां वकासवं वेत्ति… …… … … …… …
लावण्यकान्तिपरिपूरित… …… … … …… …
लावण्यममथविलास… … मम (धनिकस्य)… … …
लावण्यामृतवर्षिणि… … मम (धनिकस्य)… … …
लीनेव प्रतिबिम्बितेव… … मालतीमाधवे… … …
लुलितनयनताराः… … माघे… …… …
वत्सस्याभयवारिधेः… … उदात्तराघवे… … …
वयमिह परितुष्टा… … भर्तृहरिशतके… … …
वाताहतं वसनमाकुलमुत्त… …… … … …… …
विकपणरणत्कठोर
विनिश्चेतुं शक्यो न… … उत्तररामचरिते… …
विरम विरम वह्ने मुञ्च… … रत्नावल्याम्… …… …
विरोधो विश्रान्तः प्रसरति … उत्तरचरिते… …… …
विवृण्वती शैलसुतापि… … कुमारसंभवे… …… …
विसृज सुन्दरि संगम… … मालविकाग्निमित्रे… … …
विस्तारी स्तनभार एष… …… … … …… …
वृद्धास्ते न विचारणीय… … उत्तरचरिते… …… …
वृद्धोऽन्धः पतिरेष मञ्चक … भोजप्रबंधे… …… …
वेवइ सेअदवदनी… …… … … …… …
व्यक्तिर्व्यञ्जनधातुना… … [नागानन्दे]… …… …
व्याहृता प्रतिवचो न… … [कुमारसंभवे]… …
शठोऽन्यस्याः काञ्चीमणि … [अमरुशतके]… … …
शस्त्रप्रयोगखुरलीकलहे… … वीरचरिते… …… …
शस्त्रमेतत्समुत्सृज्य… …… … … …… …
शास्त्रेषु निष्टा सहजश्च… … मालतीमाधवे… … …
शिरामुखैः स्यन्दत एव… … नागानन्दे… …… …
शीतांशुर्मुखमुत्पले तव… … रत्नावल्याम्… … …
शोकं स्त्रीवन्नयनसलिलै… … वेणीसंहारे… …… …
श्रीरेषा पाणिरप्यस्याः… … रत्नावल्याम्… …… …
श्रीहर्षो निपुणः कविः… … रत्नावल्याम्… …… …
श्रुताप्सरोगीतिरपि… … कुमारसंभवे… …… …
**श्लोकाः **
श्रुत्वायातं बहिः कान्त … … मम (धनिकस्य)… … …
श्लाघ्याशेषतनुं सुदर्शन… …… … … …… …
सकलरिपुजयाशा यत्र… … वेणीसंहारे… …… …
सखि स विजितो वीणा… …… … … …… …
सच्चं जाणइ दट्ठुं सरि… … [गाथासप्तशत्याम्]… …
स च्छिन्नबन्धद्रुत… … रघुवंशे… …… …
सततमनिर्वृतमानस… …… … … …… …
सद्यरिछन्नशिरः श्वभ्र… … उदात्तराघवे… ……
सन्तः सच्चरितोदय… …… … … …… …
सभ्रूभङ्गं करकिसलया… … मम (धनिकस्य)… … …
समारूढा प्रीतिः प्रणय… … रत्नावल्याम्… …… …
संप्राप्तेऽवधिवासरे… …… … … …… …
सरसिजमनुविद्धं शैव… … शाकुन्तले… …… …
सव्याजं तिलकालकान्वि… … मम (धनिकस्य)… … …
सव्याजैः शपथैः प्रियेण …. … रत्नावल्याम्… … …
सहभृत्यगणं सबान्धवं… … वेणीसंहारे… …… …
सहसा विदधीत न… … किराते… …… …
सालोए च्चिअ सूरे… … [गाथासप्तशत्याम्]… …
सुधाबद्धग्रासैरुपवन… … विद्धशालभञ्जिकायाम्… …
सुभ्रु त्वं नवनीतकल्प… … मम (धनिकस्य)… … …
स्तनतटमिदमुत्तुङ्गं… …… … … …… …
स्तनावालोक्य तन्वङ्ग्याः… …… … … …… …
स्तिमितविकसिताना… … मालतीमाधवे… … …
स्नाता तिष्ठति कुन्तलेश्वर… …… … … …… …
स्पृष्टस्त्वयैष दयिते… … रत्नावल्याम्… …
स्फूर्जद्वज्रसहस्रनिर्मित… … वीरचरिते… …… …
स्मरदवथुनिभित्तं गूढ… … मम (धनिकस्य)… … …
स्मरनवनदीपूरेणोढाः… … [अमरुशतके]… … …
स्मरसि सुतनु तस्मिन्… … उत्तररामचरिते… … …
स्मितज्योत्स्नाभिस्ते… … मम (धनिकस्य)… … …
स्वगेात्पन्थानं तत… …… … … …… …
स्वसुखनिरभिलाषः… … [शाकुन्तले]
**श्लोकाः **
स्वेदाम्भःकणिकाञ्चिते… … … …… …
हंस प्रयच्छ मे कान्तां… … [विक्रमोर्वश्याम्]… …… …
हरस्तु किंचित्परिलुप्त… … कुमारसंभवे… …… …
हर्म्याणां हेमशृङ्गश्रियमिव… … रत्नावल्याम्… …… …
हसिअमविआरमुध्दं… …… … … …… …… …
हस्तैरन्तर्निहितवचनै… … … …… …
हावहारि हसितं… … माघे… …… …
हृन्मर्मभेदिपतदुत्कटक… … वीरचरिते… …… …
हेरम्बदन्तमुसलोल्लिखितै… … वीरचरिते… …
होन्तपहिअस्स जाआ… … [गाथासप्तशत्याम्]… …… …
ह्रिया सर्वस्यासौ हरति… … रत्नावल्याम्… …

]


  1. " ‘अतिव्यापि’ इति पाठः." ↩︎

  2. " ‘नान्तो’, ‘त्रेधा’ इति पाठौ." ↩︎

  3. “‘कथमेष स उदयननरेन्द्रो यस्याहं तातेन दत्ता ।’ इति च्छाया. " ↩︎

  4. “तथापि नास्त्यन्यो दर्शनोपाय इति यथातथालिख्य यथासमीहितं करिष्यामि।’ इति च्छाया.” ↩︎

  5. “एवं यद्यकालवातालीवागत्यान्यतो न नेष्यति वासवदत्ता।’ इति च्छाया.” ↩︎

  6. “‘सागरिका दुष्करं जीविष्यति।’ इति च्छाया. " ↩︎

  7. " ‘किं नोपायं चिन्तयसि।’ इति च्छाया.” ↩︎

  8. " संश्रया’ इति पाठः .” ↩︎

  9. “‘गुणाख्यानात्’ इति पाठः” ↩︎

  10. " ‘भत्रिंं परिकुपित इव कुमारो लक्ष्यते ।’ इति च्छाया." ↩︎

  11. “‘नाथ, अश्रुतपूर्वं खल्वेतद्वचनम् । तत्पुनः पुनर्भण।’ इति च्छाया.” ↩︎

  12. “‘कथमयं स राजोंदयनो यस्याहं तातेन दत्ता। तत्परप्रेषणदूषितं मे जीवितमेतस्य दर्शनेन बहुमतं संजातम्।’ इति च्छाया.” ↩︎

  13. “तेन ह्युपनय म उपकरणानि।’ इति च्छाया.” ↩︎

  14. " भत्रि, एतत्सर्वं सजम्।’ इति च्छाया." ↩︎

  15. “‘अहो प्रमादः परिजनस्य। यस्यैव दर्शनपथात्प्रयत्नेन रक्ष्यते तस्यैव कथं दृष्टिगोचरमागता। भवतु। एवं तावत्। चेटि सागरिके, कथं त्वमद्य पराधीने परिजने मदनोत्सवे सारिकां मुक्त्वेहागता। तस्मात्तत्रैव गच्छ।’ इति च्छाया.” ↩︎

  16. “‘सारिका तावन्मया सुसंगताया हस्ते समर्पिता। प्रेक्षितुं च मे कुतूहलम्। तदलक्षिता प्रेक्षिष्ये।’ इति च्छाया.” ↩︎

  17. " ‘नाथ, पुनरपि त्वयाहमागत्य समाश्वासयितव्या ।’ इति च्छाया." ↩︎

  18. “‘कथं प्रत्यक्ष एवानङ्गः पूजां प्रतिच्छेदिता । अहमपीहस्थितैवैनं पूजयिष्यामि ।’ इति च्छाया. " ↩︎

  19. “किमिदानीमेष प्रलयजलधरस्तनितमांसलः क्षणे क्षणे समरदुन्दुभिस्ताड्यते’ इति च्छाया.” ↩︎

  20. “.‘नमस्ते कुसुमायुध, तदमोघदर्शनो मे भविष्यसीति । दृष्टं यत्प्रेक्षितव्यम् । तद्यावन्न कोऽपि मां प्रेक्षते तद्गमिष्यामि ।’ इति च्छाया.” ↩︎

  21. “‘नाथ, मा खलु याज्ञसेनीपरिभवोद्दीपितकोपा अनवेक्षितशरीराः परिक्रमिष्यथ । यतोऽप्रमत्तसंचरणीयानि श्रूयन्ते रिपुबलानि ।’ इति च्छाया” ↩︎

  22. “लक्ष्यालक्ष्य इवोद्भेदः’ इति पाठः” ↩︎

  23. “‘प्रगयणम्’ इति पाठः.” ↩︎

  24. “‘रत्युत्थेहा’ इति पाठः.” ↩︎

  25. “‘हृदय, प्रसीद प्रसीद । किमनेनायासमात्रफलेन दुर्लभजनप्रार्थनानुबन्धेन ।’ इति च्छाया.” ↩︎

  26. “‘तथाप्यालेखगतं तं जनं कृत्वा यथासमीहितं करिष्यामि । तथापि तस्य नास्त्यन्यो दर्शनोपाय इति ।’ इति च्छाया.” ↩︎

  27. " ‘सखि, अधिकं मे संतापो बाधते ।’ इति च्छाया. " ↩︎

  28. “‘सखि, अपनयैतानि । किमकारण आत्मानमायासयसि । ननु भणामि । दुर्लभजनानुरागो लज्जा गुर्वी परवश आत्मा । प्रियसखि विषमं प्रेम मरणं शरणं केवलमेकम् ॥’ इति च्छाया.” ↩︎

  29. " ‘हृदय, समाश्वसिहि । मनोरथोऽपि त एतावतीं भूमिं न गतः ।’ इति च्छाया.” ↩︎

  30. " ‘सखि, यस्य कृते त्वमागता सोऽयं पुरतस्तिष्ठति ।’ इति च्छाया." ↩︎

  31. “‘सुसङ्गते, कस्य कृतेऽहमागता ।’ इति च्छाया. " ↩︎

  32. “अयि आत्मशङ्किने, ननु चित्रफलकस्य । तगृहाणैतत् ।’ इति च्छाया.” ↩︎

  33. " ‘हला, उपनय मे कुसुमानि यावदपरेषामपि देवानां सपर्या निवर्तयामि । इति च्छाया.” ↩︎

  34. “सहि, अतिनिठुरेशनीमंगि त्वम् । यैवमपि भत्र हस्तावलम्विता कोपं न मुञ्जसि ।’” ↩︎

  35. “‘सुसङ्गते, इदानीमपि न विरमसि ।’ इति च्छाया” ↩︎

  36. “‘प्रगयणम्’ इति पाठः. " ↩︎

  37. “. ‘भो वयस्य, दिष्ट्या वर्धसे ।’ इति च्छाया” ↩︎

  38. " ‘भोः, एतत्खलु तद्यन्मया भणितं त्वमेवालिखितः । कोऽन्यः कुसुमायुधव्यपदेशेन निदूयते ।’ इति च्छाया.” ↩︎

  39. " ‘भोः, एषापूर्वा श्रीस्त्वया समासादिता ।’ इति च्छाया." ↩︎

  40. " ‘प्रसादनमुपन्यासः’ इति पाठः ." ↩︎

  41. “‘भर्तः, अलं शङ्कया। मयापि भर्तुः प्रसादेन क्रीडितमेव। तत्किं कर्णाभरणेन। असावपि मे गुरुः प्रसादः, यत्कथं त्वयाहमत्रालिखितेति कुपिता मे प्रियसखी सागरिका। तत्प्रसाद्यताम्।’ इति च्छाया.” ↩︎

  42. “‘आर्यपुत्र, एषापि या तव समीपे, एतत्किं वसन्तकस्य विज्ञानम्।’ इति च्छाया.” ↩︎

  43. “आर्यपुत्र, ममाप्येतच्चित्रकर्म पश्यन्त्याः शीर्षवेदना समुत्पन्ना।’ इति च्छाया.” ↩︎

  44. “‘चातुर्वर्णो इति पाठः।” ↩︎

  45. “‘साधु रे अमात्य वसन्तक, साधु। अतिशयितस्त्वयामात्यो यौगंधरायणोऽनय संधिविग्रहचिन्तया।’ इति च्छाया.” ↩︎

  46. “दिष्ट्या वर्धसे समीहिताभ्यधिकया कार्यसिद्ध्या ।’ इति च्छाया” ↩︎

  47. " ‘अचिरेण स्वयमेव प्रेक्ष्य ज्ञास्यसि ।’ इति च्छाया. " ↩︎

  48. “‘कथं न भविष्यति, यस्य त उपहसितबृहस्पतिबुद्धिविभवोऽहममात्यः।’ इति च्छाया.” ↩︎ ↩︎

  49. " ‘एवम्’ इति च्छाया" ↩︎

  50. “‘ही ही भोः, कौशाम्बीराज्यलाभेनापि न तादृशो वयस्यस्य परितोष आसीत्, यादृशो मम सकाशात्प्रियवचनं श्रुत्वा भविष्यतीति तर्कयामि।’ इति च्छाया.” ↩︎

  51. " ’ भवति सागरिके, एष प्रियवयस्यस्त्वामेवोद्दिश्योत्कण्ठानिर्भरं मन्त्रयति । तन्निवेदयामि तस्मै तवागमनम् । इति च्छाया." ↩︎

  52. ““भो वयस्य, वासवदत्ता किं करिष्यतीति न जानामि । सागरिका पुनर्दुष्करं जीविष्यतीति तर्कयामि ।’ इति च्छाया.” ↩︎

  53. “‘भर्त्रि, इयं सा चित्रशालिका। तद्वसन्तकस्य संज्ञां करोमि।’ इति च्छाया.” ↩︎

  54. “‘आर्यपुत्र, युक्तमिदं सदृशमिदम्। आर्यपुत्र, उत्तिष्ठ। किमद्याप्याभिजात्याः सेवादुःखमनुभूयते। काञ्चनमाले, एतेनैव पाशेन बद्ध्वानयैनं दुष्टब्राह्मणम्। एतामपि दुष्टकन्यकामग्रतः कुरु।’ इति च्छाया.” ↩︎

  55. " ‘आर्यपुत्र, मैवं भण । अन्यसंक्रान्तानि खल्वेतान्यक्षराणीति ।’ इति च्छाया." ↩︎

  56. “‘कुशलं शरीरमात्रकेण ।’ इति च्छाया..” ↩︎

  57. “‘देव, न भग्नो रथः । भग्नोऽस्य मनोरथः । ‘इति च्छाया.” ↩︎

  58. " ‘कथमकृतपुण्यैरात्मन इच्छया मर्तुमपि न पार्यते ।’ इति च्छाया." ↩︎

  59. “’ का पुनरेषा । कथं देवी वासवदत्तात्मानं व्यापादयति । इति च्छाया. " ↩︎

  60. “‘अभवा किमत्र दैवमुपालभामि । तस्य खल्वेतन्निर्भत्सितविदुरवचनबीजस्य परिभूतपितामहहितोपदेशाङ्कुरस्य शकुनिप्रोत्साहनारूढमूलस्य कूटविषशाखिनो पाञ्चालीकेशग्रहणकुसुमस्य फलं परिणमति ।’ इति च्छाया.” ↩︎

  61. “‘सोऽवमर्श इति स्मृतः’ इति पाठः .” ↩︎

  62. “‘सा खलु तपस्विनी भट्टिन्योजयिनीं नीयत इति प्रवादं कृत्वोपस्थितेऽर्धरात्रे न ज्ञायते कुत्रापि नीतेति ।’ इति च्छाया.” ↩︎

  63. “‘अतिनिर्घृणं खलु कृतं देव्या ।’ इति च्छाया.” ↩︎

  64. “भो ‘वयस्य, मा खल्वन्यथा संभावय । सा खलु देव्योजयिन्यां प्रेषिता । अतोऽप्रियमिति कथितम् ।’ इति च्छाया.” ↩︎

  65. “‘आर्यपुत्र, न खल्वहमात्मनः कारणाद्भणामि । एषा मया निर्घृणहृदयया संयता सागरिका विपद्यते ।’ इति च्छाया.” ↩︎

  66. “‘एष सागरदत्तस्य सुत आर्यविनयदत्तस्य नप्ता चारुदत्तो व्यापादयितुं वध्यस्थानं नीयते। एतेन किल गणिका वसन्तसेना सुवर्णलोभेन व्यापादितेति।’ इति च्छाया.” ↩︎

  67. “‘किं धरण्यां मृगाङ्क आकाशे महीधरो जले ज्वलनः। मध्याह्ने प्रदोषो दर्श्यतां देह्याज्ञप्तिम्॥ अथवा किं बहुना जल्पितेन। मम प्रतिज्ञैषा भणामि हृदयेन यद्वाञ्छसि द्रष्टुम्। तत्ते दर्शयामि स्फुटं गुरोर्मन्त्रप्रभावेण॥’ इति च्छाया.” ↩︎

  68. " ‘संरम्भोक्तिः’ इति पाठः .” ↩︎

  69. " ‘दिष्ट्या समन्तात्प्रज्वलितो भगवान्हुतवहोऽद्य करिष्यति दुःखावसानम् ।’ इति च्छाया." ↩︎

  70. " ‘आर्यपुत्र, एषा सागरात्प्राप्तेति भणित्वामात्ययौगंधरायणेन मम हस्ते निहिता । अत एव सागरिकेति शब्द्यते ।’ इति च्छाया." ↩︎

  71. “’ कृतापराधा देव्या न शक्नोमि मुखं दर्शयितुम्।’ इति च्छाया. " ↩︎

  72. “एहि अयि निष्ठुरे, इदानीमपि बन्धुस्नेहं दर्शय। आर्यपुत्र, लज्जे खल्वहमनेन नृशंसत्वेन। तल्लध्वपनयास्या बन्धनम्।’ इति च्छाया.” ↩︎

  73. " ‘आर्य, अमात्ययौगंधरायणेन दुर्जनीकृतास्मि येन जानतापि नाचक्षितम्।’ इति च्छाया.” ↩︎

  74. " ‘नाथ, विस्मृतास्म्येतं व्यापारम् । नाथस्य प्रसादेन पुनः शिक्षिष्यामि ।’ इतिच्छाया." ↩︎

  75. “‘समाश्वसिहि समाश्वसिहि भगिनि ।’ इति च्छाया. " ↩︎

  76. " ‘आर्यपुत्र,दूरेऽस्या मातृकुलम् । तत्तथा कुरुष्व यथा बन्धुजनं न स्मरति ।’ इति च्छाया. च्छाया.” ↩︎

  77. " ‘स्फुटमेव किं न भणसि । प्रतिपादयास्मै रत्नमालामिति ।’ इति च्छाया." ↩︎

  78. " ‘अन्ते’ इति पाठः" ↩︎

  79. “’ अन्तर्यवनिका’ इति पाठः.” ↩︎

  80. “’ पात्राङ्गस्य’ इति पाठः” ↩︎

  81. “‘तेन हि द्वावपि देव्याः प्रेक्षागेहं गत्वा संगीतकोपकरणं कृत्वा तत्रभवतो दृतं विसर्जयतम् । अथवा मृदङ्गशब्द एवैनमुत्थापयिष्यति ।‘इति च्छाया.” ↩︎

  82. " ‘धैर्य’ इति पाठः." ↩︎

  83. “‘सात्त्विकाः’ इति पाठः.” ↩︎

  84. “‘स्वापि’ इति पाठः.” ↩︎

  85. “‘कुलबालिकायाः प्रेक्षध्वं यौवनलावण्यविभ्रमविलासाः । प्रवसन्तीव प्रवसिते आगच्छन्तीव प्रिये गृहमागते॥’ इति च्छाया.” ↩︎

  86. “‘हसितमविचारमुग्धं भ्रमितं विरहितविलासमुच्छायम् । भणितं स्वभावसरलं धन्यानां गृहे कलत्राणाम् ॥’ इति च्छाया.” ↩︎

  87. " ‘लजापर्याप्तप्रसाधनानि परतृप्तिनिष्पिपासानि । अविनयदुर्मेधांसि धन्यानां गृहे कलत्राणि ॥’ इति च्छाया" ↩︎

  88. " ‘तावदेव रतिसमये महिलानां विभ्रमा विराजन्ते । यावन्न कुवलयदलस्वच्छभानि मुकुलयन्ति नयनानि ॥’ इति च्छाया." ↩︎

  89. “‘कान्तम्’ इति पाठः.” ↩︎

  90. " ‘अन्विच्छन्’ इति पाठः." ↩︎

  91. “‘रूपकेष्वनुरक्तैव कार्या प्रहसनेतरे’ इति पाठः.” ↩︎

  92. “‘विरहोत्कण्ठिता मता’ इति पाठः.” ↩︎

  93. “’ विधूते’ इति पाठः” ↩︎

  94. “‘सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः । म्रियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयमस्याः ॥ इति च्छाया.” ↩︎

  95. “’ मुहुरेहि किं निवारक हरसि निजं वायो यद्यपि मे सिचयम् । साधयामि कस्य सुन्दर दूरे ग्रामोऽहमेका ॥’ इति च्छाया.” ↩︎

  96. “’ तदेव वचनं ते चैव लोचने यौवनमपि तदेव । अन्यङ्गलक्ष्मीरन्यदेव किमपि साधयति ॥’ इति च्छाया.” ↩︎

  97. “‘अल्पालापः’ इति पाठः .” ↩︎

  98. “यत्किमपि प्रेक्षमाणां भणमानां रे यथा तथैव। निर्ध्याय स्नेहमुग्धां वयस्य मुग्धां पश्य॥ ’ इति च्छाया.” ↩︎

  99. “’ तथा झटित्यस्याः प्रवृत्ताः सर्वाङ्गं विभ्रमाः स्तनोद्भेदे। संशयितबालभावा भवति चिरं यथा सखीनामपि॥’ इति च्छाया.” ↩︎

  100. “’ मन्मथाध्यासित’ इति पाठः.” ↩︎

  101. “‘दैवाद्दृष्ट्वा नितान्तसुमुखशशिज्योत्स्नाविलुप्ततमोनिवहे। अभिसारिकाणां विघ्नं करोष्यन्यासां विहताशे॥’ इति च्छाया. " ↩︎

  102. “‘दिवसं खलु दुःखितायाः सकलं कृत्वा गृहव्यापारम्। गुरुण्यपि मन्युदुःखे भरिमा पादान्ते सुप्तस्य॥’ इति च्छाया.” ↩︎

  103. “‘तथा दृष्टं तथा भणितं तथा नियतं तथा तथा शीर्णम् । अवलोकितं सतृष्णं सविभ्रमं यथा सपत्नीभिः ॥’ इति च्छाया.” ↩︎

  104. “‘क्रियोक्तिषु ’ इति पाठः.” ↩︎

  105. " ’ सपरिग्रहः’ इति पाठः.” ↩︎

  106. " ‘स्फञ्ज’ इति पाठः." ↩︎

  107. “‘सालोके एव सूर्ये गृहिणी गृहस्वामिकस्य गृहीत्वा। अनिच्छतोऽपि पादौ धुनोति हसन्ती हसतः॥ इति च्छाया.” ↩︎

  108. " ‘ज्ञातो मयैष सर्वो वृत्तान्तः सह चित्रफलकेन। तद्देव्यै निवेदयिष्यामि।’ इति च्छाया." ↩︎

  109. “’ नर्मस्फञ्जः’ इति पाठः.” ↩︎

  110. " भर्तः, देव्या भयेनात्मनोऽपि प्रियं कर्तुं न पारयामि ।’ इति च्छाया." ↩︎

  111. " ‘रसात्मकः’ इति पाठः ." ↩︎

  112. " ‘अधिगम्य’ ’ उपगम्य’ ‘अनुगम्य’ इति पाठाः" ↩︎

  113. " ‘शूरसेनी’ ’ शौरसेनी’ इति पाठौ." ↩︎

  114. “‘अर्जका’ इति पाठः. " ↩︎

  115. " ‘कुट्टिन्यनुगतैः पूजा अम्बेति युवतीजनैः’ इति पाठः .” ↩︎

  116. " ’ राज्ञा’ इति पाठः." ↩︎

  117. “’ वाक्यं वाक्यार्थमथवा प्रस्तुतं यत्र सूत्रिणः’ इति पाठः .” ↩︎

  118. " ‘भो वयस्य, क एष कामो येन त्वमपि दूयसे । स किं पुरुषोऽथवा स्त्रीति ।’ इति च्छाया." ↩︎

  119. “एवमपि न जानामि ।’ इति च्छाया.” ↩︎

  120. “‘किं यो यदिच्छतिसमीति । इति च्छाया.” ↩︎

  121. “’ तज्ज्ञातं यथाहं सूपकारशालायां भोजनमिच्छामि ।’ इति च्छाया.” ↩︎

  122. " ‘असद्भूतमिथः स्तोत्रं’ इति पाठः." ↩︎

  123. “रण्डा चण्डा दीक्षिता धर्मदारा मद्यं मांसं पीयते खाद्यते च । भिक्षा भोज्यं चर्मखण्ड च शय्या कौलो धर्मः कस्य न भवति रम्यः ॥ ’ इतिच्छाया.” ↩︎

  124. “‘छलना’ इति पाठः.” ↩︎

  125. " भवति मदनिके, मामप्येतां चर्चरी शिक्षय ’ इति च्छाया. " ↩︎

  126. “‘हताश, न खन्येषा चर्चरी । द्विपदीखण्डकं खल्वेतत् ।’ इति च्छाया.” ↩︎

  127. “‘भवति, किमेतेन खण्डेन मोदकाः क्रियन्ते ।’ इति च्छाया. " ↩︎

  128. “’ नहि । पठ्यते खल्वेतत् । इति च्छाया.” ↩︎

  129. " ‘देव, उपस्थितः ।’ इति च्छाया. " ↩︎

  130. “‘देवस्यासन्नपरिचारको दुर्मुखः । इति च्छाया. " ↩︎

  131. “‘जात, कल्यं खलु युवाभ्यामयोध्यायां गन्तव्यम् । तर्हि स राजा विनयेन नमितव्यः ।’ इति च्छाया. " ↩︎

  132. " ‘जात, स खलु युवयोः पिता ।’ इति च्छाया.” ↩︎

  133. “जात, न खलु परं युवयोः । सकलाया एव पृथिव्याः । ’ इति च्छाया.” ↩︎

  134. " ‘हंहो ब्राह्मण, मा कुप्य । किमपि तवोपाध्यायो जानाति । किमप्यस्मादृशा जना जानन्ति ।’ इति च्छाया.” ↩︎

  135. " यदि त उपाध्यायः सर्वं जानाति तज्जानातु तावत्कस्य चन्द्रोऽनभिप्रेत इति ।‘इति च्छाया.” ↩︎

  136. " ‘यथोत्तरम्’ इति पाठः " ↩︎

  137. “‘मा तावत् । उपदेशशुद्धा गमिष्यसि ।‘इति च्छाया.” ↩︎

  138. “‘प्रथमं प्रत्यूषे ब्राह्मणस्य पूजा भवति । सा तया लङ्घिता ।’ इति च्छाया.” ↩︎

  139. “‘अभिगामि’, ‘अधिगम्य’ इति पाठौ.” ↩︎

  140. “‘अस्त्रस्य’ इति पाठः. " ↩︎

  141. " ‘तैः कार्यम्’ इति पाठः.” ↩︎

  142. “‘सोपायं’ इति पाठः.” ↩︎

  143. " ‘संगमे’ इति पाठः. " ↩︎

  144. “‘प्राप्यान्या’ इति पाठः.” ↩︎

  145. " ’ चान्यदुक्त’ इति पाठः." ↩︎

  146. " ‘लक्षणम्’ इति पाठः." ↩︎

  147. “‘वेषभाषादि, ’ ‘देशभाषादि’ इति पाठौ.” ↩︎

  148. " ‘नाडिका ’ इति पाठः." ↩︎

  149. " ‘नाडिका’ इति पाठः." ↩︎

  150. " ‘स्वादुत्वं’’ इति पाठः." ↩︎

  151. “‘आलम्बनोद्दीपनाभ्यां कान्तोद्यानादिना द्विधा’ इति पाठः.”

    एवमयमेवमियमित्यतिशयोक्तिरूपकाव्यव्यापाराहितविशिष्टरूपतया ज्ञायमानो विभाव्यमानः सन्नालम्बनत्वेनोद्दीपनत्वेन वा यो नायकादिरभिमतदेशकालादिर्वा स विभावः। यदुक्तं विभाव इति विज्ञातार्थ इति, तांश्च यथास्वं यथावसरं च रसेषूपपादयिष्यामः। अमीषां चानपेक्षितबाह्यसत्त्वानां शब्दोपधानादेवासादिततद्भावानां सामान्यात्मनां स्वस्वसंबन्धित्वेन विभावितानां साक्षाद्भावकचेतसि विपरिवर्तमानानामालम्बनादिभाव इति न वस्तुशून्यता। तदुक्तं भर्तृहरिणा—‘शब्दोपहितरूपांस्तान्बुद्धेर्विषयतां गतान्। प्रत्यक्षमिव कंसादीन्साधनत्वेन मन्यते॥’ इति। षट्सहस्रीकृताप्युक्तम्—‘एभ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते’ इति। ↩︎

  152. “‘वेपते खेदवदना रोमाञ्चं गात्रे वपति । विलोलस्ततो वलयो लघु बाहुवल्ल्यां रणति ॥ मुखं श्यामलं भवति क्षणं विमूर्च्छति विदग्धेन । मुग्धा मुखवल्ली तव प्रेम्णा सापि न धैर्ये करोति ॥’ इति च्छाया.” ↩︎

  153. “’ शोका ०’ इति पाठः.” ↩︎

  154. “‘चौर्य ०’ इति पाठः.” ↩︎

  155. “‘उच्छ्वसनादयः’ इति पाठः .” ↩︎

  156. “‘मायाभियोगौ’ इति पाठः.” ↩︎

  157. " ‘महाराज, एतत्खलु पवननन्दनागमनेन प्रहर्ष—’ इति च्छाया." ↩︎

  158. “‘देवस्य हृदयानन्दजननं विदलितं मधुवनम्’ इति च्छाया.” ↩︎

  159. " ‘स्थान०’ इति पाठः." ↩︎

  160. “‘त्वरा’ इति पाठः” ↩︎

  161. " नितान्तास्फुटत्वादस्य श्लोकस्य व्याख्या न लिख्यतेऽस्माभिः ." ↩︎

  162. “‘एकतो रोदिति प्रियान्यतः समरतूर्यनिर्घोषः । प्रेम्णा रणरसेन च भटस्य दोलायितं हृदयम् ॥’ इति च्छाया.” ↩︎

  163. “‘भ्रम धार्मिक विश्रब्धः स श्वाद्य मारितस्तेन । गोदावरीनदीकच्छकुटङ्गवासिना दरीसिंहेन ॥’ इति च्छाया,” ↩︎

  164. “‘काम्ये’ इति पाठः.” ↩︎

  165. " प्रयोगेषु’ इति पाठः." ↩︎

  166. “‘कोपावेशित’इति पाठः.” ↩︎

  167. “‘प्रणयकुपितयोर्द्वयोरप्यलीकप्रसुप्तयोर्मानवतोः । निश्चलनिरुद्धनिश्वासदत्तकर्णयोः को मल्लः ॥’ इति च्छाया.” ↩︎

  168. “‘केलीगोत्रस्खलने विकुप्यति कैतवमजानन्ती । दुष्ट पश्य परिहासं जाया सत्यमिव प्ररुदिता ॥’ इति च्छाया.” ↩︎

  169. " ’ नूपुरकोटिविलग्नं चिकुरं दयितस्य पादपतितस्य । हृदयं मानपदोत्थमुन्मुक्तमित्येव कथयति ॥ इति च्छाया." ↩︎

  170. “‘भविष्यत्पथिकस्य जाया आयुःक्षणजीवधारणरहस्यम्। पृच्छन्ती भ्रमति गृहाद्गृहेषु प्रियविरहसहीका॥’ इति च्छाया.” ↩︎

  171. " ‘निराश्रयात्’ इति पाठः." ↩︎

  172. " ‘युक्तो’ इति पाठः." ↩︎

  173. “‘वमथु’ इति पाठः .” ↩︎

  174. “‘वैवर्ण्य’ इति पाठः " ↩︎

  175. " ‘आप्तेः’ इति पाठः.” ↩︎

  176. “‘लक्ष्मसंध्यन्तराख्यानि’ इति पाठः” ↩︎

  177. “‘भावात्’ इति पाठः .” ↩︎