[[संस्कृततृतीयादर्शः Source: EB]]
[
[TABLE]
[TABLE]
[TABLE]
अनुक्रमणिका—CONTENTS
______________
| पाठः | |
| १. | सरस्वती (पद्यपाठः) |
| २. | सगरः |
| ३. | भगीरथः |
| ४. | गगनप्रासादः |
| ५. | हरिणाः |
| ६. | बिडालः क्रोष्टा च (पद्यपाठः) |
| ७. | श्रीकण्ठः शितिकण्ठश्च |
| ८. | भल्लूकः |
| ९. | काष्ठविक्रेता कुठारश्च |
| १०. | मृगः काको जम्बुकश्च |
| ११. | कालिदासस्य सूक्तयः (पद्यपाठः) |
| १२. | पिता पुत्रो गर्दभश्च |
| १३. | पत्रिकालेखनम् |
| १४. | धर्मगुप्तो भार्या च |
| १५. | अयः |
| १६. | मैत्री (पद्यपाठः) |
| १७. | धौम्य उपमन्युश्च |
| १८. | मदोन्मत्तः |
| १९. | कालिदासस्य गुरुः— प्रथमो भागः |
| २०. | ,, —द्वितीयो भागः |
| पाठः | |
| २१. | धनप्रशंसा (पद्यपाठः) |
| २२. | क्षेत्रकर्षणम् |
| २३. | शतं प्रहाराः |
| २४. | अजगरो भिक्षाभाजनं च |
| २५. | अशोकः |
| २६. | एकलव्यः |
| २७. | भवभूतेः सूक्तयः (पद्यपाठः) |
| २८. | श्रीमध्वाचार्यः |
| २९. | जीर्णधनः श्रेष्ठी च |
| ३०. | आस्तिको नास्तिकश्च |
| ३१. | राजा कविश्व (पद्यपाठः) |
| ३२. | शरणागतरक्षणम् |
| ३३. | महीशूरमहाराजः |
| ३४. | भारतवर्षम् |
| ३५. | पद्यमाला—प्रथमा पञ्चिका |
| ,, द्वितीया पश्चिका | |
| ३७. | ,, तृतीया पश्चिका |
| ३८. | ,, चतुर्थी पञ्चिका |
| ३९. | ,, पञ्चमी पञ्चिका |
| ४०. | ,, षष्ठी पञ्चिका |
| ४२. | शब्दार्थकोशः—Glossary |
_______________
॥ श्रीरामजयम् ॥
॥ संस्कृततृतीयादर्शः ॥
<MISSING_FIG href="../books_images/U-IMG-1733123149Screenshot2024-12-02123526.png"/>
१. सरस्वती
शारदा शारदाम्भोजवदना वदनाम्बुजे।
सर्वदा सर्वदाऽस्माकं सन्निधिं सन्निधिं क्रियात्॥ १
सुरासुरासेवितपादपङ्कजा
करे विराजत्कमनीयपुस्तका।
विरिञ्चिपत्नी कमलासनस्थिता
सरस्वती नृत्यतु वाचि मे सदा॥ २
माणिक्यवीणामुपलालयन्तीं
मदालसां मञ्जुलवाग्विलासाम्।
माहेन्द्रनीलद्युतिकोमलाङ्गीं
मातङ्गकन्यां मनसा स्मरामि॥ ३
श्रीमच्चन्दनचर्चितोज्ज्वलबपुः शुक्लाम्बरा मल्लिका-
मालालालितकुन्तला प्रविलसन्मुक्तावलीशोभना।
सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता
वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा॥ ४
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता
सा मां पातु सरस्वतीभगवती निश्शेषजाड्यापहा॥ ५
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमाना समाना__
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥ ६
___________
१) प्रश्नाः— सरस्वत्याः स्वरूपं महिमानं च स्ववाक्यैः संक्षिप्य वर्णयत? सा चतुर्भिर्दोर्भिः कानि वस्तूनि धरति?
२) प्रयोग विपरिणमयत—
१. विरिञ्चिपत्नी सरस्वती सदा मे वाचि नृत्यतु।
२. माहेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां स्मरामि।
३. त्रैलोक्यमाता वाग्देवी मम वदनाम्बुजे वसतु।
४. निःशेषजाड्यापहा भगवती सरस्वती मां पातु॥
३) निर्दिष्टानां धातूनां शत्रन्तैः शानजन्तैर्वा रूपैः वाक्यानि पूरयत–
१. सरस्वती माणिक्यवीणां (वाद्)… गायति।
२. वाग्देवता मे निःशेषं जाड्यं(अपहन्)… वाचि नृत्यतु।
३. वाग्देवता एकेन हस्तेनाक्षमालां (धा)… विलसति।
४. अनुपमया भासा (भास्)… सरस्वती मे जिह्वायां वसतु।
४) तत्पुरुषसमासः—
१. मदेन अलसा = मदालसा।
२. विरिञ्चैः पत्नी = विरिञ्चिपत्नी \।
३. वस्त्रेण आवृता = वस्त्रावृता॥
५) कृत्प्रत्ययान्ताः—
१. स्मृ = (स्मरति) स्मृतः स्मृतवान्, स्मृत्वा, विस्मृत्य, स्मर्तुम्, स्मरणीयम्, स्मर्तव्यम्।
२. धृ = (धरति) धृतः, धृतवान् धृत्वा, विधुत्य, धर्तुम्, धरणीयम्, धार्यम्, धर्तव्यम्॥
६) पर्यायाः— १. ब्राह्मी गीर्भारती वाणी शारदा वाक् सरस्वती।
२. व्याहार उक्तिर्लपितं भाषितं वचनं वचः।
३.विपञ्ची वल्लकी वीणा॥
<MISSING_FIG href="../books_images/U-IMG-1733124362Screenshot2024-12-02125550.png"/>
२. सगरः
आसीदयोध्यायां सूर्यवंशीयः सगरो नाम राजा, यः खलु सागराम्बरां विश्वम्भरां प्रीत्या शासत् प्रजानामनुरागस्य पात्रतामगमत्। तस्य केशिनी सुमतिश्चेति द्वे भार्येआस्ताम्। तयोः केशिन्यामसमञ्जाख्य एकः पुत्रः समजनि। सुमतिस्त्वेकं गर्भपिण्डमसोष्ट। विदारिते च तस्मिन् पिण्डे षष्टिसहस्राणि पुत्रास्ततो
विनिस्सृताः। ते सर्वे शस्त्रविद्यायामश्वारोहणे त्रय्यामान्वीक्षिक्यां बार्तायां दण्डनीतौ च परं प्रावीण्यमुपगताः कालेन रूपयौवनशालिनः समवर्धन्त॥
तत्र यः केशिन्यास्तनयोऽसमञ्जः स दुर्मतिर्दुराचारः प्रजानामहितश्च सन्नसमञ्जस एवासीत्। अतः स पित्रा राज्यान्निष्कासितः। अंशुमान् नाम तस्यात्मजस्तु साधुवृत्तः सुधांशुरिव प्रमोदं जनयन् जनतायाः प्रीतिपात्रमभूत्॥
धीरैः शूरैश्च बहुसङ्ख्यैः पुत्रैः परिवृतः स राजा परमानन्दमविन्दत। एकदा स महाराजो महता विभवेन शतं यज्ञान् कर्तुमुपाक्रमत। निर्वर्तितास्तेन निर्विघ्नमेकोनशतं यागाः। आरब्धे च शततमे मखे सगरोऽयं शतमखो भूत्वा स्वकीयं पदमपहरिष्यतीति भिया वासवः सद्य एव रक्षोरूपेणागत्य यज्ञियमश्वं हठादाकृष्य रसातलमनैषीत्॥
तेन पर्याकुलः सगरस्तद्गवेषणाय षष्टिसहस्राणि पुत्रानादिक्षत्। से च भुवं परिभ्रम्य तुरगमलभमानाः पातालं प्रविविक्षवः क्षितिमस्वानिषुः। सगरतनयैः खातानि गर्तान्येव सम्प्रति सागरत्वेन प्रथन्ते॥
तेनैव मार्गेण सगरपुत्राः पातालं प्रविश्य तत्र घोरे तपसि वर्तमानस्य महर्षेः कपिलस्यान्तिके चरन्तं स्वीयं यज्ञाश्वमद्राक्षुः। दृष्टा चायमेवास्माकमश्वस्य हर्तेति भाषमाणास्ते खनित्राणि लाङ्गलानि च दधतस्तमभ्यधावन्। तदवलोक्य क्रुद्धो महर्षिस्तान् शापाग्निना भस्मसादकार्षीत्॥
ततः स्वतनयांश्चिरमनागतान् वीक्ष्य विषण्णो नरपतिस्तेषामन्वेषणाय नप्तारमंशुमन्तं प्राहिणोत्। स च भुवं परिभ्रम्य पातालं प्रविष्टः पथि गच्छन् यदृच्छया सगरतनयानां मातुलं खगेन्द्रमद्राक्षीत्। अप्राक्षीच्च तं तेषां वृत्तान्तम्। कपिलेन भस्मीकृतान्सगरसुतान् यज्ञियमश्वं च खगेन्द्रस्तस्मै दर्शयामास॥
तदवलोक्य शोकाकुलं पितृव्याणां तर्पणाय सलिलमन्वेष्टुंप्रवृत्तमंशुमन्तं खगेन्द्रोऽभ्यधात्—‘वत्स! कपिलरूपेणावतीर्णस्य भगवत एवायं व्यापारः। नात्र शोकः कार्यः। अपि चैतेषां लौकिकेनाम्भसा तर्पणं न युक्तम्। या खलु हिमवतो ज्येष्ठा पुत्री गङ्गा नाम तस्याः क्षितिमानीतायाः सलिलेन तर्पणीया एते महात्मनः। अतस्तुरङ्गममादाय निवर्तस्व’ इति॥
तन्निशम्यांशुमांस्तुरगमानीय सगरायार्पयित्वा पितृव्याणां वृत्तान्तं खगेन्द्रस्य वचनं च तस्मै व्यजिज्ञपत्। सगरश्च तच्छ्रुत्वा शोकापन्नोऽप्यारब्धं यज्ञं परिसमाप्य गङ्गाया आनयने परं यत्नमाधात्। परं तु स भग्नोद्यमः परितप्यमानः कालेन दिवमारुक्षत्॥
तदनु तद्वंशीयाः परमसाहसिका दिलीपादयो राजानः सुरधुनीं भुवमवतारयितुं यावज्जीवं प्रायतिषत। तेऽपि विफलोद्यमा अभूवन्॥
_______________
१) प्रश्नाः—सगरात्मजानामुत्पत्तिं वर्णयत। कस्य यज्ञियमश्वं कः किं निमित्तं रसातलमनैषीत्? सगरात्मजास्तदन्वेषणाय किमकुर्वन्? कः कस्य हेतोस्तान् भस्मसादकार्षीत्? अंशुमान् कः? तेन कथं यक्षियोऽश्वः प्रत्यानीतः? गङ्गाया आनयनार्थे के यत्नमादधुः?
२) असोष्ट, अजनि, अनैषीत्, अदिक्षत्, अद्राक्षुः, अप्राक्षीत्, अभ्यधात्, आरुक्षत्—एषां लटि लङि च रूपाणि निर्दिशत॥
३) शत्रन्तैः रूपैः वाक्यानि पूरयत—
१. गुरवः शिष्यान् धर्मम् (अनुशास्)… सन्मार्गं नयन्ति।
२. बालिकाः पुस्तकानि (धा)… पाठालयं व्रजन्ति।
३. राजानः पुरा धरां (भृ)… प्रजा आनन्दयामासुः।
४. बालाः श्वभ्यो (भी)… सुदूरं पलायन्ते।
५. पक्षिणस्तण्डुलकणान् (दा)… स्वशाबकान् पोषयन्ति॥
४) तत्पुरुषसमासः—
१. शोकम् आपन्नः= शोकापन्नः।
२. शोकेन आकुलः = शोकाकुलः।
३. सगरस्य पुत्राः= सगरपुत्राः।
४. नगरे वासः= नगरवासः॥
५) कृत्प्रत्ययान्ताः—
१. शास्= (शास्ति) शिष्टः, शिष्टवान्,शिष्टा, शासित्वा, आशास्य शासितुम्, शासनीयम्, शासितव्यम्,
२. खन् = (खनति) खातः, खातवान् खात्वा, खनित्वा, निखाय, खानतुम, खननीयम्, खनितव्यम, खेयम्
३) दिश् = (दिशति) दिष्टः, दिष्टवान्, दिष्वा, आदिश्य, देष्टुम्, देशनीयम्, देष्टव्यम्॥
६) पर्यायाः— १. यज्ञःसवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः।
२. गरुत्मान् गरुडस्तार्क्ष्योवैनतेयः खगेश्वरः।
नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः॥
३. आत्मजस्तनयः सूनुः सुतः पुत्रस्तनूभवः॥
<MISSING_FIG href="../books_images/U-IMG-1733232948Screenshot2024-12-02125550.png"/>
<MISSING_FIG href="../books_images/U-IMG-1733125131Screenshot2024-12-02130825.png"/>३. भगीरथः
अथ गच्छति काले तस्मिन्नेव वंशे भगीरथो नाम राजा जज्ञे। स च स्वयंशीयानां सगरात्मजानां वृत्तान्तेन नितान्तं सन्तप्तो राज्यधुरां सचिवेषु निक्षिप्य स्वयं गङ्गानयनाय चिरमूर्ध्वबाहुर्मासाहारश्च भूत्वा घोरं तपोऽतप्यत॥
वर्षसहस्रान्ते च प्रीतो भगवान् पद्मयोनिस्तस्य पुरस्तादाविर्भूय—‘राजन् ! इक्ष्वाकुकुलभूषामणं ! साहसिन् ! प्रीतोऽस्मि। वरं वृणीष्व’— इत्यवोचत्। भगीरथश्च प्राञ्जलिर्भगवन्तमुपस्थाय— ‘भोः ! करुणानिधे ! परमेष्ठिन् ! चिरात् खलु भस्मीभूता मे प्रपिता-
महा निरुदकाः क्लिश्यन्ते। तेषां च तर्पणाय यथा भगवतीं व्योमगङ्गां भुवमानेतुं प्रभवेयं तथा मामनुगृहाण’— इति प्रार्थयत॥
तच्छ्रुत्वा प्रीतः पद्मयोनिः—राजन् ! फलिष्यति ते मनोरथः। किन्तु सुदुस्सहेन वेगेनावतरन्ती सा भुवं प्लावयिष्यति। तस्याश्च धारणाय न कश्चित् पशुपतेरन्यः क्षमते। तस्मात् तं शरणं व्रज’— इत्यावेद्यान्तर्हितः॥
ततो भगीरथः पशुपतेस्तोषणार्थमङ्गुष्ठाग्रेण तिष्ठन् निराहारो भूत्वा तीव्रं तपस्तेपे। संवत्सरान्ते च तस्य तपसा प्रीतः शङ्करः प्रादुर्भूय—‘राजन् ! अलं तपसा। शिरसा धारयिष्यामि शैलराजसुतामहम्’ — इत्युक्त्वा तिरोदधे॥
इत्थं लब्धवरो भगीरथः पुष्करसरितं स्तुतिभिरुपातिष्ठत। तत्क्षणमेव मुखरयन्ती दिगन्तानि महती सरिदाकाशात् पशुपतेः शिरसि पपात। महावेगा सा तरसैव शिरसा गृहीत्वा परमेश्वरं रसातलं नेतुमुदयुङ्क्त। पशूनां पतिः कपर्दी क्रुद्धस्तां जटया बबन्ध। तथा बद्धा सा तत्रैव निश्चलाऽभूत्॥
ततः पश्चाद्भग्नमानसो भगीरथः पुनरपि तीव्रेण तपसा शङ्करमाराधयामास। तेन प्रीतो भगवान् जटाबद्धां गङ्गां शनैर्बिन्दुसरः प्रति विससर्ज। विसृष्टायास्तस्याः सप्तधा भिन्नायाः काचिदेका शाखा महारथं भगीरथमनुगच्छन्ती प्रोवाह। महता वेगेन प्रवहन्ती सा जह्नुमहर्षेर्दीर्घं सत्रमुपासीनस्य यज्ञवाटं प्लावयामास। स च कुपितस्तां चुलुकीचकार॥
अनन्तरं भगीरथो भग्नमनोरथोऽप्यारब्धस्य कर्मणः परित्यागमयुक्तमाकलयन् भूयोऽपि शान्तो दान्तश्च भूत्वा देवान्
दध्यौ। तेन प्रीताः सुमनसो देवाः सद्यः समेत्य जह्नुमहर्षिमसान्त्वयन्। स तां श्रोत्राभ्यामुत्ससर्ज। अत एव गङ्गा ‘जाह्नवी’ इति व्यपदिश्यते॥
अथ गङ्गयाऽनुगतो भगीरथः पातालं प्रविश्य तत्र भस्मवयरूपेणावस्थितान् सगरात्मजान् गङ्गासलिलेन तर्पयित्वा दिवमारोपयत्। कृतार्थंचात्मानं मेने। तदनु गङ्गापि ‘भागीरथी’ इति प्रथामवाप॥
प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्ननिहता विरमन्ति मध्याः।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमजना न परित्यजन्ति॥
__________
१) प्रश्नाः—भगीरथः कः? स गङ्गां भुवमानेतुं किमकरोत्? स पद्मयोनेः कं वरं प्रार्थयत? पद्मयोनिः किं चकार? कथं पशुपतिस्तेन तोषितः? स तं किमब्रवीत्? महता वेगेन प्रवहन्ती गङ्गा कुत्र कुतः केन निरुद्धाभूत्? गङ्गायाः जाह्नवीव्यपदेशः कथं सिद्धः?
२) क्रियापदानां स्थाने यथायथं क्तान्तानि क्तवत्वन्तानि वा रूपाणि निवेश्य वाक्यानि रचयत—
१. स मांसाहारो भूत्वा घोरं तपोऽतप्यत।
२. तस्मात् तं शरणं व्रजेत्यावेद्य अन्तरधात्।
३. भगीरथः पुष्करसरितं स्तुतिभिरुपातिष्ठत।
४. महावेगा सा परमेश्वरं रसातलं नेतुमुदयुङ्क्त।
३) तत्पुरुषसमासः—
जटायां बद्धा = जटाबद्धा। भस्मनां चयः = भस्मचयः।
पशूनां पतिः = पशुपतिः॥ शैलानां राजा = शैलराजः॥
४) कर्मधारयसमासः—
१. शुभ्रं च तत् वस्त्रं च = शुभ्रवस्त्रम्।
२. कृष्णश्चासौ सर्पश्च = कृष्णसर्पः।
३. कृष्णा चासौ मृगी च = कृष्णमृगी।
४. शाप एव अग्निः = शापाग्निः।
५. शोक एव अनलः= शोकानलः॥
५) कृत्प्रत्ययान्ताः —
१. जन् =जा(जायते) जातः, जातवान्, जनित्वा, संजन्य, जनितुम्, जननायम्, जनितव्यम्।
२. प्री = (प्रीयते) प्रीतः प्रीतवान्, प्रीत्वा, सम्प्रीय, प्रेतुम्, प्रयणीयम्, प्रेतव्यम्॥
६) पर्यायाः— सन्ततिर्गोत्रजनन कुलान्यभिजनान्वयौ।
वंशोऽन्ववायः सन्तानः॥
<MISSING_FIG href="../books_images/U-IMG-1733236750Screenshot2024-12-02125550.png"/>
४. गगनप्रासादः
आसीत् क्वचित् कश्चिदलसो भैक्ष्योपजीवी भूसुरः। स एकस्मिन् दिने कस्यापि विप्रस्य गृहे भोजनार्थं गतः। तत्र तेनैकस्मिन् मृन्मये पात्रे तैलं प्रतिगृहीतम्॥
तदादाय कृतभोजनः स ब्राह्मणः प्रहृष्टहृदयः सायं स्वगृहं प्रस्थितः। किञ्चिद्दुरं गच्छति तस्मिन् सूर्योऽस्तं जगाम। अतः स रात्रौगमनमशक्यं मन्वानो मार्गपरिसरे स्थितं किञ्चिद्गृहमाससाद। आसाद्य च तत्र बहिर्वेदिकायां तैलपात्रं पादमूले निधायाशेत॥
शयानश्च गगने प्रासादमिव रचयन् मनस्येवमचिन्तयत्—‘अहो ! अद्याहं धन्यो धनिकश्चास्मि संवृत्तः। श्वः प्रभाते तैलमिदं
विक्रीय तल्लब्धेन धनेनैकामजां क्रेष्यामि। षड्भिर्मासैः सा पञ्चषान् शाबकान् प्रसोष्यते। ततस्तस्याः शाबकानां च विक्रयेण भूरि द्रविणं लप्स्यते। तेन धनेनैकां गां क्रेष्यामि। वर्षेणैकेन तस्या अपि सन्ततिर्भविष्यति। तस्याः पयो दधि घृतं च विक्रीय प्रभूतं वित्तमुपार्जिष्यामि। गां वत्सं च ततो विक्रेष्ये। तेनापि महद्धनमाप्स्यामि। तदनु भूयसीर्गाः क्रेष्यामि। तेनाहं धनाधिपः सम्पत्स्ये। पश्चान्महता मूल्येन तत्र तत्र बहून् भूभागान् परिक्रेष्ये॥
<MISSING_FIG href="../books_images/U-IMG-1733125526Screenshot2024-12-02131505.png"/>
एवं क्रमेणाहं प्रभूतेन वित्तेन सम्पन्नो राजतुल्यः क्षेत्रपतिर्भवेयम्। ततः पश्चाद्राजतैः स्तम्भैः सौवर्णर्गवाक्षैश्चोपशोभमानं सप्तभूमिकोपेतमासेचनकमतिविचित्रं रम्यं हर्म्यं कारयिष्यामि। राजा च तदा सादरं मां सभाजयिष्यति। स्वसुतां च मह्यं प्रदास्यन्स दूतानसमदन्तिकं प्रेषयिष्यति। तान् सर्वानहं सावहेलं प्रत्याख्यास्ये। ततः परं नरपतिरेव स्वयमुपेत्य मां प्रार्थयिष्यते।
तदाऽप्यहमनादरं दर्शयन्नन्ततस्तस्यार्थनामङ्गीकरिष्ये। सन्तुष्टान्तरङ्गो राजा तां मह्यंप्रदास्यति॥
निर्वृत्ते च विवाहे सा राजसुता सल्ँलपितुकामा स्मेरमुखी मदन्तिकमागमिष्यति। अहं च तामपाङ्गेन धीरं विलोकयिष्यामि। यदि सा जातु कुपिता किञ्चिदप्रियं वचो ब्रूयात् तदा तामेवं पादेन प्रहरिष्यामि’—इति चिन्तयन्नेव स ब्राह्मणः पादमाकृष्य बलवत् प्रजहार। तेन च पादप्रहारेण तत् तैलपात्रमधः पतितं तस्यमनोरथशतैः सह शतधा भग्नमभूत्॥
॥ मनोरथानामतटाः प्रवाहाः ॥
______________
१) प्रश्नाः— कः कं पादमूले निधाय कुत्र अशेत? शयानः किमचिन्तयन्मनसि? तथा चिन्तयन् स किमकरोत्? तेन किमभूत्?
२) अधोरेखाङ्कितानां पदानां स्थाने लङ् रूपाणि निवेशयत—
१. तत्र तेनैकस्मिन् पात्रे तैलं प्रतिगृहीतम्।
२. कृतभोजनः स सायं गृहं प्रति प्रस्थितः।
३. स मार्गपरिसरे स्थितं किञ्चित् गृहमासादितवान्॥
३) प्रयोग विपरिणमयत—
१. श्वः प्रातरजामेकां क्रेष्यामि।
२. षड्भिर्मासैः सा पञ्चषान् शाबकान् प्रसोष्यते।
३. तेनापि प्रभूतं वित्तमाप्स्यामि।
४. राजा सादरं मां सभाजयिष्यति॥
बहुव्रीहि समासः—
१. प्रहृष्टं हृदयं यस्य सः = प्रहृष्टहृदयः।
२. लब्धः वरः येन सः = लब्धवरः।
३. महान् वेगः यस्य सः = महावेगः।
४. प्राप्तं यौवनं यया सा =प्राप्रयौवना।
५) स्वगृहम्, राजसुता, राजतुल्यः, राज्यधुरा—एतेषां विग्रहवाक्यानि दर्शयत॥
६) हृष्, प्रसद्, वृत्— एषां क्तप्रत्ययान्तैः पदैः वाक्यानि रचयत॥
७) पर्यायाः—१. हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम्।
२. इच्छा काङ्क्षास्पृहेहा तृडवाच्छा लिप्सा मनोरथः।
कामोऽभिलाषस्तर्षश्च सोऽत्यर्थे लालसा द्वयोः॥
<MISSING_FIG href="../books_images/U-IMG-1733135331Screenshot2024-12-02125550.png"/>
५. हरिणाः
हरिणाः केचिदश्वा इव प्रांशवः केचिदजा व ह्रस्वाश्च। तेऽत्यन्तं भीरवः। तृणेऽपि चलति ते साध्वसेन सम्भ्रान्ताः पलायन्ते। हरिणाः प्रायेण शान्तेषु शाद्वलेषु च प्रदेशेषु निवसन्ति। ऋषय इमानाश्रमेष्वपत्यनिर्विशेषं पोषयन्ति॥
हरिणानां चरणाः कृशा असुन्दराश्च। अथापि ते शीघ्रतरं धावितुं शक्नुवन्नि। तेषां लोचने कर्णान्तविस्तृते। हरिणीनां शृङ्गाणि न विद्यन्ते। हरिणानां शृङ्गाणि तु बहुशाखानि मनोहराणि च। इत्थं हरिणाश्चारुरूपा मृगाः। ते कदाचिदात्मसौन्दर्येण दृप्ता भवन्ति। तथा हि—
एणः कश्चित् कदाचिज्जलं पिबन्नात्मनः प्रतिबिम्बं जले ददर्श। दृष्ट्वा च मनस्यचिन्तयत्—‘अहो ! कियच्चारवो मे शृङ्गशाखाः !
३) नञ् तत्पुरुषः—
१. न सुन्दरः = असुन्दरः। ४. न सत्यम् = असत्यम्
२. न धर्मः = अधर्मः। ५. न ऋतम् = अनृतम्।
३. न आर्यः = अनार्यः॥ ६. न धीरः = अधीरः॥
४) नञ् बहुव्रीहिः—
१. न विद्यते तटं येषां ते = अतटाः।
२. न विद्यते पुत्रः यस्य सः = अपुत्रः।
३. न विद्यते पापं यस्य सः =अपापः॥
५) भ्रम्, विस्तृ, लग्—एतेषां क्तप्रत्ययान्तानि रूपाणि निर्दिशत॥
६) पर्यायाः— १. मृगे कुरङ्गवातायु हरिणाजिनयोनयः।
२. सुन्दरं रुचिरं चारु सुषेमं साधु शोभनम्।
कान्तं मनोरथं रुच्यं मनोश मञ्जु मञ्जुलम्॥
३. अधीरे कातरस्त्रस्त्रौ भीरुभीरुकभीलुकाः॥
<MISSING_FIG href="../books_images/U-IMG-1733134590Screenshot2024-12-02125550.png"/>
६. बिडालः क्रोष्टा च
कश्चिद्विडालः क्रोष्टा च मैत्रीं कृत्वा परस्परम्।
एकदा पर्वसमये सेतुस्नानाय जग्मतुः॥ १
वनमार्गेण गच्छन्तो धर्मतप्तकलेबरौ।
कचिच्छायामुपाश्रित्य सुस्थौ सल्ँलेपतुर्मिथः॥ २
क्रोष्टा बिडालमब्रूतसखे ! वनमिदं खलु।
यदि व्याधः समागच्छेत् त्वयात्मा रक्ष्यते कथम्?॥ ३
कांस्कानुपायाञ्जानीषे?का विद्याः शिक्षितास्त्वया?।
इति पृष्टो बिडालस्तं क्रोष्टारं प्रत्यवोचत॥ ४
युक्तिरेका मयाऽधीता न त्वन्या ज्ञायते मया।
वृक्षमारुह्य जीवेयं यदि व्याधः समापतेत्॥ ५
तस्य तद्वचनं श्रुत्वा विहसञ्जम्बुकोऽवदत्।
सखे ! त्वामनुशोचामि तपस्वी त्वं विपत्स्यसे॥ ६
मया पश्य विदग्धेन युक्तयःशिक्षिताः शतम्।
येन केनाप्युपायेन रक्ष्येतात्मा मया द्रुतम्॥ ७
<MISSING_FIG href="../books_images/U-IMG-1733134432Screenshot2024-12-02154328.png"/>
द्वित्रानुपायानधुना शिक्षये त्वां यदीहसे।
ज्ञातव्या बहवो विद्याः किञ्चिज्ज्ञत्वं भयावहम्॥ ८
इति ब्रुवाणे गोमायौ स्नेहार्दंसरसं वचः।
अकस्मादागतस्तत्र धनुरादाय लुब्धकः॥ ९
तं विलोक्य स मार्जारो व्याधेनालक्षितो द्रुतम्।
भूरुहाग्रं समारुह्य विटपान्तर्न्यलीयत॥ १०
लुब्धको जम्बुकं दृष्ट्वा तस्यान्तिकमभिद्रुतः।
इतिकर्तव्यतामूढः क्रोष्टा व्यामोहमव्रजत्॥ ११
शते युक्तिषु का योज्या कतमा श्रेयसी भवेत्।
किं नु धावामि किं युध्ये किं जङ्गम्ये किमुत्प्लवे॥ १२
किं शये मृतवद्भूमौकिं नु वृक्षं समाश्रये।
इत्थं विकल्पयन् क्रोष्टा तस्थौ तत्रैव मोहितः॥ १३
लुब्धको द्रुतमभ्येत्य धनुषाऽऽहत्य जम्बुकम्।
गृहीत्वा हर्षभरितो न्यवर्तत गृहं प्रति॥ १४
बालाः पश्यत बह्वीभिर्विद्याभिः किं प्रयोजनम्?।
सङ्गता कार्यकाले या सैव विद्या प्रकीर्तिता॥ १५
__________________
१) प्रश्नाः— कौ कदा सेतुस्नानाय जग्मतुः?कुत्र सुस्थौ तौ मिथः सल्ँलेपतुः? क्रोष्टा बिडालं किमब्रूत? बिडालः क्रोष्टारं किं प्रत्यवोचत? तस्य तद्वचनं श्रुत्वा विहसन् जम्बुकः किमवदत्? तथा ब्रुवाणे तस्मिन् कस्तत्र समागतः? तं विलोक्य विडालो जम्बुकश्चकिमकुरुताम्? अनया कथया किं गृह्यते युष्माभिः?
२) प्रयोगं विपरिणमयत—
१. कश्चित् बिडालः क्रोष्टा च सेतुस्नानाय जग्मतुः।
२. तौ क्वचिच्छायावृक्षमुपाश्रित्य मिथः सल्ँलेपतुः।
३. यदि व्याधः समागच्छेत् त्वया कथमात्मा रक्ष्येत।
४. युक्तिरेका मयाऽधीता नत्वन्या ज्ञायते मया॥
३) सहपूर्वपदो बहुव्रीहिः—
१. रसेन सह वर्तत इति = सरसम्।
२. आदरेण सह वर्तत इति =सादरः।
३. पुत्रेण सह वर्तत इति = सपुत्रः।
४. भार्यया सह वर्तत इति= सभार्यः॥
४) तप्, वद्, दह्— एषां क्त्वाप्रत्ययान्तानि, अधि + इ, पलाय्, निलीय्—एषां ल्यप्प्रत्ययान्तानि च रूपाणि कथयत॥
५) पर्यायाः—
१) स्त्रियां शिवा भूरिमाय गोमायु मृगधूर्तकाः।
शृगाल वञ्चक क्रोष्टु फेरु फेरव जम्बुकाः।
२) व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः॥
————————————
७. श्रीकण्ठः शितिकण्ठश्च
आस्तां कस्मिंश्चिदग्रहारे श्रीकण्ठ इति शितिकण्ठ इति च द्वौ सहाध्यायिनौ सखायौ। तयोः श्रीकण्ठो जन्मना धनिकः। शितिकण्ठस्त्वकिञ्चनः। श्रीकण्ठो रमणीयं सौधमधिवसति। प्रत्यहमश्वशकटेन पाठालयं गच्छति। शितिकण्ठस्तु उपनगरं पित्रा सहैकस्मिन् कुटीरे निवसति। तस्य माता बाल्य एव दिवं गता। स एक एव पुत्रः। अतो गृहकार्यमपि सर्वं तेनैव कर्तव्यमासीत्। अथापि स स्वकीयान् पाठान् पठन् यथाकालं विद्यालयं गत्वा सश्नद्धं विद्यामभ्यास्थत्॥
एकस्मिन्नहनि मध्याह्ने विश्रान्तिवेलायां श्रीकण्ठः शितिकण्ठश्च पाठालये किमपि संभाषमाणावास्ताम्। तत्प्रसङ्गाच्च श्रीकण्ठः
शितिकण्ठमाह— ‘सखे ! त्वमतीव दुर्गतोऽसि। भृशं त्वामनुशोचामि। किं न त्वं धनिको भवितुमिच्छसि ? अहं तावत् सुखी वर्ते। मम गृहे द्वौ भृत्यौ स्तः। यद्यदाज्ञापयामि तत् सर्वं तौ कुरुतः। न किञ्चिदपि गृहे मे कर्तव्यमस्ति। त्वगृहे तु सर्वं कर्म त्वयैव क्रियते। नैकोऽपि भृत्यस्तवास्ति’—इति॥
<MISSING_FIG href="../books_images/U-IMG-1733136767Screenshot2024-12-02162153.png"/>
शितिकण्ठः—सखे ! इदं तावदज्ञानेनोदीरितं त्वया। ममापि सन्त्यष्टौ भृत्याः। ते मद्वचनमनुवर्तन्ते॥
श्रीकण्ठः— सौम्य ! त्वं सत्यवादीति सर्वे त्वां स्तुवन्ति। तस्यैव हेतोरुपाध्यायोऽपि त्वयिनितरां स्निह्यति। कथं त्वमद्य मिथ्यावादी संवृत्तः?
शितिकण्ठः—सखे ! नैव मया मिथ्योक्तम्। सत्यं सन्त्येव ममाष्टौ भृत्याः॥
श्रीकण्ठः—भद्र ! त्वमकिञ्चन इति सर्वो जानाति। एकमपि भृत्यं भृतिदानेन नियोक्तुं न शक्तस्त्वम्। कथङ्कारमष्टौ भृत्यान्नियोक्ष्यसे। कथमिदं ते वचः श्रद्धातव्यम् ?
इदमनयोः संभाषणमुपाध्यायो भित्यन्तरितः शृण्वन्नासीत्। सोऽपि शितिकण्ठस्य वचनमसत्यं मन्यमानः सहसा सविधमागत्य कुपित इव शितिकण्ठमब्रवीत्—‘अरे! तवाष्टौ भृत्याः सन्तीत्यविश्वसनीयमिदं वचः। किमित्येवं मिथ्या भाषसे? किं न जानासि विनोदार्थमप्यसत्यं न वक्तव्यमिति?
शितिकण्ठः स्मयमानः प्राह—‘प्रसीदत्वाचार्यः। नैव मिथ्या भाषितं मया। सत्यमेवसन्ति ममाष्टौ भृत्याः। श्रीकण्ठस्य भृत्याः कदाचित् कार्यान्तरेण यत्र कुत्रापि गच्छेयुः।कदाचिदालस्येन कर्मापि न कुर्युः। मम भृत्यास्तु न तादृशाः। सततं ते ममाज्ञामनुपालयन्ति। न च ते मां विहाय क्षणमप्यन्यतो गच्छन्ति। तेभ्यो मया काकिण्यपि न वेतनं दीयते॥
उपाध्यायः—वत्स! हृदयङ्गम उपन्यासः। ब्रूहि तावत् के ते तव भृत्याः?
श्रीकण्ठः—साधु सखे ! तेषां नामानि ब्रूष्व॥
शितिकण्ठः — आचार्य ! सत्यमुक्तं मया। मम सन्त्यष्टौ भृत्याः। ते च नामतः मम द्वौ पादौ द्वौ हस्तौ द्वे नेत्रे, द्वे श्रोत्रे च। अष्टावेते भृत्याः सविनयं मदुक्तमनुतिष्ठन्ति। यदाऽहं कुत्रचिज्जिगमिषामि तदा मम पादावाज्ञापयामि—‘तत्र मां नयतम्’ इति। तौ च सत्वरमेव मां नयतः। एवं यदा किंचिद्वस्तु जिघृक्षे तदा मम हस्तौ यदा किंचिद्दिदृक्षे तदा नेत्रे, यदा किमपि शुश्रूषे तदा श्रोत्रे चादिशामि। सत्वरमेतैस्तत्तत् कार्यं क्रियते। नापेक्ष्यते द्विस्त्रिरुक्तिः। यद्यत् श्रीकण्ठस्य भृत्याः कुर्वन्ति तत् सर्वमेते कर्तुं प्रभवन्ति॥
श्रुत्वेदं वचनमुपाध्यायश्चमत्कृतः परं प्रसन्नः प्रत्यवोचत्—‘वत्स ! साधूक्तं त्वया। ईदृशा एव भृत्याः प्रशस्यन्ते। यावदिमानेव भृत्यानादरिष्यसे तावत् त्वं श्रेयोऽवाप्स्यसि।
—————————
१) प्रश्नाः—श्रीकण्ठः शितिकण्ठश्च कीदृशौ बालौ? कस्तयोः जीविकायाः प्रकारः? तयोः कुत्र कीदृशं संभाषणं प्रवृत्तम्? कुपित उपाध्यायः शितिकण्ठं किमवोचत्? शितिकण्ठस्याष्टौ भृत्याः के?
२) शत्रन्तैः ज्ञानजन्तैर्वा रूपैः वाक्यानि पूरयत—
१) ते बालाः (संभाष्)… ( हस्)… च पथि गच्छन्ति।
२) एतेमृगा उन्नमितैककर्णा गानं (शृ)… आसते।
३) स्त्रियः पतीनां वचनानि (कृ)… तान् प्रीणयन्ति।
४) पक्षिणो धान्यकणान् (ग्रह् )… स्वनीडं गच्छन्ति॥
३) तत्पुरुषसमासः—
१) अह्नः मध्यम् = मध्याह्नः। २) रात्रेः मध्यं = मध्यरात्रः। ३) कायस्य पूर्वे= पूर्वकायः॥
४) अव्ययीभावसमासः—
१) कालमनतिक्रम्य = यथाकालम्। २) दिने दिने = प्रतिदिनम्।
३) अहनि अहनि = प्रत्यहम्। ४) नगरस्य समीपे = उपनगरम्॥
५) नियुज्, श्रु, ब्रू—एषां तुमुन्प्रत्ययान्तैः,वाक्यानि रचयत॥
६) पर्यायाः—
१) इभ्य आढ्यो धनी स्वामी।
२) भृत्य दासेय दासेर दास गोप्यक चेटकाः।
नियोज्य किङ्कर प्रैष्य भुजिष्य परिचारकाः।
३) भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्॥
<MISSING_FIG href="../books_images/U-IMG-1733136990Screenshot2024-12-02125550.png"/>
८. भल्लूकः
भल्लूकः आरण्यको जन्तुः। मन्ये युष्माभिर्न भल्लुको दृष्टपूर्वः। अत्र पश्यत, एतद्भल्लुकस्य चित्रम्। भल्लुकस्य शरीरं दीर्घैःकर्कशैश्च रोमभिर्व्याप्तम्। तस्याङ्गानि पीवराणि। पादेषु निशिताग्राः पञ्च नखाः सन्ति। अतस्ते सुतरां भयङ्करा जन्तवः॥
भल्लूका नानाजातीयाः सन्ति। केचिद्गौराः, अपरे केचिद्रक्ताः, इतरे केचित् कृष्णाश्च। अयमीदृशो भेदस्तन्निवासदेशीयां शीतोष्णस्थितिं निमित्तीकृत्य समुत्पन्नः॥
<MISSING_FIG href="../books_images/U-IMG-1733137172Screenshot2024-12-02162828.png"/>
अस्माकं देशे प्रायेण कृष्णभल्लूका एवोपलभ्यन्ते। केचिद्भल्लूका मनुष्या इव द्वाभ्यां पादाभ्यां चलन्ति। तादृशास्ते वृक्षानारोढुं प्रभवन्ति॥
भल्लूकाः प्रायेण सस्याशिनः। कदाचित्ते मांसमप्यश्नन्ति। तेषां प्रधानभूत आहारः पुष्पाणि फलानि च। ते मद्यपानेऽत्यन्तं लोलुपाः। मधुपानेऽप्यतिमहती लालसा तेषाम्। यदि कुत्र
चिद् वृक्षस्याग्रे मधुकोशं पश्यन्ति तर्हि ते तमधः पातयितुं सर्वप्रकारैर्यतन्ते। तमपातयित्वा न तस्माद्देशान्निर्गच्छन्ति। अपि चैते वल्मीकानि भञ्जयन्तस्तद्द्वारे मुखं निधाय तत्रत्यान् वम्रीन्नासिकया आकृष्य बहिरुच्छ्वसन्ति। इत्थं भल्लूकानां कर्माणि विनोदावहानि॥
भल्लूकान् बाल्ये गृहीत्वा जनाः शिक्षयन्ति। तथा शिक्षितास्ते श्वानइव मनुष्याणामाज्ञामनुसरन्ति। अशिक्षिता भल्लूकास्तु प्राधान्येन मनुष्यानेवहिंसन्ति। भल्लूकस्य गोचरे पतितो जनः सजीवो न निवर्तेत॥
———————————
१) प्रश्नाः— कुतो भल्लूकाभयङ्कराः? नानाजातीया भल्लूकाः के? किन्निमित्तः स तेषां भेदः। कीदृशा भल्लूका वृक्षानारोढुं प्रभवन्ति? कानि तेषां विनोदावहानि कर्माणि? शिक्षिता अशिक्षिताश्च भल्लूकाः किं कुर्वन्ति?
२) निर्दिष्टानां शब्दानां परिनिष्ठितैः रूपैः वाक्यानि पूरयत—
१) मनुष्या वयं (द्वि )… पादाभ्यां ( गम् ) …।
२ ) ( करुणाशालिन् ) … जनाः (साधु) … मृगान् न (हिस्)… ।
३) भल्लूकस्य शरीरं (दीर्घ)… ( कर्कश )… च रोमभिर्व्याप्तम्॥
३) निशिताग्राः, सजीवाः अशिक्षिताः—विग्रहवाक्यानि कथयत॥
४) पूर्वं दृष्टः = दृष्टपूर्वः। एवं श्रुतपूर्वः, उक्तपूर्व इत्यादयो द्रष्टव्याः॥
५) बहुव्रीहिः— एको वा द्वौ वा एकद्वाः। एवं द्वित्राः, त्रिचतुराः, चतुःपञ्चाः, पञ्चषाः, पट्सताः इत्यादयो द्रष्टव्याः॥
६) पर्यायाः—
१) ऋक्षाच्छभल्ल भल्लूकाः।
२) दारुणं भीषणं भीष्मं घोरं भीमं भयावहम्।
भयङ्करं प्रतिभयं भैरवं च भयावहम्॥
<MISSING_FIG href="../books_images/U-IMG-1733137338Screenshot2024-12-02125550.png"/>
९. काष्ठविक्रेता कुठारश्च
कस्मिंश्चिद् ग्रामे कुठारैकजीवनः कश्चित् काष्ठविक्रेताऽवर्तत। स प्रत्यहं कुठारच्छिन्नानि काष्ठानि विक्रीय तद्धनेन जीविकामकरोत्। एकदा काष्ठानि च्छिन्दतस्तस्य कुठारो हस्तात् स्रस्तः सहसा नद्यां पपात। स तत्रावतीर्य तं ग्रहीतुं नाशक्नोत्। अधिकूलं स्थितः उच्चैःकारं चक्रन्द॥
<MISSING_FIG href="../books_images/U-IMG-1733138052Screenshot2024-12-02164347.png"/>
तस्य करुणं क्रन्दनं श्रुत्वा भगवान् वरुणस्तस्य पुरस्तादाविर्भूय तंशोककारणमपृच्छत्। स च यथावृत्तमात्मनः कुठारस्य वृत्तान्तं विज्ञापयामास॥
तदाकर्ण्य वरुणो जले निमज्य राजतमेकं कुठारमानीय तमप्राक्षीत् — ‘किमयं ते कुठारः?’—इति। स प्रत्यवोचत्—‘नायं मदीयः’ इति। ततो वरुणः पुनरपि निमज्य सौवर्णमेकं कुठारमानीयतस्मा अदर्शयत्। ‘नायमपि मदीयः’ इति तेनाभ्यधायि॥
तच्छ्रुत्वा भगवान् भूयोऽपि जले निमग्नस्तदीयमायसं कुठारमाहत्य तस्मै ददौ। तल्लाभेन परं प्रमोदमुपगतः स काष्ठविक्रेता कृतज्ञतामाविष्कुर्वन् वरुणं बहुधा तुष्टाव। वरुणोऽपि तस्य सत्यवचसा प्रीतः सौवर्णराजतावुभावपि कुठारौ तस्मै दत्त्वा तिरोदधे॥
उदन्तमेनं तस्य प्रातिवेशिकः कश्चिदाकार्ण्य स्वयमपि हैमं कुठारं लब्धुमिच्छन् गृहादेकमायसं कुठारं गृहीत्वा तस्या एव नद्यास्तीरं जगाम॥ गत्वा च तत्र स्वीयं कुठारं नद्यां प्रक्षिप्योच्चैश्चुक्रोश॥
तन्निशम्य तत्राविर्भूतो वरुणः तस्य शोकहेतुं विज्ञाय नद्यां पतितः सद्य एव हैमं कुठारमानीय—‘अप्ययं भवदीयः कुठारः?’ इत्यप्राक्षीत्। बलवता लोभेनाकृष्टः स पुरुषः—‘आम्, अयमेव मदीयः, मदीय एवायम्’ इति ब्रुवन् तस्य हस्तात् तं बलादाक्रष्टुमयतिष्ट।
भगवान् वरुणस्तं लोभाविष्टमनृतभाषिणं विनिन्दन् झटिति कुठारेण सह नद्यां निममज्ज। हैमं कुटारं लिप्समानस्य तस्य आयसः कुठारोऽपि नष्टः। अतोऽत्याशया मिथ्या वदतो जनस्य स्थितोऽप्यर्थो विनश्यति॥
_______________
१) प्रश्नाः—कः किं निमित्तं नद्यास्तीरे स्थित उच्चैःकारं चक्रन्द? वरुणस्तस्य पुरस्तादाविर्भूय किमपृच्छत्? अनन्तरं किमभूत्? उदन्तमेनमाकर्ण्य प्रातिवेशिकः किं चकार? स कीदृशं फलमलभत?
२) कुठारच्छिन्नानि यथावृत्तम्, तल्लाभेन, लोभाविष्टः, शोकहेतुः, एतेषां विग्रहवाक्यानि निर्दिशत॥
३) अव्ययीभावसमासः—
१) कुले इति = अधिकूलम्।
२) काश्याम् इति = अधिकाशि।
३) ग्रामस्य समीपे = उपग्रामम्।
४) नद्याः समीपे = उपनदि॥
४) सन्प्रत्ययान्ताः—
१) लब्धुमिच्छति = लिप्सते।
२) आप्तुमिच्छति = ईप्सति।
३) मातुमिच्छति = मित्सति।
४) दातुमिच्छति = दित्सति—ते।
५) इत्थङ्कारम्, कथङ्कारम्, उच्चैःकारम्—एतैः पदैः वाक्यानि रचयत।
६) कृत्प्रत्ययान्ताः—
१) छिद् = (छिनत्ति) छिन्नः, छिन्नवान्, छित्वा, विच्छिद्य, छेत्तुम्, छेदनीयम्, छेत्तव्यम्, छेद्यम्।
२) भिद्=(भिनत्ति) भिन्नः, भिन्नवान्, भित्वा, विभिद्य, भेत्तुम्, भेदनीयम्, भेत्तव्यम्, भेद्यम्॥
७) पर्यायाः—
१) द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः।
२) काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित् स्त्रियाम्।
३) प्रवेता वरुणः पाशी यादसाम्पतिरप्पतिः॥
<MISSING_FIG href="../books_images/U-IMG-1733137581Screenshot2024-12-02125550.png"/>
<MISSING_FIG href="../books_images/U-IMG-1733138382Screenshot2024-12-02164927.png"/>१०. मृगः काको जम्बुकश्च
अस्ति मगधदेशे चम्पकवती नामारण्यानी। तस्यां चिरान्महता स्नेहेन मृगकाकौ निवसतः। स च मृगः स्वेच्छया भ्राम्यन् हृष्टपुष्टाङ्गः केनचिज्जम्बुकेनावलोकितः। तं दृष्ट्वाजम्बुकोऽचिन्तयत्—‘आः ! कथमेतन्मांसं सुललितं भक्षयामि। भवतु, विश्वासं तावदुत्पादयामि’—इत्यालोच्योपगम्याब्रवीत्—‘मित्र! कुशलं ते?’ मृगेणोकम्—‘कस्त्वम् !’ स ब्रूते—‘क्षुद्रवुद्धिनामा जम्बुकोऽहम्। अत्रारण्ये बन्धुहीनो मृतवन्निवसामि। इदानीं त्वां मित्रमासाद्य पुनः सबन्धुर्जीवलोकं प्रविशेऽस्मि। अधुना तवानुचरेण मया सर्वथा भवितव्यम्। मृगोणोक्तम्—‘एवमस्तु’॥
ततः पश्चादस्तं गते सवितरि तौ मृगस्य वासभूमिं गतौ। चम्पकवृक्षशाखायां सुबुद्धिनामा काको मृगस्य चिरमित्रं निवसति। तौ दृष्ट्वा काकोऽवदत्—‘सखे ! चित्राङ्ग ! कोऽयं द्वितीयः?’। मृगो ब्रूते—‘जम्बुकोऽयम्। अस्मत्सख्यमिच्छन्नागतः। काको ब्रूते—‘मित्र ! अकस्मादागन्तुना सह मैत्री न युक्ता॥
तच्छ्रुत्वाजम्बुकः सकोपमाह—‘मृगस्य प्रथमदर्शनदिने भवानप्यागन्तुरेवाभूत्। तत् कथं भवता सहैतस्य स्नेहानुवृत्तिरुत्तरोत्तरं वर्धते। यथायं मृगो मम बन्धुस्तथा भवानपि। मृगोऽब्रवीत्—‘किमनेनोत्तरेण? सर्वैरेकत्र विश्रम्भालापैः सुखिभिः स्थीयताम्। काकेनोक्तम्—‘एवमस्तु’॥
अथः प्रातः सर्वे यथाभिमतदेशं गताः। एकदा निभृतं शृगालो ब्रूते—‘सखे ! चित्राङ्ग ! अस्मिन् वनैकदेशे सस्यपूर्णं क्षेत्रमस्ति। तदहं त्वां नीत्वा दर्शयामि’।तथा कृते सति स मृगः प्रत्यहं तत्र गत्वा सस्यं खादति। अथ क्षेत्रपतिना तत् दृष्ट्वा पाशो नियोजितः। अनन्तरं पुनरागतो मृगः पाशैर्बद्धोऽचिन्तयत्—‘को मामितः कालपाशादिव व्याधपाशात् त्रातुं मित्रादन्यः समर्थः। तत्रान्तरे जम्बुकस्तत्रागत्योपस्थितोऽचिन्तयत्—‘फलितः तावदस्माकं कपटप्रबन्धेन मनोरथः। एतस्योत्कृत्यमानस्य मांसासृग्लिप्तान्यस्थीनि मयावश्यं प्राप्तव्यानि। तानि च बाहुल्येन भोजनानि भविष्यन्ति॥
मृगो जम्बुकमागतं दृष्ट्वोल्लसितो ब्रूते—‘सखे! छिन्धि तावन्मम बन्धनम्। सत्वरं त्रायस्व माम्’। जम्बुको मुहुर्मुहुः
११. कालिदासस्य सूक्तयः
पुराणमित्येव न साधु सर्वंन चापि काव्यं नवमित्यवद्यम्।
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः
॥१॥
ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणं कुरुते।
प्रायः स्वं महिमानं लोभात् प्रतिपद्य ते जन्तुः
॥२॥
लब्धास्पदोऽस्मीति विवादभीरोस्तितिक्षमाणस्य परेण निन्दाम्।
यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति ॥३॥
भवन्ति नम्रास्तरवः फलोद्गमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम्॥
स्त्रीणामशिक्षितपटुत्वममानुषीषु
सन्दृश्यते किमुत याः प्रतिबोधवत्यः।
प्रागन्तरिक्षगमनात् स्वमपत्य जात-
मन्यैर्द्विजैः परभृताः खलु पोषयन्ति॥ ॥५॥
सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतींविशङ्कते।
अतः समीपे परिणेतुरिष्यते प्रियाऽप्रिया वा प्रमदा स्वबन्धुभिः॥
शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृताऽपि रोषणतया मा स्म प्रतीपं गमः।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः॥७॥
१) प्रश्नाः— “सन्तः परीक्ष्यान्यतरद्भजन्ते” कयोरन्यतरत्?" प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते जन्तुः" किमत्रोदाहरणम?" तं ज्ञानपण्यं वणिजं वदन्ति" कम्? “स्वभाव एवैष परोपकारिणाम्" कः? स्त्रीणामशिक्षितपटुत्वे किञ्चिदुदाहरणं दर्शयत। अतः समापे परिणेतुरिष्यते" का? कैः? कुतः? “यान्त्येवं गृहिणीपदं युवतयः" कथम्? वामाः कीदृश्यः?
२) सप्तमश्लोकगतानि वाक्यानि प्रयोगान्तरतया विपरिणमयत॥
३) लब्धास्पदः, विवादभीरुः, ज्ञानपण्यः फलोद्गमैः, अनुद्धताः, सत्पुरुषाः — एषां विग्रहवाक्यानि निर्दिशत॥
४) सन्नन्ताः—
श्रोतुमिच्छति =शुश्रूषते। जेतुमिच्छति = जिगीषति।
ज्ञातुमिच्छति = जिज्ञासते। पातुमिच्छति = पिपासति।
द्रष्टुमिच्छति = दिदृक्षते। भवितुमिच्छति = बुभूषति॥
५) कृत्प्रत्ययान्ताः
१) वस्=(वसति) उषितः, उषितवान् उषित्वा, अध्युष्य, वस्तुम्, वसनीयम्,वस्तव्यम्।
२) वद् = (वदति) उदितः, उदितवान्, उदित्वा, अनूद्य,वदितुम्, वदनीयम्, वदितव्यम्॥
६) जुगुप्सते, तितिक्षते, मीमांसते,चिकित्सति, विचिकित्सति एतैः वाक्यानि रचयत॥
७) पर्यायाः—
१) समग्रं सकलं सर्वे समस्तं निखिलाखिले।
समं कृत्स्नमशेषं च विश्वं पूर्णमनूनकम्॥
२) नासत्यावश्विनौ दस्त्रौ स्ववैद्यावश्विनीसुतौ॥
३) पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता॥
<MISSING_FIG href="../books_images/U-IMG-1733138960Screenshot2024-12-02125550.png"/>
१२ . पिता पुत्रो गर्दभश्च
जातु कश्चित् अकिञ्चनः स्थविरः पुत्रदाराणां कृते वस्त्राणि क्रेतुमुपायान्तरमपश्यन् स्वीयं गर्दभं विपण्यां विक्रेतुमैहत। अथ स गर्दभमादाय पुत्रेण सह नगरीं प्रतस्थे। पुत्रं गर्दभं च पुरोभागे कृत्वा यावत् स किञ्चित् दूरं गच्छति तावत् कश्चित् पान्थस्तमवलोक्य—“हन्त ! वृद्धोऽयं बुद्धिशून्यो मध्याह्नसमये सन्तप्तपांसुपटले पथि पद्भ्यां चरन् स्वकीयं गर्दभमनारोपितभारं नयति। महच्चित्रमिदम् ! “—इति स्वयमवोचत्। तदाकर्ण्य स वृद्धः स्वतनयं खरमारोप्य चलितः॥
अथ गर्दभमारुह्य गच्छन्तं तस्य तनयं वीक्ष्य कश्चिदन्यः पुरुषः—‘अरे ! दुष्टवटो ! किमेतत् ? तव स्थविरः पिता पादचारी क्लेशेन चलति। त्वं च सानन्दं गर्दभेन गच्छसि। अपि त्वमेतदुचितं मन्यसे ! नूनमयं कलिकालस्यैव महिमा। न किलाद्यत्वे मान्यान् मानयन्ति लोकाः। नैतादृशो दुराचारः पुराकाले दृष्टः। को हि मतिमानीदृशं कर्म कुर्वीत’—इत्युच्चैरभाषत। तन्निशम्य स वृद्धो गर्दभात् पुत्रमवरोप्य स्वयमारुरोह॥
अनन्तरं तौ कमपि ग्राममासाद्य त्वरया जग्मतुः। तदा मार्गोपकण्ठे स्थितौ द्वौ पुमांसौ गर्दभस्थं वृद्धमवलोक्य समभाषेताम्—‘सखे! अपि नाम त्वया कुत्रचिदवलोकितमीदृशं कुत्सितं कर्म? यदयं जडो जरठः खरमध्यासीनः शिशुमात्मजं पादचारिणं नयति। अयं नाम दयालुः पुत्रवत्सलो जनकः। पश्यायमर्भकः प्रक्षीणगात्रः परिम्लानवक्त्रः पदात् पदमपि चलितुं न शक्नोति।
अहो ! कथमस्य मनसि नोत्पद्यते कारुण्यम् !’ इति। वृद्धोऽपि तमुपालम्भमाकर्ण्य लज्जितः पुत्रमपि गर्दभस्योपरि निवेशयामास॥
<MISSING_FIG href=”../books_images/U-IMG-1733139536Screenshot2024-12-02170831.png”/>
ततस्तौ ग्रामस्य मध्यभागं प्रापतुः। तत्र स्थितो ग्रामणीः स्थविरमवलोक्य—‘भो ! महाभाग ! अप्ययं गर्दभस्त्वदीयः?’—इत्यपृच्छत्। स्थविरः प्रत्यवोचत्—आम्; कः सन्देहः? ममैवायं गर्दभः। पञ्चभ्यो वर्षेभ्यः प्रागस्य माता मया क्रीता। तया सह तदीयोऽयं वत्सोऽपि लब्धः। स च मयैतावन्तं कालं परिपोषितो मदीय एव न त्वन्यदीयो भवितुमर्हति’—इति। तच्छ्रुत्वा ग्रामणीरभाणीत्—‘महाभाग ! तथा चेत् युवयोर्द्वयोरारोहणेन प्रक्षीणसत्त्वं मुमूर्षुं तपस्विनमिमं गर्दभं दयया किञ्चिद्दूरं युषां वहतम्। अन्यथा महानधर्मः स्यात्’—इति।
ततस्तावल्पमेधसौ द्वावप्यवरुह्य गर्दभस्य चरणान् दृढं बद्ध्वा कमपि वेणुदण्डं तच्चरणान्तरालं प्रवेश्य तं स्कन्धमारोप्य जग्मतुः। नातिदूरे ग्रामाद्बहिरासीत् कश्चित् संक्रमीथः। गर्दभमादाय मध्येसंक्रमीथं व्रजतोस्तयो र्मूखतां निन्दन्तो जनाः सहस्तताडमुच्चैरहासिषुः। तेन हस्तताडनकोलाहलेन भयाकुलो गर्दभः पादान् निरसितुमारभत। गर्दभस्य व्याकुलीभावेन भूयो ववृधे जनानां कलकलः। अथ स गर्दभो बलाद्गात्रविक्षेपं कुर्वन् नद्यामपप्तत्। पितापुत्रापि बलादाकृष्टौ देवयोगान्नद्यामपतितौ कथमपि प्राणावशिष्टौ गृहं प्रति न्यवर्तेताम्॥
सर्वथा स्वहितमाचरणीयं किं करिष्यति जनो बहु जल्पः।
विद्यते न खलु कश्चिदुपायः सर्वलोकपरितोषकरो यः॥
————————
१) प्रश्नाः—स्थविरः किमर्थंगर्दभंविपण्यां विक्रेतुमैहत? ततः किमकरोत्? पान्थस्तं किमवोचत्? अन्यः पुरुषस्तस्य तनयं किमभाषत? द्वौ पुमांसौ किं समभाषेताम्? ग्रामण्यः स्थविरस्य च मिथः कीदृशं सम्भाषणं प्रवृत्तम् ! पितापुत्रौ किमकुरुताम्? ततः किं जातम्? अनेन किं गृह्यते युष्माभिः?
२) पुत्रदाराः, दुराचारः, अकिञ्चनः, प्रक्षीणगात्रः, अल्पमेधसौ, मध्यभागः—एषां विग्रहवाक्यानि निर्दिशत॥
३) क्तप्रत्ययान्तैः रूपैः वाक्यानि पूरयत—
१) (परि + म्ला)… कुसुमं दूरतस्त्यज्यते जनैः I
२) अध्ययनात् (ग्ला)… बालकः गृहं गच्छति।
३) अध्वगमनात् (स्विद्)… तरुच्छायामाश्रयति।
४) स बालकः शुनो (भी)… सुदुरं (परा + अय्) …।
४) द्वन्द्वसमासः—
१) माता च पिता च= मातापितरौ।
२) स्वसा च जामाता च =स्वसाजामातरौ।
३) पिता च पुत्रश्च= पितापुत्रौ।
४) माता च पुत्रश्च = मातृपुत्रौ॥
५) अन्य उपायः = उपायान्तरम्। एवं गत्यन्तरम्, ग्रामान्तरम्, लोकान्तरम्—इत्यादयो द्रष्टव्याः॥
६) अद् = (अति) जग्धः, जग्धवान्, जग्ध्वा सञ्जग्ध्य, अत्तुम्, अदनीयम्, अत्तव्यम्॥
अस् = ( अस्यति) अस्तः, अस्तवान्, अस्त्वा, निरस्य, असितुम्, असनीयम्, असितव्यम्॥
७) पर्यायाः-
१) प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि॥
२) चक्रीवन्तस्तु बालेया गर्दभा रासभाः खराः॥
३) अयनं वर्त्म मार्गाध्वपन्थ नः पदवी सृतिः।
संरणिः पद्धतिः पद्या वर्तन्येकपदीति च॥
<MISSING_FIG href="../books_images/U-IMG-1733140283Screenshot2024-12-02125550.png"/>
१३. पत्रिकालेखनम्
पिता—सत्यमूर्ते ! चिरादिव चिन्तयन् दृश्यसे। किं कर्तुमुद्यतोऽसि?
सत्यमूर्तिः—तात ! रजतपुरस्थाय मम सहाध्यायिने सत्यकीर्तये पत्रिकां लिखामि।
पिता—चिरात् खलु चिन्तयसि। अपि समापितो लेखः?
सत्यमूर्तिः—तात ! न समापितः।
पिता— आनय लेखम्, पश्यामि तावत्। (दृष्ट्वा) अरे ! किमिदम्? नैकमप्यक्षरमत्र लिखितम् !
सत्यमूर्तिः— तात ! पत्रिका कथं लेखनीयेति न ज्ञायते।
पिता— भद्र! यदि सत्यकीर्तिस्तव सम्मुखेऽवर्तिष्यत तर्हि त्वं त्वदाशयं तस्मै विना क्लेशमवदिष्यः। किं न?
सत्यमूर्तिः— आं तात ! भाषणं सुकरं लेखनं दुष्करम्।
पिता— अस्तु, को वा विषयः पत्रिकायां लेखनीयः?अहं त्वां लेखनप्रकारं शिक्षयामि।
सत्यमूर्तिः— परीक्षायाः फलमधिकृत्य काऽपि पत्रिका प्रेषणीयेति तेनाहमुक्तः। ‘तथा करिष्यामि’ इति मया तस्मै प्रतिश्रुतम्। अयमेव विषयः पत्रिकायां लेखनीयः।
पिता— तेन सह साक्षात् सम्भाषणे यानि वाक्यान्यवदिष्यः तत्र तान्येव लिख।
सत्यमूर्तिः— केन प्रकारेण लेखस्योपक्रमः कर्तव्यः?
पिता— समीचीनस्ते प्रश्नः। कथयामि तावत्। सर्वोऽपि लेखः स्वस्तिशब्देनारब्धव्यः। ततः अमुकस्थानात् अमुकनामकः अमुकनामानं प्रणिपत्य विज्ञापयतीति लेखनीयम्।
सत्यमूर्तिः— यदि कश्चिल्लेखः कनीयसे भ्रात्रे कनीयस्यै खस्त्रे वा प्रेष्यते कथं तत्र लेखनीयम्? न हि तत्र प्रणिपातो युज्यते।
पिता—जात! साधु पृष्टम्।तत्र तावत् आयुष्मन्तं भ्रातरं आशीर्वचनपूर्वकं निवेदयतीति न्यसनीयम्। पुत्रादिभ्यः
पत्रिकालेखनेऽप्ययमेव क्रमः। गुरुजनेभ्यः प्रेष्यमाणे लेखे तु विनयप्रकर्षंद्योतयितुं साष्टाङ्गपातं प्रणिपत्य सविनयं विज्ञापयतीति निवेशनीयम्।
सत्यमूर्तिः—(सद्य एव लेखं लिखित्वा) तात ! लिखितो लेखः। निरूपयतु भवान्॥
लेखः
स्वस्ति। श्रीसुवर्णपुरात् सत्यमूर्तिः प्रियसुहृदं सत्यकीर्तिशर्माणं प्रणिपत्य विज्ञापयति। सर्वे वयं कुशलिनः। शुश्रूषामहे च भवद्गतं कुशलम्॥
अस्माकं परीक्षायाः फलमद्य विद्यालये प्रकाशितं मया दृष्टम्। भवान् प्रथमवर्गे प्रथमत्वेनोतीर्णः। अहं तु द्वितीयत्वेन। भवतः संसर्गेणैव मया द्वितीयं स्थानमधिगतम्। तेन भवते बहु धारयाम्यहम्। सम्प्रति भवतो विरहेण नितरां दूयते मे हृदयम्। अतोऽविलम्बितेन प्रत्युत्तरेण मां प्रीणयितुमर्हति भवान्॥
अपरं च भवतो व्यवसायं विनयमुत्साहं परोपकारितां सत्यशीलतां मितभाषितां सामयिकतां च बह्वभिनन्दन्ति मे पितृपादाः। तत्तदवसरे मामुपदिशन्तस्ते भवन्तमेव निदर्शनतया दर्शयन्ति। यथा पूर्वमागामिन्यपि वर्षेऽध्ययनार्थे भवतः धनसाहाय्यं से करिष्यन्ति। अतः पुनरध्ययनारम्भकालेऽवश्यमेव भवता समागन्तव्यम्। वर्धतां नौ सौहार्दम्॥
इति भवदीयं मित्रम्
सत्यमूर्तिः
———————
१) प्रश्नाः—कथं लेखस्योपक्रमः कर्तव्यः? कनीयसे भ्रात्रे लिख्यमानायां पत्रिकायामादरणीयो विशेषः कः? किञ्चन पत्रं मात्रे पित्रे भ्रात्रे स्वस्त्रे जामात्रे वा लिखत॥
२) प्रयोगं विपरिणमयत—
१) त्वं चिरादिव चिन्तयन दृश्यसे।
२) अहं त्वां लेखनप्रकारं शिक्षयामि।
३) तथा करिष्यामीति मया प्रतिश्रुतम्।
४) लिखितो लेखः, तं निरूपयतु भवान्॥
३) एकपदीकुरुत—लब्धुमिच्छन्, स्वस्य इदम्, परस्य इदम्, अन्यस्य इदम्, महत् अरण्यम्, मृतेन तुल्यम्॥
४) सुखेन कर्तुं शक्यम् = सुकरम्।दुःखेन कर्तुं शक्यम् = दुष्करम्। एवं सुलभदुर्लभादयो द्रष्टव्याः।
५) १) सुहृदः भावः =सुहृत्ता, सुहृत्त्वम, सौहार्दम्।
२) सुभगस्य भावः = सुभगता, सुभगत्वम्, सौभाग्यम्।
३) सुजनस्य भावः = सुजनता, सुजनत्वम्, सौजन्यम्॥
६) कृत्प्रत्ययान्ताः—
लिख् = (लिखति)लिखितः, लिखितवान्, लिखित्वा, लेखित्वा, विलिख्य,लेखितुम्, लेखनीयम्, लेखितव्यम्॥
पठ् = (पठति) पठितः, पठितवान्, पठित्वा, प्रपठय, पठितुम्, पठनीयम्, पठितव्यम्।
वाच्= (वाचयति) वाचितः, वाचितवान्, वाचयित्वा, अनुवाच्य, वाचयितुम्, वाचनीयम्, वाचयितव्यम्॥
७) पर्यायाः—
१) लिखिताक्षरविन्यासे लिपिर्लिबिरुभे स्त्रियौ।
२) लिपिङ्करोलिपिकरोऽक्षरचुंचुश्च लेखके।
३) प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे॥
<MISSING_FIG href="../books_images/U-IMG-1733141822Screenshot2024-12-02125550.png"/>
१४. धर्मगुप्तो भार्या च
आसीदुज्जयिन्यां धर्मगुप्तो नाम वैश्यः। तस्य भार्या दुश्शीला जल्पनशीला चावर्तत। यद्यद्भर्त्रा कृतं तत्सर्वं निन्दन्ती सा तस्य प्रतीपगामिनी बभूव। न केवलं भर्तारमेव किन्तु सान्त्वनायागतान् प्रातिवेशिकानपि सा कर्कशैर्वचनैरतिमात्रं तुतोद।धर्मगुप्तस्तां दमयितुं बहुधा प्रायतत। तस्या हस्तपादं बध्वा तां शश्वत् ताडयामास। परन्तु तस्यायं समुद्यमस्तस्या जल्पनशीटतामवर्धयत्। अन्ततो धर्मगुप्तस्तस्या महामार्याः सकाशात् कथञ्चिदात्मनो मोचनमैच्छत्॥
<MISSING_FIG href="../books_images/U-IMG-1733142117Screenshot2024-12-02175119.png"/>
एकस्मिन् दिवसे धर्मगुप्तस्तां केनापि च्छद्मना नद्यास्तीरं नीत्वा तत्र करुणवरेण भार्यामाह— ‘अयि ! दयिते ! यद्यनुजानासि तर्हि यथेतः परमावयोः कदापि कलहो न भविष्यति तथा चिकीर्षामि।
येन त्वं सुखिता भविष्यसि’—इति। भार्याऽपृच्छत्—‘कथमिव?’।भर्ताऽब्रवीत्—‘अयि प्रिये ! अद्याहमस्यां नद्यां निपत्य प्राणांस्त्यजामि।अतो मम हस्तौ पश्चाद्भागमाकृष्य दृढं बन्धुमर्हसि। अन्यथा हि मानुषतासुलभया जीविततृष्णया प्रत्याकृष्टो बाहुभ्यां प्लवमानः कदाचिदात्मनो रक्षणाय प्रयतेय। हस्तयोर्बन्धने तु नैतच्छक्यम्। प्रमीते च मयि तव जीविकायै मम जीवितान्ते लभ्यं धनं पर्याप्तं भविष्यति’—इति॥
तस्य तद्वचनं श्रुत्वा सन्तोषस्य परां कोटिमारूढा सा झटिति तस्य हस्तौ पश्चादाकृष्य स्वकीयेन करवस्त्रेण दृढं बबन्ध। ततः सा—‘नूनमयमिदानीं म्रियते। न काचिदितः परमस्मान्मे पीडा भविष्यति। विशृङ्खला करेणुरिव स्वैरं चरिष्यामि’—इत्यचिन्तयत्। तथा चिन्तयन्त्यास्तस्याः सन्तोषबाष्पबिन्दवः पक्ष्माग्रेषु पदं चक्रुः। सा तदानीं तं मृतमेव मेने॥
धर्मगुप्तो भार्यामाह—‘अयि ! प्रिये ! आत्मवधो हि पापहेतुः प्रकृतिविरुद्धश्च। अतोऽहं नद्याः कूले तिष्ठामि। यथाऽहं नद्यां पतेयं तथा त्वं त्वरितगतिरागत्य बलान्मां प्रक्षिप’—इति। तच्छ्रुत्वा सा तं बलात् प्रक्षेप्तुमिच्छन्ती कतिचित् पदानि द्रुततरमधावत्। तस्मिन्नेव क्षणे स पुरुषः सहसा पार्श्वभागमपससार। रभसा गच्छन्ती सा नद्यामपप्तत्। ततः सा—‘हा ! प्रियतम ! परित्रायस्व मां परित्रायस्व’—इति भृशमक्रोशत्। तदानीं धर्मगुप्तः—‘हा ! प्रियतमे ! किमेतदापतितम्। स्वया खलु मम हस्तौ सुदृढं बद्धौ। अन्यथेदानीं त्वामरक्षिष्यम्। किं करोमि मन्दभाग्यः !’—इति प्रत्यवोचत्॥
————————
प्रश्नाः— धर्मगुप्तस्य भार्या कीदृशी बभूव? तां दमयितुं सकिमकरोत्। तस्या मोचनमिच्छन् स किमकार्षीत्। नद्यास्तीरे किं संभूतम् ?
२) निर्दिष्टैः तत्तत्प्रत्ययान्तैः पदैः वाक्यानि पूरयत—
१) चोरः पश्यतां जनानां गृहात् उत् + प्लु (त्यबन्त) पलायत।
२) राजा चोरे बन्ध्(तुमुन्नन्त) आरक्षकानादिदेश।
३) अस्मान् परि + त्रा (तुमुन्नन्त) ईशादन्यः कः समर्थः॥
३) बहुव्रीहिः—
१) दुष्टं शीलं यस्याः सा= दुःशीला।
२) दुष्टा बुद्धिः यस्य सः =दुर्बुद्धिः।
३) दुष्टः आचारः यस्याः सा= दुराचारा।
४) शोभनं शीलं यस्याः सा= सुशीला।
५) कुत्सिता मतिः यस्याः सा = कुमतिः॥
४) तत्पुरुषः—
१) दुष्टश्चासौ मार्गश्च= दुर्मार्गः।
२) शोभनं च तत् कृतं च =सुकृतम्।
३) कुत्सितं च तत् वर्त्म च = कुवर्त्म॥
५) समाहारद्वन्द्वसमासः—
१) हस्तौ च पादौ च एतेषां समाहारः =हस्तपादम्
२) गजाश्च अश्वाश्च एतेषां समाहारः= गजाश्वम्।
३) यूका च लिक्षा च एतयोः समाहारः = यूकालिक्षम्।
४) गावश्च अश्वाश्च एतेषां समाहारः =गवाश्वम्॥
४) कृत्प्रत्ययान्ताः—
१) पत् = (पति) परितः पतितवान् पतित्वा, निपत्य, पतितुम्, पतनीयम्, पतितव्यम्।
२) यत् = (यतते)यतितः, यतितवान्, यतित्वा, प्रयत्व, यतितुम्, यतनीयम्, यतितव्यम्॥
५) पर्यायाः—
१) पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी। भार्या जायाऽथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी।
२) धवः प्रियः पतिर्भर्ता।
३) अजिनं चर्म कृत्तिः स्त्री।
४) अन्दुको निगडोऽस्त्री स्याल्लोहरज्जुश्च शृङ्खला॥
<MISSING_FIG href="../books_images/U-IMG-1733143015Screenshot2024-12-02125550.png"/>
१५. अयः
लोके तावत् सुवर्ण रजतं ताम्रं पित्तलं अयः सीसमित्येवंविधा बहवो लोहाः सन्ति। ते च तत्तदाकरेषु मृदा लोहान्तरेण वा व्यामिश्रा उपलभ्यन्ते, न तु शुद्धरूपाः। तादृशास्ते खनिभ्यउद्धृत्य संस्क्रियन्ते। संस्कृताश्च ते जनानामुपयोगाय कल्पन्ते। तेषां मध्येऽय एवात्यन्तमुपयुक्तो लोहः॥
अयस्तावद् भूम्यन्तर्भागे शिलाखण्डैः सह सम्मिश्रमासाद्यते। तानि च शिलाखण्डान्युत्खाय चूर्णपेषं पिष्ट्वाद्रवीकृत्य शुद्धमयः सम्पाद्यते। अत एवेदं ‘अश्मसारः’ इत्यभिधीयते। तच्च भूमण्डले सर्वत्र प्रभूततयाधिगम्यते। तस्मादस्य लोहस्य मूल्यमत्वल्पम्॥
अयसः प्रयोजनानीयत्तया निर्देष्टुमशक्यानि। यद्यपि सुवर्णादयो लोहा अप्यस्माकमुपयुक्ता पव तथापि तैर्विना वयं जीवितुं शक्नुयाम। अयसा विना त्वस्माकं लोकयात्नैव दुष्करा स्यात्। कृषिं कर्तुं गृहादिकं निर्मातुं च न प्रभवेम॥
अस्माकं खननोपयुक्तानि खनित्रपिटकादीनि तक्षणोपयुक्तानि वृक्षादनादीनि व्रश्चनोपयुक्तानि परशुकुठारादीनि च्छेदनोपयुक्तानि च्छुरिकादीनि कर्तनोपयुक्तानि कर्तर्यादीनि चायसा क्रियन्ते॥
अपि चाद्यत्वे नानाविधानि यन्त्राण्ययसा निर्मीयन्ते। असोऽभावे बाष्पशकटादीनां कथैव न स्यात्। साम्प्रतिको नागरिक परिष्कारः सर्वोऽप्ययोभूलकः। आयसैरुपकरणैर्विना सुवर्णकारादयोऽपि स्वस्वकर्माणि कर्तुं न शक्नुवन्ति।
योऽयसा तत्तदुपकरणानि करोति सोऽयस्कार इत्युच्यते। अपस्कारोऽस्माकमुपयुक्तानि भर्जनकपालानि विविधान्यन्यानि च पात्राणि करोति। इत्थमल्पमूल्योऽप्यश्मसारो जनानाममूल्यो लोहः॥
———————
१) प्रश्नाः— प्रधानभृता लोहाःके? अयस उत्पत्तिः कथम्? अयसः प्रयोजनानि कानि? को नामायस्कारः? स कानिवस्तूनि करोति?
२) लोहान्तरेण, अमूल्यम् ,अयोमूलकः—एषां विग्रहवाक्यानि निर्दिशत॥
३) चूर्णपेषं विनष्टि, समूलघातं हन्ति, समूलकाषंकषति, उदरपूरं भुङ्क्ते—एतैः वाक्यानि रचयत॥
४) अभूततद्भावार्थकाः च्विप्रत्ययान्ताः—
१) अद्रवं द्रवं सम्पद्यमानं कृत्वा =द्रवीकृत्य।
२) अनन्धमन्धं सम्पद्यमानं करोति = अन्धीकरोति।
३) अखलः खलः सम्पद्यमानो भवति = खलीभवति।
४) अपटुः पटुः सम्पद्यमानो भवति = पटूभवति॥
५) प्रयोगं विपरिणमयत—
१) से मृदा लोहान्तरेण वा व्यामिश्रा उपलभ्यन्ते।
२) कृषिं कर्तुं गृहादिकं निर्मातुं च न प्रभवेम।
३) अपि चाद्यत्वे नानाविधानि यन्त्राण्ययसा निर्मीयन्ते॥
६) कृत्प्रत्ययान्ताः—
१) पि = (पिनष्टि) पिष्टः, पिष्टवान्, पिष्ट्वा, निष्पिष्य, पेष्टुम्,पेषणीयम्, पेष्टव्यम्॥
२) सह् = (सहते) सोढः, सोढवान्, सोढ्वा, प्रसह्य, सोढुम, सोढव्यम्, सहनीयम्, सह्यम्॥
७) पर्यायाः—
१) खनिः स्त्रियामाकरः स्यात्।
२) अयोऽश्मसारो लोहोऽस्त्री पिण्डं कालायसं तथा।
३) प्रभूतं प्रचुरं प्राज्य मदभ्रं बहुलं बहु।
पुरुःहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च॥
<MISSING_FIG href="../books_images/U-IMG-1733143963Screenshot2024-12-02125550.png"/>
१६. मैत्री
मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरङ्गैः।
मूर्खाश्च मूखैः सुधियः सुधीभिः समानशीलव्यसनेषु सख्यम्॥१॥
उदयन्नेव सविता पद्मेष्वर्पयति श्रियम्।
विभावयन् समृद्धीनां फलं सुहृदनुग्रहम् ॥२॥
परोक्षे कार्यहन्तारं प्रत्यक्ष प्रियवादिनम्।
वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम् ॥३॥
व्यतिषजति पदार्थानान्तरः कोऽपि हेतु-
र्न खलु बहिरुपाधीन् प्रीतयः संश्रयन्ते।
विकसति हि पतङ्गस्योदये पुण्डरीकं
द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥४॥
आरम्भगुर्वीं क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमुपैति पश्चात्।
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥५॥
क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः
क्षीरे तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः।
गन्तुं पावकमुन्मनास्तदभवद्दृष्ट्वा स्वमित्रापदं
युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी॥६॥
————————
१) प्रश्नाः— के कैः सह सङ्गमनुव्रजन्ति? तेन किं ज्ञायते? उदयन्नेव सविता किं करोति? स किं विभावयंस्तथा करोति? कीदृशं मित्रं वर्जयेत्? पदार्थान् को व्यतिषजति?प्रीतयः कान् न संश्रयन्ते? अत्रको दृष्टान्तः? खलसज्जनानां मैत्री कीदृशी? सतां मैत्री कीदृशी?
२) सुधियः, कार्यहन्ता, विषकुम्भः, हिमरश्मिःउन्मनाः आरम्भगुर्वी—एषां विग्रहवाक्यानि लिखत॥
३) भावार्थकप्रत्ययान्ताः—
१) मित्रस्य भावः = मित्रता, मित्रत्वम्, मैत्री।
२) सख्युः भावः = सखिता, सखित्वम्, सख्यम्।
३) सुहृदः भावः = सुहृत्ता, सुहृत्त्वम्, सौहार्दमम्॥
४) द्वन्द्वसमासः—
१) खलाश्च सज्जनाश्च = खलसज्जनाः।
२) सूर्यश्च चन्द्रश्च नक्षत्राणि च = सूर्यचन्द्रनक्षत्राणि।
३) कुन्दं च इन्दुश्च तुषारश्च = कुन्देन्दुतुषाराः॥
५) अव्ययीभाव समासः—
१) अक्षि प्रति = प्रत्यक्षम्।
२) अक्ष्णः परम् =परोक्षम्।
३) अक्ष्णः समीपम् = समक्षम्।
४) अक्ष्णः पश्चात्अ = न्यक्षम्।
५) अक्षे इति = अध्यक्षम्॥
६) गुरुः, लघुः, बहुः मृदुः—एषां स्त्रीलिङ्गे रूपाणि निर्दिशत।
७) पर्यायाः—
१) सख्यं साप्तपदीनं स्यात्।
२) पतङ्गः पक्षिसूर्ययोः॥
३) स्निग्धो वयस्यः सवया अथ मित्रं सस्वा सुहृत्॥
<MISSING_FIG href="../books_images/U-IMG-1733143802Screenshot2024-12-02125550.png"/>
<MISSING_FIG href="../books_images/U-IMG-1733258027Screenshot2024-12-04015815.png"/>१७.धौम्य उपमन्युश्च
धौम्यस्य महर्षेः शिष्य उपमन्युर्नाम। तं चोपाध्यायः प्रेषया मास—‘वत्स ! उपमन्यो ! गा रक्ष’—इति। स उपाध्यायस्य वचनादरक्षद्गाः। सोऽहनि रक्षित्वा दिवसक्षये गृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे॥
तमुपाध्यायः पीवानमपश्यत्। अपृच्छच्चैनम् —’ वत्स ! उपमन्यो ! केन वृत्तिं कल्पयसि? भृशं पीवाऽसि। कथम्?’—इति। स उपाध्यायं प्रत्युवाच—‘भो ! भैक्षेण वृत्तिं कल्पयामि—इति। तमुपाध्यायोऽब्रवीत्—‘मामनिवेद्य भैक्षं नोपयोक्तव्यम्’—इति। स तथोक्तो भैक्षं चरित्वोपाध्यायाय न्यवेदयत्। स तस्मादुपाध्यायः सर्वमेव भैक्षमगृह्णात्॥
स तथा कृत्वा पुनररक्षद्गाःअहनि रक्षित्वा निशामुखे गुरुकुलमागत्य गुरोरग्रतः स्थित्वा नमश्चक्रे। तमुपाध्यायस्तथापि
पीवानमेव दृष्ट्वोवाच—‘वत्स! उपमन्यो! सर्वमशेषतस्ते भैक्षं गृह्णामि।केनेदानीं वृत्तिं कल्पयसि?’—इति। स उपाध्यायं प्रत्युवाच—‘भगवते निवेद्य पूर्वम्, अपरं चरामि। तेन वृत्तिं कल्पयामि’—इति। तमुपाध्याय उवाच —‘नैषा न्याय्या वृत्तिः। अन्येषां भैक्षोपजीविनां वृत्त्युपरोधं करोषि। एवं वर्तमानो लुब्धोऽसि’—इति॥
स तथेत्युक्त्वा गा अरक्षत्। रक्षित्वा च सायं गृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे। तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच—‘वत्स ! उपमन्यो ! अहं ते सर्व भैक्षं गृह्णामि। न चापरं चरसि। पीवाऽसि भृशम्। केनेदानीं वृत्तिं कल्पयसि?’—इति। स एवमुक्तस्तमुपाध्यायं प्रत्युवाच—‘भो ! एतासां गवां पयसा वृत्तिं कल्पयामि’—इति। तमुवाचोपाध्यायः—‘नैतन्न्याय्यं पय उपभोक्तुम्। भवतो मया नाभ्यनुज्ञातम्’—इति॥
स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायस्य गृहमेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे। तमुपाध्यायः पीवानमेव दृष्ट्वोवाच—‘वत्स! उपमन्यो! भैक्षं नाश्नासि। नापरं चरसि। पयो न पिबसि। भृशं पीवरोऽसि। केनेदानीं वृत्तिं कल्पयसि?’—इति। स उपाध्यायं प्रत्युवाच—‘भोः! फेनं पिबामि यभिमे वत्सा मातृणां स्तनं पिबन्त उद्भिरन्ति’—इति। तमुपाध्यायोऽब्रवीत्—‘एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुनिरेयुः। तदेतेषामपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः। फेनमपि त्वं न पातुमर्हसि’—इति॥
स तथेति प्रतिश्रुत्य निराहारः पुनररक्षद्गाः। तथा प्रतिषिद्धो भैक्षं नाश्नाति। नान्यच्चरति। पयो न पिबति। फेनंनोपयुङ्क्ते।
स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत्। स तैरर्कपत्नैर्भक्षितैः क्षारतिक्तकटुरूक्षैः उपहतचक्षुरन्धो बभूव। ततः सोऽन्धश्चङ्क्रम्यमाणः कूपे पपात॥
अथ तस्मिन्ननागच्छति, सूर्ये चास्ताचलावलम्बिन्युपाध्यायः शिष्यानवोचत्—‘मयोपमन्युः सर्वतः प्रतिषिद्धः। स नियतं कुपितस्ततो नागच्छति चिरगतः। अतः सोऽन्वेष्टव्यः’—इति। तत उपाध्यायः शिष्यैः सार्धमरण्यं गत्वा तस्याह्वानाय शब्दं चकार—‘भो! उपमन्यो ! क्कासि वत्स? एहि—इति॥
स उपाध्यायस्याह्वानं श्रुत्वा प्रत्युवाचोच्चैः—‘अयमस्मि; कूपे पतितोऽहम्’—इति। तमपृच्छदुपाध्यायः —‘कथं त्वमस्मिन् कूपे पतितः?’—इति। स उपाध्यायमुवाच—‘अर्कपत्राणि भक्षयित्वा अन्धीभूतोऽस्मि। अतश्चङ्क्रम्यमाणः कूपे पतितः’—इति। तमुपाध्याय उवाच—‘अश्विनौ स्तुहि। तौ देवभिषजौ त्वां चक्षुष्मन्तं कर्तारौ’—इति॥
स एवमुक्त उपाध्यायेनोपमन्युः विविधैः स्तवैरश्विनौ तुष्टाव। तेन तुष्टावश्विनावाजग्मतुः। आहतुश्चैनं—‘प्रीतौ स्वः। एष तेऽपूपः। अशानैनम्’—इति। स एवमुक्तः प्रत्युवाच—‘नानृतमवोचतां भगवन्तौ। न त्वहमेनमपूपं भक्षयितुमुत्सहे गुरवेऽनिवेद्य’—इति॥
ततस्तमश्विनावब्रूताम्—‘पूर्वं कदाचिद्भवत उपाध्यायेनाप्येवमेवाभिष्टुताभ्यामावाभ्यां तस्मा अपूपो दत्तः। सोऽपूप—आवयोः पुरस्तात् तेनोपयुक्तो गुरवेऽनिवेद्य। त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेन’—इति। स एवमुक्तः प्रत्युवाच—
‘भो ! अश्विनौ ! नानृतमाहतुर्भवन्तौ। अथापि नोत्सहेऽहमनिवेद्य गुरवेऽपूपमुपयोक्तुम्’—इति॥
अश्विनावाहतुः — ‘प्रीतौ स्वस्तवानया गुरुभक्त्या। त्वं चक्षुष्मान् भविष्यसि श्रेयश्चावाप्स्यसि’ — इति। स एवमुक्तोऽश्विभ्यां लब्धचक्षुः उपाध्यायसकाशमागत्याभ्यवादयत्। आह चैनमुपाध्यायः —‘वत्स ! उपमन्यो ! यथाऽश्विनावाहतुस्तथा त्वं ‘श्रेयोऽवाप्स्यसि। सर्वे च ते वेदाः प्रतिभास्यन्ति, सर्वाणि च धर्मशास्त्राणि—इति॥
——————————
१) प्रश्नाः— गाः पालयन्नुपमन्युः कां कां वृत्तिमकल्पयत्? किं निमित्तं स उपाध्यायेन तत्तद्वृत्तेः प्रत्यषेधि? सर्वतः प्रतिषिद्धः स किमकरोत्? अश्विनावागत्य किमाहतुः? स किं प्रत्युवाच? स कथं लब्धचक्षुरभवत्? उपाध्यायस्तं किमाह?
२) उपहतचक्षुः, निराहारः, महर्षिः, क्षारतिक्तकटुरूक्षैः, अन्धीभूतः— एषां विग्रहवाक्यानि लिखत॥
३) मतुप्प्रत्ययान्ताः—
१) गुणः अस्यास्तीति—गुणवान्।
२) चक्षुषी अस्य स्त इति = चक्षुष्मान्।
३) धनमेषामस्तीति= धनवन्तः।
४) शीलमस्यास्तीति = शीलवान्॥
४) प्रयोग विपरिणमयत—
१) स तथा कृत्वा पुनररक्षद्गाः।
२) स तस्मादुपाध्यायः सर्वमेव भैक्षमगृह्णात्।
३) एते गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरेयुः।
४) यथाऽश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसि॥
५) न्यायात् अनपेतम् = न्याय्यम्। एवं धर्म्यपथ्यशब्दौ द्रष्टव्यौ॥
६) कृत्प्रत्ययान्ताः—
१) गृृ = (गिरति) गीर्णः, गीर्णवान्, गीर्त्वा, निगीर्य, गरितुम्, गरीतुम्, गिरणीयम्, गरितव्यम्।
२) कृृ = (किरति) कीर्णः, कीर्णवान्, कीर्त्वा, विकीर्य, करितुम्, करीतुम्, किरणीयम्, करितव्यम्॥
७) पर्यायाः—
१) कदाचिज्जातु, सार्धं तु साकं सत्रा समं सह।
२) भैक्षं भिक्षासमूहः स्याद्याच्ञाभिक्षार्थनार्दना।
३) तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः
तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु॥
<MISSING_FIG href="../books_images/U-IMG-1733141917Screenshot2024-12-02125550.png"/>
१८. मदोन्मत्तः
पुरा कलिङ्गदेशे मदोन्मत्तो नाम मद्यपानशीलः कश्चित् पुरुष आसीत्।सोऽतीव दरिद्रोऽभूत्। प्रत्यहं कर्मकरणेन याचनेन वा स यत्किञ्चिद्धनं संपाद्य तत् सर्वे मद्यपानाय व्ययीचकार॥
एकस्मिन् दिने स शैत्यबाधितः कर्म कर्तुं भिक्षामटितुं वा नाशक्नोत्। पानेच्छा च व्यवर्धत। ततो जिह्वालौल्येनाकृष्टः स किमपि मद्यगृहमगच्छत्। मद्यगृहस्वामी च तं यथाचारमुपचारवचनैः सत्कृत्य—‘अये ! किमपेक्षितं भवतः?’—इत्यपृच्छत्। ‘भवते यद्रोचते तद्दीयताम्’ इति मदोन्मत्तः प्रत्यवोचत्। तस्य वचनं श्रुत्वा मद्यगृहस्वामी मूल्यवन्ति भक्ष्याणि तस्मै ददौ। स च तान्यादाय खादन् पिबंश्च जहर्ष॥
तदनु मदोन्मतः कांश्चित् क्षणांस्तत्रैव स्थित्वा ततः शनैर्गृहं प्रति प्रतस्थे। तदा मद्यगृहस्वामी—‘अये ! यत्त्वया पीतं खादितं च तस्य मूल्यं देहि’—इत्यवोचत्। मदोन्मत्तः प्रत्युवाच—‘अरे ! किमिदम्? अहं गृहं द्रष्टुमागतः। त्वयैवेमानि भक्ष्याणि मह्यं दत्तानि न तु मयाऽपेक्षितानि। मम हस्ते वराटिकाऽपि नास्ति। कुतो यच्छेयम्’—इति। मद्यगृहस्वामी किमपि कर्तुमपारयंस्तं विससर्ज॥
अयं वृत्तान्तस्तस्यां पण्यवीथिकायां सर्वैः परिज्ञातः। परेद्युर्मदोन्मत्तस्तस्यामेव वीथिकायामन्यन्मद्यगृहं जगाम। विदिततदाचारश्च तन्मद्यगृहस्वामी कशामेकां वस्त्राच्छन्नामानीय मदोन्मत्तं वञ्चयितुकामः सोपचारम् —‘अये ! किमपेक्षितं भवतः?’ इत्यन्वयुङ्क्त। मदोन्मत्तः पूर्वेद्युरिव ‘भवते यद्रोचते तद्दीयताम्’ इत्यव्रवीत्। तदाकर्ण्य मद्यगृहस्वामी झडिति कशामाकृष्य तं बलवताडयामास। मदोन्मत्तश्च भृशमाक्रोशन् सत्वरं समुत्प्लुत्य सुदूरं पलायितः॥
————————
१) प्रश्नाः—मदोन्मत्तस्य दैनन्दिनी वृत्तिः कीदृशी? प्रथमेऽहनि मद्यगृहे सम्भूतो वृत्तान्तः क? परेद्युरन्यस्मिन् मद्यगृहे किं सम्भूतम् !
२) एकपत्रीकुरुत—अन्यत् मद्यगृहम् गुणैः सह वर्तत इति, अहन्यहनि विधिमनतिक्रम्य, मूल्यमस्यास्तीति॥
३) बहुवीहिः—
१) वञ्चयितुं कामः यस्य सः = वञ्चयितुकामः।
२) रक्षितुं मनः यस्य सः = रक्षितुमनाः॥
४) प्रयोगं विपरिणमयत—
१) स यत्किञ्चिद्धनं सम्पाद्य तत्सर्वं मद्यपानाय व्ययीचकार।
२) मद्यगृहस्वामी मूल्ययन्ति भक्ष्याणि तस्मै ददौ।
३) ततो जिह्वालौल्याकृष्टः स किमपि मद्यगृहमगच्छत्।
४) जम्बुको मुहुर्मुहुः पाशं विलोक्याचिन्तयत्॥
५) कृत्प्रत्ययान्ताः—
१) रम् = (रमते) रतः, रतवान्, रमित्वा, रन्त्वा, विरम्य, रन्तुम्, रमणीयम्, रन्तव्यम्।
२) यम् = (यच्छति) यतः, यतवान्, यन्त्वा,नियम्य, यन्तुम्, यमनीयम्, यन्तव्यम्।
३) दा = (यच्छति) दत्तः, दत्तवान्, दत्वा, प्रदाय, दातुम्, दानीयम्, दातव्यम्, देयम्।
४) दा= (ददाति) दत्तः, दत्तवान्, दत्वा, प्रदाय, दातुम्, दानीयम्, दातव्यम्, देयम्॥
६) पर्यायाः—
१) निःस्वस्तु दुर्विधो दोनो दरिद्रो दुर्गतोऽपि सः।
२) आपणस्तु निषद्यायां विपणिः पण्यवीथिका।
३) वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः॥
<MISSING_FIG href="../books_images/U-IMG-1733140985Screenshot2024-12-02125550.png"/>
१९. कालिदासस्य गुरुः
प्रथमो भागः
धाराधीशो भोजराजः परमो दानशौण्ड इति श्रुत्वा कश्चिदकिञ्चनो ब्राह्मणः स्वयमपि द्रविणाशया भोजसभां जगाम। गच्छंश्च पथि यदृच्छया कालिदासेन दृष्टः पृष्टश्च स ब्राह्मणः स्वमनोरथं कथयामास॥
तदाकर्ण्य कविपुङ्गवः कालिदासः— ‘भो ! ब्राह्मण! किं भवान्कविः? आहोस्विच्छास्त्रज्ञः?’— इत्यप्राक्षीत्। ‘महाभाग ! नाहं कविर्नापि शास्त्रशः, किन्तु दरिद्रोऽस्मि। दक्षिणार्थे मया राजान्तिक गम्यते’—इति ब्राह्मणोऽभाणीत्। तच्छ्रुत्वा कालिदास आह—‘आर्य! भोजस्य राज्ञः सभायां कविभ्यः शास्त्रज्ञेभ्यश्च सम्भावना दीयते, न तु ब्राह्मणेभ्यो दक्षिणा। मन्ये तत्र त्वया वराटिकाऽपि न लभ्येत’—इति॥
तस्य भाषितं निशम्य विषण्णो ब्राह्मणः—‘भद्र! अप्यस्ति कश्चिदुपायो येन यत्किञ्चिद् द्रविणं मया राज्ञः सकाशाल्लभ्येत?’— इति पप्रच्छ। जरसाऽऽक्रान्तं तमवलोक्य सञ्जातकरुणः कालिदास आह—‘अस्त्युपायो यदि मद्वचनमनुवर्तसे। ब्राह्मणः प्रत्यवोचत्—‘बाढं भवदाज्ञामनुवर्तिष्ये’॥
इत्याभाष्य कालिदासस्तं ब्राह्मणं स्वगृहे समुपवेश्य तस्मिन् अहनि चिरेण राजसभामगमत्। राजा च चिरायागतं कालिदासं वीक्ष्य पप्रच्छ— ‘महाकवे ! किंकृतोऽयं विलम्बः?’।कालिदासोऽवदत् —‘राजन् ! वाराणसीतश्चतुश्शास्त्रपारगा मम गुरुचरणाः समागताः। तेषां वरिवस्यायां प्रवृत्तस्य ममैतावान् विलम्बः इति॥
“हन्त ! कालिदासस्यापि गुरुचरणा इति श्रोत्रामृतं वचनम्। अद्धा धन्योऽस्मि" इत्याकलय्य राजा —‘महाकवे ! परमानन्दतुन्दिलाः स्मः। तेषामिह सन्निधानेन वयमात्मानं सभां च कृतकृत्यतां नेतुमभिलषामः। श्व एव तेषामिहागमनं भवतु’— ब्रवीति —‘राजन् ! तेषामिहागमनं
दुश्शकं पश्यामि। यतस्ते सर्वदैव कर्मानुष्ठाननिरताः क्षणमपि विश्रान्तिं न लभन्ते। अथापि तेषामभिप्रायं विदित्वा भवन्तं निवेदयामि’—इति॥
ततः कालिदासो गुरोरभिप्रायं जिज्ञासमान इव गृहं गत्वा सायं प्रत्यागम्य—‘राजन् ! यदुक्तं मया तदवितथमेव। अथापि तावत् सनिर्बन्धं मयाऽभ्यर्थितास्ते अनुल्लङ्घनीया शिष्यप्रार्थनेत्युक्त्वा श्वः समागमनं प्रत्यपद्यन्त। अथ तु ते पञ्चषानेव निमेषानत्र स्थास्यन्ति। मितभाषिणस्ते त्रिचतुराण्यक्षराणि भाषिष्यन्ते। यत्तैरुच्यते तच्छिरसा वोढव्यम्। न तु तत्रानुयोगः कार्यः’—इत्यवादीत्॥
तत् सर्वं’तथैव’ इत्यङ्गीकृत्य राजा धन्यमात्मानं मन्यमानः सन्तोषस्य परां काष्ठामधिरूढो माल्यतोरणादिभिः सभामलङ्कारयामास आकारयामास च धारावास्तव्यान् महाजनान्॥
कालिदासोऽपि गृहं गत्वा ब्राह्मणमाहूय—“त्वामहं श्वो राजान्तिकं नेष्यामि। तत्र च राजानं दृष्ट्वा ‘त्रिपीडापरिहारोऽस्तु’ इत्येतावदुक्त्वा विष्टरे तूष्णीमासितव्यं त्वया”—इत्यवोचत्। ब्राह्मणस्तदुक्तमङ्गीकृत्य सर्वान् व्यापारान् परित्यज्य कालिदासोक्तान्यक्षराणि महता यत्नेन ओष्ठगतान्यकरोत्॥
————————
१) प्रश्नाः—अकिञ्चनो ब्राह्मणः किमर्थं भोजसभां जगाम? कालिदासस्तं किमब्रवीत्? कालिदासो राजानमुपगम्य किमवोचत्? राजा तं किमवादीत्? गृहं गत्वा कालिदासो ब्राह्मणमाहूय किमभ्यधात्?
२) अकिञ्चनः, मद्वचनम्, भवदाज्ञा, किंकृतः, पञ्चषाणि, ओष्ठगतानि—एषां विग्रहवाक्यानि निर्दिशत॥
३) द्विगुसमासः—
चतुर्णां शास्त्राणां समाहारः = चतुश्शास्त्रम्। एवं पञ्चपात्रम्, त्रिभुवनम्, त्रिलोकी, पञ्चवटी—इत्यादयो बोध्याः॥
४) उपमानपूर्वपदस्तत्पुरुषः—
१) कुन्दमिव धवला = कुन्दधवला।
२) घन इव श्यामः=घनश्यामः।
३) शिरीषमिव मृदुलम् =शिरीषमृदुलम्॥
५) उपमानोत्तरपदस्तत्पुरुषः—
१) कविः पुङ्गव इव =कविपुङ्गवः।
२) पुरुषः व्याघ्र इव = पुरुषव्याघ्रः।
३) राजा सिंह इव = राजसिंहः॥
६) क्तप्रत्ययान्तैः रूपैः वाक्यानि पूरयत—
१) मातुः (निली)… तिष्ठति बालकः।
२) पुत्रस्य दुराचारेण (दू)… अभूत् पितुश्चेतः।
३) मृद्घटो भूमौ (पत्)… शतधा (भञ्ज्)… अभूत्।
४) सन्तः सर्वदा (क्षुद्)… वर्त्मनि सञ्चरन्ति॥
७) पर्यायाः-
१) स्युर्वदान्य स्थूललक्ष्य दानशौण्डा बहुप्रदे।
२) समज्या परिषद्गोष्ठी सभासमिति संसदः।
आस्थानीक्लीबमास्थानं स्त्रीनपुंसकयोः सदः।
३) वरिवस्या तु शुश्रूषा परिचयाप्युपासना॥
<MISSING_FIG href="../books_images/U-IMG-1733319941Screenshot2024-12-02125550.png"/>
२०. कालिदासस्य गुरुः
द्वितीयो भागः
अपरेद्युः कालिदासो ब्राह्मणं वेषभूषादिभिः परिष्कृत्य तेन सह राजसभां प्रतस्थे। ब्राह्मणं च पुरोभागे कृत्वा स्वयं तस्य पृष्ठतो भक्तिमान् शिष्य इव बद्धाञ्जलिर्जगाम॥
<MISSING_FIG href="../books_images/U-IMG-1733139465Screenshot2024-12-02170732.png"/>
राजा च सभाद्वारमागतं ब्राह्मणं सवाद्यघोषमन्तः प्रवेश्य सादरं सत्कृत्य दर्शितविनयस्तस्य पादयोः पपात। ब्राह्मणोऽप्यदृष्टपूर्वाणां राजसभावैभवानां दर्शनमात्रेण सम्भ्रान्तः कालिदासोक्तां परिपाटींविस्मृत्य राज्ञः समक्षं ‘त्रिपीडा अस्तु’ इत्युक्त्वा विष्टरे समुपविष्टः॥
तच्छ्रुत्वा राजा परिम्लानवदनः पादपीठीमपश्यत्। सभास्ताराःसर्वे स्मेरमुखा अभूवन्। प्रत्युत्पन्नमतिः कालिदासस्तु समुपस्थितामात्मनो दुरवस्थां परिजिहीर्षन्—‘अहह! गुरुपादानां वचसः प्रकर्षः ! अहो ! वाग्देवतायाः प्रसादः ! अहो ! महाराजस्य सुकृतम् !’—इति वदन् नर्तितुमारेमे॥
तदवेक्ष्य राजाऽब्रवीत्—‘कालिदास ! तवगुरुपादानां वचसोऽर्थ एव नास्माभिरधिगतः, किमुत प्रकर्षः। अर्थं तावद्वर्णय’—इति। कालिदास आह—‘महाराज ! किं व्रवीमि ! कीदृशं ते भागधेयम् ! अहो ! आचार्याणां महाराजे प्रेमातिशयः। अहो ! गुरुचरणानां वचसो गाम्भीर्यम् ! गुरुचरणानन्तरेण कस्य वाऽन्यस्य मुखचन्द्रादीदृशं वचनामृतं स्यन्देत ! अहो ! आचार्याणां पाण्डित्यस्य प्रकारः। श्रूयतां तावदस्यार्थः—
आसने विप्रपीडाऽस्तु शिशुपीडाऽस्तु भोजने।
शयने दारपीडाऽस्तु त्रिपीडाऽस्तु नरेन्द्र ते॥
इति व्याख्याय—“राजन् ! इतोऽधिकं किमस्ति जनिमता जगत्यभ्यर्थनीयम् ! अनेन हि भवान् सम्पदः सन्ततेररोगितायाश्च भाजनतामुपनीतः’—इत्याचख्यौ॥
तदाकर्ण्य सर्वेऽप्यतिमात्रं चमत्कृताः कालिदासस्य गुरुं साक्षात् भगवत्याः सरस्वत्या अवतारममन्यन्त। राजाऽप्यतितरां तुष्टस्तस्मिन् द्रविणराशिं ववर्ष। कालिदासोऽपि रहस्यभेदभयेन ब्राह्मणं सत्वरं गृहं नीत्या रात्रौ निभृतं स्वदेशं प्रेषयामास॥
____________
१) प्रश्नाः—परेद्युः कालिदासः किं चकार? ब्राह्मणः किमुक्त्वा विष्टरे समुपविष्टः? कालिदासः किं वदन् नर्तितुमारेमे ? तमवेक्ष्य राजा किमब्रवीत्? कालिदासः किमाचख्यौ? तदनन्तरं किं सम्भूतम्?
२) अवधारणपूर्वपदस्तत्पुरुषः—
१) मुखमेव चन्द्रः = मुखचन्द्रः।
२) विद्यैव धनम् = विद्याधनम्।
३) वचनमेव अमृतम् = वचनामृतम्॥
३) बहुव्रीहिः—
१) तप एव धनं येषां ते = तपोधनाः।
२) मान एव धनं येषां ते = मानधनाः॥
४) सन् प्रत्ययान्ताः—
१) हर्तुमिच्छति= जिहीर्षति।
२) हन्तुमिच्छति = जिघांसति।
३) मत्तुमिच्छति = जिघत्सति।
४) ग्रहीतुमिच्छति= जिघृक्षति॥
५) कृत्प्रत्ययान्ताः—
१) भ्रम् = (भ्राम्यति, भ्रम्यति, भ्रमति) भ्रान्तः, भ्रान्तवान्, भ्रान्त्वा, भ्रमित्वा, परिभ्रम्य, भ्रमितुम्, भ्रमणीयम्, भ्रमितव्यम्।
२) शम् = (शाम्यति) शान्तः, शान्तवान्, शान्त्वा, शमित्वा, उपशम्य, शमितुम्, शमनीयम्, शमितव्यम्॥
६) पर्यायाः—
१) निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्।
२) आनुपूर्वी स्त्रियां वावृत् परिपाटी अनुक्रमः।
३) सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते॥
———————
२१. धनप्रशंसा
यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः।
स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते॥
त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्र सुहृज्जनाश्च।
तमर्थवन्तं पुनराश्रयन्ति धनं हि लोके पुरुषस्य बन्धुः॥
बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते।
न च्छन्दसा केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फला गुणाः॥
दुन्दुभिस्तु सुतरामचेतनस्तन्मुखादपि धनं धनं धनम्।
इत्थमेव निनदः प्रवर्तते किं पुनर्यदि जनः सचेतनः॥
धनैर्निष्कुलीनाः कुलीना भवन्ति धनैरापदं मानवा निस्तरन्ति।
धनेभ्यः परो बान्धवो नास्ति लोके धनान्यर्जयध्वं धनान्यर्जयध्वम्॥
———————
१) प्रश्नाः—यस्यास्ति वित्तं स नरः कीदृशो भवति? “धनं हि लोके पुरुषस्य बन्धुः” कुतः? “हिरण्यमेवार्जय निष्फला गुणाः” कस्मादिदमुच्यते? “इत्थमेव निनदः प्रवर्तते” कीदृशो निनदः? “धनान्यजेयध्वं धनान्यर्जयध्वम्” कुत एवमुद्घुष्यते?
२) सुहृज्जनाः, अचेतनः, सचेतनः—एषां विग्रहवाक्यानि लिखत॥
३) सन्प्रत्ययान्ताः—
१) कर्तुमिच्छति = चिकीर्षति—ते।
२) भोक्तुमिच्छति = बुभुक्षते।
३) नेतुमिच्छति = निनीषति—ते।
४) गन्तुमिच्छति = जिगमिषति।
५) वक्तुमिच्छति = विवक्षति॥
४) एकपदीकुरुत—दोषं जानातीति। कुले भवः। द्रष्टुं योग्यः। श्रुतमस्यास्तीति। अर्थः अस्यास्तीति॥
५) प्रयोगं विपरिणमयत—
१) सर्वे गुणाः काञ्चनमाश्रयन्ति।
२) त्यजन्ति मित्राणि धनैर्विहीनं दाराश्च पुत्राश्च सुहृज्जनाश्च।
३) बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते।
४) धनेभ्यः परो बान्धवो नास्ति लोके धनान्यर्जयध्वं धनान्यर्जयध्वम्॥
६) वक्ता, गन्ता, द्रष्टा, प्रष्टा, श्रोता—एषां स्त्रीलिङ्गरूपैः वाक्यानि रचयत॥
७) कृत्प्रत्ययान्ताः—
हा = ( जहाति) हीनः, हीनवान्, हित्वा, विहाय, हातुम्, हानीयम्, दातव्यम्, हेयम्॥
८) पर्यायाः—
१) द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु।
हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥
२) सगोत्र बान्धवज्ञाति बन्धुस्वस्वजनाः समाः॥
———————
<MISSING_FIG href=”../books_images/U-IMG-1733491368Screenshot2024-12-06185220.png"/>
२२. क्षेत्रकर्षणम्
इह क्षेत्रं कृष्यते। इदं शालेयक्षेत्रम्।शालीनामुत्पत्तौ प्रभूतं जलमपेक्ष्यते। तस्माज्जलस्यावस्थानाय क्षेत्राणि परितः सेतवः क्रियन्ते। गोधूमादयस्तु नातीव जलमपेक्षन्ते। अतस्ते पर्वतसानुष्वपि समृद्धतया प्ररोहन्ति। शालयस्तु जलमयेषु निम्नप्रदेशेषु केवलमुत्पद्यन्ते॥
चित्रेऽस्मिन् कर्षणाय द्वौ वृषभौ हलस्य धुरि नियुक्तौ वर्तते। क्वचिन्महिषावपि नियुज्येते। यूरोपखण्डेऽमेरिकाखण्डे च नियमेनाश्वौ बध्येते। अद्यत्वे कर्षणाय क्वचिद्यन्त्राण्युपयुज्यन्ते। शर्करिलानां निष्कुटादीनामुत्कषणार्थमायसानि लाङ्गलान्युपकल्पितानि॥
चित्रमवलोकय। स कर्षको हलस्य पश्चादण्डं हस्तेन धूत्वा हलस्याग्रंभूमौ खनन् वृषभौ चोदयति। हलस्याग्रभागे निशिताग्रो
लोहफालः सङ्घटितः। तेन यदा वृषभौ गच्छतस्तदा हलस्याधस्तात् पञ्चषाङ्गुलखाता पद्धतिर्जायते। सैषा पद्धतिः ‘सीता’ इत्युच्यते॥
सकृत् कृष्टे क्षेत्रे मृत्तिका न मृदूभवति। अतो द्विस्त्रिर्वा कर्षणं क्रियते। द्विः कृष्टं क्षेत्रं द्विगुणाकृतमिति, त्रिः कृष्टं त्रिगुणाकृतमिति चोच्यते। द्विगुणाकृते त्रिगुणाकृते वा क्षेत्रे बीजान्युप्यन्ते। बीजावापात् परं सकृत् कृष्ट्वा क्षेत्रं फलकाकर्षणेन समीक्रियते। तदा बीजानि मृदन्तः पतितानि त्रिचतुरैर्दिनैरुद्भिद्यन्ते। उद्भिन्नाश्च शालयः सकृदुत्खाय प्रतिरोप्यमाणाः प्रभूतानि फलानि वितरन्ति। शालीनां मञ्जर्योऽत्यन्तं मनोहराः। पचेलिमाः शालयो लवित्रैर्लूयन्ते॥
सैषा कृषिः देवमातृकायां भूमौ वर्षकाले सकृत् सम्पाद्यते। नदीमातृकायां तु वर्षस्य द्विस्त्रिर्वा क्रियते। क्वचिञ्जलस्याभ्युक्षणेन कृषिः सम्पाद्यते। सर्वासु वृत्तिषु कृषिरेव प्रधानतमा। कृषितो नास्ति दुर्भिक्षम्॥
रामाद्यचय मेदिनीं धनपतेर्बीजं बलाल्लाङ्गलं
प्रेतेशान्महिषं तवास्ति वृषभः फालं त्रिशूलं तव।
शक्ताऽहं तव चान्नदानकरणे स्कन्दोऽस्ति गोरक्षणे
खिन्नाऽहं हर भिक्षया कुरु कृषिं गौरीवचः पातु वः॥
** ___________**
२) प्रश्नाः— व्रीह्यादयः शालयश्च कुत्र समृद्धतया प्ररोहन्ति? क्षेत्रकर्षणाय कानि साधनान्युपयुज्यन्ते? कीदृशे क्षेत्रे बीजान्युप्यन्ते? देवमातृकायां नदीमातृकायां च भूमौ कियद्वारं कृषिः सम्पाद्यते? गौरी हरं किमाह?
२) व्रीह्यादयः, त्रिचतुरैः, धनपतिः, गोरक्षणम्, गौरीवचः—एषां विग्रहवाक्यानि लिखत॥
३) अव्ययीभावः—
१) मक्षिकाणामभावः = निर्मक्षिकम्।
२) भिक्षाणामभावः = दुर्भिक्षम्।
३) भिक्षाणां समृद्धिः = सुभिक्षम्।
४) संशयस्याभावः = असंशयम्।
४) मयट् प्रत्ययान्ताः—
१) जलेन प्रचुरः = जलमयः।
२) सुवर्णस्य विकारः = सुवर्णमयः।
३) चिदेव = चिन्मयः॥
५) सकृत् द्विः, त्रि; चतुः, पञ्चकृत्वः—एतैः वाक्यानि रचयत॥
६) कृत्प्रत्ययान्ताः—
१) वप् = (वपति) उप्तः, उप्तवान्, उप्त्वा, निरुप्य, वस्तुम्, वपनीयम्, वप्तव्यम्।
२) लू = (लूनाति) लूनः, लूनवान्, लूत्वा, विलूय, लवितुम्, लवनीयम्, लवितव्यम्॥
७) पर्यायाः—
१) क्षेत्राजीवः कर्षकश्च कृषकश्च कृषीवलः।
२) उक्षा भद्रों बलीवर्द ऋषभो वृषभो वृषः।
अनड्वान् सौरभेयो गौः।
३) क्षेत्रं व्रैहेयशालेयं ब्रीहिशाल्युद्भवोचितम्॥
—————————
२३. शतं प्रहाराः
एकदा गुर्जरदेशीयः कश्चित् कविः कविवत्सलं काशिराजं द्रष्टुकामः काशीदेशमगच्छत्। गत्वा च तत्र राजभवनं प्रविशन् स द्वारे द्वाःस्थेन न्यरुध्यत। सप्रश्रयमनुनीयमानः स द्वाःस्थः— ‘यदि त्वमन्तः प्रवेष्टुमिच्छसि तर्हि यत्किञ्चिहेहि। अन्यथा दुर्लभस्ते प्रवेशः’ —इत्यवोचत्॥
तच्छ्रुत्वा कविः— ‘भद्र ! अधुना मम हस्ते वराटिकाऽपि न विद्यते। किन्तु राज्ञः सकाशान्मया सम्भावना लभ्येत। तत्र यल्लप्स्यते तस्यार्धं ते दास्यामि’ —इति प्रत्यवोचत्। तद्वचः श्रुत्वा हृष्टो द्वारपालकस्तं प्रावेशयत्॥
ततः कोष्टान्तरं प्रविशन् स भूयोऽन्येन द्वारपालकेन न्यरुध्यत। तस्मा अपि राज्ञः सकाशालप्स्यमानस्यार्धं प्रतिज्ञाय स कविस्तेनाप्यनुमतः कथञ्चित् राशः सविधं प्रापत्। प्राप्य च सरसैः श्लोकैः राजानं तुष्टाव। तेन प्रीतो नरपतिस्तं सत्कृत्य तस्मै वारणमेकं दापयितुं मन्त्रिणमादिक्षत्। तस्य वचनं श्रुत्वा कविराह— ‘राजन्! अहं लब्धवारण एवास्मि। अतोऽद्य तल्लाभेन न मे प्रयोजनम्। तस्मादन्यदेव याचिष्ये। तद्दानेन मत्प्रार्थनां सफलयितुमर्हसि’ —इति। राजोवाच— ‘विद्वन्! किं तेऽभीष्टम? कथय। यदि शक्यं तर्हि तत् साधयितुं यतिष्ये’ —इति॥
कविरब्रवीत्— ‘राजन्! यदि मां सम्भावयितुमिच्छसि तर्हि शतं प्रहारान् मे पारितोषिकत्वेन विधेहि। न ते दातुमशक्यं मया किञ्चित प्रार्थितम्’ —इति। राजा कवेराकृतमज्ञात्वा भृशं खिन्नः
प्राह— ‘महाकवे! त्यज्यतां प्रहारकथा। रत्नं हिरण्यं वा यथाभिमतं याचस्व। तत् ते वितरिष्यामि’ —इति। कविः प्रत्यवोचत्— ‘राजन्! यदि त्वं कवीनां मनोरथस्य पूरकस्तर्हि प्रहारशतेन मां सम्भावय। नो चेद्गमिष्यामि। स्वस्त्यस्तु ते’ —इति॥
ततो गत्यन्तरमपश्यन् विषण्णवदनो राजा तदभीष्टस्य पूरणाय वेत्रहस्तं किङ्करमाज्ञापयामास। स च किङ्करो यदा तं प्रहर्तुमुद्युक्तोऽभूत् तदा कविः प्राह— ‘महाभाग! क्षणं प्रतीक्षस्व। अस्याः सम्भावनाया अंशहरौ द्वौ दौवारिकावासाते। राज्ञः सकाशाल्लभ्यमानस्यैकमर्धमेकस्मै, अपरमर्धमपरस्मै च मया प्रतिज्ञातम्। अन्यथा मेऽन्तःप्रवेशो राजदर्शनं च नाभविष्यत्। तस्मादेते शतं प्रहाराः समं विभज्य तयोः पृष्ठे पात्यन्ताम्, येनाहं कृतप्रतिज्ञः सत्यवचनो भवेयम्’ —इति॥
तदनुरोधेन राज्ञः पुरोभागमानीतयोः प्रतीहारयोः पृष्टभागे प्रत्येकं पञ्चाशत् प्रहाराः प्रदत्ताः। अनेन कवेः कौशलेन राजा मन्त्रिणश्चात्यन्तं चमत्कृतास्तं नितरां बह्वमानयन्॥
—————————
१) प्रश्नाः— गुर्जरदेशीयः कवी राजभवनं प्रविशन् किन्निमित्तं केन न्यरुध्यत? कुतः पश्चात् तस्य प्रवेशोऽन्वमन्यत? राजा मन्त्रिणं किमादिक्षत्? तस्य वचनं श्रुत्वा कविः किमाह? कबेराकूतमज्ञात्वा राजा किं प्राह? कविः किं प्रत्यवोचत्? ततः किं सम्भूतम्?
२) कविवत्सलः, दुर्लभः, राजभवनम्, सरसाः, कृतप्रतिज्ञः सत्यवचनः—एषां विग्रहवाक्यानि लिखत॥
३) व्यधिकरणबहुव्रीहिः—
१) वेत्रं हस्ते यस्य सः = वेत्रहस्तः।
२) चक्रं पाणौ यस्य सः = चक्रपाणिः।
३) पद्मं नाभौ यस्य सः = पद्मनाभः।
४) पक्षे वृत्तिः यस्य सः = पक्षवृत्तिः॥
४) अव्ययीभावः—
१) एकमेकं प्रति = प्रत्येकम्।
२) अर्थमर्थं प्रति = प्रत्यर्थम्।
३) क्षणे क्षणे = प्रतिक्षणम्।
४) पदे पदे = प्रतिपदम्॥
५) दा, कृ, प्रविश्, रुह्—एषां णिजन्तरूपैः वाक्यानि पूरयत॥
६) कृत्प्रत्ययान्ताः—
१) स्तु = (स्तौति) स्तुतः, स्तुतवान्, स्तुत्या, प्रस्तुत्य, स्तोतुम्, स्तवनीयम्, स्तोतव्यम्, स्तुत्यम्॥
२) चि = (चिनोति) चितः, चितवान्, चित्वा, निश्चित्य, चेतुम्, चयनीयम्, चेतव्यम्, चेयम्॥
७) पर्यायाः—
१) प्रतीहारो द्वारपालंद्वाः स्थद्वाः स्थितदर्शकाः।
२) मन्त्री घी सचिबोऽमात्यः।
३) राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥
_________________
२४. अजगरो भिक्षाभाजनं च
पुरा पाटलिपुत्रे यज्ञसोमः कीर्तिसोमश्चेति द्वौ भ्रातरावास्ताम्। तयोः प्रभूतं पित्र्यं वित्तममूत्। तो तद्विभज्य पृथग्गृहिणावभूताम्। तयोः कीर्तिसोमः स्वीयं भागं वाणिज्येन कौसीद्येन चावर्धयत्। यज्ञसोमस्तु भुञ्जानो ददानश्च स्वीयमंशं कियतैव कालेन व्ययीकृत्य रिक्तीभूतो बन्धूनामवधीरणायाः पात्रमभूत्॥
बन्धुजनैरवमन्यमानः सोऽत्यन्तं खिन्नः स्वभार्यामवोचत्— ‘प्रिये! सम्प्रति निर्धनीभूतयोरावयोः वरमन्यदेशगमनम्, न त्विह बन्धूनां मध्ये जीवनम्। अतोऽद्यैव देशान्तरं गच्छावः’—इति। भार्याऽब्रवीत्—‘नाथ! पाथेयेन विना कथं वा देशान्तरं गमिष्यावः। न किमप्यस्ति गृहे। अतस्ते भ्रातरं गत्वा यत् किञ्चिद्धनं याचस्व’—इति॥
तदनुरोधेन यज्ञसोमः कीर्तिसोमस्यान्तिकं गत्वा तस्मै स्वीयं सङ्कल्पमावेद्य यावत् तं पाथेयमयाचत तावत् तस्य भार्या श्रुततद्वचना ससम्भ्रममागत्य—‘अये! नाथ! एतादृशा दरिद्राः प्रत्यहमस्माकं गृहद्वारमाश्रयिष्यन्ति। तेभ्यः कियत् कुतो वा दास्यामः। स्वीयं वित्तं क्षपितवतेऽस्मै दुर्भगाय त्वया वराटिकाऽपि न दातव्या। यदि दास्यसि मम जीवितेन शपे’—इत्यब्रवीत्। कीर्तिसोमः भ्रातृस्नेहान्वितोऽपि भार्याभीतः किमप्यदत्त्वा तं प्राहिणोत्॥
यज्ञसोमो गृहं गत्वा वृत्तान्तमिमं भार्यायै निवेद्य देवैकशरणः सद्य एव तया सह देशान्तरं प्रति प्रातिष्ठत। गच्छन्तौ च तौ मार्गवशात् किमपि घोरमरण्यं प्रापतुः। शिलाकण्टकाकीर्णे वन-
वर्त्मनि क्लेशेन व्रजतोस्तयोः यज्ञसोमः केनचिन्महाकायेनाजगरेणन्वगीर्यत॥
<MISSING_FIG href="../books_images/U-IMG-1733493154Screenshot2024-12-06192145.png"/>
<MISSING_FIG href="#"/>तदवेक्ष्य सा वाला सोरस्ताडमुच्चैः क्रन्दन्ती क्षितौ पपात। तां तथा विलपन्तीमवलोक्याजगरः सञ्जातकरुणो मानुषभाषयाऽभाषत— ‘शोभने! किमर्थमेवं विलपसि?’ —इति। साऽवोचत्— ‘महासत्त्व ! कथं न विलपिप्यामि। मम हि भिक्षाभाजनं भवताऽपहृतम्। कथङ्कारमशरणा प्राणान् धारयिष्यामि ’ —इति॥
तदाकर्ण्याजगरः सपदि स्वजठरात् किञ्चित् सुवर्णपात्रमुद्गीर्य तस्यै दत्त्वाऽब्रवीत्— ‘महाभागे ! गृह्यतामिदं ते भिक्षापात्रम्’—
इति। सा तदादाय प्रत्यवोचत्— ‘महात्मन्! किमनेन मे प्रयोजनम्? को वा स्त्रियै मह्यमस्मिन् भिक्षां प्रदास्यति?’ —इति ब्रुवती भूयोऽप्युच्चैरत्तन्दत्। ततः सोऽजगरस्तां सान्त्वयन्नाह— ‘साध्वि! त्वमिदं पात्रं गृहीत्वा भिक्षार्थंव्रज। यस्ते भिक्षां न दास्यति तस्य शिरः सहस्रधा विशरिष्यते। सत्यमेतद्वचो मम। माऽस्तु तेऽत्र संशयः’ —इति॥
तदाकर्ण्य सा— ‘भो! महासत्त्व! यदि ते वचः सत्यं तर्हि त्वमिदानीं मे भर्तृभिक्षां देहि’ —इत्युक्त्वा पात्रमदर्शयत्। अजगरोऽपि स्वनाशभयात् यज्ञसोमं जीवन्तमेवोद्गीर्य तस्यै प्रायच्छत्॥
अथ सोऽजगरः— ‘भो! महाभागौ! अहं काञ्चनवेगाख्यो विद्याधरः कस्यचिदृषेः शापेनाजगरत्वमापन्नः। स च शापो मे साध्वीसंवादपर्यन्तोऽभूत्। इदानीमनुगृहीतोऽस्मि तत्रभवत्या’ —इति वदन् निजं रूपं प्रतिपद्य तत् सुवर्णपात्रं रत्नैरापूर्य ताभ्यां दत्त्वा स्वाभीष्टदेशं गतः। तौ दम्पती च महता हर्षेण तद्रत्नपात्रमादाय स्वदेशमागत्य बन्धूनां प्रीतेः पात्रीभूतौ चिरं न्यवसताम्॥
_________________
१) प्रश्नाः— यशसोमः कीर्तिसोमश्च पित्र्यं वित्तं कथं व्ययचक्रतुः? यज्ञसोमः किं निमित्तं विदेशं प्रस्थितः? पाथेययाचनार्थंकीर्तिसोमस्यान्तिकं गते तस्मिन् कीर्तिसोमस्य जाया भर्तारं किमब्रवीत्? यज्ञसोमः कुत्र केन न्यगीर्यत? कथं तस्य भार्या भर्तारमजगरात् प्रत्यलभत?
२) रिक्तीभूतः, भ्रातृस्नेहान्वितः, भार्याभीतः, देवैकशरणः, महासत्वः, काञ्चनवेगाख्यः—एषां विग्रहवाक्यानि लिखत॥
३) शानच् प्रत्ययान्तैः रूपैः वाक्यानि पूरयत—
१) सज्जनः स्वधनं याचकेभ्यो (दा) … स्वयं (भुञ्ज्)… च व्ययी करोति।
२) दुर्जनः कापथे पदं ( नि+धा) … पापं (कृ) … च परेभ्यो द्रुह्यति।
३) रामायणम् (अधि+इ )…परां श्रियमधिगच्छति।
४) शास्त्रस्य तत्वं (ज्ञा )… जनो न नीचकर्माणि करोति।
५) सीतां (वि+चि)… मारुतिः सागरं सन्ततार।
६) सिंहासनम् (अधि+आस् )… राजा प्रजाः पालयति।
४) एकपदीकुरुत— पितुः आगतम्, स्वस्य इदम्, परस्य इदम्, अन्यस्य इदम्, जाया च पतिश्च, माता च पिता च॥
५) कृत्प्रत्ययान्ताः—
भी = ( बिभेति) भीतः, भीतवान्, भीत्वा, सम्भीय, भेतुम्, भयनीयम्, भेतव्यम्।
भिद् = ( भिनत्ति ) भिन्नः, भिन्नवान्, भित्त्वा, निभिद्य, भेत्तुम्, भेदनीयम्, भेत्तव्यम्, भेद्यम्॥
६) पर्यायाः—
१) वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात्।
२) गृहं गेहोदवसितं वेश्म सद्म निकेतनम्।
निशान्तपस्त्य सदनं भवनागारमन्दिरम्।
गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः।
(गृहाः— पुंलिङ्गे नित्यबहुवचनम् )॥
३) उत्तमाङ्गं शिरः शीर्षंमूर्धा ना मस्तकोऽस्त्रियाम्।
(ना = पुंलिङ्गः, अस्त्रियाम् = पुंसि नपुंसके च)॥
२५. अशोकः
** **क्रिस्तोः पूर्वे २७२—तमवर्षादारभ्य २३२—तमवर्षपर्यन्तमशोको नाम बुद्धमतावलम्बी महाराजो भारतवर्षस्याधिपत्यमवहत्। यः खलु चन्द्रगुप्तमौर्यस्य पौत्रो बिन्दुसारस्य पुत्रश्चासीत्। स एवाशोकवर्धन इत्यपि समाख्यायते। स चेक्ष्वाकुवंशीयः श्रीराम इव प्रजानामैहिकमामुष्मिकं च योगक्षेमं व्यचिन्तयत्॥
प्रथमतस्तावदशोकः समरप्रियोऽवर्तत। महदपि स्वीयं राज्यं कलिङ्गदेशस्य विजयेन महत्तरं कर्तुं मतिं बबन्ध। सन्नद्धसहायश्च राज्यावाप्तेः परं द्वादशे वर्षे कलिङ्गानभ्ययुङ्क्त। प्रवृत्तश्च तत्न कलिङ्गाशोकसैन्ययोस्त्रैवार्षिको दारुणः सङ्ग्रामः। तृतीयस्याब्दस्यान्ते जयलक्ष्मीरशोकमशिश्रियत्॥
जितराज्यस्त्वशोकः सशोको जातः। भयानके तस्मिन् सङ्ग्रामे सहस्रशः प्रतिपक्षीयान् विशसितान् दृष्टवतस्तस्य मनसि महान् शोकः समजनि। अतः सद्य एवायं भूयः समरोद्यमाद्विरराम। पश्चात्तापाभिभूतश्च संन्यासमङ्गीकृत्य बुद्धमहर्षेः शान्तान् शुद्धांश्चोपदेशान् अन्ववर्तत। अहिंसामेव परमं धर्ममाकलयन् मृगयाविनोदमप्यहासीत्। आकीटादामर्त्यं सर्वानपि जीवराशीन् स्वीयप्रजात्वेनागणयत्॥
सोऽयं राजर्षिः प्रजानां परितोषणे कृतमतिः परस्परं विवदमानानां विविधानां मतानां सामरस्यमुपपादयन् मतभेदमूलकं जनानां मिथो वैरस्यं च परिहरन् प्रजासु मिथः सोदरस्नेहमुदपादयत्। स्वयं बौद्धमतमवलम्बमानोऽप्ययं मतान्तराय नाद्रुह्यत्।
प्रत्युत स्वस्वधर्मात् प्रमाद्यतो जनानदण्डयत्। सर्वमतस्थानपि समदृष्ट्यापश्यत्॥
अपि चायमशोकमहाराजः स्वीयानां प्रजानामाचारस्य प्रत्यवेक्षणाय तासां लोकयात्रासरणेः परिष्करणाय च स्वसाम्राज्ये समन्तादधिकृतान् पुरुषान् न्ययोजयत्। असंस्कृतानां वन्यवर्गाणां शिक्षणाय सर्षत्रोपदेशकान् न्ययुङ्क्तः। किञ्चायं भूतदया, शान्तिः, कायचित्तयोः शुद्धिः, मातापित्रादीनां गुरुजनानामादरणमित्यादीन् विषयानधिकृत्य चतुर्दश नियमान् निरमासीत्। तांश्च शिलालेखेष्वर्पयित्वा प्रजानामवधारणाय भारतवर्षे समन्तात् प्रतिष्ठापयामास। येषु खलु केचन शिलालेखाः सम्प्रत्युपलभ्यमानास्तस्य चरितं तदीयं राज्यभारप्रकारं च बोधयन्ति॥
महाराजोऽयं स्वयमेवात्मानं प्रियदर्शिनमाह। तदनुरोधेन च प्रजानां प्रियमाचरन् मनुष्याणामिव मृगाणामपि तत्र तत्र चिकित्सालयानकल्पयत्। पथिकानां विश्रमाय बहुत्र पथिकाश्रमान् निरमापयत्। सर्वत्र पथि कूपतटाकादीनखानयत्। सञ्चारसौकर्याय यथापेक्षं रथ्या अकारयत्। रथ्यानामुभयोः पार्श्वयोश्छायावृक्षानवर्धयत्। आबालवृद्धं प्रजाः सर्वाः परमानन्दमन्वभूवन्॥
अशोकस्त्वेतावतोऽप्युपकारानपर्याप्तान् मन्यमानः स्वयमतृप्तएवासीत्। दुर्लभा एवैतादृशाः प्रजाहितैषिणो राजानः। सर्वथैवायं महाराजः सर्वत्र सर्वदा सर्वेषां राज्ञामनुकरणीयः सर्वेषां जनानामनुस्मरणीयश्च भवति॥
—————————
१) प्रश्नाः— अशोकः कदा भारतवर्षस्याधिपत्यमवहत्? स प्रथमं कीदृश आसीत्, जितराज्यः कीदृशो जातः? स प्रजानां परितोषणे कृतमतिः किं व्यधात्? अशोकीयान् शिलालेखानधिकृत्य किं जानीध्वे? राजा सावात्मानं प्रियदर्शिनं ब्रुवन् किं चकार?
२) महाराजः, समरप्रियः, जयलक्ष्मीः, अहिंसा, राजर्षिः, मातापित्रादयः, परमानन्दः—एषां विग्रहवाक्यानि लिखत॥
३) अव्ययीभावः—
१) कीटानवधीकृत्य = आकीटम्।
२) मर्त्यानभिव्याप्य = आमर्त्यम्।
३) बालानवधीकृत्य वृद्धानभिव्याप्य = आबालवृद्धम्॥
४) एकपदीकुरुत—अधिपतेः भावः, इक्ष्वाकुवंशे भवः, इह भवम्, अमुष्मिन् भवम्, परत्र भवम्, अतिशयेन महत्, पुत्रस्य अपत्यं पुमान्, दुहितुः अपत्यं पुमान्॥
५) मध्यमपदलोपी तत्पुरुषः—
१) फलप्रधाना वृक्षाः = फलवृक्षाः।
२) पुष्पयुक्ता लताः = पुष्पलताः॥
३) छाया प्रधाना वृक्षाः = छायावृक्षाः।
४) शाकप्रियः पार्थिवः = शाकपार्थिवः॥
६) कृत्प्रत्ययान्ताः—
१) नह् = (नह्यति) नद्धः, नद्धवान्, नद्ध्वा, संनह्य, नद्धुम्, नहनीयम्, नद्धव्यम्।
२) शस् = (शसति) शस्तः-शसितः, शस्तवान्, शसितवान्, शस्त्वा–शसित्वा, विशस्य, शसितुम्, शसनीयम्।
३) शंस् = शस्तः–शंसितः, शस्तवान्–शंसितवान्, शस्त्वा–शंसित्वा, प्रशस्य, शंसितुम्, शंसनीयम्॥
७) पर्यायाः—
१) समानोदर्य सोदर्य सगर्भ्य सहजाः समाः।
२) अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि।
३) ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमूः।
वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्॥
________________
२६. एकलव्यः
पुरा पाण्डवानामास्थाने द्रोणाचार्यो नाम कश्चिद्धनुर्वेदकोविदो बभूव। यः खलु पाण्डवान् कौरवानन्यांश्च क्षत्त्रिय- कुमारान् धनुर्विद्यामध्याप्य लोके विश्रुतिमवाप। यं यं सोऽशिक्षयत् स सर्वेऽपि परेषामधृष्योऽभूत् ॥
गच्छति काले कदाचिदेकलव्यो नाम निषादकुमारस्तस्मात् शस्त्रविद्यामधिगन्तुकामस्तदन्तिकं प्राप्य विनयान्वितः साष्टाङ्गं प्रणिपत्य स्वाभीष्टं तस्मै व्यजिज्ञपत्। द्रोणाचार्यस्तस्य विनयेन प्रीतोऽपि तस्येच्छां निर्वोढुमक्षमस्तमाह—‘नैषादे ! अहं केवलं क्षत्त्रियकुलोत्पन्नान् शिक्षयामि। त्वं च निषादानां कुले समुत्पन्नः। अतस्ते शिक्षणमशक्यमेव’ —इति॥
तच्छ्रुत्वा स निषादः सविषादोऽरण्यं प्रत्यगमत्। गत्वा च कुत्रचिदेकान्ते मृन्मयीं द्रोणाचार्यस्य प्रतिकृतिं प्रतिष्ठाप्य तस्याः पुरस्तात् सविनयो भूत्वा स्वयमेव शस्त्रविद्यां पर्यशीलयत्। कियतैव कालेन स बाणस्य सन्धाने मोचने संहरणे च परमं प्रावीण्यमध्यगच्छत्॥
अत्रान्तरे पाण्डवाः कदाचिन्मृगयार्थं तदेवारण्यं प्राविक्षन्। तानेकः सारमेयोऽप्यन्यवर्तत। धीरः स सारमेयः प्रश्लिष्टमात्रस्तारं भषन्नितस्ततो धावन्नेकलव्यमभ्यद्रवत्। आस्यं व्यादाय भषतस्तस्य मुखे युगपदेकलव्यः सप्त शरान् प्रेरयामास। सव शरविद्धवदनो रक्तसिक्ताङ्गः सारमेयः पाण्डवानामभ्यर्णमगच्छत्॥
<MISSING_FIG href="../books_images/U-IMG-1733504255Screenshot2024-12-06222655.png"/>
पाण्डवाश्च तं तादृगवस्थं दृष्ट्वा व्याकुलीभावमुपगताः सद्य एव तेन शुना दर्श्यमानमार्गा एकलव्यस्यान्तिकमुपेत्य बाणप्रयोगे तस्य लोकोत्तरं हस्तलाघवं वीक्ष्य विस्मिताः—‘अये ! कस्त्वम्? कस्य शिष्यः? —इत्यप्राक्षुः?’। सोऽवादीत्—‘आर्याः ! अहं
निषादाधिपतेर्हिरण्यधनुषः पुत्रस्तत्रभवतो द्रोणाचार्यस्य शिष्यश्चास्मि’ —इति॥
तदाकर्ण्य पाण्डवास्तस्य शस्त्रविद्यानैपुण्येनात्मन्यवज्ञां कुर्वन्तो गृहं प्रत्यागत्य द्रोणाचार्यं सखेदमवादिषुः— ‘आचार्य! वयमेव भवतः शिष्येष्वप्रतिमाः शूरा इत्यसकृदुक्तवता भवता नूनं वञ्चिताः स्मः। यतो ह्यस्ति कश्चिदरण्यैकान्ते शस्त्रविद्यायामस्मानतिशयानो भवतः शिष्यो निषादकुमारः’ —इति॥
तन्निशम्य द्रोणाचार्यः साश्चर्यहृदयः सद्य एव पाण्डवैः साकं वनमागत्यैकलव्यमपृच्छत्— ‘अये! कथं त्वमसि मम शिष्यः?’ —इति। एकलव्यः सप्रश्रयं प्रणिपत्य प्रत्युवाच— ‘आचार्य! अहं तावद्भवन्तमेवानुध्यायन् भवत एव च नैपुण्यमनुचिन्तयन् शस्त्रविद्यां पर्यचैषम्। तस्मात् ते शिष्य एवास्मि’ —इति॥
द्रोणाचार्योऽब्रवीत्— ‘यदि त्वं मम शिष्यस्तर्हि देहि मे गुरुदक्षिणाम्’ —इति। तस्य वचनं श्रुत्वैकलव्यः परं तुष्टः प्रत्यब्रवीत्— ‘आचार्य! असंशयं दातव्या गुरुदक्षिणा। परन्तु यथातृप्ति दातुमिदानीमक्षमोऽस्मि। अथापि मत्सकाशे यदस्ति तदवश्यमेव दास्यामि। विस्रब्धं कथ्यतां यदपेक्षितम्’ —इति। द्रोणाचार्योऽवदत्— ‘यदि तथ्यमुक्तं त्वया तर्हि तव दक्षिणहस्तस्याङ्गुष्ठं मे दक्षिणां कल्पय’ —इति। एकलव्यो द्रागनक्षरं स्वीयं दक्षिणहस्ताङ्गुष्ठं च्छित्वा सभक्ति द्रोणाचार्याय समर्पयामास॥
निरङ्गुष्ठ एकलव्यस्ततः परं शस्त्रप्रयोगेऽसमर्थो जातः। अथापि स आत्मानमनृणं मन्यमानः सुतरां मुमुदे। पाण्डवाश्च वीतचिन्ता अभूवन्। एकलव्यस्य गुरुभक्तिस्त्रैलोक्येऽप्यश्लाघ्यत॥
१) प्रश्नाः— एकलव्यः कः? स किमर्थं द्रोणाचार्यमुपगतः? कुतस्तस्य प्रार्थना तेन प्रत्याख्याता? तत एकलव्यः किमकरोत्? मृगयार्थमरण्यं गतेषु पाण्डवेषु किं सम्भूतम्?ते प्रत्यागत्य द्रोणाचार्यं किमवोचन्?द्रोणाचार्यः किमकरोत्?
२) सविनयः, रक्तसिक्ताङ्गः, गुरुदक्षिणा, अक्षमः, अनृणः, असंशयम्, निरङ्गुष्ठः—एषां विग्रहवाक्यानि लिखत॥
३) एकपदीकुरुत—प्रवीणस्य भावः, लघोः भावः, गुरोः भावः, निपुणस्य भावः, पटोः भावः॥
४) ल्यबन्तरूपैः वाक्यानि पूरयत—
१) सुतं सुचरितं (वि+ईक्ष्)… पिता प्रीतोऽभवत्।
२) मारुतिः सीतायाः पादयोः (प्र+नि+पत्) ……रामस्य सन्देशं व्यजिज्ञपत्।
३) शिष्यः गुरोः कुलम् (उप+इ) विद्यामभ्यस्यति।
४) ते सर्वे (सं+भू )… सायं समुद्रतीरमगमन्
५) अधीते, तिष्ठति, करोति, शिक्षते, पश्यति—एषां णिजन्तरूपैः वाक्यानि रचयत॥
६) कृत्प्रत्ययान्ताः—
१) द्रु = (द्रवति) द्रुतः, द्रुतवान्, द्रुत्वा, अनुद्रुत्य, द्रोतुम्, द्रवणीयम्, द्रोतव्यम्।
२) स्मि = (स्मयते) स्मितः स्मितवान्,स्मित्वा, विस्मित्य, स्मेतुम्, स्मयनीयम्,स्मेतव्यम्।
७) पर्यायाः—
१) धन्वी धनुष्मान् धानुष्को निषङ्गयस्त्री धनुर्धरः।
२) धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्।
३) पृषत्कबाणविशिखा अजिह्मगखगाशुकाः।
कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः॥
२७. भवभूतेः सूक्तयः
लौकिकानां हि साधूनामर्थं वागनुवर्तते।
ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति॥ १
ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः।
सा योनिः सर्ववैराणां सा हि लोकस्य निर्ऋतिः॥ २
कामं दुग्धे विप्रकर्षत्यलक्ष्मीं
कीर्तिं सूते दुष्कृतं या हिनस्ति।
शुद्धां शान्तां मातरं मङ्गलानां
धेनुं धीराः सूनृतां वाचमाहुः॥ ३
शास्त्रे प्रतिष्ठा सहजश्च बोधः
प्रागल्भ्यमभ्यस्तगुणा च वाणी।
कालानुरोधः प्रतिभानवत्व-
मेते गुणाः कामदुघाः क्रियासु॥ ४
वज्रादपि कठोराणि मृदूनि कुसुमादपि।
लोकोन्तराणां चेतांसि को हि विज्ञातुमर्हति॥ ५
**वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जड़े
न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा।
भवति हि पुनर्भूयान् भेदः फलं प्रति तद्यथा
प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदां चयः॥ ६ **
न तेजस्तेजस्वी प्रसृतमपरेषां विषहते
स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः।
मयूखैरश्रान्तं तपति यदि देवो दिनकरः
किमाग्नेयो ग्रावा निकृत इव तेजांसि वमति॥ ७
———————
१) प्रश्नाः— केषां वागर्थमनुवर्तते। केषां च वाचमर्थोऽनुधावति? सूनृतां वाचं धीराः कुतो धेनुमाहुः? “एते गुणाः कामदुघाः क्रियासु " के ते गुणाः? लोकोत्तराणां चेतांसि कीदृशानि? प्राज्ञजडयोर्भेदं स्ववाक्यैर्वर्णयत। “स तस्य स्वो भावः “कः? “निकृत इव तेजांसि वमति” कः?
२) अभ्यस्तगुणा, उन्मत्तदृप्तयोः, सहजः, अकृतकः, दिनकरः—एषां विग्रहवाक्यानि लिखत॥
३) भावार्थकप्रत्ययाः—
१) प्रगल्भस्य भावः = प्रगल्भता, प्रगल्भत्वम्, प्रागल्भ्यम्।
२) जडस्य भावः = जडता, जडत्वम्, जाड्यम्।
३) सकलस्य भावः = सकलता, सकलत्वम्, साकल्यम्।
४) कृत्स्नस्य भावः = कृत्स्नता, कृत्स्नत्वम्, कार्त्स्न्यम्॥
४) एकपदीकुरुत— आदौ भवाः, अन्ते भवाः, मध्ये भवाः, अन्तः भवाः, बहिः भवाः, लोके भवाः॥
५) उपपदसमासः—
१) कामं दुहन्तीति = कामदुघाः।
२) कुम्भं करोतीति = कुम्भकारः।
३) तत्वं जानातीति = तत्वज्ञः।
४) तन्तुं वयतीति = तन्तुवायः॥
६) कृत्प्रत्ययान्ताः—
१) मद् = (माद्यति) मत्तः, मत्तवान्, मदित्वा, संमद्य, मदितुम्, मदनीयम्, मदितव्यम्।
२) दृप् = (दृप्यति) दृप्तः, दृप्तवान्, दर्पित्वा, संदृप्य, दर्पितुम्, दर्पणीयम्, दर्पितव्यम्॥
७)पर्यायः—
१) विश्वं तु जगती लोको विष्टपं भुवनं जगत्।
२) शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः।
३) चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः।
४) निकृतः स्यात् विप्रकृतः॥
_________________
२८. श्रीमध्वाचार्यः
अस्ति कर्णाटकेषु ‘उडुपि’ इति प्रसिद्धं रजतपीठपुरं नाम वैष्णवानां पुण्यक्षेत्रम्। तस्य च नातिदूरवर्तिनि पाजकनाम्नि क्षेत्रे श्रीमान् मध्वाचार्यो जनिमलभत। यो हि ११९९-मते क्रिस्त्वब्दे विलम्बिनाम्नि संवत्सरे आश्वयुजमासे शुक्लपक्षे दशम्यां तिथौ वेदवतीमध्यगेहभट्टयोः पुत्रत्वेनावततार॥
जातस्य च कुमारस्य पिता वासुदेव इति नाम चकार। बाल एवायं कमनीयाभिर्लीलाभिः सर्वस्या अपि जनतायाश्चेतांस्याह्लादयामास। सम्प्राप्तश्च क्रमेण विद्याग्रहणयोग्यं वयः पित्रोपनीतः स सर्वान् वेदान् सर्वाणि शास्त्राणि चापीयसैव कालेन जग्राह॥
अधिगताखिलवेदश्च वेदान्ताध्ययनाय रजतपीठपुरेऽनन्तेश्वराभिधं क्षेत्रमधितष्ठिवांसमच्युतप्रेक्षं नाम वेदान्तपारगं यतिवर्यं शरणं प्रापत्। तस्मादद्वैतवेदान्तमधीयानोऽयमाचार्यः प्रतिपदं तत्रानुपपत्तिरुद्भाव्य द्वैतस्यैव सत्यत्वमुपपादयामास। तस्य प्रतिभाशक्त्या तुष्टोऽच्युतप्रेक्षाचार्यस्तस्य ‘पूर्णप्रज्ञः’ इति नाम कृत्वा लोकानुग्रहाय द्वैतधर्मं जगति प्रचारयितुं तमचोदयत्॥
आचार्योऽपि तस्मादेव यतिप्रवरात् संन्यासमङ्गीकृत्य सर्वत्र तीर्थक्षेत्राण्यटन् मधुमयीभिर्भणितिभिः सर्वस्य लोकस्य हृदयान्याददानो द्वैततत्त्वं सर्वत्र प्रख्यापयामास। मधुरभाषित्वादयमाचार्यः ‘मध्वाचार्यः’ इति दिगन्तेषु प्रथामवाप। अनन्तरमयं मध्वाचार्यो वदरींप्राप्य कञ्चित् कालं तत्र निवसन् आनन्दकराणि द्वैतार्थप्रतिपादकानि ग्रन्थरत्नानि प्रणिनाय। तेनासौ ‘आनन्दतीर्थः’ इत्याख्यामविन्दत। सोऽयमाचार्यः पूर्वैः कृतानि एकविंशतिं भाष्याणि खण्डयित्वा ब्रह्मसूत्रग्रन्थस्य द्वाविंशं भाष्यमकृत। भगवद्गीतादीनामपि द्वैतानुगुणमर्थं वर्णयामास॥
अथ ततः प्रस्थित आचार्यः सर्वत्र दिक्षुविचरन् प्रतिवादिभयङ्करांस्तार्किकसिंहान् विजित्य ‘अनुमानतीर्थः’ इति प्रसिद्धिमलभत। ततः पश्चादनन्तशयनं प्राप्तस्तदात्वे यदृच्छया तत्र सङ्गतं विद्याशङ्करं नाम श्रृङ्गगिरिमठाधिपतिं वादे निर्जित्य तद्देशीयेन महाराजेन सुतरां सम्मानितोऽभूत्॥
सोऽयं श्रीमध्वाचार्यः सांयात्रिकद्वारा द्वारकातः समासादितां विष्णोरवतारभूतस्य श्रीकृष्णस्य प्रतिमां रजतपीठपुरे प्रतिष्ठाप्य तत्पूजार्थमष्टौ संन्यासिनो नियोजयामास। ते चाष्टौ पश्चादष्टानां मठानामधिपतयोऽभूवन्। ये खल्वष्टौ मठाधिपतयः शिष्यपरम्परयाऽनुवर्तमानाः वर्षद्वयपर्यायक्रमेण श्रीकृष्णमर्चयन्तो द्वैतं प्रचारयन्तश्चाद्य यावदाचार्यस्याज्ञां निर्वहन्ति॥
श्रीमदाचार्योऽपि निर्वर्तितात्मकृत्यः पुनरपि बदरीं प्राप्य तत्रशाश्वतिकीं योगासिकामध्यासिष्ट। यस्त्रेतायां हनूमत्त्वेन द्वापरे भीमत्वेन चावातरत् स एव वायुदेवः कलौ भगवत्कार्य-
साधनायपूर्णप्रज्ञत्वेनावतीर्ण इत्याहुः। अत एव श्रीमदाचार्योऽयं ‘वायुः’ इति ‘मुख्यप्राणः’ इति ‘भीमः’ इति च व्यपदिश्यते॥
_________________
१) प्रश्नाः— मध्वाचार्यः कुत्र कयोः पुत्रत्वेनावततार? तस्य पितृकृतं नाम किम्? स वेदान्ताध्ययनं कुत्र कथं चकार? तस्य ‘मध्वाचार्यः’ ‘आनन्दतीर्थः’ ‘अनुमानतीर्थः’ इत्येते व्यपदेशाः कथं सिद्धाः? स किं मतं लोके प्रचारयामास? स कस्यावतारः? कुत्र स योगासिकामध्यासिष्ट?
२) यतिवर्यः, प्रतिपदम्, प्रतिवादिभयङ्कराः, तार्किकसिंहाः, मधुरभाषी—एतेषां विग्रहवाक्यानि निर्दिशत॥
३) अधो निर्दिष्टानां क्वसुप्रत्ययान्तानां शब्दानां यथोचितैः रूपैः वाक्यानि पूरयत—
१) पीठे (तस्थिवस्) आचार्यं शिष्याः प्रणमन्ति।
२) हरिवधार्थम् (उपेयिवस्) पूतना तेनैव न्यहन्यत।
३) मध्वाचार्येण सह वादाय (आजग्मिवस्) विद्वांसस्तेन पराजिताः।
४) सत्यम् (ऊचिवस्) पुत्रस्य वचनैस्तुष्टः पिता तमभ्यनन्दत्॥
४) मत्वर्थीयाः प्रत्ययाः—
१) रूपवान्, रसवान्, धनवान्, विद्यावान् इत्यादयः।
२) दण्डी, सुखी, दुःखी, धनी, फली, बली इत्यादयः।
३) फलिनः, मलिनः, बर्हिणः इत्यादयः।
४) तुन्दिलः, पिच्छिलः, पङ्किलः, सिकतिलः इत्यादयः॥
५) अधीते, आदत्ते, निरुन्धे, कुरुते—एषां शानच् प्रत्ययान्तानि रूपाणि निर्दिशत॥
पर्यायः—
१) भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी।
२) ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते।
३) प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता॥
______________
२९. जीर्णधनः श्रेष्ठी च
आसीव्द्याघ्रपुरे जीर्णधनो नाम वणिक्। तस्य पित्र्यं धनं यत्किञ्चिदासीत्। स तत् क्रमशो भोगेन क्षपितवान्। अथ द्रव्यक्षयात् तत्रवस्तुं लज्जमानो देशान्तरं गन्तुं मतिं चक्रे। तस्य गृहे लोहमयी पूर्वपुरुषार्जिता तुला काऽप्यासीत्। तां स्वमित्रस्य कस्यापि श्रेष्ठिनो गृहे न्यासं कृत्वा देशान्तरं गतः। बहून् वर्षांस्तत्र तत्नोषित्वा पुनः खपुरमाजगाम। आगत्य च श्रेष्ठिगृहं गत्वा—‘श्रेष्ठिन् ! मदीया निक्षेपतुला दीयताम्’ —इति तं प्रार्थयत॥
वञ्चकः श्रेष्ठी तु तां स्वयमपहर्तुमिच्छन् प्राह— ‘भोः! त्वदीया तुला कस्याञ्चिद्रात्रौ मूषिकैर्भक्षिता। तद्गम्यताम्’ —इति। तच्छ्रुत्वा धीमान् जीर्णधनश्चिन्तयामास’—न हि लोहमयीं तुलां मूषिका भक्षयितुं शक्नुवन्ति। अन्तः सत्यामेव तुलायामयमेवम् असत्यं वदति। अहो! अस्य वञ्चकस्य मूर्खतायाः प्रकारः। तत् केनोपायेन तुला मे सुलभा भवेत्? अस्तु, एवं करिष्ये’ —इति॥
अथ जीर्णधनः श्रेष्ठिनमुवाच— ‘सुमुख ! नास्त्यत्र तवापराधो यदि तुला मूषिकैर्भक्षिता। ईदृश एवायं संसारः। न किमप्यत्र
शाश्वतमस्ति। आस्तामेतत्। स्नातुं नदीं गमिष्यामि। तदिमं तव बालं स्नानोपकरणहस्तं मया सह प्रेषय’ —इति। सोऽपि मुढस्तुलालाभेन नितरां तुष्यन् बालमुवाच— ‘वत्स ! अयं तव पितृव्यः स्नातुं नदीं याति। अनेन सह स्नानोपकरणान्यादाय गच्छ’ —इति॥
अनन्तरं जीर्णधनस्तेन बालेन सार्धं नदीं जगाम। तत्र स स्नात्वा तं बालं नदीगुहायां सङ्गोष्यतद्द्वारं बृहत्या शिलयाऽऽच्छाद्य सत्वरं श्रेष्ठिगृहं गतः। अथ बालमदृष्ट्वा श्रेष्ठी तं पप्रच्छ— ‘कुत्र मे बालः?’ —इति। स एवं प्रतिवचनं ददौ— ‘श्रेष्ठिन् ! तब बालं नदीतटे समुपवेश्य स्नानमाचरति मयि कोऽपि श्येनः समागत्य बलात् तमपाहरत्’—इति। तच्छ्रुत्वा स आह— ‘मिथ्यावादिन् ! किमेवमसम्भावितं भाषसे? किं क्वचिच्छ्येनो बालमपहरेत्? समर्पय मे सुतम्। अन्यथा न्यायसभायां निवेदयिष्यामि’ —इति। जीर्णधनः प्राह— ‘श्रेष्ठिन् ! यथेच्छं समाचर। किं मया क्रियताम्। पश्यतो मे तव बालं श्येनोऽपहृत्य डयितः’ —इति॥
एवं विवदमानौ द्वावपि न्यायसभां गतौ। तत्र श्रेष्ठी तारस्वरेण प्रोवाच— ‘भो! न्यायाध्यक्ष! मम शिशुरनेन चोरेणापहृतः’ —इति। तदाकर्ण्य न्यायाधिपो जीर्णधनं पप्रच्छ— ‘भोः! किमस्य शिशुस्त्वयाऽपहृतः?’ —इति। स प्राह— ‘राजन्! नाहमस्य शिशुमपाहरम्। किन्तु पश्यतो मे नदीतटादस्य शिशुः श्येनेनापहृतः’ —इति। न्यायाधिपः प्राह— ‘भोः ! न सत्यमभिहितं भवता। किं श्येनो बालमपहरेत्?’ —इति॥
अथ जीर्णधनः प्राह—
न्यासीकृतां लोहतुलां यत्र खादन्ति मूषिकाः।
राजंस्तत्रहरेच्छ्येनो बालकं नात्र संशयः॥
न्यायाधिपः कथमेतदिति पप्रच्छ। जीर्णधनः सर्वं वृत्तं यथावत् तस्मै न्यवेदयत्। तदाकर्ण्य न्यायाधिपो जीर्णधनमतीव प्रशशंस। तुलालोभिनं श्रेष्ठिनं च निष्कशतेन दण्डयामास॥
________________
१) प्रश्नाः— जीर्णधनः किन्निमित्तं कुत्र लोहतुलां न्यासीकृत्य देशान्तरं गतः? प्रत्यागतेन तेन लोहतुलां प्रार्थितः श्रेष्ठी किं प्रत्यवोचत्? तद्वचनं श्रुत्वा जीर्णधनः किं चिन्तयामास? स श्रेष्ठिनो वञ्चनाय किमकरोत्? न्यायसभायां किं वृत्तम्?
२) जीर्णधनः, न्यायसभा, लोहमयी, देशान्तरम्, सुमुखः, निष्कशतम्—एषां विग्रहवाक्यानि वदत॥
३) एकपदीकुरुत—अपहर्तुमिच्छन्, सुखेन लब्धुं शक्या, मूर्खस्य भावः, निपुणस्य भावः॥
४) अधो निर्दिष्टेषु पूर्वाणि वाक्यानि सति सप्तमीत्वेन विपरिणमयत—
१) देवदत्तो भुङ्क्ते, यज्ञदत्तः समागच्छति।
२) वणिक् स्नानमाचरति,बालः श्येनेनापाह्रियत।
३) गुरुरध्यापयति, शिष्यो निद्राति।
४) अहं विद्यालयं गन्तुं प्रस्थितः, त्वं समागतः॥
५) अनादरे षष्ठी—पश्यतो मे श्येनस्तव बालमपहृत्य पलायितः—पश्यन्तं मामनादृत्येत्यर्थः। एवंविधान्युदाहरणान्तराणि दर्शयत॥
६) कृत्प्रत्ययान्ताः—
१) डी = (डयते) डयितः, डयितवान्, डयित्वा, उड्डीय, डयितुम्, डयनीयम्, डयितव्यम्।
२) डी = (डीयते) डीनः, डीनवान्, डयित्वा, उड्डीय, डयितुम्, डयनीयम्, डयितव्यम्॥
७) पर्यायाः—
१) पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम्।
२) मृषा मित्थ्या च वितथे।
३) उन्दुरुर्मूषिकोऽप्याखुर्गिरिका बालमूषिका।
४) पत्री श्येनः शशादनः॥
——————
३०. आस्तिको नास्तिकश्च
आस्तिकः सुतीर्थो नाम कश्चित् तैर्थयात्रिकः कदाचित् क्वचिदातपक्लान्तः कस्यचिन्न्यग्रोधतरोर्मूलं विश्रमायाससाद। तदा सुकेशो नाम कश्चिन्नास्तिको ग्रामान्तरं जिगमिषुस्तेनैव पथाऽऽगत्य तत्रैव वटच्छायायां तस्थौ। तत्र तयोरयं सल्ँलापः सम्प्रवृत्तः—
नास्तिकः— आर्य! कुतस्त्यो भवान्? कुत्र च प्रस्थितः?
आस्तिकः—सौम्य! अहं तावद्दाक्षिणात्यो विप्रः, तीर्थक्षेत्राटनार्थं प्रस्थितः। बहूनि तीर्थानि क्षेत्राणि च मया संदृष्टानि। इदानीं वाराणसीं प्रति गम्यते॥
नास्तिकः— आर्य! किमनेन कायक्लेशेन प्रयोजनम्? नूनमात्मा निरर्थकमायास्यते भवता॥
आस्तिकः—अये ! अपष्टूक्तं भवता। अस्ति खल्वीश्वरः सर्वसाक्षी योऽस्मभ्यं कर्मानुरूपं फलं यच्छति। यश्च खलु सुकृतिनः स्वर्गं दुष्कृतिनो निरयं च प्रापयति। तस्माल्लोकान्तरे सुखमभिलषद्भिरवश्यमेवानुष्ठेयमीदृशं कर्म॥
<MISSING_FIG href=”../books_images/U-IMG-1733567494Screenshot2024-12-07160046.png”/>
नास्तिकः—आर्य! अस्तीश्वर इति मुग्धालापोऽयं भवतः। न खल्वीश्वरमभिज्ञा प्रमाणयन्ति। ईश्वरो नाम कश्चिन्नास्त्येव॥
आस्तिकः—शान्तं पापम्। देवानांप्रियेण भवता सह भाषमाणोऽहं मुग्ध एव। अस्तु नमस्ते॥
नास्तिकः—आचार्य! मा स्म कुप्यः। इदं पृच्छामि—ईश्वरस्य सद्भावे किं मानम् ?
आस्तिकः—त्वमज्ञः। ईश्वरोऽस्तीति श्रुतयः शास्त्राणि चोद्धोषयन्ति॥
नास्तिकः—श्रुतयः शास्त्राणि चोन्मत्तप्रलपितानि। तान्यस्माकमप्रमाणानि॥
आस्तिकः—कुतस्तेषामप्रामाण्यमुच्यते?
नास्तिकः—तानि ह्यस्माभिरदृश्यमानमर्थं प्रतिपादयन्ति। ईश्वरः स्वर्गः नरकं पुण्यं पापम्—इमानि को वा विश्वस्यात्?
आस्तिकः—यद्यस्माभिरदृश्यमानं वस्तु नास्तीति ब्रूषे तर्हि यूरोप्खण्डे यल्लण्डनपुरं तन्नास्तीति ब्रूमः॥
नास्तिकः—लण्डनपुरमस्तीति पुस्तकेभ्योऽवगच्छामः॥
आस्तिकः—तानि पुस्तकानि भ्रान्तप्रलपितानीति ब्रूमः॥
नास्तिकः—आस्तामेतत्। लण्डनपुरं साक्षात् दृष्टवन्तो जनाः सन्ति। ते कथयन्ति तदस्तीति। तस्मात् तस्य सद्भावः प्रतीयते॥
आस्तिकः—तथैव साक्षात्कृतधर्माणो योगिनः कथयन्ति—ईश्वरोऽस्तीति। तस्मात् तस्य सद्भावः प्रत्येतव्यः॥
नास्तिकः—दृष्टान्तोऽयं मां व्यामोहयति॥
आस्तिकः—अन्यदपि तावत् कथयामि। अस्य पटस्य कर्ता न त्वया दृष्टः। सोऽस्ति वा न वा?
नास्तिकः—अस्त्येव। अन्यथा हि कथमुत्पद्येतायं पटः॥
आस्तिकः—एवं तर्ह्यवधारय—यथा हि घटपटादीनामुत्पत्तौ कुलालतन्तुवायादयः कर्तारो भवन्ति तथैवास्मान् परितो दृश्यमानानां वृक्षलतादीनामुत्पत्तौ कर्ता कश्चिदपेक्ष्यत एव। स एवेश्वरो नाम॥
नास्तिकः—सन्ति खलु लोके केचिन्निरीश्वरवादिनः। किं ते मूर्खाः?
आस्तिकः—सर्वेऽपीश्वरस्य सद्भावमङ्गीकुर्वन्त्येव। पश्य ! क्रैस्तवा मुसल्मानाश्चापि सर्वे सेश्वरवादिन एव॥
नास्तिकः—क्रैस्तवेषु न विद्वांसस्तस्य सद्भावमभ्युपगच्छन्ति॥
आस्तिकः—प्राप्ते हि भानुवासरे यो देवालयं न याति तादृशः कैस्तवो दुर्लभ एव॥
नास्तिकः—आर्य ! अस्ति चेदीश्वरः स किंरूपः? कथं च द्रष्टव्यः?
आस्तिकः—प्रश्नः सुकरः, उत्तरं दुष्करम्। अथाप्यवधेहि—ईश्वरः सर्वव्यापी सर्वकर्ता सर्वद्रष्टा सर्वशक्तः सर्वज्ञश्च भवति। स च ज्ञानैकगम्यः। चक्षुर्भ्यां द्रष्टुमशक्य एव॥
नास्तिकः—नानामतीयाः खलु भिन्नभिन्नमीश्वरं प्रतिपादयन्ति। तत्र को वा तथ्य ईश्वरः?
आस्तिकः—साधु पृष्टं त्वया ! मतभेदादीश्वरस्य नामानि परं भिद्यन्ते। ईश्वरस्तावदेक एव। तमेव केचिद्विष्णुरिति अपरे शिव इति, अन्ये बुद्ध इति चाहुः। उक्तं च—
यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः।
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः
सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः॥
नास्तिकः—आर्य ! अस्ति चेदीश्वरः स मूढः। यतो ह्येतस्मिन्नतिमहति न्यग्रोधपादपेऽत्यल्पानि फलानि, मृणालकोमलायां तनीयस्यां कूष्माण्डलतायामतिमहान्ति फलानि च सृजन्नी-
श्वरो बालिश एव भवितुमर्हति। (एवमाचक्षाणे तस्मिन्नेकं वटफलं नास्तिकस्य शिरस्यपप्तत्।) तदवलोक्यास्तिकस्तमाह—
आस्तिकः—पाषण्डहतक! विद्धीदानीमीश्वरस्य महिमानम्। न्यग्रोधवृक्षोऽयं छायार्थिभिः पथिकैः पशुभिश्च प्रतिक्षणमाश्रीयते। यद्यस्य फलानीश्वरः कूष्माण्डतुल्यान्यस्रक्ष्यत् तर्हि तेषां पतनेन बहवः प्राणिनो व्यपत्स्यन्त। तादृश्या विपत्तेः परिरक्षितुं न्यग्रोधवृक्षोऽयं भगवता छायाप्रधानः सृष्टः॥
नास्तिकः—आचार्य! सत्यमुपन्यस्तं भवता। तत्त्वमेव कथयन्ति श्रुतयः शास्त्राणि च। अस्तीश्वरः सर्वज्ञः। सोऽत्यन्तं क्रान्तदर्शीदयालुश्च। तस्यैव कारुण्येनाहमितः सजीवो व्रजामि। नमो भगवते लोकस्य नियन्त्रे सर्वशक्ताय॥
————————
१) प्रश्नाः—आस्तिकनास्तिकयोः सल्ँलापः कुत्र प्रवृत्तः? ईश्वरस्य सद्भावः कथं प्रत्येतव्यः? ईश्वरः किं रूपः? न्यग्रोधवृक्षो भगवता किमिति च्छायाप्रधानः सृष्टः?
२) जिगमिषुः, तिष्ठासुः, विवक्षुः, चिकीर्षुः—एषां विग्रहवाक्यानि निर्दिशत॥
३) आस्ति दिष्टमिति मतिरस्य = आस्तिकः,
नास्ति दिष्टमिति मतिरस्य = नास्तिकः॥
४) भवार्थक प्रत्ययान्ताः—
१) दाक्षिणात्यः। ५) अत्रत्यः।
२) औत्तराहः। ६) तत्रत्यः।
३) पौरस्त्यः। ७) कुत्रत्यः।
४) पाश्चात्यः। ८) यत्रत्यः॥
५) सुष्ठु, दुष्ठु, अपष्ठु—एतैर्वाक्यानि रचयत॥
६) अलुक् समासः—देवानांप्रियः, दास्याःपुत्रः, ग्रामेवासः, अग्रेसरः, सरसिजम्, पङ्केरुहम्, आत्मनेपदम्, परस्मैपदम्॥
७) कृत्प्रत्ययान्ताः—
१) मुह् = (मुह्यति) मुग्धः— मूढः, मुग्धवान्—मूढवान्, मुहित्वा—मोहित्वा, विमुह्य, मोहितुम्, मोहनीयम्, मोहितव्यम्।
२) क्रम् = (क्रामति) क्रान्तः, क्रान्तवान्, क्रमित्वा-क्रान्त्वा, उपक्रम्य, क्रमितुम्, क्रमणीयम्, क्रमितव्यम्।
८) पर्यायाः—
१) अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः।
२) अस्त्री पङ्कं पुमान् पाप्मा पापं किल्विषकल्मषम्।
कलुषं वृजिनैनोऽधमंहो दुरितदुष्कृतम्।
(अत्री = पुंलिङ्गः, नपुंसकलिङ्गश्च)।
(पुमान् = पुंलिङ्गः)।
३) स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः॥
__________________
३१. राजा कविश्च
अहं च त्वं च राजेन्द्र ! लोकनाथाबुभावपि।
बहुव्रीहिरहं राजन् ! षष्ठीतत्पुरुषो भवान्॥
१
**राजंस्त्वत्कीर्तिचन्द्रेण तिथयः पूर्णिमाः कृताः।
मद्गेहान्न बहिर्याति तिथिरेकादशी भयात्॥ २ **
सर्वज्ञ इति लोकोऽयं भवन्तं भाषते मृषा।
पदमेकं न जानीषे वक्तुं नास्तीति याचके॥ ३
**अपूर्वेयं धनुर्विद्या भवता शिक्षिता कथम्।
मार्गणौघः समायाति गुणो याति दिगन्तरम्॥ ४ **
**यदस्ति तद्ददासीति नैतच्चित्रमवैम्यहम्।
भयं स्वप्नेऽपि ते नास्ति दत्तं तद्विद्विषां कथम्॥
५ **
**सर्वदा सर्वदोऽसीति मिथ्या त्वं कथ्यसे जनैः।
नारयो लेभिरे पृष्ठं न वक्षः परयोषितः॥
६ **
यशोदयामण्डितकान्तदेहो
बाल्येऽपि गोपालजनस्य नेता।
गोमण्डलं पासि बलेन युक्तः
कथं न राजन् ! पुरुषोत्तमोऽसि॥ ७
————————
१) प्रश्नाः— कथं राजा कविश्चोभावपि लोकनाथौ? का कस्य गेहान्न बहिर्याति? कुतो न बहिर्याति? “सर्वज्ञ इति लोकोऽयं भवन्तं भाषते मृषा” कुतः? “अपूर्वेयं धनुर्विद्या भवता शिक्षिता” कथमपूर्वत्वम् ?“नैतच्चित्रम्” किं तत्? “सर्वदोऽसीति मिथ्या त्वं कथ्यसे” कुतः? राज्ञः पुरुषोत्तमत्वं कथम्?
२) राजेन्द्रः, कीर्तिचन्द्रः, अपूर्वा, मार्गणौघः, परयोषितः, गोमण्डलम्, पुरुषोत्तमः—एषां विग्रहवाक्यानि निर्दिशत॥
३) प्रयोगं विपरिणमयत—
१) राजंस्त्वत्कीर्तिचन्द्रेण तिथयः पूर्णिमाः कृताः।
२) सर्वज्ञ इति लोकोऽयं भवन्तं भाषते मृषा।
३) पदमेकं न जानीषे वक्तुं नास्तीति याचके।
४) सर्वदा सर्वदोऽसीति मिथ्या त्वं कथ्यसे जनैः॥
४) उपपदसमासः—
१) सर्वंजानातीति = सर्वज्ञः।
२) सर्वंददातीति = सर्वदः।
३) गगने तिष्ठतीति = गगनस्थः।
४) पुरः गच्छतीति = पुरोगः।
५) पुरः सरतीति = पुरःसरः॥
५) कृत्प्रत्ययान्ताः—
१) पा = (पाति) पातः, पातवान्, पात्वा, परिपाय, पातुम्, पानीयम्, पातव्यम्।
२) पा = (पिबति) पीतः, पीतवान्, पीत्वा, निपाय, पातुम्, पानीयम्, पातव्यम्॥
३) घ्रा = (जिघ्रति) घ्रातः, घ्राणः, घ्रातवान्-घ्राणवान्, घ्रात्वा, आघ्राय, घ्रातुम्, घ्राणीयम्, घ्रातव्यम्, घ्रेयम्॥
६) पर्यायाः—
१) वनीपको याचनको मार्गणो याचकार्थिनौ।
२) आतङ्कः स्यादरत्रासौ भीतिर्भीः साध्वसं भयम्।
३) रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः।
द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः।
अभिघातिपरासतिप्रत्यर्थिपरिपन्थिनः॥
______________
३२. शरणागतरक्षणम्
आसीत् पूर्वमुशीनरेषु धार्मिको दयालुः सत्यसन्धश्च शिबिर्नाम नरपतिः। यः खलु सर्वाणि भूतान्यात्मवत् पश्यन् न केवलं मनुष्यानेव किन्तु पशुपक्ष्यादीनपि प्रेम्णा पर्यपालयत्। इतरेषां प्राणिनां जायमानमुपद्रवमात्मन एवामन्यत॥
श्रूयते च—एकदा कश्चिच्छ्येनो बुभुक्षितः कपोतमेकमन्वधावत्। कपोतोऽपि श्येनाद्भीतो द्रुतं पलायमानः शिबिं राजानं शरणमगच्छत्। राजा च तमभयप्रदानेन सान्त्वयामास। तेन समयेन श्येनोऽपि द्रुतं धावन् राजान्तिकमाजगाम। उवाच च— ‘राजन् ! बुभुक्षा मामत्यन्तं पीडयति। चिरादिमं कपोतमनु—धावन्नस्मि। परं ग्रहीतुं नाशकम्। इदानीं मे मनोरथः फलितः। मुञ्च मे कपोतम्’ —इति। राजाऽब्रवीत्— ‘विहगोत्तम ! अयं तपस्वी कपोतो रक्षार्थंमामुपगतः। शरणागतस्य परिपालनमेव राज्ञः प्रथमो धर्मः। तस्मादिमं न मोक्तुमुत्सहे’ —इति॥
श्येनोऽवदत्— ‘राजन् ! यथाऽयं कपोतो रक्षार्थीतथाऽहमपि भिक्षार्थीत्वामुपसन्नः। शरणागतयोरेकस्य पुरस्कारः अन्यस्य तिरस्कारश्चायुक्तः। अपि च निराहारस्य मे द्वित्राणि दिनान्यतीतानि। यदि कपोतमिमं न मुञ्चसि तर्ह्यद्यैव मे प्राणा विपत्स्यन्ते। विपन्ने च मयि मम पुत्रा दाराश्चानाथा मरिष्यन्ति। तेन ते महानधर्मः स्यात्। अतो बहूनां रक्षणार्थं मुच्यतामयमेकः कपोतः’ —इति। राजाऽऽचष्ट— ‘महाभाग! तव तावदन्यदेव भक्ष्यं कल्पयामि। तेन त्वं जीवितं धारयिष्यसि। कपोतश्चायं रक्षितो भविष्यति’ —इति॥
श्येनोऽकथयत्— 'राजन् ! कपोतो नाम श्येनानां विधात्रा विहित आहारः। अतः कपोतादन्यैर्वस्तुभिर्न मे प्रयोजनम्’ —इति। राजाऽऽह— 'अयि ! पतत्रिन् ! वृथाऽयं ते निर्बन्धः। मम जीवितस्य व्ययेनाप्यस्य प्राणाः परिरक्षणीया इति धीरो मे निश्चयः। अतः कपोतादन्यदभिमतं वस्तु याचस्व। तत् ते दास्यामि' —इति॥
श्येन आह—‘राजन् ! यदीदृशस्ते निश्चयस्तर्हिमा नाम मुच्य तां कपोतः। तव शरीरस्य दक्षिणभागात् कपोतप्रमाणं मांसमुत्कृत्य मह्यं देहि। तद्भक्षणेनाहं तृप्तो गमिष्यामि’ —इति। तच्छ्रुत्वा राजा सन्तुष्टान्तरङ्गो यदि मद्देहमांसेनैकस्य प्राणिनो रक्षणं भविष्यति तर्हि कृतार्थं मे जनुरित्याभाष्य सविधे तिष्ठन्त्याः स्वभार्याया मुखे चक्षुः पातयामास ॥
राजन्यपुत्री सा साध्वी पत्युराकूतमवगत्य तस्य विशदं यशः पालयितुमिच्छन्ती खड्गमादाय तस्य दक्षिणाङ्गान्येकैकशश्छित्वा मांसमादाय तुलामारोपयत्। यथा यथा मांसेनाऽऽपूर्यते तुला तथा तथा कपोतो गुरुतामृच्छति। शरीरस्य दक्षिणभागः समग्रोऽप्यवसन्नः। तदानीं राज्ञो वामनयनादेकोऽश्रुबिन्दुः क्षितौ पपात। तदवलोक्य श्येन—राजन् ! मांसदाने तवास्ति खेद इत्यश्रुबिन्दुः कथयति। नाहं ते मांसं गृह्णीयाम्’—इति वदन् प्रस्थितः ॥
राजा व्रवीति—‘महासत्त्व! अन्यथा न मन्तव्यं भवता। तुलायां कपोतमद्यापि गुरुतरं दृष्ट्वा दक्षिणभागस्येवात्मनोऽपीदानीं परं प्रयोजनं भविष्यतीति चिन्तयतो वामभागस्याविरासीत् प्रमोदः। तेनायं वामादक्ष्णः सन्तोषबाष्पः समजनि, न तु शोकबाष्पः। अतः कपोतस्य प्रतिनिधित्वेन मम कृत्स्नं शरीरमेव स्वीक्रियतामिति वदन् स्वयं तुलामारुरोह। तस्मिन्नेव क्षणे नभस्तः पुष्पवृष्टिः पपात। देवदुन्दुभयो नेदुः। सव लोकाः साश्चर्या—वभूवुः ॥
श्येनकपोतावपि दिव्यरूपधरौ भूत्वा—‘राजन् ! आवां वासवानलौ ! तव भूतदयां परीक्षितुमागतौ। सत्यं दयालुरेवासि।
चिरं विजयस्व—इत्युक्त्वा स्वस्थानमारोहताम्। राजाऽपि देवतानां प्रसादेन सद्य एवाक्षताङ्गो भूत्वा प्रथितयशाश्चिरं राज्यं चकार॥
________________
१) प्रश्नाः— शिबिः कीदृशो नरपतिरासीत्? कस्तं शरणमगच्छत्? श्येनो राजानमुपेत्य किमाह? राजा किमव्रवीत्? श्येनः किमवदत्? राजा किमाचष्ट? श्येनः कपोतस्य प्रतिनिधितया किं प्रार्थयत? राजा किं चकार? तस्य भार्या किं व्यधात्? राज्ञो नयनात् पतितमश्रुबिन्दुमवलोक्य श्येनः किं प्राह? राजा किं प्रत्यवोचत्? तथोक्त्वा राजा किं चकार? ततः किमभूत्? तौ श्येनकपोतौ कौ?
२) सत्यसन्धः, बिहगोत्तमः, शरणागतः, निराहारः, कृतार्थः, दक्षिणभागः, साश्चर्याः, श्येनकपोतौ—एषां विग्रहवाक्यानि लिखत॥
३) मत्वर्थीवप्रत्ययान्ताः—मायावी, मेधावी, स्रग्वी॥
४) एकपदीकुरुत—आत्मना तुल्यम्, प्राणाः एषां सन्तीति, भोक्तुमिच्छा, धर्मं चरति॥
५) वि+जयति, प्र+तिष्ठति, उप+क्रामति, वि+क्रीणाति, वि+वदति—एषां परिनिष्ठितरूपैर्वाक्यानि रचयत॥
६) ‘तसिल्’ प्रत्ययान्ताः—नभस्तः, नदीतः, ततः, इतः, कुतः, यतः, सर्वतः, विश्वतः॥
७) कृत्प्रत्ययान्ताः—
१) कृत् = (कृन्तति) कृत्तः, कृत्तवान्, कर्तित्वा, निकृत्य, कर्तितुम्, कर्तनीयम्, कर्तितव्यम्।
२) क्षण् = (क्षणोति) क्षतः, क्षतवान्, क्षत्वा—क्षणित्वा, क्षणितुम्, क्षणनीयम्, क्षणितव्यम्।
३) क्षि = (क्षिणोति) क्षीणः-क्षितः, क्षीणवान्-क्षितवान्, क्षित्वा, संक्षीय, क्षेतुम्, क्षयणीयम्, क्षेतव्यम्॥
८) पर्यायाः—
१) जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः।
२) पिशितं तरसं मांसं पललं क्रव्यमामिषम्।
३) रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्।
४) पारावतः कलरवः कपोतो रक्तलोचनः।
५) बुभुक्षितः स्यात् क्षुधितो जिद्यत्सुरशनायितः॥
___________________
३३. महीशूरमहाराजः
महीशूरदेशस्याधिपतिः श्रीमान् कृष्णराजस्तत्रभवतो यशोमात्रावशिष्टस्य श्रीचामराजेन्द्रस्य ज्येष्ठात्मजः समजनि। महाराजोऽयं १८८४-तमे क्रिस्त्वब्दे स्वजन्मना वसुमतीमभूषयत्। बाल्ये च तत्तदाचार्यैः साधु शिक्षितोऽयं महाराजो बहुषु विद्यासु प्रावीण्यमध्यगच्छत्॥
महाराजस्यास्य जनकः श्रीचामराजेन्द्रः १८९४-तमे क्रिस्तुवर्षे भवितव्यताबलादेकोनत्रिंशे वयसि लोकान्तरमयासीत्। तदनु श्रीकृष्णराजोऽयं १८९५-तमे वर्षे जनवरिमासस्य प्रथमे दिवसे शुभेमुहूर्तेऽभिषिक्तः सिंहासनमारुक्षत्। परन्त्वयं तदात्वे दशवर्षः कुमार आसीत्। अतः षड्वर्षाणि वाणीविलाससन्निधानाख्या तस्य माता तत्प्रतिनिधित्वेन राज्यमकरोत्। महाराजोऽयं १९०२-तमे क्रिस्त्वब्दे प्राप्तवयस्को राज्याधिकारमविन्दत॥
लंब्धाधिकारोऽयं महाराजः स्वकौशलेन सुधियाममात्यानां साहाय्येन च स्वराज्ये नवनवान् परिष्कारान् विदधानः प्रजानां चेतांसि रञ्जयन् स्वदेशमत्युन्नतां दशामलम्भयत्। धर्मशास्त्रैरुपदिश्यमानान् राजधर्माननुज्जिहानः कालोचितां सरणिमनुवर्तमानश्चायं स्वीयानि कर्माणि सावधानेन चेतसा निरवहत्। अपि च महाराजोऽयं राज्यकार्यविचारार्थं प्रतिष्ठापितायाः प्रजाप्रतिनिधिसभायाश्छन्दमनुरुध्यैव राज्यमकार्षीत्। येन प्रजाः पूर्णमनोरथाः परमानन्दमविन्दन्त॥
महाराजोऽयं प्रजासु विद्यायाः प्रचारे बद्धादरः स्वराज्ये स्वतन्त्रां सर्वकलाशालां प्रत्यतिष्ठिपत्। ग्रामे ग्रामे पाठालयान् प्रतिष्ठाप्य बालानां बालिकानां च प्राथमिकविद्याभ्यासं परं परिपोषमनैषीत्। महीशूरदेशेऽस्मिन् क्वचित् क्वचिन्निर्बन्धविद्याभ्यासोऽपि कृतारम्भो दृश्यते। स्त्रीणां विद्याभ्यासाय पृथक् पाठालयाः परिकल्पिताः। देशेऽस्मिन्नाङ्गलीव गैर्वाण्यपि समुत्कृष्टां पदवीमारोपिता। अत्रैका संस्कृतविद्याशाला महाराजेन सादरं पोषिता दिने दिने वृद्धिमुपैति। विपुलं धनं व्ययीकृत्य महार्घाः प्राक्तनाः संस्कृतग्रन्थाः सम्मुद्य प्रकाश्यन्ते। नीचवर्गीयाणां शिक्षणेऽपि महान्तं यत्नमादधात्। ते चात्र प्राधान्येन जीवनोपयुक्ता व्यवसायविद्याः शिक्ष्यन्ते। किं बहुनोक्तेन! महीशुरराज्यम् इदं विद्याभ्यासविषये भारतवर्षीयाणामितरेषां राज्यानां धुरि कीर्तनमर्हति॥
अपि चायं महाराजः स्वराज्ये तत्र तत्र कुल्यातटाकादीनां निर्माणेन कृषिकर्मण्यतिमात्रं सौकर्यमातनोत्। तेनास्मिन् देशे सर्वत्रापि सुभिक्षमेवास्ते दुर्भिक्षं तु दुर्निरीक्षमेव। विद्युच्छक्तेः
व्यवसायोऽप्यस्मिन् देशेऽनन्यसामान्यः समवलोक्यते। ये चान्ये प्रजाहितकारिणः परिष्कारास्ते सर्वेऽपि महीशूरदेशेऽस्मिन् द्रंष्टुं शक्याः। इत्थं महाराजोऽयं प्रजाभ्यो गृहीतं बलिं तासामेव भूत्यर्थंसहस्रगुणतयोत्सृजति स्म॥
महाराजानां राज्यावाप्तेः परं पञ्चविंशतितमे वर्षे राजतोत्सवः, पञ्चाशत्तमे वर्षे हैमोत्सवः, षष्टितमे वर्षे हैरोत्सवश्च प्रचाल्यते। समनन्तरातीते १९२७-तमे वर्षे महता विभवेन प्रवृत्तो महाराजस्यास्य राजतोत्सवः प्रजाभिराबालवृद्धममन्दानन्दविवशाभिरभिनन्दितः। सोऽयमुदारचरितो महाराजः अतीते १९४०-तमे क्रिस्तुवर्षे प्रत्येकं प्रजानां हृदयं त्रिदशालयं च प्राविशत्॥
________________
१) प्रश्नाः— लब्धराज्यो महाराजः कथं राज्यमकार्षीत्? विद्याभिवृद्ध्यर्थमनेन किङ्कृतम्? राज्येऽस्मिन् दुर्भिक्षाभावे को हेतुः? देशेऽस्मिन् विद्युच्छक्तेर्व्यवसायः कीदृशः?कदाऽसौ त्रिदशालयं प्राविक्षत्?
२) सिंहासनम्, दशवर्षः, प्राप्तवयस्कः, लब्धाधिकारः, सावधानम्, आबालवृद्धम्, दुर्निरीक्षम्—एषां विग्रहवाक्यानि लिखत॥
३) बालः, सुन्दरः, सुकरः, सुलभ, सुजनः, कुशलः, प्रवीणः—एषां भावार्थकप्रत्ययान्तानि रूपाणि निर्दिशत॥
४) प्राक्भवः = प्राक्तनः। एवं पुरातनः, चिरन्तनः, इदानीन्तनः, अद्यतनः, अधुनातनः इत्यादयो द्रष्टव्याः॥
५) उज्जिहीते, जानीते, निरुन्धे, आशास्ते, विधत्ते—एतेषां शानच्–प्रत्ययान्तानि रूपाणि निर्दिशत॥
६) एकपदीकुरुत—श्रीः अस्यास्तीति, भिक्षाणां समृद्धिः, भिक्षाण अभावः, यश एव, अन्यो लोकः, वने भवाः॥
७) लभते, आरभते, अधीते—एषां णिजन्तरूपाणि वदत॥
८) पर्यायाः—
१) पुराणे प्रतनप्रक्षपुरातनचिरन्तनाः।
२) प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः।
३) शम्पा शतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा।
तडित्सौदामिनीविद्युच्चञ्चला चपला अपि॥
_______________
३४. भारतवर्षम्
पुरा भरतनाम्ना चक्रवर्तिना परिपालनादस्य देशस्य भारतवर्षमिति व्यपदेशः सिद्धः। यदधुना ‘इण्डिय’ इति व्याहरन्ति तदस्य वैदेशिकैःकल्पितं नामधेयम्। भारतवर्षमिदं यद्यप्येष्याखण्डस्यैकदेशत्वेन विभक्तं तथाप्यतिविशालतया देशान्तरेभ्यो विश्लिष्टतया च खण्डान्तरत्वेन विभागमर्हति। तदिदं पूर्वतो वङ्गाब्धिना, दक्षिणतो भारतमहासागरेण, पश्चिमतः सिन्धुनदारभसमुद्राभ्याम्, उत्तरतो हिमालयश्रेण्या च परिगतं प्रायेण त्रिकोणाकारं भवति॥
भारतखण्डस्यास्य दैर्घ्यं काश्मीरदेशात् कुमारीपर्यन्तं पञ्चाशदुत्तरनवशतं (९५०) क्रोशाः, विस्तारः सिन्धुमुखात् गङ्गामुखपर्यन्तं नवशतं (९००) क्रोशाश्च भवन्ति। इदं च भारतवर्षं ‘उत्तरापथः’ इति ‘दक्षिणापथः’ इति च द्वेधा विभज्यते। आलेख्यं पश्यत—भारतवर्षस्य मध्यभागे विन्ध्याद्रिः पूर्वापरायतस्तिष्ठति।
हिमाद्रेर्विन्ध्याद्रेश्चान्तराले दृश्यमानो भाग उत्तरापथः। विन्ध्याद्रिमारभ्य दक्षिणतः कुमारीपर्यन्तमायतो भागो दक्षिणापथः॥
<MISSING_FIG href=”../books_images/U-IMG-1733571260Screenshot2024-12-07170359.png"/>
उत्तरापथः प्रायेण समभूभागः। हिमालयादुद्भूय बह्वयस्तरङ्गिण्यो भूभागेऽस्मिन् प्रवहन्ति। तासु गङ्गाब्रह्मपुत्राभिधाने नद्यौ सिन्धुसमाख्यो नदश्च प्रधानभूतः। गङ्गासिन्धू हिमाद्रेरुद्भवतः। ब्रह्मपुत्रा तु हिमाचलगतां सुरङ्गामार्गमाश्रित्य तिबेत-
देशात् प्रवहति। उत्तरापथोऽयं विविधानां पुण्यतीर्थानां पुण्यक्षेत्राणां चायतनत्वात् पुण्यभूमिरिति, आर्याणामधिवासत्वादार्यावर्त इति च व्यपदिश्यते॥
दक्षिणापथः पर्वतैर्नदीभिश्चाकीर्णः सस्याढ्यो देशः। मुम्बापुरादारभ्य कुमारीपर्यन्तं पश्चिमपर्वतावलिः, तत्पूर्वतः पूर्वपर्वतावलिश्चसन्तिष्ठते। पश्चिमपर्वतावलेः पश्चिमतः समुद्रपर्यन्तमायतो भागः परशुरामक्षेत्रमित्याख्यायते। दक्षिणापथेऽस्मिन् प्रधानभूता नद्यः—महानदी, गोदावरी, कृष्णा, कावेरी च। एताः सर्वाः पूर्वसागरमभिधावन्ति॥
भारतवर्षमिदं पुरा भरतभगीरथदशरथप्रभृतयस्ततो हर्षाशोकप्रभृतयश्च हैन्दवा राजानः परिपालयामासुः। ततः क्रमेण ग्रीसदेशीयाः पोर्तग्रीसूदेशीयाः फ्रान्स्देशीयाश्च जैत्रयात्राप्रसङ्गादभ्येत्य राज्यमिदं स्वायत्तीकर्तुं बहुतरमयतन्त। किन्तु तेषां यत्ना मुधाऽभूवन्। तदनु मुसल्मानाः समेत्य राज्यमिदं कञ्चित्कालमबिभरुः। परन्त्वन्तत इदमाङ्गलाधिपतेर्वशमयासीत्। सम्प्रति स एवास्य सार्वभौमः। तस्य शासनमनुरुन्धानाः शताधिका हैन्दवा मुसल्मानाश्च सामन्तास्तत्तद्देशस्याधिपत्यं भजन्ति॥
भारतवर्षेऽस्मिन्नद्यत्वे परश्शतानि नगराणि विद्यन्ते। तेषाम् अष्टसप्ततिर्नगराणि लक्षार्धाधिकैः, एकोनत्रिंशन्नगराणि लक्षाधिकैश्च जनैरध्युष्यन्ते। तत्रापि कालिघट्टपुरं मुम्बापुरं मद्रपुरं चेति त्रीणि नगराणि प्रधानतमानि। आहत्य भारतवर्षेवासिनां जनानां सङ्ख्या त्रयस्त्रिंशत्कोटिरित्याहुः॥
भारतखण्डेऽस्मिन् प्रधानभूता वृत्तिः कृषिः। अत्रत्यानां जनानां त्रिषु द्वौ भागौ कृषिकर्मणैव जीविकां निर्वर्तयतः। अत्र
प्राधान्येन संवर्ध्यमानानि धान्यानि प्रियङ्गुः शालिर्गोधूमश्च। माषमुद्गादीन्यपि धान्यानि तत्र तत्राभिवर्ध्यन्ते। कार्पासीनीलीप्रभृतयस्तन्तूपयुक्ता ओषधयोऽप्यदभ्रतया प्ररोप्यन्ते। वाणिज्यम् अपि भारतीयैः साधारण्येनाभ्युपगता वृत्तिः। अथापि नैषा वृत्तिस्तेषां मध्ये लब्धोपचया दृश्यते॥
विविधासु कलासु च भारतीयाः प्रावीण्यमभजन्त। वयने सीवने चित्रलेखने शिल्पकलायां च नितरां निपुणा अभूवन्। भारतीयैः पुरा मसृणमसृणान्यंशुकानि निरमायिषत। इतराण्यपि लोकयात्रापेक्षितान्युच्चावचानि वस्तून्युदपादिषत। परन्त्विदानीं विदेशीयानां वस्तूनामभियोगेन भूयस्यो भारतवर्षीया वृत्तयः कथावशेषतामगमन्॥
विद्यायां विषये भारतवर्षमिदं खण्डान्तराण्यतिशेते। पुराकल्प एवात्र जना व्युत्पन्नमतयोऽभूवन्। तत्फलत्वेन च तैर्वेदाः शास्त्राणि पुराणानि काव्यान्यन्यानि च विविधानि ग्रन्थरत्नानि विरच्य गुरुशिष्यपरम्परायां पर्यपालिषत। सम्प्रति जगत्युपलभ्यमानेषु ग्रन्थेषु वैदिकग्रन्था एव प्राचीनतमाः। खण्डान्तरेषु पुनः प्राक्कालभवानां ग्रन्थानां वार्ताऽपि न श्रूयते। व्याकरणे गणिते ज्योतिषे अश्ववेदे धनुर्वेदे आयुर्वेदे च भारतीया लोकोत्तरं वैचक्षण्यं प्राचकटन्॥
किं बहुनोक्तेन ! सर्वविधानां सम्पदामाकरभूतमिदं भारतवर्षं समुत्कृष्टत्वेन गणनीयेषु मातृकादेशेष्वन्यतमं भवति। सैषा भारतभूमिः भूमण्डलमण्डनायमाना भूतात्मनो देवदेवस्य हृदयकमलमिव बाभाति॥
॥ जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥
—————————
१) प्रश्नाः— अस्माकं देशस्य भारतवर्षमिति व्यपदेशः कथं सिद्धः? भारतवर्षमिदं कस्य खण्डस्यैकदेशत्वेन विभक्तम्? अस्य सीमानः काः? प्रधानभूतौ विभागौ कौ? भारतवर्षीयाः प्रधानभूता नद्यः काः? प्रधानभूतानि त्रीणि नगराणि कानि? भारतवर्षमिदं कैः पूर्वं परिपालितं कैश्चेदानीं परिपाल्यते? भारतवर्षीयाणां प्रधानभूता वृत्तिः का? विद्याविषये भारतीयाः कीदृशं स्थानमभजन्त?
२) दक्षिणापथः, गङ्गासिन्धू, महानदी, शताधिकाः, दैर्घ्यम्, वैचक्षण्यम्, वैदेशिका—एतेषां विग्रहवाक्यानि लिखत॥
३) गरीयस्, लघीयस्, पटीयस्, ज्यायस्, यवीयस्—एषां स्त्रीलिङ्गरूपैः वाक्यानि रचयत॥
४) शतात् परे = परःशताः, सहस्रात् परे = परः सहस्राः—आभ्यां वाक्यद्वयं रचयत॥
५) सं+तिष्ठति, वि+जयति, सं+क्रीडति, नि+विशति—एतेषां परिनिष्ठितरूपाणि लिखत॥
६) व्यपदिशति, विश्लिष्यति, विभजति, आयच्छति, प्राह—एषां क्तप्रत्ययान्तानि रूपाणि निर्दिशत॥
७) पर्यायाः—
१) आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः।
२) आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने।
३) तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी।
स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगाऽऽपगा।
४) अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम्।
मण्डनं चाथ मकुटं किरीटं पुंन्नपुंसकम्॥
______________
३५. पद्यमाला
______
प्रथमा पञ्चिका
गुणी गुणं वेत्ति न वेत्ति निर्गुणो
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः
करी च सिंहस्य बलं न मूषिकः॥ १
दुर्गस्त्रिकूटः परिखा समुद्रो
रक्षांसि योधा धनदाच्चा वित्तम्।
शास्त्रं च यस्योशनसा प्रणीतं
स रावणो दैववशाद्विपन्नः॥ २
यः परस्य विषमं विचिन्तयेत्
प्राप्नुयात् स कुमतिः स्वयं हि तत्।
पूतना हरिवधार्थमाययौ
प्राप सैव वधमात्मनस्ततः॥ ३
सत्सङ्गाद्भवति हि साधुता खलानां
साधूनां न हि खलसङ्गमात्खलत्वम्।
आमोदं कुसुमभवं मृदेव धत्ते
मृद्गन्धं न हि कुसुमानि धारयन्ति॥ ४
विद्यया विमलयाऽप्यलङ्कृतो
दुर्जनः सदसि माऽस्तु कश्चन।
साक्षरा हि विपरीततां गताः
केवलं जगति तेऽपि राक्षसाः॥ ५
____________
१) प्रश्नाः— गुणं बलं च को वेत्ति कश्च न वेत्ति? किं तत्रोदाहरणम्? “स रावणो दैववशाद्विपन्नः" स कीदृशः? ‘प्राप सैव वधमात्मनः’ का? अनेन किं ज्ञायते? सत्सङ्गात् किं भवति? खलसङ्गात् किं न भवति? किमत्रोदाहरणम्? ‘जगति तेऽपि राक्षसाः’ के?
२) गुणी, बली, निर्बलः, धनदः, कुमतिः, विमला, दुर्जनः—एषां विग्रहवाक्यानि लिखत॥
३) प्रयोगं विपरिणमयत—
१) यः परस्य विषमं विचिन्तयेत्
प्राप्नुयात् स कुमतिः स्वयं हि तत्।
२) आमोदं कुसुमभवं मृदेव धत्ते
मृद्गन्धं न हि कुसुमानि धारयन्ति।
३) विद्यया विमलयाऽप्यलङ्कृतो
दुर्जनः सदसि माऽस्तु कश्चन॥
४) निर्+नीतम्, प्र+नमति, प्र+मानम्, प्र+नश्यति, परि+नाहः, प्र+नयः—एषां परिनिष्ठितरूपाणि लिखत॥
५) विपद्, विद्, विधा, विरम् अङ्गीकृ—एषां क्तप्रत्ययान्तैः रूपैः वाक्यानि रचयति॥
६) पूतनायाः कथां संस्कृतवाक्यैः संग्रहेण लिखत॥
७) पर्यायाः—
१) शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः।
२) कर्णेजपः सूचकः स्यात् पिशुनो दुर्जनः खलः।
३) राक्षसः कौणपः क्रव्यात् क्रव्यादोऽस्रप आशरः।
रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः।
यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी॥
——————————
पद्यमाला—द्वितीया पञ्चिका
कर्पूरधूलीरचितालवालः
कस्तूरिकाकुङ्कुमलिप्तदेहः।
सुवर्णकुम्भैः परिषिच्यमानो
निजं गुणं मुञ्चति नो पलाण्डुः॥ १
**रत्नैर्महाब्धेस्तुतुषुर्न देवा
न भेजिरे भीमविषेण भीतिम्।
सुधां बिना न प्रययुर्विरामं
न निश्चितार्थाद्विरमन्ति धीराः॥ २ **
अद्यापि नोज्झति हरः किल कालकूटं
कूर्मो बिभर्ति धरणीं खलु पृष्ठभागे।
अम्भोनिधिर्वहति दुस्तरबाडवाग्नि-
मङ्गीकृतं सुकृतिनः परिपालयन्ति॥ ३
पद्माकरं दिनकरो विकचीकरोति
चन्द्रो विकासयति कैरवचक्रवालम्।
नाभ्यर्थितो जलधरोऽपि जलं ददाति
सन्तः स्वयं परहिते विहिताभियोगाः॥ ४
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते
शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति।
कन्दैः फलैर्मुनिवराः क्षपयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम्॥ ५
—————————
१) प्रश्नाः— किं क्रियमाणः पलाण्डुर्निजं गुणं न मुञ्चति? ‘न निश्चितार्थाद्विरमन्ति धीराः’ कथमिदं ज्ञायते? अङ्गीकृतं के परिपालयन्ति? उदाहरणानि कथयत। सन्तः स्वयं परहिते विहिताभियोगा इत्येतदुदाहरणैः समर्थयत। सन्तोष एव पुरुषस्य परं निधानमिति कथं ज्ञायते?
२) महाब्धिः, भीमविषम्, निश्चितार्थः, अम्भोनिधिः, दिनकरः, जलधरः, दुर्बलः—एषां विग्रहवाक्यानि लिखत॥
३) परि+सिञ्चति, वि+सीदति, वि+सहते, नि+सेवते, नि+सेधति, परि+स्वजते, वि+समम्—एषां परिनिष्ठितरूपाणि लिखत॥
४) शुष्यति, पचति, बिभर्ति, जुहोति—एतेषां त्कप्रत्ययान्तानि रूपाणि निर्दिशत॥
५) वि+रमते, प्र+तिष्ठति, वि+क्रीणाति, परि+क्रीडति—एतेषांपरिनिष्ठितरूपैः वाक्यानि रचयत॥
६) पर्यायाः—
१) रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः।
२) सुधा पीयूषममृतं क्ष्वेडस्तु गरलं विषम्।
३) स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ॥
_________________________
पद्यमाला—तृतीया पञ्चिका
प्राक् पादयोः पतति खादति पृष्ठमांसं
कर्णे कलं किमपि रौति शनैर्विचित्रम्।
छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः
सर्वं खलस्य चरितं मशकः करोति॥
धूमः पयोधरपदं कथमप्यवाप्य
वर्षाम्बुभिः शमयति ज्वलनस्य तेजः।
दैवादवप्यकलुषप्रकृतिर्महत्वं
प्रायः स्वबन्धुजनमेव तिरस्करोति॥ १
हंसोऽध्वगः श्रममपोहितुमश्रमेण
कारण्डकाकबककोककुलं प्रविष्टः।
मूकोऽयभित्युपहसन्ति लुनन्ति पक्षान्
नीचाश्रयो हि महतामपमानहेतुः॥ २
आबद्धकृत्रिमसटाजटिलांसमित्ति-
रारोपितो मृगपतेः पदवीं यदि श्वा।
मत्तेभकुम्भतटपाटनलम्पटस्य
नादं करिष्यति कथं हरिणाधिपस्य॥ ३
रात्रिर्गमिष्यति भविष्यति सुप्रभातं
** भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः।
इत्थं विचिन्तयति कोशगते द्विरेफे**
** हा हन्त हन्त नलिनीं गज उज्जहार॥ ५**
—————————
१)प्रश्नाः— खलो मशकश्चकिं करोति? कलुषप्रकृतिः किमवाप्य किं करोति? “मूकोऽयमित्युपहसन्ति” के? कम्? ‘नादं करिष्यति कथं हरिणाधिपस्य’ कः? कस्मिन् कथं चिन्तयति कां क उज्जहार?
२) अशङ्कः, पयोधरः, अध्वगः, जटिला, कोशगतः, द्विरेफः—एषां विग्रहवाक्यानि लिखत॥
३) प्रयोगं विपरिणमयत—
१) सर्वं खलस्य चरितं मशकः करोति।
२) धूमो वर्षाम्बुभिः शमयति ज्वलनस्य तेजः।
३) श्वा नादं करिष्यति कथं हरिणाधिपस्य।
४) रात्रिर्गमिष्यति भविष्यति सुप्रभातम्।
५) हा हन्त हन्त नलिनीं गज उज्जहार॥
४) पतति, खादति, प्रविशति-एषां ‘तुमुन्’ अन्तानि रूपाणि वदत॥
५) कृत्प्रत्ययान्ताः—
रु = (रौति) रुतः, रुतवान्, रुत्वा, विरुत्य, रवितुम्, रवणीयम्, रवितव्यम्॥
६) पर्यायाः—
१) कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः।
२) छिद्रं रन्ध्रं शुषिः श्वभ्रं सुषिरं विवरं बिलम्।
३) विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः।
निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः॥
४) आपःस्त्री भूम्नि वार्वारि सलिलं कमलं जलम्।
पयः कीलालममृतं जीवनं भुवनं वनम्॥
कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्।
अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्॥
_______________
पद्यमाला—चतुर्थी पञ्चिका
भवित्री रम्भोरु त्रिदशवदनग्लानिरघुना
स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः।
इयं यास्यत्युच्चैर्विपदमधुना बानरचमू-
र्लघिष्ठेदं षष्ठाक्षरपरविलोपात् पठ पुनः॥ १
**कस्त्वं वानर? रामराजभवने लेखार्थ संवाहको
यातः कुत्र पुरागतः स धनुमान्निर्दग्धलङ्कापुरः?।
बद्धो राक्षससूनुनेति कपिभिः सन्ताडितो भर्त्सितः
स व्रीडात्तपराभवो वनमृगः कुत्रेति न ज्ञायते॥ **
२
कस्त्वं भद्र? खलेश्वरोऽहमिह किं घोरे वने स्थीयते?
शार्दूलादिभिरत्र हिंस्रपशुभिः खाद्योऽहमित्याशया।
कस्मात् कष्टमिदं त्वया व्यवसितं? महेहमांसाशिनः
प्रत्युत्पन्ननृमांसभक्षणधियस्ते घ्नन्तु सर्वानिति॥
३
विप्रास्मिन्नगरे महान् कथय कः? तालद्रुमाणां गणः
को दाता? रजको ददाति वसनं प्रातर्गृहीत्वा निशि।
को विद्वान्? परवित्तवञ्चनविधौ सर्वेऽपि विद्वज्जनाः
कस्माज्जीवसि? हे सखे ! विषकृमिन्यायेन जीवाम्यहम्॥
या पाणिग्रहलालिता सुसरला तन्वी सुवंशोद्भवा
** गौरी चारुमुखी मदन्तिकचरी नित्यं मदाज्ञाकरी।
सा केनापि हृता तथा विरहितः स्थातुं न शक्नोम्यहं**
** भिक्षो ते दयिता हृता? नहि नहि प्राणप्रिया यष्टिका॥
५**
१) टिप्पणिः—(१) अयं सीतारावणसंवादः। तत्र प्रथमे त्रयः पादा रावणस्य, अन्तिमः पादः सीतायाश्च वचनम्।षष्ठाक्षरात् परं = सप्तममक्षरं, तस्य लोपेन पुनः पठने प्रथमं पादत्रयं रावणं प्रति सीतायाः प्रतिवचः सम्पद्यते।
(२) लङ्कां प्रविश्य मध्यरात्रसमयेऽङ्गदो रावणगृहं गत्वा तदीयशय्यागृहस्य कवाटं पाणिना बलवत् प्रजहार।
तेन शब्देन प्रबुद्धस्य रावणस्याङ्गदस्य च संवादः। (३) अरण्यैकदेशे निभृतमासीनस्य खलस्य तेन पथा गच्छतः पथिकस्य च सम्भाषणम्। (४) वैदेशिकस्य तद्देशीयस्य च सम्भाषणम्। (५) भिक्षोरन्यस्य च संवादः॥
२) लक्ष्मणसखः, वनमृगः, मद्देहमांसाशिनः, विद्वज्जनाः, सुसरला, चारुमुखी—एषां विग्रहवाक्यानि लिखत॥
३) प्रयोगं विपरिणमयत—
१) लघिष्ठेदं षष्ठाक्षरपरविलोपात् पठ पुनः।
२) बद्धो राक्षससूनुनेति कपिभिः सन्ताडितो भर्त्सितः।
३) प्रत्युत्पन्ननुमांसभक्षणधियस्ते घ्नन्तु सर्वानिति।
४) सा केनापि हृता तया विरहितः स्थातुं न शक्नोम्यहम्।
४) भविता,कर्ता, वक्ता, द्रष्टा, प्रष्टा, पठिता—एषां स्त्रीलिङ्गे प्रथमैकवचने रूपाणि वदत॥
५) कृत्प्रत्ययान्ताः—
१) ग्ला = (ग्लायति) ग्लानः, ग्लानवान्, ग्लात्वा, परिग्लाय, ग्लातुम्,ग्लानीयम्,ग्लातव्यम्॥
२) म्ला = (म्लायति) म्लानः, म्लानवान्, म्लात्वा, परिम्लाय, म्लातुम्, म्लानीयम्, म्लातव्यम्॥
६) पर्यायाः—
१) सम्पत्तिरुदयः श्रेयो विपत्तिर्विपदापदौ।
२) अनादरः परिभवः परीभावस्तिरस्क्रिया।
रीढावमाननावज्ञाऽवहेलनमसूर्क्षणम्।
३) मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा साऽपत्रपाऽन्यतः॥
(अन्यतः = अन्यस्मात् जनात् )॥
—————————
पद्यमाला—पञ्चमी पश्चिका
अङ्कं केऽपि शशङ्किरे जलनिधेः पङ्कं परे मेनिरे
सारङ्गं कतिचिच्च सञ्जगदिरे भूच्छायमैच्छन् परे।
इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते
तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे॥ १
खर्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके
गच्छन् देशमनातपं विधिवशात्तालस्य मूलं गतः।
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्छति यत्र दैवहतकस्तत्रैव यान्त्यापदः॥ २
**एते सत्पुरुषाः परार्थघटकाः स्वार्थान् परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे॥ ३ **
**वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणा-
न्मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते।
व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते
यस्याङ्गेऽखिललोकवल्लभतमशीलं समुन्मीलति॥ ४ **
क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशा-
मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि।
मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहः
किं जीर्णं तृणमत्तिमानमहतामग्रेसरः केसरी॥ ५
२) प्रश्नाः— चन्द्रस्य कलङ्कं कवयः कैः प्रकारैरुत्प्रेक्षन्ते? खर्वाटस्य वृत्तान्तः कः? तेन किं ज्ञायते? चतुर्विधाः पुरुषाः के?तेकिं कुर्वन्ति? शीलवतः पुरुषस्य वह्न्यादयः किमिवाचरन्ति? “किं जीर्णं तृणमत्ति” कः? कीदृशः?
२) इन्द्रनीलशकलश्यामम्, अनातपम्, महाफलम्, निरर्थकम्, परहितम्, क्षुत्क्षामः, अग्रेसरः—एषां विग्रहवाक्यानि लिखत॥
३) प्रयोगं विपरिणमयत—
१) तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे।
२) ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे।
३) किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी॥
४) एकपदीकुरुत—भुवः छाया, अन्धं च तत् तमश्च, प्रियश्चासौ सखा च, जलमिव आचरति॥
५) बिभर्ति बिभेति, ददाति, चकास्ति—एतदीय “शतृ” प्रत्ययान्तानां पुल्लिङ्गे स्त्रीलिङ्गे च प्रथमैकवचने रूपाणि निर्दिशत॥
६) इच्छति, आचष्टे, भनक्ति, हन्ति, क्षायति, जीर्यति—एतेषां क्तप्रत्ययान्तानि रूपाणि निर्दिशत॥
७) पर्यायाः—
१) कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्।
२) भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके।
३) मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः।
४) ग्रासस्तु कवलः पुमान्॥
___________________
पद्यमाला—षष्ठी पश्चिका
कस्त्वं? शूली मृगय भिषज्ञं नीलकण्ठः प्रियेऽहं
केकामेकां कुरु पशुपतिर्नैव दृश्ये विषाणे।
स्थाणुर्मुग्धे न वदति तरुर्जीवितेशः प्रियाया-
गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः॥
१
किं गोत्रं? किमु जीवनं? किमु धनं? का जन्मभूः? किं वयः?
किं चरित्र्यममुष्यः के सहचराः?के वंशजाः प्राक्तनाः?।
का माता? जनकः शिवस्य क? इति प्रह्वेण पृथ्वीभृता
पृष्टाः सस्मितनम्रमूकवदनाः सप्तर्षयः पान्तु वः॥
२
**कोऽयं द्वारि? हरिः प्रयाहयुपवनं शाखामृगस्यात्र किं?
कृष्णोऽहं दयिते ! बिभेमि सुतरां कृष्णादहं वानरात् ।
राधेऽहं मधुसूदनोज व्रज लतां तामेव पुष्पान्विता-
मित्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः॥
३ **
अङ्गुल्या कः कवाटं प्रहरति?कुटिले माधवः किं वसन्तः?
नो चक्री किं कुलालो? नहि धरणिधरः किं द्विजिह्वः फणीन्द्रः?।
नाहं घोराहिमर्दीकिमुत खगपतिर्नोहरिः किं कपीन्द्रः?
इत्येवं सत्यभामाप्रतिजितवचनः पातु वश्चक्रपाणिः॥
४
कृष्णेनाम्ब गतेन रन्तुमसकृन्मृद्भक्षिता स्वेच्छया
सत्यं कृष्ण? क एवमाह?मुसली मिथ्याऽम्ब पश्याननम्।
व्यादेहीति विदारिते च वदने दृष्ट्वा समस्तं जग-
न्माता यस्य जगाम विस्मयपदं पायात्स वः श्रीपतिः॥ ५
१) टिप्पणिः—(१) पार्वतीपरमेश्वरयोः संवादः। (२) परमेश्वरस्य कृते पार्वत्याः वरणार्थं गतानां सप्तर्षीणां सन्निधौ हिमवतो वचनम्। (३) रात्रावकाले प्रत्यागतस्य कृष्णस्य राधायाश्चोक्तिप्रत्युक्ती श्लोकेऽस्मिन् द्रष्टव्ये। (४) श्रीकृष्णस्य सत्यभामायाश्चोक्तिप्रत्युक्ती।
(५) क्रीडार्थं गतयोः रामकृष्णयोः रामो मातरमुपसृत्य कृष्णेन कृतं मृद्भक्षणं निवेदयति। तदा कृष्णमुपसृत्य पृच्छन्त्या यशोदायाः कृष्णस्य च मिथः संवादः॥
२) शूली, नीलकण्ठः, हतवचाः, वंशजाः, प्राक्तनाः, शाखामृगः, मधुसूदनः, निर्वचनीकृतः, चन्द्रचूडः, चक्रपाणिः—एतेषां विग्रहवाक्यानि निर्दिशत॥
३) प्रयोगं विपरिणमयतमृ—मृगय भिषजम्। केकामेकां कुरु। न वदति तरुः। प्रयाह्युपवनम्। अगुल्या कः कवाटं प्रहरति। कृष्णेनाम्ब गतेन रन्तुमसकृन्मृद्भक्षिता। मिथ्याऽम्ब पश्याननम्॥
४) पृष्टः, भीतः कृतः, ह्रीणः, रन्तुम्, गन्तुम्—एषां लटि प्रथमपुरुषैकवचने रूपाणि निर्दिशत॥
५) व्यधिकरणबहुव्रीहिः—
चन्द्रचूडः, चक्रपाणिः, पद्मनाभः, सुवंशोद्भवा॥
६) नानार्थाः—
१) यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु।
शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
२) शूली = शिवः व्याधितश्च। नीलकण्ठः = शिवः मयूरश्च। पशुपतिः = शिवः वृषश्च। स्थाणुः = शिवः शङ्कुश्च। शिवा = पार्वती जम्बुकी च। हरिः = कृष्णः कपिश्च। कृष्णः = श्रीकृष्णः कृष्णवर्णो वानरश्च। मधुसुदनः = श्रीकृष्णो मधुकरश्च। माधवः = कृष्णः वसन्तश्च। चक्री = कृष्णः कुलालश्च। धरणिधरः = कृष्णः शेषश्च। घोराहिमर्दी = कृष्णः गरुडश्च॥
GLOSSARY— शब्दार्थकोशः
———————
ABBREVIATIONS USED
———————
N. Noun विशेष्यम्
a Adjective विशेषणम्
(can be used in 3 genders)
m Masculine पुंलिङ्गम्
f Feminine स्त्रीलिङ्गम्
n Neuter नपुंसकलिङ्गम्
P. Parasmaipadiपरस्मैपदी
A. Atmanepadiआत्मनेपदी
U. Ubhayapadi उभयपदी
in. Indeclinable अव्ययम्
Ppp Past Passive
Participle क्तप्रत्ययान्त
p a p Past Active
Participle क्तवतुप्रत्ययान्त
prap Present Active
Participle शतृप्रत्ययान्तor शानच् प्रत्ययान्त
pr p p Present Passive
Participle कर्मणि शानच्
pt p Potential Participle कृत्यप्रत्ययान्त
———————
Lesson 1
शारदा f The goddessof learning
शारद a Autumna।
अम्भोज }nA lotus
अम्बुज}nA lotus
सर्वदा in. Always
सर्वदा a f. Bestower ofall desired objects
सन्निधि m A greattreasure
सन्निधि m Presence
सुर m God
आसेवित ppp Attendedon all sides
पादपङ्कजn The lotus feet
कमनीय a Beautifu।
विरिञ्चि } m ब्रह्मन्
विरिञ्च} m ब्रह्मन्
माणिक्यवीणा f A rubylute
उपलालयन्ती pr a pPlaying on
मञ्जुल a Agreeable, sweet
माहेन्द्रनील n An emerald
द्युति f Lustre
मातङ्गकन्या f The daughter of Matanga (a man of the lowest caste)
चन्दनचर्चित a Besmeared with sandal paste
कुन्तल m Hair of head
सर्वज्ञाननिधान n A store house of all kinds of knowledge
तुषार m Snow
जाड्यापहा f She who wards off dullness
सित a White
भासमाना a f Shining
असमाना a f Matchless
कृत्प्रत्ययान्त m Verbal Derivation
Lesson 2
सागराम्बरा a f Having on the garment of oceans, surrounded by oceans
विश्वम्भरा tThe earth
विदारित ppp. Split open
शास्त्रविद्या fScience of arms
अश्वारोहण n Horse-riding
त्रयी fThe three Vedas —Rik. Yajus & Saman
अन्वीक्षिकी f तर्कशास्त्रMetaphysics
वार्ता f Business, trade
दण्डनीति f Administration of justice
प्रावीण्य n Proficiency
असमञ्जस a Unbecoming
निष्कासित ppp. Expelled
साधुवृत्त a Well-conducted and also of round shape
एकोनशत nNinety-nine
शतमख m He who has performed hundred Sacrifices; इन्द्र
पर्याकुल a Perturbed; Agitated
प्रविविक्षुa Desirous of entering
खात ppp Dug
गर्त n A hole
खनित्र n A spade
लाङ्गल n A plough
भस्मसादकार्षीत् U Reduced to ashes
नप्तृ m A grandson (son’s or daughter’s son)
यदृच्छाया f Accidentally
मातुल m A maternal uncle
पितृव्य m A paternal uncle
खगेन्द्र m The lond of binds, i. e, गरुड
तर्पण n presenting librations of water to manes (पितृयज्ञ)
सलिल} n water
अम्भस् }n water
**Lesson 3 **
राज्यधुरा ƒ The yoke of Government
सचिव m A Minister
मासाहार a Eating only once a month
ऊर्ध्वबाहु a Raising the arms upwards
पद्मयोनि m The lotus born, ब्रह्मन्
परमेष्ठिन् m ब्रह्मन्
साहसिन् mUsing great force
प्राञ्जलि a Folding hands togeter
निरुदक aWithout libations of water
पशुपति m Lord Siva
अन्तर्हित a Disappeard
प्लावयिष्यति P. will wash away
शैलराजसुता f The daughter of हिमालय(here it means the Ganges)
तिरोदधे A. Disappeared
पुष्करसरित् f The celestial river
उपातिष्ठत A. praised, worshipped
मुखरयन्ती f Filling with noise
कदर्पिन् m Having matted hair—शिव
भग्नमानस a Disappointed
बिन्दुसरस् n A tank inहिमालय
यज्ञवाट m A place of sacrifice
महारथ m A great warrior
—Is thus defined:
एको दश सहस्राणि
योधयेद्यस्तु धन्विनाम्।
शस्त्रशास्त्रप्रवीणश्च
विज्ञेयः स महारथः॥
प्रोवाह U Flowed
चुलुकीचकार U. Sipped,Drank up
भस्मचय nA heap ofashes
कृतार्थa He who has accomplished his desired object
प्रथा f Fame; celebrity
Lesson 4
गगनप्रासादmA castle in the air
अलस a Lazy, indolent
भैक्ष्योपजीविन् m Eating food obtained by begging
भूसुर m. A Brahmin
मृन्मय a Earthen
बहिर्वेदिका f An alter outside a house
क्षेत्रपति m A land-lord
राजत a Made of silver
सौवर्ण a Made of gold
गवाक्ष m A window
सप्तभूमिकोपेत a Seven-storied
आसेचनक n Anything charming by the sight of which no end of satisfaction is seen
हर्म्य nA mansion
सादरम् in. Respectfully
सभाजयिष्यति P. Will honour
असकृत् in.Many times
सावहेलम् in Scornfully
प्रत्याख्यास्ये A. I will decline
अनादर m Disregard
अन्तरङ्ग nThe heart
निर्वृत्त a Brought about
स्मेरमुखी a f With a smiling face
अपाङ्ग m Corner of the eye
धीरम् in. Boldly
भग्न pppShattered
शतधा in. Into hundred pieces
**Lesson 5 **
हरिण, एण m A deer
प्रांशु a Ta॥
साध्वस n Fear
सम्भ्रान्त a Perplexed
शाद्वल a Grassy, abounding in young green grass
अपत्यनिर्विशेषम् in. Not differently from his own children
दृप्तaPuffed up, Proud
चारु a Beautifu।
पीवर aFat
शबरसैन्य n An army of foresters
सहसा in, Forcibly, rashly
लग्न a Held fast
सामोदम् in. With high glee
उद्विग्न a Being trembled
विधातृ m The creator, ब्रह्मन्
अविमृश्यकारिता N. f The state of doing things inconsiderately
व्यापादित ppp Was slain
कार्यकारिन् a Efficacious
कार्यविघातक a Obstructing one’s work
**Lesson 6 **
बिडाल m A cat
क्रोष्टु m A jacka।
पर्वसमय N. m The day of new or full moon
सेतुस्नान n Holy bath at Rama सेतु
कलेबर n The body
सुस्थ a Sitting happily
व्याध, लुब्धक mA hunter
तपस्विन् m Helpless
विदग्ध a Clever
अकस्मात् in. Suddenly
अलक्षित a Without being noticed
भुरुहाग्र n The top of a tree
विटपान्तः in. Inside a bough
इतिकर्तव्यतामूढ a Being at a loss as to what to do
व्यामोह m Confusion
कतमा a fWhich of these
श्रेयसी a f Preferable
विकल्पयन् pr a p Allowing options
कार्यकालm Time for action
Lesson 7
सहाध्यायिन् m A classmate
अकिञ्चन a He who has nothing, poor
सौध m n A large house
उपनगरम् in. Near the town
कुटीर n A hut
स्वकीय aOne’s own
विश्रान्तिवेला f Interva।
दुर्गत a Distressed,miserable
उदीरित ppp Uttered
मिथ्यावादिन् a m Speaking falsely, lier
भृतिदान n Payment of wages
श्रद्धातव्यpt pCan be trusted
भित्यन्तरित a Hiding behind a wa॥
अविश्वसनीय a Untrust worthy
विनोदार्थम्in. In fun
स्मयमान aSmiling
आलस्य n Laziners
वेतन nWages
हृदयङ्गम a Attractive, agreeable
उपन्यास m Statement speech
चमत्कृत aSurprised, astonished
प्रसन्न aPleased, delighted
श्रेयस् nProsperity
Lesson 8
भल्लूक m A bear
आरण्यक a Wildforest-born
कर्कश a Hard, rough
गौर a White
शीतोष्णस्थिति fClime, climate
सस्याशिन् a m Eating vegetables
मद्यपान n Drinking liquor
लोलुप a Very eager, Ardently longing
लालसा n Ardent desire
मधुकोश m n A bee-hive
वल्मीक m. An ant-hill
वम्निf White ants
विनोदावह a Amusing
गोचर a Within the range of
Lesson 9
कुठारैकजीवन a He whose lively-hood was only an axe
स्रस्त ppp Slipped
अधिकूलम् in. On the bank
उच्चैःकारम् in. With a loud noise
कृतज्ञता f Gratefulluess
आविष्कुर्वन् pr a p Expressings
उदन्त m News, story
प्रातिवेशिक m A neighbour
आविर्भूतppp Appeared
भवदीय a Yours
लोभाविष्ट a Avaricious, greedy
Lesson 10
अरण्यानी f A large forest
स्वेच्छया f At his wi॥
दृष्टपुष्टाङ्ग a With limbs cheerfully grown
सुललित a Very nice, fine
क्षुद्रबुद्धि a Low-minded
जीवलोक m The world of living beings
अनुचर a m A follower
सर्वथा in. By all means
सवितृ N. mThe sun
चिरमित्रn An old friend
चित्राङ्ग a mStriped, having a spotted body
सख्य nFriendship
आगन्तु N. m A stranger
स्नेहानुवृत्ति fContinuity of friendship
उत्तरोत्तरम् in. Higher and higher\।
विस्रम्भालाभ mFriendly conversation
निभृतम् in. Privately
सस्यपूर्ण a Full of corn-plants
पाश m A net, snare
कालपाश m A snare of god of death
व्याधपाश m A snare of a hunter
कपटप्रबन्ध m Fraudulent scheme
उत्कृत्यमान pr pp Torn out
असृज् n Blood
उल्लसित a m Delighted
स्नायुनिर्मित a Made of muscle (चिरा)
भट्टारकवार m Sunday
प्रदोषकाल m Evening-time
वञ्चक a Deceitful, a cheat m a jacka।
लंगुडहस्त aWith a club in hand
वात mWind
स्तब्धीकृत्य in. Making motionless
उत्फुल्ललोचन a With blooming eyes
पक्ष n A fort-night, शुक्ल or कृष्णपक्ष
अत्युत्कट a Excessive
Lesson 11
सूक्ति f A good speech
पुराण a Old
नव a New
अवध a To be con-demned
परप्रत्ययनेयबुद्धि a He whose mind is guided by the belief of others
चलितेन्धन aWith fuel stirred
विप्रकृत ppp Hurt, offended
पन्नग N. m A serpent
फण m The hood of a serpent
महिमन् m Greatness, majesty, power
क्षोभ m Excitement, agitation
लब्धास्पद a He who has secured a position
तितिक्षमाण a Putting up with, suffer patiently
आगम m Learning, knowledge
केवलजीविका f Mere means of livelyhood
ज्ञानपण्य a Dealing in knowledge
नम्र a Bowing down
फलोङ्गम N. m Appear-ance of fruits
दूरबिलम्बिन् a m Hanging down a long way
घन m A cloud
अनुद्धत a Not puffed up
आशिक्षितपदुत्व n Untaught cleverness
अमानुषी f Other than mankind, birds
प्रतिबोधवती f Possessed of reasoning faculty
अन्तरिक्षगमन n To fly in the air
अपत्यजात n The brood of young ones
द्विज m A bird also ब्राह्मण, दन्त
वरभृत mAn Indian cuckoo कोकिल
सती f A chaste woman
ज्ञातिकुलैकसंश्रया a f Living always in the parent’s house
प्रमदा f A young woman
गुरु m Elders, also a Teacher
सपत्नीजन m Co-wives
प्रतीप a Against
भूयिष्ठम in. In the highest degree
दक्षिणा f Generous, libera।
अनुत्सेकिनी af Not puffed up
गृहिणीपद n The position of the mistress of the house
वामा a Acting contrary
अधि mMental agony
Lesson 12
स्थविर m Old
पान्थmA traveller
पांसुपटलं n A mass of dust
खर m An ass
दुष्टवटु m A wicked boy
मार्गोपकण्ठ mNear the road
कुत्सित a Contemptible,mean
अर्भक m A boy, child
प्रक्षीणगात्र a With his body extremely wearied
परिम्लानवक्त्र a With his face completely withered
उपालम्भ N. m Abuse,taunt
ग्रामणी mThe leader of a village
प्रक्षीणसत्व a He who has lost vigour
मुमूर्षुaAbout to die
वेणुदण्ड m A bamboostick
संक्रमीथ m A causeway, bridge
सहस्तताडम् in. With the clapping of hands
निरसितुम्in. To shake, to tremble
व्याकुलीभाव m Agitation
गात्रविक्षेप m The refutation of body
दैवयोगात् m Fortunately
प्राणावशिष्ट a With their life saved
बहुजल्प a Talkative, Loquacious
सर्वलोकपरितोषकर a m Pleasing all people in the world
Lesson 13
पत्रिकालेखनम् nLetter writing
उद्यत a Intent on
पत्रिका f लेख m Letter
समापित ppp Completed
सम्मुख n Front
त्वदाशय mWhat you have in mind
प्रतिश्रुत a Promised
विषय m Subject-matter, topic
उपक्रम m Beginning
समीचीन a Right, good
अमुक a A person or thing, so and so. (To be used when a person or thing is referred to without a name.)
प्रणिपात mReverential bow, Salutation
आयुष्मत् a m Long-lived
आशीर्वचन n Words of blessing.
न्यसनीय} pt p Shouldbe placed, put in
निवेशनीय} pt p Shouldbe placed, put in
विनयप्रकर्ष mHigh modesty
प्रियसुहृत् m A dear friend
भवद्गत a Relating to you
प्रथमवर्ग m First class
उत्तीर्ण a Passed
विरह m Separation
अविलम्बित a Prompt
प्रत्युत्तर n A reply
व्यवसाय m Industry
उत्साह m Energy
मितभाषिता f Measured speech
सामयिकता f Punctuality
निदर्शन nAn example
यथापूर्वम् in. As before
आगामिन् a m Ensuing
सौहार्द n Friendship
Lesson 14
प्रतीपगामिनी a f Going against
सान्त्वन n Conciliation
अतिमात्रम् in. Beyond measure
तुतोद P. Pained, vexed
दमयितुम् in. To tame, to check
शश्वत् in. Frequently
समुद्यम m Great efforts
महामारी f A great evil spirit
जीविततृष्णा f Thirst for life
प्रमीत a Dead
जीवितान्ते m लभ्यं a धनम् n The money due from the life insurance policy
कोटि f The edge, point
करवस्त्रn Handkerchief
विशृङ्खला a fUnfettered, unchecked
करेणु f A female elephant
प्रकृतिविरुद्ध a Against one’s nature
मन्दभाग्य a Unfortunate
**परित्रायस्वA (You) protect, save
Lesson 15
अयस् n Iron
सुवर्ण n Gold
रजत n Silver
ताम्र n Copper
पित्तल n Brass
सीस n Lead
लोह n A metal in genera।
आकार m खनि f A mine
व्यामिश्र a Mixed
इयत्ता f Fixed measure, Limitation
लोकयात्राf The course of worldly life
खनित्र n A spade
तक्षण n Paring, cutting
वृक्षादन n A carpenter’s chise।
व्रश्चन n Cutting
परशु m An axe
छुरिका f A knife
कर्तन n Lopping, cutting
कर्तरी f Scissors
उपकरण n An instrument, implement
बाष्पशकट m n A steam carriage
साम्प्रतिक a Modern
नागरिकपरिष्कार m Civilisation
अयस्कार m An ironsmith
भर्जनकपाल m A frying-pan
सुवर्णकार N. m A gold smith
अल्पमूल्य a Of small value, cheap
अमूल्य a Priceless invaluable
अश्मसार m n iron
Lesson 16
मैत्री N. f Friendship
समानशीलव्यसन a Whose habits and vices are equa।
सख्य nFriendship
श्री f Beauty, lustre
विभावयत्pr a p Considering
समृद्धि f Prosperity, riches
परोक्षे a Behind one’s back
प्रत्यक्षे a In the presence of
विषकुम्भ m A pot of poison
पयोमुख a Having milk in the mouth
व्यतिषजति P. Joins together
आन्तर a Interna।
बहिरुपाधि m External attributes
पतड्ग m The sun, also a bird
द्रवति P.Gets melted
हिमरश्मि N. m The collrayed ,the Moon
चन्द्रकान्त m The moonstone
आरम्भगुर्वी a f Long or large in the beginning
क्षयिणी a Diminishing
पूर्वार्धपरार्धमिन्ना a f Divided by the formerand latter half of the day
छाया f Shade
पयस् n Water, also milk
खात्मन् m One’s own self
कृशानु, पावक m Fire
उन्मनस् aEager
Lesson 17
दिवसक्षय m Evening, sunset
अग्रतः in. In front of
पीवन् a m Fat, fleshy
वृत्ति f Livelyhood, Maintenance
भैक्ष a n Alms, food obtained by begging
अनिवेद्य in. Without making known
निशामुख n Evening, night-fa॥
अशेषतःin. Entirely
पूर्व a First round
अपर a Second round
न्याय्य a Just, proper
वृत्युपरोध m Impediment to the means of subsistence
लुब्ध m Avaricious
अभ्यनुज्ञात ppp Allowed, permitted
पीवर a Fat, fleshy
फेन m Foam
अनुकम्पा f Compassion
प्रतिश्रुत्य in. Having agreed
निराहार a mFoodless
क्षुधार्त a Aflicted by hunger
अर्कपत्र n Leaf of the Arka-plant
तिक्त a Bitter
उपहतचक्षुस् a With eyes being affected
चङ्क्रम्यमाण a Walking tortuously
अस्ताचलावलम्बिन् a Resting on the अस्तमनपर्वत
नियतम् in. Surely, certainly
चिरगत a Gone long ago
अह्वान n Calling
अश्विनौ m The twin sons of **अश्विनी—**the wife of the sun
देवभिषज् m Two physicians of Gods, i.e. अश्विनौ
अशान P. Eat
लब्धचक्षुस् a mFurnished with eyes
प्रतिभास्यन्ति P. Will come into the mind
Lesson 18
जिह्वालौल्यं n Fickleness of the tongue
यथाचारम् in. As usua।
उपचारवचन n Polite words
मूल्यवत् a n Valuable
खादत् pr a p Eating
वराटिकाa A cowric used as a coin in ancient days, i e. lowest-coin
अपारयत् pr a p Being unable
पण्यवीथिका f Bazaar Street
सोपचारम् in. courteously
अन्वयुङ्क्त A. Asked
आक्रोशत् pr a p Crying out
समुत्प्लुत्य in. Having jumped up
पलायित a Took to heels
Lesson 19
दानशौण्ड a m Munificent
द्रविणाशा f Desire for wealth
मनोरथ m A wish, desire
आहोस्वित् in. Or
सम्भावना f Present
विषण्ण a Dejected, Despondent
भूरि a Abundant
बाढम् in. Certainly, surely
किङ्कृतpppDue to what
वाराणसी f The holy city of Benares
पारग a mOne who has gone to the end of, one who is completely familiar with
वरिवस्या f Service
विलम्ब n Delay
श्रोत्रामृत n Nectar to theears
धन्य a Fortunate,Blessed
परमानन्दतुन्दिल a Filledwith high glee
सन्निधान n Presence
कृतकृत्य a He who was achieved his desired object
दुश्शक a Impossible
निरत a Engaged in
अभिप्राय m Intention, wish
जिज्ञासमान a Desirous of knowing
अवितथ a Not false
सनिर्बन्धम् in. Pressingly
प्रत्यपद्यन्तA. Agreed
निमेष m A moment
अनुयोग m Question
परा काष्ठा f The highest limit
धारावास्तव्य a m Inhabiting in धारानगर
महाजन m Great men
विष्टर N. m A seat
ओष्ठगत a Learnt by heart
Lesson 20
परिष्कृत्य in. Having decently dressed
बद्धाञ्जलि a With hands folded together
वैभव m Grandeur, magnificence
परिपाटी fक्रम m Succession, order
त्रिपीडा f (त्रिविधा पीडा)Three kinds of troubles
पादपीठी fA foot-stoo।
समुपस्थिता a f That has occured
दुरवस्था f Miserablestate
परिजिहीर्षत् pr**a p Desiring to avoid
प्रसाद m Gracious disposition
सुकृत n Virtuous act
गाम्भीर्य n Depth
प्रकार m A mode
विप्रपीडा f Trouble from Brahmins. (When a**man is rich enough they will approach him for begging. By this,Kalidasa interprets the Guru wishes that the King should become very rich)
शिशुपीडा f Trouble from children. (By this Kalidasa says, the Guru wishes the King many children)
दारपीडा f Trouble from wives. (By this, Kalidasa says,the Guru wishes the good health. When a man is healthy he will be troubled by wives)
चमत्कृत्य ppp Astonished
अतितराम् in. Very much
रहस्यभेदमय n Fear of disclosure of The secret.
Lesson 21
प्रशंसाfPraise
श्रुतवत् a m Possessed of high learning
गुणज्ञ a He who knows merits
वक्तृ m A speaker
दर्शनीय a Worthy of being seen
काञ्चन n Gold, wealth
अर्थवत् a Wealthy
बुभुक्षित a Hungry
पिपासित a Thirsty
छन्दस् n The Vedas
उद्धृत ppp Uplifted
हिरण्य n Gold, wealth
दुन्दुभि n A large drum
अचेतनa Lifeless
धनं धनं धनम् n Wealth wealth wealth, and also the sound produced by a drum
निनद m Sound
सचेतन a Sentient, animate
निष्कुलीन a Born of a very low family
निस्तरन्ति P. They cross over, get over
बान्धव m A Kinsman
Lesson 22
शालेयक्षेत्र n A paddy field
सेतु m. A narrow barrier
व्रीहि m Grain, corn
गोधूम m Wheat
पर्वतसानु m n The summit of a mountain
निम्नप्रदेश mLow land
कर्षण n Ploughing
लाङ्गल, हल n A plough
धुर् f A yoke
महिष m A buffalo
नियमेन m Invariably
शर्करिल a Stony,gravelly
निष्कुट m A pleasure grove near a house
उत्कर्षण n Ploughing, putting up
कर्षक m A cultivator, husbandman
निशिताग्र a Sharpedged
लोहफाल m n An iron ploughshare
पञ्चषाङ्गुल a Five or six inches
पद्धति f A line
मृत्तिकाf Earth, soi।
मञ्जरीf A shoot, sprout
लवित्र n A sickle
देवमातृका a f Having the god of rain as foster-mother, watered only by the clouds
नदीमातृका a f Watered by rivers
अभ्युक्षण n Sprinkling over
दुर्भिक्ष N. m n Absence of provisions
राम m Parasurama
मेदिनी f Ground, land
धनपति m Kubera
बल mBalarama
प्रेतेश m The god of death, यम
त्रिशूल n A trident of शिव
Lesson 23
प्रहार m A blow
द्वःस्थ } m A doorkeeper
द्वारपाल }m A doorkeeper
अनुनीयमान pr pp Being prevailed upon
सम्भावना f A present
कोष्ठान्तर n Another room or inner part of the apartment
कथञ्चित् in. Some how, with difficulty
सविध n Vicinity
सरस aCharming, beautifu।
वारण m An elephant
असकृत् in. Several times
लब्धवारण a mHe who has obtained an elephant and also obstruction
अभीष्टn A desired object
पारितोषिकn A present
आकूत nIntention
स्वस्ति in. Hail, may it be well with
गत्यन्तर n Other way
वेत्रहस्त a Having a staff in the hand
अंशहर a An heir, a co-heir
दैवारिक, प्रतीहार m A door-keeper
कृतप्रतिज्ञ a One who has fulfilled his promise
तदनुरोधेन mAccording
पञ्चाशत्f Fifty [to it
कौशल n Ski॥
चमत्कृत a Surprised
Lesson 24
पित्र्य a Ancestral
गृहिन् m A house-holder
भाग m Share
वाणिज्य n Trade
कौसीद्य n Usury
रिक्तीभूत a He who has become emptied
पाथेय 2 Provisions for journey
सङ्कल्प m Mental resolve
ससम्भ्रमम् in. Hastily, hurriedly
क्षपितवत् p a pDestroyed, completely spent
शपे A. I say on oath
प्राहिणोत् P. Sent
देवैकशरणa m Depending on god alone for protection
*शिलाकण्टकाकीर्ण ** a Filled with stones and thorns
अजगरm*A huge serpent who is said to swallow goats
न्यगीर्यत A. Was devoured
सोरस्ताडम् ** in. Beating the chest
महासत्व a m A great being
भिक्षाभाजन n A begging. bow।
कथङ्कारम् in. How, in what manner
अशरणा a ƒ Helpless
जठरn The stomach
उद्गीय in Having vomitted
सहस्रधा in. Into a thou- sand pieces
विशरिष्यते *A.*Will be shattered
विद्याधर m A class of demi gods
**साध्वी ** f A chaste woman
संवाद m Conversation
दम्पती m Husband andwife
Lesson 25
**आधिपत्य ** n Sovereignty
ऐहिक a Pertaining to this world
आमुष्पिक a Pertaining to the next world
योगक्षेम m Welfare. security
सन्नद्धसहाय a Equipped with help
त्रैवार्षिक a Lasting forthree years
**दारुण ** a Terrible
समर, *सङ्ग्राम ** m A battle
जयलक्ष्मी f The goddess of victory
भयानक a Frightfu।
प्रतिपक्षीय a Belonging to the opponent party
विशसित ppp Slain
मृगया f Hunting
आ in.कीटात् m From the insects
आमर्त्यम् in. Up to the mankind
स्वीयप्रजा f One’s own subjects or children
विवदमान a Quarrelling, disagreeing
सामरस्यnHarmony
वैरस्य n Hostility
सोदरस्नेहm*Brotherly affection
प्रमाद्यत् pr a p Neglecting
**समदृष्टि An impartial eye
प्रत्यवेक्षण n looking after
साम्राज्य Empire, dominion
अधिकृत N. An officer
असंस्कृत a Not refined
शिक्षण n Teaching, instructing
भूतदया ** f Compassion towards all beings
आदरणn Honouring, Respecting
नियम m Religious observance
शिलालेख m. An inscription
अर्पयित्वा in. Having presented:
अवधारण n Affirmation
*प्रियदर्शिन् ** m Causing pleasure
चिकित्सालय mHospita।
पथिकाश्रम ** *mn Rest house
छायावृक्ष m. A large umbrageous tree
आबालवृद्धम् in Fron children to old men
अपर्याप्त a Insufficient
**प्रजाहितैषिन्a m A well- wisher of his subjects
**अनुकरणीय ** a m Worthy of being imitated
अनुस्मरणीय a m Worthy of being remembered.
Lesson 26
आस्थानn An assembly
धनुर्वेद m. The science archery
कोविद m Learned
विश्रुति f Fame, celebrity
अधृष्य a Invincible, Unassailable
निषादकुमार mA young boy of a wild tribe
निर्वोदुम् in. To carry on
अक्षम aBeing unable
अशक्य a Impossible
एकान्त m A lonely place
प्रतिकृति f An image
सन्धान n Fixing (an arrow to the bow-string)
मोचन n Discharging, Releasing
संहरणnWithdrawing
भषत् pr a p Barking
व्यादाय in. Having opened
अभ्यर्ण n Vicinity
लोकोत्तर a Extraordinary
हस्तलाघव n Skill of thehand
अवज्ञा f Contempt
अप्रतिम a Matchless
अतिशयान pr a p Excelling
**अनुध्यायत् ** pr a p Meditating on
अनुचिन्तयत् pr ap Thinking of
मत्सकाशे m Under my contro।
विस्रव्धम in. Without hesitation
**तथ्य ** a True
अङ्गुष्ट m The thumb
**द्राग् ** n. At once
अनक्षरम् in. Without a word
अनृण a Free from debts
Lesson 27
लौकिक a Worldly a Foremost
राक्षसी aBelonging to an evil spirit. demonica।
दृप्तa Arrogant faf Source, origin
निर्ऋति f An evi।
दुग्धेAYields, grants
**विप्रकर्षति ** P. Drives away
अलक्ष्मी f Bad luck,poverty
सूनृत a True and pleasant
वज्र m n A diamond
प्रतिष्ठा f Accomplishment
सहज a Inborn, natura।
प्रागल्भ्य n Boldness
कालानुरोधm In confor- mity with time
प्रतिभान n Readiness
कामदुघ a Granting of wit every desired object
तेजस्विन् m Degnified, Powerfu।
प्रसृत a Spread
विषहते A. Puts up with
अकृतक a Not sham
मयूख m A ray of light
अश्रान्तम् in. Incessantly
दिनकर m The sun
आग्नेय a Pertaining tofire
ग्रावन् f m A stone
निकृत a Injured
Lesson 28
कर्णाटकेषुIn the कर्णाटकदेश
रजतपीठपुर—उटुपी (so called because, it is said, in olden days a king called Ramabhoja performed a sacrifice, being seated on seat made of silver)
वैष्णव a m A devoteeof Vishnu
पुण्यक्षेत्र a m A sacredplace
जनि f Birth
किस्त्वब्द m Christian era
आश्वयुजमास m The month of Aswina (October-November)
शुक्लपक्ष m Bright bali of the lunar month
**लीला ** f Sport
जनता f Assemblage of people
उपनीत a m Invested with the sacred thread
क्षेत्र n A temple also a field
अधितिष्ठवस् a He who resided
द्वैतn The dualism in philosophy which recognises the individual and supreme soul as different from each other
वेदान्त mPhilosophy
प्रतिपदम् in. At every step
अनुपपत्ति f Inconclusive reasoning
प्रतिभाशक्ति f The power of bright conception
पूर्णप्रज्ञm Full of knowledge, all knowing
यतिप्रवर m The fore-most among sages
तीर्थक्षेत्र ** n Sacred river and place
भणिति f Speech, talk
आददान pr a p Attracting
बदरी f The name of the hermitage of the sages नर and नारायण
प्रतिवादिभयङ्कर amFear-ful to an opponent
तार्किकसिंह a m A lion- like logician
अनन्तशयन n Trivandrum City
सङ्गत a Come across
प्रतिमा fImage
शिष्यपरम्परा f Succession of disciples
शाश्वतिकी f of Permanent
योगा सिका f A pasture suited to profound meditation
त्रेताf The second of the चतुर्युग
Lesson 29
लोहमयी a f Made of iron
पूर्वपुरुषार्जिताa f Procured by ancestors
तुला f A balance
श्रेष्ठिन्m The head of a mercantile guild, Merchant
न्यास m A pledge,deposit
निक्षेपतुला f A balancedeposited
मूषक m Arat
मुर्खता f Foolishness
संसार m The course of worldly life
शाश्वत a Eterna।
स्नानोपकरण N. n The bathing materia।
पितृव्य m A peternal uncle
नदीगुहा f A cave near the river
सङ्गोप्य in Having concealed
बृहतीa f Big
श्येन in A hawk
असम्भावित a Unimaginable
न्यायसभा f A court of law
डयित ppp Flew
तारस्वर m A loud voice
**न्यायाध्यक्ष }**m Judge
**न्यायाधिप }m Judge
अभिहितppp Said
न्यासीकृत ppp Deposited,Pledged
निष्कशत n Hundred gold coins
Lesson 30
आस्तिक m One who believes in god and another world. A believer in sacred tradition
नास्तिक in. An atheist. One who denies authority of the sacred scriptures
आतपक्लान्त a Exhausted by the sun
न्यग्रोधतरु m A banian[tree
विश्रमm Rest
कुतस्त्य a m Whence come
दाक्षिणात्य a m A native of the Deccan
कायक्लेश N. m Bodily suffering
आयास्यते A. Is being troubled
अपष्ठु in. Falsely, adversely
सर्वसाक्षिन् m He who witnesses everything
कर्मानुरूप a According to action
सुकृतिन् a m Virtuous, Pious
दुष्कृतिन् a m The sinfu।
लोकान्तर n Next world
मुग्धालाप m A silly talk
अभिज्ञa m The wise
प्रमाणयन्ति P. Recognise, Prove
सद्भाव m Existence
मान n Authority, means of proof
अज्ञ a m Unwise, stupid
श्रुति fThe Vedas
उन्मत्तप्रलपित n The words of insane
स्वर्ग mHeaven
नरक m He॥
पुण्य n Religious merit
पाप n Sin
तत्वद्दश् a m He who has realised truth
व्याकुलयति P. Confounds
पट mCloth
कुलाल m A potter
तन्तुवाय m A weaver
निरीश्वरवादिन् a m He who defends godlessness
सेश्वरवादिन् a m He who defends the existance of god
शैव a m A devotee of Siva
प्रमाणपटु a m Skilled in the means of proof
नैयायिक N. m A logician
जैनशासनरत a m He who is devoted to Jain scriptures
मीमांसक N. m Well- versed in मीमांसा
कर्मन् n Performance of religious rites
मृणालकोमला a f As soft as a lotus stalk
तनीयसीa f Compara- tively thin
कूष्माण्डलताf A pump- kin creeper
बालिश N. m A fool, block-head
पाषण्डहतक A wretched heretic
उपन्यस्त ppp Spoken
क्रान्तदर्शिन् am Omniscient
नियन्तृ m Regulator
Lesson 31
लोकनाथ a m The lord of people and also he to whom the people are lords
बहुवीहि m The wordलोकनाथ is to be taken as a Bahuvrihi compound when it qualities the poet
षष्ठीतत्पुरुष m The wordलोकनाथ is to be taken as aतत्पुरुष compound when it qualifies the king
कीर्तिचन्द्र m The moon-like glory
पूर्णिमाfThe full-moon day
मद्गेह n My house
एकादशी f It is the eleventh day of every fortnight on which religious people fast world
लोक m. People, also world
मृषा in. Falsely
अपूर्वा a f Unprecedented
मार्गणौघ m The stream of arrows and also of beggars
गुण m A bow-string and also merit
दिगन्तर n The distant extrimity
विद्विष्m An enemy zenqqınfozaccatgam
यशोदयामण्डितकान्तदेह a mHe whose lovely body is adorned by Yasoda and also by reglory and दया = kindness
**गोपालजन ** m Cowherds and also princes
गोमण्डल n The multitude of cows and also kingdom
बल m Balarama and also (n) strength of force
पुरुषोत्तम m Lord Vishnu and also the best of meri
Lesson 32
उशीनर m Name of a mett country
सत्यसन्ध a m True to one’s promise.
भूत n Living beings
उपद्रव m A calamity. trouble
कपोत m A pigeon
**विहगोत्तम ** a m The best of birds
रक्षार्थिन् m Seeking protection
भक्षार्थिन् m Seeking food
पुरस्कार m Acceptance
तिरस्कार m Rejection
अनाथ a m Lordless, Helpless
विहित ppp Prescribed
पतत्रिन् m A bird
व्यय n Expense, cost
**कपोतप्रमाण ** a With weight equal to the pigeon
**उत्कृत्य ** in. Having cut off
जनुस् n Birth
राज्यन्यपुत्री f A Khsatriya girl
आकुत n Intention
विशद a n Pure, spotless
गुरुताa f Heavyness
ऋच्छतिP. Attains
अवसन्न a Completed, finished
खेद m. Disinclination
सन्तोषवाष्प m The tearsdue to joy
शोकबाष्प m The tearsdue to pain
कृत्स्न a Whole
प्रतिनिधि m A substitute
नमस्तःin. From the sky
पुष्पवृष्टि f A shower of flowers
अनल ne Fire
भूतदया f Compassion towards all beings
अक्षताङ्ग a ma He whose body is not wounded
Lesson 33
महशूरदेशm Mysore state
यशोमात्रावशिष्ट a Remaining only in fame
वसुमती f The earth
आचार्य m A teacher
भवितव्यता ** f Destiny
कौशलn Ski॥
अमात्य mA minister
अनुज्जिहान्pr a p Without departing from
छन्दm Wish, desire
सर्वकलाशाला f University
प्राथमिकविद्याभ्यास m Elementary education
परिपोष m Increase, advance
निर्बन्धविद्याभ्यास m Compulsory education
आङ्गली f English
गैर्वाणी fSanskrit
विपुलa Large
महार्घ a Valuable, Precious
व्यवसायविद्या f Industry
कुल्या f A small channe।
तटाक m n A lake, tank
सौकर्य n Facility
सुभिक्षम् nAbundance of provisions
दुर्भिक्षम् nScarcity of provisions
विद्युच्छक्ति f Electricity
वलिm A tax, Assessment
भूत्यर्थम् in. For the sake of welfare of
राजतोत्सव N. mSilver Jublee
हैमोत्सव N. m Golden Jublee
हैरोत्सव N. m DiamondJublee
आनन्दविवश a m Lost in happiness
Lesson 34
व्यपदेश m A name, title
वैदेशिक m A stranger, foreigner
एकदेश n A portion
विश्लिष्टppp Separated from
सिन्धुनद mThe river Indus
आरभसमुद्र m Arabean sea
भारतमहासागर m Indian ocean
वङ्गाब्धि m The bay of Benga।
हिमालयश्रेणि f The range of Himalayas
दैर्घं n Length
कुमारी f Cape comorin
विस्तार m Breadth
क्रोश m Two miles
विन्धाद्रि m Vindhya mountains
पूर्वापरायत a m Extending from east to west
अन्तरालं nIntermediate space
तरङ्गिणी f A river
नद m A river (flowing to the western sea)
नदीf A river (flowing to the eastern sea)
आयतन n An abode
सस्यादय m Fertile
पश्चिमपर्वतावलि f The range of western mountains
पूर्वपर्वतावलि f The range of eastern mountains
जैत्रयात्राप्रसङ्गेन m By way of victorious journey
अविभरुःP. Ruled
सार्वभौम m An emperor
शासन nAn order, Command
सामन्त m A tributary prince
अष्टसप्ततिfSeventy-eight
एकोनत्रिंशत् f Twenty- nine
कालिघट्टपुर n Calcutta city
प्रियङ्गु m f Indian corn. (There is also a creeper calledप्रियङ्गुलता which is said to put forth blossoms at the touch of women)
माष mBlack gram m Green-gram
कार्पासी f The cotton plant
नीली ** fThe indigo plant
तन्तुm Thread
अदभ्रतया f in plenty
लब्धोपचय a m That which has attained growth
कला f An art
वयन n Weaving
सीवन n Sewing. Stitching
चित्रलेखन n Painting
शिल्पकला f A mechanical art Her a Soft, smooth
अंशुक n A garment
**लोकयात्राf The course of worldly life
खण्डान्तर n Another continent
अतिशेते A. Excels
पुराकल्प mOlden days
प्राचीनतम m. The oldest
व्याकरण n Grammar
गणित n Mathematics
अश्ववेद mThe science dealing with horses
आयुर्वेद m The science of medicine
आकर n A store house, mine
मातृकादेश 2 A model country
मण्डन n Ornament
Lesson 35
प्रथमा पञ्चिका
पञ्चिका f Consisting of five
निर्गुण a Devoid of merits
निर्बल a Having no strength, weak
त्रिकूट m A mountain in Lanka on the top of which was situated Ravana’s capita।
परिखा f A ditch round a fort
धनद mकुबेर (God of wealth)
उशनस् mशुक्राचार्य (priestof असुराः)
विषमa Evil, adverse
कुमति ** a The wicked-minded
आमोद m fragrant sme॥
मृद्f Clay, earth
साक्षर a Possessed of letters
विपरीत a Perverse. Note the letters of the word साक्षरा reversed make it राक्षसा
द्वितीया पञ्चिका
कर्पूरधूलीm f Camphordust
आलवाल n A basin for water round the root of a tree
पलाण्डुm nAn onion
विराम m Cessation, discontinuance
कालकूट m n A deadly poison
कूर्म m A tortoise
धरणी fThe earth
दुस्तर a Insurmountable arsaf m Submarine-fire
अङ्कीकृत & Once undertaken
सुकृतिन m A virtuous man
पद्माकर mA lotus tank
दिनकर m The sun
विकच a Blown, opened
कैरवचक्रवाल n A circle or group of night lotuses
जलधर m A cloud
परहित an Welfare of another
विहिताभियोग & He who is making energetic efforts
पवन mWind
वनगज mA wild elephant
कन्द m n A bulbons root
निधान n A treasure, Wealth
तृतीयी पञ्चिका
कलम् in. Sweetly
**किम् अपि ** in. Something inexpressible
अशङ्क a Fearless
चरित n An act, deed
मशक m A mosquito
धूम mSmoke
पयोधरपद n The place of clouds, sky
ज्वलन m Fire
कलुषप्रकृति ** amWicked-natured
अध्वग m A traveller
कारण्ड mA kind of duck. Alsoकारण्डव**
बकm A crane
कोक m The ruddy goose**(चक्रवाक)**
कुल n A multitude
कृत्रिमa Artificia।
*सटा ** f A mane of a lion
जटिल a Dense
अंसभित्ति f The wall-like shoulder
मृगपति m A lion
पदवी f Rank, position
मत्तेभ m An elephant in rut
कुम्भ m The frontal globe on the fore-head of an elephant
पाटन nSplitting.
लम्पटaHankering after
नाद m A loud roar
हरिणाधिप m मृगाधिपA lion
सुप्रभात् m A fine morning
भास्वत् m The sun
पङ्कजश्रीf*The splendourof a lotus
कोशगत aCaught in the fold of a lotus
द्विरेफ m A bee
नलिनी f A lotus tank
चतुर्थी पञ्चिका
रम्भोरु f A handsome lady
त्रिदश m. A god
ग्लानि f Displeasure
युध् f A battle
विपद् f Calamity
वानरचमूfThe army of monkeys
लघिष्ठa The lightest, lowest
षष्ठाक्षरपरविलोपात् m By dropping the letter following the sixth one
लेखार्थसंवाहक a A letter carrier
भर्त्सित ppp Threatened
व्रीडात्तपराभव a m Being ashamed of humiliation he received
वनमृग m A monkey
खलेश्वर m Lord of the wicked
घोर a Frightfu।
हिंस्रपशु m A cruel beast
व्यवसित a Undertaken
तालद्रुम m A palmyratree
दातृ m A giver
रजक m A washerman
वसन n A cloth
विषकृमिन्याय m The maxim of the worms born and bred in poison. (The poison is fatal to others but not to the worms born and bred therein)
पाणिग्रहलालिता a f Fondled by taking in the hand and also by marrying
सुसरला f Straight and straight-forward
तन्वी f Slender
सुवंशोद्भवाa f Made of a beautiful bamboo and also born of noble family
चाहमुखी a f Having a lovely face
विरहितa Separated from
यष्टिकाf A walking stick
पञ्चमी पञ्चिका
अङ्क m A spot
कतिचित् Some people
भूच्छाया f Shadow of the earth
दलित a Cut, split
शकलm A piece
सान्द्र a Thick
अन्धतमस n Deep darkness
स्वर्वाटm A bald-headed man
मस्तक mn The head
अनातप m Free from sun’s heat
सशब्दम् in. With a loud noise
परार्थघटक a m He who strives for another’s interest
स्वार्थm Self-interest
सामान्य a Ordinary
उद्यमभृत् a m Striving hard
निरर्थकम् in. Without any purpose
जलायते A. Acts like water
कुल्यायते A. Acts like a small channel
स्वल्पशिलायते A. Acts like a small rock
कुरङ्गायते A. Acts like a deer
व्याल m A serpent
माल्यगुणायते A. Acts like the string of a garland
पीयूषवर्षायते A. Acts like a shower of nectar
वल्लभतर a More pleasing
समुन्मीलति P. Becomes manifest
क्षुत्क्षाम a Emaciated by hunger
जराकृश a Reduced by old age
शिथिलप्राय a Slackened to a great extent
आपन a Distressed
विपन्नदीधिति a With one’s splendour lost
पिशितग्रास mA mouthful of flesh
जीर्ण a Worn out, old
मानमहत् a mRich in pride, Greatly proud
अग्रेसर a Going in front, Fore-most
षष्ठी पञ्चिका
शूलिन् m Lord Siva and a sick man
मृगय P. Seek after
भिषज्mDoctor
नीलकण्ठ m Lord Siva and peacock
केकाf The cry of a peacock
पशुपति m. Lord Siva and lord of cattle
विषाण m n A horn
स्थाणु m Lord Siva and the branchless trunk of a tree
मुग्धा f A lovely or foolish lady
शिवा fGoddess Parvati and a female jacka।
इतवचस्a He whose words are refuted
गोत्र n Family
जन्मभू f Birth place
प्रह्व a Bent low, modest
हरि m Lord Krishnaand a monkey
शाखामृग m A monkey
कृष्ण m Lord Krishnaand a black monkey
मधुसूदन m Lord Krishna and a bee
ह्रीणa Ashamed
कवाट n A leaf of a door
माधव m Lord Krishna and the spring season
चक्रिन्m Lord Krishna and a potter
धरणिधर m Lord Krishna and Adisesha who upholds the earth
घोराहिमर्दिन् m. The slayer of a frightfulserpant (the Lord Krishna) and गरुडः
मुसलिन् m Balarama
व्यादेहि P. Open
विस्मयपद n Point of wonder
पायात् P. May he protect.
श्रीपति m Lord Vishnu.
——————————-
]