संस्कृतचन्द्रिका

[[संस्कृतचन्द्रिका Source: EB]]

[

[TABLE]

१८१५ शकस्य मूल्यदातारः।

<MISSING_FIG href="../books_images/U-IMG-173028507511.jpg"/>

कुतोऽपि प्रतिवन्धकात् १८१५ शाकस्य मूल्यप्राप्तिः चैत्रपत्रिकायां न स्वीकृता। १८१६ शाकस्य मूल्यप्राप्तिरपि स्थानाभावादत्र न स्वीक्रियते। आगामिन्यामस्यां स्वीकरिष्यते क्रमशः।

[TABLE]

<MISSING_FIG href="../books_images/U-IMG-173028679612.jpg"/>

श्रीगणेशः ।

श्रीश्रीदुर्गा
शरणम्।

संस्कृतचन्द्रिका।

( १८१६ शाक-वैशाखमासस्य।)

<MISSING_FIG href="../books_images/U-IMG-173028706213.jpg"/>

श्रीश्रीगणेशाय नमः।

अथ मङ्गलाचरणम्।

शिवादीनपि कर्म्माणि कारयन्ती जनानिव।
मायाबलम्ब्यते सेवमम्बाश्रीशिवसुन्दरी॥

<MISSING_FIG href="../books_images/U-IMG-173028719614.jpg"/>

वर्षावतरणिका।

श्रीश्रीमतीसंस्कृतचन्द्रिकेयम्वर्षे द्वितीये पदमर्पयन्ती।
इषसत्सयगङ्कंकलनीयनङ्कंगजद्धितानां परवत्सलानाम्॥

_________

गणेशस्तोत्रम्।

<MISSING_FIG href="../books_images/U-IMG-173028750315.jpg"/>
श्रीनारद उवाच।

हे गणेश सुरश्रेष्ठलम्बोदर परात्पर। हेरम्ब मङ्गलारम्भ गजवक्त्र त्रिलोचन॥
त्रिलोचनमुतयह दीवर स्मरणोपसित।परमानन्द परमपार्व्वतीनन्दन स्वयम् ॥
सर्व्वव पूज्यः सर्व्वेषंजगत्राज्यंजगद्गुरी।जगदीश जगद्बीज जगन्नाथ नमोऽस्तु ते॥
यत्पूजासर्व्वपुरती य स्तुतः सर्व्वयोगिभिः। यः पूजितः सुरेन्द्रैश्चमुनीन्द्रैस्तंसमाम्यहम्॥
परमात्वामाननेनैव कृणस्व परमात्मनः। पुण्यकेन व्रतेनैव यंप्राप्य पार्व्वती सती॥
तं नमामि नरश्रेष्ठं सर्व्वश्रेष्ठं गरिष्ठकम्। जनश्रेष्ठंवरिष्ठञ्च तं नमामि गणेश्वरम्॥

इदं लम्बोदरस्तोत्रंनारदेन पुरा कृतम्। पूजाकाले पठेन्नित्यं जयस्तस्य पदे पदे सङ्कल्पतः पठेद्यो हि वर्षमेकं सुसंयतः। विशिष्टपुत्रंलभते परं कृष्णपरायणम्। यशस्विनञ्चविद्वांसं धनिनं चिरजीविनम्। विघ्ननाशोभवेत्तस्य महैश्वर्य्यं सुखं यशोऽxइहैव च सुखं भुक्त्वा अन्तेयाति हरेः पदम्॥

इति ज्ञानामृतसारे गणेशस्तोत्रंसमाप्तम्।

_________

गणेशः।

<MISSING_FIG href="../books_images/U-IMG-17301136327.jpg"/>

कालवशाद् भारतवासिनां दुर्भाग्यतया वा अधुना विलुप्त धर्म्मभावः, मनुजहृदयात् तिरोहिता च देवभक्तिः, पाश्चात्व दीक्षिता नव्यभव्यास्तु देवानामस्तितायामेव संशेरते। xxमनुष्यदृष्ट्या देवसमालोचनायां प्रवर्त्तमानाः पदे पदे एवमेव भाजो भवन्ति। स्वभावत एव मनुषेभ्यो भिन्नप्रकृतयो अष्टावणिमादि-सिद्धयस्तेषां स्वभावसिद्धाः। सिद्धिबलेन देशमचार-व्यवहारादयोऽपि लोकविपरीताः, कदाचिदप्यनवयतां शिथिलभक्तीनां मनुजानां अविश्वासनीयाश्च भवन्ति। xxxवारिधेः परपारे मध्ये वा रम्यमिंलण्डपत्तनं, तत्र च भूलोक-लोक-सदृशं लण्डननगरं, वर्त्तन्ते च तत्र अमोघाध्यवशाया भxवासिभ्यःसम्पूर्ण-विपरीतप्रकृतयः श्वेतकाया वीरपुरुषाः; बुद्धिबलेन अचिरस्थिरा विद्युतोऽपि प्रतिबद्धाभयेन निश्चल प्रतिराजपथं नैशान्धकारमपनयन्ति, समीरणः प्रबलोऽपि रुद्ध सेतुधारणादिकार्य्यं निर्व्वाहयति। एतदन्यदपि इरेजादित्तअसारप्रायाणामस्मादृशामसाध्यंयदि केवलं ग्रन्थलिखितमेव वx परं कदाचिदपि नावलोकयामः, कथयन्तु, तदा किमस्माकं xxमेतत् विश्वसिति? एवमेव देवचरितं बहुदिनप्रभृत्येवास्नमप्रत्यक्षं।

भारतवासिनो योगबलेन समुन्नता आसन्। तेषां अर्शना देवा अपि दृश्यमानाः सर्व्वानेवाभिलाषान् यथायथं देवचरितानि प्रत्यक्षीकृतानि; संसारिणाxतानि सर्व्वाणि लिखितानि च। गतास्ते दिवसाः; भारतवासिनां समुन्नतिरपि चिराय तिरोभूता। सर्व्वमिदानीं केवलं कथासु अवशिष्यते। अत एवानुxविश्वासभाजनम्। नव्यभव्या यथेच्छं निन्दन्तु xर्ग्नामनुरागिणांपाठकानामवश्यमेवानुरागो वर्द्धिष्यत-रालोचनायां वयं प्रवर्त्तामहे।

xx! प्रथमं या देवमूर्त्तिः सन्निवेशिता, आस्ति-x परिचितैव। प्रतिदिनमेव गौरीनन्दनोऽयं गणनाद्भिः। देवेऽस्मिन् न केषाञ्चिदप्यनादरो दृश्यते। शैवप्रभृतयः सर्व्व एव भक्तिपूर्व्वकं देवमिमं पूजxवायं हृदयविश्वासः यत् सर्व्वप्रथमं गणपतिxचिदपि देवता ग्रहीष्यति पूजनम्, न वा सम्पत्xधेन सर्व्वत्रैव गणपतिपूजनं प्रचलति। अस्योत्xन्द्राननप्राप्तिकारणं, सर्व्वासामेव देवतानामग्रे xमिति ज्ञातुं सर्व्वस्यैव औत्सुक्यंजायते, सम्प्रति xx।दृश्यते प्रायः सर्व्वेषु प्राचीनेतिहासपुराणादिषु xxवा गणेशोपाख्यानम्। तत्रापि शिवपुराणे अधिकं भिन्नप्रकारञ्च। शिवपुराणे एवमेव गणेशोऽस्ति—

वपरिणये पर्व्वतराजपुत्री शिवस्य प्राणेभ्योऽपि x, नाभिलषति भूतेशः कदाचिदपि नवोढ़ायाxxवितुम्। अवलाजन-सहजलज्जया पार्व्वती पुनः xxमेकान्तमेवावस्थातुमोहते। एकदा कस्मैचिदपि

प्रवेशंमा देहीति नन्दिनं द्वारपालं समादिश्य गिरीन्द्रतनया निमज्जमाना आसीत्। वृद्धोमहेशोऽपि क्षणमनेकं प्रणपीवदनादर्शनेन सुतरामुत्कण्ठितः पार्व्वतीभवन-प्रतीहार-भूमौसमायातः, नन्दिना प्रतीहारिणा निवारितोऽपि प्राविशत्। स्वामिनं समायान्तमवलोक्य पार्व्वती लज्जिता नितरां दुःखिता च। पार्व्वतीसख्यौ जया विजया च कदाचित् तामकथयतां “देवि!नन्दि-भृङ्गि प्रभृतयः सर्व्व एव शिवानुचरा द्वारि तिष्ठन्ति, ते च न पारयन्ति लङ्घितुं शिवानुमोदनं, यदि अस्मदीयः कोऽपि स्यात्, तदा न पुनरेवं सम्भवति।” भगवती सखीशकियामयुदिष्टामृत्तिकया पुत्रकमेकं निर्म्मितवी, तदिच्छयासंपूर्णावयवस्य तस्य जीवननारोऽपि जातः । सर्व्वावयवसुन्दरं तमेवमकथयत्। “वत्स! मम पुत्रोऽसि, द्वारि स्थीयतां, न देयः कस्मैचिदपिप्रवेशः।” अयमेव गणेशानेन प्रसिद्धः। यथासमयं प्रतीहार-भूमौसमागतं महेशं निवारयतागणेशेन शिवस्य वादानुवादं परजायत क्षुद्रतरः संग्रामः। शिवानुज्ञयातदीयाः पारिषदा अपि पोलावताः परन्तु पार्व्वतीतनयस्यामोघप्रहारेणपरिधेन ताड़िताः पराजयमभजन्त। निदारुणसंग्रामकलकलेन भीताः ब्रह्मविष्णुप्रभृतयोऽपि तत्र समायाताः तैश्चापि गणेशस्य युद्धमभवत्, पार्व्वतीप्रभावेण ते सर्व्वएव पराजीयन्ते गणेशेन। त्रिशूलपाणिना सञ्जातकोपेन विष्णुप्रभृतिभिर्युष्यमानस्य गणेशस्य मस्तकं खण्डितमासीत्। शिवादीनां अनुचितव्यवहारं गणेशनिधनञ्च समाकर्ण्य पार्व्वतो स्वयमेव योद्धुमागता, गृहिणी योद्धुमायातीति मन्यमानस्य शिवस्य भयमजायत अभवन् देवा अपि भयेन कम्पितहृदयाःपार्व्वती-प्रसादमन्त्रेण नास्माकं मतिरिति विचार्य्य शिव-प्रभृतयः सर्व्व एव तामनुनेतुमारब्धवन्तः; तदानीमुपस्थितस्य एकदन्तगजराजस्य मस्तकमानीय गणेश-कन्धरायां नियोजितवन्तश्च।पार्व्वतीवचनेन सर्व्वैरेव देवैः प्रतिज्ञातंयत्, गजाननस्य

अस्माभिः कदाचिदपि ग्रहीतव्यं पूजनं इदमेव सर्व्वाग्रेxम्। कार्त्तिकेयो गणेशश्च पित्रोरादरेण प्रतिदिनमेव xxणच बाल्यभावपरिहारेणारूढ़वन्तौ यौवनपदवीम्। xxरिणेष्यामीति ब्रुवतोस्तयोर्मियः वाक्कलहः सञ्जातः। तादृशं विवादमाकर्णितवन्तौ, यः परिक्रम्य सप्तxxप्रथममेव शक्नोति समायातुं, तस्यैव परिणयःxxतइति नियमं चक्रतुः।

मयूरवाहनेन तदानीमेव वहिरगमत् धरणीपरिxxणेशस्तु दुर्ब्बलमूषिकवाहनः कथमपि न पारयामि xxतुमिति मन्यमानः पितरौ रत्नसिंहासनमासीनौ xणीकृतवान्। भक्तिप्रवणचेतसा जनन्या जनकस्य च xनजायते पृथिवीभ्रमणफलमिति। गणेशेणैव प्रथमंमिति विचारयतोः पित्रोरनुज्ञया सिद्धिबुद्धी विश्वरूपप्रथममेव गणेशेण। बुद्धिमतो गणेशस्य बुद्धिबलेनैव xयः चिरकुमारत्वमास्थितवान्। इत्येवं गणेशचरिxx कृष्णपक्षीय-चतुर्थ्यां पार्व्वती मृत्तिकया गणेशमूर्त्तिं सैव गणेशजन्मतिथितया आख्यायते। शिवसंहितायां २२-३६ अध्यायेषु।

xxराणमते तु गणपतिःपार्व्वतीगर्भजात एव, नवजातं अवलोकयितुं समागतस्य रविनन्दनस्य दर्शनमात्रेण सञ्जातः। पार्व्वतीक्रोधभीतेन देवेन विष्णुणा xxस्य मस्तकं गणेशकन्धरायां नियोजितम्। गजेन्द्राननं xयक् मन्यन्ते लोका इति विचार्य्यसर्व्वैरेव देवैः प्रतिxतीनन्दनस्य पूजामन्तरेण नास्माभिः पूजा ग्रहीतव्या। सर्व्वप्रथमं गणेशपूजनविधानमभवत्।

भृगुकुल-धुरन्धरेण परशुरामेण शिवमवलोकयितुं

समायातम्। अनुमतिमन्तरेणैव पुरान्तः प्रविशन्तं तं निवारयता गणेशेन तस्य वाग्युद्धंहस्ताहस्ति दण्डादण्डि चाभवत्। पार्व्वतीकुमारेण प्रबलपराक्रमेण सिद्धिबलेन बाहुयुगलं कोटियोजनायतं कुर्व्वता परिगृहीतः परशुरामः सप्तलोकीं भ्रामितश्च। दारुणापमानेन समुज्ज्वलितः परशुरामः गणेशनिधनाय अमोघवीर्य्यं परशुं प्राक्षिपत्। तेन च भग्नं गजाननस्य विषाणमेकम्। ततः प्रभृत्येकदन्तोऽयम्।

दारग्रहणं योगविघ्नकरमिति मन्यमानेन गजाननेन योगासनमवलम्बितमासीत्। कदाचित् काचिदङ्गना अतीव सुन्दरं युवानं गणेशमवलोकयन्ती कामपीड़िता मां परिणयेति तं प्रार्थितवती गणेशस्य विवेकवचनेन कुपिता वराङ्गना संसारोभवेति शापवचनं प्रादात्। कुपितेन गणपतिना सा चाभिशप्ता तुलसीरूपेणावतीर्णा आसीत् तस्य परित्याज्या च इत्येवं गणेशपूजने तुलसीदानं निवारितमिति। (ब्रह्मवैवर्त्तपुराणीयं गणेशखण्डम्।)

गणेशोऽयं लेखकानां प्रधानतमो द्रुतलेखकश्च। भारते लिखितमस्ति, कृष्णद्वैपायनेन विपुलतरं भारतं प्रणीय केनेदं लिखितव्यमिति चिन्तयता प्रजापतिः समाराधितः। स च प्रजापतिवचनेन भारतलेखनाय गणेशं प्रार्थितवान्। गणेशेनापि योगविघ्नकरं लेखनव्यापारं परिहातुकामेन कथितं “द्वैपायन! स्वीकृतं मया, परन्तु रचनाविलम्बेन, कथन-विलम्बेन वा यदि मे लेखनी क्षणमपि विरतिमवलम्बते, ततो न लिखितव्यम्”। कृष्णद्वैपायनेनाप्यभिहितं “गणेश! भवतापि मद्वचन-प्रतिपाद्यमवगत्यैव लेखनीयं नान्यथा।” सर्व्वकविप्रधानोऽपि व्यासदेवः यदा न पारयति वक्तुं तदा कामपि कूटरचनां कृतवान्। तज्ज्ञानाय गणेशस्य समयातिपातः, तेनैव च भारतलिखनं जातम्। अधुनापि आस्तिका भारतनामिनः गणेशस्य लेखकप्राधान्यसूचनाय विघ्ननिवृत्तये च “नमो गणेशाय” लिखित्वैव ग्रन्थादिलिखनमारभन्ते।

ये च धर्म्मानुरागिणः भक्तिप्रवणचेतसा इष्टदेवत्त्वेन गणेशमाराधयन्ति, ते गाणपत्या इत्याख्यायन्ते। शाक्तवैष्णवादि-सम्प्रदायवत्-सबलेन गाणपत्यसम्प्रदायेनापि कदाचित् भारतभूमिः परिव्याप्ता। कालवशात् लुप्तप्रायो गाणपत्यसम्प्रदायः। गणेशाथर्व्वशीर्षोपनिषदि गणेशामर्षिण्याञ्च वेदान्तप्रतिपादितब्रह्मतयैव गणेशो वर्णितः। तन्मते गणेशादेव जगतः सृष्टिस्थितिप्रलया भवन्ति, अयं गुणत्रयातीतः योगिनां योगविषयश्च। श्रुतिस्मृतीतिहासपुराणादिषु अयमेव परमात्मरूपेण परमेश्वररूपेण वा वर्णितः। तन्त्रादिषु एकोनपञ्चाशद्गणेशानामुल्लेखो दृश्यते, परन्तु न तदुत्पत्त्यादौ विशेषः कोऽपि इति। चोरगणेशहरिद्रागणेश-प्रभृतीनां विवरणं तन्त्रसारादौ द्रष्टव्यम्। गणेशस्य पूजाविधानादिकं गणेशामर्षिण्यां सविस्तरं वर्णितमस्ति तत् तत्रैव द्रष्टव्यम्।

गणेशध्यानं।

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्।
अभयं वरदं हस्तैर्विभ्राणंमूषिकध्वजम्॥

रक्तं लम्बोदरं सूर्पकर्णकं रक्तवाससम्।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम्॥

भक्तानुकम्पिनं देवंजगत्कारणमच्युतम्।
आविर्भूतञ्च सृष्ट्यादौ प्रकृतेः पुरुषात् परम्॥

पूजनमन्त्रः —“ओंअंगणपतये स्वाहा।”1”)
महागणपत्युपनिषन्मते तु —“गं गणपतये नमः।”

गणेशगायत्री—

“एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तीप्रचोदयात्।” इति।

श्रीलक्ष्मीचन्द्र सांख्यतीर्थः।

पाठकाः! वत्सरप्रारम्भे नानाविधेनोपहारेण श्रीमन्तः समुत्साहिता अपरैःसम्पादकैः। चिरशयनेन शिथिलशरीरा चन्द्रिकेयमधुनापि विकला किमपि ताम्बूलमेव युष्मभ्यं प्रदातुमुपतिष्ठते। सादरं वदने कृतमेतत् श्रीमतां चिरसुखाय सम्यक्ख्यते।

ताम्बूलम्।

शिवादीनपिकर्म्माणि कारयन्ती जनानिव।
मायावलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी॥१॥

स्वरसेनातितृप्तानां प्राचामुद्गीर्णवर्णनम्।
काव्यवर्त्म प्रचलतः स्खलतो मेऽवलम्बनम्॥२॥

एषोऽमनोरमो वा चेत् प्रबन्धः कल्पितो मया।
नीतिज्ञैस्तदपि श्रव्यो बालबागिव कौतुकात्॥३॥

विकलाङ्गेति दृक्पातात् दयया धौत(पूत)चक्षुषाम्।
तदैव प्रियदृश्येयमुक्तिःकुब्जेवचक्रिणः॥४॥

आपात-दृष्ट्या तुच्छोऽयं नोपेक्ष्योनय-लोचनैः।
को विजानाति वास्ते चेत् भस्माच्छन्न्रो महामणिः॥५॥

बभूव शक्रजिन्नाम राजा सफल-नामभृत्।
चतुर्णां पुरुषार्थानामुन्नेतोदन्वतां शशी॥६॥

कृतार्थोऽवश्यकत्येषु धृतराजेत्युपाधिकः।
कमलाप्लुतलोकोऽसौ प्रशान्त इव सागरः॥७॥

यत् क्रतौ कृतसान्निध्याः पीत-सोमरसा भृशम्।
अलं धियो दिविसदः सुधासु शिथिलस्पृहाः॥८॥

रत्नैर्गुणोत्तरैस्तस्या हृतैः साधुपरीक्षितैः।
सौधाश्चतुर्भिर्द्वारैश्च चित्रिता इव रेजिरे॥९॥

तं प्रेमैकगुणा भूपं भोगिन्योऽनीर्षया मिथः।
अगणेयगुणं भेजुः खगा इव फलिद्रुमम्॥१०॥

अपुष्णन् केवलं पापं सोऽभीच्छां जगदीशितुः।
धर्म्म्याउत्पादयामास प्रजापतिरिव प्रजाः॥११॥

कुलशीलादिसम्पन्नातासां श्रेष्ठा महीशितुः।
महिषी विमला नाम तस्य बुद्धिरिवामला॥१२॥

सपत्नीष्वपि सद्वृत्ताप्रियासु प्रेयसः सती।
प्रीतिमेकोदरावत् सा प्रापत् सर्व्वात्मदर्शिनी॥१२॥

सोन्मुच्च भूषणाण्यङ्गात् नीत्वाङ्कं साधु काञ्चन।
पर्य्यधापयदेतद्धिसौजन्यं लोकवश्यकृत्॥१४॥

केशप्रसाधनैः स्रग्भिरनुलेषैश्च भूषणैः।
सपत्नीर्भूषयत्यग्रेसखीव दयिताय सा॥१५॥

विभिन्नरुचयः कान्ताः सुवृत्ताः समभर्त्तृकाः।
हृदि भान्ति प्रियस्यैकाः विमला-गुणगुस्फिताः॥१६॥

क्रमशोऽल्पवयस्कासु सपत्नीषु च प्रेयसः।
प्रियवाद्विघ्नताप्रीता पतिच्छन्दानुवर्त्तिनी॥१७॥

सौन्दर्य्यं सहजं तासां भूषणैश्च ततोऽधिकम्।
प्रसाधनं सपत्न्याच अवाङ्मनसगोचरम्॥१८॥

ताम्बूलं प्रसरङ्गन्धि चर्व्वितं सास्यवासितम्।
मुखेषु मुखतः प्रादात् कीरेवारुणचञ्चुतः॥१९॥

वीतचिन्ता विमलया गृहकृत्येनिरन्तरम्।
सपत्न्यास्ताविलासिन्यः कलासु परिनिष्ठिताः॥२०॥

तावन्ति गृहकृत्यानि भर्त्तुस्तोषाय केवलम्।
विदधौ विमला साध्वीसा मुमुक्षुरिवेशितः॥२१॥

सपत्न्योगर्भजं दुःखं सा तु तत्पालनात् सुखम्।
सपत्नीतनयास्तस्या जनन्याएव जानते॥२२॥

हामातरम्बजननीत्यहं पूर्व्विकया सुताः।
पृष्ठांशक्रोड़मारुढ़ा अपुत्रां तामनन्दयन्॥२३॥

न विद्यायां सुखे स्वस्मिन् असारे वा विभूषणे।
प्रियत्वं तादृशं तस्याः पातिव्रत्ये च यादृशस्॥२४॥

अनुमायाशयं तस्य यो यथा परितुष्यति।
तथावरोधेऽनुचरत् पराराधन-तत्परा॥२५॥

गुरूर्नत्या लचूर्मत्या लुब्धा अर्थैः प्रियाः प्रियैः।
क्षुधार्त्ता भोजनैः श्रान्ता विश्रामेण वशीकृताः॥२६॥

पवित्रमपवित्रं वा चरित्रमवरोधिनाम्।
वेदितुं कषपाषाणां विमलेति मतिर्म्मम॥२७॥

तस्या हासो गिरां दासः लज्जा प्रावृतिरात्मनि ।
उपदेष्टा गुरुर्धर्म्मः सदा सहचरी नतिः॥२८॥

एवं व्यवहरन्ती सा विमला हृदये नृणाम्।
चित्रितेव सदा प्रेम्नां अधिष्ठात्रीव देवता॥२९॥

पश्यन्नाचरितं तस्या हृष्यन् मनसि पार्थिवः।
गौरवञ्च भयञ्चापि विभर्त्ति क्वचिदादरात्॥३०॥

विमला त्रिंशता (३०) वर्षैर्विंशत्वा भामतीषुणा (२५)।
चञ्चलाष्टादशाब्देन (१८) द्युमतिर्द्दशपञ्चभिः (१५)॥३१॥

ताभिः समेताभिरयक्षपातया
धिया सुखाब्धौ निममज्ज शक्रजित्।
चतुर्व्विधाभिश्चतुरब्धिजन्मभिः
श्रीभिः सदेहाभिरिबाथ सूक्तिभिः॥३२॥

इति ताम्बूले प्रथमवीटिका॥१॥*॥

__________

महाप्रभुश्रीगौराङ्गदेवस्य जीवनचरितम्।

(पूर्व्वप्रकाशितात् परम्।)

<MISSING_FIG href=”../books_images/U-IMG-173046126722.jpg”/>

परिणुामदर्शिनः साधुवस्तुबन्धनच्छेदनमेवाभिलाषन्ति चैतन्यचन्द्रस्य, अनायासेन अमोघ ब्राह्मणवचनेन तस्य लाभसम्भावनायां जीवन्मुक्तप्रायस्य तस्य हर्ष पत्र युज्यत इत्यमन्यन्त। प्राचीनदर्शनेषु यानि स्थितप्रज्ञस्य जीवन्मुक्तस्य वा लक्षणानि, पर्य्यालोचनया आबाल्यादेव चैतन्य चरिते तानि लक्ष्यन्ते, परन्तु वयोवृद्धिराहितान्येवाभवन् विकशिता नीति, चरितामृते लिखितमस्ति गवे वयसि वर्त्तमानश्चैतन्यः किमपि हृदये कृत्वा कदाचित् सृत्तिकां भक्षयितुमारभत, शचीमाता तथाविधं मृत्तिका-भक्षणोदातंगौराङ्गचन्द्रं निर्भर्त्सयामास। स तु नितरां निर्भर्त्सितोऽपि सहासमभिहितवान्"जननि! वृधेयं भर्त्सना, मृत्तिका निन्दनीया, तङ्गक्षणमनुचितं, दुग्धादिकं प्रशंसनीयं तद्भक्षणमेवात्मानं श्रेयो विधास्यतीति अकिञ्चित्करमेतत्, पर्य्यालोचनाया विज्ञातं भवति, दधि-दुग्ध-सन्देशादीनिमृत्तिकामयानोव।” वर्त्तमानसमयेऽपि कतिचित् ज्येष्ठतातबालका2बाल्यातएव कथयन्ति ब्रह्माज्ञानं; चैतन्यस्यापि वृद्धसदृशेन बालचरितेन तत्त्वज्ञानकथनेनच अनेकेषामेव हृदयेनावधारितं “ज्येष्ठतातबालकोऽयमिति, परमचिरेणैव कालेनालुप्यत तेषांहृदयविश्वासः। यौवनप्रारम्भे एवाभपत् चैतन्यस्य पाठसमाप्तिः, अस्मिन्नेव च अध्यापनायामपि प्रवृत्तं। बाल्यकालत एव चैतन्यमुखात् निरगलत् सर्व्वेषां हृदयग्राही धर्म्मोपदेशः। तेन तु यादृशा धर्म्मोपदेशा लोकानां प्रचारिताः स्वयमपि प्रकाशितानि तादृशान्येव चरितानि। अवसन्नप्राये च बालो धर्म्मोपदेशमभिलाषुकानां साधूनां श्लोकेन अनेन सनातनधर्म्मोपदेशं कृतवान्।

“तृणादपि सुनीचेन, तरोरिव सहिष्णुता।
अमानिना मानदेन, कीर्त्तनीयः सदा हरिः॥” (पदावली २० अङ्गे)

क्षुद्रतरेऽस्मिन् श्लोके अवलोक्यन्ते पञ्चोपदेशाः।

१। सर्व्वेषां संसारिणां आत्मनः शुभाभिलाषिणां भगवानां तृणादपि लघुवृत्तिता अवलम्बनीया, नितरां लघुभावेन जीवानयापनं कर्त्तव्यम्।

२। प्राकृतिक नियमानुसारेण अदृष्टवशेन ईश्वरघटना वा सुखानि दुःखानि वा समुपस्थितानि, तत्र च अवलम्बनीया सहिष्णुता, मुखेषु आग्रहातिशयो दुःखेषु च न कर्त्तव्यं चित्तचाञ्चल्यं, शाखिनो यथा शीतोष्णं वर्षातपञ्चापरिहार्य्यमचञ्चलभावेन सहन्ते, तथा मनुष्या अपि अपरिहार्य्याणि कालवशादुपागतानि सुखदुःखानि लब्ध्वापि नोद्वेजिता भवेयुः।

३।अभिमानो हि धर्म्मैषिणां संसारिणांभुभुक्षूणां वा नितरामहितकारी, अभिमानकीटस्य गरलमुखस्य स्पर्शमात्रेण अतिसुन्दरमपि जीवनकुसुमं दलितागयंवृन्तस्खलितंमलिनञ्च सदा याति सौरभहीनतां। जीवानां सर्व्वेषामेव निरवशेषं परिहरणीयोऽभिमानः। इत्येव तात्पर्य्यं“अमानिना” इत्यस्य।

४। येन दुष्टाशयेन स्वभाववैरिणा वा स्वभावेन केनापि कारणान्तरेण वा भवन्तोऽपमानिताः भवद्विःसोऽपि दुष्टाशयो माननीय एव।

५। लोकानां निरतिशय कठोरेण संपादनीयो वैदिककार्य्यकलापः (अपरेऽपितान्त्रिका धर्म्मशास्तप्रतिपादिता विधयोवानुष्ठातुमशक्याः) कलौ नितरां क्षीणाच शक्तिर्मनुजानां, रुचिरपि विपरीता वर्त्तते। अतएव सर्व्वेषामेव मानवानां सर्व्वदैव सुकरं अनायासाध्यंहरिनामकीर्त्तनमेव कर्त्तव्यम्। किन्तु येन नरोत्तमेन तृणादपि लघुवृत्तिता, वृक्षाणामिव सहिष्णुता च अवलम्बिता, यस्य च हृदयादपुनरागमनं अभिमानो विसर्जित आसीत् यश्च पारयति अपमान-

कारिणमपि मानवं नितरां सम्मानयितुं तस्य एव हरिनामकीर्त्तने अधिकारः।

सहृदयपाठकाः! अधुनातनानां प्राचीनानाञ्च अनेकेषामेव धर्म्मप्रचारकाणांवर्त्तमानसमालोचकैरादर्शपुरुषतया स्वीकृतानामन्येषां वा मनुजानां परः शतानि जीवनानि भवद्भिरवलोकितानि, यथायथं समालोचितानि च तानि, कथनीयमेतत्, एतादृशमुपदेशवाक्यं कस्य जीवनवृत्तान्ते समालोचितं, यदपि समालोचितमेवादृशं किमपि वाक्यं तथापि तादृशाचरणं दुष्टं किं? चैतन्यचरितस्य प्रतिदलमेव विकसितं तादृशाचरणं, समुत्साहयति च सर्व्वेषां हृदयम्। प्रसङ्गेनास्माभिः चैतन्यचन्द्रस्य धर्मोपदेशकं वाक्यमुत्थापितम्।परं चैतन्यधर्म्मस्यापि तदेव सूत्रमिति। चरितसमालोचनया विदितं भविष्यति यत्, भारतवासिनां एकताविहीनानां नितरामव नतिं दुर्द्दशाञ्च दूरीकर्त्तुं चैतन्येन महात्मना धर्म्मःप्रचारितः, एकतास्थापनं सर्व्वेषामेकधर्म्मानुरागयर्द्धनं, अहङ्कारस्य वृथा गौरवस्य परिहारेण जीवनयापनञ्च चैतन्यधर्म्मस्य प्रधान प्रयोजनमिति।

हिन्दुधर्म्मविरोधिनामपि यवनादीनां यथोचितसम्माननायां चैतन्यस्य कुण्ठिता नावलोकिता कदापि, हिंसुकाः पाषण्डा अपि तस्य नितरां समादरनीयाः, नावलोकितश्च भीषणदुःखसमयेऽपि तस्य चित्तविकारः। चैतन्यास्य बालजीवन एव संवृत्तं काजिवृत्तान्तं प्रकाशयति तस्य महत्त्वंलोकातिशयसाहसंमानवदुर्ल्लभं जीवन्मुक्तप्रायत्वञ्च। चरितामृते काजिवृत्तान्तमेवं लिखितमस्ति।

(क्रमशः।)

श्रीलक्ष्मीचन्द्रशर्म्मसांख्यतीर्थः।

______________

पूर्व्वकालीनाः कथं दीर्घायुषः?

(पूर्व्वप्रकाशितात् परम्।)

<MISSING_FIG href=”../books_images/U-IMG-173047403523.jpg"/>

यथा मनौ तृतीयाध्याये १५२—१६७।

“चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा।
विपणेन च जीवन्तो वर्ज्ज्याःस्युर्हव्यकव्ययोः॥

प्रेष्योग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः।
प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्व्वार्द्धुषिस्तथा॥

यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः।
ब्रह्मद्विट् परिवित्तिश्च गणाभ्यन्तर एव च॥

कुशीलवोऽवकीर्णीच वृषलीपतिरेव च।
पौनर्भवश्च कारणश्चयस्य चोपपतिगृर्हे॥

भृतकाध्यापको यश्च मृतकाध्यापितस्तथा।
शूद्रशिष्यो गुरुश्चैववाग्दुष्टः कुण्डगोलकौ॥

अकारणपरित्यक्ता मातापित्रोर्गुरोस्तथा।
ब्राह्मैर्योनैश्च सम्बन्धैः संयोगं पतितैर्गतः॥

आगारदाही गरदः कुण्डाशी सोमविक्रयी।
समुद्रयायीवन्दी च तैलिकः कूटकारकः॥

पित्राविवदमानश्च कितवोमद्यपस्तथा।
पापरोग्यभिशप्तश्च दाम्भिको रसविक्रयी॥

धनुः शराणां कर्त्ता च यश्चाग्रे दिदिषूपतिः।
मित्रध्रुग्द्यूतवृत्तिश्च पुत्राचार्ब्बस्तथैव च॥

भ्रामरी गण्डमाली च श्वित्र्यथोपिशुनस्तथा।
उन्मत्तोऽन्धश्च वर्ज्ज्याःस्युर्व्वेदनिन्दक एव च॥

हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्चजीवति।
पक्षिणां पोषको यश्च युद्धाचार्थस्तथैव च॥

स्वोतमां भेदको यश्च तेषाञ्चावरणे रतः।
गृहसंवेशको दूतो वृक्षारोपक एव च॥

श्वक्रीड़ी श्येनजीवी च कन्यादूषक एव च।
हिंस्रोवृषलवृत्तिश्व गणानाञ्चैव याजकः॥

आचारहीनःक्लीवश्च नित्यं याचनकस्तथा।
कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च॥

औरभ्रिको माहिषिकः परपूर्व्वापतिस्तथा।
प्रेतनिर्हारकश्चैव वर्ज्जनीयाः प्रयत्नतः॥

एतान् विगर्हिताचारान् अपाङ्क्तेयान् द्विजाधमान्।
द्विजातिप्रवरोविद्वानुभयत्र विवर्ज्जयेत्॥”

अतएव भोजनकाले भस्मजलादिभिः पङ्क्तिं भिन्द्यात् ।
यथा आह्निकाचारतत्त्वे व्यासः।

“अप्येकपङ्क्त्यानाश्नीयात् संवृतःसुजनैरपि।
को हि जानाति किं तस्य प्रच्छन्नं पातकं महत्॥
भस्मस्तम्बजलद्वारमार्गैः पङक्तिञ्च भेदयेत्॥”

यथा आलापसंश्रवेन गात्रस्पर्शेन निश्वाससंलग्नेन एकत्र भोजनेन एकशय्याशयनेन एतदन्येनाप्युक्तेन संस्रवस्रोतसा रोगिणः शरीराद्रोग इव संक्रामकं पापमपि अपरशरीरे प्रविशति। तथा तेन तेन हेतुना सत्त्वगुणः सत्प्रवृत्तिः पुण्यमपि साधुशरीरात् असाधुशरीरे निश्चितं संपृणक्ति।

एतेनैव साधुसंसर्गस्य तावती प्रसंशा महर्षिभिर्गीता।
यथा श्रीमद्भागवते १।१।१५।

“यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः।
सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवया॥”

यथाह हारीतः।

“हन्यादशुद्धः शुद्धन्तु शुद्धोऽशुद्धन्तु शोधयेत्।
अशुद्धश्च तमोभूतः शुद्धवासेन शुध्यति॥”

किमधिकं एकोऽपि तथाविधः साधुः एकपङ्क्त्युपविष्टः अन्यान्वरयन् पङ्क्तिपावनः कथ्यते।

यथा पाद्मे स्वर्गखण्डे ३५ अध्याये।

“इमे हि मनुजश्रेष्ठ। विज्ञेयाः पङ्क्तिपावनाः।
विद्यावेदव्रतस्नाता ब्राह्मणाः सर्व्व एव हि॥

सदाचारपराश्चैव विज्ञेयाः पङ्क्तिपावनाः।
मातापित्रोर्यश्व वश्यः श्रोत्रियो दशपूरुषः॥

ऋतुकालाभिगामी च धर्म्मपत्नीषु यः सदा।
वेदविद्याव्रतस्नातोविप्रः पङ्क्तिंपुनात्युत॥

अथर्व्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः।
सत्यवादी धर्म्मशीलः स्वकर्म्म-निरतश्च यः॥

ये च पुण्येषु तीर्थेषु अभिषेक-कृतश्रमाः।
मखेषु च समस्तेषु भवन्त्यवभृतप्लुताः॥

अक्रोधना ह्यचपलाःक्षान्तादान्ता जितेन्द्रियाः।
सर्व्वभूतहिता ये च बाद्धेऽप्येतान्निमन्त्रयेत्॥

एतेषु दत्तमक्षय्यनेतेवै पङ्क्तिपावनाः।
यतयो मोक्षधर्म्मज्ञा योगाः सुचरितव्रताः॥

ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान्।
ये च भाष्यविदः केचिद् ये च व्याकरणे रताः॥

अधीयते पुराणं ये धर्म्मशास्त्राणि चाप्युत।
अधोत्य च यथान्यायं विधिवत्तस्य कारिणः॥

उपपन्नो गुरुकुले सत्यवादी सहस्रदः।
अग्र्याःसर्व्वेषु वेदेषु सर्व्वप्रवचनेषु च॥

यावदेते प्रपश्यन्ति पङ्क्त्यां तावत् पुनन्ति च।
ततो हि पावनात् पङ्क्त्याउच्यन्ते पङ्क्तिपावनाः॥

अनृत्विगनुपाध्यायः स वेदग्र्यासनं व्रजेत्।
ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम्॥

अथ चेद्वेदवित्सर्व्वैःपङ्क्तिदोषैर्व्विवर्ज्जितः।
न च स्यात् पतितो राजन् पङ्क्तिपावन उच्यते॥”

अतएव यदि कश्चित् म्लेच्छःसाधुयोगिनां संसर्गं व्रजति तदा साधुशरीरात् सत्त्वगुणः तत्प्रकृत्यादिकञ्च तस्मिन् म्लेच्छशरीरं

संक्रम्य तस्य रजस्तमोगुणं तत्प्रकृतिञ्च हिंसाद्वेषादिकं विलोपयति, तदा सात्त्विकप्रकृतित्वात् जात्या म्लेच्छोऽपि हविष्यान्नादिभक्षणं मोढ़ुंशक्नुतएव, नान्यथा।

एवं सच्छास्त्राध्ययनात्, पापनिर्व्वेदात्, स्वधर्म्मप्रवृत्तेः, दानात्, इन्द्रियनिग्रहाच्च सत्त्वगुणा वर्द्धन्ते3 (१) तेन हि तस्य सात्त्विकाहारो युज्यते एव।

अतो मन्यते साधुसंसर्गादिभिः कारणैरपेतदुष्कृतानां सत्त्ववताञ्च म्लेच्छानां हविष्यान्नादिभोजनं नाहितकरमिति।

अस्मद्देशे अनेके बालका अपि धर्म्मबुद्धाअपि वहिर्धर्म्मभावं घोषयितुंआहारे मत्स्यं विजहति, भुञ्जते चैकाहारम्, न ते परिणामदर्शिनः, यतः यस्य खलु मनः सत्त्वबहुलं स एव सात्त्विकः। यस्य मनसि रजस्तमोभावःनिरुद्दाम क्रीड़ति नासौ सात्त्विको भवितुं युज्यते, तस्य आहारोऽपि सात्त्विको निरन्तरं न हितकरः स्यात्, चिरमत्स्यभुजां मातापितृृणां शुक्रशोणितपरिणामस्य तथाविधशरीरस्य झटिति विघटनं स्यात् यदि नासौ अन्तःसत्त्वप्रकृतिर्म्मत्स्यभोजनं जह्यात्।

अस्मद्देशीया अनेका हिन्दुविधवाः सन्ततं दयितशोकाग्निना दह्यमानाःदेवमिव पतिं ध्यायन्त्यः, सत्त्वगुणवर्द्धकं देवाराधनादिकमाचरन्त्यश्च हविष्यान्नं भुक्त्वानीरोगशरीरा दीर्घं जीवन्ति। प्रत्यक्षत एव तद्दृश्यताम्।

अधुना आयुर्नाशकारणानि संक्षिप्य लिख्यन्ते। आहारात् परं मुहूर्त्तमपि विश्राममकृत्वा धावतां, यानाद्यारूढ़ानाञ्चायुः क्षीयते4।(२)

यथा हारीतसंहितायां द्वादशाध्याये।

“भुक्त्वोपविशतः स्थौल्यंबलमुत्तानशायिनः।
आयुर्व्वामकटिस्थस्य मृत्युर्धावति धावतः॥”

“व्यायामञ्च व्यवायञ्च धावनृृंपानमेव च।
युद्धं गीतञ्च पाठञ्च क्षणं भुक्त्वाविवर्ज्जयेत्॥”

“न सद्यः पीते पठनं गमनं न च कारयेत्।
न यानवाहनारोहं विवादं न च कारयेत्॥”

द्रव्यगुणे च आहारविधौ।

“भुक्त्वोपविशतस्तुन्दं शयानस्य वपुर्भवेत्।
आयुश्चंक्रममाणस्य मृत्युर्धावति धावतः॥”

आधुनिका प्रायश एव मानवाः श्ववृत्तिमेव जीवनव्रतं मन्यमानाः समाश्रयन्ति, प्रातर्ज्जाग्रति, आपणं धावन्ति, खाद्यंक्रीणन्ति, पत्न्यैक्षिपन्ति, पत्नीरध्नाति, कर्म्मकराः विलासिनः भुञ्जते, अर्द्धमाचामन्ति, घटिकां मुहुः पश्यन्ति, ताम्बूलं मुखे क्षिपन्ति, सत्रासं द्रुतञ्च परिच्छदं परिदधति, कञ्चुकबन्धनं योजयन्तश्च धावन्तश्च श्वासरुग्ना इव निश्वसन्तश्च “शकटं वधान वधान” इत्युच्चैर्द्दीर्घतरं घोटकशकटवाहं समाह्वयन्तश्च कर्म्मस्थानं गच्छन्ति च लेखनीं पिंषन्ति च, अनेके च पद्भ्यामेव शकटमतिक्रम्य धावन्ति। भुक्तान्नादिकञ्च पाकाशयं यथायथं नोपतिष्ठति, न वा जीर्जति। अतएव तेषां रोगा मृत्युश्चनानुचिताः। पूर्व्वकालीनास्तु नैवमासन् दीर्घायुषश्च तेनैव तेऽभवन्।

पराङ्गना सेवनमपि अल्पायुष्कारणम्।
यथाह मनुः।४।१३४।

“न हीदृशमनायुष्यं लोके किञ्चन विद्यते।
यादृशं पुरुषस्येह परदारोपसेवनम्॥”

(क्रमशः।)

______________

उत्तररामचरितालङ्कारादयः।

(पूर्व्वप्रकाशितात् परम्।)

<MISSING_FIG href=”../books_images/U-IMG-173047870924.jpg”/>

“स्नानस्य जीवकुसुमस्य विकामनानि, सन्तर्पणानि सकलेन्द्रिय नन्दनानि।
एतानि ते सुवचनानि सरोरुहाक्षि, कर्णामृतानि मनसश्च रसायणानि॥”

अत्र जीवकुसुमेति रूपकम्। सरोरुहाक्षीत्युपमा। एवं एकस्य सीतासुवचनस्यम्लानजीवकुसुमविकासनादिनानेकधोल्लेखात् तत्तद्रूपतया परिणमणाच्च परिणाममूलकोल्लेखालङ्कारः।

“आ विवाहसमयाद्गृहे वने शैशवे तदनु यौवने पुनः।
स्वापहेतुरनुपाश्रितोऽन्यया रामवाहुरुपधानमेष ते॥”

अत्र उपधानस्य रामवाह्वात्मतया प्रकृते आ विवाहसमयात् गृहे वने शैशवे यौवने च शयनहेतूपयोगः अन्यस्त्रीस्पर्शराहित्येनाधिकारूढ़वैशिष्ट्यपरिणामः।

“इयं गेहे लक्ष्मीरियममृतवर्त्तिर्नयनयोः
असावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः।
अयं कण्ठे बाहुः शिशिरमसृणीमौक्तिकसरः
किमस्या न प्रेयो यदि परमसह्यस्तु विरहः॥”

अत्र सौन्दर्य्यादिधर्म्मस्य प्रकृते रामप्रीत्याद्युपपयोगात्। इयमित्यनेन प्रत्यक्षपरिदृश्यमानत्वात् लक्ष्म्या अधिकं वैशिष्ट्यमित्यधिकारूढ़ वैशिष्ट्यपरिणामः। अमृतवर्त्तीत्यत्र च परिणामः। बहुलेत्यत्र च अधिकारूढ़वैशिष्ट्यपरिणामः। तृतीयचरणे तु एकस्य वाहोः शिशिरशीतलतया मुक्तामालातया च परिणतत्वात् उल्लेखमूलपरिणामालङ्कारे एकाश्रयसङ्करः।

“हाहा धिक् परगृहबासदूषणं यद् वैदेह्याः प्रशमितमद्भुतैरुपायैः।
एतत्तत् पुनरपि दैवदुर्व्विपाकात् आलर्कं विषमिव सर्व्वतः प्रसृप्तम्॥”

अत्रालर्कं विषमिवेत्युपमा।

“सतां केनापि कार्य्येण लोकस्याराधनं व्रतम्।
यत् पूरितं हि तातेन माञ्च प्राणांश्च मुञ्चता॥”

अत्र प्रस्तुतस्य मामित्यस्य प्राणानित्यस्य चैकमोचनक्रियाभिसम्बब्धात् तुल्ययोगितालङ्कारः।

“यत् सावित्रैर्द्दीपितं भूमिपालै र्लोकश्रेष्ठःसाधुशुद्धं चरित्रम्!
मत् स्वम्बन्धात् कश्मला किं वदन्ती स्याच्चेदेवं हन्त धिंमामधन्यन्यम्॥”

अत्र मम धिक्कारं प्रति पादत्रयवाक्यं सापेक्षमिति वाक्यार्थहेतुक काव्यलिङ्गं। दीपितत्व कश्मलत्वयोर्विरूपयोः संघटनाद्विषमोऽलङ्कारश्च।

“त्वया जगन्ति पुण्वानि त्वय्यपुण्या जनोकयः।
नाथवन्त स्त्वया लोकास्तमनाथाविषत्स्यसे।

** **अत्रपुण्योक्तिकारणे सत्यप्यपुण्योक्तौएवं पुण्यापुण्योक्त्यो सनाथानाथयोश्च विरूपयोः संघटनत्वेन च विषमविशेषोक्त्योः संसृष्टिः।

“इक्ष्वाकुवंशोऽभिमतः प्रजानां जातरु दैवाद्वचनीयन्नत्र।
यच्चाद्भुतं कर्म्मविशुद्धिकाले प्रत्येतुकमाद्भुपि दृरधत्तम्॥

अत्र द्वितीयार्द्धेविशुद्धिकाले अद्भुताग्निप्रवेशकर्म्मणोऽप्रत्यये दूरवृत्तमित्येकपदं हेतुरिति काव्यलिङ्गम्।

“शैशवात् प्रभृति पोषितां प्रियां सौहृदादपृथगाशयामिमाम्।
छद्मना परिददामि मृत्यवे, सौनिको गृहशकुन्तिकामिव॥”

अत्र मृत्यवे सीतादानकार्य्ये अपराधादिकारणविरुद्धानां शैशवात् प्रभृति पोषणादीनां सद्भावात् विभावना। एवंसीताया अत्यागकारणेषु शैशवात् प्रभृति पोषणादिषु कारणेषु सत्स्वति अत्यागविरुद्धस्यत्यागस्य सद्भावे विशेषोक्तिः इत्यनयोः सन्देहमङरः। गृहशकुन्तिकमिवेत्युपमा।

“अपूर्व्वकर्म्मचण्डालमयिमुग्धे विमुञ्च माम्।
श्रितासि चन्दनभान्त्यादर्व्विपाकं विषदणम्॥

अत्र सुखसाधनभ्रान्त्यादुःखसाधनमाश्रितासीति सामान्ये प्रस्तुते चन्दनतरुभ्रान्त्या विषद्रुमाश्रयनमित्यप्रस्तुतप्रशंसा। एवं पूर्व्वार्द्धेमन्मोचनकार्य्यं प्रति विषद्रुमाश्रयणं समर्थकं कारणमित्यप्रस्तुतप्रसंशामूलोऽर्थान्तरन्यासः। अपूर्व्वेत्यत्र च उपमा।

“दुःखसंवेदनायैव रामे चैतन्यमर्पितम्।
मर्म्मोपघातिभिः प्राणैर्व्वज्रकीलायितं स्थिरैः॥”

अत्र वज्रकीलायितं स्थिरैरिति लुप्तोपमा।

“ते हि मन्येमहात्मानः कृतघ्नेन दुरात्मना।
या गृहीत नामानःस्पृश्यन्त इव पाप्मना॥”

अत्रक्रियोत्प्रेक्षा।

“विश्रम्बादूरसि निपत्य लब्धनिद्रामुन्मुच्य प्रियगृहिणींगृहस्य शोभाम्।
आतङ्कस्फुरितकठोर गर्भगुर्व्वींक्रव्याद्भ्योबलिमिव निर्घृणःक्षिपामि॥”

** **अत्र गृहस्य शोमाकार्य्येण कारणस्य सीताया अभेदेन हेत्वलङ्कारः।

(क्रमशः)

________

विश्वविद्यालयप्रश्नोत्तरादर्शाः।

(मद्रराजविभागस्य।)

<MISSING_FIG href=”../books_images/U-IMG-173048069425.jpg”/>

आजन्मनी ह्यविरतं भुवनं भ्रमामि दीना कृशा विदधती स्ववयोऽनुरूपां।
प्रीतिं मनः परमसान्त्वनदाञ्च शिक्षाम् तेषां कृपावितरणान्मयि येऽनुरर्क्ताः॥

कुत्रापि सा मम च नाद्रियते सुचेष्टा रत्नोज्ज्वले खलु यथा परमार्य्यदेशे।
अद्यापि यान् श्रितवती भजतेस्वसत्तां भाषा लता सुमणिमूःपतनोन्मुखीनः॥

तस्मान्मुदा च दयवाद्रियतेऽनुरागात् प्रश्नी मया वपुषि तत् सुविभागजातः।
भूषां प्रसूनरचितां परिधाय वाला शोभां तनोति परमां हि यथात्ममूर्त्तेः॥

क्षुद्रा कथं ननु सहे बहुभूषणानां भारं कुतो मम तनौ वसनं बहूनाम्।
तत् तेषु सर्व्वमुखदान् हि गृहीतवत्याः दोषः स वो निजगुणैः समुपेक्षणीयः॥

Matriculation Examinatian Madras.
December 1893.

Question.

Give the विग्रहor analyses of the following compounds and state the class to which each belongs.

  1. त्रिदशेशसमः 2 हृच्छयाविष्टचेतना 3. कुमार्गगामी
  2. यथाश्रद्धं 5. द्युतप्रभृति 6. बहुजीवसंधसुखदः

Answer.

  1. तिस्रो दशाः येषां ते त्रिदशाः बहुव्रीहि समासः। तेषामीशस्त्रिदशेशः षष्ठीतत्पुरुषः। तेन तस्य वा समस्तथोक्तः तृतीयया षष्ठ्या वा तत्पुरुषसमासः।

  2. हृदि शयो यस्य स हृच्छय इति बहुव्रीहि समासः। तेनाविष्टं हृच्छयाविष्टं तृतीयासमासः। तादृशं चेतनं यस्याः सा तथोक्ता बहुव्रीहिः।

  3. कुत्सितो मार्गःकुमार्गःकुगतिप्रादय इति समासः। कुमार्गं गच्छतीति कुमार्गगामोद्वितीया प्रकरणे गमिगम्यादीनामुपसंख्यानात् द्वितीया तत्पुरुषः।

  4. श्रद्धामनतिक्रम्य यथाश्रद्धं यथासादृश्य इत्यव्ययीभावः।

  5. द्यूतं प्रभूतिर्यत्र तत् तथोक्तम्। बहुव्रीहिः।

  6. बहवोजीवाः बहुजीवाः कर्म्मधारयः। तेषां संघस्तस्य सुखदः तथोक्तः।उभयत्रापि षष्ठीसमासः। सुखं ददातीति सुखदः। इत्यत्र धातुभिरुपपदानीति तत्पुरुषः।

  • IV. Question.*

  • *(a) Parse the underlined words in the following:—

  1. तस्य दृष्ट्वाभवद्बुद्धिःपार्थमिन्द्रासने स्थितम्।

  2. सर्व्वदेवनिकाया हि नालं योधयितुं हि तान्।

  3. यदि वेदाः प्रमाणास्ते दिवसादूर्द्ध्वमच्युत।
    त्रयोदशसमाः कालो ज्ञायतां परिनिष्ठितः॥

  4. प्रविशन्तं च मां तत्रन कश्चिद्दृष्टवान्नरः।
    ऋते तांपार्थिवसुतां भवतामेव तेजसा॥

(b) Point out any grammatical or other pocubaities that you may notice in the following:

  1. स क्षत्रधर्म्मविद्राजा मा धर्म्म्यान्नीनशः पथः।

  2. एकासनोपविष्टौ तौ शोभयाञ्चक्रतुः सभाम्।
    सूर्य्याचन्द्रमसौ व्योम चतुर्द्दश्यामिवोदितौ॥

Is it शुक्लचतुर्द्दशी or कृष्णचतुर्द्दशी that is referred to here and why?

Answer :—

(a) दृष्ट्वा इति क्त्वाच् प्रत्ययान्तत्वादसमापकक्रियापदं पार्थमिति अस्य कर्म्मपदं। अभवदिति समापिकया क्रियया समान कर्त्तृत्वविरोधात् स्थितस्येत्यध्याहारेण दृष्ट्वेत्यस्यान्वयः।

न इत्यव्ययं, भवन्तीत्यूहनीयक्रियायाः विशेषणम्।
अलं इत्यव्ययं सर्व्वदेवनिकाया इत्यस्य विशेषणपदं।

त्रयोदश समाः—इति विशेष्यपदं पुंलिङ्गप्रथमाबहुवचनान्तं, काल इत्यनेन उद्देश्यविधेय सम्बन्धात् समकारकं। ऋते इत्यव्ययं। योगेऽस्य द्वितीया पञ्चम्यौ भवतः।

(b) 1. नीनशः इत्यत्र न माङ्योग इत्यमागम निषेधः।

  1. सूर्य्याचन्द्रमसावित्यत्र देवताद्वन्द्वेआनङित्याकारः।

अत्र शुक्लचतुर्द्दश्येव कवेरभिप्रेता, कलाद्वयप्रात्रावशिष्टत्वात् सूर्य्यसान्निध्याच्च, कृष्णचतुर्द्दश्यां सम्यक् चन्द्रदर्शनस्याप्रसक्तेः।

V (b) Question.

Derive the following.

  1. विहगः 2. पादपः 3. कपर्दी 4. जनार्द्दन
  2. सव्यसाची 6. साप्तपदीनम्।

Answer.

  1. विहायसा गच्छतीति विहगः विहायस् + गम् + कर्त्तरि डः। निपातनात् साधु।

  2. पादेन मूलेन पिवति रसमाकर्षतीति पादपः पाद + पा + कर्त्तरि डः।

  3. कपर्द्दःशिवजटाभारः। सो स्यास्तीति अस्त्यर्थे मतुप्।

  4. जनैः लोकैः अर्द्द्यते याच्यते असौ इति जनार्द्दनः जन + अर्द्द+ कर्म्मन्यनट् प्रत्ययः। *

यद्वाजनं तन्नामासुरं अर्द्दयति पीड़यतीति जनार्द्दन। यद्वा जनानर्द्दंयति अन्ते संहरति इति सः। तस्य सर्व्वदेवमयत्वात्।

  1. सव्येन दक्षिणेतरेण करेण सचते इति सव्य + सच्+कर्त्तरि णिन् प्रत्ययः।

  2. सप्तभिःपदैःआपद्यते इति साप्तपदीनं
    सप्तन् + पद + नीन, साप्तपदीनं सख्यंइति निपातनात् साधु।

__________________________________________________________

* यद्यपि पाणिनीयैः करणाधिकरणयीरेवानट् प्रत्ययःसम्यक् स्वीकार्य्यस्तधापि वोपदेवेन घसलनटोऽघे, कभावेमीति सूत्रद्वयेन सर्व्वेष्वेवार्थेषुप्रत्ययस्यास्य विधानं कृतं।

(क्रमशः।)

श्रीज्ञानशरणशर्म्मचक्रवर्त्ती।

______________________________________________________

श्रीश्रीदुर्गा

शरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-173028706213.jpg”/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्ती जनानिव।
मायाबलम्ब्यते सेवनम्बाश्रीशिवसुन्दरी॥

<MISSING_FIG href=”../books_images/U-IMG-173028719614.jpg"/>

मासावतरणिका।

आदौ प्र……………………………
ज्यैष्ठे सुर…………….शिरारराज।
ईदृङ्नतो भवतु पाठयतीव लोकान्
……………………………..दक्षिणङ्गः॥

उद्भट-श्लोकाः।

“उपनयतु मङ्गलं वः सकलजगन्मङ्गलालयः श्रीमान्।
दिनकरकिरणविरोधी5 (१) नवनलिननिभेक्षणो विष्णुः॥“७८॥

“कम्पंचम्पक! मुञ्च याचकभरैरायासित स्त्वं सखे!
माम्लासीःपरितोऽविलोकय तरून् कस्तेऽधिरुढ़स्तुलाम्।
स्याच्चेच्चेतसि कोपएव नितरां धात्रे तदा कुप्यताम्
येन त्वंसुसुवर्णवर्णकुसुमानोदाद्वितीयः कृतः6॥“७९॥ (२)

“त्वयि प्रसन्ने मम किं गुणेन त्वय्यप्रसन्ने मम किं गुणेन।
रक्ते विरक्ते च वरे वधूजां निरर्थकः कुङ्कुमराग एषः7॥“८०॥ (३)

उद्भट प्रसङ्गः

<MISSING_FIG href=”../books_images/U-IMG-173052261026.jpg”/>

कस्मिंश्चिद्ग्रामे कश्चित् प्रकृत्या दीनः सुपण्डितो भट्टाचार्य्यो निवसति। स एवं विश्वसिति प्रायो धनिनो निष्ठुराः, धनिनोऽसमीक्ष्यकारिणः, धनिनोऽहङ्कारिणश्च इति। धनिन स्तुस्वमपि वपुर्व्वोढ़ुंन शक्नुवन्ति, माननीयानपि तिरस्कुर्व्वन्ति, सुस्थदेहा अपि विविधबाधामभिनयन्ति, भ्रुवोस्तनोश्चकति भङ्गीस्तन्वन्ति, कति वा विभूतिशौर्य्यादीनि प्रकटयन्तीति च। तेन हि स भट्टाचार्य्यःपीड्यमानोऽपि भूयसा दारिद्र्येण धनिद्वारं नोपसर्पति, वरं भिक्षामटति, कृच्छ्रेणापि दिनानि यापयति।

अहो दैवविड़म्बना। एकदा ब्राह्मण्यास्ताड़नामसहमानः अनिच्छयापि धनान्यर्जितुं स्कन्धनिहितकम्वलः गृहीतकिञ्चित् पाथेयश्च विदेशं निरगात्।

अथासौ कस्यचित् नवधनिकगृहमासाद्य कल्पयित्वा च विपणौ वासस्थानमवात्सीत्। तेन भट्टाचार्य्येण दिनत्रयात् परं धनिनः साक्षात् कृतम्, विविधाश्च श्लोकाः रचिताः व्याख्याताश्च, तेन हि धनी अतीव प्रीतो बभूव, कथयामास च, अहो भट्टाचार्य्यमहाशय! भवांस्तु श्रेष्ठपण्डितः विशेषतो रसिकश्च अतो विशेषं पूजयामि स्थीयतान्तावद्दिनानि कतिचिदिति।

एवं प्रत्याशितो भट्टाचार्य्यः मनसा नृत्यन्नास्ते। प्रत्यहं प्रातः सायञ्च धनिसभायामागच्छति प्रतिगच्छति, वाग्मितां दर्शयति, श्लोकान् रचयति, समस्याः पूरयति। महाराज! प्रतापेन त्वमर्कः, कान्त्यात्वं सोमः, पवित्रतायां त्वं पवनः, शत्रुदहने त्वंदहनः, स्वच्छतायां त्वमापः, निष्पापे त्वंव्योम, धैर्य्यें त्वं धरणिः, दातृत्वे कर्णः गुरुत्वे गिरिः, गाम्भीर्य्यैसागरः इत्यादि विविधरूपकेण राजानमुपश्लोकयति च।

एवं व्यतीते मासि भट्टाचार्य्यःधनाशया ममुद्विग्नः धनिनं न्यवेदयत्, महाराज! देशं प्रति जिगमिषा त्वरयति बलीयसी, अतः सत्त्वरमनुजानीहि। तच्छ्रुत्वा तदापि धनीकथयपि कथमुद्विजसे, तिष्ठतावत् कियन्ति दिनानि, भवन्तं विशेषतस्तोषयामि, भवान् हिविद्यया विशिष्टोऽस्ति। ब्राह्मणोऽपि यथाज्ञापयति भवान् इति विरराम। पश्यति च कुलटा नर्त्तक्यऐन्द्रजालिकाः, अभिचारिकाः, गायकाः, मल्लाः षण्डाःभण्डाश्च अनेके तस्माद्धनिनो धनरत्नहयहिरण्यादीनि लभन्ते इति, समाश्वसिति च चेतसि।

एवं मासोद्वये त्रये वागच्छति अतीव समुद्विग्नःजीर्णच्छिन्न मलिनवासा मृत्क्लिन्नकम्बलः अनाहारक्लिष्टश्च धनिगृहं नैवगन्तव्यमिति प्राग्विश्वासं दृढ़ीकुर्व्वंश्चब्राह्मणीं मनसा निर्भर्त्सयंश्च धनिसाक्षात् समुपस्थितो रोषारुणाक्ष उवाच। अहो वदान्यप्रवर!

“गतागतेन पन्थानं विजीर्णं चरणद्वयम्।
तवाश्वासे त्रयं नष्टंसम्बलं कम्बलं बलम्॥”

इत्युक्त्वा उन्मनायमानःद्रुतं गच्छति च, अव्यक्तां जल्पति च।

“भण्डपण्डितयोर्म्मध्ये वरं भण्डो न पण्डितः।
भण्डश्वण्डहयं लेभे ना * * षञ्च पण्डितः॥”

** **इति तस्मान्निर्गत्य स्वगृहमागत्य च ब्राह्मणींसमस्तं गर्ज्जन्निव वभाषे।

अथैकदा स एव भट्टाचार्य्यःकाष्ठभारं शिरसा वहन्नरण्यात् स्वगृहाभिमुखं प्रत्यागतो मृगयार्थं तदेवारण्यं विविक्षुणा तेन धनिना पथि दृष्टः पृच्छ्यते, भट्टाचार्य्यमहाशय! प्रणमामि, हंहो किमित्येवं श्रेष्ठपण्डितेन भवता शिरसि काष्ठभारःसमुह्यते पृथग्जनवत्?। तदाकर्ण्य भट्टाचार्यः काष्ठभारं पुरतो निःक्षिप्य कथयति शृणु वदान्यार!

“संसत्सु ते प्रतिदिनं नृप ! वित्तलोभात् त्वंपण्डितोसुवनसुन्दर इन्दुरिन्द्रः।
ब्रह्मा हरश्च हरिरित्यशकृदब्रुवाणस्तस्यानृतस्य फलजिन्धनमुद्गहामि॥”

इत्युक्त्वाभट्टाचार्य्यःप्रत्यादत्तकाष्ठभारः स्वगृहं गतः।

__________

ताम्बूलम्।

(पूर्व्वानुवृत्तम्।)

<MISSING_FIG href=”../books_images/U-IMG-173052433024.jpg"/>

अथैकदा पराह्नेषुप्रीताः प्रासादप्राङ्गणे।
पादचारेण ताश्चेरुः पिबन्त्यो xxxxxxxxxx॥१॥

काचिद धनं वनं काचित् काचित् सायञ्च मारुतम्।
व्याचक्रुस्ता वरारोहा अवान्तर धीरपाई त्योऽगमत्।॥२॥

अत्रान्तरे धीरपादं सञ्चरन् रमणोऽगमत्।
रामाणां राममायानी निर यकम्॥३॥

चित्रितत्वप्रतिस्रतेःस्तम्भस्यस्कटिकाश्मनः।
पश्चादासीन एताभिर्गाजानिxxxxxxx॥४॥

मन्ये मुग्धे सियःकेचित् नितम्बभरमन्थरे।
करपल्लवमालस्याxxxxxxच्छतः॥५॥

क्लान्ता ग्रीष्मोसणासाह विमला स्निग्धवायुना।
स्पृष्टा अभूम निर्व्वाणा नxxपित्रा पितुर्यथा॥६॥

अवाप्नुमः सुखं यावत् भगिन्योऽत्र ययेच्छया।
अनुकूलं तदत्राद्यप्रसादः प्रेयसः सतः॥७॥

किमप्यालोच्यविमला अथामीलद्दृगुत्पला।
चिराय दध्यौ किमपि विशन्तीवातलन्तदा॥८॥

तामुन्मनस्कां यग्रच्छुः मूढ़मन्तर्व्वुभुत्सया।
किङ्धर्य्य इवताः प्रभ्वीं भीतभीता धृताङ्ध्रयः॥९॥

काचित्तदङ्कमारुह्य काचिदावेष्ट्यतद्गलम्।
काचित्तद्भुजमालिङ्ग्य पप्रच्छुर्म्मलिनाननाः॥१०॥

अनस्त्रवेधमर्म्मच्छित् अनग्निस्यर्शदाहकृत्।
प्रहारोदौम्मनस्यन्तेभीता नः क्षिणुतेऽनुजाः॥११॥

नारुन्तुदस्तिरस्कारो हृदि हारो नु मन्यते।
शिरो निर्म्माल्यतामेति पादपद्मंदयां कुरु॥१२॥

म्लानभावेन ते प्रैति प्राणिति प्राणस्वञ्जनः।
स्मितलेशेन सत्येवं कोऽयं निर्यातनक्रमः॥१३॥

गुर्व्वीविनिन्युषी कृत्यं प्रीणयन्ती च सत्सखी।
धर्म्मतो मन्यसे पूज्ये! सपत्नीनैव कर्हिचित्॥१४॥

नोदयन्ती प्रमोदे नः स्वयमास्वतु दुर्म्मनाः।
कारणं नेव पश्यामि ध्वान्तस्थितमिवोरगम्॥१५॥

इत्युक्तवत्याभामत्याः नेत्नान्तात् कज्जलाविला।
त्यक्त्वाबाष्पमिषा वक्त्रं द्विधारा निरगाद्गिरा॥१६॥

ईषत्कोषा तु चपला स्वंदिष्टंनिन्दयन्त्यहो।
परावृत्तमुखी तस्थौ स्वामिनीवापमानिनी॥१७॥

घ्नन्तीव तां कटाक्षेण चपला चपलेक्षणा।
सानुरागा च भीता च दुस्थाचातीव्रमब्रवीत्॥१८॥

शरणं त्वां स्मरन्त्योऽद्य किं निन्दामः स्वकं विधिम्।
चरणोत्क्षिप्तभाग्या तु यदसि त्यक्तकिङ्करी॥१९॥

यशसा प्लुतमेदिन्या कृतं सर्व्वमदूषणम्।
चिन्तयन्ती यथेच्छंतत् शक्नुयाः कर्त्तुमीश्वरि!॥२०॥

एकस्वामितया नो यः शब्दः सम्बन्धवाचकः।
त्वत्प्रीतीनां स्फुरेन्नास्यात् तं श्रोतुमलमीहया॥२१॥

प्रभया स्फाटिकस्येव दतो यन्मुखमम्बुजम्।
चुम्बितं तत् मदा तेऽद्य मलिम्नालेपि दुःसहम्॥२२॥

भगिन्यौ! द्रष्टुकामे चेत् हासमस्या विलोकये।
इत्युक्त्वा क्रोड़मारूढ़ा द्युमती चटुभाषिणी॥२३॥

व्यादेहि वदनं वन्द्ये ! हम हासय नो मनः।
तर्ज्जन्याद्युमतीत्युक्त्वाविमलोष्टमपुष्फुटत्॥२४॥

सा सुषुप्तोत्थितेवाह युष्माभिः किं विचेष्टितम्।
रुदती भामती, क्रुद्धा चपला, त्वं धृताधरा॥२५॥

मम्लौवो वदनं चारु मुखं दुःखस्य मेऽस्फुटत्।
प्लवन्तेऽश्रुषुनेत्राणि हृदयं मेऽतिशुष्यति॥२६॥

म्लानासु किल युष्मामु शोको जागर्त्ति मे हृदि।
तमोग्रस्ता मनु प्राचीमुलूको व्योम्नि खेलति॥२७॥

आसन्नास्वपि युष्मासु मन्येहं दूरवर्त्तिनी।
भगिन्यो! जहितामर्षं व्रूत तन्मधुरं वचः॥१८॥

भामतीं विमलेत्युक्त्वाकरे सादरमग्रहीत्।
चिबुके चपलां धीरा क्रोड़े च द्युमतीं सती॥२८॥

मौनिनीषु च युष्मासु निविषन्नास्ववाङ्मुखम्।
लुठितान् भुव्यलङ्करान् मत्वा त्रसति मे मनः॥३०॥

अथाश्लिष्टप्रमुक्तास्ताः प्रस्निग्धविमलोरसः।
समुद्धृता विराजन्तेसञ्चतः शालभञ्जिकाः॥३१॥

वाचा मधुरयाव्रूत स्मितपूर्व्वाभिभाषिणी।
विमला विमलप्रज्ञा स्नेहमासिञ्चतीव ताः॥३२॥

अन्यथाकारमाद्धंकिं यूयं सौधतले शुचा।
कीड़न्त्यःसंलपन्त्यश्च प्राणा इव वहिश्चराः॥३३॥

ऊचु स्ता नश्चरन्तीनां द्रागामीलितलोचनाम्।
दुश्चिन्तयन्तीं त्वां स्वञ्च मत्वागोऽभूम तद्विधाः॥३४॥

ततः प्रत्यवदत् साध्वी नापराधोऽप्यणुश्च वः।
गङ्गा हिमानी ज्योत्स्ना च कोष्णतामपि किं व्रजेत्॥३५॥

पत्युः प्रसादं युष्माकमनुरागञ्च तादृशम्।
चिन्तयन्त्या वदन्त्योमत् शृणुध्वंयदचिन्तयम्॥३६॥

किञ्चिदुद्निरतः किञ्चित् ग्रसतः कालरूपिणः।
अहो भगवतो लीलां कोऽपि नालं विवेचितुम्॥३७॥

दैवेन निस्वतो राज्ञो जातापि कमलाश्रयः।
जगदेकप्रिया चास्मि कर्द्दमादिव पद्मिनी॥३८॥

पुष्टया येन केनापि अ-पितृत्वान्मयाधुना।
ये च केपि च संगुप्ताः कृष्येव कृषकेण तु॥३९॥

शीर्णे पर्णकुटीरे हा पालितापि खलूच्चकैः।
सौधेऽद्य न्यवसं राजसारिकेव कुलायके॥४०॥

कणान्नं नक्तकञ्चापि तुच्छं स्म वहु मन्यते।
रत्नादावऽप्यतृष्णाद्य योगिनीव दिवं श्रिता॥४१॥

आरकूटमलङ्कारं दीनेच्छन्त्यपि नाप्नवम्।
अमूल्यमगणेयञ्च नाद्रियेऽद्य धवौकसि॥४२॥

मदनन्यसुतं तातं रुग्नं कापुरुषा द्विषः।
द्राक् पुरं रुरुधू रात्रौ हर्य्यक्षमिव फेरवाः॥४३॥

सम्प्राप्ते व्यसने शत्रोःउपमाता कथञ्च माम्।
निष्क्रान्ता गोपयामास निक्षिप्योच्छिष्टभाजने॥४४॥

राजकन्येति बुद्ध्याते दासीकन्यां धनैः सह।
हर्षान्धा अपजर्हुर्व्वै तेनाहं दैवरक्षिता॥४५॥

कथञ्चिदपि निर्याय ततो मां विकृताकृतिम्।
नीत्वोपमाता घोरायां हा निशि प्रतिभानुगा॥४६॥

दिनानां पञ्च सातीत्य जाह्नवीतीरमाश्रिता।
दीक्षितोञ्छनवृत्ता च कुट्यांवासमकल्पयत्॥४७॥

अविदूरे लोकमातुः षष्ठीदेव्या महोत्सवः।
ज्यैष्ठीयशुक्लषष्ठ्यां वै तत्रासीद्वहुयोषिताम्॥४८॥

प्रेरिता तत्र धात्र्याहंरसालं कियदुञ्छितन्।
विक्रेतुंप्रतिवेशिन्या तादृशी वैधसी लिपिः॥४९॥

स्खलत्पदापि धरणौहा तत्रजनसङ्कटे।
चूतं प्राणानिवागूहं पाणिभ्यां तद्भियोरमि॥५०॥

अथोपतस्थे तत्रैकः प्रणन्तुं श्रील ईश्वरीम्।
सागरौघवदीशस्यभूधरोऽप्यटतीच्छया॥५१॥

प्रभयापहरन्नॄणां निमेषं चक्षुषोऽगमत्।
प्रापयन् देवभावं तान् किं लभेत न वा प्ततः॥५२॥

अनन्यचित्तवृत्तिः साजनता पुरुषोत्तमम्।
पश्यन्त्यपि दृशालम्व्य संग्रहाततिवादधौ॥५३॥

स्तम्भिता किं मन्त्रिता किं कीलिता किं नु मूर्च्छिता।
विस्मिता किं मोहिताहं नो जाने तस्यदर्शनात्॥५४॥

जीविता किं प्रमीता किं अमनाःकिन्वपस्मृता।
सुखिता किं दुःखिता किं प्रसुप्तावेति वेद न॥५५॥

भूमिस्था किं नभःस्था किं स्वर्गता किं नु कं गता।
अनुरक्ता किमात्मानं न सस्मारापि वा कियत्॥५६॥

मुहूर्त्तादिव जानन्त्यालावण्यंमधु पीतवत्।
दृग्द्वन्द्वंतत्पदेऽशेत कोमलेऽशोकपल्लवे॥५७॥

पद्मरागे इवाशङ्क्य रत्ने मे दीनलोचने
हा वभ्रमतुरानेतुं तदीये सुन्दरे करे॥५८॥

समुन्नते च विस्तीर्णे हृदि कोमलमांसले।
पर्य्यङ्क इव निष्पन्दंगाढ़ं दृग्भ्यामसुप्यत॥५९॥

अमीलिते च नयने शिथिला देहसन्धयः।
जज्वालेवोरसो नीचैः सिष्येद सकलं वपुः॥६०॥

विद्युद्वेगेन केनापि प्रहृतेव हृदि द्रुतम्।
चकम्पेमर्म्ममे धक्धक् अघूर्णच्चापि मस्तकम्॥६१॥

मृदि सुप्तां हतप्रज्ञां नृभिः परिवृताञ्च माम्।
व्यजनादिप्रयोगेणाचेतयत् प्रतिवेशिनी॥६२॥

लोका आलोचया मासुः क्षुधार्तिं मे तृषापि च।
मृषा तत्तदनीक्षातः सा दृशोः सत्यमेव तत्॥६३॥

तमिच्छन्त्यपि नापश्यं पश्यन्त्यपि, दृगञ्चलैः।
नाप्नुवन्त्यस्मयं वीजं केनान्तःस्थेन नोदिता॥६४॥

शोणिम्नाक्ष्नोश्व नीलिम्नासुरा-गरवदस्य तत्।
पीयमानेन नेत्राभ्यां निमिमील मुमूर्च्छ च॥६५॥

पचेलिमानां चूतानां क्रय्याणां तादृशत्वचाम्।
आसीन्मे विक्रयोऽशक्यः किमित्याकुलचेतसः॥६६॥

अथ तदन्तिकतो जन एककः द्रुतमुपेत्व शिखोर्द्धकपुण्ड्रभृत्।
समलपत् किपपि प्रतिवेशिनीं अवयवानवलोकितवांश्च मे॥६७॥

सायं नृभिः किमपि मामभि संलपद्भिः
सार्द्धंतथा मृदुगतिर्म्मुहुरीक्ष्यमाणा।
अन्यादृशीव विकृतेव विचिन्वतीव
किञ्चित् कुटीर उपतस्थ उपोपमातृ॥६८॥

उदीरयन्त्याःप्रतिवेशिनीतः
श्रुतेतिवृत्ता हृदि मां निगुह्य।
मरीमृजन्ती ब्रुवती च तत्तत्
सुप्तोत्थिता प्रातरधीतदुर्गा॥६९॥

इति ताम्बूले विमलापूर्व्वरागे द्वितीया वीटिका।

(क्रमशः।)

_________

समयपरिणतिः।

<MISSING_FIG href="../books_images/U-IMG-173052888727.jpg"/>

“समय एव करोति बलाबलम्।”

अहो! विधेर्विलसितम्! यत् कालवशात् चिरास्तमितदिनमणिरिव दुर्दैवतमसावृतं नितरां कुत्र तिरोहितमस्माकं निरञ्जनसुखम्। एतत्तु यदैव समुपहितं तिलार्द्धकालं मनसि तदैव तत् केषां वा हृदयवतां हृत्पिण्डेषु तप्तायःपिण्डवद् बलान्न प्रतिघातयति?। किन्तु इदानीन्तननवीनसुखशायिनां नवनवोपाधिलोलुपानां केवलं राजप्रसादमपेक्षमाणानां महैश्वर्य्यशालिनां सविधे नैतत् समीचीनतया प्रतिभाति, प्रत्युत प्रमत्तप्रलापवद् विलसति, इत्येतत् समधिक सम्भावनीयता मर्हतीति सर्वैरेव सहृदयैर्विभाव्यते, यतो यद्यप्येतेषां महोदयानां विभविनां विभवसुलभौदासीन्य-विनिमयेन यदि कथञ्चित् समचेष्टाकणिकया भवितव्यम्, तदा पादुकादलितमुकुटमणेरिव निखिलधर्म्मचूड़ामणेरपि कथमेतादृशी गतिः? साम्प्रतमितस्ततो बहूनामार्य्यधर्म्माभिमानिनां महात्मनामार्य्यधर्म्मज्ञानमुत्तरोत्तरमुज्जीवति, तथा तत्र महाननुरागोऽपि भूयोभूयः प्रसरणसुखेनाभिवर्द्धते, इति सौभाभ्यमुकुलोदयदर्शनात् आशातीतभाविफलानुमानं तदैव संगच्छते, यदि दुर्व्विपाकतुषारसम्पातो न समूलघातं हनिष्यति, इत्थमभ्युदयदर्शनं निःसन्देहमानन्दजनकत्वेऽपि तुषारघातोन्मूलिततरुसेचनादिकमौपम्यपदमालिङ्घतीति परं हर्षोविषादश्च युगपदुत्पद्यते, तथाहि आर्य्यभाषानुप्राणितः किल आर्य्यधर्म्मः श्रूयते, प्रतिपाद्यते च साक्षात् सुराचार्य्यैरिव महानुभवैः, तस्मान्न तदलोकं वक्तुं केनापि शक्यते, इतश्च कियद्दिवसादूर्द्धं स्वदेशहितैषिणामाट्यानां साहाय्यमात्रेणैव भारतेषु कुत्र वा चतुष्पाठीषु

संस्कृतानुशीलनं न परिदृश्यते स्म?। तदनुशीलनमाहात्म्येनैव दुर्वृत्तयवनराजाधिकारेऽपि महाविप्लवमतिक्रम्य अक्षुणतया संरक्षितोऽस्माकमार्य्यधर्म्म इत्यवनतशिरसा न केन वा स्वीक्रियते?, अधुनापाश्चात्यशिक्षाजलधौ सर्व्वतः समुच्छलितेऽपि, यदमिश्रितप्राच्यशिक्षा निर्झरमधुररसपायिनामपि केषाञ्चित् कतिचित् संख्याः कदाचित् कुत्रचित् परिलक्ष्यन्ते, तदेव तन्माधुर्य्यवैचित्र्यमेव। तदपि तैरेव महात्मभिर्वारिदरसरसिकैश्चातकैरिव किमप्यनुभूयते, तथा सचेष्टैः सदा संरक्ष्यते, नान्यैःकेवलमस्मादृशैरेव, तत्कुलपांशुलैस्तन्न प्रतिपालितं दैवदोषेण संमिश्रणजनितकटुकषायरसास्वादिनान्तु नातिदौर्मूल्यम्, अतो धन्यमार्य्यकुलधुरीणानां महानुभावानां जीवनम्, धन्यम् तेषां सदनुष्ठाननिष्ठत्वञ्च। इतोऽपि पुनर्येषां भारतललामभूतानामावासभूमित्वेनालङ्कृतं नवद्वीपपूर्व्वस्थलीभट्टपल्लीप्रभृतिकं शीर्षस्थानं किमपि गौरवान्वितमासीत्। तेषां सुरलोकजुषां परमविदुषां मध्ये केचित् पुरा केचित्तु कियत्पूर्व्वं भारतमत्यजन्, साम्प्रतं विद्यमानानामपि केचित् केनचित् कारणानुरोधेन स्ववृत्तिविलोपिनःसम्बृत्ताः केचित्तु यत्र कुत्रचित् पुण्याश्रमनिर्व्विशेषे देशे दुरवगाहसुखपारावारनिमग्नचेतसः तामेव वृत्तिं प्रतिपालयन्ति, सुतरामुल्लिखितं कदाचित् कुत्रचिदित्यादिकम्। किं बहुना, दुःसमयः समुपस्थितोऽस्माकमिति सर्व्वैरेव समुत्साहैः प्रणिधातव्यम्, विशेषतस्तु तत्कार्य्यपारगैः, येषामनवधानतया सेयमार्य्यभाषा चीरवासिनी चिरदुःखिनीव प्रतिपथं विलपन्ती कथमपि प्राणिति। पुनः परिणामिनि जगति महारण्यं नगरत्वेन, नगरमपि महारण्यत्वेन, नदी पुलिनत्वेन, पुलिनमपि महानदीत्वेन, महैश्वर्य्यशाली दारिद्र्येण, दरिद्रोपि महैश्वर्य्यशालित्वेन प्रतिनियतं क्रमपरिणाम चक्रावर्त्तेन परिवर्त्तते, तथा शीतोष्णसुखदुःखादिकद्वन्दपरिणामोऽपि दृश्यते। एतावता समायातं सर्व्वं खल्विदं विनश्वरं न किमपि

सनातनमिति, एतदालोचनेन कस्यचित् महापुरुषस्य वचनं मनसि मे समुदितं यथा—

“यदुपतेः क्व गता मथुरापुरी, रघुपतेः क्व गतोत्तरकोशला।
इति विसृष्य कुरुष्व मनःस्थिरं न सदिदं जगदित्यवधारय॥”

इति परिवर्त्तनचिन्तया या चित्तभूमिपरिवर्द्धिता क्षणमप्याशालता नैव संप्रति सुदूरपराहता, यतो लाक्ष्यभ्रष्टेन न केनचित् सयत्नेनापि किमपि फलमवाप्यते, स यत्नेनापि निमेषात् विलीयते, अतः सावलम्बेन भवितव्यम्, अवलम्बनं हि बहुत्र बहुतरमद्यापि विद्यते, यादृशावलम्बनमुपजीव्य पूर्व्वं पूर्व्वपुरुषैः, सुदीर्घकालमधीत्य शास्त्राणां परं पारं गतम्, अनन्तरं सुखेन जीवनमतिवाहितम्। अनन्यचिन्तापरवशतया तेषाञ्च लेखनीमुखात् बहुतरशास्त्रं काव्यालङ्कारादिकञ्च विनिःसृतम्, अतएव “निराश्रया न जीवन्ति पण्डिता वनितालता इति" किं वदन्ती श्रुयते, किन्तु तादृशावलम्बनं सुद्दीर्घकालसापेक्षं सुदीर्घकालपरिणामेनापि सम्पत्स्यते नवेति सन्देहाभासोऽपि कदाचिदुद्भवेत्इति वह्वाशानोदितैश्चित्तावेगविभीषिकाभीतभीतैरुद्भावनीया महती शङ्का, बुभुक्षितानां भुवनाशनलिप्सेव तथार्थिनां स्वाराज्यतृषेव कथञ्चित् समयोचितलभ्यलाभेनैव प्रशमिष्यतीति मन्यामहे।

आः किमितोऽपि हास्यास्पदमस्ति? यद्येषामुपेक्षया मक्षार्घरत्नस्य चरणताड़नवद् विदूरितमार्य्यभाषायाः सुगौरवम्। अधुनापि किं तेषामेव सविधे प्रार्थितमालम्बनम्?, हा धिक् महती विड़म्बना समुपस्थितेति न केनापि मुखमानेतुमिष्यते, यतो भूमिपतितानामतिदुर्व्वलानामासन्नावलम्बनं यथा भूमिरेव भवितुं युज्यते, न तथा किमप्यसम्बद्धमन्यत्। अतः साम्प्रतमुपसंहृतिकाले निरतिशयशान्तिसुखमूलं सततमनुसन्धीयतां सर्व्वैस्तथा तत्रसचेष्टैःप्रति-

विधीयताञ्च इत्यलम्।इदमप्याशास्महे “प्रवर्त्ततां प्रकृतिहिताय पार्थिवः, सरस्वती श्रुतिमहती न हीयतामित्यादि।

श्रीयदुनन्दनशर्म्मकाव्यतीर्थः।
बेलडाङ्गा हाइस्कुल मुर्शिदाबाद।

_________

मकरन्दिका।

प्रथमोच्छासः।

भागिरथीपुलिने।

<MISSING_FIG href=”../books_images/U-IMG-173053255524.jpg"/>

वहति मन्दंकलस्वनविमोहितयावदीयभूतपरिषत्श्रुतिविवरा परिपूतसलिलपवित्रितत्रिलोको अशेषातीतानागतभवत् साक्षिरूपिणी त्रिभुवनैकशान्तिसुधाप्रसविनी तटदेशविराजितानेकतालतमालसरलाशोककिंशुकवनराजिप्रतिकृति प्रसाधिततोयप्रवाहा निखिलजीवलोकार्त्तिहरहरजटाकलापविनिःसृता त्रिमार्गगा भगवती भागीरथी। आगतश्च सरसनवकिसलयव्रततीलास्योपदेशकुशल दक्षिणाचलप्रवृत्तानिलसखो ऋतुराजो वसन्तः। निसर्गसौन्दर्य्यललामभूतं समस्तविदर्भभूभागावतंसरूपं कुसुमपुरमधुनामध्यमलोकस्थममरेशलीलोपवनं नन्दनमिव द्वितीयमुपजातम्। अशोकशाखिनः स्कन्धात् प्रभृत्येप्रवालोलरक्तपल्लवप्रसूनप्रलम्बा भागीरथीसैकतशीतलकल्लोलस्पृष्टसमीरणाकम्पिता उन्मदनकान्तप्रार्थितसुरता चिरपरिणीतवनितायास्त्रपाकम्पनमनुकुर्व्वन्ति। सहकारपोतका अभिलषितमुकुलमञ्जरीपरिशोभिता अशेषाभरणविमण्डिता दिव्याङ्गना इव, किं किरातकुसुमैरापीतीकृताः ककुभो वालारुणोद्भासितं पूर्व्वदिक्चक्रवालमिव, कुसुमप्रसूतिपरिशोभिता

सहकारालम्बिनी अतिमुक्तकालता अभिमन्युपरिशोभिता पार्थाङ्कशोभिनी सुभद्रेव, मलयमारुतप्रवातोत्कोरकिता नीपचम्पकतिलकवकुलकुरवकाः यौवनकृतपदा मदविलसिताः मकरकेतनकुमुसुमव्यतिरिक्तामोघास्त्ररूपिण्यः नायिका इव, उद्दामकान्तारविकसित किंशुकानि वातेरितानि दानवारिप्रमत्त निरङ्कुशवारणा इव प्रतीयन्ते। भगवति हारितहरिद्वाजिनि सरोजिनीजीवितवल्लभे जीबञ्जीवकहृदयानन्दकरे सहस्रांशुमालिनि सवितरि राजराजाधिश्रितदिग्भागप्रचलनप्रवृत्ते तावज्जीवलोकमनोमोहनमधुसमागमे च सर्व्वैव सजड़चेतना प्रकृतिःमहारजतमयीव, उत्सवमयीव, मदनमयीव, प्रेममयीव, औत्सुक्यमयीव सरभसमेव समुपजाता। तथा मधुकरः प्रेमरसार्द्रीभूतहृदयः दयिताद्वितीयः एकपुष्पभाजन एव मधुपानरतः। मृगः पुनः मलयमारुतविताड़ितकुसुमरजोमण्डितेन विषाणेन तदङ्गसंस्पर्शनिमीलितलोचनायाः मृगवधाः कण्डूयनपरः। नागेन्द्रसीमन्तिनी तु रसैकपरवशा स्वकान्ताय गजराजाय पङ्कजमकरन्दसुरभिगण्डूषवारिदानपरा। रथाङ्गनामापि अर्द्धोपभुक्तविसखण्डेन प्रतिरजनि प्राणेशविरहपरिमृदितां तदेकजीवितभूतां स्वां कान्तां विनोदयति। किं बहुना सर्व्वकान्तारकाननोपवनविटपिनोऽपि आमूलात् किसलयितास्तदैकालम्वनाशेषकुसुमस्तवकपरिशोभित व्रतती सनाथाःअशेषाभरण विमण्डितताम्बूलरागरञ्जिताधरोपकान्तासमागतान् सुरलोकसुन्दरीसमवायहृदयहरणक्षमान् अतिशयितनलकूवररूपानपि नायकान् निन्दन्ति। मधुमदमत्ताः पिकाः काकलिभिरुन्मादयन्ति यावदीयपथिकजनश्रुतिविवरान्। सततमलयमारुतविचलित कुसुममकरन्दसीकरसारदुर्द्दिनोन्मादितं मुनिजनानामपि हृदयम्। उद्दामषट्चरणझङ्कारकातरिता सर्व्वत्र दयितविरहातुराणां मनोवृत्तिः। भगवति वसन्ते मलयमारुतसहचरे जगति धृताधिष्ठाने

कोनाम जन्तुः दुरन्तमन्मथचापविक्षिप्तकुसुमास्त्रपीड़ितो न भवति।

एवम्विधे वसन्तोदारसमये अस्ताचलचूड़ावलम्बिनि भगवति कमलिनीनायके सहस्रांशुमालिनि कुसुमपुरप्रवाहिन्याजाह्मव्या वेलाभूमि सैकततले मृदूपचरितवेदिकास्तरणे भागीरथीतटोपजातस्य कस्यचन लतामण्डपस्य पुरतो भागे छायाशीतले विहितात्मावस्थितिः; सान्ध्यासमीरणमृदुविकम्पितं पौरवृद्धसपर्य्याविहितकुसुमनिकरपरिमलसुगन्धि, अचिरसम्पादितपुरसुन्दरीसमवायाङ्गयष्टि निमज्जनाकम्पितं परिणतारुणकिरणजालपतनेन तप्तचामोकरमिव भास्वरं, सर्व्वलोकमनोहरं, भागीरथीसान्ध्यकल्लोलं प्रत्यक्षं कुर्व्वन्, चतुर्व्विंशतिवर्षदेशीयः; पुञ्जीकृतत्रिभुवनसौन्दर्य्यसारसम्भारेण विधिमनोविरचित इव; प्रस्फुरद्देहकान्त्यानिर्भर्त्सयन् पार्व्वतीनन्दनवपुः, अचिरविनिर्गत इव क्षीरनिधेः; नयनपुण्डरीकयुगलेन तिरस्कुर्व्वन् कन्दर्पजनयितृनेत्रपुण्डरीकयुगलं; निखिलसंसाराशेषलावण्यसम्भाराबरणं सरलतरुयुगलमिव बाहुयुगलंविभ्रत्; प्रोन्नत स्कन्धेन महादेववृषभस्कन्धं निन्दन्; आकुञ्चितेषत्कम्पितभ्रूयुगन तरङ्गभङ्गविकम्पितं सरसमृणालखण्डं विड़म्बयन्, विशदमलयजानुलिप्तं सुविस्तृतं चिन्तालेखालक्षितं ललाटदेशम् भारतीशयनमिव मनोभवलीलाप्राङ्गनमिव कमलास्तरणमिव, आयतविष्फारित तीव्रोद्भासितसुस्थिरे नयने स्नेहामृतह्रदाविव अरातिकूलतरुदवाविव, सुकुमारवलान्वितं देहं नवकिसलय परिशोभितं सरलतरुमिव, माधवीपरिशोभितं चूतमिव, कुसुमपरिव्याप्तं गिरिप्राङ्गनमिव, उद्वहन्; मानिनी मानभङ्गविषये मदनामोघास्त्रं; यौवने वयसि विहितपदक्रमः; कश्चित् पुमान्। तस्य च पादतलमधिशयाना, मूर्त्तिमतीव सौन्दर्य्यलक्ष्मीः, नारायणस्य मोहिनीमूर्ति द्वितीयेव, सौन्दर्य्यकलाजितामरसुन्दरी, द्वादशवर्षदेशीया, पुरसुन्दरी

परिषदवतंसभूता, नारायणपदतलशायिनी कमलेव, हरपादपद्ममधिशयाना पार्व्वतीव, कन्दर्पसहचरी रतिरिव, देवेन्द्रपुरोगता शचीव, तदाननमभिध्यायन्ती इतस्ततो दत्तदृष्टिर्न कुत्रापि तत् सादृश्यमालोकयन्ती उत सर्व्वेषु दिग्भागेषु तन्मयमिवालोकयन्ती विस्रम्भार्थं भूयोऽपि युवाननप्रेक्षिणी दुकूले वसाना, निरलङ्कारापि सर्व्वालङ्कारविमण्डितां कामवधूंविनिन्दन्ती, स्वप्रभोद्भासितदिक्चक्रवाला, कामारेरपि दर्पनिसूदनं मनोहरं यौवनमुद्वहन्ती काचन रामा। तयोश्च प्रेमिकयोः पुरत आनन्दविह्वलहृदया लतामण्डपमध्यवर्त्तिनो विहङ्गमाः सर्व्वलोकमनोमोहनं कूजन्ति। आलोलभागिरथीसैकतशीतलपङ्कजसम्पर्कसुरभिवारिपरिकरपरिस्पृष्ट्व सान्ध्यानिलो वितनोति मुदं सर्व्वेषां जीवानाम्। सैकतशयानवालाचरणयुगलेन क्रीड़ाभिलासयेव परिणतारुणरक्तो मृदुवाताकम्पितसान्ध्यभागिरथीतोयकल्लोलः मन्दं मन्दमागत्य आस्पृष्ट्वचरणच्युतिः प्रतिकूलनायिकापरितोषप्रवृत्तनायकवृत्तिं विड़म्बयन् प्रत्यावर्त्तते। क्रमेण च आताम्रांशुजालो भगवान् भास्करः विहाय धरातलं उन्मुच्य करुणैकरसां सरोजिनीवधूं विहङ्गवृत्तिमनुसरन् भूधरशिखरेषु कियच्चिरं स्थितिमापन्नः। अस्तमुपागते भगवति भास्करे नरकपङ्ककलुषेण महाप्रलयपयोधिसलिलपूरणेव तिमिरेणावष्टभ्यमाने जीवलोके, सहसैव अपरपारावारतलाद् उल्लसन्तीव पूर्णचन्द्रलेखाधारिणी रजनी उपस्थिता सञ्जनयन्ती हर्षस्य परां केटिंसर्व्वजनानाम्। निराविलं गगनतलं शशाङ्कतारकाराजिविमण्डितं अच्छोदभागिरथीतोयः प्रतिफलितं अशेषचन्द्रकान्तमणिपरिशोभितं मारकतकुट्टिममनुकरोति। परिवेष्टितसर्व्वनिसर्गसौन्दर्य्यमालावलि तारकाराजिपरिवेष्टिता नीलगिरिमध्यवर्त्तिनी पूर्णचन्द्रलेखेव तत्पुरोवर्त्तिनं अनिन्द्यकान्तिं नरपुङ्गवं तमभिध्यायन्ती नेतरं किञ्चित् तदवधानगोचरतां आपादयति।

अथ सहसैव मोहयन्निव सर्व्वजीवलोकहृदयकन्दरं मधुमदमत्तकोकिलकाकलिं निर्भर्त्सयन्, निमज्जयन्निव शान्तिह्रदमशेषविषयसन्तापोत्तप्तजनानपि तत्क्षण एव, विविधरागरागिणीताललयसमन्वितो भगवद्रमावल्लभस्तोत्रं वाचयन् मधुरवीणानिक्कपुरःसरः सुदूरावस्थितगिरिसानुदेशवल्लोमण्डपादिवागच्छन् कश्चन गीतशब्दस्तयोः प्रेमिनोः श्रुतिविवरमगमत्।

“श्रितकमलाकुचमण्डल, धृतकुण्डल, कलितललित वनमाल!
जय जय देव हरे!
दिनमणिमण्डलमण्डण, भवरखण्डन, मुनिजनमानसहंस।
कालियविषधरगञ्जन, जनरञ्चन, यदुकुलनलिनदिनेश।
मधुमुररनकविनाशन, गरुड़ासन, सुरकुलकेलिनिदान।
जनकसुताकृतभूषण, जितदूषण, समरशमितदशकण्ठ।
अभिनवजलधरसुन्दर, धृतमन्दर, श्रीमुखचन्द्रचकोर।
तव चरणे प्रणता वयमिति भावय, कुरु कुशलं प्रणतेषु॥"

ततो यावदेषा, गीतलहरी ललितवाग्विनिःसृता आप्लावयन्तीव भक्तपरिषन्मानसहंसान् तन्मयमिव कुर्व्वन्ती नवीनप्रेमिमिथुनं तयोः श्रवणपथातिथिर्जाता तावत् प्रियदर्शनो युवा वाक्पीयूषधारोज्जीवयन्निव सर्व्वदिक्चक्रवालं वाङ्मुखेनेव विनिर्गमनयन् भगवतीं भारतीं सुपरिष्कृतं, परिष्फुटं, स्मितप्रदीप्तं, व्यङ्ग्यविरञ्जितं अक्षरमात्रयेव स्नेहासारं विमुञ्चन् मृदुमधुरं दन्तराजिप्रभया विड़म्बयन् भगवन्तममृतकिरणम् ब्रवीति।

(क्रमशः।)

वि, ए, उपाधिधारी
रायचतुर्धुरीनोपनामाः
श्रीमद उपेन्द्रनाथ सेनः।
(रायेर काठी।)

____________

धर्म्ममूर्त्तिः।

<MISSING_FIG href="../books_images/U-IMG-173054468429.jpg"/>

(यथा हेमाद्रौ व्रतखण्डे प्रथमाध्याये आदित्यपुराणम्।)

“चतुर्व्वक्त्वश्चतुष्पाद श्चतुर्ब्बाहुःसिताम्बरः।
सर्व्वाभरणवान् श्वेतो धर्म्मःकार्य्योविजानता॥
दक्षिणे चाक्षमाला च तस्य वामे च पुस्तकम्।
मूर्तिमान् व्यवसायस्तु कार्व्योदक्षिणभागतः॥
वामभागे ततः कार्य्योवृषः परमरूपवान्।
कार्य्यौपद्मकरौमूर्द्ध्निविन्यस्तौ तु तथा तयोः॥”

__________

धर्म्मावतरणा।

<MISSING_FIG href=”../books_images/U-IMG-173053694028.jpg"/>

संप्रति बहुषु देशेषु धर्म्मोधर्म्मो धर्म्म इत्येवंब्रह्माण्डकटाहभेदी शङ्खनादानुकारी सर्व्वतो दिगन्तप्रतिरोधिजगत्प्लाविजलोदर भयङ्करमेघनिर्घोषतिरस्कारोनिर्घोषः परितः श्रुतिविवरं भिनत्ति।नृत्यन्तीव जनगणा धर्म्मो धर्म्मोधर्म्म इत्येवंब्रुवाणाः चित्कुर्व्वन्ति कलकलायन्ते उन्माद्यन्ते च। न जाने कस्यायं महिमा? कथंवा? केन वा? ईदृशे धर्म्मविप्लवकालेऽपि मुहुः श्रूयते धर्म्मो धर्म्म इति, केचित् असन्तमप्युपायं समाश्रिताः मामको धर्म्मःश्रेष्ठतर इति गर्ज्जन्ति गर्हन्ति च परेषां धर्म्मोभ्रान्तिमूलक इति। एवं ब्राह्मणा अपि ख्रीष्ट्वधर्म्मंबहु मन्यन्ते कियन्ति दिनानि। ख्रीष्टीया अपि हिन्दुधर्म्मंगृह्णन्ति बहु मन्मन्ते च।

अपरे केचित् गर्भस्रावायमाणाः आजन्मचपलमतयःअस्थिरविश्वासाः निर्व्वोधा हिन्दुतनया अपि ख्रीष्टधर्म्मःश्रेयानिति ख्रीष्टैरुद्यमानमनुवदन्ति। पुनः विज्ञानमूलको धर्म्मः(थियो यफिष्ट) श्रेयानिति इंरेजैरुद्यमानमनुवदन्ति! पुनःहिन्दुधर्म्मःश्रेयानितींरेजैरुद्यमानमनुवदन्ति। कारणमत्र केवलं तेषामनभ्यस्तस्वधर्म्मव्युत्पत्तित्वम्, विधर्म्मसंसर्गित्वम् परधर्म्मरीत्याध्ययनादिकञ्च। एवमधुना “मुखार्जि एण्ड कों” इत्येवमुपाधिमादधानाः कुलीना अपि मुखोपाध्यायाः रजककार्य्यं वस्त्रनिर्णेजनादिकं विदधति, रजका अपि विचारपतयो भवन्ति, ब्राह्मणाश्चर्म्मकारायन्ते, धर्म्मकारा अपि ब्राह्मणायन्ते, अथच ते धर्म्मोधर्म्मोधर्म्म इत्युच्चैर्व्रवते निर्णयन्ति च। यद्भवतु भूयताम्। अद्यास्माभिः यथाशास्त्रंयथा-ज्ञानं यथाविश्वासं धर्म्मंविचारयितुं,पुरातनगाथया तस्य कथावतार्य्यते।

आसीत् कस्याञ्चित् नगर्य्यांसत्यधर्म्मानाम नरपतिः, स सत्यमेव परं धर्म्मंव्यजानात्। तस्य धर्म्मवत एवंधर्म्मआसीत्, राजकीयविपणौ सर्व्वमेव विक्रयावशिष्टं विक्रेयं क्रीणाति सः। अब्रवीच्चसः प्रत्यज्ञासीच्च विक्रयावशिष्टं सर्व्वमेव विक्रेयं क्रेष्यामीति।

अथैकदा केनापि कारुणा अलक्ष्मीप्रतिमा निर्म्माय लक्षमुद्रया क्रय्येयमलक्ष्मीः, कश्चित् क्रेष्यतीति राजापणे अवतारिता, क्रेतारस्तु कस्याः प्रतिकृतिरियमिति श्रुत्वा दृष्ट्वा लक्षमुद्रा मूल्यमाकर्ण्य उपहस्य च दूरमपसरन्ति। क्रमशस्तु क्रेतारः प्रतिगताः, सायं प्रत्युपस्थितम्।

अथ तदा हट्टप्रहरिकः कश्चित् राजानंव्यज्ञापयत् महाराज! कश्चित् शिल्पी अलक्ष्मीप्रतिकृतिं विक्रेतुं विपणौ समानीयत मूल्यन्तु तस्या लक्षमुद्रेति, तदाकर्ण्य राजा अथवा का गतिः प्रदाय लक्षमुद्रामानीयतां सा राजभवनमित्यादिशत्।

अथैकदा राजभवनं प्रवेश्यालक्ष्मीमर्द्धरात्रे सौधशिखरमध्यासीने दुश्चिन्तयति राजनि काचित् षोड़शवर्षीया दिव्याङ्गना कान्त्यादिशो द्योतयन्ती अस्फुटं रोरुद्यमाना च तत्राविरभूत्। तामालोक्य नरपतिराह का भवतीभगवत्यम्व! इति सा कथयति भवद्भवनवासिनी राजलक्ष्मीरहमस्मीति जानीहि। राजाह किमिति रोदिषि मातः! लक्ष्मीराह भवान् स्वंभवनमलक्ष्मीं प्रावीविशदिति न तया सहैकत्र स्थातुमलमिति नात्र तिष्ठासामि रोदिमि च तदाकर्ण्य राजा गललग्नोकृतवासाः भक्तिप्रम्वीभावः सगङ्गदं स्तोतुमारेमे।

“लक्ष्मीस्त्वं सर्व्वभूतानां वरदासि हरिप्रिये!।
या गतिस्त्वत्प्रपन्नानां सा मे भवतु सर्व्वदा॥”

“विष्णोर्व्वक्षसि पद्मेच शङ्खेचक्रे तथाम्बरे।
लक्ष्मौर्नित्यं यथासि त्वंमयि नित्यं तथा भव॥’

मातः किं मयापराध्यते चिरसेवकेन कृपालेशशरणेन?।अलक्ष्मी प्रतिकृतिरानीता सत्यधर्म्मपालनाय, सत्यस्वरूपो हि विष्णुः। मातः! विष्णुवल्लभे! यदि सत्यंन पालयेयं तेनापि त्वया कुप्यते अधार्म्मिकाय मह्यम्। अधर्म्माद्विभेमि सततम्।

लक्ष्मीराह—सत्यमेव प्रवक्ति भवान्, किं विधास्यामि नालमहमेकत्रावस्थितुमलक्ष्म्या इति। राजाह मातः! तवैव प्रीतये नाहमलं धर्म्मं परिहातुमिति, यदि स्वधर्म्मरक्षणमेव ते त्यागकारणं तत्त्यज्यताम्, वरं वनं प्रविविक्षामि मुमूर्षामि किन्तु तथापि नैव धर्म्मं जिहासामि। श्रुत्वैतत् लक्ष्मी राजभवनान्निर्ज्जगाम। लक्ष्मीनिर्गमनमालोक्य मूर्त्तिमद् भाग्यमवोचत् महाराज! विना लक्ष्म्या नाहं स्थातुमलमिति लक्ष्मीमनुसरामि इति तथैव राजानमाभाष्य सह तेन विहिताधरोत्तरं निर्ज्जगाम। तद्दृष्ट्वा बुद्धिरप्याह महाराज! भाग्यलक्ष्मीभ्यां विना नाहमपि स्थातुमलमिति राजानमाभाष्य पुरान्निश्चक्राम, तदवलोक्य धर्म्मोऽपि चतुर्म्मुखश्चतुष्पाच्चतुर्ब्बाहुः राजानमिदमुवाच महाराज! लक्ष्मीर्भाग्यंबुद्धिश्चभवन्तं त्यत्यजुः कथमिहैककेन मया स्थातव्यम्, अहन्तु तदनुचरः सुतरां मामपि निर्गन्तुमनुजानीहि। राजाह नहीति, भवन्तं नानुजानामि, भवता कथमहं त्यक्तव्यः? भवदर्थं मया लक्षमुद्रा व्ययिता, अलक्ष्मीरानीता लक्ष्मीस्त्यक्ता, भाग्यं बुद्धिश्च समुपेक्षितम्, अतोऽहं भवता त्यक्तुं नैव साम्प्रतम्, इत्युक्त्वा कृतानुनयो राजा धर्म्मं करे गृहीत्वा बलादिव विवदमान इव न्यवर्त्तयत्। धर्म्मोऽपि मनसा विचारितवान् सत्यमेव राजा मद्रक्षार्थं वह्वर्थोनिःस्वार्थं विसर्ज्जितः अतो धर्म्मं मामेवाधर्म्मःस्पृशेद्यद्यहं धार्म्मिकमिमं त्यजेयं इति परावृत्त्यधर्म्मोयथा पूर्व्वमवतिष्ठत।

ततश्च धर्म्मं नागच्छन्तमालोक्य तदाकर्षणेन क्रमशो बुद्धिर्भाग्यं लक्ष्मीश्च परावृत्त्यागत्य च राजानमूचुः महाराज! धर्म्मेण विना न

क्वापि नास्मभ्यो रोचतेऽवस्थानाय स्थानमिति निवर्त्तामहे, तदाकर्ण्य राजाह चिरदासं प्रति दयेयं वः स्थीयतां पूर्व्ववत् इति।

अलक्ष्मीस्तु यथाशास्त्रमश्वत्थतले स्थापिता यथारुचि शत्रोर्गृहे स्वधर्म्मवर्जिते विहर्त्तुमारेभे।

अहो धर्म्मशक्तिर्गरीयसी धन्या च, यस्याकर्षणात् प्रनष्टापि लक्ष्मीः बुद्धिर्भाग्यञ्च स्वयं न्यवर्त्तिषत। तमेव धर्म्मं व्याख्यातुं यथाशक्ति यथायुक्ति ग्राहकेभ्यः क्रमशः समुपहरामि।

(क्रमशः।)

________

नीतिसंग्रहः।

<MISSING_FIG href=”../books_images/U-IMG-173053657724.jpg"/>

कथा सरित्सागरे सुभाषितानि।

१ स्पृशन्ति न नृशंसानां हृदयं बन्धुवुद्धयः।

The hearts of the cruel are never affected by family ties.

२ को हि वित्तं रहस्यंवा स्त्रीषु शक्नोति गृहितुम्?

It is next to impossible not to disclose one’s riches and secrets to his wife.

३ स्त्रीषु वाक्संयमः कुतः?

Women can not control their tongues.

४ आपद्यपि सतीवृत्तं किं मुञ्चन्ति कुलस्त्रियः?

Is it that the ladies of respectable families ever give up their morals in time of distress.?

५ आश्चर्य्यमपरित्याज्यो दृष्टनष्टापदामपि।
अविवेकान्धबुद्धीनांस्वानुभावो दुरात्मनाम्॥

It is quite strange that the evil disposition of the wicked whose minds are entirely blind with the darkness of ignorance, still continues the same though they have felt and passed the rubs of misfortune.

६ कृतध्नानां शिवं कुतः?

The ungrateful are never happy.

७ वरं हि मृत्युर्नाकीर्तिः।

Death is undoubtedly preferable to infamy.

वरं पत्यौ प्रवासस्थे मरणं कुलयोषितः।
न तु रूपारमल्लोकलोचनापातपात्रता॥

For ladies of respectable families whose husbands are away in distant lands, it is certainly a far greater boon to die than to be the cynosure of the public eye rapturously converging on them to enjoy the beauty.

९ कष्टो ह्यविनयक्रमः।

Evil habits are unquestionably full of miseries and sufferings.

१० अचिन्त्यंशीलगुप्तानां चरितं कुलयोषिताम्।

The good character of virtuous women whose doings are ever guided by the rules of sound morality is truly inconceivable.

११ अशीलं कस्य भूतये?

Bad conduct is never productive of good to any one.

१२ किमज्ञेयं हि धीमताम्?

There is nothing unknowable by the wise.

१३ प्राणेभ्योऽपिं हि धीराणां प्रिया शत्रुप्रतिक्रिया।

Revenging the foe is really dearer to the hearts of the brave than their own lives.

१४ कष्टं क्रूरा जिगीषवः।

It is to be regretted that those bent on conquering others are very cruel.

१५ न स्वेच्छं व्यवहर्त्तव्यमात्मनोभूतिमिच्छता।

One who wishes good to himself should not act according to his own free will (i. e. without consulting others).

पुरोहितः श्रीगोपीनाथशर्म्मा—जयपुर।

__________

समस्या।

अधुना इंरेजिशिक्षितानां राज्ञां परिषत्सु पुरेव पण्डितानां भिथः शास्त्रार्थः काव्यालोचना समस्यापूर्त्तिप्रभृति च प्रायो विलुप्यते। तेन विना हि पर्य्यालोचनां तत्र ते पण्डिताः रिक्तशक्तयो जाताः। अहो इदमतीव दुःखाकरम्। किन्तु शास्त्रार्थस्यात्र सम्यगसम्भवात् संस्कृतप्रियानां शक्तिरक्षणार्थं पञ्च- समस्या विदधामहे प्रार्थयामहे च ग्राहकान् इमाः समस्याः पूरयन्तु-इति। पूर्णाश्च ताःयेषां सुष्ठुतराः स्युःतदा आगामिन्यां चन्द्रिकायां तेषां नाम्नाताः पूर्णसमस्या मुद्रयिष्याम इति।

द्यहमब्दे मिथो वक्त्रंपश्यतो नैव दम्पती॥

<MISSING_FIG href="../books_images/U-IMG-173054666627.jpg"/>

“तदा मयूरमस्तके ननर्त्त पन्नगेश्वरः॥

<MISSING_FIG href=”../books_images/U-IMG-173054670524.jpg"/>

“पिपीलिका नृत्यति वह्निकुण्डे॥”

<MISSING_FIG href=”../books_images/U-IMG-173054679630.jpg"/>

कल्कतां कुण्डलीशः॥

<MISSING_FIG href="../books_images/U-IMG-173054682331.jpg"/>

चक्रवत् परिवर्त्तते॥

<MISSING_FIG href="../books_images/U-IMG-173054684332.jpg"/>
(क्रमशः।)

_____________

श्रीश्रीदुर्गा

शरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href="../books_images/U-IMG-173028706213.jpg"/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्ती जनानिव।
मायाबलम्ब्यते सेयमम्बाश्रीशिवसुन्दरी॥

<MISSING_FIG href="../books_images/U-IMG-173054703127.jpg"/>

मासावतरणिका।

दिवीह तारस्तनितं तड़ित्त्वतां भुवि प्लवानां श्रुतिकर्कशः स्वरः।
रवैरत्नं मे चतुरः प्रियारवःपिकोऽस्ति मूकः खलु तत् शुचौ शुचा॥

उद्भटश्लोकाः।

“दानभोगविहीनेन धनेन धनिनी यदि।
पृध्वीखातस्थितेनैवधनेन धनिनो वयम्॥८१॥

“वरं दरिद्रो बहुशास्त्रपारगो नचापि मूर्खो रहुरत्नभूषितः।
सलोचनो जीर्णपटोऽपि (४) भाषते, न नेत्रहीनःकनकैरलङ्कृतः॥८२॥

“सा निष्प्रभुः श्वशुरभूमिरभूदयोध्या लङ्केयमीदृशगतिं दहनामवाप।
इत्थंपुनर्निजतनुव्ययशङ्कयैव, मां तापिनीं नयति नात्मपुरीं यमोऽपि॥८३॥ (५)

“तातस्यैव दुरन्तता हरधनुर्भङ्गोविवाहे पणः
तद्वत्तुश्वशुरेण दण्डकवने निर्म्मोहमावासिता।
किम्वान्यत् पतिरेष पावकमुखोत्तीर्णां परित्यक्तवान्
मातर्म्मेदिनि ! मा भजस्व करुणां कर्म्मैव मत्तादृशम्॥८४॥ (६)

______________________________________________________

(४) जीर्णःपटी यस्य सः दरिद्रः । (५) मर्त्तुकामायाःसीतायाः खेदोक्तिरियम्। (६) सीतायाःपृथिवीं प्रति ग्वेदीक्तिरियन्।

_______________________________________________

ताम्बूलम्।

तृतीय वीटिका।

<MISSING_FIG href=”../books_images/U-IMG-173054786124.jpg”/>

दिनान्यतीत्य द्वित्राणिमित्राणि दयितस्य नः।
ज्योतिर्व्वेत्ता स भृत्याश्च कुटीर उपतस्थिरे॥१॥

हा कालोऽपाणिपादोऽपिअत्येति स्तत्तरानपि।
के वयन्तु ततः कालो वलीयानिति मे मतिः॥२॥

अहस्तोऽप्यतिदूरस्थान् आकृष्याधो निपातयेत्।
कांश्चित् प्रवर्द्धयेत् कालो वलीयानिति मे मतिः॥३॥

शैलभूतलपातालं युगपत् सबलाबलम्।
निरक्ष ईक्षते कालो वलीयानिति मे मतिः॥४॥

शैलाचला जलायन्ते गिरीयन्ते सरिद्भुवः।
तदायत्ताः क्षितौ कालो वलीयानिति मे मतिः॥५॥

श्रुतिवृत्तास्तेऽमात्याः धात्रीमुखत आदितः।
आरूढ़ दोलामनयत् मां तयार्त्विजमालयम्॥६॥

आदत्तकाश्यपिकरो वितृप्तइव पार्थिवः।
शुभेऽहनि तु मां दीनां करे सादरमग्रहीत्॥७॥

__________________________________________________

(२) अत्येतिअतिक्रामति। स्वचरान् पक्षिणी ग्रहादींश्च।

(३) अहस्तोऽपि हस्तरहितोऽपि। अति दूरस्थान् पदार्थान्।

(४) सबलाबलं बलवन्तंदुर्बलञ्च। निरक्षः अन्धः।

(५) शैलाचला पर्व्वतमयः। सरिद्भुवःजलस्थानानि। गिरीयन्तेपर्व्वतायन्ते। तदायत्ताःकालाधीनाः।

(६) आरूढ़दीलां दीलामारूढ़वतीं मां। तया सह उपमावा सह। आर्त्तिंजमालयं राजपुरोहितभवनम्।

(७) आदत्तेति भूपतिरपि। करे करावच्छेदे। मत्पाणियाद्गणमकरोदित्यर्थः।

____________________________________________________

उपभुक्तापि राज्ञा श्रोर्म्मामालिङ्गत् ततो मया!
अधीतवत्या तां नीतिं युष्मान् वीक्षेऽनुजा इव॥८॥

इति वः कथितं वृत्तं मदीयं प्रथमावधि।
ध्यायन्ती यत् पुनस्तेन नीताद्य जगतो वहिः॥९॥

निशम्य विमलावाचमूचुस्ता नतिमाश्रिताः।
नीतिं विनय नो गुर्व्विं! यया स्म त्वादृशा वयम्॥१०॥

ज्योत्स्नापीयूषपयसां धारां कृत्वा पराङ्मुखीम्।
तन्त्रोवेणुपिकालापं जित्वा वाच सुवाच सा॥११॥

अवगच्छत भग्न्यो! मे नारीणां नीति मादितः।
ययामुत्रपरत्रापि पूज्या देवीव सा जनैः॥१२॥

लोके परम्परा यासौ श्रूयते तद्यथा श्रुतिः।
प्रमाणं योषितां तद्वदाचारो वेदसम्मितः॥१३॥

स्त्रीणां प्राचां नृणाञ्चैव व्यवहारं हितेच्छवः।
किरीटंपरिहृत्यापि वहेरन् शिरसा ततः॥१४॥

___________________________________________________

(८) राज्ञा शक्रजिता। श्रीः राजलक्ष्मीः। आलिङ्गत् मयि संक्रान्ता। ततः लक्ष्म्याः सकाशात्। अधीतवत्या शिक्षितवत्या। युस्मान् सपत्नीः।

(९) यत् वृत्तंपूर्व्ववृत्तान्तं। ध्यायन्ती चिन्तयन्ती। तेन चिन्तितेन वृत्तान्तेन नीतेति इह जगति नासमिव, वाह्यज्ञानशून्याभवम्।

(१०) ताः सपत्न्यः। विनय शिक्षय। नोऽस्मान्। यया नीत्या। त्वादृशाः त्वत्समाः लोकप्रियाः। स्म भवामः।

(११) अतीव विशदार्थांसुन्दरींमधुराञ्च वाचमितिभावः।

(१२) अवगच्छत शृणुत। यया नीत्या। अमुत्रइहलोके परत्र परलोके। सा नीतिमती कुलस्त्री।

(१३) तद्वत् तथा परम्परागतः स्त्र्याचारः वेद सम्मितः वेदतुल्यःअतो नावज्ञेयः। भविष्यति सर्व्वमेव प्राचीनस्त्रीणां नीतिः कथ्यते इति भावः।

(१४) किरीटस्तु इहलोके एव शोभाजनकःस्त्र्याचारः प्राचीनलोकाचारश्चउभयलोके, अतः शिरोधार्य्यः माननीयः इति भावः।

_____________________________________________________

अन्याभिः कन्यकाभिश्च बाल्येक्रीड़ाच्छलेन माम्।
गार्हस्थां प्रायशो नीतिमुपमाता व्यशिक्षयत्॥१५॥

सावगुण्ठनमागुल्फंपुत्रिकां रक्तमम्बरम्।
परिधाप्य वधूंमेने तथात्मानञ्च वा क्वचित्॥१६॥

चुल्ली मकरवं स्थानमलिम्यंकल्पितं फलम्।
अकृन्तमक्षालयञ्च अन्नपूर्णामथानमम्॥१७॥

अग्निं प्रज्वाल्यवितथमेवं पाकमकल्पयम्।
कटिवेष्टितचेलान्ता सलज्जमवगुण्ठिता॥

बालवृद्धातिथिस्वांश्च गुर्व्विणीञ्चाघ कल्पितान्।
तुष्णीं संयुतपादा च प्रथमं पर्य्यवेशयम्॥१८॥१९॥

ना ना देयं उँहूँ देयं देयञ्च करकम्पने।
शिरसः कम्पने देयं न देयं व्याघ्रझम्पने॥२०॥

सर्व्वान्ते स्वयमश्नन्ती कर्म्मनिष्पाद्य सर्व्वशः।
इत्थं कृत्रिमपाकादिक्रियामहमशिक्षयम्॥२१॥

व्रतं देवार्च्चनंस्तोत्रवन्दनं सत्कथाश्रुतिः।
गुरुशुश्रूषणञ्चैते विषयाः क्रीड़नस्य नः॥२२॥

_________________________________________________

(१५) कन्याभिः सह। बाल्येबाल्यकाले। क्रीड़ाछलेन खेलनाव्याजेन।

(१६) सावगुण्ठनं आगुल्फञ्च यथा स्यात्। तथैव वस्त्रपरिधानस्य ऋषिभिर्व्विहितत्वात्। पुत्रिकां कृत्रिमां क्रीड़ापुत्तलीम्। क्वचित् कदाचित्।

(१७) चुल्लींउद्धानम्। अलिम्पं गोमयादिना। कल्पितं मृद्वालुककर्करतृणादिकं एषा वार्त्ताकुः इयमलावूःएवं रूपेण आरोपितम्। अकृन्तम् छिनन्मि स्म। अथ अनन्तरम्। अन्नपूर्णां अनमम् पाकस्य स्वादुतायैइति शेषः।

(१८) कटीति कटीवेष्टितश्चेलान्तो वस्त्रप्रान्तदेशो यया सा।गात्राणां सम्बगावरणायवायुना वस्त्रस्यापसरणवारणाय च। वस्त्राञ्चलेन कटिबन्धनं परिवेशने विधेयम्।

(१९) मन्नादि स्मृतिषु बालादीन् प्रथमं भोजयेदिति विधानात्।

(२२) सत्कथाश्रुतिः सत्प्रसङ्गश्रवणम्।

_______________________________________________________

अभेद्याट्टालिका लज्जा दुर्ल्लक्ष्यानुचरी सदा।
कुलजाःपालिता पाति प्रजाः कृषिरिवापदः॥२३॥

आपादमस्तकन्यस्तलज्जावज्राधिकञ्चुकीम्।
स्पृष्ट्वा विफलतां यान्ति दुर्ज्जनानां कुदृष्टयः॥२४॥

आस्वादयन्तु लोकानां मधुरं सद्यशः फलम्।
कूजन्तु मृदु कामिन्यःलज्जापञ्जरकोकिलाः॥२५॥

ललितं पादसम्पातं पश्यन्ती चेद्व्रजेद्वधूः।
देवीव जनयेत् प्रीतिं भीतिञ्चाप्यसतां नृणाम्॥२६॥

सतीत्वंरक्षितुं रत्नं रमणीनां विरिञ्चिना।
रचिता विटचौरेभ्यो लज्जैवायमपेड़िका॥२७॥

कटूक्तिंशासनं निन्दां सहन्ते च धृतिव्रताः।
छेदनं भेदनं दाहं धत्ते सर्व्वंसहा क्षमा॥२८॥

कौलिन्यंगौरवंमानं पितृभर्त्तृकुलस्थितिम्।
कीर्त्तिञ्चावति नारीणां मातेव तनयं क्षमा॥२९॥

शयनाशनयोः साध्वी प्रयतेत ह्यमायया।
वशीकरणमन्यच्च पत्युरिच्छानुवर्त्तनम्॥३०॥

________________________________________________________

(२३) दुर्लक्षेति लज्जा अलक्षिता सती सह चरति। कुलजाः कुलस्त्रीः। लज्जावत्याः परपुरुषात् आपदी न सम्भवन्ति इति भावः।

(२४) आपादेति आपादात् मस्तके न्यस्तंलज्जारूपं वज्राधिकं कुञ्जुकंयया तां स्त्रियं। कुदृष्टयः पापभावेनावलोकनानि।

(२५) आस्वेति लज्जावत्याः स्त्रियाःमृदु मृदु वचो वदन्त्याश्च यशो लोकैर्गीयते इति भावः।

(२६) ललितं धीरं। पादसम्पातं स्वकीयं स्वयं पश्यन्ती। गमनकाले स्त्री चकितं चञ्चलितमितस्ततो न पश्येत् केवलं पादन्यासस्थानमालोक्य गच्छेदिति भावः।

(२७) आयस पेड़िका लौहपेड़िका, सिन्धुक इति प्रसिद्धिः।

(२८) कटूक्तिं गुरुजनादीनाम्। धृतिव्रताः धैर्य्यशालिन्यः।

(३०) अमायया अकौटिल्येन केवलं भक्त्य्व्याप्रेम्ना। सर्व्वंसहा सर्व्वं सहते।

_______________________________________________________

नवीकृतमिवातन्द्रा नैपुण्यात् भोग्यमन्वहम्।
प्रीणयेदुपभोज्येव सृष्टं ब्रह्ममयीश्वरम्॥३१॥

युक्तापि दासदासीभिः गृहकृत्ये सदाकुला।
क्लिष्टापि सुखयेत् कान्तंयथा प्रोषितभर्त्तृका॥३२॥

प्रतीपदर्शिनी शास्त्रेभीरुर्युद्धेच मानुषी।
अवला च निषिद्धतत् विहिता गृहकर्म्मणि॥३३॥

गार्हस्थनीतिः पक्तिश्च परा विद्या कुलस्त्रियाः।
तथैव सफतो देवोऽग्नयामांसकरण्डिका॥३४॥

अतस्तु विपरीता या नारी पुम्प्रकृतिस्तया।
स्त्रीसुखं नानुभूयेत पुंसेव स्वीकृतात्मना॥३५॥

लज्जा भयं मृदुत्वञ्च गृहकृत्यं स्वगोपनम्।
लक्ष्मैतदान्तरं स्त्रीणां विपरीतं ततो नृणाम्॥३६॥

एवमेवमुपमातुराग्रहात् शिक्षितासमवलोचिताध्वनि।
तेन मेऽत्र प्रियता द्रढ़ीयसी हे भगिन्य! इति वः समाद्रिये।

इति श्रीजयचन्द्रसज्जिते ताम्बूले तृतीयवीटिका॥*॥

(क्रमशः।)

_______________________________________________________

(३१) नवीकृतं नवं नवं। अतन्द्रा निरलसा। भोग्य उपभोज्य भोजयित्या सृष्टं जगत् व्यञ्चनादिकञ्च। अन्वहं प्रत्यहं। ब्रह्ममयी प्रकृतिः कापि स्त्री च। ईश्वरं जगदीश्वरं भर्त्तरञ्च।

(३३) प्रतीपेति प्रतीप दर्शिनी इति स्त्री नाम, कथम्? प्रतीपं विपरीतं पश्यति बुध्यति यतः शास्त्रे शास्त्राभ्यासे। भीरुरिति स्त्रीनाम कथं? मानुषी स्त्री अबला च अतो युद्धे विभेति अतस्तत्रतत्र निषिद्ध।

(३४) पक्तिः पाकः। तथा विद्यया।मांसकरण्डिका मांसाधारःनिष्फलः।अतः गार्हस्थनीतिपाकविद्यातः। विपरीता केवलं मनीविकारि नाटकादिपाठे पत्रादि लेखने विलासविद्मायाञ्च रता। पुंप्रकृतिः पुरुषस्वभावा।

(३५) स्वीकृतात्मना स्त्रीवेशधारिणा।

(३६) स्वगोपनं आत्मगोपनं। लक्ष्म चिह्नं। आन्तर। अभन्तरीणम्।

___________________________________________________

धर्म्मविवेकः।

<MISSING_FIG href=”../books_images/U-IMG-173055647433.jpg”/>

गुरून् प्रणंनस्य विचार्य्यसंहिताः प्रचीय प्राचां वचनानि यत्नतः।
धर्म्मःप्रसङ्गादुगुरुशिषयोर्म्मिथःविविक्ष्यते श्रीजयचन्द्र शर्म्मण॥

अथैकदा कश्चिद्धर्म्मं जिज्ञासुर्युवानानानगरीं तीर्थस्थानञ्च वंभ्रम्यमाणः कुतोऽपि शान्तिमलभमानश्च स्वग्रामवासिनं पैत्रिकगुरुं प्राचीनतमं पण्डितं शिवरामशर्म्माणमुपेत्य प्रणम्य च प्रोवाच गुरवः! ब्रुवन्तु मां प्रणतं धर्म्मतत्त्वम्, अहमितस्ततो व्याकुलमटाट्यमानः केनचिद्धार्म्मिकेन समुपदिष्टः श्रीमत्पदोपान्तं प्राप्तः। श्रीमद्भिरपि दयालुभिर्धर्म्मोपदेशेन स्वस्थीक्रियै।

शिवरामः। वप्र8! (१) त्वन्तु युवा दृश्यसे, ईदृशी ते धर्म्मप्रवणता साधीयसी। वत्स! कीदृक् ते अध्ययनादिकम्? किं नाम?

युवा। देव! नाहमार्य्यशास्त्रमध्यैषि, परन्तु आ-बाल्यात् म्लेच्छशास्त्र एव शिक्षितः। नाम मम वामापदः, जात्याहं ब्राह्मणः।

शिव। वत्म! ब्राह्मणस्य शर्म्मान्तंश्रीपूर्व्वञ्च नाम व्यक्तव्यं, तेन श्रीवामापदशर्म्माइत्येवं वक्तं युज्यते। नामश्रवणेनैव ब्राह्मणोऽयं निश्चीयते।

(श्रुत्वैतत् वामापद स्तुष्णीं स्थितः। अहो नामकथनरीतिरपि न ज्ञायते इति मनसा स्वयं धिक्कृतः।)

वत्स! त्वंधर्म्मं बभुत्सुः पर्य्यटितवान् बहुदेशम्, क्व कीदृशीं धर्म्मप्रवणतामद्राक्षीः?

वामा। वङ्गभूमावस्यां गङ्गातीरवर्त्तिनी कलिकातानगर्य्येव प्रधानं नाभिस्थानमिव, गत्वा तत्र, सार्द्धंविविधधर्म्मप्रचारकैः बहिरेव सम्बन्धमापाद्यपरीक्षितम्, प्रायः सर्व्व एव ब्रुवन्त्येकमाचरन्त्यन्यदिति, अनेके अमुक ब्रह्मचारी ए, मे, अमुक ब्रह्मचारी वि, ए,

इत्येवमुपाधिंगैरिकवस्त्राणामुत्तमानां पादत्राणं कञ्चुकादिकञ्च दधाना अपि “वीडनोद्याने” उच्चैर्व्वक्त्रितां श्रावयन्ति परन्तु व्यवहारं तेषामपि समीचीनं न मन्ये। केचित् हिन्दवः गृहीत ख्रीष्टधर्म्माणोऽपि पुनः कृतप्रायश्चित्ताभासाः व्यवहार्य्यतामर्ज्जयन्ति, केचित् ख्रीष्टीया अपि हिन्दूभवितुं यतन्ते, तदेतदवलोक्य न क्वापि स्थितिपदमालभते मे चेतः। अतो देवपादानेवात्रगुरून् शरणमिति निश्चित्य समुपस्थितः। श्रीमद्भिरपि धर्म्ममुपदिश्यमोहाध्वान्तमपनुद्यतामिति।

शिव। वत्स! वामापद! धर्म्मबुभुत्सायैमहानभिनिवेशस्ते जातः। त्वन्तु धर्म्मशास्त्रे नितान्तमनभिज्ञः। तत् कथङ्कारं बोधयितव्यगतिगभीरं सूक्ष्मञ्च धर्म्मतत्त्वमिति।

वामा। गुरवः! क्षम्यतामविनयो मे। अहं वक्तृतोपयोगीनि धर्म्मशास्त्रवचनानि जानामि।

शिव। ज्ञातानि तानि कथ्यन्ताम् श्रोष्यामि

वामा।

“न मांसभक्षणे दोषो न मद्येन च मैथुने।
प्रवृत्तिरेषा भूतानां निवृत्तिन्तु महाफला॥” मनौ ।५।५६।

“काममामरणात्तिष्ठेत् गृहे कन्यर्त्तु मत्यपि।
न चैवैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित्॥”

“नष्टे मृते प्रव्रजिते क्लीवे च पतिते पती।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते॥” पराशरे।४।२६।

त्रीणिवर्षाण्यपेक्षेत कुमार्य्यृत्युमती सती। मनौ।९।९०।

इव्यादीनि मनुपराशरवचनानि शिक्षितानि॥१॥

शिव। (किञ्चिद्विहस्य) वत्स! आद्यन्तमध्यवचनानि तेषां ग्रन्थानां नैव ज्ञातानि?

वामा। नैव ज्ञातानि, परन्तु येभ्योऽधिगतानि तेऽपि वक्तारो धर्म्मप्रचारकाःनैव जानन्ति। तैः केवलं इंरेजिविद्याः पठिताः।

एवं वङ्गभाषयानुवादितानां पुस्तकानां द्वित्राणि पत्राणि उत्प्लुतानि।

शिव। तर्हि कथं ते धर्म्मप्रचारकाः? कथं वा धर्म्मं उपदिशन्ति? आद्यन्तग्रन्थसन्दर्भं उपक्रमोपसंहारं विधिनियमपरिसंख्यादिकं देशकालभेदं अधिकारिभेदादिकञ्चाविदित्वैव व्यवस्थापयन्ति?

वामा। अथ किम्।

शिव। शिवशिव नारायण! ! ! अहो रे गरीयान् कालः समायातः, यदश्रुतमपि श्रावयति श्रदृष्टमपि दर्शयति। वत्स! वामापद! त्वंबुद्धिमानसि, किन्तु शास्त्रंनाज्ञासीः, तत् कथं पुङ्खानुपुङ्खरूपेण बुध्येः धर्म्मतत्त्वम्? वत्स!धर्म्मयुधिष्ठिरयोः संवादस्ते ज्ञातोऽस्ति?।

वासा। नहि, इंरारिविद्यालयपाट्यपुस्तके स नास्ति।

शिव। तच्छ्रुयतां स धर्म्मयुधिष्ठिरसंवादः। तत्र हि सुविचक्षणेनापि धर्म्मतत्त्वस्य दुर्ज्ञेयत्वं प्रतिपादितं युधिष्टिरेण। तथाहि—

दुरक्षान द्यूतो राजा युधिष्ठिरः पराजितश्च प्रतिपालयितुं प्रतिज्ञातं मात्रा कलत्रेण भ्रातृभिश्च गहनं गतवान्। पर्य्यट्यवनं ते निरतिशयं पिपासया ग्लानिमापुः। तत्रानतिदूरे सरसः पानीयमानेतुं प्रथमं सहदेवो गतः। तत्र च तेषां धर्म्मपरीक्षार्थमास्थाय बकरूपं यक्षःतमुवाच। भो जलार्थिन्! मत्कृतानां प्रश्नानां चतुर्णांविधायोत्तरं जलं पिब, स्नाहि नय वा, नोचेत् स्पृशेरपि जलं तदा म्रियेथाः।

तथाहि —महाभारते वनपर्व्वणि ३१२ अध्याये।

“का च वार्त्ता? किमाश्चर्य्यं? कः पन्थाः? कश्च मोदते?।
ममैतांश्चतुरः प्रश्नान् कथयित्वा जलं पिब॥” इति।

तृषार्त्तस्तु सहदेवः तद्ववनमवज्ञाय यावत् जलं पपौ तावत् मम्रेच। एवं नकुलः अर्ज्जुनःभीमश्च तत्र गता मृताश्च।

चरमे तु युधिष्ठिरस्तत्र गत्वा महदत्याहितं दृष्टवान्। तमपि वकरूपो यक्षस्तथैवाप्राक्षीत्। तदाकर्ण्य बुद्धिमान् धार्म्मिकश्च युधिष्ठिरःआह श्रुयतामुत्तरम्।

“मासर्त्तु दर्व्वी परिवर्त्तनेन सूर्य्याग्निना रात्रिदिवेन्धनेन।
अस्मिन् महामोहमये कटाहे भूतानि कालः पचतीति वार्त्ता॥"(१)

“अहन्यहनि भूतानि गच्छन्ति यममन्दिरम्।
शेषाः स्थिरत्वमिच्छन्ति किमाश्चर्य्यमतःपरम्॥” (२)

“वेदा विभिन्नाः स्मृतयो विभिन्ना नासौ सुनिर्यस्य मतं न भिन्नम्।
धर्म्मस्य तत्त्वंनिहितं गुहायां महाजनी येन गतः स पन्थाः॥३॥

“दिवसस्याष्टमे भागे शाकं पचति यो नरः।
अनृणी चाप्रवासी च स वारिचर! मोदते”॥४॥

श्रूत्वैतद्युधिष्ठिरोत्तरम् यक्षस्तुतोष, ते च पुनर्जीविता इति।

हे वत्स! वामापद! श्रुतं युधिष्ठिरवचनात् “धर्म्मस्य तत्त्वं निहितंगुहायामिति” धर्म्मस्य दुर्ज्ञेयत्वम्, तत् कथं त्वया सम्यगवगम्यते धर्म्मतत्त्वम्? मया वा कथ्यते? अतएव बुद्ध्वाअलम्, केवलं पितृपितामहादिभिरनुष्ठितः कर्त्तव्यबोधादनुष्ठीयताम् धर्म्मइति।

मनुनाप्युक्त एव धर्म्मःसमुपदिष्टः। यथा—

“येनास्य पितरो याता येन याताः पितामहाः।
तेन यायात् सतां मार्गं तेन गच्छन्नरिष्यते॥” इति॥४॥१७८॥

वामा।देव। यदि ते मय्यनुकम्पा जाता तदा कियन्तमपि क्लेशमुररीकृत्य अनतिसूक्ष्मतया व्याख्यायतां धर्म्मतत्त्वम्, अहमपि श्रद्धया बोद्धुं यतिष्ये।

अपि च। देव! ज्यैष्ठमासीय संस्कृतचन्द्रिकाभिधायां मासिकपत्रिकायां “धर्म्मावतारणा” इत्येवं नाम प्रबन्धे कीर्त्तिता धर्म्मशक्तिरनिर्व्वनीया श्रुता युज्यते च तथा, परन्तु सा खलु धर्म्मविषयिणी जनश्रुतिः, क्वापि ऋषिप्रणीत पुराणादितः प्रसृता? उत केवलं लौकिकी सा? लौकिकी चेत् न सम्यक् प्रमाण पदमधिरोहेत्।

शिव। सा जनश्रुतिरपि नामूला। “नह्यमूला जनश्रुति”रिति शासनात्। अपि च विष्णुपुराणेऽपि प्राचीनतमे भूयोभूयो गीयते धर्म्मशक्तिरनिर्व्वचनीयेति कुतूहलञ्चेत् निशम्यताम्।

वामा। अनुजानन्तु गुरवस्तच्छ्रवणाय, दयया ब्रुवन्तु।

शिव। श्रूयतां मनः प्रणिधीयताम्। अस्ति विष्णुपुराणे तृतीयांशे १८ दशाध्याये वर्णिता धर्म्मशक्तिः।

एकदा इन्द्रादिदेवाः पराजिताः स्वधर्म्ममाचरद्भिरसुरैः त्याजितयज्ञभागा नितान्तं निर्व्वेदमापन्ना भगवन्तंविष्णुं शरणमीयुः तुष्टुबुश्च प्रणिपात पुरःसरम्।

देव! भगवन् रमापते! त्वदेकशरणार्थिणस्त्रायस्व दैत्येभ्यो नः। देव! ह्रादप्रभृतिभिर्द्दैत्यैःयज्ञभागा त्रैलोक्यञ्च हृतम्। अस्माभिः तपसान्वितैरपि ते रिपवः वेदमार्गानुसारिणः स्ववर्णधर्म्माभिरताश्च हन्तुं न शक्याः। अतस्तानसुरान् हन्तुमस्मभ्यः उपायं दातुमर्हसि। तैरेवमुक्तो भगवान् स्वशरीरतः मुण्डितशिरसं दिगम्बरं मायासोहं नाम पुरुषमुत्पाद्य तेभ्यो ददौ प्राह वेदम्। नीयतामयं मच्छरीरप्रसूतोऽवतारविशेषो मायामोहोऽयम्। अयं खलु मायया सकलानेव दैत्यान् मोहविष्यति, यदा ते वैदिकधर्म्ममार्ग वहिष्कृता भविष्यन्ति तदा ते वध्याश्च। स च गत्वा मायामोहः नर्म्मदातीरसंश्रयान् तपस्याभिरतानसुरान् ददर्श। उवाच च तानसुरानिदं वचः। भो दैत्यपतयः! यदर्थं तपस्तप्यते तद्व्रूत, ऐहिकं पारत्र्यंवा तपसःफलमिच्छथ?।

श्रुत्वा तद्भाषितमेतदसुरा ऊचुः। हे महामते! पारत्र्यफललाभाय तपश्चर्य्येयमस्माभिरारब्धा। अत्र त्वया किं विवक्षितमस्ति?। ततो मायामोहः कथयति—

हे धार्म्मिकाः! यदि मुक्तिमभीप्सथ, तदा मम वाक्यानि शृणुध्वम्। अयमेव धर्म्मो विमुक्तयेऽर्हः अस्मिनेव धर्म्मेस्थिताः”

स्वर्गं विमुक्तिं वा गमिष्यथ, अतएव सर्व्व एव यूयं धर्म्ममेत मर्हत।

तस्माद्यज्ञे पशुघातादि दुष्टधर्म्मैरलम्। एतदशेषं जगत् विज्ञान मयमवगच्छथ।

तथा च तत्रोक्तम्॥३।१८।१६।

“स्वर्गार्थं यदि वो वाच्छा निर्व्वाणार्थं मथासुराः!।
तदलं पशुघातादि दुष्टधर्म्मैर्निबोधत॥१५॥

विज्ञानमयमेवैतदशेषमवगच्छथ।
बुध्यध्वंमे वचः सम्यग्वुधैरेवमुदीरितम्॥”१६॥

“नैतद्युक्तिसहं वाक्यं हिंसा धर्म्माय नेष्यते।
हवींष्यनलदग्धानि फलायेत्यर्भकोदितम्॥२४॥

यज्ञैरनेकैर्द्देवत्वमवाप्येन्द्रेण भुज्यते।
शम्यादि यदि चेत् काष्ठंतद्वरं पत्रभुक् पशुः॥२५॥

निहतस्य पशोर्यज्ञेस्वर्गप्राप्तिर्यदीष्यते।
स्वपिता जजमानेन किन्नु तन्मान्न हन्यते॥२६॥

तृप्तये जायते पुंसोभुक्तमन्येन चेत् ततः।
दद्याच्छ्राद्धंश्रद्धयान्नं न वहेयुः प्रवासिनः॥२७॥

“एवं बुध्यत बुध्यध्वं बुध्यतैवमितीरयन्।
माया मोहः स दैतेयान् धर्म्ममत्याजयन्निजन्॥१८॥

“स्वल्पेनैव हि कालेन मायामोहन तेऽसुराः।
मोहितास्तत्यजुः सर्व्वांत्रयोमार्गाश्रितां कथाम्॥२२॥

“कुरुध्वंमम वाक्यानि यदिमुक्तिमभीप्सथ।
अर्हध्वंधर्म्ममेतञ्च मुक्तिद्वारमसंवृतम्॥५॥

“इत्यनैकान्तवादाञ्च मायामोहेन नैकधा।
तेन दर्शयता दैत्यैःस्वधर्म्मत्याजिता द्विज!॥”१०॥

वत्स! वामापद! “अर्हध्वं” “बुध्यत” इत्येवं मायामोहप्ररोचनावाक्यात्ते धर्म्मं तत्त्यजुः, अतएव ते अमुरा “अर्हन्तः” “बौद्धश्च”

कथ्यन्ते। ततः प्रभृत्येव बौद्धधर्म्म प्रवृत्तिः। किन्तु अधुना अर्व्वाचीनानां इंराजिशिक्षितानां मुखतः श्रूयते “बौद्धधर्म्म आधुनिकः” पञ्चशतवर्षमेव बौद्धधर्म्मप्रवृत्तेः समयः। अत आकाशकुसुमायमानं तेषां तद्वचनं न प्रतिवाद्यम्। बौद्धधर्म्मप्राचीनतायां उपरोक्त विष्णुपुराण वचनान्येव प्रमाणम्। विशेषतः मत्स्यपुराणे २४ अध्यायेऽपि तत्कथा श्रूयते।

एवं त्यक्तधर्म्मबलास्तेऽसुराः शक्रेण विनायासं निहताः। श्रुतानिधर्म्मशक्तौआप्तवचनानि प्रमाणम्। धर्म्मावतारणाप्रसङ्गे निर्गतापि लक्ष्मीर्धर्म्मबलेनाकृष्टा प्रत्यागता। अत्रतु प्रतिष्ठितापि लक्ष्मीः धर्म्मत्यागात् पलायिता इति।

अधुना यथावसरं धर्म्मो व्याख्यायते। त्वया श्रोष्यते। किन्तु सन्ध्यादि नित्यकर्म्माद्यनुष्ठानानुरोधात् युगपत् व्याख्यातुंनैव शक्यते किन्तु क्रमशः।

वामा।वाढ़ं तथैव श्रोष्यामि क्रमशोऽल्पशश्च।

(क्रमशः।)

मकरन्दिका।

प्रथमोच्छासः।

(पूर्व्वप्रकाशितात् परम्।)

<MISSING_FIG href=”../books_images/U-IMG-173060777823.jpg”/>

“प्रिये मकरन्दिके! तव हृदयप्रतिरूपं सरलतामधुरिमामयमनवरतं विसर्पन्तं वदनपयोधरसमुपजातं सुधापटलनिस्यन्दमास्वादयतो मेअरातिम्प्रति यानपिपासा क्रमेण श्लथीभवतीति लक्षये। स्वप्रभाववित्रासितनिखिलशत्रूपरिगतहृदयकन्दर क्षत्रियान्वयप्रभ-

वोऽयं जनः, तत् किमितिःआत्मप्रतापप्रकटनसमये आपतिते समरपराङ्मुखो भीतो भीतो धृतदेशान्तरगमनमानस आत्मानं स्वपदात् पातयामि। अशेषप्राक्तनसुकृतिसमासादितं यावदीय सुरसुन्दरीसमवायावतंसीभूताया भवत्याः सुरेन्द्रोपवनसुदुर्ल्लभं प्रसूनमिव प्रेमदाम किमनार्य्यजनोचितेनाचरणेन शाखामृगकरतलगतां कनकमेखलामिव अवमाननां नयामि। आशैशवं जनकनिर्व्विशेषं परिपालयति मां तावम्महीधरकुलेश्वरो महाराजाधिराजः कुसुमपुरनायकः श्रीमच्छशाङ्कशेखरः, सः अद्यादिशति महीपालः। वत्स! शिखण्डिवाहन! मदीयदुहितृदूषणमभिलाषुको नरपतिकुलापसदः अङ्गपालहतको हन्तव्यः इति अद्यप्रभृति मच्च्छासनात् विहिताभिषेको मदनीकिनीनायकस्त्वंसमरशिरसि समानयन् निर्व्वर्त्तयन् मदशेषप्रियहितं प्रकटयंश्च सर्व्वलोकातीतमात्मप्रभावं विमोहय तावज्जीवलोकमिति। ततो ‘यथाज्ञापयति महाराजः सर्व्वजीवलोकेश्वर’ इत्यभिदधानस्तदादेशं सादरं उत्तमाङ्गे निधाय आगतोऽहं प्रिये त्वदन्तिकं। अधुना विषमजलदपटलपरिवृतां सर्व्वजनहृदयहारिणीं शशाङ्गलेखामिव आननकमलिनीं भवत्याः परमविषादपरिगतामालोक्य विस्मरामि तावत् साम्प्रतिकं करणीयं, कथंसौदामिनो प्रियतमजलधराङ्कमधिशयाना परिप्लवंन गच्छेत्। प्रिये, विधीयतामुत्थानं। अतिसुकुमारं वदनं सन्तापपरमाणवः मालतीकुसुममिव ग्लानिमानयन्ति। दारयति च दारुणः क्रकचपात इव हृदयं संस्तुतजनविरहः। अत्र तु नास्ति कोऽपि शीकावसरः। अचिरेणैव निर्वर्त्तिताराति निधनव्यापारः व्यपनीय कुसुमपुरमहाशैल्यंपुनरागच्छामि त्वदङ्गकमलं। इदं ते त्रिभुवनमङ्गलैककमलं अमङ्गलभूताः कथमिव मुखम् अपवित्रयन्ति अश्रुबिन्दवः। किमिति क्षत्रियजनोचिते कार्य्यावसरे सुतरां हर्षस्थाने अश्रुविप्लवेनामङ्गलमानयसि इत्यभिदधान एव युवा प्रमोद्बेलेनेव गाढ़-

मायतञ्च परिष्वज्य कान्ताङ्गलतां सुवासरमणीयं सुशीतलपानीयंसुचिरविचरितसैकतभूमिभागः अध्वगजन इव दयितामुखसुधाकरविनिर्गतां सुधाधारां चकोर इव दीर्घोपोषितलोचनाभ्यां पपौ। ततः सुचिरं तमभिध्यायन्ती बाला उष्णायतेन श्वासमरुता छिन्नवीणा शोकोच्छासमभिनयन्ती, तुहिननिकरपरिमृदितमृणालिनीव, प्रचण्डमार्त्तण्ड मयूखसन्तप्ता कुमुद्दतीव, समुद्वाष्पमुखी, आसन्नभर्त्तवियोगशिथिलितकरकमला शिशिराश्रुविषादिनी हैमन्तिकनिशीथिनीव, उद्दामकेशपाशपरिवृतेन कपोलदेशेन शैवालानुविद्धसरसिजश्रियं विभ्रती हृदयेशमभिहितवती “आर्य्यपुत्र! मकरन्दिकाबान्धव! स्वकीर्त्तिधवलिताशेषसंसारात् नरपति कुलात् समुत्पन्नेयं त्वदधीनजीविता, विशेषतः रमणीजनसुदुर्ल्लभेन भवदीयप्रेमदाम्नाप्रसाधनीकृतोत्तमाङ्गा सुदूरमारोपितं गुरुताञ्चनीतं आत्मानं कथंअवनीपालेन स्वकरविहिताभिषेकं तावद्धर्म्म विलोपमापादयतः नरहतकस्याङ्गपालस्य शासनाय कृताभियानं भवन्तं गमनवाधामुत्पाद्य लधूकृत्य पातयामि। सुचिरं भवदीय समागमेन कृतार्थोकृतात्मा त्वदाश्रितेयं मकरन्दिका अवैतिच महान् सम्परायो हि क्षत्रियप्रवीरस्य कर्म्मैकभूमिरिति।

किन्तु एतावदेव प्रार्थयते त्वदनुग्रहप्रवर्द्धितप्रगल्भा त्वदेकावलम्बिनी लतैषा त्वदाननसुधाकरचन्द्रिकापानेन जीवन्ती चकोरीव त्वत्पादतललालिता रेणुकणिकेव यदेषरणप्राङ्गने त्वत्समीपं आत्मानं संस्थापयितुं आदिश इति। भीषणे सम्परायेऽपि कायं छायेव भवन्तमनुगन्तुं प्रार्थयते त्वदधीनजीविता। तथा, एषाहि नैसर्गिकीरीतिर्दृश्यत यथा महाभीषणाशनिपातविभीषणेऽपि जलधराङ्कतले विराजते कमलिनीपेलवा सौदामिनी। तथा श्वेतभानुविरहिता ज्योत्स्ना न क्वापि दृश्यते, तथा दीपहीना शिखा नावलोक्यते, विशुष्कपयसि सरोवरे पङ्कजिनी म्रियते। प्रमदा पति-

वर्त्मगतिरितिरीतिः स्वाभाविकी। अतस्त्वदङ्ग समाश्रितेयं व्रतती कथं त्वद्विप्रयोगं सहेत? जीवितवल्लभ! दुरन्तप्रतिभटप्रहरणनिपीड़ितं त्वां तुहिननिकरपरिमृदितान् विटपिनो वसन्तानिलसंस्पर्श इव अनुलेपनादिभिः पुनः प्रकृतिस्थमापादयामि, इति कथयन्ती तन्वी हृदयेशविशालोरसि निहितात्मतनुलता नारायणनाभिसरोजिनीलक्ष्मीश्रियं विम्बितवती। अहो किमिवाभिनवं सर्व्वलोकोत्तरं सर्व्वकरणग्रामविमोहनं, अभूतपूर्व्वं अन्तःसर्व्वरमणोयानां, अवधिः निखिलाह्णदनीयानां, सीमान्तलेखा मनोहराणां परिसमाप्तिः प्रीतिजननानां, अवसानभूमिः दर्शनीयानां दृश्यं समुपजातं। अहो ! किमियं क्षीरनिधिप्रस्फुटिता हेमनलिनी,उत विमलगगनाङ्कविलम्बमाना पूर्णशशाङ्कलेखा, आहोस्वित् मध्यमानपीयूषपारावारगर्भावस्थिता कनककमलिनीसंस्तरविराजिता भगवती सकलसुरासुरमुनिमनुजवृन्दवन्दनीया कमला। अनयोः दम्पत्योर्मेलनापादनेन दया धर्म्मेण प्रीतिः पुण्येन, मन्दाकिनी त्रिदिवेनसंयोजिता विधिना। अहो अनिर्व्वचनीयता धातुर्निर्म्माण कुशलतायाः य एवं विधस्य यावदीयविश्वमण्डलललामभूतस्य नरमिथुनस्य निर्म्मणविधिं निरवर्त्तयत्। नूनमेंतौ दम्पती विश्वसृजा यावदीय सौन्दर्य्यसारसम्भारेण मनसाकल्पितौ अथवा कथं विधिकठोरकरसम्पर्कविमर्द्दनमतिजीवेदियं मृणाजिनीपेसला। अद्य प्रभृति अनयोः समागमनेन चिरवचनीयपरिमुक्तः अशेषप्रशंसास्पदतां गतः प्रजापतिः। धन्या जाह्नवी या सततमनयोरङ्गलतासंस्पर्शसम्पर्केण आत्मवारिपरिकरपावनक्षमा। धन्यश्चार्य्यावर्त्तः य एवम्विधेन सुकविकल्पनातिगेन मानवद्वन्द्वेन समलङ्कृतः आसीत्। धन्याः पुनर्वयं येषाम् अशेषकल्मषकलुषिता लेखनी एतद् दम्पतिचरितवर्णनावतारणेन प्रक्षालितसर्व्वपापं लेखकेभ्योऽपि आत्मपुण्यसम्भवं अवदानप्रस्तारं वितनुते।

(क्रमशः।)

महाप्रभुश्रीगौराङ्गदेवस्य जीवनचरितम्।

(पूर्व्वप्रकाशितात् परम्।)

<MISSING_FIG href=”../books_images/U-IMG-173060653019.jpg”/>

गतानि कियन्ति दिनानि, श्रीवासभवने प्रवर्त्तितमेकान्ते हरिनामकीर्त्तनं, अस्मिन्नेव समये नवद्वीपवासिनो विदेशागताश्च बहव एव चैतन्यधर्म्मदीक्षितारश्चैतन्यमतानुसारिणश्च सञ्जाताः। कदाचित् परिणामदर्शिना चैतन्यचन्द्रेण सर्व्वान् वैष्णवदलानाहूय अनुमोदितमेतत्। वैष्णवाः! प्रवर्त्तितव्यं यथाभिलषितं नामकीर्त्तनं, नवद्वीपस्य प्रतिपत्तनं, प्रतिपयंप्रतिगृहञ्च समभावेनैव अद्यावधि अवाधेन भवतु कीर्त्तनं, किमपरं प्रार्थयन्ति वैष्णवचेतांसि यदेवाभिलषितं तेषां चैतन्येन तदेवानुमोदितं। अचिरेणैव कालेन सर्व्वमेव नवद्वीपपत्तनं नामकीर्त्तनेनाभवत् स्वर्गादपि सुखमयं सर्व्वत्रैव समभावेनाहर्निशं चलति हरिगुणकीर्त्तनं, मृदङ्गनादानुवर्त्तिना आवेशवशेन उत्तालनर्त्तनप्रवृत्तानामुन्मत्तप्रायाणां वैष्णवानां “जयकृष्णचैतन्य” इत्यादि सुमधुरकण्ठरवेण नवद्वीपनगरमुन्मत्तमिवाभवत्। तदानीं नवद्वीपनगरे यवनप्रधानः कश्चिद्धनशाली काजी निवसति। तत्रत्यानां यवनानां सएव प्रभुः, सर्व्वे च यवनास्तन्मतानुसारिणस्तदाज्ञावहाश्च वर्त्तन्ते। अस्ति च तस्य बाल्यत एव धर्म्मभावः। सर्व्वैरेव विदितमस्ति, यद् यावनिकधर्म्मप्रचार एव तस्याभिलषितः, धर्म्मान्तरस्य प्रचारणवाधने शतसहस्र जीवहिंसनं कर्त्तुमपि नासीत् तस्य काचित् कुण्ठिता। अनेकेषामपि धर्म्मप्राणानां जातिः प्राणाश्चानेन दुष्टतमेन समुच्छेदिताः।

चैतन्यदलस्तु प्रवलतरमेव कीर्त्तनमारभत। तेषां कण्ठरबेण मृदङ्गनादेन च वाधितं यवनहृदयं। सर्व्वे यवना मिलिता वैष्णवधर्म्मप्रचारणं यवनहृदयविदारकं निवेदयितुं काजिभवनमागताः

कथितवन्तः। प्रभो ! हतप्राया वयं, यवनधर्म्मोऽपि समुत्सन्नः,वैकीर्त्तनरवेण दारुणमृदङ्गनादेन न पारयामः रात्रावपि निद्रासुखमनुभवितुं। “निमाइ” नामा कश्चिद्ब्राह्मणतनयः, प्रियदर्शनः सर्व्वेषां समादरणीयश्चासीत्। गयातः प्रत्यगमनप्रवृति तस्य महान् चित्तविकारः, लोकविरुद्धंकिमप्पनुतिष्ठति, किं प्रलपति, किम्बा कर्त्तुमुपदिशति। संप्रति क्षिप्तप्रायेण तेनेदमनुमोदितं, तदनुमोदनेनैव सर्व्वेचलन्ति, तेनैवास्माकं दारुणा यातना। चलत्यवाधेकीर्त्तनं अस्माकं नगरवासोऽपि दुष्करो भविष्यति धर्म्मस्तु नश्यति प्रागेव। धर्म्माभिमानिना काजिना धर्म्मान्तरस्य बहुलप्रचारमाकर्णयता सगर्व्वमनुमोदितं गच्छन्तु यूयं, सवलमेव प्रतिगृहं कीर्त्तनवाधनं कर्त्तव्यंनिवेदयितव्यञ्च पामराणां ममानुभोदनं, जातिं धनं प्राणांश्चाभिलषन्ति चेत् निवर्त्तन्तां ते हरिगुणकीर्त्तनात्; अन्यथा काजिना स्वयमेव विधास्यते युस्माकं समुचिता शास्तिरिति। काजिना अनुमोदिता यवना नागरिकाणं गृहं प्रविष्टाः कीर्त्तनवाधनमकुर्व्वत, काजिना स्वयमपि कस्यचित् गृहे उदपादयत कीर्त्तनवाधनं, मृदङ्गादिकं च मग्नं, कांश्चित् नागरिकान् आहूय तीव्रमभिहितवांश्च सः। “अरे पामराः! अद्यास्माभिः कृपया सर्व्व एव यूयं परित्यक्ताः, न पुनरेवं कदाचिदपि कर्त्तव्यं, आज्ञालङ्घने सर्व्वस्वमेव दण्डनीयं जातिश्च युष्माकं खण्डिता भविष्यति।” इत्यादिकमन्यच्च भीतिवचनमभिधाय स्वकीयभवनं प्रतिनिवृत्तः। प्रतिहतं कीर्त्तनं, काजिभयेन सर्व्वेषामेव वैष्णवानामकम्पतहृदयं। प्रातरेव सर्व्वैःमिलिताः प्रभोश्चैतन्यस्य सकाशमागताः सर्व्वं काजिवृत्तान्तमाभूलतो निवेदितवन्तः। काजी प्रतिकूलतामाचरिष्यतीति श्रवणेन च जायते सर्व्वेषामेव भीत्तिसंचारःकाजिविरोधे प्रवलतरा अपि भूमिपतयो भीता भवन्ति। अहो! चित्रमेतत्, समुपस्थिते तस्मिन् भयहेतौ चैतन्यचन्द्रस्य भयलेशोऽपि नावलोक्यत। तेन तु किमपि चिन्तयित्वा निर्भयमेवा-

भिहितं। “वैष्णवाः! अकिञ्चित्करमेतत् का भीतिः” सायाह्ने प्रतिगृहमेव पूर्व्ववत् कीर्त्तनं ववर्त्तयितव्यं युष्माभिः। क्रियतामिदं सर्व्वमेव सज्जितम्।

(क्रमशः।)

___________

तत्त्वप्रपञ्चः।

(पूर्व्वप्रकाशितात् परम्।)

<MISSING_FIG href=”../books_images/U-IMG-173038232714.jpg"/>

अथ पुनरियमाशङ्का समुदेति। सर्व्वान्येव कर्म्माणि बुद्धिधर्म्मः सुखदुःखादिकमपि बुद्धिधर्म्मःइति प्राक् पुनः पुनः प्रतिपादितं साधितञ्च, अतो यस्या एव बुद्धेःदुःखादिकं धर्म्मोऽस्ति तया सह दुःखादीनां योगोऽप्यस्ति सुतरां तस्या एव बुद्धेःदुःखयोगरूपबन्धोऽपि कल्पयितुं युक्तः न तु पुरुषस्य। न खलु रामे ज्वरिते श्यामः शिरःशूलेन पीड्यते, अतः किमर्थं पुरुषस्यापि कल्प्यते बन्ध इति। सत्यं नाहमेवं ब्रवीमि केवलं पुरुषस्यैव दुःखयोगरूपो बन्ध इति, किन्तु द्वयोरेव चित्तपुरुषयोः दुःखयोगरूपो बन्ध इति ब्रवीमि। अन्यथा यदि दुःखयोगरूपो बन्धः केवलं चित्तस्यैव स्यात् तदा जगति विचित्रभोगानामुपपत्तिर्न स्यात्। कथमिति? पुरुषस्य सुखदुःखयोगं विनापि सुखदुःखसाक्षात्कार एव भोग इत्येवं स्वीकारे नियमाभावात् सर्व्वदा सर्व्व एव सुखिनः सर्व्व एव दुःखिनः स्युः, किन्तु दृश्यते केचित् सुखिनःकेचिद्दुःखिन इति। न चानादौ संसारे केनापि सुखहेतुकर्म्मदुःखहेतु कर्म्मवा न कृतम्, अतो भोग वैचित्रोपपत्तये भोगनियामकतया दुःखादियोगरूपो बन्धः पुरुषेऽपि स्वीकार्य्यः। अन्यधर्म्मेणान्यत्र कार्य्यजनने सर्व्वैदुःखिनः सुखिनो वा

स्युः। परन्तु एतावानत्र विशेषःबुद्धौ सुखदुःखादियोगरूपो बन्धः समवाय सम्बन्धेन, पुरुषे तु बुद्धिवृत्तिप्रतिबिम्बरूपः संयोगसम्बन्धेन। यद्वाभोग्यतारूपत्वसम्बन्धी धनादीनामिव इति प्रागेव प्रतिपादितम्। प्रतिबिम्बश्च स्वस्वोपाधिबुद्धिवृत्तेरेव घटते इति न सर्व्वपुंसा सर्व्वदुःखयोगः सर्व्वसुखयोगो वा इत्यभिप्रायः। एतदेव सूत्रकारोऽप्याह—

“विचिच्रभोगानुपपत्तिरन्यधर्म्मत्वे॥१॥१७॥” इति।

यत्तु बुद्धेरेव बन्धमोक्षौन पुरुषस्येति श्रुतिस्मृतिषु गीयते तथाहि सांख्यकारिका॥६०॥

“तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति कश्चित्।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः॥६२॥
इति।

तद्बिम्बरूपदुःखयोगरूपं पारमार्थिकं बन्धमेवाङ्गीकृत्य बोध्यम्। पुरुषे तु प्रतिबिम्बरूपोऽपारमार्थिको बन्ध इति।

अथ अन्यधर्म्मेण अन्यत्र कार्य्यजनने प्रकृतिरेव नियामिका भविष्यति, अतो यं पुरुषं प्रति सा प्रवर्त्तते तस्यैव बन्धो भविष्यति नान्यस्य पुरुषस्य इति नोक्त दोषः। सत्यम् प्रकृतिरेव पुरुषभोगनियमिका, किन्तु सा खलु सर्व्वव्यापिनी, पुरुषा अपि सर्व्वव्यापकाः अतस्तस्याः पुंभिः सदा सम्बन्धात् सदा बन्धापत्त्या च अन्ततः संयोगविशेष परतन्त्रैव प्रकृतिः तत्तत् संयोगविशेषमनुसृत्य पुमांसं बध्नाति इति कल्पनीयम्, न तु स्वतन्त्रा। अतः प्रकृति निबन्धनोऽपि पुरुषस्य बन्ध इति वक्तुं,न युज्यते। एतदेव सूत्रकारोऽप्याह—

“प्रकृतिनिबन्धना चेत्तस्या अपि पारतन्त्र्याम्॥१।१८॥ इति।

अत इदमेव सिद्धान्तितम् जन्मनामकः स्वस्वबुद्धिभावापन्नप्रकृतेः संयोगविशेषरूपो य उपाधिः स एव पुरुषस्य बन्ध इति। धूमसंयोगात् काचमालिन्यवत्। प्रकृतियोगं विनातु पुरुषस्य बन्धो नास्त्येवएतदेव सूत्रकारोप्याह—

“न नित्यशुद्धबुद्धमुक्तस्वभावस्य तद्योगस्तद्योगादृते।१॥१९॥ इति।

तथा प्रकृतिसंयोगनिवृत्तिरेव साक्षात् त्रिविधदुःख निवृत्युपायः तथाच स्मृतिः।

“यथा ज्वलद्गहाश्लिष्ट गृहं विच्छिद्य रच्यते।
तथा सदोषप्रकृतिविच्छिन्नोऽयं न शोचति॥"—

स्वभाव शुद्धस्यापि पुंसः स्फटिकस्य जवायोगाद्रक्तिमवत् प्रकृतिसंयोगोपाधिंविना दुःखयोगो नैव सम्भवति यदाह सौरपुराणे।

“यथाहि केवलो रक्तः स्फटिको लक्ष्यते जनैः
रञ्चकाद्युपधानेन तद्वत् परमपुरुषः॥”

पुरुषस्तु नित्यशुद्धसकलकाले पापपुण्यशून्यः। नित्यबुद्धः सकलकालेऽविलुप्त चिद्रपः। नित्यमुक्तः सकलकाले पारमार्थिक दुःखायुक्तः। तस्य नित्यशुद्धत्वादौ च श्रुतिः।

“अयमात्मा सन्मात्रोनित्यः शुद्धोबुद्धः सत्यो मुक्तो निरञ्जनो विभुरिति॥”

सांख्यकारिका च।

“तस्मात्ततसंयोगादचेतनं चेतनावदिव लिङ्गम्।
गुणकर्त्तृत्वेच तथा कर्त्तेव भवत्युदासीनः॥२०॥

पातञ्चलेऽप्युक्तम्।

“द्रष्ट दृष्ययोः संयोगो हेयहेतुः॥” २॥१७॥

गीतायामपि।

“पुरुषःप्रकृतिस्थो हि भुङ्क्तेप्रकृतिजान् गुणान्॥”

श्रुतावपि।

“आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्न्मनीषिणः।”

अथाधुना पुनरप्यन्यादृशी आशङ्का समुत्थाप्यते, ननु पूर्व्वमुक्तं तस्यासङ्गत्वात् अवस्थातोऽपि बन्धो नास्तीति, अधुना पुनर्व्वन्धानरोधात् बुद्धिरूपेण परिणतायाः प्रकृतेः संयोगेऽङ्गीक्रियमाणे कथं तस्यासङ्गित्वं कथं वा अपरिणामित्वञ्च समुपपद्यते? सत्यं नहि संयोगमात्रं सङ्गः किन्तु येन संयोगेन परिणामः स्यात् स एव

संयोगः सङ्गशब्दार्थःइत्येवं वक्तव्यत्वात्। एवंविधे संगे न परिणामः सम्भभति, किन्तु सामान्यगुणातिरिक्तो यो धर्म्मविशेषः तस्यैवोत्पत्त्या परिणामव्यवहारात्, अन्यथा सामान्यगुणयोगादपि यदि परिणामःस्वीक्रियेत, तदा कूटस्थस्य तस्य सर्व्वगतत्वापरिहार्य्यत्वात् परिणामापत्तेः विभुत्वानुपपत्तेश्च।

पुनरप्यन्यविधाशङ्का! ननु नित्ययोः पुंप्रकृत्तोः महदादिहेतुरनित्यः संयोगः कथमुपपद्यते। सत्यं त्रिविधगुणवती प्रकृतिः पुनः द्विविधा, यथाहि परिच्छिन्नत्रिविधगुणवती, अपरिच्छिन्नत्रिविधगुणवती च, एवञ्चेत् परिच्छिन्नत्रिगुणवत्याः प्रकृतेः पुरुषेण संयोगोऽपि परिच्छिन्न इति अनित्यः संयोगो महदादिहेतुरिति। एवं अपरिच्छिन्नत्रिगुणवत्याः प्रकृतेः पुरुषेणसंयोगःसामान्यास्योऽपरिच्छिन्नोनित्य इति तदैवासौ कूटस्थो विभुरिति कथ्यते। तस्मात् संयोगविशेष एवात्रबन्धाख्यदुःखहेतुरिति सूत्रकाराभिप्रेत इति सर्व्वमनवद्यम्।

(क्रमशः।)

_________

मद्रराजविभागस्य—

विश्वविद्यालय प्रश्नोत्तरादर्शाः!

(पूर्व्वप्रकाशितात् परम्।)

<MISSING_FIG href=”../books_images/U-IMG-17303849389.jpg”/>

  • VI. Question.*

(a) Give the nominative of मित्र (friend) and दार(wife); nominative plural of andद्यु and **अहन्;**the accusative plural of पथिन् and सखि; the genitive singular of भूपतिand महा + राजन् and the vocative singular of उशनम्

(b) (1) what part of the verb is each of the following; 1. अन्वयुः 2. रक्षेथाः 3. प्रशाधि 4. आह

(2) Give the third person singular perfect **(लिट्)**of स्तु (to praise) सू (to bring forth); the first person singular aorist (लुङ्) of सृज् and दृश्; the first personplural second future (लृट्) of त्यज् and (to go); the first person singular imperfect (लङ्) of रुध्(to obstruct) and the third person singular imperfect of दुह्

(c) Combine the following according to the rules of Sandhi.

  1. अवसन् + तत्र, 2. एषः+ रामः, 3. हृत् + शक्ति, 4. अगमत् + लाभं, 5. वसन् + चक्री, 6. हरी + एतौI
  • Answer.*
(a) मित्रशब्दस्य प्रथमायाः एकवचने द्विवचने बहुवचने
एकक्रिय वाचकस्य मित्रं मित्रे मित्राणि
दार शब्दस्य दाराः
नित्यबहुवचनान्तस्य
द्यु शब्दस्य द्यवः
अहन् अहानि
पथिन् द्वितीयायाः पथः
सखि सखीन्
भूपति षष्ठ्याः भूपतेः
महाराज महाराजस्य
उशनस् सम्बोधने उशन, उशनन्, उशनः

(b) (1) *

  1. अत्र या धातुः अदादि गणीयः परस्मैपदी च।

  2. रक्ष धातुः भ्वादिगणीयः परस्मैपदी च, अत्र तु आत्मनेपद प्रयोगः। स च चिन्त्यः।

  3. अत्र शास् धातुः अदादिगणीयः परस्मैपदी च।

  4. ब्रूधातुः अदादिगणीयः उभयपदी च, अत्र तु परस्मैपदीय प्रयोगः।

(2) स्तु धातोः र्लिटि प्रथमपुरुषैकवचने तुष्टाव, तुष्टवे
सू " सुषुवे
सृज् " लुङि उत्तम अस्राक्षिषम्, असृषि
दृश् " अद्राक्षिषम्, अदर्शम्
त्यज् " लृटि उत्तमपुरुषबहुवचने त्यक्ष्यामः
इ " एष्यामः
रुध् " लङि प्रथमपुरुषैकवचने अरुणत् अरुब्ध
दुह " " अधोक्, अदुग्ध

(c) 1. अबसंस्तत्र इत्येव स्यात्, नोऽप्रशामश्छते इति वोपदेवः।

  1. एष राम हस्येतत्तदोनञकः सेर्लोप " "

  2. हृच्छक्तिः स्तुश्चुभिः श्च्वशात् " "

  3. अगमल्लाभं लेलस्तोः " "

  4. वसंश्चक्री नोऽप्रशामश्छते " "

  5. अत्र सन्धिः न स्यात् “हरी” इत्यस्य द्विवचनत्वात्। वह्वेमीय्वेइति वोपदेवः।

श्रीशानशरण चक्रवर्त्तिनः।

_____________________________________________________

* प्रश्नस्यास्य प्रागुक्त आकारःरेभारेण्ड के, एम्, वाणुर्जी नाम कलिकाता विश्वविद्यालयस्य भूतपूर्व्वेण साहित्यपरीक्षकेण किल प्रथमतः प्रवर्तितः। तन्मते Verb इति शब्द समस्त क्रिया समूहस्य वाचकः, स च गणभेदाद्दशधा पदभेदाद्द्विधा च भिन्नः। अतएव क्रियायाःकीयमंश इत्यर्थकस्य प्रश्नस्यास्य उल्लिखितरूपमेवोत्तरं भवितव्यम्।

_______________________________________________

श्रीश्रीदुर्गा

शरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-173038672019.jpg”/>
श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्ती जनानिव।
मायावलम्ब्यते सेयमम्बाश्रीशिवसुन्दरी॥

_________

मासावतरणिका।

निरन्तरं नीरधरा हि नीरवं गिरन्ति नीरं तरुराजिमूर्द्धनि।
चिरं परं तद्विरहं सुदुर्ज्जरं प्रदातुमेवातिसुखं व्यथान्तकम्॥

___________

श्रीलक्ष्मीः श्रीसरस्वती।

“लक्ष्मीस्त्वंसर्वभूतानां वरदासि हरिप्रिये !I
या गतिस्त्वत्प्रपन्नानां सा मे भवतु सर्वदा॥८५॥”

“जय जय देवि ! चराचरसारे ! कुचयुगशोभितमुक्ताहारे !।
वीणारञ्जित पुस्तकहस्ते ! भगवति ! भारति ! देवि ! नमस्ते॥८६॥”

“आलस्यं स्थिरतामुपैति भजते चाञ्चल्यमुद्योगिता
मूकत्वं मृदुभाषितां वितनुते वाचालता वक्तृताम् ।

कार्य्याकार्य्यविचारमूढधिषणा गच्छन्त्युदारात्मताम्
मातर्लक्ष्मि ! तवैव दृष्टिवशतो दोषा गुणाः स्युर्नृणाम्॥८७॥”

“अपूर्व्वको हि भाण्डारो दृश्यते तव भारति !।
अव्यये च व्ययं याति व्यये याति च विस्तरम्॥८८॥”

<MISSING_FIG href=”../books_images/U-IMG-173038801020.jpg”/>

[TABLE]

भगवान् श्रीनारायणःत्रिलोकीं पालयति। स खलु श्रीगोलोकनाथः यद्यपि सर्व्वशक्तिमान् तथापि तस्य पालनीशक्तिदेव प्रसिद्धा, तथैव शक्त्या जगन्ति त्रीणि परिपालयति। सा च शक्तिः द्विविधा धनशक्तिर्ज्ञानशक्तिश्च।

धनशक्तिरेव श्रीः लक्ष्मीः कमला पद्मा हरिप्रिया इत्यादि नाम्ना समाम्नायते। ज्ञानशक्तिस्तु गीःवाक् वाणी सरस्वती इत्यादि नाम्ना भाष्यते।

श्रीलक्ष्मीस्तु हिरण्यरजतादिषु धातुषु मणिरत्नभूमिकपर्द्दकादिषु धान्यगोधूमादिषु शस्येषु जड़वस्तुषु वणिक्कृषकादिषु च जड़ज्ञानेषु अधिष्ठात्री देवीवर्त्तते। इति धनमञ्जूषां धान्यगुच्छञ्च सा दधाति, एवं चञ्चला च सा न कुत्रापि चिरायैकत्र स्थिरतां भजते। न वा ब्राह्मणोऽयं जातिश्रेष्ठ इति तमनुगृह्णाति। चाण्डालोऽयं निकृष्ट इति तं न स्पृशति, किमधिकं सगुणं निर्गुणं वा पुरुषं नैव लक्ष्मीर्व्विचारयति।

श्रीसरस्वतीतु भगवती नारायणगेहिणी ज्ञानमयो ज्ञानशक्तिः केवलं ज्ञानिषु तिष्ठति। इयं ज्ञानशक्तिरपि द्विविधा, शिल्पविद्या शास्त्रविद्या च, शिल्पविद्याः कलानामकचतुःषष्टीप्रकारा गीतनृत्यवादित्रादिरूपाः। शास्त्रविद्याः चतुर्व्वेदशिखाकल्पादिरूपा अष्टादशविधाः चतुर्दशविधा वा। (१) शिल्पविद्यासु वीणायन्त्रमेव गरीयः श्रुतिमधुरं मनः प्रीणनं मोक्षसाधनञ्च (२) शास्त्रविद्यासु

_________________________________________________

(१) अङ्गानि वेदाश्चत्त्वारो मीमांसान्याय विस्तरः।
पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्द्दश॥
आयुर्वेद धनुर्वेदो गान्धर्व्वश्चैव ते त्रयः।
अर्थशास्त्रं चतुर्थन्तु विद्या ह्यष्टादशैव ताः॥ इति विष्णुपुराणे।३।६।२८-३९।

( २ ) “वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः।
बालज्ञप्रयासेन मोक्षमार्गं नियच्छति॥” याज्ञवल्क्यसंहिता प्रायश्चित्ते॥११५॥

_____________________________________________

पुस्तकमेव प्रधानं साधनं लेखनी च तत् सहकारिणी इति सरस्वती वीणांपुस्तकं लेखनीञ्च गृह्णाति। गुणिषु ज्ञानिऋषिषु पण्डितेषु च सरस्वती वासमङ्गीकरोति नियतम्। पण्डिताश्च सरस्वती पुत्रा इति प्रसिद्धम्।

वर्णानां पीत एव वर्णो नयनमनोहरः स्वाधिष्ठित कनकसमान इति हिरन्मयवपुषः श्रीविष्णोः शक्तित्वाच्च श्रीलक्ष्मीः समाश्रयति विष्णोरङ्गकान्तिं गलत्कनकप्रभामिति।

वर्णानां शुक्ल एव वर्णानन्यानुपकरोति जगत्प्रकाशयति व्याकरणादिसंस्कारेण सुसंस्कृतं परिशुद्धं निर्द्दुष्टं विशदमेव वाक्यं सा अधितिष्ठति इति सरस्वती वाङ्मयी शुक्ला।

लक्ष्मीस्त्रिजगत्सु परमा सुन्दरीति रूपपक्षपातित्वात् सुन्दरं शोभमानमेव समाश्रयति वस्तु इति विशालं कमनीयं विष्णोर्वक्षः स्थलं, पद्मं, शङ्खं, चक्रं, चन्द्रं, वस्त्रादिकञ्चाधिवसति।

सरस्वतीतु वचनव्यापारः जिह्वाया एव कार्य्यः इति विष्णोर्वदनवासिनी।

लक्ष्मीस्तु गृहकर्म्मादिकं सेवाञ्चामायया विधत्ते विष्णोः इति विष्णुप्रिया। अधुना तादृशी योषिदपि लोकैरुच्यते लक्ष्मीरिति।

या हि सततं ज्ञानमेवानुदिनमनुशीलयति प्रियञ्च मन्यते, समुद्भावने शिल्पादीनां सततं ध्यानं वितनोति, तस्या गृहादिविषयकृत्येषु मनो न रमते नावसरञ्च लभते, सुतरां सरस्वत्यपि लक्ष्मीवत् सेवां विधातुं विष्णोर्न शक्नोति इति विष्णुस्तां मनाक्प्रियतां दर्शयन् मुखे वासयति। (३)

__________________________________________________

(३) अधुनापि तथैवोपलभ्यते इंराजराजरीत्या या नारी शिक्षति लेखनं पठनं रोमतन्तुवापनादिकञ्च शिल्पं, सा गृहकृत्यं पतिसेवाञ्च न स्मरत्यपि। अतएव मन्ये प्राचीनाभिः स्त्रीभिः नीतिं विना केवलं स्त्रीनां पठनादिकं निषिद्धम्।

_____________________________________________

लक्ष्मीस्तु विष्णुपत्नी अनन्यमनसा विदधाति गृहकृत्यं पाकादिकम्, इति गाम्भीर्य्यंमौनञ्च समाश्रयति। एवं यं पुरुषं समनुगृह्णाति तमपि वचने अपटुं सौभाग्यलक्षणं मौनस्वभावच्च विदधाति।

सरस्वती तु वीणादिवादने नर्त्तनादौ वेदादिगाने च उदारा मुदारा तारा, उदात्तःअनुदात्तः समाहारः इत्यादिभिः शब्दैः सदा रमते इति सा स्वयं मुखरा, एवं वागधिष्ठात्री वर्णमयी मातृका सरस्वतीयं कञ्चित् पुरुषमनुगृह्णाति तमपि गीतं गापयति शास्त्राणि वाचयति प्रचारयति अध्यापयति इति तं पुरुषमपि मुखरयति।

जगत्पालने विष्णुः द्वेएव शक्ती अपेक्षते, द्वाभ्यामेव शक्तिभ्यां विष्णुना जगत्पाल्यते। न पुनरेकया शक्त्या विना अन्यया जगद्रक्षणं शक्यं स्यात्। तथाहि विचार्य्यतां तावत् मनसि—

ज्ञातं मया अनाहारेण शीर्णकायानां दीनान्धखञ्जानां क्षुधा दुःखं, किन्तु नास्ति मे गृहे तण्डुलमुष्टिरपि, सुतरां तयाज्ञानशक्त्या नैव सम्भवेत् जगदुपकारः। अतो धनशक्तिरावश्यकीया।

एवं सन्ति खाद्यद्रव्याणि विविधानि मम गेहे किन्तु क्षुत्क्षामाणां बुभुक्षां दुःखञ्च बोद्धुंनास्ति मे ज्ञानशक्तिः, तदा सत्स्वपि खाद्येषु नार्त्तपालनं स्यात् इति ज्ञानशक्तिरपेक्षणीया।

यो हि धनशक्तिमादरति स ज्ञानशक्त्यै न प्रभवति यथा वणिक् कृषकश्च। यश्च ज्ञानशक्त्यै यतते स घनीभवितुंनैव शक्नोति यथा ऋषयः पण्डिताः शिल्पिनश्च। किन्तु तया कथञ्चिज्जीवन्ति।

इति धनज्ञानशक्त्योर्विरुद्धत्वात् एकपतिकत्वाच्च लक्ष्मीसरस्वत्योः सपत्नीभावः साहजिकः।

(क्रमशः।)

___________

ताम्बूलम्।

<MISSING_FIG href=”../books_images/U-IMG-173044206421.jpg"/>

चतुर्थवीटिका।

लौकिकीं नीतिमाश्रित्य बाल्येवाचनिकश्रुतेः।
स्मृत्युक्तां शिक्षितां नीतिं वक्ष्येशृणुत भक्तितः॥१॥

प्रत्येकात्मतया साध्वी रुग्ने रुग्ना च भर्त्तरि।
प्रीते प्रीता क्रुधि त्रस्ता आदर्शे वा भवज्जने॥२॥

शिक्षाभेदेन गुरवः सेव्यभेदात्तथेश्वराः।
बहवः स्युर्गुरुःस्त्रीणामेकस्तु पतिरीश्वरः॥३॥

व्रतं देवार्च्चनं शौचं सत्यं लोकानुरञ्जनम्।
पतिसेवाविहीनाया यत्नतस्तुषपेषणम्॥४॥

भर्त्तरुच्छिष्टभोक्तीया पतिपादाम्बुपायिनी।
पतिं सुष्वापयति च तस्या बिभ्यति यामिकाः॥५॥

दुष्टभार्य्या विषं वह्निः शस्त्रमस्त्रं तथा फणी।
परप्रयुक्ता घ्नन्त्येव स्वामिनं न स्मरत्यपि॥६॥

सा स्त्री श्रीर्या प्रियं वक्तीस पुत्रो धार्म्मिकः सुधीः।
तन्मित्रं स्वयमुद्युक्तः स देशोऽक्लिष्टवृत्तिकः॥७॥

कृच्छ्रेण तपसा पुंभिः लभ्यते वा न लभ्यते।
नेतुं पतिव्रतां व्यग्रः प्रत्युद्व्रजति वासवः॥८॥

पतिर्नारायणो देवः गतिः पुण्यंव्रतं तथा।
तस्मात् सर्व्वं परित्यज्य पतिमेकं भजेत् सती॥९॥

पुत्रसूःपाकनिपुणा पूता चैव पतिव्रता।
पेशला पञ्चपैर्नारीभूमावाप्नोति गौरवम्॥१०॥

बाला वा युवतीवापि वृद्धा वा कुलकामिनी।
स्वातन्त्र्यंनावलम्बेत कुलद्वयहितैषिणी॥११॥

पितुः पत्युश्च सूनोश्च वाल्ययौवनवार्द्धके।
वशे तिष्ठेत् सदा नारीकुलद्वयहितैषिणी॥१२॥

पित्राभर्त्रासुतैर्व्वापि वियुक्ता शुचिमत्यपि।
प्रवसेन्न दिनादूर्द्धं कुलद्वयहितैषिणी॥१३॥

सदा प्रसन्नहृदया गृहकृत्ये पटीयसीI
सुसंस्कृतोपकरणा स्यादमुक्तकरा व्यये॥१४॥

निर्गुणो वा कुरूपो वा दुःशीलो वा भवेत्पतिः।
सततं देववत्सेव्यः स्त्रिया साधुचरित्त्रया॥१५॥

गृहकृत्येऽन्नपक्त्याञ्च व्यासक्ता सततं भवेत्।
चिन्तयन्तो वृथा नारी क्षणा द्विक्रियते यतः॥१६॥

असत्या सह संलापः अटनं दृश्यदृष्टये।
असद्गीतिश्रुतिश्चैव त्रयं विकुरुते स्त्रियम्॥१७॥

वस्त्रान्नभूषणैर्यादृक् सन्तोषो नोपपद्यते।
प्रेम्ना कोमलवाक्यैश्च सन्तोषोऽभून्महान् स्त्रियाः॥१८॥

देवपित्रतिथीनाञ्च सम्यगर्च्चन मेकया।
अनुष्ठातुं न पुरुषैः शक्यते भार्य्यया विना॥१९॥

अर्ज्जितञ्च धनं पुंभिः वानीतञ्च स्वकं गृहम्।
विनश्यति विना भार्य्यां कुमार्य्यासंश्रितञ्च वा॥२०॥

सततं देहसंस्कारं समाजोत्सवदर्शनम्।
हावभावगतिं नारी विलासित्वञ्च वर्ज्जयेत्॥२१॥

सा भार्य्या या गृहे दक्षा सा भार्य्या या मृदुस्वरा।
सा भार्य्याया पतिप्रीता मूका च कलहे सदा॥२२॥

अप्राज्ञा गृहकृत्येषु प्राज्ञा कलहभोजने।
उत्तरोत्तरवादा या यमदूतीप्रतिष्ठिता॥२३॥

पुण्यद्वारार्गला नारी स्वर्गमार्गकपाटिका।
नाटिका नवभावानां मायानां वज्रपेटिका॥२४॥

पूर्णपुत्रैर्धनैः रूपैः सम्पद्भिर्यौवनैश्च या।
वञ्चिताचेत्पतिप्रेम्ना विफलं विभृयाद्वपुः॥२५॥

मुखदुष्टा योनिदुष्टा रूपगर्व्वेणया पतिम्।
दृष्टि विष्णुसमं तस्याः कुम्भीपाके गतिर्ध्रुवा॥२६॥

पत्यौ प्रसुप्ते सुप्ता च प्रबुद्धातिप्रगे सती।
गेहं मृजन्तीलिम्पन्तीसगोमयमृदम्बुभिः॥२७॥

गृहकृत्यं विनिष्पाद्य सुस्नाता विभृयाच्छुचि।
वस्त्रंदेवं द्विजं नत्वा प्रजयेद्गृहदेवताम्॥२८॥

(क्रमशः।)

_________

अदूरदर्शिता।

<MISSING_FIG href="../books_images/U-IMG-173044824711.jpg"/>

“सहसा विदधीत न क्रियामविवेकः परमापदाम्पदम्।”

अस्ति कस्मिंश्चित् प्रदेशे काचित् महतीनगरी। तदन्तर्गते कस्मिंश्चित् गर्त्ते बर्व्वरको नाम भेकराजः प्रतिवसति स्म। बहुदिनावधि मेघे अवृष्टे तस्य ज्ञातयो मण्डूका जलं विना जीवनहीना इव आसन्। आत्मभाग्यं तिरस्कुर्व्वतां निरन्तरं सुदीर्घं रुदताञ्च तेषामार्त्तनादमाकर्ण्य विषादितो बर्व्वरक उक्तवान् अहो ! जीवति मयि बर्व्वरके मदधीनाः परिजना आयुषि विद्यमानेऽपि जलेन विना मृतप्राया भवन्ति। इह गर्त्तेजलं गतप्रायं दृश्यते, मेघो न च वर्षिष्यतीति मन्ये। इतः पूर्वस्मिन् वर्षे मेघे विपुलं वर्षति इमे मे बान्धवाः कतिकति तनयान् सुषुविरे। साम्प्रतन्तु दूरे आस्तां तावत् तनयप्रसूतिः, आत्मानमपि रक्षितुं न पारयन्ति।किं बहुना, क्रमेण वंशहीना इव वयं भवामः। असह्या सर्व्वथा मयेयं वेदना। न च शक्नोमि ज्ञातिदुःखं सोढुम्, किं

करोमि? क्व गच्छामि? का गतिः? हा हतभाग्य! काथमस्मादृशानां मण्डूकानां विनाशार्थं त्वां ससर्ज्ज विधाता। हा हतविधे! मादृशान् साधुशीलान् क्षुद्रजीविनो नाशयित्वा अपि नाम सुखी भवसि? उत स्वदयालुतामियतीं प्रचारयसि जगति? भगवन् देवराज! आदिशतु भवान् कृपया मेघम्, इहापि गर्त्तेजलं वर्षितुमिति। अपि भवान् तत्रापि बद्धमुष्टिरसि? पाषण्ड! साम्प्रतमनुभव आश्रितानामपालनजं फलमिति भूयो भूय उक्त्वा, नाहमिन्द्रं तृणं मन्ये विगृह्य तं पराजित्य इन्द्रत्वंलभमानः यथेष्टवर्षेण ज्ञातीनां दुःखमपहरिष्यामि। कः सहते हदृशमनुचितं परपीड़नं सति शक्तिसमूहे। मया प्रतिज्ञातम्।

“शृणु कान्ते ! च मद्वाक्यं जलं नास्ति महीतले।
ज्ञातिदुःखंन पश्यामि हनिष्यामि पुरन्दरम्॥”

अथ तस्य अविवेकिनो वर्व्वरस्य स्वविनाशकारणं तद्वचः श्रुत्वा तत्कान्ता मण्डूकीब्रूते अये नाथ! इन्द्रेण योद्धुंभवतो महती वर्त्तते शक्तिः। भवति रणभूमिं गते को नाम समरः! भवन्नामश्रवणमात्रेणैव जीवितुकामो देवराजः पलायिष्यते। किन्तु—

“वीर! कान्त! जहि क्रोधं किन्ते शक्रोऽस्ति युद्धवान्।
दिवा चेद्भक्षयेत् काको रात्रौ च पवनाशनः॥”

अतोवयं सर्वे समस्वरेण देवराजमुपतिष्ठामहे। तत एव भक्तवत्सलो भगवान् पुरन्दरः परदुःखकातरः सन् अस्माकं दुःखमिदं निराकरिष्यति, अतो ममैवमनुरोधं प्रतिपालयस्व।

अथ तद्वाक्यं अनुचितमिवमन्यमानः कोपज्वलितं स तां भर्त्सयन्नाह हा अल्पमतिके! क्षीणजीविते! किमिदं कथयसि, मा मनसि कुरु मां कापुरुषम्। का शक्तिः काकानां सर्पाणाञ्च मां भक्षयितुम्। विशेषतो मेघे अवृष्टे, तेषामपि महती क्लेशपरम्परा

वर्त्तते। दिवाकरस्य प्रखरकरेण उत्तप्तदेहः पिपासाकुलितो वायसो भुजङ्गश्च जलं पातुं न शक्नोति न वा रजसि तपनतप्ते दिवा चरितुमपि पारयति। वरं तेऽपि इन्द्रेण सह योद्धुकामा मम सहायका भविष्यन्ति। अलम् अमङ्गलशङ्ख्या। एवं सरलां स्वभार्य्यां प्रबोध्य आसन्नमृत्युना यथा औषधं न पीयते न श्रूयते च सुहृद्वचः, केवलं मृत्योरनुकूलमनुष्ठीयते तथा प्रियाया हितकरमपि स्वजीवनहेतुमपितत् निषेधवाक्यम् अविगणय्य स मण्डूकः कदाचित् इन्द्रं पराजेतुं गतः। किन्तु अनुगच्छन्तं कृतान्तमिव द्वितीयं सर्पं न दृष्टवान्। सर्पं भक्षितुमना एको मयूरश्च अनुससारः, न च अनुष्ठितशरसन्धानमनुगामिनं किरातमेकं स ज्ञातवान्। नरमांसलोलुपः कश्चित् व्याधोऽपि तं हन्तुं पश्चात् पश्चात् जगाम।

ततो यावत् मण्डूकः पश्चात् पश्यति तावद्दृष्टवान् यमकिङ्करमिव भक्षितुमागच्छन्तं भीषणं सर्पमेकम्। दृष्ट्वा च अवहेलितं प्रियावचः सास्मर्य्यमानःनिर्बुद्धिताया एतदेव फलं जिज्ञायमानः आसन्नमृत्युं निश्चेचीयमानश्च भीत भीत इव चकित चकित इव, विपदिधैर्य्यमेव श्रेयः परामृशन् उक्तवान् सखे! अपि स्वागतं ते? अकृतवर्षणत्वात् धरावासिनामस्माकं परमवैरिण इन्द्रस्य वधाय आगच्छ मम सहायको भव इति वदन् स तेन सर्पण खादितः। ततः अर्द्धगिलितभेकं तं मयूरो जघाम। मयूरश्च व्याधेनानुविद्धः। तञ्च व्याधं मांसाशीशार्दूलो व्यापादयामास। सहसा आक्रमणेन झाङ्कारितेन व्याधहस्तगतेन धनुषा विद्धःस शार्दूलश्च समार।

अहो विषयवासनापरिणामः। एते हि केवलं परविनाशमनुतिष्ठन्तः सुखेन हन्तुं परस्परं गताः केऽपि तावत् पश्यन्ति नात्मक्षयम्।

सुविविच्य कृते कार्य्येदैवायत्तं फलं भवेत्।
आत्मनाशःक्रियाधीनो न भवेत् न भवेत् कदा॥

श्रीद्वारिकानाथ शर्म्माकाव्यतीर्थः,
प्रधान पण्डित मालखानगर
ई-स्कुल ढाका

__________

धर्म्मविवेकः।

(पूर्व्वप्रकाशितात् परम्।)

<MISSING_FIG href="../books_images/U-IMG-173045921922.jpg"/>

शिव वत्स! वामापद! श्रुतं स्वधर्म्मस्य यावद्बलम्। तत्रापि चेन्नाति तृप्यस्वतदा धर्म्मबलविषये मुनीनां मतमाकर्णय। तदपि महामहोपाध्यायेन हेमाद्रिणा स्वकृते चतुर्वर्गचिन्तामणौव्रतखण्डे प्रथमाध्याये सङ्कलितम्।

वामा। गुरो! पण्डितः स हेमाद्रिः कदा जातवान्? प्राचीनोऽसौ अर्व्वाचीनो वा?

शिव। (सहास्यम्) नासौ प्राचीनतमः न वा अतितरामार्व्वाचीनश्च। परन्तु यदा देवगिरिप्रदेशे यदुवंशीयश्चक्रवर्ती राजाधिराजः श्रीश्रीमहादेवो भारतराज्यमशासत् तदा तस्य राज्ञः स हेमाद्रिः प्राङ्विवाकयदमध्यासीनः। व्याससमःपण्डितो वोपदेवश्च तस्यैव राज्ञः सभासदासीत्। एतस्मादनुमिनुमःहेमाद्रिः प्रायः किञ्चिदधिकैकादशशकाब्दे समजनिष्ट। एतेन षट्शतवत्सरादूर्द्धंतस्य स्थितिकालः। विशेषतः श्रीकमलाकरभट्टःनिर्णयसिन्धौ हेमाद्रिवाक्यमपि प्रमाणीकृतम्। वत्स! वामापद! यथा तथास्तु हेमाद्रिः किन्तु तस्यापाण्डित्येऽमानुषे नास्तिकोऽपि विकल्पलेसोऽपि। तस्यालौकिकपाण्डित्ये व्रतखण्ड दानखण्ड कालखण्ड

श्राद्धखण्ड परिशेषखण्डसमाख्यैःअतीवस्थूलतरग्रन्थैःसाश्वर्य्यं प्रदास्यते साक्ष्यम्। तत्सन्देहेनालम्। परं किञ्चित् पृच्छ्यते— कथेयं कथमुत्थाप्यते “प्राचीनोऽसौ अर्व्वाचीनो वा” इति ?।

वामा। गुरो! क्षम्यतामविनयः आधुनिकास्तु नार्हन्ति भक्तिं पण्डिताः अतो न तेषां निबन्धोऽपि भवति श्रद्धेयः।

शिव। अथ किम्। श्रूयते इदानीम् असत्यपि ज्ञाने केवलं वृत्तये पण्डितवेशं विदधत्यनेके अनन्यगतिकाः। येऽपि विद्वांसस्तेषां केचित् धनलोभेन शास्त्रार्थमपार्थयन्ति, कृत्वा चासत्कर्म्म पुनरपलपन्ति ते खलु कापुरुषाः सत्यमेवाश्रद्धेयाः।

वामा। गुरो! धर्म्मशक्तिविषये वक्तुमुपक्रान्तं मुनिजनमतमन्तरा मया हेमाद्रिजन्मकालं जिज्ञासुना प्रतिबद्धमधुना पुनर्वक्तुमनुजानीहि।

शिव। श्रूयतां धर्म्मबलम्। यथा चतुर्व्वर्गचिन्तामणौ व्रतखण्डे। १ माध्याये।भगवती श्रुतिः।

“धर्म्मो विश्वस्यजगतः प्रतिष्ठा लोके धर्म्मिष्ठः प्रजा उपसर्पन्ति धर्म्मेण पापमपनुदति धर्म्मे सर्व्वं प्रतिहितम् तस्माद्धर्म्मेपरं वदन्तीति।”

चतुर्वर्गचिन्तामणौ भारते।

“विद्यावित्तंवपुः सौर्य्यंकुले जन्म विरोगिता।
संसारोच्छित्तिहेतुश्चधर्म्मादेव प्रकीर्त्तितः।
शब्दस्पर्शे च रूपे च रसे गन्धे च भारत।
प्रभुत्वं लभते जन्तुर्धर्म्मादितत् फलं विदुः॥”
तथा-

अर्थसिद्धिं परामिच्छन् धर्म्ममेवादितश्चरेत्।
न हि धर्म्मद्विनैश्वर्य्यं स्वर्गलोकादि वामृतम्॥

धर्म्मंचिन्तयमानोऽपि यदि प्राणैर्विमुच्यते।
ततः स्वर्गमवाप्नीति धर्म्मास्यैतत् फलं विदुः॥

यथा धर्मेण ते सत्या येऽर्मेण धिगस्तुतान्।
धर्म्मं हि शाश्रते लोके न जाह्यद्धतकाङ्क्षया॥

ऊर्द्धं बाहुर्विरौत्येष न च कश्चिद्दृणोति मे।
धर्म्मादर्थश्च कामश्च स किमर्थं न सेव्यते॥

उत्सवादुत्सवं यान्ति स्वर्गात् स्वर्गंसुखात् सुखम्।
श्रद्दधानश्च शान्ताश्च धनाढ्याः शुभकारिणः॥

धर्म्मः प्रज्ञां वर्द्धयति क्रियमाणःपुनःपुनः।
वृद्धप्रजास्ततो नित्यं पुण्यमारभते नरः॥”

“बाल एव चरेद्धर्म्ममनित्यं जीवितं यतः।
फलानामिव पक्वानां शश्वत् पतनतो भयम्॥

न कामान्न च संरम्भान्नोद्वेगाद्धर्म्ममुत्सृजेत्।
धर्म्म एव परे लोक इह चैवाश्रयः सताम्।

इदञ्च तं त्वामपरं ब्रवीमि पुण्यप्रदं तात! महाविशिष्टम्।
न जातु कामान्नभयान्न लोभात् धर्म्मंजगज्जीवितस्यापि हेतुः॥”

“एकस्मिन्नप्यतिक्रान्ते दिवसे धर्म्मवर्जिते।
दस्युभिर्भुषितस्येव युक्तमाक्रन्दितुश्चिरम्॥

अजरामरवत् प्राज्ञी विद्यामर्थञ्च चिन्तयेत्।
गृहीत इव केशेषु मृत्युनाधर्म्ममाचरेत्॥

यस्य त्रिवर्गशून्यस्य दिनान्यायान्ति यान्ति च।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति॥

तस्मात् सर्व्वात्मनाधर्म्मंनित्यमेव समाचरेत्।
मा धर्म्मविमुखःप्रेत्य तमस्यन्धेपतिष्यति॥

नावसीदति चेद्धर्म्मःकपालेनापि जीविता।
आढ्योऽस्मीत्येवमन्तव्यं धर्मवित्ता हि साधवः॥”

धर्म्मशक्तिविषये चतुर्वर्गचिन्तामणिधृत कूर्म्मपुराणम्॥ व्रं॥१॥

“धर्म्मात् सञ्जायते ह्यर्थोधर्म्मात् कामोऽभिजायते।
धर्म्मदेव परं ब्रह्म तस्माद्धर्मं समाश्रयेत्॥”

धर्म्मशक्तिविषये चतुर्वर्गचिन्तामणौ वेदव्यासमतम्॥ व्रं॥१॥

“कामार्थी लिप्समानस्तु धर्म्ममेवादितश्चरेत्।
न हि धर्म्मादृतेकिञ्चित् दुष्प्रापमिति मे मतिः॥

निपानमिव मण्डूका रसपूर्णमिवाण्डजाः।
शुभकर्म्माणमायान्ति विवशाः सर्व्वसम्पदः॥”

धर्म्मशक्तिविषये चतुर्वर्गचिन्तामणौ स्कन्दपुराणमतम्॥ व्रं॥१॥

“धर्म्मााद्राज्यधनं सौख्यमधर्म्माद्दुःखसम्भवः।
तस्माद्धर्म्मंसुखर्थाय कुर्य्यात् पापञ्च वर्जयेत्॥

लोकद्वयेऽपि यत् सौख्यं तद्धर्म्मात् प्राप्यते यतः।
धर्म्ममेक मतः कुर्य्यात् सर्व्वं कामार्थसिद्धये॥

“धर्म्मात् मुखञ्च ज्ञानञ्च यस्मादुभयमाप्नुयात्।
तस्मात् सर्व्वंपरित्यज्य विद्वान् धर्म्मं समाचरेत्॥”

(क्रमशः।)

___________

आर्य्यापुरावृत्तस्य कश्चनोच्छासः।

नालन्दा विद्यायतनम्।

<MISSING_FIG href=”../books_images/U-IMG-173037079917.jpg”/>

अतीता खृष्टीया षष्टशताब्दी। आगता च सप्तमी अशेषोत्सव पुरःसरा विपुलसम्पत् परिगता च। अस्मिन्नेव काले आर्य्यधान्याः नालोकितः कुत्रापि वर्त्तमानसदृशो मलिनो वेशः, न च मर्म्मोच्छेदन शोकोच्छासः निराशाप्रणोदितार्त्तनादः संहारभीषणमूर्त्त्यामहामार्य्याः करालच्छाया वा। आसीत् सदैव प्रफुल्ला स्वाधीनता गरीयसीधनसम्पन्महिमभिः परमश्लाघास्पदा भगवती श्रीमत्यार्य्यमाता। गता च पूर्णतामार्य्यकीर्त्तिर्विततसर्व्वदिक्चक्रबाला। आर्य्यज्ञान विकाशेन सहैव गतमतुल्यदर्शनशास्त्रंलोकेषु विरचितिम्। विकसितानि ललितकवितालतिकाया मकरन्द विलसितानि कुसुमानि। विततञ्च सर्व्वत्र ज्योतिर्गणितचिकित्साप्रमुखानामशेषार्य्यशास्त्राणां सौरभम्। किं बहुना निमिलार्य्यकुलधुरन्धरस्य

नरपतेःहर्षवर्द्धनशीलादित्यस्य महिम्ना शासनस्य सर्व्वैव आर्य्यभूमिरशेष सम्पत्समन्विता समुपजाता। महाराष्ट्रकेशरिणः पुलकेशस्य लोकोत्तरशौर्य्यप्रकटनस्य प्रभावेन परममौज्ज्वल्यमापादितमार्य्यवीर्य्यम्। तथाहि—नालन्दायाः अभिनवभारतीसपर्य्या आर्य्य-महिमानमाशासु सर्व्वासु परिव्याप्तिं निनाय।

आसीदिदं नालन्दाक्षेत्रं वर्त्तमानगयाया नातिदूरमवस्थितं, बोधिसत्त्वपादान्तेवासिनां परमं पवित्रं तीर्थम्। पुरा तत्र किञ्चनरसालकाननमतिरमणीयमासीत्, यदेव केनापि धनाढ्येन वणिक्सूनुना बोधिसत्त्वाय निमेदितम्। तत्रैवातिक्रान्तानि बहूनि दिनानि बुद्धेनेति श्रूयते। गच्छता कालेन कियता प्रतिष्ठितातत्र काचन विद्यार्थिमठिका।क्रमेण च कालान्तरवर्त्तिनां परमधर्म्मनिष्ठानां बौद्धभूपतीनां अनुकम्पया विद्यायतनमेतत् विस्तृतिमारोपितं औन्नत्यञ्च नीतम्। ततः राजर्षेः विदग्धमण्डलपक्षपातिनः शीलादित्यस्य अधिकारसमये भारतीविहारप्राङ्गनमेतत् सर्व्वेषु बौद्धविद्यागारेषु प्राधान्यमवाप। अष्टादशसु बौद्धसाम्प्रदायकेषु दशसहस्रश्रमणाः अत्र स्थितिमासाद्य तावद्धर्म्मशास्त्रन्यायदर्शनविज्ञानगणितादीनां सर्व्वेषां शास्त्रानां अनुशीलनरता आसन्। महीपालप्रसादेन अचिरेणैव विद्यामन्दिरोऽयं अतिमहता तुहिनाचलशिखरमालाविड़म्बिना सुधाधवलितेन प्राकारमण्डलेन परिगतः, अतिदृढ़कपाटसंपुटः, उद्घाटितैकद्वारप्रवेशः, सुरपतिप्रासाद इवद्वितीयः समानीतः। संगृहीताश्च स्वल्पेनापि कालेन नानादिगलङ्कारभूताः बहवःविद्याश्चर्य्याः। तत्र षट्सु चतुस्तलप्रासादेषु विद्यार्थिनो वसति मापुः। स्वतन्त्रविषयानां उपदेशार्थं केन्द्रदेशेषु बहूनि प्रकोष्ठानि सज्ज्वीभूतानि आसन्। नरपालस्य शीलादित्यस्य दानशीलतया तत्रस्थानां अध्यापकाध्ययनार्थिनां तावत् परिधेयाहारौषधानि प्रतिदिनमेव निर्व्वर्त्तितानि। अतिदवियस्तया

तस्य प्रदेशस्य न तत्र प्रवेशक्षभः जनकलकलो राजपुरात्। नापि तत्र सांसारिकानि प्रलोभनानि गमनक्षमाणि विद्यर्थिपरिषत्सु। किन्तु तत्रस्था अध्ययनार्थिनः केवलं आचार्य्यकुलपुत्रप्रायपरिजनपरिवारा अपनीताशेष पुरजनकलकलाःअनन्यमनसः अखिलविद्योपदेशकुशलेभ्यः आचार्य्येभ्यः यथा स्वमात्मकौशलं प्रकटयद्भ्यः पात्रवशादुपजातोत्साहेभ्यः अहद्दिर्वं यथान्यायं शास्त्रोपदेशं गृहीतवन्तः। नायं मन्दिरःकेवलं बाह्यसौन्दर्य्याणां एकमेवास्पदं, किञ्च अन्तरसौन्दर्य्येण च ततोऽधिकां ख्यातिमवाप। अत्रस्था आचार्य्याःशास्त्रकुशलतया अभिज्ञतया च सर्वत्र विश्रुताः, विद्यार्थिनश्च शास्त्रानुशीलनेन तच्चिन्तया च परां प्रतिपत्तिं लेभिरे। अस्मत् कथिते तु समये वङ्गादिगौरवास्पदं सोमतटराजनन्दनः सर्वशास्त्राचार्य्यधर्म्मपालपादान्तेवासी आर्य्यः श्रीशीलभद्रः अत्रवस्थाध्यक्षस्य पदमलङ्कृतवान्। नासीत् कापि विद्या आर्य्याणां यामार्य्यः शीलभद्रोनाधिगतवानिति जनविश्रुतिः। (१) किन्तु एतावदेवावेदनीयं यदसौ स्वकीयज्ञानमहिम्ना तरुणे वयसि वर्त्तमानः नानादेशागतानां विविधशास्त्रविशारदानां भारतीनन्दनानां शास्त्रालोचनया पराभवमानीय तस्य शिष्यत्वेन च परिगृह्य नालन्दायाः प्रधानाचार्य्यस्य आसनोपवेशनक्षमोऽभूत्। अतः परं किमधिकतरमाश्चार्य्यास्पदं यदसौ आत्मजीवनेन निखिलं शास्त्रोपदेशजातं प्रकटितम्।

अथ चीनप्रदेशागतःपरमविश्रुतः परिव्राजकः हि ओ येन्यसङ्गः (Houen Tsang) अस्मिन्नेव समये बोधिसत्त्वस्य आद्यविहारभूमिं भारतं वर्षमागतः। परमविधानज्ञस्यास्यागमनवार्त्तां निशम्य वैदेशिकपण्डितसंलापकुतूहलपरवशः आचार्य्यचूड़ामणिः शीलभद्रः

__________________________________________________

(१) कोऽयं पुनःपरमविधानज्ञः शीलभद्रः को दिल्भागो वा जन्मनानेनालङ्कृत इति प्रबन्धेनेतरेण प्रकटीभवितव्यम्।

___________________________________________

तदा मन्त्रनार्थं कञ्चन आचार्य्यंवज्रासनं (mod. बुद्धगया) प्रस्थापितवान्। स च वैदेशिकोऽतिथिः विनयावनतः नालन्दामुपस्थितः।

अथ तस्य मन्दिरप्रवेशसमये अति महानेव उत्सवो बभूव। अशेष शास्त्रविशारदा बहवः श्रमणाः परमश्रद्धास्पदाय तस्मै अतिथि पुङ्गवाय स्वागतं व्याहृतवन्तः। पृष्ठतस्तेषां अपरिसंख्येया परिव्राजकाः केचन छत्रपाणयः केचन वा जय जीवेति मधुरवचसामङ्गलप्रायमनवरतं पठन्तः, केचन गीताक्षरशतेन अतिथिगुणान् गायन्तः केचन वा पताकाचीनांशकेषु अतिथिगुणावलिं विलिख्य तदुड्डयनपराः तस्यैव परमां शोभामानीन्युः। अनेन विधिना परिगृहीतो महात्माहिओयेन्थसङ्गः(Houen Tsang) आर्य्यस्य शीलभद्रस्य समीपं नीतः। ततः आचार्य्यवेदिकासमासीनं द्वितीयमिव देवं हिरण्यगर्भं मूर्त्तिमन्तमिव भगवन्तं धर्म्मं वर्षीयांसं तं पुरुषमालोक्य भक्तिगद्गदवचनः चितितलनिहितजानुचरणकमलःविनयनम्त्रस्तं प्रणनाम।नानाशास्त्रपारं गतयोरनयोः परस्परसमागमेन उभौ परं ननन्दतुः। ततः कथाप्रसङ्गेन नालन्दाचार्य्यस्य अपरिमेयपाण्डित्यमवगत्य चीनः पण्डितः तमेव आचार्य्यत्वेन स्वीकृत्य कस्मिंश्चित् शोभने दिवसे अन्तेवासीबभूव। शालायाः कस्मिंश्चित् परमरमणीये गृहप्रदेशे तस्यावासी निरूपितः नियोजिताश्च दशानुचरास्तस्य शुश्रूषायै। नरपतिःशीलादित्यस्तस्य प्रात्यहिकं प्रयोजनीयं ददौ। एवं समादृतः वैदेशिकोऽतिथिः अध्ययनेन तत्र पञ्च वर्षाणि वसति स्म। इयतैव कालेन महाप्रज्ञस्य गुरोः पादमूलात् सर्व्वं पाणिनीयं व्याकरणं तथा लिपिठकं तावद् वैदिकशास्त्रञ्च अधीतवान्। मणिदर्पण इव अतिनिर्म्मले तस्मिन् सञ्चक्राम अचिरेणैव सकलः कलाकलापः। तथाहि पदे, वाक्येप्रमाणे, धर्म्मशास्त्रे अपरेषु च अशेषशास्त्रेषु परं कौशल

मवाप। एवं तस्य सर्वविद्यापरिचयमाचरतश्चीनपरिव्राजकस्य त्रिभुवनविलोभनीयोऽमृतरस इव अम्बुनिधेः कुसुमप्रसर इव कल्पपादपस्य, सकलजीवलोकहृदयानन्दजननश्चन्द्रोदय इव प्रदोषस्य संस्कृतशास्त्रपरिचयः अशेषगुणां रमणीयतां पुपोष।

ततः विदिताशेषशास्त्रार्थः परमविद्यानिधिः परिव्राजकधुरन्धरः स्वदेशगमनाय गुरवे निवेदितवान्। तदाकर्ण्य गुरुरुवाच “वत्स ! पूर्णो नो मनोरथाः। अधीतानि शास्त्राणि। शिक्षिताः सकलाः कलाः, गतोऽसि सर्वासु विद्यासु परां प्रतिष्ठाम्। अनुमतोऽसि विनिर्गमनाय विद्यालयात् सर्वाचार्य्यैः। अतएव स्वगृहगमनेन वर्द्धयाधुना त्वद्दर्शनोत्सुकानां आत्मीयानां आनन्दवितानमिति। एवं गुरुपादमूलात् स स्वावासं प्रतस्थे।

अहो गताति दिनान्येतानि यदा सर्वदेशपूजितैः अशेषविधानज्ञैः अस्मद्देशीया आचार्य्याःपूजिता आसन्। योऽयं भारतो वर्षः निखिलतत्त्वनिधिरिति अशेषदेशीयैः विदग्धमण्डलैः परिपूजितः परमपूज्या व्यासजैमिनिकपिलप्रमुखाः यस्य तत्त्वज्ञसूनवः शङ्करशीलभद्रादिकाः यस्य शास्त्रज्ञाःतनयाः प्रादुर्भूताः सोऽयमधुना नियतिवशं गतः ज्ञानानुशीलनार्थं स्वसन्तानं देशान्तरं प्रेषयति। अहो ! नियतेः परिक्रमणम्।

“कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा।
नीचैर्गच्छत्युपरिच दशा चक्रनेमिक्रमेण॥’’

श्रीउपेन्द्रनाथ सेन रायः।

____________

कथा सरित्सागरे सुभाषितानि।

<MISSING_FIG href=”../books_images/U-IMG-173036407516.jpg”/>

१६ ज्ञानमार्गे ह्यहङ्कारः परिधोदुरतिक्रमः।
ज्ञानं विना च नास्त्येव मोक्षो व्रतशतैरपि॥

Self-conceit is the one insurmountable barrier in the acquirement of true spiritual knowledge; and, without that there is no salvation, notwithstanding our observing a hundred vows.

१७ स्वर्गस्तु न मुमुक्षाणां क्षयीचित्तं विलोभयेत्।
तस्मादहं कृतित्यागाज्ज्ञाने यत्नं मुने! कुरु॥

** **The seekers of salvation are never tempted by the pleasures of heaven which are perishable after all. You should, therefore give-up your self-conceit and try your best to obtain spiritual knowledge.

१८ धीर्न चित्रीयते कस्मादभित्तौ चित्रकर्मणा?

** **Who is not swoprised at the sight of a painting which has no support whatever?

१९विभवैः किं नु मूर्खस्य काष्ठस्याभरणैरिव?

** **Like ornaments to a wooden image, wealth & prosperity are quite useless to one who does not know how to use them.

२० दिवा नैषां प्रभावोऽस्ति धस्तानामर्कतेजसा।
यक्षरक्षः पिशाचानां तेन हष्यत्यमी निशि॥
न पूज्यन्ते सुरा यत्र न च विप्रा यथोचितम्।
भुज्यतेऽविधिना वाऽपि तत्रैते प्रभवन्ति च॥
अमांसमक्षः साध्वीवा यत्र तत्र न यान्त्यमी।
शुचीञ्छूरान् प्रबुद्धांश्च नाक्रामन्ति कदाचनम्॥

Overpowered with the light of the sun, the Jakshás; Rákshashás & Pishácha’s can not make their appearance in the day, and, therfore, they delight themselves in the night. They are very common in those places where the gods are not worshipped, the Brahmans are not honoured, and the meals are taken without the obeservance of due ceremonies. Where there is a vegetarian and a chaste woman, they do not go. They do not also cross the path of the pious (pure). the brave & the learned.

२१ स्त्रीणां चञ्चलाञ्चित्तवृत्तयः।

** **The mental tendencies of women are very fickle.

पुरोहितः श्रीगोपीनाथ शर्मा।

जयपुर।

_________

प्रश्नोत्तरादर्शाः।

<MISSING_FIG href="../books_images/U-IMG-173036494617.jpg"/>

कलिकाता विश्वविद्यालयस्य प्रवेशिकाप्रश्नाः।

खृष्टीयाब्दाः१८९४।

(वर्षेऽस्मिन् संस्कृतभाषापरीक्षकैःनवानां छात्राणामर्थे विद्यासागरकृतादृजुपाठात् अप्रथमारम्भानाञ्च कृते न्यायरत्नसङ्कलित प्रवेशिकातःएवं द्विविधा प्रश्नमाला विरचिता। तयोस्तु प्रवेशिकायाः आगामि वर्षेऽपि पाठ्यत्वात् तद्ग्रन्थावलम्बिन एव प्रश्नाःसोत्तरा अत्र निविष्टाः।)

  1. Question.

(a) अथासौ गृहमध्ये तान् प्रवेश्य द्वारं निभृतं पिधायलगुड़हारैः शिरस्यताड़यत्।

(d) नूनमनेन दुरात्मना दारको मे भक्षित इति विचिन्त्य कोपात्तस्योपरि जलकुम्भं चिक्षेप।

(c) भो निषिद्धस्त्वं मयानेकशः। नाशृणोर्मेवाक्यम्।

(b) भो यदि ममेस्पितं प्रयच्छसि तद्देहि मे द्वितीयं बाहुयुगलं शिरश्च।

(a) ततस्तेषु चिरायमाणेषु राजा वानरमाह भो यूथाधिप! किमिति चिरयति मे परिजनः।

(1) Translate the above extracts into English.

(2) Expound the samása in लगुड़प्रहारैः, दुरात्मना, जलकुम्भं, बाहुयुगलं and यूथाधिप।

(3) Give the rule of sandli between निषिद्धःand त्वम्।

(4) In what case is शिरसिin extract (a)

( 5 ) In what case is शिरःin extract (d)

(6) By whom were the words in extract (e) spoken and on what occasion.

I. Answer.

(I) (a) Then that man having made them enter the house and having closed the doors, struck blews with the cudgel on their heads.

(b) “Surely by this wicked (animal), my child has been devoured"; thinking this she threw the pitcher of water on it out of anger.

(c) O ! many a time were you by me forbidden; (but) did not listen to my words.

(d) O ! if you will give me my wished for object, then give me a second pair of hands and (a second) head.

(e) Then, on their delaying, the king asked the monkey"O leader of the troop, why are the members of my family making delay.”

_____________________________________________________

प्रश्नमिमं नितरामसंलग्नं मन्यामहे वयम्। (c) इत्यत्र(e) इति मुद्राकरप्रमादः सुष्पष्टं एव प्रतिभाति। किन्तु परीक्षार्थिनः प्रत्ययमस्माकं परामर्शः यत् प्रदतेषु प्रश्नेषुसर्व्वधैव अनुत्तीर्य्येष्वेव ते कथञ्चित् परिवर्त्तितव्याः न कदाप्यन्यथेति।

__________________________________________________

(2) लगुड़ेन ये प्रहारास्ते लगुड़प्रहारास्तैः लगुड़प्रहारैः कृता कर्त्तृकरणयोरिति तृतीयातत्पुरुषसमासः।

दुर्दष्टःआत्मा यस्य स दुरात्मा तेन दुरात्मना बहुव्रीहिः।

जलस्य कुम्भः जलकुम्भ स्तं षष्ठीसमासः।

वाह्वोः युगलं बाहुयुगलं तत् बाहुयुगलं षष्ठीतत्पुरुषः।

यूथस्य अधिपः यूथाधिपः तत्सम्बोधने यूथाधिप। षष्ठीतत्पुरुषसमासः।

(3) वेः सोऽशसन्ते छते इति वोपदेव सूत्रात् “निषिद्धः" “त्वम्” च अनयोः सन्धिः स्यात्।

(4) शिरसीत्यत्र अवच्छेदाधिकरणे ७मी विभक्तिः।

(5) शिरः इति देहीत्यस्य कर्म्म।

(6) सर्वे हि नराःलोभपरवशाः, अतएव लौल्यादिमां शोचनीयदशां प्राप्तवतः कस्ते दोष इति स्वमित्रं चक्रधरं प्रति प्रबोधवचनानि कथाच्छलेनोपदिशता सुवर्णसिद्धिनोक्तस्य चन्द्रभूपतेराख्यानस्यान्तर्गतान्येतानि वाक्यानि (extract (e))।

(क्रमशः।)

__________

समस्यापूरणम्।

<MISSING_FIG href="../books_images/U-IMG-173036619618.jpg"/>

प्रचण्डवह्नौमणिसुप्रभावं दिदृक्षुभिश्चन्द्रमणौ विसृष्टे।
तदैव तेजःप्रतिबन्धशान्ते “पिपीलिका नृत्यति वह्निकुण्डे"॥
होमेसमाप्ते विधिवत् कृशानौ निर्वापिते भस्मनि भार्जिते च।
लिप्तेऽक्षताकीर्णसमलभागे “पिपीलिका नृत्यति वह्निकुण्डे”॥१॥

श्रीवुलाकिराम शास्त्रि विद्यानिधिः।

एम्, ए, ओ, स्कुल।

अमृतसर, पञ्जाव।

__________

चतुर्थ्यां सिंहगे सूर्य्ये गौरी चन्द्रार्द्धशेखरौ।
“द्व्यहमब्देमिथो वक्तं पश्यतो नैव दम्पती॥”

समीक्ष्य शङ्करो रणात्समागतं स वाहनम्
षड़ाननं सुरारिनाशकं स्वकं सुतं यदा।
चुचुम्ब तन्मुखं मुदा स नीलकण्ठकण्ठत
“स्तदा मयूरमस्तके ननर्त्त पन्नगेश्वरः॥”

त्रिशूलिनो रोषवशाद्विनष्टे दक्षक्रतौ शीतलतां गतेऽग्नौ।
हविःसमाखादितुमुद्यता तत् “पिपीलिका नृत्यति वह्निकुण्डे॥”

रात्रिन्दिवं सुखं दुःखंग्रहाणां गमनन्तथा।
दम्पत्योर्म्मित्रताक्रोश “श्चक्रवत्परिवर्तते॥”

श्रीरोहिणिकान्त विद्याभूषणः
ढाका, विक्रमपुर, कुरापाड़ा।

समस्तलोकभीतिदं सुरेन्द्रकच्छ्रदायकं
मुरारिनाथतारकंस्मृतिं मयूरवाहने।
नयत्यहीन्द्रभूषणो मुदा लिलिङ्ग नन्दनं
“तदा मयूरमस्तके ननर्त्त पन्नगेश्वरः॥”

दामरचिन वेङ्कटरायः। विशाखपत्तन, पालतेरु।

यदोत्तरं प्रयुज्यते सुनिश्चितं बुधेन किम्?
शिखा समुज्वला क्व किं चकार रङ्गगो नटः?।
दधाति कः स्वमस्तके महाभरां वसुन्धराम्?
“तदा मयूरमस्तके ननर्त्त पन्नगेश्वरः”॥

अनारतं का मधुराभिलाषा? लयाश्रितःकिं कुरुते नटश्च?।
जुहोति सन्ध्यासु हविः क्वहोता? “पिपीलिका नृत्यति वह्निकुण्डे॥”

उच्चानधस्ताद्विदधदवचांश्च समुन्नतौ।
अरा इव जनान् कालश्चक्रवत् परिवर्त्तते॥

वक्षःपीठे वीक्ष्य कान्ताजनस्य पीनोरोजश्छद्मनेशं वसन्तम्।
पाटीरात्मा तं परिष्कर्त्तुकामी मन्ये यातं “कल्कतां कुण्डलीशः॥”

कोल्हापुरवासी,
राशिवडे़करः श्रीअप्पाशास्त्री।

मुखचन्द्रं मन्यमानौ चतुर्थ्यां नाम नाभसे।
“द्व्यहमब्दे मिथो वक्तं पश्यतो नैव दम्पती॥”

कुर्वन्ति केऽसाध्यमिहैकतायाः कुर्वीत किं साधुसमागमात् सन्।
तप्तेत कुत्र प्रथमं तपस्वी “पिपीलिका नृत्यति वह्निकुण्डे ॥”

जननान्मरणं यातं मरणाज्जननं पुनः।
दशेयंजौविनां लोके “चक्रवत् परिवर्त्तते॥”

श्रीद्वारिकानाथ विद्यालङ्कारः।
ढाका, मालथानगर हाइ स्कुल।

__________

मिथ्याभिशस्तिसन्त्रस्तौ चन्द्रमण्डलशङ्कया।
“द्व्यहमब्दे मिथो वक्तं पश्यतो नैव दम्पती॥”

का वेत्ति गुप्तस्य गुड़स्य भाण्डं मेघोदये किं कुरुते मयूरः ।
परीक्षिता कुत्र विदेहकन्या “पिपीलिका, नृत्यति वह्निकुण्डे॥”

यदा जितासुरं गुहं विषस्वजे शिवो द्रुतम्।
“तदा मयूत्रमस्तके ननर्त्त पन्नगेश्वरः॥”

यदि प्रभाकरः क्वचित् प्रभां निनां समत्यजत्।
“तदा मयूरमस्तके ननर्त्त पन्नगेश्वरः॥”

श्रीश्यामाचरण कविरत्नः।
निउ इण्डियान् स्कुल—कलिकाता।

चन्द्रावतंसी गौरीशौचतुर्थ्योर्भाद्रमासि तत्
“द्व्यहमब्दे मिथो वक्तं पश्यतो नैव दम्पती॥१॥”

निम्ने नम्रं कर्कशं कूर्म्मपृष्ठमूर्द्धे क्षौणिः पीड़िता ग्रावयन्त्रम् ।
मध्ये यातो निर्गलन्मां सरक्तः चण्डीयुद्धे “कल्कतां कुण्डलीशः॥२॥”

पतिष्यन्तं रणे शुम्भं सर्व्वाङ्गनयनैरलम् ।
दिदृक्षुः प्रमदाच्छक “श्चक्रवत् परिवर्त्तते॥३॥”

सीतां सतीं नौमि पुनः पुनस्तां माहात्म्यमस्या वचसामगम्यम् ।
यदङ्गसंसकलवङ्गपुष्पे “पिपीलिकानृत्यति वह्निकुण्डे॥४॥”

कश्चिद्भट्टाचार्य्यः।

___________

श्रीश्रीदुर्गा
शरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-1730178887Screenshot2024-10-29104421.png”/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्ती जनानिव।
मायावलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी॥

<MISSING_FIG href=”../books_images/U-IMG-1730178887Screenshot2024-10-29104421.png”/>

मासावतरणिका।

कदापि विश्लिष्टघनान्तरीक्ष्यते
कचिद्घनैः संयवनैः पिधीयते।
विधुर्नभस्ये नभसि प्रतीयते
यथेति प्रावृट् शरदा नियुध्यते॥

<MISSING_FIG href=”../books_images/U-IMG-1730178887Screenshot2024-10-29104421.png”/>

उद्भट-श्लोकः।

अव्याहः करणोरणो रणरणो राणोऽरणो रावणो
धृत्वा येन रमार मारमरमा रामा रमासारमा।
स श्रीमानदयोदयो दयदयो दायो दयो वेदयो
विष्णुर्जिष्णुरभीरभीरभरभीराभीरभोसौरभी॥ ८८ ॥

___________________________________________________________________

अस्यार्थः। येन रामचन्द्रेण अयोऽसिं शृत्वा रावणोदायः खण्डितः सोऽव्यादित्यन्वयः। दोऽवखण्डने इत्यतोऽकर्त्तरिवकारके संज्ञायामित्यसंज्ञायामपि कर्म्मणि घञ्। अयः स्यादस्त्रलौहयोरिति विश्वप्रकाशः। रावणःकीदृशः करणोरणः। करणे क्रियायाम्उरणोमेष इव कार्य्याकार्य्यविवेकशून्यत्वात्। पुनः कीदृशःरणरणः रणे युद्धे रणति

श्रीलक्ष्मीः श्रीसरस्वती।

<MISSING_FIG href=”../books_images/U-IMG-1730178887Screenshot2024-10-29104421.png”/>

आस्तां तावत् तयोः सपत्नीभावः साहजिकः, किन्तु समपक्षपातया धिया श्रद्धया समेन च स्नेहेन समाराधिते चेत्तदा श्रीलक्ष्मीः श्रीसरस्वतीच द्वे एव एकस्मिन् पुरुषे असापत्न्यंसन्तिष्ठेते— यथा विष्णौ नलनहुषमान्धातृषु च नृपतिषु धनिषु ज्ञानिषु च, आपाततो विरुद्धे अपि शक्ती द्वेअन्योन्ये वर्द्धयतः, कदाचित् धनशक्तिं ज्ञानशक्तिः ज्ञानशक्तिमपि धनशक्तिर्वर्द्धयति। यथा ज्ञानी वेतनरूपं सत्काररूपं वा राजादितो धनमासादयति, धनीच प्रदाय वृत्तिरूपं धनमुपादत्ते ज्ञानं ज्ञानिभ्यः ( २ )।

___________________________________________________________________

गर्जति इत्यचि रूपम्। राति ददातीति राणः नन्द्यादित्वाद्युः दानशील इत्यर्थः। पुनः कीदृशः न विद्यते रणोयुद्धं यस्य असावरणः दिग्विजयित्वात्। यद्वारणतीति रणः न विद्यते रणोयोद्धा यस्मात् सः। यस्य रामस्य रामा सीता रं वह्निंआर प्राप्तवती। सा रामा पुनः कीदृशी मारमरमा मारं कामं प्रति अरमा अनभिलाषा इत्यर्थः। पुनः कीदृशी रमासारमा रमायालक्ष्म्याःसारं मयते माति वा इति क्विप्।सन्ध्यक्षरेत्यादिनाकारः। रामः कीदृशः स विष्णुःजिष्णुर्जयशीलः। श्रीश्च मानश्च दया च तास्तासामुदयो यत्र स तथा, पुनः कीदृशःदयदयः दये दाने दया यस्येति। यद्वा स श्रीमान्, एवम् अदये अज्ञाने उदया प्रकाशिता दया यस्य। यद्वा अदय इति द्वयं रावणविशेषणम्। तथाहि, न विद्यते दया येषां ते राक्षसास्तेषु दया यस्येति। दाय इति प्रागुक्तम्। पुनः कीदृशःवेदयःसाहिशातीत्यादिना शप्रत्ययः ज्ञानीत्यर्थः। पुनः कीदृशःअभीरभीरभरभीःईरणमीरः भावे घञ् अभि सर्वतो गमनं यस्य इत्यभीरो वायुस्तस्य भियं राति ददाति इत्यभीरभीरः सर्पः स एव पुनर्भरम् अतिशयं भीर्भयं राति यस्मादित्यसौगरुड़ःतेनाभ्येति गच्छत्यसौ अभी रामचन्द्रः। पुनः कीदृशः अभीसौरभी इति न विद्यते भीर्यस्मात् असावभीःसौरभमाश्चर्य्यरूपं तदस्यास्तीति पश्चात् कर्म्मधारयः॥

( २ ) “गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा।
अथवाविद्यया विद्या चतुर्थी नोपपद्यते ॥”

परमार्थतः एकैव भगवतो वैष्णवी शक्तिः वृत्तिभेदाद्भिन्नेव प्रतिभाषते लक्ष्मीरूपतया सरस्वतीरूपतया च। अतएव लक्ष्मीवाचकोऽपि श्रीशब्दः सरस्वतीं प्रतिपादयति, यथा “पञ्चम्यां श्रियं पूजयेत्” इत्यतो विधिवाक्यात् श्रीपञ्चम्यभिधायां माघशुक्लपञ्चम्यां सरस्वतीं तयाधिष्ठितां पुस्तिकां लेखनोप्रभृतिञ्च पूजयेत्।

एवं लक्ष्मीरपि सरस्वत्या एव तनुविशेषत्वात् नत्वस्या भिद्यते। तथाच मत्स्यपुराणे।

“लक्ष्मी र्मेधा धरा तुष्टिः गौरी पुष्टिः प्रभा धृतिः
एताभिः पाहि तनुभिरष्टाभिर्मां सरस्वती॥”

इत्यत्र तथैवाभिधानात्। तथा संवत्सरप्रदीपेऽपि।

“पञ्चम्यां पूजयेल्लक्ष्मींपुष्पधूपान्नवारिभिः।
मस्याधारं लेखनीञ्च पूजयेन्न लिखेत्ततः॥”

“माघे मासि सिते पक्षेपञ्चमीया श्रियः प्रिया।
तस्याः पूर्वाह्न एवेह कार्य्यःसारस्वतोत्सवः॥”

उपासनानुरोधात्तु कथञ्चिद्भिद्यते, अभिधानकारस्तु व्यादिः कथञ्चिद्भेदमुररीकृत्य श्रीसरस्वत्योर्भिन्नता प्रतिपादिता।

तथाच—

“लक्ष्मी सरस्वती धी त्रिवर्गसम्पद्विभूतिशोभासु।
उपकरणवेशरचना विधासु च श्रीरितिं प्रथिता॥”

श्रीलक्ष्मीर्नीतिमनुरन्तौस्फीतीभवति, तथाच महाजनवाक्यम्” नीतिमधिश्रियः क्रमन्ते।” अन्यच्च,

“जितेन्द्रियस्य नृपतेर्नीतिमार्गानुसारिणः।
भवन्त्युज्ज्वलिता लक्ष्म्याःकीर्त्तयश्च नभस्पृशः॥”

श्रीसरस्वतीतु विद्यादानान्नित्यमनुशीलनाञ्च प्रवर्द्धते। तथाच महाजनवाक्यम्।

“अपूर्व्वको हि भाण्डारोदृश्यते तव भारति!।
अव्यये च व्ययं याति व्यये याति च विस्तरम्॥”

विद्यारूपिणीसरस्वती सापि लक्ष्मीवत् नीचमाश्रितापि गुरूकरोति। तथाच देवीपुराणे विद्यादानाध्याये।

“न हि विद्या कुलं जातिं रूपं पौरुषपात्रताम्।
ते सर्वलोकानां पठिता उपकारिता॥”

“सर्वेषामेव वृद्धानां विद्यावृद्धे हि मान्यता।
वयो वृद्धो हि शूद्राणां विशानां धनवान् यतः॥

क्षत्रियाणान्तु वीर्य्येण विप्राणां शास्त्रपारगः।
वित्तं बन्धुर्वयश्चैव तपो विद्या यथोत्तरम्॥’

पूजनीयानि सर्वेषां विद्या तेषां गरीयसी।
‘गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा॥

विद्यया लभ्यते विद्या चतुर्थी नोपपद्यते॥”

अन्यच्च,

“विषादम्यमृतं ग्राह्यममेध्यादपि काञ्चनम्।
नीचादप्युत्तमां विद्यां स्त्रीरत्नंदुष्कुलादपि॥”

यः खलु शयानो वा भुञ्जानो वा पर्य्यटन् वा निरन्तरं न विद्यां ध्यायति न तस्मिन् सरस्वती करुणां विधत्ते।

(क्रमशः)

ताम्बूलम्।

(पूर्व्वानुवृत्तम्)

<MISSING_FIG href=”../books_images/U-IMG-1730626502Screenshot2024-11-03150439.png”/>

तैलादिलिप्तपात्राणि भस्मोष्णपयसा भृशम्।
प्रक्षाल्य शोधयित्वा च यथास्थानं निवेशयेत्॥२९॥

सम्पुटानि च पात्राणि वियोज्य न हि रक्षयेत्।
महानसस्य पात्राणि सुचारु क्षालयेद्बहिः॥ ३०॥

मृद्गोमयेन तोयेन चूल्लीं प्रातर्विशोधयेत्।
कृतपूर्व्वाह्नकर्त्तव्या श्वश्वादीनभिवादयेत्॥३१॥

तासां प्रपीतपादाम्बुः भक्तितोऽन्नादिकं पचेत्॥३२॥

सर्व्वान्ते स्वयमश्नीयान्नातितृप्ति यथारुचि।
सम्मार्जन्या शोधयित्वा गेहं सायं तथाम्बुभिः॥३३॥

सिञ्चेद्द्वारं दीपतरुं मल्लिकाञ्च विशोधयेत्।
सायं शय्यामास्तृणीयात् सम्यक् शुभ्रां परिष्कृताम्॥३४॥

पत्यौ सुप्ते स्वपेत् भक्त्या सुवेशा तद्गतान्तरा।
जितेन्द्रिया च निष्कामा विष्णुवच्चिन्तयेत् पतिम्॥३५॥

नित्यं नैमित्तिकं काम्यं वैदिकन्तु रजस्वला।
त्यजेदलक्षिता सर्वैर्लज्जितान्तर्गृहे वसेत्॥३६॥

नालङ्कुर्य्यान्न च स्नायान्न हृष्येदेकवस्त्रधृक्।
मौनिनीस्यान्न खट्टायां स्वपेत्तैलं न धारयेत्॥३७॥

भुञ्जीत नक्तमल्पाल्पं येन क्षीणं भवेद्बलम्।
एवमाचारनिरता स्नायाच्चतुर्थिकेऽहनि॥३८॥

भर्त्तारं भास्करं वापि पश्येद्वादर्पणे स्वकम्।
पश्येद्यद्यन्यं पुरुषं तद्रूपं जनयेत् सुतम्॥३९॥

दिवसादष्टमादूर्द्धं युग्मेपुत्त्रः सुपूजितः।
अयुग्मेच भवेत् कन्या पर्ववर्ज्जंव्रजेत् पतिम्॥४०॥

सानन्दं साधुभावञ्च पतिं परिचरेत् सती।
पुत्रकामा ततः पुत्रं लभेत क्षितिपूजितम्॥४१॥

इति परमुपदेशमिमा दिशन्तीं स्फटिकतरोरुपसृत्य रिक्तधैर्य्यः।
अहमिह भुवि धन्यधन्यधन्य इति प्रवदन् विमलां विसस्वजे सः॥४२

संलापमासाममृतायमानमापीय चानन्दमसीममाप।
श्रीशक्रजिह्वारचतुष्टयं स भेजे चतुर्वर्गमिवार्य्यबुद्धिः॥ ४३॥

ताम्बूलमेतद्वदने निधाय सौजन्यमस्मिन् भुवने विधाय।
गृहीसुखं जीवतुबन्धुवर्गैःस्वर्गैःकिमस्मादथवापवर्गै॥ ४४॥

इति जयचन्द्रसज्जिते ताम्बूले चतुर्थवीटिका।

( समाप्तमिदम् )

क्षणप्रभा।

<MISSING_FIG href=”../books_images/U-IMG-1730628706Screenshot2024-11-03150439.png”/>

मन्नयनं घनशोभिनि ! कृत्वा, रञ्जितमुज्वलतीक्ष्णसुदीप्त्या।
नीलघने स्फुरणास्फुरणेन, क्रीड़सि किं ? सदृशौ कनकेन॥ १॥

स्वर्णसुवर्णकरं प्रविकीर्य्य, ह्नादिनि ! साध्वि ! प्रतिक्षणमत्र।
नीलघने स्फुरणास्फुरणेन, क्रीड़सि किं सदृशीकनकेन?॥ २॥

घनतिमिरत्वात् निजकिरणैः किं, प्रकृतिमनोज्ञां सुविकशितां हि।
पश्यसि कृत्वा स्वतनुसुकान्तिं, स्मितवदने ! स्वेवपुषि अमान्तीम्॥ ३॥

नीरदवृक्षसुवर्णलते किं?, हासयसि क्षणशोभिनि ! पृथ्वीम्।
नीलविहायसि किञ्च सुहास्ये! क्रीड़सि हेमविनिन्दितगात्रे!॥४॥

विश्वरमे ! च सखीमवनीं किं ?, दीप्तिमिमां स्वांदर्शयसि त्वम्।
अम्बरशोभिनि ! सुन्दरवेशे ! क्रीड़सि किं स्फुटतामरसास्ये !॥५॥

धरणितले तव मूर्त्ति सुशोभां, किमिति प्रकाशयितुं स्मितवक्त्रे!।
त्रिदिवविमोहिनि ! जायत इच्छा, सौदामिनि ! भण नीरदमध्यात्॥६॥

नयनसुरञ्जिनि ! चञ्चलशोमे !, कल्पितमेव मयात्र च वेद।
घनचिकुरे ! चपले ! न तवेष्टं, सकलमतथ्यमिदं कृतपूर्वम्॥ ७॥

मुहुरुन्मेषनिमेषणकार्य्यैः, ज्ञापयसि त्वमखिलमनिवायैः।
क्षणभङ्गुरमिह अहह निसर्गैः, निश्चेतव्यमिदं जनवगैः॥ ८॥

मोहकरा विषयाः क्षणमात्रं, स्पर्शनजीवननाशकराश्च।
भोगविलासप्रमत्तमनुष्यान्, कारयसीति च देवि ! प्रमाणम्॥९॥

(जलधरशोभा नवचपलाया, अरुणप्रभाभिः सुमुदित दृष्ट्या।
सुखमयरात्रावपि तपसश्च ? निद्रोत्थितया हि मया रचिता॥१०॥)

________________

श्रीमती सरोजमोदिनी देवी।

कविवरः श्रीभवभूतिः।

<MISSING_FIG href=”../books_images/U-IMG-1730629834Screenshot2024-11-03160010.png”/>

अस्ति दक्षिणापथे विदर्भेषु पद्मपुरं नाम नगरम्। पुरा तत्र केचन तैत्तिरीयिणःकाश्यपाश्चरणगुरवः पंक्तिपावनाः पञ्चाग्नयो धृतव्रता सोमपीथिन उड्डम्बरा ब्रह्मवादिनः प्रतिवसन्ति स्म।

“ते श्रोत्रियास्तत्त्वविनिश्चयाय भूरिश्रुतं शाश्वतमाद्रियन्ते।
इष्टायपूर्त्तायच कर्म्मणेऽर्थान् दारानपत्याय तपोऽर्थमायुः॥”

आसीत् तदा मुष्यायणस्य तत्र भवतो वाजपेययाजिनो महाकवेः पञ्चमः सुगृहीतनाम्नोभट्टगोपालस्य पौत्रः पवित्रकीर्त्तेःनीलकण्ठस्यात्मसम्भवः भट्टश्रीकण्ठपदलाञ्छनः पदवाक्यप्रमाणतत्त्वज्ञः कविर्भवभूतिर्नाम जातुकर्णीपुत्रः, यं ब्राह्मणं गिरां देवी वाग्वश्येव अनुवर्त्तते स्म। स्वरचितेषु त्रिषु काव्ये कविनैतावती एव आत्मसम्बन्धिनीवार्त्ता प्रकटिता। तदनेन आत्मपरिचयमुखेन कविगोत्रे निरुपिते तथा वीरचरितप्रस्तावनया ज्ञाननिधिरस्य गुरुरिति विज्ञाते च साम्प्रतमादावेव तत्कालनिरुपणे यत्न आचरितव्यः।

तत्र राजतरङ्गिनीकृता कल्हनपण्डितेन (Kalhana) कान्यकुब्जपालो यशोवर्म्मा(Tasovarman, king of Kanauja) भवभूतिमनुगृहीतवानिति स्वकृते ग्रन्थेप्रकटितम्। स च यशोवर्म्मा कालेन काश्मीरपतिना ललितादित्येन जितः। तथाहतरङ्गिनी कविश्चतुर्थे तरङ्गे—

“कविवाक्पतिराजश्रीभवभूत्यादिसेवितः।
जितो ययौ यशोवर्म्मातद्गुणस्तुतिवन्दिताम्”॥१४५॥

नरपतिपुङ्गवोऽसौ ललितादित्यः कालेनाचिरेण सर्वं भारतं वर्षं तत्करतल मानिनाय। अनया च तरङ्गिनीवार्त्तया एतावदेव

स्फुटमवगम्यते यत् अस्माकं कविर्भवभूतिस्तथा वाक्पतिराजनामा कोऽप्यपरः कविश्च नरपतियशोवर्म्मास्थानमण्डपमलङ्कृताविति। वाक्पतिराजविरचितं प्राकृतभाषोपनिबद्धंगौड़काव्यं डात्कार वुलारेण (Dr. Buhleir) सम्प्रति समासादितम्। तत्र काव्ये यशोवर्म्मणःवीरचितवर्णनमुखेन कविना राज्ञो गौड़पतिपराभवः वर्णितः। प्रस्तावनायां कविरात्मविवृतिमुखेन ब्रवीति—

“भवभूइ जलनिहि निग्गयकव्वामय रसकणा इव फुरन्ति।
जस्म विसेसा अज्जवि वियतेसु कहा पवन्धेसु॥”

अस्य च संस्कृतानुवादः।

“भवभूति जलनिधिनिर्गतकाव्यामृतरसकणा इव स्फुरन्ति।
यस्य विशेषाअद्यापि विकटेषु कथाप्रबन्धेषु॥”

आर्य्ययानया एतावदवधार्य्यते यदसौ कविः भवभूतेः शिष्येषु एकतम आसीदुत तत्साहचर्य्यात् महदुपकृतोऽभूदिति, अन्यथा कथं वाक्पतिराजकृतमिदं भवभूतिस्तुतिवाक्यं संगच्छेत। यशोधर्म्मणस्तु गौड़विजयिनः गच्छता कालेन कियता राज्यं ललितादित्येन जितम्। अतः काव्यमेतत् यशोवर्म्मणः राजत्वस्य चरमे लिखितमिति उत्प्रेक्षिते भवभूतिरेव तस्य राज्ञो राजत्वस्य प्रारम्भे प्रादुर्भूत इत्यस्मन्मतं उन्मत्तप्रलापवत् न प्रेक्षावतामनवधेयवचनतां भजते। यावदीयप्रत्नतत्त्व- विदामग्रणीः परमविधानज्ञः जेनारेल कानिंह्यामसाहेबः(General Cunning Ham) तदीयपुरातत्त्वविचारे खृष्टीयाष्टमशताब्द्यामेव (From 693 A. D. to 729 A.D.) ललितादित्यः प्रादुर्भूत इति निश्चिनोति। अस्यानुमानस्य प्रतिकूलानुमानं नाद्यापि प्रदर्शितम्। एतन्मतानुमोदनेन च सर्वं सङ्गतं भवति। अतः कानिं ह्यामाभिमतमाश्रित्य ललितादित्यस्य राजत्वकाले निरुपिते राजानुगतविवाहप्रवृत्तभृत्यवत्

यशोवर्म्मणो राजत्वकालोऽपि अवधार्य्यते। एतच्च पूर्वमुत्प्रेक्षितं यदस्माकं कविः यशोवर्म्मणःराजत्वस्य प्रारम्भेएव प्रादुर्भूत इति। अतः कविवरो भवभूतिः खृष्टीयायाः सप्तमशताब्द्याःपश्चिमे काल एव प्रादुर्भूत इत्यस्मन्निरूपणं सर्वतः सङ्गतम्।

एतन्निरुपणमाश्रित्य कविना सह अपरेषां कवीनां सामयिकः सम्बन्धः स्फुटीभवति। तत् किमिति वाणविरचिते हर्षचरितान्तर्गते अशेषकविगणनानिबन्धे भवभूतेर्निर्देशो न समासाद्यते पृच्छैषा सुलभमुत्पद्यते। कविकुलाचार्य्यःश्रीमद्वाणभट्टः खृष्टीयसप्तमशताब्द्याःप्रारम्भेएव आसीदिति सर्वसुधीजननिर्णयः, अतस्तेन पूर्वकालवर्त्तिना स्वकृते कविगणनानिबन्धे भवभूतिनामनिर्देशो न कृतः। क्षीरस्वामिकृतायाम् अमरकोषटीकायां भवभूतिकाव्योद्धृतानि वाक्यानि समासाद्यन्ते। स च क्षीरस्वामी ललितादित्यनप्तुः जयापीड़स्य शिक्षयितेति राजतरङ्गिन्यां प्रकटितम्।तद्यथा,—

“क्षीराभिधाच्छ्ब्दविद्योपाध्यायात् सम्भृतश्रुतः।
बुधैः सह ययौ वृद्धिं स जयापीड़पण्डितः॥”

तथाच भवभूतिविरचिताः कविताःदशरूपालोककारेण खृष्टीयैकादशशताब्दीप्रादुर्भूतेन धनञ्जयेन, सरस्वतीकण्ठाभरणप्रणेत्रा धरराजेन भोजेन, काव्यप्रकाशकृता मम्मटभट्टेन च स्वकीयेषु ग्रन्थनिवहेषु उद्धृता दृश्यन्ते। अस्मदुत्प्रेक्षितभवभूतिकालपूर्ववर्त्तिनि न कस्मिन्नपि ग्रन्थे तदुल्लेखःदृश्यते। अनेन च अस्मदुत्प्रेक्षितः काल एव समीचीन इति मन्यामहे।

आसामप्रदेशागतःपरमविधानज्ञः श्रीमदानन्दरामः (Anandaram Borooah, B.A., B.C.S) स्तदीयभवभूतिसमालोचनाप्रबन्धे (In his essay on Bhavabhuti and his place in Sanskrit literature) खृष्टीयपञ्चमशताब्दी एव भवभूतेः समय

इति निश्चिनोति। कालनिर्णयपक्षेतदानीतं तावदुपादानं सर्वथा अकिञ्चित्करमिति सहृदयमात्रबोध्यम्। परन्तु तेन राजतरङ्गिनीसन्निविष्टा भवभूतिसम्बन्धिनीकथा नावगता, अतस्तेन स्वमतस्थापनार्थं नानाकथा अवतारिता। राजतरङ्गिनीगतायाः कवितायाः तात्पर्य्यंतेन न बुद्धं, अथवा किमिति तरङ्गिनीवाक्यमधिकृत्य वाक्पतिराजोपाधिकः कञ्चनापरः भवभूतिः यशोवर्म्मसदसि आसीदिति तन्मतं संगच्छेत। स्वमतस्याकिञ्चित्करत्वं जानन्नपि नानोपादानेन भ्रमात्मकं स्वमतं पुरस्करोति। कादम्बरीकथासमालोचनायान्तु (In the Falgoon issue of the Chandrika, in my essay on कादम्बरीकथा ) पूर्वमेव प्रदर्शितमस्माभिः यन्निसर्ग एवायं प्रायः यूरोपविदुषां मिथ्योपचारेण केनापि स्वाभिमतमेव पुरस्कुर्वन्ति ( See page 252 Chandrika Saka 1815. Sala 1300).

वल्लालश्चतदीये भोजप्रबन्धे “वारानसीदेशादागतः कोऽपि भवभूतिर्नाम कविर्द्वारि तिष्ठति(Page 74, Jivananda Vidya Sagara’s Edition) इति कथनेन मुञ्जराजभ्रातुष्पुत्रस्य धरराजभोजस्य सभायां भवभूतिप्रवेशनेन एकादशशताब्द्यामेव स आसीदिति निश्चिनोति। परन्तु मुञ्जसभासदा दशरूपकारेण भोजराजपूर्ववर्त्तिना तत्कृते ग्रन्थेभवभूतिकविता उद्धृता दृश्यन्ते, अनेन तु वल्लालमतं निराकृतम्। दशरूपकारस्य मुञ्जराजसमसामयिकत्वे दशरूपमेव प्रमाणम्। तत्र “आविष्कृतं मुञ्जमहीशगोष्ठौ वैदग्ध्यभाजा दशरूपमेतत्”। पुरातत्त्वनिर्णये भोजप्रबन्धस्य सम्यक् निःसारतां सर्वैव विदग्धपरिषत् कीर्त्तयति।

( क्रमशः )

रायचतुर्धुरीणोपनाम्नः
श्रीउपेन्द्रनाथसेनस्य।

___________

मकरन्दिका।

( पूर्व्वानुवृत्ता )

<MISSING_FIG href=”../books_images/U-IMG-1730643071Screenshot2024-11-03150439.png"/>

ततः पिबन्निव दयितावदनमदिरां शिखण्डिवाहनः प्रियतमावागर्थं सुचिरं मनसि विचारयन् पुनः वाक्प्रभया प्रोद्भाषयन्निव तद्देशभागं प्रत्यवादीत्।अयि मदेकजीवितभूते! प्रिये ! मकरन्दिके ! अनवरतामृतनिस्यन्दमिव मम हृदयं प्रविशन्तं तव वदनसुधाकरविनिर्गतं वाक्प्रवाहं श्रावं श्रावं न जानामि किं प्रतिवचनीयम् ? सर्वपतिव्रताणामग्रणीस्त्वमिति चिरमवैमि। क्षणमपि मत्संसर्गविरहिता नात्मधारणक्षमेति च जानामि। किन्तु प्रिये ! महृत्यस्मिन् रणसमुद्यमे पीयूषफेनपटलपाण्डुरे मलयजजलार्द्रपद्मिनीपत्रसंस्तरे अभ्यसशयनस्य अवलाजनस्य सर्वथा न गन्तव्यम्। अत्र वयम् अङ्गेशराजधानीं चम्पां रिपून्नवरुरुत्सवः। परराष्ट्रावरोधसमये सुमहता सम्परायेन भवितव्यम्। क्व सर्वजनरञ्जिनी मधुरालापिनीमृणालिनीपेलवा शूद्धान्तचारिणी कठोरपरप्रतिविम्बपातेनापि परिमृदिताङ्गलता, क्वच सर्वजनभीषणः अनवरतकठोरप्रहरणनिकररववधिरितश्रुतिविवरःप्रलयरङ्गभूमिरिव सततप्रचण्डरणरतशूरपरिषन्निधनकोलाहलवित्रासितः प्रतिक्षणदर्शनागतशमनरङ्गरसः वीरवीभत्सरसैकप्राङ्गनदेशः समरभूमिभागः। उद्यानशोभैकास्पदविटपिकोमलाङ्क- प्रसाधिव्रततीमञ्जरीकिं कठोरवैश्वानरज्वालां सहेत। अनवरतकलहंसकुलकलपरिवाराच्छोदसरोवराङ्गरुहा कमलकलिका सततानन्ततरङ्गसन्तानविक्षुब्ध पारावारे किमतिजीवेत्। निसर्गविरोधिनीचेयं पयः पावकयोरिव अङ्गनाजनपरिशोभितायाः अवरोधपुर्य्याःकठोरखङ्गपट्टिसतोमरपरिशोभिताया सततपरहनैनैककार्य्यरतायाः रणभूमेश्च एकत्र वृत्तिः।

तदुत्सृज मदनुगमनानुबन्धं जीवय च मां त्वदनुबन्धावधीरण भीरुम्। अवधारय तावत्, अनार्य्यजनोचिताचरणकल्पनया अवधीरितमङ्गेशेन तावन्महीपालमण्डलम्। समायातस्तच्छासनसमयः। न युज्यते सम्प्रति वृथा समयातिपातः। देहि मे प्रतिवचनं समरयानाय, रक्ष च क्षत्रधर्म्मम्। नरपतितनुजादूषणाभिलाषिणम् अनार्य्यमङ्गपालहतकं शिष्ट्वातदाचरणोचितं प्रत्यागत्य च पुनरचिरप्रत्यावृत्तप्रवासीव त्वदङ्कशायिनमात्मानं करिष्यामि। प्राणाधिके ! न दुरापस्तवविरहविनोदनोपायः। इत आरभ्य मनोवाक्कायकर्म्मभिः सर्वमङ्गलविधात्रीम् अवलाजनैकशरणां सर्वविघ्नविनाशिनीं चरणरजः पवित्रितसुरासुरमनुजवृन्दोत्तमाङ्गां त्रिभुवनैकगुरुहरमहिषीं समरदेवीं चण्डिकाम् अहर्दिवम्अनन्यशरणा क्षेमकाङ्क्षिणी प्रपद्यस्वआराधनपरा। देवीप्रसादात् अचिरेणेव पुनः दयितया त्वया समागमो भवितेति शूरो नीरुराव। ततस्तद्वचनावसाने मुक्तमुक्ताफलधवललोचनजललवा प्रत्यवादीत् कलिङ्गराजकन्यका— “आर्य्यपुत्र ! त्वया सह विचरन्त्याः न मे कठोररनाङ्गनमपि पीड़ामुत्पादयिष्यति। त्वत्सनायाहं विषरसमपि पीयूषपानकमिव पिबामि। किन्तु त्वदादेशमतिक्रम्य किमन्यद्वक्तुं क्षमा इयं त्वदङ्गविलम्बिनी लतिका। अद्यप्रभृति त्वदादेशादनन्यशरण्या मया सर्वक्षेमङ्करीसर्वदुरितविनाशिनीदेवीचण्डिकापादमृणालिनी अबलम्बनीया। तद्गच्छामि चण्डिकायतनमिति विरराम। निपीय तावद्दयितावाचम् अक्षरपंक्तिव्याजेन विनिर्गच्छन्तीं सुधाधारां शूरशेखरः शिखण्डिवाहनः गच्छन् मुदः परां कोटिं यावत् स्वीयां प्राणाधिकां दयितां सुगाढ़माश्लिष्यति तावदुत्तरतीरप्रदेशादागच्छन्तं वीणाझङ्कारविमिश्रं मानुषोत्तरम् अक्षरमात्नाव्याजेन सुधाधारां विकिरन्त तमेव गीतशब्दं पुनरश्नौषीत्।

अथातिमनोहरं तद्गीतशब्दमाकर्ण्य कुतोऽस्मिन् देशे एतादृशस्य अमानुषगीतध्वनेः सम्भूतिरिति परमकुतूहलपरवशः उत्थाप्यात्मानं तस्माद् वेदिकास्तरणात् तस्यामेव गीतसंपातकृतपिशुनायां दिशि प्रयत्नव्यापृतलोचनोऽपि अतिदवीयस्तया तस्य देशस्य न किञ्चिदपश्यत्। तमेव केवलं मृदुसमीरणपरिचालितं मनोमोहनं गीतशब्दमशृणोत्। मानवजनसहभवकौतुकवशात् तस्य गीतध्वनेः प्रभवजिज्ञासया कृतगमनानुबन्धः दयितासनाथःगीतश्रवणकुतूहलमाकृष्टैररण्यमृगयूथैरुपदिश्यमानमार्गः अशेषकुसुममकरन्दसुगन्धेन विविधविटपिशतविचारिणा मान्द्येन रजनीप्राग्भागप्रवृत्तेन समीरणेन प्रसाद्यमानः तं गीतध्वनिमुद्दिश्याभिप्रतस्थे।

क्रमेण च तं गीतध्वनिमनुसरतस्तस्य पत्नीद्वितीयस्य कियद्दूरमतिक्रामतः जाह्नव्याः पूर्वकच्छदेशेन उपसर्पतः कश्चिन्निविड़कान्तार आपतितःनयनयोः पुरतः। तेन च गच्छता कियन्तमध्वानं गीतशब्दमाहात्म्येनाकृष्टेनेव परमरमणीया बिन्ध्यपादविशीर्णा अशेषतरुगुल्मवल्लीविराजमाना नानाविधकुसुमपरिकरपरिमलसम्भारसुवासिता, शाखिविटपेषु अपरिसंखेयकुलायपरिचितविहङ्गधृतावासा विविधमधुराव्यक्तकलस्वनप्रकटिताशेषमृगपरिकरविचरणदेशा अतिप्रशस्ता बहुयोजनशतव्यापृतदेहा अनवरतप्रियतमातुरजीवञ्जीवाक्रन्दितप्रकटितप्रत्यासन्नसुविमलवारिसनाथसरोवरा काचन शिला दृष्टिपथमापतिता। आगत्य च तं प्रदेशं शिखण्डिवाहनः शिलारोहनमारभमाणः प्रत्यासन्नं किञ्चन पद्मसर अद्राक्षीत्। याममात्रमिव गतोऽधुना भगवान् श्वेतभानुः, इयतैव कालेन विरतिं गतः यावदीयमत्तकलहंसकोलाहलः। अथ विकसिताशेषकुमुदकह्लारः तनौ प्रतिबिम्बिततारासनाथतारानाथः अशेषमणिरत्नराजिप्रसाधितः काञ्चनकुट्टिम इव तत्सरोवरपृष्ठभागः तदा समजायत। कुसुमपरिमलवाही समीरणो

मृदुमन्दं सञ्चालितो निद्रापयतीव तत्सरस्तीरधृतवासान् सर्वसत्त्वनिवहान्। तं सरोवरं तथा तत्तीरदेशमशेषम् आलोकयतो मनसि समुपजातं यथा दयिताबान्धवनिवहपरिवृतः ऋतुपतिर्वसन्तः सततमत्र विराजते इति। अस्य श्रीनारायणशैलस्य निम्नेभूमिभागे तस्य च सरसः दक्षिणे तीरे अतिमनोरमदर्शनं भूतलभागसन्निविष्टम् अतिधवलं भगवतो रमावल्लभस्य सिद्धायतनमेकमपश्यत्। तत्र च सुविमलस्फटिकघटितविग्रहं सकलसुरासुरमुनिमनुजवृन्दवन्दनीयं त्रिभुवननाथं, स्वचरणरजःपवित्रितत्रिदशासुरमौलिं रमासनाथंभगवन्तं नारायणम् आलोकितवान्। तस्य च दक्षिणां मूर्त्तिमाश्रित्याभिमुखमासीनां पीयूषफेनपटलपाण्डुरं श्वेतवल्कलं वसानां तिसृभिरनास्यानचन्दनविरचितपुण्ड्रकराजिभिर्विराजितललाटाजिरां स्कन्धावलम्बिना सुधाफेनधवलेन योगपट्टकेन विरचितवैकक्षकां उपरचितब्रह्मासनां तनुच्छायानुलिप्तभूतलांविग्रहवतींभगवतीं तपोदेवतामिव, तपोऽनुष्ठानपरां द्वितीयामिव पार्वतीं, हरकोपभस्मीकृतकामदेवप्राप्तये घृतब्रह्मव्रतांरतिमिव, प्रतिपन्नरथाङ्गपाणिव्रतां, क्षितितलनिहितजानुकरकमलाम् अतिमनोहरवीणावादनपुरःसरं देवदेवनारायणस्तुतिं वाचयन्तीं चारुसर्वाङ्गीं त्रिभुवनैकलावण्यमयींकाञ्चन कन्यकां यौवन-मध्यगतामपश्यत्। दृष्ट्वेवेनां युवकोऽचिन्तयत् देवीकमला किं रमणीयतया अस्य प्रदेशस्य अनभिलषितवैकुण्ठवासा अत्रोपरचितात्मनिवासा भर्त्तृवियोगविधुरा स्वयमेव धृतनारायणाराधनव्रता इति।

ततः परमरमणीयतया तत्प्रदेशस्य परमप्रीतस्य राजसूनोः अदृष्टपूर्वम्अनुत्प्रेक्षितपूर्वं तथा अश्रुतपूर्वं नरलोकदर्शनातिगं तत्दृश्यमालोचयतः मनस्यजायत— “अहो ! अतिमहानयम् आश्चर्य्याणामवकाशः। एकपद एव साफल्यं गतं तावन्मानवजन्म।सार्थकीभूताः करणवृत्तयः। अहो वेधसः सृष्टिमाहात्म्यम्। केयम् अमा-

नुषाकृतिः मनोरमा ? कथमनया अपास्य सर्वाभरणानि अङ्गीकृतं कठोरं ब्रह्मचर्य्यम्। मन्ये तपोदेवता स्वव्रतानुष्ठानप्रदर्शनाय धृतनारीविग्रहा नारायणस्तोत्रं वाचयति, नेयं अस्मादृशा मानवी। भूतलात् प्रभातरलज्योतिषः सम्भूतिर्न जायेत। इत्येवंविधैर्विविधकल्पनाशतैः सन्दोलितहृदयः प्रतीक्ष्यमाणः सङ्गीतपरिसमाप्तेरवसरं तत्रैव अन्यतमं स्तम्भमाश्रित्य दयितासनाथः उपविष्टः।

( क्रमशः )

रायेर
काठी

रायचतुर्धुरीणोपनाम्नः
श्रीमद् उपेन्द्रनाथसेनस्य

__________

महाप्रभु-श्रीगौराङ्गदेवस्य जीवनचरितम्।

( पूर्वप्रकाशितात्परम् )

<MISSING_FIG href=”../books_images/U-IMG-1730706612Screenshot2024-10-29104421.png”/>

सायाह्नेनगरकीर्त्तनं भविष्यति, पश्यामि को वा समुद्यति कीर्त्तनवाधने। अद्य स्वयमेव काजिनिधनं कर्त्तव्यम्।" नवद्वीपपत्तने तदानीं चैतन्यदलमेव प्रबलं, चैतन्यस्यानुमतिमात्रेण परः सहस्रा वैष्णवास्तृणानीव प्राणान् परिहातुमपि नापेक्षन्ते। सर्वैरवधारितं संग्राम एव भविष्यति, काजिनिधनं निश्चितमेव। धर्म्मःसमाहतः, धर्म्मप्राणा वैष्णवा उन्मत्तप्रायाः, तेषां तृणानीव प्राणाः सर्वैरेव मृत्युभयं विसर्जितमासीत्। अजायत च तेषां कथञ्चित् समाश्वासो गौराङ्गवचनेन। समुपस्थिते सायाह्नेसर्वे वैष्णवाः समायाताः। गौराङ्गचन्द्रस्तु सम्प्रदायत्रयं विधाय वहिरगच्छत् नगरकीर्त्तनाय। सर्वप्रथममेव हरिदाससम्प्रदायः, तदनन्तरमाचार्य्यसस्प्रदायः, ततस्तु चैतन्यचन्द्रः स्वयमेव स्वकीयभक्तवृन्दैरनुगम्यमानो हरिनामकीर्त्तने उन्मत्तप्रायोऽभवत्। क्रमेण प्रतिगृहं गृहवासिनो नामामृतेन

परितोषयत् प्रबलं वैष्णवदलं काजिभवनसकाशमेव समायातम्। उद्धतेन केनचिद् वैष्णवदलेन पुष्पोद्यानभङ्गादिभिरपकृतः कटुकषायेण वचसा बहुशो निर्भर्त्सितश्च, काजिना तथापि तेषां प्रतिकूलताचरणाय बहिर्नोपस्थितम्। विवादः परापकारः परनिन्दनं वा न चैतन्यचन्द्रस्याभिलषितं, तेन तु शान्तेन वचसा क्षिप्तप्रान्वैष्णुवान् निवारयता शान्तप्रकृतिः कश्चित् काजिनमाकारयितुं प्रेषितः। स हि संवादमात्रेणैव चैतन्यचरणमूलं समायातो दूरादेवावनतमस्तकश्चाभवत्। निरभिमानो गौराङ्गचन्द्रस्तु परापकारनिरतं निकृष्टप्रायमपि काजिनं सहस्तेन सबहुमानमुपवेशयन्निदमकथयत्। “काजिन् ! अद्य भवतामभ्यागतोऽस्मि, अभ्यागताय समुपचितमातिथेयमकृत्वा पलायितोऽसि, किमिदमुचितमनुष्ठितमासीत् ?।” काजिना तु विनीतस्वरेणाभिहितम्, “प्रभो ! भीतेन मया एवमनुष्ठितं, ग्रामसम्बन्धाद् भागिनेयोऽसि, मां प्रति क्रुद्धेन न भवितव्यम्।” मर्म्माहतंप्रबलवैष्णवदलं समुत्साहितम्। चैतन्यभ्रूभङ्गीमात्रेणैव सभवनं सग्रामं वा काजिनं व्यापादयितुं समर्थम्। परन्तु अपरधर्म्मप्रचारकेभ्यो विलक्षणा हि प्रकृतिश्चैतन्यचन्द्रस्य, अभीप्सितञ्च तस्य स्वदेशवासिनां शोणितपातं विना केवलेनोपदेशबलेन धर्म्मप्रचारणम्। चैतन्यस्तु वचनमात्रेणैव काजिनं सादरमग्रहीत् गतरोषश्चाभवत्। यावनिकधर्म्मशास्त्राणां पारदर्शिना काजिना चैतन्यस्य धर्म्मालापः, हिंसा सर्वानर्थकरी, आत्मनः समाजस्य वा मङ्गलमभिलाषुकानां मनुजानां सा सर्वत्रैव परिहरणीया, वेदपुराणादिषु हिन्दुशास्त्रेषु निषिद्धा, यावनिकशास्त्रेष्वपि निवृत्तिमार्गे गोवधादिकं प्रतिषिद्धमेव इत्यादि विचारश्च जायत। मुक्तिबहुलेन हृदयहारिणा चैतन्यवाक्येन यावनिकरक्तशोणिताभ्यां समुत्पन्नस्य आवाल्याद् यवनधर्म्मपरिगृहीतस्यापि तस्य क्षणेनैव हिंसादिबुद्धिरलुप्यत वैष्णवधर्म्मानुरागश्चाभवत्। यस्य लगुड़ाघातेन

कति कति धर्म्मप्राणा हिन्दवो विसर्जितप्राणा आसन्, येन पूर्वे द्युरेवशतसहस्राणि कीर्त्तनमृदङ्गा भग्नाः, यस्य च प्रभावेण नवद्वीपपत्तनंप्रतिहतकीर्त्तनं विषादपूर्णञ्चाभवत्; संप्रति स एव गूढ़संस्कारवैष्णवता परिचीयते, गलन्ति च हरिनाममात्रेणैव नयनजलानि॥ चैतन्यचन्द्रश्च एवमेव काजिनिधनं (१) विधाय कीर्त्तनेन नामोपदेशेन च सर्वानेव पुरवासिनः समुत्साहयन् सहर्षं प्रत्यवर्त्तत। एतावदेव काजिवृत्तान्तं वृन्दावनदासादिभिर्वैष्णवैरचनालौल्येन विकृतप्रायं प्रकारान्तरेण वर्णितमासीत्।

एवमेव कतिदिनेषु गच्छत्सु नवद्वीपपत्तने हरिनामकीर्त्तनं निर्वाधं, चैतन्यमतानुसारि वैष्णवदलमेव प्रवलं चाभवत्। नवद्वीपप्रभुसदृशेन काजिनापि चैतन्यमतमेवावलम्बितम्। समाजगौरववतां शाक्तादीनां हिन्दूनां हृदयविश्वासो यत् समाजबन्धनमेव प्रधानं धर्म्मकारणं, विनिहते केनचित् कारणेन शिथिलिते वा समाजबन्धने धर्म्मनाशः हिन्दूनां सर्वनाशश्च भवति। एकता सम्पादनं चैतन्यचन्द्रस्य धर्म्मप्रचारणञ्च जायेत तेषां हृदयविदारि शूलसदृशम्। ते तु प्रथममेव यथाबलं चैतन्यचन्द्रं हिंसितवन्तः। क्रमेण प्रवले चैतन्यदले हिंसितुमसमर्था दुर्वृत्तं काजिनमेव चैतन्यहिंसनाय प्ररोचितवन्तः। उपदेशप्रभावात् ईश्वरकृपया वा काजिनि चैतन्यपक्षपातिनि हिन्दवो निरुपाया मर्म्माहताश्च समाजनियमेन नितरामपीडयन्त गौराङ्गबलम्, स च समाजनियमेन कर्षितः क्रमेण समाजक्ष्युतो वा समाजबन्धनछेदनमेवाभिलषित-

___________________________________________________________________

(१) स्वधर्म्मपरिहारेण धर्म्मान्तरग्रहणं मरणमेव। भारतवासिनःप्राचीना आर्य्या दुर्वृत्तानामपि स्वदेशवासिनां रक्तपातमन्तरेण शान्तिसम्भवे इममेव पन्थानमवलम्बितवन्तः। अतएव सूर्य्यवंशप्रभवेण सगरेणापि समाजा दुराचाराः केचन क्षत्रिया म्लेच्छतां प्रापिताः ( हरिवंशे १४।१९ ) एतादृश प्राचीनमतस्य पक्षपातिना चैतन्येनापि तदेवानुष्ठितमिति मतम्।

वान्। इदमेव चैतन्यस्य बालसन्न्यासकारणमित्येवानुमीयतेऽस्माभिः। पश्यन्तु चरितामृते आदिलीला १७ परिच्छेदे काजिवृत्तान्तम् (२) भवतु एतेन कारणान्तरेण वा परमकारुणिकस्य धर्म्मप्रचारकचैतन्यचन्द्रस्य बाल्ये एव समुन्मूलितः संसारः, केवलेन जनन्या आग्रहातिशयेन संसारं निरवशेषं परिहातुमसमर्थो निवसति स्म जीवन्मुक्तप्रायः। तेन च संसारः समाजबन्धनं वा तादृशधर्म्मप्रचारस्य प्रतिकूलमिति विचारितं, परन्तु जननीसकाशे न सम्भवि संन्यासग्रहणम्। ततस्तु नित्यानन्दचन्द्रशेखराचार्य्यमुकुन्ददत्तैःसह “काटोया” नाम पत्तने समुपस्थितः सन्यासधर्मेण दीक्षित आसीत्। सुगृहीतनाम्ना अद्वितीयेन केशवभारतीसन्न्यासिना चैतन्यः सन्न्यासधर्मे दोक्षितः। पञ्चविंशतिवर्षे वयसि १४३१—१४३२ शकाब्दे प्रभुं गम्भीराकृतिं बालसन्न्यासिनं तं सर्वे भक्तवृन्दाः पूर्वतः समधिकेन भक्तिप्रवणचेतसा गृहीतवन्तः। क्रमेणापरेऽपि हिन्दवः समभवन् चैतन्यपक्षपातिनः। प्रतिदिनमेव सन्न्यासधर्म्मावलम्बिनो गौराङ्गस्य धर्म्माभावः भक्तिरसश्चावर्द्धत नामकीर्त्तनं धर्म्मप्रचारणञ्च निर्वाधमभवत्। एतावदेव आदिलीला नाम वृत्तान्तं चैतन्यचन्द्रस्य।

( क्रमशः )

श्रीलक्ष्मीचन्द्रशर्म्मसांख्यतीर्थः।

____________________

(२) चरितामृतमते तु वैष्णवधर्म्मविरोधिनां चैतन्यशिष्याणामन्येषाञ्चोद्धरणाय अर्थात् अवलम्बिते सन्न्यासे विद्वेषाभावात् सर्वैरेव साम्येन चैतन्यस्य धर्म्मोपदेशःसादरं ग्रहीष्यते इति मन्वान एव प्रभुः सन्यासं गृहीतवान्। इति

<MISSING_FIG href="../books_images/U-IMG-1730718393Screenshot2024-10-29104421.png"/>

नीतिसंग्रहः।

CONTINUED FROM PAGE 48.

( कथासरित्सागरे सुभाषितानि )

२२ तपोऽधीना हि सम्पदः।
Riches are subject to religious devotion.

२३ न हि मोहयति प्राज्ञंलक्ष्मीर्मरुमरीचिका।
The wise are never led astray by the wily temptations of the riches of the mirage of the sandy deserts.

२४ अकाण्डपातोपनता कं न लक्ष्मीर्विमोहयेत् ?
Who is not charmed at an unexpected turn of good fortune ?

२५ मृदवो हि द्विजातयः।
The twiceborn are indeed gentle.

२६ पञ्चभिर्मिलितैः किं तज्जगतीहन साध्यते ?
What in the world can not be achieved by the combined efforts of a group of five ?

२७ एकचित्तं द्वयोरेवं किमसाध्यं भवेदिति ?
What is unattainable by the two who are of one mind?

२८ जायन्ते वत मूढानां संवादा अपि तादृशाः।
The quarrels of the ignorant are founded on trifles.

२९या यस्याभिमता (मूर्ख ! ) सुरूपा तस्य सा भवेत्।
The object of one’s love is indeed the fairest in his eyes.

३० न हि धर्मान्यथा भवेत्।
Religion is religion and it can’t be anything else which is irreligious.

३१ प्रतिभातश्च पश्यन्ति सर्वं प्रज्ञावतां धियः।
The wise can see every thing by their genius.

३२ शीलं हि विदुषां धनम्।
The true wealth of the learned is morality.

३३ प्रियबन्धुविनाशोत्थः शोकाग्निः कं न तापयेत् ?
Who is not distressed with the burning fire of affliction caused by the death of his dear relatives?

३४ आसंसारं जगत्यस्मिन्नेका नित्या ह्यनित्यता।
Nothing is immortal in this world except mortality itself.

पु० गोपीनाथ शर्म्मा—जयपुर।

<MISSING_FIG href="../books_images/U-IMG-1730720007Screenshot2024-10-29104421.png"/>

प्रश्नोत्तरादर्शाः।

(कलिकाता-विश्वविद्यालयस्य प्रवेशिकायाः।)

चन्द्रो यदा सपरिजनः रत्नमालालोभाकुलःकुलसंक्षय क्रुद्धवानरयूथपतिना राक्षसावासह्नदसका- शमागत्य मालालाभाय स्वजनान् तत्र प्रेषितवान्, भक्षिताश्च राक्षसेन ते ह्नदान्न यदा निर्गच्छन्ति तदा स्वपरिजनानिष्टचिन्ताक्लिष्टो राजा चतुरं वानरदलपतिं किमितीत्यादिकं वाचमुवाच।

  1. QUESTION.

(a) को हि नाम प्रियं पुत्रं त्यजेदनपकारिणम्।
प्रतिश्रुत्य सतां मध्ये यौवराज्याभिषेचनम्॥

(b) न हि सिंहः परालीढ़मामिषं भोक्तुमिच्छति।
नृसिंहो भरतालीढ़ं रामो राज्यं न भोक्ष्यते॥

(c) दिव्यैर्गुणगणैर्युक्तः पुत्रस्ते देवि राघवः।
पितुर्नयोगे तिष्ठन्तं तं न शोचितुमर्हसि॥

(1) In (a) give a synonym for अनपकारिणम्। In what vibhakti is सताम्in the second half of (a), and why?

(2) Give the anvaya or Syntactical concord of extract (b)

(3) In (c) give a synonymous expression for पितुर्नियोगे तिष्ठन्तं What is the meaning of दिवैः here ?

ANSWER.

(1) अनपकारिणम्—अननिष्टसाधकं, निरपराधम्। सतामित्यत्र सम्बन्धे षष्ठी विभक्तिः।

(2) सिंहः परालीढ़म् आमिषं भोक्तुं न हि इच्छति। ( तथा ) नृसिंहो रामः भरतालीढ़ं राज्यं न भोक्ष्यते।

(3) तातस्यादिष्टकार्य्येनियुक्तम् इति जनकस्य आदेशे वर्त्तमानम्इति वा। दिव्यैर्देवोचितैः मनोहरैर्वा।

3. QUESTION.

शरे तु तस्मिन् व्यपनीतमात्रे हिक्कोद्गतश्वासमुहूर्त्तखिन्नः।
विचेष्टमानः परिवृत्तनेत्रःप्राणानमुञ्चत् स मुनेस्तनूजः॥

Turn the above into prose using as many words of

your own as you can.

ANSWER.

परन्तु दशरथत्यक्ते सायके ( तदङ्गात् ) निःसारिते एव सति स मुनेः सुतः सक्लेशोद्गारैःसह उत्थितैः दीर्घनिश्वासैः क्षणकालेनैव कातरः सन् अङ्गानि सबलं सञ्चालयन् उद्भ्रान्तलोचनश्च सन् असून् अत्यजत्।

  1. ( अनावश्यकतया तुरीयः प्रश्नः नोद्धृतः )

  2. QUESTION.

(दीर्घत्वादस्य प्रश्नस्य चतुर्षु श्लोकेषु एकएव दृष्टान्तरूपेण परिगृहीतः)

(d) तस्मात् सम्प्रार्थयेऽहं ते तनयां मनुजाधिप।
स्नुषात्वेनोत्तरां राजन् प्रतिगृह्णामि ते सुताम्॥

(1) Explain the above (four) Sloka (s) in Sanskrit.

(2) Name the roots of लून, यान्ति, स्मयमानः and प्रतिगृह्णामि, and give their second person singular in the perfect tense (लिट् )।

(3) (परित्यक्तश्लोकसम्बद्धत्वात् न गृहीतः)

ANSWER.

प्रतिगृह्णातूत्तरां सव्यसाचीति कथिते विराटे अर्ज्जुनस्तंकथयति—

हे मनुजाधिप !, मनोर्जायन्ते ये ते मनुजा मनुष्याः तेषामधिपो राजा, हे नरपते ! तस्मात् तव कन्यायाः मयिआचार्य्यवद्भक्तेः सम्मानाच्च, अहं ते तव तनयां दुहितरं सम्प्रार्थये याचे, तव कन्यां लब्धुकामोऽस्मीति भावः। परं न पत्नीत्वेनेत्याह, हे राजन् ! भूमिप !, ते तव सुतां कन्यकाम्उत्तरां तन्नाम्नीं ते तनुजामित्यर्थः। स्नुषात्वेन पुत्रवधूरूपेण प्रतिगृह्णामि स्वीकरोमि। कन्यावत् शिष्यावद्वातस्याः व्यवहारात्तां पत्नीरूपेणाहं परिग्रहीतुमशक्तः परं पुत्रेण मे तथा ग्राहयिष्यामीति भावः।

(2) लून इति लुधातोर्निष्पन्नं तस्य च लिटि मध्यमपुरुषैकवचने लुलविथ

यान्ति … या … … … {यायिथ
{ययाथ
स्मयमानःस्मि… … … सस्मिथे
संगृह्णामि ग्रह … … … {जग्रहिथ

6. QUESTION.

Translate into Sanskrit ;—

The stag came again, was ensnared, and said to himself ‘O! who can save me from this snare which is like the snare of death excepting a friend’. Then the jackal came to that spot, looked at his plight and thought.

ANSWER.

मृगोऽसौ पुनराजगाम, पाशबद्धो बभूव, स्वगतमुवाच च अहो को मां मित्रादृते मरणपाशसमात् अतः पाशात् रक्षितुं समर्थः। अतोऽसौ शृगालः तत्स्थानमाजगाम तस्यावस्थाम् अवलोक्य च चिन्तयामास।

( क्रमशः)

श्रीज्ञानशरणचक्रवर्ती।

<MISSING_FIG href="../books_images/U-IMG-1730915673Screenshot2024-11-06232343.png"/>

ब्रह्मचर्य्यम्।

<MISSING_FIG href="../books_images/U-IMG-1730915782Screenshot2024-11-03160010.png"/>

अर्वागेव वर्णधर्म्मव्यवस्थाया ब्राह्मणानेव वर्णेषु त्रिषु प्राधान्यं प्रापितवान् कोऽपि परमपुरुषः न खल्वेतेषु पक्षपातया न वा अपरेषु द्रोहयुजा धियेति। तत्र कारणमपि दर्शितं भगवता। यथाह गीतायाम्—४।१२।

“चातुर्वण्यं मया सृष्टं गुणकर्म्मविभागशः।
तस्य कर्त्तारमपि मां विद्ध्यकर्त्तारमव्ययम्॥”

तत्र कारणमप्यनुमाय किञ्चित् विचार्य्यते तथाहि—

तत्रब्राह्मणो ब्रह्मणो मुखात् क्षत्रियो बाहुभ्यां वैश्य उरुभ्यां शूद्रास्तु

पद्भ्यामिति (१) विदां कुर्वन्तु तत्र भवन्तः उपादानकारणगुणा उपादेये संक्रामन्ते, यथा नीलैर्नीलम् शुक्लैशुक्लंलोहितैश्च सूत्रैर्लोहितं वसनं जायत इति।

अङ्गेषु सर्वेषु शिर एव प्रधानम्, व्यवहरति च लोके तथा, आज्ञा ते शिरसा धार्य्यते, पादौ ते शिरसा वन्द्येते, इति शिर एव प्रधानम्। तथा चाभिधीयते— उत्तमाङ्गं शिर इति। कथमिति ज्ञानाकरत्वात् शिरस इति। चत्वारि सत्त्वगुणप्रधानानि ज्ञानेन्द्रियाणि शिर एवाधितिष्ठन्ति, श्रोत्राक्षिरसनघ्राणाख्यानि त्वक्पुनः शिरसि अन्यस्मिन्नप्यङ्गेऽस्ति।

तस्मादेव ज्ञानाकरात् ब्रह्मवदनात् ब्राह्मणा अजायन्त ज्ञानगुणप्रधानाः। तस्मान्नतेषु तथा भुजधार्य्यंउरुवीर्य्यंवा विद्यते यथाज्ञानवीर्य्यम्। तथा बाहुजानां बाहुवीर्य्यम् उरुजातानामुष्णवीर्य्यं वाणिज्यव्यपदेशेन देशान्तराटनमित्यन्यदेतत्। ज्ञानन्तु तुष्णीम्भावान्नो जृम्भते, इति ब्राह्मणा वेदादिकान् उदात्तानुदात्तसरिद्भिः स्वरैरधीयन्ते अध्यापयन्ति, विरचयन्ति ग्रन्थान्, उपदिशन्ति धर्म्मान्, अनुशासति तत्त्वानि। महाकविकालिदासोऽपि उपजीव्यैतदाह कुमारे—।५।४०।

“अतोऽत्रकिञ्चिद्भवतींबहुक्षमां द्विजातिभावादुपपन्नचापलः।
अयं जनःप्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिवक्तुमर्हति॥”

किमधिकं जगदुपकृतये उत्सृजन्ति दीर्घजीवनं विसृजन्ति च विषयसुखानि सञ्चिन्वन्ति ब्राह्मं तेजः कठोरैस्तपोभिः येभ्यो भूरिविक्रान्ता राजानोऽपि विभ्यति, शिरसा पादरजः स्वीकुर्वते, कृतार्थम्मन्यन्ते चात्मानमिति। किमिति तत्र कारणं केवलब्राह्मण्यं ब्रह्मचर्य्यमिति।

(क्रमशः)

_________________________________________________________

ब्राह्मणोऽस्य मुखमासीत् बाहु राजन्यतः कृतः।
उरू तदस्यवैश्यश्च पद्भ्यांशुद्रोऽजायत॥इति श्रुतिः।

श्रीश्रीदुर्गाशरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-1731160411Screenshot2024-10-29104421.png"/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्ती जनानिव।
मायावलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी॥

<MISSING_FIG href="../books_images/U-IMG-1731160611Screenshot2024-11-09192636.png"/>

मासावतरणिका।

दुस्थक्षितौपदमिहार्पयतीति दुर्गा
तामाश्विने विमनसोऽपि समर्च्चयन्ति।

चन्द्रः करैः शुचिजलैः सर ऋक्षचक्रै-
र्व्योमाम्बुजैरविररण्यमसीमपुष्पैः॥

<MISSING_FIG href="../books_images/U-IMG-1731160838Screenshot2024-11-09192939.png"/>

उद्भट–श्लोकाः।

‘अवतु वो गिरिसुता शशिभृतः प्रियतमा।
वसतुते हृदि सदा भगवतः पदयुगम्॥८९॥"

‘उक्तिर्नान्या स्फुरति वदने ध्यानमन्यन्न चास्ते
पश्यत्यन्यं न खलु नयनं न श्रवोऽन्यच्छृणोति।

श्यामं दृष्ट्वा पथि सचकिते रीतिरेतावती नो
वृन्दारण्ये चिरपरिचिताः केन जीवन्ति नार्य्यः॥९०॥"

‘गोप्या न दोषोमथुराङ्गनानां खलस्य कृष्णस्य चरीतिरेषा।
विपर्य्ययो येन कृतः स्वपित्रोः किं तस्य भार्य्यापरिवर्त्तनेन॥९१॥"

‘कराविव शरीरस्य चक्षुषोरिव पक्ष्मणी।
अनिवेद्य हितं कुर्य्यात्तन्मित्रं मित्रमुच्यते॥९२॥"

—————————

श्रीलक्ष्मीः श्रीसरस्वती।

यासौ धनाधिष्ठात्री देवी यं यमनुगृह्णाति स लक्ष्मीवान्कथ्यते। परन्तु ये ये खलु त्रितलं प्रासादमधितिष्ठन्ति घोटकशकटं वाद्रावयन्ति एव लक्ष्मीवन्तः सुखिनश्च नैवं ब्रूमः शास्त्रकिङ्कराः।

सुखं खलु ऐहिकं पारत्रिकञ्च भवेत्। सा च भगवती केषाञ्चिदैहिकस्य केषाञ्चिद्वापारत्रिकस्य अन्येषां वा इहामुत्रस्य च सुखस्य निदानं स्यात्। यस्तु आत्मम्भरिः स्वयमेव केवलमात्मभोगाय यतते, तस्यैहिकमेव ददाति सुखम्। यस्तु अमितव्ययीअतिदाता च स पारत्रिकमेव भोक्ष्यति सुखम्। यः पुनः साधुवृत्तिः स्वयं भुनक्ति परानपि भोजयति, स्वधर्म्ममाचरति स ऐहिकं पारत्रिकञ्च लक्ष्मीप्रसादात् सुखमनुभवति।

बहव एवं ब्रुवते यदनेके न पितरौ बिभ्रते स्थविरौ, न देवान्यजन्ते न च पुण्यकर्म समाचरन्ति, हिन्दवोऽपि गोरसेन अलब्धतृप्तयः गवास्थीन्यपि मड़मड़ायन्ते, तेऽपि त्रितलहर्म्यमधिवसन्ति, घोटकशकटेन विहरन्ति, राजप्रसादं भजन्ते, गौरवमर्जयन्ति च, सुतरां त एव लक्ष्मीवन्तः सुखिनश्च। सा च भगवतीतानेव दुराचारान् यथा अतितरामनुगृह्णाति न तथा सद्वृत्तान् स्वधर्म्ममनुतिष्ठतो हिन्दून्। गोमयोपलिप्तं हिन्दुकुट्टिममपहाय विरागात्वंशपट्टिकाकटादिभिः सर्वतः समास्तृतकुट्टिमं त्रितलं हर्म्यतलं समाशृणोति, सा जिघ्रति च सादरं कलज्जवर्त्तिधूपं षोड़शाङ्गधूपविरक्ता।

सत्यमेतदापातदृष्ट्या प्रतिभाति, वस्तुतस्तु सा भगवती सुकृतिनां भवने लक्ष्मीरपि पापात्मनां गेहे तामसौ विष्णुशक्तिरलक्ष्मीरेव (१)

__________________

(१) या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां न ताः स्म परिपालय देवि ! विश्वम् ॥

इति देवीमाहात्म्ये।

लोके निन्दामुत्पादयति, मृतानाञ्च तेषां दुरुत्तरं नरकं रचयति। सात्त्विक-राजसिक-तामसिकभेदेन धनस्य त्रैविध्यात् (१) तदधिष्ठात्रीलक्ष्मीरपिसात्त्विकीराजसिकीतामसिकीच भवति। तत्र तामसिकीलक्ष्मीरेवालक्ष्मीः इहामुमुत्र च जुतुप्सानरकविधायिनी। अतएव स्थूलदृष्ट्या भ्रष्टधर्म्माणां हर्म्यादिदर्शनात् तेषां लक्ष्मीः प्रमत्तानां मदिरेव, दरिद्राणां सुप्तानां गन्धर्वनगरमिव, क्षिप्तानां स्खलद्गतिरिव न परमार्थतः सुखमुत्पादयति, ते खलु अधार्मिका धनिनः अनागसोऽपि प्रहरन्ति, अल्पापराधानपि शिरसि घ्नन्ति, गुरूनवजानन्ति। राजसिकीलक्ष्मीस्तु कुषीदादीनामादानादौ किञ्चित्क्लेशकर्य्यपि वैश्यस्य शूद्रस्य च धार्मिकस्य सुखाय कल्पते।

________________________________________________________

ततः कोपयुता जाता महालक्ष्मीस्तमोगुणा।
तामसी तु तदा शक्तिस्तस्या देहे समाविशत्॥
इति देवीभागवते। १।५।७८।

(१) धनं तत्त्रिविधं ज्ञेयं शुक्लं शवलमेव च।
कृष्णञ्च तस्य विज्ञेयो विभागः सप्तधा पृथक्॥
इति गारुड़े २०५/८७ ( क्वचित् २१०।क्वचित् २१६ अध्याये।)

पार्श्विकद्यूतचौर्य्यार्त्तिप्रतिरूपकसाहसैः।
व्याजेनोपार्जितं यत्तु तत् कृष्णं समुदाहृतम्॥

कुषीदकृषिवाणिज्य शुल्कगानानुवृत्तिभिः।
कृतोपकारादातञ्च राजसंसमुदाहृतम्॥

श्रुतशौर्य्यतपः कन्या शिष्य याज्यान्वयागतम्।
धनं सप्तविधं शुद्धं मुनिभिः समुदाहृतम्॥
(क) इति शुद्धितत्त्वे देवलनारदौ।

___________________

(क) पार्श्विकः पाश्रतया योऽर्जयति। आर्त्त्यापरपीड़या। प्रतिरूपकेण कृत्रिमरत्नादिना। साहसेन समुद्रयानगिर्य्यारोहणादिना। व्याजेन ब्राह्मणवेशेन शूद्रादिना। कृष्णं तामसम्। कुषीटेन वृद्धिग्रहणेन। अनुवृत्त्या सेवया। श्रुतेन अध्ययनेन। शौर्य्येण जयादिना। कन्यागतं श्वशुरादेर्लब्धम्। शिष्यागतं गुरुदक्षिणादिना। याज्यागतं पौरोहित्येन लब्धम्। अन्वयागतम् उत्तराधिकारिक्रमेण लब्धं शुद्धं सात्त्विकम्।

सात्त्विकीलक्ष्मीस्तु इहपरत्र च परमं सुखं जनयतीति। स एव लक्ष्मीवान् नित्यसुखं शान्तिञ्च समश्नुते।

एवं सात्त्विक-राजसिक-तामसिकेन ज्ञानस्य त्रैविध्यात् ज्ञानमात्राधिष्ठात्री सरस्वती अपि त्रिविधा भवितुं युज्यते। या खलुद्यूतचौर्य्यादिज्ञानमधितिष्ठति सा तामसी, कुषीदसेवादिज्ञानं याधितिष्ठति सा राजसी। शास्त्रतपस्यादिज्ञानन्तु याधितिष्ठति सा सात्त्विकी सरस्वती। तामसी सरस्वतीतु “दुष्टसरस्वती” इत्याख्यायते, सैव कैकेयीमधिष्ठाय पुरा त्रेतायां रामं वने अवासयत्। ( १ ) एवं सत्यपि धर्म्मशास्त्रज्ञाने ये ब्राह्मणा अपाचरन्ति तेषामपि सरस्वतीदुष्टैव। अतो वाञ्छितसुखाप्तये सर्वैरेव गृहस्थैर्लक्ष्मीः पूजयितव्या।

** अतोऽत्र लक्ष्मीपूजादिनिरूपणं यथा स्कन्दपुराणे।**

पौषे चैत्रे तथा भाद्रे पूजयेयुः स्त्रियः श्रियम्।
सिंहे धनुषि मीने च स्थिते सप्त तुरङ्गमे॥

प्रत्यब्दं पूजयेल्लक्ष्मींशुक्लपक्षे गुरोर्दिने।
नापराह्णे न रात्रौ च नासिते न त्र्याहस्पृशि॥

द्वादश्याञ्चैव नन्दायां रिक्तायाञ्च निरंशके।
वयोदश्यां तथाष्टम्यां कमलां नैव पूजयेत्॥

न पूजयेत् शनौ भौमे न बुधे नैव भार्गवे।
पूजयेत्तु गुरोर्वारे चाप्राप्ते रविसोमयोः॥

गुरुवारे च पूर्णा हि यत्नेन यदि लभ्यते।
तत्र पूज्या तु कलला धनपुत्रविवर्द्धिनी॥

**न कुय्यात् प्रथमे मासि नैव कुर्य्याद्विसर्जनम्।
न घण्टां वादयेत्तत्रझिण्टींनैव प्रदापयेत्॥ **( इत्यादि)

______________________

(१) “एतस्मिन्नन्तरे देवा देवीं वाणीमवोचयन्।
गच्छ देवि ! भवो लोकमयोध्यायां प्रयत्नतः।

रामाभिषेकविघ्नार्थं यतस्वब्रह्मवाक्यतः।
मन्थरां प्रविशस्वादौ कैकेयीञ्च ततः परम्॥”
इत्यध्यात्मरामायणे ।१।२।४४—४५

प्राङ्मुखीं पूजयेल्लक्ष्मींपश्चिमाननसंस्थिताम्।
गन्धपुष्पधूपदीपनैवेद्याद्युपचारकैः॥

लक्ष्म्याअमम्यानि गृहाणि। लक्ष्म्याउक्तिः।

यं यं रुष्टोगुरुर्देवोमाता तातश्च बान्धवः।
अतिथिः पितृलोकश्च न यामि तस्य मन्दिरम्॥

मिथ्यावादी च यः शश्वन्नास्तीति वाचकः सदा।
सत्त्वहीनश्च दुःशीलो न गेहं तस्य याम्यहम्॥

सत्यहीनः स्थाप्यहारी मिथ्यासाक्ष्यप्रदायकः।
विश्वासघ्नःकृतघ्नोयो न यामि तस्य मन्दिरम्॥

चिन्ताग्रस्तो भयग्रस्तः शत्रुग्रस्तोऽतिपातकी।
ऋणग्रस्तोऽतिकृपणोन गेहंयामि पापिनाम्॥

दीक्षाहीनश्च शोकार्त्ता मन्दधीः स्त्रीजितः सदा।
पुंश्चलीपतिपुत्रौ यौतद्गेहं नैव याम्यहम्॥

यो दुर्वाक् कलहाविष्टः कलिः शश्वदघालये।
स्त्रीप्रधाना गृहे यस्य न यामि तस्य मन्दिरम्॥

यत्र नास्ति हरेः पूजा तदीयगुणकीर्त्तनम्।
नोत्सुकश्च प्रसंशायां न यामि तस्य मन्दिरम्॥

कन्यान्न वेदविक्रेता नरघाती च हिंसकः।
नरकागारसदृशं न यामि तस्य मन्दिरम्॥

स्वदत्तां परदत्तांवा ब्रह्मवृत्तिं सुरस्य च।
यो हरेद्दानहीनश्च न यामि तस्य मन्दिरम्॥

मातरं पितरं भार्य्यां गुरुपत्नींगुरुञ्च तम्।
अनाथां भगिनींकन्यामनन्याश्रयबान्धवान्॥

कार्पण्याद्यो न पुष्णाति सञ्चयं कुरुते सदा।
तद्गृहान्नरकागारान् न यामि तान्मुनीश्वराः !॥

मूत्रं पुरीषमुत्सृज्य यस्तत् पश्यति मन्दधीः।
यः शेते स्निग्धपादेन न यामि तस्य मन्दिरम्॥

मूर्ध्नितैलं पुरो दत्त्वा योऽन्यदङ्गमुपस्पृशेत्।
ददाति पश्चाद् गात्रेवा न यामि तस्य मन्दिरम्॥

विवाहं धर्म्मकार्य्यंवा यो निहन्ति च कोपतः।

दिवा-मैथुनकारी च न यामि तस्य मन्दिरम्॥

इति ब्रह्मवैवर्त्तेगणेशखण्डे २३ श्रध्यायः।

कुचेलिनं दन्तमलोपधारिणं बह्वाशिनं निष्ठुरवाक्यभाषिणम्।
सूर्य्योदये वास्तमिते च शायिनं विमुञ्चति श्रीरपि चक्रपाणिनम्॥

नित्यं छेदस्तृणानां क्षितिनखलिखनं पादयोरल्पमार्ष्टिः
दन्तानामल्पशौचं वसनमलिनता रूक्षता मूर्द्धजानाम्।

हे सन्ध्ये चापि निद्रा विवसनशयना ग्रासहासातिरेकः
स्वाङ्गेपीठे च वाद्यं नियतमपि हरेत् केशवस्यापि लक्ष्मीः॥

शिरः सपुष्पंचरणौ सुपूजितौ वराङ्गनासेवनमल्पभोजनम्।
अनग्नशायित्वमपर्वमैथुनं चिरप्रनष्टां श्रियमानयन्ति षट्॥

यस्य कस्य तु पुष्पस्य पाण्डरस्य विशेषतः।
शिरसाधार्य्यमानस्य अलक्ष्मीः प्रतिहन्यते॥

दीपस्य पश्चिमा छाया छाया शय्यासन्यस्य च।
रजकस्य तु यत्तीर्थमलक्ष्मीस्तत्रतिष्ठति॥

इति गारुड़े ११४ श्रध्यायः।

( क्रमशः )

<MISSING_FIG href=”../books_images/U-IMG-1731227745Screenshot2024-11-10140525.png"/>

संशयात्मा विनश्यति।

<MISSING_FIG href="../books_images/U-IMG-1731227884Screenshot2024-11-10140530.png"/>

( काशीवा मक्का वा )

आसीत् कस्मिंश्चित् प्रदेशे आचारपूतो व्यवहारनिपुणः सुपण्डितः परमधार्मिक एकब्राह्मणः। स च जायया कृतिना पुत्रेण पौत्रेण च तथा दुहित्रा दौहित्रेण च एवञ्च भ्रात्रा जामात्रा च सह सुखेन कालं निनाय।

एकदा आश्रितवत्सलः स स्वगृहपालितकुक्कुरार्थं भुक्तावशिष्टमन्नं हस्ते कृत्वा भोजनगेहात् बहिर्बभूव। “तु तु” शब्दश्रवणमात्रेणैव सवेगमागतः स श्वा बुभुक्षया अत्यादरेण वा लाङ्गूलंचुर्णयन् अपूर्वकार्यं नमन् किमिति ध्वनयन् गृहस्वामिनं तं

पस्पर्श।गृहकर्त्ता च महाभारतम् महाभारतम् इति उच्चार्य्य श्वभक्ष्यंशुने प्रदाय आचम्य स्नात्वा च श्रीविष्णुनामादिकं स्मृत्वा शुचिर्बभूव।

किन्तु सन्देहेन दोलायमानः स बहिःशुद्धोऽपि नान्तःशुद्धो यथा अजीर्णभोजनेनोदरं पटपटायते तथा मनसि बहुतरमालोचितवान्, कृतमन्याय्यं मया सारमेयाह्वाने, स च दुष्टोऽकृताचमनं मामयथा स्पृष्टवान्। यद्यपि शास्त्रकृद्भिरुक्तम्।—

“अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।
यः स्मरेत् पुण्डरीकाक्षं स वाह्याभ्यन्तरे शुचिः॥”

तथापि न मे मनः पवित्रम्। अतो नाहमन्तःशुद्धिः सुतरां पापी अतो नाधिकारी दैवे पैत्र्येच कर्म्मणि। ज्ञातं मया शास्त्रे दृष्टञ्च पापिनां पापनाशिनौ पतितपावनी गङ्गा। अतस्तस्यां स्नात्वा पूतो भविष्यामीति कृत्वा गङ्गां गन्तुं प्रचक्रमे। नासीत्तदानीं अधुनातनं इंरेजशक्तिसम्पन्नम् आशुगामि वाष्पीययानं (रेल्ओये)। ये गङ्गादिकं ययुः, ते केवलं पद्भ्यां शिविकया नौकया वा। अयन्तु परं पादरथेन जगाम।

अथ गच्छन् स पथि मध्यन्दिने प्रचण्डमार्त्तण्डस्य भीषणकिरणेन सन्तप्तदेहो गन्तुं न शशाक। अशिश्राय च वृहत्तरुतलम्। किन्तु प्रवलशत्रुःआतपतप्तः पवनः तत्रावस्थानस्य महान् प्रतिबन्धकः। पुनस्ततो गच्छन् कियन्तं मार्गमतिवाहयन् पिपासाकुलः क्षुत्क्षामः शुष्ककण्ठ आतिथ्यकामो यथोचितं गृहमटन् कृते बहुतरे श्रमे द्विजगेहमेकं प्राप। अतिथिस्वरूपेणोपतस्थे च। तत्रत्यो द्विजोऽर्थलिप्सया देशान्तरे तस्थिवान्, तत्पत्नी एकं शिशुबालकं वृद्धाञ्च श्वश्रूं कथाद्वितीयां कृत्वा गृहरक्षित्री। सा च मध्याह्नसमये समागतं ब्राह्मणमतिथिं प्राप्य परमपरितुष्टा सती सादरं सच्चकार। यद्यपि सा लज्जावनतमुखी अवगुण्ठनवतीच

तथापि गुरुतरकार्य्यानुरोधात् वधिरश्वश्रूवर्जं शिशमुखेन तेन अतिथिना यथोपयुक्तं वाक्यमुवाच। ब्राह्मणश्च आत्मजास्वरूपायास्तस्या आशातीतादरेण आग्रहातिशयेन च परं परितृप्तः मिष्ठान्नमात्रं पपाच, पक्त्वा च मिष्टान्नरक्षणे गृहकर्त्त्रींरक्षयित्रीत्वेन नियोज्य, स्वयमनातपे तरुतले विश्रामार्थं ययौ। वस्तुतस्तु परिश्रान्तो जनो विश्रामात् पायसादप्यधिकां तृप्तिं लभते।

इतश्च गृहस्वामिन्या असतर्कतया कुतोऽपि आगतैकसारमेयो ब्राह्मणपक्वंतत्पायसं बुभुक्षुः गृहं प्रविवेश जिह्वया लिलेह च। किन्तु अत्युष्णतयाशुनो रसनादग्धेव समजायत, तेन च “घेउघेउ” इत्युच्यैरुत्क्रुष्य यावदसौ गृहान्निर्गच्छति तावदेव द्विजपत्नी दूरं दूरं याहीति कृत्वा कुक्कुरं प्रहृत्य गृहं प्रविवेश, गत्वा च ददर्श कुक्कुरभोजनचिह्नं मिष्टान्ने तन्मुखे च। ततः सा हाहेति कृत्वा चक्रन्द, आत्मनोऽनवधानतामपि निनिन्द।

इतश्च सुखविश्रान्तो निद्रितप्रायो ब्राह्मणः कुक्कुरस्यार्त्तनादेन लब्धतैचन्यो भोक्तुमागत्य किमप्यपृष्ट्वैव तूष्णीं भक्षितुमारेभे। आकण्ठं भुक्त्वा सम्पाद्य चाचमनादिकं सुखं विशश्राम।किन्तु गृहकर्त्त्रीमलिनानना दुश्चिन्तारता निभृतं रुरोद, अनिभृते चासीत्कार्य्यव्यासक्ता।

कृते विश्रामे च गमनोन्मुखो ब्राह्मण आशिषं दित्सुराजुहाव गृहस्वामिनीं मातः ! अहमिदानीं जिगमिषुरस्मि। एहि प्रणम तावन्मां गृहाण मे आशीर्वचनं तृप्तोऽस्मि तव सुश्रूषया पूतस्वभावेन च।

ततः सजलनेत्रा मलिनवक्त्रासमागता सा तं प्रणनाम। ब्राह्मणश्च आशिषं दत्त्वा मुखमालिन्यकारणं पप्रच्छ। अयि मातः ! आगतमात्रेण मया यदाननं सुप्रसन्नमवलोकितं, यियासुना पुनः कथं मलिनं दृश्यते तत् नूतनजलधराच्छन्नं चन्द्रमण्डलमिव, किं

तव सम्पन्नमसुखमशिवं वा निवेद्य कुरु मां वीतचिन्तम्। एवं पुनः पुनरनुरुद्धा सा वक्तुमशक्तापि सुलभब्राह्मणकोपाद्भीतोवाच। प्रभो ! अहमतिपापकारिणौ सर्वनाशिनी, क्षमस्वमामित्युक्त्वा उच्चै रुदती ब्राह्मणस्य पादे निपत्य कराभ्यां संवेष्ट्यच पादं यथाभूतं सर्वं सारमेय वृत्तान्तं निवेदितवती।

ब्राह्मणस्तु तस्य न चुकोप, परं शान्तवचसा तां सान्त्वयामास। हा भगवन् ! इत्युक्त्वासुदीर्घं निश्वस्य आत्मतिरस्कारं विदधे। उच्छिष्टमुखोऽहं कुक्करस्पर्शदोषेण दूषित इति मत्वा गङ्गां प्रस्थातुकामो भवामि। इदानीं शुन उच्छिष्टमपि दग्धोदरे मे नरीनृत्यते। क्षुधयापिपासया परिश्रमेणापि गतप्रायस्य जीवनस्य परिरक्षणाय आतिथ्यं ग्रहीतुमागतस्य मे भाग्यदोषात् विपरीतमिह सम्भूतम्।

“विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया।”

इयं हि द्विजपत्नी आतिथ्येन जीवयामास मां, किन्तु ममैव अविमृष्यकारिताया दुष्कृतेश्चजाज्वल्यमानं फलमेतत्। साम्प्रतं मन्ये सारमेयोच्छिष्टभक्षणेन जीवनान्मे मरणं श्रेष्ठतरमासीत्।

इदानीं कर्त्तव्यं किमिति। गङ्गास्नानेन पापमिदं याति न वा, इति बद्धमूले सन्देहे वाराणस्यां गन्तव्यं यतश्च।

“गङ्गायान्तु कृतं पापं वाराणस्यां विनश्यति।” इति शास्त्रीयं वचनम्।

अतो यद्भवितव्यं तद्भवतु, वाराणसीमेवयामि। इत्युक्त्वाजगाम।

अथातिक्रान्ते कियति पथि, कञ्चिदपरं ब्राह्मणालयं प्राप, आतिथ्यं जग्राह च, तत्रैका विधवा ब्राह्मणीतं यथोचितमानर्च्च, गृहीत्वा चानुमतिं स्वयमेव पक्त्वातं भोजयामास। भोजनावसाने कृतविश्रामं तं पण्डितं ज्ञात्वा व्यवस्थामेकां प्रष्टुं कृतप्रार्थना सा यावदेव व्यवस्थां पृष्टवतीतावदेव तस्या अष्टादशवर्षदेशीयोऽङ्करितश्मश्रुरपि अनुपनीतः सुत आजगाम गृहम्। दृष्ट्वा च तं गृहस्वामिनीं पृच्छति स्म। मातः ! कोऽयमायातः ? साब्रवीत् ममायं

तनयः। ततः सम्यक् निरीक्ष्यब्राह्मणो विस्मितः सन्नुवाच,— अपि अनुपनीतोऽयन्ते सुतः ? सा ब्रूते स्म अथ किम् ? ब्राह्मणस्ततोऽधिकं विस्मयमापन्नोदुःखितञ्च पुनरेवाब्रवीत्— हन्त पतितामुष्य सावित्री।मातः ! कथमिदानीमपि अगृहीतयज्ञसूत्रोऽयं बालकः ? सा पुनरप्याह, हे विद्वम्मन्य! इममेव विषयमधिकृत्य मयापि प्रक्ष्यते त्वां व्यवस्था। श्रूयतां तावत् गृहान्तरं अस्मिन्नेव ग्रामे पश्चिमेन तत्र मे देवरस्थानीयः कश्चित् ब्राह्मणः प्रतिवसति। स ब्रूते, अमुं मे भ्रातुष्पुत्रमुपनेष्यामि यथोक्तेन विधानेन। किन्तु मम पुनरधन्यतया दक्षिणेन यवनवाटिकां, तत्रत्यः “करिमखां” नामको यवनः कथयति, एनं महम्मदीयधर्म्ममनुसृत्य त्वक्छेदनेन दीक्षितं (छुन्नत्) करिष्यामि, एवमुभयोर्विवाद एवास्य अनुपनयनकारणम्। इह तु ममेयं जिज्ञासा किमत्र कर्त्तव्यम्। पण्डितवरस्तु स सम्यक्विवेक्तुमशक्तः सन् विस्मयपारावारे निमग्नः कुलमप्राप्य भूयोऽपितां पृच्छति स्म। अयि मातः ! अनधिकारे धनिनोऽपि यवनस्य कथमाधिपत्यम् ? नास्ति किं राजा ? राजप्रतिनिधिर्वा अस्मिन्यवनप्रधाने प्रदेशे ? यत् अश्रुतस्य अदृष्टस्य च असम्भवपरस्यैतस्य प्रतीकारे साक्षात् कृतान्त इव शासकःप्रतिपालकश्च विराजते। अहो रे गरीयान् कालः समायातः यदश्रुतमपि श्रावयति अदृष्टमपि दर्शयति। तदाकर्ण्य “अरसिकोऽयं वटु”रिति विहस्य मनसा, पुनरीच्यत तया। न हि न हि यवनस्य अनधिकारः, न वा ब्राह्मणस्य इत्युक्त्वावनतमुखी सा मन्दं मन्दं जगाद। शृणु हे विचक्षण ! यदैवासौ मे गर्भस्थः तदैव दुरन्तकृतान्तेन कवलीकृतोऽस्य पिता, अथवा मम पाणिग्रहीता। न जाने, अयं मे पाणिग्रहीतुः, आहोस्मित् “करिमखां” नामकयवनादुजातः, इत्युक्त्वासा विरराम, अवगुण्ठनेन च प्लुष्टमुखमावृणोति स्माधिकम्।

अथ स ब्राह्मणः श्रुत्वा भ्रष्टावाक्यं “रामोराम" इति ब्रुवन्

भृशं विषादितः पर्य्यतप्यत। हा हा दैवहतोऽपि हा हतः पुनः, अथवा दैवी विचित्रा गतिः।

मूढोऽहं, न कदाचिदज्ञातकुलशीले जने विश्वसिति साधुजनः। अहं पुनरेवंविधो मन्दभाग्यः, अमृतभ्रमात् गरलं भुक्तवान्, रज्जुभ्रमादाशीविषं धृतवान्, ब्राह्मणीभ्रमात् यवनीपक्वमन्नमास्वादितवान्। नमः कर्म्मभ्यः। यत्पापं श्रीविष्णुस्मरणादेव वहिः पलायते, न कथं मम तत्र विश्वासः तुच्छपापशङ्कया भीतभीतोऽहं साम्प्रतमसीमपापसागरे पतितः। अत्र पुनः परमदयालुः काशीनाथो नो चेत् कर्णधारः, न वा तत्पादतरणीममावलम्बनं तदावश्यम्भावि मे घोरनरकपतनम्।

इत्यवसरे सा पुनः पृच्छति स्म। हे पण्डितवर ! अमुष्यांमत्पृष्टायां व्यवस्थायां किमुत्तरं देवं तत् मे सत्वरं वाच्यम्। भवति च मे अन्यकार्य्यातिपातः।

तच्छ्रुत्वा स सुदीर्घं निश्वस्य उक्तवान्। यदि त्वं मम प्रश्नस्य यथायथमुत्तरं प्रदातुं शक्नोषि, तदा मामपि जानीहि तव व्यवस्थोत्तरदाने सवाकम्।

ततः पण्डितवाक्यमाकर्ण्य निर्लज्जैकसहोदरीसाब्रवीत् शक्ता चेद् ब्रवीमि, उच्यतां किं तवापि प्रष्टव्यमस्ति।

ततः स ब्राह्मणो निगदितवान्, वद साम्प्रतं या “काशी वा मक्का वा” गम्यते ? “सन्ध्या वा नमाजं वा” पठ्यते ? एवमुक्त्वास पण्डित भ्रष्टां तां बहुलं निर्भर्त्स्य, आत्मानमपि अनेकशो विनिन्द्य पुरीं वाराणसीं ययौ। इति।

श्रद्वारिकानाथ शर्मा काव्यतीर्थः।
मालखानगर, ढाका।

<MISSING_FIG href="../books_images/U-IMG-1731245142Screenshot2024-11-10185520.png"/>

कविवरः श्रीभवभूतिः।

<MISSING_FIG href="../books_images/U-IMG-1731246443Screenshot2024-11-10191706.png"/>

( पूर्वानुवृत्तः )

तथाच अस्मन्मतनिर्णये भवभूतिकाव्येभ्य एव उपादानं संग्रहीतव्यम्। तच्च न दुरापम्। मालतीमाधवे कामन्दक्याः प्रभुत्वं सर्वथा अस्मदुत्प्रेक्षितकालसङ्गतं मन्यामहे। खृष्टीयसप्तमशताब्द्याः पश्चिमे भागे तथा अष्टमशताब्द्याःप्रारम्भे शिलादित्यराजत्वकाले आर्य्यधर्म्मचारिणः बौद्धधर्म्मावलम्बिनश्च न राजद्वारि किञ्चित्पार्थक्यमासीत्। बौद्धपाठमटिकायामेव हिन्दुशास्तं पठितमासीत्। वैदिका बौद्धा वा विदग्धाः समं राजानुग्रहभाजनतां गताः। तथा मालतीमाधवस्य पाञ्चमाङ्कप्रदत्ततान्त्रिकमतं तत्सामयिकमिति सम्यक् सुधीजननिर्द्धारणम्। अघोरघण्टसदृशः तदा बहवः तान्त्रिका योगिनः भीषनोज्ज्वलवेशाः मालती सदृशीं कुसुमसुकुमारीं रमणीं अकालेन कालसदनं प्रापितवन्तः। नूनं कविः ज्ञानाञ्जनशलाका-प्रोद्भाषितधीः तेषां दुराचाराणां शासनार्थं प्रकरणमेतत् विरचितवान्।

तथाच भवभूतिः कालिदाससमसामयिक इति जनवादः असङ्गत इति प्रकटीकर्त्तव्यम्।

“धन्वन्तरिःक्षपणकोऽमरसिंहशङ्कुवेतालभट्टघटखर्परकालिदासः।
ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वैवररुचिर्नव विक्रमस्य ॥"

एतस्मिन् ज्योतिर्विदाभरणपठिते श्लोके भवभूतेरनिर्द्देश्यत्वेऽपि भवभूतिरेव कालिदाससमसामयिक इति जनप्रसिद्धिः। एतन्मूलाश्चविविधसन्दर्भाः समासाद्यन्ते। तेषु एकतमः विषयगौरवादत्र प्रवेशितः। कविवरो भवभूतिः कालिदासाभिमतं जिज्ञासुः तं स्वविरचितमुत्तरचरितं श्रावितवान्। ततः कविना स्वाभिमतं

पृष्टः कालिदासः “भवदीयं काव्यम् उत्कृष्टतमं मन्यामहे। परन्तु एक एव दोषोऽत्र दृश्यते यत् “अविदितगतयामा रात्रिरेवं व्यरंसीत्” इत्यत्र ‘एवं’ इत्यस्य अनुस्वारो निष्प्रयोजन इति अभिहितवान्। यदत्र एव पाठ एव साधीयान्तत् सुधीजनः आयासं विनैव अवगच्छति।

कालिदासः खृष्टीय षष्ठशताब्द्यायामेव आसीत्। तस्य च भवभूतेः प्राचीनत्वाववोधनाय भवभूतिप्रणीतं काव्यमेव प्रमाणम्।

मालतीमाधवे द्वितीयाङ्केकामन्दकीमालतीमुपदिशति “अयि सरले ! किमत्र भवत्या मया शक्यं कर्त्तुम् ? प्रभवति प्रायः कुमारीणां जनयिता दैवञ्च। यच्च किल कौशिकीशकुन्तला-दुष्मन्तं, अप्सराः पुरुरवसञ्चकमे, इत्याख्यानविद आचक्षते। (Page 44 Jiban-anda Vidya Sagaras Edition) कविवरेण भवभूतिनात्र अभिज्ञानशकुन्तलस्य शकुन्तला, विक्रमोर्वशीयस्य उर्वशी च उद्दिश्येते महाभारतीयशकुन्तलोपाख्याने दुष्मन्तं प्रति शकुन्तलायाः पूर्वरागस्य अदृष्टत्वात्, तत्रस्थे उर्वश्युपाख्याने उर्वश्याः पूर्वरागस्य अदृष्टत्वाच्च।

तथाच मालतीमाधवस्य नवमे अङ्के।

“माधवः। तत् कथमत्र विपिने प्रियावार्त्ताहरं करोमि।(विलोक्य) साधु, साधु \।<MISSING_FIG href=”../books_images/U-IMG-1731247852Screenshot2024-11-10194037.png”/>

“क्वचित् सौम्य! प्रियसहचरी विद्युदालिङ्गति त्वां
आविर्भूतप्रणयसुमुखाश्चातका वा भजन्ते।
पौरस्त्यो वा सुखयति मरुत् साधुसंवाहनाभिः
विष्वग् विभृत् सुरपतिधनुर्लक्ष्यलक्ष्मीं तनोति॥”

(आकर्ण्य) अये! प्रतिरवभरितकन्दरानन्दितोत्कण्ठनीलकण्ठकलकेकानुबन्धिना मन्द्रहुङ्कृतेन, मामनुमन्यते, यावदर्थये। भगवन्जीभूत !

दैवात् पश्येर्जगति विचरन्निच्छया मत्प्रियां चेत्
आश्वास्यादौतदनु कथयेर्माधवीयामवस्थाम्।
आशातन्तुर्न च कथयतात्यन्तमुच्छेदनीयः
प्रायं त्राणंकथमपि करोत्यायताक्ष्याःस एकः॥

( सहर्षम् ) अहो ! प्रचलितः तदन्यत्र सञ्चरामि।" यदेष भावः कविना मेघदूतात् गृहीत इति सहृदयेन पठनमात्रमेवावगन्तव्यम्। तथाच सर्व एव नवमाङ्कं कालिदासस्य विक्रमोर्वशीयस्य चतुर्थाङ्कस्य दर्शनात् कल्पित इति सम्यक् प्रतिभाति।

भवभूतिकाव्येषु कालिदासकल्पनाः प्रतिविम्बिता दृश्यन्ते। तथा उत्तरचरिते—

१ ।मनोरथस्य यद्वीजंतद्दैवेनादितो हृतम्।
लतायां विप्रलूनायां कुसुमस्यागमः कुतः॥

अभिज्ञानशाकुन्तले ७ मे अङ्क।

मनोरथाय नाशंसे किं वाहो! स्पन्दसे वृथा।
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्त्तते॥

(Page 240 Nirnayasagara Press sereiesBombay)

२। लक्ष्मणः। सोऽयं शैलः ककुभसुरभिर्माल्यवान् नाम यस्मिन्
नीलस्निग्धः श्रयति शिखरं नूतनस्तोयवाहः।

रामः। वत्सैतस्माद्विरम विरमातः परं न क्षमोऽस्मि
प्रत्यावृत्तः पुनरपि स मे जानकीविप्रयोगः॥

रघौ १३।२६

“एतद् गिरे र्म्माल्यवतः पुरस्तात् आविर्भवत्यम्बरलेखि शृङ्गम्।
नवं पयोयत्र घनैर्मया च त्वद् विप्रयोगाश्रु समं विसृष्टम्॥”

३। यत् सावित्रैर्दीपितं भूमिपालैः लोकश्रेष्ठैः साधु शुद्धं चरित्रम्।
भत्सम्बन्धात् कश्मला किंवदन्ती स्याच्चेदस्मिन् हन्त धिङ्मामधन्यम्॥

रघौ। १४।

राजर्षिवंशस्य रविप्रसूतेरूपस्थितः पश्यत कीदृशोऽयम्।
मत्तःसदाचारशुचेःकलङ्कः पयोदवानादिव दर्पणस्य॥

४। अपूर्वं कर्म्म चाण्डालमयि मुग्धे विमुञ्च माम्।
श्रितासि चन्दनभ्रान्त्या दुर्विवाकं विषद्रुमम्॥

रघौ। १४।

ना बुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यमिपत्रवृक्षम्॥

५।प्रभवति शुचिर्विम्बीद्ग्राहे मणिर्न मृदां चयः।

शकुन्तला।७।

छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा।

६। वितरति गुरुः प्राज्ञेविद्यां यथैव तथा जड़े
न च खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा।

भवति च तयोर्भूयान् भेदः फलं प्रति तद्यथा
प्रभवति शुचिर्विम्बोद्ग्राहे मणिर्न मृदां चयः॥

** शार्ङ्गधरस्तदीयपद्धतौ श्लोकोऽयं कालिदासविरचित इति निश्चिनोति। (See Subhasitavali, Bombay Edition Page 19–23).**

७। परिपान्तु दुर्वल कपोल सुन्दरं दधती विलोलकवरीकमाननम्।
करुणस्य मूर्त्तिरिव वा शरीरिणो विरहव्यथेव वनमेति जानकी॥

शकु। ७। वसने परिधूषरे वसाना नियमक्षममुखी धृतैकवेणिः।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं विभर्त्ति॥

८। गुणाःपूजास्थानं गुणिषु न च लिङ्गं न च वयः।
कुमारी। न धर्म्म वृद्धेषु वयः समीक्ष्यते।

तथाच। स्त्रीपुमानित्यनास्थैषा वृत्तंहि महितं सताम्।

रघौ। पदं हि सर्वत्र गुणैर्निधीयते॥

९। पुरन्ध्रीणां चेतः कुसुमसुकुमारं हि भवति।

मेघ। आशाबन्धः कुसुमसदृशं प्रायसो ह्यङ्गनानां
सद्यः पाति प्रणयिहृदयं विप्रयोगे रुणद्धि॥

१०। न भिद्यते वा सद्वृत्तमीदृशस्य निर्म्माणस्य।

रघौ। ५। यत्राकृतिस्तत्र गुणा वसन्ति।

११ । न तेजस्तेजस्वीप्रसृतमपरेषां प्रसहते
स तस्य स्वोभावः प्रकृति नियतत्वादकृतकः।

मयूखैरश्रान्तं तपति यदि देवो दिनकरः
किमाग्नेयोग्रावा निकृतइवतेजांसि वमति॥

शकु। शमप्रधानेषु तपोधनेषु गूढ़ं हि दाहात्मकमस्ति तेजः।
स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेनोऽभिभवा वमन्ति॥

तथा च तत्रबहवः अन्ये च श्लोका वर्त्तन्ते येऽपि पूर्वमेव कालिदासकल्पिता आसन्। एवं वीरचरिते मालतीमाधवे च यानि कालिदासवाक्यानि समासादितानि तानि अत्र नोपनिवद्धानि प्रबन्धविस्तृतिभयात्। अनेन च एतावदेव बक्तुक्षमा वयं यथा भवभूतिविरचिताः प्रायशः सर्वे एव श्लोकाः मौलिकभावार्थं पूर्ववर्त्तिनः अपरान् कवीन् अपेक्षन्ते। स्वकीयाशेषविद्यावत्वात्सर्वतः काव्यवस्तु संगृह्य स्वाशेषप्रज्ञावलेन च नूतनत्वमापादितमनेन इति मन्यामहे। गर्वितमपि अवितथमाह कविरात्मानमधिकृत्य “यद्वेदाध्ययनं तथोपनिषदां सांख्यस्य च ज्ञानं तत्कथनेन किम् ?” वस्तुतस्तु यावदीयाषु आर्य्यकविपरिषत्सु कालिदासंविना भवभूतिसदृशः सर्वशास्त्रपारं गतः परमविदग्धः कोऽपि अन्यतरः न समासाद्यते। तस्याशेषयोगशास्त्रकुशलता मालतीमाधवे पञ्चमाङ्केतथा वीरचरिते तृतीयाङ्केसम्यक् प्रकटिता। अस्यऔपनिषदिकं ज्ञानं षष्ठाङ्के—

“विद्याकल्पेन मरुता मेघानां भूयसामपि।
ब्रह्मणीव विवर्त्ताणां क्वापि विप्रलयः कृतः॥”

प्रकटितम्। वीरचरितस्य प्रथमे अङ्के कवेः वेदविशारदता, द्वितीये पुराणेतिहासज्ञता, तृतीये दर्शनकुशलता च सम्यक् प्रदर्शिता।

वीचरितस्य चतुर्थाङ्केजामदग्न्यवाक्येषु कवेः अशेषशास्त्रपारदर्शिता प्रकटं गता। तद्यथा—

जाम।भगवन् मैत्रावरुण !

प्राग् धर्म्मस्य भवन्त एव परमं द्रष्टार आसन् गुरो-
र्लब्धाज्ञानमनेकधा प्रवचनैः मन्वादयः प्राणयन्॥ २५ ॥

मनुरेव आदिधर्म्मशास्त्रप्रणेता लोकेषु इति विश्रुतिः, भवभूतिरेव प्रथमं तत् भ्रमज्ञानं निराकरोति।

भवभूतिना उत्तरचरिते चतुर्थाङ्के“श्रोत्रियायाभ्यागताय वत्सतरीं महोक्षं वा महाजं वा निर्वपन्ति गृहमेधिनः इति धर्म्मसूत्रकाराः समामनन्ति” (Page 134. Vidya Sagara’s Edition). तथा वीरचरिते तृतीयाङ्के—

सङ्गोप्यते वत्सतरीसर्पिष्यन्नं च पच्यते।
श्रोत्रियः श्रोत्रियगृहानागतोऽसि जुषस्वनः॥

एवं कथनेन तथा शास्त्रानुशासनप्रदर्शनेन तस्मिन्नेव काले अभ्यागताय श्रोत्रियाय वत्सतरीनिर्वपणं अभूदिति सूचितम्। अत्र तु यावदीयाः शास्त्रयुक्तयः सुधीभिः अनुसन्धेयाः।

भवभूतिरेव प्रथमं रामराजत्वकाल एव भगवान् वाल्मीकिः रामायणं प्रणिनाय ( १ ) इति प्रकटनेन रामायणवाक्यं प्रमाणितवान्। तद्यथा रामायणे—

“प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवान् ऋषिः।
चकार चरितं कृत्स्नंविचित्रपदमर्थवत्॥

चतुर्विंशत् सहस्राणि श्लोकानामुक्तवान् ऋषिः।
तथा सर्गशतान् पञ्चषट् काण्डानि तथोत्तरम्॥”
इति बालकाण्डे॥१॥

भवभूतिप्रणीतानि त्रीणि दृश्यकाव्यानि वीरचरित—मालतीमाधवोत्तरचरिताख्यानि समासादितव्यानि। शार्ङ्गधरस्तु तत्कृतायां पद्धतौ—

“निरवद्यानि पद्यानि यदि नाट्यस्य का क्षतिः।
भिक्षुकक्षातिनिक्षिप्तः किमिक्षुर्नीरसी भवेत्॥”

श्लोकोऽयं भवभूतिप्रणीत इति समाधत्ते। श्लोकोऽयं तु नैतेषु

______________________

( १ ) नायमर्थःसम्पादकसम्मतः रामायणे बहुतरवाक्यविरोधात्।

त्रिषु काव्येषु कुतोऽपि समासाद्यते। अतः मन्यामहे आसीदपरं किञ्चित् काव्यं कविप्रणीतं यदद्यापि नाविष्कृतं केनापि विदुषा। अस्मन्मते कविना प्रथमं वीरचरितं ततो मालतीमाधवं पश्चात्उत्तरचरितं विरचितम्। आनन्दपण्डितस्तु मालतीमाधवं कविपरिणत-प्रतिभोद्भाषितमिति मत्वा आदौ उत्तरचरितं पश्चात्मालतीमाधवमिति निश्चिनोति। उत्तरचरिते तु वीरचरितमालतीमाधवगता बहवः श्लोका दृश्यन्ते; तथाच कविः स्वयं उत्तरचरितविषये “शब्दब्रह्मविदः कवेः परिणतप्रज्ञस्य वाणीमिमामिति स्वमतं पुरस्कर्वन् अस्य सर्वपश्चात् प्रणयनं सूचयति।

काव्यानां सम्यक् पर्य्यालोचना पूर्वसूरिभिरनुष्ठितत्वात् अस्माकमेतत्पक्षेकिमपि वक्तव्यं नास्ति।

श्रीमद् उपेन्द्रनाथसेनवर्म्मणः।

कलिकाता - संस्कृतकालेज।

<MISSING_FIG href=”../books_images/U-IMG-1731263546Screenshot2024-11-11000208.png”/>

ईश्वरप्रेम।

<MISSING_FIG href=”../books_images/U-IMG-1731263608Screenshot2024-11-11000312.png”/>

१। जननी-जठराद्विपुलामवनीमुपगम्य चिरेण यदातिलघुः।
करुणं व्यलपं जननीस्तनतः पतितं वदने मम शान्तिपयः॥

२। अथवा करुणा तव मूर्त्तिमतीद्रवतां समुपेत्य हि विश्वहिता।
निरुपाय शिशोः परिपोषविधौ वसतिं विगता मम मातुरुरः॥

३ । परिपीय विभो ! करुणा मृतकं कलिकेव वने स्फुटतामगमम्।
मलयानिल-सङ्गम-फुल्लसुखीललितावयवैरुत-चन्द्रकला॥

४। शिशुभावमपास्य दिनेन विभो ! रिपुवृन्दवृतं परिलभ्यवयः।
विषये रमते मम मुग्धमनः न च ते मनुते करुणामधुना॥

५ । विपिनान्तनिवासन-कौतुकिनो मधुरेण रवेण विवोधमियात्।
इति वैरनिदारुण-मानसजे नितरामुपहन्ति मनो मनुजे॥

६। अपरे रिपवः परिवृत्य सदा विषयानुरतं परिहीन मतिम्।
अनिलोऽनुगतामिव जीर्णलतां नमयन्ति विभो ! निरयेऽर्पयितुम्॥

७। अलिगुञ्जन-मञ्जुल-कुञ्जवने दलपुष्प–सुशोभित–शाखिगणे।
महिमा तव चन्द्रक–कान्तिसितः द्विषतां मलिनो हृदये स्फुरति॥

८ । यदि जीवनमीनविपत्तिहरो रमसे मम मानस-वासपरः।
रिपुपाशवशो जगदीश ! तदा न पतेद्व्यसने विषयाम्बुचरः॥

९ । चरणामृतपानविमुग्धजने नियता करुणा तव भक्तिधने।
यदि मादृश कल्मषमार्गरते न पतेद्विभवः किमु विश्वपते ?॥

१०। चिररोदन-सम्बल-वालसुते जननीव विभो ! करुणा कलिकाम्।
वितराधम-भक्तिविहीन-नरे जलदोन्मुख-चातकभाव-परे॥

हुगली
श्रीयतीन्द्रमोहनशर्म्मवन्द्योपाध्यायः।

<MISSING_FIG href=”../books_images/U-IMG-1731262514Screenshot2024-11-10234432.png"/>

पूर्वकालीनाः कथं दीर्घायुषः

<MISSING_FIG href="../books_images/U-IMG-1731262562Screenshot2024-11-10234442.png"/>

उक्त द्वितीयखण्डस्य प्रथमसंख्यायां ( १८ पृष्ठे ) मनुवचने पर दारोपसेवनमनायुष्यमिति। अत्रैतद्विचार्य्यते। स्मर्य्यन्तावत्—

“आलापाट्गात्रसंस्पर्शान्निःश्वासात् सहभोजनात्।
सह शय्यासनाद्ध्यायात् पापं संक्रमते नृणाम्॥”

“संलापस्पर्शनिःश्वास सहशय्यासनाशनात्।
याजनाध्यापनाद्यौनात् पापं संक्रमते नृणाम्॥”

इत्यादीनि प्रथमखण्डस्य द्वादशसंख्यायां (२७१ पृष्ठे) मनुवचनानि, तत्राह संसर्गवशात् एकस्य शरीरतोऽन्येषां शरीरे प्रविशन्ति पापानि आत्मनोऽहितकराणि इति सिद्धान्तितम् इति। दृश्यते चैतत् परस्परविरुद्धान्यपि जला नलादीनीति, तथा परस्परं व्यतिहरति दम्पत्योः शरीरगुणः, स दैवात् विरुद्धोऽपि शनैः शनैरल्पाल्पं संसर्गं कुर्वतोः सात्म्यंभजते।

किन्तु तामेव परोपभुक्तां संक्रान्तपरशरीरगुणां परस्त्रियं ये सङ्गच्छेयुः पुमांसस्तेषां निःश्वासप्रश्वासादिना समागता विरुद्धधर्म्मा जीवनीं शक्तिं ह्रासयन्ति, गृहस्वामि त्रासादिना लोकापवादादिना च सदा कम्पमानवक्षसो बलमात्मनीनं परिहरन्तश्च ते दुराचाराः पारदारिका असमये मृतिं भजन्ते।

उक्तञ्च मुद्राराक्षसे विषकन्याप्रसङ्गे नारीणां धर्म्मादौ मारणीशक्तिरिति।

एवं रजस्वलादिस्पर्शादिरपि आयुर्नाशकारणं यथा सुश्रुते चिकित्सितस्थाने २४ शाध्याये—

“रजस्वलामकामाञ्च मलिनामप्रियां तथा।
वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीड़िताम्॥

हीनाङ्गींगर्भिणीं द्वेष्यां योनिदोषसमन्विताम्।
सगोत्रां गुरुपत्नीञ्च तथा प्रव्रजितामपि॥

सन्ध्यापर्वस्वगम्याञ्च नो पेयात् प्रमदां नरः।
रजस्वलां प्राप्तवतीनरस्यानियतात्मनः।
दृष्ट्यायुस्तेजसां हानिरधर्म्मश्च ततो भवेत्॥”

अतएव यदुक्तं प्रथमखण्डस्य चतुर्थसंख्यायां ( ७९—८३ पृष्ठे ) स्वस्व सदाचारः स्वस्वधर्म्मश्चएव दीर्घायुष्कारणं अनाचारः अधर्म्मश्चैव आयुर्नाशकारणम् इति तत्सर्वमेवानवद्यमिति। धर्म्माचारप्रकारस्तु धर्म्मविवेकप्रबन्धे वक्ष्यते इत्यवधेयम्। विस्तरेणालमिति शिवम्।

श्रीजयचन्द्रशर्म्मसिद्धान्तभूषणः।
<MISSING_FIG href=”../books_images/U-IMG-1731307324Screenshot2024-11-11121139.png"/>

ब्रह्मचर्य्यम्।
<MISSING_FIG href="../books_images/U-IMG-1731307393Screenshot2024-11-11121146.png"/>

(पूर्वानुवृत्तम् )

ब्रह्मचर्य्यमेव देवभावमापादयति मर्त्त्यान्, ब्रह्मचर्य्यमेव देवानामुपकरोति, ब्रह्मचर्यमेव तीर्थीकरोति भूतलम्, किमधिकम् एको-

ऽपि तथाविधो यस्मिन् विराजते देशे, स खलु देशोधन्यः स्वर्गी स्यात्। निष्पत्तौ तथाविधस्य ब्राह्मण्यस्य गर्भाधानादिकाः संस्कारा निदानम्। माता–पितृभ्यां तथैव व्यवहत्तव्यं यथा च निषेकादिसंस्कारात् जनिष्यमानो बालको न प्रच्यवेत ब्रह्मचर्य्यात्, यथा च वीजगर्भादिपातकाद्वालो मुच्येत, यथा च जीवाण्वस्थायामेव जनिष्यमानो बालकः सद्वृत्तिमाहरेदिति। गर्भाधानादिसंस्कारप्रकारस्तु नात्र विस्तरभयात् प्रपञ्च्यते। किन्तु उपनयनादधः ब्रह्मचर्य्यविधिरणूद्य यूरोपीयभाषया प्रदर्श्यते येन च अवगच्छेयुरपरे प्राधान्यकारणं ब्राह्मणस्य। यदाह भगवान् मनुः। २।६८—

“एष प्रोक्तो द्विजातीनामौपनायनिको विधिः।
उत्पत्तिव्यञ्जकः पुण्यः कर्म्मयोगं निवोधत॥६८॥

68 Such is the revealed law of institution for the twice born; an institution, in which their second birth clearly consists, and which causes their advancement in holiness: now learn to what duties they must afterwards apply themselves. (१)

उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः।
आचारमग्निकार्य्यञ्च सन्ध्योपासनमेव च॥६९॥

69 The venerable preceptor, having girt his pupil with the thread, must first instruct him in purification, in good customs, in the management of the consecrated fire, and in the holy rites of morning, noon, and evening.

अध्येष्यमाणस्त्वाचान्तो यथाशास्त्र उदङ्मुखः।
ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः॥७०॥

70 When the student is going to read the

_____________________

( १ ) स्यार उइस्वियमयोन्सइत्यस्य अनुवादःअत्रोद्धियते।

Veda, he must perform an ablution, as the law ordains, with his face to the north; and having paid scriptural homage, he must receive instruction, wearing a clean vest his members being duly composed.

ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा।
संहृत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः॥ ७१॥

71 At the beginning and end of the leture, he must always clasp both the feet of his preceptor; and he must, read with both his hands closed: ( this is called scriptural homage ).

व्यत्यस्तपाणिना कार्य्यमुपसंग्रहणं गुरोः।
सव्येन शव्यः स्पर्ष्टव्यो दक्षिणेन च दक्षिणः॥ ७२॥

72 With crossed hands let him clasp the feet of his tutor, touching the left foot with his left, and the right with his right, hand.

अध्येष्यमाणन्तु गुरुर्नित्यकालमतन्द्रितः।
अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत्॥ ७३॥

  1. When he is prepared for the lecture, the preceptor, constantly attentive, must say : “hoa ! read” ; and, at the close of the lesson, he must say : “take rest.”

ब्राह्मणः प्रणवं कुर्य्यादादावन्ते च सर्वदा।
स्रवत्यनोऽङ्कृतं पूर्वं परस्ताच्च विशीर्य्यते॥ ७४॥

74 ‘A Bráhmen, beginning and ending a lecture on the Véda, must always pronounce to himself the syllable om; for, unless the syllable om precede, him learning will slip away from him; and, unless it follow, nothing will be long retained.

प्राक् कूलान् पर्य्युपासीनः पवित्रैश्चैव पावितः।
प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति॥ ७५॥

75 If he has sitten on culms of cusa’ with their points toward the east, and be purified by rubbing that holy grass on both his hands, and be further prepared by three suppressions of breath, each equal in time to five short vowels, he then may, fitly pronounce om.

‘अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः।
वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च॥ ७६॥

76 Brahmá milked out, as it were, from the three Védas, the letter A, the letter U, and the letter M, which form, by their coalition, the triliteral monosyllable, together whit three mysterious words, bhur, bhavah, swer or earth, sky, heaven :

त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत्।
तदित्र्यचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः॥ ७७॥

77 From the three Vedas also the Lord of creatures, incomprehensibly exalted, successively milked out the three measures of that ineffable text, beginning with the word tad, and entitled sa’virí or gayatri.

एतदक्षरमेतञ्च जपन् व्याहृतिपूर्विकाम्।
सन्ध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते॥ ७८॥

78 A priest who shall know the Veda, and shall pronounce to himself, both morning and evening, that syllable, and that holy lest preceded by the three words, shall attain the sanctity which the Veda confers ;

सहस्रकृत्वस्त्वभ्यस्य वहिरेतत्त्रिकं द्विजः।
महतोऽप्येनसोमासात्त्वचेवाहिर्विमुच्यते॥ ७९॥

79 And a twice born man, who shall a thousand times repeat those three (or óm, the vyáhritis, and the gáyatri) apart from the multitude, shall be released in a month even from a great offence as a snake from his slough.

एतर्च्चया विसंयुक्तः काले च क्रियया स्वया।
ब्रह्मक्षत्रियविड्योनिर्गर्हणां याति साधुषु॥ ८०॥

80 The priest, the soldier, and the merchant, who shall neglect this mysterious text, and fail to perform in due season his peculiar acts of piety, shall meet with contempt among the virtuous.

( क्रमशः)

<MISSING_FIG href=”../books_images/U-IMG-1731514356Screenshot2024-11-13214045.png”/>

समस्या।

१। युक्तो न ते पिक मनागपि मूकभावः।

<MISSING_FIG href="../books_images/U-IMG-1731514493Screenshot2024-11-13214054.png"/>

२। का वा दशाद्य भविता वत चातकस्य।

<MISSING_FIG href="../books_images/U-IMG-1731514690Screenshot2024-11-13214103.png"/>

३। सतां मनांसीव शरद्दिनानि।

<MISSING_FIG href="../books_images/U-IMG-1731514786Screenshot2024-11-13214116.png"/>

४। प्राचीवधूःक्षिपति कन्दुकमिन्दुविम्बम्।

<MISSING_FIG href="../books_images/U-IMG-1731514881Screenshot2024-11-13214125.png"/>

५. यस्यासि तस्मै नमः॥

<MISSING_FIG href="../books_images/U-IMG-1731514942Screenshot2024-11-13214138.png"/>

श्रीउपेन्द्रनाथसेनः।

<MISSING_FIG href="../books_images/U-IMG-1731515000Screenshot2024-11-13214138.png"/>

श्रीश्रीदुर्गाशरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href="../books_images/U-IMG-1731515620Screenshot2024-11-13220326.png"/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्ती जनानिव।
मायावलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी॥

<MISSING_FIG href="../books_images/U-IMG-1731515777Screenshot2024-11-13220546.png"/>

मासावतरणिका।

शरत् सुरम्या त्वचिरात्तिरो भवेत्
निरूप्यतच्छैशिरशीकरैरलम्।
किमन्तरीक्षं परिवीक्ष्यदुःखितं
अजस्रमश्रुप्रकरैः प्ररोदिति ?॥

उद्भट-श्लोकाः।

“पिता ते शैलेन्द्रो गणपति कुमारौ च तनयौ
कृपानाथो नाथः शतमखमुखास्ते परिजनाः।
न दृष्टा सामग्री तव कृपणताया मयि कथं
कणीयः कारुण्याञ्चितनयनलीला कृपणता”॥९३॥

“धिगस्त्वेता विद्या धिगपि कविता धिक् सुजनता
वयोरूपं धिग् धिग्धिगपि च यशो निर्धनमतः।
असौ जीयादेकः सकलगुणहीनोऽपि धनवान्
बहिर्यस्य द्वारे तृणलभसमाः सन्ति गुणिनः”॥९४॥

“नदेभ्योऽपि ह्नदेभ्योऽपि पिबन्त्यन्ये वयः पयः।
चातकस्य तु जीमूत ! भवानेवाबलम्बनम्॥९५॥

श्रीलक्ष्मीः श्रीसरस्वती।

<MISSING_FIG href=”../books_images/U-IMG-1731517032Screenshot2024-11-13222649.png"/>

( पूर्वानुवृत्ता )

सर्वेषां सर्वसुखनिदानमधुना लक्ष्मीमचलां कर्त्तुं सदुपतच्चरितं लिख्यते।

अथ लक्ष्मीचरितम्।

मेरुपृष्ठे सुखासीनां लक्ष्मींपृच्छति केशवः।
केनोपायेन देवि ! त्वं नृणां भवसि निश्चला॥

श्रीरुवाच।

शुक्लाःपारावता यत्रगृहिणी यत्र चोज्वला।
अकलहावसतिर्यत्रतत्र कृष्ण वसाम्यहम्॥

धान्यं सुवर्णसदृशं तण्डुलं रजतोपमम्।
अन्नञ्चैवातुषं यत्रतत्र कृष्ण वसाम्यहम्॥

यः संविभागी प्रियवाक्यभाषी वृद्धोपसेवी प्रियदर्शनश्च।
अल्पप्रलापीन च दीर्घसूत्रीतस्मिन् सदाहं पुरुषे वसामि॥

यो धर्म्मशीलो विजितेन्द्रियश्च विद्याविनीतो न परोपतापी।
अगर्वितो यश्च जनानुरागी तस्मिन् सदाहं पुरुषे वसामि॥

चिरं स्नाति द्रुतं भुङ्क्ते पुष्पं प्राप्य न जिघ्रति।
यो न पश्येत् स्त्रियं नग्नां नियतं स च मे प्रियः॥

त्यागःसत्यञ्च शौचञ्च यत्र एते महागुणाः।
यः प्राप्नोति गुणानेतान् श्रद्धावान् स च मे प्रियः॥

सर्वलक्षणमध्ये तु त्याग एव विशिष्यते।
देशे काले च पात्रेच स च त्यागः प्रशस्यते॥

नित्यमामलके लक्ष्मीर्नित्यं वसति गोमये।
नित्यं शङ्खेच पद्मेच नित्यं श्रीः शुक्लवाससि॥

वसामि पद्मोत्पलशङ्खमध्ये वसामि चन्द्रे च महेश्वरे च।
नारायणे चैव वसुन्धरायां वसामि नित्योत्सवमन्दिरेषु॥

यथोपदिष्टा गुरुभक्तियुक्ता पत्युर्वचोनाक्रमते च नित्यम्।
नित्यञ्च भुङ्क्ते पतिभुक्तशेषं तस्याः शरीरे नियतं वसामि॥

तुष्टा च धीरा प्रियवादिनीच सौभाग्ययुक्ता च सुशोभना च।
लावण्ययुक्ता प्रियदर्शना या पतिव्रता या च वसामि तासु॥

श्यामा मृगाक्षीकृशमध्यभागा सुभ्रूःमुकेशीसुगतिः सुशीला।
गभीरनाभिः समदन्तपङ्क्तिः तस्याः शरीरे नियतं वसामि॥

या पापरक्ता पिशुनस्वभावा स्वाधीनकान्तः परिभूयते च।
अमर्षकामा कुचरित्रशीला तामङ्गनां प्रेमसुखींत्यजामि॥

पुष्पंपर्य्युसितं पूतिं शयनं बहुभिः सह।
भग्नासनं कुनारीञ्च दूरतः परिवर्जयेत्॥

चिताङ्गारकमस्थीनि वह्निंभस्म द्विजञ्च गाम्।
न पादेन स्पृशेत् पादं कार्पासास्थि तुषं गुरुम्॥

नखकेशोदकञ्चैव मैथुनं पर्वसन्धयोः।
वर्जयेन्नग्नशायित्वमेकाकीमिष्टभोजनम्॥

सम्मार्जनीरजी वातं निर्गुण्डींलकुचं तथा।
रात्रौ विल्वपलाशञ्च कपित्थं वर्जयेद्दधि॥

स्वगात्रासनयोर्वाद्यं अपूजामूर्द्धपादयोः।
उच्छिष्ठस्पर्शनं मूर्द्ध्निस्नानाभ्यङ्गञ्च वर्जयेत्॥

शयनञ्चान्धकारे व रात्रिवासोदिने तथा।
म्लानाम्बरं कुवेशञ्च वर्जयेत् शुष्कभोजनम्॥

परेणोद्वर्त्तितं रक्षः स्वयं माल्यापकर्षणम्।
आलस्यमवसादञ्च न कुर्य्याल्लोष्ट्रमर्दनम्॥

शुक्रवारे च यत्तैलं शिलापिष्टञ्च दर्शके।
स्वयं वामेन मूर्द्धानं पाणिना नैव संस्पृशेत्॥

तारकाः पुष्पवन्तौ च न पश्येदशुचिः पुमान्।
नेक्षेद्गुह्यं परस्त्रीणां नास्तं यान्तं दिवाकरम्॥

कुर्य्यान्नान्यधनाकाङ्क्षां परस्त्रीणां तथैव च।
परेषां प्रतिकूलञ्च उदितार्के प्रबोधनम्॥

नखकणृकरक्तैश्च मृत्तिकाङ्गारवारिभिः।
वृथा विलेखनं भूमौ न कुर्य्यान्मम काङ्क्षया॥

स्वयं दोहं स्वयं माल्यंस्वयं घृष्टञ्च चन्दनम्।
नापितस्य गृहे क्षौरं शक्रादपि हरेत् श्रियम्॥

न निन्दां गणके विप्रे पादयोर्नर्त्तनं तथा।
प्रतिकूलञ्चरेत् स्त्रीणां भुक्त्वा च दन्तधावनम्॥

अघृतं मांससूपञ्च नग्नाञ्चैव स्त्रियं तथा।
भक्षणात् दर्शनाञ्चैव शक्रादपि हरेत् श्रियम्॥

मन्त्रैरयुक्तः परदारसेवी आचारहीनः परसेवकश्च।
सङ्कीर्णचारी परिवादशीलस्तं निष्ठुरं दम्भमयं त्यजामि॥

शयनञ्चार्द्रपादेन रात्रिवासोदिने तथा।
नोत्तरीयमधः कुर्य्यात् शुष्कपादेन भोजनम्॥

अशुचिं म्लानवस्त्राञ्चदुर्गन्धामसुखावहम्।
अभूषणामपुष्पाञ्च न कुर्य्यादात्मनस्तनुम्॥

कर्णे च वदने घ्राणे तथा करतलेऽपि च।
पादे पृष्ठे तथा नेत्रेन कुर्य्यादनुलेपनम्॥

गन्धं पुष्पंतथा तोयं रत्नञ्चैव महोदधिम्।
गृहीतं प्रथमं वस्त्रं वर्जयेन्नकदाचन॥

अजरजः खररजस्तथा सम्मार्जनीरजः।
स्त्रीणां पादरजोराजन् ! शक्रादपि हरेत् श्रियम्॥

एवं यः कुरुते नित्यं मयोक्तानि च केशव!।
तुष्टा भवामि तस्याहं त्वय्येषा निश्चला यथा॥

इति स्कन्दपुराणे लक्ष्मीकेशवसंवादे लक्ष्मीचरितम्॥ *॥
अत्र धनज्ञानकामिपाठ्यं श्रीसूक्तं सरस्वतीसूक्तञ्च लिख्येते।

अथ श्रीसूक्तम्।

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदा म आवह॥१॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं विन्देयं गामश्वंपुरुषानहम्॥२॥

अश्वपूर्वां रथमध्यां हस्तिनादप्रवोधिनीम्।
श्रियं देवीमुपाह्वये श्रीर्मा देवी जुषताम्॥२॥

कांसोऽस्मि तां हिरण्यप्राकारामार्द्रांज्वलतीं तृप्तां तर्पयन्तीम।
पद्मे स्थितां पद्मवर्णां तामिहोप ह्वये श्रियम्॥४॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्।
तां पद्मिनीमी शरणं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणोमि॥५॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ विल्वः।
तस्य फलानि तपसा नुदन्तु या अन्तरायाश्च वाह्या अलक्ष्मीः॥६॥

उपैतु मां देवसखः कीर्त्तिश्च मणिना सह।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्त्तिमृद्धिं ददातु मे॥७॥

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्।
अभूतिमसमृद्धिञ्च सर्वं निर्णुद मे गृहात्॥८॥

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।
ईश्वरीं सर्वभूतानां तामिहोप ह्वये श्रियम्॥९॥

मनसः काममाकूतिं वाचः सत्यमशीम हि।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः॥१०॥

कर्दमेन प्रजाभूता मयि सम्भवकर्दम्।
श्रियं वासय मे कुले मातरं पद्ममालिनीम्॥११॥

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे।
नि च देवीं मातरं श्रियं वासय मे कुले॥१२॥

आद्रांपुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१३॥

आर्द्रांयः करिणीं यष्टिं सुवर्णांहेममालिनीम्।
सूर्य्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१४॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषाणहम्॥१५॥

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्।
श्रियः पञ्चदशर्चञ्च श्रीकामः सततं जपेत्॥१६॥

पद्मानने पद्मउरु पद्माक्षि पद्मसम्भवे।
तन्मे भजसि पद्माक्षि येन सौख्यं लभाम्यहम्॥१७॥

अश्वदायी गोदायी धनदायीमहाधने।
धनं मे जुषतां देवि ! सर्वकामांश्च देहि मे॥१८॥

पुत्र पौत्र धनं धान्यं हस्त्यश्वादि गवे रथम्।
प्रजानां भवसीमाता आयुष्मन्तं करोतु मे॥१९॥

धनमग्नि र्धनं वायु र्धनं सूर्य्योधनं वसुः।
धनमिन्द्रो वृहस्पतिर्वरुणं धनमश्रुते॥२०॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः॥२१॥

न क्रोधो न च भात्सर्य्यं न लोभो नाशुभामतिः।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्॥२२॥

सरसिजनिलये सरोजहस्ते धवलतरां सुभगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि !प्रसीदमह्यम्॥२३॥

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्।
विष्णोः प्रियसखीं देवीं नमान्यच्युतवल्लभाम्॥२४॥

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि।
तन्नोलक्ष्मीः प्रचोदयात्॥२५॥

पद्मानने पद्मिनि पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि!।
विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं हृदि सन्निधत्स॥२६॥

आनन्दः कर्दमश्रीतश्चिक्लीत इव विश्रुतः।
ऋषयः श्रियपुत्राश्च श्रीर्देवीर्देवता श्रिया॥२७॥

श्रीर्वर्चस्वमायुष्यमारोग्यमाविधात् पवमानं महीयते।
धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः॥२८॥

ऋणरोगादि दारिद्र्यंपापक्षुदपमृत्यवः।
भयः शोकमनस्तापा नश्यन्तु मम सर्वदा॥२९॥

इति ऋग्वेदेखैलिके १० मण्डले ८ माष्टके श्रीमूक्तं समाप्तम्॥ *॥

अथ सरस्वतीसूक्तम्।

(अत्रशौनकः।) इयमित्येतदाद्यन्तु सूक्तं सारस्वतं जपेत्।
द्विजःप्रातः शुचिर्भूत्वा वाग्मी भवति बुद्धिमान्॥

इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्चाय दाशुषे।
या शश्वन्त मा च खादावसंपणिं ता ते दात्राणि तविषा सरस्वति॥१॥

इयं शुष्मेभिर्विसखा इवारुजत्सानु गिरीणां तविषेभिरुर्मिभिः।
पारावतघ्नीमवसे सुवृक्तिभिः सरस्वती मा विवासेम धीतिभिः॥ २॥

सरस्वति देवविदो निवर्हय प्रजां विश्वस्य वृसयस्य मायिनः।
उतक्षियिभ्योऽवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति॥३॥

प्रणोदेवी सरस्वती वाजेभिर्वाजिनीवति। धीनामवित्र्यवतु॥४॥

यस्त्वा देवि सरस्वत्युपब्रूते धने हिते। इदं न वृत्रतूर्य्ये॥५॥

त्वं देवि सरस्वत्य वा वाजेषु वाविनि। रदा पूषेव नः सनिम्॥ ६॥
उतस्यानः सरस्वतीघोरा हिरण्यवर्त्तनिः। वृत्रघ्नीवष्टि सुष्टुतिं॥७॥

यस्या अनन्तो अहुतस्त्वेषश्चरिष्णुरर्णवः। अमञ्चरति रोरुवत्॥ ८॥

सानो विश्वा अतिद्दिषः स्वसृरन्या ऋतावरी। अतनहेव सूर्यः॥९॥

उतनः प्रियाप्रियासु सप्तस्वसा सुजुष्टा। सरस्वतीस्तोम्याभूत्॥ १०॥

आपप्रुषीपार्थीवान्युरू रजो अन्तरीक्षं। सरस्वती निदस्पातु॥ ११॥

त्रिषधस्था सप्तधातुः पञ्चजाता वर्द्धयन्ती। वाजेवाजे हव्याभूत्॥१२॥

प्रया महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामगस्तमा।
रथ इव वृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती॥ १३॥

सरस्वत्यभि नो नेषि वस्योमाप स्फरीः पयसा मान आधक्।
जुषस्वनः सख्या वेश्या च मा त्वत्क्षेत्राण्यरण्यानि गन्म॥ १४॥

इति ऋग्वेदे ४ र्घाष्टके ८ माध्याये६ष्ठमण्डले सरस्वतीसूक्तां समाप्तम्॥ *॥

श्रीलक्ष्मीः श्रीसरस्वत्योः पूजा स्तवकवचादिकं विशेषतः पुराणात्तन्द्राच्च ज्ञातव्यं विस्तृतिभयान्नात्र लिख्यते।

(क्रमशः)

“आशा”॥

<MISSING_FIG href="../books_images/U-IMG-1732202762Screenshot2024-11-21205545.png"/>

जगति जन्तूनामाशैव जीवनसहाया, तां प्राणसमां विनXXX
कस्मिंश्चिदपि कर्मणि प्रवर्त्तन्ते जीविनः।ग्रीष्मवर्षादिऋतूXX
मेकस्यैवान्ते अन्या एव समुद्भूयमनसि अभिनवोत्साहेन विधाXX
त्सुक्यं नियोजयति कर्म्मणि मानवान्। बन्ध्याऽवला भाविXXX
मुखदर्शनसुखमाकलय्य अन्धः पुनर्दृष्टिसुखमपेक्ष्य खञ्जःस
गन्तुकामः जराजीर्णः पुनः पुष्टवपुःप्राप्तिलालसः दुराशयैव तथा
कर्म्मणि नियुज्यते, यद्यदिहजीवनेऽपि तत्सदृशस्य कस्यापि
सम्भवः तस्मिन्नपि द्विगुणतरोत्सायेन प्रवर्त्तयति। जानन्तोXX
मृगतृष्णिकयेवातिदुराशया प्रतार्य्यन्ते लोलुभ्यमानाः। शक्नुवन्
हि ज्योतिर्विदः ज्योतिःशास्त्रज्ञानप्रभावेण भाविकार्य्यमपि निXX
किन्तु एतावदेव महच्चित्रं यत् मानवचेतसि समुद्भूतायाः अXX
परम्परायाः अनुमात्रमपि न कथयितुं प्रभवन्ति। आसमXX
प्रतिदिनभिक्षोपजीविनोऽपि आशया प्रेर्य्यमाणाः प्राणान् धारयां XX
आशैव मायायाः द्वितीया सखीव तयैव सह संयुज्य पराजयं
करोति जगतीम्। असम्बन्धाशेषव्यापार-शोकातुरस्यापि X
मातृबन्धुरहितस्य चेतसि समुपनीय च्छलान् कृतविद्यपुत्रन X
तुरायाः जनन्या अपि मनसि स्थापयित्वा बहुलोमान् XXX
सुखं विचरति। प्राणत्यागकृतनिश्चयेनापि समाद्रियते सा। XX
पतिः सृष्टिनैपुण्यप्रदर्शनाय आशासूत्रेणैव बबन्ध हृदयानि जीविXX
परन्तु जगदेकरूपायाः आशायाः विना विधातुः सृष्टिरपि XXX
स्यात्। मनःसङ्कल्पितमेवं पश्यामि, एवमुन्नतिपदं यास्यामि, XX
भविष्यामि बान्धवेनाभिनन्द्यमानः इत्यादिप्रकाराः आशाः XX
धिकाः पालयन्ति स्वेन्द्रियसंहतिरिव मानवाः। मूर्खाः XXX
एतदपि न जानन्ति यत् सर्वेषामपि फलवत्यामाशायां जगXX

न केऽपि निराशतामुपययुः। सर्वतः सुखिजनानामेव सद्भावो माभूत्; सर्व एव ईप्सितसुखानामन्तलेखामनुमयुः। इत्येतावद्विचार्य्यमनसि कर्त्तव्यमपहाय दुराशया समाकृष्टैर्न कार्य्यं यथेच्छाचारित्वं ; कर्त्तव्यपरेण च महाजनेन यत्क्रियते तदपि कार्य्यम्। अतः आशैव संसारग्रन्थिः। साधूनां सर्वत [एव]सदाशा आश्रयनीयेति।

श्रीकेदारनाथमुखोपाध्यायः।
मूलायोड़।

शरत् (१)
<MISSING_FIG href="../books_images/U-IMG-1732208805Screenshot2024-11-21223615.png"/>

नीरद इह, गर्जति खलु, वर्षति न हि, जीवनं;
सन्ततमिव, वर्षणप्रिय, -चातकचय, -जीवनम्।
वासवधनु-रायतकपि, —शारुणसित, -चित्रितं
शारदनव, मेचकगग, -नोपरि-परिशोभितम्॥१॥

निर्म्मलनव-शीतलजल-पूरित सुखवीक्षिते,
क्रीड़ति सित-हंसनिकर एव सरसि रञ्जिते।
श्वेतविमल-पङ्कजदल-मध्यमधि स संस्थितः
शुभ्रकमलमेव तमपि पश्यति जन एव सः॥२॥

अभ्रविगत निर्म्मलगगने च कमलफुल्लकः
तीक्ष्णकिरणमर्पयति स भूमिषु दिननायकः।
रम्यमधुरमेव हसति कोमलमतिपद्मिनी
मोहित–प्रियषट्पदकुलवाच्छितमधुशालिनी॥३॥

_______________________

(१) अत्र रचयित्र्याःसकलमविकलं वर्णितं रक्षितं, अतोऽत्राकिञ्चित्करोऽपि कश्चिद्दोषः“अभ्रविगत" इत्यादिकः स्वीकृतः।

निर्म्मलप्रिय दर्शनमिह काननमुपकाननं
मन्दपवन ताड़ितसितकाशकुसुमशोभितम्।
षट्पदप्रिय चारुकुसुम रेणुचयसुवासितः
स्निग्धहृदय मुग्धक इत एव वहति मारुतः॥४॥

प्रावृषि नव नीरददल मण्डिततर यामिनी
न स्म पिबति चन्द्रकिरण मित्थमतिपिपासिनी।
सा भ्रमति च साम्प्रतमपि चात्र खलु चकोरकी
चन्द्रकिरण पूर्णनभसि चेतसि अतिनन्दिनी॥५॥

किन्नर-सुर-मानवजगतां हि हृदयमोहिनी
शुभ्रसुकरचन्द्रखचित-शारदसुखयामिमी।
कौमुदचय शोभित सितमेव निखिलभूतलं
निर्म्मलमखिलं हि भवति सम्प्रति शरदि क्रमः॥६॥

श्रीमती सरोजमोदिनी देवी।
____________________

स्त्रीशिक्षालयम्।

<MISSING_FIG href="../books_images/U-IMG-1732206430Screenshot2024-11-21215636.png"/>

प्रतिप्रभाते दश-वादिते च, धनेशदीनप्रभृतेश्च कन्याः।
समुत्सुकाश्चारुविमुक्तकेशाः, सुपुस्तिकां रम्यकरेण धृत्वा॥

सम्यक् सुवेशा हि मयात्र दृष्टाः संप्रेरिता वा स्वजनेन पित्रा।
मार्गन्त्वलंकृत्य प्रयान्ति सर्वाः विद्यालये तत्र विधर्मिणश्च॥१-२॥

सिंहस्य किंवा हि मृगादनस्य च सर्पावलीनां वरमाननेष्वपि।
श्रेयस्करं हा खलु रक्षसोमुखे निक्षेपणं तत् किल बालिकानाम्॥३॥

गभीरनीराम्बुधिनीरमध्ये विसर्जणं वा दुहितुर्भवेच्च।
यमस्य वासे नरके च प्रेरणं वरं विधर्मिव्रजसंस्रवात् ततः॥४॥

तामार्य्यनारींनवकोमलाङ्गीं देवीं पवित्रां गृहिगेहलक्ष्मीम्।
शिक्षा-निमित्तं स्वजनाः कथञ्च म्लेच्छालयं हा खलु प्रेरयन्ति॥५॥

तासां हि चित्तन्त्वतिभक्तिपूर्णं अतीव नक्तंवरकोमलञ्च।
इत्थञ्च वज्रादधिकं दृढ़न्तत् कुसंस्रवादुग्रमभक्तिकञ्च॥६॥

आचारशून्या कुविलासपूर्णास्नेहैर्विहीना स्वजनेषु नारी।
गार्हस्थकृत्ये विरता हि चेत्थं देवेषु तीर्थेषु भवत्यभक्तिः॥७॥

धात्र्यैसमर्प्यैव हि बालकानां संपालनं वा खलु रन्धनञ्च।
संन्यस्य हस्ते परिचारिकाणां रक्ता असन्नाटकपाठकार्य्ये॥८॥

सदैव कार्पेटपटं वयन्ति किंवा वहिः सौधतले अटन्ति।
आवाल्यमेवञ्चयदेव दृष्टं कुर्वन्ति लेडीस्कुलतोऽवलास्ताः॥८॥

तदपि हि जनकेन स्वात्मजा तत्र तत्र
न खलु न खलु नूनं प्रेरणीया कदाचित्।
इदमशुभकुविद्यागारमेवं हि येन
झटिति भवति निर्मूलं हि कर्त्तव्यमेतत्॥१०॥

श्रीमती सरोजमोदिनी देवी।
_________

कुन्दमाला।
<MISSING_FIG href="../books_images/U-IMG-1732207769Screenshot2024-11-13214138.png"/>

प्रथमोच्छासः।

जीवनसंग्रामः।

“सर्वङ्कषाभगवती भवितव्यतैव” मालतीमाधवे।

आसीदेकदा मधुराषाढ़मासि परिणते यामे वासरस्य कश्चन सर्वमनोरमे तरुणे वयसि वर्त्तमानो निसर्गसौन्दर्य्यसारभुवि श्रीवृन्दावने परमपूतसलिलाया भगवत्या यसुनाया सैकतशीतले पुलिने कृतो-प्रवेशः। प्रावृष्यपिअम्बरशिरसि न क्वापि तत्कालसहभवो घनलेशोनयनगोचरतां गतः। य एव वा मेघलवो लोकितव्यः स पुनः

हेमलहरीराजिरिव पश्चिमगगणपयोधरे विराजितः। अस्ताचलचूड़ावलम्बी भगवान् भास्करो हिरण्मयांशुलेखाभिः प्रतिविम्बितो यमुनाङ्गलतिकायां कृष्णहरितसङ्गतेन दृश्यमेकमभिनवमुत्पादितवान्। वर्षासमागमेन यमुना परिपूर्णदेहयष्ठिः वातविताड़ितलहरी विलसितेन प्रकटितवतीस्वयौवनभरालसम्। निसर्गत एव श्रीवृन्दावनं भूतलस्थं द्वितीयमिव सुरेन्द्रविलासोपवनं नन्दनम्। प्रावृट्सङ्गतेन पुनः यौवनकृतपदा अलोकसुन्दरी ललनेव किमपि अपूर्वम्अदृष्टपूर्वम् अनुत्प्रेक्षितपूर्वम् अनुद्भावितपूर्वम् अशेषभूवनजनमनोमोहनं रूपमापादितम्। सर्वतः अशेषफलकुसुमकिसलयविमण्डितेषु लतामण्डपेषु नीड़प्रत्यागतानां विहङ्गमपरिवाराणां मनोहारिभिः कूजनैः सर्व एव प्रदेशः परमरमणीयतां गतः। एवंभूते सौन्दर्य्यैकप्रकटने भूमावपि युवा किमिवाभिध्यायन् अतर्कितोद्गतवाष्यभरपरिषिक्तगण्डो निमीलितलोचन एव आसीत्। परमरमणीये प्रकृतिलीलाप्राङ्गने सौन्दर्य्यैकास्पदस्य तरुणपुरुषस्य सर्वेष्वेतेषु दर्शनीयेषु किमिति वयस आकृतेर्वा असदृशी भावविकलतेति पाठकेषुमानुषजनसहजं कुतूहलं कथं नोत्पादयेत्। कुतूहलस्यास्य दूरीकरणमानसेन आदावेव युवकपरिचयः करणीय इति तदवतरणिका संयोजिता। देहसंस्कारेण युवा चतुर्विंशतिवर्षदेशीय इति प्रतीयते ! आकारकान्त्या सदन्वयावतंस इति चेतसि जायते। वेशादि पर्य्यालोचनेन तु सततमसमीक्ष्यकारिणं विधिं प्रति परमरोषाविष्टता दर्शकेषु। जनपरिशून्ये सुदूरेयमुनाकच्छे कथमेवास्यावस्थितिरिति परं संशयपदम्। कथं वा विकसितारविन्दप्रतिमाभ्यां हेमपारिजातविडम्बनकपोलफलकप्रवाही अनवरतं वाष्पविमोक्षः। कथं पुनः गाढ़मायतञ्च श्वासविक्षेपः। कथञ्च पुनः अवसरतः अन्तः सारपरिहीनाः सुगाढ़ा अपि शून्यदृष्टयः अन्तरीक्षेषु। अहो विधेर्निर्माणकुशलता। सर्वास्वेवावस्थासु मनोहरदर्शना रमणीय-

कान्तयः। किञ्च नयनपुण्डरीकविनिसृता वाष्पाम्बुरेखा नारायणपादकमलविनिर्गता भगवती मन्दाकिनीव प्रतिभाति। सलिलाभ्यन्तरवर्त्तिन्यौकनीनिके क्षीरकुल्यामध्यवर्त्तिन्यौ हेमकमलिन्यौ इव शोभां गच्छतः।

( क्रमशः)

श्रीउपेन्द्रनाथरायः।

<MISSING_FIG href="../books_images/U-IMG-1732376060Screenshot2024-11-23210351.png"/>

धर्म्मविवेकः।

<MISSING_FIG href="../books_images/U-IMG-1732376138Screenshot2024-11-23210359.png"/>

( पूर्वप्रकाशितात्परः )

यत् कर्म्मधर्म्मसंयुक्तं मनसापि विचिन्तयेत्।
संवर्द्धते यथा वातः शुक्लपक्ष इवोडुराट्॥

दीर्घकालेन तपसा सेवितेन तपोवने।
धर्म्मनिर्धूतपापानां संसिद्धन्ति मनोरथाः॥

धर्म्मवृद्धौ च वर्द्धन्ते सर्वभूतानि सर्वदा।
तस्मिन्नसति हीयेत तस्माद्धर्म्मंविवर्द्धयेत्॥

धर्म्मशक्तौ मनुमतम्।

“श्रुतिस्मृत्युदितं धर्म्ममनुतिष्ठन् हि मानवः।
इहकीर्त्तिमवाप्नोति प्रेत्यचानुत्तमं सुखम्॥ २।९॥”

“मृतं शरीरमुत्सृज्य काष्ठलोष्ट्रसमं क्षितौ।
विमुखा बान्धवा यान्ति धर्म्मस्तमनुगच्छति॥४।२४१।

तस्माद्धर्म्मंसहायार्थं नित्यं सञ्चितुयाच्छनैः।
धर्मेण हि सहायेन तमस्तरति दुस्तरम्॥४॥२४२॥

धर्म्मप्रधानं पुरुषं तपसा हतकिल्विषम्।
परलोकं नयत्याशु भास्वन्तं खशरीरिणम्॥४।२४३॥”

“धर्म्मएव हतो हन्ति धर्म्मोरक्षति रक्षितः।
तस्माद्धर्म्मोन हन्तव्यो मा नो धर्म्मोहतोऽवधीत्॥८।१४५॥”

“एक एव सुहृद्धर्म्मोनिधनेऽप्यनुयाति यः।
शरीरेण समं नाशं सर्वमन्यद्धि गच्छति॥८।१७॥”

“वेदोऽखिलो धर्म्ममूलं स्मृतिशीले च तद्विदाम्।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च॥१।६॥”

धर्म्मविषये याज्ञवल्क्यमतम्। हेमाद्रौ।१।व्रं।

कर्म्मणा मनसा वाचा यत्राद्धर्म्मंसमाचरेत्।
अस्वर्ग्यं लोकविद्विष्टं धर्म्ममप्याचरेन्न तु॥१।१५६॥”

धर्म्मशक्तौ व्यासमतम्, चतुर्वगचिन्तामणौ।व्रं।१।

“धर्म्मादपेतं यत्कर्म्म यद्यपि स्यान्महाफलम्।
न तत् सेवेत मेधावी शुचिः कुशतिलं यथा॥

सुदुर्लभमिदं प्राप्य मानुषं लोकमध्रुवम्।
न कुर्य्यादात्मनः श्रेयस्तेनास्माद्वश्चितश्चिरम्॥

तृणपत्राग्रगाम्यम्बु विन्दुवञ्चपलं यतः।
जीवितं वा धनं विप्रास्तस्माद्धर्मं समाचरेत्॥”

धर्मशक्तौ चतुर्वर्गचिन्तामणिधृतमत्स्यपुराणमतम्।व्रं।१।

“अनित्यं जीवितं यस्माद्वसु चातीव चञ्चलम्।
केशेष्विव गृहीतस्तु मृत्युना धर्म्ममाचरेत्॥”

धर्म्मशक्तौ चतुर्वर्गचिन्तामणिधृतादित्यपुराणमतम्। व्रं।

“मानुष्यं यः समासाद्य स्वर्गमोक्षप्रदायकम्।
द्वयोर्न साधयत्येकं स मृतस्तप्यते चिरम्॥

यावत् स्वास्थ्यशरीरत्वन्तावत् धर्मं समाचरेत्।
अस्वास्थ्यश्चोदितो नान्यत् किञ्चित् कर्त्तुं समुत्सहेत्॥”

धर्म्मशक्तिविषये विष्णुमतम्, चतुर्वर्गचिन्तामणौ। व्रं॥१॥

“युवैव धर्म्ममन्विच्छेदनित्यं जीवितं यतः।
कृते धर्म्मेभवेत् कीर्त्तिरिह प्रेत्य च वै सुखम्॥

यथेक्षुहेतोरपि सेवितं पयस्तृणानि वल्लीरपि च प्रसिञ्चति।
तथा नरो धर्मपथेन सञ्चरन् सुखञ्च कामांश्च वसूनि चाश्नुते॥”

धर्म्मशक्तौ श्रीमन्नारदमतम्। भागवते।७।११।७।

“धर्म्ममूलं हि भगवान् सर्वदेवमयो हरिः।’
स्मृतञ्च तद्विदां राजन् येन चात्मा प्रसीदति॥”

** धर्म्मशक्तिविषये पञ्चशिखशिष्यस्य ईश्वरकृष्णस्य मतम्। सांख्यकारिका।४४।**

“धर्म्मेण गमनमूर्द्धंगमनमधस्ताद्भवत्यधर्मेण।
ज्ञानेन चापवर्गोविपर्य्यादिष्यते बन्धः॥”

** धर्मशक्तौ वौद्धमतम्। यथा रसवाहिनीपुस्तके। ‘वत्थु आदि’**

“धम्ममेव सुणिम्सामि धर्म्म मे रमति मनो।
न हि धम्मादपरमत्थि धम्ममूलन्ति संपदन्ति॥”

** रक्षितेन धर्मेण धनपुत्रसम्पत्तिः प्रवर्द्धते। यथा अथर्ववेदे। १८। ३।१।**

“इयं नारी पतिलोकं वृणाना नि पह्यत उपत्वा मर्त्त्यप्रेतम्।
धर्मं पुराणमनुपालयन्तीतस्यै प्रजां द्रविणञ्चेह धेहि॥”

** धर्मेण प्रतिष्ठितो हि प्रजासु राजा भवति। यथा शुक्लयजुर्वेदे। २०।९**

जङ्घाभ्यां पद्भ्यां धर्मोऽस्मि विशि राजा प्रतिष्ठितः।

( क्रमशः )

<MISSING_FIG href=”../books_images/U-IMG-1732379092Screenshot2024-11-23210351.png"/>

तत्त्वप्रपञ्चः।

<MISSING_FIG href="../books_images/U-IMG-1732379168Screenshot2024-11-13214125.png"/>

( आषाढमासादनुवृत्तः )

तदेवं पुरुषे न स्वाभाविको बन्धः इति प्रतिपाद्य प्रकृतिसंयोग एवसाक्षाद्वन्धनिमित्तमित्यवधारितम्। तत्र पुनरियमाशङ्काभवतु प्रकृतिसंयोग एव पुरुषस्य वन्धनिमित्तम्, किन्तु प्रकृतिसंयोगस्य पुनः किं निमित्तम् ? अविवेकनिमित्तम् एतदेव सूत्रकारोऽप्याह—

“तद्योगेऽप्यविवेकान्न समानत्वम्” इति। १। ५५।

स चाविवेकः मुक्तपुरुषे नास्ति नास्ति च ततो बन्धः। किन्तु संसारिषु पुरुषेषुअविवेकस्ततो बन्धोऽप्यस्तीति।

अत्रेदं विचार्य्यते—योऽसौ बन्धकारणमविवेकः स किं पुरुषधर्म्मः ? उत बुद्धिधर्म्मः? बुद्धिधर्मोऽविवेकः, न तु पुरुषधर्मः कथ-

मिति? नित्यशुद्धबुद्धस्य तदसम्भवात्। चेद्बुद्धिधर्मोऽविवेकस्तदा बुद्धिधर्मेण पुरुषः कथं बध्यते ? सत्यं समवायेन बुद्धिधर्मोऽप्यविवेकःविषयता सम्बन्धेन पुरुषनिष्ठत्वादसौ बध्यते। तथा हि प्रकृतिर्बुद्धिरूपेण परिणता सतीस्वामीभूताय यस्तै पुरुषाय तनूं पृथक्कृत्यस्वव्यापारञ्च दर्शयति, तस्यैव पुरुषस्य बुद्धिरूपेण संयोगं कुरुते इति।

** एतदेवोक्तमीश्वरकृष्णेन कारिकया,—**

“पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य।
षङ्बन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः॥२१॥” इति।

पुनरप्यविवेकस्वीकारे आशङ्कते। हंही अनादिसदसत्कर्मवासनैव बुद्धिपुरुषसंयोगे हेतुरस्तु अस्तु च तेनैव बन्धः तथापि किमिति अविवेकः बन्धकारणं स्वीकुर्य्याम्। नैवम् अनन्यगतिकत्वादेवाविवेको बन्धकारणमिति स्वीकर्त्तव्यं, तथा हि गीतायां भगवान् सङ्गाख्याविवेकेस्यैव पुंप्रकृत्योः संयोगे हेतुत्वमित्युच्चैरुक्तवान्। यथा,—

“पुरुषःप्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु॥” इति ( १ )

अत्रैतावान् विशेषः— अविवेकापेक्षया कर्मादीनां पुरुषे सम्बन्धो दूरः, कथमिति चेत् — पुरुषस्य विवेकेन अविवेको नाश्यते, अविवेकनाशाच्च कर्म्मणि नश्यन्ति, अतएव अविवेक एव संयोगे मुख्यहेतुः कर्म्माणि तु अविवेकद्वारा हेतूनि इत्यवधेयम्।

अथ यमेव अविवेकमादाय परिश्राम्यसि विवदसे बहु जल्पसि च, कोऽसौ अविवेकः ? को वा पदार्थः ? किं स्वरूपो वा ? कस्य धर्मोवा ? सत्यम्, श्रूयतामुच्यते। अविवेको विवेकविरोधिज्ञानविशेषः। न स्वतन्त्रः पदार्थः। आवरकस्वरूपः। बुद्धेर्धर्म्मइति।

_____________

(१) अत्र युक्तिरपि वक्ष्यते।

अयमविवेकः अविद्येत्येवं नाम्ना पि व्यपदिश्यते, तथा हि पुरुषो हि विपर्य्ययज्ञानाद्वध्यते, तच्चविपर्य्ययज्ञानं पञ्चविधम् अविद्या अस्मिता रागः द्वेषः अभिनिवेशश्चेति। पातञ्जलेऽपि अविद्यैव बुद्धिपुरुषसंयोगे हेतुरुक्ता यथा—“तस्य हेतुरविद्येति” २।२४ सू०। एतच्च “बन्धोविपर्य्ययात्”। ३। २४। “विपर्य्ययभेदाः पञ्च”। ३।३७। इत्यस्य तात्पर्य्यमुत्थाप्य वक्ष्यते।

अयञ्च अविवेकः बहुविधः जन्माख्य संयोगहेतुर्भवति। साचात्रागादिद्दारा कर्मभिश्च यथा—अविवेकात् विषयेषु रागो जायते, रागात् सकामपुण्यापुण्यकर्माणि जायन्ते, कर्मभिश्च धर्म्माधर्म्मौ जायेते, ताभ्याञ्च स्वर्गीयं नरकौयं वा शरीरमुत्पद्यते ततोऽसौ पुरुषो बध्यते। तथाच योगसूत्रम् “सति मूले तद्विपाको जात्या-
युर्भोगा न इति।२। १३। “कर्त्तास्मीति निवध्यते इति गीतावाक्यञ्च। न्यायदर्शनमपि व्यतिरेकमुखेन “वीतरागजन्मादर्शनात्” इत्यनेन रागस्यैव जन्मकारणत्वंप्रत्यपीपदत्। तथा च मोक्षधर्मेे—

“इन्द्रियाणीन्द्रियार्थाश्च नोपसर्पन्त्यतर्षुलम्।
हीनश्चकरणैर्देहीन देहं पुनरर्हति॥
तस्मात्तर्षात्मकाद्रागा द्वीजाज्जायन्ति जन्तवः॥”

सर्वमेतदभिप्रेत्याह ईश्वरगीता—

“अनात्मन्यात्मविज्ञानं तस्माद्दुःखं तथेतरत्।
रागद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः॥
कार्य्यो ह्यस्य भवेद्दोषः पुण्यापुण्यमिति श्रुतिः।
तद्दोषादेव सर्वेषां सर्वदोषसमुद्भवः॥”

गोतमोऽपि स्वदर्शने मिथ्याज्ञानापरनाम्नः अविवेकस्यैव दुःखकारणत्वमुक्तं यथा—

“दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग इति॥”

सिद्धमविवेको बन्धाख्य दुःखकारणमिति। दुःखनाशे पुनः किं कारणम् ? दुःखकारनिवृत्तिरेव दुःखनाशकारणम्। तच्च कारणम्

अविवेकविरोधौविवेक एव, एकेनैव विवेकरूपेण कारणेन अविवेको निवर्त्तते, अविवेके निवर्त्तमाने सुखमुत्पद्यते। यथा— जल-पिपासा-दुःखं जलपानमेव निवर्त्तयति नान्यथा। यथा च— मुहुर्विकटगर्जद्रुद्रप्रचण्ड-जलधरग्रस्यमानमार्गे भाद्रपदमास-निश्यमा वस्यायाम् अन्धतमसे व्रजतो दुःखं प्रज्ज्वलत्स्थूलोल्मूक एव निराकरोति सुखञ्चोत्पद्यते। अतएव सूत्रकारः प्रोवाच—

“नियतकारणात्तदुच्छित्तिध्वान्तवत्॥ १ ॥ ५६ ॥”

पतञ्जलिरप्याह—

“विवेकख्यातिरविप्लवा हानोपायः ॥” इति।

अथात्र इयमाशङ्का-ननु यदि केवलं विवेक एव अविवेकोन्मुलने निदानं तर्हि किमिति वेदैः यज्ञादिकर्म्मानुज्ञायते ? सत्यम् अत्रैतदवधेयं, सन्ति कर्म्माणि तु योगानुष्ठानादीनि रजस्तमोभावं विला-पयन्ति सत्त्वञ्च शोधयन्ति ततश्च सत्त्वशुद्धिद्वारा कर्म्मणि विवेकसाधनानि न तु प्राधान्यात्। तथा च पतञ्जलिः—

“ज्ञानदीप्तिराविवेकख्यातेरित्याह।

( क्रमशः )

<MISSING_FIG href=”../books_images/U-IMG-1732386553Screenshot2024-11-23210351.png”/>

नीतिसंग्रहः।

CONTINUED FROM PAGE 116.

( कथासरित्सागरे सुभाषितानि )

  1. रसिको हिविहेत्काव्यं पुष्पामोदमिवानिलः।

Just as the smell of the flowers is borne by the air the beauty of a good poem is learnt by heart by one who has the taete for it.

36. तत्त्वज्ञेन कृतावज्ञः को नामान्तर्न तप्यते।

Who is it that does not suffer heartfelt pain at his being
dishonoured by the wise ?

37. संयोगा विप्रयोगाश्च भवन्ति बहवो नृणाम्।

Man is subject to various meeting ( unions) and separations ( bereavements ) in the world.

38. पापं पापान्तराक्षेपक्रूरं हि क्रूरकर्म्मणाम्।

The sin of the wicked is terribly great owing to its ever being multiplied by a series of vicious acts.

39. ( इत्यं नरपते ! ) दीर्घवियोगव्यसनार्णवम्।
तरन्ति च लभन्ते च कल्याणं धीरचेतसः॥

( Oh king! ), the patient and nobleminded are thus able to swim over the sea of long separation as well as to gain their object and secure good and happiness in the end.

40. जलाहतो विशेषेण वैद्युताग्नेरिव द्युतिः।
आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि॥

A brave and wise man is indeed he whose intellect is even brighter in days of distress and difficulties, like the flash of lightning which is more conspicuous when it appears in the midst of raining clouds.

41. शवं स्पृशन्ति सुजना गणिका न तु निर्धनम्।

The good do touch a corpse but the prostitute will even
avoid the contact of the poor.

42. सर्वं हि साधयन्तीह द्विजाः श्रौतेन कर्मणा।

There is nothing difficult for the twiceborn who can accomplish every thing by the performance of Vedic cerimonials.

43. प्रियोपभोगबन्ध्येहि विफले रूपयौवने।

Beauty and youth are alike useless in one who is not

fortunate to enjoy the pleasures of life in the happy company of her ( or his ) beloved consort.

44. भूतेन्द्रियानभिद्रोहो धर्मो हि परमो म।

The absolute controul over (or the complete subjectie of) the animal senses in man is universally acknowledge to be the highest virtue or religion.

45. अरञ्जितश्च बालोऽपि रोषमुत्पादयेद् ध्रुवम्।

If not pleased or satisfied a child canalso be angry.

पु० श्रीगोपीनाथ शर्म्मा—( जयपुर )

<MISSING_FIG href=”../books_images/U-IMG-1732595346Screenshot2024-11-23210351.png”/>

ब्रह्मचर्य्यम्।

<MISSING_FIG href=”../books_images/U-IMG-1732595401Screenshot2024-11-23210359.png"/>

(पूर्वप्रकाशितात्परः)

ओङ्कारपूर्वकास्तिस्रो महाव्याहृतयोऽव्ययाः।
त्रिपदाचैव सावित्री विज्ञेयं ब्रह्मणो मुखम्॥८१॥ (१)

  1. Know that the three imperishable Maharyahrat preceded by the syllable Om, and ( followed ) by the thre footed Savitri are the portal of the Veda and the gate leadi (to union with) Brahman.

योऽधितेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः।
स ब्रह्म परमभ्येति वायुभूतः खमूर्त्तिमान्॥८२॥

  1. He who daily recites that ( verse ), untired, duri three years, will enter (after death) the highest Brahman, mo as free as air, and assume an ethereal form.

एकाक्षरं परं ब्रह्म प्राणायामः परंतपः।
सावित्र्यास्तु परं नास्ति मौनात् सत्यं विशिष्यते॥ ८३॥

  1. The monosyllable (Om) is the highest Brahman, (thre

____________________

(१) अतः परं बुलारमाहेवस्यानुवादः विन्यसते।

suppressions of the breath are the best (form of) austerity, but nothing surpasses the Savitri; truthfulness is better than silence.

क्षरन्ति सर्वा वैदिक्यो जुहोति यजति क्रियाः।
अक्षरन्त्वक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः॥८४॥

  1. All rites ordained in the Veda, burnt oblations and (other) sacrifices, pass away; but know that the syllable (Om) is imperishable, and ( it is ) Brahman, (and) the Lord of creatures (Pragapati) .

विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः।
उपांशुः स्याच्छतगुणः सहस्रो मानसः स्मृतः॥८५॥

  1. An offering consisting of muttered prayers, is ten times more efficacious than a sacrifice performed according to the rules (of the Veda); a (prayer) which is inaudible (toothers) surpasses it a hundred times, and the mental (recitation of sacred texts) a thousand times.

ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोड़शीम्॥८६॥

  1. The four Pakayagnas and those sacrifices which are enjoined by the rules (of the Veda) are all together not equal in value to a sixteenth part of the sacrifice consisting of muttered prayers.

जप्येनैव तु संसिद्धेद्ब्राह्मणो नात्र संशयः।
कुर्य्यादन्यत्र वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते॥८७॥

  1. But, undaubtedly, a Brahmana reaches the highest goal by muttering prayers only; (whether) he perform other (rites) or neglect them, he who befriends (all cretures) is declared (to be) a (true) Brahmana.

इन्द्रियाणां विचरतां विषयेष्वपहारिषु।
संयमे यत्नमातिष्ठेद्विद्वान् यन्तेव वाजिनाम्॥८८॥

  1. A wise man should strive to restrain his organs which

run wild among alluring sensual objects, like a charioteer his horses.

एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनोषिणः।
तानि सम्यक् प्रवक्ष्यामि यथावदनुपूर्वशः॥८९॥

  1. Those eleven organs which former sages have named,I will properly (and) precisely enumerate in due order,

श्रोत्रं त्वक् चक्षुषीजिह्वा नासिका चैव पञ्चमी।
पायूपस्थं हस्तपादं वाक् चैव दशमीस्मृता॥९०॥

  1. (Viz ) the ear, the skin, the eyes, the tongue, and the nose as the fifth, the anus, the organ of generation, hands and feet, and the (organ of) speech, named as the tenth.

बुद्धौन्द्रियानि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः।
कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते॥ ९१॥

  1. Five of them, the ear and the rest according to their order, they call organs of sense and five of them, the anus and the rest, organs of action.

एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम्।
यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ॥ ९२॥

  1. Know that the internal organ (manas ) is the eleventh, which by its quality belongs to both (sets); when that has been subdued, both those sets of five have been conquered.

इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम्।
संनियम्य तु तान्येव ततः सिद्धिं नियच्छति॥ ९३॥

  1. Through the attachment of his organs (to sensual pleasure) a man doubtlessly will incur guilt; but if he keep them under complete control, he will obtain success (in gaining all his aims ).

न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते॥९४॥

  1. Desire is never extinguished by the enjayment of

desired object; it only grows stronger like a fire (fed) with clarified butter.

यश्चैतान् प्राप्नुयात् सर्वान् यश्च तान् केवलां भजेत्।
प्रापणात् सर्वकामानां परित्यागो विशिष्यते॥६५॥

  1. If one man should obtain all those (sensual enjoyments) and another should renounce them all, the renunciation of all pleasure is far better than the attainment of them.

न तथैतानि शक्यन्ते संनियन्तुमसेवया।
विषयेषु प्रजुष्टानि यथाज्ञानेन नित्यशः॥६६॥

  1. Those (organs) which are strongly attached to sensual pleasures, cannot so effectually be restrained by abstinence (from enjoyments) as by a constant (pursuit of true) knowledge.

वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च।
न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हिचित्॥८७॥

  1. Neither (the study of) the Vedas, nor liberality, nor sacrifices, nor any (self-imposed) restraint, nor austerities, ever procure the attainment (of rewards) to a man whose heart is contaminated (by sensuality ).

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा तथैव च।
न हृष्यति ग्लायति वा सविज्ञेयो जितेन्द्रियः॥८८॥

  1. That man may be considered to have ( really) subdued his organs, who on hearing and touching and seeing, on tasting, an] smelling (anything) neither rejoices nor repines.

इन्द्रियाणान्तु सर्वेषां यद्येकं चरतीन्द्रियम्।
तेनास्य क्षरति प्रज्ञा दृतेः पात्रादिवोदकम्॥८८॥

  1. But when one among all the organs slips away (from control ), thereby (man’s) wisdom slips away from him, even as the water (flows) through the one ( open ) foot of a ( water-carrier’s) skin.

वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा।
सर्वान् संसाधयेदर्थानचिखन् योगतस्तनुम्॥१००॥

  1. If he keeps all the (ten) organs as well as the mind in subjection, he may gain all his aims, without reducing his body by (the practice) of Yoga.

पूर्वांसन्ध्यां जपंस्तिष्ठेत् सावित्रीमर्कदर्शनात्।
पश्चिमान्तु समासीनः सम्यगृचविभावनात्॥१०१॥

  1. Let him stand during the morning twilight, muttering the Savitri until the sun appears, but ( let him recite it), seated, in the evening until the constellations can be seen distinctly.

पूर्वांसन्ध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति।
पश्चिमान्तु समासीनो मलं हन्ति दिवाकृनम्॥१०२॥

  1. He who stands during the morning twilight muttering (the Savitri), removes the guilt contracted during the (previous) night; but he who (recites it), seated, in the evening, destroys the sin he committed during the day.

न तिष्ठति तु यः पूर्वांनोपास्ते यश्च पश्चिमाम्।
शूद्रवहहिष्कार्य्यः सर्वस्माह्विजकर्मणः॥१०३॥

  1. But he who does not (worship) standing in the morning, nor sitting in the evening, shall be excluded, just like a Sudra, from all the duties and rights of an Aryan.

समीपे नियतो नैत्यकं विधिमास्थितः।
सावित्रोमप्यधौयीतगत्वारण्यं समाहितः॥१०४॥

  1. He who (desires to ) perform the ceremony ( of the ) daily (recitation), may even recite the Savitri near water, retiring into the forest, controlling his organs and concentrating his mind.

( क्रमशः)

श्रीश्रीदुर्गाशरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href="../books_images/U-IMG-1732597886Screenshot2024-11-26104042.png"/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्माणि कारयन्ती जनानिव।
मायावलम्बते सेयमम्बा श्रीशिवसुन्दरी॥

<MISSING_FIG href="../books_images/U-IMG-1732597946Screenshot2024-11-26104051.png"/>

मासावतरणिका।

पादार्पणात् कुपितवृश्चिक आत्मगेहे
मित्रस्य हिंसनरुचिः कुटिलः प्रचण्डः।
दन्ताङ्कुरेण तुहिनेन हि सूर्य्यगृह्यान्
दोनान्दशन्नुसि सर्पति मार्गशीर्षः॥

<MISSING_FIG href="../books_images/U-IMG-1732598001Screenshot2024-11-26104103.png"/>

उद्भट श्लोकाः।

“अविश्रमं यावदिदं शरीरं पतत्यवश्यं परिणामदुर्वहम्।
किमौषधं पृच्छसि मूढ़ दुर्मते ! निरामयं कृष्णरसायणं पिव”॥ ९६॥

“सेवे सदैव विषयान् पुरुषक्रमेण दासस्तवेति जगति प्रतिपादयामि।
हे कृष्ण ! वञ्चयितुमन्त कटूतगोष्ठौं घट्टौं तरन्ति न शठा महदाख्यया किम् ?”॥९७॥

पञ्चत्वं तनुरेतु भूतनिवहाः स्वांशं विशन्तु ध्रुवम्
धातारं प्रणिपत्य नम्रशिरसा तत्रापि याचे वरम्।
तद्वापीषु जलं तदीयमुकुरे ज्योतिस्तदीयाङ्गन-
व्योम्निव्योम तदीयवर्त्मनि धरा तत्तालवृन्तेऽनिलः॥९८॥ (१)

____________________

(१) पतिवियोगिन्या सुमूर्पोरुक्तिरियम्।

श्रीलक्ष्मीः श्रीसरस्वती।

<MISSING_FIG href="../books_images/U-IMG-1732594674Screenshot2024-11-26094734.png"/>

( पूर्वानुवृत्ता )

“नासाध्यं हि तपस्यतः" " न च दैवात् परं बलम्” वाक्ये एते मूलं बलमवलम्बमानोऽद्य आर्य्याणां गुरु वेदान्तवाक्ये च श्रद्दधतां प्रीतये विद्योत्पत्तिकरं सारस्वतकल्पादिकं लिखामि।

अथ सारस्वतकल्पम्।

नारद उवाच।

केनोपायेन देवेश ! विद्योत्पत्तिर्भवेन्नृणाम्।
तत्त्वविद्याप्रकाशश्च तन्मे ब्रूहि जगत्प्रभो !॥

ब्रह्मोवाच।

साधु साधु त्वायापृष्ठं लोकानां हितकारकम्।
एतदेव पुरा पृष्टं कल्पादौ विष्णवे मया॥

ब्रह्मशब्दस्वरूपेण प्रसन्नेनान्तरात्मना।
यत्प्रोक्तं तेन मे ब्रह्मन् तत्ते वक्ष्यामि यत्नतः॥

श्रीभगवानुवाच।

शृणु ब्रह्मन् परं गुह्यं कल्पंसारस्वतं शुभम्।
यस्य विज्ञानमात्रेण नाड्यप्रहरणं भवेत्॥

सर्वशास्त्रप्रकाशश्च सर्वज्ञो जायतेऽचिरात्।
अभ्यासाच्च ध्रुवं यस्य वाचश्चित्राभवन्ति हि॥

अवापुस्त्रिदशावाप्तिं वागीशत्वं वृहस्पतिः।
हैपायनोऽपियां ज्ञात्वा वेदव्यासो भवेन्मुनिः॥

मन्त्रोद्धारं प्रवक्ष्यामि साङ्गावरणपूजनैः।
अनन्तं विन्दुना युक्तं वामगण्डविभूषितम्॥

जपेद्द्वादशलक्षन्तु मूकोऽपि वाक्पतिर्भवेत्।
नाभौ शुद्धारविन्दन्तु ध्यायेद्दशदलं सुधीः॥

तन्मध्ये भावयेन्मन्त्री मण्डलानां त्रयं चिरम्।

रत्नसिंहासनं ध्यायेत् वर्णज्योत्स्नामयं पुनः॥

तस्योपरि पुनर्ध्यायेद्देवीं वागीश्वरीं ततः।
रत्नकान्तिनिभां देवीं ज्योत्स्नाजालविकाशिनीम्॥

रक्ताम्बरयुतां शुभ्रां शशिखण्डविमण्डिताम्।
विभ्रतीं दक्षहस्ताभ्यां व्याक्ष्याविमलमालिकाम्॥

अमृतेन तथा पूर्णं घटं दिव्यञ्च पुस्तकम्।
दधतीं वामहस्ताभ्यां पीनस्तनभरान्विताम्॥

मध्ये क्षीणां गुणैः स्वच्छांनानारत्नविभूषिताम्।
आत्माभेदेन ध्यात्वा च ततः संपूजयेत् क्रमात्॥

आद्येन दीर्घयुक्तेन कुर्य्यादङ्गानि हस्तयोः।
हृदयादी तथा कुर्य्यावीजेनाङ्दगक्ङ्गारियां मनोः॥

भ्रुवोर्मध्ये तथा नाभौ गुह्ये च देशिकस्तथा।
न्यसेद्वीजं पुनर्वस्तौ व्यापकं विन्यसेत्ततः॥

पीठन्यासं ततः कुय्यात् देवताभावसिद्धये।
मातृकायास्तु यत्प्रोक्त पीठमभ्यर्च्यं यत्नतः॥

वर्णाञ्जेनासनं दद्यात् मूर्त्तिर्मूलेन कल्पयेत्।
आवाह्य पूजयेत्तस्यां देवीं वागीश्वरीं ततः॥

अङ्गे स्यात् प्रथमा वृत्तिः द्वितीया शक्तिभिस्ततः।

दलाग्रेषुसमभ्यर्च्य \। आं ब्राह्मैनमः। ईं माहेश्वर्य्यै। ऊं कौमार्य्यं। ऋं वैष्णव्यै!‘ऊंवाराह्यै। ऐं इन्द्राण्यै। औ चामुण्डायै। अः महालक्ष्मै।

लोकपाला वहिः पूज्यास्तेषामस्त्राणि तद्बहिः।
एवं संपूजयेन्मन्त्री जपहोमरतः सदा॥

कवित्वं लभते वाग्मीलक्षैर्द्वादशभिर्ध्रुवम्।
प्रातर्जप्त्वासहस्रन्तु पिवेद् ब्राह्मींवचान्विताम्॥

न विस्मरति मेधावी श्रुतान् वेदागमानपि।
कण्ठमात्रोदकेस्थित्या ध्यायेन्मार्त्तण्डमण्डले॥

ज्योतिः पुञ्जनिभां देवीं परिवारसमन्विताम्।
वराभययुतां हस्ते मुद्रा पुस्तकधारिणीम्॥

जपन् सहस्रमानेन षण्मासं विजितेन्द्रियः।
भीमां संप्राप्य वाक्सिद्धिं कवीनामग्रणीर्भवेत्॥ *॥

इति कृष्णानन्दतन्त्रसारः। अस्य प्रकारान्तरमपि तत्रैव द्रष्टव्यम्।

जातस्य वालकस्य भावि पाण्डित्योपयोगिनीं मेधां वर्द्धयितुं वैदिके विधिरेष समादिश्यते। यथा—गोभिलगृह्ये२यप्रपाठके ७म काण्डे।

“तथैव मेधाजननं सर्पिः प्राशयेत्”॥ २०॥

इयमाज्ञेति मन्त्रेण कुमारस्य कनिष्ठाङ्गुष्ठेन मेधाजनकं सर्पिः पाययेत्। अन्यच्च,

“जातरूपेण वादाय कुमारस्य मुखे जुहोति—मेघान्ते मित्रावरुणावित्येतयर्च्चा सदसस्पति मद्भतमिति च॥ २१॥

स्वर्णशलाकया घृतमादाय कुमारस्य मुखे मेधान्ते इति मन्त्रेण स्वहान्तेन क्षिपेत्।

अत्र मेधावृद्धौतान्त्रिकीप्रक्रिया लिख्यते। यथा—गन्धर्वतन्त्रे २य पटले।

बालकस्य तु जिह्वायां त्रिदिनाभ्यन्तरे न्यसेत्।
मधुना श्वेतदुर्वाभिः सुवर्णस्य शलाकया॥

इदं वाग्भवकूटन्तु लिखेद्वैजननान्तरे।
स एव पण्डितोभूयान्न तु मूर्खोभवेदध्रुवम्॥

वाग्भवकूटमपि तत्रैव यथा—

कामदेवस्ततो योनिस्तूर्य्यस्वरपुरन्दरी।
भुवनेशी ततः पश्चात् पञ्चवक्त्रविभूषितः॥

अयं स वाग्भव देवि ! वागीशत्वप्रदायकः
इदं वाग्भवोकूटन्तु वालिशस्यापि मूर्द्धनि॥

हस्तं दत्वा पठेत् सिद्धमष्टोत्तरशतं प्रिये।
सोऽपि श्लोकं महेशानि करोत्येव न संशयः॥

सत्तर्कपदवाक्यार्थशब्दालङ्कारसारवित्।
जिह्वायां न्यसनाद्देवी मूकोऽपि सुकविर्भवेत्॥

वृहन्नीलतन्त्रे प्रथमपटलेऽपि।

इदानीं शृण चार्वह्नि ! कविताकारकं परम्।
प्रयोगं दुर्लभं गोप्यं तव स्नेहात् प्रकाशितम्॥

चण्डीं चाण्डालिनीञ्चैव त्यागिनं सर्वमोहनम्।
वीजत्रयं जपेद्राचौ मध्ये चैव रवेर्दिने॥

अष्टाधिकसहस्रस्यप्रमाणेन जपञ्चरेत्।
शताभिमन्त्रितं कृत्वा पिवेच्चजलमुत्तमम्॥

पाणिना दक्षिणेनैव मधुलाजान् समानयेत्।
नाड़ीच्छेदाच्चप्राक् वालं संस्कुर्य्याच्चैवसाधकः॥

कवित्वं जायते तेन पाण्डित्वं सुरवन्दिते।
जिह्वां सम्माज्यं देवेशि ! लिखेद्हेमशलाकया॥

दुर्वया वा महादेवि ! जिह्वोष्ठयोः समालिखेत्।
पङ्क्तिद्वयेन संलेख्य कुर्य्याच्चवालसंस्क्रियाम्॥

एकादशाहेदेवेशि ! द्वादशाहेऽथवा पुनः।
वर्णजात्यादिभेदेन मामान्तः सम्भविष्यति॥

यथाशक्त्युपचारेण देवतां पूजयेत् पुनः।
संपूज्य देवतां भक्त्या लिखेन्मन्त्रंमहेश्वरि !॥

यदा पिता न देशस्थो पितृव्यो मातुलोऽपि वा।
लिखित्वा परमेशानि ! कुर्य्याच्च बालसंस्क्रियाम्॥

भूलमन्त्रं लिखेन्मन्त्रीयस्योष्ठे श्वेतदुर्वया।
वाक्योच्चारणतो वालो वाग्मीद्रुतकविर्भवेत्॥

जन्मसंस्कारकं नाम पुत्रे जाते प्रशस्यते।
जिह्वायाञ्च लिखेद् यन्त्रं यत्रेदारुकुशेन वा॥

वारत्रयन्तु सम्मार्ज्यंदक्षिणेनैव पाणिना।
मन्त्रमुच्चार्य प्रत्येकं पङ्क्तिं कुर्य्यात् सुशोभनम्॥

आदौ संस्कारः कर्त्तव्यस्तदन्तेविलिखेन्मनुम्।
गन्धचन्दनपुष्पैश्च पूजयेत्तारिणीं शिवे॥

उत्तराभिमुखो भूत्वा स्थापयेत् पीठमुत्तमम्।
पूजयेत्तारिणींदेवीं नानाभक्ष्यैः सुशोभनैः॥

षोड़शैरुपचारैश्च पूजयेद्भक्तिभावतः।
धूपं दद्याद्गुग्गुलूनां सर्वकर्मफलप्रदम्॥

नारिकेलं तथा रम्भां वदरं वकुलं तथा।
वीजपूरं कर्णिकारं शर्करां गन्धसंयुताम्॥

मधूदकञ्च कलायञ्च सिद्धान्नं पयसाप्लुतम्।
मांसं मत्स्यं पिष्टकञ्च दद्यादतिप्रियं महत्
कविर्वाग्मीभवेत् पुत्रः सर्वकामप्रकारकः
जितेन्द्रियः सत्यवादी धार्मिकीजायते महान्॥

अत्रौषधादिरपि मेधादिवृद्धयेतन्त्रशास्त्रे निर्दिश्यते। यथा कामरत्ने—

पथ्या घृतम्।

पथ्या वचा कणा शुण्ठी सैन्धवं मरिचं वचा।
शिग्रुंप्रतिपलं चूर्णं द्वात्रिंशतिपलं घृतम्॥
घृताचतुर्गुणं क्षीरं दत्ता सर्वं विपाचयेत्।
घृतशेषं पिवेन्नित्यं वाङ्मेधास्मृतिबुद्धिदम्॥१॥

ब्राह्मीघृतम्।

वचा ब्राह्मीफलं कुष्ठंसैन्धवं तिलपुष्पिका।
चूर्णयित्वा द्रवैर्भाव्यं मण्डुकीब्राह्मीसम्भवैः॥
दिनमेकं ततः पाच्यंकल्काच्चतुर्गुणं घृतम्।
घृताच्चतुर्गुणं देयं क्षीरंब्राह्मी नियोजितम्॥
घृतशेषं समुत्तार्य्य लिहेद्वाबुद्धिदायकम्॥२॥

हे हरिद्रे वचा कुष्ठं पिप्पली विश्वभेषजम्।
अजाजी चाजमोदा च यष्ठीमधुकसैन्धवम्॥
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत्।
तच्चूर्णं सर्पिषा लेह्यंकार्षिकं वाक्यशुद्धिकृत्॥
भक्षयेन्मासमेकन्तु वृहस्पतिसमो भवेत्॥३॥

ब्राह्मीशुण्ठीवचामुण्डीपिप्पली समचूर्णकम्।
मधना भक्षयेत् कर्षं स्पष्टवाग् जायते ध्रुवम्॥४॥

वचास्थि करवी गुन्त्रामुंषलीमधुकं बला।
अपामार्गस्य पञ्चाङ्गं क्षौद्रेण पूर्ववत् फलम्॥५॥

अपामार्ग वचा शुण्ठी विड़ङ्गंशङ्खपुष्पिका
शतावरी गुडुचौ च समं चूर्णेत् हरीतकीम्॥

घृतेन भक्षयेत् कर्षं नित्यं ग्रन्यसहस्रधृक्॥६॥

अश्वगन्धा चाजमोदा पाठा कुष्ठंकटुत्रयम्।
शतपुष्पीविश्ववीजं सैन्धवञ्च समं समम्॥
एतदर्द्धं वचा चैव चूर्णितं मधुसर्पिषा।
भक्षयेत् कर्षमात्रन्तु जीर्णान्ने क्षीरभोजनम्॥
सहस्रग्रन्थधारीस्यात् ब्रह्मचारी कविर्भवेत्॥७॥

लिहेत् ज्योतिष्मतीतैलं वलया वचया सह।
स्तोकं स्तोकं क्रमेणैव यावन्निष्कचतुष्टयम्॥
निर्वाते मधुराशीस्यात् ब्रह्मचारी कविर्भवेत्॥८॥

सूर्य्यस्य ग्रहणे वेन्दोःसमन्तामाहरेद्वचाम्।
चूर्णितां सघृतां भुक्त्वा सप्ताहे वाक्पतिर्भवेत्॥
इत्येवमादियोगानां मन्त्रराजःशिवोदितः।
जक्त्वायुतेन सिद्धिःस्यात् पश्चात्तेनैव भक्षयेत्॥
मन्त्रस्तु। ओं ह्रूंहयशीर्षवागीश्वराय नमः॥९॥

धात्रीफलरसैर्भाव्यं वचाचूर्णं दिनावधि।
घृतेन लेहयेन्निष्कंवाक्शुद्धि स्मृति बुद्धिकृत्॥१०॥

वचाचूर्णं पिवेत् क्षौरैः पूर्वमन्त्रेण मन्त्रितम्।
भोज्यंक्षीराज्य शाल्यन्नं सप्ताहे वाक्पतिर्भवेत्॥
सप्तमे अष्टमे चैव साक्षात् श्रुतिधरो भवेत्॥११॥

वचाचूर्णं पिवेत् क्षीरैर्घृतैः क्षौद्रैश्च यत् पुनः।
सप्ताहक्रमयोगेण लेह्यं स्यात् पूर्ववत् फलम्॥१२॥

पुष्यार्कयोगे संगृह्य श्वेतार्कस्य तु मूलकम्।
छाया-शुष्कन्तु तच्चूर्णं मन्त्रेणैवाभिमन्त्रितम्।
कर्षमर्द्धपलं वापि प्रातरुत्थाय यः पिवेत्॥

तक्रेण सर्पिषा वापि जीर्णान्ने क्षीरभोजनम्।
एवं सप्ताहमात्रेण कविर्भवति वालकः॥
ओं महेश्वराय नमः अनेनाभिमन्त्र्यपिवेत्॥*॥इति।


कुन्दमाला।

(पूर्वानुवृत्ता)

अथ चिरेणोन्मिलोतलोचनो युवा अव्यक्तं किमिवाभिदधानः गगनासक्तनयनः पुनरिव मन्युभरापहृतदृष्टिः अनवरतोद्दामागतं वाष्पभरं वर्षन् तत्क्षण एवं अपहृतसंज्ञः भूमौ पपात। ततः सुचिरेण सान्ध्ययमुनाकल्लोलस्पर्शिना वातेन प्रतिलब्धसंज्ञः क्रमेण उपसंहृतमन्युवेगः उन्मिलीतलोचनः स्वगतमभाषत “अहो धिक् मामधन्यं, को वेहापरोमादृशो दग्धभागो वराकः ? नाहमवगच्छामि कोऽहं
कस्य वेति। अत्र सर्वैरेव दास्याः पुत्र इति सततमहं परमवधीरितः। दग्धप्रजापतेरियदेवमन्निर्माणे दीर्घजीवितप्रदाने च प्रयोजनं निष्पत्रं यदनुपदमेव लोकैरवसादितव्य इति। सर्वथा वृथैव मे सर्जनविधिः। न विद्यते कश्चिदपि विशालेऽस्मिन् संसारे यो मया मत्पक्षपातीति अवगन्तव्यम्। तत् कथमहं परं हेयास्पदं जीवितं धारयामि। कथं पुनः हतजीवितस्य आशापदम्। धिङ्मांनरहतकं यस्य जीविततृष्णा सारमेयाधिकहेयास्पदस्य। स मम नियोग्य इति महतायासेन तन्नियोजितमशेषं निर्वर्त्तयामि, तथापि मां सततम् आत्मावस्थापरिचिन्तनमृतकल्पंकदा वाक्पारुष्येण वा नितराम् अवसादयति। नास्ति करणान्तरावसरः। एवमापतिते मरणमेव जीवितं, जीवितं पुनः मरणम्। तथापि किमिति मरणावसरे, बध्नाति इव माम्। केन जनेन वा बद्धोऽहम्। अहो सर्वमेव सुविज्ञातमधुना। निखिलेऽस्मिन् मरुपरिपूरिते संसारे दाहैकास्पदभूते मदीये देहहतके अस्ति काचन सुधासारप्रसविनीरमणीरूपिणौदेवी या सततं पीयूषधारां क्षरन्तीदग्धं जीवितं प्रत्युज्जीवयति। अहो तस्याः प्रेम्णः प्रकारः। सततं पित्रा परिमृदितापि मयि अनुरागं न विमुञ्चति। न शक्नोति

मृणालिकापेलवा सरला अनङ्गमञ्जरीमया विरहिता क्षणमपि स्थातुमिति मदर्थं नियतमेव पित्रा तर्जिता। मानवकुलापसदेन कामपालेन तादृशीं दुहितरं संयोज्य परां वाच्यास्पदतां गतो विधिः। सहेत किं कठोरवैश्वानरसन्तापं कोमला लतिका। मदनुरागेण पितूरोषविषयतां गता। अहो ग्रहविगुणतायाः प्रभावः, नासौकेवलं मां तपति, परन्तु य एव मत्पक्षपाती तमपि दहति निरूढम्। मन्ये मम दूरापसर्पणेन तस्याः क्लेशह्रासो भव्य इति। अतो देशान्तरं गन्तव्यम्। क्वपुनर्गन्तव्यम्। सर्वत्रैव मादृशास्तपस्विनः परिमृदिता निपीड़िताश्च। स्मरामि, समायातः नगरेऽस्मिन् कञ्चन वैदेशिको म्लेच्छजनो धृतनियोज्य संग्रहमानसः, तत्सकाशमेव सर्वथा गन्तव्यम्। श्रूयते म्लेच्छपुरुषाः नितरां भृत्यपीड़काः। मम पुनः पीड़ने नास्ति भीत्यवसरः। हतभागस्य सर्वत्रैव समम्। जीवितेऽपि पराधीनस्य नियोगावसरे कानुधावना इत्यभिदधानः नीरुराव।

भरागत-नयनवारिणा कपोलद्वयं सुसिक्तमभूत्। परिधेयप्रान्तेन वाष्पम् अपसार्य्यपुनरेव अवादीत् “अरे दग्धादृष्ट ! कथं रोदिसि ? निराश्रयस्य त्वादृशस्य कथं पुनरालोचना गमनागमने। अस्ति कश्चित् कामपालेन सदृशः पापाचारः। अशेषम्लेच्छनिग्रहोऽपि नानेन तुलामेति। दुःखैकभाजः भवतः सर्वत्रैव समम्। गच्छ म्लेच्छपतेः पुरतः नियोगाय।” इति कृतगमनानुवद्धोयुवा आश्रयाद्उत्थाय स्वां पर्णशालां प्रतस्ते। अहो कालस्य परिवर्त्तनम्। सर्वभोगसुलभे वयसि वर्त्तमानस्यापि यूनः नास्ति कोऽपि भोगावसरः। सर्वथा वितथमाह कविः।

“को नाम पाकाभिमुखस्य जन्तु-
द्वाराणि देवस्य पिधातुमीष्ठे”
________

द्वितीयोच्छ्वासः।

लतामण्डपे।

“पश्यति दिशि दिशि रहसि भवन्तम्।
तदधरमधुरमधूनि पिवन्तम्॥१॥

नाथ हरे सीदति राधावासगृहे॥ ध्रु॥

त्वदभिसरणरभसेन बलन्ती।
पतति पदानि कियन्ति चलन्ती॥२॥

विहितविशदवसकिसलयवलया।
जीवति परमिह तव रतिकलया॥३॥

मूहुरवलोकितमण्डनलीला।
मधुरिपुरहमिति भावनशीला॥४॥

त्वरितमुपैति न कथमभिसारम्।
हरिरिति वदति सखीमनुवारम्॥५॥

श्लिष्यतिचुम्बति जलधरकल्पम्।
हरिरुपगत इति तिमिरमनल्पम्॥६॥

भवति विलम्बिनि विगलितलज्जा।
विलपति रोदिति वासकसज्जा॥७॥”

प्रकृतिलीलाप्राङ्गनं वृन्दावनम्। मर्त्तस्य नन्दनम्। संख्यामतीता अशेषा लतामण्डपा अत्र विराजन्ते, तेषु श्रीवासुदेवक्रीडानिदर्शनं कदम्बोपवनं पुराकालादेव अद्वितीयरमणीयतायैव सर्वत्र विश्रुतिं गतम्। अहो प्रावृषि एतत् स्वकान्त्या देवोपवनमपि अतिक्रामति। तरुराजयः फुल्लकुसुमकिसलयविमण्डिताः सर्वतो विराजिताः। वालार्कागतेन मण्डपवासिनः पतत्रिणः कुसुमपरिमलवाहिमरुता आप्याय्यमानाः सर्वभुवनमनोमोहनकूजनेन दिक्चक्रवालं विमोहितवन्तः। क्वापि कर्णान्तायतलोचना कूरङ्गवधूः रसैकपरवतशास्वं कान्तं कण्डूयति। कुतो वा शारिकासुखमासीनः प्रियः शुकः मधुरं कूजति। कुतो वा जीवञ्जीवनायकः

स्वदयितां सुदीर्घविरहरजनीकथाव्याजेन मधुरं गायति। कुतो वा व्रततीवाला अशेषपुष्पकिसलयविमण्डिता कान्तं महीरूहमालिङ्गितवती। नीलनीरदखण्डवत् नातिदूरं या शैवाल-कुमुदकह्ला रोपशोभिता दीर्घिका विराजते तत्र मानिनीपङ्कजिनीमानभरेणैव कान्तालोकेनैव शनैः उन्मिमिलतवती। अरसिको मीनः पुनः चपलतां प्रकाश्य मानिनीमानभङ्गैकरतं पादग्रहणपरं भास्करकरं दूरं प्रक्षिपति। ऊर्द्धं सुनीलगगणतलं मेघपरिमुक्तं हिरण्मयदिवाकरकिरणपटलसमुज्ज्वलं विराजते। चिरादेव सवितृमयूखं समासादितवतीव सर्वैव प्रकृतिः भ्रमति। एवंविधे रमणीये उषसि कश्चित् तरुणे वयसि वर्त्तमानः अनिन्द्यकान्तिः “पश्यसि दिशि दिशि रहसि भवन्तमित्यादि श्रीराधिकाविरहज्ञापिकां गीतलहरीं अशेषरागरागिणीसमन्वयेयन् गायन् वीगा निक्वष पुरःसरम् अत्र कदम्बोपवनं समायातः। तस्य च देहकान्त्या अशेषसुरपुरसुन्दरतरुणवृन्दमतिक्रामतः सर्वजनमनमोहने यौवने धृतपदस्यापि देहवयोसोविरोधिनीगैरिके वसने वसानस्य, सुविस्तृते ललाटदेशे सरसमलयजानुलेपनार्हेभस्मत्रिपुण्ड्रकेणमण्डितस्य अशेषमणिरत्नविनिर्मितायाःस्रजः योग्ये कण्ठदेशे तुलसीमालया भूषितस्य पुराङ्गनासमवायावतंसीभूतायाः कमलिनीपेलवकरग्रहणयोग्येन पाणिना कमण्डलुं कलयतः अनवरतमनसिजस्तोत्रवाचनार्हेवदनपयोधरे सततं सर्वसन्तापसंहरणं पीयूषासारक्षरगणच्छलेन भगवतो हरेः सङ्कीर्त्तनं कुर्वतः, सर्वे एव तत्प्रदेशस्था उपवनचारिणः मोहिता इव आविष्टा इव मत्ता इव परवशा इव पुरतः विमुक्तद्वन्द्वदोषाः समायाताः। अहो अतीतानि तानि दिनानि यदा अस्मिन् भारते वर्षे गीतशास्त्रं परमसमादृतमासीत्।

यदा ब्रह्मसाधने सङ्गीतमेव सर्वप्रधानकल्पमिति सर्वेषां मनीषिणामभिमतमभूत्। अहो अलौकिकमेव सङ्गीतमाहात्म्यम्।

वीणासहायाणामार्य्यर्षीणां सामगानं त्रिदिवादेव देवान् मर्त्यमानयितुं क्षममासीत् । यदा “प्रतित्यं चारुमध्वरं गोपीथाय प्रहुयास । मरुद्भिरग्नआगहि” इत्यादिना स्वरताललयप्रयुक्तेन सङ्गीतेन पूज्यपादाः आर्य्यमुनयः देवान् अभ्यर्थितवन्तः तदा समूर्त्त यस्ते तेषां पुरत एव आगताः । अहो कालस्य परिणमनम् । या सङ्गीतविद्या पुरा सर्वैरेव पूजिता अधुना सा ललितविलासाङ्गतां गता । गीताभ्यसनेन करणचपलतावृद्धिं गच्छतीति सर्वेषामत्रानादरता । अधुना वैशवधूजनशिक्षाङ्गभूता सङ्गीतविद्या, क्वापि वा तत्सहचारिषु दृश्यते । भगवति सङ्गीतविद्ये ! कालपरिणामेन वयमकृतिनः भवदीयमर्मग्रहणक्षमाःभवतौमनाद्रियामहे । संसारिणो भवतींनाद्रियन्तां किन्तु चित्तस्य समाधिकरणे तथा त्रिदिवानन्दविताने च भवती सर्वाग्रगीरनन्तमेव कालं भवित्रौ । सुदूरे भाविनि स एव कालः पुनः आपतिष्यति यदा तव साधकाः भूय एव भवितारः । यदा पुनरेवाशेषविद्या शेखरीभूता सङ्गीतविद्येतिे सुधीभिर्मन्यमाना सुमहता भक्त्यञ्जलिना पूजयितव्या इति । " कालो हायं निरवधिर्विपुला च पृथ्वी” ।

अथ सङ्गीतमाहात्म्येन विमोहित इव उदासीनस्तदेव सङ्गीतकं पुनरेव जगौ । जनपरिशून्ये स्वभावसौन्दर्य्यैकास्पदभुवि तत्र व्रततीमण्डपे तदेव सर्वजीवलोकमनोमोहनं तङ्गीतकं गायन्तं तरुणमपि वार्द्धकोचितम् उदासौनवेशं विभ्रतम् अनवरतं प्रेमासारं मोचयन्तमालोक्य स्वत एव दर्शकानां चेतसि जायते यथा भगवान् भूतभावनो हरिरशेषमानवार्त्तनादकातरः पुनरेव भुवि तदौय प्रेमपीयूष क्षरणाभिलाषौ स्वकीये प्रियतमे लतामण्डपे सद्य एवाविर्भूत इति । ततः प्रमाद्रींकृतहृदयः आत्मन्यभाषत “अहोधर्मपरायणता मदीयजनयित्रोः । तयोर्वदनसुधाकरे सततमेव भगवतो दीनजनैकशरणस्य हरेर्नाम कीर्त्तितमभूत् । आजीवित-

मेव बुद्ध्वानिःसारतां संसारस्य, निरूप्य च अप्रतीकारदारुणतां व्यसनोपनिपातानाम्, आकलय्यदुर्निवारतां शोकस्य पार्थिवस्य, भावयित्वा च अनित्यतां सर्वभावानाम्, अवधार्य्यच अकाण्ड-भङ्गुरतां सर्वसुखानां, तावेव परमकारुणिकस्य भगवतो हरेः पादतलमेव शरणं जग्मतुः। निद्रालसतायामेव हरिमालोक्य स्वप्नेन प्रेमरसपुलकितवपुषा वभूवतुः। हरिहरयुगलवाचनार्थिनौ मामेव हरिहर इति अभिहितवन्तौ। अहो मम वालिशतायाः प्रकारः। अहो यत्किञ्चन कारितायामादरः। अहो निरर्थकव्यापारेषु अभिनिवेशः। अहो मूर्खजनचरितेषु आसक्तिः। साधुफलस्य कर्मणः शिक्षा वृथा जाता। एवंविधस्य धर्मरतेरात्मजत्वेऽपि कथं मम पापाभिरतिः। धिङ्मांतयोरधन्यमपत्यहतकम्, अन्यथा कथं मम तस्य भक्तजनवत्सलस्य सच्चिदानन्दस्य अमृतपदं विस्मृत्य असारेषु विषयसन्तापेषु अभिनिवेशः। भगवन् दीनजनैकशरणपरमेश्वरहरे! पापात्मानमेनं तदशेषकृपाराशेः कणिकयैव अनुगृह्णातु देवः। श्रूयते पुराणेषु ध्रुवप्रह्लादप्रभृतयः महाभागाः बालत्वेऽपि त्वद्दर्शनं लेभिरे। अहन्तु केवलं कामनाविमोक्षार्थं प्रार्थये।

“जय देव भुवनभावन ! जय भगवान् निखिलनिगमनिधे।
नय रुचिर-चन्द्रशेखर ! जय मदनान्तक ! जयादिगुरो !।”

गायन्नेव हरिप्रेमार्द्रीकृतहृदयः पुनरेव तं प्रदेशं मधुरेण गीतशब्देन मोहितवान्। अथास्य तमेव गीतशब्दं वाचयतः पुरतः शान्तप्रकृतेः विग्रहवान् प्रचण्डमूर्त्तिः, मूर्त्तिमतः प्रेम्णः रूक्षचेताः, ज्ञानालोकस्याज्ञानान्धकारः, सुकृतिनः अपुण्यैकभाजनम्, अनुगतस्य वामस्वभावः, भावार्द्रहृदयस्य एकान्तनिष्ठुरहृदयः, मित्रस्य वैरौ, वचनकरस्य अनाश्रयः, महात्मनः दुरात्मा, विस्रम्बैकभूमेरशेषभीतेरास्पदं, धर्मराजस्य मूर्त्तिमान् नरकपालः, एकलव्य इव जन्मान्तरागतःकश्चन भीमपुरुषः म्लेच्छवेशोऽतर्कितमेव समा-

यातः। तस्यापि पापपुरुषस्य गीतमहिम्ना मुग्धस्य मनस्येवमजायत “अहो परिसमाप्तमद्य श्रुतियुगस्य श्रोतव्यश्रवणफलम्। आलोकितः खलु रमणीयानामन्तः। श्रुतः आह्लादनीयानामवधिः। प्रत्यक्षीकृता प्रीतिजननानां परिसमाप्तिः। परिभ्रान्तो मया अशेषः प्रदेशः। परन्तु न कुत्रापि श्रुतिविषयतां गतः एतादृशोमधुरो गीतशब्दः। मोहितोऽस्मि। अपि समासाद्यते मूढेषु एवमेव कश्चित् लोकोत्तरविनोदनोपायः? भावमनवगच्छत्यपि मयि गीताक्षराणि पीयूषनिस्यन्दमिव वर्षन्ति। नायं पुनः सङ्गीतश्रवणावसरः। सर्वथा यतितव्यमेनं मत्पक्षमापादयितुमिति। अनेन साधनेन सर्वमेव जीवलोकं मदृशं गतं मन्ये।” इति चेतसि संप्रधार्यं तमभिहितवान् “कस्त्वंभद्र! किमर्थमत्र जनपरिशून्ये प्रदेशे च वर्त्तसे? कथं वा भोगसुलभे प्रथमे वयसि वर्त्तमानः सर्वमेव विषयोपभोगजातमुत्सृज्य वयसः आकृतेश्चाननुरूपं गैरिकं परिदधत् उदासीनजनोचितेन कमण्डलुना सुन्दरीजनैकप्रार्थनास्पदं पाणिं दूषयसि?”

हरिः। हरिहरशर्म्माणं मामवगच्छतु महाभागः। नास्ति काचन मम निवासभूमिः। सततं परिव्रजता समासादितमेव स्थानं किञ्चन आवासत्वेन परिकल्प्यते मया। भगवतो निखिलभुवननाथस्य हरेः श्रीपादकमलमेव शरणमस्मादृशस्य तपस्विजनस्य। एतावदेव सुनिश्वितं मे यथा सर्वत्रैव श्रीहरेः कमलाकान्तस्यनामकीर्त्तनेन जीवितमसारं नयामीति।

म्लेच्छपुरुषः। (स्वगतं) सुमहान् चतुरोऽयं वटुः। आलोकय तावदस्यभण्डतायाः प्रकारम्। हरिनामव्याजेन सर्वमेव मुग्धजनसङ्घ मोहयित्वा आत्मवशमानयितुं यततेऽयं धूर्त्तः। कोऽयं पुनरस्य हरिः। अवगच्छामि तावत् सम्यगेव। गोपालसूनुःकामैकवशः अशेषगोपीजनपातिव्रत्यनाशनः वृन्दावनचारणःधूर्त्त-

चूड़ामणिः कृष्णः अस्य हरिरिति। योग्यं योग्येन योजयेत् विधिः। आराधकाराधितौ उभावेव शठजनशेखरीभूतौ। तत् शिक्षयामि एनं स्वरूपतः। (सप्रकाशम्) अरे मूर्ख! श्रूयतां सावहितं मद्वचनम्। कुतःप्रभृति व्याधिनानेन पीड़ितमात्मानमवैषि अद्य तावत् कतमेषु मुग्धनरहृदयेषु प्रतिपत्तिस्ते सञ्जाता। नायं देशो लाभाश्रयः। अहं तु कस्मिन्नपि सुमहति कम्मणि नियोजनार्थी तव भवामि प्रभूतलाभकरे।

हरिः। महाभाग ! विभेमि प्रष्टुं कंपुनर्भवन्तमवगमिष्यामि, को दिग्भागोवा जन्मनालङ्कृतो भवता, मदीयेन वराकेण वा भवतःकिं सुमहत् प्रयोजनं निर्वर्त्तितव्यमिति। लाभमाकाङ्क्षति नायं जनः सर्वभोगविहापनार्थी, भवदादेशस्तु करणीयश्चेत् जीवितेनापि निर्वर्त्तयिष्यते तदादेशेनानुगृह्णातु।

म्लेच्छपुरुषः। अभिलषामि तावत् अस्मदर्थं नियोज्यसंग्रहाय त्वां नियोजयितुमिति। अत्र त्वमेव क्षम इति मन्ये। यथार्हं वृत्तिञ्च निर्वाचयामि।

हरिः। अथ किमर्थम्?

म्लेच्छ पुरुषः। अस्ति आर्य्यभूमेःपूर्वोत्तरस्यां दिशि किञ्चनकामरूपामिधानं जनस्थानं तुहिनगिरिपादप्रसृतेन भगवता ब्रह्मपुत्रेण नदेन सततं पवित्रितभूमिभागं, यत्र सुदूश्वेतद्वीपागताःअनेके महानुभावाः कषायपत्रोद्यानं (चा वागान) चिकीर्षवः विविधानि उद्यानानि स्थापितवन्तः। अधुना तत्र अनेकैः भृत्यैः प्रयोजनम्। तदर्थं त्वत्साहायकार्थितां गतोऽस्मि।

हरिः। (सखेदं) अथ त्वमुद्याननायकेषु एकतमः।

म्लेच्छः। अथ किम्।

हरिः। अहो मे मन्दपुण्यस्य दारुणतरः कर्मणां विपाकः। येन मया धर्मैकरतेःअशेषजीवलोकवन्दनीयस्य देवप्रतिमस्य पितुः

स्वकरतलवर्द्धितेन पठितविविधशास्त्रेण चाण्डालैरपि अस्पृश्यः म्लेच्छापशदः आलापविषयतां गतः। दुरात्मन् हरिहरहतक! धिग्जन्मलाभं ते, यस्य कर्मणामीदृशः परिणामः। अम्ब! अशेषमनुजवृन्दवन्दनीये! रक्ष माम् अस्मात् महानरकपुरुषसमागमात्।तात! धर्मैकरते! मां त्रायस्व। नूनं सुमहत् पापमाचरितं मया अन्यथा किमिति अशेषजनकलकलविरहिते निसर्गसौन्दर्यललामभूते, शान्तिनिवासे अस्मिन् व्रततीमण्डपे एतादृशानांमूर्त्तिमतां पाप्मनामुपस्थितिः सङ्गच्छेत? भगवन् पतितपावन!कथमेवंविधानां नरपशूनां त्वत्कृते पुण्यवति संसारे प्रसृतिरस्ति?अरे नरपिशाच ! वर्त्तेत चेद् भवच्छरीरे नरशोणितम्, तदेवंविधेषु राक्षसजनोचितेषु अकृत्येषु मा पुनर्नियोजयात्मानम्। नश्वरमिदम् प्राकृतं वपुः क्षणभङ्गुरम्। अनन्तपारत्रिकः कालः प्रत्यासन्न एव। प्रस्तूयतामात्मा तदर्थम्। कथमत्र परं मोहभावमापन्नःप्रस्तावयसि आत्मानमनन्तनरकाय इति।

म्लेच्छः। अरे रे वर्वर! वराक! किमर्थमात्मानं विस्मरसि।अचिरेणैव स्ववाक्यफलं भोक्ष्यषे। नाहं कीटव्यापादनेन कलुषतांनयामि स्वहस्तम्। तदधुना राजलोकं गमिष्याम्यहं त्वद्दण्डार्थम्।

हरिः। धिक् त्वां नरकुलापसदं, गम्यतां यथेच्छम्। नरपिशाचं नरशोणितलोलुपं नरकपालं वा त्वामभिधातुं नाहमत्रकञ्चित् दोषमालोकयामि। नाहं दण्डविधाता अन्यथा युष्मादृशस्यसारमेयैर्भक्षणं युक्तम्। भगवन्! लोकत्रयपालन! का शक्तिर्ममवराकस्य तव निर्माणरहस्यम् अवगन्तुम्। अहो मोहाविष्टतासंसारिणाम्। मोहपरवशत्वात् आत्मस्थोऽपि आत्मानं न वेत्तिमानवः।

म्लेच्छ पुरुषः। तिष्ठ तावत् क्षणमत्र। व्यपनयामि ते धर्मार्थं धर्माधिकरणकैः।

हरिः। गच्छ यथाभिलषितं देशम्। आनय वा नरकवासिभिःअह नरकनाथं मूर्त्तिमन्तम्। नास्त्यत्र कश्चित् भयावसरः।

(क्रमशः)

<MISSING_FIG href=”../books_images/U-IMG-173260740014.JPG”/>

आश्विनमासीय समस्या पूरणानि।

<MISSING_FIG href=”../books_images/U-IMG-173261136418.JPG”/>

प्रीत्फुल्लपेलवरसालकुलाकुलामि नानाप्रसूनसुरभीकृतकाननानि।
अभ्यागतेषु रतये तरुणेषु सायं “युक्तो न ते पिक! मनागपि मूकभावः॥"?

हेहेपयोद! विमुखेऽपि भवत्यभूवन् मीनास्तु सागरनिवेशसुखेन पीनाः।
आजन्मनोऽन्यजनयाचन कातरस्य “का वा दशाद्य भविता वत चातकस्य”॥

प्रायःप्रदोषपुरुषेण समागतासौताम्राननेन सुतरामुदयाद्रिगेहे।
क्रीडोत्क हूणरमणीव दिनावसाने “प्राचीवधूः क्षिपति कन्दुकमिन्दुविम्बम्”॥

बाले शारदपूर्णचन्द्रवदने! विद्युत्प्रभां शाटिकां
बिभ्राणैककरेण केशनिकरान् संस्कुर्वतीवक्रकान्।

अन्यस्मिंश्च करे निधाय मुकुरं स्मित्वा लपन्ती पुनः
सौधेऽड्वामकरड्वजोड्ववकरी “यस्यासि तस्मै नमः”॥

झोपनामा श्रीपरमेश्वरशर्म्मा

(मिथिला, दर्भङ्गा, औढ़ी गन्धवारी)

<MISSING_FIG href="../books_images/U-IMG-173261129514.JPG"/>

स्थाणोस्तपः सुरपतेरववादतोहि हन्तुं स्मरः पिक वसन्तमरुत्कसैन्यैः।
युक्तो व्रजन्निति शशंस पिकं विमौनं “युक्तो न ते पिक! मनागपि मूकभावः"॥?

अस्तं गते ग्रहपतावुडुभूषिता सा संगृह्य मेघवसनं शतमन्युलेखा।
दिग्भिस्तथा सह शरत्समये सखीभिः “प्राची वधूः क्षिपति कन्दुकमिन्दुविम्बम्”॥

हे राधे शरदोषधीवदने! राजीव योन्यादिभि-
राराध्ये! च महात्मनां सुविलसत् सद्योगिनां मोक्षदे!।

श्रीवृन्दावनधामगोपवनिताकीर्णस्य कृष्णस्य हि
त्वञ्चाङ्घीपघनः प्रिया मधुरिपोः “यस्यासि तस्मै नमः”॥

गोस्वामी दुर्गादत्तशमी। (अमृतसर पञ्जाव)

<MISSING_FIG href="../books_images/U-IMG-173261129514.JPG"/>

पुष्पाकरस्य समयो मलयाचलस्य वायुश्च वाति फलिताः सहकारवृक्षाः।
गुञ्जन्ति षट्पदकुलानि लसन्ति बालाः? “युक्तो न ते पिक! मनागपि मूकभावः”॥?

धर्मार्ततप्ततनुरेष तृष्णार्त्तचित्तः प्रत्यभ्रभुन्नतशिरा अभियाचतेऽग्भः।
नैकोऽपि वर्षति घनः शरदागमे तत् “का वा दशाद्य भविता वत चातकस्य”॥

श्रीवुलाकिरामशास्त्री विद्यानिधिः। (अमृतसर, पञ्जाव)

<MISSING_FIG href="../books_images/U-IMG-173261171414.JPG"/>

सज्जे स्मरे नृपवरे सुहृदा समेते सस्यन्दने मलयमन्दसमीरणेन।
व्युत्थाय पान्यनिवहैः सह कामवन्दिन् “युक्तोन ते पिक! मनागपि मूकभावः"॥?

जानन्ति ते वुधवरा न हि काकसङ्घैःसारूप्यवन्तमहहा तिलके वसन्ते।
त्वां पञ्चमात्तमहनीयशः समूहं “युक्तो न ते पिक! मनागपि मूकभावः"॥

प्रावृड्घन! प्रखरसूर्य्यकराभितप्तजन्तुप्रहर्षजनकैर्ननु शीकरौघैः।
त्वञ्चेन्न सिञ्चसि वत त्वदधीनवृत्तेः “का वा दशाद्य भविता वत चातकस्य”॥

रक्ताम्बरावृतपयोधरसक्ततारा हारोज्ज्वलादिनमणेर्विरहाधिनेव।
शुभ्रा क्रमेण सुरुषा हरिते सपत्न्यै“प्राची वधूः क्षिपति कन्दुकमिन्दुविम्बम्”॥

पुनेकरोपाह्व नरसिंहशर्म्मा। (कित्तूर)

<MISSING_FIG href="../books_images/U-IMG-173261171414.JPG"/>

काले प्रफुल्लसहकारविराजमाने गानेन याति मधुपेऽपि परां प्रसिद्धिम्।
याति प्रमोदमखिलेऽपि जने प्रमोदं “युक्तो न ते पिक! मनागपि मूकभावः"॥

विशुष्कपङ्कानि प्रसादवन्ति विकाशभाञ्ज्युत्तमजीवनानि।
समापतद्वहविनिर्मलानि “सतां मनांसीवशरद्दिनानि”॥

पंकुल्यमानकुमुदैककरप्रधावद्गुञ्जद्द्विरेफकरणहलया समोदम्।
व्योमाङ्गने सकुतुकेव विलासकार्य्ये “प्राची वधूः क्षिपति कन्दुकमिन्दुविम्बम्”॥

आवाप्तुं व्यदधस्तपः सुविपुलं मातर्यमेव स्वयम्
येनादाय वटुस्वरूपमचिराद्रुद्धासि हस्ते धृता।

अर्द्धाङ्गे विनिवेशिता सुरगणस्तुत्यापि येनाभवः
पत्नीत्वं तुहिनावनीधरसुते! “यस्यासि तस्मै नमः”॥

राशिवड़ेकरोपाह्वःअप्पाशास्त्री। (कोल्हापुर)

<MISSING_FIG href=”../books_images/U-IMG-173261171414.JPG"/>

मेधागमे सकलजीवमनोऽनुकूले नानालतातरु सुशोभितपुष्पपुञ्जे।
काले मयूरकुलनादित वृक्षकुञ्जे “युक्तो न ते पिक! मनागपि मूकभावः!”॥

श्रीनन्दकिशोरदेवशर्म्मा। (मथुरा, अमृतसर)

<MISSING_FIG href="../books_images/U-IMG-173261171414.JPG"/>

सायं शनैः प्रति गतं तु दिशं प्रतीचीमन्यागतं चतुरमत्रपतिं विचिन्त्य।
क्रुद्धा सती विरहदुःखगतेव तस्मै “प्राची वधूः क्षिपति कन्दुकमिन्दुविम्बम्”॥

प्रोष्यात्मनः सविधमागतमीशमर्कं शान्ता सती विरहितेव निरीक्ष्यतूर्णम्।
हृष्टोत्थिता विविधवस्तु विचिन्त्य तुच्छं “प्राचीवधूः क्षिपति कन्दुकमिन्दुविम्बम्”॥

श्रीवलराम-शर्म्मविद्यारत्नः। (ढाका, मुन्सिगञ्ज)

<MISSING_FIG href="../books_images/U-IMG-173261171414.JPG"/>

वर्षाखनेकविधकर्कशशब्दसंघैःक्लिष्टे श्रवस्यकटुवाङ्मियमस्तवेष्टः।
फुल्लारविन्दमधुपैः शरदं समीक्ष्य “युक्तो न ते पिक! मनागपि मूकभावः"॥

श्रीरोहिणीकान्तविद्याभूषणः। (ढाका, पुरापाढ़ा)

<MISSING_FIG href="../books_images/U-IMG-173261171414.JPG"/>

आयान्ति पान्थनिवहा मुदिताः खगेहं सन्तापमुज्झति मही विरजाः समीरः।
इत्थं गुणेऽपि नववारिधरागमेऽस्मिन् “युक्तोन ते पिक! मनागपि मूकभावः"॥

नाकाङ्क्षति प्रतिदिनं न च भूरिधारां धाराधर! प्रखरभानुकरार्दितोऽपि।
विन्दुव्ययेऽपि यदि कातरतां प्रयायाः “का वा दशाद्य भविता वत चातकस्य"॥

अपङ्कमार्गप्रसराण्यमन्दमनोरथानां विमलग्रहाणि।
प्रकाशशालिन्यभितः समानि “सतां मनांसीव शरद्दिनानि”॥

सायन्तनीष्णकरपाटलितां शुजालपिष्टातमुष्टिमसकृत् कुतुकात् किरन्तीम्।
रक्ताम्बरोज्ज्वलरुचीमभितः प्रतीची“प्राचीवधूः क्षिपति कन्दुकमिन्दुकविम्बम्॥

मानिन्यास्तव पादपङ्कजयुगं यन्मूर्द्धजैर्मृज्यते
यच्छ्रेयः परिपाकजृम्भितमिदं वक्षोजकुम्भं तव।
उत्कण्ठां कलकण्ठि! यस्य विरहात् धत्ते त्वदीयं मनः
सोत्कम्पंपरिरभ्य सम्मदकरी “यस्यासि तस्मै नमः”॥

श्रीउपेन्द्रनाथरायः। (वरिशाल, रायेरकाठी)

नीतिसंग्रहः।

CONTINUATION.

(कथासरित्सागरे सुभाषितानि)

46 स्त्रीणामलोकमुग्धं हि वचः को मन्यते मृषा।

Who can dare believe as false the simple utterances of a woman?

47 एवमुत्पादयेद्दोषं बालोऽपि विकृतिं गतः।

When roused to anger a child is also able to create serious difficulties.

48 पेशलं हि सतीमनः।

The mind of a good and chaste woman is infact very tender.

49 सर्वं हि साध्यते बुद्ध्या।
Every thing can be accomplished by the aid of the intellect.

50 निर्विमर्शा हि भीरवः।
The fearful are no doubt void of any thought or deliberation.

51 बहुदोषो हि विरहः।

Separation is the canse of numerous faults or troubles.

52 नान्यथोद्योगसिद्धिः स्यात्।

Suceess must always be the inevitable result of perseverance.

53 स्वायत्तसिद्धेराज्ञोहि प्रज्ञोपकरणं मता।
सचिवः को भवेत्तेषां कृते वाऽप्यथवाऽकृते॥

** सचिवायत्तसिद्धेस्तु तत् प्रज्ञैवार्थसाधनम्।
त एव चेन्निरुत्साहाः श्रियै दत्तो जलाञ्जलिः॥**

The prince who always relies upon his ownself for the success of his measures does only need the help of his bright intellect, and counsellers are likewise useless to him whether they perform any thing or not; whereasthe chief, the completion of whose wishes is entirelydependent upon the wise counsels of his ministers, must,not only, look up for their valuable services, but do also give up every hope of conquest and prosperity, when they are quite idle and loath to work.

54 अभीष्टस्त्रीवियोगार्त्त्यासविवेकोऽपि बाध्यते।

The pangs of separation from a beloved wife are keenly felt even by the learned.

55 स्त्रीणां भावानुरक्तं हि विरहासहनं मनः।

The mind, which is much enamonred of the graceful acts of women, is really unable to bear the pangs of separation.

56 कर्त्तव्यं हि सतां वचः।

The words of the good are always to be obeyed.

पु० गोपीनाथ शर्मा, जयपुर।

<MISSING_FIG href="../books_images/U-IMG-173261171414.JPG"/>

ब्रह्मचर्य्यम्।

(पूर्वानुवृत्तम्।)

वेदोपकरणे चैव स्वाध्याये चैव नैत्यके।
नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि॥१०५॥

  1. Both when (one studies) the supplementary treatises of the Veda, and when (one recites) the daily portion of the Veda, no regard need be paid to forbidden days, likewisewhen (one repeats) the sacred texts required for a burnt oblation.

नैत्यके नास्त्यनध्यायो ब्रह्मशत्रंहि तत् स्मृतम्।
ब्रह्माहुतिहुतंपुण्यमनध्यायवषट् कृतम्॥१०६॥

  1. There are no forbidden days for the daily recitation, since that is declared to be a Brahmasattra (an everlastingsacrifice offered to Brahman); at that the Veda takes the place of the burnt oblations, and it is meritorious (even), when (natural phenomena, requiring) a cessation of the Veda-study take the place of the exclamation Vashat.

यः स्वाध्यायमतीतेऽब्दं विधिना नियतः शुचिः।
तस्य नित्यं क्षरत्येष पयो दधिघृतं मधु॥१०७॥

  1. For him who, being pure and controlling his organes,during a year daily recites the Veda according to the rule, that (daily recitation) will ever cause sweet and sour milk, clarified butter and honey to flow.

अग्नीन्धनं भक्ष्यचर्य्यामधः शय्यां गुरोर्हितम्।
आसमावर्त्तनात् कुर्य्यात् ततोपनयनो द्विजः॥१०८॥

  1. Let an Aryan who has been initiated, (daily) offerfuel in the sacred fire, beg food, sleep on the ground and do what is beneficial to his teacher, until (he performs the ceremony of) Samavartana (on returining home).

आचार्य्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः।
आप्तः शक्तोऽर्थदः साधुः सोऽध्याप्या दश धर्मतः॥१०९॥

  1. According to the sacred law the (following) ten (persons, viz.) the teacher’s son, one who desires to do service. one who imparts knowledge, one who is intent on fulfilling the law, one who is pure, a person connected by marriage orfriendship, one who possesses (mental) ability, one who makes presents of money, one who is honest, and a relative, may beinstructed (in the Veda).

नापृष्टः कस्यचिद् ब्रूयात् न चान्यायेन पृच्छतः।
जानन्नपि हि मेधावीजड़वल्लोक आचरेत्॥११०॥

  1. Unless one be asked, one must not explain (anything) to anybody, nor (must one answer) a person who asks improperly; let a wise man, though he knows (the answer), behave among men as (if he were ) an idiot.

अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति।
तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति॥१११॥

  1. Of the two persons, him who illegally explains (anything), and him who illegally asks (a question), one (or both) will die or incur (the other’s) enmity.

धर्मार्थौयत्र न स्यातां शुश्रूषा वापि तद्विधा।
तत्र विद्या न वप्तव्या शुभं वीजमिवोषरे॥११२॥

  1. Where merit and wealth are not (obtained by teaching) nor (at least) due obedience, in such (soil) sacred knowledge must not be sown, just as good seed (must) not (bee thrown) on barren land.

विद्ययैव समं कामं मर्त्तव्यं ब्रह्मवादिना।
आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत्॥११३॥

  1. Even in times of dire distress a teacher of the Veda should rather die with his knowledge than sow it in barren soil.

विद्या ब्राह्मणमेत्याह सेवधिस्तेऽस्मि रक्ष माम्।
असूयकाय मां मादास्तथास्यां वीर्यवत्तमा॥११४॥

  1. Sacred Learning approached a Brahmana and said to him; ‘I am thy treasure, preserve me, deliver me not to a scorner; so (preserved) I shall become supremely strong.

यमेव तु शुचिं विद्यान्नियतं ब्रह्मचारिणम्।
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने॥११५॥

115.‘But deliver me, as to the keeper of thy treasure, to a Brahmana whom thou shalt know to be pure, of subduedsenses, chaste and attentive.

ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात्।
स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते॥११६॥

  1. But he who acquires without permission the Veda from one who recites it, incurs the guilt of stealing the Veda, and shall sink into hell.

लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च।
आददीत यतो ज्ञानं तत् पूर्वमभिवादयेत्॥११७॥

  1. ( A student ) shall first reverentially salute that (teacher) from whom he receives (knowledge), referring to worldly affairs, to the Veda, or to the Brahman.

सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः।
ना यन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी॥११८॥

  1. A Brahmana who completely governs himself, though he know the Savitri only, is better than he who knows the three Vedas, (but) does not control himself, eats all (sorts of) food, and sells all (sorts of goods).

शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत्।
शय्यासनस्थश्चैवैनं प्रत्युत्थायाभिवादयेत्॥११९॥

  1. One must not sit down on a couch or seat which asuperior occupies; and he who occupies a couch or seat shall rise to meet a (superior), and (afterwards) salute him.

ऊर्ध्वंप्राणा ह्युत्क्रामन्ति यूनस्थविर आयति।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते॥१२०॥

  1. For the vital airs of a young man mount upwards to leave his body when an elder approaches; but by rising to meet him and saluting he recovers them.

(क्रमशः)

श्रीश्रीदुर्गा शरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href="../books_images/U-IMG-17326373356.JPG"/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्तीजनानिव।
मायावलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी॥

<MISSING_FIG href="../books_images/U-IMG-17326374367.JPG"/>

मासावतरणिका।

अयं सूचीक्षेपः किमु? न खलु सोऽङ्गक्षतकरः
स्फुलिङ्गः किं वृष्टो? न खलु स उदर्च्चिः शिखिभवः।

किमुच्चैःकण्डूदः शतपदिकदंशोऽव्रणकरः
न सोऽतः पौषेऽस्मिन् प्रसरति तुषारोऽधनजने॥

<MISSING_FIG href="../books_images/U-IMG-17326374889.JPG"/>

उद्भट श्लोकाः।

“यत्पादाम्बुजवैभवं कथयितुं पञ्चाननः शङ्करः
ब्रह्माभूच्चतुराननो हरिरहो जातः सहस्राननः।
एते वापि नखप्रभावमतुलं वक्तुं समर्था न ते
सा दुर्गा भवतः करोतु कुशलं श्रीराजराजेश्वरी”॥९९॥

“मा धीरवंशे जननं विधेहि जये यशो नास्ययशस्यकीर्त्तिः।
शुक्लाम्बरे शुक्लचयेन किं स्यात् कालस्य लेशोऽमि यशो निहन्ति"॥१००॥

“जिता धनवता भार्य्या वस्त्रशास्त्रैः सभा जिता।
कृष्या जितञ्च दारिद्र्यंगव्यैरभ्यागतो जितः॥१०१॥

या तु या तु किमनेन तिष्ठता मुञ्च मुञ्च सखि! सादरं वचः!
मर्म्मभेदि-मदपाङ्गनिर्जितः यत्नतः कति पदानि गच्छति?॥१०९॥

<MISSING_FIG href=”../books_images/U-IMG-17326376858.JPG"/>

वर्षे पञ्चदशे शते व्यपगते सप्ताधिके कार्त्तिकस्याद्यानङ्गतिथौ नवीनविशिखां श्रीचित्रकूटे व्यधात्।
उद्यत्तोरगणचारुहीरनिकरस्फीतप्रभाभासुर-प्रोदञ्चत् कपिशोर्षकाङ्गितशिरोरस्यांमहीवल्लभः॥१८४॥

श्रीविक्रमात् पञ्चदशाधिकेऽस्मिन् वर्षे शते पञ्चदशे व्यतीते। चैत्रासितेऽनङ्गतिथौ व्यधायि श्रीकुम्भमेरुर्वसुधाधिपेन॥१८५॥

<MISSING_FIG href="../books_images/U-IMG-173263845410.JPG"/>

चितोरे जयस्तम्भः।
(विश्वकोशम्पादकाल्लब्धः।)

पुण्ये पञ्चदशे शते व्यपगते पञ्चाधिके वत्सरे माघे मासि बलक्षपक्षदशमी देवेज्य-पुष्यागमे।(?)
कीर्त्तिस्तम्भमकारयन्नरपतिः चित्रकूटाचले, नानानिर्मितनिर्जरावतरणैर्मेरोर्हसन्तं श्रियम्॥१८६॥

सत्प्राकारप्रकारं प्रचुरसुरग्टहाडम्बरं मज्जुगुञ्जद्भृङ्गगौवरेण्योपवनपरिसरं सर्वसंसारसारम् \।
नन्दव्योमेषु शीतद्युतिमितिरुचिरे वत्सरे माघमासे पूर्णायां पूर्णरूपं व्यरचयदचलं दुर्गमुर्वीमहेन्द्रः॥१८७॥

चित्तहरम्।<MISSING_FIG href="../books_images/U-IMG-17326385394.JPG"/>

वा

(चितोर)

<MISSING_FIG href="../books_images/U-IMG-173263860411.JPG"/>

“चित्तहर"न्तु नगरं राजस्थानस्यान्तःपाति उदयपुरस्य (१) सुप्रसिद्धं महीसार इवप्राचीनतमं वर्त्तते। तत्र हि पूर्वतनानां प्रातःस्मर्तव्यनाम्नां महीभृतां राजधानी आसीत्। अक्षा० २४० ५२/ उः द्राघि० १४० ४१/ पूः निमचनगरतः प्रसिद्धं राजवर्त्मनगरीमलङ्कृत्येमां “नसिरावाद”देशमुपतिष्ठते। तदेव होल्कार-सिन्धिया नगर्य्या अयःपथवाष्परथाधिष्ठानमेकम्। अहो अधुनापि चर्व्यमाणेऽपि कालेन पूर्वगौरवचिह्नेचित्तहरे पर्य्यटतां मनस्विनां क इवाभूतपूर्वभावः समाक्रामत्यामूलतो हृदयम्। व्यक्तीकर्त्तुं तन्तुभावं लेखनी मे मन्दायते, तथापि लेशेनापि लिपिमुखेन ग्राहकेभ्यः हर्षशोकविस्मयादिकान् प्रतिपादयिष्यतीति प्रबन्धोऽयमभिनन्द्यते।

तत्र चित्तहरे किमप्युच्चतरं स्थानमारूढाश्चतुर्दिक्षुचक्षुंषिनिक्षिपन्तः अदृष्टपूर्वं गोचरीकुर्वतोसहस्रशोदृश्यम्।सुदूरात् समारभ्य भुवः समतलप्रदेशं शनैरल्पाल्यशः क्रमोन्नतीभूयभूधरदृश्या भूमिरदृश्यत। तदुपरि उच्चप्राचीरवलयितं दुर्गं निसर्गभयङ्करं विराजते। क्वचित् आर्यकुलगौरवं सूचयन् निविड़निखात पादशः स्तम्भस्तोमो महीध्रइवाभ्रंलिहो विलोक्यते। क्वापि विविधसौधमाला अधुनापि नवीभूताः समुत्कीर्णरुचिरवर्णशालभञ्जिकादिभिः कारुकार्य्यवितानैश्च शिल्पनैपुण्यं लोकसीमानुवर्त्ति तात्कालिकं निवेदयति।


**<MISSING_FIG href=”../books_images/U-IMG-17326385394.JPG"/>**नगरस्य शोभाधिक्यसूचनायैव तथाविधं कृतं नाम, अस्यैवापभ्रंशः “चितोर” इत्यनुमीयते।

(१) राजपुत्रा भूरिशोयव नायका बभूवुः स एव देशोऽद्य जातापभ्रंशो “राजपुताना” इत्येवं नाम्नाभिधीयते।

क्वापि स्वच्छवारिपरिपूर्णाः विशालजलायाःसागरमनुकुर्वन्ति। यस्य हि तीरे दण्डायमानाः पुरुषाः जलनीचैर्विचरतो मीनानवलोक्य प्रमोदन्ते। येषां हि तीरे श्रेणीकृतानि देवमन्दिराणि अन्याश्च विविधसौधपङ्क्तयः प्रवलविक्रान्तानां “राणागणानां" वासस्थानं प्रमाणयन्ति। तेषां खलु अवाङ्मनसगोचरं बलबुद्धिवीर्यं स्मृतिपथमापतितं युगपत् हर्षशोकविस्मयैरुद्वेलयति हृदयमामूलतः। सुचिरं विलोक्य प्रतिनिवृत्ता विदेशीयाः कारवः क्षितिभृतश्च पथि पथि तेषां चित्तहरभूभुजामलौकिकमहिमानं गायं गायं व्रजन्ति, प्राप्तगृहा अपि तत्तदेव कीर्त्तिकलापं स्मारं स्मारं बन्धुभ्यो विवृण्वन्ति चविस्मयन्ति च विस्मापयन्ति च तान्।

पुरा सूर्य्यवंशावतंशस्य महाराजश्रीरामचन्द्रस्यान्वयभूषणः विश्रुतवीर्य्यनामा महाराजः श्रीमान् “वाप्पाराओ” नगरमिदं प्रतिष्ठापयामास, तदेवैतत् “चित्तहरम्”। यत्र हि यो द्वादशवर्षीयबालकःशौर्येण युवानमप्यतिक्रान्तः पद्मिनीरूपविमोहितस्य (१) दुर्जेयस्य“आला उद्दिनस्य” असीमसैन्यमालातरङ्गायिते युद्धक्षेत्रे प्रमत्तजलहस्तीव निर्भीको व्यचरत् तस्यैव महावीरस्य " वादलस्य” जन्मभूमिश्चित्तहरं नगरम्।

अहो यत्र हि महावीरः “भीमसिंहस्तथा “कुम्भराणा” जन्मना समधिकं भूषययामास जन्मभूमिं तदेतत् भारतविख्यातं “चित्तहरम्”।

अहो ये खलु राणावंशीया राजानः मृत्युं कठोरहृदयं सस्मेरमालिलिङ्गुस्तथापि रणात् प्रत्यावृत्य तुङ्गस्तनीं कामिनींन पस्पृशुः।

सेयं परःशता वीरप्रसविनीचितोरनगरी अमरावतीप्रतिद्वन्दिनीसंप्रति शोकारण्यानीमभिनयति। क्ववा भग्नाट्टालिकायामगणितायां प्ररूढसस्प्रायां पशुपक्षिकीटाःपर्य्यटन्ति कृतनिकेतनाः।

अहो दशामिमां समालोक्य केषां जीवतां हृदयं न व्यथयते।


(१) भीमसिंहस्य पत्नी श्रीमती पद्मिनी महिषी।

अहो यत्रैव नेत्रंप्रसरति तत्रैव केवलं समृद्धि-वीरत्वलक्षणमेव लक्ष्यते। क्वापि भग्नमत्युच्चैस्तोरणं, क्वापि भूरयो भूरयो भग्ना अपि स्तम्भाः सुविशालाः। क्वापि पर्वतायमानाःभग्नप्रासादपुञ्जाः।

चित्तहरनगरीसुविशालक्षेत्रवत्, सा च चतुर्दिक्षु अभ्रंकषैः प्राचीरैः परिवेष्टिता। तस्याः पश्चिमतो अदूरे “गमरी” नाम नदी प्रवहति। तस्या उपरि करालकालस्य भृकुटीकटाक्षमपि तृणाय मत्वा विशालसेतुः देदीप्यते। चितोरे शैलमालया दुर्गीकुते मध्यतो राजप्रासादाःअपराणि च संख्यामतिगतानि मन्दिराणि निर्मितानि। निम्नस्थनगरन्तु अधुना “तलहाटि” इत्येवं नाम्ना निर्दिश्यते।

प्राचीने तु शिलाफलके उक्त एव पर्वतः “चित्रकूटे”ति अभिधीयते। नगरस्य पूर्वस्यां द्विक्रोशदीर्घे विशालशैलशिखरे विश्वविलक्षण विख्यातं “चितोरदुर्ग"मवतिष्ठते। दैर्घेनेदं दुर्गं प्रायः सार्द्धक्रोशः विस्तारे च प्रायः क्रोशपादात् परतः सम्भवति। शिखरदेशस्त्वतिदुरारोहः। नातिक्षुद्रात् शिखरदेशात् प्रवणीभूय पर्वतः समायां भूमौ मिलितः। दुर्गाभ्यन्तरे प्रभूतजलानि सागरानुकारीणि सरोवराणि विराजन्ति। उत्तरेण दुर्गं प्राचीरमुखैः११७४ हस्तपरिमितं, दक्षिणतस्तु १२१३ हस्तपरिमितम्। प्रवेशमार्गन्तु तिसृषु दिक्षु उच्चैस्तोरणेन मण्डितम्। तेषु द्वारेषु आरोहणाय त्रयः क्रमोच्चपथाः सन्ति। पश्चिमाया दिशः पन्था एव पथां प्रशस्ततरः। पन्थाअयं प्रायः क्रोशार्द्धंव्याप्य नगरस्याग्निकोणमारभ्य तोरणद्वयतः प्रथमतः उत्तरस्यां दिशि १०८० बाहुपर्य्यन्तं गतः, अनन्तरं वक्रीभूय त्रीणि चत्वारि वा तोरणानि समतिक्रम्य ५०० बाहुपर्य्यन्तं गत्वा रामोपलनामके दुर्गद्वारे मिलितः। समग्रमेव क्रमोच्चः प्रतिस्थानं प्रस्तरनिर्मितञ्च। द्वितीयद्वारमुत्तरतोऽवस्थितम्, तत्रारोहणपथोऽतीव दुर्गमः सुतरां प्रायो न व्यवह्रियते। “सूर्य्योपल” नामकन्तु तृतीयद्वारं पूर्वतोऽवस्थितम् । द्वारमेतदारोढुं यः

पन्थावर्त्तते प्रायोऽसौ १५०० सार्द्धसहस्रहस्तपरिमितः। अस्य तु पथः उपरार्द्धांशः प्रस्तरनिबद्धः। दुर्गाभ्यन्तरे द्वात्रिंशत्सरोवराणि विमलजलानि शोभन्ते। पर्वतनिम्नभागे नगरोपरिभागे च एका निर्झरिणी वर्त्तते, तेन हि सदैव सुखादु स्वास्थ्यकरञ्च जलं लभ्यते। मध्ये तु अल्पमिते स्थाने गोधूमक्षेत्रंवर्त्तते किन्तु गवादिचारणयोग्यानि तृणानि नात्रसुलभानि।

युद्धविधौ चित्तहरदुर्गावस्थानं सर्वतो निरुपद्रवम्। आधुनिकशतघ्नौसुमहतीअपि दुर्गस्य तस्योर्द्ध्वंवेद्धुंन शक्नोति। फलतस्तुयदा चित्तहरे सौगाग्यभानुरुदगात् तदानीं समग्रेऽपि भारतवर्षे एकमपि दुर्गं तथाविधमासीदिति न प्रतीयते।

क्षत्रियतनयास्तु अधुनातना ब्रुवते एवं क्षत्रकुलतिलकरामचन्द्रवंशधरस्य श्रीमतो लवस्य पवित्रे वंशे श्रीमान् “वाप्पाराओ” जन्मजग्राह। स एव १७२ खृष्टाब्दे प्रायः ९४ शकाब्दे चितोरदुर्गं निर्म्माय राजधानीं प्रतिष्ठापितवान्। १५६८ खृष्टाब्दं यावत् तद्वंशीयास्तत्रराजत्वं कृतवन्तः। तदनन्तरं तस्मिन्नेवाब्दे सम्राट् “अक्वर्” चित्तहरदुर्गं अधिकृतवान्। तेन हि तदानीन्तनः राणाश्रीउदयसिंहःउदयपुरे राजधानीं स्थापयामास।

चित्तहरे प्राचीनमन्दिरकीर्त्तिस्तम्भादिषु कुम्भराणाकृतकीर्त्तिस्तम्भ-मोकलजीमन्दिर-शिङ्गारचौरीप्रभृतय एव कीर्त्तयः अक्षुस्माविराजन्ते। एतदन्ये च बहवोबहुस्थाने भग्नावस्थया कीर्त्तिकलापाः शोकमुद्दीपयन्ति। एवं बहुषु स्थानेषु जैनानामपि उत्कीर्णशिलालिपिः प्राप्यते। तासु च शिलालिपिषु प्राचीनतमा लिपिः ७५५ अब्दे समुत्कीर्णाउपलभ्यते।

पराजित्य मालवदेशं सुलतानाधीनं गुर्जरञ्च तज्जयघोषणाय कुम्भराणाप्रतिष्ठितकीर्त्तिस्तम्भ एव आर्य्यगौरवं प्राधान्येन परिसूचयति। अस्य तु प्रथमतश्चित्रितस्य जयस्तम्भस्य उच्चता १२२ किट् अर्थात् प्रायः

८१ हस्तमिता एवं विस्तार १७ १/२किट्। प्रायः १२ हस्तपरिमितः नवतलेन सुविपुलेनायं विभक्तः, अभ्रंकष इव उत्तिष्ठते। प्रतितलंचतुर्दिक्षु वातायनं राजते। आपाददेशात् स्तम्भस्य चूड़ापर्य्यन्तं समग्रमेव क्षुणप्रस्तरनिर्मितम्। तस्मिंस्तु प्रस्तरखण्डे हिन्दुदेवदेवीप्रतिकृतयः सुसमुत्कीर्णा दृश्यन्ते।

एवं “कुम्भराणाकीर्त्तयः स्वपूर्वपुरुषाणाञ्च कीर्त्तिधाराःश्लोकनिबद्धामानसमानन्दयन्ति द्रष्टॄणाम्”।

राजपुत्रस्थानैतिहासिकः श्रीमान् “टड्साहेवः” उपरिचित्रिते कीर्त्तिस्तम्भे विलोक्य शिलालिपीः निश्चिकाय १५१५ विक्रमसंवतिअर्थात् १४५८ खुष्टीयाब्दे सोऽयं विजयस्तम्भो निर्मित इति।

विश्रुतनामा शिल्पशास्त्रवित् “फर्ण्डसन” साहेवस्तु १४३९ खृष्टाब्दे सोऽयं स्तम्भो निर्मित इति निञ्चिन्वानः परस्परमतेऽप्रामाण्यमवास्थापयत्।

स्वभाव एवैषः केषाञ्चित् तेषां यत् कर्त्तव्य एव साधुरसाधुर्वास्वकपोलकल्पितैर्हेतुभिः प्रत्नकालनिर्णय इति।नात्र किञ्चिद्वक्तव्यमस्माभिः।

“जानन्तु ते किमपि तान् प्रति नैष यत्नः”।

किन्तु विजयस्तम्भगात्रे स्पष्टोत्कीर्णात् शिलाफलकादेतत् प्रतीयते १५०५ संवति अर्थात् खृष्टीय १४४८ अब्दे स निर्मित इति।

तस्मिन् विजयस्तम्भे शिलाफलके १८४—१८७शीतिश्लोके एवं परिबुध्यते तद्द्रष्टव्यं तत्र। तथाहि—

(क्रमशः)

_________

व्याघ्रीविवाहार्थी शृगालः।

(दुराशा दुःखकारणम्।)

कस्मिंश्चित् नदीकच्छे दुराशी नाम शृगालः प्रतिवसति। अथ

तत्र यदृच्छया विचरन्तीकाचित् व्याघ्रीतेन शृगालेनावलोकितासंभाषिता च, अयि व्याघ्रि! कथमस्मिन् विजने वने किमपि दुःखमनुभवन्तीव विचरसि? ततो व्याघ्रीकथयति, सत्यमनुमितं भवता, केनचिद्दुर्द्दान्तेनबलीयसा सिंहेन निपातिते जीवनबल्लभे भर्त्तरि तच्छोकनिष्पीड़िता शून्यहृदयेन यथेच्छं भ्रमामि। शृगालः कथयति दैवं खलु दुरतिक्रमणीयं यद्भवितव्यं तद्भूतं दुश्चिन्तयालम्। एवं दिनानि तयोः कतिचिदतिक्रान्तानि। अपरेद्युः शृगालः बद्धाञ्जलिः सविनयमुवाच, अयि व्याघ्रि! प्रयलया दुराशया प्रणोदितः प्रत्यहमिच्छन्नपि किमपि मनोगतं विवक्षुः पुनर्भयात् निवर्त्ते। व्याघ्रीकथयति किमत्र भयेन ब्रूहि तावत् मनोगतम्। शृगालो ब्रूते भद्रे!किं ब्रवीमि, हृदयं स्फुटदपि नो मुखं स्फुटति वक्तुम्।

अहं शृगालकुले महर्षिर्जितेन्द्रिय एव व्याख्यातः सर्वैर्वनचरैः,फलतोऽपि अहं कति कति वा देशान् न पर्य्यटम् कियतीर्वा सुन्दरीर्नयनातिथीर्नाकार्षम्, किन्तु क्वापि कदापि अपि न मे चित्तविकृतिरजनि। श्रीमती भवती पुनः मृतमपि पतिमनुशोचति पतिव्रता, विलोक्य च तव पतिशोकमहं नितरां दुःखितोऽस्मि। अहमपि भार्य्याविरहितः सञ्जातवैराग्यः परिब्राजकःसञ्जातः। किन्तु वेदे विदितमस्ति प्रब्रज्याश्रमे यावत् फलं क्लेशसाध्यं तावत्फलं धर्मपत्नीसनाथस्य गृहिणी गार्हस्थाश्रमेऽपि विनायासं सिद्ध्यति। अतो यदि न कुप्यसि मह्यं तदा परिणीय भवत्याः पतिशोकमपनोदितुमिच्छामि। पुनर्गाहस्थमपि धर्मं समाश्रयिष्ये यदि मन्यसे त्वम्। तदाकर्ण्य व्याघ्रीकथमपि निगृह्य भावम् ईषद्धसन्तीव कथयति नास्त्यत्र कोऽपि ते भयहेतुः, पत्यन्तरग्रहणेन पशूनां न भवति पातिव्रत्यहानिः बालिनो बधात् प्रातःस्मरणीयया तारयापि सुग्रीवः पतित्वेनाङ्गीकृतः। किन्तु शुभदिनं विना विवाहो नैव समुचितः इति प्रतीक्षस्व कियन्ति दिनानि। तदा-

कर्ण्य पुलकिततनुः शृगाल आह विधुमुखि! धन्योऽहं त्वयानुगृह्यमानः शचीसखः शक्रो नन्दनवने इवात्र विहरामी। इत्येवं चिन्तयानः शृगालः रात्रावपि निकामं न स्वपिति व्याघ्रीविवाहप्रमोदाकुलितः।

अथापरेद्युः व्याघ्री ब्रूते भोः भाविवल्लभ! त्वं शृगालोऽपिमहावीरोऽसि पश्य तावन्नदीस्रोतसा शवो नीयते, तमुपाहर मह्यम् भोजनाय, तदाकर्ण्य शृगालोऽचिन्तयत् यदि नाहरेयं शवं प्रबलस्रोतसस्तदा व्याघ्री मां कापुरुषोऽयमित्येवम् अवमंस्यते, यद्याहरेयंतदा कथं वा दुर्बलेन मया प्रबलतरात् स्रोतसः शवमुद्धरिष्ये तत्रस्रोतसा नीतमिवात्मानं सम्भावये इति मत्वा यद्भवतु दर्शयामिप्रतापं व्याघ्र्यैइति यावत् स्रोतसि उत्पपात तावत् बलवता तेनस्रोतसा शृगालः परिभ्रमन् पुनः पुनरुन्मज्जति निमज्जति, उदरपूरंनासावदनाभ्यां जलं पिबति च। तदवलोक्य व्याघ्रीमनसाहसन्तीद्रुतमुत्पत्य स्रोतसस्तं शृगालमुज्जहार। ततः शृगालेनाभिहितम्, अयि भाविप्रिये! किमेतदनुचितं कृतं भवत्या? अहं खलु स्नात्वा पुनः पुनः पितृृन् तर्पयितुं प्रववृते, त्वन्तु तत्रान्तरायो जाता। ततो व्याघ्रीकथयति ईदृशेन शक्तिमता त्वयाहं परिणेतुमिष्ये, एहि तावन्मम पाणिं गृहाण इति यावत् शृगाल उपसर्पतितावत् प्रखरनखरैरेकेण चपेटाघातेन तस्य कर्णं चिच्छेद। छिन्नकर्णस्तु शृगालः पलायितः, व्याघ्रीअपि यथेच्छं गतवती इति।

___________

कविवरः श्रीभवभूतिः।

(परिशिष्टम्।)

१८१६ शाकाश्विनस्य चन्द्रिकायां मद्विरचिते “कविवरः श्रीभवभूति"रिति शीर्षके प्रबन्धे भवभूतिकथितो गवालम्भो न सम्यगालो-

चितः। तत्रैतावन्मात्रमभिहितं यथा “अत्र तु यावदीयाः शास्त्रयुक्तयः सुधीभिरनुसन्धेया इति”। नाधुनापि केनचित् विपश्चिताएतत्सम्बन्धिनीकाचन मीमांसा पुरस्कृतेत्यालोक्ययथाशक्ति प्रश्नस्यैतस्यालोचनायां यतामहे।

तथाह भगवान् मनुः।

“मधुपर्के च यज्ञे च पितृदैवतकर्म्मणि।
अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः॥

एष्वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद् द्विजः।
आत्मानञ्च पशूंश्चैव गमयत्युत्तमां गतिम्”॥५।४१।४२।

एतस्मान्मनुशासनादेतावदवगम्यते यथा मधुपर्क्कदौ पशुहिंसाकर्त्तव्या तथाच एतदर्थे हिंसा न हिंसेति परिकल्पिता, तद्यथा—

यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा।
यज्ञस्य भूत्यै सर्वस्य तस्माद् यज्ञे वधोऽवधः॥५।३९।

ओषध्यः पशवो वृक्षास्तिर्य्यञ्चः पक्षिणस्तथा।
यज्ञार्थं निधनं प्राप्ता प्राप्नुवन्त्युत्सृतोःपुनः”॥५।४०।

अधुनालोचनीयं कस्य पशोर्मांसं मधुपर्के प्रशस्तमिति। तत्राहभगवान् वशिष्ठःसंहितायाञ्चतुर्थाध्याये—

“ब्राह्मणाय राजन्यायाभ्यागताय वा महोक्षं वा महाजं वापचेत्। एवमप्यातिथ्यं कुर्वन्ति।” तथा चतुर्दशाध्याये “धेन्वनड्बाहौ मेध्यौ वाजसनेयने” इति। तथाच मनुः स्नातकपुत्रग्रहणे मधुपर्के—

“तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः।
स्रग्विनं तल्प आसीनमर्हयेत् प्रथमं गवा”॥३।३।

तत्र कुल्लुकः “तं ब्रह्मचारिधर्म्मानुष्ठानेन ख्यातं स्रग्विनं मालयालङ्कृतम् उत्कृष्टशयनोपविष्टं गोसाधनमधुपर्केण पिता आचार्यो वाविवाहात् प्रथमं पूजयेत्॥” (Manusunhita Bombay Edition)

अतएव स्मृतिकाराणां मते मधुपर्कादौगोबधः न दोषाय।

अधुना गृह्यसूत्रालोचनेन दर्शयामःमधुपर्कलक्षणं कदा वा गवालम्भः कर्त्तव्य इति।

आश्वलायनगृह्यसूत्रे मधुपर्कलक्षणं तथा—

“दधनि मध्वानीय।१।२४।५।

तत्र भाष्यकारी नारायणः—आनयतिरत्र सेचनकर्म्मा। आसिच्येत्यर्थः॥

सर्पिर्वा मध्वलाभि।१२४।६।

मध्वभावे अयमेव प्रतिनिधिः नान्यस्तैलादिः अल्पत्वाद् दातुः कर्म्मपूर्वमाह।

विष्टरः पाद्यमर्घ्यमाचमनीयं मधुपर्को वा गौरित्येतेषां त्रिस्त्रिरेवैकं वेदयन्ते।१।२४।७॥

** **विष्टरः आसनम्। पाप्यार्धमर्ध्वार्थमाचमनार्थञ्च उदकम्। यथोक्तम्। एतेषामिति वचनम् एतेषामेव त्रिर्निवेदनं यथा—स्यात्भोजनस्य माभूदिति। भोजनञ्च देयमिति वक्ष्यामः। ऋत्विजांमधुपर्कदाने द्वे गतीसम्भवतः। पदार्थानुसमयः काण्डानुसमयइति।तत्र पदार्थानुसमयो नाम सर्वेषां वरणक्रमेण विष्टरं दत्वाततः पाद्यन्ततोऽर्घ्यमिति। काण्डानुसमयो नाम एकस्यैव विष्टरादिगोनिवेदनान्तं समाप्य ततोऽन्यस्य सर्वं ततोऽन्यस्येति।

आचान्तोदकाय गां वेदयन्ते।१।२४।२३।

आचान्तग्रहणं शौचार्थम् आचमनं कृत्वा कर्म्माङ्गमप्याचमनंकुर्य्याद् इत्येवमर्थम् उदकवचनम् आचमनीयनिवृत्त्यर्थम्। तेनाचमनम् उदकान्तं भवति।

हतो मे पाप्मापाप्मामे हृत इति जपित्वोङ्कुरुतेति कारयिष्यन्।१।२४।२४।

** **इमं मन्त्रं जपित्वा तं कुरुत इति ब्रूयात् यदि कारयिष्यन् मारयिष्यन् भवति, तदा च दाता आलभेत। तत्र देवताः प्रागुक्ताः।

माता रुद्राणां दुहिता वसूनामिति जपित्वोमुत्सृजतेत्युत्स्रक्ष्यन्।१।२४।२५।

** **यद्युत्स्रक्ष्यन् भवति तदा एतां जपित्वा तमुत्सृज्यतेति ब्रूयात्।

नामांसो मधुपर्को भवति भवति।१।२४।२६

मधुपर्कङ्गंभोजनम् अमांसं न भवतीत्यर्थः। कुतः मांसस्यभोजनाङ्गत्वेन लोके प्रसिद्धत्वात्। अनेनाभ्युपायेन भोजनमप्यत्रविहितं भवति। पशुकरणपक्षे तन्मांसेन भोजनम् उत्सर्जनपक्षे मांसान्तरेण। अध्ययनान्तलक्षणार्थं द्विवचनं मङ्गलार्थञ्च।

पूर्वोक्तगृह्यकारवचनाकलनेन मधुपर्कविधिः सम्यक् परिज्ञातः।गवालम्भस्तत्र विहित इत्यपि ज्ञायते। तथाचालम्भनमन्त्रविधिरपि प्रदत्तः। अपरगृह्यसूत्राण्यपि अत्र न विसंवदन्ति।

पुराणादौ गोमेधादीनां प्रसङ्गोऽपि समासाद्यते। तथाच विष्णुपुराणान्तर्गतसंकृतिनन्दनरन्तिदेवगोमेधवृत्तान्तः सर्वत्र सुपरिज्ञातः।

तैत्तीरिये ब्राह्मणे किं विधः वृषः कस्मै देवतायै दातव्य इतिनिर्दिष्टम्। तथाच पञ्चशारदीयोत्सवे सप्तदशतरुणमवालम्भविधिःसमासाद्यते। गोपथब्राह्मणे कृतमेधस्य पशोरवयवस्य कस्य ब्राह्मणस्य कस्यांश इति निर्द्धारितम्।

अनेनसमासतः श्रुतिस्मृतिमतं परिदर्शितमिति मन्यामहे। अतएव कविवरेण भवभूतिना मधुपर्के वत्सतरीहननं संयोज्य ननास्तिकपदता लेभे। रामचन्द्रराजत्वसमये मधुपर्के गवालम्भः कृतोऽभूदिति ज्ञात्वा कविः तदीये नाटकद्वये रामसमयवर्णनावरेजनकादीनां मधुपर्कप्रदानमधिकृत्य वत्सतरीविशसनं संयोजितवान्। यत् कविकृतविधानं सम्यक् शास्त्रसङ्गतमेतत् पक्षेपरमपूजनीयाः विद्यासागरपादाः प्रमाणं, तेन उत्तरचरितव्याख्यानकालेकविमतस्याङ्गीकृतत्वात्। तथाच तर्कवाचस्पतिपादाः वीरचरितव्याख्याने—“समांसमधुपर्क” इत्याम्नायानुसारेण गृहगतश्रोत्रियाय अतिथये सत्कारार्थं तत्सतरीहननस्य शास्त्रीयत्वं प्रतिपादितवन्तः।

किन्तु नायं विधिः कलौ आचरितव्यः। तथाह रघुनन्दनकृतेउद्वाहुतत्त्वे बृहन्नारदीयकारः।

समुद्रयात्रा (तुः) स्वीकारः कमण्डलुविधारणम्।
द्विजानामसवर्णासु कन्यातसूयमस्तथा॥

देवरेण सुतोत्पत्तिर्मधुपर्के पशोर्वधः।
दत्तायाश्चैवकन्यायाः पुनर्दानं वरस्य च॥

दीर्घकालं ब्रह्मचर्य्यंनरमेधाश्वमेधकौ।
महाप्रस्थानगमनं गोमेधञ्चतथा मखम्॥

इमान् धर्म्मान् कलियुगे वर्ज्यानाहुर्मनीषिणः॥

अतएव वाचस्पत्ये मधुपर्कलक्षणं सम्यक् कलियुगसङ्गतम्—

“मधुनः पर्कः योगो यत्र”। मधुयुक्तं कांस्यपात्रस्थेकांस्यपात्रान्तरेण कृते—

दधिसर्पिर्जलं क्षौद्रं सिता चैतैश्च पञ्चभिः।
प्रोच्यते मधुपर्कस्तु” इत्युक्तं दध्यादिपञ्चके॥
(Vide P. 4732. Vachaspatyam.)

श्रीमद् उपेन्द्रनाथरायस्य।
(रायेरकाठीनिवासिनः)

_________

कुन्दमाला।

(पूर्वानुवृत्ता)

ततस्तदाकर्ण्य परमरोषकशायितलोचनः तच्छासनार्थी द्वितीय इवान्तककिङ्करः म्लेच्छपुरुषो धर्म्माधिकरणाय सावेगं प्रस्थितः।

ततोऽपसर्पति म्लेच्छपुरुषे भैरवरुद्रवेशे वैष्णवचूड़ामणिः हरिहरः संसारस्य मोहाविष्टतामाकलय्य परमाधिक्लिष्टः भगवदेकाभिरतिर्बद्धाञ्जलिः स्तोत्रमवाचयत्।

“नमामः सर्वंसर्वेशममन्तमजमव्ययम्।
लोकधामधराधारमप्रकाशममेदिनम्॥ .

नारायणमणीयांसमशेषाणामणीयसाम्।
समस्तानां गरिष्ठं यद्भूरादीनां गरीयसाम्॥

यत्र सर्वं यतः सर्वमुत्पन्नंसत्पुरःसरम्।
सर्वभूतश्च यो देवः पराणामपि यः परः॥

परः परस्मात् पुरुषात् परमात्मस्वरूपधृक्।
योगिभिश्चिन्त्यते योऽसौ मुक्तिहेतुर्मुमुक्षुभिः॥

सत्त्वादयो न सन्तीशे यत्रच प्राकृता गुणाः।
स शुद्धः सर्वशुद्धेभ्यः पुमान् आद्यः प्रसीदतु॥

कलाकाष्ठा निमेषादि कालसूत्रस्य गोचरे।
यस्य शक्तिर्न शुद्धस्य प्रसीदतु स नो हरिः॥

प्रोच्यते परमेशी हियः शुद्धोऽप्युपचारतः।
प्रसीदतु स नो विष्णुरात्मा यः सर्वदेहिनाम्॥

यः कारणञ्च कार्य्यञ्च कारणस्यापि कारणम्।
कार्य्यस्यापि च यः कार्य्यं प्रसीदतु स नो हरिः॥

कार्य्याकार्य्यस्ययः कार्य्यं तत्कार्य्यस्यापि यः स्वयम्।
तत्कार्य्याकार्य्यभूतोयस्ततश्च प्रणताः स्म तम्॥

कारणं कारणस्यापि तस्य कारणकारणम्।
तत्कारणानां हेतुंत्वां प्रणताः स्म सुरेश्वरम्॥

भोक्तारं भोज्यभृतञ्च स्रष्टारं सृज्यमेव च।
कार्य्यंकर्म्मस्वरूपं तं प्रणताः स्म परं पदम्॥

विशुद्धं बोधनं नित्यमजमक्षमयव्ययम्।
अव्यक्तविकारं यत् तद्विष्णोः परमं पदम्॥

न स्थूलं न च सूक्ष्मंयत् न विशेषणगोचरम्।
तत्पदं परमं विष्णोः प्रणमामः सदामलम्॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च।
जगद्धिहाय कृष्णाय गोविन्दाय नमो नमः॥”

अथ स्तोत्राक्षरमुच्चारयतस्तस्य नेत्रयुगलात् अनवरतं वाष्पलहरीपतन्तीअभिनवं दर्शनीयमुत्पादयामास। ततः स्तोत्रवाचनेन शान्तिपारावारे निमज्जमान इव भक्तिगद्गदः पुनरेवावादीत्

“तदधुना किं कर्त्तव्यम्। भगवन्! निखिलोऽयं संसारः त्वदधीनः।सर्व एव निमित्तनैमित्तिकयोः क्रमस्त्वदेकवशः। अहन्तु

“जानामि धर्म्मंन च मे प्रवृत्तिः
जानाम्यधर्म्मं न चमे निवृत्तिः।
त्वया हृषीकेश! हृदि स्थितेन
यथा नियुक्तोऽस्मि तथा करोमि॥

__________

तृतीयोच्छ्वासः।

कुसुमनिर्म्मिता।

“अथ गन्तव्यमेकान्ततत्सद्व्यापाद्य निष्कृप! मां त्वत्पादतलमनुजीवन्तीमेनां तपस्विनीमनन्यशरणां गन्तुमर्हसीत्यभिहितवती काचन भरविगलित-मुक्ताफलधवललोचनजललवा कुसुमनिर्म्मिता सर्वमनोमोहने यौवने विहितपदक्रमा यमुनासन्निहिते कस्याश्चित् वाप्याः सैकतशीतले शीलातले कस्मिन्नपि कृतोपवेशनस्य तन्मुखमिवाभिध्यायतः कस्य च नयूनःचरणतल एवोत्तमाङ्गं स्थापितवती। अस्तं गतोऽधुना भगवान् वासरनायको भास्करः। आगता भुवनरञ्जिनीरजनी पूर्णशशाङ्कलेखाधारिणी। अभुवन् तस्मिन्जनान्तरपरिशून्ये प्रदेशे गाढ़ विन्यस्तलतास्रग्विशोभिनो विशालाविटपिनः, तस्य निर्जनतायाः प्रधानं साधनम्। आसीत् पुरतो वितता भूतलपयोधरप्रतिमा दीर्घिका शैवालकुमुदकह्लारविमण्डिता। ऊर्द्धमम्बरतलं जलदतारकाशशाङ्कसमन्वितं हसदिव स्थितम्। अहो सर्वैव प्रकृतिः तरुशिरःसु व्रततीकिसलयेषु वापीसोपानावलीसु च शुधांशुकिरणपातनव्याजेन हसन्ती स्पन्दपरिशून्याशान्तिमयी।

एवंविधे प्रकृतेः शान्तिप्रसादे प्रेमिनौनिमेषविरहितौ अन्योन्यमालोकयन्तौ स्थितवन्तौ।

नायं तरुणः पाठकेषु असंस्तुतः। यमुनापुलिनात् निर्गत्यम्लेच्छपुरुषनिवासं गतः। ततस्तमात्मनिवेदनं विज्ञाप्य गृहीतवृत्तिः स्वावासं प्रत्यागतः। उत्तरेद्युः कामपालान्तिकमागत्य सर्वं तस्मै निवेदितवान्। गमनाय च तदादेशमगृह्णात् श्रुत्वैतत् कामपालनन्दिनीअनङ्गमञ्जरीसहसा दयितविरहार्त्ता सखीमुखेन तंप्रियतमं परिणतयामे दिवसस्य तस्मिन्नेव जनपरिशून्ये प्रदेशेदयिता सङ्केतमनुसरन् युवा यथावधारितमागतः कान्तयामिलितः।येयं कुसुममयीमूर्त्तिर्यूनः चरणतलमधिशयाना पूर्वमभिहिता सेयंहेमचन्द्रस्य उच्छसितमिवानङ्गमञ्जरीकामपालदुहिता।

दूरादायान्तं हृदयेशमालोक्य मृणालिनीपेलवा सरला बाला वियतेवापसर्यन्ती कान्तान्तिकमागत्य तनुलतां नाथहृदये निहितवती।

(क्रमशः।)

श्रीमद् उपेन्द्रनाथरायचतुर्धुरीणस्य
रायेरकाठी—वाखरगञ्ज।

_________

तत्त्वप्रपञ्चः।

<MISSING_FIG href=”../books_images/U-IMG-173175289075.jpg”/>

** **प्राचीनास्तु वेदान्तिनो न केवलं चित्तशुद्ध्यर्थं कर्म्म कर्त्तव्यत्वेनप्रतिपेदिरे संशोधितचित्तानामपि ज्ञानाङ्गत्वेन कर्म्मकर्त्तव्यमित्युदिशन्ति स्म। तथाच स्मृतिः—

“ज्ञानिना ज्ञानिना वापि यावद्देहस्य धारणम्।
तावद्वर्णाश्रमप्रोक्तंकर्त्तव्यं कर्म्ममुक्तये॥”

श्रुतिश्च—(ईशावास्ये।११।)

“विद्याञ्चाविद्याञ्च यस्त द्वेदोभयं सह।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्रुते॥”

श्रुतावत्र अविद्यया यज्ञादिकर्म्मरूपया स्वाभाविकं कर्म्मज्ञानञ्च अतिक्रम्य तत्रैव विद्यया ज्ञानरूपया मोक्षं लभते इत्येवमर्थं कल्पयन्ति।

बुद्धं प्रकृतिपुरुषविवेकज्ञानात् प्रकृतिर्जड़ापुरुषन्तु चेतनः प्रकृतिस्त्रिगुणमयी पुरुषस्तु निर्गुणः, प्रकृतिः सुखदुःखमोहमयी, पुरुषस्तुअखण्डनित्यानन्दमयः, प्रकृतिर्निरन्तरं परिणमते,पुरुषस्तु अनादिकालं कूटस्थइत्येवंरूपात् पुरुषस्य मोक्षः इति। एवं प्रकृतेः संयोगात् पुरुषस्य बन्ध इत्यपि बुद्धम्।

अत्रेदानीमियमाशङ्का जागर्त्ति—अथ अधुनापि गुरुशास्त्रोपदेशात् जानीमः प्रकृतिः अस्मभ्यः पुरुषेभ्यः भिन्ना, बुद्धिरूपेण परिणताया एव प्रकृतेः सुखदुःखादिकः स्वर्गनरकादिकश्च बन्धः, न तु अस्माकं पुरुषाणाम्, इत्येवं, तर्हि अधुनैव न कथं अस्माकं देहाद्यभिमानिनां पुरुषाणां प्रकृतिविवेकिनां मोक्षः, जानीमश्च वयं पुरुषाः नित्यशुद्धाःनित्यबुद्धाः नित्यमुक्ताश्च नास्ति दुःखलेशोऽपि अस्माकं,दुःखादिकन्तु प्राकृतम् इत्यादि, किन्तु तथापि सन्ति मे धनपुत्रकलत्रक्षेत्राणि इत्यहं सुखी, न सन्ति मे धनपुत्रक्षेत्रकलत्राणिइत्यहं दुःखी रोगेण शीर्णं मे शरीरम् इत्यहं दुःखी, एवम् अहंस्थूलः अहं कृशः अहं गौरः अहं कृष्णश्च इत्येवं शोकाशोककारणम् अविवेक इति। सति प्रकृतिविवेके कथं नाभिमानो न निवर्त्ततेअपि च—विवेकान्मुक्तिरिति प्रतिपादितं, चेदेवमस्ति घटादीनामप्यस्माकं विवेकः, तदा न कथं मुक्तिरिति? सत्यं—यावत् प्रकृत्यविवेको वर्त्तते तावत् प्रकृत्यविवेकजातबुद्ध्यादिदेहाद्यविवेकोऽपिदुष्परिहरः स्यात्। यदा पुनः प्रकृत्यविवेकोऽपगच्छति तदा प्रकृत्यविवेकादुत्पन्नो देहाद्यभिमानोऽपि तिरो भवति। यथा यावच्छरीरे अभिमानी वर्त्तते तावच्छरीरकार्य्येषु रूपादिष्वपि “अहं गौरः अहं स्थूलः” इत्येवमभिमानो भवत्येव। तन्निवृत्तौ च तन्निवृत्तिरिति तुल्ययुक्तेःतथा च विज्ञानधृतस्मृतिः।

“चित्राधारपटत्यागे त्यक्तं तस्य हि चित्रकम्।
प्रकृतेर्विरमे चेत्थंध्यायिनां के स्मरादयः॥”

अतएव प्रकृत्यविवेकनाशएव बुद्ध्यादिदेहाद्यविवेको नश्यतिकारणनाशे कार्य्यनाशस्य नियतत्वात् एतदेव सूत्रकरोऽप्याह—

प्रधानाविवेकाद्दन्यवेकस्य तद्धानेहानन्॥१॥५७॥
इति तत्त्वप्रपञ्चे दुःखादिप्रकारी नाम चतुर्थाध्यायः॥*॥

_________

तत्त्वप्रपञ्चः।

(प्रकीर्णः)

प्रतिपादितं दुःखम् दुःखहेतुः दुःखनिवृत्त्युपायः दुःखनिवृत्तिश्चेति चतुः समूहात्मकं सांख्यशास्त्रम्—

आध्यात्मिकमाधिभौतिकमाधिदैविकञ्च त्रिविधं दुःखम्,
प्रकृतिपुरुषसंयोगाज्जातोऽविवेको दुःखहेतुः।
प्रकृतिपुरुषविवेकसाक्षात्कारो दुःखनिवृत्युपायः,
दुःखत्रयाणां चिरायानुत्पादो दुःखनिवृत्तिर्मोक्ष इति॥

अधुना तत्रेदमाशङ्क्यते—ननु यदि प्रकृतिपुरुषसंयोगजातोऽविवेक एव दुःखहेतुः, तयोर्वियोगजातेन विवेकेन तु मोक्षः,तौ च विवेकाविवेकौअवश्यं पुरुषे एव विद्येते इत्येवं स्वीकर्त्तव्यम्। तर्हि पुरुषो “नित्यशुद्धबुद्धमुक्तस्वभाव” इत्यत्र तस्य नित्यशुद्धत्वे नित्यबुद्धत्वे नित्यमुक्तत्वे च व्याघात आपद्यते। श्रुतिः पुनः कथयति—

न विरोधी न चोत्पत्तिर्न बद्धो न च साधकः।
न मुमुक्षुर्न वैमुक्त इत्येषा परमार्थता॥ इति

मैवम्। तथा विवेकाविवेकौ बुद्धेरेव धर्मौन तु पुरुषस्य, किन्तुबुद्धिवृत्तिप्रतिविम्बपातात् पुरुषो विवेकाविवेकवानिव मन्यते। यथा शुद्धगौरोऽप्यहं सायन्तनसौरकरच्छुरितजलधररक्तिमसम्बन्धाद्रक्तवर्णमात्मानं पश्यामि यथा वा जवालौहित्यात् स्फाटिके लौहित्यम्। एतत्तु द्वयोः सान्निध्यादुपजायते। न तु तत्त्वतः,अतएव श्रुतिराह—

“स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव” इति।

अत्र समानः उभयोर्लोकयोरेकरूपः। इवशब्दाभ्यान्तु उपाधिवशात्तस्य नानारूपत्वमुक्तमिति। तथा चोक्तम्॥

“बन्धमोक्षौ सुखं दुःखंमोहापत्तिश्च मायया।
स्वप्नेयथात्मनः ख्यातिः संसृतिर्नतु वास्तवौ॥”

अत्रेदमाशङ्क्यते—अथ केयं व्यवस्था? यथा बुद्धिगतो विवेकोऽविवेकश्च तदसम्बद्धं पुरुषं मोचयेत् बध्नीयाच्च। तथा देवदत्तोनेत्रहीनो गृहे वसतु चक्षुष्वान् विष्णुमित्रः कूपे पततु। यदि तथा विधेनापि विवेकेनाविवेकेनापि बुद्धिगतेनापराधरूपेण पुरुषो बध्यतेतदा रमाया गात्रकण्डूभिः विष्णोः पृष्ठे कण्डूतिर्जायताम् अतः कथंवा तद्दुःखस्य परगतस्य निवृत्तिः पुरुषार्थः?। सत्यं प्रागे वैतदुक्तप्रायमपि अत्र किञ्चित् प्रपञ्च्यते। यद्यपि विवेकाविवेकौ बुद्धेरेव गुणदोषौ तथापि तत्सान्निध्यात् प्रतिविम्बरूपाभ्यांपुरुषे गुणदोषाभ्यां विवेकाविवेकाभ्यां तस्य मुक्तिर्वन्धश्चेति सुव्यवस्थैव। अतएव अवास्तविकत्वेऽपि दुःखस्य प्रतीकारः पुरुषार्थ एव,अविवेकेन अनुरागेणेव बधूरिव बुद्धिःर्युवानमिव पुरुषं सुसंयोगात्बध्नाति इति स बद्धः। एवं विवेकेन विरागेणेव वृद्धेव बुद्धिः पुराणमिव पुरुषं वियोगेन त्यजतीति स मुक्तः कथ्यते।

साधु साधु—वन्धमोक्षादेर्यदि पुरुषे प्रतिविम्बरूपो भ्रमः तदा भ्रमनाशिन्या श्रुत्वा तद्युक्त्या च पुरुषात् वन्धमोक्षादिरपगच्छतु। किमिति सहस्रजन्मपरम्परार्ज्जितेन विवेकेनात्मसाक्षात्कारेण? मैवं घटते, यस्य हि पितुर्गुरोर्वचनमेकं विश्वासास्पदं संसारमोचकञ्च विषमप्यमृतमिति अमृतमपि विषमिति व्यवहर्त्तुमुद्यच्छतिसोऽपि यदि वदति वत्स! भ्रान्तिस्ते दिक्षु जाता नेयं दक्षिणानेयञ्च पूर्वेति युक्त्युपदेशाभ्यां तदा दिङ्मूढस्य कथमपि नविश्वासोऽधिकरोति हृदयम्।

यस्य वा पित्तदोषेण दूषितनेत्रजिह्वस्य युक्त्युपदेशमतीत्य प्रत्यक्षितमपि श्वेतं पीतायते, मधुरञ्च तिक्तायते। यदिपुनरेकपदेभ्रान्तिरपैति पित्तदोषश्चापगच्छति तदा विनाप्युपदेशं युक्तिञ्चनिश्चिनोति इयं दक्षिणा इयञ्च पूर्वा दिक्, रूपञ्चेदं शुक्तमयञ्च रसो मधुर इति।

(क्रमशः)

<MISSING_FIG href=”../books_images/U-IMG-173175501176.jpg”/>

ब्रह्मचर्य्यम्।

(पूर्वप्रकाशितात्परम्।)

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि संप्रवर्द्धन्ते आयुर्विद्या यशो बलम्॥१२१॥

  1. He who habituallysalutes and constantly payareverence to the aged obtains an increase of four (things), (viz.) length of life, knowledge, fame, (and) strength.

अभिवादात् परं विप्रो ज्यायांसमभिवादयन्।
असौनामाहमस्मीति स्वंनाम परिकीर्त्तयेत्॥१२२॥

** **122. After the ( word of) salutation, a Brahmana who greets an elder must pronounce his name, saying, ‘I am N N.

नामधेयस्य ये केचिदभिवादं न जानते।
तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्वास्तथैव च॥१२३॥

** **123. To those (persons) who, when a name is pronounced,do not undirstand (the meaning of) the salutation, a wise man should say, ‘It is I.,’ and (he should address) in thesame manner all women.

भोः शब्दं कीर्त्तयेदन्ते स्वस्य नाम्नोऽभिवादने।
नाम्नां स्वरूपभावो हि भो भाव ऋषिभिः स्मृतः॥१२४॥

** **124. In saluting he should pronounce after his name theword bhoh; for the sages have declared that the nature ofbhoh is the same as that of (all proper) names.

आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः॥१२५॥

  1. A Brahmana should thus be saluted in return,May’st thou be long-lived, O gentle one!’ and the vowel ‘a’must be added at the end of the name (of the person addressed), the syllable preceding it being drawn out to the length of three moras.

यो न वेत्यभिवादस्य विप्रः प्रत्यभिवादनम्।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः॥१२६॥

** **126. A Brahmana who does not know the form of returning a salutation, must not be saluted by a learned man; as a Sudra, even so is he.

ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम्।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च॥१२७॥

** **127. Let him ask a Brahmana, on meeting him, after(his health, with the word) kusala, a Kshatriya (with the word) anamaya, a Vaisya (with the word) kshema, and a Sudra (with the word) anarogya.

अवाच्चो दीक्षितो नाम्ना यवीयानपि यो भवेत्।
भो भवत् पूर्वकस्तेनमभिभाषेत धर्म्मवित्॥१२८॥

** **128. He who has been initiated (to performa Srautasacrifice) must not be addressed by his name, even thoughhe be a younger man; he who knows the sacred law must usein speaking to such (aman the particle) bhohand (the pronoun) bhavat (your worship).

परपत्नीतु या स्त्री स्यादसम्बन्धा च योनितः।
तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च॥१२९॥

** **129. But to a female who is the wife of another man;and not a blood-relation, he must say, ‘Lady’ (bhavati) or Beloved sister!’

मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून्।
असावहमिति ब्रूयात् प्रत्युत्थाय यवीयसः॥१३०॥

  1. To his maternal and paternal uncles, fathers-in-lawofficiating priests, (and other) venerable persons, he must`say, ‘I am N. N.,’ and rise (to meet them), even though theybe younger (than himself).

मातृष्वसा मातुलानीश्वश्रूरथ पितृष्वसा।
संपूज्या गुरुपत्नीवत् समास्ता गुरुभार्य्यया॥१३१॥

  1. A maternal aunt, the wife of a maternal uncle. a mother-in-law and a paternal aunt must be honoured like thewife of one’s teacher; they are equal to the wife of one’steacher.

भ्रातुर्भार्य्योपसंग्राह्या सवर्णाहन्यहन्यपि।
विप्रोष्य तूपसंग्राह्या ज्ञातिसम्बन्धियोषितः॥१३२॥

  1. (The feet of the) wife of one’s brother, if she beof the same caste (varna), must be clasped every day; (the feet of) wives of (other) paternal and maternal relativesneed only be embraced on one’s return from a journey.

पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वसर्य्यपि।
मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी9*॥१३३॥

** **133. Towards a sister of one’s father and of one’s motherand towards one’s own elder sister, one must behave as towards one’s mother; (but) the mother is more venerable than they.

दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कला भृताम्।
त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु॥१३४॥

  1. Fellow-citizens are called friends (and equals though one be) ten years (older than the other), men practising(the same) fine art (though one be) five years (older than theother), Srotriyas (though) three years (intervene betweentheir ages), but blood-relations only (if the) difference of agebe very small.

ब्राह्मणं दशवर्षन्तु शतवर्षन्तु भूमिपम्।
पिता पुत्रौ विजानीयात् ब्राह्मणस्तु तयोः पिता॥१३५॥

  1. Know that a Brahmana of ten years and Kshatriyaof a hundred years stand to each other in the relation of father and son; but between those tow the Brahmana is thefather.

वित्तं बन्धुर्वयः कर्म्म विद्या भवति पञ्चमी।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम्॥१३६॥

  1. Wealth, kindred, age, (the due performance of)rites, and fifthly, sacred learning are titles to respect; buteach later-named (cause) is more weighty (than the precedingones).

पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च।
यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः॥१३७॥

  1. Whatever man of the three (highest) castes possessesmost of those five, both in number and degree, that man isworthy of honour among them; and (so is) also a Sudra whohas entered the tenth (decade of his life).

चक्रिणो दशमीस्थस्य रोगिणी भारिणस्त्रियाः।
स्नातकस्य च राज्ञश्च पन्थादेयो वरस्य च॥१३८॥

  1. Way must be made for a man in a carriage, forone who is above ninety years old, for one diseased, for thecarrier of a burden, for a woman, for a Snataka, for the king,and for a bridegroom.

तेषान्तु समवेतानां मान्यौ स्नातकपार्थिवौ।
राजस्नातकयोश्चैव स्नातको नृपमानभाक्॥१३९॥

  1. Among all those, if they meet (at one time), a Snataka aud the king must be (most) honoured; and if theking and a Snhtaka (meet), the latter receives respect fromthe king.

उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः।
सङ्कल्पं सरहस्यञ्च तमाचार्य्यंप्रचक्षते॥२४०॥

  1. They call that Brahmana who initiates a pupil andteaches him the Veda together with the Kalpa and the Rahasyas, the teacher (akarya, of the latter).

एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते॥१४१॥

  1. But he who for his livelihood teaches a portion onlyof the Veda, or also the Angas of the Veda, is called thesub-teacher (upadhyaya).

निषेकादीनि कर्माणि यः करोति यथाविधि।
सम्भावयति चान्नेन स विप्रो गुरुरुच्यते॥१४२॥

  1. That Brahmana, who performs in accordance withthe rules (of the Veda) the rites, the Garbhadhana(conception-rite), and so forth, and gives food (to the child), is called the Guru (the venerable one ).

श्रीश्रीदुर्गाशरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-173183906251.jpg”/>

श्रीश्रीगणेशाय नमः।

शिवादीमपि कर्म्माणि कारयन्ती जनानिव।
नायावलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी॥

<MISSING_FIG href=”../books_images/U-IMG-173183911948.jpg"/>

मासावतरणिका।

व्याघ्रोऽप्यघर्घररवः परिमुद्रिताक्षः
संयम्य पुच्छ-कर-कन्धरमुर्वितुण्डः।
अग्रस्थिताय रुरवेऽप्यकृतोद्यमस्तन्
माघः कृतागस इवार्द्दक आगतोऽसौ॥

<MISSING_FIG href="../books_images/U-IMG-173183945977.jpg"/>

उद्भट-श्लोकाः।

“ह्रीरूपापि दिगम्बरीत्रिजगतां मातापि सद्यौवना,
कन्यादेरपि कोमला त्रिभुवनं व्याप्ताप्यदृष्टा जनैः।
साध्वी चाक्रमते स्वभर्त्तृहृदयं श्यामा जगन्मोहिनी,
चित्रंरूपमवस्थिता भवतु ते साहर्निशं सम्पदे॥१०३॥

“शुकाः फलविदारिणः कुसुमदूषिणःषट्पदाः
पिकाः शिरसि वासिनी जनित कोटराःशारिकाः।
तथापि भवदाश्रयोऽभवदसौ रसालद्रुमः
सहेत रसिकं (सगुणं) विना सगुणदुर्णयं (प्यगुणदुर्णयं) कोऽपरः॥१०४॥”

“पर्य्याप्तदक्षिणस्यापि अश्वमेधस्य यत् फलम्।
तत् फलं समवाप्नोति रक्षिते शरणागते॥१०५॥”

<MISSING_FIG href=”../books_images/U-IMG-173184001678.jpg"/>

एकाम्रकाननेँ भुवनेश्वरमन्दिरम्।

विश्वकोषसम्पादकेन प्रदत्तम्।

एकास्रकाननम्।

<MISSING_FIG href="../books_images/U-IMG-173184018279.jpg"/>

तीर्थमेतत्दुत्कलदेशे परमपवित्रं व्यवतिष्ठते, तथा च स्कन्दपुराणे उत्कलखण्डे।

“स वर्त्तते नीलगिरिर्योजनेऽत्रतृतीयके।
इदन्त्वेकाम्रकवनं क्षेत्रंगौरीपतेर्विदुः॥” १२ अः।
“चतुर्देहस्थितोऽहं वै यत्र नीलमयो गिरिः।
तस्योत्तरस्यां विख्यातं वनमेकाम्रकाह्वयम्॥” १३ अः।

कपिलसंहितायान्तु तदेतन्नामकारणं निर्दिष्टम्।—

“एकाम्रवृक्षस्तत्रासीत् पुरा कल्पे तु मुक्तिदः।
तत्रएकी यतश्चाम्रस्तस्मादेकाम्रकं वनम्॥५५।

महोच्छ्रायः सुशाखी च नवविद्रुमपल्लवः।
धर्मार्थकाम मोक्षाश्चयत्र वृक्षे फलानि च॥५६॥

तं वृक्षं गोपनीयञ्च चकार सुरनाशनः।
तस्य मूले महेशस्तु तन्नाम्नाख्यातिमागतः॥५७॥

कपिल संहितायामस्य चतुःसीमानिर्णयः यथा—

“क्षेत्रस्य पूर्वदक्षेच पश्चिमे चोत्तरे तथा।
क्रोशेन मण्डलाकारंकुर्य्यात् क्षेत्रप्रदक्षिणम्॥
क्षेत्रमेतत् समादिष्टं चक्राकारं शुभंसुने!॥”

एकाम्रचन्द्रिकायान्तु अयं विशेषःयथा—

“खण्डाचलं समासाद्य यत्रास्तेकुण्डलेश्वरः।
आसाद्य वाराही देवी! वहिरङ्गेश्वरावधि॥”

अस्यैव नामान्तरं “शाम्भवक्षेत्रम्” यथा—उत्कलखण्डे।

“इत्थमेतत् पुरा क्षेत्रंमहादेवेन निर्मितम्।
तत्रसाक्षादुमाकान्तः स्थापितः परमेष्ठिना॥
तदेतच्छाम्भवं क्षेत्रं तमसो नाशनं परम्॥” १३ अः।

नानाविधे च पुराणेऽस्य क्षेत्रस्य मतभेदः समाशाद्यते। शिवपुराणे त्वेवम्।—

एकदा “पार्वती शिवमवादीत्—प्रभो! काशीक्षेत्रसदृशींक्व वर्त्तते पुण्यक्षेत्रमपरम्? इति।

शिवोऽचकथत्—आराद्दक्षिणसमुद्रस्य उत्कलदेशे बिन्ध्यगिरिपादनिःसृता गन्धवतीनाम नदी वर्त्तते, इयमेव शाक्षाद्गङ्गा, तीरे तस्या"एकाम्रकाननं” विराजते, तत्तुकाननं नानाविधैः पादपैः कुसुमैःफलैः पल्लवैः लताभिः पक्षिभिः सरोभिः सविशेषं शोभितम्। सुरासुरैर्दुर्लभं, कोटिलिङ्गसमायुतं निभृतम्। ततः पार्वती न्यवादीत्—नाथ! चे देवं तदा तत्र मे द्राघीयसी जिगमिषा यद्यनुमताप्रभुना इति।

शिवोऽब्रवीत्—देवि! अधुना त्वमेकाकिनीव्रज, स्मार्य्यमाणस्त्वयाहं पश्चाद्गमिष्यामि।

ततः सिंहसमारुह्य गिरिजा तत्र प्रतस्थे, दृष्ट्वा च एकाम्रकाननंननन्द, तत्र च लिङ्गं श्रीभुवनेश्वरमपूपुजत् अद्राक्षीच्चहृदमध्यादागत्य धेनुसहस्रं लिङ्गोपरि पयः प्रस्नौति स्नपयति च इति।

एकदा तत्र गौरौरूपेणाकृष्टौ द्वावसुरौ “कीर्त्तिः” वास"श्चमनोजाभिभूतौ देव्यै स्पर्शमयाचेतां, तौ तु असुरौ विनाशयितुं साशिवमस्मार्षीत्, उपतस्थे च स शिवः प्रमथपरिवृतः।

शिवोऽवोचत्—देवि! द्रुमिल राजनेयौ तौ पित्राराधित देववरेण अविनश्वरौ पुरुषेणास्त्रेण च। अतस्त्वमेव तौ जहि।

अथ कदाचित् पुनरपि देवीमालोक्य तौ आलिङ्गनं चकमाते, देवी व्रवीतिस्मदास्याम्यालिङ्गनं किन्तु येनाहं स्कन्धे वोढुंशक्येतमेव परिष्यामि इति मे प्रतिज्ञातं तदा तत् पूरय।

असुरावाहतुः आरोह तदावयोः शिर इति, ततः सा भुविपातिते तयोः शिरसि आरुरोह, तौ तु गिरि कूटभारेणेवा क्रान्तौ प्राणान् मुमुचतुः।

तत्राप्यद्यापि—“तच्चिह्नो” विन्दुह्रद” इति नाम्रा वर्त्तते।(शिवपुराणं २६ अध्याये)।

अत्रासंख्यानि तीर्थानि वर्त्तन्ते तेषु “विन्दुः” गन्धवती” “शङ्करवापी” “कपिलतीर्थं” “सोमतीर्थ” मेव प्रधानम्। अन्धानिचासंख्यातानि लिङ्गानि विराजन्ति।

तत्र हि भुवनेश्वरमन्दिरमेव प्रधानं दृश्यम्। मन्दिरमेतत्उच्चैः १०० हस्तः। मन्दिरस्यास्य शिल्पणैपुण्यमालोक्य सर्व एवस्तम्भीभवन्ति। असामान्यशिल्पनैपुण्येन आर्य्यशिल्पाः मन्दिरमेतत् निर्म्मिमरे।

श्रीक्षेत्रस्य “मादला पञ्जीमते” उत्कलराजेन ययातिकेशरिणा10३९६ शकाब्दे विश्वविश्रुतं मन्दिरमेत निर्म्मापयामासे।

अहो निर्जनारण्ये इत्यङ्कारमेव निर्म्मितं मन्दिरं तत् दर्शनादेव पाषण्डानामपि भक्तिरुद्रियक्ति। अहो पुण्यशलिलो विन्दुह्रदःकथमिव मृदु मृदु परितो मन्दिरमेतत् प्रवहति, नावमारुह्यह्रदे मन्दिरालोकनात् संव्याप्नोति देहमानन्दरसो घनीभूतः।

अहो अत्रागतवतां विस्मितानामेतदवलोकयतां पुनर्न मनःप्रसरति पुत्रकलत्रजुष्टं गृहं प्रवेष्टुमिति, आगमनादेवात्र शोकः पलायते, रागोऽभिभूयते, विषयज्वाला च विस्मर्य्यते। यथैवात्रशान्तिदेवी चिराय गृहीततनुर्विराजते। भुवनेश्वरे अपराण्यपिदेवमन्दिराणि प्रस्तरनिर्मितानि सुवृहन्ति देदीप्यन्ते। तेषु रामेश्वरमन्दिरम् उच्चैः(५२ हस्तः) यमेश्वरस्य मन्दिरं (४४हस्तः) राजमहिष्याः(४२ हस्तः) अनन्तवासुदेवस्य (४० हस्तः)

भगवत्याः(३६ हस्तः) नागेश्वरस्य (३५ हस्तः) सिद्धेश्वरस्य (३१हस्तः) कपिलेश्वरस्य (३० हस्तः) केदारेश्वरस्य (३० हस्तः) परशुरामेश्वरस्य (२५ हस्तः) युक्ततेश्वरस्य (२५ हस्तः) कोपारेश्च (२५ हस्तः) एवं सोमेश्वरस्य(२२ हस्त उच्छ्रायः)।

भुवनेश्वरस्य नाट्यशाला च ययातिकेशरिणो वंशधरेण शालिनीकेशरिणा निर्म्मता। भोगमण्डपस्तु ७९२—८११ खृष्ठाशब्दमध्ये “कमल केशरिणा” रचितः।

श्रीक्षेत्रस्य पञ्जीमते तु नाट्यशाला ययातिकेशरिणा निर्म्मातुमारब्धा एवं ५५८ शकाब्दे अलावुकेशरिणा तु शमाप्तिनीता।

एकाम्रचन्द्रिकायान्तु एवं लिखितमस्ति—यत् भुवनेश्वरमन्दिरंविन्दुसरश्च महादेव एवं निर्म्ममेइति, तस्य अलावूमयस्य भिक्षापात्रस्य जलेन जातत्वादस्य तीर्थस्य नाम “अलावुतीर्थ”मित्यपिकथ्यते। यथा—

“अस्मिन् क्षेत्रवने रम्ये भैक्षपात्रञ्च नामवान्।
कुण्डञ्च उदकाधारं तिर्थीभूतं भविष्यति॥

अलाबुतीर्थंविख्यातंतत् प्रसादादिवास्तु मे।
भूतानां हितमत्यर्थं प्रसादंकर्त्तुमर्हसि॥

एवमस्त्विति देवेशस्तामलावूंद्विजोरिताम्।
स्पर्शयामास हस्तेनाभवद्दिव्यो महाद्रूदः॥

भूयः प्राह हरस्तुष्ट एव मे निर्मितः स्वयम्।
यत्राभवन्मुनि श्रेष्ठ! परिपूर्णश्च पावनः॥

आलवूतीर्थंतल्लोके विख्यातंजनपावनम्।
अष्टायतनमध्येऽदी गतिमिष्टां प्रदायकम्॥”

मादलापञ्जीमते प्रसिद्धमलावूकेश्वरमन्दिरं ५९९शके अलाबुकेशरी पार्थिवेन्द्रः अगणितं धनं व्ययित्वा निर्म्मापयामास। द्राघिम्नि मन्दिरमेतत् प्रायः (५२६ हस्तपरिमितम्)।

तत्र बहुषु तीर्थेषु सरःसु च “विन्दुसागरः” “पापनाशिनी” “गङ्गायमुना” “कोटितीर्थं” “ब्रह्मकुण्डं” “मेघकुण्डं” “अलावुकुण्डं” “कपिलहृदयश्च” प्रधानम्॥ इति शिवम्॥

___________

चित्तहरम्

वा

(चितोर)

(पूर्वप्रकाशितात् परम्)

कीर्त्तिस्तम्भपार्श्वयोः पौषमासि मुद्रितानां श्लोकानामिदानीमर्थोविधीयते आलोच्यैनं सदसद्विचारणीयम्। तथाहि।

सप्ताधिकपञ्चदशशतवर्षे (१५०७) व्यतीते श्रीमान् कुम्भकर्णोनरपतिःकार्त्तिकमासि शुक्लत्रयोदश्यां तिथौ सुन्दरे चित्रकूटे11प्रोन्नततोरणान्वितां हीरकप्रभया म्राजमाणां वानरमुखशोभिशिखरदेशां रथ्यां निर्म्मितवान्12॥१८४॥

विक्रमादित्यात् पञ्चदशाधिकपञ्चदशशतवर्षे व्यतीते (१५१५)चैत्रकृष्णत्रयोदश्यां राज्ञा “कुम्भमेरुः” निर्मितः॥१८५॥

पञ्चाधिकपञ्चदशशतवर्षे (१५०५) व्यतीते नरपतिःसः माघमासि शुक्लदशम्यां गुरुवारे पुष्यानक्षत्रे, चित्रकूटे (चित्तहरे नगरे) समुत्कीर्णाभिः नानादेवताभिः सुमेरोरपि शोभापहारकं कीर्त्तिस्तम्भमकारयत्॥१५६॥

नवाधिकपञ्चदशशतवर्षे (१५०९) समतौते माघमासे पूर्णि-

मायां सुप्राचीरावृतं देवमन्दिरोपेतं बहूद्यानशोभितं भुदृढ़ं दुर्गंरचयत्॥१८७॥

एतेन पूर्वापरपर्प्यालोचनया सम्प्रतीयते १५०५ संवति कीर्त्तिस्तम्भो निर्म्मितः, ततो द्विवर्षात् परं १५०७ संवति अतिसुखसञ्चरणाय प्रशस्तं राजवर्त्मनिर्मितम्13१५०९संवति अचलवत् दुर्भेद्यं दुर्गं निर्मितम्। एवं १५१५ संवति तु कुम्भराणा “कुम्भमेरुः” नामकीड़ापर्वतं निर्मितवान्।

उक्तप्रमाणादेतदेव निश्चितं यत् १५०५ संवति कीर्त्तिस्तम्भो निर्मितः। किन्तु महात्मा “टड्साहेवकः” पुनः १५०५ संवति”बृम्ब” नामक-देवमन्दिरनिर्माणवृत्तान्तमेव कथितवान्। परन्तु कीर्त्तिस्तम्भगात्रे समुत्कीर्णशिलाफलके १८५ श्लोके १५१५ संवति कुम्भमेरुनिर्माणवार्त्तैव लभ्यते।

विख्यात “टड्” साहेवमते कीर्त्तिस्तम्य एष दिल्लीनगर्याः “कुतवमिना” नामकस्तम्भादुकृष्टतर इति। किन्तु “क्यानिंहाम” साहेवकः कथयति कुतवमिनास्तम्भस्य यशसि नायं स्तम्भः कथमपितुलामेति, अस्यचितोरजयस्तम्भस्यापादमस्तकं यावत् सुसूक्ष्मेण भास्करकार्य्येण परिपूर्णत्वात् सौन्दर्य्यंव्याहतं अन्तरान्तरा यदिअकृतशिल्पं प्रस्तरमस्थास्यत् तदा अधिकतरं सौन्दर्य्यमवर्द्धिष्यतइति। अत्रारोहणे अति प्रशस्ता सोपानमाला, द्वाराणि तु क्षुद्राणीति।

एवमपरेऽपि कीर्त्तिस्तम्भाः पिपतिषन्ति भग्नग्रीवाःस्खलितप्रावृतयः प्ररूढशष्पतरवश्चइत्यलम्॥ शिवमस्तु॥

कुमारबन्धुः।

(काव्यतीर्थपरीक्षार्थिनाम्)

दशकुमाराणां वंशावली

राजहंसः

राजवाहनः(१)
धर्म्मपालः

_________________________________
| | |
सुमन्त्रः सुमित्रः कामपालः
| | |
मन्त्रगुप्तः (२) मित्रगुप्तः (३) अर्थपालः(४)

पद्मोद्भवः

____________________

| |
सुश्रुतः रत्नोद्भवः
| |
विश्रुतः (५) पष्पोद्भवः (६)

सितवर्म्मा
____________________

| |
सुमतिः सत्यवर्म्मा
| |
प्रमतिः(७) सोमदत्तः (८)

प्रहारवर्म्मा
____________________

| |
उपहारवर्म्मा(९) अपहारवर्म्मा(१०)

___________________________________________________________

* तस्मिन्नेवकाले सुमति-सुमन्त्र-सुमित्र-सुश्रुतानां नन्त्रिणां प्रमति-मित्रगुप्त-मन्त्रगुप्त विश्रुताख्या महदभिख्याःसूनवः।इति पुस्तकस्यपाठेन क्रमपाठात् सुमन्त्रस्य सुमित्रः पुत्रः सुमित्रस्य सुमन्त्रः पुत्रः इत्येव संगच्छते। अपि तु सुमतेः प्रमतिः सुश्रुतस्य विश्रुतः—

_________________________________________________________

कुमाराणां स्त्री वंशपरिचयः

कुमारः स्त्री पिता माता राज्यं
सोमदत्तः वामलोचना वीरकेतुः पाटली
पुष्पोद्भवः बालचन्द्रिका वणिक् उज्जयिनी
राजवाहनः अवन्तिसुन्दरी मानसारः मालवः
अपहारवर्म्मा अम्बालिका सिंहवर्म्मा अङ्गः
उपहारवर्म्मा कल्पसुन्दरी कलिङ्गवर्म्मा मानवती कामरूपं
अर्यपालः मणिकर्णिका चण्डघोषः आचारवती काशीपुरी
प्रमतिः नवमालिका धर्म्मवर्द्धनः श्रावस्ती
मित्रगुप्तः कन्दुकावती तुङ्गधन्वा मेदिनी सुह्मः
मन्त्रगुप्तः कनकलेखा कर्द्दनः कलिङ्गः
विश्रुतः मञ्जुवादिनी अनन्तकीर्त्तिः वसुन्धरा विदर्भः

ग्रन्थधृतानां जनानां नामानि संक्षिप्तपरिचयाश्च।

राजहंसः—पुष्पपुरीश्वरः
वसुमती—राजहंसपत्नी
धम्मपालः—राजहंसस्य मन्त्री
पद्मोद्भवः,सितवर्म्मा-राजहंसस्य द्वौमन्त्रिणौ

___________________________________________________

प्रहारवर्म्मणोऽपहारवर्म्माउपहारवर्म्माच कामलालस्य अर्थपालः, रत्नोद्भवस्य पुष्पोद्भव इत्येत्र नामवर्णसादृश्यदर्शनात् सुमन्त्रस्य मन्त्रगुप्तः सुमित्रस्य मित्रगुप्तः पुत्र इत्येव सङ्गच्छतेअतोऽधिकं सुधीभिर्भाव्यम्।

__________________________________________

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

आत्मनिवेदनम्।

यतो निवृत्ता मनसा च वाणी पुराणवादा अपि यत्र मूकाः।
श्रुतिश्चसाङ्गा न विभर्त्ति बुद्धिस्तं स्वप्रकाशं पुरुषं नमामि॥१॥

संसारपाथोधिममुं दुरन्तं शक्नोति सन्तारयितुं न कोऽपि।
ऋते भवेशात् भवकर्णधारात् पुनः पुनस्तं स्मर सानुरागम्॥२॥

रे चित्त! तस्याखिललोकभर्तुः पादं शरण्यंशरणं निधेहि।
जगत्प्रभोस्तत्र कटाक्षदृष्ट्या पलायते दूरमहो विपाकः॥३॥

विश्वैकवीजस्य न शत्रुरत्रमित्रं न वा शान्तसमानदृष्टेः।
तस्मै गतं यस्य निजस्वरूपं सोऽस्य प्रियोऽजायत एव नित्यम्॥४॥

आवर्त्तगर्त्ते भवसागरस्य पतस्यधस्तात् क्रमशोऽविवेकिन्!।
तथापि सर्वज्ञममुं महेशं स्मर्त्तुं क्षणं किं न मनः! प्रवृत्तम्॥५॥

“जातस्य मृत्युर्न विलङ्घनीयः” एतद्वचोऽपि स्मरसि क्षणं किम्?।
किमौषधं मानस! संगृहीतं कराल-कालाक्षयरोगहन्तृ?॥६॥

माया पिशाचीतव गम्य-वर्त्मभ्रान्तिं सदोत्पादयितुं प्रवृत्ता।
समाहितं सत् निजगम्य मार्गं समीक्ष्य रे चित्त! चिरं प्रयाहि॥७॥

रम्यावभासाविषवल्वरीव माया समाकर्षति नित्यमेव।
रक्तं जनं किन्तु न सा कदापि कस्मैचिदानन्दमहो ददाति॥८॥

तुच्छार्थ-चिन्ताशिखिनो ज्वलन्तः मुख्यार्थचिन्ता कुसुमं दहन्ति।
अद्याप्यसद्वर्त्मनि वर्त्तमान! श्रेयस्करं सत्पथमागृहाण॥९॥

स्त्रोतांसि रे चित्त! यथा तृणानि नयन्ति दूरं स्थलमालघूनि।
संसारचिन्ता सवलं तथा त्वां; निजप्रभुः सत्वरमेधि तिष्ठ॥१०॥

आपाततुच्छार्थसुखाय नित्यमनन्तयत्नं भजतस्तवापि।
समन्तिकानन्तरदुःखराशिरुच्चैःस्थिरश्चित्त! यथा सुमेरुः॥११॥

संसारकीटत्वमवाप्यमूढ़! बहून् प्रयत्नान् सततं दधानम्।
अभ्येतुमालम्बनहीनमार्गं गृह्णासि पाथेयलवं किमल्पम्?॥१२॥

औदास्यमेतद्विषयेषु नित्यं दोलायमानस्थिरभाव चित्त!।
गृहाण, संसारसमुद्रवीचेः सन्तारयन्तञ्च भजेश्वरन्तम्॥१३॥

अश्नासि यत् जिघ्रसि यत् सुखेन शृणोषि यत् पश्यसि यत् सदैव।
न तेषु वाह्येषु च किञ्चनापि प्रमत्त रे चित्त! तवानुयायि॥१४॥

रे मूढ़! यदुगर्भभरेण नित्यं विश्वं परं पश्यासि तुच्छदृष्ट्या।
दोहोऽपिसत्वत्सुकताकताभ्यां ग्रहीष्यते वा शिखिभिः शिवाभिः॥१५॥

पूर्वाणि जन्मानि विचिन्त्य चित्त! श्रेयस्करं यत्, तदलं विधे हि।
स्वकर्म्मणाहं परिचिन्तयामि श्वत्वं शृगालत्वमथाभिलप्स्ये॥१६॥

दिनान्यनेकान्यभिलक्ष्य चित्त! समत्यजः प्रेतनृपस्य राज्यम्।
स्थानादितस्तत्र पुनर्गमिष्यत् प्रदाय किं तोषयितासि तं त्वम्?॥१७॥

उत्पत्ति-संहारजदुःखकाले यां यां प्रतिज्ञामकरोः समुच्चैः।
परापकारेष्वनुरक्त चित्त! समस्मरः किं ननु तां मुहूर्त्तम्?॥१८॥

विश्वस्य कार्य्याय निजं नियुज्य मनोऽतिरिक्तं सुखमालभस्व।
पापानुबन्धिन्यहितेऽपकार्य्येऔदास्यभागेधि मनश्चिराय॥१९॥

या वासना दुःखसहस्रहेतुराशक्त्यविद्या अपि पातयेत।
अनर्थसंघान्, हतचित्त! तान्तां समूलमुन्मूलयितुं यतस्व॥२०॥

सत्यप्रियत्वं करुणां क्षमाञ्च भजस्वसारल्यमलं तितिक्षाम्।
यद्भूषण-ज्योतिरपान्धकारा स्वर्गायते साधु वसुन्धरापि॥२१॥

स्तवेन निन्दावचसा च तोषं रोषञ्च नो वाप्नुहि, मङ्गलाय।
गन्तव्यमार्गं परिवीक्ष्य चित्त! हरिं परेशं स्मर विश्वसारम्॥२२॥

अयुक्तकार्य्याश्रयणं जिगीषां कामं प्रकोपं प्रमदञ्च चित्त!।
परित्यजेर्निर्दयदुष्टसङ्गमगर्ह्य-गर्हाकथनं विषादम्॥२३॥

गुरूपदेशं सततं भजेथाः धर्म्याणि शास्त्राणि पठेश्च चित्त!।
पवित्रसंसर्गमवाप्नुयास्त्वं वसेः पवित्रे विजने प्रदेशे॥२४॥

स्वप्नावसाने गमने सुषुप्तौ स्वप्ने रजन्यां दिवसे क्षणेऽपि।
अन्तं दिनं भोगगृहं कृतान्तं तीव्रंस्मरेः पापज-यातनाञ्च॥२५॥

सर्वास्ववस्थासु सुखेषु चेतो! रोगेषु शोकेषु च तद्विपत्सु।
विचिन्त्य विश्वेश-पवित्र-चित्र-ज्योतिः क्षेपेस्तत्र च कर्म्मजातम्॥२६॥

श्रीविष्णुनारास्मरणासिना त्वंसंसारलिप्सा-दृढ़शाखिमूलम्।
छित्वा पवित्राश्रममाविविश्य चिराय तच्छान्तिसुखं लभेधाः॥२७॥

दुःखैककारणमिमं सततान्तरायं संसारमाशु परिहृत्य वनं श्रयन् सत्।
कल्याणमूलममलं जगदेकहेतुं भक्त्या स्मरेः स्थिति-हृति-प्रभवैक-वीजम्॥२८॥

श्रीअन्नदाचरणतर्कचूड़ामणिप्रणीते
आत्मनिवेदने उपदेशो नाम
प्रथमःसर्गः॥

(क्रमशः)

अन्नदाचरणतर्कचूडामणिः—

नोयाखाली पूर्वसोमपाड़ा।

_________
तत्वप्रपञ्चः।

(पूर्वप्रकाशितात्परम्)

एवं विवेकेनात्मसाक्षात्कारे सति विनापि युक्त्युपदेशं स्वतएव बोधात्मा पुरुषः निश्चिनोति “अहं नित्यशुद्धोनित्यबुद्धोनित्यमुक्तःस्वप्रकाशः स्वानन्दश्च” इति। सूत्रकारोऽप्येतदेवाह—

“युक्तितोऽपि न बाध्यते दिङ्मूढवदपरीक्षादृते॥
तथा व अष्टावक्रसंहितायाम्।
“अहो निरञ्जनः शान्तः बोधोऽहं प्रकृतेः परः।
एतावन्तमहङ्कालं मोहेनैव विडम्बितः॥२।१॥

“यथा प्रकाशयास्येको देहमेनं तथा जगत्।
अतो मम जगत्सर्वमथवा न व किशन॥” २।२।

“अहो विकल्पितं विश्वमज्ञानान्मयिभाषते।
रूप्यंशुक्तौ फणी रज्जौवारि सूर्य्यकरे यथा॥२॥८॥

“अहो अहं नमो मह्यं” मेकोऽहं देहवानपि।
क्वचिन्नगन्ता नागन्ता व्याप्य विश्वमवस्थितः॥२।१२॥

“अहो अहं नमो मध्यंदक्षोनास्तीह मत्समः।
असं स्पृश्य शरीरेण येन विश्वं चिरं धृतम्॥३२॥

“न मे बन्धोऽति मोक्षोवा भ्रान्तिः शान्ता निराश्रया।
“अहो मयिस्थितं विश्वं वस्तुतो न मयि स्थितम्॥३७॥

“नाहं देहोन मे देहो जीवो नाहमहं हि चित्।”
‘अयमेव हि मे बन्ध आसीद्या जीविते स्पृहा॥४१॥”

“मय्यनन्तमहाम्भोधौ जगद्वीचिःस्वभावतः।
उदेतु वास्तमायातु न मे वृद्धिर्नचक्षतिः॥” ३४॥

“तदा बन्धी यदा चित्तं किञ्चिछाञ्छति शोचति।
किञ्चिन्मुञ्चति गृह्णाति किञ्चिद्धृष्यति कुप्यति॥७८॥

तदा मुक्तिर्यदा चित्तं न वाच्छति न शोचति।
न मुञ्चति न गृह्णाति न हृष्यति न कुप्यति॥७९॥”

इति तत्त्वप्रपञ्चे प्रकीर्णप्रकरणे पञ्चमाध्यायः समाप्तः॥*॥

__________

तत्त्वप्रपञ्चः।

(विवेकप्रतिपत्तिः)

प्रतिपादितं विवेकान्मुक्तिरिति। कोऽसौ विवेकः? किं प्रकारः? कथं वा समर्ज्जनीयः? तत्र विविच्यते—विवेको नाम विचारःतत्वज्ञानमिति यावत्। तत्र जड़रूपात् प्रकृत्यादिचतुर्विंशतितत्त्वात् पुरुषो विविच्यते नाहं जड़ःपरन्तु प्रकृतेः पर इति।

ननु के ते प्रकृत्यादयस्तत्त्वानि? कथ्यन्ते—

प्रकृतिः(१) महान् (२) अहङ्कारः (३) शब्दतन्मात्रं (४) स्पर्शतन्मात्रं (५) रूपतन्मात्रं (६) रसतन्मात्रं (७) गन्धतन्मात्रं (८)

मनः(2) श्रोत्रं (१०) त्वक् (११) नयनं (१२) रसना (१३) नासिका (१४) वाक् (१५) पाणिः(१६) पादः (१७) पायूः(१८)उपस्थः (१९) आकाशः(२०) वायुः(२१) तेजः(२२) जलं (२३) पृथिवी (२४) इति चतुर्विंशतितत्त्वानि। पुरुषश्च चेतन एकन्तत्वम्(२५) मिलित्वा पञ्चविंशतिः॥ अतएव सांख्यप्रवचने उक्तम्।

“संख्यां प्रकुर्वते यस्मात् प्रकृतिञ्च प्रचक्षते।
तत्त्वानि च चतुर्विंशत्तेन सांख्यं प्रकीर्त्तितम्॥”

अतएव संख्याकरणात् सांख्यमित्युच्यते दर्शनम्। अत्र संख्याशब्दस्यार्थद्वयमभिप्रेतम्। आत्मज्ञानरूपा संख्या।14एकत्वादिरूपा च संख्या तेन प्रकृतिपुरुषज्ञानरूपसंख्यायाः प्रतिपादनात् प्रकृतिमहदहकारादिचतुर्विंशतितत्त्वरूपायाश्चप्रतिपादनात् दर्शनमिदं “सांख्यं” नाम कथ्यते।

इह जगति चतुर्विधाः पदार्थाः केचित् प्रकृतयः केचिद्विकृतयः। केचित्प्रकृतिविज्ञतयः। केचित् अप्रकृतिविकृतयश्च।

(क्रमशः)

_________

धर्म्मविवेकः।

(पूर्वप्रकाशितात्परः।)

शिव। वत्स! वामापद! श्रुतानि द्विमासं यावज्जल्पितानि धर्म्मशक्तिविषयकमुनिवचनानि। अधुनापि तत्र किं संशयमनुधावसि?

वामा। न खलु गुरवः! नात्रसन्देहलेशोऽपि लब्धुमवकासं शक्नोति। एकतःश्रीमद्भिर्गुरुभिरुच्यन्ते तत्रापि मुनिवचनानि योगजृम्भितानि, तत् कथमत्र सन्देहावसरः सञ्चरदार्य्यशोणितदेहस्य मे। न हि मिहिरमरीचिनिचयचुम्बिते द्युमणिमणौ चक्षुष्वतोऽविश्वासः।

शिव। साधु साधु, वत्स वामापद! न वेद्मि इंरेजधर्म्मशास्त्रं न वा यवनधर्म्मशास्त्रमहं, तथापि विश्वसिमि निश्चितं तत्र तत्रधर्म्मोऽपि लक्षितः तच्छक्तिरपि तथैव प्रतिपादिता इति।

वामा। गुरवः! शत्यमेव ब्रुवन्ति तेषामपि धर्म्मग्रन्थेप्रायो भवदुक्तैव धर्म्मशक्तिरुक्ता। मया खलु जिसुख्रीष्टकथितं “वाइबल” नामक इंरेजधर्म्मग्रन्थः पठितः तत्र एवं धर्म्मशक्तिर्वर्णिता, तथाहि—वाइवेल ५ अध्याय २० श्लोके। धर्म्मएवैकईश्वरलब्धुमुपायः।

Matthew. V. 20.

“For I say unto you, That except your righteousness shall exceed the righteousness of the Scribesand Pharisees, ye shall in no case enter into thekingdom of heaven.”

एवं १३ अध्याये ४२ श्लोके। धार्म्मिकास्तु जगति सूर्य्यवत् प्रकाशन्ते।

Matthew. XIII. 43.

“Then shall the righteous shine forth as the sunin the kingdom of their Father. Who hath ears to hear, let him hear.”

एवं मदीयस्य कस्यचित् यवनमित्रस्य सकाशात् महम्मदीयधर्म्मग्रन्थात् “कोराण” नामकात् तथैव धर्म्मःधर्म्मशक्तिश्चश्रुतः।

तथाहि धर्मशक्तौकोराणमतम्। कोराण २६ सेपारा, अहकाफ्सुरा, २ रुकु, १ आयत्।

‘एक एव त्रिलोकीपालका वर्त्तते न तदन्यःकश्चिदस्ति”—

इत्येवमन्तरात्मनि चिरस्थायी यः प्रगाढ़विश्वासः क्षणमपिकेनापि संशयेन न विचलति स एव (धर्मः) “इमान्” “दीन” “इश्लाम” वा कथ्यते। स खलु तथाविधविश्वासरूपो धर्मः संसारेषु सर्वं दौर्मनस्य सर्वशङ्कामपनुदति, परलोके च दुःखमपहरति, एवं ईश्वरसान्निध्यं (ब्रह्मसंस्पर्शं) स्वर्गीयं सुखं प्रयच्छति। इत्येवं मूलविश्वासस्तज्जनिततावत्साधुवृत्तिसमुदायोऽपि (धर्मः) = इमान्, दीन्, इश्लाम्, वा उच्यते।

अपि च कोराणे ९सेपारा, आन्फालसुरा, १ रुकु; १ आयत्। अशंसयचेतसो धर्मवन्तः नामश्रवणादेव ईश्वरस्य सचकितं सविस्मयञ्च तस्य विभूतिध्याने निमज्जन्ति, ज्ञानचक्षुषा सर्वत्रैव तंविलोकयन्ति, न तदन्यत् किञ्चिदपि पश्यन्ति, ईश्वरोद्देश्यग्रहे चसततमुत्तरोत्तरञ्चआत्मानमुन्नेतुं प्रभवति, ईश्वर एव तेषामेकआश्रयः उपास्यश्च, तेन हि सततविगतभीर्विराजति, न कोऽपिभीषणः प्राणीतस्य चेतसि भयमुत्पादयितुं शक्नोति। सर्व एवजन्तवः तस्मिन् मैत्रींविदधति, ते एव स्वल्पंबहु वा प्राप्तमपि द्रव्यं वितरन्ति, न मन्यन्ते किञ्चिदपि रक्षणीयमिति। एवंविधा एवपुरुषषाः धार्मिकाः “मोमेन” “ओलि” “प्रिया"श्चभाष्यन्ते15।(१)

एवं सुरा हज्व, रकु ५, आयत् ५। (३८)

न खलु धर्म्मद्रोहिणः प्रीणाति ईश्वरः।

एवं सुरा हज्व, रकु ६। आयत् १० (४१) सर्वशक्तिमान्

ईश्वरः पराक्रान्तश्च तस्य साहाय्य मालम्बते यः खलु धर्म्माय यतते इति। एवं सुरा हाम् सज्वदा, रकु ४, आयत् ७। यः धर्म्माय द्रुह्यति तं निष्ठुरं शास्मि, अशुभञ्च भोगमनुभावयामि इति।

शिव। भद्रं भद्रं, वाइवले कोराणे पुराणादौ च निशम्य समालोक्य च समां धर्मशक्तिं नितरां प्रमुदे।

वामा। गुरवः! अवगता विश्वस्ता च धर्मशक्तिः। यस्यखलु धर्मस्य शक्तिस्तादृशीमहीयसी नरमप्यमरीकरोति कोऽसौधर्मः? किम्प्रकारः? किंलक्षणः? किं वेद्यः कथं कार्य्यः? केनकार्य्यः? क्व वर्त्तते? कथं वर्त्तते? इति सर्वं स्तोकशः प्रकाशञ्चविवरितु मनुगृह्णीतमां वचनकरम्।

शिव। वत्स वामापद! शृणु तावत् प्रथमतो धर्मशब्दनिरुक्तिं—वह्स्तुमात्रं ध्रियते येन (करणे), धरति वा यः (कर्त्तरि) मन् प्रत्ययः(धृ + मन) स धर्मः। स च सर्ववस्तुगतशक्तिविशेषः। यथा क्षितौ गन्धो रसादिश्च। जले शैत्यद्रवादिः। तेजसि उत्तापःविश्लिष्टीकरणादिश्च। समीरे स्पर्शादिः। व्योम्नि अवकासादिः। पाषाणे काठिन्यं इति। यदि क्षित्यादौ गन्धरसादिर्नस्यात् स्थूलरूपेण सूक्ष्मरूपेण वा तदा क्षित्यादीनामात्मलाभ एव सुदूर-पराहतः स्यात्। नहि भूयस्या अल्पीयस्या वा प्रभया विहीनस्य प्रदीपस्य क्वापि सम्भावना प्रमाणैरवधार्य्यते।

तथा अत्रापि देहं जन्म मरण सुख दुःखादयः साक्षात् परम्परयाते देहधर्म्माः अत्र तु यथैव सत्यदयादयःधर्म्मत्वेनाभिप्रेतास्तथोपरिष्टात् वक्ष्यते। अत्र धर्म्मपर्य्यायः। न्यायः। स्वभावः। आचारः। उपमा।क्रतुः। अहिंसा। उपनिषत्। इति मेदिनी। धर्मलक्षणम् धर्मं व्याख्यातुकामस्यकणादस्य महर्षेर्द्दार्शनिकप्रवरस्य ज्ञानप्रसूतम् शृणु यथा—

**“यतोऽभ्युदयनिःश्रेयसाधिगमः स धर्मः।”
**(क्रमश)

श्रीश्रीदुर्गाशरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-173193298147.jpg”/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्तीअनामिव।
मायावलम्ब्यते सेयमम्बाश्रीशिवसुन्दरी॥

<MISSING_FIG href=”../books_images/U-IMG-173193306348.jpg”/>

मासावतरणिका।

शीत्रंजराजीर्णमिहस्खलद्गति
प्रत्यूषसि प्रैति हिमाद्रिमारुतैः।
उष्मार्कजाशात इवाश्रितो बलम्
नृृणाञ्चभुक्त्यैद्विगुणस्य फाल्गुने॥

<MISSING_FIG href=”../books_images/U-IMG-173193319777.jpg”/>

उद्भट-श्लोकाः

“काली वः सदयं करोतु कुशलं तारा तमोतु श्रियं
दीर्घायुर्भुवनेश्वरी वितनुतां विघ्नं हतात् षोड़शी।
भैरव्यास भयापहा रिपुगणान् सा छिन्नमला हतात्
मातङ्कीवगलामुखी च कमला धूमावती पातु वः॥”

“अस्य दग्धोदरस्यार्थे किं किं न हि कृतं मया।
वानरीमिव वाग्देवींनर्त्तयामि गृहे गृहे॥”

“चिन्ताचक्रे भ्रमति नियतं मन्मनो मृत्तिकेयं
आर्द्रीभूता नयनसलिलैर्भ्रामिता दैन्यदण्डैः।
आशाकुम्भाः कतिकतिवृताश्छेदिताः कर्म्मसूत्रैः
जात्या विप्रः पुनरहमही कुम्भर्कारोऽस्मि वृत्त्या॥”

श्रीविधुभुषणदेवः। (राँचि)

__________

बहूपचिकीर्ष।

येन परेषां जीवनरक्षणं जातिरक्षणं मानादिरक्षणं भवतिसैव परोपकारिता। परोपकारिता हि रत्नादपि “महार्घा”। रत्नं तावत् परिमितं भवेत्, सा रत्नसहस्रेणापि न परिमाणमेति। यत्र रत्नराजिर्विराजते, तदनतिदूरे कान्तिराशिःप्रचीयते, परंतस्या अप्रतिहतगतिःसूर्य्यकान्तिरिव दिग्दिगन्तं गत्वापि न विरमति। रत्ननिचयस्तावत् धनिनो गृहशोभेव “शाभते,” सा च विश्ववासिनां गृहलक्ष्मीरिव प्रतिगृहम्। रत्नं तावत् प्रलोभनेनसुजनविनिन्दिते बहुलपक्षे वर्त्मनि पदं कारयति लोकं, सा पुनःसज्जनसेविते विमले सत्पथे। क्षणविध्वसिना रत्ननिवहेनापिअपरिमिता चिरस्थिरा परोपकारिता यदि भवेत्, केन करगतंधनमिव परिहीयते धनाभिमानेन वदान्येन च। हस्तगतमपिरत्नं यदि नाम विधेरमोघशासनेन अनले जले अरण्ये अगम्ये पतितं स्यात् न च तेन कापि उपकृतिर्भवेत्, अतोऽचिरविनाशिनारत्नेन जीवितेनापि परोपकारमाचरेत्।

अपरैरवज्ञातस्य अनादृतस्य पराभूतस्य कृते यस्तावत् चिन्तयति, दुःखीभवति, आत्मानं पराभूतमिवमन्यते, उत्पीड़ितं निजोरसारक्षति, निराश्रय-माश्रयेण वीतमयं करोनि, क्लिष्टस्य क्लेशं निरस्यति, शोकविकलं सान्त्वयति, नयनजलमपहरति च चेलाञ्चलेन, पतन्तमुन्नमयति हस्तावलम्बनेन, दुर्वल निजबलेन सबलं करोति,पददलितस्य दीनस्य सर्वथा पक्षपाती भवति, रोगिण-मगदेनचिकित्सति, स एव महात्मा परोपकारी।

तत्रापियद्येकमपि जीवनमगणितानामुपकरोति तदपि नीतिमार्गे समाद्रियते, अत्र तदेवादर्श्यते।

परेषामुपकाराय साधूनां खलु जीवनम्।
जलदानां जलं दातुमुत्पत्तिर्भुवि केवलम्॥

महास्वार्थं परित्यज्य परार्थं साधयेत् सुधीः।
मृत्यूत्सृष्टसुता पान्ना राजपुत्रमजीजिवत्॥ यथा—

बहुपचिकीर्षायां

पान्नाचरितम्।

आसीत् पुरा चित्तहरपुरे (चितोरे) राणावंशधरः सूर्य्यवंशावतंशी महाराजःसंग्रामसिंहो नाम नरपतिः। स च जगति द्वितीयं जीवनमिव उदयसिंहाभिधानं एकमात्रं तनयं अशेषसम्पदामुपभोगार्थं संरक्ष्य असमये कथामात्रशेषो बभूव। षड़्वर्षीयमलब्धतातसुखसुदयसिंहं आजन्मनो लालनपालनकारिणौ हितैषिणीच “पान्ना” नाम उपमाता (धात्री) प्रतिनियतमेव जीवयितुंसुश्रूषातत्परा समजायत।

तस्मिंश्चराजनि अकाल एव कालेन कवलीकृते उदयसिंहस्यराज्यरक्षणाय पितृव्यपृथ्वीराजस्य सुतो “वनवीरो” वृतो मन्त्रिमुख्यैरापातमात्रम्। किन्तु हतभाग्या वनवीरो राज्यलोभोपहतचेता उदयसिंहं कण्टकमिवशिशुमपि अविदितसंसारव्यतिकरमपि मन्यमान, उपांशु तस्य अवैधेन बधेन आत्मानं सफलकामंपरिचिकीर्षुश्चिचेष्टे।

अथ कदाचित्कश्चित् “दिवार्त्तिः” पान्नासमीपमभ्युपेत्य वनवीरस्य रहस्यमिदमुद्घाटितवान्। तत्तु मम्यक् निशम्य “अप्रतीकारोऽयं दुरभिसन्धिः, बलीयः खलु दैवम्” इति निश्चित्य, सा भृशदुःखितातिबुद्धिशालिनी परोपकारक्रीतजीविता पान्ना न चकमेतत् विपुलराज्यं न वा वैरिविनाशम्। कामयते स्म केवलं उदयसिंहस्य जीवनम्।

अथ गते च कियति दिवसे तेनैव नापितेनोक्तं"धात्रि! सावहिता भव अद्यैव तेन पापकर्म्माणा राक्षसापसदेन वनवीरेण रहसिशयनागारे शयने सुप्तस्य राणावंशधरस्य उदयसिंहस्य जीवनदीपो निर्वाप्यते” इदानीं त्वमेव प्रमाणम्।

अथ सा तदश्राव्यश्रवणेन क्षणमस्थिरा, क्षणंस्थिरा क्षणं

चिन्तिता, क्षणं वीतचिन्ता, “अयमसामयिकबन्धुः” इति निश्चिन्वाना फलकरण्डिकायां निद्रितमुदयसिंहं सयत्नं संस्थाम्य, प्रचुरतरेण पत्रेणाच्छाद्य तस्यैव क्षुरिणोहस्ते समर्पितवती। स तु तं निरापदं प्रदेशं निनाय। ततश्च सा यत्र शयितपूर्वं कुमारोपमेणकुमारेण, तत्र स्वगर्भजातंजीवनाधिकमपि निजस्तूमशीशयत्।

इतश्च महत्या राज्यलालस्याभिभूतः अगणितपूर्वापरीभावःकृतान्तसहोदरः अथवा साक्षात् कृतान्त उदयसिंहस्य शोनिताशनेकृतसङ्कल्पो वनवीरः सुतीक्ष्णमसिमादाय प्रविवेश शयनागार, राजकुमारस्य भूतपूर्वम्।

प्रविश्य च गृहान्तराले पान्नांपप्रच्छ “कुत्र शेते उदयसिंहःइति। सा पुनः किमप्यनुक्त्वैव अवनतमुखीहृदयानन्दकरं स्वजठरजातं शिशुसूतं प्रति अङ्गुलिं प्रतिससार।

स तु सुर्खः, यत्र निद्रामवाप्तः पान्नानन्दनः, तत्र प्रकोष्ठे यावत्गतस्तावदेवासिना चकर्त्त कोमलाङ्गं पान्नाजीवनसर्वस्वम् अज्ञातशत्रुमित्रभावम् उदयसिंहीभूतं धात्रीसुतम्। सम्पाद्य च निशाचराचारं निभृतं प्रतस्थे। स्वयमात्मनैव आत्मनो धन्यवादं प्रचक्रे;“धन्योऽहं कृतकार्य्योऽहम्” दूरीकृतमद्यावधि राज्यकण्टकीभूतं मम विघ्नं, लब्धंनिःसपत्नं राज्यमिदम्, तृणाय मन्ये निखिलं राजलोकम्, अथवा का कथा मानवानां नश्वरदेहानां, नाहं सुरासुरेभ्योऽपि विभेमि"एवं विधं बहुविधं प्रजल्पितवान् क्षिप्तवत्।

इतश्च धात्री, मर्माविधमपि, भयङ्करकपि, अमानुषिकमपि,लुप्तपिण्डोदकमपि अदृश्यमपि तदात्मजनिधनं नीरवं निरीक्ष्य, स्तम्भितेव, लिखितेव, संयतेव, मूर्च्छितेव, विधृतेव वास्पवारिणा धारावाहिना शोकक्षुब्धहृदयकालुष्यं मृतपुत्रस्य अन्त्येष्टिक्रियांसमाप्य, यत्र नापितद्वितीय उदयसिंहस्तत्र प्रतस्थे नीवरम्। गत्वाच तेन मुण्डिना अटवीतोऽटवीं वंभ्रभ्यतेस्म।

पान्ने! त्वं धन्या, या त्वं संग्रामसिंहजीवनस्य हिन्दुकूलविकर्त्तनस्यउदयसिंहस्य जीविताय अकुण्ठितेन अम्लानमुखेन च वात्सल्यस्याद्वितीयमाधारं स्नेहस्यैकमात्राबलम्बनं प्रीतेः परमपानं स्वपुत्रं मृत्यवे ददाथ।स्वहृदयरञ्जिकां कुसुमकलिकां वृन्तच्युतां दृष्ट्वापिकर्त्तव्यान्न खलु विमुखीजज्ञेषे, अपि तु स्वदेशहितैषितायां अशेषजनोपचिकीर्षायां वद्धमुष्टिःमहान्तं स्वार्थत्यागमपि चकर्थ।

श्रीद्वारिकानाथविद्यालङ्कारः

दाका—मालखानगर विद्यालयशिक्षकः।

__________

आशा

<MISSING_FIG href=”../books_images/U-IMG-173193684281.jpg”/>

“आशा कि परमं दुःखम्, वैराग्यंपरमं सुखम्॥

<MISSING_FIG href=”../books_images/U-IMG-173193693482.jpg”/>

आशा हि मानवानां दुःखस्य निदानम्। नैराश्यं हि तेषां सुखमुत्पादयति। आशा खलु जनानां जीवनम्। तां विनाकैरपि प्राणा धारयितुं न शक्यन्ते। यावत् नरा आशा परतन्त्राः तावत् तेषां कुतः सुखम्। अतः आशावश्यमेव विहातव्या। ताञ्चेत् नराः नपरित्यजन्ति तर्हि ते आजीवनं दुःखानि अनुभूयकालं नेष्यन्ति तत्र नास्ति संशयः। यथा शतपतिः सहस्रमिच्छति,सहस्रपतिः लक्षमिच्छति, लक्षपतिः राज्यं काङ्क्षतिः, राजा इन्द्रत्वंतथैवाशा प्रतिदिनं तरुणायते। दुःखान्यपि तया सह वृद्धिं गच्छन्ति।

आशात्यागेन नराः निर्म्मलं सुखं लब्धुं शक्नुवन्ति न तु उपायान्तरेण। स्थविराणां दन्ताः केशाश्च जीर्य्यन्ति तथापि तेषामाशा-

क्षयो न जायते किमाश्चर्य्यम्। को हि यथार्थं सुखौ? यो नैराश्यमाश्रित्य पार्थिव सुखं पराजयते? “जितं जगत् केन? मनो हियेन”? तथैव ब्रह्मपदं लभ्यते केन? आशा पराजीयते येन? यो नरः आशामामूलं च्छेत्तुं न क्षमः तस्य हि वृथा जीवनम्।

यथा विहङ्गमाः पादपशाखासु कुलायानि निर्म्माय वसन्ति,वयमपि तथैवाशाद्रुममाश्रित्य वसामः। अत अशातरोः पतनं विना मुखस्य सम्भावना नास्ति? केनोपायेन आशापादपःसम्यक् छिद्यते? केवलं नैराश्येन। नैराश्यमेव कृपाणमेकम् नतु अन्यत्।

उत्तिष्ठमानः परश्च अशाद्रुमश्च तुल्यौआम्नातौबुधैः। प्रथमस्यअस्त्रमेव भैषज्यम्, नैराश्यञ्च द्वितीयस्य इति ज्ञानिनां भारती। अतएव भो मानवाः! आशातरुः विषवृक्ष इव। यदि तं भूमौ नपातयथ तदा स खलु विषफलैः युष्मान् हनिष्यति न संशयः।

अतएव केनाभ्युपायेन स आशापादपः विनाशयितव्यः? केवलंनारायणपदभक्तिजातज्ञानेन। अतो भो आशामरीचिका मुग्धाः! जनाः! तदेव ज्ञानंलब्धुं यत्नो हि सततं कार्य्यः। तदेव ज्ञानं मूक्तिमार्गः। वसुमत्यां सर्वकालेषु तदेव ज्ञानम् एकमेव द्रव्यं नतु अन्यत्। तदेव जनैः अन्येष्टव्यम्। यतदिवामूल्य-निधिम् विहायआशापाशबद्धः भूत्वा पार्थिवसुय्यमन्विष्यति स मूर्खानामपि मूर्खःपार्थिवसुखमिच्छता जनेन परमागतिर्लब्धुम् न शक्यते यतस्तस्याशाकेवलम् अलीके पार्थिवसुखे वर्त्तते।

सुखानि च दुःखानि च आशायाः ह्रासं वृद्धिञ्च अनुसरन्तिबुधाः ह्रासम् सुखम् वृद्धिञ्च दुःखमामनन्ति। मानवनाम् निखिलाःआशाः फलं नोत्पादयन्ति। याःनिस्फलाः जायन्ते ताः एव दुःखानि जनयन्ति, यथा केन चित् जनेन कश्चिदर्थ ईप्स्यते, यदि स तत् न लभते तदा खलु तस्यदुःखं जायते। स चेत् आशाविहीनः

तदा तस्य कुतो दुःखम्। अतएव आशां परित्यज्य विशुद्धंसुखंलब्धुं यत्नोहि कार्य्यः। अनन्तं सुखं विहाय जनाः क्षणमङ्गुरे सुखे विमुग्धाः न भवेयुः। लोकोऽयं परीक्षास्थानम्। भगवताहि परीक्षार्थं वयमिह प्रेषिताः? यः पुण्यकर्म्माणि करोति स एवविष्णुलोकं याति, यस्तु पापमाचरति सः खलु नरकं गच्छति। अतएव आत्महितमिच्छता जनेनाशा परित्यज्यत? आशांविनाभ्युदया नास्ति इति कैश्चित् कथ्यते। आशा तु पार्थिवसुखस्य कारणं न तु स्वगसुखस्य। सा हि ब्रह्मलोकस्य मार्गेकण्टकायते? अत आशायाः पापं जायते, पापाच्च नरकगमनंजायते। आशां व्यक्त्व। पुण्यकर्म्माण क्रियेरन्। आशाविहीनःजनः केवलं निर्म्मलं सुखं प्राप्नोति, आशामुग्धः जनस्तु केवलंकष्टेन कालं यापयति। यस्य हि आशा स्वल्पा तस्य दुःखमपिस्वल्पम्, यस्य तु आशा बहुला तस्य दुःखमधिकम् न संशयः। एतानि सर्वाणि दृष्ट्वापि मानवाः ज्ञानं न लभन्त पश्य कौतूकम्। अतएव भोजनाः! भवबन्धनात् त्राणार्थम् यत्नः सततं कार्य्यः। इति

श्रीशशिभूषण शर्म्मा

८५ नं०कासारिपाड़ा रोड, भवानीपुर कलिकाता।

<MISSING_FIG href=”../books_images/U-IMG-173193820683.jpg”/>

कुमारबन्धुः।

(पूर्वप्रकाशितात्परः।)

[TABLE]

[TABLE]

[TABLE]

आरब्धेच तयोर्युद्धेमानसारेण महादेवप्रसादात् प्राप्तेन एक जननाशकगदायन्त्रेण हतो राजहंसस्य सारथिः।राजहंसश्च मुमूर्च्छ रथोपरि। सारथिविहीना भयविह्वला अश्वा राजानं रथोपरि कृत्वा पलायामासुः। वसुमतीसपक्षेभ्यो राज्ञोऽदर्शनवार्त्तांश्रुत्वा प्राणांस्त्यक्तुं निशीथे वनं गत्वा तत्रैव अश्वैर्नीतंराजानं राजहंसं ददर्श। तत्र च राजा मन्त्रिभिः समरसंमिलित आसीत्। पूर्वमेव जीवितेषु तातपादेषु धर्म्मपालस्य कामपालः सितवर्म्मणः सत्यवर्म्मापद्मोद्भवस्य रत्नोद्भव इति एतौ पुत्रौ देशान्तरंजग्मतुः। ततश्चराजा महर्षिवामदेवात् श्रुतवान् वसुमतीगर्भे दिग्विजयिनः पुत्रस्य सम्भववृत्तान्तम्। वसुमतीच तत्रैवचक्रवर्त्तिलक्ष्मणोपेतं सुतमसूत। तेन हृष्टश्च राजा पुत्रस्य राजवाहनइति नाम अभिहितवान्। तस्मिंश्च समये सुमतिसुमन्त्रसुमित्रसुश्रुतानां प्रमतिमन्त्रगुप्त मित्रगुप्तविश्रुताख्याः सूनवोऽभवन्।

अथउपहारवर्म्मोत्पत्तिकथा। तापसः कश्चिदेकदा राजहंसायराजलक्ष्मणोपेतं तनयमेकं दत्त्वाप्राह—“महाराज! वनं गतेनमया कस्याश्चिद् वनितायाः श्रुतं—“मानसारेण पराजितस्य राजहंसस्य बन्धोर्मिथिलेश्वरस्य प्रहारवर्म्मणः पुष्पपुर्य्याःपलायितस्य चपुत्रयो रक्षणे नियुक्ताहमासम्। पथि शवरभयेन पलायिताहं द्रुतगामिना प्रहारवर्म्मणासमं गन्तुंसमर्था। अपिच पथि शवरभवेन पलायिता मम कन्या पुत्रान्तरं गृहित्वा कुत्र गता न जाने! अत्रागत्य व्याघ्रभयाकुलाया मत्तो भ्रष्टः स शिशुः केन चित् शवरेन कुत्र नीतो नाहं जाने इति। ततश्चाहं बालकमिमं हनिष्यमानान् शवरान् प्रयाच्यप्राप्तवान्। भवद्बन्धुपुत्रोऽयम्। भवानेवस्य पालक इति। एतत् श्रुत्वा राजहंसस्तम् उपहारवर्म्मा इति नाम कृत्वा पालनाय वसुमत्यै दत्तवान्।

अथ अपहारवर्म्मोत्पत्तिकथा।एकदा राजहंसस्तीर्थस्नानाय शवरा-

लयनिकटमार्गेन गच्छन् कस्याश्चित् शवर्य्याःक्रोड़े उपहारवर्म्मा कृतिंतनयमेकं दृष्ट्वा “कोऽयं सुलक्षणाकृतिर्बालकस्तव हस्ते” इति तामपृच्छत्। सा चाह राजन्नात्मपल्लीसमीपे प्रहारवर्म्मणः सर्वमपहरति शवरसैन्ये मद्दयितेनैष तस्य कुमारोऽपहृत्य पालनाय मह्यमर्पित इति श्रुत्वैतत् तामर्थैर्वशीकृत्य राजा बालकं नीत्वाअपहारवर्म्माइति नाम कृत्वा च तं पालनाय वसुमत्यै ददौ।

अथ पुष्पोद्भवोत्पत्तिकथा।एकदा कश्चिद्वामदेवान्तेवासी राजहंसाय बालकमेकं दत्त्वा प्राह—राजन्! वनं गतेन मया बालकमेनं क्रोड़े कृत्वारोरुद्यमाना काचित् स्थविरा दृष्टा पृष्टा च कात्वमिति, सा ब्रवीत् “रत्नोद्भवो वाणिज्याय कालयवनद्वीपे गत्वा तद्द्दीपवासिनः कालगुप्तस्य कन्यां सुवृत्तामुपयेमे। आसन्नगर्भां तां नीत्वा स्वदेशं प्रतिगते रत्नोद्भवे समुद्रमध्ये जानभग्नात् परं निमग्नः स कुत्र गतो नाहं जाने। अहञ्च तैः सह आगत्य समुद्रे निपतितां सुवृत्ताञ्च गृहित्वा काष्ठफलकसाहाय्येन तीरमेत्य तामर्द्धमूर्च्छितां दृष्टवानस्मि। सा चतत्रैव तीरे सुतमेनं प्रसूय मृता। अहमपि एनमचीरप्रसूतंशिशुं गृहित्वा अत्रागता इति। सा तु वानरभयेन शिशुं भूमौ निक्षिप्य पलायिता। स च बालकः क्रमात् वानरव्याघ्रमुखाज्जीवनंप्राप। अहमपि प्राप्तजीवनं त्वां गृहित्वा इहगुरोरादेशादुपनयामि इति श्रुत्वैतत् राजा तं शिशुं पुष्पोद्भव इति नाम कृत्वापालनाय सुश्रुताय दत्तवान्।

अथ अर्थपालोत्पत्तिकथा।एकदा वसुमतीनिद्रावस्थायां प्राप्तमेकंबालकं राज्ञे दत्त्वा प्राह देव! विगते निशीथे गन्धर्वेश्वरः मणिभद्रकन्या ताराबलीमह्यमर्भकमेनं दत्ता आह कामपालस्य पुत्रोऽयम्। राजवाहनस्य परिचर्य्यार्थमिदानीं भवत्यायं पालयितव्य इति।देव! भवानेव एनं पालय इति। राजहंसश्च तमर्थपाल इति नामकृत्वा रक्षणार्थं सुमित्राय दत्तवान्।

अथ सोमदत्तोत्पत्तिकथा। कदाचित् सोमदेवस्तनयमेकं दत्त्वाराज्ञे प्राह राजन्! वनं गतं काचिद्दासी, देव! सत्यवर्म्मा गृहं परित्यज्य गत्वा कुत्रापि देशे कस्यचिद्ब्राह्मणस्य द्वे कन्येउपयेमे। प्रथमा स्त्रीकाली सपत्न्यागौर्य्याःपुत्रं मया सह समुद्रे निक्षिप्तवती। अहञ्च इमं नीत्वा उत्थानकामा केनचित् सर्पेन दष्टा, भवानेव एनं रक्षतु इति उक्त्वैतन्मृता सा अहमपि तं शिशुं भवत्सकाशमनयम्। राजहंसश्च तं शिशुं सोमदत्त इति नाम कृत्वा पालनार्थं सुमतये ददौ।

द्विजोकृतिनामद्वितीयोच्छासः।

अथ यो वनं प्राप्ते सबन्धौ राजवाहने एकदा वामदेवस्तं सबन्धुं दिग्विजयाय गन्तुं आदिष्टतवान्। राजवाहनश्च बन्धुभिः समंदिग्विजयाय वद्विर्जिगाम।

एकदा वनभूमौ राजवाहनो मातङ्ग नाम्नो ब्राह्मणस्य-भ्रातृभिर्निहतस्य पुनरपि चित्रगुप्तकृपया प्राप्तजीवनस्य पातालगमनरूपमुपकर्त्तुं स्वीकृत्य निशीथे निद्रितेषु कुमारेषु राजवाहनो ब्राह्मणेन सह पातालं गतवान्। कृतहोमो ब्राह्मणश्चप्राप्तदिव्यशरीरो रसातलेशकन्यां कालिन्दीं व्युवाह। प्रभाते प्रबुद्ध्य राजवाहनेतरे कुमाराः राजवाहनमनवेक्ष्यतस्यान्वेषणाय ते इतस्ततो जग्मुः। राजवाहनञ्च कालिन्दीप्रदत्तं क्षुत्पिपासादिक्लेशहरं रत्नं गृहीत्वातत्रैव वने आगत्य बन्धूननवेक्ष्य कुत्र चिद्देशे गत्वा सस्त्रीकं सोमदत्तं ददर्श। अपि च सोमदत्तं स्वचरितं कथयितुमादिदेश। सोमदत्तः स्वचरितं कथयितुमारब्धवान्। सोमदत्त आचचक्षे।

सोमदत्तचरितनामतृतीयोच्छासः।

** **राजनन्दन! भवदन्वेषणार्थिना मया सरसि लब्धं रत्नं दीनाय ब्राह्मणाय दत्तम्। कोऽयं देशः कश्चास्य पालक इति पृष्टश्च स आह—देशस्यास्य पालको वीरकेतुः। एतस्य कन्यां वामलोचना-

मुपनेतुं देशमिममाक्रान्तवान् लाटे श्वरो मत्तकालः। वीरकेतुश्च भयाकुलः सन् तस्मै एव कन्यां ददौ। वीरकेतुमन्त्रिमानपालश्च मत्तकालशिविरसन्निकटे शिविरञ्चकार। इति। ततश्च प्रातः सुप्तोत्थितं ब्राह्मणेन “चौरोऽयमयमेव सह्यमिदं दत्तवान्” इतिनिर्द्दिश्यमानं मां वबन्धुर्मत्तकालनियुक्तपुरुषाः। अपि चाहंकारागारे गत्वा वीरकेतुसैन्यैः समं तत्रैव एकत्रीभूतस्तैः सह निर्गत्य मानपालेन सह एकत्रीभूय युद्धेनारिं मत्तकालं निपात्यकन्यां ततो वामलोचनां वीरकेतवे दत्तवान्। राजा च मद्गुणराजिं श्रुत्वा मह्यमेव तां दत्तवान्। अहञ्च अधुना सिद्धादेशेन महाकालपूजनार्थी सहारोऽद्य भवतां दर्शनं प्राप्तवानस्मि। इति वदति सोमदत्ते प्रार्थितव्रतफलमिव पुष्पोद्भव आगत्य कुमारादेशेन निजवृत्तान्तमकथयत्।

पुष्पोद्भवचरितनामचतुर्थीच्छासः॥

श्रीमन्! अहमपि भवदन्वेषणार्थी कदाचित् कुत्रचित् वनेविलपन्तीं मातरमूर्द्धात् पतितं पितरञ्च प्राप्तवानस्मि। तौपितरौ तापसाश्रमेऽभिरक्ष्याहं धनार्थी कपटवेशेन वणिजा चन्द्रपालेनसह मैत्रीं संस्थाप्य तेन सह सपितृमातृकोऽवन्तिं गच्छामि स्म।तत्र च चन्द्रपालपितुर्बन्धुपालस्य वाक्येनाश्वस्तोऽहं कदाचित्बालचन्द्रिकामवन्तीसुन्दरी-सखीमुपनेतुं मानसारभागिनेयं चण्डवर्म्मानुजं दारुवर्म्माणं यक्षच्छलेन निपात्य उपनीय तां शुभशकुनदर्शनादेव भवतः सुखदर्शनं लब्धवानस्मि। इति श्रुत्वा चराजवाहनो जातहर्षो बन्धुपालस्य गृहमेव तस्थौ सह बन्धुनासंजननीजनकेन पुष्पोद्भवेन।

राजवाहनचरितनामपञ्चमोच्छासः।

** **अवन्तिपुर्य्यां राजवाहनो दर्शनकामार्त्तां मानसारनन्दिनीमवन्तिसुन्दरीं विद्येश्वरस्य ऐन्द्रजालिकस्य मन्त्रगुणेन उपयम्य—

पूर्वजन्मफलभोगार्थं हंसशापेन निबद्धआसीत् रात्रौ रौप्वशृङ्खलेन मानसारस्यान्तःपुरे दर्पसार सैन्येन। दर्पसारश्च चण्डवर्म्मणे राजत्वंदत्त्वा तपश्चरणार्थं राजराजपर्वतं गत्वा श्रुत्वा च तत्रएनजङ्घात् सर्वमुदन्तं राजवाहनं हन्तुमादिदेश। चण्डवर्म्मापिसिंहवर्म्मणःकन्याम्बालिकालाभार्थं चम्पागमनार्थी राजवाहननिधनार्थं सहसानीतवान्। तत्र च चम्पायां दस्युवेशधारिणापहारवर्म्मणहतश्चण्डवर्म्मा, मुक्तश्च तेन राजवाहनः। तत्रैव सिंहवर्म्मणः साहाय्यार्थमागतैरितरैः कुमारैः सह एकत्रीभूतौ अपहारवर्म्मराजवाहनौ सोमदत्तपुष्पोद्भवाभ्यां विना राजवाहनश्च आत्मवृत्तान्तं कथयितुमादिदेश अपहारवर्माणम्।

स च आचचक्षे—

अपहारवर्म्मचरितनामद्वितीयोच्छासः।

राजकुलप्रदीप! अहमपि भवदन्वेषणाय अङ्गेषु गत्वा माधवसेना कन्या काममञ्जर्य्याभ्रष्टतेजसो मुनेर्मरीचेः वृत्तान्तंज्ञातवान्।कदाचिच्चतयैव हृतसर्वस्वंक्षपणकलिङ्गधारिनमपुष्टधनेन सुन्दरकेन समं जातवैरं वसुपालितमाश्वास्य पाशकक्रीड़या तत्सदस्यान्जिवित्य तदध्यक्षेन विमर्दकेन सह मैत्रमस्थापयम्। एकदा निशिनिराश्रितां पतिधनमित्रसकाशं गन्तुकामां कुलपालिकां नीत्वा धनमित्रालयं श्रुत्वा च तत्पितुरर्थपतये तस्याः प्रदानाभिलाषं प्राक्च धनमित्राय एव कन्यादानस्वीकारण इदानीं अतएव विपद्यत्रनिपतितं धनमित्रं देशान्तरं गमनाभिलाषिनं निवार्य्य आश्वास्य चताभ्यां सह मैत्रमस्थापयम्। ततश्च धनदायिनी चर्म्मभर्त्तृकाच्छलेन चौरोऽपि धनमित्रो राजविश्वस्त आसीत्। ततः स चापहृत्य अर्थपतिधनं तामपूरयत्। गुणग्राहिणौवारवनीता रागमन्जरी मामरञ्जयत्। मत्प्रणोदिता दूतीधर्म्मरक्षिता काममञ्जरीं राग-

मञ्जरीपणरुपचर्म्मभस्त्राकायाः प्रदानकथांकथयित्वावशीचकार। मयापि सा भस्त्राका तस्यै प्रदत्ता।

(क्रमशः)

काव्यविनोद श्रीदुर्गानारायणसेनगुप्तः।

__________

आत्मनिवेदनम्।

(द्वितीयः सर्गः)

निरुपाधिसुखं यदीच्छसि विषसारं विषयं परित्यज।
कलहामितगर्वदीनतामदमात्सर्य्यविधायकं मनः॥१॥

फलतो न सुखं न वा यशो न च शान्तिर्नजगद्गुरौ मतिः।
इह कारणवर्ज्जिता दया न तितिक्षा न न शौचमार्जवम्॥२॥

परमन्दविचिन्तनं धृतिर्जपमन्त्रः परगर्हणोक्तयः।
परपीड़न मीश्वरव्रतमिह धर्म्मध्वजितैव साधुता॥३॥

विषयस्य विभावनादिभिः सह शान्तिर्न कदापि वर्त्तते।
शिखियुक्ततृणाबलीकदा विपदस्पृष्टकलेवरीभवेत्॥४॥

धनिनां मणिरत्नमण्डिते भवने दीनतमस्य मन्दिरे।
तरुपत्र विनिर्म्मितेऽपि नो फलतः शान्तिरसौ विराजते॥५॥

भवनं बहुभूतिभूषितं ननुपश्य प्रमदाभिजृम्भितम्।
रुचिरैर्युवभिर्वृतान्तरं रजणीभिश्चविलोलदृष्टिभिः॥६॥

क्वचिदत्र पवित्र-विग्रहौ पितरावश्रुमुखी बभूवतुः।
युवकस्य सुतस्य धीमतो विरहेणाशु निरस्तचेतनौ॥७॥

क्वचिदत्र धनागमस्पृहोच्छसितैः सञ्चितरत्नसम्पदाम्।
परिरक्षण-चिन्तनैरपि चलचित्ता विहिता जनाः सदा॥८॥

क्वचनाशु चिकित्सितेतरा वत केचित् विषमैरुपद्रवैः।

अतिमुक्तगलं विरुद्य तान् स्वजनान् चित्त! नयन्ति दुःखिताम्॥९॥

मरणेन च जन्मना सदा मनसोऽगोचर जन्मना रुजा।
अविनाशि सुखं कथं जना अधिभूताः परिलब्धुमीश्वराः॥१०॥

पतनोन्मुखमेतमालयं ननु जीर्णं सततं विलोकय।
इह सम्भवति प्रमूढ़! किं चिरशान्तिः शमकाम मानस!॥११॥

स्मरतः क्वचिदत्र दम्पतीनिजभाग्यानि दशामुपस्थिताम्।
सततं कृतकर्म्मदारुणं वलवद्दःखनिदानमादिमम्॥१२॥

जठरानलपीड़ितोऽभवं मम बुद्धिः समलं विनश्यति।
परमद्मि किमेतदुक्तिभिर्युवभिः स्थीयत एव साश्रुभिः॥१२॥

शिशुभिर्वत! भोजनार्थिभिः करुणं चित्त! रुदद्भिरेकतः।
जननी किल चिन्तिता सतीनयनाश्रूणि सदैव मुञ्चति॥१४॥

क्वचिदत्र बुभुक्षिताम् शिशून् जननीधूलिविमिश्रितान् वत।
परिगृह्य विचुम्ब्यसादरम् किमिदं देयमितीह चञ्चला॥१५॥

परिणामधरावनं मनो! गतशङ्कं बहुशो विलोकय।
नरशोणितमांसकर्दमैर्वसयापि प्रथितं भयावहम्॥१६॥

स्तिमितं ननु विस्मयप्रदमतिगम्भीरतमं दुरासदम्।
परिवीक्ष्य न कस्य मानसं वत तदृश्यमिदं विकम्पते॥१७॥

मनसो वचसोऽप्यगोचरं स्थलमेतद्बहुसम्पदामपि।
किमिवाशु विवेकदर्शनं नवमुत्पादयति क्षणं क्षणम्॥१८॥

प्रतिपादयति ध्रुवं मनो! जगतां नश्वरता महो स्थिराम्।
इदमेव मनःसुनिश्चितं परिसञ्चारयति क्षणंभयम्॥१९॥

न कुलस्य, सहस्रसम्पदो न, न जातेर्न च देहसन्निधेः।
विदुषां न, सुखस्य नो इह विमलं वर्त्तत एव गौरवम्॥२०॥

अतिमूर्ख मनो! विलोक्यतां वसुधा ह्योननु यस्य कम्पिता।
चरणाम्बुज चारणैरयमधुनैतद्गमितः स्वबन्धुभिः॥२१॥

अधिशाय्य हि वंशदोलिकां रुचिदेहं गतजीवनं नरम्।

सलिलानि विमुच्य नेत्रतो विलपन्तोऽत्र चरन्ति बान्धराः॥२२॥

शतपत्रप्रभोऽत्रसेवितो शतभृत्यैरनुगैः पुरा तु यः।
वत! सोऽपि विभूतिभूषितो ननु शेते कठिने धरातले॥२३॥

कुसुमास्तरणेऽपि ताम्यति रुचिराङ्गः पुरुषः पुरा तु यः।
सुरसालरसाक्तदारुणि शयने स स्वपिति क्षणेतरम्॥२४॥

शयितोऽत्र गृहाणि सम्पदः पितरौ भ्रातरमात्मजञ्च न।
स्मरति प्रियबान्धवर्षभं प्रियपत्नींशयनं सुकोमलम्॥२५॥

क्वचिदत्र शृगालसंहतिः शवमुन्मीलितलोचनं वत!।
चिरनिद्रितमुत्सुकेतरं सममाकर्षति मूढ़ मानस!॥२६॥

कृशानुरेषोऽत्र रसालदारु निरन्तरं मानस! भस्मराशिम्।
करोत्यपि श्रीयुतलोलनेत्रंकामच्छविं रम्यगिरं पुमांसम्॥२७॥

न स्मर्य्यतेऽस्मिन् प्रखरोऽभिमानो न जप्यते हिंसनमूलमन्त्रः।
न चिन्त्यते प्रीतिविकाशिनेत्रंप्रियामुखं मुद्रितखिन्नदृग्भिः॥२८॥

राजप्रजात्वं धनिदीनतापि न विद्यते मण्डितमूर्खता वा।
श्मशानभूमौ लयकारणेऽत्र यशोऽप्यकीर्त्तिः सुखमिश्रयुःखम्॥२९॥

यस्य प्रसादलवतीभुवनं विचित्रं सम्पद्यते भवपयोधि तटञ्चयाति।
सम्मूढ़ मानस! नु चेत् परिणामभूमिमत्येतु मिच्छसि तदास्मर तं परेशम्॥३०॥

श्रीअन्नदाचरणतर्कचूड़ामणिप्रणीते आत्मनिवेदने
परिणामभूमिदर्शनं नाम द्वितीयः सर्गः।

(क्रमशः)

श्रीअन्नदाचरणतर्कचुड़ामणिः

नोयाखाली—सोमपाड़ा।

_____________

भक्तमाहात्म्यम्।

<MISSING_FIG href=”../books_images/U-IMG-173194805681.jpg”/>

आसीदशेषगुणवशीकृतजनमानसः विष्णुभक्तिपरायणः अम्बरीशो नाम कश्चिन्नृपतिः।

विद्यया शीलेन विश्वजनीनप्रेम्णा च तस्मिन्ननुरक्ताः प्रकृतयः सुखमूषुः। निरन्तरमसौ तद्गतेन चेतसा भगवन्नाम कीर्त्तयन्कृतार्थमात्मानं मन्यते स्म।

स हि भगवच्चरणयोर्मनःतद्गुणवर्णने वाचं, तत्कथाश्रवणेकर्णौ, तन्मूर्त्तिदर्शने दृशौ, तद्गृहमार्जने करौ, तत्पुण्यालयगमनेच पादौ, नियुज्य परां प्रीतिमवाप।

कालेन परिणते भगवदनुरागे तेनैवासीमतृप्तिमनुभवन् विरसविषयेषु वीतरागोऽयं समजनि।

अपास्तसकलराजकर्म्मणस्तदेकतानचेतसस्तस्य रक्षणाय भक्तवत्सलेन भगवता चक्रास्त्रं नियोजितम्।

ततोऽयं भगवत् प्रीतये भार्य्यासमेतः संवत्सरसाध्यं द्वादशीव्रतमनुतस्थौ। समाप्ते च तस्मिन् यदासौ पारणाय मनश्चक्रे, तदैवसुलभकोपो मुनिदुर्वासाःअतिथिधर्मेण समायातः।

तञ्चायं “धन्योऽस्मि यद्भवनमार्य्यस्य पादरजसा पवित्रीकृतम्” इत्यभिदधत् प्रत्युत्थानादिभिः सम्मानितवान्।

स च महर्षिर्माध्याह्निकोपासनायै कालिन्दीजलमुपेतश्चिरयति स्म।

नृपतिस्तु निःशेषितप्रायायां द्वादश्याम् एकतो मुनेरतिक्रमणमपरतः पारणङ्गभ, इत्युभयसङ्कटस्थः, कर्त्तव्यविमूढ़ो विदुषामुपदेशमाचकाङ्क्ष, ‘पारणानुरोधान्मुनिमतिक्रम्य जलपानमविरुद्ध’मिति तैरुपदिष्टः कुशाग्रेण च जलं पपौ।

अथ समापितमाध्याह्निकोपासनोदुर्वासा राजसमीपमागतस्तपोवलेन राज्ञश्चेष्टितमवगम्य, ज्वलन्निवामर्षानलेन, निर्गमयन्निव चक्षुषः जगद्दाहकं तेजः, उन्मूलयन्निव सृष्टिप्रपञ्चमलौकिक्याभक्त्या, विधूनयन्नखिलजटामण्डलम् इदमुवाच।—

आःपाप धर्म्माभिमानिन्! इत्थं मामतिथिमवमन्यसे, न वेत्सि मामुदग्रतेजसं दुर्वाससं, तिष्ठ रे नरापसद! अपनयामि तेधर्माभिमानम्, अनुभूयतामद्य स्वदुष्कृतफलम्, एवमभिधायतेजसा ज्वलन्तीं रूपिणीमिव विभीषिकां, स्वकीयां जटामेकामुच्छिद्य राज्ञः अभिचाराय निचिक्षेप।

सा तु गृहीतभीषणरूपा कालानलसन्निभा राजाभिमुखं प्रतस्थे।

अस्मिन्नन्तरे विष्णुचक्रं कृतघोरगर्जनं सहसा स्वयं तत्राविर्भूयराजाभिमुखमापतन्तीं तां शतधा विदार्य्य दुर्वाससमभिदुद्राव। स च भीतिविह्वलः प्राणरक्षार्थं यत्र यत्र धावितस्तत्र तत्रैव स्वमनुधावत् विष्णुचक्रमपश्यत्।

ततः“हा इतोऽस्मि क्व गच्छामि एवमभिदधत् यथाक्रमं सभूतलमन्तरीक्षं पातालं दुर्गकान्तारं पर्वतगह्वरं पर्य्यटन्नपि निष्कृतिमलभमानः ब्रह्माणं शरणमाप,‘का शक्तिरस्माकं विष्णुचक्रमवरोद्धुम्” इति तेनोपेक्षितश्च शङ्करम्। सोऽपि “नाहमत्र प्रभवामि” इति तमुपेक्षितवान्।

तस्मादनन्यशरणोऽसौ सकलजगदेकशरणं भगवन्तमधोक्षजमाशिश्राय। भगवानपि तमित्यमनुशशास।

ब्रह्मन्! अहमस्मि भक्तग्रस्तमानसः परतन्त्रः तन्नालमहं कृत-भक्तावमानं त्वामुद्धर्त्तुम्। ये खलु सकलविषयोपभोगमपहायमामेवाश्रयन्तिस्म, नाहमुत्सहे कथमपि तानवज्ञातुम्। वरमेकान्तप्रियतमां लक्ष्मीमपि त्यज्येयं, नपुनर्मयि न्यस्तसर्वस्वं भक्तजनम्।

हृन्मर्न्मनिहितं शल्यमिव पीडयति मां भक्तजनावमानम्। कृतं त्वया अम्बरीशं प्रति विसदृशं कर्म्म, येनेयन्ते दुर्गतिः। दुर्विनीतानान्तपःप्रभावः इत्थमेव क्लेशायकल्पतेI

तदस्य प्रतीकाराय नापरःकश्चित् प्रभवति तस्मादन्यः। तत्तमेवसर्वात्मना प्रसादयाम्बरीशम्। स हि कृतागसमपि त्वामचिरादुद्धरिष्यति, अतिकोमलं नाम भक्तहृदयं न जातु काठिन्यं भजते।

एवमनुशिष्टोऽसौ पुरुषोत्तमेन अनुतापानलदग्धमानसः, अम्बरीशमुपसृत्य तत्पादाववलम्बितवान्।

स तुपादस्पर्शविलज्जितो दुर्वाससमुत्थाप्य विष्णुचक्रमित्थंप्रसादयामास। यथा भागवते।९।५।१०-११॥

“यद्यस्तिदत्तमिष्टं वा स्वधर्म्मी वा स्वनुष्ठितः।
कुलं नो विप्रदैवञ्चेत् द्विजो भवतु विज्वरः॥

यदि नोभगवान् प्रीतः एकः सर्वगुणाश्रयः।
सर्वभूतात्मभावेन द्विजो भवतु विज्वरः”॥

ततः प्रशान्त विष्णुचक्रे, प्रत्यावृत्तजीवनइव दुर्वासा इदमवोचत्—

अहो! महाप्राणता भगवद्भक्तानां ये किल, विनाशोद्यतानामपि कल्याणं साधयितुं यतन्ते। पुण्यसलिला भागीरथीव पावयति जनगणं यत्सन्धतिः। आज्ञावहः किङ्कर इव यदादेशमनुवर्त्तते भगवानपि। धन्योऽस्मि, फलितं मे चिरसञ्चितं तपः, यदस्मि भक्तसङ्गतः। नाशितं मे हृदयनिहितं मोहान्धतमसं भक्तगुणालोकेन।

भूपते! क्षमस्वमामसमीक्ष्यकारिणं मामवेहि मुनिवेशधारिणं श्वपचाधमम्। अयोग्यः किलायं सर्वथा मुनिनामधेयस्य। तापसजनोचितां क्षमामपहाय रोषकलुषितेन्द्रियः पतितोऽहं कृतार्थमिवात्मानं मन्ये त्वसंसर्गात्।

इयन्ते शाश्वतीकीर्त्तिश्चिरमुद्घोषयतु जगति भक्तजनमहिमानम्। एवमाभाष्य राजानमसावन्तर्दधे।

वरिशाल

व्रजमोहनविद्यालय श्रीकामिनीकान्त विद्यारत्नः।

___________

ब्रह्मचर्य्यम्।

(पूर्वप्रकाशितात्परम्)

अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान् मखान्।
यः करोति वृतोयस्य स तस्यार्त्विगिहोच्यते॥१४३॥

  1. He who, being (duly) chosen (for the purpose),performs the Agnyadheya, the Pakayagnas, (and) the (Srauta) sacrifices, such as the Agnishtoma (for another man), is called (his) officiating priest.

य आवृणोत्यवितथं ब्रह्मणाश्रवणावुभौ।
स माता स पिता ज्ञेयस्तन्न द्रुह्येत्कदाचन॥१४४॥

** **144. That (man) who truthfully fills both his ears withthe Veda, (the pupil) shall consider as his father and mother;he must never offend him.

उपाध्यायान् दशाचार्य्य आचार्य्याणां शतं पिता।
सहस्रन्तु पितॄन् माता गौरवेणातिरिच्यते॥१४५॥

  1. The teacher (akarya) is ten times more venerablethan a sub-teacher (upadhyaya), the father a hundred timesmore than the teacher, but the mother a thousand times morethan the father.

उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम्॥१४६॥

** **146. Of him who gives natural birth and him who gives(the knowledge of) the Veda, the giver of the Veda is the

more venerable father; for the birth for the sake of the Veda(ensures) eternal (rewards) both in this (life) and after death.

कामान्माता पिता चैनं यदुत्पादयतो मिथः।
सम्भूतिं तस्य तां विद्यात् यद्योनावभिजायते॥१४७॥

** **147. Let him consider that (he received) a (mere animal)existence, when his parents begat him through mutual affection, and when he was born from the womb (of his mother).

आचार्य्यस्तस्य यां जातिं विधिवद्वेदपारगः।
उत्पादयति सावित्र्यासा सत्या सा जरामरा॥१४८॥

** **148. But that birth which a teacher acquainted with thewhole Veda, in accordance with the law, procures for himthrough the Savitri, is real, exempt from age and death.

अल्पं वा बहुवा यस्य श्रुतस्योपकरोति यः।
तमपीह गुरूं विद्यात् श्रुतोपक्रियया तया॥१५९॥

** **149. (The pupil) must know that that man also who benefitshim by (instruction in) the Veda, be it little or much, is called in these (Institutes) his Guru, in consequence of thatbenefit (conferred by instruction in) the Veda.

ब्राह्मस्य जन्मनः कर्त्ता स्वधर्म्मस्यच शासिता।
बालोऽपि विप्रवृद्धस्य पिता भवति धर्म्मतः॥१५०॥

  1. That Brahmana who is the giver of the birth forthe sake of the Veda and the teacher of the prescribed dutiesbecomes by law the father of an aged man, even though hehimself be a child.

अध्यापयामास पितॄन् शिशुराङ्गिसः कविः।
पुत्रका इति हो वाच ज्ञानेन परिगृह्य तान्॥१५१॥

  1. Young Kavi, the son of Angiras, taught his (relatives who were old enough to be) fathers, and, as he excelledthem in (sacred) knowledge, he called them ‘Little sons.’

(क्रमशः)

श्रीश्रीदुर्गा शरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-173195012847.jpg”/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्ती जनानिव।
मायावलम्ब्यते सेयमम्बाश्रीशिवसुन्दरी॥

<MISSING_FIG href=”../books_images/U-IMG-173195017048.jpg”/>

मासावतरणिका।

सन्तो वसन्तोद्गतपुष्पपल्लवाः वृक्षामरुन्नवर्त्तितवल्लयो मृदु।
शीतप्रदिग्धा अपि नैतदार्त्तवीचैत्रेऽद्य चित्रं हि विचित्रिता गतिः॥

उद्भट-श्लोकाः।

आयुस्ते नरवीर! बृंहतु सदा हेमन्तरात्रिर्यथा
लोकानां प्रियदर्शनी भव सदा हेमन्तसूर्यो यथा।
शत्रूणां रणदुःसहो भव सदा हेमन्ततोयं यथा
नाशं यान्तु तवारयो हिमहतं हेमन्तपद्मं यथा॥१०९॥

मा याहीत्यपमङ्गलं व्रजपते स्नेहेन शून्यं वचः
तिष्ठेति प्रभुता यथारुचि कुरु प्रोक्त्याप्युदासीनता।
इत्यालोच्य मृगीदृगञ्चलपुटेनाच्छाद्य किञ्चिन्मुखम्
व्रीड़ानम्रता कदम्बमुकुले दृष्टिं समारोपयत्॥११०॥

श्रुतिवचनदृष्टिहरणं लक्ष्मीः कुरुते जनस्य को दोषः।
गरलसहोदरजाता तच्चित्रंयन्नमारयति॥१११॥

श्रीविधुभूषण देवः। (राँचि)

शिवहास्यम्।

(A maiden effort)

शिवः शिवया सार्द्धमर्द्धासनमध्यासीनः विहितविविधयास्त्रसंलापः सुरम्ये कैलासहर्म्मेस्थितवत्या सविनयमावेद्यतेस।—नाथ! दीर्घतरं कालं त्वयापरिणीता महता सुखेनातिक्रामयम्। ऐहिकेनामुष्मिकेण च तपः सञ्चितसौभाग्येन तव प्रसादात् स्थावरजङ्गमानामधीश्वरी सर्वथैव सुखमेव सर्वदैवानुभवामि। किन्त्विदमेकमेव दुःखमापुङ्खनिखातं शूलमिव हृदयं विदारयति। इत्येवं दीर्घोष्णेन निश्वासेन भगवत्या भगवानपि दुःखमनुभवन् वदति।

देवि! किमिदमद्य श्रावितं भवत्या, यन्मे प्राणाधिकाया अपि तेदुःखम्? तत् सत्वरमावेदय मया किमसम्पादितन्ते वर्त्तते? तदस्मिन्नेव मुहूर्त्ते सम्पादयामि, अहं खलु शिवः भवत्त्याशक्त्या संयुक्तएव जगत् सृजामि पालयामि विसृजामि च। नो किं भवत्याअभिलषितमायत्तीकर्त्तुमीशे? किमिन्द्रं शचीं लक्ष्मींसरस्वतीं वादासीकर्त्तुं वाञ्छसि? किं वा सुमेरु शृङ्गं समुत्पाटितमत्र क्रीड़ोद्यानं वाञ्छसि? अथवा सप्तसागरान् पल्ललीकृत्य स्नातुं तत्र चेतोवहसि? अहो इदमतीव दुनोति मां यत् प्रेयसीमपि भवतीं दुःखंन जहाति। इत्येवं क्रोधप्रज्वलल्ललाटकृशानोः कपर्द्दिनः समाकर्ण्यवाक्यं पीयूषमभिषिञ्चतीव हैमवती वचनमिदमब्रूत नाथ! न तावदुक्तमसुखम्, तत्तु, सर्वमेव सम्पन्नं, किन्तु भुवनसुन्दरस्य भवतो मुखेकदापि हास्यं नापश्यम्, अनयैव चिन्तया व्याकुलीकृताहंदुःखमेकमनुभवामि। इत्याकर्ण्यशिवो ब्रूते प्रिये! दिवसे द्विर्हसामि,भगवतीब्रूते कस्मिन् समये कथं हससि? शिवो ब्रूते देवि! अस्मिन्संसारचक्रे यदा यं कञ्चित् पापिनं पातालाप्यधस्तात् दुःखादपि

दुःखतरे पातयितुमिच्छामि कञ्चिद्व्याधिमुखे कञ्चित्कारागारेकञ्चिद्वाकृपाणधारायां, कञ्चिद्वाद्वीपान्तरे, क्षिपामि, तदा तस्यबान्धवाः सम्भूय तमुद्धर्त्तुं चेष्टन्ते, केचिदौषधैः केचिद्धनैः केचिद्वा मिथ्यासाक्ष्यादिभिस्तमुपकर्त्तुंधावन्ति, आलोक्य तदा तेषां विचेष्टितमेकदा हसामि अहो मूढ़ानां प्रागल्भ्यम्?।

अपि च यं पुनः पुण्यकर्म्माणं मत्सेवकम् उच्चादप्युच्चतरे सुखादपि सुखान्तरे किं बहुना? यं शिरसा चन्द्रमण्डलस्पृशमपि नेतुं कर्त्तुं वा इच्छामि, तदा तस्योन्नतिमसहमानाः शत्रवस्तं निर्यातयितुंविचेष्टन्ते केचित्तं विषं भक्षयन्ति केचित्तमभिचारेण जिघांसन्तिकेचिद्वाराजद्वारि विद्रोहमुद्भावयन्ति, इति तेषां तात्कालिकंकार्य्यकलापमवलोक्य एकधा हसामि इति।

तदाकार्ण्यभगवती ब्रूते देव! हासस्यैवायमवसरः, साम्प्रतम् यदीश्वरचिकीर्षितेऽपि कर्म्मणि तत् प्रतिरोद्धुंमूढ़ा उत्तिष्ठन्ते। इति।

श्रीमनुजेन्द्रदत्तः।
सहकारिसम्पादकः।

____________

(सतां सङ्गैःस्वर्गवासः)

आसीत् पुरा सर्वभूतानन्दबर्द्धनो मृगुनन्दनश्चवनो नाम कश्चित्मुनिः। स च संसारमसारं मन्यमानः हिंस्रजलचरराङ्कुले गङ्गासलिले, तपस्यार्थंद्वादशवर्षं वासमकरोत्। तत्र अपास्तकामादिरिपुनिचयस्य तस्य शीलेन हिंसापरायणाः भीषणानक्रादयोऽपि स्ववृत्तिं परिजह्रुः। भयविधुरा मत्स्या अपि भीतिमपनीय इतस्ततःपरिभ्रमन्तः मुनेर्वदनांसुपां पपुः। इत्थं स सर्वेषां जलजन्तूनांप्रियदर्शनः समजनि। एवं गते बहुतिथे काले कदाचित् करकलितपाशाः केचित् मत्स्यजीविनो निषादास्तत्रागताः। मत्स्यधारणेकृतनिश्चयाश्च तत्र अतिदीर्घं नवसूत्रविनिर्म्मितं जालं विस्तारया-

मासुः। ते च बद्धकक्षाः पयसि अवतरन्तः पाशमार्कषन्तिस्म च।तेन नियतवशात् बन्धनं गतेषु जलचरमत्स्येषु समासन्नविपत्पातमवधारयन्तः केचित् शक्त्यतिशयेन जालं छित्वा ययुः।

केचित् स्वल्पायतनया छिद्रात् निर्गम्य पलायिताः। केचित्पलायितुं कृतोद्यमाः दृढतरं निबद्धाः। केचित्उत्पतन्तिस्म।केचिदुत्पत्य यातुमसमर्थाः पुनधीवरैर्धृताः। केचित् मृताः केचित्मृतप्रायाः बभूवुः। अपरे तु अनन्योपायाः तत्र पयसि विराजमानं महर्षिच्यवनं शरणं ययुः। एवम्भूतेषु जलचरगणेषु जालमाकृष्यधीवराः तत्रावस्थितं त्रासविकम्पितमत्स्यराजि वेष्टितं पाशसंयतंच्यवनं तटमानिन्युः। अथ ते मत्स्यजीविनः जलचरनखरैर्विदार्य्यमाणं तथाभूतं मुनिं पाशैरुद्धृतमवलोक्य सातिशयं विस्मयं प्रपेदिरे।किमयं मानवो देवो वा इति विनिश्चेतुमशक्नुवन्तः समधिकभयविह्वला जाताः। किंकर्त्तव्यविमूढ़ाश्च वद्धाञ्जलयः तस्यैव चरणतले निपेतुः।

जालाघातखेदजर्ज्जरिताः मत्स्यास्तु, महता भयेन स्थलस्पर्शमात्रेणैव छट्छटायमानाः बभूवुः। “दयापरा हि मुनिवृत्तयः"तस्मात्कारुण्य-रत्नाकरः स महामुनिः तान् तदवस्थानवलोक्य आत्मनः अकृतार्थनांमन्यमानः परं विषादमुपागमत्। अचिन्तयच्चअहो! परिणतः खलु महान् दैवदुर्विपाकः! क्व मे निरागसो मुनि वृत्तयः क्व चेयं समासन्ना समीपतो मे महतीजीवजिघांसा! क्वमेशान्त्या निभृतमवस्थानम् क्व चायं महानुत्पातः सञ्जातः। सर्वथाहं मन्ये नियति-पराहि संसारभावाः, नो चेत् कथमेते युगपद्विपन्नाःसज्जाताः। अहो! वृथैव मलमूत्राधारं देहभारं वहामि! यत्समीपतो मे ईदृशीमेते गतिमापन्नाः सर्वथाहं पाप्मना स्पृश्ये यद्येतान् रक्षितुमसमर्थः। किंवा जीवितेन यद्येतान् परित्रातुं न शक्नुयाम्।

अधन्यः खल्वहं जातः यत् पाषाणवदतिनिष्ठुरं मे हृदयंनाद्यापि विदीर्य्यति, वा प्रयान्ति खल्वमी कष्टाः प्राणाः, एवंचिन्तयति तस्मिन् समवेताः मत्स्यजीविनः सत्वरमुपागम्य साश्रुनयनाः सविनयमूचुः भगवन्! क्षन्तव्योऽस्माकमपराधःअज्ञानादस्माभिः कृतमेतत् अतिदुष्कृतं कर्म्म, साम्प्रतं अनुशयेन नितरांदह्यामहे। दयाधारा हि मुनयः तन्नो दयस्व, तैरेवम् अभिहितःजीवितस्य निष्फलतां दर्शयन्नुवाच “शृणुत यूयं समाहिताः अवसितंमे जीवित-प्रयोजनम्। सलिलाभ्यन्तरे एभिः सहवासेन दीर्घकालमत्यवाद्वयम्। तेन परं बन्धुत्वमजनि। तत एतान् विहाय न क्षणमपि प्राणितुं शक्नोमि। एभिः सह प्राणान् हास्यामि एतान् वाआत्मविनिमयेन जीवयिष्यामि।

अथ धीवराः तस्य तद्वचः समाकर्ण्य भयातिशयेन वेपमानाः,राजानं नहुषमुपसृत्य वृत्तान्तजातं न्यवेदयन्। विदितवार्त्तस्तुस राजा सामात्यपुरोहितः सत्वरन्तत्रागत्य यथाविधि कृतसत्कारः, मुनेस्तादृशीमवस्थां पर्य्यालोच्य चिन्तितवान् अहो! महीयसी संसारपरिणतिः! अयं किल परित्यक्तसंसारभारोऽपि विश्वजनीनेन प्रेम्नापरिभूयते! वशीकृतेन्द्रियग्रामो मुनिरपि परदुःखेननितरां पीड्यते। निर्ममोऽपि ममतया समधिकमाकृष्यते! न ह्यल्पीयसा कारणेन विषीदन्ति एवम्बिधा मूर्त्तयः। किमणीयसावातेन टलति अटलाचलः? प्रकाशमब्रवीत् देव! किमेतत्? कुत्रते मुनिजनोचिता निखिलसुखदुःखसंवृत्तिः क्व चेयं महीयसीविषणता? क्व च तपश्चरणेन सततमसह्यपीड़ासम्बरणम्। क्व चेयं भूयसीपरदुःखकातरता, सर्वमेतन्मे विपरीतं प्रतिभाति! धीरोऽसि धैर्य्यं धत्स्वदैन्यं मागाः अयन्ते आज्ञावहो मृत्यः समायातः येन त्वंतुष्यसि यद्वाअभिलषसि सर्वस्वेन राज्येन वा सर्वथा तदहं सम्पादयामि, ब्रूहि ते मनोरथम्, आज्ञावहे मयि भृत्यभूते न किञ्चिद्र-

हस्यमतिदुष्करं वा विद्यते, एवं भाषमाणे तस्मिन् राजनि, महानुभावो मुनिः किञ्चिदाश्वस्य, प्रकाशमब्रवीत् राजन्! न कोऽपिनियतिलेखामतिक्रमितुं समर्थः निरस्तसंसारोऽम्यहंचिरमेभिःसह वासैःपुनः संसारीसंवृत्तः साम्प्रतं मत्स्यानां विपत्तिं परिगणयन् समधिकं पीड़ामापन्नः। कैवर्त्ताश्च मत्स्यधारणव्यापारैः अत्यर्थं परिश्रान्ता जाताः। यदि मयि ते भूयसी श्रद्धा, तर्हि एभ्योमत्स्यानां मूल्यैः सार्द्धं मन्मूल्यं प्रदीयताम्। न चेत् सर्वथाहमेतान् म्रियमाणान् मत्स्याननुयास्यामि।

अथ गृहीतोपदेशश्च राजा अस्य निष्क्रयार्थं सहस्रंमुद्राःमूल्यमकल्पयत्। च्यवन उवाच नैतन्मे समीचीनं प्रतिभाति।तदाकर्ण्यपुनरस्य लक्षं मुद्राः मूल्यत्वेनावधारिताः। महर्षिः पुनरप्युवाच एतदपि मे नोपयुक्तम्। मन्त्रिभिः संमन्त्र्यमूल्यमवधारय।अनन्तरं राजा मन्त्रिभिः संमन्त्र्यअस्य कोटिं मुद्राः मूल्ययवाधारयत्। तदाकर्ण्य मुनिरुवाच नैतदपि मे सदृशं मूल्यम्, ऋषिभिःसार्द्धंपर्य्यालोच्च मूल्यमेभ्यः प्रदीयताम्। अतः परं श्रुततद्वाक्यस्तु राजा नितरां विषादमुपगच्छन् अमात्यगणपरिवेष्टितः भूयसींचिन्तामापेदे। एतस्मिन्नन्तरे कश्चित् गवीगर्भजातः फलमूलाशी मुनिःसमायातः एनमुवाच च, “राजन्! सर्वभूतेषु गोब्राह्मणौ साधुभिर्निरन्तरं पूज्येते नास्त्यनयोः काचित् मूल्यकल्पना अतोऽस्य मूल्यं गामेकामवधारय।

तेन गवीजमुनिना तथादिष्टः स राजा स्वामात्यपुरोहितैःसार्द्धंपरं परितोषमेत्य महर्षेर्मूल्यं धेनुमेकां संधार्य्य तेभ्यो ददौ। महर्षिश्च्यवनस्तु, स्वमूल्यंयथायोग्यम् अवगच्छन् विविधगुणकीर्त्तणैः गोमाहात्म्यंवर्णयमास।

अथ बद्धाञ्जलयो निषादाः सविनयं महर्षिमूचुः भगवन्! धन्या वयंयदत्रभवता अकिञ्चनानामस्माकं शिवाय अनुष्ठितमेतदति-

कठोरं कर्म्म,का कथा धनस्य? जीवितविनिमयेनापि नात्स्यस्य काचित् प्रतिक्रिया, काचः किं काञ्चनेन समं सादृश्यं भजते?चन्द्रालोके वा शोभते किं खद्योतिका? देव! सप्तपदगमनेनैवबन्धुतां कीर्त्तयन्ति साधवः तदस्माभिः सह संवासात्, सह भाषणात् सहगमनाञ्चदृढतरं बन्धुत्वं जातम्। तदत्रभवता क्षन्तव्या वयं कृतागसः। अस्मान् प्रति कृतप्रसादेन धेनुरियं प्रतिगृहताम्। तैरित्थमभिहितः स महानुभावः, प्रतिग्रहं वः स्वीकरोमि यूयमिदानीमशेषपापराशिनिनिर्मुक्ताः श्वाश्वतसुखनिवासं स्वर्गवासंप्रयात इत्युक्त्वाविवराम। अथ तस्य महर्षेः प्रभावात् पवित्रात्मानः मत्स्याः निषादाश्च परया मुदा स्वशरीरैः स्वर्गं गताः।तादृशमलौलिकं वृत्तमवलोक्य राजा नहुषः सातिशयं विस्मयं प्राप।अथ च्यवनगवीजौ नृपतेर्नहुषस्य परार्थं महदनुष्ठानं विदित्वा, सदा ते धर्मे मतिर्भूयादिति आशीर्विधाय स्वं स्वं स्थानं जग्मतुः।भूपतिरपि निजनिकेतनम् आजगाम।

श्रीकालीशचन्द्रभट्टाचार्य्यः

शिक्षक व्रजमोहन विद्यालय।

___________

कुमारबन्धुः।

पूर्वप्रकाशितात्परम्।

काममञ्जरीच तद्दोहनार्थं वसुपालिताय तस्य हृतानिधनानि दत्तवती। अपि च अवशिष्टानि सर्वानि धनानि दत्त्वादरिद्रेभ्यः स्वयं रिक्तहस्ता आसीत्। ततश्च “मम भस्त्राका काममञ्जर्य्याहृतापि” इति धनमित्रेनविज्ञातेन राज्ञा सा दण्डिता आसीत्। अर्थपतिश्च मिथ्याकृत चौर्य्यापराधेन हृतसर्वस्वः सन् राजादेशेन निरवास्यत। धनमित्रश्च ततः कुलपालिकामुपयेमे। सिद्धसङ्कल्पश्चाहं रागमञ्जरीगृहं हेमरत्नपूर्णमकरवम्।

एकदाहं पथि राजपुरुषैःनिशि चौर इति कृत्वा निबद्ध आसम् कारागारे। मया सह गता शृगालिका गृहीतसङ्केता गतवती।ममैव सङ्केतेन सिंहवर्म्मकन्याम्बालिकापाणिग्रहणेच्छुः काराध्यक्षः कान्तकः हतो मया अवटकारकेण। ततश्च कारागारात् पलायितोऽहं नागरिक पुरुषैःपुनर्वद्धःशृगालिका वाक्यफलेन प्रमुक्तश्च आसम्। ततश्च रागमञ्जरीगृहं गत्वा तामाश्वास्य निशाशेषमनयम्। सिंहघोषश्च कान्तकपदे प्रतिष्ठित आसीत्। तेन च पूर्वखनितेन गर्त्ते नाहमम्बालिका समीप आगतवानस्मि। इदानीञ्च चण्डवर्म्मावरुद्धंसिंहवर्म्माणं प्रमुच्य निहत्य च तं चण्डवर्म्माणं सिंहवर्म्म साहाय्यार्थमागतैर्भवद्भिःसम्मिलितोऽहम्। इति श्रुत्वा राजवाहनो हृष्टः सन् उपहारवर्म्माणंस्वचरितं कथयितुमादिदेश। सोऽपि आचचक्षे।

उपहार वर्म्म चरितनामतृतीयोच्छासः।

नृपतिनन्दनं। अहमपि भवदन्वेषणार्थी विदेहेषु गत्वा कुत्रापिमठिकायां मम रक्षयित्रीं धात्रीमपश्यम्। तत एव विकटवर्म्मादिभिःस्वराज्यलुब्धकैर्निबद्धौपितरौ प्रियंवदाप्रहारवर्म्मणौ। पितृमातृबन्धनमुक्तिकामोऽहं विकटवर्म्मपत्नीं मत्तकाशिनीं कल्पसुन्दरीमुपरन्तुञ्चयज्ञच्छलेन विकटवर्म्माणंनिपात्य ज्ञात्वा तदभिप्रायं विकटवर्म्माइति नान्नैव राज्येश्वरोऽभवम्। खुल्लतातच्छलेन पितरौ अमोचयम्। भ्राता च विशालवर्म्मापुण्ड्रदेशगमनान्निवारितः। क्रीतञ्च वणिजः उपयुक्तमुल्येनैव महार्घंरत्नम्। उक्तश्च मया शतहलिर्नायं मे व्यापाद्यस्तातपादःप्रहारवर्म्माअतएवइदानीनैव घातव्योऽनन्तसीरः। इति ततश्च पितृबन्धोः सिंहवर्म्मणो व्यसनं श्रुत्वा भवता शुभदर्शनं लब्धमिदानीम्। इतिश्रुत्वा राजवाहनोऽर्थपालं प्रति नयननिःक्षेपमकरोत्। सोऽपिआचचक्षे।

अर्थपालचरितनाम चतुर्थोच्छासः।

** **अहमपि वाराणसीं गत्वा श्रुत्वा च पूर्णभद्रात् पितुव्यसर्नसिंहमातुरपि काशीराजकन्यायाः कान्तिमत्यास्तद्दूरीकरणार्थमिहासम्। मया निक्षिप्तेन सर्पेण बध्यस्थाने नीतःपिता दष्टोमृतश्च। पुनश्च तस्य शरीरं मातृगृहं नीत्वा तमजीवयम्। सिंहघोषनिपातनार्थं अवटकारकेण मया अवटमार्गे चण्डसिंहज्येष्ठपुत्रचण्डघोष कन्या मणिकर्णिका दृष्टा आसीत्। मम भार्य्याभविष्यति इति कृत्वा सा तत्र तत्पितामहेन रक्षिताभूत्। ततश्च सिंहघोषं निवद्ध्यशृङ्खलेन मत्पितुः समीपमनयम्। पिता च मे ततस्तत्रराजा अभूत्। मया परिणीता च मणिकर्णिका। इदानींसिंहवर्म्मसाहाय्यार्थमेत्यभवतां सुखमेलनं लब्दवानस्मि। इतिश्रुत्वा राजवाहनं सिंहघोषं मोचयितुमादिश्य प्रमतये स्वचरितं कथयितुमादिदेश। स च आह।

प्रमतिचरितनाम-पञ्चमोच्छासः।

राजनन्दन! गतोऽहं भवदन्वेषणार्थं कुत्रचिद्वने। सुप्तोत्थितेनमया कुत्रचित् राज-वासोपयुक्ते गृहे कांचित् वाला दृष्टा। पुनरपिनिद्रोत्थितेन मया तद्वालाविहीनं तदेव वनं दृष्टमासीत्। ततएव जातखेदश्चाहंतारावल्याःश्रावस्तीश्वरधर्म्मवर्द्धनकन्या नवमालिका सा इति श्रुत्वा च मदनुरक्ता नवमालिका इति तस्यैवमित्रब्राह्मणस्य कन्याछलेन राजान्तः पुरं गत्वा कार्त्तिकपूर्णिमास्नानच्छलेन ततः पलायित्वा पुनरपि अमुष्यैव जामातृछलेनब्राह्मणशापभयाकुलस्य धर्म्मवर्द्धनस्य अनुमत्यैव नवमालिकामुपयस्य इदानींसिंहवर्म्मसाहाय्यार्थमागत्य भवतां शुभदर्शणं लब्दवानस्मि। इति श्रुत्वा राजवाहनो मित्र-गुप्ताय तच्चरितं कथयितुमादिदेश—सोऽपि आरब्धवान्।

मित्रगुप्तचरितनाम षष्ठोच्छासः।

देव! भवदन्वेषणार्थी अहं दामलिप्तं गत्वा श्रुतवान् कोशदासात्

“सुह्यपतिस्तुङ्गधन्वा भगवतीमाराध्य पुत्रं भीमधन्वानं कन्याञ्च कन्दुकावतीं प्राप्तवान्। कन्दुकावती कन्दुकोत्सवे स्वस्यअनुरूपंपतिं प्राप्स्यति। भीमधन्वना च तस्याधीनेन स्थातव्यमितिदेवतादेश इति। कोशदासश्चचन्द्रसेनामुपनेतुमभिलाषुकीऽभूत्। भीमधन्वापि चन्द्रसेनां चकमे। ततश्च तस्मिन्नेव समये कन्दुकावतीकन्दुकोत्सवेमां दृष्ट्वा मामेव पतित्वे स्थापयितुमभीष्टवती। तेन क्रुद्धोभीमधन्वा मां समुद्रे चिक्षेप। तत्र च यवनसैन्यगणेन रक्षतोऽहं दैवदुर्विपाकादागतं भीमधन्वानं विजित्यनिवद्ध्यच समुद्रतीरमेत्य प्रश्नकारिणोराक्षसस्य प्रसादात् कन्दुकावतींलब्धवानस्मि। तत स्तौनीत्वादामलिप्ते आगतवानस्मि। तुङ्गधन्वा एतदृष्ट्वा जातहर्षोमह्यमेव कन्दुकावतींदत्तवान्। कीशदासश्च चन्द्रसेनामुपयेमे। भीमधन्वा च ममाधीनत्वं स्वीकृतवान्। इदानीं सिंहवर्म्मसाहाय्यार्थमेत्य भवतां दर्शनं लब्धवानस्मि इति।ततश्चराजवाहनाद्दिष्टो मन्त्रगुप्तोऽवदत्।

मन्त्रगुप्तचरितनामसप्तमोच्छासः।

राजाधिराजनन्दन! अहमपि भवदन्वेषणार्थी कलिङ्गान् गत्वानिपात्य सिद्धतापसंकिङ्करसाहाय्यात् कर्द्दनकन्यया कनकलेखयासह गतवांश्च कलिङ्गान्तः पुरम्। ततश्च कनकलेखार्थिनान्ध्रनाथेन जयसिंहेन नीतः सपरिजनो बहश्च कर्द्दनः तत्र च गत्वाकनकलेखा उन्मादरोगग्रस्ता आसीत्। अहमपि तत् श्रुत्वासंन्यासिवेशेन गत्वा अन्ध्रंगर्त्तपथेन सरसि जयसिंहं निपात्यदेहान्तरच्छलेन तन्नाम्ना च प्रशंस्य सन्न्यासिनोगुणान् तद्राज्याधीशोभूत्वा कनकलेखां परिणीतवानस्मि। ततश्च श्वशुरराज्यमपिलब्धा अधुना सिंहवर्म्मसाहाय्यार्थमेत्य भवतां सुखदर्शणं लब्धवानस्मि। इति श्रुत्वा सहर्षस्य राजवाहनस्यादेशात् विश्रुतश्च स्वचरितम कथयत्।

विश्रुत चरितनामाष्टमोच्छासः।

राजेन्द्रनन्दन! अहमपि—भवदन्वेषनार्थी कुत्रचिद्वनेगत्वाभास्कर वर्म्मरक्षितारं मालीजङ्घं कूपादुद्धृत्य तत्रएव श्रुत्वा विदर्भेश्वरपुण्यवर्म्मपुत्रानन्तवर्म्मणोमरणकुटिलस्य सहचरस्य विहार भद्रस्य कुवुद्ध्या, छिद्रज्ञस्य चन्द्रपालितस्य च्छलेन अश्मकेन्द्रस्यमित्राद्भानुवर्म्मश्च। ततश्चपलायितायाः स्वभ्रातृभिरुत्पीड़िताया भास्करवर्म्मजननीवसुन्धराया आदेशाद् भास्करवर्म्माणंनीत्वातस्य इहागमनं इति। ततश्च विदर्भादागतस्य व्याधस्य मुखात्भास्करवर्म्मभग्नीमञ्जुवादिनीमुपनेष्यति इति श्रुत्वा जातक्रोधोऽहं माल्यदानछलेन मञ्जुवादिन्या हत्वा तं कस्मादपि मठात् भास्करवर्म्माणं क्रोड़े कृत्वा देवप्रसादादयं मया रक्षित इति उक्त्वाच सञ्जातप्रत्ययस्तामेव मालां धृत्वा मञ्जुवादिनीमुपानयम्। ततश्च अनुकूलैः प्रजाकुलैः सह अश्मकेन्द्रं निपात्य भास्करवर्न्माणं तत्पित्रासनेऽस्थापयम्। ततः सिंहवर्म्मासाहाय्यार्थमेत्यात्र भवतां दर्शनं लब्धवानस्मि इति।

उत्तरपीठिका।

ततश्च तत्रस्थाः कुमारा अष्टौ पुष्पोद्भवसोमदत्तेतरे सर्वे वामलोचनया समं सोमदत्तमानाय्य मानसारं जित्वा पुष्पोद्भवं प्रमुच्यपुष्पपुरींगतवान्। वामदेवादेशाद् राजवाहनःपित्रासनमाश्रितवान्। इतरे च नव कुमारा राजवाहनाज्ञांशिरसि कृत्वा स्वेन स्वेन विजितानि राज्यानि अधिकृतवन्तः। सर्वे च सयत्नं प्रजाः पालयामासुः।

काव्यविनोदेन वैद्यवल्लभान्वयजेन च
श्रीदुर्गानारायणसेन गुप्तेन विरचितः।

_____________

आत्मनिवेदम्।

(तृतीयः सर्गः)

<MISSING_FIG href=”../books_images/U-IMG-173200027284.jpg”/>

यस्याद्भतानल्पसमुल्वनार्च्चिःकणोऽपि वाङ्मानसयोरतीतः।
न शारदे पार्वण्यामिनीशे द्रुतं सखे! मानस! तत्र गच्छ॥१॥

तमः स्वयं यत्रतमोमयं सत् चिरात् प्रयत्नैरपि कालमाप।
नैव प्रवेष्टुं रुचिरं कथञ्चित् (तमःसजातेः सुतरां कथा का)॥२॥

पवित्रसौन्दर्य्यविधानवीजे यस्मिन् सदा मूर्त्तिमतीव शान्तिः।
विराजते तद् गतमानसेभ्यो ददाति चानन्दमनन्तधाम्नि॥३॥

क्षमागुणेनेव विनिर्म्मिता या सृष्टिर्विरुद्धैरपि वस्तुसंघैः।
अध्युष्यमानापि विरोधनामलेशैरहो नो ददृशे कदापि॥४॥

सत्कर्म्ममालार्ज्जितदिव्यभासांतेजस्विनां यत्र किल प्रयात्ताम्।
अनन्तसन्तापकराः समन्तात् कर्णेषु संसार-वरा न यान्ति॥५॥

सच्चिन्मये मान्द्रपवित्रधाम्नि न विद्यते भस्मालवोऽपि कश्चित्।
असत्य-हिंसाक्लम-शत्रुतानां कामस्य लोभस्य मदस्य चात्र॥६॥

यदाश्रितानां विषमास्त्रितापा आध्यात्मिको वा ननु भौतिको वा।
न दैविकोवा खर-घातिनोऽपि समन्ततो वर्त्तितुमुत्सहन्ते॥७॥

यदाश्रितेभ्यः पितृ-मातृ-पुत्र-परिग्रह-भ्रातृ-सुतस्य नित्यम्।
वित्तस्य वन्धोर्यशसश्च चिन्ता विभेति भास्वत्त इबान्धकारम्॥८॥

यत्र प्रयाता बहु शौचतुष्टिह्रदेनिमज्जन्ति निरन्तरं नु!।
न यान्त्यसंख्या वयवाः पिपासाःगच्छन्ति नो दुःख कणावभासम्॥९॥

यदाश्रिता दावहुताशदग्ध-कुरङ्गवच्चञ्चलतां भजन्तः।
समन्ततो नैव चरन्ति, किन्तु दिव्यं मनोऽतीतसुखं प्रयान्ति॥१०॥

न यत्र वित्तस्य वृथाभिमानो न रूपमाहात्म्यसमादरो वा।
न वक्रवाक्यस्फुरणाद् यशांसि न बुद्धिमत्त्वंपरपीड़नेन॥११॥

नैयायिकानान्न महान् वितर्को वैज्ञानिकानान्नसुतीक्ष्णदृष्टिः।

पौराणिकानान्न पुराणवार्त्ता न दर्शनस्यापतति प्रसङ्गः॥१२॥

संसारचिन्तानलराशयोनो यदाश्रितान् दग्धुमहोसमर्थाः।
नशत्रु-वक्रोक्त्यवलेपसंघी हिंसाकुठारोऽपि परं निहन्ति॥१३॥

वृथाभिमानो मद-लोभ-मोहाः क्रोधो जिगीषामितवासना च।
न मत्सरत्वन्ननु शक्नुवन्ति यदाश्रितान् स्पृष्टुमहोकथञ्चित्॥१४॥

यदाश्रितस्यामितकामनापि विशालशय्यामधिशय्य चारु।
निद्रास्यति प्राणगता चिराय प्राजागरिष्यत्यथ नो कदापि॥१५॥

परापकारक्षमवीरभावः परोन्नती, कातरता सुतीव्रा।
यस्यां भुवि स्वार्थपरत्वचिन्ता विपक्षदुःखप्रियतापि नैव॥१६॥

सपत्नभीतिर्धरणीश्वराणां दण्डोऽथवा हिंस्रजसाध्वसानि।
प्रभुप्रहारान्नभयं कदाचित् संसारं निष्षेषणमत्र किञ्चित्॥१७॥

न यत्र दातुर्नयने मुखञ्च वक्रोत्तरं नाम विलोकयन्ति।
भिक्षाजुषः कोपपरीत मूर्त्तेः परानन प्रेरितलोलनेत्राः॥१८॥

राजा प्रजा नो, न धनीदरिद्रः साधुर्नदुष्टो, गुणवान् न मूढः।
प्रभुर्नभृत्यो युगपत् पवित्रे नो उत्तमर्णः खलुनाधमर्णः॥१९॥

पादप्रहाराद्भयतः प्रभूणां न यत्र चिन्ता-शिखिनो दहन्ति।
भृत्यस्य चेतोऽपि समाहितस्य प्रभूपकारव्रतदीक्षितस्य॥२०॥

यस्मिन् महानास्तिकतर्कवादैः सतां सुबुद्धीरपि मोहयद्भिः।
न गृह्यतेऽभद्रकरैः कदाऽपि जन्तुः सदा शान्तिमयस्वभावः॥२१॥

कापट्यमन्त्राक्षरदीक्षितानां स्वंधार्म्मिकं बोधयितुं रतानाम्।
वाचस्पतीनां परदोषघोषे संसारिणां यत्र गतिर्निषिद्धा॥२२॥

न जन्मनां नापि समाहृतीनां सम्बन्धलेशोऽस्ति कियानपीह।
हा अम्ब! हा तात! हताशचित्त! हामित्र! हापुत्र! इति स्वनोः नः॥२३॥

पवित्रपुण्याम्बुधिवारिधौत-तमोमलानां चरतां न यत्र।
ऐश्वर्य्य-विद्या-कुल-मान-रुपैर्युवत्वगर्वैश्च पृथक्त्वबुद्धिः॥२४॥

सुखास्पदे यत्र सपत्नजातच्छिद्रानुसन्धानविवादविद्या।

नाधीयते बालकमण्डलीभिरध्याप्यतेऽध्यापक पुङ्गवेर्न॥२५॥

अहं भवानेष स यत्र शत्रुर्मित्रंं प्रजा भूपतिरस्य मे ते।
एतस्य तस्येति विचित्रबुद्धिर्नवर्त्तते दुःखसहस्रदात्री॥२६॥

कल्पान्तकालोदिततीव्रवात-सन्ताड़िताम्भोधि-तरङ्गमालाः।
यथा, तथानल्पसुखानि यत्र धारासहस्रेण भवन्ति नित्यम्॥२७॥

आशा तरूणां सुदृढ़ः कुठारस्तृष्णातृणानां विषमो दवाग्निः।
दुःखाद्रिपक्षस्य सुतीक्ष्णवज्रंशान्तेः परंधाम यदद्वितीयम्॥२८॥

गिरामतीतस्य सदा पवित्रोपादानवीजेन विनिर्म्मितस्य।
कीटाणुकीटोऽपि विभासिनोऽस्य स्वर्गस्थितेभ्योऽपि महान् सुरेभ्यः॥२९॥

पुण्यात्मनो विश्वविधातृपादसरोजपीयूष-पिपासुचित्ताः।
संसारसिन्धोः प्रखरं तरङ्गं यन्नाम संस्मृत्य सकृत्तरन्ति॥३०॥

शुधांशुराभिर्दिननाथराजिर्नक्षत्रमालानलसंहतिश्च।
सुरेन्द्रपङक्तिर्मुनिसिद्धसंघो विराजते यत्र सुखैकधाम्नि॥३१॥

निर्वासनस्यैव विवेशनाय सुवर्णसौधो रुचिरो विभाति।
आत्मायनस्यापि समाहितस्य मनः सदा विस्मयतां प्रयाति॥३२॥

समो दमो यत्र शुभा तितिक्षा श्रद्धा ज्वलन्तीरमणीयदीप्तिः।
क्षमा दया भूतहितानुरागो देदीप्यते मूर्त्तिमतीव भक्तिः॥३३॥

रे मूर्ख चञ्चलमनोऽखिलविश्वबन्धोस्तद्दुर्लभं परमधाम गिरामतीतम्।
गत्वा सुखेन सततं जगदेकसत्यं ध्यात्वात्मजीवनमहो सफलीकुरुष्व॥३४॥

श्रीअन्नदाचरण तर्कचूड़ामणिप्रणीते
आत्मनिवेदने गन्तव्यस्थाननिर्द्देशस्तृतीयः सर्गः
(शिवमस्तु)
श्रीअन्नदाचरण तर्कचड़ामणिः—
नोयाखाली—सोमपाड़ा—

____________

FOR ENTRANCE STUDENTS.

<MISSING_FIG href=”../books_images/U-IMG-173200671685.jpg”/>

AS GIVEN BY THE HEAD PUNDIT,
OF
Hare School.

⇒ Questions with answers on Sanskrit Entrancecourse for 1896,

Explain the Samasa in हितोपदेशः।

Ans:—हितानामुपदेशो यत्रसः। हितोपदेशमधिकृत्य कृतो ग्रन्थः सहितोपदेशः “अधिकृत्य कृतं ग्रन्थे” इति अण्। अथवा हितःहितकरः उपदेशो यत्र ग्रन्थे सः। इति बहुव्रीहिः।

Explain in Sanskrit :—

सिद्धिः साध्ये सतामस्तु प्रसादात्तस्य धूर्जटेः।
जाह्नवीफेनलेखेव यन्मूर्द्ध्निशशिनः कला॥

** **Ans:— यत् यस्य मूर्ध्नि शिरसि शशिनः चन्द्रस्य कलाषोड़श भागःजाह्नवीफेनलेखा गङ्गायाः (शिरः स्थितायाः) फेन राजीव वर्त्तते तस्य धूर्जटेः शिवस्य प्रसादात् अनुग्रहात् सतां साधूनांसाध्ये (विषये) सिद्धिरस्तु इति।

Derive—धूर्जटेः, पाटवं, प्राज्ञः,

Ans—धूरिव जटा अस्येति पृषोदरादित्तात् इः। पटोर्भावः पटु+अण्। प्र, प्रकृष्टम् आसम्यक् जानाति, प्र + आ + ज्ञा + कः। अथवा प्र + ज्ञा+कः स्वार्थे अण्।

Expound the Samasa in—जानाह्नवीफेनलेखा & अजरामरवत्।

Ans—जाह्नवी फेनलेखा—फेनस्य लेखा, इतत्, जाह्नव्याः फेन-

लेखा, ६ तत्। अजरामरवत्—नास्ति जरा यस्य स अजरः, न मरःअमरः, अजरश्च अमरश्च “तेनतुल्यम्” अजरामर + वत्।

Parse :—केशेषु & मृत्युना।

Ans—अवच्छेदे सप्तमी। गृहीतइत्यस्य कर्त्तरि तृतीया।

Explain in Sanskrit :—

(a)अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिन्तयेत्।
गृहीत इव केशेषु मृत्युमा धर्म्ममाचरेत्॥

Ans—प्राज्ञः पण्डितो जनः अजरामरवत्सुस्थकायवत् चिरजीविवच्चविद्याम् अर्थं धनञ्च चिन्तयेत् उपार्जयेत्। मृत्युना कालेन केशेषु गृहीत इव धर्मं सदाचारादिकम् आचरेत् कुर्य्यात्। विद्याधनं धर्म्मश्चसदा समर्जितव्यमिति भावः।

(b) यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत्।
कथाच्छलेन बालानां नीतिस्तदिहकथ्यते॥

Ans—यत् यतःनवे नूतने भाजने पात्रे लग्नः संयोजितःमुद्रितः संस्कारःचित्रशिल्पादि न अन्यथा न विकृतो भवेत्, न प्रोञ्छ्यते। तत् तस्मात् इह ग्रन्थे बालानां कोमलहृदयानां सम्बन्धे,कथाच्छलेन प्रस्तावप्रसङ्गेन नीतिः कथ्यते, उच्यते मया इति शेषः।

Where is Pataliputra and what is its Modern name?

Ans :—Name of the capital of Magadha, near theconfluence of the Sone and the Ganges, supposed tobethe ancient Palibothra, and the modern Patna—

Translate into English :—
(M. W.)

अनेक संशयच्छेदि परोक्षार्थस्य दर्शकम्।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः॥
यौवनं धनसम्पत्तिः प्रभुत्वमविवेकता।
एकैकमप्यनर्थाय किमु तत्र चतुष्टयम्॥

Ans :—Surely he is blind, who is without theknowledge of the Shastras, which being the destroyer of manifold doubts, and the pioneer (as it were)of probable truths (as opposed to selfevident truths),are, as eyes unto everybody.

(6) Youth, riches, power and neophytism (Wantof experience) each of them separately are enoughfor (leading one to) evil, what might not happen (i. e.utter ruin will follow) when these four combine?

Give the substance of the following in simpleSanskrit :—

(a) कोऽर्थः पुत्रेण जातेन यो न विद्वान्नधार्म्मिकः।
काणेन चक्षुषा किम्बाचक्षुः पीड़ैव केवलम्॥

(b) अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः।
सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे॥

Ans :—(a) अतः सर्व एव विद्वान् धार्मिकश्च भवितुं यतेत, तेनैवपिता सन्तुष्यति पितरि च सन्तुष्टे सुखी स्यात्।

(b) मूर्खः पुत्रः सर्वथा अप्रार्थनीयः।

Explain in Sanskrit :—

सजातो येन जातेन याति वंशः समुन्नतिम्।
परिवर्त्तिनि संसारे मृतः को वा न जायते॥

Ans :—येन जातेन उत्पन्नेन वंशः कुलं समुन्नतिं याति प्राप्नोतिस एव जातः स सफलजन्मा इत्यर्थः (अन्यथा) परिवर्त्तिनि आवर्त्तनशीले संसारेजगति को जनः मृतः सन् न पुनरुत्पद्यते अपि तु सर्व एव जायते इत्यर्थः।

Give the Vocative singular of अम्बा in ते नाम्बा यदिसुतिनी।

Ans :—अम्ब! (note here–it is not अम्बे)।

What are the 6 सुखानि referred to in Page 3–

Ans :—अर्थागम (1)

नित्यमरोगिता (2)

प्रिया, प्रियवादिनी भार्य्या(3), (4)

वश्यःपुत्रः(5)

अर्थकरी विद्या (6)

Explain fully :—

यदभावि न तद्भावि भावि चेन्न तदन्यथा।
इति चिन्ताविषघ्नोऽयमगदः किन्न पीयते?॥

Ans :—भवितीति भू + णिन्। भावी। न भावि अभावि, यत्किञ्चित् कार्य्यादिकम् अभावि न भवन योग्यं, तत्कार्य्यादिकं नभावि न भविष्यति, असम्भाव्यं नोत्पद्यते। (तत्) कार्य्यादिकं चेत्पक्षान्तरे यदि भावि भवनयोग्यं अवश्यम्भावि स्यात् (तदा) तस्य अन्यथा असम्भवो न भवतीतिशेषः—इति एवं या चिन्ता सैव विषं तत् हन्ति, चिन्ताविष + हन + टक्। चिन्ताविषघ्नः चिन्तारूपविषनाशकःअगदः औषधं किं कथं न पीयते न सेव्यते? लोकेन इति शेषः। यन्नभवितव्यं तन्नैव भवेत्, यच्च भवितव्यं तदवश्यमेव भविष्वतीत्येवं दुश्चिन्तानिवृत्तिः सर्वैः कर्त्तव्या।

(क्रमशः)

___________

FOR ENTRANCE STUDENTS.

________*_______

AS GIVEN BY THE HEAD PUNDIT
OF
HINDU SCHOOL

⇒ Questions with Answers on Sanskrit Grammarand Composition.

Q 1:—Write an essay on ‘Learning’ in sanskrit,of about 10 lines .

Ans :—निखिले जगति विद्येवैका जयति। विद्यया नरोऽप्यमरायते, दीनोऽपि राजायते, कुरूपोऽपि सुश्रयते, किमधिकंविद्वान् राजभिरपि पूज्यते, शत्रुभिरपि आद्रियते। एकत्र स्थितोऽपि दश दिशो भाषयते। विद्या चक्षुष्मतोऽपि नेत्रमधिकम्। धनिनोऽपि अविनश्वरं धनम्। का कथा अन्धस्य दरिद्रस्य वा? ये खलु आलस्यपरतन्त्रा वा अतिक्रान्तगुरुशासना वा वाल्ये विद्यां नार्जयन्तिते निरन्तरमात्मानम् अनुशोचिष्यन्ति दुःखेनैव जीवनं यापयष्यन्ति च। किमधिकं विद्यया विहीनानां सम्यक् मनुष्यत्वमपिनोपजायते, अतःविद्यार्ज्जने आलस्यंनैव कर्त्तव्यम् अहोरात्रं विद्यानुशीलनमेव बालानां परमं तपः।

Q 2. :—Write out the Etymological meanings ofthe following words.

चन्द्रः संसारः, सूर्य्यः, राजा, पुत्रः, शास्त्रं, पण्डितः।

Ans 2 :—चन्दयति चन्द + रक्, आह्लादकर्त्ता। संसरति—संसृ+

घञ, जगत्, शरीरधारणम्। सरतीति सृ + क्यप्, सदागमनशीलः। सूयते इति वा सू+ क्यप् (निपातः) जगदुत्पत्तिकारणम्। राजते इति राज + कन्, दीप्तिमान्। पुत्रः (नरकविशेषात्) पुत् + त्रै+ डः। पुन्नामकनरकत्राणकर्त्ता। शास्तीति—शास् + ष्ट्रन्।

शासनकर्त्ता। पण्डा अस्यास्तीति पण्डा + इत। सदसद्विवेकी।

Q 3 :—Give the historical allusions of the2 names भागीरथीand जाह्नवी।

Ans 3 :—पुरा कपिलऋषिशापात् सगरसृताः भस्मीभूताः, तेषामुद्धरणाय क्षितौ गङ्गामानेतुं भगीरथस्तपस्तेपे, तामानिनाय च, अतएव सा “भागीरथी” हिमालयादवतरणकाले च गङ्गा जह्नुमुनिना पीता, तेन च पुनःजानुनः वहिष्कृता अतएव तदपत्यरूपत्वात् “जाह्नवी”।

Q 4 :—what do you understand by अवच्छेदे ७मी and निर्द्धारे ७मी।

Ans :—यत्किञ्चित् देशादिकं लक्षयित्वा गुणादिकम्प्रतीयते तत्रावच्छेदे सप्तमीयथा गुरुं चरणयोर्गृह्णाति। अयमुदरे स्थूलः इत्यादि। यत्र बहूनां मध्यात् क्रियागुणद्रव्यैः केचित् पृथक् क्रियन्ते तत्र निर्द्धारे सप्तमी। यथा गोषु कृष्णा बहुक्षीरा, गच्छत्सु रामोदुर्बलः।

Q 5:— Explain in simple sanskrit the followingsloka, and expound the Samases of the underlinedwords, showing their connection with विद्या & द्रव्यin the first line of the sloka.

सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम्।
अहार्य्यत्वात् अनर्घत्वात् अक्षयत्वाच्च सर्वदा॥

Ans 5:—सवद्रव्येषु सकलवस्तुषु मध्ये विद्यैव अनुत्तत्तमम् अत्युत्तमंद्रव्यं धनम् आहुः पण्डिता इति शेषः। (कथमिति) अहार्य्य-

त्वात् अपहरणायोग्यत्वात्, अनर्घत्वात् अमूल्यत्वात्, सर्वदा अक्षयत्वात् व्ययेऽपि परिपूर्णस्थितत्वात् (विद्यायाः) इत्यर्थः।

न हार्योऽहार्य्यःअहार्य्यस्य भावः तस्मात्। नास्ति अर्धःमूल्यंयस्य तस्य भावस्तस्मात्। नास्ति क्षयो यस्य तस्य भावस्तस्मात्। विद्या अत्युत्तमं द्रव्यं हिरण्यादिकन्तु तदपेक्षया निकृष्टं, यतः हिरण्यादीनामस्तिमूल्यनिर्णयः न तु विद्यायाः। व्ययेन हिरण्यादि क्षीयते न तु विद्या सापुनर्व्ययेऽपि प्रचीयते।

Q 6 :—Change the voice of the following.

के वदन्ति धार्मिकं त्वाम्। सा मामाह कृपापरा।

अपिते चरणौ मूर्द्ध्नास्पृशाम्येष प्रसीद मे।
कौशल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम्॥ वीरमाह्वयते वीरः। विश्वात्मा विश्वमसृजत।

Ans 6:—कैरुद्यसे धार्म्मिकस्त्वम्। तयाअहमूचे कृपापरया। अपि ते चरणौ मूर्द्ध्नास्पृश्यते अनेन मया।

कौशल्या वा सुमित्रावा त्यज्येतापि वा श्रीः॥ वीर आहूयते वीरेण। विश्वात्मना विश्वमसृज्यत।

Q7. Correct the following :—

कस्तेजानन्ति महिमाम्। देहि विप्रान् शतान् अश्वान्। सोदेवो भवता सेव्यम्। यो नो त्राता भवार्णवात्। विरमस्वासतःकर्म्मात्। सत्पन्थानं प्रतिष्ठत्वम्। गङ्गास्नातुं व्रजत्येषा।नवार्य्योभवतः प्रभोः।

मातर्य्युपरते बन्धो गच्छेर्भागीरथीतरम्।
मे वाक्यं श्रवणं कृत्वा विदधेत् तव चैन्मतम्।
नमस्त्वां पुण्डरीकाक्ष दीनमां रक्ष केशव।
मरिष्ये पतिना सार्द्धं न वियोगं सहाम्यहम्।
सवितां गगणे प्रेक्ष अर्जस्वविमलं यशम्।

Ans 7 :— के ते जानन्ति महिमानम्। देहि विप्राय शतमखान्। सदेवो भवता सेव्यः। यो नस्त्राता भवार्णवात्। विरम असतः कर्म्मणः। सति पथि प्रतिष्टत्वम्। गङ्गायां स्नातुं व्रजत्येषा। न वार्य्यो भवता (भवतः वा) प्रभुः, मातर्य्युपरतायांबन्धो गच्छेयं भागीरथीतटम्। मम वाक्यश्रवणं कृत्वा विदध्यास्तव चेन्मतम्। नमस्तुभ्यं पुण्डरीकाक्ष! दीनं मां रक्ष केशव!। मरिष्यामि पत्या सार्द्धंन वियोगं सहेऽहम्। सवितारं गगणेप्रेक्षस्व। अर्ज विमलं यशः।

Q 8 :— Make simple sentences with these verbs,separately :—

धावन्ति, हसति, रोदिति, आह, आरभते, मन्त्रयते, नृत्यति,चिन्तयति।

Ans :—शीघ्रं धावन्ति तुरगाः। असाधुं हसति साधुः। लब्धप्रहारश्छात्रः रोदिति। स मामाह। प्रातरारभतेऽध्येतुम्। लक्षणेन रामो मन्त्रयते। मयूर उदग्रीवं नृत्यति। शास्त्रं चिन्तयतिशिक्षकः॥

(क्रमशः )

_________

FOR F. A. STUDENTS.

<MISSING_FIG href=”../books_images/U-IMG-173201041563.jpg”/>

** ⇒**Questions with Answers on Raghuvansam asgiven by Pundit Haris Chandra kaviratna - professorof Sanskrit Literature, Presidency college, Calcutta..

Canto 1

** **Q 1. In what class of Sanskrit Literature is theRaghuvansam included? State some of the principalcharacteristics of that class. Account for the neutergender in the title of this book.

Ans :—“रघुवंशम्” साहित्य मेतत् महाकाव्ये अन्तर्भवितुमर्हति। तथा हि स्वर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम्। आशीर्णमस्क्रिया वस्तुनिर्द्देशो वापितन्मुखम्।

रघूणां वंशः रघुवंशः रघुवंशम् अधिकृत्य कृतम् पुस्तकम् इतिरघुवंशम् (रघुवंश ÷ अधिकृत्य कृतं ग्रन्थे” इति अण्) यहा रघूणां वंशविषयो यस्मिन् पुस्तके तत् रघुवंशम्।

Q 2 :— Expound the samasa in and explain themeaning of वागर्थ प्रतिपत्तये, सूर्य्यप्रभवः, प्रांशुलभ्ये, & कृतवाग्द्वारे। in the first four slokas.

Ans 2 :—वाक्च अर्थश्च तौ तयोः प्रतिपत्तिस्तस्यै। शब्दार्थज्ञानाय इत्यर्थः। प्रभवत्यस्मादिति प्र + भू + अल् (अपादाने) सूर्य्यः प्रभवे यस्य सः सूर्य्यादुत्यन्न इत्यर्थः। प्रांशुना लभ्यं तस्मिन्, दीर्घपुरुषग्राह्ये इत्यर्थः। वागेवद्वारं वाग्द्वारम्। कृतं वाग्द्वारं यस्मिन्विरचितवाक्प्रबन्धद्वारे इत्यर्थः।

Q 3 :—Give the Etymology of सम्पृक्तौ, तितीर्षुः &उड़ुप and Mention the derivative meaning of thelast word.

Ans 3 :—सं + पृच् + क्तः। तृृ + सन् + उः। उडु जलं तत्र पातिउडु + पा + डः। उडुपेन प्लवेन “भेला इति ख्यातवस्तुना इत्यर्थः”।

Q 4:—Explain in Sanskrit the 9th sloka.

रघूनामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्।

तद्गुणैः कर्णमागत्य चापलाय प्रणोदितः॥

** **Ans 4:—तनुवाग्विभवः तन्वीवागेव विभवः सम्पत्तिर्यस्य सः, अल्पवाक् सम्बलः अपि सन् भवन् अहं रघूणां अन्वयं गोत्रं वक्ष्येकथयिष्यामि, रघुवंशविवरणोचितविद्याहीनोऽपि इत्यर्थः, तत्कथं प्रवर्त्तसे? अत आह तद्गुणैरिति। तेषां रघूणां गुणा स्तैरघूणां शीर्य्यादिभिःकर्णं श्रुतिमागत्य उपस्थाय चापलाय सौखर्य्यय किञ्चिदपिकथयितुं प्रणोदितः प्रयुक्त इत्यर्थः॥

Q 5:—Describe in your own words the generalcareer of the Raghus, as stated in your text book.

Ans 5 :—रघुवंशीया गर्भस्था एव पित्रा गर्भाधानादि संस्कारेणात्मानः संस्क्रियन्ते। यावन्न फलमुत्पद्यते तावन्नारब्धकर्म्मणो निवर्त्तन्ते। चतुरब्धि वेष्टितां महींते शासति। ते देवलोकेऽपि रथेन विचरन्ति। याचकाय स्वाभीष्टं ददति। अपराधानुरूपं प्रजा दण्डयन्ति। रात्रेःशेषप्रहरे एव ते जाग्रति। वितरितुमेवार्थिभ्योधनं सञ्चिन्वन्ति। ते न बहु जल्पन्ति सुतरां सत्यवादिनः। शौर्य्यादिप्रभवं यशो विस्तारयितुमेव ते शत्रून् विजेतुमिच्छन्ति। पुत्रोत्पादनायैव ते स्वभार्य्यामुपयन्ति। वाल्य एव ते विद्यामभ्यस्यन्ति। यौवने ते विषयमुपभुञ्जन्ति। चरमे वयसि ते मुनिवृत्तयो वनमाश्रयन्ति। ध्यानधारणासमाधिमाश्रित्यैव परात्मनि मनः समाधायशरीरं जहति ते रघवः।

(क्रमशः)

____________

श्रीश्रीदुर्गा शरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-173201146647.jpg”/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्ती जनानिव।
जायाबलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी॥

<MISSING_FIG href="../books_images/U-IMG-173201155848.jpg"/>

वर्षावतरणिका।

श्रीश्रीमती संस्कृतवन्द्रिकेयंवर्षे तृतीये पदमर्पयन्ती।
पीयूषधारां गिरमुत्किरन्ती संखिह्यतामभ्युदयं सरन्ती॥

नववर्षोछ्वासः।

एकोऽद्य कालविपुलार्णवजस्तरङ्गः धौत्वामनांस्यपसृतः खलु पृष्ठतो नः।
आनन्दशोकजनिताश्रुभिराप्लुतानि लीलास्थलानि सुखदुःखमयस्मृतीनाम्॥१॥

छन्ने मनांसि तमसाऽप्यधुना पुरस्तात् दृष्टिंक्षिपन्ति हि मुहुर्वितथप्रयत्नाम्।
सुन्धावतीतविषयस्य भविष्यतोऽस्मिन् प्राप्तानि हीश्वरगतैःविविधैश्चभावैः॥२॥

चिन्ताधुना नयति को नवमत्तवाहान् आदाय रस्मिसकलैरिव धर्म्ममार्गम्।
त्यत्क्वाविशुष्कहृदयाग्रिकठोरदाहं गाढ़ंनिमज्जितुमही हरिचिन्तनाब्धौ॥३॥

आत्माधुना त्यजति तां विषमां सुषुप्तिं जिज्ञासते चसभयः सहसा प्रबुद्धः।
कीऽहं कुतश्चकथमत्र समागतोऽस्मिकिं नाम नूनमिह वा भुवनेऽस्ति कार्य्यम्॥४॥

कस्याज्ञया भ्रमयति भ्रममूढ़जीवान् संसारचक्रमतुलं नियतं विघूर्णत्?।
कस्येच्छयात्तिमलिना नलिनी दिनान्ते प्रातः पुनर्हसति साऽरुणरागयोगात्?॥५॥

कस्याज्ञया नियमितो चरतीह वायुः लोकांश्च नन्दयति गन्धसुशैत्यमान्द्यैः?।
संस्पृश्य सर्वहृदयस्य मुहुर्मुहुर्वै गूढं प्रदेशमथवा ह स कस्य वार्त्ता?॥६॥

कस्याज्ञयाऽखिलजनान् धरते धरित्री सिञ्चन्त्यपश्च सुखदाः खलु वारिवाहाः।
आकाशमार्गगतयो नियमेन नित्यं चैतन्यदस्य हि रवेः पथदर्शकः कः?॥७॥

गत्वा हि कस्य महतः परमाणुसाम्यं प्राप्नोति मानवमतेरवधिं समुद्रः?।
खं द्वादशार्कयुतपुष्करकम्पितान्तं रौद्रं विड़म्बयति कस्य वृथा प्रयत्नैः?॥८॥

स्नैग्धंकुतो विशति पूर्णशशाङ्ककान्तौ शीतामलोःपरिमलो मलयानिले च।
रूपस्य कस्य कमलं परमाणुमात्रं शक्तं न धारणविधी स्फुटति प्रभाते?॥९॥

संसारवह्णिगरलैर्ज्वलितान् प्रदग्धान् को वा नरान् जगति सान्वयतीह नित्यम्?।
सर्वत्रमानसहरींप्रविकीर्य्यशोभां मातेव खेलनगणैस्तनय रुदन्तम्॥१०॥

सिंहासनाञ्चभुवनस्य यदा तमिश्रं दृष्ट्वा क्रमादपगत ह्यरुणप्रभावात्।
दिग्वालिकाःसमुपयान्ति सहर्षरागाःधृत्वा करेषु विजयध्वजमङ्करम्यम्॥११॥

कोऽसौ तदा हि लतिकां लतिकां प्रगच्छन् तत्प्रेमभोगिजनमासनेत्रदृष्टः।
ऐश्वर्य्यदैर्निजकरैःकुसुमान्यसंख्यैः स्पृष्ट्वा विकाशयति तेषु निजास्य हास्यम्?॥१२॥

कोऽसौ तदा निभृतमेत्य वनान्तरालं प्रातः प्रबोधयति वा खचरानशेषान्?।
निःसार्य्यये बिभुगुणं कृशशीर्णकण्ठात् दिग्व्यापिनं जनगणं खलु लज्जयन्ति॥१३॥

श्वासेन कस्य च तदा विमलाम्बुराशिः सन्ताड़ितो भवति हेममयस्तड़ागः?।
हंसो हि यद्वपुषि सम्मदचारुनृत्यैःभक्तिं प्रमाति हि निजां विहगादनूनाम्॥१४॥

म्लानेऽपि चेतसि ममाखिलचण्डतेजः स्थानात् कुतो निपतितं भवति ह्यसह्यम्?
छाया रवेर्मनिलपल्वलपङ्कमध्ये नूनं यथातिचकितां कुरुते हि दृष्टिम्॥१५॥

पृष्टस्य सर्वविषयस्य निदानमेकं सूक्ष्मं हि कारणतया विपुलञ्च कार्य्ये।
विश्वस्वरूपममलं तमचिन्त्यकीर्त्तिं वन्दे विनीत-शिरसाद्य नवीनवर्षे॥१६॥

तस्मात् परं सुगुरुणा हि कृतज्ञतायाःभारेण नम्रहृदयैरभिवादनीयाः।
संसारकार्य्यभवने समरेषु विघ्नेः अस्माकमार्य्यतनुजाः खलु ये सहायाः॥१७॥

नेत्रे तएव नन्त ये परदुःखसिक्ते जिह्वा च सैव विमलाऽमृतभाषिणी या।
श्लाघ्यौकरौ च नितरां भवतीऽत्र लोके यौ जन्मभूमि-शुभदं कुरुतः सुकार्य्यम्॥१८॥

इत्थंविचिन्त्य हृदि देशजदेवभाषामुन्नेतुकाममनसोऽद्य वयं विमूढाः।
विस्मर्य्यते निजबलंखलु यैश्वकोरैःलक्ष्यीकृतेन्दुभिरही! न हि तेषु दोषः॥१९॥

कालस्य चञ्चलगतिर्विपुला च शक्तिः सर्वैः सदाऽप्रतिहताप्यनिरूपणीया!।शश्वद्भुवं स परिवर्त्तयति प्रभावात् क्रीड़ागृहं खलु यथा कुरुते हि बालः॥२०॥

योऽयं शनैर्विनशनाभिमुखं नयन्नः सर्वान् हि जीवनधरान् विगतोऽद्य वर्षः।
को वेत्त्यवाहयदसौकति वा श्रुधाराःहृद्दाहिकाश्च कति हर्षमयास्तरङ्गान्॥२१॥

वर्षो नवोऽपि पुरतश्च पटान्तराले कस्यापि नः सृजतिपुष्पमयींसुशय्याम्।
कस्यापि वातिहतभाग्यजनस्य चार्थे चिन्ताचितां ज्वलयितुं यतते ह्यदृष्टैः॥२२॥

पक्षीस्वभावचपलस्तनुपञ्जरस्थःको वेत्ति नाम सहसोड्डयिता कदाऽसौ?।
को वेत्तिरक्तवहने धमनी विरक्ता कोपाद्धरिष्यति कदा खलु सर्वशक्तिम्॥२३॥

विद्यादनिश्चयमही! नरजीवितानां प्राप्तञ्च तद्व्यवहरेत् शुभसाधनेषु।
नूनं पतिष्यति धराभिमुखं यदभ्रं श्रेयो न किं पतनमस्य हि शस्यभूमौ?॥२४॥

तस्मात् समाहृतबलान् हृदयान् स्वकीयान् उत्स्रष्टुमङ्घ्रियुगले निजजन्मभूमेः।
अस्माभिरिन्दुविमला ननु चन्द्रिकैषा सृष्टाद्य या विंशति साधु तृतीयवर्षे॥२५॥

‘क्षुद्रा कशाऽबलवतीत्यनुपेक्षणीया युष्माभिरार्य्यतनुजाः! ननु साश्रिता वः।
ज्ञातं न किं तनुतनूर्वहिरेति शैलात् स्नातस्विनी सुविपुलार्नवसन्निधौ या॥२६॥

मेघा यथा ददति नित्यमपःसरिद्ध्यःकुर्वन्ति ताश्च सुखदा मनुजेन्द्रियाणाम्।
यूयं तथाप्यनुदिनं ह्यभिषिञ्चमानाः स्नेहामृतं तनुत भो! तनुकान्तिमस्याः॥२७॥

स्नेहादिमां यदि च पोषय, भारतीयाः! वर्द्धिष्यते तनुरियं विमला हि काले।
पूर्णायतं नवसुयौवनमाश्रिता च कान्ता यथा मनसि वप्स्यति सूपदेशान्॥२८॥

धृत्वा तदोज्ज्वलतमां कमनीयतां साऽलङ्कारभूषिततनूरनुभावयुक्ता।
भातेह वेद शिरसा स्मृति वक्षसा च ज्योतिर्दृशा द्विविधकाव्यमयस्तनाभ्याम्॥२९॥

अस्या वचो यदधुना प्रियतां समेति बालस्य भाषितमिवास्फुटशब्दमात्रम्।
काले ह्यवाप्य वनिताजनगानसाम्यंमुग्धं करिष्यति भुवं कलकण्ठरागैः॥३०॥

तत् साधवोऽथ परिपोषितचन्द्रिकां वः सञ्चार्य्यजीवनवहां खलु शक्तिमत्याम्।
या भिन्न देशज-वची-विष मूर्च्छितां नः शुश्रूषते हि जननीं रुधिरैःस्वकीयैः॥३१॥

श्रीज्ञानशरणशर्म्मचक्रवर्त्तिनः।

_____________

गर्वपरिणतिः।

<MISSING_FIG href="../books_images/U-IMG-173201365386.jpg"/>

नाट्योल्लिखितजनाः16

रामचन्द्रः
सुरेशः
नीलाम्बरः
कृष्णदासः
कमला
शान्तिः
तुलसीदासप्रभृतयः

प्रथमोऽङ्कः।

<MISSING_FIG href="../books_images/U-IMG-173201392781.jpg"/>

रामचन्द्रस्य उद्यानसमीपस्थगृहम्।

कमला—रामचन्द्रवासीनौ॥

रामचन्द्रः। प्रिये! लक्षयतु तावत् सुरेशस्याचरणम्। असौ हि पुस्तकहस्तः पाठशीलमिवात्मानं दर्शयन् सगर्व उद्यानमध्येइतस्ततो विचरति। [ इति तर्ज्जन्या निर्द्दिशति]।सुन्दरि! सत्यं भणामि, एतादृशीमस्याकृतिं प्रकृतिञ्चालोच्य विभेमि। पाण्डित्याभिमानि-गर्वितपुत्रेभ्यो विनयीमूर्खोऽपि वरम्। न जानेऽसौअतःपरं किमनभिमतं दर्शयिष्यति।

कमला।बहुभिः स्तुतोऽसौ श्रुतो दृष्टश्च। कथमेवं ज्ञातमार्य्यपुत्रस्य।

रामः। न खलु लक्षयसि, कश्चिदसुं पाठशीलं पश्यति नवेतिदिदृक्षुरीषदाभुग्नग्रीव इतस्ततः सकटाक्षमवलोकयतीति।

कमला। नहि नहि स हि बुद्धिमत्तरः प्राप्तवयस्कः प्राङ्विवाकोऽपि भवितुमर्हतीति सदा तस्य शिक्षकः कथयति।

रामः। [ईषद्विहस्य] वृथादर्शिनि! बहुशोऽसौ परीक्षितः, अत एवं कथ्यते। स किमपि न वेत्तीति दृढ़मवगच्छ। पण्डिताभिमानि-विकृत-मस्तिष्क-पाठशीलेभ्यः कार्य्यपटुः श्रमसहिष्णुरपिवरम्; स एव समाजोपकृतये प्रभवतीति मन्ये। [अवलोक्य] असौइत एव आगच्छति, वयमपि स्वकार्य्यं साधयामः। [इति निष्क्रान्तौ]।

ततः प्रविशति पुस्तकहस्तः सुरेशः।

सुरेशः। [सभ्रूविक्षेपम्] शिक्षककृतस्तुतिवादतोऽपि प्रशंसार्हमिवात्मानं विभावयामि। अपि नाम कश्चित् मम मतेरियत्तामवगन्तुं समर्थोऽस्ति? न; —सम्यक्प्रणिहितचित्तेनापि तादृशः कश्चित् वैज्ञानिको दार्शनिको वा न लक्ष्यते, यो ममापि परीक्षकोभवितुमर्हतीति। [विमृश्य] यदा लोका मां पश्यन्ति पाठनिरतम्,न जाने तदा मनसि किमपि विभावयन्ति। अहं हि वृहस्पतिशुक्राचार्य्ययोरन्यतरो भविष्यामीति मन्ये। [पादशब्दमभिनीय] कश्चिदागच्छतीव। भवतु, पाठनिमग्नो भवामि। [इति काष्ठासनोपरि उपविश्य पाठे गाढ़निमग्न इव स्थितः]।

प्रविश्य कृष्णदासः। अपि कुशलमार्य्यस्य? महोदय ! न जानेकथं ममान्तरात्मा भवत्संसर्गलाभाय प्रस्फुरति। अधुनानुगृहाण मांसदालापेनेति।

सुरेशः। [क्षणं तुष्णीं स्थित्वा ग्रीवाभङ्गेन कृष्णदासमवलोक्यच]। कस्त्वम्?;—कृष्णः। नाहं द्वितीयमिच्छामि। यदैवाहं पाठनिमग्नो भवेयं तदैव त्वं विघ्नकरः। निर्बोधोऽसि। दूरमपसर। [इति कृष्णदासं निःसारयितुमुद्यतः]।

‘प्रविश्यापटीक्षेपेण—

रामचन्द्रः। कथममुं निर्बोधं जल्पसि?

सुरेशः। यतोऽयं किमपि न जानाति।

रामः। किमिति पदेन किं मन्त्रयसे? तवाविदितं बहुशोऽसौ विजानाति। किं बहुना बहुवत्सरान् त्वां शिक्षयितुं समर्थोऽस्ति।

कृष्णदासः। महामहिमानमभिवादये। अस्ति मे कश्चित्तातनियोगः। तमशून्यं विधाय पुनरागन्तुमिच्छामि। [इतिनिष्क्रान्तः।]

सुरेशः। [साश्चर्य्यंसगर्वञ्च] किमयं मामपि शिक्षयितुंसमर्थः?—अहमेवास्य शिक्षको भवितुमर्हामीति कथयतु भवान्। न जानेऽसौ मत्तः किमधिकतरं वेत्तीति। भवदुक्तोऽसौ चन्द्रं जिघृक्षोर्वामनस्यावस्थां प्राप्स्यतीति मन्यामहे।

रामः। वत्स! नासौ शाब्दिको वैज्ञानिको दार्शनिको वा; परं स्थिरबुद्ध्यालोच्यताम्, यदि त्वमद्य कृषिकार्य्यंवाणिज्यम्अन्यत् किमपि वा सांसारिकं कर्म्म कर्त्तुमादिष्टोऽसि तदानिश्चितमेव तादृशज्ञानलाभार्थं यंकमपि शरणमापन्नो भविष्यसि। यत उक्तम्,—

“सर्वःसर्वं न जानाति सर्वज्ञो नास्ति कश्चन।
नैकत्रपरिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित्”॥

परन्तु पश्य, कृष्ण इतः पूर्वात् तत् समग्रं वेद। अतः कथयामि कृष्णोऽपि त्वां शिक्षयितुं समर्थोऽस्तीति।

सुरेशः। पितः! सत्यमेतत्; परमालोड़िततर्कादिशास्त्रस्यबुद्धिरप्रतिहतेति दृढ़मवगच्छतु। अपरतश्च दृश्यतां यदा मे तादृशीदशा सम्भवेत्, तदा नाहमेतादृशसामान्यजनेन शिक्षितः स्यामितिमे दृढ़ा मतिः।

रामः। वत्स! कथं नेच्छसि समर्थादस्मादवगन्तुम्। किं नाधीतंत्वया,—

“नीचादप्युत्तमां विद्यां गृह्णीयात् कुशलो नरः”॥

इति महाजनवाक्यम्। वत्स! नैनमपरमिव द्रष्टुमर्हसि, भ्रातृबुद्धिमस्मिन् स्थापय। असौ चतुरः सच्चरित्रस्त्वत्समवयस्कश्च। यथास्य पिता मे प्रजा तथास्य पूर्वपूर्वपुरुषा अपि मे पूर्वेषां प्रजाआसन्। वत्स! किं बहूना अतःपरममुं स्नेहचक्षुषा सदा पश्यति ममाभिप्रायः। [इति निष्क्रान्तः।]

सुरेशः। [सशिरःकम्पम्।] पितुर्मे बुद्धिर्लुप्तप्रायेति तर्कयामि।निरक्षरोऽसौ मामप्युपदेष्टुमर्हतीति तस्य सिद्धान्तः। तेजो विहीनानामनुगतेषु भ्रातृबुद्धिरनुग्रता च प्रभुशक्तिं नाशयतीति न स वेद इत्येव मे मतिः। [अवलोक्य] कोऽयम्? [निरूप्य] स एवकृष्णः अत्र पुनरायाति। भवतु, अद्य तं विद्यावलेन तादृशं मुग्धंकरिष्यामि, यदतःपरं कदापि स मया सहालापमात्रमपि कर्त्तुं न साहसीभविष्यतीति।

प्रविश्य पुष्पस्तवकहस्तः।

कृष्णः। महोदय! अनुगृहाणैतानि करतलस्पर्शनेन।

सुरेशः। नहि नहि; न सन्त्येतेषु मालतीप्रभृतीनि मनोहरपुष्पाणि।

कृष्णः। सत्यम्; परमेतानि वन्यपुष्पाण्यपि सुदृश्यानि। ज्ञायन्तेकिमेतेषां नामानि तत्रभवता।

सुरेशः। किं प्रयोजनमेतेषां नामपरिज्ञानेन। ज्ञायन्तां भवादृशैर्वन्यैर्वन्यनामानि।

कृष्णः। उदिते भगवति मरीचिमालिनि चन्द्रे अधित्यकायादृश्यमतीव मनोहरं भवति। अद्य पूर्णिमातिथिः। इच्छामि भवतासह तत्र गन्तुम्।

सुरेशः। [साधिक्षेपम्।] अस्तु तावत् अधित्यकादृश्यम्।

कृष्ण! त्वया चन्द्रस्य नाम कथितम्; जानासि किम्परिमाणोऽसौचन्द्र इति?।

कृष्णः। [ससंभ्भ्रमम्।] कथं न जानामि; कस्यचित्तैजसपात्रस्येवास्य परिमाणम्।

सुरेशः। [विहस्य स्वगतम्।] निर्बुद्धेरस्य सादृश्यमपि नास्ति। [गम्भीरवदनात्मानं दर्शयन् क्षणं विचरति प्रकाशम] कृष्ण! पश्येदंसांख्यसूत्रम्। किमधीतं भवता? [ इति पुस्तकं प्रदर्शयति।]

कृष्णः। आस्तां तावदध्ययनकथा, न श्रुतमपि मया। अवलोकयामि तावत्।[इति ग्रहीतुमिच्छति।]

सुरेशः। मा, मा स्पृश॥ [इति कृष्णस्य हस्तं धृत्वा काठिन्यञ्चतस्याभिनीय।] किं लौहनिर्म्मितस्ते हस्तः?

कृष्णः। कथं हस्तस्य लौहनिर्म्मितत्वमनुभवसि? आर्य्य! यत्तुभ्यं रोचते तद्वद; परं दृढ़मवगच्छ, एतादृशभुजः कदापि अलसतां न सूचयतीति। क्षेमन्ते भूयात्, अधुना गन्तुमिच्छामि।

[इति निष्क्रान्तः।]

सुरेशः। कथं गत एव। यादृशं कर्म्मतादृशं फलमेव। अतःपरमयं कदापि मत्समीपमागन्तुं न प्रभवेत्। [विचिन्त्य] गच्छामि द्रष्टुंपितरौ मां पाठनिमग्नमवलोक्यकिं जल्पयत इति। [निष्क्रान्तः]।

प्रथमोऽङ्कः।

श्रीनन्दलालविद्याविनोदस्य।

________

प्रणतिः।

सहस्रशीर्षाय सहस्रचक्षुषे सहस्रपादाय सहस्रवक्षसे।
सहस्रपृष्ठाय महस्रजानवे नमोनमःसर्गलयैकहेतवे॥१॥

सहस्रविश्वस्य निदानतां जुषे सहस्रवक्त्वाय सहस्रपाणये।
सहस्रवर्ण-श्रुति-चर्म्मपायवे सहस्रदेहाय समन्ततो नमः॥२॥

दिवौकसामादितमाय भास्वते सदातनाय प्रभवेऽति रोचिषे।
विशालसंसारतङ्गवायवे मनोरमायेशतमाय ते मनः॥३॥

द्वितीयहीनाय सहस्रमूर्त्तयेवियत्स्वरूपाय दिगन्तसाक्षिणे।
चितेजगत् स्थावरजङ्गमात्मने नमः सदा सेवकभव्यहेतवे॥४॥

शमप्रियाय त्रिगुणात्मने सुते गुणैर्विहीनाय सदा सुखात्मने।
महत्त्व-सूक्ष्मात्व-जुषेपरात्मने नमोमनोऽगोचरदिव्यभूतये॥५॥

पयो-धरा-वायु-कृशानुमूर्त्तये विवद्दिवानाथ-निशेश्वरात्मने।
अट्टश्वभासे यजमानकान्तये नमोवचोऽतीतगुणैक सद्मने॥६॥

भवाख्य दावानल वारिराशयेविशालसंसारसमुद्रसेतवे।
कृपाययायाश्रित शान्ति हेतवे नमो नमः सेवककल्पशाखिने॥७॥

निपात्य संसार मये महाम्बुधादपुण्यदुष्टाशयकर्म्मणो जनान्।
समीक्षमाणाय चिरं विलासिने नमो नमो निर्ज्जरनित्यसेवित!॥८॥

अगोचराय श्रुतिधर्म्मशास्त्रयोर्महर्षिबुद्धेः कविकल्पनागिराम्।
अतन्त्रदृष्टायमहाविभूतये नमो नमोऽंशावृतविश्ववेश्मने॥९॥

अनन्त विश्वार्त्तिहराय वेधसे उपाधिमुक्ताय विमुक्तिहेतवे।
बुद्धाय दिव्याय दिवौकसाश्रये नमो नमो दुष्कृतधूमकेतवे॥१०॥

दयामयायाश्रितदुःखहानितः, शिवाय कल्याणविधानती, हरे!।
प्रवेशनाद्विश्वजनस्य विष्णवे, नमः प्रपन्नार्त्ति विनाशकृद्गुरी!॥११॥

वसुन्धरोपद्रवकारिजीविनां जनार्दनाय प्रचुरं प्रमर्दनात्।
प्रजा कुलोत्पादनसाधनात्तु ते पितामहायागणितं नमो नमः॥१२॥

अणीयसेऽणोर्महतां महीयसे स्थवीयसे स्थूलतनाद्दवीयने।
विदूरतश्चिन्मयमूर्त्तये गुरोर्गरीयसे विश्वमयाय ते नमः॥१३॥

यधीयसे यून उरोवेरीयसे पटीयसे श्रीधृति साधने पटोः।
विकल्पराहित्यजुषे सवर्ल्लमे नमो नमो दीपितविश्वतेजसे॥१४॥

प्रियात् प्रियायान्तिकसम्पदेऽन्तिकात् प्रमोदरूपाय समान दृष्टये।
भवौषधायाश्रितजीवनाय ते सुखाय नित्याय जगद्भुते नमः॥१५॥

अहेतुकायाऽपि च विश्वयोनये प्रभामयायाऽप्यविदृष्टमूर्त्तये।
अमूर्त्तये मूर्त्तिमते च हे गुरो! गुणाश्रयायाऽप्यगुणात्मनेनमः॥१६॥

अमायिकायापिसुरेश! मायिकप्रधानदेवाय समस्त सृष्टये।
निराश्रयायापि चराचरात्मकजगच्छ्रयाय त्रिगुणात्मने नमः॥१७॥

अनीहमानाय जगत्स्थितेर्हृतेः समीहमानाय सुखाय वाग्मिने।
सुपूर्णकामाय भवाध्विसेतवे जगन्नियन्त्रेगुरवे नमो नमः॥१८॥

सुखस्वरूपाय सुखैकवेश्मने महानुभावाय विशालनीतये।
सदा शरण्याय वरेण्यताजुषे चिरस्थिताय प्रभवे नमो नमः॥१९॥

वसुन्धरायां सलिले प्रभञ्जने वियत् कृशान्वोः सकले कलानिधौ।
विराजते हेहर! वासवेश्वरे सहस्रशस्तुभ्यमहो नमो नमः॥२०॥

लतासु पुष्पेषु फलेषु शाखिषु रसेषु गन्धेषु गुणेषु तिष्ठते।
जनेषु चित्तेषुमुखेषु हे गुरो! नमो नमो भक्तमनो विहङ्गम!॥२१॥

गृहेषु हर्म्म्येषु सरःसु पक्षिषु नदीषु जीवेषु तठेषु जीविषु।
मृगेषु सत्त्वेषु महीधरेष्वपि स्थिताय तुभ्यं हरये नमो नमः॥२४॥

सुमेरुशृङ्गेषु समुद्रवीचिषु सुरेषु पुण्येषु महानहर्षिषु।
नृपेषु रत्नेषु कलासु सानुषु स्थिताय हे विश्वगुरोनमो नमः॥२३॥

विपाककर्म्माशय वर्जितो भवानसंवृतः क्लेशसुखेन शक्तिमान्।
गणैरतीतः प्रणवेन बोधितो जगद्विधात्रे गुरवे नमो नमः॥२४॥

(क्रमशः।)

श्रीअन्नदाचरण तर्कचड़ामणिः।

_________

पल्लिच्छविः।

<MISSING_FIG href=”../books_images/U-IMG-173193638580.jpg"/>

“महाभाग! ब्रवीषि किं कतमेन मार्गेण * * * पुरं गन्तव्यम्” इति काचन मधुरवाणीकदाचित् रजनीयामे राजवर्त्मपरिभ्राम्यतोनानाचिन्तापर्य्याकुलचेतसो मम श्रुतिविवरं प्रवेशमलभत। अथैतावत्यामपि विभावर्य्यां कुतोऽयमवलाजनोचित-वाङ्निष्यन्दइति कुतूहलाक्षिप्तहृदयेन मया यावल्लोचने तद्दिशंप्रेषिते तावदेवकाचन तरुणे वयसि वर्त्तमाना जीर्णे वसने वसानापि स्वभावसौन्दर्य्येण तद्देशमशेषमुद्भासयन्तीव कन्यका मन्नयनयोः प्रत्यक्षं गता। तान्तु तस्मिन्नेव समये तदवस्थामालोक्य स्वत एव मन्मनस्यजायत“नूनमियं कस्यचन दीनतापीड़ितस्य अङ्गन-लतिका” इति।

ततस्तत् सकाशमागत्यापृच्छम् “भद्रे, कुत आयातासि? किमिति सुदूरमुपगते भगवति कुमुदिनीवल्लभे त्वमशरणा स्वभवनाद् वहिर्भवसि? त्वदभिहितमार्गो हि इतः सुदूरमवस्थितः। तत् कथय यदि न रहस्यं कथं वा तत्र गमनानुबन्धासि?” ततो मद्वचनमाकर्ण्य सा त्रासगद्गदमवादीत् “महानुभव! सुदूरदेशादागतास्मि। अधुना स्वावासो गन्तव्यः। सहसा मार्गभ्रान्त्या भीतास्मि, तत् पृच्छामि भवन्तं तदवगत्यर्थमिति। ततो विरतायां कन्यकायां तदाकृतिमालोकयन्नहं कृपापरवशस्तामपृच्छम् “वत्से! अयि ध्रियेते ते पितरौ?” “न स्तः महानुभव!” इति प्रत्यवादीत् वाष्पलवमण्डितवदना बाला। “तत् केन त्वम् इयत्यामपि रजन्यां दूरदेशं प्रेषितासि? नूनं स त्वां न स्निह्यति।” इति मया पृष्टम्।तयोक्तम् “आर्य्य! मदीयेन पितामहेन मदेकशरणभूतेन प्रेषितास्मि। स तु मां स्वस्मादपि जीविताद् अधिकतरं स्निह्यति।”

मयोक्तम्। “अथाहं त्वया पृष्टं पन्थानं न कथयामि?” ततस्तया मदाननसंमुखीनया अपाङ्गलोचनयोक्तं— “भवतैव वर्षीयसा अनृतवाचा न भूयेत।” मया सोत्साहेनोक्तं“वत्से! कुत इयतीते वर्षीयसि भक्तिः?” सरलोवाच “यतो मदीयो पितृतातोऽपि वर्षीयान्”। इत्यभिदधानायास्तस्याः सरलतया परिमुग्धहृदयस्तया सह * * *पुराभिमुखमहं प्रस्थितवान्। सा च सरला चिरसंस्तुतजनवत् मदीयं पाणिंगृहीत्वा गच्छन्तौ नानाकथाप्रसङ्गेन अपनीताध्वखेदा अचिरेण स्वावासं प्राप्तवती। ततः स्वनिकेतनालोकनेन परमप्रीता उत्प्लुत्येव स्वं प्रकोष्टं प्रविश्य पितामहं प्रणतवती। अचिरेणैव प्रत्यागत्य पितामहानुगता मामध्वखेदापनयनार्थं तां रजनीं तत्र यापयितुमनुरुद्धवती। अथाहं तदीयां विचित्रां कथां जिज्ञासुः तद्गृहं प्रविष्टः तत्र तद्विषयि-नानाकथाप्रसङ्गेन कालञ्च कियन्तं क्षपितवान्।

तयोः कुटीरकं बालिकावस्त्रमिव जीर्णमपश्यम्। तदालोकने स्वत एव मनसि जायते यथासौ महता कृच्छ्रेण जीविकां यापयति। तद्विलोकयतो मे अतर्कितमेव लोचनयुगलं वाष्पपरिगतमभूत्। किन्तु तस्य पश्चिमे वयसि वर्त्तमानस्य शैवलिन्या वृद्ध-पितृतातस्य वक्त्रे कापि मलिनता नादृश्यत। लोकोत्तररमणीया सुशीला शैवलिनीएव तस्य सर्वसम्पत्। तदाननविलोकनादजायत सर्वेषामस्य क्लेशानामुपशान्तिः। न च शैवलिनीमनसि विशालेऽस्मिन् संसारे पितृतातं विना किमप्यन्यत् पदं लेभे। ततो बाला कालेन कियता पाद्यार्घ्यादिना मामर्च्चितवती। अहन्तु कार्य्यगौरवाद् अकामोऽपि बालाञ्च वृद्धञ्चामन्त्र्यस्वगृहं प्रस्थितः पथि तद्विषयमेवाकलयन् सुचिरेण गन्तव्यं प्राप्तः। ततो मन्यसि अजायत “अहो विधेर्नियोगः। दरिद्रावास एव शान्तिनिकेतनम्। धन्योऽयं स्थविरो य एवं विधेन कन्यारत्नेनालङ्कृतः। धन्या दरिद्रता या एवं भूता शान्तिपरिपूरिता।

ततो विषयिजनसहभव विविधनियोगवशात् अतिदवीयस्तया च तस्य प्रदेशस्य उत्सुकतापरवशोऽपि कियच्चिरमहं तदालोकनवञ्चित आसम्। अथ संवत्सरादूर्द्ध्वमेकदा तदावासं प्रविष्टः “भद्रमुख! अलं कलकलेन। मदेकजीवितभूता वत्सा शैवलिनीनितरां मदर्थं परिश्रान्ता अधुना निद्रावशं गता। मा अस्याः शान्तिमपनैषीः” इति स्थविरेण तेन उन्मत्तप्रलापिनाभिहितः किमपि निर्नेतुमशक्नुवन् परमकुतूहलाविष्टः ततो निर्गत्य कस्यचनतत्पल्लिनिवासिनो मुखात् यदशृणवम् तेनैव दीर्य्यमाणहृदयो गृहं प्रत्यगच्छम्।

एतद्दरिद्रजनेतिवृत्तं साधुजनश्रवणार्हमिति मत्वा पाठकेभ्य उपहारीक्रियते। नावगच्छामि जगतो विश्रुतपुरुषेतिवृत्तपरितृप्तस्य पाठकस्य एतत् निभृतपल्लिवासिनो जनस्य चरितं समयिष्यति न वेति।

२। वृद्धेतिवृत्तम्।

अस्ति वङ्गेषु * * नाम नगरम्। तत्र * * नाम्नी पल्लिरस्ति। आसीत्तत्र अष्टादशशताब्द्याःपश्चिमे भागे कश्चन वर्षीयान् विपुलधनवान् अतीववदान्यः शास्त्रानुशीलनप्रेमीकायस्थवंशप्रभवः * * अभिधानः। स च सततं शास्त्रकुशलैः सुधीजनैः वरिवृतो दानरतः पल्लिवासिनां परांस्नेहास्पदतां लेभे। अथ कालेन कियता विगुणतया ग्रहस्य तस्य धर्म्मात्मनो आकाण्ड एव विभक्षयः सञ्जातः। क्रमेण च पुत्रपौत्रैरपि विरहतामलभत। परिशेषम् एकैव शैवलिनी आत्मजनन्दिनीवृद्धस्य दैवविड़म्बितस्य करयष्ठिरिवासीत्। ततः क्षयावशिष्टेन धनेन प्राणाधिका शैवलिनीपरिगतो वृद्धः पल्लिप्रान्ते कस्मिंश्चित् पतनोन्मुखे कुटीरे वासं जग्राह।

अहोग्रहविगुणतायाः प्रकारः। अत्रापि स केनचन विप्रलब्धहृतसर्वस्वो वञ्चकेन बभूव। तद्गृहमपि तस्मिन् निक्षेपवद्धमासीत्। एतावतापि दुराचरणेन स पापो न विरराम। सहि सततमतिनिष्ठुरया गिरा तमाधिकृशं क्षतेक्षारमिवादहत्। अनन्योपायो वृद्धः कदाचित् तं प्रीणयितुं स्वलिखितया विनयपत्रिकया शैवलिनीं तत्सकाशं प्रेषितवान्।

धूर्त्तोऽसौकामपालो वामनः कदाकारश्च आसीत्। तदवयवः ग्राम्यबालानां भीतिकारणतां गतः। नासीत् विशाले अस्मिन् संसारे एवं किमपि कदनुष्ठितं यत्कामपालसकाशे अकार्य्यमभूत्। भार्य्यायां पुत्रवत्यां जीवन्त्यामपि सुन्दरीं शैवलिनीं परिणेतुमियेष धूर्त्तः। पितामहसन्देशं गृह्णन्तीमेनां पाणिग्रहणप्रस्तावेन निरन्तरमदहत्। सा तु नीरवा तदुवाग्वाणमशेषमसहत।

(क्रमशः।)

श्रीउपेन्द्रनाथरायः।

_________

धर्म्मविवेकः।

( १८१६ शाकीय माघपत्रिकायाः २४० पृष्ठतः )

आगत्य वामापदः। गुरुचरणकमलेभ्यो नमः। इति साष्टाङ्गं प्रणम्य स्थितः।

शिवः। वत्स! वामापद! इतो निषीद। कुशाशनमेतत् जीर्णंस्खलितप्रायं, नास्ति चापरं सन्निहितम्।

वामा। (गलवस्त्रेण कृताञ्जलिः) गुरवः! भगवच्चरणरेणुपूतंपदोपान्तभूतलमपि विड़म्बयति महेन्द्रासनमिति का कथा जीर्णकुशाशनस्य। इति विनयमधुरमुक्त्वामृदि किञ्चिदास्तीर्य्य उत्तरीयैकदेशं तत्रैव क्षितितलनिहितजानुयुगलः भक्तिनम्रश्चोपाविशत्।

शिवः। वत्स! विविधेन प्रत्यूहेन धर्म्मविवेकं व्याख्यातुं नाशक्नुवम् माघमासः परतः। श्रूयतामद्य कथञ्चिद्वक्ष्यामि। क्रियन्तं व्याख्यातं धर्म्मविवेकम् आ एवं किं मन्यसे?

वामा। आ एवं नुतत् स्मरामि। महर्षिकणादेन सूत्रितं “यतोऽभ्युदयनिःश्रेयससिद्धिः सधर्म्मः” इत्येवं धर्म्मलक्षणमात्रमुक्तम्।

शिव। अधुना तदर्थो व्याख्यायते श्रूयताम्। “यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्म्मः”—अस्यार्थः—यतः यस्मात्। अभि—सम्यक् सर्वतो भावेन। उत् ऊर्द्ध्वम्, अयः गमनम्, अभ्युदयःऊर्द्ध्वगतिः उन्नतिः इति यावत्। निर्नास्ति श्रेयो मङ्गलं यस्मात् तत् निःश्रेयसं यत् परं नास्ति मङ्गलं निर्वाणः। तयोः सिद्धिर्निष्पत्तिः स धर्म्मःधर्म्मपदवाच्यः।

यत इत्यनेन निर्दिष्टः कश्चिदप्यर्थो नाभिप्रेतः। यतः यस्मात्, कस्मात्? परपीड़नादेः पररक्षणादेर्वानैवं विवक्षितम्। तत्तु विचारसापेक्षम्। यदि परपीड़नादेव अभ्युदयनिःश्रेयससिद्धिर्युक्त्या उपपद्यते तदा स एव धर्म्मः। यदि वा तद्विपरीतात् पररक्षणादेवात्मोन्नति निःश्रेयससिद्धिर्युक्त्या युज्यते तदा स एव धर्म्मो भविष्यति।

किन्तु परहिंसादिना आत्मोन्नतिर्मोक्षश्च सिध्यति इति तु शास्त्रयुक्तिविरुद्धन्। परन्तु पररक्षणादिनैव तत् सिध्यति इति शास्त्रयुक्तिरुच्चैरुच्चरति। तत्तु अग्रे वक्ष्यते।

वामा। गुरवो ब्रुवन्ति अभ्युदयो नाम उन्नतिः अत्र आत्मन एवेति तात्पर्य्यम्। यद्यात्मोन्नतिरेवात्राभिमता तदा पशुपक्ष्यादीनामप्युन्नतिः किमनेन शास्त्रेण विचार्य्यते?

शिवः। नैवम्, शास्त्रन्तु लोकाधिकृतम् अतः मानवमुद्दिश्य शास्त्रं प्रवर्त्तते तस्यैव मानवस्य उन्नतिरत्रावधार्य्यताम् न तु पशुपक्ष्यादेः।

आत्मन उन्नतिस्तु सत्त्वोद्रेकीभावः ज्ञानोकर्षश्च। सति ज्ञानोत्कर्षे श्रेष्टोभवति सर्व इति लोकः प्रमाणम्। तथाहि निरक्षरेभ्य पांशुलपादेभ्यः साक्षरा जना श्रेष्ठाः। साक्षरेभ्यो विद्वांसः विद्वद्भ्यः पण्डिताः, पण्डितेभ्यः ऋषयः ऋषिभ्यो देवाः देवानामपि हरिहरविरिञ्चयः श्रेष्ठाः केवलं ज्ञानोत्कर्षादेव।

तस्या एव ज्ञानोन्नतिरूपाया आत्मोन्नत्या यतः सिद्धिः स धर्म्म इति। तमेवाभ्युदयं खल्वाभिमुख्येनाप्तुं यतते पुरुषः यतमानश्चाप्नोति। निःश्रेयसं नाम निर्वाणः। तस्मात् श्रेयोऽन्यत् नास्ति। निर्वाणे खल्वधिगते सर्वमन्यत श्रेयः परिसमाप्यते। कृतकृत्यश्च पुरुषो भवति। न तस्य किञ्चित् कर्त्तव्यमवशिष्यते वा लब्धव्यमिति। कणादेन यतोऽभ्युदयनिश्रेयससिद्धिरित्यने सर्वलोकेषु साधारणधर्मो लक्षितः। न तु विशेषः।

(क्रमशः।)

_______

तत्त्वप्रपञ्चः।

( १८१६ शाकीय माघपत्रिकायाः २३६ पृष्ठतः )

तथाहि निखिलब्रह्माण्डोपादानभूतमव्यक्तं प्रकृतिरेव॥१॥नास्य प्रकृत्यन्तरमस्ति यथा घटस्य मृदिति। अतएव सा मूल-

प्रकृतिरुच्यते। महान् अहङ्कारः शब्दतन्मात्रं स्पर्शतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति सप्त केषाञ्चित् प्रकृतयः केषाञ्चित् विकृतयश्च भवन्ति। तथाहि महत्तत्त्वमहङ्कारस्य प्रकृतिः विकृतिश्च मूलप्रकृतेः। एवमहङ्कारः तन्मात्राणामिन्द्रियाणाञ्च प्रकृतिर्विकृतिश्च महतः। एवं शब्दतन्मात्रादीनि पञ्च तन्मात्राणि महाभूतानामाकाश-पवन-दहन-सलिलपृथिवीनां पञ्चानां प्रकृतयः विकृतयश्च अहङ्कारस्य॥२॥पञ्चमहाभूतानि एकादशेन्द्रियाणि च केवलं विकृतय एव न केषाञ्चित् प्रकृतयः॥३॥

अथ किमित्युक्तं“पञ्चमहाभूतानि एकादशेन्द्रियाणि च केवलं विकृतय एव न तु केषाञ्चित् प्रकृतय” इति। यतः आकाशात् शब्द उत्पद्यते इत्याकाशः शब्दस्य प्रकृतिर्भवतु। वायोः स्पर्शो जायत इति वायुः स्पर्शस्य प्रकृतिर्भवतु। वह्नेःस्वर्णादयो धातवो जायन्त इति वह्निः स्वर्णादीनां प्रकृतिर्भवतु। एवं वीजरूपायाः पृथिव्या वृक्ष उत्पद्यते वृक्षात् काष्ठफलकः फलकात् नौकाप्रभृतय इत्येवं प्रत्येकमपेक्षया पञ्चमहाभूतानि इन्द्रियाणि च प्रकृतयो भवन्तु। नैवम्, कथमिति? अत्र तत्त्वान्तरो पादानत्वमेव प्रकृतित्वमित्येवं स्वीकारात्।

आकाशात् शब्द उत्पद्यते परन्तु नायमाकाशात् तत्त्वान्तरम् अत आकाशः शब्दस्य न प्रकृतिरूपेण व्यवह्रियते। अत्र सर्वेषामाकाशादीनां स्थूलत्वादिन्द्रियग्राह्यता च समा इति न तत्त्वान्तरत्वम्।

अप्रकृतिविकृतिस्तु पुरुष एव। नास्मात् किञ्चिदुत्पद्यते इति न प्रकृतिः। नायं वा कस्माच्चिदुत्पद्यत इति न विकृतिः इति पुरुषोऽनुभयरूप इति। एतच्च सर्वमुपरिष्टादुपपादयिष्यते इति।

(क्रमशः)

___________

FOR F. A. STUDENTS.

<MISSING_FIG href=”../books_images/U-IMG-173149984962.jpg"/>

⇒ A Paper, on Sanskrit Grammar, given by Baboo Upendra Nath Ray B. A, professor of Sanskrit Literature, Century college, Calcutta.

<MISSING_FIG href="../books_images/U-IMG-173149987063.jpg"/>

SAMASA.

When two or more words of different significations are united together to form a single word, the union is called a समासःor compound समासःlit. means an aggregation i. e. the aggregation of two or more words to form one compound word. Thus the two words राज्ञःand पुरुषःbecome राजपुरुषः (a single word) when we compound them. (समसनं समासः। भावे घञ्। अनेकस्य पदस्य एकपदीभवनमित्यर्थः इत्येके।)

In a compound, the first and all the intermediate words drop their case-affixes; as राज्ञःपुरुषःbecomes राजपुरुषः सिंहाश्च व्याघ्राश्च हरिणाश्च becomes सिंहव्याघ्रहरिणाः।

CLASSIFICATION OF COMPOUND WORDS.

Samasas are at first divided into two main classes viz (A) केवलः समासःi e. सुप्सुपेति समासः; as पूर्वं भूतः= (भूतपूर्वे चरतीति निर्देशात् भूतपूर्वः भूतशब्दस्य पूर्वनिपातः),

जीमूतस्य इव= जीमूतस्येव (इवेन सह समासो विभक्त्यलोपश्च),न एकधा17")= नैकधा (नैकधेत्यादौ तु नशब्देन सह सुप्सुपेति समासः)। (B) विशेषःसमासः। It is again divided into four classes viz (1) अव्ययीभावः(2) तत्पुरुषः (3) बहुव्रीहिः and (4) द्वन्द्वः।

(१) अव्ययीभावः समासः।

An indeclinable (अव्ययं) is compounded with declinable words, with which it may be compounded. (अव्ययं समर्थेन सुबन्तेन सह समस्यते।) This form of compound is called an indeclinable compound. In the indeclinable compound the अव्यय precedes the declinable; as दिशोर्मध्ये = अपदिशम्। अव्ययीभाव a compound may be both नित्य (अस्वपदविग्रहः) and अनित्य (स्वपदविग्रहः), as कृष्णस्य समीपं= उपकृष्णम्; मद्राणां समृद्धिः =समद्रम्; हिमस्य अत्ययः= अतिहिमम्। रूपस्य योग्यं= अनुरूपम्; हरीइति अधिहरि; तटे इति अधितटं; तृणमपि अपरित्यज्य = सतृणम् (नित्याः) गङ्गायाः अनु= अनुगङ्गं(As long as the ganges); गङ्गायाः पारः= पारे गङ्गम्; तिष्ठन्ति गावो यस्मिन् सः= तिष्ठद्गु (the time of milking); अर्थं अर्थं प्रति= प्रत्यर्थम्; वनात् वहिः = वहिर्वनम्; बालेभ्यः आ = आबालं (अनित्याः)।

Words formed by the अव्ययीभाव compound, become अव्यय (indeclinable) अव्ययीभावश्च इति सूत्रात्)। But words of the compound ending in अ have, not their

case-affixes elided. They have अम् added to the end in all the case-affixes except in the पञ्चमी; and in the तृतीया and सप्तमीboth the forns are allowed to take place optionally. (नाव्ययीभावादतोऽम् त्वपञ्चम्याः। २।४।८३ अदन्तात् अव्ययीभावात् सुपो न लुक्, तस्य पञ्चमीं विना अमादेशश्च स्यात्। तृतीयासप्तम्योर्बहुलम्। २।४।७४); as अपदिशम् (1st), अपदिशम् (2nd), अपदिशेन or अपदिशम् (3rd), अपदिशम् (4th), अपदिशात् (5th), अपदिशम् (6th) अपदिशे or अपदिशम् (7th).

(२) तत्पुरुषः समासः।

The तत्पुरुष compound may be both (1) व्यधिकरण and (2) समानाधिकरण। When the former word of the compound is of different विभक्तिfrom that of the latter, it is called व्यधिकरण as opposed to समानाधिकरण in which both the words are of the same विभक्ति (तत्र भिन्नविभक्तिकपदघटितो व्यधिकरणः) This व्यधिकरणतत्पुरुष is again of two kinds viz (a) नित्यव्यधिकरणतत्पुरुष and (b) अनित्यव्यधिकरणतत्पुरुषः।

  1. (a) नित्यव्यधिकरणस्तत्पुरुषः।

  2. सुवन्तः नित्यसमासः (अस्वपदविग्रहोऽविग्रहो वा नित्यसमासः); as द्विजाय अयं= द्विजार्थः; अतिक्रान्तो मालां= अतिमालः; अवक्रुष्टं कोकिलया= अवकीकिलं वनम्।

  3. कृदन्तनित्यसमासः; as प्रकर्षेण नीतः= प्रणीतः; दुःखेन जेयः= दुर्जेयः; कुरुषु चरति = कुरुचरः;द्वाभ्यां पिबति= द्विपः;दूरं पश्यति= दूरदर्शी।

  4. (b) अनित्यव्यधिकरणतत्पुरुषः।

  5. प्रथमातत्पुरुषः—पूर्वं कायस्य= पूर्वकायः; अर्द्धंपिप्पल्याः अर्द्धपिप्पली;* (They are also called एकदेशिसमास, as they denote some member (अवयव) of the whole body).

  6. द्वितीयातत्पुरुषः— कृष्णं श्रितः= कृष्णश्रितः; दुःखमतीतः=दुखातीतः; अन्नं बुभुक्षुः= अन्नबुभुक्षुः, मुहूर्त्तं सुखम्= मुहूर्त्तसुखम्।

  7. तृतीयातत्पुरुषः—मासेन पूर्वः=मासपूर्वः; मात्रा सदृशः = मातृसदृशः; धान्येन अर्थः = धान्यार्थः (ततीयातत्कृतार्थेन गुणवचनेन इति सूत्रात्) नखैः भिन्नः= नखभिन्नः (कर्त्तृकरणे कृताबहुलम्)।

  8. चतुर्थीतत्पुरुषः — यूपाय दारु = यूपदारु (तदर्थेन प्रकृतिविकृतिभाव एव वोध्यः — अतः अश्वघासादिवत् रन्धनस्य स्थाली and not रन्धनाय स्थाली), भूतेभ्यो वलिः= भूतवलिः ; गोभ्योहितम्= गोहितम्।

  9. पञ्चमीतत्पुरुषः — चौरात् भयं= चौरभयम्; पापेभ्यः अपेतः= पापापेतः।

  10. षष्ठीतत्पुरुषः — राज्ञः पुरुषः = राजपुरुषः; नराणां पतिः = नरपतिः। सर्वेषां श्वेततमः = सर्वश्वेतः; सर्वेषां महत्तरः = सर्वमहान् (न निर्द्धारणे इति पूरणगुणेति च निषेधस्य प्रतिप्रसवोऽयम्); भुवनस्य धरः = भुवनधरः(and not भुवनं धरतियः सः)।

  11. सप्तमीतत्पुरुषः — कर्म्मणि कुशलः =कर्म्मकुशलः, अक्षेषु शौण्डः = अक्षे शौण्डः वा अक्षशौण्डः, त्वयि अधीनं = त्वय्यधीनं वा त्वदधीनं (अधिशब्दस्य शौण्डादिकत्वात् सप्तमीशौण्डैःइति समासः) कपालयोः सिद्धः = कपालसिद्धः।

  12. समानाधिकरणतत्पुरुषः।

समानाधिकरणतत्पुरुष may be both (a) नित्य and (b) अनित्य।

  1. (a) नित्यसमानाधिकरणतत्पुरुषः।

1कृदन्तनित्यः — as उत्तानःशेते = उत्तानशयः; पूर्वःसरति पूर्वसरः।

  1. सुवन्तनित्यः — कुत्सितः पुरुषः = कुपुरुषः; कुत्सितःअश्वः = कदश्वः; कुत्सितः सखा= किंसखा; अपगतः धर्म्मः = अपधर्म्यः। चिदेव = चिन्मात्रम्।

  2. संख्यापूर्वनित्यः — सप्तऋषिसंज्ञकाः=सप्तर्षयः (दिक्संख्ये संज्ञायामिति सूत्रात्)।

*2. (b) अनित्यसमानाधिकरणतत्पुरुषः।

It is of two kinds viz (X) नञ् तत्पुरुषःand (y) कर्म्मधारयः तत्पुरुषः।

(X) नञ् तत्पुरुषः — न ब्राह्मणःअब्राह्मणः; न अश्वः = अजश्वः (न लोपो नञः। ६।३।७३ and तस्मान्नुचि। ६।३।७४। अपि तु अर्थाभावे (i. e. अभावे अर्थे द्योत्ये) अव्ययीभावेन सह अयं (नञ् तत्पुरुषः विकल्प्यते।) तथाच निन्दायां नञो नस्य लोपः स्यात् तिङन्ते परे; यथा, अपचसि त्वं जाल्म। नक्र, नाक, नग, नकुल, नख, नपुंसक, नक्षत्र, नस्र, नासत्म्य, नमुचि &c are formedby निपात in the नञ् तत्पुरुष compound.

(y) कर्म्मधारयसमासः।

(I) केवलकर्म्मधारयः— (a) The compound that is formed between a noun and an adjective; as नीलम् उत्पलं = नीलोत्पलम्; sometimes there is no विग्रहःवा व्यासवाक्य and it is then called नित्यकर्म्मधारयः as कृष्णसर्पः (विशेषणं विशेष्येण बहुलम्। २।१।५७। बहुलग्रहणात् क्वचिन्नित्यम्।

कृष्णसर्पः)। (b) There are certain cases in which the adjective follows the substantive it qualifies; as मयरव्यंसकः (धूर्त्तमयूरः)।

(2) उपमानकर्म्मधारयः—शङ्ख इव पाण्डः = शङ्खपाण्डः; घन इव श्यामः = घनश्यामः (उपमानानि सामान्यवचनैः। २।१।५५)।

(3) उपमितकर्म्मधारयः — पुरुषः व्याघ्र इव = पुरुषव्याघ्रः (उपमितं व्याघ्रादिभिः सामान्याप्रयोगे। २।१।४६। सामान्या प्रयोगे किम्। पुरुषो व्याघ्र इव शूरः।)

(4) विषयपूर्वपदः —घट इति शब्दः = घटशब्दः (घटविषय वा शब्द इत्यर्थः); देवा इति बुद्धिः = देवबुद्धिः(देवविषयिणी बुद्धिरित्यर्थः।)

(5) रूपितकर्म्मधारयः — विद्या तव धनं= विद्याधनम्।

(6) क्रमिकोभयपदः — पूर्वं स्नातः पश्चात् अनुलिप्तः = स्नातानुलिप्तः (पूर्वकालैकसर्वज्वरत्पूराणनवकेवलाः समानाधिकरणेन। २।१।४९) आदौ पीतःपश्चात् प्रतिबद्धः= पीतप्रतिबद्धः।

(7) मध्यपदलोपीकर्म्मधारयः — शाकप्रियः पार्थिवः = शाकपार्थिवः; देवपूजकः ब्राह्मणः = देवब्राह्मणः (शाकपार्थिवादीनां सिद्ध्ये उत्तरपदलोपस्योपसंख्यानम् इति शासनात्।) त्र्यवयवः लोकः= त्रिलोकः; त्रिलोकस्य नाथः = त्रिलोकनाथः। (Seeतत्त्वबोधिनीpage 558; षट्संख्यका मासाः = षण्मासाः; तेषांअभ्यन्तरे= षण्मासाभ्यन्तरे।

(8) Words derived by क्तः are compounded with words of the same derivation when the latter are preceded by नञ्; as कृतञ्च तत् अकृतञ्च= कृताकृतम्।

(क्रमशः)

FOR B. A. STUDENTS.

<MISSING_FIG href="../books_images/U-IMG-173150393464.jpg"/>

AS GIVEN BY BABOO NILMONY NAYALANKAR.

M. A. B. L.

Principal; Sanskrit College, Late Senior professor of
Sanskrit literature Presidency College, Calcutta.

<MISSING_FIG href="../books_images/U-IMG-173150397765.jpg"/>

⇒ Questions with answers on अभिज्ञानशकुन्तलम् or “The token Ring” (Vidyasagar’s Edition).

The Prologue:

Q:— What is a नान्दी?

Ans:- आशीर्वचनसंयुक्ता स्तुतिर्यस्मात् प्रयुज्यते।
देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता॥
इति साहित्यदर्पणे॥६॥

Q:—Distinguish between सूत्रधारः and सूत्रधरः, first grammatically, then Ethnologically?

Ans:— नटानां यः प्रधानः स सूत्रधारः कथ्यते। सूत्रधारस्य स्पष्टलक्षणं न क्वापि दृश्यते किन्तु तात्यर्य्यतो लक्ष्यते यथा साहित्यदर्पणे॥६॥

यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये।
कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते॥” एवं

“सूत्रधारः पठेन्नान्दीं मध्यमं स्वरमाश्रितः।

इत्यादिश्च “रङ्गविघ्नोपहन्तृनान्दीवाचकत्वं सूत्रधारत्वम् इति सूत्रधारलक्षणम्।

सूत्रधरोऽपि सूत्रधार एव इति शब्दकल्पद्रुमः। सूत्रं सङ्गीतस्य व्यवस्थां सूचनां धरति धारयति वा कर्म्मण्वनि सूत्रधारः प्रधानो नट उच्यते। धरतीति पचाद्यचि सूत्रस्य धरः सूत्रधर इति सूत्रधरणकर्त्ता उच्चते। कार्य्यञ्च तयोरनेनैव सूचितम् इति।

A सूत्रधारः, is a stage-manager; whereas सूत्रधरः means a carpenter.

Q:—What is a प्रस्तावना? give its synonym?

Ans: —प्रकृतसूचकैः पात्रप्रवेशाद्युपयुक्तैःविचित्रवाग्विन्यासैः नटीप्रभृतयो यत्र मिथो भाषणं कुर्वते सा प्रस्तावना, यथा साहित्यदर्पणे॥६॥

“नटीविदूषको वापि पारिपार्श्विक एव वा।
सूत्रधारेण सहिताः संलापं यत्र कुर्वते॥

चित्रवाक्यैः स्वकार्य्योत्थैःप्रस्तुताक्षेपिभिर्मिथः।
आसुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनाऽपि वा॥”

Prologue. प्रस्तावना or सूचना।

(क्रमशः)

_________

FOR ENTRANCE STUDENTS.

⇒ PAPER SET BY THE HEAD PUNDIT OF HARESCHOOL.

On Translation.

Q:— Translate into Sanskrit.

A certain king once called his servants, but receiving no answer, opened the door of his chamber and saw his page fast asleep. He went to the boy to wake him but as he drew near, he observed a paper partly out of his pocket, upon which something was written. The king was curious to know what was written upon the paper. He pulled it quite out and found that it was a letter from the boy’s mother to the following effect.

Ans: — एकदा कश्चिद्राजा स्वंभृत्यवर्गमाजुहाव। किन्तु किमपि प्रत्युत्तरमलभमानः स्वगृहस्य द्वारमुन्मोच्यविलोकयामास स्वबालकभृत्यंगाढ़ंप्रसुप्तम्। ततस्तु तं प्रबोधयितुं यावदुपसर्पति तावत् तस्य अङ्गरक्षकस्य पुटकादर्द्धनिर्गतं किमपि लेखमद्राक्षीत्। ततस्तु किमत्र लिखितमस्तीति विज्ञातुं कौतूहलाधीनः तत्पत्रं तुष्णोंवहिरानीय पठितवान्, ज्ञातवांश्च निम्नोक्तेनाभिप्रायेण तस्य मातुः समीपादागतं पत्रमेतदिति।

श्रीश्रीदुर्गा शरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href="../books_images/U-IMG-173150465747.jpg"/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्तीजनानिव।
मायावलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी॥

<MISSING_FIG href="../books_images/U-IMG-173150473366.jpg"/>

मासावतरणिका।

पक्वाम्र! गन्धेन मुखस्य तस्याःत्वचाङ्गयष्टेर्हृदयान्तरष्ट्याः।
ज्येष्ठे नरेष्टेऽनुकरोषि दूयेमोदे च तन्मानमही भजन्त्याः॥

<MISSING_FIG href="../books_images/U-IMG-173150482064.jpg"/>

उद्भटश्लोकाः।

निवसतु तव गेहे निश्चला सिन्धुपुत्री प्रविशतु भुजदण्डे चण्डिका वैरिहन्त्री।
सुखसरसिजमध्ये भारती भात्तु नित्यं न चलतु तव चित्तं पादपद्मान्मुरारेः॥ ११२॥ .

जातःक्षीरपयोनिधौ हरजटाजूटे प्रसिद्धोऽसि यत्
सर्वस्योपरि दीपकोऽसि विधिना सृष्टोऽसि यच्चामृतैः।
भ्रातः शीतमयूख! सर्वमधुना ग्लानीकृतंयत्त्वया
राजीवं परिहृत्य कैरवकुलं नीतं विकासास्पदम्॥११३॥

देवाः केवलविल्लपत्रतुलसीदुर्वाङ्कुरैरर्च्चिताः
सन्तुष्टाः पितरस्तु तर्पणजलैरभ्यागताः काकुभिः।
किञ्च प्रातरमन्दमन्दजठरज्वालावलीड़ात्मजः
व्यग्रास्मद्गृहिणी निवेशितोशिरो हस्ते पिधाय स्थितः॥११४॥

श्रीविधुभूषणदेवः। (राँचि)

<MISSING_FIG href="../books_images/U-IMG-173150513267.jpg"/>

प्रणतिः।

(पूर्वप्रकाशितात्परम्)

पिता च पुत्रश्च सुहृच्च हे गुरो! स्वसा च पुत्रीजननी च बान्धवः।
सहीदरश्च प्रकृतिश्च भूपतिर्न किं त्वमेषां जगतोऽनुजीविनाम्॥२५॥

निरिन्द्रियोऽपीन्द्रियवान् कृतक्रियो गुणाविविद्धोऽपि गुणैकमन्दिरम्।
प्रकाशितान्योऽपि भवान् विलोकितो नमोनमस्तुभ्यमसंख्यमूर्त्तये॥२६॥

विधातृदेवोऽपि विधेयतायुतोसुयाजकोऽपीश्वर! याज्यतां गतः।
उपास्य मुख्योऽपि भवानुपासको जगद्गुरो! तुभ्यमदोनमोनमः॥२७॥

अविक्रियो विश्वगुरो! सविक्रियोजगन्निदानंस्वयमप्यकारणः।
शरीरमुक्त्वोऽपि सदा स विग्रही नमोऽस्तु विश्वेश्वर! विश्वभूर्त्तये॥२८॥

जगत्तनोस्त्वं समवायि कारणंनिमित्तवीजासमवायिकारणे।
क्रिया च दाता हर! सम्प्रदानकः प्रदेयमस्मै गुरुदेव ते नमः॥२९॥

भवान् जगन्मण्डल-नीतिमन्दिरं जगच्च देवस्य विलासकाननम्।
हरेऽथवा विश्वविधातृविश्वयोरभेद एवत्रिगुणात्मने नमः॥३०॥

पुमान् कलत्रंयुवतिर्दृढ़व्रतोयुवा प्रवृद्धो धनवान् बुधाग्रगः।
गुणी दरिद्रोऽल्पवला च भिक्षुकी भवान् न किंस्याज्जगतीतले नमः॥३१॥

दिवौकसो देवगुरुश्च हेगुरो! प्रजाविधातैतददस्तदप्यहम्।
त्वमेव, विश्वेश्वर! देव! सर्वथा नमोनमस्तुभ्यमलौकिकात्मने॥३२॥

अनादिमध्याय निरन्तभूतये स्वतः प्रकाशाय गृहीतजन्मभिः।
अवेद्यतत्त्वाय सकर्त्तृकत्वतोभुवो वरायानुमिताय ते नमः॥३३॥

श्रुतेः पदात् प्रत्ययतश्च वाक्यतो धृतेस्तथायोजनतो विनाशतः।
विशेष संख्यावशतःकृपावते सदानुमेयाय स ते नमो नमः॥३४॥

करालकालग्रसनेषु लीयते जगज्जनैर्दुःखत एव गम्यते।
इतीव विश्वाश्रय! तात! कालिका भवांश्च दुर्गा हरणाद्धरिः प्रभुः॥३५॥

ससर्जवेधः प्रभृतीन् सुरान् भवान् नियोजयामास च युक्तकर्म्मणि।
शरण्य वाञ्छाविधिकल्पपादप! स ते जगत्पावकमूर्त्तये नमः॥३६॥

कदाचन त्वं कमला नृपालये कदा कवीणां वदने सरस्वती।
कदापि शान्तिर्हृदयेषु योगिनां कदा सुखं जीविमनःसु ते नमः॥३७॥

त्वमद्वितीयो ननु वोधरूपः कैश्चिच्छिवः कैश्चिदनन्तशक्तिः।
रामेति कैश्चित् पुरुषोत्तमेति कैश्चिच्चिदानन्दमयेति कैश्चित्॥३८॥

निर्मूर्त्तिकः कैश्चिदथो समूर्त्तिः कैश्चिन्नृपः कैश्चन सिद्धमन्त्रः।
पितामहः कैश्चन सर्वविज्ञः कैश्चित् सुखी क्वापि सुखस्वरूपः॥३९॥

अष्टप्रकारेश्वर भावशाली कैश्चिद्गुरुः कैश्चिदनावृतश्च।
जगद्विधातेति समुच्यसे कैःयथा तथास्या भव, ते नमोऽस्तु॥४०॥

न गाणपत्योऽस्ति न शाक्तशैवौन वैष्णवी दार्शनिकोऽपि नैव।
मीमांसको नो न च जैनसंघः स्वतन्त्रताभाक् तवदिव्यशक्ते॥४१॥

न भूत-यक्ष्मौ न पिशाचपङ्क्तिः गन्धर्व-विद्याधर-किन्नरौघाः।
न सिद्धराजी त्रिदिवेश्वरा नो त्वच्छक्तिहस्तं परमं त्यजन्ति॥४२॥

सहस्रभानू रजनीश्वरोऽपि प्रभञ्जनोभूमिजले विहायः।
तेजः पुराणा ऋषयः सुरेशास्त्वच्छक्तितः स्युः किल शक्तिमन्तः॥४३॥

त्वमेव वेधाः खलु विश्वकर्त्ता त्वमेव विष्णुर्जगतोऽस्य पाता।
त्वमेव शम्भुर्जगतोऽन्तकारी त्वमेव विश्वस्य किलान्तरात्मा॥४४॥

पिता माता धाता जनकजनकस्त्वं परगतिः सखा हर्त्ता कर्त्ता सकलजगतः पालकतमः॥
किमेतैर्वाक्यौधैरखिलभुवनं त्वन्मयमिदं त्वदेकांशेनानुप्रहितममलं प्राणिति सदा॥४५॥

सत्यात्मकाय महते जगदाश्रयाय भक्तात्मगेहनिरताय दयामयाय।
कृष्णाय वेदसकलोत्वणकारणाय तुभ्यं नमः सकलशक्तिमते शिवाय॥४५॥

(श्रीकृष्णार्पणमस्तु)

श्रीअन्नदाचरण तर्कचूडामणिः।

(नोयाखाली,—सोमपाड़ा।)

________

द्वितीयोऽङ्कः।

१म गर्भाङ्कः।

रामचन्द्रस्य गृहम्।

कमलया सहासीनो रामचन्द्रः।

<MISSING_FIG href="../books_images/U-IMG-173150638661.jpg"/>

कमला। आर्य्यपुत्र! इच्छामि ज्ञातुं भवतो म्लानमुखतायाः कारणम्। सुनियोजितेनापि चित्तेन भवतः कश्चिदभावो न दृश्यते,

न च ज्ञायते कमभावमङ्गीकृत्येदृशी दशा ते सञ्जाता। इच्छामि कथनेन लघूक्रियतां मनोवेदना इति।

रामचन्द्रः। प्रिये! नार्हामि नवमालिकामुष्णोदकेन परिषेक्तुम्, न च शक्नोमि तवाग्रहातिशयमवलोक्य वा तुष्णीमवस्थातुम्। सत्यमेव नास्ति मे कस्मिन्नपि अभावलेशः। वश्या स्त्री, अनुगतो भृत्यजनः, प्रीतिप्रदा बान्धवाः, समयानुगता च प्रभुशक्तिः। अस्त्येव सर्वम्, परमविनयता तनयस्य मां पीड़यतीत्यवगम्यताम्।

कमला। नास्ति कश्चित् सुखीदेहीति जनवादः श्लाघ्यतर एव; अन्यथा असति दुःखकारणे कथमार्य्यपुत्रेण दुःखमनुभूयते। विज्ञवर! वृथात्मानं शोचितुं नार्हसि। प्रथमतः पुत्रस्य परिणयार्थं सयत्नो भव। सम्पादितेऽस्यपरिणयेकदापि पुनरुद्धतवत् नाचरिष्यतीति मे दृढ़विश्वासः।

रामः। (स्वगतम्) ईदृश्येव रमणीमतिः। (प्रकाशम्) प्रिये! तादृशौद्धत्यनाशे नववधूर्न क्षमा भविष्यति। (क्षणं तुष्णीं स्थित्वा) सुरेशोऽधुना तृणवत् मन्यते सर्वम्। स प्रतिदिनं किंविधो भवतीति मदीयेन चक्षुषा चेत् द्रष्टुं समर्थासि तदावगन्तुमपि शक्ष्यसि।

कमला। मत्तः सुष्ठु जानाति भवानतः सर्वं विविच्य क्रियताम्। भवादृशे, विज्ञे मादृशां नास्ति वचनावसरः। सर्वथा कुलदेवता नः कुशलं विधास्यन्ति।

प्रविश्य तुलसीदासः। देव! तत्रभवतः प्रियबन्धुः समायातो भवद्दर्शनाकाङ्क्षीवहिर्गृह एव तिष्ठति। एतदाकर्ण्य देवः प्रमाणम्।

रामः। कथं प्रियसुहृन्मे नीलाम्बरः समागतः। प्रिये! गन्तुमिच्छामि, त्वमपि स्वकार्य्यंसाधय तावत्।

(इति निष्क्रान्ताः)

२य गर्भाङ्कः।

रामचन्द्रस्य वहिर्गृहम्।

<MISSING_FIG href="../books_images/U-IMG-173151134353.jpg"/>

नीलाम्बरः। प्रियसुहृदो मे रामचन्द्रस्य सर्वाङ्गीनप्रमदतामालोक्य नन्दति मे हृदयम्। विमलचित्तस्य कुशलं विदधाति विधातेति लोकवादः सर्वोत्कर्षेण शोभते। कदापि न दृष्टः श्रुतो वा रामचन्द्रसदृशः सर्वगुणालङ्कृतो जनः। (विविच्य) किं स मे प्रिय इति मां प्रति तादृशः प्रतिभाति? नहि नहि; सर्वत्रैव तस्य सुख्यातिराकर्णिता। सर्वजीवेषु यः समः; दया दाक्षिण्यादयो गुणाः सदा यस्मिन् प्रस्फुरन्ति; स एव सार्थकजन्मा धन्यतरश्च। (निरूप्य) अहो! सौम्यमूर्त्तिरयम् इत एव आगच्छति।

प्रविश्य रामचन्द्रः। अहो! प्रियसुहृन्मे नीलाम्बरः। अपि कुशलीभवान्?

नीलाम्बरः। अथ किम्। भवन्तमपि कुशलिनं ज्ञातुमिच्छामि।

रामः। भवदागमनेनैव सर्वत्र नः कुशलम्। मित्र! किमर्थमत्रात्मा पदं नीतः। अथवा, सन्तोषाय नो भवदागनमिति मन्ये।

नीलाम्बरः। सर्वं खलु शोभते भवादृशे विमले। मित्र! अधित्यकातः पुष्पवन्तास्तोदयदृश्यमतीवमनोहरमिति श्रुतम्। अत इच्छामो भवद्भिर्दर्शनीयं तद्द्रष्टुम्। न चेदन्यकार्य्यातिपातस्तदाद्य तत्र गमनेन सुखिनो भवाम इति मे मनोऽभिलाषः।

रामः। किं मेऽन्यदस्ति मित्रप्रसादनतः, भवदभिमतमेव रोचतेऽस्मभ्यम्। साधयाम स्तावत्।

नीलाम्बरः। मित्र! कथमेतावन्तं समयं नावलोकयामि सुरेशम्।

रामः। स तु निर्ज्जने पुस्तकमन्दिरे निभृतोऽवतिष्ठते।

नीलाम्बरः। आकलयतु तं द्रष्टुमिच्छामः।

रामः। यदभिरोचते भवते। ( पार्श्वमवलोक्य) कः कोऽत्र भोः।

प्रविश्य तुलसीदासः। आज्ञापयतु स्वामी।

रामः। मित्रागमनं विज्ञाप्यात्रानीयतां सुरेशः।

तुलसीदासः। यत् देव आज्ञापयति। ( इति निष्क्रान्तः।)

रामः। मित्र! क्षणं तावत् विश्राम्यतां यावदहमधित्यकागमनार्थं सज्जीभवामीति। (निष्क्रान्तः।)

प्रविश्य पुस्तकहस्तः सुरेशः। प्रणतोऽस्मि। तातसखाय।

नीलाम्बरः। वस! चीरं जीव।

सुरेशः। किमर्थमत्र भवताकारितोऽस्मि।

नीलाम्बरः। वत्स! अद्य पूर्णिमा तिथिः। अतोऽभिलषितमस्माभिरधित्यका प्रदेशात् सूर्य्यास्तगमनं चन्द्रोदयञ्चावलोक्यात्मानमानन्दपदं नेष्याम इति। तव तातोऽपि तत्र गमिष्यति। त्वमप्यधुनास्माभिर्मिलितो भवेति मे मानसो भावः।

सुरेशः। गच्छन्तु भवन्तः। नाहं गन्तुमिच्छामि। अध्ययनादृतेन किमपि मे प्रमोदप्रदमिति मन्ये। भारतीकृपया पुस्तकाभ्यन्तरादेव सर्वं विलोकयिष्यामः।

प्रविश्य यथोपयुक्तपरिजनो रामचन्द्रः। मित्र! आगच्छतु, कालविलम्बेनालम्।

नीलाम्बरः। (जनान्तिकम्) वत्स सुरेश! नास्माभिर्दृष्टः श्रुतो वा कश्चिदपरस्त्वादृशः पाठशीलः। साक्षात् सस्वतीवरपुत्रमिव त्वां मन्ये। क्षेमं ते भूयात्। अधुनानुमोदस्व नो गमनायेति।

(इति निष्क्रान्ताः।)

सुरेशः। गता एव वृद्धपादाः।[पुस्तकं कञ्चुककोषाभ्यन्तरेसंरक्ष्य काष्ठासनोपरि उपविशन्।] इदानीं किं मे प्रियं भवतु।

नास्त्यत्रकोऽपि श्रोता दर्शको वा यमालयामि दर्शयामि वा स्व पाण्डित्यम्। (इतस्ततो विचरन्।) अतीवाध्ययनासक्तं मामवलोक्य जीर्णकूर्च्चास्ते पितृसखाः तातपादैः सह किं विचारयन्तीति श्रोतुं ममान्तरात्मा प्रस्फुरति। विहगश्चेदभविष्यं तदाकाशमार्गेण तत्र गत्वा तेषां वाग्जालमाकर्ण्यात्मानं सुखिनमकरिष्यम्। किं करोमि; स्थानमिदमिदानीं निर्जनतया कष्टप्रदं जातम्। [विमृश्य] तात पादाः खलु शीघ्रमेवात्र प्रतिनिवर्त्तिष्यन्ते। यद्यद्वमस्मिन्नन्तरेऽरण्यमध्ये गोपायिष्यामि, तदा ते खलु मामनवलोक्य विस्मिता भविष्यन्ति। केऽपि कथयिष्यन्ति, दार्शनिकोऽसौ कमपि पदार्थं विभावयन् कुत्रास्ते; केऽपि वक्ष्यन्ति; शास्त्रतत्त्वज्ञोऽसौ संसारस्यानित्यतामवगम्यारण्यं गत इति। यद्भाव्यं भविष्यति। पिता मेऽवश्यमन्वेषणार्थं दासानितस्ततः प्रेरयिष्यन्ति; तेऽपि मामन्विष्य पुनरत्नानेष्यन्ति। अतोऽहं गच्छामि। (इति निष्क्रान्तः।)

इति द्वितीयोऽङ्कः।

________

पल्लिच्छविः।

(पूर्वप्रकाशितात्परम्)

तत्किञ्चिपि पितामह कर्णगोचरं न कृतवती, परन्तु अनिच्छन्त्यपि तत्सन्देशं गृहीत्वा धूर्त्तसकाशं यथाविधि गतवती। शैवलिनी इदानीम् एकादशवर्षदेशीया। नेदानीं सा तस्य पापवाक्यजातं सोढुं शक्नोति। तथापि पितामहसन्देशं यथाविधि तत्ससकाशं हरति। अहर्दिवं बाला पितामहशुश्रूषणपरा— यथा यथा अस्य सुखं भवेत् तथा सा आचरणपरा च।

अथ तस्या वयो वृद्ध्या सह कामपालस्य पापलालसा क्रमशःवृद्धिं गता। वृद्धस्य कञ्चनात्याहितं विना न स्वीकार्य्यामया शैवलिनीत्याकलय्य अहर्निशमेनं देयमधिकृत्य ज्वालयन् शेषं सर्वामस्य वास-

भूमिं स्वीचकार। वृद्धस्तु पौत्र्यासह तस्य निकृष्टतमं प्रकोष्ठमधिकृत्य आधिक्षामो निवसतिस्म।

नाशक्नोत् अतःपरं सोढुम्। अजस्रं चिन्तादह्यमानमस्यशरीरं क्रमेण महादाहज्वरवशतं गतम्। दैननिन्दं सन्तापे प्रवृद्धे वृद्धोऽचिरेण निःसंज्ञतामभजत। क्षुद्रे कस्मिंश्चित् प्रकोष्ठे पितामहो निसंज्ञः शय्यामधिशयाणः— तस्य पुरतः प्रियतनुजनन्दिनीशैवलिनीतस्य शुश्रूषणपरा। बाला सर्वमेव आत्मसुखं विहाय पितामहशुश्रूषणे रता। पुरतः अजस्त्रंकामपालस्य वागग्निदाहः अग्रतः तदेकशरणभूतः मृत्युशय्याशयितः पितामहः। सा कथमपि चिन्तयितुं न शक्नोति तस्या भाविनीमवस्थाम्। अहर्निशं देवता सकाशं केवलं पितामहजीवितं प्रार्थयते।

क्रमेण अनाथजनैकबान्धवो जगदीशः तस्या उपासनां श्रुतवान्। वृद्ध उपशान्तज्वरतापो जातः बलञ्च प्रत्यागतं तस्मिन्।

उपशान्तज्वरोऽपि वृद्धः शान्तिं न जानाति। अहर्न्निशं कामपालः ऋणशोधनार्थं तं पीड़यति। किं बहुना यस्मिन्नेव गृहे वसति तदेव परायत्तम्। परिशेषं किंकर्त्तव्यपराङ्मुखः धृतदेशान्तरगमनमानसः विद्याधरः प्राणाधिकां शैवलिनीमुवाच “जाते, अतःपरं सोढुं न शक्नोमि। अधुना देशान्तरगमनं विना नास्त्यपरजीवितसन्धारणोपायः। वरं तत्र भिक्षया जीवामि। न क्षणमप्यत्र स्थातव्यमिति। शैवलिनीतु बहूनि दिवसानि यावत् कामपालसंसर्गविहापनार्थं प्रार्थितवती, अधुना सा पितामहगिरमाकर्ण्य परं हृष्टा तमुवाच “आर्य्य कदा गन्तव्यम्” अधुनैव किम्?” “तेनोक्तं"वत्से! आगामिन्यां रजन्याम् अस्तं गते भगवति कुमुदिनीनायके तमसाभिभूते संसारे सर्वैरलक्षितमेव गन्तव्यम्, अन्यथा स दुरात्मा प्रतिकूलयिष्यति।”

अथागामिन्यां रजन्यां गमनमानसौ तौ महता कृच्छ्रेण दिवस-

तमशेषं क्षपितवन्तौ। ततः संप्राप्तायां निशीथिन्याम् अस्तमुपगते च श्वेतभानौ वृद्धःपौत्रौद्वितयः स्वर्गादपि गरीयांसं स्ववासं विद्धाय नीरवं निष्क्रान्तः। न जानाति कुतो गन्तव्यमिति, तथापि कामपालग्राममतिक्रमितुं यथाशक्ति ग्रामात् ग्रामान्तरं जगाम। सुदूरं गतोऽपि कामपालग्रासभीतः पुनरपि अविश्रान्तं गमनरतः रजन्यामवसन्नायाम् अध्वगमनखिन्नः कस्यचन तरोर्मूलदेशे स्थितिञ्चकार। सुमतिर्बाला वस्त्रान्तारक्षितेन मोदकेन वृद्धस्य आत्मनश्च क्षुधामुपशमितवती।

ततः क्षणं विश्रान्तः पुनर्गमनप्रवृत्तः परिणते दिवसे काञ्चनपान्थशालामवाप। तत्र च निशां निनाय। पुरा समृद्धिसमये पितामहो यत्किञ्चिदस्यै स्वव्यवहारार्थं निभृतमर्पितवान्। सा तु धीमती ततो लवमपि न क्षयितवती, अधुना तद् विनिमयेन सा आहार्य्यादिकमानीय वृद्धस्योदरतृप्तिमनयत्।

अथ क्षयं गते तदीये अर्थलवे वृद्धस्य क्षुधातृप्तिं भिक्षावृत्त्याचकार। क्रमेण भिक्षापि दुष्प्राप्यतां गता। ततः यत्किञ्चित् समासादितवतीतेनैव वृद्धस्य क्षुधां निवर्त्तयामास आत्मनस्तु उदरे किञ्चिदपि न प्रददौ।

अथ कदाचित् भिक्षार्थं वहिर्गता बाला न किञ्चित् समासादितवती। अशेषं तद्दिवषं प्रखरदिवाकरकरसन्तप्ता ग्रामाद् ग्रामान्तरं भिक्षार्थं अटन्ती शेषं निराशा आश्रमं प्रत्यागता प्राणाधिकं पितामहंक्षुधापीड़ितं प्रायो मृत्युकवलगतञ्चाद्राक्षीत्। ततस्तं"वत्से नालं त्वम्।आत्मजीवितपातेनापि क्षुत्क्षाममेनं रक्षयितुं ते तात तातं करालकालपाशादिति ब्रूवन्तं ताततातं मूर्च्छितमालोक्य सा आत्मानं स्थिरीकर्त्तुं न शशाक। यदर्थं जीवितमपि परित्यक्तुमर्हति स एव पितामहः क्षुधापीड़ितः संज्ञारहितः मृतकल्पः पुरतस्तिष्ठति। दृश्यमेतत् सा दर्शनाक्षमा सार्त्तस्वरा भूमितलं प्रतिता विलुप्तसंज्ञा

च सञ्जाता। अथ तदार्त्तस्वरेण लब्धसंज्ञः पितामहः प्राणाधिकां शैवलिनीं तदवस्थामालोक्य पुनरपि विगतसंज्ञो भूवि निपपात। ततो ग्रामवासिभिः महत्या शुश्रूषया वृद्धस्य चैतन्यं पुनरापादितम्। शैवलिनी तु तच्छयनात् न पुनरुत्थिता। पापसंसारयन्त्रणा न पुनरेनां तपति। सच्चिदानन्दनिकेतने अनन्तशान्तिवक्षसि सा विराजिता। वृद्धस्तु क्रमेण उन्मत्ततां भेजे। तस्य प्राणाधिका शैवलिनीतं चिराय परित्यक्तवतीति वृद्धः कथमपि न विश्वसिति। ततः प्रभृति तदा वासं प्रविशन्तं यं कमपि स ब्रवीति “मच्छैवलिनीमालोकयितुमागतोऽसि। शृणु, भद्र! कृतं कलकलेन। एसावन्तं कालं मदर्थम् अजस्रं खेदिता अधुना परिश्रान्ता सा विश्राम्यति। नैनां प्रबोधयितुमलमिति।

अस्मिन्नेवावसरे दुरात्मनस्तस्य कामपलस्य सर्वमेव दुष्कृतं व्यक्तिं गतम्। ततो धर्म्माधिकरणकैः पीड्यमानः उपायान्तरमनवलोक्य आत्मानं सरिति प्रक्षिप्य जीवितेन परिमुक्तोबभूव।

अनेन च वृद्धस्तस्यापहृतं वित्तं पुनरापत्। किन्तु न कोऽपि तस्यावासमवगच्छति। ततस्तत्पक्षीयैः पुरुषैः स तस्मादेव निभृतात् प्रदेशादाविष्कृतः स्वपदं स्थापितः। सर्वमेव वृथा। स तु उन्मत्तप्रलापी। सततं हि यं कञ्चित् तद्गृह मायान्तमभिधत्ते भद्रमुख! भच्छैवलिनीनितान्तं परिश्रान्ता निद्राति, नालमेनां प्रतिरोधयितुंकलकलेनेति।

इति श्रीमद् उपेन्द्रनाथराय-विरचिता पल्लिच्छविः सम्पूर्णा।

_______

मातृभक्तिः।

सहृदयाः! कियन्तो नाम मन्दमतिभिरस्माभिर्वाचामगोचरा वक्तव्याःश्रीमातृदेव्या गुणाः कियच्च प्रतिपादनीयं गौरवं तद्भक्त्याः।

ययैव स्वजीवनिर्विशेषमुपाजीविता वयम्, ये ये वैतामुपलंभिताः सुखैकविषयां दशाम्, ययैव प्रीतिपुरःसरमुपलालिताः पोषिताः संवर्द्धिताश्च तस्याः श्रीमातृदेव्याः कियतो वा गुणान् कियत्कालं वदत्वियं रसना? नूनं यल्लेखने कल्पपादपशाखाया अप्यपर्याप्ता लेखनी, आकाशनिर्विशेष-विस्तारमप्यपरिपूर्णमेव पत्रम्, सिन्धुसमधिकापि नालम्भविष्यति मसी, वाक्पतिरपि न प्रभविष्यति वर्णयितुम्, न वा वेतण्डतुण्डोऽपि लिखितुम्। तस्यैव महीयसो विषयस्य मादृशैः क्षुद्रधिषणैः प्रतिपादनं नाम सुचक्षुष्कैरप्यप्रत्यक्षीक्रियमाणे वस्तुनि विलोकनायासो नयनविधुरस्य किन्तु “नभः पतन्त्यात्मसमम्पतत्रिणः” इत्यस्ति अस्माकमष्यधिकारो लिखितुम्।

भो महाशयाः! निपुणं तावद्विचारयत चेतसि नैसर्गिकस्नेष्ट बहुलेषु सकलेष्वपि जगति जायमानेषु वस्तुषु कस्य वा प्रथमतो निर्देष्टव्यं नाम? किं राज्ञः? उत बान्धवस्य? आहोस्वित् सुहृदः? उताहो आचार्यस्य? उत पितुः? अथवा श्रीमातृदेव्याः? नूनं प्रतिपन्नविचाराः सर्वेऽपि यूयमङ्गीकरिष्यथ यन्न श्रीमातरमन्तरा कस्यापीति। अहो! कियत्यो नाम ऊपकृतयोऽस्मासु श्रीजनन्याः। पश्य तावच्छैषवम्। यानवलोक्यापि बान्धवा अपि पिदधीरन्नयनयुगलम् हन्त! तेष्वेव विलुठतः पुरीषादिषु शिशून् का वा मातरमन्तरा प्रीतिपुरःसरं प्रमोदमाना विमलीकरिष्यति? का वा कदाचिदपि दुःसहगदविह्वलीक्रियमाणे बालके स्वयं सुदुष्करमपि पथ्यमाचरन्तीनिराकरिष्यति व्याधिम्? का वाऽसह्यवेदनाजर्जरीकृतमवलोकमाना तनयं दन्दह्यमानजठरानलोपशमपर्याप्तमपि विस्मरिष्यति अन्नम्? का वा स्वप्राणपणैरपि कामयेत शिशोर्जीवनम्? कावा अनुपहतेनापि खचेलाञ्चलेनापनेष्यति वदनसंलग्नं धूलीपटलं डिम्भस्य? ब्रूत भोः ब्रूत महाशयाः! कश्चित् क्वचिदृग्विषयो भवतां पदार्थः यः सदृशो मातुः।

“स्तन्यं प्रपाययति शाययते निजार्द्धेमोदाद्विलोकयति पालयति स्वजीवात्।
सत्कर्म कारयति वारयते तदन्यत् का वा परा वद जनेषु विना सवित्रीम्?”

चिरायापि अन्विष्यन्तो वयं न किल विलोकयामो मातृनिर्विशेषं वस्तु। वंहीयसापि कालेन सुप्रसादितोऽपि देवो देवीवा न मनागपि मर्षयति स्ववैरुद्ध्याम्। हन्त! श्रीमातृदेवी तु शिशुनाऽपभाष्यमाणा वा, क्रोधादाहन्यमाना वा, गेहान्निराक्रियमाणा वा असम्भाष्यमाणा वा दुरवस्थामापादिता वा न किञ्चिदपि कदाचिदपि विरुद्धमनुध्यायति पुन्नस्य। प्रत्युत सन्ततं मङ्गल्यमेवाशास्ते अतएव श्रीशङ्कराचार्याः “कुपुत्रो जायेत क्वचिदपि कुमाता न भवति” इत्याहुः। मातैव सहते पुत्रप्रदत्तान् परः सहस्रान् क्लेशान्। यथा धरणिरपक्रियमाणापि न प्रत्थपकरोति। मलीमसमपि निन्द्यमपि प्राणिशिशुभिःसमुत्सृष्टं स्वशरीरे मुखं धारयति पदार्थम्, तेन च न मनागपि क्लिश्यति, तथैव मातापि स्वशिशुसमुत्सृष्टं निषिद्धमपि पुरीषादिकं विमलेऽप्यङ्के धारयति न मनागपि त्रस्यति प्रत्युत प्रमोदते अतएव धर्मिप्रवरो मनुः श्रीमातृदेव्यः सर्वंसहास्वरूपत्वं प्राह यथा,— “माता पृथिव्या मूर्त्तिस्तु” इति २।२२५॥ तथा श्रीमहाभागवतेऽपि “माता साक्षात्क्षितेस्तनुः” इति।

मन्ये सर्वंसहामप्यतिशेते गुणैः श्रीमातृदेवी, तथाहि,— सहते क्षितिः सर्वदा सर्वेषामपि दुश्चेष्टितानि किन्तु नैवं विधेयम् अनेनेयतीवो हानिरिति न कदाचिदुपदिशति। श्रीमातृदेवीतु सन्ततमुपदिशन्ती प्रतिनिवारयति दुष्कर्मणः सकाशात्तनयान्।

अयि भोः महाशयाः! सकृदपि निक्षिप्यतां चक्षुर्धर्मग्रन्येषु मन्दं मम्बंमनागपि समास्वाद्यतां माहात्म्यां श्रीमातृदेव्याः। अवश्यकर्त्तव्यविषयेष्वेवैकतमा मातृभक्तिरित्यप्यवधार्यताम्। अस्मिँल्लोके सुखं निविवत्सोर्मनुजस्य मातैव परमवलम्बनम्, तद्भक्त्यैव हि समश्रुत इमं लोकम् आबाल्यात् प्रतिदिनमुपचीयमानेनैव हि

मातृप्रदत्तशिक्षणेन कर्त्तव्याकर्त्तव्यविभावनप्रवीणो भवति मानुषः ततश्च सुखमेव सेवमानो भूमौ निरन्तरं निवसति। अतएव मनुः २। २३३।

“इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम्।
गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्रुते॥” इत्याह

विष्णुरपि ३१ अध्यायस्यावसाने एवमेवाह।

महाभारते शान्तिमोक्षपर्वणि १६६ अध्याये चिरकारिकेणोक्त मातृमाहात्म्यम् यथा,—

“योह्ययं मयि सङ्घातो मर्त्यत्वे पाञ्चभौतिकः।
अस्य मे जननी हेतुः पावकस्य यथारणिः॥२५॥

माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः।
मातृलाभे सनाथत्वमनाथत्वं विपर्यये॥२६॥

न च शोचति नाप्येनं स्थाविर्यमपकर्षति।
श्रियाहीनोऽपि यो गेहमम्बेति प्रतिपद्यते॥२७॥

पुत्रपौत्रोपपत्रोऽपि जननीं यः समाश्रितः।
अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत्॥२८॥

समर्थंं वाऽसमर्थं वा कृशं वाऽप्यकृशं तथा।
रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः॥२९॥

तदा स वृद्धो भवति तदा भवति दुःखितः।
तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते॥३०॥

नास्ति मातृसमा च्छाया नास्ति मातृसमा गतिः।
नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रिया॥३१॥

कुक्षिसन्धारणाद्धात्री जननाज्जननी स्मृता।
अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः॥३२

शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम्॥” इति

किञ्च मातृमाहात्म्यंप्रतिपन्नास्तत्प्रचिख्यापयिषयैवास्मत्पूर्वाचार्याः प्रायेण मातरं तत्सम्बन्धिनीमेव च क्रियां प्रथमतोऽनुष्ठेयां निरदिक्षन्। उपदिष्टश्च प्रथमं मातृसम्मान एवापस्तम्बोप-

निषदि “मातृदेवो भव। पितृदेवो भव आचार्यदेवो भवेति” अतएव च वृद्धि श्राद्धादिषु मातृश्राद्धमेव प्रथमतोऽनुष्ठीयते तदुक्तं लिखितेन,—

“मातुः श्राद्धन्तु पूर्वं स्यात् पितॄणां तदनन्तरम्।
ततो मातामहार्ना च वृद्धौ श्राद्धचयं मतम्॥११॥” इति।

यथा चोपदिशति सत्कर्माणि श्रीमाता न तथा गुरुरपि यथा च तयोपदिश्यमानः शिशुर्दुरध्यवसायाद्विरमेत् आकलयेच्च साध्वसाधुभावम्, न तथा चिरायाप्यनु-शास्यमानो गुरुणा अतएव अत्रिः “नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुरित्याह” माता पित्रोराचार्यस्य च गौरवं प्राह मनुः २ अध्याये।

आचार्यश्च पिता चैव माता भ्राता च पूर्वजः।
नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः॥२२६॥

यं माता पितरौ क्लेशं सहते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्त्तुं वर्षशतैरपि॥२२७॥

तयोर्नित्यंप्रियं कुर्यादाचार्यस्य च सर्वदा \।
तेम्बेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते॥२२८॥

तेषां त्रयाणां शुश्रूषा परमन्तप उच्यते।
न तैरनम्यनुज्ञातो धर्ममन्यं समाचरेत्॥२२९॥”

(क्रमशः)

राशिवडेकरोपाह्वःश्रीअप्पाशास्त्री।

कोल्हापुर।

_________

धर्म्मविवेकः।

आगत्य वामापदः। “गुरुचरणकमलेभ्यो नमः” इति साष्टाङ्गं प्रणम्य स्थितः।

शिवरामः। वत्स! वामापद! इत उपविश, अहो प्रचण्डोऽयमातपः। न वाति समीरणोऽपि अन्तरान्तरावाति चेत् प्रतप्तः। दहतीव नासापुटं प्राणवायुः प्रविशति निर्विशति च।

वामा। धूलिमयेषु च क्षेत्रेषु हस्तमिता अपि शालयः उत्तप्ता इव कृशानुना शोकमुत्पादयन्ति पश्यताम्। पङ्किलास्तु धान्यभूमयः शुष्यति वारिणि सुहृच्छोकेनेव हृदि विदृणन्ति। न जाने भगवत्यन्न पूर्णा वर्षेऽस्मिन् कीदृशीं शस्यसिष्पत्तिं जनयिष्यति।

शिवः। वत्स! आएवं स्मरामि विगतकार्त्तिकमासः सप्तदशदिवसात् परमद्ययावत् न सम्यक् ववर्ष देवः। तेनैव विविधैः रोगैरुपद्रुताः प्राणिनः।

वामा। किं वक्ष्यामि, अद्यापि विसूचिका मसूरिका च कलिकाता नगरीमुत्त्सादयितुं न न्यवर्त्तताम्।

शिवः। यद्विधेर्म्मनसि स्थितं तत्देव सम्पत्स्यते। तच्चिन्ता तावदास्ताम्। अधुना मनो निधीयतां धम्मविवेके।

वामा। वाढ़ं मावहितोऽस्मि।

शिवः। श्रुतं कणादाभिप्रेतं धर्म्मलक्षणम्। अधुना कर्म्मैकपक्षपातस्य जैमिनेर्धर्म्मलक्षणं श्रूयताम्। यथा,—

चोदना लक्षणोऽर्थो धर्म्मः।२।

अस्यार्थः— चोदना प्रेरणा कर्त्तव्यत्वेन नियोजना, यथा श्राद्धं कुर्य्यात्, पितृभ्यो दद्यात्, राहुदर्शने स्नायात् अर्थात् कर्त्तव्यता बोधकस्य वाक्यस्यैवार्थः प्रेरणा। कर्त्तव्यता वोधकस्तु लिङ् तव्यादिः यथा कुर्य्यात, दद्यात् स्नायात्, कर्त्तव्यं दातव्यं स्नातव्यमित्यादि।

लक्षणं स्वरूपम्। अर्थः अभ्युदयहेतुः— आत्मोन्नतिकारणम्। तथा च भाष्यं “कोऽर्थः योऽभ्यदयाय, कोऽनर्थः योऽनभ्युदयाय” प्रेरणैव लक्षणं स्वरूपं यस्य सः एवंविधोऽर्थः धर्म्मः। अर्थात् यो हि

वेदादिशास्त्रेण कर्त्तव्यत्वेन प्रतिपाद्यते एवम् अभ्युदयहेतुश्च भवति स धर्म्मःयथा “मा हिंस्यात् सर्वा भूतानि” सर्वभूतहिंसानिवृत्तिर्धर्म्मः। एतेन प्रेरणागम्यत्वे सति अभ्युदयहेतुर्धर्म्मइति सम्पूर्णं धर्म्मलक्षणम्।

अत्र मीमांसको भट्टः कथयति।

विचारविषयो धर्म्मो लक्षणेन विवर्जितः।
मानेन वा’थवोपेतस्ताभ्यामिति विचिन्त्यते॥

लौकिकाकारहीनस्य तस्य किं नाम लक्षणम्।
मान शङ्का तु दूरेऽत्र प्रत्यक्षाद्यप्रवर्त्तनात्॥

चोदनागम्य आकारोह्यर्थत्वे सति लक्षणम्।
अतएव प्रमाणञ्च चोदनैवात्र नो कुतः॥

ननु यस्य वस्तुनः लक्षणप्रमाणे स्तः ताभ्यां तत्सिध्यति, अतएवाहुः “मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणात्।” इति। सजातीय विजातीय व्यवच्छेदकः कश्चिल्लौकिकः हस्तपदादिराकारो लक्षणम्। तेन च लक्षणेन लक्ष्ये वस्तुनि सम्भावना बोधे जाते यथार्थप्रज्ञा विधानाय समुद्यतः पुरुषः प्रमाणेन तदवगच्छति। यथा,— “शृङ्गलाङ्गुलगलकम्बलवती गौः” तथाविध प्राणिषु तत्तल्लक्षणमनुसन्धाय “इयं गौरिति” चक्षुषा निश्चिनोति।

एवञ्च सति, धर्म्मोहि अलौकिकः नास्ति तस्य कोऽप्याकारः18तं कथं प्रमाणीकर्त्तुमुद्युक्तः। न तावद्धर्न्मेप्रत्यक्षमग्रे शरति, तस्य रूपादिरहितत्वात्। अतएव प्रत्यक्षमूलमनुमानमपि धर्म्मस्य न सम्भवति। एवं प्रत्यक्षानुमानमूलः शब्दस्य सङ्गतिग्रहः तस्मिन् विषये व्युत्पत्यभावात् आगमोऽपि धर्म्मं व्युत्पादयितुं नालम् तस्माद्धर्म्मो निर्लक्षणःनिष्प्रमाणश्च।

सत्यं भाभूच्चक्षुरादिविषयो लौकिको हस्तपदाद्याकारः। किन्तु तथापि “अश्वमेधेन स्वर्गकामो यजेत” इत्यादि प्रवर्त्तनागम्यःस्वर्णफलसाधनत्वादिरूपः आकारोऽस्ति। एतेन “प्रेरणागम्यत्वे सति अभ्युदयहेतुर्धर्म्म” इति यदुक्तं धर्म्मलक्षणं तन्निर्दुष्टम्। अभ्युदयहेतुर्धर्म्म इत्युक्ते बौद्धानां चैत्यवन्दनादिर्घटपटादिश्च अस्माकं धर्म्मो भवितुं पार्य्यते तद्व्यावर्त्तनाय प्रेरणागम्यत्वे इति भागो लक्षणे दत्तः। “प्रेरणागम्यो धर्म्म” इत्युक्तेऽपि अथर्ववेदे उक्तया “श्येनेनाभिचरन् यजेत” इत्यनया श्रुत्या प्रेरणागम्योऽपि शत्रुवधसाधकः आभिचारिकः श्येनयागः धर्म्मो भवितुं पार्य्यते तद्वारणाय “अभ्युदयहेतुः” इति धर्म्मलक्षणे निविश्यते।

अभिचारकर्म्मणस्तु अधर्म्मजनकत्वं मनुनोक्तम्। यथा, —मनौ ११।६४।

“सर्वाकरेष्वधीकारो महायन्त्रप्रवर्त्तनम्।
हिंसौषधीनां स्त्र्याजीवोऽभिचारोमूलकर्म च॥”

यद्यपि श्येनस्य शत्रुमारणमेव फलं न तु नरकः तथापि तस्य वधस्य नरकहेतुत्त्वाद्वधद्वारा श्येनोऽनर्थः।

वामा। गुरवः! यदि वेदोक्ताश्येनयागो नरकहेतुस्तर्हि अश्वमेधयज्ञेऽपि अश्वालम्भनरूपं हिंसास्तीति सोऽप्यधर्म्मोभवतु।

शिवः। मैवं, अश्वमेधोऽधर्म्मो नैव भवेत्। कथमिति चेत्, तस्य अश्ववधस्य यज्ञाङ्गत्वेन यज्ञफलं स्वर्गं विना नान्यत् फलं नरकादिकं जायते। अतएव गम्ये धर्म्मेगमकं विधिवाक्यं प्रमाणम्। यद्यपि प्रत्यक्षानुमानाविषयो धर्म्मस्तथापि—

“धर्म्मो विश्वस्य जगतः प्रतिष्ठा धर्म्मिष्ठाः प्रजा उपसर्पन्ति धर्म्मेण पापमपनुदति धर्म्मे सर्वं प्रतिष्ठिंतस्माद्धर्म्मंपरं वदन्तीति”।

इत्येवं श्रुत्यादिवाक्ये प्रसिद्धपदसमभिभ्याहारेण व्युत्पत्तिः सम्भवति तस्माल्लक्षणप्रमाणाभ्यामुपपन्नो धर्म्म इति।

(क्रमशः)

____________

तत्त्वप्रपञ्चः।

(पूर्वप्रकाशितात्परः)

यदुक्तं पूर्वमासे— “अथ किमित्युक्तं पञ्चमहाभूतानि एकादशेन्द्रियाणि च केवलं विकृतय एव न तु केषाञ्चित् प्रकृतय इति” तत्रापरोऽपि किञ्चिद्वक्तव्यावशेषोऽस्ति तदुच्यते।

यद्यपि आकाशात् शब्दः वायोश्च स्पर्श उत्पद्यते तथापि वाय्वाकाशयोः तयोः प्रकृतित्वं नाशङ्कनीयम्, कथमिति चेत्, धर्मिपरिणामानामेव प्रकृतित्वस्वीकारात् न धर्म्मपरिणामानां प्रकृतित्वाशङ्का। प्रकृतिमहदहङ्कारादीनां धर्मिपरिणामत्वात् प्रकृतित्वमिति। एतेनापि कारणेन वाय्वाकाशयोः शब्दस्पर्शप्रकृतित्वं निराकर्तुं शक्यते।

वह्नेःस्वर्णादीनां पृथिव्या वृक्षादीनाञ्च धर्मिपरिणामानां तत्त्वान्तरोपादानत्वाभावादेव प्रकृतित्वं व्याहतम्। अत्र सर्वेषां वह्नि पृथिव्यादीनां स्थूलत्वादिन्द्रियग्राह्यता च समा इति न तत्त्वान्तरत्वम्। अत्र स्थूलतामिन्द्रियग्राह्यताञ्च हेतुं कृत्वा स्वर्णे वृक्षे च तत्त्वान्तराभावः साध्यते। तथा चात्रायं प्रयोगः— स्वर्णं न वह्नितस्तत्त्वान्तरम्, स्थूलतेन्द्रियग्राह्यतासाम्यात्। एवं वृक्षः न पृथिव्यास्तत्त्वान्तरम्, स्थूलतेन्द्रियग्राह्यतासाम्यात्।

एवं सति येषां इन्द्रियग्राह्यता न समा तत् तत्त्वान्तरं यथा वह्निजलभूमयः। वह्नेः चटचटाशब्दात् श्रोत्रेण, उष्णस्पर्शात् त्वचा, शुक्लभासस्वररूपाच्च चक्षुषा प्रत्यक्षम्। जलस्य तु वुगुवुगुशब्दात् श्रोत्रेण, शीतलस्पर्शात् त्वचा, शुक्लरूपाच्चक्षुषा, मधुररसाच्च रसनया प्रत्यक्षम्। भूमेस्तु विविधशब्दात् श्रोत्रेण, विविधस्पर्शात्त्वच्चा, नानारूपात् चक्षुषा, षड्रसात् रसनया, गन्धाच्च नासिकया प्रत्यक्षम्। इति प्रत्येकमेकाधिकेन्द्रियग्राह्यत्वात् न समेति भवतु वह्न्यादिस्तत्त्वान्तरम्।

नन्वेवं व्यवस्थायां महदादीनांतत्त्वान्तगत्वंप्रति का गतिः?

योगिप्रत्यक्षेमहदादीनामपि स्थूलतेन्द्रियग्राह्यता वा सूक्ष्मता च समाइति तत्त्वान्तरं न भवतु। सत्यं समव्याप्तहेतुस्थल एव साध्यसमव्याप्तहेत्वभावेन साध्याभावो निश्चेतुं शक्यते यथा तद्रूपवान् तद्रसात्, यत्र तद्रसो नास्ति तत्र तद्रूपोऽपि नास्ति इति साध्यसमव्याप्तस्य तद्रसस्याभावात् तद्रूपाभावः सिध्यति।

अत्र तु विषमव्याप्तोहेतुः। साध्यविषमव्याप्तहेत्वभावेन साध्या भावो न निश्चीयते। यथा पर्वतो वह्निमान् धूमात्, यत्र धूमो नास्ति तत्र वह्निरपि नास्तीत्येवं साध्याभावो न सिध्यति तप्तायः पिण्डे धूमाभावेऽपि वह्नेर्निश्चितत्वात्। अतएव महदादीनां तत्त्वान्तरत्वं प्रति केवलं आगमः प्रमाणम्। न तु हेत्वभावात्, अत्र तु हेतुः स्थूलतेन्द्रियग्राह्यतासाम्यम्, साध्यस्तत्त्वान्तराभावः। हेत्वभावः स्थूलतेन्द्रियग्राह्यत्वासाम्यम्। साध्याभावः तत्त्वान्तराभावाभावः तत्त्वान्तरमिति यावत्।

इति तत्त्वप्रपञ्चे विवेकप्रतिपत्तिर्नाम पञ्चमाध्यायः समाप्तः।

(क्रमशः)

_________

सतीछाया।

<MISSING_FIG href=”../books_images/U-IMG-173156455553.jpg”/>

प्रथमपरिच्छेदः।

अहोविकीर्णा बहुपुस्तिका मम, लुण्ठन्ति विश्लिष्टपुटा इतस्ततः।
अकिञ्चनाया इव बालिकास्त्रियाः मनोऽतिदुत्वन्ति हि धूलिधूसराः॥

यत्र हि भागीरथीकल्लोलकलमुच्चरन्तीद्रुततरं प्रवहन्ती सागरमभिधावन्तीच न तृप्तिं लभते। यत्र द्रुततीर्णदृक्पथास्तु अर्णवपोतास्तीरवर्त्तिनीःक्षुद्रास्तरीर्निजवेगवर्द्धितैः कल्लोलपुञ्जैःप्रकम्पयन्तः मेघनिर्घोषमनुकुर्वन्त इव इतस्ततो विद्रवन्ति।

अस्या एव गङ्गायाः पश्चिमे तीरे कलिकातायाः अनुकृतिमिव दधानो विराजति “अन्धलनाम” ग्रामः। तत्र हि एकस्मिन् द्वितले सौधतले विंशतिर्बालिका द्वाभ्यां शिक्षयित्रीभ्यामधीयते सीवनादिकञ्च शिल्पं इंराजरीत्या समभ्यस्यन्ति। प्रायेण सर्वा एव ता बालिका द्वादशवर्षीयाः। वादिते च “टुं टां टुंटामिति” घटिकायन्त्रे चतुःकृत्वः पुस्तकादीनादाय बालिकात्रयवर्जंसर्वंविद्यालयात् निर्ययुः।

निर्गतासु बालिकासु प्रधाना गुर्वी सस्मितमाह—अयि सर्वासु बालिकासु “इन्द्रप्रियैव” सम्यक् समुत्तीर्णा परीक्षायाः इति मामतीवामोदयति। तदानीमुपविष्टानां तिसृृणामिन्द्रप्रियैव श्रीमती। मन्ये च अस्यामेवाधुना कलिकालभीतं पवित्रसौन्दर्य्यमेकीभूतं निवसति।

तदाकर्ण्य सलज्जं सस्मितञ्च इन्द्रप्रिया कथयति— मातः मातृष्वसः! लोका एवं व्याख्यास्यन्ति यन्मां समधिकं स्निह्यसि शिक्षयसि च प्रयतमाना इति।

द्वितीयाशिक्षयित्रीकथयति तन्नहीति यद्येवमिन्द्रप्रिये! तदा “मिस् मिचेल्19”पूर्वेद्युः गीते वाद्ययन्त्रे च कथमेवं भवतीमस्तुवत् अब्रवीच्च पुनः पुनः— “काष्ठशुशिरवादने20वह्व्योइंरेजसुन्दर्य्योऽपि तव सादृश्यं नैव लब्धुमीशन्ते” इति।

इन्द्रप्रिया स्मित्वा सङ्गिन्यौ द्वेबालिके कथयति— “अयि मते! अयि रजनि! एह्येहि देहं क्षालयामः वस्त्रञ्च, सायमागतप्रायम्।

बालिकासु तासु गतासु द्वितीया शिक्षयित्री कथयति— “इन्द्रप्रियेव सरलहृदया बालिका प्रायो नैव लक्ष्यते, किन्तु ईदृशीं मुग्धां सुन्दरीञ्च बालिकामनुपदमेव विपदनुसरति।

प्रधानाशिक्षयित्री सचिन्तमाह— “विद्यालयस्थापनादारभ्य न कापि विपदस्माकमपतत्, यतः अस्मिन् विद्यालये बालिकानां वास-

प्रथा नास्ति, विशेषतश्चदौवारिकौप्राचीनौ, ताभ्यामपरः कोऽपि नास्त्यत्र पुरुषः। सकला एवं कर्म्मचारिण्यः स्त्रियः। संप्रति एतदेव चिन्तनीयम्—यत् इन्द्रप्रियामविलम्बमेव तस्या मातुरन्तिकं प्रापयितुं पारयामि चेत् कृतकृत्यमात्मानं मंस्ये। यतः बालिका सा यौवनसोपानमारूढुंपदमादधाति। तव भ्रातृकन्यके इतःपरमपि द्वित्रिवषमध्येतुं प्रभविष्यतः, यतः ते आकृत्या खर्वे, इन्द्रप्रियामपेक्ष्य वयःकनिष्ठे च”। मिथ एवं संलप्य शिक्षयित्र्यौ स्वस्वकर्म्माण्यनुष्ठातुं गतवत्यौ।

एकदा इन्द्रप्रिया आपराह्निकं किञ्चिद्भुक्त्वा वातायनादधः खट्टिकामारूढ़ा स्वकक्षे स्थित्वा गलावरणं प्रवयति, किमिव चिन्तयति, किमिव पश्यति, क्षणं निमीलति मुहूर्त्तं वा आकाशं पश्यति, हृद्यानि च पाठ्यपुस्तकानि तस्या इतस्ततो व्यत्यस्तानि, औदासीन्यं परिसूचयन्ति। सा च अन्यमनस्केनअन्तरान्तरा तानि विलोकयन्ति। वयनकर्म्मणापि विशकलीभूयते। एवं दुश्चिन्तयन्त्यास्तस्या हस्ततोऽजानन्त्या इव तन्तुगोलकं गवाक्षविवरेण समीपस्थे उद्याने स्खलितम्। झटिति सुप्तोत्थितेव सा चेतति सूत्रगोलकं करच्युतमिति। ततोऽवाङ्मुखीभूय यावदुद्यानं पश्यति तावत्तत्र विचरन्तं युवकबन्धुद्वयं दृष्टवती। तयोरेकः समुत्तोल्य प्रसारितपाणिं तस्यै प्रापयितुं सूत्रगोलकं नालसासीत्। यद्यपि नाधिकमुच्चतरं वातायनं तथापि तावत् दूरं हस्तेन नासादितम्। तदा वयःकनिष्ठयुवकः सव्यग्रमाह—अतुल! इयं आसन्दी (Canestool) अत्रोपानीयताम्। द्वितीयस्तदर्थं प्रतस्थे। प्रथमस्तुयुवकःवयसा अष्टादशवर्षदेशीयः कान्त्या गौरः, सुखेन सुन्दरःअङ्गानि चापराणि रूपानुरूपाणि वामहस्तकनिष्ठिकायां हीरकाङ्गुलीयकम्। दक्षिणपाणौ सुवर्णखचिता यष्टिः, अङ्गरक्षकं महार्घवस्त्रनिर्म्मितं, दर्शनेनैव प्रतीयते यदयं महाकुलसम्भूत इति।

द्वितीयस्तु युवकःप्रथमस्य चाटुकारो बन्धुः नासौ प्रियरूपकः श्यामलाङ्गः, आस्यप्ररूढाः श्मश्रवः वृद्धच्छागलमनुचक्रुः। अनेनासन्दीसमानीता, इन्द्रप्रियया च सूत्रगोलकं लब्धमिति। किन्तु पुनरपि हस्तस्थितं गलावरणं पतितम् तदपि तेन प्रथमेन युवकेनानुगतभृत्येनेव तस्यै प्रापितम्। जल्पितञ्च मृदु मृदु “अयि निरुपमे! स्मर्त्तव्योऽहं पुरस्कर्त्तव्यश्च इति” युवकवाणी वीणाध्वनिरिव इन्दप्रियायाः श्रुतिविवरे ध्वनिता। सरला सा बालिका प्राप्तलज्जेव गवाक्षदेशादपसृता।

अतुलस्तु विदित्वा तत्, सहास्यमाह—कुमार! रमणीमोहनेति नाम्नि कलङ्कः पातितः। मनोनापहर्त्तुमीशसे अस्याः। कुमारस्तु चिन्तामभिनीय व्यक्तमाह—न हि न हि भ्रातः! ईदृशीं रत्नायमानां ललनां न लिम्पामि पापपङ्केन। किन्तु इच्छामि तां परिणेतुम्।

तदाकर्ण्य अतुलःमनसि दूयते। यतः कुमारस्य करच्युतं रत्नम् अतुल एवभोक्ष्यते, किन्तु सति विवाहेऽनयोः सा नैव मे सुलभेति।

स्पष्टमाह सः “कुमार! साधारणबालिकया अनया विवाहःराज्ञा किमभिमन्यते? अहं पूर्वमेवास्याः निखिलं वृत्तमनुसन्दधे— “इयन्तु क्वापि ग्रामटिकायां कायस्थस्य कन्या, नास्याः पिता जीवति, न वा समाजे सम्पत्त्या सम्मानमर्हति, भ्रातास्या वर्त्तते एकः। अतिलघीयसौभूमिरस्ति पैत्रिकी, न तया सम्यक् वृत्तिर्निर्वहति। वत्सरद्वयं यावदस्मिन् विद्यालये शिक्षार्थमागतेति, विद्यालयस्यास्य प्रधानशिक्षयित्री अस्या मातुःष्वसेति।

कुमारस्तु मन्दमन्दमाह— “त्वया कुतोऽधिगतं वृत्तमेतावत्” अतुल आह “सहानया बालिकया वृद्धा परिवारिका समागता, सार्द्धं तया मम संलाप्रो जातः।” कुमारस्तु स्मित्वा आह “तां वर्षोयसीमत्रानेतुं प्रभवसि?” अतुलः द्रुतपदेन उद्यानतो वहिरभूत्।

राजतनयो रमणीमोहनः प्रकृत्या उदारः सरलश्च, कपटबन्धुस्तु अतुलकरःस्वार्थंसाधयितुं तथाविधमपि कुमारं गर्हितं पन्थानमारोहयत्। कपटबन्धोः सहवासेन असत् प्ररोचनया च विद्यामध्येतुं प्रवर्त्तमान एव सः अमितव्ययित्वेन लाम्यट्यदोषेण च कृतायत्तः पितुर्विद्वेषभावमलभत। तथापि पिता तदेकपुत्रतया कथमपि तद्दोषमसहत।

प्रस्थिते च अतुलकरे कुमारःसानन्दं तस्मिन्न्युद्याने पादचारणेन परितो विलोकयति। इन्द्रप्रिया बालिकैवानुरागसागरे निरमज्जत्। प्रत्यहमेवमेवाटन्तं कुमारमालोक्य मनस्तस्या प्रणयमभिधावतिस्म। तदा नास्याः पुस्तकेष्वादरः न वा शिल्पकर्म्मणि व्यग्रता, केवलमुन्मनस्का वातायनपथे एवोपाविशत्। रमणीमोहनस्य मनोहरं रूपमेकमवलोक्य स्नेहार्द्रहृदये रागतरुरुद्भिद्यते।

यद्यपि सूत्रगोलकच्छलेनालपति कुमारे सा तत उत्थाय गतवती, किन्तु समयमधिवामन्यतःक्षपयितुं नाशक्नोत् शनैर्म्मन्त्रमुग्धेव पुनर्वातायनतले आविरस्ति। कुमारस्य नयनाभ्यां नयने यावन्मिलिते तावल्लज्जया जड़ीक्रियमानेव तत्राधोमुखीउपविशति।

तदा तस्या देहसन्धयो विश्लिष्टा इव, वक्षसो नीचैर्ज्वलितमिव, मस्तकमघूर्णदिव, केनापि हृदयं प्रहृतमिव, फुफ्फुशं धक् धक् कम्पितमिव आपादमस्तकञ्च स्वेदेन प्लावितमिवासीत्।

भूत्वा च कृताञ्जलीरमनीमोहनोऽवदत् “अयि इन्द्रप्रिये! यदि नावजानासि सामान्यधिया वचनकरमिमं जनं तर्हि किञ्चिदावेदितुमिच्छामि, अनर्घमेतत्ते दिव्यं रूपं वरमाल्येन पुरस्कृत्य भिक्षुको दीनोऽयं धनीक्रियताम्” श्रुत्वेदमिन्द्रप्रिया तड़िदिव ततोऽन्तर्दधे। निर्लज्जा कुमाररसना अगत्या तूष्णीं बभूव। अपेक्षत च अतुलकरस्य पुनरागमनम्।

क्षणं व्यतीत्य वृद्धया कयाचित् सह अतुलकरस्तत्रोपतस्थे। कुमारोऽवदत् सेयं किं परिचारिका? या खलु आलापविषया नौ?। अतुलः शिरः कम्पयित्वा तत् स्वीचकार। कुमारः क्रमशः शनैः शनैः सर्वमपृच्छत्।

कुमारः। किन्ते नाम?

वृद्धा। यशोदा इति।

कुमारः। क्व ते वसतिः? कस्य वा गृहे?

यशोदा। कोननगरे। नीरेन्द्रलालविलासिनो * गृहे कर्म्मकारिणी। तस्य भगिनीं जन्मतः प्रभृति परिपालयामि, संप्रति सा मातृष्वसुनिकेतनमध्येतुम्, अहमपि तां पर्य्यवेक्षेतुं सार्द्धं तया गता। कथमेतावत् विलासिना पृच्छते?

रमणीमोहनस्तु स्मित्वा प्रोवाच—यदीन्द्रप्रियां मे चित्तमनुवर्त्तयितुं शक्नुयास्तर्हि तुभ्यं सहस्ररूपकं दास्यामि। वृद्धासहस्रेति कियती संख्या तन्न विदितवती। श्रुत्वैव तत् तस्या गात्राणि सीदन्तिस्म। सा अवदत् विलासिन्! तन्न मया साध्यम्। हाहतास्मि अनया अन्तःसत्वैवास्या माता मृतपतिका बभूव। क्षणमपि एनां नालोक्य जीवति जननी, प्राणेभ्योऽपि गरीयसीबालिकेयम्। लेखने पठने चास्या अतीव प्रेमेति अगत्या मातुः ष्वसरि समर्पितवती।

(क्रमशः)

_______________________________________________________________

*अत्र “वाबु” शब्दस्थाने विलासिशब्दो व्यवहार्य्यते।

___________________________________________________________________

श्रीश्रीदुर्गा शरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-173158340347.jpg”/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्तीजनानिव।
मायावलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी॥

<MISSING_FIG href=”../books_images/U-IMG-173158349568.jpg”/>

मासावतरणिका।

अन्तस्तनो स्तपति निःश्वसितानुसारी, श्लिष्टा तपः पवन उष्णजलानुकारी।
आपश्च वाह्यमभिशुष्कसरोवरस्य मासः शुचिः शुचिसमोऽसुखकृन्नराणाम्॥

उद्भटश्लोकाः।

या काली हरिदम्बरा नववनश्यामातिघोरानना
मुक्तालम्बिकचा परात्परतरा मुण्डालिमालाधरा।
वक्त्रोद्गीर्णसुरारिसङ्गरुधिरश्रेणी विचित्राजिरा
सा काली त्रिगुणात्मिका भगवतीकुर्वीत वो मङ्गलम्॥११५॥

अर्द्धं दानववैरिणा21 नरहराभावः शिवस्य मृत्युः। समुन्मीलति उपपद्यते। शिवो मृत इत्यर्थः। शिवे मृते तस्य वस्तुजातं क्व गतं तत्राह गङ्गेत्यादि। धनिसन्निधौ याचकस्य चाटूक्तिरियम्।")गिरिभुवाप्यर्द्धं हरस्याहृतम्
ख्यातीदं जगतीतले स्मरहराभावः समुन्मीलति।
गङ्गा वारिधिमम्बरं शशिकला नागाधिपःक्ष्मातलम्
सर्वज्ञत्वममथेश्वरत्वमगमत्त्वां मामाञ्चभिक्षाश्रितः॥११६॥

इन्दुंकैरविनीव कोकपटलीवाम्भोजिनी वल्लभं
माकन्दं पिकसुन्दरीव मधुपश्रेणीव पद्माकरम्।
मेघं चातकमण्डली व युवतिः प्राणेश्वरं प्रोषितं
चेतो वृत्तिरियं मम प्रतिदिनं त्वां द्रष्टुमुत्कण्ठते॥११७॥

श्रीविधुभूषणदेवः(राँचि)।

मातृभक्तिः।

(पूर्वप्रकाशितात्परम्)

स एव हि त्रयो लोकास्त एव त्रय आश्रमाः।
त एव हि त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः॥२३०॥

पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः।
गुरुराहवनीयस्तु साऽग्नित्रेता गरीयसी॥२३१॥

त्रिष्वप्रमाद्यन्नेतेषु त्रींल्लोकान् विजयेद् गृही।
दीप्यमानः स्ववपुषा देववद्दिवि मोदते॥२३२॥

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः।
अनादृतास्तु यस्यैते सर्वास्तस्या फलाः क्रियाः॥२३३॥

यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत्।
तेष्वेव नित्यं शुश्रूषां कुर्य्यात् प्रियहिते रतः॥२३४॥

तेषामनुपरोधेन पारत्र्यंयद्यदाचरेत्।
तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्म्मभिः॥२३५॥

त्रिष्वेतेष्विति कृत्यं हि पुरुषस्य समाप्यते।
एषधर्म्मःपरः साक्षादुपधर्मोऽन्य उच्यते॥२३६॥इति।

विष्णुरपि ३१ अध्याये—

“त्रयः पुरुषस्यातिगुरवो भवन्ति। माता पिता आचार्य्यश्च। तेषां नित्यमेव शुश्रूषुण्णा भवितव्यम्। यत्ते ब्रूयुस्तत् कुर्य्यात्। तेषां प्रियहितमाचरेत्। न तैरननुज्ञातःकिञ्चिदपि कुर्य्यात्।

एत एव त्रयो वेदा एत एवत्रयः सुराः।
एत एव त्रयोलोका एत एव त्रयोऽग्नयः॥

पितागार्हपत्योऽग्नि, र्दक्षिणाग्निर्माता, गुरुराहवनीयः।

सर्वे तस्यादृताधर्म्मा यस्यैते त्रय आदृताः।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः॥” इति।

कौर्मे उपविभागे ११ अध्यायेऽपि—

“यावत्पिता च माता च द्वावेतौ निर्विकारिणौ।
तावत्सर्वं परित्यज्य पुत्रः स्यात्तत्परायणः॥

माता पिता च सुप्रीतौ स्यातां पुत्रगणैर्यदि।
स पुत्रः सकलं धर्म्मंप्राप्नुयात्तेन कर्म्मणा॥

नास्ति मातृसनं दैवं नास्ति पितृसमो गुरुः।
तयोः प्रत्युपकारोऽपि न कथञ्चन विद्यते॥

तयोर्नित्यंप्रियं कुर्य्यात् कर्म्मणा मनसा गिरा।
न ताभ्यामननुज्ञातो धर्म्ममन्यं ममाचरेत्॥” इति।

लघुहारीतसंहितायां ३ अध्याये च—

‘अभिवाद्यगुरोः पादौ सन्ध्याकर्मावसानतः!
तथा योगं प्रकुर्वीत मातापित्रोश्च भक्तितः॥

एतेषु त्रिषु नष्टेषु नष्टाः स्युः सर्वदेवताः।
एतेषां शासने तिष्ठेद् ब्रह्मचारी विमत्सरः॥” इति।

औशनससंहितायां च १ अध्याये— मातृतः पितृतश्च सर्वान् तुरूनभिधाय-

“गुरुणामपि सर्वेषां पूज्याः पञ्च विशेषतः।
तेषामाद्यास्त्रयःश्रेष्ठास्तेषां माता सुपूजिता॥

यो हि वासयति दिवा येन सद्योपदिश्यते।
ज्येष्ठो भ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः॥

आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः।
पूजनीयाः प्रयत्नेन पञ्चैते भूतिमिच्छता॥

यावत्पिता च माता च द्वावेतौ निर्विकारिणौ।
तावत्सर्वं परित्यज्य पुत्रः स्यात्तत्परायणः॥

मातापिता च सुप्रीतौ स्यातां पुत्रगणैर्यदि।
सपुत्रः सकलंधर्म्मंप्राप्नुयात्तेन कर्म्मणा॥

नास्ति मातृसमं दैवं नास्ति पितृसमोगुरुः।
तयोःप्रत्युपकारोऽपि न हि कश्चन विद्यते॥

तयोर्नित्यंप्रियं कुर्य्यात् कर्म्मणा मनसा गिरा।
न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत्॥

वर्जयित्वा मुक्तिफलंनित्यनैमित्तिकं तथा।
धर्मसारःसमुद्दिष्टः प्रेत्यानन्तफलप्रदः॥” इति।

एवं पितृभक्तिसहकृताया मातृभक्त्या अनन्तफलसम्पादकत्वेऽपि पित्रपेक्षया मातुरधिकं गौरवमित्याहुः। तथाच मनुः २ अध्याये—

“उपाध्यायान्दशाचार्य्यंआचार्य्याणां शतं पिता।
सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते॥”

वसिष्ठसंहितायां च १३ अध्याये—

“उपाध्यायान्दशाचार्य्यं आचार्याणां शतं पिता।
पितुर्दशशतं माता गौरवेणातिरिच्यते॥”

वृद्धगौतमसंहितायां धर्म्मसारसमुच्चयनाम्नि १४ अध्याये च—

“उपाध्यायाद्दशाचार्य्यं आचार्य्याणां शतं पिताः।
पितुर्दशगुणं माता गौरवेणातिरिच्यते॥”

ब्रह्मवैवर्त्तेगणेशखण्डे ४० अध्याये च।

“जनको जन्मदातृत्वात्पालनाच्च पिता स्मृतः।
गरीयान् जन्मदातुश्च योऽन्नदाता पिता मुने?
“विनान्नान्नश्वरों देहो न नित्यः पितुरुद्भवः।
तयोः शतगुणे माता पूज्या मान्या च वन्दिता॥
गर्भधारणपोषाभ्यां सा हि ताभ्यां गरीयसी॥” इति

गारुड़े १४ अध्याये—

“स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति।
उपनीय ददद्वेदमाचार्य्यः स प्रकीर्त्तितः॥

“एकादश उपाध्याया ऋत्विग्यज्ञकृदुच्यते।
एते मान्या यथा पूर्वभेभ्यो माता गरीयसी॥” इति॥

अग्निपुराणेऽपि—

“दशविप्रादुपाध्यायो गौरवेणातिरिच्यते।
तेभ्यः पितादशभ्यस्तु ततो माता गरीयसी॥” इति॥

कौर्मेउपविभागे ११ अध्याये च—

“गुरूणामपि सर्वेषां पूज्याः पञ्च विशेषतः।
तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता॥” इति॥

पितृवचनापेक्षयाऽपि मातृवचनस्याधिक्य मग्निपुराण—

“न पितुर्वचनं कार्य्यं यथा मातुः सुतेन हि।” इति।

पितुः पातित्ये त्यागो मातुरत्यागश्च तत्रैव—

“पिता तु पतितस्त्याज्यो न माता सत्सुतेन हि।
गर्भधारणपोषाद्धि ततो माता गरीयसौ॥” इति।

वसिष्ठसंहितायां १३ अध्याये च—

“पतितः पिता परित्याज्योमाता तु पुत्रे न पतति” इति।

यत्तु वृद्धगौतमसंहितायां दशमाध्याये—

“उपाध्यायं च पितरौ गुरुं च भरतर्षभ।
ये त्यजन्ति सहायांश्च ते वै निरयगामिनः॥” इति।

तत्रैव एकादशाध्याये च—

“मातरं पितरं वापि भृत्यं दत्ताभयं सुतम्।
त्यजेच्च करुणां भार्य्यां तं विद्याद् ब्रह्मघातकम्॥” इति।

साकल्येन दोषातिशयोक्तिः, सा अपतितपित्रादिपरैव उक्तपूर्ववसिष्ठादिवचनानुरोधात्। एवं च पितृसहकृतमातृशुश्रूषानुष्ठानेऽपि फलाधिगमे मातुरत्यधिकोपयुक्ततेति सिद्धं भवति, केवलमातृभक्त्या अपि फलमुक्तं वह्निपुराणे—

मातृतोऽन्यो न देवोऽस्ति तस्मात् पूज्या सदा सुतैः।
मातुश्च यद्धितं किञ्चित् कुरुते भक्तितः पुमान्।
तद्धर्मं हि विजानीयादेवं धर्मविदो विदुः॥

मातृसम्मानमन्तरा कृतस्य कर्मणो नैरर्थ्यमप्युक्तं पाद्मे भूमिखण्डे ६३ अध्याये—

माता न पूजिता येन तस्य वेदा निरर्थकाः।
यज्ञैश्च तपसा विप्र! किं दानैः किञ्च पूजनैः॥१९॥

प्रयाति तस्य वैफल्पं न माता येन पूजिता॥२०॥” इति।

एतदेव हि सुपुत्रस्य लक्षणं यन्माता पिता च संसेव्यते। अतएव पाद्मे भूमिखण्डे १७ अध्याये सत्पुत्रलक्षणप्रस्तावे “पितृभक्तिपरो

नित्यं सर्वस्वजनवत्सल” इत्यभिहितम्। कियन्नाम वर्ण्यते श्रीमातुर्माहात्म्यांनूनं मातुरेव समधिकगौरवशालितया पूज्यत्वेनाचिन्त्यगुणतया सर्वानन्दमयत्वेन च परे ब्रह्मण्यपि रूढ़स्तन्नामाक्षरपरिवृत्यैव “आत्मा इति” शब्दः। महाशयाः! अथावधार्य्यन्तां गुणाः श्रीमातृदेव्याः माहात्मां च तद्भक्ते, नूनं मातृभक्तस्य सकला अपि वशीभवन्ति लोकाः। कृतप्रणयमिव च स्वयमेवोपसर्पति ज्ञानम्। न तस्य किञ्चिदपि परोक्षम् यो हि सम्यक् समाचरति शुश्रूषां श्रीमातुः।

अत्रैक मैतिह्यमतिसंक्षेपत उपहरामः पाद्मेभूमिखण्डे ६१/६२/६३ अध्यायेषु—

अस्ति कुरुक्षेत्रे ब्राह्मणः कुण्डलो नाम। तस्य च मूर्त्त इव पुञ्जः पुण्यानां सुकर्मा नाम पुत्रो बभूव। स जरन्तौ मातापितरावेवैकान्ततः शुश्रूषते। अधीते च पितुरेव सकलान्यपि शास्त्राणि।

अस्मिन्नेवावसरे पिप्पलो नाम कश्चिन्मुनिः सहस्रत्रयं वर्षाणां घोरं तपः तप्यमानो वरमुपलभ्य सकलमपि जगदात्मनो वशमानिन्ये। तेन च समुत्सिक्तो बभूव। तमेवमात्मनः सदृशमपरमपश्यन्तं नितान्तोत्सेकमवलोक्य उपादत्तमरालाकारो भगवान् विरिञ्चिः समुपेत्य सुमधुरया गिरा निजगाद।

“अयि भोः! कुत एवमुदूह्यते गर्वः? न किल भवानेवोपगतः सर्ववशीकरणात्मिकां सिद्धिम्। सहस्रत्रयं वर्षाणां तपश्चरित्वा कियतीं सिद्धिमुपगतस्य कियानयं तेऽवष्टम्भः?। नाद्यापि श्रवणसरणिमुपगतस्ते कुण्डलात्मजः सुकर्मा नाम।य एवमात्मानमेव त्रिभुवनैकगरिष्ठमाशङ्कसे। अहो पुण्यमयता तस्य महाशयस्य। यद्यपि स सुधीर्नविततार दानानि। न परिदध्यौ देवान्। न जुहाव यज्ञेषु। नानुतष्ठौ कर्माणि। न बभ्राम तीर्थानि। नोपचकार द्विजातीन्। न वा सिषेवे धर्मम्। तथापि मातापितरैकतानमानसस्य शिशोरपि तस्य सुकर्मणो यत् ज्ञानम्, दृढ़तरतपःसम्पादि-

ताङ्गकार्श्येऽपि भवति न तल्लेशोऽपि। तत् सर्वथा वृथैवायं ते मद” इति।

इति तदीयमाकर्ण्य वचनं सुकर्मणो वृत्तं जिज्ञासमानः पिप्पलः तस्मादेव हंसात्तस्याधिष्ठानमवगत्य सुकर्मणेदिदृक्षयाप्रतस्थे।

कुण्डलस्याश्रममुपगतश्च पितरौ शुश्रूषमाणं तदेकतानमानसं प्रौढ़गम्भीरं महानुभावं व्यलोकिष्ट सुकर्माणम्। ततो यथाविधिकृतातिथेयसत्कारं तापसपिप्पलं तदा गमनप्रयोजनं स्वयमेव निगदन्तं सुकर्माणं पिप्पल उवाच।

“वत्स! त्वयि सकलमपि जगद्वशीभूतमित्याकर्णयामः। तदर्हसि सकौतूहलस्य मे मनसो वाञ्छां पूरयितुम्” इति।

तदाकर्ण्य यथा रोचते भगवते इत्यभिदधानेन सुकर्मणा स्मर्य्यमाणाः सपदि शक्रप्रमुखाः पुरस्तात् प्रादुर्बभूवुः, सन्ध्यायां तारका इवाकाशे। ततो निजानुध्यानप्रयोजनमववुयुत्सतो देवाँस्तदुक्तवति सुकर्मणि ते तं वरं वृणीष्वेत्यवोचन्। स तु माता पित्रोरुद्गाढ़भक्तिमन्तरा न ववार किञ्चिदप्यन्यत्। एतदवेक्ष्य विस्मयमानः पिप्पलः पप्रच्छ। भोः कुतः सम्पन्नं ज्ञानमेतद्भवतेति। स तु प्रत्यवोचत्।

“भगवन्! न किलावगच्छामि कुतः सम्पन्नमेतदिति। मया तु न शोषितः कायस्तपोभिः नानुष्ठितो धर्मः, नावलोकितं तीर्थम्, नन सम्पादितं ज्ञानम्, न वान्यदनुष्ठितं पुण्यम्। केवलमनन्यमानसो मातापितरावेवानुदिनमभ्यर्चयामि। तयोरेव प्रक्षालयामि पादौ। संवाहयाम्यङ्गानि। पिबामि चरणसलिलम्। एवमन्यधर्मानविभावयन्नपि मातापित्रेकतानः स्वच्छन्दचारी कालं क्षपयामि। आसादयामि च यदेव कष्टानुष्ठेयैः क्रतुभिः साधते फलमन्यैः। मातृशुश्रूषैव हि कन्दलः सद्गतेः पुत्राणाम्, सर्वस्वं धर्मस्य, सारो जगत्त्रयस्य, सोपानपरम्परा मुक्तिसौधस्य। एवमेव पितुरपि शुश्रूषा” इति।

निजगाद माहात्म्यंमातापितरभक्तानाम्। यथा— पाद्मे भूमिखण्ड ६३ श्रध्याये।

“तत्र गङ्गा गयातीर्थं तत्र पुष्करमेव च।
यत्र माता पिता तिष्ठेत् पुत्रस्यापि न संशयः॥६९॥

जीवमानौ गुरु एतौ स्वमातापितरौ तथा।
शुश्रूषते सुतो भक्त्या तस्य पुण्यफलंशृणु॥७२॥

देवास्तस्यापि तुष्यन्ति ऋषयः पुण्यवत्सलाः।
त्रयोलोकाश्च तुष्यन्ति पितृशुश्रूषणादिह॥७३॥

मातापित्रोस्तु यः पादौ नित्यं प्रक्षालयेत् सुतः।
तस्य भागीरथीस्नानमहन्यहनि जायते॥७४॥

पुण्यैर्मिष्टान्नपानैर्यः पितरं मातरं तथा।
भक्त्या भोजयते नित्यं तस्य पुण्यं वदामि ते॥७५॥

अश्वमेधस्य यज्ञस्य फलं पुत्रस्य जायते।
ताम्बूलैश्छादनैश्चैव पानैश्चाशनकैस्तथा॥७६॥

भक्त्या चान्नेन पुण्येन गुरू येनाभिपूजितौ।
सर्वज्ञानी भवेत्सोऽपि यशःकीर्त्तिमवाप्नुयात्॥७७॥

मातरं पितरं दृष्ट्वा हर्षात् संभाषते सुतः।
निधयस्तस्य सन्तुष्टा नित्यंगेहे वसन्ति च॥७९॥” इति।

ततः ६३ अध्यायमारभ्य ८३ अध्यायं यावन्मातापितरशुश्रूषामाहात्म्यां सदृष्टान्तं प्रतिपाद्य चतुरशीतितमेऽध्याये” एतत्ते सर्वमाख्यातम्” इत्युपक्रम्य।

“पितृमातृसमं नास्ति अभीष्टफलदायकम्॥४॥

साभिलाषेण भावेन पितापुत्रं समाह्वयेत्।
माता च पुत्र पुत्रेति तस्य पुण्यफलं शृणु॥५॥

समाहूती यदा पुत्रः प्रयाति मातरं प्रति।
यो याति मोदसंयुक्तो गङ्गास्नानफलंलभेत्॥६॥

(क्रमशः)

____________

गर्वपरिणतिः।

(पूर्वप्रकाशितात्परम्)

तृतीयोऽङ्कः।

<MISSING_FIG href=”../books_images/U-IMG-173158737069.jpg”/>

रामचन्द्रस्य वहिर्गृहम्।

रामचन्द्रः। मित्र! दृष्टमपूर्वदृश्यम्। एकतः सूर्य्यास्तगमनमपरतश्च निशाकरकरोदयः। अहो! प्रीतिदायिनी प्राकृतिकसम्पत्तिः।

नीलाम्बरः। भगवतो महेशस्य सृष्टमिदमखिलवस्तुजातं प्रजारञ्जनायैव प्रतिभाति। विमुग्धा जीवाः, स्वकृताकर्म्मफलेन दुःखिनो वृथा तस्मिन् करुणामये दोषवृन्दमारोपयन्ति। अहह! अनुपमा रात्रिसुषमा, भगवतो मरीचिमालिनः किरणजालेन शुक्लीकृतान्यखिलानि समवत् विभान्ति। बन्धो! किं बहुना हतपुत्रस्यापि शोकोऽस्यांविरमतीति मन्ये।

रामः। अहो! विचित्रमिदम्। बन्धो! दिवाकरनिशाकरयोर्युगपत् व्यसनोदयाभ्यां लोकानामचिरस्थायिनीदशेति भगवता प्रजासृजा विज्ञाप्यते। (स्वगतम्) अहह! न जाने, विधातुरनिवार्य्ययानया नियमशक्त्या कदा विमले विनयमार्गे उपस्थास्यति मे सुरेश इति।

प्रविश्य द्वारपालः। देव! उपस्थितः—

रामः। (सव्यग्रम्) कः पुनरुपस्थितः।

द्वारपालः! महाननिष्टापातः।

रामः। अनिष्टापातः? कीदृशः कथ्यतां सुस्पष्टम्।

द्वारपालः। प्रदोषसमये भ्रातृकल्पः स सुरेशो वनमुद्दिश्य प्रस्थितः। अधुनापि नायातः। अतः शुद्धान्तमध्ये सपरिजनाम्वापि मृतकल्पा वर्त्तते। एतत् श्रुत्वा देवः प्रमाणम्।

नीलाम्बरः। सुरेशोऽरण्यां गत इति कथं ज्ञातम्।

द्वारपालः। प्रस्थानकाले मां निवेद्यासौ प्रयातः।

नीलाम्बरः। कथं ज्ञात्वापि निशामुखेऽस्य वनप्रयानं न निषिद्धः।

द्वार! निषिद्धो बहुशः, परं तादृशोमादृशां नास्ति वचनावसरः।

रामः। मित्र! अलं तावदनयानर्थकवचनपरम्परया। दौवारिक! गच्छ स्वनियोगमशून्यं कुरु।

नीला। बन्धो! कथमनर्थकमेतदिति कथ्यते। बालकः खलु सुरेशः। दैववशतश्चेत् पथभ्रष्टो भवेत् तदा महाननर्थः स्यात्।

रामः। मित्र! न सम्यक् विदितं भवतः, अत एवमुच्यते। तत्सदृशात्माभिमानीद्वितीयो नास्तीत्यवगम्यताम्। पश्यतु तावदस्य कार्य्यजातम् यदाधित्यकागमनायानुरुद्धस्तदान गतः। अधुनास्य वनगमनं किं प्रयोजनकम्। प्रयोजनन्तु केवलमस्माकमुत्कण्ठावर्द्धनमिति।

नीला। बन्धो! न भवति सम्यक् भवद्वचनानामर्थग्रहः। प्रियदर्शनस्यानिष्टशृङ्गाबलवती जायते। कालव्ययेनालम्। स्वयमेव गच्छामि तदग्येयतायेति।

रामः। मित्र! धैर्य्यमवलम्ब्यताम् निशकरुxxxxxxxxxxस्यांनिशायारपि यदि स पथस्रष्टोभवेत्;तहा धिक् तत्वास्वभिमानम्; वृथाशास्त्राध्ययनम्, निदर्शकञ्च जीवनधारणम्।

नीला! नहि नहि; क्षणमपेक्ष्यताम्। शीघ्रमागच्छामि। दौवारिक! त्वमपि अस्माभिर्मिलितो भव। (इति तेन निष्क्रान्तः)।

रामः। क्लेशबहुलोहि संसारः। स हि अविदितपथ इत्यत्र सन्देहो नास्ति। किं करोमि, का गतिः। (क्षयं विमृश्य) कृष्णादासं तावत् प्रेरयामि। स हि विदितमार्गः कुशलो दृढ़प्रतिज्ञश्च। एतादृशे कर्म्मणि स एव प्रभवति नान्य इति मे दृढ़ा मतिः। भवतु तत्सकाशं गच्छामि। इति निष्क्रान्तः)।

इति तृतीयोऽङ्कः।

श्रीनन्दलालविद्याविनोदस्य।

__________

सतीच्छाया।

(पूर्वप्रकाशितात्परम्)

रमणीमोहनःसाग्रहं पुनराह— तुभ्यंदशशतं रूपकं दास्यामि ब्रूमि त्वमिन्द्रप्रियां “रमणीमोहनरायः भवतीं परिणोतुमिच्छति” किन्तु रहसि,यतः पिता मे जीवति, स यदि जानीयात् तर्हिविवाहो व्याहन्यते। इन्द्रप्रिया मामभिजानाति, इदमपि ब्रूयाःयं पार्श्ववर्त्तिनि उद्याने प्रायः पर्य्यटन्तं विलोकयसि, यश्च कदाचित् सूत्रगोलकं भवतीं प्रापयामांस सोऽसौ। श्रुत्वैतत् यदि सा अभिमन्यते, तदा कलिकातायां गड़पारे स्थाने कस्यचित् बन्धोरावासे नौ विवाहो निष्पत्स्यते। अवगच्छ धात्रि। यथा वृत्तमेतत् इन्द्रप्रियाया मातुःष्वस्यापि न कञ्चमपि जानीयात्।

अतुलस्तु सम्यगुत्साहमापाद्य अवगच्छ धात्रि। वदीन्द्रप्रियामस्मै प्रदातुं प्रभवति तर्हि सा राज्ञी भवेत् एवं तवापि तावन्तः सुहृद आमरणमक्लिष्टजीविनोभवेयुः इति।

वृद्धा “शतरूपकः” इत्यस्यार्थवती“दशशतरूपकः” इत्येवमाकर्ण्य शिरसि भ्रमतीव। ततः कुमारं सा सविनयं प्रणम्य “दशशतरूपकः” इत्येवं भूयो भूयो विभाज्य मनसा शचीव भूत्वा उद्यानान्निरगच्छत्। कुमारोऽपि उद्यानगृहं सार्द्धं बन्धुना प्रविवेश।

विद्यालये कस्मिंश्चित् कक्षे लौहपादिज्रा खट्टिका, तत्र इन्द्रप्रिया दूरत्ययां चिन्तामालिङ्ग्यशयितवती। रात्रिः द्वौप्रहरौ समतीता, नास्त्यस्या निद्रालेशोऽपि। एकतो मातृस्नेहः लोकलज्जाभयश्च। अपरतः समूढ़नवप्रेमा निरुद्दानप्ररूढ़ः। वृद्धासा परिचारिका गृहकर्म्मनिर्वहन्ती रात्रेर्द्विप्रहरादर्वाक् न विश्राम्यति। तदा गृहं प्रविश्य विलोकयामास इन्द्रप्रिया जागर्त्ति इति। वृद्धासस्नेहमाहमातः ! अधुनापि जागर्सि? इन्द्रप्रिया तथैव तस्यौ। वृद्धा शनैरुपगम्य नवनीतपेलवमस्याः अङ्गं मृदु मृदु संवाहयंसंवाहय-

मवादीत्—“इन्द्रप्रिये! किमपि विवक्ष्यामि किं कुप्येः? इन्द्रप्रिया भ्रूविक्षेपमवदत् “किमिति” वृद्धा सुखमानस्य रमणीमोहनसन्देशं तावन्तमनुच्चैरुवाच। इन्द्रप्रिया सीदन्तीव सभयमवदत् धात्रि! चेदेवं तर्हि आमृत्यु जननीमे मुखं नावलोकयिष्यति तत्र का गतिः।

वृद्धा। कथमेवम् ईदृशस्तु वरः सुरवर इव सुखेन लभ्यते। तद् ब्रूहि तर्हि तस्मै विलासिने सम्प्रति वक्ष्यामि।

इन्द्रप्रिया। (सकम्पं) न हि धात्रि! भूयो विभेमि यदि मातुःस्वसा जानीयात्?। कथं वा एकाकिनी परेण पुंसा सह निवसामि।

वृद्धा। तां सान्त्वयित्वा अवदत् किमिति विभेषि मातुःस्वसुः, सा कथमपि नावगच्छेत्। एवम् एकाकिनीवा कथं स्थास्यसि? त्वया सममहमपि यास्यामि।

आकर्ण्यैतदिन्द्रप्रिया तुष्णीमभूत्।

वृद्धा। कदा गमिष्यसि।

इन्द्र। (अन्यमनस्केन) यदा तुभ्यं रोचते।

श्रुत्वैतत् परिचारिका सानन्दं तां मृदुमृदु करेणामर्षन्ती निद्रापयामास। स्वयञ्च निदद्रौ।

अद्य श्रावणस्य द्वादशं दिनं नीरधरस्तु नीरवः तरुराजमूर्द्धनिनीरं किरति। सर्वा दिशः समावृणोति जलदपटलः। विद्यालये च महान् गोलोयोगः समजनि। सर्वेषामेव वदने शोकस्य दुःखस्य भीतेश्च प्रतिविम्बः स्फुरति। इन्द्रप्रिया सह वृद्धया परिचारिकया पलायिता। न केऽपि किमप्यनुसन्धातुं न शक्नुवन्ति। प्रधाना शिक्षयित्री, वृत्तान्तमेतत् “कोननगरे” प्रापयति।

अतिजुगुप्सितां वार्त्तामाकर्ण्य माता वज्राहतेव मुहूर्त्तमिव स्तम्भिता बभूव। व्यतीत्य च क्षणं चिरमुच्चैरन्वयेऽस्माकमनयैव मन्दभागिन्या कुलङ्कषयेव कुलमुन्मूलितम्, निष्कलङ्गे चास्मिन्नन्विये

कलङ्ककालिमा पातिता, इति दुर्विसहचिन्ता क्रोधरूपेण परिणमते। क्रोधकम्पिता माता मुहुरुच्चैः पुत्रमाह। रे नरेन्द्र! दुश्चारिणीमेनामलमन्विष्य। अहह, यस्या द्वादशवर्षकल्पाया अङ्कुरप्रायाया उत्पथे प्रवर्त्तितुमेतावान् साहसः न जाने प्ररूढ़पदा सा किमिव विषमयफलमुत्पादयिष्यति। अतः परं सा मृतेति मनः प्रतिबध्नामि। प्राचीननीतिविगर्हिते विश्वविदिते विद्यालये अधीत्य प्राधान्यं सा अलभतेति मनसि हृष्यामि नन्दिनी मदीया गुणैः स्वरूपमनुकुरुते। किन्तु तद्विपरीतं मदीयमेव दुरदृष्टंभूयो द्रढ़यति। चिराय यशोदायास्तस्या यत् दयाञ्चक्रे पिशाचीव सा पापीयसीदयाया आणृन्यंगतवती। अतएव “कुलकलङ्गिनीमेनामलमन्विष्य”।

नरेन्द्रघोषस्तदाकर्ण्य जननीवचनं धीरं वदति, मातः! नास्ति क्रोधात् परं रिपुः। भूत्वा च क्रोधवशवर्त्ती अनधिगतसंसारभारां सदसद्विचारमूढ़ांबालिकां चिराय दुःखकूपे किमिति निःक्षिपामि। एवं वदत एव नरेन्द्रस्य निरुद्दामवाष्पप्रसरः कण्ठमरुधत् आबाल्यात् स्नेहलालिताया भगिन्याः शोकेन स तुष्णीं रोरुद्यते। माता च क्रन्दने नन्दनस्य असह्यशोकेनाभिभूयमाना वाताहतकदलीव भुवमालिङ्गति।

तदानीं तस्मिन्नेव स्थाने अपरापि काचित् प्रतीपदर्शिनी उपतिष्ठते। या खलु इन्द्रप्रियाया दुर्नयात् न दूयते स्म प्रत्युत हृदि जहर्ष। इयमेव इर्षापरतन्त्रा नरेन्द्रस्य सधर्मिणी। इन्द्रप्रिया प्रियदर्शनत्वात् सद्गुणवत्त्वाच्च मात्रा भ्रात्रा च समधिकं स्निह्यमानेति सा चेतसि सन्दह्यते।

नरेन्द्रपत्नीश्वश्रूं समुत्तोल्य सप्रेम वदति “मातः! किमिति पश्चिमे वयसि निष्ठुरायास्तस्याः कृते शीर्णं देहमुत्पीड़यसि।”

नरेन्द्रोऽपि मातुरेषादुर्गति “मातः अहमपि प्रकाशं नानुसन्धास्यामि तां परन्तु नियोगेन मे द्वौ गुप्तचरौ समनुसन्धास्यतः। दासी

च सा पिशाचीतिरोभावयितुमात्मानं नैव प्रभविष्यति। विदितवृत्तान्तश्च तत्र यास्यामि। सम्प्रति कलिकातां गच्छामि, द्वित्रीणि दिनान्यतीत्य प्रत्युपवर्त्तिष्ये”। माता तथैव स्थिता नरेन्द्रपत्नी तु सेर्षंकटाक्षेण तमहन्।

प्रस्थिते च तनये नरेन्द्रमाता इन्द्रप्रियायाः शयनकक्षद्वारे22 कुञ्जिकां निबध्नन्ती स्वयं ब्रवीति “द्वारमेतच्चिराय संरुध्यते”।

एवं वर्षद्वयमतीतं, भ्राता इन्द्रप्रियायाः न कामपि वार्त्तांप्रतिपद्यते। प्रारम्भे च तृतीयवत्सरस्य आगत्य कश्चिद् गुप्तचरः सन्दिशति “यशोदा कलिकातायां चित्पुरे संकीर्णे उपपथे २९२ संख्यक एकतले गृहे निवसति इति”

इति प्रथमः परिच्छेदः।

________

धर्म्मविवेकः।

(पूर्वप्रकाशितात्परः)

आगत्यवामापदः। “गुरुचरणकमलेभ्यो नमः” इति शिवरामं प्रणम्य एवं तत्रोपविष्ट शिवरामस्य सहोदरमपि करशीर्षाभ्यां “नमस्कारः” इत्युक्त्वाप्राणामत्।

शिवः। वत्स! वामापद! त्वमसि शास्त्रे श्रद्धालुः तेनानुशास्मि नैवं नियमः प्रणामस्य गुरुसमे। त्वं युवकः, त्वत्तो ज्ञानेन वयसा चायं मे कनीयान् गरीयान् गुरुसमश्च। अतो यस्मै नमस्कर्त्तव्यं यस्माच्चाशीर्ग्रहीतव्या स यथा प्रसीदति तथैव प्रणन्तव्यं तेनैवाशीर्वादः फलति।

वामाः। (कृताञ्जलीभूय) क्षम्यतामजानतो मे दोषः। मह्यमनुसाधि नतिधर्मं, तच्छिरसा वहामि।

शिवः। श्रूयतां नतिविधौ मनोरनुशासनम्।

“व्यत्यस्तपाणिना कार्य्यमुपसंग्रहणं गुरोः।
सव्येन सव्यः स्पष्टर्व्यो दक्षिणेन च दक्षिणः॥२।७२॥

अस्यार्थः— गुरोराचार्य्यस्य गुरुसमस्य च उपसंग्रहणं पादग्रहणं प्रणाम इति यावत् व्यत्यस्तपाणिना विपरीतहस्तेन—उत्तानवामहस्तोपरि उत्तानदक्षहस्तेन। तदेव विवृणोति सव्येनेति। सव्येन पाणिना सव्यः पादः दक्षिणेन च पाणिना दक्षः पादः गुरोः स्पर्ष्टव्यः ग्रहीतव्यः। यदाह पैठीनसिः—

“उत्तानाभ्यां हस्ताव्यां दक्षिणेन दक्षिणं सव्यं सव्येन पादावभिवादयेत्” इति।

अपि च। कालिकापुराणे ७० अध्याये—

“पुटीकृत्य करौ शीर्षे दीय यद् यथा तथा।
अस्पृष्ट्वा जानुशीर्षाग्यां क्षितिं सोऽधम उच्यते॥”

अधमनमस्कारस्तु परित्याज्यः।

वामा। अद्यप्रभृतितस्तथैवाचरिष्यामि नमस्कारम्।

शिवः। श्रूयतां धर्म्मविवेकः। धर्म्मस्तु लक्षणप्रमाणाभ्यामुपपन्नमित्युक्तम्।

तत्र मनूक्तधर्म्मलक्षणम्। २।१२–१४।

“वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः।
एतच्चतुर्विधं प्राहुःसाक्षाद्धर्म्मस्य लक्षणम्॥

अर्थकामेष्वसक्तानां धर्म्मज्ञानं विधीयते।
धर्म्मंजिज्ञासमानानां प्रमाणं परमं श्रुतिः॥

श्रुतिद्वैधन्तु यत्रस्यात्तत्रधर्म्मावुभौ स्मृतौ।
उभावपि हि तौ धर्म्मौंसम्यगुक्तौ मनीषिभिः॥”

एतदेवानुस्मृत्य महामहोपाध्यायः शूलपाणिः “वेदैकप्रतिपाद्यो धर्मः” इति धर्मलक्षणमभिहितम्।

स एव धर्मः पुनः षष्ठाध्याये विवृतः।यथा ६।९१-९२।

“चतुर्भिरपि चैवेतैर्नित्यमाश्रमिभिर्द्विजैः।
दशलक्षणको धर्म्मः सेवितव्यः प्रयत्नतः॥

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः।
धीर्विद्या सत्यमक्रोधोदशकं धर्म्मलक्षणम्॥”

अस्यार्थः। धृतिः धैर्य्यंचेतसोऽविकृतिः प्रसन्नता इति यावत्। धनादिक्षये प्रियवियोगादौ वा सत्त्वाश्रयः एष एव संसारस्वभावः इति चलच्चित्तस्य यथा पूर्वमवस्थापनम्।

क्षमा २। शक्तौ सत्यां परापराधसोढ्ढत्वं— परेणापकृते तस्य प्रत्यपकाराकरणम्।

दमः ३। अनौद्धत्यं धनादिजनितप्रागल्भ्यत्यागः। विकारहेतौसत्यपि अविक्रियत्वं मनसः। शीतोष्णादिद्वन्द्वसहिष्णुता इति गोविन्दराजः।

अस्तेयं ४। अन्यायेन परद्रव्यादिग्रहणम्। स्तेयं तदभावोऽस्तेयम्।

शौचम् ५। आहारादिशुद्धिः।

इन्द्रियनिग्रहः ६। दुष्टाभिप्रायेण योषिद्दर्शनादिभ्यो चक्षुरादिवारणम्।

धीः७। शास्त्रादिषु सम्यक्ज्ञानम्।

विद्या ८। आत्मानात्मविवेचनम्।

सत्यम् ९। यथार्थे वाङ्मनसौ।

अक्रोधः १०। क्रोधहेतौ सत्यपि क्रोधानुत्पत्तिः।

एते तु धर्म्माःसाधारणा अभ्युदयनिःश्रेयससाधनाः। योगियाज्ञवल्क्योऽपि तथैवाह—आचाराध्याये १२२।

“अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः।
दानं दमोदया क्षन्तिः सर्वेषां धर्म्मसाधनम्॥”

अस्यार्थः। “अहिंसा—हिंसा प्राणिपीड़नं तदकरणमहिंसा। सत्यमप्राणिपीड़ाकरं यथार्थवचनम्। दया परदुःखमोचनेच्छा। एते सर्वेषां पुरुषाणां ब्राह्मणाद्याचाण्डालान्तं धर्म्मसाधनम्॥

(क्रमशः)

__________

FOR B. A. STUDENTS.

<MISSING_FIG href=”../books_images/U-IMG-173160255861.jpg”/>

PAPER SET BY BABOO ṆILMONY NAYALANKAR.

M. A. B. L.

Principal, Sanskrit College, Late senior professor of
Sanskrit literature, Presidency College, Calcutta.

⇒ Questions with answers on अभिज्ञानशकुन्तलम् or “The token king” (Vidyasagar’s Edition).

Q. What do you understand by सूतः।Make some remarks on the caste of a सूतः

Ans. सूत इत्युक्तीसारथिः, त्वष्टाः, वन्दिः, पारदः, बुध्यते रुच्चर्थमहिम्ना योगार्थात्तु सूत इति जातः प्रेरितश्च बुध्यते तथाच मेदिनी।

“सूतस्तु सारथौ तक्ष्णि क्षत्रियाद्ब्राह्मणीसूते।
वन्दिपारदयोः पुंसि प्रसूते प्रेरिते त्रिषु॥” इति।

जातिरियं क्षत्रियाद्ब्राह्मण्यां जाता। कार्य्यमस्य सारथ्यंतथाच मनुः। १०। ११।

“क्षत्रियाद्विप्रकन्यायां सूतो भवति जातितः।” तत्रैव १०।४७।

“सूतानामश्वसारथ्यमब्धष्ठानां चिकित्सितम्॥” इति।

सूतः पुराणवक्ता च कथ्यते।

Q. Derive पश्चार्द्धेण, derive and parse भूयसा; and account for the use of the second class case-ending, instead of the third or fifth class case-ending in स्तोकम्।

Ans. “पश्चार्द्धेण” अपरम् अर्द्धं “पश्चात्” ५।३।३२ इतिअपर+पश्च+अति पश्चादर्द्धं पृषोदरादित्वात्तलोपः।

“भूयसा” अयमेषामतिशयेन बहुः। बहु+इयसुन्। “बहोर्लोपो भू च बहोः” ६।४।१५७ इति ईयसुन्, आदिलोपः भूरादेशश्च। करणकारकमेतत्। “स्तोक”मिति अत्र उर्व्यां प्रयानस्य स्तोकत्वबोधनाय याने स्तोकस्याभेदात् क्रियाविशेषणे द्वितीयैव। पञ्चम्या तृतीयया वा नायमर्थो घटते।

Q. Explain the Samása in and meaning of निरायतपूर्वकायाः; निष्कम्पचामरशिखाः and निभृतोर्द्धकर्णाः।

Ans. “निरायतपूर्वकायाः।” —निर्नास्ति आयतः यस्मात् निरायतः अत्यायतः अतिसरल इति यावत्, निरायतः पूर्वकायो येषाम् ते।

“निष्कम्पचामरशिखाः”—निर्नास्ति कम्पो यासां निष्कम्पाश्चामराणां शिखा येषां ते। अतिवेगगामित्वात् वेगजनितवायुना सरलीकृतत्वाच्च चामरशिखा निष्कम्पा इव प्रतीयन्ते।

“निभृतोर्द्धकर्णाः”। —नि अतिशयेन यथा स्यात् तथा भृतौ धृतौ ऊर्द्धौ कर्णौ यैस्ते।

Q. What is the propriety of वत and क्व in “क्ववत हरिणकाणां etc. etc.

Ans. “वत” शब्देनात्र खेदः अनुकम्पा च बुध्यते। मुनीनां कारुणिकाणां द्वयमेव समुचितम्।

क्व द्वयमत्यन्तमन्तरं सूचयति— अत्यन्ततीक्ष्णतरस्य तव बाणस्य सर्वथैवायमनुपयुक्तः हरिणशिशुः।

Q. Quote any rule of grammar to justify निशित, qualifying निपात which is a verbal noun.

Ans. “निशितनिपाताः” निपात्यते विनाश्यते जन्तुरनेन इति करणे अन्प्रत्यये निपातः बाणस्याग्रभागः कथ्यते, ततश्च निशितः शाणितः निपातोऽग्रभागो येषामिति व्युत्पत्या सुष्ठु सङ्गच्छते।

अथवा “कृदभिहितो भावो द्रव्यवत् प्रकाशते” इति न्यायात् निशितस्य निपातविशेषणे नास्ति दोषः।

Q. Derive आर्त्तmaking grammatical comments.

Ans. आ+ऋ+क्तः।

Q. Explain युक्तरूपं grammatically.

Ans. युक्तं न्याय्यं रूपं स्वभावः यस्य जन्मनः तत् युक्तरूपम् अनुरूपं सुसदृशमित्यर्थः।

Q. What is the grammatical meaning of चक्रवर्त्तिन् Give 3 synonyms of it.

Ans. चक्रेण चक्रवच्छुभचिह्नेन वर्त्तते यःचक्र+वृत्+णिनिः। यद्वा चक्रं भूचक्रं राष्ट्रं तेन वर्त्तते इति वृत्+णिनिः। चक्रवर्त्ती। सार्वभौमः। सर्वभूमीश्वरः। सम्राट्।

Q. Mention a few expressions to illustrate the peculiarity of the language in a Nátaka.

Ans. हन्ते। हञ्जे। हला। आबुत्तः। भर्त्तृदारकः। आर्य्यः।भट्टारकः। मारिशः। नेपथ्यम्। आकाशेनजनान्तिकम्। स्वगतम्। प्रकाशम्। साधयामः।

Q. What is the meaning of शुद्धान्त and why?

Ans. शुद्धान्तः। अन्तःपुरम्। अथवा नृपस्य सर्वागोचरकक्ष्यान्तरम् (इत्यमरमेदिन्यौ) राजयोषित्। (इत्यजयः)

शुद्धं पवित्रं अन्तं स्वभावो यस्मिन् अवरोधे यस्य वा स्त्रीजनस्य एतदेव कारणं तथाविधार्थे।

Q. Explain the apparent inconsistency between the first half and the second half of the stanza beginning with “इदं किलाव्याजमनोहरं etc” in page 6 by simile being implied.

Ans. पूर्वार्द्धेमृदुनोऽपि शरीरस्य कथञ्चित् तपःक्षमत्वंसम्भवति, किन्तु परार्द्धे नीलोपलपत्रधारया शमीलताच्छेदः न कथमपि सम्भवतीति आपाततो दुष्टवद्भाति। किन्तु निदर्शनालङ्कारमहिम्ना उपमायां पर्य्यवसानेन अर्थः सम्यक् सङ्गच्छते।

Q. Explain the phrases कुलपतिः and असवर्णक्षेत्रसम्भवा।

Ans. कुलपतिः। अयुतशिष्यपोषकाध्यापकः।

तथाच—

“मुनीनां दशसाहस्रं योऽन्नदानादिपोषणैः।
अध्यापयति विप्रर्षिः स वै कुलपतिः स्मृतः॥”

असवर्णक्षेत्रसम्भवा—असवर्णं विप्रजातिभिन्नं यत्क्षेत्रं पत्नी, तत्सम्भवा तद्गर्भसम्भवा, “क्षेत्रं पत्नीशरीरयो”रित्यमरः।

Q. Account for the Singular number in अप्सरा in the 5th line of Page 31

Ans. (a) “अप्सरा” अमरसिंहमते यद्यपि नित्यबहुवचनान्तोऽयं शब्दस्तथापि क्रमदीश्वरशब्दरत्नावली शब्दार्णवमते एकवचनान्ततापि। तथाच—

“स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा अपि।”
“अप्सु निर्म्मथनादेव रसात्तस्माद्वरस्त्रियः।
उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्॥”

(Professor K. C. B. of Duff college).

Ans.(b) Here it is used in Singular number, because it signifies a particular person, Viz, “Menaka”
(N.M. )

Q. What do you understand by वैखानसं व्रतम्। Give the derivation of वैखानस।

Ans. “वैखानसव्रतं” वैखानसव्रतं वानप्रस्थव्रतनियमः। तथाच

“वानप्रस्थो वैखानसोऽग्रहः” इति त्रिकाण्डशेषः। केचित्तु वैखानसव्रतम् अष्टाङ्गमैथुनाभावरूपं ब्रह्मचर्य्यमाहुः।

वैखानसः वानप्रस्थः तस्येदमिति वैखानस+अण्। वैखानससम्बन्धिव्रतमित्यर्थः।

Q. What is the meaning of the first line of the stanza beginning with तीव्राघातप्रतिहततरुः; and what would be its meaning if the whole line were one compound word.

Ans. तीव्रेणाघातेन प्रतिहता उत्पाटितास्तरवो येन सः, शुण्डाकर्षणेन शरीरघर्षणे दन्ताघातेन वा तेन हस्तिना तरवो निपातिताः इत्यर्थः। स्कन्धलग्नैकदन्तः स्कन्धे स्वकीयग्रीवैकदेशे लग्नः रथागमनभयेन पश्चादवलोकनात् संयुक्त एकदन्तो यस्य इत्यर्थः।

अनयोरेकपदत्वे तु।—“तीव्रेणाघातेन प्रतिहतस्य तरोः स्कन्धे लग्न एकः दन्तो यस्य” इत्येवमर्थः सम्भवति

(क्रमशः)

FOR ENTRANCE & F. A. STUDENTS.

<MISSING_FIG href=”../books_images/U-IMG-173160350768.jpg”/>

⇒ A PAPER, ON SANSKRIT GRAMMAR, GIVEN BY
BABOO UPENDRA NATH Roy B. A.

Senior Professor of Sanskrit Literature, Century
College, Calcutta.

<MISSING_FIG href=”../books_images/U-IMG-173160355049.jpg”/>

ON NUMBER.

There are three numbers in Sanskrit viz; the singular (एकवचन), the dual (द्विवचन), and the plural (बहुवचन).

The singular denotes one or a single individual; as पुरुषः(a person); गौः (a cow); चटकः (a sparrow). It often represents the whole class (जाति); as नराणां नापितो धूर्त्तः।(The barber is the most cunning amongst men). मृत्युधर्म्मा हि मानवः (Man is mortal). But a class may be represented both by the singular and the plural (“जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्” Panini); as, the sentence ‘The virtuous are happy, may be translated into Sanskrit by धार्म्मिकः सुखीor धार्म्मिकाः सुखिनः।

The dual is used to denote two (द्वि); as उभौ (both); द्वौ (two), दम्पती or जम्पती (husband and wife); पितरौ (parents) “उभाभ्यां राजपुत्राभ्यां ततः कृत्वाहमञ्जलिम्। त्वद्गौरवभयाद् राजन्नकामः पुनरागतः॥” रामायणे। “द्वावेव कथितौ सद्भिःपन्थानौ वदतांवर।” Ibid. दम्पती जग्मतुर्गुरोराश्रमम्” रघौ। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥” Ibid.

But there are certain words which though they indicate a pair or a couple are always used in the singular, except when several couples or pairs are to be indicated. They are as follows:— द्वय, द्वितय, युगल, युग, युग्म, द्वन्द्व, मिथुन, उभय, &c:as द्वयमेव प्रियं नः। भवभूतिः। “मा निषाद! प्रतिष्ठान्त्वमगमः शाश्वतीः समाः। यत् क्रौञ्च मिथुनादेकमवधीः काममोहितम्”॥ रामायणे। “राजपुत्रः किन्नरमिथुनमपश्यत्” कादम्बरी। “पश्योभयं विचार्य्यैतत् तथाप्यनृतवागसि।” रामायणे। “सुकुमारचरणयुगलं ते” भवभूतिः।

Opinions differ as to the use of उभय; some say उभय has no dual, while others are of opinion that it has. (उभशब्दो) द्वित्वविशिष्टस्य वाचकः। अतएव नित्यद्विवचनान्तः। उभयशब्दस्य द्विवचनं नास्ति इति कैयटः। अस्ति इति हरदत्तः॥)

There is no number in English corresponding to द्विवचन; and thus we are to make use of the plural in English where the द्विवचन is to be used. As, भ्रुवोर्मध्ये is to be expressed, by between the eye-brows”; पादौ वन्दे (I bow to the feet).

Students are invited to pay particular attention to द्वन्द्वcompound in the study of number. Amongst the three classes of द्वन्द्व compound, इतरेतर offers no difficulty; but एकशेष and समाहार must be learned thoroughly. Words formed by the एकशेषद्वन्द्वare always used in the number which they denote; as माता च पिता च= पितरौ (parents); श्वश्रूश्च श्वशुरश्च= श्वशुरौ(father-in-law and mother-in-law). फलञ्च फलञ्च फलञ्च = फलानि (fruits) भ्राता च श्वसा च= भ्रातरौ (brother and sister); पुत्रश्च दुहिता च पुत्रौ (son and daughter). Words formed by the समाहारद्वन्द्व must be in the neuter gender and singular number, no matter whether they denote a single individual, two, or many. as, पाणीच पादौ च= पाणिपादम् (hands and feet);कोकिलाश्च मयूराश्च= कोकिलमयूरं (cuckoos and peacocks) हंसाश्चसारसाश्च= हंससारसं (ducks and cranes) मार्ज्जाराश्च मूषि-

काश्च= मार्ज्जारमूषिकं (cats and rats). सुखञ्च दुःखञ्च =सुखदुःखम् (happiness and misery).

The plural denotes more than two (बहुषु बहुवचनम्); as नराः (men); गावः (cows); कुक्कुटाः (cocks). But there are certain words which though they indicate ‘many’ ‘i. e. more than two’ &c. are used in the singular. They are as follows; वर्ग, गण, परिषत्, कुल, समूह, मिश्र, त्रय, त्रितय, चतुष्टयः, &c. as, “माता मित्रं पिता चेति स्वभावात् त्रितयं हितम्”। हितोपदेशे। “यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता। एकैकमप्यनर्थाय किमु तत्र चतुष्टयम्॥” Ibid. But it must be noticed that these words may also be used in the plural when several such classes are indicated:as ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्। प्रहर्षञ्च परं जग्मुः सकलाः देवतागणाः॥” मार्कण्डेय चण्डी।

Numerals from विंशतिupwards are always used in the singular number (विंशत्याद्याः सदैकत्वे सर्वसंख्येयसंख्ययोः); as विंशतिः पुरुषाः।

The following words are always used in the plural number, though they are singular in sense:अप्, दार, वर्षा, सिकता, अक्षता, अनु, प्राण, समा, सुमनस् (denotes a flower), &c, as, “आपदर्थे धनं रक्षेद् दारान् रक्षेद्धनैरपि।” हितोपदेशे। प्राणा हि त्वरयन्ति माम्।रामायणे। प्रतिष्ठांत्वमगमः शाश्वती समाः॥Ibid. वातिगन्धः सुमनसां प्रतिवातं कथञ्चन।” Ibid. “ग्रीष्मेपञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः।” स्मृतिः।

(क्रमशः)

________

श्रीश्रीदुर्गां शरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-173164745147.jpg”/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्ती जनानिव
मायावलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी॥

<MISSING_FIG href=”../books_images/U-IMG-173164778166.jpg”/>

मासावतरणिका।

उदेति शोको हृदि वारिवाहवत् विगर्जति स्वान्तशयस्तथैव हा।
प्रवर्षति प्राज्यमिहाम्बु लोचनं विभेति तच्छ्रावणतो वियोगिनी॥

<MISSING_FIG href=”../books_images/U-IMG-173164791370.jpg”/>

उद्धटश्लोकाः।

यामासाद्य विधीयते हरिहरब्रह्मादिभिर्द्दैवतैः
स्वीयं स्वीयमतीव दुष्करतरं कर्म्म क्षणाल्लीलया।
सा दुर्गा भवभीतिरीतिशमनी लोकत्रयत्रायिणी
भूयाद्वःप्रतिपक्षपक्षदलनी वाञ्छाफलोल्लासिनी॥ ११८॥

शयाना हस्ताब्जेमृदुलमुपधायाधरयुगं
समन्तादालोलाङ्गुलिभिरनुसंवाहिततनुः।
सुधां सिक्तां पीत्वाप्यनुभवति शय्यासनसुखं
तथाप्येषा वंशी न हि भवति निद्रालनमपि॥ ११९॥

पुरो वा पश्चाद्वाक्वचिदुपवसामः क्षितिपते!
तदा का नोहानिर्वचनरजणाक्रीतजगताम्
अमारे कान्तारे कुचकलसहारे मृगदृशां
मणेस्तुल्यंमूल्यं सहनसुभयस्य द्युदxतः॥१२०॥

<MISSING_FIG href=”../books_images/U-IMG-173164845471.jpg”/>

मातृभक्तिः।

(पूर्वप्रकाशितात्परम्)

पादप्रक्षालनं यश्च कुरुते च महायशाः।
सर्वतीर्थफलं भुङ्क्ते प्रसादादुभयोः सुतः॥७॥

अङ्गसंवाहनाच्चैव अश्वमेधफलं लभेत्।
भोजनाच्छादनैश्चैव गुरू च परितोषयेत्॥८॥

पृथ्वीदानस्य यत्पुण्यं तत्पुण्यं तस्य जायते।
सर्वतीर्थमयी गङ्गा तथा माता न संशयः॥९॥

बहुपुण्यमयः सिन्धुर्यथा लोके प्रतिष्ठितः।
अस्मिन्नेव पिता तद्वत् पुराणाः कवयो विदुः॥१०॥

मातरं पितरं वृद्धौ गृहस्थो यो न पोषयेत्।
स पुत्रो नरकं याति वेदनां प्राप्नुयात् ध्रुवम्॥११॥

कुत्सते पापकर्त्ता यो गुरुं पुत्रः स दुर्म्मतिः।
निष्कृतिस्तस्य नोदृष्टा पुराणैः कविभिः कदा॥१२॥

एवं मत्वात्वहं विप्र! पूजयामि दिने दिने।
मातरं पितरं भक्त्या पादसंवाहनादिभिः॥१३॥

कृत्याकृत्यंवदेच्चैव समाहूय गुरुर्मम।
तत्करोम्यविचारेण शक्त्या स्वस्य च पिप्पल!॥१४॥

तेन मे परमं ज्ञानं सञ्जातं गतिदायकम्।
एतयोश्च प्रसादेन संसारे परिवर्त्तते॥१५॥

ये विप्र! भक्तिं कुर्वन्ति मानवा भुवि संस्थिताः।
अत्रस्थस्तदहं जाने अधिस्वर्गे प्रवर्त्तते॥१६॥

नागानां च इहस्थोऽपि चारं जानामि पिप्पल!॥” इति।

इत्थं सुकर्म्मणा प्रदत्ताभ्यनुज्ञः सञ्जातसन्तोषः परिहृतावष्टम्भः पिप्पलः सुकर्म्माणमभिवाद्य स्वर्गं प्रतस्थे सुकर्म्मातु पुनर्माता पितरावेव शुश्रूते स्म।

हे महाशयाः! हे सखायः! हे सहृदयाः! कथं सा विस्मर्यते मातृदेवी, यैव असादुःखैः प्रतिपन्नगर्भा गर्भभरमसहमाना पदात्पदमपि गन्तुमप्रभवन्त्यपिन करोति मनागप्यनुपकारम्। यस्याश्च

जठरापवरके हंसतूलशय्यायामिव गर्भगय्यायां सुखमेवावतिष्ठते बालकः। यया च वत्सेच्छामनुरुन्धानया आजन्मनोप्यनास्वादितमास्वाद्य पदार्थम् उच्छसितनिर्विशेषं परिपाल्यते वत्सः! हा! हन्त! आसन्नप्रसवया च दुःसहतरां दशामनुभवन्त्या कृतान्तकरालरलरज्जुनियन्त्रितयेव च विह्वलीभूयापि सप्रेमनिर्भरं स्तन्यमपि पाय्यते वत्सः। यया च शिशुसुखैकाभिलाषुकया दुःसहतरा अप्यनुभूयन्ते दशाः। हा धिक् कथं तामेव विस्मरत, अहो केयं दुरात्मता? कोयं व्यामोहः? केयं निद्रा? किमिदं नैर्घृण्यम्?। जागृत जागृत। पूजयत मातरम् सेवध्वं सुखानि। निराकुरुत दुःखानि। आयत्तीकुरुत स्वर्गम्। सम्पादयत यशः। नयत देवैरप्यभ्यर्चनीयतात्मात्मानम्। इति शिवम्।

राशिवड़ेकरोपाह्वःश्रीअप्पाशास्त्री

कोल्हापुरः।

___________

गर्वपरिणतिः।

(पूर्वप्रकाशितात्परम्)

चतुर्थोऽङ्कः।

अरण्याभ्यन्तरम्

सुरेशः। निशातिरेको भूतः। कथमिदानीमपि पितरौ मे दासान् न प्रेरयतः। हन्त! किं करोमि; का गतिः; कुत्र यामि; कमालपामि; को मे शरणं भविष्यति? (दीर्घं निःश्वस्य) किं कृतमज्ञेन;मूर्खतमोऽस्मि संवृत्तः; महीलताखनने उरगनिर्गतिरिवेदं कृत्यं मेऽविवेकस्य। (सदृष्टिक्षेपं प्ररुद्य च)हन्त! मातर्म्रिये; तातस्तेऽद्य सुरेशस्य जीवनशेषो जातः; इतस्ततो विच-

रक्तिनिशापरैःश्वापदैरवश्यमेव भक्षितो भवेयम्; आर्त्तोऽस्मि; अनायोऽस्मि; अशरणोऽस्मि; किमिति न करोषि दयाम्; अद्य जाxx xxxxगृहम्; अतःपरं कदापि पुनरेतादृशं कर्म्म न करिष्यामि। मातः!पितः— (इत्यर्द्धोक्तेपदशब्दमभिनीय ससम्भ्रमम्) अयं व्याघ्रो वृको वा समायाति;कुत्र गच्छामि; को मे जीवनत्राता भविष्यति; अयि दैव! निर्घृण। दर्शय दयाम्। (सदृष्टिक्षेपम्) वृक्षमिमं तावदारोहामि। (इति वृक्षमारोढुमिच्छन्नपारगस्तन्मूल उपविश्य रोदिति।)

रोदनशब्दानुसरणेन प्रविश्य

कृष्णदासः। कोऽयं रोदिति? (निरूप्य) किमयमखिलज्ञः सुरेशः? महात्मन्! कथमेतादृशे निशासमये, श्वापदसङ्कुलेऽत्र विजने समायातम्? किं वा भवतः सङ्घटितं येन निराश्रयवत् रुद्यते?

सुरेशः। (उत्थाय कृष्णदासमालिङ्ग्य च) अहह! हितकरः प्रतिवासी मे कृष्णः समायातः। प्रियबन्धो! कृतान्तमुखात् प्रतिनिवृत्तोऽहमित्यनुभवामि। प्रियदर्शन! दुरदृष्टवशतः पथभ्रष्टोऽत्र तिष्ठामि; न पारये गृहं प्रतिनिवर्त्तितुम्। उद्धरमामतो विपदसागरात्।

कृष्णः। (साश्चर्य्यमवलोक्य ईषद्विहस्य च) महोदय! किं भणसि, अहन्ते प्रियसुहृत्, प्रियदर्शनश्च। नहि; नहि; कथं नावगम्यते? अहं स एव निर्बुद्धिः कृष्णदासः। मा स्पृशतु मां लौहनिर्म्मितम्; मुञ्चतु शीघ्रं नचेदङ्गहानिर्भविष्यति।

सुरेशः। प्रियदर्शन! क्षम्यतामयं जनः। सदयः शीघ्रं प्रापयतु मां गृहपदम्।

कृष्णः। अप्यधीतं समग्रपुस्तकम्। कथयतु साम्प्रतं चन्द्रः किं परिमाण इति।

सुरेशः। (लज्जितोऽवनतशिराः।) प्रार्थये, क्षम्यतामयं जन इति। अतःपरं कदापि त्वयि विरुद्धो न भविष्यामि।

कृष्णः। पश्यतु तावत् मादृशः साधारणोऽपि कदापि कस्मैचित् कार्य्याय प्रभवतीति। निर्बुद्धिर्ग्राम्यकल्पोऽपि कदापि विज्ञतः लुसाधयति कार्य्यकलापमिति। महात्मन्! आप्रभातमत्र स्थातव्यं मया सह। श्वः किल, पितृभ्यां संयोजयिष्यामो भवन्तम्। आगच्छ दर्शयामि शय्यास्थानम्।

सुरेशः। कुत्र ते शयनमन्दिरम्?

कृष्णः। (तर्जन्या वृक्षतलं निर्दिश्य) इदमेव वृक्षतलम्। अत्रैव शयित्वा परमानन्दमनुभवामि। साम्प्रतं भवता बन्धुत्वेन गृहीतोऽस्मि, अतएवानन्दार्द्धमनुभवितुमर्हसि।

सुरेशः। मित्र! नायमुपहासस्य समयः। विभेति ममान्तरात्मा। सत्यमादिश सत्वरम्।

कृष्णः। सभ्यतम! ग्राम्यदेशीया हि सदा सरलाः कदापि मिथ्यां न कथयन्ति। सत्येनाभिलपामि, इदमेव नौ रात्रियापनाय भविष्यति।

कृष्णः। किमाच्छादनरहितेऽत्र शयनीयम्?

कृष्णः। अथ किम्? वृथाभीरुक! नास्त्यत्र किञ्चिदपि भयकारणम्। (चतुर्दिशं निरूप्य) चत्रवर्त्तिनोऽपि नास्त्येतादृशं प्रशस्तगृहम्। (चन्द्रं निर्दिश्य) किमेतादृशो हीरकखण्डः सम्राजोऽपि मन्दिरे वर्त्तते? पश्यतु, किरणजालेनास्य समुद्भासितमखिलमरण्यम्। देव! विमनसा न भवितव्यम्; कोमलपत्राण्याहृत्याच्छाद्य च तान्युत्तरीयवस्त्रेण तादृशीं शय्यां विधास्यामि, या हि भवन्तम् अनन्तशय्या श्रीधरमिव सुखिनं करिष्यति।

सुरेशः। सत्यं सर्वम्। परं श्वापदा इतस्ततो विचरन्ति; कथं न भीतिरस्माकम्?

कृष्णः। विज्ञवर! किं न ज्ञायते वैश्वानराग्रतः कस्यापि प्रभुत्वं न फलतीति।

सुरेशः। सत्यमेतत्; परमत्र तु नास्त्यग्निकणापि।

कृष्णः। साम्प्रतं नास्ति, शीघ्रमुत्पाद्यते।

सुरेशः। केन प्रकारेण?

कृष्णः। (सशिरः कम्पम्) किं नास्त्येष विषयः सांख्यसूत्रे। पश्यतु तावत्। (इति काष्ठघर्षणेन वह्निं प्रज्वाल्यशुष्ककाष्ठानि तत्र निक्षिपति।)

सुरेशः। (सविस्मयः स्वगतम्) अहो! मे वृथाभिमानित्वम् पित्रा बहुशः कथितम्, कृष्णोऽसौ तवापि शिक्षको भवितुमर्हतीति। अधुना पश्यामि, न केवलं मां, मम शिक्षकमपि शिक्षयितुं समर्थोऽयं जनः। (प्रकाशम्) मित्र! बलवतीक्षुधा मां वाधते; किं करोमि; गृहन्तु बहुदूरे वर्त्तते।

कृष्णः। कात्र शङ्का; अस्त्यत्रापि क्षुधानिवृत्तेरुपायः। अनलसमीपे तावदपेक्ष्यताम्, यावत् भक्ष्याण्याहृत्यागम्यते। नोद्विजस्व नास्त्यत्र कोऽपि भयलेशः। (इति निष्क्रान्तः।)

सुरेशः। अहो! किमाचरितमसाधु पूर्वमस्मिन् साधौ मयानार्य्येण; तृणवहृष्टोऽसौ वृथाभिमानिना; नितरां कटूक्त्या कथितोऽनभिज्ञेन; सुकठिनं विताड़ितो निष्ठुरेण; किं बहुना बहुधा तिरस्कृतोऽपि पुनः सहवसतिमभिलाषुकोऽयं विदूरितो मुग्धेन। अधुनानुतापानलः स्मारं स्मारं तदखिलं प्रज्वलितो द्विगुणतरं दहति मां न तु भस्मसात् करोति। धिक् मामधन्यम्; कष्टं मे जीवनधारणम्। यदाहमस्य चरित्रेण स्वशीलतुलनां चिकीर्षुस्तदा पश्यामि तस्य चारित्र्यंसुरवृन्दसेवितं दिवि वर्त्तते, मम पुनः कीटदूषितं नरकेऽवतिष्ठते। क्वेदृशस्य निरभिमानिनः परहितैषिणः शीलता, क्वचाभिमानदूषितस्य मादृशः कूपमण्डकस्य

कार्य्यता। सर्वथा निष्फला मे प्रज्ञा; निर्गुणं शास्त्रानुशीलनम्; निष्कारणञ्च ज्ञानम्। अद्य मे नष्टं खलु पाण्डित्याभिमानित्वम् गतं गर्वित्वम्; मृतञ्चासमदर्शित्वम्। (दीर्घं निःश्वस्य) अतःपरं कदापि पुनस्तादृशं नाचरिष्यामि। मातः! पितः! नयतु मां कृपया कृतापराधम्। (इति रोदिति।)

प्रविश्य फलहस्तः कृष्णदासः। महात्मन्! कथं रुद्यते; अपि नाम बलवत्या क्षुधया पीड्यते? अहह! अननुभूतक्लेशस्य भवत ईदृशीं दशामवलोकयतो मे हृदयं स्फुटतीव। प्रभो! निशेति फलाहरणे बहुतरः समयोऽतिवाहितस्ततोऽपराधिनमात्मानं मन्ये। प्रार्थये, विस्मृत्य तं दोषविसरं यथेच्छं भुज्यतामिति। (इति सुपक्वफलानि उपहरति।)

सुरेशः। नास्ति भवादृशे गुणाधारे दोषलेशोऽपि। मया पुनर्बहुशोऽपराद्धमसदाचरणेन। यदि तत्सर्वं क्षम्यते, तदा मयापि भुज्यते। अन्यथा न। (इति मुखमाच्छाद्य रोदिति।)

कृष्णः। किमिदमध्यवसितम्। नास्ति मे मनसि पूर्ववृत्तान्तलेशोऽपि। साम्प्रतं क्षुन्निवृत्तिं विधेहि। (इति फलानि हस्ते ददाति)

सुरेशः। अलङ्घनीयमद्यावधि भवद्वचनम्। भक्षयामि तावत्। (इति कथञ्चित् भक्षयित्वा।) आः स्वस्थोऽस्मि; अतःपरं करणीयमुपदिशतु।

कृष्णः। इतो नातिदूरे स्थिता पर्वतगुहाशयनार्थमेव निर्दिष्टा; कृता च तत्र कोमलपत्रबहुला शय्या। तत्र निर्विघ्नं शयिस्यते भवता, मया पुनर्वह्निना सह रक्षकेण भवितव्यम्। आगच्छतु दर्शयामि। (इति प्रस्थातुमुद्युक्तः।)

सुरेशः। प्रार्थयामहे करुणामयं रामचन्द्रमतःपरं मे भवता प्रियबन्धुना कदापि विच्छेदो माभूदिति। इति निष्क्रान्तौ।)

इति चतुर्थोऽङ्कः।

श्रीनन्दलालविद्याविनोदस्य।

चपेट मालिनी।*

एम्, ए, प्रमुख-न्यायालङ्कार श्रीयुत-नीलमणिमुखोपाध्यायभट्टाचार्य्यपादान्तेवासि-श्रीमदविनाशचन्द्रगुह-ग्रथिता।

चकितचकितसन्तः प्रोच्छलन्ती च पेट्या
सजलनयनपद्मे प्रोष्ठिका स्पन्दते ते।
स्फुटदमृतफलानां * *23 ष्ठीव्यतेऽलक्तलक्ष्मीः
पुलकविकचगणे चूर्णकैश्चम्पकानाम्॥१॥

वियति हसति हंसो वेपते चाञ्जलिस्ते
स्खलति चरणहीना विश्लथा श्लोकलेखा।
मुहुरुपहितमायासुग्धदुर्दृष्टि पश्चाद्
धुरिवररुचिसूरिर्धीरधीरः प्रयाति॥२॥

____________________________________________________

* पञ्चिकेयं सरस्वती सम्बीधना। अत्राभ्यासः। पुरा किलैकदा भगवती भारती कालिदासकवेः काव्यकौशलं परीक्षितुं श्लोकमेकं स्वयमेव संदृभ्य पादं च तस्य प्रणाश्य शिष्टत्रिपादीमादाय कलितवालिकाकल्पा क्वचिदुज्जयिनीराजपथे राज्ञो माध्यन्दिनं सभाभङ्गं प्रतिपालयन्ती तिष्ठति स्म। अथ विकीर्णायां संसदि तेनैव पथा समागच्छत्सु सुधीजनेषु वररुचिं दृष्ट्वाऽभिवाद्य भारती भणति ब्रह्मन्नन्धो मे तातः। राजकीयप्रसादप्रेप्सया स भवान् भिक्षामयीं श्लोकपत्रीं विरचय्यात्मना गन्तुमशक्तेन मयेमां महाराजचरणराजीवेष्वहैषीत्। परमहो प्रमादः सपदि संसर्पन्त्या मेऽङ्गुलिसंघर्षात् प्रमृष्टेयं प्रत्यया मसीलेखा। तेनेमं लुप्तपादं मनु पूरयन्त्वाचार्य्यपादा इति। वररुचिरपि सन्मितं यथा भूतमेव पूरयामास। वाणी ब्रूतेन खलु ब्रह्मन् पादनेतादृशं स्मरामीति। वररुचिः स व्रीड़माह ध्रुवं न जाने बाले। अगाधं हि सारस्वतागारमिति उक्त्वा च शनैः प्रस्थितः। अथारादागते कालिदासे तमभिवाद्य वाणी प्राग्वदेव लुप्तपादपूरणं ययाचे। कालिदासोऽपि तं सहेलं यथाभूतमेव पूरयामास। सुरबाला तु ससङ्कोचमाह देव न खल्वमुमेतादृशं स्मरामि। किन्नुसूरे! सोऽन्यादृक् संभाव्येतेति। आः किं जल्पसि वाचाटे! कः पुनारे अन्यादृमिति नयननिमिषादेव कुपितः कविर्भृकुटिकुटिलितास्यस्तस्यै चपेटिकां प्रदादिति किं वदन्ती।

__________________________________________________________________

क्वचिरमगमदस्तं सद्ग्रहैर्विक्रमार्कः
क्व च वत नवरत्नंकालनीलाम्बुसग्नम्।
स्फुरति ननु कपोलेऽद्यापि तेतत्रपेटं
स्मरसि सरसिजस्थे सारदे तद्दिनं किम्?॥३॥

न किमु मिषसि पद्मा पद्मनाभौ स्मयेते
व्यतियुतकरकण्ठाबूर्द्धवैकुण्ठजालात्।
यदि वितरसि मर्त्ये देवदुश्च्युम्बचित्तं
किमहह चिरमूढ़े तस्य मूल्यंचपेटी॥४॥

**वपुरलिपत योऽङ्कैश्चन्द्रचूर्णाचितं ते
अयि किमिति विदग्धे वृत्तमुच्चावचं धिक्।
तव सुरचिवुकच्युत्तस्य ताम्बूलसारः
कुचलकुचयुगं ते लेढ़ि हा लोललोलः॥५॥ ** ** **

___________

सतीच्छाया।

<MISSING_FIG href=”../books_images/U-IMG-173166342474.jpg”/>

द्वितीयपरिच्छेदः।

(निष्ठुरनैराश्यम्)

अहो विधे वेद न हीदृशं विधिम्
कीटो निवस्ते ह्यरविन्दकोरके।
मृगीं विहन्तुं सरलां विपाकात्
नियोजितं जालमितः किरातैः॥

कलिकातान्तःपातिनि गड़पारग्रामे राजनन्दनस्यापि तस्य रमणीमोहनस्य इन्द्रप्रियया विवाहोऽन्यैरलक्षितः सम्पन्नः। वरपक्षीयस्तंत्र अतुलकरः, कन्यापक्षीयस्तु कुमारस्यान्यतमो बन्धुः कमलमित्रः। कमलमित्रस्यैव भार्य्याप्रभृतयः स्त्याक्षारं विदधति। पुरोहितस्तु दक्षिणारूपं रूपकशतकं लेभे।

परिणयात्परं दिनद्वयमतीत्य रमणीमोहनः व्याघ्रापणस्योपगङ्गं मनोहारिण्यामुद्यानवाटिकायान्तां न्यवासयेत्। विवाहात्परं मासमेकमतीत्य। एकदा इन्द्रप्रिया रमणीमोहनं वदति, नाथ! मातरमवलोकितुमतीव मे मनश्चञ्चलीभूतं, मन्ये च नो चेत् जीवनेनापि वियुज्ये। तत्सत्वरमुपायमस्योद्भावयेति। रमणीमोहनः कथयति, नेदानीं तत्रोपगन्तुं।साम्प्रतम्, यतिष्ये तदर्थमुपायतो भवत्या भ्रात्रादीन् वशमानीय साक्षात् करिष्यावः।

एवमालपतोस्तयोर्दम्पत्योरतुलकरस्तत्रोपतस्थे, संलापश्च तयोरवसितः। रमणीमोहनः कथयति “इन्द्रप्रिया मातरमवलोकितुमभिलषति। अतुलः कथयति इदानीं नैव तदुपयुज्यते। श्रुत्वैतदिन्द्रप्रिया वदनमावृत्य चेलाञ्चलेन वास्पवारि विमुञ्चति। रमणीमोहनस्तु तस्या रोदनेन नितरां व्यथामापन्नः अतुलं प्रति वदति सखे! किं विधास्यामि न सोढुं प्रभवामि इन्द्रप्रियारोदनम्। अतुलस्तु क्रोधमभिनीय उत्तरयति वाढ़म् आत्मानं तद्भ्रात्रेअभिज्ञाप्य राजदण्डः कारागारः स्वीक्रियताम्।

रमणी। कथमेवं, यथाविधि सा विवाहिता।

अतुलः। न कथमित्थम्। न हि किं मयेयं चोरिता? किन्तवाच भयेन?।

रमणी। (सचिन्तम्) भ्रातः! त्वमेव सार्द्धं तैः साक्षात्कृत्य यथा चास्माभिस्तेषां बन्धुत्वं स्थिरीभवति तथैव यतितव्यम्।

अतुलः। कुमार! समये तत्सर्वं भविता, इदानीं भवितुं नैव युज्यते। चौर्य्येणापहृत्य इन्द्रप्रियां निर्म्मले तेषां कुले कलङ्कः पातितः। अधुनैव यदि ते जानीयुस्तदा क्रोधेन विवशीकृताः राजद्वारे प्रतिवदेयुः।

रमणी। तदा कथमप्येनां सान्त्वयितुं प्रलोभ्य वड्रापणे मणिकारापणं गत्वा सहस्ररूपकमूल्येन मुक्तामालामानीयास्यै समर्पय।

अतुलस्तु सानन्दं घोटकशकटमारुह्य शनैर्वड्रापणं गच्छन्नपि इन्द्रप्रियायां दुरभिलषितं चरितार्थयितुं चिन्तयन्नपि मनसा शैलाग्रमारूः। मुहर्त्तादिव शकटं वड्रापणे उपस्थितम्। तथैव मुक्तामालापि क्रीता। ततः प्रत्यागच्छन्नपि स पापाशयः “यदि दिनमेकमपि सा मे अङ्के शयिष्यते तदाप्यत्रैव स्थित्वापि आत्मानं नन्दनकानने विचरन्तमिव मंस्ये। अहो सौभाग्यं रसणीमोहनस्य, यः खलु तथाविधां स्वर्गीयां देवमूर्त्तिं अहर्निशं हृदयमन्दिरे पूजयति। यदा अतुलकरं रमणीमोहनञ्च परिहृत्य इन्द्रप्रिया रोरुद्यमाना अन्तर्वाटिकां प्रविशति तदा दासीयशोदा ताम्बूलविटिकां सज्जति। यशोदा रोरुद्यमानान्तां निशम्य ससम्भ्रमं चेलाञ्चलेन वदनं प्रोञ्छ्य तस्याः शयनकक्षमानीय खट्टिकायां शाययति। बालिका इन्द्रप्रिया तु उपाधाने मुखमानमय्य भूयो रोदितुमारेभे। यशोदा सकातरं कथयति भगिनि! इन्द्रप्रिये! किमित्यकारणं रोदिषि? किमिति वा दुश्चिन्तया कृशमपि शरीरं कृशीकरोषि?। इन्द्रप्रिया कथयति अयि मातरमालोकयितुं नितान्तमुत्कण्ठते चेतः।

यशोदा। अहो तदर्थं किमिति रोदनेन। मासद्वयात् परमेव तत्र यास्यति। एतदर्थमहं रमणीमोहनं सानुबन्धं वक्ष्यामि। रोदनेनात्मा केवलं शीर्य्यते न तु फलान्तरं लप्स्यते।

अस्मिन्नेवावसरे रमणीमोहनः इन्द्रप्रियापार्श्वमुपैति, यशोदा च ततः निष्क्रामति। रमणीमोहनः मृदु मृदु करावर्त्तनेन तां सान्त्वयन् कथयति अयि प्रिये! नाहं स्वेच्छया तां क्लेशयामि, शीघ्रमेव तत्र त्वां प्रेरयितुं यतिष्ये। प्रिये! त्वत्कृते महार्घो हारोऽयमानीतः गृह्यतामिति कण्ठे परिधापितः। कथयति च प्रिये! कण्ठन्ते समवाप्य मुक्तामालैव भूषितेति मन्ये। एवं सादरं प्रियाचिवुकमुन्नमय्य निर्वर्न्य च मुखकमलम् उरसि संगोप्य मृदु मृदु

पृष्ठं ममार्ज। सा च लज्जिता भूयोऽपि मुखं संगोप्य नेत्रं निमील्य स्थिता। रमणीमोहनः कथयति प्रिये! अधुनापि मयि वचनकरे एवं लज्जसे नैतद्युक्तमिति। अहन्तु प्रफुल्लन्ते नयनेन्दीवरमालोक्य वचसामगोचरं प्रीणामि।

अस्मिन्नेव काले सन्ध्या समागता। भृत्यः कक्षं प्रविश्य दीपं प्रज्जाल्य च वहिर्निःसृतः। अतुलकरोऽपि तदा रमणीमोहनमाह्वयति, रमणीमोहनस्तु क्षणमपेक्ष्यतां बहिरागच्छामि। पापीयान् अतुलकरः पापचक्षुषा सतृष्णंइन्द्रप्रियामालोकयन् अस्फुटं कथयति अहो कदेयमङ्कशायिनो मे भूयात् इति।

(क्रमशः)

_________

धर्म्मविवेकः।

(पूर्वप्रकाशितात्परः)

एतेषां धृत्यादीनाम् अहिंसादीनाञ्च नियतनिषेवनात् आत्मोन्नतिर्जायते लभते च चरमे परमं श्रेयः, अतएव ते धर्म्माः एतेषामेव धर्माणां सत्त्वात् वयं मनुष्याः। एतेषामेवाभावात् गवादयः पशवः। येषां खलु मनुष्येषु नास्ति अहिंसा नास्ति सत्यंनास्तेयं न शौचं नेन्द्रियनिग्रहः, न दानम्, न दया, न दमः, न च क्षान्तिर्वर्त्तते तेषु मनुष्यलक्षणं किमपि नास्ति, ते केवलं मनुष्यचर्माच्छादिताः शृङ्गलाङ्गूलरहिताः पशव एव। सर्वेषामेव मनुष्याणामल्पाधिकभावेन अहिंसादयः सन्त्येव, येषां मात्रयाधिकमहिंसादिकमस्ति ते पूर्णावयवेनमनुष्याः येषान्तु ततो न्यूनमहिंसादिकमस्ति तेऽसम्पूर्ण विकलाङ्गा इव मनुष्याः।

वामाः। गुरवः! अहिंसादीनां सेवनात् मनुष्या आत्मानं कियदुन्नेतुं शक्नुवन्ति?

शिवः। ईश्वरत्वं यावदात्मानं प्रापयितुं शक्नुवन्ति।

वामाः। साक्षादुत परम्परया?।

शिवः। परम्परया। अहिंसादिभ्यः बुद्धेर्मालिन्यमपसरति, मालिन्ये च विगते अविवेकस्तिरो भविति। चिरोभूते च अविवेके विवेक उपजायते, तथाच योगसूत्रम्।

योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः॥२।२८।

अविद्या अहंभावः विषयवासना द्वेषः साधून्यसाधूनि च कर्माणि तत्फलञ्च विपाकः तत्फलानुकूला च वासना आशयाः ते पञ्चविधक्लेशाः मनस्येव वर्त्तमाना अपि आत्मनि उपचर्य्यन्ते, आत्मा फलस्य भोक्तेति। यो हि पुरुषः अनेन भोगेन न स्पृश्यते स एव पुरुषविशेष ईश्वरः। अहिंसादितश्च इह जन्मणि जन्मान्तरे वा जीवत्वमपहार अविद्याक्षयादीश्वरो भवति स एवमुक्तः कथ्यते। अस्य च विशेषा वक्ष्यन्ते।

वामा। गुरवः! अहिंसादीनामोदृशशक्तौ किं प्रमाणम्?।

शिवः। शास्त्रं तदनुष्ठानञ्च। प्रथमतः श्रूयतां शास्त्रम्। तथाहि। योगसूत्रम्। २। ३५।

अहिंसा प्रतिष्ठायां तत्सन्निधौ वैरत्यागः॥”

यस्य खलु स्वप्नेऽपि मनस्तो नोदेति हिंसा एकाशीति प्रकारा, तस्यैव अहिंसा प्रकर्षेण तिष्ठति, तस्यामहिंसायां प्रतिष्ठायां तस्य पुरुषस्य सन्निधौ सर्वप्राणिनां मशकदंशकभुजङ्गशार्द्दूलानाम् अन्योन्यवैरत्यागो भवति। यथा मेधसस्य मुनेराश्रमे स्वाभाविकं वैरं हित्वा सर्पमयूराः व्याघ्रमहिषाश्च विचरन्ति। एवं

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम्॥” २।३६॥

(क्रमशः)

____________

तत्त्वप्रपञ्चः।

( पूर्वप्रकाशितात्परः)

अथ यदुक्तं चतुविंशतितत्त्वेषु प्रथमं तत्त्वं प्रकृतिः सा कृदृशी? किं लक्षणा? तत् कथ्यते। सत्त्वरजस्तमसाम् अकार्य्यावस्था प्रकृतिः। अकार्य्यावस्थैव कीदृशी? सत्त्वरजस्तमसां साम्यावस्थेति गृहाण, किमिति साम्यावस्था? तुल्यावस्थेति। तथाहि यथा समत्रित्रिभागेण पञ्चानक-षड्गण्डिका-द्विकपर्दक-द्विक्रान्तैन(1/६॥=) षोड़शानको रूपको भवेत्, तथा यदा सत्त्वं पञ्चानक-षड्गण्डिकाद्विकपदक-द्विक्रान्तम्,(1/६॥=) रजोऽपि पञ्चानक-षड्गण्डिकाद्विकपर्दक-द्विक्रान्तम् (1/६॥=) एवं तमोऽपि पञ्चानक-षड्गण्डिका-द्विकपर्द्धक-द्विक्रान्तञ्च(1/६॥=) भवेत् तत् समष्टीभूता एषैव प्रकृतिः। कथमस्याः “प्रकृति"रिति नाम? यस्मात् प्रकर्षण जगत् करोति स्वयमेव जगद्रुपेण परिणमते इति प्रकृतिः। विकृतिभूतानां सर्वजगतां प्रकृतिः आदिकारणम्। यथा वृक्षः प्रकृतिस्तद्विकृतिर्नोका, तथा गुणत्रयसाम्यावस्था प्रकृतिस्तद्विकृतिर्जगत्। इयमेव प्राकृतप्रलयावस्था कथ्यते * एतेन गुणसाम्यात् प्रलयः गुणवैषम्याच्च सृष्टिरिति परमार्थः।

________________________________________________

* प्राकृतप्रलयावस्था यथा कूर्म्मपुराणे ४२—४३ अध्याये।

अतः परं प्रवक्ष्यामि प्रतिसर्गमनुत्तम्। प्राकृतं प्रसमासेन शृणुद्धं गदतो मम॥

गते परार्द्धे द्वितये काले लोकप्रपालकः। कालाग्निर्भस्मसात् कर्त्तुं करोति निखिलं मतिम्॥

आत्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः। दहेदशेषं ब्रह्माण्डं स देवासुरमानुषम्॥

तमाविश्य महादेवो भगवान्नीललोहितः। करोति लोकसंहारं भीषणं लोकमाश्रितः।

प्रविश्य मण्डलं सौरं कृत्वाऽसौ बहुधा पुनः। निर्दहत्यखिलं लोकं सप्तसप्तिस्वरूपधृक्॥

स दग्ध्वा सकलं सत्त्वं सर्वं ब्रह्मशिरो महत्। देवतानां शरीरेषु क्षिपत्यखिलदाहकः॥

दग्धेष्वशेषदेहेषु देवी गिरिवरात्मजा। एका सा साक्षिणः शम्भोस्तिष्ठते वैदिकी श्रुतिः॥

शिरः कपालैर्देवानां कृतस्रग्वरभूषणः। आदित्यचन्द्रादिगणैः पूरयन् व्योममण्डलम्॥

_______________________________________________________

तथा च प्रकृतिपर्य्यायः। महाभारते आश्वमेधिकपर्वणि।

तमोऽव्यक्तं शिवो धाम रजो योनिः सनातनः। प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ॥

अनुद्रिक्तमनूनं वाप्यकम्पमचलं ध्रुवम्। सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम्॥

ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः॥

सव प्रलयावस्था तमोरूप। यतः प्राकृतिकीसृष्टिः। यथाह मनुः। १। ५।

असीदिदं तमी भूतमप्रज्ञातमलक्षणम्। अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः॥

अत्र च मेधातिथिधृतश्रुतिः। “तम आसीत् तमसा गूढ़मग्रे प्रकेतं सलिल सर्वमा इदं तुच्छेनाभिपिहितं यदासीत्तमस्तन्महिनाजायतैकम्। चन्द्रार्काग्न्यादिषु वाह्याध्यात्मिकेषु महाप्रलये प्रकाशकेषु नष्टेषु तम एव केवलमासीत्”। एतेन चन्द्रादयस्तदानीं प्रकृतौ लीना आसन् इति प्रतीयते।

__________________________________________________________________

सहस्रनयनो देवः सहस्राकृतिरौश्वरः। सहस्रहस्तचरणः सहस्रार्चिर्महाभुजः॥

दंष्ट्रा करालवदनः प्रदीप्तानललोचनः। त्रिशूली कृत्तिवसनीयोगमैश्वर्य्यमास्थितः॥

पीत्वा तत् परमानन्दं प्रभूतमनृतं स्वकम्। करोति ताण्डवं देवीमालोक्य परमेश्वरः॥

पीत्वा नृत्यामृतं देवी भर्त्तुःपरममङ्गला। योगमास्थाय देवस्य देहमायाति शूलिनः॥

स त्यक्त्वाताण्डवरसं स्वेच्छयैव पिनाकधृक्। याति स्वभावं भगवान् दग्धा ब्रह्माण्डमण्डलम्॥

संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकिषु। गुणैरनेकैः पृथिवी विलयं याति वारिषु॥

सवारितत्वं सगुणं ग्रसते हव्यवाहनः। तैजसं गुणसंयुक्त वायौ संयाति संक्षयम्॥

आकाशे सगुणो वायुः प्रलयं यान्ति सत्तमाः। भूतादौ च तथा काशं लीयते गुणसंयुतम्॥

इन्द्रियाणि च सर्वाणि तैजसे यान्ति संक्षयम्। वैकारिके देवगणाः प्रलयं यान्ति सत्तमाः॥

वकारिकस्तजसञ्च भूतादिश्चेति सत्तमाः। त्रिविधोऽयमहङ्कारी महति प्रलयं व्रजेत्॥

महान्तमेभिः सहितं ब्रह्माणममृतौजसम्। अव्यक्तं जगती योनिः संहरेदेकमव्ययम्॥

एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः। नियोजयत्यथान्योन्यं प्रधानं पुरुषः परम्॥

प्रधानपुंसो रजयोरेष संहार ईरितः। महेश्वरेच्छाजनितो न स्वयं विद्यते लयः॥

गुणसाम्यं तदव्यक्तंप्रकृतिः परिगीयते। प्रधानं जगतो योनिर्माया तत्त्वमचेतनम्॥

कूटस्थश्चिन्मयो ह्यात्मा केवलं पञ्चविंशकः। गीयते सुनिभिः साक्षी महानेकः पितामहः॥

एवं संहारकरणी शक्तिमाहेश्वरी ध्रुवा। प्रधानाद्यं विशेषान्तंदहेद्रुद्र इति श्रुतिः॥

______________________________________________________________

अत्र कुल्लुकः। “तमः शब्देन गुणवृत्त्या प्रकृतिर्निर्दिश्यते”।

सैव प्रलयावस्था नामरूपाद्यनिर्वाच्यत्वात् सर्वद्रव्याणां कारणेलयत्वाच्च असदवस्थोच्यते। यथा तैत्तिरीयोपनिषदि ब्रह्मवल्याम् ७म खण्डे।

असद्वाइदमग्र आसीत्। ततो वे सदजायत।

एवं छान्दोग्ये ३।१९।१।

“असदेवेदमग्र आसीत्। तत्सदासीत्तमभवत्तदाण्डं निरवर्त्तत”।

एवं बृहदारण्यके १।२।१।

नैवेह किञ्चनाग्र आसीत्। मृत्युनैवेदमावृतमासीत्।
अशनायया। अशनाया हि मृत्युस्तन्मनोऽकुरुतान्मन्वीस्यामिति॥

अत्र शङ्करभाष्यम्। “इह संसारमण्डले किञ्चन किञ्चिदपि नामरूपप्रविभक्तविशेषं नैवासीन्न बभूव। अग्रे ग्रागुत्पत्तेर्मन आदेः”। तस्मात् सदेव कार्य्यं प्रागुत्पत्तेरिति सिद्धम्॥ किं लक्षणेन? मृत्युना आवृतः अत आह अशनायया अशितुमिच्छा अशनाया सैव मृत्युर्लक्षणं तथा लक्षितेन मृत्युना अशनायया।” “अशनाया हि मृत्युःयो ह्यशितुमिच्छति सोऽशनायानन्तरमेव हन्ति जन्तून्। बुद्ध्यात्मनो अशनाया धर्म इति। स एव बुद्ध्यवस्थो हिरण्यगर्भो मृत्युरित्युच्यते। तेन मृत्यु नेदं कार्य्यमावृतमासीत्।”

अवस्थेयं नामरूपेण निर्देष्टुमशक्यत्वात् सर्वजगतोऽभावप्रतीयमानत्वात् अतिसूक्ष्मस्याव्यक्तस्य बुद्धेरविषयत्वाच्च “असतः सज्जायत” इत्याहुर्बौद्धाः।

तथाच श्रुतिमपि प्रमाणयन्ति। यथा छान्दोग्ये। ६।२।१।

तद्वैक आहुरसदेवेदमग्र आसीत् एकमेवाद्वितीयं तस्मादसतः सज्जायते।

** **अत्र भाष्यम्। “तत्तत्र हैतस्मिन् प्रागुत्पत्तेर्वस्तुनिरूपणे एके वैनाशिका आहुर्वस्तु निरूपयन्तोऽसत् सदभावमात्रं प्रागुत्पत्तेरिदं जगदेकमेवाग्रेऽद्वितीयमासीदिति। सदभावमात्रं हि प्रागुत्पत्तेस्तत्त्वं कल्पयन्ति बौद्धाः। न तु सत् प्रसिद्धं वस्त्वन्तरमिच्छन्ति।”

वेदान्तिनो यद्ब्रह्म जगदुत्पत्तिकारणं श्रुत्या मन्यन्ते तदेव ब्रह्म प्रकृतिमित्यभिप्रेत्य सांख्याः तामेव श्रुतिं प्रमाणयन्ति तथाच तैत्तिरीयोपनिषदि भृगुवल्याम् १।

“यतो वा इत्यानि भूतानि जायन्ते। येन जातानि जीवन्ति।
यत् प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व। तद्ब्रम्मेति॥

अत्र वृंहितत्वात् ब्रह्म प्रकृतिः विभ्वीत्यर्थः कथ्यते। तथा च भगवद्गीता १४। २। “मम योनिर्म्महब्रह्म तस्मिन् गर्भं दधाम्यहमिति”।

विष्णुपुराणीय प्रकृत्यवस्था १।२।१९—३३॥

अव्यक्तं कारणं यत्तत् प्रधानमृषिसत्तमैः। प्रोच्यते प्रकृतिःसूक्ष्मा नित्यं सदसदात्मकम्॥

अक्षयं मान्यदाधारममेयमजरं ध्रुवम्। शब्दस्पर्शविहीनं तद्रूपादिभिरसंहतम्॥

त्रिगुणं तद् जगद्योनिरनादिप्रभवाप्ययम्। तेनाग्रे सर्वमेवासीत् व्याप्तं वै प्रलयादनु॥

वेदवादविदो विद्वन् नियता ब्रह्मवादिनः। पठन्ति वै तमेवार्थं प्रधानप्रतिपादकम्॥

नाहोन रात्रिर्न नभो न भूमिर्नासीत्तमो ज्योतिरभून्न चान्यत्।
श्रीत्रादिबुद्ध्यानुपलभ्यमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत्॥

विष्णोः स्वरूपात् परतो हि तेऽन्ये रूपे प्रधानंयुरुषश्च विप्र॥
तस्यैव तेऽन्येन धृते वियुक्तरूपेण यत्तदुद्विज कालसंज्ञम्॥

प्रकृतौ संस्थितं व्यक्तमतीतप्रलये तु यत्। तस्मात् प्राकृतसंज्ञोऽयमुच्यते प्रति सञ्चरः॥

अनादिर्भगवान् कालो मान्तोऽस्य द्विज विद्यते। अव्युच्छिन्नास्ततस्तेते सर्गस्थित्यन्तसंयमाः॥

गुणसाम्ये ततस्तस्मिन् पृथक् पुंसि व्यवस्थिते। कालस्वरूपं रूपं तत् विष्णोर्मैत्रेय वर्त्तते॥

ततस्तत् परमं ब्रह्म परमात्मा जगन्मयः। सर्वगः सर्वभूतेशः सर्वात्मा परमेश्वरः॥

प्रधानं पुरुषञ्चापि प्रविश्यात्मेया हरिः। क्षोभयामास सम्प्राप्ते सर्गकाले व्यायाव्ययौ॥

यथा सन्निधिभात्रेण गन्धःक्षोभाय जायते। मनसो नोपकर्त्तृत्वात् तथासौ परमेश्वरः।

स एव क्षोभको ब्रह्मन् क्षोभ्यश्च पुरुषोत्तमः। स सङ्कोचविकाशाभ्यां प्रधानत्वेऽपि च स्थितः

विकाराणुस्वरूपैश्च ब्रह्मरूपादिभिस्तथा। व्यक्तस्वरूपश्च तथा विष्णुः सर्वेश्वरेश्वरः॥

गुणसाम्यास्ततस्तस्मात् सर्वज्ञाधिष्ठितान्मुने। गुणव्यञ्जनसम्भूतिः सर्गकाले द्विजोत्तम॥

(क्रमशः)

____________

FOR ENTRANCE STUDENTS.

<MISSING_FIG href=”../books_images/U-IMG-173166297446.jpg”/>

AS GIVEN BY THE HEAD PUNDIT
OF
G. A. INSTITUTION, CALCUTTA.

⇒ Questions with answers on Sanskrit Entrance Course for 1896.

<MISSING_FIG href=”../books_images/U-IMG-173166300871.jpg”/>

Q1:— Explain the following sloka in tika form.

उद्योगिनं पुरुषसिंहमिति ETC.

Ans:— उद्योगिनमिति। लक्ष्मीःसम्पत् उद्योगिनं सचेष्टं पुरुषः सिंह इव तं पुरुषश्रेष्ठमित्यर्थः। (स्युरुत्तरपदे व्याघ्रयुङ्कवर्षभव्युञ्जराः। सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः इत्यमरः। उपमितं व्याघ्रादिभिः सामन्याप्रयोगे। इति उपमितसमासः।) उपैति आप्नोति। नियतोद्यमशालिनः सम्पत् चिरस्थायिनीति भावः। कुत्सिताः पुरुषाः कापुरुषाः। “पथि पुरुषे” वा इति सूत्रेण कुशब्दस्य कादेशः। पक्षे कुपुरुषा इति। दैवेन नियत्या भाग्येनेत्यर्थः (दैवं दिष्टं भागधेयमित्यमरः।) देयं दातव्यम् इति दिष्टसूचितमवश्यमेव भविष्यतीत्येवंरूपं वदन्ति कथयन्ति। अनुद्यमशालिनो मन्दा एव दिष्टपरा इति भावः। अतः आत्मनः स्वस्य शक्त्या सामर्थ्येन दैवं भाग्यं निहत्य विनाश्य दैवं हीनबलं विधायेत्यर्थः। पुरुषस्य भावस्तं पौरुषं पुरुषकारं यत्नमित्यर्थः। कुरु विधेहि। यथासाध्यं यत्नमनुतिष्ठेत्यर्थः। न हि यत्नवैफल्ये दोषाशङ्का कर्त्तव्या

इत्यत आह यत्रे इति। यत्ने उद्यमे कृते अनुष्ठिते सति यदि न सिध्यति न सफलं भवति कार्य्यमिति शेषः। अत्र अस्मिन् कार्य्यासाफल्ये को दोषः अपराधः न कोऽपीत्यर्थः। कार्य्यवैफल्यशङ्कया उद्योगविरतिर्न कार्य्येति भावः।

II. Expound the Samasa in पण्डितसभाand write grammatical notes on it.

Ans. पण्डितानां सभा। (६ष्ठीतत्) अत्र राजामनुष्यपूर्वेति सूत्रे अमुनुष्य पूर्वेति कथनात् मनुष्यवाचकपण्डितशब्दपूर्वकत्वाच्च न नपुंसकत्वम्।

III. Derive पुत्रः, सुप्तः, यत्नः, विद्वान् and सिंहः, and decline the base of विद्वान्in Ist+7th cases.

Ans. पुत्रः = पुत्+त्रै+डः। सुप्तः = स्वप्+क्तः। यत्नः = यत्+न। विद्वान्= विद्+सतुxक्वसुः। सिंहः = हिन्स्+अन्। वर्णः विपर्य्ययात् विपर्य्ययेण निपातनात् सिद्धम्।

1st case.

विद्वान्, विद्वांसौ, विद्वांसः,

7th. case.

विदुषि, विदुषोः, विद्वत्सुः।

_________

FOR. F. A. STUDENTS.

<MISSING_FIG href=”../books_images/U-IMG-173165968672.jpg”/>

QUESTIONS WITH ANSWERS ON
RAGHUVANSAM-CANTO, 1.

⇒ Paper set by Baboo Haris Chandra kaviratna
professor of Sanskrit Literature,
Presidency College, Calcutta.

  1. Explain in your own words the purport of the 10th. sloka.

१। कुत्सिताकुत्सितरूपयोर्विचारे चक्षुष्मन्त इव काव्यस्यापि गुणदोषविचारे सन्त एव प्रभवन्ति न त्वन्ये इति भावः।

  1. Derive and give the meaning of the following terms:- व्यक्तिः, वैवश्वतः, मनीषिणाम्, महीक्षिताम् and प्रणवः।

२। वि+अग्ज+क्तिः। प्रकाशः।विचारः। परीक्षा वाविपूर्वाञ्जतेरर्थः। वि+वस्+क्विप्।विवस्तेजोऽस्यास्तीति।विवस्+मतुप्। मस्य वः।“तसौमत्वर्थेः”१।४।१९। मत्वादुत्वाभावः। विवस्वतोऽपत्यं पुमान् विवस्वत्+अण्। प्रशस्ता मणीषा अस्ति येषाम्। मणीषा+इनिः। महीं क्षयते ईष्टे क्षि+क्विप्। तुक् च। प्र+णु+अप्। “ऋदोरप्”।

  1. In the 12th stanza, some read “शुद्धमतिः” instead of “शुद्धिमति”; Impugn or justify this with your reasons.

३। नायं भ्रमः यदि विसर्गो दीयते यथा शुद्धमतिः शुद्धामतिर्यस्य इति तदा दिलीपविशेषणम्।

  1. Expand the idea expressed in the following hemistich— “आत्मकर्म्मक्षमं देहं क्षात्रो धर्म्म इवाश्रितः”।

४। दुष्टदमनशिष्टपालनादिना पृथिवीरक्षणादिकार्यक्षमः मूर्त्तिमान् पराक्रम इवासौदिलीप इति भावः।

  1. Point out the grammatical peculiarities in व्यूढ़ोरस्कः and आरम्भः।

५। व्यूढ़म् उरो यस्य इति बहुव्रीहौ कः। व्यूढ़म्। वि+वह+क्तः। आ+रभ+घञ् ततो नुम्।

  1. Explain the simile in the 16th. stanza.

६। भीमगुणैर्यादोभिः, कान्तगुणैरत्नैः सादृश्यं राज्ञः अर्णवेन सादृश्यम्।

  1. Explain in English, or in Sanskrit, the meaning of the 17th. sloka.

७। नियन्तुः तथा तथा नियोजयितुः शिक्षयितुः सारथेश्चतस्य दिलीपस्य सम्बन्धिन्यः प्रजाः नेमीनां चक्रधाराणां वृत्तिरिव वृत्तिर्यासां ताः प्रजाः आमनोः मनुमारभ्य क्षुणात् अभ्यस्तात् एहृताच्च वर्त्मनः नियमपद्धतेः मार्गाच्च परमधिकं वहिः रेखामात्रमपि ईषदपि न व्यतीयुः। नातिक्रान्तवत्यः। निपुणसूतचालित रथचक्रनेमय इव तस्य प्रजाः पूर्वपुरुषनिर्दिष्टमार्गं न जहुरिति भावः।

  1. Parse सहस्रगुणम् and account for the reflexive form (आत्मनेपद) in आदत्ते in the 18th sloka.

८। सहस्रगुणमिति उत्स्रष्टुमिति क्रियाविशेषणम्। आ+दा+ते। “आङोदोञोऽनास्य विहरणे” इत्यात्मने पदम्।

  1. Give the etymology of परिच्छद, आतता, संस्काराः and अगृध्रुः।

९। परि+छद+णिच्। “पुंसि संज्ञायाम्” घः। “छादेर्घेऽद्व्युपसर्गस्य” इत्युपधा ह्रस्वः॥ आ+तन+क्तः स्त्रियामाप्। सं+कृ+घञ्। उपसर्गात् सुड़ागमः। गृध+त्रिसिगृधि धृषिक्षिपेः क्नुः। न गृध्नुःअगृध्नुः।

  1. Turn into passive voice the first and the last foot of the 21st. stanza.

१०। जुगुपे आत्मा। भेजेधर्म्मः। आददे। अन्वभावि।

  1. Explain fully the purport of the last line of the 22nd. sloka.

११। ज्ञानमौनादयो विरुद्धा अपि गुणास्तस्मिन् निर्विरोधाः स्थिताः इति भावः।

  1. Derive पारदृश्वनःGive its feminine form • • Mention the alternative of जरसा. Name the Samasa in धर्म्मरतेः।

१२। पारदृश्वा। पार+दृश+क्वनिप्। स्त्रीलिङ्गे “वनोरच”। ४।१।७। इति ई ङीप् पारदृश्वरी। जरसा। जरया। धर्म्मरतेः।धर्मेरतिर्यस्य तस्य इति बहुव्रीहिः।

_____________

FOR ENTRANCE & F. A. STUDENTS.

<MISSING_FIG href=”../books_images/U-IMG-173166025366.jpg”/>

⇒ A PAPER ON SANSKRIT GRAMMAR, GIVEN BY
BABOO UPENDRA NATH RAY B. A.

Professor Sanskrit Literature, Century College.
SAMASA (Continued)

A केवलकर्म्मधारयbecomes a द्विगु when the adjunct is a numeral, as, द्वयोः दिनयोः कृतं= द्विदिनं।

In the द्विगु compound the numeral comes first. (संख्यापूर्वोदिगुः) ie. द्विगु is a compound, in which the first member is a numeral.

The numeral compound is of three kinds; viz:–(a) तद्धितार्थ विषयक in which compound words convey the sense of तद्धित affixes. (b) उत्तरपदपर in which an additional word is affixed to them (c) समाहार in which collectiveness or aggregation is implied.

Examples (a) पञ्चभिः दिनारैःक्रीतः= पञ्चदीनारः, द्वयो दिनयोःकृतम्= द्विदिनम्; Expound the samasas in— पञ्चकपालः; (b) चतमृणां दिशाम् ईशाः = चतुर्द्दिगीशाः। Expound the Samasa in पञ्चनावप्रियः। (c) त्रयाणां भुवनानां समाहारः = त्रिभुवनं; त्रयांनां लोकानां समाहारः = त्रिलोकी। Expound the Samasas in— पञ्चमूली, पञ्चवटी, पञ्चपातं चतुर्युगम्, त्रिपथम्, & पञ्चगवम्।

In the समाहार द्विगु compound (समाहार द्विगु समासे) the compound words are put in the neuter gender (स नपुंसकम् इति सूत्रात्); as पञ्चगवम्; But when the second member of the compound (उत्तरपद) ends in (अकारान्त), the compound word must be put in the feminine gender; as, पञ्चमूली। This rule also admits of an exception. viz, when the second member of the compound is पात्र etc, the compound word is to be put in the neuter gender; (“पात्राद्यन्तस्य न” इति सूत्रात्)। पञ्चपात्रम्, त्रिभुवनम्, चतुर्युगम्।

Q How do you account for the compound in

सप्तर्षयः? Ans. दिक्संख्ये संज्ञायाम् इतिसूत्रात् संख्यापूर्वपदसंज्ञायां संख्यापूर्वत्वेऽपि शब्दस्यास्य केवल कर्म्मधारय समासत्वम्। अतएव विग्रह वाक्यं सप्त संख्यका ऋषयः इति।

(३) बहुव्रीहिः।

When the compound word refers to something, different from what is conveyed by the words forming the compound, the compound is then called बहुव्रीहिः (“अनेकमन्य पदार्थे” इति सूत्रात्)।

(a) द्वितीया बहुव्रीहिः— प्राप्तम् उदकं यं सः= प्राप्तोदकः (ग्रामः); गतः क्रूद्धः सिंहः यं सः = गतक्रृद्धसिंहः (करी)।

(b) तृतीया बहुव्रीहिः— जितः कामः येन सः = जितकामः (महादेवः); कृतं कार्य्यं येन सः = कृतकार्य्यः (पुरुषः)।

(c) चतुर्थी बहुव्रीहिः— दत्तं धनं यस्मै = दत्तधनः (मानवकः)।

(d) पञ्चमीबहुव्रीहिः— उद्धृतः ओदनः यस्याः सा = उद्धृतोदना (स्थाली)।

(e) षष्ठीबहुव्रीहिः— पीतम् अम्बरं यस्य सः = पीताम्बरः (विष्णुः); रक्तं वस्त्रं यस्याः सा= रक्तवस्त्रा (नारी)।

(f) सप्तमीबहुव्रीहिः— वीराः पुरुषाः यस्मिन् सः = वीरपुरुषः (ग्रामः) प्रफुल्लानि कमलानि यस्मिन् तत् = प्रफुल्लकमलं (सरः)।

(g) व्यधिकरण बहुव्रीहिः— चक्रं पाणौ यस्य सः = चक्रपाणिः (प्रहरणार्थेभ्यः परे निद्रा सप्तम्यौ इति वार्त्तिकवचनात्); मनुष्याजन्म यस्य सः= मनुष्यजन्मा।

(h) उपमानपूर्वपदः— पद्मे इव नेत्र यस्य सः= पद्मनेत्रः। मृगस्यनयने= मृगनयने; मृगनयने इव नयने यस्याः सा = मृगनयना। कुन्दमिव दशनं यस्याः सा = कुन्ददशना। मुनीणां वृत्तिः = मुनिवृत्तिः; मुनिवृत्तिरिव वृत्तिर्येषां ते तेषां= मुनिवृत्तीनाम् (रघूणाम् सप्तम्युपमानपूर्वपदस्य उत्तरपदलोपश्च वक्तव्यः इति पतञ्जलिशासनात्)।
(क्रमशः)

श्रीश्रीदुर्गा शरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-173166111047.jpg”/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्ती जनानिव।
मायावलम्ब्यते सेयमम्बाश्रीशिवसुन्दरी॥

<MISSING_FIG href=”../books_images/U-IMG-173166116468.jpg”/>

मासावतरणिका।

मार्गे खलानां मनसीवपङ्किले धाराभिराधातुमिहाद्ध्रिविभ्यति।
मनीषिनस्तत्र तु कामकिङ्कराः श्वानश्च भाद्रेऽभिसरन्ति निश्यपि॥

<MISSING_FIG href=”../books_images/U-IMG-173166129973.jpg"/>

उद्भटस्लोकाः।

उक्तादित्य विकशितं पदपतट्गङ्गाम्बुधारासवं
ब्रह्मेशेन्द्रदिवौकसां नवशिरस्तत्रापि भृङ्गायते।
स्वच्छं चारुनखाबलिर्नवदलं वाञ्छास्पदं पातु वो
वृन्दारण्यनिवासिनो नवघनश्यामस्य पादाम्बुजम्॥१२१॥

उभौपक्षौ शक्तौ भुवि वियति चाव्याहतगतिः
सदा मौनं भुङ्क्ते वसति सकलस्थाणु शिरसि।
वकश्चन्द्रस्तुल्यो गुणसमुदयः कश्चिदधिको
गुणाःस्थाने मन्या न हि नरवराः स्थानविकलाः॥१२२॥

ईषन्मुद्रितमम्बुजं कुमुदिनी किञ्चित् समुल्लासिनी
चक्रीचक्रवियोगिनी पतिभयाद्बाला बधूस्त्रासिनी।
यूनी वेशविधायिनी विरहिनीनेचाम्बुसम्बाहिनी
भानुर्याति नगेन्द्रकोणकुहरे दृष्टा हि चात्यद्भुतम्॥१२३॥

यदीच्छसि वशी कर्त्तुं जगदेकेन कर्म्मणा।
उपास्यतां कलौ कल्पलवादेवी प्रतारणा॥१२४॥

श्रीविधुभूषणदेवः (राँचि)।

______________

___________

दानमाहात्म्याम्।

कस्मिंश्चिद्देशे आसीदेकप्रजा नाम, सर्वशास्त्रविदब्राह्मणः सदा हरिपादाब्जमानसो देवानां ब्राह्मणानाम् गुरूणाञ्च अचलेन मनसा, अचपलया श्रद्धया च त्यक्तान्यशतकार्य्यो, यथोचितम् अहरहः कृतार्च्चनः। स च परद्रव्यं विषमिव भ्रातृजायात्। दुहितरं स्वसारं गुरुदारान् किमन्यत् परस्त्रीवृन्दं मातरमिवाद्राक्षीत्। तथा, मित्रे शत्रौ, दृशदि काञ्चने मानापमानयोश्च समबुद्धिर्गृहप्रविष्टोऽपि प्रात्यहिकेन स्वेन कर्म्मणा स्म तापसायते अभ्यागतो नीचोऽपि याचकस्त्वं भृशमानन्दयति स्म। एकदा स, द्विजाग्रनीःसंसारसागरं भीमतरङ्गमपारञ्च तितीर्षुर्निजां जातिं स्मरन् स्वपन् जाग्रंश्चलंस्तिष्ठन्न परिमेयां चिन्तामवाप कोऽहं कुत्रासम् किं वा वृत्तिरासीत् केन कर्म्मविपाकेन वास्मिन् संसारकारागारे जन्म प्राप्य पुत्र कलत्रैरभेद्य शृङ्खलैरिव, बद्धोऽस्मि क्व वा भूयो गमिष्यामीति स्मरन् मुहुर्मुहुर्निश्वस्य च क्षिप्तप्राय इतस्ततो वभ्राम कुत्रापि शान्तिमलभ्य पूर्ववृत्तान्तं विज्ञातुं शिवक्षेत्रं जगाम। तत्र बद्धाञ्जलिर्विप्रः परमया भक्त्या मधुरया गिरा शङ्करं तुष्टाव नमस्ते शूलपाणये महादेवाय नमस्ते वृषध्वजाय, ज्ञानदायिने सर्वभूतानां हृदयाम्बुजवासिने नमः नमस्तुभ्यं चन्द्रनेत्राय नमस्ते सूर्य्यनेत्राय नमो वह्निचक्षुषे नमस्ते कन्दर्पदर्पविध्वंसकारिणे नमो भीममूर्त्तये नमस्ते क्षित्यप्तेजोमरुद्वोमादिरूपधारिणेजानेहं संसारस्रष्टातस्त्वं धाता जानेऽहं जगत्पालकोऽस्मात् कारणात् त्रिभुवनपतिर्विष्णुस्त्वंक्षित्यादिसमस्तम्। प्रलयसमये संहरसि अतस्त्वां त्रिगुणात्मकं महेशं ज्ञात्वा भजामि नित्यं प्रभो! बहुभाषितेनालम्, वस्तुतो बाहुल्येन सकलमपि त्वां वेद्मि अतस्त्वां किं स्तौमि। तस्य ब्राह्मणस्येदृशों स्तुतिमाकर्ण्य परमकारुणिकः परमेश्वरो लोकशङ्कः शङ्कः सहसा आविर्बभूव। श्वेतं परशुमृगवराभीतिहस्तं त्रिनेत्रं वृष भस्थंतमालोक्य हर्षनिर्भरमानसो विप्रोऽसौ

चरणौ ववन्दे, ततः शिवोऽब्रवीत् महाभाग! झटिति वरं वृणु खलुरहं वरं दित्सुस्त्वत्समीपमुपस्थितोऽस्मि ततो ब्राह्मणोऽचकथत् भवन्तं परमात्मानं देवैरप्यदृश्यमद्य साक्षात् पश्याम्यहं किमपरैस्तथापि वरमीप्सुर्यदहं पृच्छामि तद् ब्रूहि? परमेश्वर! पुरा कोहमासम् किं वा कर्म्म कृतं कथं वा संसारजलधौ पतितोऽस्मि? श्रुतोऽहं स्वकर्म्मणा देहमासाद्य देही पापेन लिप्यते पुनः पापप्रभावेन विषमा गतिः प्राप्यते। जन्ममृत्युप्रदे महाघोरेऽस्मिन् संसारे गर्भवाससमं दुःखं नास्त्येव! नास्त्येव!! अहह मूत्रविष्ठाप्रकीर्णे जननीजठरे जठरानलतापितः पूर्वदुष्कृतमनुस्मरति प्रतिक्षणमनुतप्यते च लोकः कथमापातरम्यं जन्ममूलं कर्म्मकृतमित्यादिकं विभाव्य तदैव ईश्वरमुद्दिश्य प्रतिज्ञां करोति मातृगर्भान्निःसृत्य जात्वपि नेश्वरं विस्मरामि सदा विषयं तृणाय मंस्ये ध्रुवं नजाने मातृगर्भान्नित्यैवात्मप्रतिज्ञा विस्मर्य्यते कथम्? विभो केषां कर्म्मणां प्रभावैर्जन्मेदं प्राप्तं मया शिवोऽब्रवीत् यद्यपीदं सुगुप्तं तथापि भक्तवत्सलं त्वां प्रति वदामि द्विजनन्दन पुरात्वं सरववंशजातो नाम्ना दण्डपाणिः परिचेयः त्वं परलोकभयं त्यक्त्वा सर्वदा परमक्लेशदायिनां दस्युवृत्तिं चकरिथ, दस्युवृत्तिगतं भवन्तं दृष्ट्वा तवापर भ्रातरः षड़नुचरा बभूवुः। तेषां नामानि निगदाम्यहं दण्डीदण्डायुधो दण्डवान् दण्डभृत् सुदण्डो दण्डकेतुरिति एतैः सममरण्ये घोरे कोटिकोटिशो विप्रा निहताः वनस्थेन त्वया मदिराभिः सह गवां क्रव्यानि भुक्तानि सर्वे वणिजः पथिकाश्च यातायातविधिं तद्भयात् तत्यजुः। एकदा त्वं भ्रातृभिः सह तस्मिन् वने स्नानाय सरसींगतः तत्र स्नानं समाप्य क्षुधितेन त्वया बहूनि मृनालानि भक्षितानि कौतुकादनेकानि पद्मपुष्पानि प्रचेयानि तस्मिन्नेव काले वृद्धो वल्काम्बरधारौ सर्वदेवाख्यो ब्राह्मणः स्नानार्थं तत्रागतः स तत्र स्नात्वा भगवन्तं जनार्दनं यष्टुं त्वामेकमम्भोजं ययाचे त्वयापि परमया भक्त्या पद्ममेकं

दत्तं कमलापतेः सपर्य्यायै त्वद्दत्तपद्मेन जनार्दनः प्रीतो बभूव ब्राह्मणस्य पूजाप्रणतिं दृष्ट्वा त्वमपि प्रहसन् विष्णुं नमितः। तेनाम्बुजदानप्रणामपूजादर्शनेन तव सर्वपातकं नष्टम्। ततः कियति काले गते कालप्राप्तस्त्वं पञ्चत्वं गतः प्राक्तनपद्मदानादिकर्म्मणा तुष्टो भगवान् कमलापतिस्तुभ्यं परमं स्थानं ददौ तत्र मन्वन्तरशतानि सुखं भुक्त्वाक्षीणे पुण्ये कर्म्मभूमिमिमामागत्य शुद्धे द्विजकुले जम्मसंप्राप्य हरिभक्तिरचला लब्धा। स्वगृहं याहि याहि सुप्रीतो हरिस्तुभ्यं ज्ञानं दास्यति ज्ञानान्मुक्तो भविष्यषीत्युक्ता शम्भुरन्तर्दधे।

तथा च क्रियायोगे।

विष्णुंसमाराध्य चिरं स विप्रः पद्मप्रसूनैर्विकचैः सुदिव्यैः।
ज्ञानं समासाद्य ज्रगाम मोक्षं प्रसादतः श्रीगरुड़ध्वजस्य॥

श्रीकालीनाथशर्म्मतर्कसिद्धान्तः।

आयनातलीविद्यालयाध्यापकः।

____________

प्रावृट्।

प्रावृषिकुञ्जे फुल्लमनोज्ञैर्भूषणरूपैः पुषसमूहैः।
नम्रसुशीर्षाः सुन्दरवृक्षास्तेऽपि भवन्ति स्निग्धसुदृश्याः॥१॥

जाती यूथी चारुसुवर्णा नेत्रहरी संसीरभपूर्ण।
मेदुरवातान्दोलितदेहा चित्तहरी वा पुष्पलता सा॥२॥

नीरदनीरं चित्रप्रसूने राजत एवं श्यामलपर्णे।
हीरकहारो रम्य निसर्गः सज्जितमस्मिन् मन्यत एषः॥३॥

वर्षणनीरैः स्नाति निसर्गः सोऽपि यदा वा सन् प्रतिभाति।
पश्यति योऽसौ मोहितचित्तः शान्तिप्रयुक्तश्चैव तदास्ति॥४॥

सोऽपि नितान्तं विस्मितशान्तः पूतप्रमोदं चेतसि प्राप्तः।
चिन्तयतीशस्यामलभावान् पूजनहेतोर्यस्य च विश्वम्॥५॥

चन्द्र उदेति ह्यत्र च सूर्य्यःवान्ति समीराः प्रवहति तोयम्।
वर्षतिमेघः खल्वनुमत्या पूर्णकृपाभिर्यस्य च विश्वम्॥६॥

श्रीसरोजमोदिनी देवी।

___________

गर्वपरिणतिः।

(पूर्वप्रकाशितात्परम्)

पञ्चमोऽङ्कः।

रामचन्द्रस्य गृहम्।

शान्त्या परिशान्तमाना कमला।

शान्तिः। सखि! प्रभाता रजनी; कथमधुनापि स्वस्था न भवसि। प्रकृतिस्था भव, नचेत् शीघ्रं प्राणैर्विमुच्यसे।

कमला। (सवाष्पगद्गदम्) सखि! कुतश्च मे कठिनहृदयायाः मरणम्। नूनमपुण्योपहतायाः पापाया मे भगवानन्तकोऽपि परिहरति दर्शनम्। (सदीर्घनिःश्वासम्) सखि! अतःपरं किमपि कष्टतरं नास्ति, यदि पुनरद्य तं नयनानन्दं न प्राप्स्यामि तदा निश्चितमेव सखीजनानां दुःखाय भविष्यामि।

शान्तिः। निशावशतः स नायातः, अधुना दिवाकरकरैर्विदितमार्गोऽवश्यं समेष्यति।

कमला। सखि! अनयैव दुराशामृगतृष्णिकाया गृहीताहमिदं दग्धशरीरं वहामि। नचेत् तनयादर्शनमात्रेणैव मे मृत्युरनिवार्य्य आसीत्।

शान्तिः। (क्षणं विमृश्य) मन्ये किमप्यसाधु आचरितमार्य्येण; अन्यथा कथं तादृशे सुशीले एतादृशकृत्यस्य सम्भावना।

कमला। सखि! किं भणामि, न मे वचनं स्फुरति, आर्य्य पुत्रन्तु तस्मिन् वीतश्रद्धमिव लक्षयामि।

शान्तिः। (ससम्भ्रमम्) कथं तादृशे गुणवति पुत्रे वीतश्रद्ध स महात्मा। (विभाव्य स्वगतम्) अत्र केनचित् निगूढ़कारणेन भवितव्यम्। यद्भवतु भूयताम्। अलं तादृशचर्च्चयास्माकम्

(रामचन्द्रमागच्छन्तमवलोक्य प्रकाशम्) सखि!इत एवासौमहात्मा समायातीति तर्कयामि।

कमला। कृतावगुण्ठता तिष्ठति।

प्रविश्य रामचन्द्रः। प्रिये! इत्यर्द्धोङ्के।

कमला। नाथ! किं मन्त्रयते? सर्वत्र उदासीनमिव भवन्तं लक्षये। युगान्तरमिव गतरात्रिरतिवाहिता। जीवनधारणमधुना कष्टतरं जातम्। उपायश्चिन्त्यतां शीघ्रं नचेन्न द्रक्षसि मां पुनरिहलोके। (इति वस्त्रेणाच्छाद्य मुखं रोदिति।)

रामचन्द्रः। प्रिये! पुनः पुनरुच्यते धैर्य्यमवलम्ब्यतामिति। अकथितेनापि पूर्वमुपायश्चिन्तितः। तावदपेक्षस्व यावत् कृष्णस्यागमनम्। निशाभ्यन्तरे तस्यानिवृत्तिरेव मां दृढ़ीकरोति सुरेशदर्शनायेति।

कमला। कठिनवस्तुनैव निर्मितं विधात्रा पुरुषहृदयमिति मन्ये। नचेत् कथमिदानीमपि अदृष्ट्वैव पुत्रमुखं स्थिरीभवतीति।

रामः। प्रिये! विपरीतमिदमुपालम्भनम्। स्त्रीहृदयमेव कठिनमिति विदितम्; अन्यथा, कथं प्रस्तरादिवत् लघुतरं सुतप्तं भवति। नियतिरनिवार्य्यति विविच्य तावत् स्थिरीभूयताम्।

कमला। अवलानां सर्वमेव दोषाय। मम पुनः सुरेशमृते नास्त्यन्यो जीवनोपाय इत्यवगम्यताम्। (इति रोदिति)

रामः। समाश्वसिहि तावत्। (स्वगतम्) कथं कृष्णोऽपि चिरायमानो मदुत्कण्ठां बहुलीकरोति। (प्रकाशम्) प्रिये! स्वस्था भव; अयमहं स्वयमेव तदन्वेषणाय निर्गच्छामि। (पदशब्दमाकर्ण्य) के पुनरेतेऽत्र समायान्ति? (निरूप्य साह्लादम्) प्रिये! सन्तुष्ठा नः कुलदेवता; दृश्यतां सुरेशद्वितीयः कृष्णः समायातीति।

कमला। (ससम्भ्रमम्) कुत्र मे सुरेशः। प्रविश्य कृष्णेन सह सुरेशः। प्रणताः स्म पितरौ।

कमला। अहह! मे प्रियदर्शनः समायातः। (मस्तकमाघ्राय) वत्स। चिरं जीव। कथमिमां मन्दभागिनीं विसृज्यान्यत्र निशातिवाहिता। अपि नाम कुशलिना यापिता निशा?

सुरेशः। लब्ध प्रियसुहृदो मे कुशलं सर्वत्र।

कमला। कस्ते प्रियसुहृत्।

सुरेशः। सम्मुखस्थो महात्मा कृष्ण एव। स मां गतनिशायां तादृशं सुखिनमकरोत् यदहमभिनवगुरुविच्छेददुःखमपि नानुभूतवानिति।

कमला। कृष्ण! सुखं ते भूयात्; अऋणी खलु जातोऽनया प्रभुभक्त्या।

सुरेशः। मातः! अतःपरममुं सामान्यमिव द्रष्टुं नार्हति, परं मदधिकस्नेहचक्षुषा पश्यतु। यदुपकृतमनेन महात्मना, जीवनसर्वस्वेनापि तस्य प्रत्युपकृतिर्नभवतीति मन्ये।

रामचन्द्रः। (स्वगतम्) विचारितं फलितमितितर्कयामि। (प्रकाशम्) वत्स! कदा किमुपकृतं कृष्णदासेन?

सुरेशः। पितः! गतनिशायामस्य संसर्गतो मे पशुभावोऽन्तर्हितो मनुष्यत्वञ्चायातम्। गता मेऽन्तरतोऽभिमानकुज्झटिका, निर्म्मलमभवत् हृदयाकाशम्, प्रकाशितश्च विनयरविः।

रामचन्द्रः। सत्यमेतत्? कृतार्थोऽस्मि साम्प्रतम्। (कृष्णदासं प्रति) कृष्ण! पूर्वतोऽपि त्वं मे स्नेहपात्रमासीरधुना कार्य्येणानेन सन्तोषितः पारितोषिकार्थं जीवनसर्वस्वं सुरेशस्तव हस्ते समर्पितः"।

कृष्णः। (सविनयम्) मामपि समर्पयतु भ्रातृकल्पे।

सुरेशः। एतदपि वक्तव्यमेव। मूर्त्तिमान् मदन्तरात्मेव वहिस्तिष्ठति भवान्।

रामचन्द्रः। युवयोः सौहार्द्दमवलोक्यानन्दसागरे निमग्नोऽस्मि।

प्रविश्यापटीक्षेपेण नीलाम्बरः। जयतु बन्धो! पुत्रसमागमेन।

श्रुतं द्वीवारिकमुखात् सुरेशमागमनम्। (सुरेशं प्रति) एहि प्रियदर्शन! नष्टलब्धरत्नंत्वां दृढ़मालिङ्गन्नात्मानं सुखीकरोमि।

सुरेशः। अभिवादये भवन्तम्।

रामः। बन्धोनीलाम्बर! उपभुङ्क्षमे प्रमोदार्द्धम्।

नीलाम्बरः। सरलात्मा कदापि दुःखभाक् न भवतीति महाजनवचः। यदपि समयान्तरे दुःक्षपातस्तत् केवलं द्विगुणसुखभोगाय।

रामः।वत्स! सुरेश! अपि सुखीदानीमसि कृष्णदाससमागमेन।

सुरेशः। पितः! किं बहूना कृष्णदास एव मे सर्वस्वमित्यवगम्यताम्।

रामः। अपरं किन्तेऽन्यत् प्रियं करोमि।

सुरेशः। अतःपरं किमपि प्रियमस्ति। यदि स्यात्तदा;—

भवतु गुरुजनानां प्रीतिकारीह पुत्रोगुरुरपि तनयानां साधुशिक्षाप्रमोदी।
क्वचिदपि गुरुशिष्ये माभवत्वप्रमोदः इति निखिलविधाता प्रार्थ्यतां देवदेवः॥

इति सर्वे निष्क्रान्ताः।

इति पञ्चमोऽङ्कः।

सम्पूर्णम्।

श्रीनन्दलालविद्याविनोदस्य।

___________

पार्थना।

दुर्लभं मनुजजन्मभाग्यत एत्थ भक्तिविभवैः कदाप्यहो।
न स्मरामि हरिपादपङ्कजं का गतिर्मम वतातिपापिनः॥१॥

शेषवासरमदो विलोकितं यत्र सुप्तिरनघा समेष्यति।
माञ्चिराय शयने परिस्थितं का गतिर्मम वतातिपापिनः॥२॥

शेषवासरमदो विलोकितं भूमिपृष्ठमधिशाय्य मां हरेः।
यत्र बान्धवचयोरुदल्लुखः श्रावयिष्यति पवित्र नाम तत्॥३॥

अन्तवासरमिदं स्पृहाश्रयात् यत्र मच्चिरशयाद् विभक्ष्यते।
क्रीड़ितं भववनैकवेश्मनः स्नेह-राग भवमर्दनं क्षणम्॥४॥

एकतोऽत्र बहुशः सुहृत्तमी मां विशोच्य नयनाश्रु मोक्ष्यति।
अन्यतो मलिनभस्मपावको दारुवर्द्धिततनुः करिष्यति॥५॥

श्रोतुमत्र न पुरेव शक्ष्यति योत्रयुग्मयुगलंप्रियध्वनिम्।
अक्षिणी न सुहृदां मनोरमं द्रक्ष्यतो वदनपङ्कजं मुहुः॥६॥

अम्लतिक्तमधुरादि षड्रसतत्त्वसारपरिवोधने सदा।
या क्षमाऽत्र रसना विचेतना सा मया सह चिरं शविष्यते॥७॥

याऽभवद्रुचिरमन्दगन्धके लोलुपा च विरता च सर्वदा।
नासिकाऽत्रजड़तामवाप्स्यति वातरोगजड़ितेव सुन्दरी॥८॥

आर्द्रचन्दननिशेशदीधितिदक्षिणानिलरसग्रहे पटुः।
याऽजनिष्ट ननु सापिहास्यते त्वक् चिराय सहजैर्गुणैर्वत॥९॥

न स्फुरिष्यति, गमिष्यतोऽत्र न, नग्रहीष्यति, चलिष्यति स्वयम्।
न, भ्रमिष्यति न, गीः, पदौ, करो, देह एष, सततं मनश्चलम्॥१०॥

प्रेतराजमुखवीक्षणे मम भीतभीत चकितस्य तत्क्षणम्।
नैव बान्धवचयोऽपि निर्भयः शक्नुयात् कमपि कर्त्तुमाश्रयम्॥११॥

नो चकार मधुरैर्वितर्पणं कस्यचित् सुवचनैः कदाप्यहम्।
अन्य शान्तिमभिचिन्तयन् वत! शुद्धसत्त्वजसुखं न वा ददे॥१२॥

नो ददर्श सरलेन चक्षुषा साधुमानवमुखानि निष्फलम्।
मन्मुखेक्षणपरानपि स्वतः कर्म्मभिर्न सुहृदोऽभ्यतोषयम्॥१३॥

नोपकार्षमपरान् कथञ्चन स्वार्थवृन्दरहितः कदाप्यहो।
दुःखिदर्शनपरोऽपि किञ्चन निष्ठुरोन ददृशेऽनुकम्पया॥१४॥

सत्य-शौच परितुष्टिभिः समं योग एष न कदापि पापिनः।
पूण्यमूर्त्तिमिव सज्जनं परं पश्यतोऽपि कुतुकं न वर्त्तते॥१५॥

जानतः परविवादरोदने गर्हणञ्च परमं कुतूहलम्।
मन्दवृत्तसमलङ्कृतो जनः स्यादभिन्नहृदयः सखा मम॥१६॥

अस्मरं न परिबुध्य विग्रहं सुस्थिरं हतमतिः प्रगर्वतः।
अत्र कर्म्म तरुसम्भवं फलं लप्स्यमानमलमेव रोदनम्॥१७॥

विश्वकर्त्तृपुरुषेऽप्यदर्शयं दोषवृन्दमसहं वितर्कतः।
नास्तिकत्व तमसा समर्दितस्तीव्रमोहकलुषीकृतस्मृतिः॥१८॥

विश्वपातृपुरुषाङ्घ्रिपङ्कजं नाहमानममपि क्षणं वत!।
गर्ध्व शाखिफलनिःसृतं मधुपानकर्म्मकृतवानपत्रपः॥१९॥

अन्नमुष्टिमपि नाददामहं पक्षिणेऽपि पशवेऽति दुःखिने।
अर्थमेव पुरुषार्थमग्रगं भावयन् धनपिशाचतां गतः॥२०॥

(क्रमशः)

श्रीअन्नदाचरणतर्कचूड़ामणेः।

___________

सतीच्छाया।

(पूर्वतोऽनुवृत्ता)

रमणीमोहनः अन्यमनस्कः वहिर्वाटिकां गच्छति। इन्द्रप्रिया प्रायश एव विलोकितुं मातरं प्रियमनुरुणद्धि। सोऽपि अतुलकरं कोननगरं गत्वा इन्द्रप्रियाभ्रातरमनुकूलयितुं भूयो याचते। किन्तु कुटिलोऽसौ अतुलकरः इन्द्रप्रियायां विविधं जुगुप्सितं भावं हृदि पुष्णाति।

इन्द्रप्रिया तदानीं वर्षे चतुर्दशे पदमादधाति। तथापि आधुनिकब्राह्मभावेन रमणीमोहनः शकटमेकमारूढ़ःसहेन्द्रप्रियया अतुलकरेण च दुर्गप्रान्तरे प्रत्यहं प्राह्णे पर्य्यटाट्यते।

सरला बालिका वाल्यभावं यावन्नातिरोहति, तावत् प्रसूतिभावमाधत्ते। राजकुमारं दुरत्यया चिन्ता निरन्तरं सन्तापयति। श्रुतन्तु तेन तं प्रति तस्य पिता अतीवक्रुद्धो जात इति कथितवांश्च कथं स अधुना सदैव स्थानान्तरमधितिष्ठति।

राजकुमारः क्लिष्टेन मनसा व्याघ्रापणो24पगङ्गं निवसति। तदैव अतुलकरः समीपमागत्य कथयति— “कुमार! भयङ्करस्ते समयः समुपस्थितः” राजकुमारः सत्रासं कथयति कथङ्कार इति”। अतुलः कथयति—अहमद्य राजसन्निधौ गतवान्। स तु अतीव क्रुद्धः कथयति तनयस्य विवाहसम्बन्धः सुस्थिरीकृतःखिदिरपुरवासिनो राजवाहादुरस्य कन्यया सार्द्धं मयेति। कन्यातीव

सुन्दरी। विवाहदिवसस्तु आगामिमासस्तृतीयदिवसे इति। अद्यारभ्य प्रतिरात्रि रमणीमोहनेन स्वगृह एव उपस्थातव्यम्। यदि विवाहोऽयमस्वीक्रियते तदा तं त्यज्यपुत्रं विधास्ये इति।

तदाकर्ण्य कुमारः सकातरंकथयति “भ्रातः! अतुल! कथमिन्द्रप्रियया विरहितमात्मानं रक्षिष्यामि। सा विवाहप्रसङ्गमाकर्ण्य किं वा वक्ष्यति?। विशेषतः सा ससत्त्वा। अहन्तु निपुणंविचिन्त्यापि न पारमधिगच्छामि समासन्नाया विपदः। त्वं यदि महाराजं इन्द्रप्रिया-विवाहवृत्तान्तं विज्ञाप्य विपदो मामुद्धर।” पापीयसिअतुलस्य हृदये दुरभिप्रायो जागर्त्ति। स सभयमाह “भ्रातः! विभेमि तस्मात् सत्येवं तदा महाराजःपुनर्मुखं नावलोकयिष्यति “तदुगृहञ्च न प्रवेष्टुं मां प्रदास्यति, भवानपि विपदो नोत्तरिष्यति।”

कुमारः भग्नहृदयेन कथयति “तर्हि कथङ्कारं इन्द्रप्रियायै निष्ठुरनैराश्यं” विज्ञापयामि, एकतस्तस्याः सपत्नीभवेत्। द्वितीयतः प्रतिनिशं तस्याःसमीपमधिष्ठातुं नैव पारयामि, किमद्य करणीयम्।

अतुलःमनसि विहस्य वहिर्विमर्षभावं प्रकटयन् कथयति “कुमार! कोऽपरस्तत्रोपायः? अधुना इन्द्रप्रियां प्रकाशं ब्रूहि, पिता मम एवमादिशति, नास्मिन् तव दोषलेशोऽपि। द्वितीयतःइन्द्रप्रिया यदि तवोपपत्न्यपि भूत्वा यद्यवस्थातुं पारयति तदापि तस्याः सौभाग्यं मन्ये।

अहो निर्वोधस्तु राजतनयः तस्यधूर्त्तस्य वञ्चनाजालेन जड़ितो बभूव। तेन हि पाषण्डस्य तस्यातुलकरस्य मतमेवाजुसरति। तदा अतुलकरःसोत्साहं कथयति “अहो समयस्तु सङ्क्षिर्णीभूतः नातःपरं समयो लभ्यते अद्य पौषस्य पञ्चदशदिनानि माघस्य द्वितीयदिवसे विवाहः अतोऽधुनैव इन्द्रप्रियां ब्रूहि, नो चेत् तदानींकलहो नैव

युज्यते। निर्दयो राजकुमारः पापात्मना बन्धुना सम्मन्त्र्यगर्भिणीं हरिणींवेद्धुं विषाक्तं वाणमादाय इन्द्रप्रियाया वक्षसि क्षिपति। वीतभाग्या अवला गर्भभारप्रपीड़िता निश्चेष्टा च सती पर्य्यङ्के शयाना, नैव सा जानाति मन्दभागिनीनैराश्यकालसर्पः फणां प्रसार्य्य दष्टुमनुसरति इति।

इन्द्रप्रिया सह स्वामिना अतुलकरं समागतमालोक्य पर्य्यङ्कादवरुह्यरौमेयातायां नीचैः शय्यायामुपविशति। बन्धुद्वयन्तु खट्टिकायामुपविष्टः। कुमारःसभीतं मृदुमृदु कथयति, इन्द्रप्रिये! भवतीं किञ्चित् विवक्षुः दुःखमनुभवामि, अज्ञापनमपि दोषाय। पिता मदीयः आगतमासस्य तृतीयदिवसे मां विवाहयिष्यति, एवं नवोढ़ा सा यत्रैव स्थास्यति तत्रैवाहमपि प्रत्यहं स्थास्यामीति पिता आज्ञापयति।

“इन्द्रप्रियाया वदनसुधाकरः म्लायति। शुष्ककण्ठेन सा कथयति किमिति नाथ! पुनरपि विवाहः किमिति? सत्यां परिणीतायां पुनर्विवाहः किं सत्कुलानां कर्त्तव्यः श्वशुरं ब्रूहि रहसि त्वयाहं विवाहिता। स खलु ईदृशीमवस्थामापन्नाया मम दयिष्यते” कुमारः कथयति न मे एतावान् साहसः यत् वृत्तान्तमेतत्तस्मै कथयामि। अहञ्चेद्विवाहमन्यं करिष्यामि तर्हि तावता तवापि का हानिर्भवेत्, अधुना यथा सुखमस्मि तदापि तथैव सुखमनुभविष्यसि भविष्यति तव सन्ततयोऽपि यथा सुखेन दिनानि यापयिष्यन्ति तथैवाधुनैव विधास्यामि तस्योपायम्।

इन्द्रप्रिया सगद्गदं कथयति “नाहं किं ते सह धर्मिणीन किं मे सन्तानस्तव वंशधरः?किमिदमसम्बद्धमसङ्गतञ्च वचः” निर्दयस्तु राजकुमारः कथयति “पिता मे आधुनिकब्राह्मः अहमपि, कथमिति स्त्रीद्वयं सम्भवेत् अतएव भवत्यास्तनयगणा सप्रकाशं मम सन्ताना भवितुं नैव युज्यन्ते भवतीवा किमित्येतदर्थं मनसि

क्लशमेतावन्तं चिन्तयति त्वन्तु यादृशदशां गतस्य तनया अधुना ईदृशीते दशा अवश्यमेव श्रेयस्करी चिन्तयितुं साम्प्रतम्।

इन्द्रप्रिया भूतले पतित्वा कोमलया बाहुवल्या पत्युः पादयुगलं गाढ़ंधारयन्तीउच्चैरोरुद्यमाणा कथयति “नाथ! नाथ! न मां कलङ्गिनीं कुर्य्याः, इयमेव किं ते मयि प्रियता? कथङ्कारं निष्ठुरनैराश्ये मां क्षिपसि? मान्तु मन्दभागिनीं ते पितरमुपप्रापय, अहन्तु तस्य चरणे निपत्य मदीयदुःखवृत्तान्तं वक्ष्यामि। अवश्यं मे सदयालुः “तदीयवंशाङ्कुराऽस्ति मे जठरे” इत्यपि दयिष्यते।

(क्रमशः)

_________

तत्त्वप्रपञ्चः।

(पूर्वप्रकाशितात्परः)

परिदृश्यमानस्थूलजगताम् अष्टविधैव प्रकृतिः यथा सर्वेषांसप्तानां महदादीनामपि प्रकृतिः गुणत्रयसाम्यावस्थारूपा प्रथमप्रकृतिः। प्रकर्षेण स्वरूपेण परिणतेत्यर्थः। विकरोतीति विकृतिः महदादिर्विकृतिरपि उपचारात् प्रकृतिरुच्यते। यथा,—

** २य प्रकृतिः हिरण्यगर्भाख्यं बुद्धितत्वमहङ्कारकारणम्।**

** ३य प्रकृतिः अहङ्कारः तन्मात्रेन्द्रियकारणम्।**

** ४र्थ प्रकृतिः शब्दतन्मात्रमाकाशकारणम्।**

** ५म प्रकृतिः स्पर्शतन्मात्रं समीरणकारणम्।**

** ६ष्ठ प्रकृतिः रूपतन्मात्रंतेजःकारणम्।**

** ७म प्रकृतिः रसतन्मात्रं जलकारणम्।**

** ८म प्रकृतिः गन्धतन्मात्रं पृथिवीकारणम्।**

** तथा च भगवद्गीतायां ७।४।**

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च। अहङ्कार द्वितीयं मे भिन्ना प्रकृतिरष्टधा॥

सांख्यकारिकायान्तु मूलप्रकृतिमपहाय सप्त प्रकृतय उक्ताः यथा—

** “मूलप्रकृतिरविकृतिर्महदाद्याःप्रकृतिविकृतयः सप्त” इति।**

एतासामेव भागतारतम्येन समग्रं विकृतिभूतं जगज्जातम्।

इमामेवाष्टविधां प्रकृतिं क्षेत्राध्याये गीतायां चतुर्विंशतिधा कथ्यते यथा—

“महाभुतान्यहङ्कारो बुद्धिरव्यक्तमेव च। इन्द्रियाणि दशैकञ्च पञ्च चेन्द्रियगोचराः॥”

ये खलु नास्तिका वदन्ति स्वभावादेव जगज्जायत इति तदपि नैकान्ततोऽश्रद्धेयं वचः। तेषां यः स्वभावःस एवास्माकं प्रकृतिः। स्वभावप्रकृत्योरेकपर्य्यायत्वात्। प्रलयावस्थैव जगतःस्वभावःस एव प्रकृतिः। दृश्यमानजगदवस्था च अस्वभावो विकृतिर्वा।

सांख्याचार्य्यः पञ्चशिखः स्वभावतो जगदुत्पत्तिरिति राजर्षिं जनकमन्वशात्। यथा महाभारते मोक्षधर्मे शान्तिपर्वणि २२९ अ०

भीष्म उवाच।

तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम्। पुनः प्रशमयन् वाक्यैः कविः पञ्चशिखोऽब्रवीत्॥

उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते। अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम्॥

वर्त्तते पृथगन्योऽन्यमप्यपाश्रित्य कर्म्मसु। धातवः पञ्चधा तोयं खं वायुर्ज्योतिषं धरा॥

ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः। आकाशं वायुरुष्मा च स्नेहो यश्चापि पार्थिवः॥

एष पञ्च समाहारः शरीरमपि नैकषा। ज्ञानमुष्मा चवायुश्च विविधः कार्य्यसंग्रहः॥

इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतनामनः। प्राणापानोविकारश्च धातवश्चाव निःसृताः॥

श्रवणंस्पर्शनं जिह्वा दृष्टिर्नासा तथैव च। इन्द्रियाणीति पञ्चैते चित्तपूर्वं गता गुणाः॥

तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा। सुखदुःखेति यामाहुरदुःखामसुखेति च॥

अत्र प्रकृतिविषये सुश्रुत एवमाह यथा शारीरस्थाने १ अध्याये।

“सर्वभूतानां कारणमकारणं सत्त्वरजस्तमोलक्षणमष्टरूपमखिलस्य जगतःसम्भवहेतुरव्यक्तं नाम। तदेकं बहूनां क्षेत्रज्ञानामधिष्ठानं समुद्र इवोदकानां भावानाम्॥”

वैद्यके तु।

“स्वभावमीश्वरं कालं यदृच्छां नियतिं तथा। परिनामञ्च मन्यन्ते प्रकृतिं पृथुदर्शिनः॥

तन्मयान्येव भूतानि तत्मुणान्धेव चादिशेत्। तैश्च तल्लक्षणः कृत्स्नोभूतग्रामो व्यजन्यत॥”

तथाच भावप्रकाशे पूर्वखण्डे प्रथमभागे।

सत्त्वं रजस्तमश्चेति गुणास्ते प्रकृतेः समा।
सा जड़ापि जगत् कर्त्री परमात्मचिदव्ययात्॥
इति।

(क्रमशः)

__________

धर्म्मविवेकः।

(पूर्वप्रकाशितात्परः)

यः खलु स्वप्नेऽपि मिथ्या न ब्रूयात् स एव सत्यप्रतिष्ठः। स यदि कञ्चित् पुरुषं “त्वं धार्म्मिको भूयाः” तदा तत्क्षणात् स धार्मिको भवेत्, यदि कञ्चित् ब्रूयात् स्वर्गं गच्छ तदा तत्क्षणात् स स्वर्गं गमिष्यति, यथा त्रिशङ्कुः। यदि कञ्चित् ब्रूयात् स त्वां विस्मरिष्यति, तदा तत्क्षणात् स विस्मरिष्यति यथा “शकुन्तलां दुःष्मन्तः। यदि कञ्चिद्रुयात् “त्वं जीव” तदा तत्क्षणात् स जीविष्यति यथा तक्षकदष्टो वटवृक्षः कश्यपवचनात्। अमोघास्य वाग्भवति।

ये हि ममसापि स्वप्नेऽपि च न परेषां द्रव्यं प्रतिलुभ्यन्ति तेषामस्तेयं प्रतिष्ठति सत्येवं स्मृतिमात्रेणैव तेषां सर्वाणि रत्नानि सर्वदिकस्थानि पदोपान्ते समुपतिष्ठन्ते तथा च पतञ्जलिः। साधनपादे ३७।

“अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्॥” इति।

एतदन्यदपि शास्त्रं बहुधा बहुषु ज्ञातव्यम्। अहिंसादीनां तादृशशक्तौ अपरञ्च प्रमाणं तदनुष्ठानम्। यथा पूर्वे ऋषयः गृहिणश्चाप्यनेके अहिंसादिकं धर्म्ममाचेरुः तत्फलमभि अक्षुणन्ते वुभुजिरे। तथा त्वमपि तथा धर्ममनुतिष्ठन् तद्वत् फलं भोक्ष्यसि तत्प्रत्यक्षतोऽनुभविष्यसि किमिति तर्केण।

चिन्तय तावत् “त्वं ब्रवीमि तिक्तं निम्बपत्रमिति। अहं ब्रवीमि मधुरं निम्बपत्रमिति सुचिरमपि तत्तर्केण निर्णेतुं नैव

शक्यते। परन्तु समास्वाद्य तत्पत्रं त्वमहञ्च वादिप्रतिवादिनौनिश्चिनुवः निम्बपत्रं तिक्तमिति” तदानीं तर्के तु स्वतएव निरस्यति। एवं धर्मविधावपि तर्केणालम् अनुष्ठानेनैव धर्मफलं प्रत्यक्षी भवति अत्र दृष्टान्तमेकं कथयामि।

अस्मिन्नेव ग्रामे इतो दक्षिणस्यां “रामसुन्दरो नाम”, कश्चित् रजकः प्रतिवसति स स्वस्मिन्नेव धर्मे संजातश्रद्धः वस्त्रं निर्णेनेक्तिएवमेव स सदारापत्यः सुखेन दिनान्यतिवर्त्तयति। अस्य तु स्वाभाविकं सारल्यं सत्यप्रियत्वञ्च सम्यक् श्रद्धेयम्। एकदाहं तमाहूयाब्रुवं “रामसुन्दर” कदा मे वस्त्राणि निर्णिज्य प्रत्यर्पयिष्यति? सोऽवदत् दशदिनाभ्यन्तरे इति, अहन्तु कुटुम्बालये निमन्त्रणानुरुद्धः पञ्च दिनमध्ये एव वस्त्रं प्रत्यर्पयितुं सनिर्वब्धम् अन्नरुधत्। स प्रत्यवादीत् भगवन्! यदि वदामि तदावश्यं तत्परिपालनीयम्। किन्तु भगवन्! कार्य्यान्तरव्यग्रतया दिनपञ्चकमध्ये नैव दातुं शक्नोमि सुतरां स्वीकृत्या प्रदाने वचो मे मृषा भवेत् तन्न युक्तमिति। सर्वैरेव सार्द्धं स व्यवहरत्येवम्। एवं न केनापि स विवदते न सूचयति नासूयति न द्रुह्यति। तेन हि न कोऽपि तस्य विप्रियमाचरति, किन्तु सर्व एव तं श्रद्दधते धार्मिकोऽयमिति।

यदि एवङ्कारं कालेन स सत्यप्रतिष्ठः अहिंसाप्रतिष्ठः अस्तेयप्रतिष्ठश्च भवेत्, तदावश्यमेव स शास्त्रीयं धर्मस्य तावत् फलंभोक्ष्यति किमत्र चित्रमिति। अतः प्रत्यक्षत एव धर्मानुष्ठानस्यफलं “रामसुन्दरे” लक्षयतु।

(क्रमशः)

___________

FOR ENTRANCE & F. A. STUDENTS.

<MISSING_FIG href=”../books_images/U-IMG-173122223245.jpg”/>

** **A Paper on sanskrit grammar given by Baboo Upendra nath Ray. B. A. Professor of SanskritLiterature. Century college Calcutta.

Samasa. (पूर्वप्रकाशितात्परम्)

(i) उपमानोत्तरपदः—गतम् उड्डीनमिव यस्य सः = गतोड्डीनः(अश्वः)

(j) विषयपूर्वपदः—न भवेत् बुद्धिः यस्य सः = न भवेद्बुद्धिः (देवदत्तः); शिव इति शब्दो यस्य सः = शिवशब्दः (तपस्वी); अहम् इति अभिमानःयस्य सः = अहमभिमानः(मुर्खः)।

(k) अवधारणबहुव्रीहिः(i. e. रूपकबहुव्रीहिः) — यश एव धनं यस्य सः = यशोधनः(रघुः)।

(l) मध्यपदलोपी—खरमुखः; खरस्य मुखं = खरमुखं; खरसुखम् इव मुखं यस्य सः = खरसुखः; Similarly हरिणमुखी; (see h).

(m) संख्योत्तरपदः—दशानां समीपे ये सन्तिते = उपदशाः (i.e. नव वा एकादशः) आसन्ना विंशतेः = आसन्नविंशाः; द्वौवा त्रयो वा = द्वित्राः। द्विरावृत्ताः दश = द्विदशाः; त्रिरावृत्ताः दश = त्रिदशाः।but it must be noticed that द्वादश, अष्टादश etc are formed by the द्वन्द्वCompound. द्वौच दश च =द्वादश; अष्टौ च दश च = अष्टादश।

(n) दिगन्तराललक्षणः—दक्षिणस्याः पूर्वस्याश्च अन्तरालं यत्सा = दक्षिणपूर्वा (south-east).

(o) व्यतिहारलक्षणः—केशेषु केशेषु गृहीत्वा इदं प्रवृत्तं =

केशाकेशि (क्रीड़नं); दण्डैश्च दण्डैश्च इदं प्रवृत्तम् = दण्डादण्डि(युद्धम्)।

(p) In the ब्रहुव्रीहिcompound सहchanges into स optionally —as पूत्रेण सह = सपूत्रःor सहपूत्रः। But when the compound is formed with a word denotingtime (कालवाची) सह is not changed; as सहमध्याह्नः।

द्वन्दः समासः।

In the द्वन्द्वcompound equal prominence is givento the meanings of all the members forming the compound as, रामश्च लक्षणश्च=रामलक्ष्मणौ।

In द्वन्द्व compound, the compound word has the gender of its last component, as लतावृक्षमूलानि or वृक्षमूललता।

But this rule does not apply to the समाचार द्वन्द्व as अश्वश्चमातङ्गश्च = अश्वमातङ्गम्।

The द्वन्द्वcompound is of three kinds viz:—(1) इतरेतरयोगः (2) समाहारद्वन्द्वःand (3) एकशेषद्वन्द्वः।

(1) समासघटकसर्वपदार्थप्रधानः इतरेतरयोगो द्वन्द्वःas लक्ष्मीश्चनारायणश्च = लक्ष्मीनारायणौ; हरश्च पार्वती च = हरपार्वत्यौ; रामश्च कृष्णश्च = रामकृष्णौ।

(2) समासघटकपदार्थसमूहप्रधानः समाहारद्वन्द्वः—पाणीच पादौ च = पाणिपादम्; शङ्खश्च पटहश्च = शङ्खपटहम्; रथिकाश्च अश्वारोहाश्च गजस्थाश्च = रथिकाश्वरोहगजस्थम्। N. B. In समाहारद्वन्द्वcompound words take the neuter gender and the singular number.

(3) It is of two kinds viz (a) स्वरूपसम्बन्धी, as—विप्रश्च विप्रश्च = विप्रौ; शूद्रश्च शूद्रश्च= शूद्रौ; पद्मञ्च पद्मञ्च पद्मञ्च =पद्मानि।

(b) विरूपसम्बन्धन्धीas ब्राह्मणश्च ब्राह्मणीच = ब्राह्मणौ; नीलञ्च नीला च नीलश्च = नीलानि; शक्लश्च शुक्लञ्च = शुक्ले or शुक्लम्; माता च पिता च = पितरौ, अजश्च अजा च = अजे। भ्राता च दुहिता च = भ्रातरौ; पुत्रश्च दुहिता च = पुत्रौ।

साधारणविधिः।

(1) राजाहः सखिभ्यष्टच् —टच् is inserted after राजन् अहन्, and सखि in the तत् पुरुष compound (including कर्म्मधारय and दिगु) and of टच् only अ remains —as कलिङ्गानां राजा = कलिङ्गराजः, पुण्यं अहः =पुण्याहम्, मरुतः सखा = मरुत्सख।

(2) महत् becomes महा in कर्म्मधारय and बहुव्रीहि compounds when it is the पूर्वपद(first member) there as महान् पुरुषः = महापुरुषः; महत् बलम् यस्य सः = महाबलः। N. B, In the तत्पुरुष compound महत् does notchange into महा—as महतः (जनस्य) करः = महत्करः।

(3) The word रात्रिwhen it is preceded by anumeral in a compound is changed into रात्रम्; as त्रिरात्रम्, द्विरात्रम् But in the एकदेशी and द्वन्द्वcompound it becomes रात्रः— as अहोरात्रः; रात्रेःपूर्वभागः = पूर्वरात्रः In the कर्म्मधारय compound, however, the word रात्रि as the second member of the compound, does not change its form; as पूर्वारात्रिः = पूर्वरात्रिः।

(4) In the तत्पुरुष compound’ ’the word छाया

when it is the उत्तरपद change into छायम् denoting छाया or shade given by more then one thing; as इक्षूषां छाया = इक्षुच्छायम् But छाया is optionally changed into छायम्when the shade is given by one thing only, as शालच्छाया or शालच्छायम्।

N. B. “इक्षुछायानिषादिन्यः” इत्यत्रतु आ समन्तात् निषादिन्य इति आङ् प्रश्लेषी बोध्यः।

(5) In the बहुव्रीहिcompund षःis inserted after मूर्द्धन् when it is preceded by द्विor त्रि; as द्विमूर्द्धः, त्रिमूर्द्धः

Q. How do you then account for the use of खरदूषणत्रिमूर्द्धानो रणे हताः in भवभूति उत्तरचरित?

(6) the words प्रजा and मेधा become प्रजस् and मेधस् when they are preceded by सु, दुः and नञ्in the बहुव्रीहि compound; as अप्रजाः राजा; अमेधाः पुरुषः।

(7) अनङ् inserted after धनुष् when it is the second member in a बहुव्रीहि compound; as शार्ङ्गधन्वा; अधिज्यधन्वा।

(8) जाया becomes जानि in a बहुव्रीहि compound when it is the उत्तरपद there; as युवतिर्याया यस्य सः = युवजानिः।

(9) गन्ध्वbecomes गन्ध्विin the बहुव्रीहि compound when it is preceded by उत्, पूति, सु, मुरति or an उपमान as उद्गन्धिः, पूतिगन्धिः, सुगन्धिः, पद्मगन्धिः, गन्ध may also become गन्धि in the बहुव्रीहि compound, when it is used in its diminutive sense (गन्धलेशः); as सूपस्य गन्धो लेशो यस्मिंस्तत् सूपगन्धि (भोजनम्)।

(10) In the द्वन्द्वcompound जाया optionally becomes जम् or दम्; as जाया च पतिश्च = जायापती, जम्पती दम्पती।

1 How do you account for the formation of compound in अपथम् and अपथः?

II. Name and expound the Samasas in —(a) बलाहकः (b) दास्याःपुत्रः(c) ग्रामान्तरम् (d) नग or अगः(e) विम्बाधरः or अधरविम्बः(f) पञ्चगुः(g) विवृतासि (h) सर्वश्वेतः(i) अस्ति क्षारा (j) अर्द्धपिप्पली (k) किंसखा (1) सप्रसवाः(m) सदसद्व्यक्तिहेतव(n) भीमकान्तैर्नृपगुणैः(०) त्रिलोकनाथेन (p) पीतप्रतिबद्धवत्सांand (q) वृषस्कन्धः।

III Form compound words out of each group and name the compound in each case:—(a) शाकस्य शले (b) तटे (c) मक्षिकाणां अभावः(d) सुराया गन्धो यस्मिन् तत् (e) कुत्सितो राजा (f) चतुर्णांपथां समाहारः (g) पञ्चानां नदीनां समाहारः and (h) साधूनां एकतमः।

IV. Correct or justify the use of the underlined words and phrases in the following:—

(a) प्रज्ञया सदृशागमः(b ) तस्य सप्रसवा इव (c) रतेर्गृहीतानेनयेन कामं (d) गुरोर्मवान् दर्शित शिष्यभक्तिः। (e) मृगैर्वर्त्तितरोमन्यम् उटजाङ्गनभूमिषु (f) अतोऽहं षन्मासाभ्यन्तरे तव पुत्रान् नीतिशास्त्राभिज्ञान् करिष्यामि। (g) गतागतेन वा कालो दीर्घ एव भविष्यति (b) तद्गतं हृदयं यस्यास्तदधीनञ्च जीवितम् (i) अर्द्धरात्रे प्रवुद्धः सन् सम्मारात्मसुदुष्कृतम्। and (j) बद्ध्वातूषौ धनुष्पानिः शरयुमगमं नदीम् (k) अधिज्यधन्वा विचचारदावम्।

V. What do you mean by (a) अलुक् समासः, (b) सर्वसमासः (c) प्रादिसमास, (d) नित्यसमास and (e) व्यतिहार बहुव्रीहि समास give examples of each.

VI. Explain the exceptional character of the Samasa in नगःand contrast it with

समासे लिङ्गानुशासनम्।

अव्ययीभावोऽव्ययं नपुंसकं, तत्पुरुषे।
द्वन्द्वे च परपदार्थलिङ्गं बहुव्रीहावस्यापदार्थलिङ्गम्॥
एकशेषे त्वनियमः॥

Number (पूर्वप्रकाशितात् परम्)

As in English, the plural in Sanskrit is often used for the singular, when the speaker or the person spoken of, is a high personage; as आर्य्यकिश्राएव प्रमाणम् (your honour is an authority) मालविकाग्निमित्रे।

इति तात पादा ब्रुवन्ति (so says my reverend father).

King Dusmanta says सूत दूरममुना सारङ्गेण वयम् आकृष्टाः (charioteer, we have been drawn very for away by the antelope there) In the first person (उत्तम पुरुष), the plural may be nsed for the singular or the dual, irrespective of the speaker, (अस्मदो द्वयश्च। एकत्वे द्वित्वे च विवक्षिते अस्मदोबहुवचनं वा स्यात्) as किन्तु अवन्यसदो वयम, अमभ्यस्तरथचर्य्याः (उत्तरचरिते)। But when the pronoun in the first person has a modifying adjunct, this is not allowed; सविशेषणस्य प्रतिषेधः। —as पटुरहं ब्रवीमि।) as पण्डितोऽहं ब्रवीमि and not पण्डिताः वयम्।

Names of countries are used in the plural when they are taken from the people inhabiting those tracts: as अहं गतः कदाचित् कलिङ्गान् (once I went to the county of the Kalingas) दशकुमारचरिते (स्थापयिष्यामि दण्डकान् (रामायणे)। ततो वङ्गान् जेतुं प्रतस्थे। (रघौ)। अस्ति विदर्भेषु काञ्ची नाम्नी नगरी। The follwing sloka of मनु will better illustrate it:—

“कुरुक्षेत्रञ्च मत्स्याश्च पञ्चालाः सुरसेनकाः।एष ब्रह्मर्षिदेशोवै।” Book II 19

(Panini’s aphorisms to the same effect are:—जनपदे लुप्। लुपि युक्तवद्व्यक्तिवचने॥)

But it must be noticed that when these names of countries have such words as देश, विषय, जनपद etc joined to them, the singular must be used; as, मगधदेशे पाटलीपुत्रं नाम नगरम्।हितोपदेशे। अस्तिकान्यकुब्जविषये राजावीरसेनो नाम।Ibid.

As in English, proper names in Sanskrit very often denote the family or race:— as जनकानां रघूणाञ्च सम्बन्धः कस्य न पियः(To whom is a connection between the families of Raghu and Janaka not dear) उत्तरचरिते।इक्षाकूणामयं वंशः सत्यवाक् प्रथितः क्षितौ। रामायणे। रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्। रघौ।

Students are invited to mark the peculiar use of the under lined words in the folloing expressions (1) गुणाः पूजास्थानम् गुणिषु न च लिङ्गं न च वयः(To the meritorious, merits alone, are the object of worship and not

sex or age) Here स्थानंhas not been changed intoस्थानानि (उत्तरचरिते)। (2) एतेषां नीतिशास्त्रोपदेशाय भवन्तः प्रमाणम् (you are the proper person for: imparting lessons to these, on the science of conduct). Here प्रमाण has been used, not प्रमाणानि। हितोपदेशे। (3) सम्पदः पदमापदाम् (wealth is the abode of miseries). Ibid. पदम् is used, and not पदानि। Inall these cases we commit mistake when we use these predicates in the plural.

U. N. R.

<MISSING_FIG href=”../books_images/U-IMG-173122984423.jpg"/>

FOR F. A. STUDENTS.

<MISSING_FIG href="../books_images/U-IMG-173122999546.jpg"/>

A PAPER ON RAGHUVANSAM, AS GIVEN

in the Allahabad University.

I (j) Explain the Samasa in आपादितवंशकृत्यम्।

(k) Write out the 3rd person plural of शुश्राव, सिषेवे and शशाम

(l) Parse गाहमाने;and write out the 3rd person, presnt tense of the root from which it is derived.

(m) Explain the Sandhi in दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः

(क्रमशः)

_____________

श्रीश्रीदुर्गा शरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href="../books_images/U-IMG-173131192647.jpg"/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्तीअनानिव।
मायावलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी॥

<MISSING_FIG href="../books_images/U-IMG-173131234548.jpg"/>

मासावतरणिका।

द्रक्ष्यामि पङ्कीकृतराजवर्त्मनः इषः प्रवृत्तश्च पयोद! पामर!।
संमार्जनीभिर्द्युभणेर्मरीचिभिराहन्यमानस्य मृतिं नरत्त्वता॥

<MISSING_FIG href="../books_images/U-IMG-173131250149.jpg"/>

उद्भटश्लोकाः।

राधे चौर्य्यगुणासि केशव! हृतं किं ते धनं कस्य वा,
हंसीयानमृगेक्षणे विधुसुधां हस्तीन्द्रकुम्भद्वयम्।
मच्चित्तं हरिमध्यमं25विधिकृतं नैवं लवन्यादिकं
इत्यं कौतुकविह्वलोऽवतु मुदा त्वां देवदेवो हरिः॥२२५॥

आनम्राननमागते वितनुते नो भाषते भाषिते
स्थानाद् गन्तुमपीह ते न कुरुतेऽप्यालापमात्रं क्वचित्।

रुद्धे वर्त्मनि वक्तिनिष्ठुरतरं गुप्ताक्षरं जल्पति
भिक्षुंवीक्ष्य धनीधवं26नववधूर्यद्वत्सदा चेष्टते॥२२६॥

कस्येयं तरुणि! प्रपा27पथिक! हे किं पीयतेऽस्याः पयः
धेनूनामथ माहिषं वधिर! भोवारःकथं मङ्गलः?।
सोमो वाथ शनैश्चरोऽमृतमहोतत्ते मुखे दृश्यते,
श्रीमन् पान्थनितान्तकान्तरसिको यद्रोचते तत् पिब॥२२७॥

दशापरिणतिः।

अस्ति दक्षिणारण्ये कुसुमावती नाम नगरी। तत्र च कुवेरचन्द्रनामा श्रेष्ठी प्रतिवसति स्म। स प्रतिदिनं नानाजनपदसमागतानि बहुमूल्यवस्तुजातानि विक्रीय सम्पन्नव्यवहारो महतींसम्पदमुपागच्छत्। आसादयच्च क्रमेण प्रावीण्यं सांयात्रिककलायाम्। अथ एतद्देशीयानपि पदार्थान्नौयानेनान्यत्र विक्रयाय नेतुमचीकमत प्रक्रान्तोद्यमश्च तत्र द्वित्रवारं महीयांसं लाभमध्यगच्छत।

अथैकदा स पञ्चषवर्षैरुपगन्तव्यं कञ्चन देशं जिगमिषति स्म। ततोऽनर्घ्याणि रत्नानि मणींश्च विविधवस्तुजातानि च तरण्यामारोप्य चिरविप्रयोगभीरुकया शिरीषकुसुमसुकुमारया भार्य्यया अपरैः प्राणैरिव च कुमारैर्विस्रम्भभाजनैः कतिपयैरासन्नपरिचारकैर्भूत्यैश्च सममेव नावमारुह्य सुमुहूर्त्तेतां प्रतीचीं दिशमुद्दिश्य प्रैरिरत्।

अथार्णवसुषमावलोकनादिभिः प्रणन्दत्सु सुकुमारेषु कुमारेषु, तदानन्दद्विगुणितप्रमोदायां च प्रमदायां निरन्तराय नौगत्या च सम्मोदमानेषु नाविकेषु ससुखान्तरे च कुवेरचन्द्रे सर्वेषां निरतिशयमानन्दमसहिष्णुः सासूयेव समुत्प्लावितार्णवकल्लोला संक्षोभितजलचरा प्रावर्त्ततत महावात्या।

पाठकाः! न सर्वदा सुखमेव प्रणन्दयति जन्तून् न वा दुःखमेव चिरायोद्वेजयति। महीयसि सुखार्णवे विनिमज्जतोऽपि समुद्भवन्त्येवापदो यथाकालम्। तथाहि मुदितान्तरेषु तेषु सर्वेषु सा तरणिस्तया महावात्यया कस्मिंश्चन महीयसि सुकठिने प्रस्तरसन्ताने साघातमापात्य सपदि सूक्ष्मतरखण्डशेषतां नीता। ततः सर्वमय्यवमग्नं नाव्यम्, निमग्नाश्चांगनाकुमारादयः किन्तु अपरित्यक्तधैर्य्यःकुवेरचन्द्रो विस्रम्भभाजनं च तस्य चिन्तानन्दो नाम कश्चिद्भृत्यश्च।

“द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्ताम्।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः॥”

इत्यनुभावयितुमिव भाविनीं सम्पदं प्रेरितौ भागधेयेन फलकमवलम्ब्यदुःखार्णवमिव महार्णवं कथञ्चिदुत्तीर्य्योपागतौ तीरम्। तत्र चापेतवसनतया सापत्रपः श्रेष्ठो कौपीनधारिणमात्मनो भृत्यं प्राह। “सखे! चित्तानन्द! यावेव सम्पदमनुभवन्तौसुखैकनिलयावभवाव। तावेवेदानीं दुर्लभवसनौ दुःखमनुभवावावाम्। अत्र हि भवितत्यतैव बीजम् सैव हि भगवती सर्वङ्कषा। भवतु महाशय! यदहं जीवामि भवाँश्चानपेतप्राणस्तदेव भद्रशतावलोकनमावयोः। सति हि कन्दे प्रणष्टा अपि पुनः प्ररोहन्त्येव शाखाः। सखे! नेदानीमङ्गुलीयकादेतस्मादन्यन्मेद्रव्यम्। तद्गृहाणेदम्, इदं चाग्रतो दृश्यते नगरम् तत्र गत्वा विक्रीयैतत्तल्लब्धेन च द्रव्येणादाय वासांसि इहानीय मे प्रयच्छ। भवानेव हि सकौपीनः प्रभवति नगरे गन्तुम्। तद्गच्छ इहैव त्वामहं प्रतिपालयामि॥” इति

पाठकाः! मरौ कूपा इव विपदि सन्तोषयितारः सुदुर्लभा एव जनाः। यावदेवेयं यथावत् प्रवर्त्तते लोकयात्रा तावदेवेदं सर्वम्। समुपख्यितायां त्वापदि प्रायेण सर्वेऽपि दूरीभवन्ति। सुहृदोऽपिरिपवः सम्पद्यन्ते, बान्धवा अपि विमुखीभवन्ति अननुष्ठितकृत्या भृत्या अपि कलहायन्ते। विपर्य्यस्तभागधेयस्य हि सर्वमपि विपरीतत्वेनैव परिणमति। तथा हि आजन्मनः प्राणवत् परिपालितोऽपि स तस्य श्रेष्ठिनो भृत्य आदाय तदङ्गुलीयकं निधिमिवाकस्मिकं हस्तगतं मन्यमानो नातःपरं किञ्चिदप्यस्माल्लब्धव्यमिति मत्वा सानन्दस्तन्नगरं प्राविक्षत्। तस्मिन्नेव दृढ़ं विस्रब्धश्च कुवेरचन्द्रोऽपरित्यक्तस्थानो मुहुर्मुहुरनुध्यायन्नात्मनोऽवस्थां चिराय तं प्रत्यपालयत्। भृत्यस्तु प्रविश्य नगरं कस्यचन रत्नविक्रयिणः श्रेष्ठिनो

विपणीमागत्यावोचत्। “तात! इदं नः क्रय्यमङ्गुलीयकम् तदेतदादाय दीयतामस्य यथोचितं मूल्यम्” इति। स तु सचकितमवलोक्य तन्मूल्यंसहस्रदीनारा इत्येतावत्यापि वणिग्भावसहजया तिरस्कारेमुद्रयाऽब्रूत महाभात! हीनमेतदतीव तथापि यदि दीयते गृह्यन्तां दशदीनारा इति। सोऽपि तस्य तया मुद्रया सञ्जातविश्वासस्तदेव बहुमन्यमानोऽगृह्णात्। अचिन्तयच्च चेतसि “यद्यहमेतेषां वसनाऽन्यादाय स्वामिनमुपगच्छेयम् किं वा लभेय प्रणष्टाशेषसम्पदस्तस्मात्। न च मे प्ररोहत्याशा यथा स पुनर्धनीभूत्वा मां पालयेत्। तन्नगन्तव्यं तत्रएतैरेव तावद्दीनारैर्निर्वाहयाम्यात्मनो वृत्तिम्” इति। ततः स तत्रैव नगरे सदनमेकमन्विष्य कञ्चन कालं सुखमवात्सीत्।

राशिवड़ेकरोपाह्वस्य
अप्पाशर्मणः
(कोल्हापुर)

इति प्रथमभागः।

____________

(क्व सुखम्?)

<MISSING_FIG href=”../books_images/U-IMG-173132112850.jpg”/>

मुखं क्व काम्यं? चरतीति वार्त्तादेशेऽन्यदेशे नगरे विपण्याम्।
ग्रामे च राज्ये बहुना किमास्ते पयोधिवस्त्रावृतभूमिमध्ये॥(१)

मुखं क्व काम्यं? चरतीति वार्त्ता विलासवस्तूपहिते सरामे।
सकानने सज्जित रञ्जितान्ते हर्म्येप्रमोदप्रणयाभिगीते॥ (२)

सुखं क्व काम्यं? चरतीति वार्त्ता प्रायः सुजीर्णेपृथिवी-शयाने।
पर्णे कुटीरेऽपतृणे विदीर्णेग्रहैः कराध्यसितमध्यभागे॥ (३)

सुखं क्व काम्यं? चरतीति वार्त्ता प्रदीप्तकार्त्तस्वररम्यवप्र-
प्रवेष्टितायां समितौमहत्यां अनन्तविज्ञध्वनिनादितायाम्॥ (४)

सुखं क्व काम्यंचरतीति वार्त्ता? प्रभातकाले स्मरणीय पुण्य—
पवित्रसाधु-प्रविभूषितेऽस्मिन् तीर्थे सुपर्वप्रतिमूर्त्तिपूर्वे॥ (५)

शिलोच्चये निर्झरिणीप्रवाहशब्दायिते रत्न-विदीप्तशृङ्गे।
भैरन्ध्रवल्लीतरुनीलपत्रे सुखं क्व काम्यंचरतीति वार्त्ता॥ (4)

सुदुष्प्रवैश्ये ननु हिंस्रजन्तु भुजङ्ग मातङ्ग पतङ्गभीष्मे।
वने, विरागाध्युषिताश्रमेऽपि सुखं क्व काम्यंचरतीति वार्त्ता॥७॥

उपोषितक्षामतमस्य भिक्षाभृतः, करस्थं पिवतः पयस्तु।
धराशयामस्य सुखेऽपि सैव सुखं क्व काम्यंचरतीति वार्त्ता॥८॥

यदन्तरे दुर्वहरोगदुःखं यदन्तरे भोगविलासवाञ्छा।
नूनं तदास्येऽपि मलीमसेऽस्मिन् सुखं क्वकाम्यंचरतीति वार्त्ता॥९॥

विशुष्कपत्राश्रुभिरत्र शाखी रम्या व्रतत्यः श्लथपाण्डुपत्रैः।
विज्ञावयन्तीव वितर्कयामि सुखं क्व काम्यंननु नास्ति नास्ति॥१०॥

वीचिच्छलादूर्द्धभुजाभवन्ती स्रोतस्विनीवेगभवैर्निनादैः।
आक्रुश्य तारं वदतीव तां तां सुखं क्व काम्यं ननु नास्ति नास्ति॥११॥

तरौ लतायां कुसुमे च पत्रे ह्रदे तटे मन्दिरपर्वतेषु।
नद्यां नदेऽस्मिन् लिखितेवसेयं सुखं क्व काम्यंननु नास्ति नास्ति॥१२॥

प्रभञ्जन शीघ्रगमाशुयानमारुह्य वेगत्रिजगत्प्रधानम्।
गत्वा समन्तात् कथितेव सेयं सुखं क्व काम्यं ननु नास्ति नास्ति॥१३॥

पिकः सुकण्ठः परिगायतीव प्रीतो द्विरेफः स्वनतीव भूयः।
शुकः सुखाशोवदतीव नित्यं सुखं क्व काम्यंननु नास्ति नास्ति॥१४॥

पशौ च सत्वे च विहङ्गमे च भूते च्युते स्थावर जङ्गमे च।
पुनःपुनर्वर्त्तत एवमन्ये सुखं क्व काम्यंननु नास्ति नास्ति॥१५॥

स्त्रैणाः सकामं सरसं रमण्याः रम्याननाम्भोजसुधाभिपानम्।
प्रीत्योपभोगः प्रणयक्रिया चब्रुवन्ति पूतं सुखमद्वितीयम्॥१६॥

बुभुक्षिताःस्वादुरसप्रधानसुभोज्य-सारोदरसाद्विधानम्।
निद्रालसास्तेसुकुमारपुष्पसमानशय्या शयनं प्रमोदम्॥१७॥

अदृष्टपूर्वाश्रुतपूर्वभोगे गिरौ तड़ागे नगरे प्रदेशे।
वने नदे सस्पृहमिष्टभूमौ पर्य्यट्यतृप्तेर्ग्रहणञ्च केचित्॥१८॥

अहर्निशं दर्शन काव्य-वेदपुराणशास्त्राध्ययनं सकामम्।
केचित्, विना क्लान्तिद कर्म्मजातं आधिष्ठितं कर्म्मभयातुरोऽन्यः॥१९॥

क्रीड़ासुखं क्रीड़न-सेवकानां मद्यं सुखं तत्प्रणयाश्रितानाम्।
कलासुखं तद्रसकोविदानां तत्तत् सुखं तत्तदनुस्मृतानाम्॥२०॥

मन्ये, न तत्तत्सुखमोहनीयं आपाततः किन्त्विह तानि तानि।
ध्रुवं सुखाभाषतया भवन्ति यतो न सर्वैरभिवाञ्छितानि॥२१॥

आप्ते तदा किं न सुखं धरायां? छायाविषादस्य प्रणोति तां किम्?।
सुखस्वरूपस्य शिवस्य सर्गे मुखस्य लोपो घटते विचित्रम्॥२२॥

युगान्तकालप्रभृतिप्रमुग्धाः तवाशया वृद्धतमा युवानः।
नार्य्यःसमन्तात् शिशवोऽप्रगल्भाः सुख! त्वदर्थं ननु पर्य्यटन्ति॥२३॥

तीर्थस्य ते स्मी बहुयाचिकास्तु केचित् पतन्त्यर्द्धपथेऽसमर्थाः।
रुदन्ति केचित् समटन्ति केचित् प्रायस्त्वदीक्षाघटते न किन्तु॥२४॥

शशाक को दर्शयितुंभवेऽस्मिन् सुख! स्थलन्ते वत! दुर्ग्रहं यत्।
विशेषतो लक्ष्यवियागयोगात् गतासुवत् राजति विश्वमेतत्॥२५॥

क्वचित् गिरेरुन्नतरत्नशृङ्गे? मन्दाकिनी शुभ्रतटे क्व रम्ये?
कुत्राथवा कृत्रिमकाननान्ते सुख! त्वमास्मेवत! कल्पवृक्षे॥२६॥

सुख! क्व रत्नाञ्चितमासनं ते? वयं क्व विन्दाम इहेप्सितन्त्वाम्?।
न किन्त्वमस्मज्ज्वलदन्तरस्य ज्वालां हरिष्यस्यथ शान्तिनीरैः?॥२७॥

वयतृषार्त्तातिथयः क्षमायामाजीवनात् त्वामनुसन्दधाम।
अभ्यागतप्रार्थनलोपभीतेः किं नीरदानं तव नैव युक्तम्?॥२८॥

जाने न; तस्मात् वत! चिन्तयामि निर्म्माय शान्ते परमं पवित्रम्।
क्षेत्रंनु! कुत्रामृतरस्यहर्म्यं संस्थापयामासिथ, वान्छित! त्वम्?॥२९॥

नतोऽभिवन्दे सुख! जीविलक्ष्य! त्वद् यात्रिकान् नःकृपयातिदीनान्।
सिञ्च स्वयं प्रीतिदशान्तिनीरैःआश्लिष्य चेहामृतशीतदेहैः॥३०॥

स्वर्गो भवन्वाशुतव कृपाती धरा मराभूर्नगरं प्रशान्तम्।
उद्यानजातं ननु नन्दनेशं शान्यावृतास्ते सुख! जीविनः स्युः॥३१॥

श्रीअन्नदाचरणतर्कचूड़ामणिः—

नोयाखाली, —सोमपाड़ा।

_________

सती छाया।

(पूर्वप्रकाशितात्परम्)

अहो मासोयं पौषः। घोरायां निशीथिन्यां तमस्विन्याम् इन्द्रप्रिया बहुमूल्यशाटीयुगलेन गात्रं प्रावृत्य तुष्णीं द्वारमुद्घाट्यनदीतीरमुपतस्थौ। भयचकितदृष्ट्या इतस्ततो, निरीक्ष्य यदा

निश्चिनोति नैकोऽपि जमोऽत्राधुना विचरति, तदा झटिति गात्रावरणमुन्मुच्य नद्यां निमज्जितुं यावदुद्यता तावत् पश्चादागत्य कोऽपि जनस्तां सुदृढ़ं दधार। तेन सा अकृतार्था सतीपरावृत्यमुखी पश्यति यशोदाम्।

यशोदा कथयति इन्द्रप्रिये! मैवं कार्षोःत्वदीये जठरे बालो वर्त्तते किमित्यनागसं तं जीविताद्वियोजयसि। एहि इन्द्रप्रिये! प्रतिनिवर्त्तस्व। इन्द्रप्रिया सगर्वमाह “अरे सति जीवने तस्यां पापवाटिकायां न पुनः प्रविशामि” यशोदा आह नवविपन्यां मम भगिनी वर्त्तते वर्त्मन आवर्त्तनभाग एव तस्या भर्त्तुरापणम्। तत्रैव त्वां नेष्यामि एहि। इन्द्रप्रिया यशोदा माह “तावद्दूरं किं पदा गन्तुं शक्नोमि?” दासीब्रवीति “हा धिक् हा धिक् गत्वैव कियद्दूरं शकटमारुह्य व्रजामि" इन्द्रप्रिया यशोदाया मलिनवस्त्रेणात्मानं पिधाय सह यशोदाया अग्रे सर्त्तुंमारभते। व्याघ्रापणस्यसेतुसन्निधौ शकटमेकं स्थिरीकृत्य तदारोहति। शकटं यथासमयं नूतनविपन्यां चित्पुरवर्त्मनि उपतिष्ठते। यशोदा इन्द्रप्रियया सह शकटादवरुह्यसम्मुखस्थितमापनिकमाह “आवुत्त! आवुत्त! वाहिकायास्मे रूपकद्वयं देहि” आपनिकस्तु सविस्मयमिन्द्रप्रियामालोक्य शकटवाहिकाय रूपकद्वयं ददाति।

वाहिको हि लब्धरूपकः हिस् हिस् इति शब्देन शकटं चालयित्वा प्रस्थितः। यशोदायाम् इन्द्रप्रियया सह विपण्यभ्यरे गृहे प्रविशन्त्याम् एका अर्द्धवयस्का वावच्यते “केयं कन्यका? केयं कन्यका? भगिनि! यशोदे!” यशोदा सविमर्षं कथयति “समस्तं ब्रवीमि भगिनि? संप्रति सत्त्वरं पर्य्यङ्गे परिष्कृतां शय्यामेकां विधेहि” सा च साग्रहं क्षिप्रहस्तञ्च पर्य्यङ्कं वस्त्रेणाप्लाव्य पयःफेणनिभां कोमलां शय्यां विदधाति। इन्द्रप्रिया व्याकुलेन मनसा गृहस्य इतस्ततः परिवीक्षमाणा निरन्तरां वाष्पधाराञ्च मुञ्चन्ती अकस्मान्मर्च्छिता भूतले पतति।

यशोदा सत्रासंकथयति “वामे!! वामे!!! जलमानय जलमानव शीघ्रमानय” वामा त्वरितगतिर्जलमाहृत्य इन्द्रप्रियायाश्चक्षुषोर्गात्रे च शीकरीकृतानि वारीणि विक्षिपति। हस्तेन च तस्याः कोमलमङ्गं संवाहयति।

व्यतीत्य कियत्क्षणं लब्धचैतन्याम् इन्द्रप्रियां वामायशोदे विधृत्य पर्य्यङ्केसुखापयतः। परिक्लान्ता च सा इन्द्रप्रिया अनतिविलम्बं निद्राति। वामायां तस्याः स्वामिनि च इन्द्रप्रियायाः परिचय जिज्ञासतोः यशोदा आद्योपान्तं समस्तञ्चवृत्तान्तं निगदति।

इति द्वितीयः परिच्छेदः।

________

तृतीयपरिच्छेदः।

<MISSING_FIG href=”../books_images/U-IMG-173147596161.jpg"/>

(दुःखिनीसतीछाया।)

अर्द्धार्द्धमव्यक्तवचो ब्रुवन्तीअङ्गं क्षिपन्तीमधुरं हसन्ती।
क्रोड़े शयाना लतिकेव हैमी विलोक्य माता रुदती शुधार्त्ता॥

षड़्विंशपौषे दिवा द्विप्रहरसमये अल्पायतनस्य एकतलगृहस्योपरि छदिःपार्श्वे एकस्मिन् खर्परगृहे दुःखिनीराजवधूः दुर्विसहप्रसववेदनया नितरां कातरा, एकैव सा आत्मीया यशोदा दासी, तस्या भग्नीच उपस्थिता। यशोदा कथयति “भग्नीपतिः किमिति विलम्बते? एतस्मिन्नेव काले कश्चित् पश्चाद्देशात् प्रतिवक्ति अयमहमुपस्थित इति, इतो दूरतरं स्थानं तत् तेनैव विलम्बो जातः। यशोदा सत्रासं कथयति अयि धात्रीभगिनि! पश्य तावदग्रतः पोतवतीं28धात्री सयत्नंपोतवतीं शुश्रूषमाणा कथयति “नेतः परं विलम्बः सम्भवेत् यदा एकघटिकासूचकः शतघ्नी29

शब्दायिष्यते तदैवापत्यं भूमिमलङ्करिष्यति" धात्रीवाक्यं सत्यमेवाभूत्, एकघटिकाशतघ्नीध्वनिर्यावदुज्जृम्भते तावत् शरच्चन्तविड़म्बिनी तनया प्रसवशय्यां स्पृशन्तीसुखरं रोरुद्यमाना सर्वा एव गृहस्थिताः स्नेहेन प्लावयामास। सापि दुःखिनीजननी क्षणंदुःखमारं विस्मृत्य एकाग्रचित्ता लावण्यपूर्णं तनयाननं सादरं दरीदृश्यते।

धात्रीयथाविधि प्रसूतीं परिष्कृत्य परिधाप्य च वस्त्रान्तरं प्रच्छिद्य च तनयानाभिनालं संस्नाप्य च तां प्रसूत्याः कोड़े समर्पयन्ती सस्मितमाह “अयि बहुशोऽहं गर्भिण्या असूषवत्, किन्तु न क्वापि ईदृशीं सुन्दरपोतवतीमपश्यन्।” धात्रीइन्द्रप्रियां कथयति “मातः! पारितोषिकं किञ्चिदभिलषामि” इन्द्रप्रिया सजलनेत्रं यशोदां कथयति “अयि यशोदे! मम काञ्ची30कियता मूल्येन विक्रीता? यशोदा कथयति “पञ्चशतमुद्रयेति। इन्द्रप्रिया कथञ्चिदाश्वस्ता कथयति” तस्मात् पञ्चविशतिरूपकमल्यैप्रदेहि, धात्री मुद्रां प्राप्य सपुत्रीं प्रसूतिमाप्याय्यसदाशीर्वचसा प्रतिगच्छति।

निराश्रयाणामाश्रयो नारायणः—कथेयमिन्द्रप्रियायां समधिकं प्रमाणम्। नवजाता बालिका चान्द्रमसी कलेवप्रत्यहं वर्द्धमाना प्रसवात् पञ्चमेऽहनि समतीते यशोदा परिचारिका सूतिकागारपरिचारिकाया सह नवजातां कन्यां स्नपयित्वा इन्द्रप्रियामपि स्नपयति। स्नात्वा च इन्द्रप्रिया शिशिरधौतस्वर्णलतेव शोभते। यशोदा सूतिकादासीच यदा गृहान्निर्गच्छति तदा प्रन्दप्रिया क्रोड़े शाययित्वा तनयां स्तन्यं पाययन्तीविस्तारन्तीच निमेषं, लावण्यपारावारं सुकोमलसङ्गंकन्याया अवलोकयन्तीच तुष्णीमश्रूणि विमुञ्चति मनसा जल्पति च, अयि बालिके! न किञ्चिदपि मे दुःखमनुभवसि। न जाने कोऽपि स्वर्गीय आनन्दस्ते अन्तर्विराजते। अहोसस्मितं कोरकितं वदनपङ्कजं किमिवमनोहरं दृश्यते। किन्तु

हा हा दृश्येनानेन मनोहारिणापि दुःखिनीयं जननी अणुमप्यानन्दं नानुभवति। इत्येवं वावच्यमाना इन्द्रप्रिया वाष्पधाराभिर्वक्षः प्लावयामास।

अस्मिन्नेव काले यशोदा सूतिकापरिचारिका च गृहं प्रविशति। यशोदा अश्रूणि मुञ्चन्तीमालोक्य इन्द्रप्रियां कथयति हा धिक् हा धिक् अपत्यं क्रोड़े विधाय रोदनमसाम्प्रतं शान्तं पापम्। इन्द्रप्रिया पाणिभ्यां नेत्रे विसृज्य स्तोकं कथयति “अयि यशोदे! मन्दभागिन्या अस्याःकोऽस्ति? य एतस्य कोरकितस्य मुखस्य मृदु हास्यं निरीक्ष्य आनन्दिष्यति? अहह अस्याःसर्वमेवास्ति किन्तु तथापि किमपि नास्ति” यशोदा कथयति धिक् धिक् शान्तं पापम् इन्द्रप्रिये! यदि नारायणस्तेऽनुकूलस्तदा सर्वमेव लभ्यते”।

इन्द्रप्रिया दीर्घं निःश्वस्य कथयति “अयि यशोदे! या पूर्वेद्युरागता सा ब्राह्मणीपाचिका अद्य किं समेष्यति? यशोदा वाढ़ं, सैवाद्यागता त्वत्कृते पक्ष्यति” सूतिकापरिचारिका इन्द्रप्रियायाः क्रोड़ादानीय बालिकां पर्य्यङ्के असूषुपत्।

माघमासस्य चतुर्थे दिवसे सायं समये इन्द्रप्रिया क्रोड़े कृत्वा तनयां सूतिकागारे शयाना तिष्ठति, यशोदा सूतिकागृहद्वारमुन्मोच्य कथयति “अयि इन्द्रप्रिये! समधिकं सज्जीभूय साड़म्बरं कोऽपि वरः चित्पुरपथं समुद्भाषयन्समागच्छति, द्रक्ष्यसि चेत् तूर्णमागच्छ। चतसृषु दिक्षु कति लोका वद्धपरिकराः सोच्छासं सदर्पमागच्छन्ति, कति वा दिदृक्षवःअट्टालिकाशिरोऽधिरूढाः, के तदियत्तामधिगन्तुं प्रभविष्यन्ति। पूर्वेद्युर्निशीथे अयमेव वा गतवान् इत्यनुमिनोमि। इन्द्रप्रियाया हृदयन्त्रो ताड़ितेव निनदति। सर्वेषामेवैतत् विदितमस्ति—वाकबालिकाः धावन्तः खलन्तश्च नान्यस्मै निवेदयन्ति आघातव्यथां, तथापि न च निवर्त्तन्ते धावितुम्। इन्द्रप्रियाया अपि

तदेव घटितं, भीतिस्तस्याश्चेतसो न प्रकाशिता, चतुर्दशवर्षीया बालिका किं नाम दुःखमनुभवन्तौ वर्षीयसीव व्यवहरति इति न कोऽपि जानाति। किन्तु मुहूर्त्तादिव बालिकास्वभावसुलभ आग्रह इन्द्रप्रियामधिकरोति।

तदा द्रुतपदा सा सह यशोदया एकतलप्रासादोपरि समारोहति, तिष्ठति च छदिषः प्रान्तदेशे। क्रमशः वादित्रध्वनिः समीपे श्रूयते, विविधास्तु खधूषावियति प्रज्वलिताः, विविधाश्चालोका दिवेव मार्गमुद्भाषयन्ति। अग्रतः पृष्ठतश्च वरस्य तरवारिधारिणो राजन्ति। पञ्चाशच्चअश्वारोहिणोऽसंख्याश्च शूलदण्डधारिणः शतमेकञ्च सैनिका दृप्ता व्रजन्ति। स्यन्दनञ्च षड्घोटकमध्यासीनो वरः, कन्या च चतुर्दोलामध्यासीना व्रजति।

क्रमशस्तु वरस्य स्यन्दन इन्द्रप्रियायाः सम्मुखे समुपतिष्ठते, इन्द्रप्रिया निरुद्धदीर्घनिःश्वासा पश्यति,— क्षीणञ्च तस्याःशरीरं वेपते। एतस्मिन्नेव काले लोहितालोक एकः सम्मुखे वरस्य प्रज्ज्वलितः, नेत्रे च वरस्य इतस्तत उपरि विचरन्ती झटिति इन्द्रप्रियायाश्चक्षुषोर्मिलिते। अहो हर्षविकसितं वरस्य वदनं कालिम्नालिप्तमिव पुनरपि इन्द्रप्रियां द्रष्टुकामः पश्चाद्भागेपतन्निव परा वर्त्तितमुखः क्षणं तिष्ठति। तदा इन्द्रप्रियापि अवसन्नेव विकृतकण्ठा चित्कृत्यमूर्च्छति।

यशोदा प्रभृतयश्च प्रसूतिं सत्रासं नीत्वा कुटीराभ्यन्तरे शाययन्ति। तस्याश्च मूर्च्छा राजकुमारस्याप्रत्यक्षिता नाभूत्।

(क्रमशः)

_____________

धर्म्मविवेकः।

(पूर्वप्रकाशितात्परम्)

वामपदः। “नमोऽस्तु गुरवे तदौइष्टदेवस्वरूपिणे।
यस्य वाक्यामृतं हन्ति विषं संसारसंज्ञकम्”॥

इति शिवरामं प्रणम्यकृताञ्जलिः स्थितः।

शिवरामः। वत्स! कियत्कथितं धर्म्मविवेकस्य तत्स्मरसि?

वामा। आएवं नु तत् प्रभो! स्मरामि।

शिव। प्रीतोऽस्मि ते वत्स! ईदृशेन तेऽभिनिवेशेन धर्म्मव्याख्याने। मया तु कृतव्याख्यानेनापि न स्मर्य्यते कियत् व्याख्यातो धर्म्मः। अहो—

“क्षणात् प्रबोधनायाति तमसाव्रियते पुनः।
निर्वास्यतःप्रदीपस्य शिखेव जरतो मतिः॥”

स्मारय मां कियन्तं व्याख्यातं धर्म्मविवेकम्।

वामा।भाद्रमासि तर्केण विना धर्म्मफलमनुष्ठितमेव प्रत्यक्षेण ज्ञायत इति सत्यवादी रजको रामसुन्दरो दृष्टान्ततः।

शिवः। स्मरामि सर्वम्। इदानीं परिचिन्तय मनूक्तं—

“धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः।
धीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम्॥”

इत्येवं धर्म्मंसंसेवमानः क्रमशः यदि धृत्यादीनां परां कोटिं लभते तदावश्यमेवाभ्युदयो भवेदात्मनः। अतएव सत्यमेव कणादः “यतोऽभ्युदय निश्रेयससिद्धिः सधर्म्म” इत्याह। आत्मनोऽभ्युदयस्य तु सीमा ईश्वरत्वलाभः, स च धर्म्मादेवेदृशात् सम्पद्यते।

वामा। भगवन्! भवतु साधारणेन धर्मेण धृत्यादिना सत्त्वसंशुद्धेर्म्मालिन्यक्षयादात्मनोऽभ्युन्नतिः विशेषेण च धर्मेण विसदृशेण ब्राह्मणमतेन क्षत्रियगतेन वैश्यगतेन शूद्रगतेन च को नामाभ्यदयः?

यथा ब्राह्मणस्य जननमरणे दशाहमशोचं क्षत्रियस्य द्वादशाहंवैश्यस्य पञ्चदशाहं शूद्रस्य तु मासमिति। इत्यादि इयत्तापथमतिक्रान्तैर्धर्मैरापाततो भ्रान्तिरेवोदेति।

शिवः। सत्यमेव ब्रवीषि, ततः प्रश्नोयमतीव गरीयान् तत् प्रणिहितमनाः शृणु। वामापद! किमितिमस्तकस्य नाम “उत्तमाङ्गं” तज्जानासि?

वामा। अङ्गानां मध्ये उत्तमं अतएव उत्तमाङ्गं कथ्यते शीर्षम्।

शिवः। अङ्गानां मध्ये शिरस एव कथमुत्तमत्त्वं?

वामा। शिरसि छिन्ने नैव जीवति मानुषः अतएव तस्योत्तमत्त्वं।

शिवः। (विहस्य) स्थूलधियामेतद्वचः यत् “शिरसि छिन्ने नैवजीवति मानुषः” इति हृत्पिण्डेऽपि विदीर्णे कटावपि द्विधाकृतायां नैव जीवति मानुषः तत् किमिति हृदयं कटिश्च नोत्तमाङ्गंकथ्यते?

वामा। गुरुवो ब्रुवन्तु शृणोमि तत्।

शिवः। ज्ञातमेतत्त्वया यद्ब्राह्मणो ब्रह्मणो मुखात्, क्षत्रियो बाहुभ्यां, वैश्य उरुभ्यां, शूद्रास्तु जाताः पद्भ्यामिति तथाच श्रुतिः।

“ब्राह्मणोऽस्य मुखमासीत् हूराजन्यतः कृतः।
उरू तदस्य वैश्यस्तु पद्भ्यांशूद्रोऽजायत॥”

एतदपि जानीहि उपादानकारणगुणाः कार्य्येसंक्रामन्ते, यथा नीलैःसूत्रैर्नोलं शुक्लैःसूत्रैःशुक्लं लोहितैश्च लोहितं वस्त्रं जायते।

एतदपि जानीहि ब्रवीषि च अङ्गेषु शिर एव प्रधानम्, व्यवहरति च लोके तथा यथा आज्ञा ते शिरसा गृह्यते पादौ ते शिरसा वन्द्येते इति शिरस एव प्राधान्यम्। तथा चाभिधीयते।

“उत्तमाङ्गं शिरः शीर्षंमूर्द्धा ना मस्तकोऽस्त्रियाम्”। इति।

कथमिति शिर उत्तमाङ्गम्? ज्ञानाकरत्वादेवेति निश्चिनु।

चत्वारि सत्त्वगुणप्रधानानि ज्ञानेन्द्रियाणि शिरस्वेव तिष्ठन्ति, श्रोत्राक्षिरसनाघ्राणाख्यानि, त्वक् च शिरसि अन्यस्मिन्नप्यङ्गेऽस्तीति तस्मादेव ज्ञानाकराच्चतुर्मुखमुखात् ब्राह्मणा व्यजायन्त ज्ञानवृत्तिप्रधानाः। तस्मादेव कारणान्न तेषु ब्राह्मणेषु भुजवीर्य्यम् उरुवीर्य्यं वा तथा, यथा ज्ञानाकरमुखवीर्य्यम्, तथा क्षत्रियाणां बाहुवीर्य्यं शौर्य्यादिकं, वैश्यानामुरुवीर्य्यंवाणिज्यव्यपदेशेन विदेशाटनमिति।

मस्तकस्य सन्निहिताद्वाहोर्जातेषु क्षत्रियेषु मस्तकाधिष्ठितं ज्ञानं ब्राह्मणात् न्यूनं वैश्याच्चाधिकं वर्त्तते। मस्तकस्य भुजव्यवहितादुरुतः जातेषु वैश्येषु क्षत्रियापेक्षया न्यूनं ब्राह्मणापेक्षया न्यूततमं ज्ञानं वर्त्तते, तेन हि ब्राह्मणक्षत्रियवैश्याः द्विजातयः वेदेष्वप्यधिकारिणः स्युः।शूद्रास्तु मस्तकादतिव्यवहितात् पादाज्जाताः अतएव ते ज्ञानेन मस्तकाधिष्ठितेन नैव स्पृश्यन्ते अपि।

अपि च। सति ज्ञानोत्कर्षे श्रेष्ठो भवति जनः इति तु लोक एव प्रमाणम्। तथाहि निरक्षरेभ्यः साक्षराः श्रेष्ठाः। साक्षरेभ्यः विद्धांस, विद्वद्भ्यःपण्डिताः, पण्डितेभ्यऋषयः, ऋषिभ्यो देवाः, देवानामपि हरिहरविरिञ्चयः श्रेष्ठाः केवलं ज्ञानोत्कर्षादेव।

वर्त्तुलार्थस्तु लोके सर्वेभ्यो ब्राह्मणा ज्ञानिनः सत्त्वबहुलाः। ब्राह्मणेभ्यः क्षत्रिया अल्पज्ञानिनः क्षत्रियेभ्यो वैश्याः, वैश्येभ्यञ्च शूद्रा अज्ञानिन इति। इत्येवं स्वीक्रियते त्वया?

वामा। अथ किम्? अत्र कः सन्देहः?

शिवः। इदानीं भवता दर्शितं ब्राह्मणादीनामशौचे तारतम्य कारणं निबोध।

अशौचन्तु वैदिककर्म्मप्रतिबन्धीआत्मगतः संस्कारविशेषः। तत्र च पित्रादिबन्धूनां निधने पुत्रादीनां जनने वा आत्मनो विकृतिभाव एव प्रतिबन्धकः। पित्रादिमरणशोकेनात्मा विकृतायते, पुत्रादिजनने तु हर्षेणात्मा अभिभूयते, उभयथापि आत्मा स्वस्थो

न भवति। एवञ्चैत् विकृतात्मना तु अनुष्ठितं श्रौतं कर्म्म न सम्यक् सिद्ध्यति। अतएव ज्ञानिनाञ्च ब्राह्मणानां दशभिर्दिनैः ततोऽल्पज्ञानिनां क्षत्रियाणां द्वादशभिर्दिनैः ततोऽल्पज्ञानिनां वैश्यनां पञ्चदशभिर्दिनैः अज्ञानिनान्तु शूद्राणां मासेन हर्षशोकौमन्दीभवतः। ततश्चात्मनो वैकृत्ये हर्षशोकनिमित्ते अपगते ते स्वस्थात्मानः श्रौतकर्म्मसु प्रभवन्ति। एतदेव ब्राह्मणादीनामशौचे तारतम्यविधानकारणम्। तदपि प्रायःसम्भवपरतया कथञ्चित् नियमविधिना नियन्त्रितम्। अन्यथा विशृङ्खलतया धर्मो विपर्य्येत।

एवं सर्वस्मिन्नेव विशेषधर्मे सूक्ष्मतरं कारणं वर्त्तते युक्तिश्च सर्वत्र तदुद्घाटनं दुष्करं ऋजुधियां दुरधिगमञ्च, परन्तु मुनयो अवितथवा दिन इति तद्वचनं शिरोभिरभिवाह्यम् इति।

अतो ब्राह्मणादिवर्णभेदात् शौचाशौचादिधर्मैःनित्यनैमित्तिकप्रायश्चित्तादिभिश्च संसेव्यमानैः क्रमशः बुद्धेस्तमोऽभिभवति, बुद्धितमोऽभिभवाच्च सात्त्विकभावः समुद्रिनक्ति। सात्त्विकभावसमुद्रेकाच्च तस्य साधोश्चेतसि धृतिः क्षमा, दमः अस्तेयं शौचं, इन्द्रियनिग्रहः, ज्ञानं, विद्या, सत्यम्, अक्रोधश्च समुपजायमानः प्रज्ञां विशारदौ करोति अविवेकस्तिरो भवति, विवेकश्च उदेति, ततश्च ब्रह्मात्मकत्वज्ञानात्, प्रकृतिरुषयोर्भेदावधारणाच्च जीवन्मुक्तो भवति लभते च ब्रह्मत्वंपिण्डपातात्। तथा च श्रुतिः।

“ब्रह्मविद्ब्रह्मैव भवति”।

तथा च पतञ्जलिः।

“तदा द्रष्टुः स्वरूपेणावस्थानम्”।
(क्रमशः)

___________

तत्त्वप्रपञ्चः।

(पूर्वप्रकाशितात् परः)

सा च प्रकृतिः सर्वकारणकारणम् स्वयमकारणा, नित्या, सर्वव्यापिणी महदादिरूपेण कार्य्येण सर्वमेव व्याप्नोति, परि-

स्पन्दादिलक्षणक्रियारहिता, एका, सर्वाश्रयः, अलिङ्गं, निरवयवा, स्वतन्त्राच। तथाच सांख्यकारिका।

“हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्॥” (१०)

** **तथाच तत्त्वकौमुदी।

“अहेतुमन्नित्यं व्यापि, निष्क्रियं। यद्यप्यव्यक्तस्यास्ति परिणाम लक्षणाक्रिया तथापि परिस्पन्दां नास्ति। एवमनाश्रितमलिङ्गमनवयवं स्वतन्त्रमव्यक्तम्॥”

सा च प्रकृतिः त्रिगुणमयी, अविवेकिनी, विषयः, सामान्या, अचेतना, प्रसवधर्म्मिनी। तथाच सांख्य कारिका।

“त्रिगुणमविवेक विषयःसामान्यमचेनं प्रसवधर्मि।
व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान्॥” (११)

** **प्रकृतिस्त्रिगुणमयीत्युक्तं तत्र किं तत्रिगुणम्? किं वा तल्लक्षणम्? किं वास्य प्रयोजननं का वा तस्य त्रिगुणस्य क्रिया? तत् कथ्यते—यस्य गुणत्रयस्य साम्यावस्था प्रकृतिः तत् सत्त्वं रजस्तमश्चेति गुणत्रयम्, तत्र सुखात्मकं सत्त्वं, दुःखात्मकं रजः, मोहात्मकञ्च तमः।

सत्त्वस्य प्रयोजनं प्रकाशः, रजसः प्रयोजनम् चालनं, तमसः प्रयोजनं नियमनं। परिचालकं रजः लघु सत्त्वं सर्वत्र चालयितुं यतते, किन्तु गुरुमारेण तमसा आक्रम्य नियम्यते। तमो नियमनन्तु क्वचिदेव।

तथाहि—कश्चिद्विद्यार्थी न कथं सर्वमेव विषयं बुध्यते? कथं वा गुरुपदेशमपेक्षते? रजस्तु चालकं लघु सत्त्वंसर्वत्र चालयिष्यति, सत्यं किन्तु रजश्चालकतया सर्वस्मिन्नेवार्थे लघु सत्त्वं प्रेरयति, सत्त्वञ्च प्रकाशभावेन सर्व एवार्थो बुद्ध्याविषयीक्रियते, किन्तु गुरूभारन्तु तमः अन्धकाररुपेण लघु सत्त्वमवष्टभ्य नियम्य आवृणोति। ततश्च सत्त्वप्रकाशाभावात् विद्यार्थी सर्वमर्थं न बुध्यते, आचार्य्योपदेशरूपेण च वायुना सत्त्वाग्निरुज्जुलति उज्ज्वलितञ्च सत्त्वं तमोऽभिभवति तदोपदिष्टं विषयं बुध्यते सः।

ते x xx xxx xxxx xxxxxxभिभवति।— एषाxxxxx xxx xxxx xxx xxxx xxx अभिभूयते। तथाहि तत्त्वं xxxxx अभिभृx xxxxxxxx वृत्तिं जनयति। एवं रजः सतत्वतनयी xxx xxxxxxx वृत्तिमुत्पादवति। एवं तमः सत्त्वरजx xxxx मूढ़ामत्मनी वृत्तिं प्रतिलभते। तथा—

साधु xxx xxxxx परिनिष्ठः च केनचित् विवदते न वा विxxxx। परन्तु यथालाभसम्पृष्टः xxxxx सदाचारेण सद्विहारेण च xxxxx समभिxxxxx। तथा च रजोऽभिभवात् क्रोधादिजनितं दुःखं xxxxx, xxxxx निद्रादि समुत्थो मोहश्च दूरीभवति तथश्च xxxxxxx वृत्तिं लभते।

एवं दुर्जनः xxxxxxx xxxxx xxxxxxxxxरेण च सत्त्वतमसीं निर्जत्व क्लेशमयीं कारावxनादिरूपामात्मनोवृत्तिमुत्पादयति।

म्लेच्छः तमासिकेन मूxxxxxxxx तथाविधव्यवहारादिना च सत्त्वरजसी अभिभूय मूढ़xxxxनिवृत्तिं प्रतिलभते। तथा च भगवद्गीता

“आयुःसत्वबलारेन्वनुग्रजीवितिxxxx।
रस्याः सिग्धाःस्थिरा मेध्या आहाराः सालिकप्रियाः।
कट्वम्ललवणात्युष्णतीक्षरक्षविविदाहिनः।
आहारा राजxxx xxxxxxप्रदाः॥

यातवामं गतरसं पूर्तिपर्य्युसितञ्च वत्।
उच्छिष्टमपि चानेध्यंभोजनं तामसप्रियम्॥”

(क्रमशः)

____________

वर्णे पादस्पर्शनिषेधः।

अकिञ्चित्करवस्तुज्ञानेन अकारादि वर्णोपरि पदप्रक्षेपात् कोऽपि दोषो न भवेत् इति। श्रीआनन्दचन्द्रविद्यारत्न एवं व्यवस्था मदात्।

तत्रसाक्षी श्रीरामकृष्णपाठकः। श्रीयदुनाथचक्रवर्त्ती च।

तत्र श्रीविश्वेश्वरभागवतशिरोमणेः प्रतिवादोऽयम्।

अकारादि-पञ्चाशद्वर्णानां शब्दब्रह्मस्वरूपतया शिवशक्तितया सर्वेषां पूज्यतया च देवप्रतिमादिवत् तेषु पदप्रक्षेपादिना गुरुतरपातकं तज्जन्यनरकभोगादिरभ्यवश्यं भवतीति विदां मतम्।

तथाच कङ्कालमालिनीतन्त्रे प्रथमपटले—

“शब्दब्रह्मस्वरूपं तदादि क्षान्तं जगत् प्रभु इति।”

अन्यच्च तत्रैव—

“अकारादिक्षकारान्ता वर्णास्तु शिवशक्तयः।
पञ्चाशच्चइमे वर्षा ब्रह्मरूपाः सनातनाः॥” इति।

अपरञ्च तत्रैव पञ्चमपटले—

“इति ते कथितं भद्रे पञ्चाशद्वर्णपूजनम्।
वर्णानां पूजनाद्भद्रेदेवपूजा प्रजायते।
अणिमाद्यष्टसिद्धीनां पूजा स्याद्वर्णपूजनात्।
सप्तकोटिमहाविद्या उपविद्या तथैव च।
श्रीविष्णुकोटिमन्त्रश्च कोटिमन्त्रः शिवस्य च।
पूजनात् पूजितं सर्वं वर्णानां सिद्धिदायकमिति॥”

कामधेनुतन्त्रेच—

“वर्णज्ञानं यदा नास्ति किन्तस्य जपपूजनैः।
मम कण्ठे स्थितं वीजंपञ्चाशद्वर्णमद्भुतम्।
पञ्चाशन्मामृकांदेवीं महाविद्यामयीं तथा।
सर्ववर्णमयींदेवीं सर्वदेवमयींपराम्।
अकारादिक्षकारान्ता मामृका वीजरूपिणी।
विसर्गश्चैव विन्दुश्च त्रिशक्तिर्ब्रह्मविग्रहः।
वर्णात्तु जायते ब्रह्मा तथा विष्णुः प्रजायते।

रुद्रश्च जायते देवि जगत्संहारकारकः।
मम कण्ठस्थिता या सा सारदा वामलोचना।
तस्या गर्भस्थिता देवि वीजानि विविधानि च।
विधृत्य कण्ठदेशे तु शिवोऽहं कमलानने।
शृणु तत्त्व मकारस्य अतिगोप्यं वरानने।
पञ्चदेवमयं वर्णं शक्तित्रयसमन्वितम्।
निर्गुणं त्रिगुणोपेतं स्वयं कैवल्यमूर्त्तिमान्।
विन्दुतत्त्वमयं वर्णं स्वयं प्रकृतिरूपिणीति॥”

तत्रैव द्वितीयपटले—

“अकारं परमाश्चर्य्यं शङ्खज्योतिर्मयं प्रिये।
ब्रह्मविष्णुमयं वर्णं तथा रुद्रः स्वयं प्रिये॥”

** **इत्यादिना सर्वेषां वर्णानामेव ब्रह्मविष्णुमहेश्वरादिदेवतामयत्वं प्रकटितम्, एतत् सर्वं कामधेनुतन्त्रे द्वितीय-तृतीय-चतुर्थ-पञ्चम-षष्ठपटलेऽनुसन्धेयन्।सारदातीलके च—

त्रिधाममजननी देवी शब्दब्रह्मस्वरूपिणी।
द्विचत्वारिंशवर्णात्मपञ्चाशद्वर्णरूपिणी॥

पञ्चाशद्वर्णमयीमातृकामयीति राघवभट्टः।

पदार्थादर्शे सारदातिलके च—

“इच्छाज्ञानक्रियात्मासौतेजीरूपा गुणात्मिका।
क्रमेणानेन सृजति कुण्डली वर्णमालिकाम्।
पञ्चाशद्वारगुणिका पञ्चाशद्वर्णमालिका।
सूते तद्वर्णतोऽभिन्नन् कलारुद्रादिकाः क्रमात्॥” इति।

आदिपदेन अकारादिपञ्चाशद्वर्णस्वरूपाः पञ्चाशत्कामाः पञ्चाशत् कामशक्तयः पञ्चाशद्गणेशाः पञ्चाशद्गणेशशक्तयः पञ्चाशत् क्षेत्रपालाः पञ्चाशद्विष्णवः पञ्चाशद्विष्णुशक्तयः पञ्चाशद्रुद्राः पञ्चाशद्रुद्रशक्तयोऽपि बोध्याः। एते तु प्रपञ्चसारे ज्ञातव्याः।

दीक्षादौ पञ्चाशद्वर्णध्यानपूजादिकं विना सर्वं निष्फलं भवतीति

प्रत्येकवर्णस्यध्यानपूजादिकमवश्यं कर्त्तव्यम्। xxद्वारतन्ते अकारादिप्रयोगxxx ध्यानञ्च निर्धीतम्।

तथाच खैङ्गै—

“ततो विज्ञाय देवेशं यथावत् श्रुतिसम्भवैः।
मन्त्रैर्महेश्वरं देवं तुष्टायसुजहोदयम्॥

आक्यो स्तुतिसन्तुष्टो लिङ्गे तस्मिन्निरञ्जनः।
दिव्यं शब्दलयं रूपमाख्याय प्रहसन् स्थितः॥

अकारलस्य मूर्द्धा तु लxटं तीर्यमृच्यते।
इकारं दक्षिणं नेत्रमाकारं वाxxxxम्॥

उकारं दक्षिणं श्रोत्रमुकारं वाजसुच्यते।
ऋकारंदक्षिणं तस्य कपोलं परमेष्ठिनः॥

वामं कपोल्लxxकारं लृ लृृ xxपुटे उभे।
एकारमोष्ठ ऊर्द्धन्तु xxxxxx विभोः।
आकारण तथौलासे दन्तपङ्क्तिद्वयं क्रमात्॥

xx xx ताxनी तस्य देवदेवस्य धीमतः।
xxxxxxxx पञ्च हस्तानि दक्षिणे॥

xxxxxx पादो तादिपञ्चाक्षरं तथा।
पxxxx xx फकारं पार्श्वमुच्यते॥

वताको xxxxx xकारः स्कन्ध उच्यते।
मकारो xxx xxxxxxx योजितः॥

यदाक्षरादिसकारान्तविभेर्ते सप्तधारायः।
हकार आत्मसमं तै हकार क्रोध उच्यते।
एवं xxxx xxxxxxxxxxx”॥

एवं स्मृतौपुराआदौ च वर्णानांदेवाभयत्वञ्च बहुधाकथितम्। अत तु विस्तृतिभिया सर्वं न दर्शितम्।

अत महामहोपाध्यायश्रीचन्द्रकान्ततर्कालङ्कारप्रभृतीनां
पण्डितानां स्वाक्षरमस्तीति।
श्रीविश्वेश्वरभागवतशिरोमणिः।

ब्रह्मचर्य्यम्।

(१८१६ शाकीय फाल्गुनxxxxxx)

ते तमर्थमपृच्छन्त देवानागतमन्यवः।
देवाश्चैतान् समेत्योचुर्न्यय्यं वः शिशुरुक्तवान्॥१५२॥

  1. They, moved with resentment, asked the gods concerning that matter, and the gods, having assembled, answered, ‘The child has addressed you properly’.

अज्ञोभवति वै बालःपिता भवति मन्त्रदः।
अज्ञंहि बालमित्याहुः पितेत्येवतु मन्त्रदम्॥१५३॥

153 ‘For (amai) destitute of (sacred) knowledge is indeed a child, and he who teaches him the Veda is his father; for (the sages) havealways said “child” to an ignorant man, and “father” to a teacher of the Veda’.

न हायणैर्नपलितैर्न वित्तेन न वस्तुभिः।
ऋषयश्चक्रिरेधर्म्मं योऽनुचाजः स नोमहान्॥१५४॥

  1. Neither through years, nor through white (hairs), nor through wealth, nor through (powerful) kinsmen (comes greatness). The sages have made this law, He who has learnt the Veda together with the Angas (Anukana) is (considered) great by us’.

विप्राणां ज्ञानतो जैष्ठ्यं क्षत्रियाणान्तु वीर्य्यतः।
वैश्याणांधान्यधनतः शूद्राणामेव जन्मतः॥१५५॥

** **155. The seniority of Brahmanas is from (sacred)

knowledge, that of Kshatriyas from valour, that of Vaisyas from wealth in grain (and other goods), but that of Sudras alone from age.

न तेन वृद्धो भवति येनास्य पलितं शिरः।
यो वै युवाप्यधीयानस्तं देवाःस्थविरं विदुः॥१५६॥

** **156. A man is not therefore (considered) venerable because his head is gray; him who, though young, has learned the Veda, the gods consider to be venerable.

यथा काष्ठमयो हस्तौ यथा चर्म्ममयो मृगः।
यश्च विप्रोऽनधीयानस्त्रयस्ते नाम विभ्रति॥१५७॥

** **157. As an elephant made of wood, as an antelope made of leather, such is an unlearned Brahmana; those three have nothing but the names (of their kind),

यथा षण्डोऽफलः स्त्रीषु यथा गौर्गवि चाफला।
यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः॥१५८॥

** **158. As a eunuch is unproductive with women, as a cow with a cow is unprolific, and as a gift made to an ignorant man yields no reward, even so is a Brahmana useless, who (does) not (know) the Rikas.

अहिंसयैव भूतानां कार्य्यंश्रेयोऽनुशासनम्।
वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्म्ममिच्छता॥१५९॥

** **159. Created beings must be instructed in (what concerns) their welfare without giving them pain, and sweet and gentle speech must be used by (a teacher) who desires (to abide by) the sacred law.

यस्य वाङ्मनसे शुद्धे सम्यग्गुप्ते च सर्वदा।
स वै सर्वमवाप्नोति वेदान्तोपगतं फलम्॥१६०॥

** **160. He, forsooth, whose speech and thoughts are pure and ever perfectly guarded, gains the wholereward which is conferred by the Vedanta.

नारुन्तुदः स्यादार्त्तोऽपि न परद्रोहकर्म्मधीः।
ययास्योद्विजते वाचा नालोक्यां तामुदीरयेत्॥१६१॥

** **161. Let him not, even though in pain, (speakwords) cutting (others) to the quick; let him not injure others in thought or deed; let him not utter speeches which make (others) afraid of him, since that will prevent him from gaining heaven.

सम्मानाद्ब्राह्मणो नित्यसुद्विजेत विषादिव।
अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा॥१६२॥

** **162. A Brahmana should always fear homage asif it were poison; and constanly desire (to suffer)scorn as (he would long for) nectar.

सुखं ह्यवमतः शेते सुखञ्च प्रति बुध्यते।
सुखञ्चरति लोकेऽस्मिन्नवमन्ता विनश्यति॥१६३॥

** **163. For he who is scorned (nevertheless may) sleep with an easy mind, awake with an easy mind, and with an easy mind walk here among men; but the scorner utterly perishes.

अनेन क्रमयोगेण संस्कृतात्मा द्विजः शनैः।
गुरौ वसन् सञ्चिनुयाद्ब्रह्मादिगमिकं तपः॥१६४॥

  1. A twice-born man who has been sanctifiedby the (employment of) the means, (described above)

in due order, shall gradually and cumulatively perform the various austerities prescribed for (those who) study the Veda.

तपोविशेषैर्विविधैर्व्रतैश्चविधिचोदितैः।
वेदः कृत्स्नोऽधिगन्तव्यःसरहस्यो द्विजन्तना॥१६५॥

  1. An Aryan must study the whole Veda together with the Rahusyes, performing at the same time various kinds of austerities and the vows prescribed by the rules (of the Veda).

वेदमेव सदाभ्यस्येत्तपस्तप्स्यन्द्विजोत्तमः।
वेदाभ्यासो हि विप्रस्यतपः परमिहोच्यते॥१६६॥

  1. Let a Brahmana who desires to perform austerities, constantly repeat the Veda; for the study of the Veda is declared (to be) in this world the highest austerity for a Brahmana.

आहैव स नस्ताग्रेभ्यः परमं तप्यते तपः।
यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायां शक्तितोऽन्वहम्॥१६७॥

  1. Verily, that twice-born man performs the highest austerity up to the extremities of his nails, who, though wearing a garland, daily recites the Veda in private to the utmost of his ability.

योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम्।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः॥१६८॥

  1. A twice-born man who, not having studied the Veda, applies himself to other (and worldly study), soon falls, even while living, to the condition of a Sudra and his descendants (after him.)

श्रीश्रीदुर्गा शरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-173142524051.jpg”/>

श्री श्री गणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्ती जनानिव।
मायाबलम्ब्यते सेयनम्बाश्रीशिवसुन्दरी॥

<MISSING_FIG href=”../books_images/U-IMG-173142557858.jpg”/>

मासावतरणिका।

आकर्षति स्मपरनिघ्रतवैकतोऽस्मान् सङ्गेप्सुभिः प्रियजनैर्भृतिकांश्चतत्र।
भावंकियत्क्षणमतोऽधिगतांस्त्रिशङ्कोः कर्म्मस्थलाय किल कार्त्तिक अगतोऽसौ।

उद्भटलोकाः।

<MISSING_FIG href=”../books_images/U-IMG-173142550853.jpg”/>

“पृथ्वी तावदियं महत्सु महतीतद्वेष्टनं वारिधिः
पीतोऽसौ कलसोद्भवेन मुनिना स व्योम्निखद्योतवत्।
तद्विणोर्दनुजारिनाथमथने पूर्णं पदं नाभवत्
तद्देवो वसति त्वदीयहृदये त्वत्त्वोसहान् नापरः॥२२८॥(१31)

“अहो विधातः शिशुता तवैव अकारणं त्रीणिचकार यस्मात्।
चक्षुः प्रशस्तं विपिने मृगाणां दाताधनो वित्तमदातुरेव॥२२९॥ (२32)

“गन्धःसुवर्णे फलमिक्षुदण्डे नाकारि पुष्पं खलु चन्दनेऽपि।
विद्यानुरागीन व दीर्घजीवी धातुःपुरे कापि न युक्तिरासीत्॥१३०॥

“आतरलाघवहेतोर्मुरहर! तरणीं तवावलम्बे।
अपणं पणमिह कुरुषे नाविकपुरुषे न विश्वासः॥‘२३९॥ (३33)

शिवाष्टकम्।

<MISSING_FIG href=”../books_images/U-IMG-173142623659.jpg”/>

शीतांशुशुभ्रकलया कलितोत्तमाङ्गं
ध्यानस्थितं धरणिभृत्तनयार्चितं तम्।
कालानलोपमहलाहलकृष्णाकण्ठं
विश्वेश्वरं कलिमलापहरं नमामि॥१॥

गायन्ति यस्य चरितानि महाद्भुतानि
पद्मोद्भवोद्भवमुखाः सततं मुनीन्द्राः।
ध्यायन्ति यं यसिनमिन्दुकलावतंसं
सन्तः समाधिनिरतास्तमहं नमामि॥२॥

त्रैलोक्यमेतदखिलं ससुरासुरञ्च
भस्मीभवेद्यदि न यो दययार्द्रदेहः।
पीत्वाऽहरद्गरलमाशु मयं तदुत्थं
विश्वावनैकनिरताय नमोऽस्तु तस्मै॥३॥

पापप्रसाधनरता दितिजा अपीन्द्रं
सद्यो विजित्य सुरधामधराधिपत्यम्।
यस्य प्रसादबललेशवशादवाप्ताः
तस्मै ममास्तु विनतिः परमेश्वराय॥४॥

नो शक्यमुग्रतपसाऽपि युगान्तरेण
प्राप्तुं यदन्यसुरपुङ्गवतस्तदेव।
भक्तया सकृन्नततयैव सदा ददाति
यो, नौमि नम्रशिरसा च तमाशुतोषम्॥५॥

भूतिप्रियोऽपि वितरत्यनिशं विभूतिं
भक्ताय, यः फणिगणानपि धारयन् सन्।
हन्ति प्रचण्डभवभीमभुजङ्गभीतिं
तस्मै नमोऽस्तु सततं मम शङ्कराय॥६॥

येषां भयेन विबुधा रजनीचराणां
नो तत्त्यजुर्हिममहीध्रगुहागृहाणि।
हत्वा ददौ समिति तानपि शैवधाम
त्वत्तः परोऽस्ति परमेश्वर! को दयालुः॥७॥

अर्चा कृता न च जजाप कदापि नाम
नो भक्तवत्सल! कृतं तव किञ्चिदन्यत्।
वीक्ष्य स्वपादकमलोपनतं तथापि
मां पाहि कारुणिकमौलिमणेमहेश॥८॥

महावीरप्रसादो यो द्विवेदिकुलसम्भवः।
स भक्त्या परया युक्तश्चकारेदं शिवाष्टकम्॥९॥

द्विवेदिनो महावीरप्रसादस्य (झांसी)

_________

दशापरिणतौ।

<MISSING_FIG href=”../books_images/U-IMG-173142697060.jpg”/>

द्वितीयभागः।

कुवेरचन्द्रस्तु चिराय तं प्रतीक्षमाणोऽपि तमनागतमवेक्ष्ययावद्दिष्टपरिणतिं विचिन्तयति तावदेव परिस्फुरद्गुणवृक्षकां काञ्चन कृपामिव मूर्त्तिं परेशस्य नावमद्राक्षीत्। स्वयन्तु दिगम्बरो नौस्थेभ्य आत्मानं गोपयितुमियेष दीर्घमुष्णां च निशश्वास विषसाद च विलोक्यात्मनोऽवस्थाम्।

अथ क्रमेण तीरमुपगतायां तरण्यां निःक्षिप्तकाष्ठकुद्दालैश्च नियामकैर्नियमितायां तत्रस्थाः केऽपि महाशया अवतीर्य्य यत्रैव निलीयात्मानं स्थितः कुवेरचन्द्रस्तत्रैव दिष्ट्यासमाजग्मुः। कुवेरचन्द्रस्तु अधिकाधिकं लज्जते। ते तु तं गम्भीराकारानुमेयं महाभाग्यं विपरीतभाग्यतया निमज्जन्तमिव दुःखाब्धौ सम्यगवलोक्य

दयमाना महार्हाणि स्ववसनानि प्रादासिषुरवादिषुश्च महाभाग! को भवान् कथं चेयं तवावस्थेति। सोऽपि निःशेषमात्मनो वृत्तमकथयत्, तदाकर्ण्यंविषणेषु प्रयातेषु च तेषु वसनलाभमपि शुभोदर्कमेव तर्कयन् भृत्यगतमेव नगरं जगाम।तत्र च कस्यचिन्महाभागस्य विपणीलेखकीभूय स्थितः। कुवेरचन्द्रसंसर्गाच्चतस्य वणिजो लाभोऽत्यधिकमुत्कृष्यते वा। तेन स श्रेष्ठीकुवेरचन्द्रे प्रतिदिनमधिकाधिकां प्रीतिमकार्षीत्। अथ गच्छता कालेन स सकलेष्वपि नगरेषु महीयसीं प्रसिद्धिमुपगतः सर्वेऽपि तस्मिन्नयं प्रामाणिक इति बाढ़ं विशश्वसुः।

अथैकदा कुवेरचन्द्रः प्राभातिकं विधिं निर्वर्त्तयितुं सरित्पतेः प्रतीरमुपगतः परिपूर्णनाव्यां भव्यां काञ्चन क्रय्यां नावमद्राक्षीत्। सा यावत्तौरमभ्युपैति तावदेव तत्रत्याः पोतवणिजः“भो! विक्रीयतामिदं नाव्यमग्रिममूल्येन” इत्युच्चैरुदघोषयन्। तदाकर्ण्यं कुवेरचन्द्रः सपदि तत्सकाशमागत्य नाव्यस्य मूल्यमप्राक्षीत्। ततस्तैर्दशसहस्रमुद्रिका इत्युक्ते सांयात्रिककलाप्रवीणःकुवेरुचन्द्रस्तत्र निश्चितमात्मनो लाभं विभावयन् सानन्दं तदभ्युपागच्छत् प्रायच्छच्च सत्यङ्कारम्। एवं वृत्ते तत्रागता अन्येऽपि व्यवहारिणः कुवेरचन्द्रं सानुनयाभ्यर्थयामासुः “महाशय! वयं ते पञ्चदशसहस्रमुद्रिकाः प्रयच्छामो दीयतामेतन्नाव्यमस्मभ्यम्” इति। स त्ववोचत दास्यामि यदि दीयन्ते विंशतिसहस्रमुद्रिका इति तैरपि तथेत्यङ्गीकृते गृहीतविंशतिसहस्रमुद्रिको नौस्थपोतवणिग्म्यो नाव्यमूल्यं दशसहस्रमुद्रा वितीर्य्यगृहीतदशसहस्रमुद्रः स्वस्वामिनोमन्दिरमुपागच्छत्। तदवलोक्य सकौतूहलःस्वामी पप्रच्छ भोः कुत इदन्ते द्रव्यमिति सोऽपि समग्रमात्मनो वृत्तान्तमाचष्ट। ततः सञ्जातानन्दः स्वामी स्वकन्याया अनुरूपं तमेव वरं मन्यमानः कुवेरचन्द्रेण स्वात्मजांमारमञ्जरीं नामान्वर्थनामिकां पर्य्यणाययत्। अभाषत च

“महाशय! न मे वर्त्तते पुत्रः किन्तु कन्यैवेयमेकाकिमी जीवितसर्वस्वादिष्ट्याच सकलकलाप्रवीणो भवानेवास्या वरः सम्पन्नः तत्कृपयेयं जीवितनिर्विशेषं परिपाल्यताम्। किञ्च येयमेतावतीमे सम्पत् सेयं भवत एवाशेषा तदेतस्मिन्नेवमन्दिरे सभार्य्येण भवता स्थीयताम्” इति। सोऽपि सानन्दं महानयं प्रसाद इति मत्वा तत्रैवावात्सीत्। गच्छता कालेन च कुवेरचन्द्रस्य भार्य्या ऋतुमती बभूव। काभिश्चन समाभिश्च पुत्रं प्रासोष्ट। एवं सन्तीर्णापदर्णवः पूर्वाभ्यधिकां सम्पदमुपगतः कुवेरचन्द्रः कदाचिदान्दोलिकायामुपविष्टः “अस्ति कश्चित काष्ठजिघृक्षुः” इत्युच्चैः शब्दमशृणोत् मेने च चिरपरिचित एवायं ध्वनिरिति। ततो भृत्यमाहूय आहूयतां काष्ठविक्रेतेत्यब्रूत। तेन चाहूते स्वस्वामिवञ्चनपातकभारमिव काष्ठभारं स्वशिरसि निदधानमागच्छन्तमात्मनो भूतपूर्वं भृत्यमेवापश्यत्। अवादीच्च सप्रणयगङ्गदम् अयि जीवितनिर्विशेष चित्तानन्द! कुत इयं तवावस्थेति सोऽपि सापत्रपः सर्वमप्यात्मनो वृत्तं यथावदभिधाय क्षमामयाचत। कुवेरचन्द्रोऽपि महाशयः क्षान्तापराधः तं पर्य्यपालयत् चिराय च सुखमनुभवन्नुवास।

इति दशापरिणतौद्वितीयो भागः।
समाप्तश्चायं प्रबन्धः।

राशिवड़े करोपाह्वस्य।
अप्पाशास्त्रिणः (कोह्लापुर)

____________

(दशा-सादृश्यम्)

<MISSING_FIG href=”../books_images/U-IMG-173138675655.jpg”/>

कथं विषणोऽसि मलीमसास्यो? विलोक्यसे दुःखकराक्तचित्तः।
कथन्नु वा त्वं? तवकोऽप्वभावो न दृश्यते चिन्तयताऽपि दूरम्॥१॥

सौधे महार्हे शयने स्थितस्य यूतोऽस्य दासैरभिषेवितस्य।
अवस्थया स्वांविषसामवस्थां समाहितः सन् परिमासि किं त्वम्?॥२॥

पुनःपुनश्चिन्तयतापि नैवसमीक्ष्यते कञ्चन रम्यभोग्यः।
धरासनात्त्वत् रजनीशशुभ्रसौधस्थितस्यापि ध्रुवं महार्घः॥३॥

अस्यैकगम्योरथ एकवर्त्मासीमाभिभूत स्तव कल्पनैव।
अनन्तवर्त्माबहुगम्यदेशोरथोपसीमा सततं प्रयाति॥४॥

निपीय धात्य्राननु वत्सलायाः स्वन्यं युवासौ ववृधे चिरेण।
क्रोड़े प्रकृत्या रुचिरे सुखेन श्लाघ्यैरुपायै रुपचीयसे त्वम्॥५॥

असौ नवं शास्त्रमधीत्य यद् यत् ज्ञानं समापद्यत नैव नैव।
विजानतस्ते खलु विश्वशास्त्रं ज्ञानस्य पूर्णस्य तुलां तदाप॥६॥

उत्पद्यमाना व्यजनात्कथञ्चिदमुं पुरस्तात् परितर्पयन्ति
धीराः समीराः सततं भवन्तं विचुम्बिताम्भोज सरित्तरङ्गाः॥७॥

उत्तुङ्ग मातङ्ग ममुं तुरङ्गमारुह्य यूनेह समुत्पथेन।
वम्भ्रम्यते किन्तु सदध्वनैव त्वया सुखेनोग्रतरं विवेकं॥८॥

विचित्रचित्रालय एष सौधो विनिर्म्ममेशिल्पिभिरस्य भोग्यः।
शिल्पिप्रधानेन परन्त्वदर्थं गुहागृहं प्राक्वतचित्ररम्यम्॥९॥

न याचकान्नानलतो न चौरात् सपत्नजातादपि नो विभेषि।
त्त्वं, किन्त्वयं क्षुभ्यति नित्यमेभ्यो वतागमिष्यद्भयमोक्षमाणः॥१०॥

स्वप्नेऽप्ययं वित्तमपेक्षमाणो नापद्यते प्रीतिसुखं कदाचित्।
समोक्ष्यसे त्त्वं न कथञ्चनापि शान्तेरभावेन विनष्टलिप्सः॥११॥

धनस्पृहोप्रप्लुतशान्तचित्तः पुत्रो यथा कामयते वियोगम्।
अमुष्यः हिंसाप्रवणस्तथा ते धरासपत्नोऽपि न हीनशत्रोः॥१२॥

युवानमेनं प्रतिभाप्रधानं स्तौतीव विज्ञः प्रतिभा-मनोज्ञम्।
चरित्रवन्तं सततं भवन्तं शास्त्रानभिज्ञोऽपि सदानुकुर्य्यात्॥१३॥

अस्य प्रदीपाः किल तैलपूराः सौधास्थितं वस्तु विकाशयन्ति।
भवद्गृहान्योषधि-यामिनीश ज्योतिर्भिरेव स्फुटमाविभाति॥१४॥

भीत्या ह्निया भाविमहोपकारप्राप्ताशयाप्येन मही श्रयन्ति।
देहेन; किन्तु त्वयि सर्व एव वध्नन्ति भक्तिं मनसापि काम्ये॥१५॥

केका मयूरस्य विहङ्गनादानीषद्विकम्पं कुसुमाक्तवल्ल्याः।
श्रुत्वा समीक्ष्यापि यथा सुखीस्याः नासौ तथा स्त्रीजनगीतनृत्यैः॥१६॥

पुत्रायमाना विहगा निरौहा मृगा मयूराश्च सदा भवन्तम्।
सन्तोषयन्तीह यथा तथैनमभ्यागताः स्वार्थ निरुद्ध नेत्नाः॥१७॥

नीलानि पत्रानि समुज्ज्वलन्ति नीरन्ध्रसुस्निग्धरसायनानि।
यथातपेभ्यः परिरक्ष्यशान्तिं ददात्यहोनामलमातपत्रम्॥१८॥

शुधांशुकान्तादि विभूषितेऽयं सस्त्रीजनेऽस्मिन् रमते सुखेन।
सपुष्प-गुज्जन्-मधुप-द्विजालिलतावला मण्डितमण्डपे त्वम्॥१९॥

आराम मन्तर्धृत रत्नशाखि-लतं युवायं स्मयमान आस्ते।
पश्यन्, भवान् नित्यमरण्यमेतत् नीरन्ध्रपुष्पावलिवल्लरीकं॥२०॥

बालैः सदामोदकरैर्मनीज्ञैःक्रीड़त्यसावस्फुट चारु वाग्भिः।
भवानपत्यैर्ननु दुग्धपोष्यैः कुरङ्ग-मातङ्ग-पतङ्गकानाम्॥२१॥

एकान्तविस्रब्धमभीक्षमाणैर्मृगैर्मयूरैर्विहगगैर्द्विजैश्च।
प्रमोदकृद्भिः स्वजनैश्च नित्यं भवानसौ साध्वनुगम्यमानः॥॥२२॥

समीरणापूरितरन्ध्रकाणां सुखखनानां किल कीचकानाम्।
वीणा विशेषस्य च रम्यनादं श्रुत्त्वा भवानेष च कौतुकीस्यात्॥२३॥

मध्यन्दिनार्कप्रतिमःप्रजानां देहानयं साध्वसकातराणाम्।
क्रान्ता परेषामपि मानसानि भवान् शरच्चन्द्रनिभो विभाति॥२४॥

स्थिरायमाणे मलवर्ज्जिते च सद्दर्पणेऽसौ प्रतिविम्बितः स्यात्।
ज्योतिर्वलेनैव, भवान् मनुष्यचित्तेऽन्धकारेष्वपि भक्तिपात्रम्॥२५॥

सुखादुभोज्यं मधुरं सुपेयं ददात्यमुष्मैननु सूपकारः।
स्वभावजं किञ्चन वस्तुजातं सुधोपमं ते प्रकृतिः शरण्या॥२६॥

मुखासनं शारदपार्वणेन्दु-शुभ्रांशु-सङ्काशमलङ्करोति।
अयं, भवान् लोहित-शुक्ल नील-दुर्वा प्रवालाश्रितमद्भुतं तत्॥२७॥

प्रीतिप्रदं सुन्दरचित्रचित्रं चन्द्रातपं पश्यति संस्पृहोऽयम्।
पूर्णेन्दुनक्षत्रविचित्रितं त्वं नीलाम्बरं प्राकृतरम्यमेव॥२८॥

अमन्दमन्दाशन-खिन्नदेहमेकाकिनं त्वामिव मृत्युरेनम्।
स-शस्त्र सेन्यावृत मिष्टभोज्यपुष्टं भुजैराह्वयतीह नित्यम्॥२९॥

अथानलेनेन्धन-वर्द्धितेन भस्मीभवेत्तेऽस्य च देह एषः।
महत्सु भूतेषु समर्प्य भागं स्वं स्वं ध्रुवं यास्यति लुप्तभावम्॥३०॥

ततो दशा कस्य नु! कीदृशीस्यादहं न जाने भगवानवैति।
अदृष्ठ-कालोदरमध्यवस्तु के मादृशा वेत्तुमहो! विमूढाः॥३१॥

(नारायणार्पणमस्तु)

श्रीअन्नदाचरणतर्चचूल्लामणिः
नोयाखाली-सोमपाड़ा।

__________

सती छाया।

(पूर्वतोऽनुवृत्ता)

अर्द्धघटिकामतीत्य प्रायःप्राप्तचेतना बभूवेन्द्रप्रिया साश्रुनयना कथयति “ज्ञातवार्त्ता भवत्यः कोऽयं वरः” सूतिकादासी कथयति “को न जानाति मातः! असौ श्यामापणस्थस्य महाराजस्य मनोमोहनरायस्य पुत्रःकुमारो रमणीमोहनः।” श्रुत्वैतदिन्द्रप्रिया रोरुद्यमाना निरागसं बालिकामालोकितुमारब्धवती। तस्यां रात्रौ वारमेकमपि न सा निद्रितवती।

षष्ठाहे आपणिकः। कञ्चिद्ब्राह्मणमानिनाय, स च सूतिकाषष्ठीं पूजयित्वा सपुत्रीं प्रसूतिं शान्तिजलेन अभिषिञ्चति। इन्द्रप्रिया तस्मै रूपकपञ्चकं प्रदाय प्रणमति। दत्ताशीश्च ब्राह्मणः प्रहृष्टो निर्य्ययौ।

दिवावसाने आपणगृहस्य कस्मिंश्चित् प्रकोष्ठे यशोदा वामा च इन्द्रप्रियासन्निधौउपविशतः। इन्द्रप्रिया सवास्यनयना कथयति “यशोदे! न ते सेवायाः निष्क्रयः तथापि किञ्चित् गृहाण!” “वामे! त्वमपि भगिनीनिर्विशेषं मां सुश्रूषितवतीत्वमपि मदीयस्मरणार्थं किञ्चित् स्वीकुरु” इत्युक्त्वास्वाङ्गादुन्मुच्य केयूरं यशोदायै वलयञ्च वामायै प्रददाति। यशोदा वामा च तदादातुमनिच्छन्त्यी अपि तस्या आग्रहेण गृह्णीतः। इन्द्रप्रिया कथयति काञ्चीं विक्रीय व्ययं निर्वाहितवती, शङ्खवलयमात्रमेव हस्ते मे विराजतु।या तु ग्रीवायां मुक्तामालाद्वयीवर्त्तते ततः एका माला मन्दभागिन्या अस्याः कृते तिष्ठतु, अपरा च व्ययनिर्वाहार्थम्। एतद्वर्जं शिल्पं विधायापि कथञ्चिदर्जितुमर्थं प्रभवामि। यशोदे! त्वम् अयि वामे! त्वञ्च यदि मत्प्रदत्तमलङ्कारं नाग्रहीष्यत् तदा मर्म्माहत दुःखं मानुपातापयिष्यत्। नाहं प्राणानेतानग्रहिष्यं यशोदे! त्वमेव तत्र प्रतिबन्धिका जाता। इदानीं वाटीयमेव मे गृहं युवामेव मेभगिन्यौ। भवत्यौ चेत् सुखिन्यौ तदैवाहं सुखिनीस्याम्। दुःखभागिन्या अस्या बालिकाया अस्मिन् जगति कोऽपि नास्ति, गृहीत्वाप्युच्चैः कुले जन्म नीचैरेवं कोऽपि न भवेत्। पवित्रंजन्म लब्धापि कलङ्कितं नाम कोऽपि न गृह्णाति। अहमिमां यथाशक्ति शिक्षयामि यथाहमिव प्रतारिता न स्यादिति।

यादृशमकलङ्गंसौन्दर्य्यमियं प्राप्तवतीतादृशमेव यथा सती नाम रक्षितुं समर्था स्यात्। अनेके संस्कारविशेषेण नाम कुर्वते, किन्तु वीतभाग्याया अस्याः को नाम संस्कारविधिना नाम करिष्यति? अद्याहं तनयाया यन्नामाभिलषामि तत् प्रकाशयाम्यग्रतो वां “सतीछाया” इति। यथा छाया सती शान्तिसुखेन जगदाप्यायते, तथैवेयं मे दुःखिनीपवित्रेण चरित्रेण जगत् प्रीणयितुं शक्नुयात्। इन्द्रप्रिया इत्येवं ब्रुवाणा पौनःपुन्येन कन्यावदनं चुम्बति। सिञ्चतीव नयनसलिलेन तनयाकृतिम्।

शरदाविरस्ति, एकदा इन्द्रप्रिया सायं क्रोड़मारोप्य कन्यां एकतलच्छदिषि दण्डायमाना तिष्ठति, बालिका चआकाशंदरीदृश्यते। ज्योत्स्नाजालं व्योम समावृणोति। प्रवहमाणश्च शरत्समीरणो जीवकुलमानन्दयति। कलिकातानगरीं लोककोलाहलः पूरयति। चलत्-क्रय्यिणः34तत्तन्नाम चीत्कृत्य क्रेतारमाह्वयन्ति घोटकशकटवाहिकाः हे हे विलासिनः! हे हे विलासिनः! शकटमिदमारोहतु सर्वस्मात् द्रुतं सुखञ्चनेष्यामि इत्येवं ब्रुवन्तः आरोहकान् किं कर्त्तव्यविमूढ़ान् कुर्वन्ति।

अस्मिन्नेवकाले यशोदा दीर्घश्वासं धावन्ती कथयति “अयि इन्द्रप्रिये! तव प्रसूति; भ्राता च अत्रोपतिष्ठते”।

इन्द्रप्रिया शुष्ककण्ठा कथयति कुत्रासाते तौ? यशोदा कथयति “आपणगृहस्य पार्श्वस्थगृहे” इन्द्रप्रिया तुष्णीमश्रूणि पातयति, लज्जया हृदयं वेपते। यशोदा सव्यग्रा कथयति “किं कर्त्तव्यं शीघ्रमुपदिश” इन्द्रप्रिया धीरं कथयति अयि यशोदे! पत्रं लिखितुं सामग्रीमुपहर।

द्रुतपदा सा लेखनसामग्रीमुपस्थापयति। लिखित्वा च पत्रं यशोदाहस्तेसमर्प्यपुनः पुनः कन्याननं चुम्बित्वा सदीर्घनिःश्वासं कन्यां यशोदाक्रोड़े समर्प्य कथयति, “याहि यशोदे मातुः समीपम्” यशोदायां व्रजन्त्यां निःशब्दमिन्द्रप्रिया छदिषः अवरोहति।

यशोदा भीतभीता पुरातणप्रभोः सम्मुखीना भवति, नरेन्द्रघोषस्य दृष्टिःयशोदा-क्रोड़स्थबालिकायां निपतति। बालिकायाः कण्ठे मुक्तामाला द्विगुणतरमुद्भाषयति बालिकावर्णम्। नरेन्द्रस्तु तां दृष्ट्वा स्नेहार्द्रोभवति। भवति च तच्चक्षुर्जलभारेणाक्रान्तम्। महार्घञ्च हारमालोक्य बालिकाकण्ठे निश्चिकाय नेयं दरिद्रवंशे जन्म जग्राह।

इन्द्रप्रियाया माता उच्चैःकुलाभिमानिनीसरोषा कर्कशमाह अरे अकृतज्ञे! पापीयासि! कुलकलङ्गिनी सा क्वास्ते? सा किं कामपि कथामावयोः समीपे न प्रकाशयिष्यति? अपि सा नीचैर्दशया सुखिनी? या तां कुपथं परिचालयति सा क्वास्ते? किंनाम तस्याः? अपि किं तत् कलङ्गिनीन व्यक्तीकरिष्यति?

यशोदा अश्वत्थपत्रवद्वेपमाना इन्द्रप्रियाप्रदत्तं पत्रंप्रत्यर्पयति। नरेन्द्रघोषस्तु तत् पठितुं प्रवर्त्तते। (पत्रम्)

अयि मातः! अयि भ्रातः! कुलकलङ्किनीयं नैव विलोकयितुं वदनं वामभिलषति, अधुनैतत् प्रार्थनीयं चिरदुःखिनीमिमां “सतीछायां” गृहाण, नास्याः कोऽप्यपराधः? अस्यै साधु शिक्षयतु, यथा न मद्विधा प्रतारिता भवेत्। समधिकं लिखितुं नैव साहसं भजामि, तथापि निश्चयं जानीहि यद्यपि लोकतः कलङ्कं स्पृशामि, तथापि धर्म्मतः कलङ्कं न लभेय।यशोदा किमपि नापराध्यति नार्हत्यतःकमपि दण्डम्।कुलजाप्यहं विनीतापि प्रतारणां लेभे, नीचजातीया अशिक्षिता च सा अवला कथमिव दोषमुपैति। प्रार्थनेयं दुःखिन्या यथा नैव विफलतामेति तथैव व्यवहर्त्तव्यम् इति।

इन्द्रप्रिया-माता कथयति अयियशोदे! आद्योपान्तं समस्तञ्च वृत्तान्तं यद्यवितथं ब्रूयास्तदा न लभेयाः शास्तिम्।नो चेत् काराबन्धनं लप्स्यसे।

यशोदा तु बद्धाञ्जलिःमुद्रासहस्रलाभवर्जम् आदितः प्रभृति सर्वमेव वृत्तान्तं यथावत् कथयति। श्रुत्वा च इन्द्रप्रिया-माता यशोदाभाषितं स्तम्भिता तिष्ठति। करुणानिधानःनरेन्द्रस्तु सस्नेहं भागिनेयीं क्रोड़मानीय यशोदामाह “यशोदे! अत्रागन्तुमिन्द्रप्रियामाह्वय।”

यशोदा द्रुतपदा तामानेतुं गच्छति। इति।

इति तृतीयः परिच्छेदः।

सती छाया।

<MISSING_FIG href=”../books_images/U-IMG-173139386348.jpg”/>

चतुर्थपरिच्छेदः।

(यतीन्द्रवाहादुर)

“आत्मानमादर्शयते पुरोगिरौ, यदा रवीरक्तिमरोचिषान्वितः।
विभ्राषयेच्चाम्बरमम्बुजन्तदा प्रहृष्टचेतो वदनं विकाशयेत्॥”

तदा शरच्चन्द्रो गगणं सुधया प्लावयति। जनन्यस्तु क्रोड़े निधाय तनयं चन्द्रमसमाह्वयन्त्यूर्द्धहस्ताः सदृशीकुर्वन्ति च तनयाननेन, अस्मिंस्तु मधुमये समये इन्द्रप्रिया-माता दुरत्ययां चिन्तामाप्नुवन्ती विषणमुखी उपविशति। कृतविलम्बां यशोदामालोक्य नरेन्द्रः सचिन्तश्चउद्विजते। क्षणमतीत्य यशोदा आगत्य सभया विस्मिता च कथयति “इन्द्रप्रिया गृहेनास्तौति पश्यामि।”

श्रुत्वैतन्माता भ्राता च युगपत् सत्रासमाहतुः तत् किमिति, कथमिति? यशोदाह “निपुणमनुसन्धायापि न क्वापि इन्द्रप्रियां नावलोकये।

नरेन्द्रोऽपि सोत्कण्ठः भागिनेयीं यशोदाक्रोड़े समर्प्य कथयति अहमप्येकधा पश्यामि क्वास्ते इन्द्रप्रियेति, किन्तु न कुत्रापि तस्यादर्शनं लब्ध्वानिराशःप्रतिनिवृत्तश्च सनिर्वेदं मातरमाह “मातः! सर्व एव क्लेशो विफलीभूतः, कस्या मोचयामि कलङ्कं तैस्तैरुपायैः? मातः! वामे विधौ न प्रभवति कोऽपि प्रतिकर्त्तुम्, अन्यथा अस्मिन्नेव सुसमये कथं तस्या बुद्धिर्विपर्य्येति। कथं वात्मनोऽहितमाचरन्ती स्वयमेव स्वपदे कुठारमाहन्ति।

जुगुप्सया लज्जया च मर्म्मवेदना माता अनुभवन्तीकथयति “अरे नरेन्द्र! तथाविधकन्यार्थं न पुनरहं दूये न वा कातर्य्यमाश्रये, या खलु पुनः पुनरपमानमेवंविधमसोढ़मिव शूलमनुभाव-

यति, न पुनरिच्छामि तां स्वीकर्त्तुमिति। तर्हि निरागसमिमां कथमिव परिहास्यामि तदेनामादाय स्वगृहं प्रतिगच्छ।

अपिच यदि सा मन्दभागिनी साधु जीवति तदा जीव्यात्, नो चेत् सत्त्वरमेव भारभूता पृथिव्या अपसरतु शीघ्रम्। नरेन्द्रस्तु यशोदामाह “अत्र कोऽपि इन्द्रप्रियासन्निधौ प्रतिशोध्यम् ऋणं लप्स्यते” यशोदाह"न हीति” श्रुत्वैतत् नरेन्द्रः यशोदामाभाष्य समारुह्य च शकटमेकं समादाय च भागिनेयीं कोननगराभिमुखं प्रतिष्ठति।

भन्दभागिनी छाया सतीमातुलालय एव पालिता वर्द्धते। विशेषेण न कोऽपि तां स्निह्यति, वृद्धा च मातामही कदापि न सस्नेहं वीक्षतेऽपि। केवलं मातुलस्यैव नरेन्द्रघोषस्य तस्यां बालिकायां स्नेहपरिपूता दृष्टिःवरीवर्द्धते। यद्यपि कदापि मातामहि! इति सुललितं छायासतीसंबोधयति तदैव “नरेन्द्रमाता सरोषमाक्रुश्य तां तुष्णीं करोति। नरेन्द्रवनितापि न च स्निह्यति, प्रत्युत तिरस्कर्त्तुमेव सदा पटीयसी यतते।

छाया सती बालिकास्वभावतः कदाचित् हसति रोदिति तुष्णीम्भवति क्रीड़ति च स्वयम्। स्नेहमयस्तु मातुलः नरेन्द्रः “अयि मातुल! सुमधुरम् इत्याह्वयमानां सतीछायां प्रसार्य्य बाहुं क्रीड़ंनयति, स्निह्यति, भक्षयति, स्नपयति शाययति च।

नरेन्द्रघोषस्य वाटीं निकषा माननीयस्य भूम्यधिकारिणः श्रीउमाकान्तवाहादुरस्य भवनम्। स तु अशीतिवर्षवयस्कः पुत्रेण हीनः, एकमेवावलम्बनं जीवनस्यपौत्रः श्रीयतीवाहादुरः। यतीन्द्रस्तु विंशतिवर्षदेश्यः। मूर्त्त्यासौ देवप्रतिकृतिः, कान्त्यासौ दलितहरितालः, गुणा अपि तस्य रूपमेवानुकुर्वते। जितेन्द्रियः सत्यप्रियः मधुरभाषी, परहितैषीच किमधिकं सत्पुरुषोचितास्तावन्त एव
गुणास्तस्मिन्नद्रोहं विराजन्ते। यतीन्द्रः पित्रामात्रा च विहीनः।

बालकमल्पवयस्कं पोषयितुं नास्त्यन्यः केवलं तस्य विधवा मातुलानीउमाकान्तवादादुरस्य वेश्मनि निवसति, तं पालयति च न तस्याः पुत्रोऽस्तीति केवलं कन्यैका निर्म्मला नाम शैशवे विवाहिता सुचतुरा च। सैव मन्दभागिन्यान्याश्छायासत्याः सखी।

एकग्रामे सन्निधौ च परस्परं प्रतिवेशिनां गृहगमनं न दोषाय इति सार्द्धं छायया निर्म्मलाया अतीवसद्भावः।

भागिनेयींशिक्षयितुं नरेन्द्रः प्राचीनं पण्डितमेकं नियोजयति। साधुतरस्य विदुषो यत्नेन छायासती एकादशवर्षमन्तरैव वङ्गभाषायां लब्धकीर्त्तिः सती संस्कृतमिंरेजीविद्याञ्च आयत्तीचकार। विविधेन च गुणेन मातुलस्य समधिकं स्नेहमधिकरोति।

एकदा अपराह्णे निर्म्मला निजगृहस्य द्वितलछदिषि चित्रकर्मणि मनोनिविशमाना सम्मुखीनां छायासतीमाह “अयि सखि! किमिति चन्द्रविडम्बि मुखन्ते विषीदति? किमिति वा पङ्कजदलाक्षन्ते वाष्पवारिणि प्लवते? एहि सखि! पश्य तावन्मे चित्रकर्म्म विचारय च, दोषश्चेत् क्वापि तदपि बोधय, कथंकारं वा समुचितंचित्रीयये? तदप्युपदिश। दुःखिनीसतीछाया किन्तु तुष्णीं रोदितुमारभते। निर्म्मला पुनरप्याह सनिर्बन्धं किमिति सखि! रोदिषि? छाया सती कथयति “अयि सखि! मातुलानी अद्य अतीव तिरस्कारमकरोत् तस्यास्तु जुगुप्सितेन वचोवाणेन मर्मणिविद्धेव क्लेशमनुभवामि।

अस्मिन्नेवावसरे धौरपादसञ्चारं “यतीन्द्रवाहादुरः” तत्र छदिषि उपतिष्ठमानः छायां सतीं रोरुद्यामानामालोक्य ब्रवीति। “अयि सुशीले! किमिति रोदिषि? त्वत्कृते कोनामानार्थो जातः?” निर्म्मला कथयति ‘तस्या मातुलानीवृथा इमां भर्त्सितवती।’ यतीन्द्रः सस्नेहंपृच्छति कोऽप्यपराधी विदधे भवत्या? छाया वास्पनिरुद्धकण्ठा कथयति “न मया किमप्यागो विहितं, तथापि मातुलानी

मदीया सदैव मां गर्हितुं प्रयतते; ब्रूते च सदा सरोषं “कुत्रासीदापद्भूतेयं? कुत्रवात्र समापतिता नित्यं नः प्रज्वालयतीव।” अपि च मातुलश्चेन्मां स्निह्यति तदैव सा द्विगुणं क्रोधेन प्रज्जलति जुगुस्पते च मातुलं। अद्य प्रातः वीणामवीवदं, मातुलस्तदानीमागत्य निशम्य च वीणागीतं शिरसि मे करं वरीवृत्त्यमानः सस्नेहं कथयति, “मदीया सतीछाया गुणैः सरस्वत्याः रूपैश्च रमाया अनुकरोति” श्रुत्वैतन्मातुलानी साक्षेपमाह “वाढं वाढं केवलमियं जननीमनुकर्त्तुञ्चेदिदानीं शक्नुयात् तदैव कृत्यकृत्या भवेत्” मातुलस्तु तन्निशस्य अन्तर्व्यथामापन्नः कथयामास “त्वमिव हिंसाप्रिया न दट्टक्षे न च शुश्रुवे, बालिकायामपि हिंसावृत्तिं चरितार्थं करोषि? उक्त्वैतत् स्थानात्तस्मात् प्रतिजगाम।” तस्माच्चक्षणादुपरि मातुलानीयत्परं नास्ति मां मातरञ्चाक्षिप्य अश्राव्यानि कटूनि च वचनानि ववर्ष।—अशेषीभूते च वचसि निरर्गलं सा रोदितवती। यतीन्द्रन्तु स्तम्भित इव मन्त्रित इव कीलित इव तस्यामप्यवस्थायां छायासत्याः स्वरस्य वचसश्च सौन्दर्य्यं दरीदृश्यमानःविस्मयते। दीर्य्यतीव च तस्याःक्लिष्टवचनेन। निर्म्मला चेलाञ्चलेन तस्या नेत्रे विमृज्य कथयति “सखि किमिति तदर्थं दुःखमनुभवसि? परं निन्दन्नात्मानमेव निन्दार्हं प्रतिपादयाति निन्दुकः। विशेषतश्च मातुलस्त्वयि अतीव प्रीणाति। जानासि त्त्वंतव जननीं धर्म्मतस्तेन महात्मना विवाहितामन्दितचरित्राञ्च, लोकस्तु यदृच्छं ब्रवीतु तेन का हानिः? तदर्थमात्मनि क्लेशः स्थापयितुं नोचितः।

(क्रमशः)

__________

FOR F. A. STUDENTS.

<MISSING_FIG href=”../books_images/U-IMG-173140595356.jpg”/>

(पूर्वतोऽनुवृत्ताः)

(a) हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान्।
नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम्॥

(b) तस्मै सभ्याः सभार्य्याय गोप्त्रेगुप्ततमेन्द्रियाः।
अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे॥

(c) अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम्।
अबन्ध्ययत्नाश्च बभूवुरत्न ते क्रिया हि वस्तूपहिता प्रसीदति॥

(d) वार्षिकं संजहारेन्द्रः धनुर्जैत्रं रघुर्दधौ।
प्रजार्थसाधने तौ हि पर्य्यायोद्यमविश्रमौ॥

(j) आपादितं वंशस्य कृत्यं यस्मिन् तत्।

(k) श्रु + उस्। शुश्रुवुः। सिषेविरे। शेमुः।

(l) वृष्ट्यापि विना दवाग्निः शशाम।

वनं गाहमाने।

गाहते। गाहेते। गाहन्ते।

(m) दव + अग्निः+ आसीत् + विशेषा।

II. (a) हैयङ्गवीनं ह्योदो गोहोद्भवं घृतम्। “हैयङ्गवीनं संज्ञायाम्” ५।२।२३। इति खञ् हियङ्गादेशश्च। आदाय गृहीत्वा आङ्पूर्वी दाङ् ग्रहणे वर्त्तते। उपस्थितान् समीपे समागतान् घोषवृद्धान् घोषाणां वृद्धाः तान् प्राचीनगोपान् वन्यानां वनजातानां मार्गशाखिनां शाखा एषामस्तीति इनिः मार्गे पथि ये शाखिनस्तेषाम्। शेषे षष्ठौ। नामधेयानि किन्नामोऽयं वृक्षः? इत्येवं पृच्छन्तौ (जग्मतुरित्यन्वयः)।

(b) सभ्याः सभासु योग्याः गुप्ततमेन्द्रियाः गुप्ततमानि

असत्कर्म्मभ्योनियन्त्रितानि सुरक्षितानि इन्द्रियाणियैस्ते। जितेन्द्रियाः मुनयः गोप्त्रेरक्षयित्रे सभार्य्यय सह भार्ययवर्त्तमानाय अर्हते पूजायोग्याय तस्मै दिलीपाय दिलीपं प्रीणयितुं अत्र तुमर्थेचतुर्थी। अर्हणां पूजां प्रीतिजननक्रियां चक्रुः।

(c) अथ अनन्तरं विपश्चितः पण्डिताःगुरवः उपनीतं कृतयज्ञोपवीतसंस्कारम्। गुरुप्रियं गुरुणामध्यापकानां प्रियं प्रीतिपात्रम् एनं विधिवत् यथारीति विनिन्युःशिक्षयामासुः। अत्र शिक्षाविधौ ते गुरवःअबन्ध्ययत्नाश्च वा न बन्ध्यः निष्फलः यत्नो येषां ते कृतकृत्या इत्यर्थः। बभूवुः। हियतः क्रिया कर्म्म वस्तुपहिता वस्तुषु मद्वस्तुषु उपहिता न्यस्ता सती प्रसीदति फलतीत्यर्थः।

(d) इन्द्रः सुरपतिःवार्षिकं वर्षाकालीनं धनुः संजहार प्रतिसंहृतवान्, तदा ऐन्द्रं धनुर्नाजनि, प्रावृट् निवृत्ता प्रवृत्ता च शरदिति भावः। रघुः(पुनरध्याहार्य्यम्) जैत्रं जयत्यनेनेति जयतेः करणे ष्ट्रण्।जयहेतुर्धनुः दधौ जग्राह, प्रवृत्तायां शरदि रघुर्दिग्जिगीषया प्रवृत्त इत्यर्थः। प्रजार्थसाधने प्रजानाम् अर्थस्य प्रयोजनस्य साधने निष्पादने तौ स च स च इतीतरेतरद्वन्दः, इन्द्ररघू हि यतः पर्य्यायोद्यमविश्वमौ उद्यमश्च विश्रमश्च तौ, पर्य्यायेण क्रमशः उद्यमविश्रमो ययोस्तौ यदा प्रजानां कृष्यादिप्रयोजनसिद्ध्यर्थम् इन्द्रो वर्षति तदा वर्षत्तौ रघुर्युद्धनिवृत्तः विश्रमति। यदा च शरदि दुष्टं निर्जेतुं रघुः प्रवर्त्तते तदा इन्द्रो विश्रमति लोकरक्षायै द्वयोरेव तयोस्तुल्यत्वमिति भावः॥

II. Explain fully, in Sanskrit in the form of a Tika :—

(क्रमशः)

____________

ब्रह्मचर्य्यम्।

(पूर्वप्रकाशितात्परम्)

मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने।
तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात्॥१६९॥

  1. According to the injunction of the revealed texts the first birth of an Aryan is from (his natural) mother, the second (happens) on the tying of the girdle of Munga grass, and the third on the initiation to (the performance of) a (Srauta) sacrifice.

तत्र यद्ब्रह्म जन्मास्य मौञ्जीबन्धनचिह्नितम्।
तत्रास्य माता सावित्री पिता त्वाचार्य्य उच्यते॥१७०॥

** **170. Among those (three) the birth which is symbolised by the investiture with the girdle of Munga grass, is his birth for the sake of the Veda; they declare that in that (birth) the Savitrî(verse) is his mother and the teacher his father.

वेदप्रदानादाचार्य्यं पितरं परिचक्षते।
न ह्यस्मिन् युज्यते कर्म्मकिञ्चिदा मौञ्जिबन्धनात्॥१७१॥

  1. They call the teacher (the pupil’s) father because he gives the Veda; for nobody can perform a (sacred) rite before the investiture with the girdle of Munga grass.

नाभिव्याहारयेद्ब्रह्म स्वधा निनयनादृते।
शूद्रेण हि समस्तावद् यावद्वेदे न जायते॥१७२॥

** **172. (He who has not been initiated ) should not

pronounce (any) Vedic text excepting (those required for) the performance of funeral rites, since he is on a level with a Sudra before his birth from the Veda.

कृतोपनयनस्यास्य व्रतादेशनमिष्यते।
ब्रह्मणो ग्रहञ्चैव क्रमेण विधिपूर्वकम्॥१७३॥

** **173. The (student ) who has been initiated must be instructed in the performance of the vows, and gradually learn the Veda, observing the prescribed
rules.

यद् यस्य विहितं चर्म्मयत् सूत्रं या च मेखला।
यो दण्डो यच्चवसनं तत्तदस्य व्रतेष्वपि॥१७४॥

  1. Whatever dress of skin, sacred thread, girdle, staff, and lower garment are prescribed for a (student at the initiation ), the like (must again be used) at the (performance of the ) vows.

सेवेतमांस्तु नियमान् ब्रह्मचारी गुरौ वसन्।
संनियम्येन्द्रियग्रामं तपो बुद्ध्यर्थमात्मनः॥१७५॥

  1. But a student who resides with his teacher must observe the following restrictive rules, duly controlling all his organs, in order to increase his spiritual merit.

नित्यं स्नात्वा शुचिः कुर्य्याद्देवर्षिपितृतर्पणम्।
देवताभ्यर्च्चनञ्चैव समिदाधानमेव च॥१७६॥

** **176 Every day, having bathed, and being purified, he must offer libations of water to the gods, sages

and manes, worship (the images of) the gods, and place fuel on (the sacred fire).

वर्जयेन्मधुमांसञ्च गन्धं माल्यं रसान् स्त्रियः।
शुक्लाणि यानि सर्वाणि प्राणिनाञ्चैव हिंसनम्॥१७७॥

  1. Let him abstain from honey, meat, perfumes, garlands, substances (used for ) flavouring (food), women, all substances turned acid, and from doing injury to living creatures.

अभ्यङ्गमञ्जनञ्चाक्ष्णोरुपानच्छत्रधारणन्।
कामं क्रोधञ्च लोभञ्च नर्त्तनं गीतवादनम्॥१७८॥

  1. From anointing (his body), applying collyrium to his eyes, from the use of shoes and of an umbrella (or parasol ), from (sensual) desire, anger, covetousness, dancing, singing, and playiug musical instruments),

दूतञ्च जनवादञ्च परिवादं तथानृतम्।
स्त्रीणाञ्च प्रेक्षणालम्भसुपघातं परस्य च॥१७९॥

  1. From gambling, idle disputes, backbiting, and lying, from looking at and touching women, and from hurting others.

एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित्।
कामाद्धिस्कन्दयन् रेतो हिनस्ति व्रतमात्मनः॥१८०॥

  1. Let him always sleep alone, let him never waste his manhood; for he who voluntarily wastes his manhood, breaks his vow.

स्वप्ने सिक्त्वाब्रह्मचारी द्विजः शुक्रमकामतः।
स्नात्वार्कमर्च्चयित्वा त्रिःपुनर्मामित्यृचं जपेत्॥१८१॥

181, A twice-born student, who has involuntarily wasted his manly strength during sleep, must bathe, worship the sun, and afterwards thrice mutter the Rik-verse (which begins), ‘Again let my strength return to me.’

उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान्।
आहरेद्यावदर्थानि भैक्षञ्चाहरहश्चरेत्॥१८२॥

  1. Let him fetch a pot full of water, flowers, cowdung, earth, and Kusa grass, as much as may be required (by his teacher), and daily go to beg food.

वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्म्मसु।
ब्रह्मचार्य्याहरेद्भैक्ष्यं गृहिभ्यः प्रहतोऽन्वहम्॥१८३॥

  1. A student, being pure, shall daily bring foodfrom the houses of men who are not deficient in (the knowledge of) the Veda and in (performing sacrifices, and who are famous for (following their lawful) occupations.

गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु।
अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत्॥१८४॥

  1. Let him not beg from the relatives of his teacher, nor from his own or his mother’s bloodrelations; but if there are no houses belonging to strangers, let him go to one of those named above, taking the last-named first;

सर्वं वापि चरेत् ग्रामं पूर्वोक्तानामसम्भवे।
नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत्॥१८५॥

  1. Or, if there are no (virtuous men of the kind) mentioned above, he may go to each (house in the) village, being pure and remaining silent; but let him avoid Abhisastas (those accused of mortal sin).

दूरादाहृत्य समिधःसन्निदध्याद्विहायसि।
सायं प्रातश्च जुहुयात्ताभिरग्निमतन्त्रितः॥१८६॥

  1. Having brought sacred fuel from a distance, let him place it anywhere but on the ground, and let him, unwearied, make with it burnt oblations to the sacred fire, both evening anb morning.

अकृत्वा भैक्ष्यचरणमसमिध्य च पावकम्।
अनातुरः सप्तरात्नमवकीर्णिव्रतं चरेत्॥१८७॥

** **187. He who, without being sick, neglects during seven (successive) days to go out begging, and to offer fuel in the sacred fire, shall perform the penance of an Avakirnin (one who has broken his vow.)

मैक्षेण वर्त्तयेन्नित्यं नैकान्नादीभवेद् व्रती।
भैक्षेण व्रतिमो वृत्तिरुपवाससमा स्मृता॥१८८॥

  1. He who performs the vow (of studentship) shall constantly subsist on alms, (but) not eat the food of one (person only); the subsistence of a student on begged food is declared to be equal (inmerit) to fasting.

व्रतवद्देवदैत्ये पित्रे कर्म्मण्यथर्षिवत्।
काममभ्यर्थितोऽश्नीयात् व्रतमस्य न लुप्यते॥१८९॥

  1. At his pleasure he may eat, when invited, the food of one man at (a rite) in honour of the gods, observing (however the conditions of) his vow, or at a (funeral meal) in honour of the manes, behaving (however) like a hermit.

ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः।
राजन्यवैश्ययोस्त्वेवं नैतत् कर्म्मविधीयते॥१९०॥

  1. This duty is prescribed by the wise for aBrahmana only; but no such duty is ordained for a Kshatriya and a Vaisya.

चोदितो गुरुणा नित्यमप्रचोदित एव वा।
कुर्य्यादध्ययने यत्नमाचार्य्यस्य हितेषु च॥१९१॥

  1. Both when ordered by his teacher, and without a (special) command, (a student) shall always exert himself in studying (the Veda), and in doingwhat is serviceable to his teacher.

शरीरञ्चैव वाचञ्चबुद्धीन्द्रियमनांसि च।
नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम्॥१९२॥

  1. Controlling his body, his speech, his organs (of sense), and his mind, let him stand with joined hands, looking at the face of his teacher.

नित्यमुद्धृतपाणिः स्यात् साध्वाचारः सुसंयतः।
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः॥१९३॥

  1. Let him always keep his right arm uncovered,

behave decetly and keep his body well covered, and when he is addressed (with the words), ‘Be seated, he shall sit down, facing his teacher.

हीनान्नवस्त्रवेशः स्यात् सर्वदा गुरुन्निधौ।
उत्तिष्ठेत् प्रथमञ्चास्य चरमञ्चैव संविशेत्॥१९४॥

  1. In the presence of his teacher let him always eat less, wear a less valuable dress and ornaments (than the former), and let him rise earlier (from his bed), and go to rest later.

प्रतिश्रवणसम्भाषे शयानो न समाचरेत्।
नासीनो न च भुञ्जानो न तिष्ठन्न परां सुखः॥१९५॥

  1. Let him not answer or converse with (his teacher), reclining on a bed, nor sitting, nor eating, nor standing, nor with an averted face.

आसीनस्य स्थितः कुर्य्यादभिगच्छंस्तु तिष्ठतः।
प्रत्युद्गम्य त्वा व्रजतः पश्चाद्वावंस्तु धावतः॥१९६॥

  1. Let him do (that), standing up, if (his teacher) is seated, advancing towards him when he stands, going to meet him if he advances, and running after him when he runs;

पराङ्मुखस्याभिमुखो दूरस्थस्येत्य चान्तिकम्।
प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः॥१९७॥

  1. Going (round) to face (the teacher), if his face is averted, approaching him if he stands at a distance, but bending towards him if he lies on a bed, and if he stands in a lower place.

श्रीश्रीदुर्गा शरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-173134138247.jpg”/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्तीजनानिवः
मायावलम्ब्यते सेयमम्बाश्रीशिवसुन्दरौ॥

<MISSING_FIG href=”../books_images/U-IMG-173134159152.jpg”/>

आसावतरणिका।

असौ सहा दुःसहशीतशीकरैः समीरणैःशीतमहीध्रप्रेरणैः।
वियोगिवक्षःक्षतदुःखदक्षकैःनिघृक्षुभिः क्षेड़नभीक्ष्यते पुनः॥

<MISSING_FIG href=”../books_images/U-IMG-173134163253.jpg”/>

उद्भटश्लोकाः।

भिक्षुः क्वान्ति बलेर्मखे पशुपतिर्दृष्टो न किं गोकुले,
बाले! पन्नगभूषणः सखि! सदा शेते च शेषोपरि।
मुग्धे! मुख विषादमाशु कमले! नाहं प्रकृत्या चला,
इत्येवं कमला गिरीन्द्रतनया वाक्कौशलंपातु वः॥२२९॥ .

राधे त्वं परिमुञ्च नीलवसनं ह्युत्थाय नावं मम,
वातो वारिदसम्भ्रमाद्यदि वहेन्मग्ना भवेन्नौरियम्।
सत्यं तद्वसनान्तरं परिदधाम्यादौ त्वदीयं वपुः
श्यामं श्याम! नवीननीरदसमं तक्रैःसमाच्छाद्यताम्॥२३०॥

अस्माकं यान्तु गव्यानि प्राणा यान्तु न शोधनम्।
अख्यातिरिति ते कृष्ण! मग्ना नौर्नाविके त्वयि॥२३१॥

मा भूज्जन्म कुलस्त्रीणां जन्म चेद्यौवनं न हि।
यौवनं चेन्न तु प्रेम प्रेम चेद्विरहो न हि॥२३२॥

<MISSING_FIG href=”../books_images/U-IMG-173134195454.jpg”/>

(किमेष भेदः?)

एको विलासीशशि-रश्मि-धौतप्रासादवातायन-वातसेवीI
अन्यश्चिरं पर्णकुटीरवासीकिमेष भेदः समदर्शि-सर्गे?॥१॥

एको रसज्ञा-सुखदं सुभाज्यं प्राचुर्य्यतो भोक्तुमहो! न शक्तः।
न विन्दतेऽन्योऽपरसान्न-चूर्णं किमेष भेदः समदर्शि सर्गे॥२॥

एकः शिरीषाति कुमारवस्त्रावृतां सुशय्यामधिशेत एव।
न लभ्यतेऽन्येन धरापि शुष्का मिमेष भेदः समदर्शि-सर्गे॥३॥

एकःपदौस्फाटिकरम्यपीठे निधाय सिंहासनमाददाति।
नान्यो शिलामप्युपवेष्टुमेति किमेष भेदः समदर्शि-सर्गे॥४॥

एकःपयोभिर्मधुरैर्हविर्भिर्मध्वादिभिस्तर्पणमेति नित्यम्।
शाकेन दीनः कियतापि नान्यः किमेष भेदः समदर्शि-सर्गे॥५॥

एकश्चिरंसेव्यत एव धन्यो भूषाविभोद्भाषिनकिङ्करौघैः।
संसेवतेऽन्यः प्रभुमत्रभीतः किमेष भेदः समदर्शि-सर्गे॥६॥

एकोऽत्रकार्त्तस्वरदोलिकां तामारोहति स्वेप्सितकौतुकेन।
अन्योऽतिदुःखेन वहत्यभाग्यः किमेष भेदः समदर्शि-सर्गे॥७॥

एकं गृहं प्रीतिदनृत्य-गीत-वीणा-मृदङ्ग-ध्वनिजातपूर्णम्।
अन्यद्वियोगार्त्त-निनादखिन्नं किमेष भेदः समदर्शि-सर्गे॥८॥

एकं गृहं सज्जितमुत्सुकानां कोलाहलैः श्रोत्रसुखैर्महद्भिः।
अन्यत् महारुग्न-विलापसार्थैः किमेष भेदः समदर्शि-सर्गे॥९॥

शरीरमेकं रमणीयगन्धचूर्णोदकैःसिक्तमलं विभाति।
अन्यत् पतत्पत्रकषायनीरैःकिमेष भेदः समदर्शि-सर्गे॥१०॥

कश्चित् सुभाग्यः सततोपविष्टो रत्नेश्वरत्वं कुतुकात् प्रयाति।
भ्रान्त्वापि नो रूप्यकमीक्षतेऽन्यः किमेष भेदः समदर्शि-सर्गे॥११॥

एकत्र कार्त्तस्वरपात्रमाला भाग्यप्ररोहस्त्विव सज्जितास्ति।
अन्यत्र चार्त्तस्वरपङक्तिरेषा किमेष भेदः समदर्शि-सर्गे॥१२॥

एकस्य मित्राणि शिरीषपुष्पसुकोमलान्युत्सव-पुष्टिभाञ्जि।
अन्यस्य कङ्कालमयानि तानि किमेष भेदः समदर्शिसर्गे॥१३॥

सुखादुभोज्यं सततं बुभुक्षां विनापि वक्ते क्षिपतीह कश्चित्।
अन्यः क्षुधार्त्तोऽपि न याति किञ्चित् किमेष भेदः समदर्शि-सर्गे॥१४॥

वीरत्व दर्पेण बहून् मनुष्षान् निवर्त्तयत्याशु सशस्त्र एकः।
नेशः स्वदेहग्रहणेऽपि कश्चित् किमेष भेदः समदर्शि-सर्गे॥१५॥

केचित सदा हास-विलास-चारूपहास-मोदैः सुखिनो भवन्ति।
अन्धे विषादानल-दह्यमानाः किमेष भेदः समदर्शि-सर्गे॥१६॥

एकस्य वक्तेनयने शरीरे स्फुरत्प्रभा क्रीडति केशजाले।
अन्यस्य तस्मिन् विषमो विषादः किमेष भेदः समदर्शि-सर्गे॥१७॥

एकं गृहं भूषितसर्वजीवि-प्रभावितानस्फुरितं तदन्यत्।
प्रायः पतद्भूषित-सर्वजन्तु, किमेष भेदः समदर्शि-सर्गे॥१८॥

एकं गृहं दीपक-रत्नराजि-प्रभा-प्रदृष्टामितवस्तुसंघम्।
अन्यत् तमो रात्र्यट-भीमभीष्मं किमेष भेदः समदर्शि-सर्गे॥१९॥

एको हरेः पादसरोजलुब्धः सौमन्तिनीं कामहितान्न वेत्ति।
मूर्खोऽपरःकामहितान्न वेत्ति किमेष भेदः समदर्शि-सर्गे॥२०॥

एको गृहेऽनल्पविलासमिष्टमपेक्षमाणः समयं भिनत्ति।
अन्यो वने भीमतमे विलासं किमेष भेदः समदर्शि-सर्गे॥२१॥

परोपकारव्रतरक्त एको दोषाकरस्यैव समः सुशीलः।
दोषाकरस्यैव समः किलान्यः किमेष भेदः समदर्शि-सर्गे॥२२॥

द्विजप्रियत्वात् द्विजराजभावादेको महानन्यजनो निकृष्टः।
द्विजप्रियत्वात् द्विजराजभावात् किमेषः भेदः समदर्शि-सर्गे॥२३॥

एको विलासौ न वधू-मतापगमात्प्रमोदौ न वधूमताप-
गमात्प्रमोदीखलु याज्ञिकोऽन्यः किमेष भेदः समदर्शि-सर्गे ॥२४॥

एकः समं सोमरसं पियासुः पत्न्या सुखायेतर ईश्वरस्य।
सुप्रीतये सोमरसं पिपासुः किमेष भेदः समदर्शि-सर्गे॥२५॥

विचित्रचित्रोज्ज्वल सन्नताङ्गी सपुष्यवल्लोबविभाति काचित्।
सुदुर्बलक्षामतनुः परास्ति किमेष भेदः समदर्शि-सर्गे॥२६॥

आकृष्यते कञ्चन सुन्दरीभिर्विड़म्ब्यते कश्चन वञ्च्यते च।
प्रतार्य्यते कश्चन हीयतेऽपि किमेष भेदः समदर्शि-सर्गे॥२७॥

यशः प्रभा-राजितदिग्विभागः सम्पूज्यते कश्चन लोकसंधैः।
अन्योपतेजा उपकास-कर्म्मकिमेष भेदः समदर्शि-सर्गे॥२८॥

हे देव सर्वभुवनाश्रय विश्वबन्धी!
भेदोऽयमुत्सवरिपुर्न विनष्टभावम्।
किं यास्यति? क्षितितलं त्रिदिवस्य शोभां
किं नैष्यति? श्रमवहिर्मनुजा न किं स्युः॥२९॥

(नारायणार्पणमस्तु)

श्रीअन्नदाचरणतर्कचूड़ामणिः।
नोयाखाली—सोमपाड़ा।

__________

सती छाया।

(पूर्वप्रकाशितात्परम्)

छाया धीरमाह “सखि! अधुना यातनामयं मे जीवनम्। क्षणमपि जीवितुं नेच्छामि, किं करोमि? क्व यास्यामि? सकरुणमाहूतापि मातामही नार्पयति प्रतिवचनं मातुलान्यास्तु कथाः कथयित्वा अलं, दुष्टं मे अदृष्टं पीड़ापि प्राणान्तिका नोत्पद्यते।

निर्म्मला छायां समानीय वक्षसि पुनरेवं मा वद, श्रुत्वा च हृदयं दीर्य्यतीव। अनुमाय च तयोरकृत्रिमप्रेमाणं यतीन्द्रो निश्चिकाय प्रीतिश्चेदीदृश्येव जायताम् अहो जगति धन्योऽसौप्रेमा यः खलु भिन्नमपि हृदयमकीकर्त्तुं प्रभवति।

अहोकथमिव छायामद्यावलोक्यैव हृदयमाकष्टम्। सत्यमेव छाया देवीव सुन्दरी धरातले दृष्टापि बहुधा, मुहूर्त्तमपि मानसे

नोदियाय छायामाश्रयितुं प्रयते। अद्यैवानाथिन्या दुःखेन हृदव्याकुलितम्। तदहं मनोजं साक्षीकृत्य दृढ़ं प्रतिजाने यदि परिणयेयं तदा छायामिवाङ्कलक्ष्मी करिष्यामि। यतिष्ये च त्वरितमुन्मोचयितुं दुःखकारावरोधात्। अर्चयिष्यामि च संस्थाप्य प्रमोदमन्दिरे प्रणयसिंहासने प्रीतिकुसुमैः।

निर्म्मलाच यतीन्द्रं चिन्तापहृतमिवालोक्य कथयति “अयि भ्रातः! किमिति गाढ़ं चिन्तयसि? स्मित्वा च यतीन्द्रः कथयति “चिन्तयामि यथा च छाया अचिरात् तथाविधदुष्टसंसर्गात् प्रमुच्यते इति। छाया च नेत्रे विमृज्य सदीर्घनिःश्वासं कथयति “सम्भावयामि सति जीवने तथा नैव घटिष्यते। यतीन्द्रः स्मित्वा सुकोमलं पाणिपुटं छायायाःसमादाय सादरं कथयति “यदि महानसौ नरेन्द्रघोषः पवित्रमेतत् पाणिद्वयं मह्यमर्पयति, तदा चिराय तदधीनजीवितः स्याम्। “निर्म्मलासमाकर्ण्य तत् पुलकपूर्णा कथयति “भ्रातः! एवं शुभदिनं किं नो घटिष्यते, एवंविधा लक्ष्मीर्गृहमलङ्करिष्यति”?

अहो तदानीं मन्दभागिन्यास्तस्या हृदयकन्दरे अभूतपूर्वोऽदृष्टचरश्च भावः समुदितस्तामन्तर्दुणोति सुखयति वा किमपि निर्णेतुं, न सा प्रभवति। प्रत्युत बालास्वभावलज्जया जड़ितेव नम्रमुखी बभो।

यतीन्द्रस्तु कोमलमाभाष्य “अयि छाये! त्वं सम्यग्विनीता चेन्माह्मंपाणिग्रहणं राचते तर्हि स्पष्टं ब्रूहि, तदा पूर्वमभिप्रायं पितामहस्य विदित्वा ततो ज्ञास्यामि ते मातुलाशयम्। छाया तु निर्वातनिष्कम्पदीपशिखेव निस्पन्दा तिष्ठति। तथापि अन्तर्जागरित आनन्दः वदने लक्ष्मीभूतः, को न जानाति, निपतत्यरुणकिरणे स्वतएव सूर्य्यमुखी विकसति।

निर्म्मला सादरं कण्ठमालिङ्ग्य छायाया “ब्रूहि सखि! ब्रूहि, किमत्र लज्जया त्वं मे भ्रातुरङ्कलक्ष्मीभवेः। आनन्दयेश्च भूत्वा नौ

गृहशोभिनीसुमधुरेगा वीगाविड़म्बिना। त्वमसि श्रीरूपिणी चेद्भ्रातुर्मे शतधा प्रवर्द्धयसि श्रीर्गृहमधितिष्ठन्तौ, यथा हेमन्ते समुत्तीर्णेसरसवसन्तः समुदितः तरुनिकरं परिशोभयति।

श्रुत्वा च निर्मलावचनं ज्ञात्वा च यतीन्द्रान्तःकरणं दृष्ट्वा चात्मनो दशां निश्चित्य च भविष्यल्लोकयात्रां गम्भीरं धीरञ्च कथयति “सखि निर्म्मले! मन्दभागिन्या अस्या अदृष्टं किं कदाप्येकं प्रसन्नीभविष्यति? यत् देवसोदरं पतिं लप्स्ये? अतिवाहयिष्ये च त्वामिक सहादराधिकां सङ्गिनीमनु निर्भरप्रहर्षेण जीवनदिनानि। यतीन्द्रः कथयति।

अयिसरले! अमृतभाषिणि। यदि परिणयेयं तदा त्वमेव मम, नो चेत् चिराय भीष्मवत् अकृतपरिणयः स्थास्यामि”। तदा परस्परं सारल्यपूर्णदृष्टिं विनिमयतस्तौ प्लवेते च विस्मृत्य संसारदुःखं प्रमदामृतजलधी।

निर्म्मला चिन्तयति शुभेऽस्मिन् गोधूलिलग्ने शुभदृष्टिः सञ्जाता इति।

इति चतुर्थपरिच्छेदः।

____________

पञ्चमपरिच्छेदः।

<MISSING_FIG href=”../books_images/U-IMG-173140819457.jpg”/>

छायानिर्वासनम्।

प्रफुलमल्लीनवनीतकोमला, विषाददिग्धा मलिनाधुना वभौ।
अहोयथा शारदशुभ्रचन्द्रिका, मलीमसाभ्रेण चिरं तिरोहिता॥

सन्ध्या समुत्तीर्णा शुक्लपक्षीय पञ्चमीशशिकला कोमलेन स्निग्धकिरणेन भुवनमालोकयति। छाया तु सशङ्का कथयति “अयि सखि! अद्य समधिकं भीतास्मि, न जाने कतिशःसहिष्ये अद्य यातना, अविदितैवाद्य यथा सन्ध्या समतीता”।

निर्म्मला छायाकण्ठमालिङ्ग्यकथयति “सखि! मामैषीः सहैव

गत्वाहं भवतीं तत्र नयामि” इत्युक्त्वा छायाया धृतहस्ता गन्तुं प्रवृत्ता।

यतीन्द्रस्तु गम्भीरमाह—“अयि सरले”! नैव विस्मर मां त्वदेकजीवनं, शीघ्रमेव भवतीलाभाय यतिष्ये, तदाकर्ण्य सतीछाया केवल स्नेहसारल्यपूर्णेन नयनेन तं पश्यति, बालिका सा प्रणयवाणीषु अनभिज्ञा।

मानसोन्मादकारिण्यादृष्ट्यैवाहतोऽसौ अनिच्छन्नपि छायां दृष्टिपथादतिक्रामति। इच्छापि तस्य छायामनुगच्छति। परन्तु व्यथितहृदयेन छदिषोऽवरोहति।

छाया सतीनिर्म्मलया एकया परिचारिकया च सह नरेन्द्रस्यान्तःपुरं प्रविशति। तस्मिन् क्षणेनरेन्द्रः स्वगेहालिन्दे समासीनः, वृद्धाजननी आसने उपविश्य मालाजपे प्रवृत्ता, क्रूरहृदया मातुलवधूः साय गृहकर्म्मकुर्वतीकथयति, “अयि मातः! पश्य तावदधुनापि छाया स्वगेहं नायाति इयतौ रात्रिर्व्यतीता, इदानीमेव बालिका सा परगृहे पर्य्यटितुमेवं प्रीणाति साहसं सजते च, का कथा युवत्याः”?।

प्राचीना क्षुब्धा च क्रूद्धा च तुष्णीमास्ते। तदैव सह सङ्गिन्या समागतां छायामालोक्य मातुलः सस्नेहं कथयति “अयि छाये! रजनीमियतीं किन्नाम क्रीड़नम्”? दुःखिनीछाया सभयं मातुलासन्नमुपाविशत्। नरेन्द्रः पश्यन् निर्म्मलावदनं वदति “अयि निर्म्मले”! कथमेतावन्त मुररीकृत्य क्लेशं पुनस्त्वमप्यत्रागच्छसि? परिचारिकैवास्याः प्रत्यागमने निर्दुष्टेति” निर्म्मला कथति “नात्र क्लेशलेशोऽप्यनुभूयते, अत्यासन्नमेव मे गृहमधुनैव यास्यामि। ततः परंप्राचीनामुद्दिश्य कथयति “अयि आर्य्यमातः! किमपि प्रार्थयामि, तत्तु पूरयितव्यम्” वृद्धा स्मित्वा कथयति “अयि नप्तः। किन्तद्ब्रूहि” निर्म्मला हसित्वा कथयति “आर्य्यमातः! भ्रात्रेमे यतीन्द्राय सखीं

छायां संप्रदास्यसि”? श्रुत्वै तत् प्राचीनाया मुखं गाम्भीर्य्यमादधे। सजलनयना च कथयति अधुनाप्यसौ बालिकेति नैतदयुक्तं, तथापि अदर्धंविवेच्मि” निर्म्मला तु हर्षविषादमापन्ना सह दास्या प्रतिगच्छति। नरेन्द्रस्तु सनिर्वेदमाह “मातः! निर्म्मालायाः शुभोऽपिपरिणयप्रस्तावोऽस्माकं विड़म्बणारूपेणैव परिणंस्यति” प्राचीनाकथयति “वत्स! छायाया विवाहो नानायास साध्यः, यदि कश्चिदस्याःपितुः पितामहस्य वा नाम प्रक्ष्यति तदा मृत्युरेव श्रीयान् मंस्यते। नरेन्द्रस्त्री कटुवादिनीश्लंषेण कथयति नास्त्युपायान्तरमधुनास्याविवाहदृते, अन्यथा मातृवदियमपि प्रच्छन्नं गृहान्निर्यास्यति।” सत्यमेवास्या अपि मानसीगतिर्न समीचीना, अन्यथा का नामबाला रात्रिमियतीं परवेश्मनि अतिवर्त्तयति? ब्रवीतु इयं शपथेनयतीन्द्रवाहादुरेण सार्द्धंकालमेतावन्तं रहस्यमालापयामास किं नवेति”? नरेन्द्रः मृदु मृदु पृच्छति “अयि वासु! सत्यं ब्रूहि अद्ययतीन्द्रवहादुरेण सह कोऽपि संलापोऽनुष्ठितः?” दुःखिनीछाया सभयं सलज्जञ्चाह “मातुल! अद्य संख्या सार्द्धं तत्र छदिषि समलपं, तदानीमागत्यधीरपादसञ्चारं कथामन्यांसमाप्य निर्म्मलां प्रत्याह अहं छायाया पाणिग्रहणार्थं नरेन्द्रघोषसन्निधौ वार्त्तामवतारयामि। निर्दया प्राचीना सरोषं कथयति दूरमपसर निर्लज्जे! नेच्छामित्वदीयं साधुमितिहासमाकर्षितुम्। अरे नरेन्द्र! विलम्बेनालंदुःशौलामिमां गृहादस्मात् बहिष्कुरु नेदं पुनरनया स्थातव्यम्। तदाकर्ण्य नरेन्द्रः साश्रुलोचनः कथयति अयि छाये! स्वशय्यामधिपिसि भक्ष्यन्ते तत्र प्रेरयामि।

दुःखिनीच छाया निर्मलद्वास्पधारा समुपेक्ष्यैव खाद्यं शयनकक्षंप्रविशति। नरेन्द्रस्तु परेद्युः छायायाः शिक्षकमाहूय निवेदयति “हे पण्डितमहाशय! शक्यते श्रीमता सतीछाया अनूढ़ावस्थया कञ्चित्कालं क्षपयितुं निरापत्स्थानमेकं निर्द्देष्टुं”? तदाकर्ण्य

पण्डितः प्राह “वाढं भवानीपुरे कस्यचित् धनाढ्यस्य विधवापत्नी वर्षीयसौ वर्त्तते सा च सदैव मामुत्तेजयति “ममैका सुशीला शिक्षिता च कापि कायस्थबालिका समुपयोगितामेष्यति” तस्याः सन्निधी सर्वदा स्थास्यति, एव वङ्गभाषया रामायण महाभारतादिकं पुराणं तां श्रावयिष्यति। सा खलु अतीवदयार्द्रहृदया, चेत् तस्याः सन्निधीछाया स्थास्यति तदा तस्या अतीव श्रेयो भवेत् कन्यावच्च स्नेहमधिकुर्य्यादित्यहं मन्ये।

(क्रमशः)

धर्म्मविवेकः।

(पूर्वप्रकाशितात्परम्)

अतएव वत्स वामापद! सभ्यगाचारवान् भव, स्वधर्म्मंश्रद्दधस्व।

वामा।श्रीगुरुप्रसादादाभूलं संशयश्छिन्नः।

शिवः। यदि वा भूयोऽपि ते गरीयसीप्रवृत्तिर्धर्म्मविधौयुक्तिं श्रोतुं, तदा संस्कृतचन्द्रिकायां प्रकाशितं “पूर्वकालीनाः कथं दीर्घायुषः” प्रबन्धमेतमादितः पठ तत्र बहुधा उपयोगिन्यो दर्शिता युक्तयः। किन्तु विवेचयतु। जगति मुनिवाक्यैकविश्वासानां ऋजुधियां अशिक्षितानाञ्च लोकाणां संख्याः समधिकाः, सुतरां तेषां प्रत्येकेन युक्तिप्रबोधनं नानायाससाध्यं भवेत्। अतः कुत्रचित्प्रमाणे “स्वर्गलोके महीयते,” कुत्रचिद्वा"रौरवंनरकं व्रजेत्” इत्यादि प्रलोभनं भयञ्च प्रदर्शितम्।

अत एव सूक्ष्मदर्शिभिर्वस्तुगुणदोषविद्भिर्मुनिभिर्यद्यदुपदिष्टं तत् सर्वमेव युक्तिमूलकं हितसाधकञ्च, यत्र च स्थूलमतिभि युक्तिर्द्रष्टुं न शक्या तत्राप्यवश्यं युक्तिरस्तीति सर्वथा विश्वस्तव्यम।

युक्तिश्च त्रिविधा लौकिकी, यौगिकी, लौकिकयौगिकीच, या च केवलमायुर्वेदे लौकिके विधिर्निषेधो वा निर्द्दिश्यते तत्र लौकिकीयुक्तिः यथा ये खलु परिमितं मुञ्जते जितेन्द्रियाः स्युस्ते जातु विसूचिकया नाक्रम्यन्ते, म्रियन्ते खलु तयाक्रान्ताश्च अमितभोजिनो विमूढ़ा बुभुक्षया प्रमत्ता इन्द्रियकिङ्कराः। अत्र लोक एव प्रमाणम्। तथा च वैद्यके—माधवनिदाने। ईदृग्भोजनं मनुनापि निषिद्धम्।

“न तां परिमिताहारा लभन्ते विदितागमाः।
मूढ़ास्तामजितात्मनो लभन्तेऽशनलोलुपाः॥”

** **यत्र लौकिकयुक्तिःप्रमाणयितुं न प्रभवति, तत्र योगिप्रत्यक्षमेव प्रमापयति यथा ब्राह्मणस्य संक्रान्त्यादौ सन्ध्याया अनुष्ठानेपापम्। सन्ध्या खलु ब्राह्मणानां परमोपास्या, कालोऽपि संक्रान्तिः अमावस्या पूर्णिमा च पुण्यजनकः, किन्तु तत्र सन्ध्यामुपासतः पापंभवेदत्रकापि लौकिकीयुक्तिर्नालम्। योगनेत्रास्तु याज्ञवल्क्यादयः स्मृतिकारा अस्मच्चाक्षुषवत् योगेन सन्धायाः पापजनकत्वमोक्षाञ्चक्रिरे दृष्ट्वा च तथा प्रतिपेदिरे—

“संक्रान्त्यां पक्षयोरन्ते द्वादश्यां श्राद्धवासरे।
सायं सन्ध्यां न कुर्वीत कृते च पितृहा भवेत्॥” इति।

नात्र लौकिकी युक्तिः प्रभवति तद्वोधनाय। योगिजनविज्ञानं लौकिकं बोधयितुं न शक्नोति, तथा चोक्तं वाचस्पतिमिश्रैस्तत्त्वकौमुद्याम्—

“आर्षन्तु विज्ञानं योगिनामूर्द्धस्रोतसां न लोकव्युत्पादनायालमिति।”

यत्र च लौकिकी यौगिकीच वर्त्तते युक्तिः सालौकिकयौगिकी। यथा स्मृतिविदो ब्रुवन्ति लवणयुक्तदुग्धपानं गोमांसभक्षणतुल्यमिति तथाच—

“ताम्रपात्रेपयःपानमुच्छिष्टे घृतभोजनम्।
दुग्धञ्चलवणैर्युक्तं सद्यो गोमांसभक्षणम्॥” इति।

लौकिकास्तु आयुर्वेदविदः कथयन्ति लवणयोगेन दुग्धस्याहितत्त्वमिति। तथा च शुश्रुते सूत्रस्थाने २० अध्याये—

(तत्र भक्ष्यवस्तुतोहितत्त्वमहित्वञ्च प्रतिपाद्य योगेनाहितत्वं कथयति)

“अनिष्टगन्धमम्लञ्च विवर्णं विरसञ्च यत्।
वर्ज्य सलवणं क्षीरं यच्च विग्रथितं भवेत्॥” इति।

अतएव धर्मविधौ यत्र युक्तिर्नास्तीवापाततो भाषते तत्रापि यौगिकी युक्तिरस्तीत्यवश्यम-कामेनापि स्वीकर्त्तव्यम्।

एवं सर्वत्र युक्तिप्रकाशःअवसराभावात् न सम्भवति, एवं मुनीनामप्यभिप्रायोल्लङ्घनं स्यात्, तेन हि ऋजुधियाम्, अशिक्षितानाञ्चानिष्ठपातः सम्भवेत्। मतिमन्तस्तु स्वयमेव युक्तिमनुसर्त्तुं शक्नुयुः। धर्म्मशास्त्रे तत्तत् फलादिप्रदर्शनञ्च नृणां रुच्यर्थम्। यथाह भागवते। ११।३।४६।

“वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे।
नैष्कर्म्यांलभते सिद्धिं रोचनार्था फलश्रुतिः॥

फलन्तु धर्म्मस्यानुषङ्गिकं लभ्यत एव, किन्तु कर्त्तव्यबुद्ध्यास्वं स्वं धर्मं कुर्य्यात् न तु परकीय धर्मं सुखसाध्यमपि। तथाच गीता—

“श्रेयान् स्वधर्मी विगुणः परधर्मात् स्वनुष्ठितात्।
स्वधर्मेनिधनं श्रेयः परधर्मो भयावहः॥”

अतएवशूद्रो ब्राह्मणधर्मं ब्राह्मणश्च शूद्रधर्मं रजकः क्षुरिणो धर्मं क्षुरीच रजकधर्मं नोपगृह्णीयात्। एवं सति विशृङ्खलता न कस्यापि धर्मे श्रेयःसाधने मतिर्दृढ़ा स्यात्।

वामा।भगवन्! श्रीमदुक्तं सर्वमेव सुसङ्गतं शिरसा गृह्यते। अधुना किञ्चिदन्यत् पृच्छ्यते धर्माङ्गम्।

शिवः। पृच्छ तावत् संक्षिप्य कथयामि।

वामा। अधुना अन्ये केचन नव्यशिक्षिताः कथयन्ति “धर्मेण सह भक्ष्याभक्षस्य कोऽपि सम्बन्धी नास्तीति” व्यवहरन्ति च ते तथैव।

तेषामनेके पित्रोः श्राद्धमाचरन्ति सन्ध्यातर्पणमप्यनुतिष्ठन्ति तीर्थान्यपि भ्रमन्ति, किन्तु इंलण्डीयसूपकारपाचितैः गोकुक्कुटमांसैर्विना तेषामुदरदेवस्य त्रिसन्ध्यं पूजा न सिध्यति। किमत्र तत्त्वम्।

शिवः। (विस्मित्य) अहो रे गरीयान् कालः समायातः यदश्रुतमपि श्रावयति अदृष्टमपि दर्शति। नारायण!!! भगवन्! विष्णो! राम! राम! शिव! शिव! मातर्भगवति! दुर्गे! निस्तारय पापसंसारात्। मातः पृथिवि! द्विधा भव प्रविशामि ते कुहरम्। (दीर्घं निःश्वस्य) वत्स! वामापद! ये त्वेवं कथयन्ति व्यवहरन्ति च पापं, तेषां कुशिक्षा कुसंसर्गश्च तत्र कारणं, ते केवलं लौकिकव्यवहाररक्षार्थं पित्रादीनां श्राद्धादिकमाचरन्ति न तु श्रद्ध्या। अश्रद्धया कृतञ्च धर्म्मकृत्यं न फलप्रदाने समर्थं तथाच श्राद्धतत्त्वे देवलः—

“प्रत्ययो धर्म्मकार्य्येषु तथा श्रद्धेत्युदाहृता।
नास्ति ह्यश्रद्दधानस्य धर्म्मकृत्ये प्रयोजनम्॥”

ये वदन्ति आहारेण समं नास्ति धर्मस्य कोऽपि सम्बन्धः, ते अतीवमूर्खाः उदरम्भरयः विद्वन्मानिनश्च। शृणु तावत्। ब्राह्मणस्य सुरापानं महापापजनकमधर्मः। तथाच मनुः—

“ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गणागमः।
महान्ति पातकान्याहुःसंसर्गश्चापि तैः सह॥”

वामा। सुरापानं कथमधर्मो भवितुं युज्यते। प्रत्युत सुराया बहुधा गुणा वैद्यके व्याख्याताः। परिमितया च पीतया सुरया रक्तं विशुध्यते, क्षुधा उद्रिच्यते, शरीरं पुष्णाति, मनश्चअवसादान्मुच्यते, आत्मा च निरतिशयमानन्दमनुभवति इति ज्ञातमेव भगवता। एवं तन्त्रशास्त्रेषु मद्यस्य प्रचुरगुणवत्त्वं सहस्रकृत्यः प्रतिपादितम्।

_______________________________________________________

* तथाच सुश्रुतेउत्तरतन्त्रे ४३ अध्याये।

“स्रिग्धैस्तदन्नेर्मांसैश्च भक्ष्यैश्चसह सेवितम्।
भवेदायुःप्रकर्षाय वलायोपचयाय च॥

____________________________________________________________

शिवः। सुरायास्तथाविधगुणवत्ता वर्त्तते सत्यं, किन्तु संयमिनः प्रति। असंयमिनस्तु अमितपायिनः प्रभ्रष्टलक्ष्याः धृत्यादिधर्मं जहति मनुष्यत्वात् प्रच्यवन्ते ततश्च पशुतोऽपि निकृष्ट व्यवहरन्ति। पश्य तावत् शुक्राचार्य्योऽपि दैत्यगुरुर्मद्यं पायं पायं प्रणष्टज्ञानः स्वसुतस्य निहतस्य कचस्यैव भृष्टं मांसमभुक्त, का कथा मानुषानामस्माकम्। अतएवोक्तं महानिर्वाणतन्त्रे—

“कृपाणधारागमनं व्याधकण्ठावलम्बनम्।
भुजङ्गधारणान्मन्ये अशक्यं कुलसाधनम्॥
त्वत्समा चेद्भवेन्नारो मत्समः पुरुषो यदि।
तदैव परमेशानि! समर्थः कुलसाधने॥”

अतएव खाद्येन समं धर्म्मस्यासन्नः सम्बन्धः।खाद्यानुरूपा बुद्धिः, बुद्धिसाध्यस्तु धर्म्मः। एवं मद्यवत् निषिद्धगोमांसादि अपि मतिभ्रंमकारि, मद्यमाशु करोति गोमांसादि तु खाद्यं विलम्बेनेति भेदः।

वामा। भगवन्तः! मनूक्ता याज्ञवल्क्योक्ताज्ञ सामान्यधर्माः श्रुताश्च भगवत्प्रसादात् कथञ्चिदधिगताश्च। अधुना धृत्यादिभ्योऽतिरिक्ताश्चेद्धर्मा अपरेऽपि सामन्या वर्त्तन्ते तेऽपि त्वदेकशरणं मामनुगृह्य वक्तुमर्ह्यन्ते।

शिव। अपरेऽपि अल्पाःसामान्यधर्मा विष्णुना कथिता यथा—

“क्षमा सत्यं दमः शौचं दानमिन्द्रियसंयमः।
अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया॥

आर्जवं लोभशून्यत्वंदेवब्राह्मणपूजनम्।
अनभ्यसूया च तथा धर्म्मःसामान्य उच्यते॥”

__________________________________________________

काम्यता मनसस्तुष्टिधैर्य्यंतेजोऽतिविक्रमः।
विधिवत् सेव्यमाने तु मद्येसन्निहिता गुणाः॥”

“त्र्यवस्थश्च मदो ज्ञेयः पूर्वमध्योऽथ पश्चिमः।
पूर्वे वीर्य्ये रतिः प्रतिर्हर्षभाष्यादिवर्द्धनम्॥

प्रलापी मध्यमे हर्षो युक्तायुक्तक्रियास्तथा।
विसंज्ञः पश्चिमे शेते नष्टकर्म्मक्रियागुणः॥”

____________________________________________________

वामा। गुरवः! १८१६ शाकीयाषाढ़मासि श्रीमद्भिः भङ्ग्या प्रतिपादितं यत् धर्म्मशास्त्रे विधिनियमपरिसंख्यादिकं देशकालभेदादिकम् अधिकारिभेदादिकञ्च निरूपितमस्ति, विना हि तज्ज्ञानं धर्म्मशास्त्रज्ञाने उपयोगितैव न जायते। इति अतस्तदाकर्णने चेतः समुत्कण्ठते।

शिव। वत्स! अद्य एतावत् तिष्ठतु उपरिष्टादवशिष्टं वक्ष्यामि।

वामा। दासे शरणं गते मयि अहैतुकीदया बद्धमूला समुदेति, अद्य प्रतिगन्तुमादिशन्तु।

शिवः। शुभाय गम्यतां पुनरागमनाय च।

(क्रमशः)

तत्त्वप्रपञ्चः।

(पूर्वप्रकाशितात्परम्)

“रजस्तमश्चाभिभूय सत्त्वं भवति भारत!।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा॥” १४।१०॥

एवं ते च गुणाः परस्परमाश्चयन्ति। तथा हि सत्त्वंगुणः स्पन्दं नियमनञ्चाश्रित्य रजस्तमसौ प्रकाशेनोपकरोति। रजोऽपि प्रकाशनियमनी समाश्रित्य चालनेन सत्त्वतमसीउपकुरुते। तमस्तु प्रकाशचालने आश्रित्य नियमनेन सत्त्वरजसोरुपकुरुते।

एवं त्रयो गुणाः परस्परं जननवृत्तयः! तथा हि एषामन्यतमो गुणः अन्यतमं जनयति—अन्यतमरूपेण परिणमयति—सदृशरूपेण जायते। यथा सत्त्वबहुलस्य साधोरसाधुसंसर्गात् सत्त्वमपि रजस्तमोरूपेण परिणमति। रजो बहुलस्य क्रुद्धस्यापि संयमिसंसर्गात् रजः सत्त्वरूपेण जायते। एवं तमो बहुलस्यापि अज्ञानिनः ज्ञानिसंसर्गात् तमः सत्त्वरूपेण विपरिणमति।

एवं ते च गुणाः अन्योऽन्यमिथुनवृत्तयः—अन्योन्यसहचराः एकं गुणमपहाय नैको गुणः प्रचरति तथाहि सत्त्वबहुलं साधुं सत्सुकर्म्मसु रजश्चालयति, तमश्च युक्तं निद्रापयति। रजोबहुलञ्च लोभिनं परद्रव्यहरणे सत्त्वं सुखयति। एवं तमो बहुलञ्चपारदारिकं रजश्चालयति सत्त्वमपि सुखयति इति। भवति चात्रागमः।

“अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्र गामिनः।
रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः॥

तमसश्चापि मिथुने ते सत्त्वरजसी उभे।
उभयोः सत्त्वरजसोर्मिथुनं तम उच्यते।
नैषामादिः संप्रयोगो वियोगो वोपलभ्यते॥”

एतदेव सांख्यकारिकायां स्पष्टीकरोति।

“प्रीत्यप्रीतिविषादात्मकाःप्रकाशप्रवृत्तिनियमार्थाः।
अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः॥”

त्रिगुणमय्याः प्रकृतेः सत्त्वस्य प्रकाशः रजसश्चालनं तमसस्तु नियमनं कुतः कारणात् सम्पदते? तदुच्यते। यत्तु सर्वपदार्थप्रकाशकं सत्त्वंतल्लघुकार्य्योद्गमने हेतुः गौरवप्रतिद्वन्द्रि यतोऽग्नेरूर्द्धज्वलनं भवति तदेव लाघवं कस्यचित्तिर्य्यग्गमने हेतुर्यथा वायोः। एवमिन्द्रियाणां विषयग्रहणे पटुत्वहेतुर्लाघवम्। गुरुत्वे हि मन्दानि स्युरिन्द्रियाणि इति। सत्त्वस्य प्रकाशकत्वमुक्तंतदेव उपपादयति सत्त्वतमसो स्वयमचलतया स्वस्वकार्य्यप्रवृत्तिं प्रति असमर्थे रजसा चालकेन उपष्ठभ्य अवसादात् प्रच्याव्य स्वकार्य्ये ते उत्साहं कार्य्येते। यतः रजश्चालकतया परितस्त्रैगुण्यं चालयत् गुरुभारेणावरकेण च तमसा स्वकार्य्ये प्रवृत्तिप्रतिबन्धकेन क्वचिदेव प्रवर्त्तत इति। ते च गुणाः परस्परविरोधिनोऽपि सुन्दोपसुन्दवत् न ध्वंसन्ते, प्रत्युत अनलविरोधिवर्त्तितैलवत् सहानलेन रूपप्रकाशलक्षणंकार्य्यं कुरुतः। यथा वातपित्तश्लेष्मानः परस्परं विरोधिनोऽपि देहधारणरूपं कार्य्यं

विदधति। एवं सत्त्वादयो गुणा अपि परस्परमनुवर्त्तन्ते उपकुर्वते स्वस्वकार्य्यं करिष्यन्ति च।

सा च गुणमयीप्रकृतिः पुरुषप्रयोजनार्थं सुखदुःखमोहमयं जगत् कुरुते। अत्र च सुखदुःखमोहाः परस्परं विरोधिनः स्वस्वानुरूपाणि सुखदुःखमोहात्मकान्येव कारणाणि अनुसृत्य प्रवर्त्तन्ते। तेषाञ्च परस्परमभिभाव्याभिभावकत्वात् नानाविधत्वम्। एकैव परमरमणीया युवतिः स्वामिनं सुखा करोति कथमिति चेत्, स्वामिन प्रति तस्याः सुखरूपेण परिणमनात्। सैव युवतिः सपत्नीदुःखा करोति, कथमिति चेत् ताः प्रति तस्याः दुःखरूपत्वात्। एवम् अन्यांश्च पुरुषान् तामलभमानान् सैव मोहयति, तत्कथमिति चेत् तान् प्रति तस्या मोहरूपसमुद्भवात्। सर्वेष्वेव वस्तुषु युवतिर्दुष्टान्तः। तत्र यत्सुखहेतुस्तत्सुखात्मकं सत्त्वम्, यद्दुःखहेतुस्तद्दुःखात्मकं रजः, यच्च मोहहेतुस्तन्मोहात्मकं तमः। एतदेव सांख्यकारिकाया माह—

“सत्त्वंलघु प्रकाशकमिष्टमुपष्टम्भकं चञ्चलञ्च रजः।
गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः॥”

ननु यदुक्तं त्रिगुणमविवेकीत्यादिना गुणत्रये अविवेकित्वं सामान्यत्वम् अचेतनत्वं प्रसवधर्म्मित्वञ्चास्ति, तत्तु वरं प्रत्यक्षतो दृष्टेषु पृथिव्यादिषु अनुभवसिद्धं भवति। किन्तु ये पुनः सत्त्वरजस्तमांसि नानुभवपथमधिरोहन्ति तेषां अविवेकित्वं विषयत्वं सामान्यत्वम् अचेतनत्वं प्रसवधर्म्मित्वञ्च कस्मादनुमातव्यम्?

सत्यमुच्यते। दृश्यते एतत् यथा चैगुण्यात् एकैव स्त्रीकस्यचित् सुखं कस्यचित् दुःखं कस्यचिन्मोहञ्च जनयति, तथा यद्यत् सुखदुःखमोहात्मकं तत्तत् अविवेक्यादिमत्। एवं पुरुषस्तु चैतन्यमयः तत्राविवेकादिकं तिष्ठतीति न सङ्गतं वचः। अतोऽगत्या अविवेकादिकं त्रिगुणेष्वेव निश्चेतुं युज्यते।

(क्रमशः)

_________________

ब्रह्मचर्य्यम्।

(पूर्वप्रकाशितात्परम्।)

नीचैः शय्यासनञ्चास्थ सर्वदा गुरुसन्निधौ।
गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत्॥१९८॥

  1. When his teacher is nigh, let his bed or seat below; but within sight of his teacher he shall not it carelessly at ease.

नोदाहरेदस्य नाम परोक्षमपि केवलम्।
नचैवास्यानुकुर्वित गतिभाषितचेष्टितम्॥१९९॥

  1. Let him not pronounce the mere name of his teacher (without adding an honorific title) behind his back even, and let him not mimic his gait, speech, and deportment.

गुरोर्यत्र परीवादो निन्दा वापि प्रवर्त्तते।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः॥२००॥

** **200. Wherever (people) justly censure or falsely defame his teacher, there he must cover his ears or depart thence to another place.

परीवादात् खरो भवति श्वा वै भवति निन्दकः।
परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी॥२०१॥

** **201. By censuring (his teacher), though justly, he will become (in his next birth) an ass, by falsely defaming him, a dog; he who lives on his teacher’s substance, will become a worm, and he who is envious of his merit), a (larger) insect.

दूरस्थो नार्च्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः।
या नासनस्थश्चैवैनमवरुह्याभिवादयेत्॥२०२॥

** **202. He must not serve the (teacher by the intervention of another) while he himself stands aloof, nor when he (himself) is angry, nor when a woman is near; if he is seated in a carriage or on a (raised) seat, he must descend and afterwards salute his (teacher).

प्रतिवातेऽनुवाते च नासीत् गुरुणा सह।
असंश्रवे चैव गुरोर्नकिञ्चिदपि कीर्त्तयेत्॥२०३॥

** **203. Let him not sit with his teacher, to the leeward or to the windward (of him); nor let him say anything which his teacher cannot hear.

गोऽश्वोष्ट्रयानप्रासादस्रस्तरेषु कटेषु च।
आसीत् गुरुणा सार्द्धंशिलाफलकनीषु च॥२०४॥

** **204, He may sit with his teacher in a carriage drawn by oxen, horses, or camels, on a terrace, on a bed of grass or leaves, on a mat, on a rock, on a wooden bench, or in a boat.

गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत्।
न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत्॥२०५॥

** **205. If his teacher’s teacher is near, let him behave (towards him) as towards his own teacher; but let him, unless he has received permission from his teacher, not salute venerable persons of his own (family).

विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु।
प्रतिषेधत्सु चाधर्म्मान् हितञ्चोपदिशत्स्वपि॥२०६॥

  1. This is likewise (ordained as) his constant behaviour towards (other) instructors in science, towards his relatives (to whom honour is due), towards all who may restrain him from sin, or may give him salutary advice.

श्रेयःसु गुरुवद्वृत्तिं नित्यमेव समाचरेत्।
गुरुपुत्रेषु चार्य्येषु गुरोश्चैव स्वबन्धुषु॥२०७॥

** **207. Towards his betters let him always behare as towards his teacher, likewise towards sons of his teacher, born by wives of equal caste, and towards the teacher’s relatives both on the side of the father and of the mother.

बालः समानजन्मा वा शिष्यो वा यज्ञकर्म्मणि।
अध्यापयन् गुरुसुती गुरुवन्मानमर्हति॥२०८॥

** **208. The son of the teacher who imparts instruction (in his father’s stead), whether younger or of equal age, or a student of (the science of) sacrifices (or of other Angas), deserves the same honour as the teacher.

उत्सादनञ्च गात्राणां स्नपनोच्छिष्टभोजने।
न कुर्य्याद् गुरुपुत्रस्य पदयोश्चावनेजनम्॥२०९॥

** **209. (A student) must not shampoo the limbs of his teacher’s son, nor assist him in bathing,

nor eat the fragments of his food, nor wash his feet.

गुरुवत् प्रतिपूज्याः स्युः सवर्ण गुरुयोषितः।
असवर्णस्तु संपूज्याः प्रत्युत्थानाभिवादनैः॥२१०॥

  1. The wives of the teacher, who belong tothe same caste, must be treated as respectfully as the teacher; but those who belong to a different caste, must be honoured by rising and salutation.

अभ्यञ्जनं स्नापनञ्च गात्रोत्सादनमेव च।
गुरुपत्त्या न कार्य्याणि केशानाञ्च प्रसाधनम्॥२११॥

** **2I1. Let him not perform for a wife of his teacher (the offices of) anointing her, assisting her in the bath, shampooing her limbs, or arranging her hair.

गुरुपत्नौ तु युवतिर्नाभिवाद्येह पादयोः।
पूर्णविंशतिवर्षेण गुणदोषौविजानता॥२१२॥

** **212. (A pupil) who is full twenty years old, and knows what is becoming and unbecoming, shall not salute a young wife of his teacher (by clasping) her feet.

स्वभाव एष नारीणां नराणामिह दूषणम्।
अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः॥२१३॥

  1. It is the nature of women to seduce men in this (world); for that reason the wise are never unguarded in (the company of) females.

अविद्यांसमलं लोके विद्वांसमपि वा पुनः।
प्रमादाह्युत्पथं नेतुं कामक्रोधवशानुगम्॥११४॥

** **124. For women are able to lead astray in (this)

world not only a fool, but even a learned man, and (to make) him a slave of desire and anger.

मात्रा स्वस्रा दुहित्रावा न विविक्तासनो भवेत्।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षीत॥२१५॥

** **215. One should not sit in a lonely place with one’s mother, sister, or daughter; for the senses are powerful, and master even a learned man.

कामन्तु गुरुपत्नीनां युवतीनां युवा भुवि।
विधिवद्वन्दनं कुर्य्यादसावचहमिति ब्रुवन्॥२१६॥

  1. But at his pleasure a young student may prostrate himself on the ground before the young wife of a teacher, in accordance with the rule, and say, ‘I, N. N., (worship thee, O lady).’

विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम्।
गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन्॥२१७॥

** **217. On returning from a journey he must clasp the feet of his teacher’s wife and daily salute her (in the manner just mentioned), remembering the duty of the virtuous.

यथा खनन् खनित्रेण नरो वार्य्यधिगच्छति।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति॥२१८॥

** **218. As the man who digs with a spade (into the ground) obtains water, even so an obedient (pupil) obtains the knowledge which lies (hidden) in histeacher.

मुण्डो वा जटिलो वा स्यादथ वा स्याच्छिखाजटः।
नैनं ग्रामेऽभिनिम्लेचेत् सूर्य्यो नाभ्युदियात् क्वचित्॥२१९॥

  1. A (stndent) may either shave his head, or wear his hair in braids, or braid one lock on the crown of his head; the sun must never set or rise while he (lies asleep) in the village.

तञ्चेदभ्युदियात् सूर्य्यः शयानं कामचारतः।
निम्लोचेद्वाप्यविज्ञानाज्जपन्नुपवसेद्दिनम्॥२२०॥

  1. If the sun should rise or set while he is sleeping, be it (that he offended) intentionally or unintentionally, he shall fast during the (next) day muttering (the Savitri ).

सूर्य्येण ह्यविनिर्मुक्तः शयानोऽभ्युदितश्च यः।
प्रायश्चित्तमकुर्वाणो युक्तः स्यान्महतैनसा॥२२१॥

  1. For he who lies (sleeping), while the sun sets or rises, and does not perform (that) penance, is tainted by great guilt.

आचम्य प्रयतो नित्यमुभे सन्ध्ये समाहितः।
शुचौ देशे जपं जप्यमुपासीत यथाविधि॥२२२॥

  1. Purified by sipping water, he shall daily worship during both twilights with a concentrated mind in a pure place, muttering the prescribed text according to the rule.

यदि स्त्री यद्यवरजः श्रेयः किञ्चित् समाचरेत्।
तत्सर्वमाचरेद्युक्तो यत्र वास्य वसेन्मनः॥२२३॥

  1. If a woman or a man of low caste perform

anything (leading to) happiness, let him diligently practise it, as well as (any other permitted act) in which his heart finds pleasure.

धर्म्मार्थावुच्यते श्रेयः कामार्थो धर्म्म एव च।
अर्थ एवेह वा श्रेयस्त्रिवर्ग इति तु स्थितिः॥२२४॥

  1. (Some declare that) the chief good consists in (the acquisition of) spiritual merit and wealth, (others place it) in (the gratification of) desire and (the acquisition of) wealth, (others) in (the acquisition of) spiritual merit alone, and (others say that the acquisition of) wealth alone is the chief good here (below); but the (correct) decision is that it consists of the aggregate of (those) three.

आचार्य्यो ब्रह्मणो मूर्त्तिः पिता मूर्त्तिः प्रजापतेः।
माता पृथिव्यामूर्त्तिस्तु भ्राता स्वोमूर्त्तिरात्मनः॥२२५॥

  1. The teacher, the father, the mother, and an elder brother must not be treated with disrespect, especially by a Brahmana, though one be grievously offended (by them).

आचार्य्यश्च पिता चैव माता भ्राता च पूर्वजः।
नार्त्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः॥२२६॥

  1. The teacher is the image of Brahmana, the father the image of Pragapati (the lord of created beings), the mother the image of the earth, and an (elder) full brother the image of oneself.

यं माता शितरौ क्लेशं सहते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्त्तुं वर्षशतैरपि॥२२७॥

  1. That trouble (and pain) which the parents undergo on the brith of (their) children, cannot be compensated even in a hundred years.

तयोर्नित्यं प्रियं कुर्य्यादाचार्य्यस्य च सर्वदा।
तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते॥२२८॥

** **228. Let him always do what is agreeable to those (two) and always (what may please) his teacher; when those three are pleased, he obtains all (those rewards which) austerities (yield).

तेषां त्रयाणां शुश्रूषा परमन्तप उच्यते।
न तैरभ्यननुज्ञातो धर्म्ममन्यं समाचरेत्॥२२८॥

** **229. Obedience towards those three is declared to be the best (form of) austerity; let him not perform other meritorious acts without their permission.

त एव हि त्रयो लोकास्त एव त्रय आश्रमाः।
त एव हि त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः॥२३०॥

** **230. For they are declared to be the three worlds, they the three (principal) orders, they the three Vedas, and they the three sacred fires.

पिता वै गार्हपत्योऽग्निर्माताग्निर्दचिणः स्मृतः।
गुरुराहवनीयस्तु साम्नि त्रेता गरीयसी॥२३१॥

** **281. The father, forsooth, is stated to be the Garhapatya fire, the mother the Dakshinagni, but the teacher the Ahavaniya fire; this triad of fires is most venerable.

श्रीश्रीदुर्गा शरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-173133441851.jpg”/>
श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्तीजमानिय।
मायावलम्ब्यते सेयमम्बाश्रीशिवसुन्दरी॥

<MISSING_FIG href=”../books_images/U-IMG-173133447652.jpg”/>

मासावतरणिका।

निस्तेजयं स्वपनमग्निमपि प्रकामं
भ्रष्टश्रियं तरुचयं रचयन् स चायम्।
पौषः सरोष इव शोणितशोषयन्त्रः
मर्मस्पृशा तुहिनफुत्कृतिवायुनैति35

<MISSING_FIG href=”../books_images/U-IMG-173133450853.jpg”/>

उद्भटश्लोकाः।

“राजोत्यले हरिभुजामपि केशवस्य
यस्योरसीन्दुरदनञ्च जटाकलापे।
शङ्खाम्बरः सततगादरिनाथसूनुः
कान्ता स वोऽगतनया विपुलं ददातु॥२३३॥ +

त्वमगस्त्यस्त्वहं राम इदानींकथमादरः।
अवस्था पूज्यते राजन् न शरीरं शरीरिणा॥२३४॥

“मनः कृतं कृतं राम! न शरीर कृतं कृतं।
येनैवालिङ्गिता कान्ता तेनैवालिङ्गिता सुता॥” २३५॥

____________________________________________________________

  • यस्यशिवस्य उरसि हरिभुजां सर्पाणां राजा वासुकिरति। यस्य च अदनं भोजनं शवस्य मृतस्य उत्पले मांसरहिते के मलके। यस्य च जटाकलापे इन्दुञ्चन्द्रः। यश्च शिवः स्वाम्बरः दिगम्बरः एवं सततगादरिनाथसूनुः सततगं वायुं प्रति यःस सततगात् तस्य अरिर्मयूरः तस्य नाथःकार्त्तिकेयः सूनुर्यस्य सः। एवं अगतनया पार्वती कान्ता यस्य गृहिणी, स शिवः वः युष्माकं विपुलं शं मङ्गलं ददातु इत्यर्थः।

___________________________________________________

श्रीः

(धर्म्मस्तवः)

श्रीपतिन्नौमि मदुबुद्धेःप्रसादार्थं दयाम्बुधिम्।
वर्त्तते जगतो नूनं यस्याऽधीने स्थितित्रयम्॥१॥

श्रीद्वैतमतसंस्थापकाचार्य्यंवैष्णवोत्तमम्।
मध्वन्नमामि मद्बुद्धि-शुद्ध्यैतद्गतमानसः॥२॥

येन धर्म्मविवेकाख्यो निबन्धोऽस्ति प्रकाशितः। “युग्मम्”
सँल्लापरूपस्मारार्थ “श्चन्द्रिकायां” महात्मना॥३॥

जयचन्द्रं पूज्यपादं मत्सिद्धान्तशिरोमणिम् ।
विभूषणं वन्दे भट्टाचार्य्यकुलध्वजम् ॥ ४ ॥

महर्षिसंस्तुतं धर्मं स्तौमि क्षुद्रमतिर्बुधाः।
राजहंसैः सदा सेव्यां चटको जाह्नवीमिव॥५॥

नमोऽस्तु धर्माय सनातनाय, स्वसेविनां भञ्जितयातनाय।
समस्त सत्कर्मगणाश्रयाय, जितेन्द्रियैरेव समाश्रिताय॥६॥

कथं क्षभन्ते ते मर्त्या येऽज्ञानद्धान्तचारिणः।
धर्मदीपं विनाऽनर्घ्यंमुक्तिमार्गं सुरञ्जितम्॥७॥

धर्मो हि भूषणं पुंसां सुभ्रुवां कवरीभरः।
माधुर्य्यं वचसां, विद्या तरुणानां सुरूपिणाम्॥८॥

धर्माद्दुर्गुणहानं तस्मात्सदसद्विवेकता बुद्धेः।
तस्याः सदाश्रयेच्छा ततश्च नरजन्मसार्थकता॥९॥

धर्मवर्मभृतः काऽपि यमनिस्त्रिंषिकाऽहतिः।
बाधते न यथा शीतं पञ्चाग्नेर्मध्यवर्त्तिनम्॥१०॥

*धर्मिणां36 नास्ति धर्मस्य भीतिर्धर्मविहारिणाम्।
शुद्धधर्मवतां जातु धर्माणामिव सज्जनाः॥११॥

धर्मो धर्ममृतां सुरेशनगरीपाथेयमन्यादृशम्
धर्मो दुर्गतिरोगभीतमनसां जीवातुरित्युच्यते।
धर्मः शर्मकरः कलौ तनुभृतां धर्मो भवाब्धौ तरि-
र्धर्मादन्यतमन्न वेद्मि जगतः सञ्जीवनं पावनम्॥१२॥

यदि हितरतिः सर्वो देहो निदानमुपेक्षते
समधिकगुणं धर्मं मूढ़ः कथं लभते फलम्।
वसनरचनाकांक्षीतन्तूनपास्य समीहितम्
कुत उपगतः कुत्राप्यल्पं विवेकसुदुर्गतः37॥१३॥

धर्मश्रद्धाविधुरैर्दुर्गतसम्माननीयसत्पितरौ।
कथमिव संसेव्येते धनवनितालोलुपैर्नृसमौ38+॥१४॥

विना धर्मं सुखं नास्ति सुखवाच्छा न कस्य च।
तस्मात्सर्वैः प्रयत्नेन साधनीयतमो हि सः॥१५॥

अधर्माल्लोकानां विषमविषयाक्रान्तमनसा-
मगम्यासंभोगे प्रसरति मनोबन्धरहितम्।
अभक्ष्येभक्ष्यत्वं चपलरखना संजनयति
प्रभूतो दुःखाग्निर्दहति हि ततो देवमखिलम्॥१६॥

तदधर्मोगर्हणीयः प्राग्रुचिः सर्वथा जनैः।
किं भुज्यते रसालापि विषमिश्रा मनीषिभिः॥१७॥

धर्माद्बभूव विजयी युधिष्ठिरोऽधर्मतश्च तद्रिपवः।
नाशं जग्मुःसर्वे श्रयताऽन्यतरं स्ववाच्छितं स्मृत्वा॥१८॥

धर्माऽधर्मौहेतू विजये रामस्य रावणस्यान्ते।
एतत्सम्यग्बुद्ध्वाधर्ममणिं हृङ्गतं कुरुतः॥१८॥

शास्त्रद्वारपराङ्मुखी हि नितरां संगेन पाषण्डिनां,
भङ्गप्रायसुधर्मभक्तिरभवत् प्राक्काव्यविद्याभवः।

दृष्ट्वा धर्मविवेकमार्य्यलिखितं श्रद्धालुरद्यास्ति यो,
भीमाचार्य्यसुतेन तेन नरसिंहेन प्रणीतः स्तवः॥२०॥

पुणेकरोपाह्वः—श्रीनरसिंहशर्मा
कित्त्रर (बेवगांव)

__________

उद्भटप्रसङ्गः।

(श्वशुर-पुत्रवध्वौ।)

कस्मिंश्चिद्देशे दानवीरो नाम महान् धनिक एक आसीत्। तस्य खलु आपातमधुरे विषयोपभोगे नासीन्मनसः प्रवणता।स केवलं निरन्तरं दाने एव व्यसनतामापन्नः एकस्मै प्रचुरं द्रव्यं ददानोऽपि नास्मै किञ्चिदहमदामित्येवमाशु विस्मृतिं गतः पौनःपुन्येन तस्मै तक्षाएव ददाति स्म। एवममितदानात् द्रागेव क्षीणविभवः परं दारिद्र्यंगतः।

तथापि नासौ दानव्यसनादुपयशाय।प्रत्युत ऋणमङ्गी कुर्वाणोऽपि यथापूर्वं केवलं द्रव्यं वितरत्येव न प्रतिशृणोति गुरुणां प्रतिषेधं न वा गृह्णाति मन्त्रिणामुपदेशम्।

तस्मिन्नेव समये तस्यैव राज्ये कस्यचित् नीतिव्रतनाम्नःक्षत्रस्य नवोऽभ्युदयो जातः। पूर्वतनो धनिकस्तु नूतनस्य नीतिव्रतस्य लक्ष्मीमतः अधमर्णोभूत्वा क्रमश आकण्ठं ऋणपारावारे निमग्नः ऋण
शोधनाथ समग्रां भूसम्पत्तिं तस्मा एव नवधनिने प्रादात्। एवञ्च सुतरामेव प्राचीनं तमपहाय राजश्रीर्नवीनमेव तं नीतिव्रतं धनिक मालिलिङ्ग। नीतिव्रतस्य तनयोऽपि कुलशेखरीभूतः एक आसीत्।

दानवीरस्तु दुर्लभऋणोऽपि परमं निर्वेदमापत्रः चिन्तयामास। अहोअधुना भारभूतमिव जीवनं मृषा वहामि। इदानीमलब्ध वेतनास्तु भृत्या यथेच्छं गताः। हाधिक् हाधिक् स्त्रीधनमेवेदानीं

जीवनसहायःयदधुना39 सर्वा एव सम्पदो मम नीतिव्रतमेवाशिश्रियु स्तर्हि अनवद्याङ्गींकन्यामपि हेमाङ्गीं नाम नीतिव्रतपुत्राय श्रीधराय प्रदास्यामि, एवं सुष्ठु विचार्य्यतथैव नीतिव्रतपुत्राय धराय स्वकन्यां हेमाङ्गीं प्रायच्छत्।

नीतिव्रतस्य तु नीतिमधि श्रियः क्रमन्ते, संसिक्तानुदिनं व्रतती सदाश्रयमालम्बमाना निष्प्रत्यूहं लब्धोदया च कुसुमानि च फलानि च प्रसवति। स खलु प्राणानपि पणायन्ते तथापि नीतिपथात् तणीयसीमपि रेखां न व्यत्येति। न परिगणयति वचनीयामर्वाग्दृशाम्। न व्ययति मितमतिक्रम्य द्रव्यं। एवं स नीतिव्रतः सुखेन समयं नयति।

अथ स कदाचिदित्थं चेतसि चिन्तयति अहो दानवीरस्य तस्य कन्यायै कथञ्चित् किञ्चिदुपदेष्टव्यं येनहि दुःखसम्पर्कमपि नोदर्कंदम्पतो भजेते। गृहिणीभिर्व्यये मनाक् वज्रमुष्टिभिर्भवितव्यं तथाच मनुः।५।१५०

‘सदा प्रहृष्टया भाव्यं गृहकार्य्येषु दक्षया।
सुसंस्कृतोपस्करया व्यये चासुक्रहस्तया॥” इति

अथैकदा नीतिव्रतः स्वाभिप्रायं व्यज्ञापयत् मदीया स्नुषामाता कथङ्कारं कौट्टग्वा पचति इत्यहं परीक्षे, अत आगामिदिवसे वधूमात्रा पक्तव्यं परिवेशयितव्यं मया च भोक्तव्यमिति।

अथ परेद्यवि यथासमयमशितुं नीतिव्रत उपविशति। विविधे च स्वर्णादिपात्रे सुपक्वमन्नं व्यञ्जनञ्च कियत्प्रदत्तम्। दत्त्वा च हेमाङ्गी प्रच्छन्नं गवाक्षछिद्रेषु सकौतुकं पश्यति।

श्वशरस्तु नीतिव्रतः प्रथमतः रजतपात्रादुष्णोष्णे अन्ने यावत्

घृतं पातयति तावन्मक्षिकैका व तत्र पपात पश्यति, ततश्च मक्षिका पक्ष्मलग्नमपि घृतं नापव्ययतामेतु इति विविच्य एकधा द्विधा त्रिधा च मक्षिकामुष्णभक्तोपरि निदधाति। पुनः पुनः पश्यति च, यदा पश्यति नास्तीदानीं मक्षिकापक्ष्णोः किञ्चिदपि घृतं तदा तां परित्यजति। एवं सानन्दं षड्रसोपेतं विविधं व्यञ्जनं मधुस्फीतं स्नुषया परिवेशितं सुशृतं क्षीरञ्च सुतृप्तं आकण्ठमुदरपूरं स भुङ्क्ते। कथयति च स्वभार्य्यामन्यांश्चवधूमातुः पाकोऽतीव हृद्या मधुरतर इति।

अथ दृष्ट्वा च श्वशुरेण हविषो निष्कासनं मक्षिकापक्ष्मलग्नस्य हेमाङ्गी चिन्तामाप दुरत्ययां। अहो अनवरतमवांमनसगोचरमर्थिसार्थेभ्यो दानं विदधानस्य न्यक्कृतकल्पपादपस्य मदीयतातपादस्यवेश्मनि किङ्करा अपि घृतेनाभ्यङ्गमाचरन्ति। प्रदीपेषु च घृतमेव व्यवहरन्ति। काककुक्कुरा अपि अवहेलया घृतं नाश्रन्ति। पत्तयोऽपि घृतेनोपानहां स्निग्धतामापादयन्ति। इतः किमिदमतिचित्रं यन्मक्षिकापक्ष्मभ्यामपि घृतादानम्? न जाने का वा दशा लभ्यते मन्दभागिन्या पित्रोरतिदुर्ललितयाच मयेति40। कथङ्कारं वा प्रतिक्षणं निपुणं सावहितापि तावन्ति गृहकृत्यानि सम्पादयामि; इत्येवं दुश्चिन्तयन्तीहेमाङ्गीपरमातङ्केन समयं समापयति। कथमपि नास्यैप्ररोचन्ते भक्ष्याणि। न वा प्रतिरात्रमेकधापि लोचनकमले मुद्रयति निद्रा। एवमनन्ननिद्रारुचिः साहेमाङ्गी कृशान्यप्यङ्गकाणि कृशीकरोति।

नीतिव्रतस्तु निशम्य तथाविधामवस्थां शरीरिकीं स्नुषायाश्चिकित्सार्थं चिकित्सकसार्थं न्ययुङ्क्त। चिकित्सकास्तु निपुणम् निरुण्यपि केयं विकृतिः कस्य वा रोगस्य निर्णेतुमिदमिह तथ्यमिति नाशक्नुवन्। गणत्कारास्तु ग्रहवैगुण्यमाकलयन्ति। भीति-

कास्तु देवयोनिविशेषानामियं विभीषिकेति निश्चिम्वन्ति। तथाच युक्तमुक्तमभियुक्तैः।

“वैद्या वदन्ति कफपित्तमरूद्विकारान्
ज्योतिर्विदोग्रहगणान् परितर्कयन्ति।
भूताभिभूत इति भूतविदो वदन्ति
कर्मेति शुद्धमतयो यतयो वदन्ति॥” इति।

अथ यदा पश्यति नीतिव्रतः पृथग्विधैरप्युपायैर्नापगच्छति स्नुषाया तानवीग्लानिः। तदा मनसि विहस्य स्मारं स्मारञ्च ग्लानि निदानं तच्छान्त्यर्थं महासंरम्भं क्रतुमेकं ऋत्विग्भिरारब्धवान्। तत्र च यज्ञे हीरकमुष्टिभिर्यष्टव्यं यावद्रोगोपशमम्।

अथ वित्तते यज्ञे स्वपुत्रं श्रीधरमाहूय नीतिव्रत ऋत्विङ्मुखेनाह अयि नन्दन! श्रुतं त्वया स्नुषाया ग्लानिविनाशकं श्वः काले यज्ञमेकमकारयिष्यम् इति। तत्र च अद्य मात्रा स्नुषया त्वया च संयतेन भाव्यं। कोषागारे च स्थातव्यं। श्वस्तु स्नुषामातुः करस्पर्श पूतानि हीरकाणि यज्ञभवने प्रेरयितव्यानि।

परेद्युर्यज्ञः प्रवृत्तः। प्रथमत ऋत्विग्भिरनुमता हेमाङ्गी लौहपेटकादवतारितानि हीरकाणि शतमुष्टिमितानि दक्षिणहस्तेन सर्वतः पस्पर्श। ततश्चतानि यज्ञगेहं नीतानि प्रदीप्ते च जातवेदसि हेमाङ्गीशान्तिकामनया ऋत्विजो जुहुवुः। पुनरप्यन्यां हीरकपूर्णां लौहमञ्जुषामानेतुं भृत्या सदस्याज्ञप्ता कोषागारं जग्मुः। तानवलोक्य हेमाङ्गीभर्त्तारं श्रीधरं पृच्छति अयि वल्लभ! इतो नीतैरसंख्यातैर्होरकैः किमद्य विधीयते? श्रीधर आह, अयि प्रिये! किमन्यत्, त्वमनुदिनं कान्त्याम्लायसि देहे च क्षिणासि अतः सर्वा एव सम्पदो विफला मन्यमानेन तातपादेन त्वत्कृतेमहत् स्वस्त्ययनमनुष्ठापितम्। यज्ञे च तानि हीरकाणि प्रदीप्त हुताशने जुहावयिषति। तदाकर्ण्य हेमाङ्गी चिन्तयति हंही प्राचीनोऽयं श्वशुरः

अनतिविलम्बेन चेत् कालवशं गमिष्यति, तर्हि असौ कञ्चिदपि दारिद्र्यक्लेशं नानुभविष्यति। किन्तु इत्थं महारत्नेषु दह्यमानेषु भविष्यति दारिद्र्यवेदनानां परां कोटीमावामेवानुभविष्यावः इति। ततो व्यक्तमाह अयि जीवितनाथ! मद्वाक्यादाप्तजनैः श्वशरं निवेदय “अहमधुना यज्ञमहिम्ना स्वस्था हृष्टा चाभवम्; मा पुनर्महार्घ्याणि रत्नानि भस्मीभावं कृषत।

एवमाप्तजनोपनीते वधूवृत्तान्ते नीतिव्रतः सानन्दमिदमाह “चेदेवं, स्नुषा माता वीतग्लानिस्तदा यथेच्छं सहर्षं भुङ्क्तां निद्रातु हृष्यतु हसतु कौतुकं प्रकटयतु ततश्चास्मान् प्रीणयतु।

ततः प्रभृति नासौ कृपणो मे श्वशुरः यः खलु मदर्थं महामूल्यानि रत्नानि चाग्नौ जुहाव इति सानन्दा वीतदुश्चिन्ता हृष्टा च पुष्टा च पुत्रवधू हेमाङ्गीसुखेन समयं नयति।

अथापरेद्युःनीतिव्रतः स्नुषायैविनीतायै तालपत्रे श्लोकद्वयं लिखित्वा नीतिमुपदिदिक्षुः प्रहितवान् यथा—

“यो जानात्यर्जितुं सम्यक् रक्षितुं न विचक्षणः।
स तु मूर्खतमो लोके वृथा तस्यार्जनश्रमः॥”

**“यः काकिणीमप्यपथप्रपन्नां
निषेवते निष्कसहस्रतुल्याम्।
काले च कोटिष्वपि मुक्तहस्त-
स्तं राजसिंहं न जहाति लक्ष्मीः41॥” **इति।

वैदिकाख्यायिका।

बृहदारण्यके ६ ष्ठाध्याये २यंब्राह्मणम्॥

(तच्चश्वेतकेतु प्रवाहण्योः प्रसङ्गः)

एकदा श्वेतकेतुर्नाम आरुणेरपत्यं ऋषिः पित्रानुशिष्टः सन् आत्मनो यशो विद्वत्सु प्रख्यापनार्थं पञ्चालानां परिषदमाजगाम। तत्र पञ्चालानां परिषदं जित्वा राज्ञोऽपि महतीं समितिं जेष्यामीति गर्वेण जीवलराजपुत्रं स्वभृत्यैरात्मनः परिचर्य्यांकारयन्तं प्रवाहणनामानं राजानमाजगाम। स राजा पूर्वत एव तस्य विद्याभिमानमाकर्ण्यविनेतव्योऽयमिति मत्वा तं दृष्ट्वा च आगतमात्रमेव अहो बालक!!! इत्येवं संबोधयामास। राज्ञाएवमवज्ञया संबोधितः सोऽपि श्वेतकेतुः आकुपितः सन् “भोः”!!! इति राज्ञोऽननुरूपमेव प्रतिशुश्राव। राजा च प्रत्युवाच “किं पित्रा समनुज्ञप्तोऽस्यत्रागन्तुम्?, तदा श्वेतकेतुरपि प्रत्युवाच वाढ़मिति अनुशिष्टोऽस्मि पित्रा पृच्छ यदि संशयस्ते॥१॥

१। यद्येवं विशेषेण वेत्सि किं येन प्रकारेण म्रियमाणाः सत्यः काश्चित्प्रजा अन्धेन मार्गेण गच्छन्ति काश्चिच्चतदितरेण मार्गेणेति प्रजा विप्रतिपद्यन्ते इति राजा पप्रच्छ। श्वेतकेतुराह तन्न वेदेति।

२।पुनरपि प्रवाहणः पप्रच्छ, तर्हि त्वं वेत्थयेन प्रकारेण परलोकगताः प्रजाः पुनरिमं लोकं आगच्छन्ति इति? स श्वेतकेतुः प्रत्युवाच नेत्यहं वेद।

______________________________________________________

१। श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम। स आजगाम जैवलिं प्रवाहणं चारयमाणं तमुदीक्ष्याभ्युवाद कुमारा ३ इति स भी ३ इति प्रतिशुश्रावानुशिष्टोऽन्वसि पित्रेत्योमिति होवाच॥१॥

२।वेत्थ यथेमाः प्रजाप्रयत्यो विप्रतिपद्यन्ता ३ इति नेति हैवोवाच वेत्यो यथैमं लोकं पुनरापद्यन्ता ३ इति नेति हैवोवाच; वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः

________________________________________________________

३।पुनरपि प्रवाहणः पप्रच्छ—श्वेतकेतो! त्वं विजानासि प्रसिद्धेन ज्वरादिरोगेण पुनः पुनर्म्रियमाणेः बहुभिर्येन प्रकारेण असौलोको न परिपूर्य्यते इति। नाहं वेद्मीति श्वेतकेतुः प्रत्युवाच।

४। पुनपि प्रवाहणः पप्रच्छ—श्वेतकेतो! यत्संख्याकायामाहुतौ हुतायां आपः यदा पुरुषाकाररूपेण परिणता भूत्वा सम्यगुत्थिताः सन्तः वदन्ति इति त्वं वेत्थ। तदाकर्ण्य श्वेतकेतुः प्रत्युवाच नाहं वेद्मीति।

५।पुनरपि प्रवाहणः पप्रच्छ हे श्वेतकेतो यत्कर्म्म कृत्वा देवयानं वा पितृयानं प्रतिपद्यन्ते तत् देवलोकपितृलोकप्राप्तिसाधनं कर्म्म त्वं जानासि। देवलोकपितृलोकगमनसाधनं मार्गद्वयमेव नास्तीति मा संस्थाः। तत्रार्थे मार्गद्वयप्रकाशकमृषेर्वाक्यमस्माभिः श्रुतमस्ति। (यथा) द्वौमार्गौश्रुतवानहं, तयोरेकेन मृता मनुष्याः पितृलोकं गच्छन्ति अपरेण च देवलोकमिति। ताभ्यामेव वर्त्मभ्यां समस्तं जगत् तत्र तत्र गच्छत् समवैति इति। द्याव्या पृथिव्योर्मध्ये शरीरधारिणामेव तौ द्वौ मार्गौइति। श्वेतकेतुराह नाहमेषां प्रश्नपञ्चकानां नैकमपि वेद इति॥२॥

अनन्तरं स राजा प्रवाहणः अपनीतविद्यागर्वं तं “इह आस्यन्तां भवन्तः पाद्यमर्घ्यञ्च प्रतिगृह्णन्तु” इत्येवमुपमन्त्रणं कृतवान्। अनादृत्य च तामभ्यर्चनां युवा श्वेतकेतुः तस्मात् प्रदुद्राव। आजगाम च पितरमुवाच! वाव! किल भवान् पुरा मां समावर्त्तनसंस्कारकाले

_____________________________________________

प्रयद्भिर्नपूर्य्यता ३ इति नेति हैवोवाच, वेत्थी यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्तौ३ इति नेति हैवोवाच,

वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयानस्य वा, यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयानं वापि हि न ऋषेर्वचः सुतं द्वेसृती अशृणवं पितॄणामहं देवानामुत मर्त्यानां ताभ्यामिदं विश्वमेजत् समेति यदन्तरा पितरं मातरञ्चेति नाहमत एकञ्चन वेदेतिहोवाच॥२॥

_________________________________________________

सर्वास्वेव विद्यासु भवान् लब्धज्ञानोऽस्तीत्येवमवोच इति। आरुणिरेवं सोपालम्भं पुत्रस्य वचः श्रुत्वाब्रवीत्—हे मेधाविन्! शृणु ममापि पुरा यथावृत्तं एकदा स राजाधमः पञ्चकान् प्रश्नान् मामप्राक्षीत् तेषां नैकमपि विदितवानस्मि। भवत्यपि तेन राज्ञा कतमे प्रश्नाः पृष्टा इति पित्रोक्तः पुत्र इमे एक प्रश्नाः मामपि तेन पृष्टा इत्युदाजहार॥३॥

ततः स आरुणिः क्रुद्धं पुत्रं तथा उपशमयन् प्राह हे वत्स! श्वेतकेतो! अहं यत्किञ्च विज्ञानजातं वेद सर्वमेव तुभ्यमवोचमिति ध्रुवं जानीथाः। कोऽन्यो मेत्वट्टते प्रियतरोऽस्ति यदर्थं रक्षिष्ये। अहमप्येतन्नवेद्मि यद्राज्ञा ते पृष्टम्। तस्मात् हे पुत्रक! एहि तां विद्यामुपार्जितुं तत्र गत्वा राज्ञिब्रह्मचर्य्यं वत्स्यावः। श्वेतकेतुराह भवानेव तत्र गच्छतु नाहमुत्सहे पुनर्मुखं निरीक्षितुं तस्य। ततः सगोतमगोत्रः आरुणिः प्रवाहणस्यास्थानं जगाम। स च राजा तस्मा आरुणये अभ्यागताय आसनं भृत्येनानुरूपमुदकञ्चोपाहरत्। एवपुरोधसा अर्घ्यं मन्त्रपूतमधुपर्कञ्च प्रादापयत्। कृत्वा चैवं विधां पूजां स “वरन्ते भगवते गौतमाय गोऽखादिरूपं ददाम इति” प्रोवाच॥४॥

तत आरुणिरुवाच—भोराजन्! त्वया खलु प्रदातुं वरः प्रतिज्ञातः, किन्तु अस्यां प्रतिज्ञायामात्मानं द्रढ़यतु तथाहि यां खलु

_________________________________________________

अथैनं वसत्योपमन्त्रयाञ्चक्रेऽनादृत्य वसतिं कुमारः प्रदुद्राव सआजगाम पितरं तं होवाचेति वा किल नो भवान् पुरानुशिष्टानवीचं इति कथं सुमेध इति पञ्च मा प्रश्नान् राजन्यवन्धुरप्राक्षीत्ततो नैकञ्चन वेदेति कतमे त इतीमइति ह प्रतीकान्युः दाजहार॥३॥

स होवाच तथा नस्तं तात जानीथा यथा यदहं किञ्च वेद सर्वमहं तुभ्यमवोचं प्रेहि तु तत्र प्रतीत्य ब्रह्मचर्य्यंवत्स्याव इति भवानेव गच्छत्विति स आजगाम गोतमो यत्र प्रवहणस्य जैवलेराम तस्मा आसनमाहृत्योदकमाहारयाञ्चकाराथ हास्मा अर्धं चकार तं होवाच वरं भगवते गौतमाय दद्म इति॥४॥

___________________________________________________

प्रश्नरूपां वाचं मम पुत्रस्यान्ते त्वमभाषथाः तां मे ब्रूहि स एव मे वर इति॥५॥

(क्रमशः)

_________

सती छाया।

(पूर्वतोऽनुवृत्ता)

छायावत्सलो मातुलः कथञ्चित् मनसि शान्तिं लभते। नरेन्द्रः पण्डितमाह “पण्डितमहाशय! तर्हि श्वः प्रातरेव तत्र नीत्वा छाया स्थाप्यताम्।

परेद्युः प्रातः दुःखिनीछाया शय्याया उत्तिष्ठति। तस्या मुखं मलिनं। गृहकोणे मक्ष्यमक्षुणमास्ते। दःखिनी स ह्यो रात्रौ न किञ्चिन्मात्रमपि भक्ष्यमस्पृशत्।मनस्तु तीव्रवेदनया पीडितम्। तथापि मनसि आशास्ते—सम्भवत्येतत् यदि विलासी यतीन्द्रः स्वयमवाचिष्यते तदा मातामही मातुलश्च तथैवानुमोदिष्यते। मुग्धा बाला आशानिवद्धाझटिति प्रातः कृत्यं समाप्य स्वकक्षंप्रविशति पश्यति च नरेन्द्रः परमविमर्षमुपविशति। तदैव छाया अनुमिनोति अधुनैव मया वाटीयं परित्यक्तव्या इति। सरलाया अन्तर्विदीर्य्यत इव। विषादकालमेघस्तस्या सुखेन्दुमावृणोति। निर्म्मलाया अकृत्रिमः स्नेहः यतीन्द्रस्य तथाविश्वं प्रेम, च युगपन्मान से समुदित्य हृदि दलितेव निराश्रया बाला मातुलस्य पदप्रान्ते लुठन्तीविलपति मातुल! मातुल! त्वमसि मेअनन्यभक्तिभाजनं स्निह्यसि च कथमिव मां परित्यज्य स्थास्यसि। नरेन्द्रः व्याकुलमाह अयि मन्दभागिनि! नाहं त्वां किञ्चिदपि स्निह्यामि, तथा सति कथमकाण्डे केवलं लोकापवादाद्भीतस्त्वां निर्वास्यामि? छाये! मातः! मारोदितव्यं। ईश्वरश्चेदनुगृह्णाति

_______________________________________________

स होवाच प्रतिज्ञातो म एष वरी यान्तु कुमारस्यान्ते वाचसभाषयास्तां मे ब्रूहीति॥५॥

_______________________________________________

तर्हि सर्वत्रैव सुखं लप्स्यते। सतीछाया वृद्धेन पण्डितेन सार्द्धं वेलाया नवघटिकायां वादितायां नौकामारोहति। क्षुद्रामेकां श्वेतलौहपेटिकां पूरयित्या छायाया वस्त्रादिकं प्रदत्तम्। नौका चलति, वत्सलस्तु मातुलस्तौरे तिष्ठन् सजलनयनं पश्यति, नावि अदृश्यायां स गृहं प्रत्यागतः।

कियन्तं क्षणमतीत्य विलासीयतीन्द्रः नरेन्द्रघोषगृहमाजगाम। तस्मै सादरमुत्थाय नरेन्द्र आसनं प्रददौ। पप्रच्छ चकिमर्थमस्मिन् ग्रीष्मसमये अनुयायिन इव मे गृहागमनक्लेशः स्वीक्रियते कुमारेण। यतीन्द्रस्तु लज्जाविनम्रशिराः कथयति महाशय! भवता ज्ञातमिति प्रतिभाति मे, यदहं भवतो भागिनेयीं परिणयेनाभिलषामि, चेदेतद्भवतानुज्ञायते तदा सर्व एव वयं प्रीणीमः। नरेन्द्रघोषस्तु सदीर्घनिश्वासं म्लानसुखमाह कुमार! तत्तु न सम्भवनीयं यतच्छाया प्रच्छन्नं जन्म गृह्णातिस्म, एवं तस्या मातापि पलायिता, पितापि न तस्या अभिज्ञायते। एवं सति छायया ते विवाहःसामाजिकरीत्या कुलं ग्लपयिष्यति। तदानींनवीभूतेन लोकवादेन वयमपि मृत्युयातनामनुभविष्यामः। यतीन्द्रस्तदाकर्ण्य सनिर्वेदं स्वगृहं प्रतिनिवृत्तः निर्म्मलायै सर्वं कथयामास। श्रुत्वा च निर्म्मला सर्म्मणि विट्टणाति।

इतस्तु यथासमयं सतीछाया सहाध्यापकेन भवानीपुरे उपतस्थे। गृहस्वामिनींपूजागृहे स्थितां काचिद्दासीशिरोमणिना महात्मना सार्द्दंएक बालिका समागतवतीति व्यज्ञापयत्। गृहस्वामिनी पूजादिकं समाप्य आगत्य च शिरोमणिभट्टाचार्येण समं बालिकां दृष्ट्वैव स्वतः स्नेहार्द्रहृदया बभूव, चिन्तयामास च हृदये कथमिव परगृहे ईदृशीं सर्वाङ्गसुन्दरीं प्रेरयामासास्या गुरुजनः। प्रणम्य गृहस्वामिनी पण्डितमहाशयं छायायाः समस्तवृत्तान्तं शृणोति। पण्डितश्च शिरोमणिः छायामधिकृत्य गृहस्वामिनीं

किञ्चिदनुरुणद्धिअयि आर्य्यहृदये बालिकेयं रत्नोपमा, किन्तु चिरदुःखिनी,अस्याः कृते एतावद्वाच्यं यद्भवत्या कन्यानिर्विशेषमियं द्रष्टव्या, परन्तु भाग्यायत्तमस्याः न तदर्थं किञ्चिद् ब्रुवे।

ततश्च गृहस्वामिनी शिरोमणिमहाशयं यथातृप्ति भोजयित्वा कथयित्वाच विविधकथां पराह्णेतस्मै रूपकशतं प्रदाय प्रणम्य च विसृजति।

गते च शिक्षके अश्रुपूर्णा छाया गृहस्वामिनीमालक्ष्य “मातः नास्ति में जन्मतो दुःखिन्याः कोऽपि जगतीत्युच्चैरुच्चार्य्य तस्याः पादयोः पतति। गृहस्वामिनी च दयार्द्रहृदया छायां क्रोड़मानीय षुनः पुनश्चुम्बित्वा च वदनकमलं परामृष्य च पृष्ठमस्याः कथयति कथमिति वत्से! तव कोऽपि नास्तीति अहमेवास्मि अद्य प्रभृति ते माता, सर्वमेव भवनमिदन्ते निश्चिनु, सुखं भुङ्ग, सुखं स्वपिहि इत्युक्त्वा गृहस्वामिनीछाया च प्रशस्तमेकं गृहमध्यासीना विविधेनालापेन दिनं गमयति।

(क्रमशः)

इति पञ्चमः परिच्छेदः समाप्तः

_________

धर्म्मविवेकः।

(पूर्वप्रकाशितात्परम्)

वामापदः समागत्य शिवरामं प्रणम्य पार्श्वे उपासीनः।

शिवरामः। वत्स! अपि सर्वाङ्गीनं ते गृहवासिनां कुशलं?

वामा।श्रीमत्पादप्रसादात् प्राणतः कुशलं किन्तु गृहवासिनां मम, अन्येषाञ्च प्रतिवेशिनां प्रायःकश्चित् ज्वरेण कश्चित् पीनसेन, कश्चिद्वाउदरामयेण क्लिश्यति। न कस्यापि चेतसि स्फूर्त्तिर्जगर्त्ति।

शिवः।कालस्यैवायं महिमा, ऋतुविपर्य्ययदोषादेवः प्रभवन्ति विविधा रोगाः। आएवं स्मरामि पूर्वं दशवर्षतःयावाननुभूतञ्च)

शीतः प्रत्यक्षिता च यावतीवृष्टिः, नाधुना तथानुभूयते। पुरा तु शीतर्त्तौ शीतप्रावल्यात् करौ रिक्तस्पर्शशक्तिकौन स्तइव जड़ौबभूवतुः नाधुना तथेति। पुरा किल श्रावणमासि यथा स्थगितदिगन्तवलाहकव्रातः क्रमशो द्वित्राण्यहोरात्राणि निरन्तरं नीरवञ्च मुषलधारेणेव ववर्ष अधुना तथा नोपलभ्यते। अधुना ग्रीष्मस्यैव प्राचुर्य्यं समधिककालमनुमीयते।

वामा। गुरो कथमधुना इत्यङ्कारं सम्भवेत्?

शिव। (विहस्य) दुराचारतैव लोकानामत्र कारणमन्वमानि ऋषिभिरिति, तथाच गर्गसंहितावार्हस्पत्ययोः।

“अतिलोभादसत्याद्वानास्तिक्याद्वाप्यधर्म्मतः।
नरापचारान्नियतमुपसर्गः प्रवर्त्तते॥

ततोऽपचारान्नियतमपवर्जन्ति देवताः।”
ताः सृजन्त्यद्भुतां स्तांस्तु दिव्यनाभसभूमिजान्॥

त एवं विविधा लोके उत्पाता देवनिर्मिताः।
विचरन्ति विनाशाय रूपैः सम्बोधयन्ति च॥

“शीतोष्णादिपिर्य्यसी ऋतूनां रोगजं भयं।
पुष्पे फले च विकृते राज्ञीमृत्युं तथादिशेत्॥”

इत्याद्या बहुधा उपसर्गा विद्यन्ते। एतदेवाद्भुतमिति कथ्यते मुनिभिः

एते तु क्षुद्ररोगाः, ऋतुविपर्य्याज्जनपदोऽपि ध्वंसते। का कथा ग्रामस्य कस्यचिद्भवनस्य वा।

अद्य किञ्चिच्चरकोक्तं ऋतुविपर्य्ययादिकं शृणु। तथाच चरके विमानस्थानेऽयध्याये।

“कालन्तु खलु यथर्त्तुलिङ्गाद्विपरितलिङ्गमतिलिङ्गं हीनलिङ्गञ्चाहितं व्यवस्येत्।

इमानेवं युक्तांश्चतुरी भावान् जनपदोर्द्धसकरान् वदन्ति कुशलाः अतोऽन्यथाभूतांस्तु हितानाचक्षते।

विगुणेष्वपि तु खलु एतेषु जनपदोर्द्धसनकरेषु भावेषु भोजनेनोपपाद्यमानं भयं भवति रोगेभ्यः इति।

वैगुण्यमुपपन्नानां देशकालानिलाम्भसाम्। गरीयस्त्वंविशेषेण हेतुमत्संप्रचक्षते॥

वाताद् जलं जलाद्देशं देशात्कालं स्वभावतः। विद्यादुष्परिहार्य्यत्वात् गरीयस्तरमर्थवित्॥
वाय्वादिषुयथोक्तानां दोषाणान्तु विशेषवित्। प्रतिकारस्य सौकर्य्येविद्याल्लाघवलक्षणम्॥
चतुर्ष्वपि तु दुष्टेषु कालान्तेषु यदा नराः।भेषजेनोपपदान्ते न भवन्त्यातुरस्तदा॥
येषां न मृत्युसामान्यं सामान्यं न च कर्म्मणाम्। कर्म्म पञ्च विधन्तेषां भेषजं परमुच्यते॥
रसायनानां विधिवच्चोपयोगः प्रशस्यते। शस्यते देहवृत्तिश्च भेषजैः पूर्वमुद्धृतैः॥
सत्यं भूते दया दानं वलयोदेवतार्च्चनम्। सद्वृत्तस्यानुवृत्तिश्च प्रशमी गुप्तिरात्मनः॥
हितं जनपदानाञ्च शिवानामुपसेवनम्। सेवनं ब्रह्मचर्य्यस्य तथैव ब्रह्मचारिणाम्॥
सङ्ख्या धर्म्मशास्त्राणां महर्षीणां जितात्मनाम्। धार्म्मिकैः सात्त्विकैर्नित्यं सहास्याद्वृद्धसम्मतैः॥
इत्येतद् भेषजं प्रोक्तमायुषःपरिपालनम्। येषामनियतो मृत्युस्तस्मिन् काले सुदारुणे॥”

“तमुवाच भगवानात्रेयः सर्वेषामग्निवेश! वाय्वादीनां यद्वैगुण्यमुत्पद्यते तस्य मूलमधर्म्मः तन्मूलञ्चासत्कर्म्म पूर्वकृतं तयोर्योनिः प्रज्ञापराध एव।

तद्यथा—यदादेशनगरनिगमजनपदप्रधाना धर्म्ममुत्क्रस्याधर्मेण प्रजां वर्त्तयन्ति। तदाश्रितोपाश्रिताः पीरजनपदा व्यवहारोपजीविनश्च तमधर्म्ममभिवर्द्धयन्ति। ततः सोऽधर्म्मः प्रसभं धर्म्ममन्तर्द्धत्ते। ततस्तेऽन्तर्हितधर्म्मणो देवताभिरपि त्यज्यन्ते। तेषान्तथान्तर्हितधर्म्माणां अधर्म्मप्रधानानाम् अपक्रान्तदेवतानाम् ऋतवो व्यापद्यन्ते। तेन नापो यथाकालं देवो वर्षति विकृतं वा वर्षति। वाता न सम्यगभिवान्ति क्षितिर्व्यापद्यते।सलिलान्युपशुष्यन्ति। ओषधयः स्वभावं परिहायापद्यन्ते विकृतिं।तत उद्धंसन्ते जनपदाः। स्पर्शाभ्यवहार्य्यदोषात्।”

वामा।श्रुतं बुद्धञ्च धर्म्माविप्लवाद्देशः समुच्छिद्यते इति। देव! देवाराधनेन यज्ञादिना ब्रह्मचर्य्यादिना च पवनः पवते, तेन च जलं शुध्यति तेन च मृत् शुचीभवति। तेन च देशः स्वस्थीस्यात्। तेन च कालः स्वारूप्यं भजते इति। अत्रैतदाशङ्कते देवाराधनादिना मानवसमवेतधर्मेण वाय्वादीनां कः सम्बन्धः?

शिव। वस! धर्म्मस्यगतिरतिसूक्ष्मा। धर्म्मकर्म्मानुष्ठानात् जनाः शुद्धसत्त्वा भवेयुः। तथा च हारीतः।

“हन्यादशद्धं शुद्धेन शुद्धोऽशुद्धन्तु शोधयेत्।
अशुद्धश्च तमीभूतः शुद्धवासेन शुध्यति॥” इति।

तेषां शुद्धसत्त्वानां स्पर्शादिसंसर्गात् पवनः पवते। तेन च पूतेन पवनेन प्लावनाज्जलं शुध्यति। तेन च शुद्धेन जलेन क्लिन्ना मृत्

शुचीभवेत्। तन्मृन्मयश्च देशः समन्तात् स्वस्थीस्यात्। प्रकृतिस्थदेशे च स्वभावादेव कालो वैकृत्यं न भजते ततश्च जनपदा निरुपद्रवाः स्युरिति।

वामा। गुरो किमित्यद्भुतं?यत्प्रागुक्तं श्रोतुमेतन्मनश्चञ्चलीभूतम्।

शिव।अद्भुतन्तु अतीव विस्तृतं सुष्ठु विचार्य्यञ्च। अद्य तावत् विधिनियमादिकं निवोध प्राक् पृष्टम्। समयान्तरे तु तच्छ्रोतव्यम्।

वामा। यथाभिमतं गुरूणाम्। कस्तावद्विधिरिति श्रोष्यामि।

शिव। वत्स! विधिस्तु बहुविधः अधीतन्यायादिशास्त्रेणैव वैद्यः। तथापि यावच्छक्यंबोधयामि। तत्र कर्त्तव्यताबोधको यः शब्दः स विधिरिति सामान्यतो निवोध, विशेषस्तु विधिषु कश्चित् प्रधानविधिः यथा अश्वमेधेन यजेत स्वर्गकाम इति न ह्यश्वमेधस्य एतदुवचनमन्तरेणान्यतः रागतः शास्त्रतो युक्तितो वा कुतश्चित्कर्त्तव्यतावगमः। स तु स्वतः फलहेतुक्रियाबोधकः। अत्र यष्टृगतफलन्तु स्वर्गः तस्य हेतुर्यागक्रिया तद्वोधकस्तु “यजेत स्वर्गकाम इत्यादिकः शब्दः स च विधिरिति।

कश्चिदङ्गविधिः यथा इड़ो42 यजेत। स तु स्वतःफलहेतुक्रियायां कथमित्याकाङ्क्षयां विधायकः। इड़ा इति अश्वमेधान्तर्गतःअन्यतमोऽङ्गीभूतो यागः। तत्र फलहेतुक्रिया अश्वमेधः केन प्रकारेण यष्टव्यः इत्याकाङ्क्षायां कथयति इड़ो यजेत इति। क्रियमाणे हि अश्वमेधे आदौ इड़ायागः कर्त्तव्य इति।

कश्चित्प्रयोगविधिः यथा यावदङ्गयुक्तं यजेत विलक्षणस्वर्गकामः, स तु यावदङ्गक्रियाबोधकः। अत्र यः खलु स्वर्गं गत्वा स्वर्गीयं सम्यक् सुखं भोक्तुं कामयते तेन यज्ञाङ्गं तावदेवानुष्ठातव्यं न किमपि अङ्गं परित्यक्तव्यम्।

कश्चिद्गुणफलविधिः यथा गोदोहेनापः प्रणयेत् पशुकाम इत्यादि।

स तु आकाङ्क्षानिवृत्तौ अधिकफलाय प्राप्तकर्म्मणि गुणविधिः। जलप्रणयनन्तु चमसेनापः प्रणयेदिति सामान्यतः प्राप्तं यागमात्रे, तत्र यः खलु पश्वादिविशेषं फलं कामयते स जलसंस्करणार्थं चमसमदत्त्वा तत्स्थाने गोदोहनीमेव प्रयुञ्ज्यात् इति। तत्र प्रधानविधिश्च द्विविधःउत्पत्तिविधिर्नियोगविधिश्च। तत्रोत्पत्तिविधिस्तु कर्म्मस्वरूपवोधकः यथा अश्वमेधेन यजेत। तत्राश्वमेधस्वरूपमेव विधीयते। न त्वङ्गादिकं प्रकारादिकं वा। नियोगस्तु स्वर्गकामाद्यधिकारिवोधकः यथा स्वर्गकामो यजेत इत्यादि। अत्र वाक्ये कर्त्तुर्नियोगात्।

अङ्गविधिस्तु कालदेशकर्त्रादिवोधकतया अनियत एव।

प्रधानाङ्गविध्योस्तु विधेयाप्राप्तिप्राप्तिभ्यां द्वैविध्यम्। तत्रापि अप्राप्तितो द्वैविध्यं यथात्यन्ताप्राप्तौ अपूर्वविधिः। पक्षतोऽप्राप्तौ च नियमविधिः। विधेयतत्प्रतिपक्षयोः प्राप्तौ तु प्ररिसंख्याविधिः।

तत्र प्रधानस्य विधिभेदो यथा —अहरहः सन्ध्यामुपासीतइत्यादिरपूर्वविधिः। अत्र विधेयस्य सन्ध्यादेः शास्त्रतो रागतो न्यायतो वा क्वचिदपि सन्ध्योपासनायाः पूर्वमप्राप्तत्वादपूर्वविधिः।

नियमविधिस्तु यत्रादृष्टसिद्ध्यर्थस्य वचनमन्तरेण पाक्षिकौ प्राप्तिः सः। यथा समे देशे यजेत इत्यादिः। दर्शपौर्णमासादिर्याम एव विहितः। कर्त्तव्ये तु यागे देशमात्रं तात्पर्य्यपरिप्राप्तं। न हि कञ्चिद्देशमनाश्रित्य यागप्रयोगः सम्भवति। तत्र यदा स्वतो दैवात् समतले देशे यजेत तदा “समे देशे यजेत” इत्यत्र समपदमनुवादमात्रं भवेत्। रागतः प्राप्तस्य समदेशस्य पुनः कथनात्। यदा तु इच्छाया निरङ्कुशत्वात् विषमे देशे यष्टुमिच्छति तदैतद्वचनं विदधत् सार्थकम्। विहिते तु समे देशे विषमदेशस्यानाश्रयणं विधानाभावात्। एतत्समपदसामर्थ्यात् विषमदेशनिवृत्तिः। विधिनिबन्धने ह्यनुष्ठाने किमित्यविहितं क्रियेत, तत्करणे हि न यथाविध्यनुष्ठानसिद्धिः।

(क्रमशः)

तत्वप्रपञ्चः।

(पूर्वप्रकाशितात्परम्)

अपि च पूर्वोक्तमेतत् सङ्गच्छेत यदि प्रकृतेरस्तिता सिध्यति नो चेत् सर्वमेव पूर्वोक्तमाकाशकुसुमायते। प्रकृतिसिद्धौ तु इयं युक्तिः। तथा हि तावत् कार्य्यं कारणगुणात्मकं दृष्टं यथा शुक्लतन्तु गुणात्मकः शुक्लपटः श्याममृत्तिकागुणात्मकश्च श्यामो घटः इत्यादि। तथा बुद्धितत्त्वादिरूपेण कार्य्यद्रव्यसमूहेन सुखदुःखमोहस्वभावेन कारणगतसुखदुःखमाहात्मना अवश्यमेव भवितव्यम्। तदा बुद्धितत्त्वादीनां कारणमपि प्रकृतिः अवश्यमेव सुखदुःखमोहात्मक भवेत् अतः सुतरां प्रकृतिः सिद्धा। तथा च सांख्यकारका॥१४॥

“अविवेक्यादेः सिद्धिः त्रैगुण्यात्तद्विपर्य्ययेऽभावात्।
कारणगुणात्मकत्वात् कार्य्यस्याव्यक्तमपि सिद्धम्॥”

उपपन्नमेतत्। व्यक्ताद्वक्तमुत्पद्यत इति कणाद-गोतममतम्। तथा च परमाणवो नित्या व्यक्ताश्च तैः परमाणुभिः द्व्यणुक-त्र्यस-रेणुक-चतूरेणुकादिक्रमेण क्षित्यादिकार्य्यमुत्पद्यते। पृथिव्यादिषु च कारणानां परमाणूनां गुणवशाच्छुक्लादिरूपोत्पत्तिः। अतस्तौप्रकृतिमदृष्टचरीं न स्वीकुरुतः।

तन्न सम्यक् तथा हि स्वस्वकारणे कार्य्यं सत् इति सांख्यसिद्धान्तः।

तथा हि कूर्मशरीरे मध्ये स्थितानि हस्तपदादीनि यदा निःसरन्ति तदा विभज्यन्ते इदं कूर्मशरीरमेतानि हस्तपदादीन्यङ्गानि इति। एवं यदा तानि तत्र प्रविशन्ति तदा अव्यक्ती भवन्ति। एवं कारणात् मृत्पिण्डात् हेमपिण्डाद्वाकार्य्याणिघटमुकुटादीनि यतः सन्ति तत एव कुम्भकार-स्वणकाराणां कर्त्तॄणां व्यापारात् आघातदहनादिरूपादाविर्भवन्ति विभक्तानि च स्युः इमे घटाः

एतानि च मुकुटानि। तथा तिरोभूतानि च पृथिव्यादीनि कारणात्तन्मात्रादाविर्भवन्ति विभक्तानि च स्युः इयं पृथिवी, इदं जलम्, अयमनलः, अयं वायुः इदञ्चाकाशमिति। एवं तिरोभूतानि च तन्मात्राणि कार्य्याणि अहङ्कारात् कारणादाविर्भवति। एवं सती बुद्धिः सर्वकारणकारणात् प्रकृतेराविर्भूता इति।

इत्यं साक्षात् परम्परया वा समन्वितस्य सर्वस्य जगतः प्रकृतिकार्य्यस्य विभागात् सर्वकारणकारणं प्रकृतिरवश्यं स्वीकर्त्तव्येति।

प्रलये तु मृत्पिण्डे हेमपिण्डे वा स्वकारणे घटमुकुटादयः भग्नाः सन्तः प्रविशन्तः अव्यक्तीभवन्ति। तदेव अनभिव्यक्तं कारणरूपं कार्य्यमपेक्ष्याव्यक्तं भवति। इत्थंपृथिव्यादयोऽपि स्वकारणानि तन्मात्राणि प्रविशन्तः स्वापेक्षया अव्यक्तीकुर्वन्ति। एवं तन्मात्राण्यपि स्वकारणेऽहङ्कारे लीनानि चाव्यक्तोभवन्ति स्वापेक्षया अहङ्कारमव्यक्तयन्ति। एवमहङ्कारोऽपि बुद्धितत्त्वेतिरोभूतः स्वापेक्षया बुद्धितत्त्वमव्यक्तयति। एवं बुद्धिरपि प्रकृतौ विंशती स्वापेक्षया प्रकृतिमव्यक्तपदेन परिभाषयति। प्रकृतेस्तु नास्ति कस्मिन्नपि प्रलयः अतस्तस्या अव्यक्तान्तरं किमपि नास्ति सैव सर्वेषां परमाव्यक्ता43

प्रकृत्यवस्थायान्तु घटपटादिभेदेन जगतो विभागो नास्ति। अत एव कारणे विद्यमानस्यैव कार्य्यस्य विभागादविभागाच्च कारणं प्रकृतिरस्तीति सिद्धम्।

अपि च कारणशक्तितः कार्य्यमुत्पद्यते इति सर्ववादिसिद्धम्। शक्तिहीनाच्च कारणात् कार्य्योत्पत्तेरदर्शनात्। कारणगता या कार्य्योत्पादिका शक्तिः सा केवलं कार्य्यस्याव्यक्तावस्था तिरोभावावस्था अस्फुरितावस्था एवेति यावत् न त्वन्या।

(क्रमशः)

ब्रह्मचर्य्यम्।

(पूर्वप्रकाशितात्परम्।)

त्रिष्वप्रमाद्यन्नैतेषु त्रीन् लोकान् विजयेद्गृही।
दीप्यमानः स्ववपुषा देववद्दिवि मोदते॥२३२॥

  1. He who neglects not those three, (even after he has become) a householder, will conquer the three worlds and, radiant in body like a god, he will enjoy bliss in heaven.

इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम्।
गुरुशुश्रूषया त्वेव ब्रह्मलोकं समश्नुते॥२३३॥

  1. By honouring his mother he gains this (nether) world, by honouring his father the middle sphere, but by obedience to his teacher the world of Brahman.

सर्वे तस्यादृता धर्म्मा यस्यैते त्रय आदृताः।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः॥२३४॥

  1. All duties have been fulfilled by him whohonours those three; but to him who honours them not, all rites remain fruitless.

यावत्त्रयस्ते जीवेयुस्तावन्नान्यंसमाचरेत्।
तेष्वेव नित्यं शुश्रूषां कुर्य्यात् प्रियहिते रतः॥२३५॥

  1. As long as those three live, so long let him not (independently) perform any other (meritorious acts); let him always serve them, rejoicing (to do what is) agreeable and beneficial (to them).

तेषामनुपरोधेन पारत्र्यं यद्यदाचरेत्।
तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्म्मभिः॥२३६॥

  1. He shall inform them of everything that with their consent he may perform in thought, word, or deed for the sake of the next world.

त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते।
एष धर्म्मःपरः साक्षादुपधर्म्मोऽन्य उच्यते॥२३७॥

  1. By (honouring) these three all that ought to be done by man, is accomplished; that is clearly the highest duty, every other (act) is a subordinate duty.

श्रद्दधानः शुभां विद्यामाददीतावरादपि।
अन्त्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि॥२३८॥

  1. He who possesses faith may receive pure learning even from a man of lower caste, the highest law even from the lowest, and an excellent wife even from a base family.

विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम्।
अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम्॥२३९॥

  1. Even from poison nectar may be taken, even from a child good advice, even from a foe (a lesson in) good conduct, and even from an impure (substance) gold.

स्त्रियो रत्नान्यथो विद्या धर्म्मःशौचं सुभाषितम्।
विविधानि च शिल्पानि समादेयानि सर्वतः॥२४०॥

  1. Excellent wives, learning, (the knowledge of) the law, (the rules of) purity, good advice, and various arts may be acquired from anybody.

अब्राह्मणादध्ययनमापत्काले विधीयते।
अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः॥२४१॥

241 It is prescribed, that in times of distress (a student) may learn (the Veda) from one who is not a Brahmana; and that he shall walk behind and serve (such a) teacher, as long as the instruction lasts.

नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत्।
ब्राह्मणे चाननूचाने काङ्क्षन् गतिमनुत्तमाम्॥२४२॥

  1. He who desires incomparable bliss (in heaven) shall not dwell during his whole life in (the house of) a non-Brahmanical teacher, nor with a Brahmana who does not know the whole Veda and the Angas.

यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले।
युक्तः परिचरेदेनमाशरीरविमोक्षणात्॥२४३॥

  1. But if (a student) desires to pass his whole life in the teacher’s house, he must diligently serve him, until he is freed from this body.

आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम्।
स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम्॥२४४॥

  1. A Brahmana who serves his teacher till the dissolution of his body, reaches forthwith the eternal mansion of Brahman.

न पूर्वं गुरवे किञ्चिदुपकुर्व्वीत धर्म्मवित्।
स्वास्यंस्तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थमाहरेत्॥२४५॥

  1. He who knows the sacred law must not

present any gift to his teacher before (the Samavartana); but when, with the permission of his teacher, he is about to take the (final) bath, let him procure (a present) for the venerable man according to his ability,

क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमासनम्।
धान्यं शाकञ्च वासांसि गुरवे प्रीतिमावहेत्॥२४६॥

  1. (Viz.) a field, gold, a cow, a horse, a parasol and shoes, a seat, grain, (even) vegetables, (and thus) give pleasure to his teacher.

आचार्य्येतु खलु प्रेते गुरुपुत्रे गुणान्विते।
गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत्॥२४७॥

  1. (A perpetual student) must, if his teacher dies, serve his son (provided he be) endowed with good qualities, or his widow, or his Sapinda, in the same manner as the teacher.

एतेष्वविद्यमानेषु स्थानासनविहारवान्।
प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहमात्मनः॥२४८॥

  1. Should none of these be alive, he must serve the sacred fire, standing (by day) and sitting (during the night), and thus finish his life.

एवञ्चरति यो विप्रो ब्रह्मचर्य्यमविप्लुतः।
स गच्छत्युत्तमं स्थानं न चेह जायते पुनः॥२४९॥

  1. A Brahmana who thus passes his life as a student without breaking his vow, reaches (after death) the highest abode and will not be born again in this world.

समाप्तं ब्रह्मचर्य्यम्।

श्रीजयचन्द्रसिद्धान्तभूषण-भट्टाचार्य्यः।

श्रीश्रीदुर्गा शरणम्।

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-173203124987.jpg”/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्ती जनानिव।
मायावलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी॥

<MISSING_FIG href=”../books_images/U-IMG-173203131463.jpg”/>

मासावतरणिका।

रे शीत! भीतमपि दुर्गतमप्रगल्भं
क्रौर्याद्धिनिस्मिच तनोषि च शौर्यमुग्रम्।
याम्यानिले प्रसरति स्थितिरप्यशक्या
द्रक्ष्यामि तत्फलमिहाशु निकृष्ट! साक्षात्॥

<MISSING_FIG href=”../books_images/U-IMG-173203137953.jpg”/>

उद्भटश्लोकाः।

धर्म्मं मतिर्भवतु वः सततोत्थितानां स ह्येक एव परलोकगतस्य बन्धुः।
अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना नैवान्ममावमुपयान्ति न च स्थिरत्वं॥२३६॥

ईषन्मुद्रितमम्बुजं कुमुदिनी किञ्चित् समुल्लासिनी
चक्रीचक्रवियोगिनीपतिभयाद्वाला वधूस्त्रासिनी।
यूनी वेशविधायिनी विरहिनीनेत्राम्बुसम्बाहिनी
भानुर्याति नगेन्द्रकोणकुहरे दृष्ट्वा हि चात्यद्भूतं॥२३७॥

मा पश्य त्वं विमलमुकुरे स्वीयमङ्गं कदापि
आत्मप्राणानपहरसि किं तत्कटाक्षैरमुध्नैः।
यज्जन्यं स्यात् जनकमपि तद्धन्ति नोकिं विचित्रं
जन्योऽसिःकिं जनकमपि तं कर्म्मकारं छिनत्ति॥२३८॥

समं स्थानं नीतं प्रणयविनतेन प्रणयिणा
न योषिन्मञ्जीर! स्पृहय हि तुलां मौलिमणिना।
यदि स्यातां दैवान्नगरवणिजां पाणिपतितौ
सदा वां जातीमः कतरमभिनन्दन्ति वणिजः॥२३९॥

श्रीविभूषण देवः। (राँचि)

महाकालःमहाकाली च।

<MISSING_FIG href=”../books_images/U-IMG-173203173188.jpg”/>

महाकालःमहाकालीच।

यः खलु शवरूपमहाकालः या च महाकालहृदि स्थिता, तयोरद्य विषयमधिकृत्य हृत्पुण्डरीककुहरे निरन्तरंं राजतोस्तयो रेव प्रवर्त्तनया किञ्चिल्लिखितुमुत्सहे। अस्य च प्रबन्धस्य विवेक्तुं सदसत्त्वं मामनुजिधृक्षूणं करुणापूतदृक्पातो निरपेक्षपात विचार एव निकषपाषाणं प्रमाणमिति।

महाकालः खतु परममहान् परमनित्यः परमनिरवच्छिन्नः परम सूक्ष्मः परमस्थलः परमविप्रकृष्टः परमसन्निकृष्टश्च। स नास्ति यस्मिन्नेवं देश एव नास्ति। काल एव जगत् सृजति पाति हन्ति च। कालः सर्व्वेषामन्तकः रूयमनन्तः। कालः सर्व्वेषामादिः स्वयमनादिः। कालः सर्व्वषां प्रभुः स्वयमप्रभुः। कालः स्वतोऽतीन्द्रियः किन्तु क्रियया सम्यगनुमेयः।

मनसि प्रणिधेष्टि। युगपत् यदि भास्करो नोदियात् यदि शशाङ्कोऽन्तर्द्दध्यात्, यदि नक्षत्राणि लुम्पेयुः यदि ग्रहा निपतेयुः यदि समीरणो न वायात्। यदि जलं न प्रवहेत्। यदि खगानोत्पतेयुः यदि मानवा न निःश्वस्युः न वा प्रश्वस्युः न गच्छेयुः न हसेयुः न निद्रायुः न भुञ्जीरन् न ब्रूयुः, न च पश्येयुः यदि नोन्मिषेयुः यदि न निमिषेयुः किमधिकं युगपज्जगदेतद् यद्यन्धायेत, तदा कलाकाष्ठा-मुहूर्त्त-यामाहोरात्रऋत्वयनसंवत्सरादिः कथं व्यवह्रियेत।

अतः क्रिययैव अखण्डदण्डायमानो महाकालः विभज्य कलाकाष्ठादि रूपेण व्यवहार्य्यता मापद्यते। तदा खलु।

“नाहोन रात्रिर्न नभो न भूमिर्नासीत्तमो ज्योतिरमून्नचान्यत्।
श्रीत्रादिबुद्ध्यानुपलभ्यमेकं प्राधानिकं ब्रह्मपुमांस्तदासीत्॥”

‘अनादिर्भगवान् कालो नान्तोऽस्य द्विज विद्यते। अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः॥
“गुणसाम्ये ततस्तस्मिन् पृथक् पुंसि व्यवस्थिते। कालस्वरूपरूपं तद्विष्णीर्म्मैत्रेय! वर्त्तते”

(विष्णुपुराणं। १।२।२३)

“ये समर्था जगत्यस्मिन् सृष्टिस्थित्यन्तकारिणः। तेऽपि कालेन लीयन्ते कालो हि बलवत्तरः॥”

(विष्णुधर्म्मोत्तरविष्णुसंहिते २०।२७)

“अनादिनिधनः कालो रुद्रः मङ्कर्षणो विभुः। कलनात् सर्व्वभूतानां स कालः परिकीर्त्तितः॥”

“कालः कलयते लोकः कालः कलयते जगत्। कालः कलयते विश्वंतेन कालोऽभिधीयते॥

कालस्य वशगाः सर्वे देवर्षिसिद्धकिन्नराः। कालो हि भगवान्देवः स साक्षात् परमेश्वरः॥

सर्गपालन संहर्त्तास कालः सर्व्वतः समः। कालेन कल्यते विश्वंतेन कालोऽभिधीयते॥

येनोत्पत्तिश्च जायेत येन वै कल्यते कला। सोऽन्त वच्चभवेत् कालो जगदुत्पत्तिकारकः॥

यः कर्म्मणि प्रपश्येत प्रकर्षे वर्त्तमानके। सोऽपि प्रवर्त्तको ज्ञेयः कालः स्यात् प्रतिपालकः॥

येन मृत्युवशं याति कृतं येन लयं व्रजेत्। संहर्त्ता सोऽपि विज्ञेयः कालः स्यात् कलनापरः॥

कालः सुप्तेषु जागर्त्तिकालोहि दुरतिक्रमः। काले देवा विनश्यन्ति काले चासुरपन्नगाः॥

नरेन्द्राः सर्व्वजीवाश्च काले सर्व्वं विनश्यति॥

(हारीते। १म स्थाने। ४ अध्याय)

तथा च अथर्व्ववेदे। १९।५३।५४॥

स एव संभुवनान्याभ्ररत् स एव संभुवनानि पर्य्यैत्।
पिता सन्नभवत् पुत्र एषां तस्माद्वैनान्यत् परमस्ति तेजः॥४॥

कालोऽमुंनिवमजनयत् काल इमाः पृथिवी रुत। कालेन भूतं भव्यं चेषितं हवितिष्ठते॥५॥

कालो भूमिमसृजत काले तपति सूर्य्यः। काले ह विश्वा भूतानि काले चक्षु र्विपश्यति॥६॥

काले मनः काले प्राणः काले नाम समाहितं। कालेन सर्व्वानन्दन्त्यागतेन प्रजाइमाः॥७॥

काले तपः काले ज्येष्ठंकाले ब्रह्म समाहितं। कालो ह सर्व्वस्येश्वरो यः पितासीत् प्रजापतेः॥८॥

तेनेषितं तेन जातं तदु तस्मिन् प्रतिष्ठितं। कालो ह ब्रह्म भूत्वा विभर्त्ति परमेष्ठिनं॥९॥

कालःप्रजा अमृजत कालो अग्रे प्रजापतिः। स्वयम्भुःकश्यपः कालात्तपः कालादजायत॥१०॥

यथा च भगवद्गीता १०।३३। “अहमेवाक्षयः कालो धाता हं विश्वतो मुखः॥”

“कालःप्रसिद्धः क्षणलवाख्यः। अथवा परमेश्वरः”॥ इति शङ्करभाष्यं॥ “अक्षयः काल इति परमेश्वराख्यः” “कालज्ञः कालकालीगुणी सर्व्वविद्यद्वति श्रुतिः।” इति मधुसूदनः॥

एतावता काल एव जगदुत्पत्तिस्थितिनाशकर्त्तृत्वादीश्वरः। तस्यैवाखण्डमहाकालस्याधिष्ठातृदेवो महाकालः शिवापरनामकः। यो यस्याधिष्ठातृ देवः स तनाम्ना परिगीयते। यथा जलमयगङ्गाधिष्ठातृदेवी चतुर्भुजा मकरवाहिनी गङ्गा। हिमवत्पर्व्वतस्याधि-

धिष्टातृदेवः पार्व्वतीपिता हिमवान्। सूर्य्यमण्डलस्याधिष्ठातृदेवः चतुर्भुजः माणिक्यमौलिः सूर्य्यः। तथा महाकालोऽपि। तस्यैव महाकालस्य शक्तिः (भार्य्या) महाकाली महाकालरूपत्वाच्च महाकाली। शक्तिमतस्तु शक्तिरभिन्नेति महाकाली अपि महाकालाधिष्ठातृदेवी।

इयमेव देवी परा प्रकृतिः इयमेव सत्त्वरजस्तमसां साम्यावस्था महाप्रलयरूपा। मन्वादिशास्त्रेषु यदुक्तमासीदिदं तमो भूतमित्यादि तद्गुणमय्याः प्रकृतेरस्या एवोपलक्षणं। इयमेव देवी महामेघप्रभा चन्द्रसूर्य्याग्निभिस्त्रिनयना, चतस्र एव दिशोऽस्याः करायत्ता इति सा चतुर्भुजा। महाकालस्तु स्वतो निष्क्रिय इत्यसौ शवरूपः। तस्मिन्नेव महाकाले कालोक्रीड़तीति “महाकालहृदम्भोजस्थिता” प्रलये तु अस्या एव करालवदने मुमूर्षवः प्रविशन्ति। करालदं ष्ट्राभिश्च केचिच्चर्व्विताः केचिद्दशनान्तरेषु लग्नाः। कालशक्त्या एव उत्पत्तिमन्तो म्रियन्ते तेषां शीर्षाणि च परितः कीर्णाणि इति कालीशवमुण्डमालिनी। कालशक्तिः श्मशाने एव बाहुल्येन वैराग्यादनुभूयते इति कालोश्मशानालयवासिनी !

यः खलु जगति वाममाचरन्ति44तं प्रति सा वामपाणौखड़्गधारिणीभीषयति, न केवलं भीषयति वामपाणिना छिन्नशिरो वहन्ती बाममाचरतां शिरश्छेदं कार्य्यतोऽपि परिणमयती ति सूचयति।

यः खलुः जगति दक्षिणो भवेत्45मातः! रक्ष करुणामयि! प्रणते दयां वितर इत्येवं वादिनं प्रति काली दक्षिणेन पाणिना “मामैरिति” अभयदायिनी, ददामि यस्तेऽभिलषितमिति वरप्रदायिनी च।

सैव महाकाली जगज्जननी, महाकाल्या ब्रह्मा जायते, महाकाल्याः विष्णुर्जायते, महाकाल्या रुद्रो जायते। दृश्यं सर्व्वमेवेदं महाकालो, यद्भव्यं यच्च भूतं सर्व्वमेव महाकाली, पञ्चमहाभूतानि महाकाली। अहङ्कारो महाकाली। बुद्धिर्वै महाकाली। अव्यक्तं हि महाकाली। महाकाली चिन्मयी, आनन्दमयी। पश्यामि सर्व्वं महाकालीं। शृणोमि सर्व्वं महाकालीं। जिघ्रामि सर्व्वं महाकालीं। स्पृशामि सर्व्वं महाकालीं। भुञ्जे च सर्व्वं महाकालीं। महाकालीं विना सद्वाअसद्वाकिमपि नास्ति। तस्मात् सर्व्वं खल्विदं महाकाली।

अथ महाकाली प्रादुर्भाव समयः। यथा स्वतन्त्रतन्त्रे।

कृष्णाष्टस्यां मार्गशीर्षे घोररात्रिः प्रकीर्त्तिता। महाकालः समुत्पन्नस्तस्याञ्च भगवान् स्वयं46

तदैव महाकाल्याविर्भावः। यथा स्वतन्त्रतन्त्रे।

महारात्रिदिनेऽवन्त्यांनगर्य्यां जातमेव तत्। कालीरूपं महेशानि! साक्षात् कैवल्यदायकं॥

कालरात्रिर्यथा स्वतन्त्रतन्त्रे।

दोपोत्सव चतुर्द्दश्याममया योग एव च। कालरात्रिर्म्महेशानि! ताराकालीप्रिङ्करी॥

प्रकारान्तरं नारदपञ्चरात्रे तृतीयाध्याये।

दक्षगेहे समुदभूता या सती लोक विश्रुता। कुपिता दक्षराजर्षिं सतीत्यक्त्वाकलेवरं॥

अनुगृह्यच मेनायां जाता तस्यान्तु सा तदा। कालीनाम्नेति विख्याता सर्व्वशास्त्रे प्रतिष्ठिता

अपरन्तु दक्षयज्ञे यात्राविधौ निषेधते शङ्कराय काल्यादि दशमहाविद्याः सती प्रदर्षितवती। इति तु पुराणमतं।

महाकालीमधिकृत्य महानिर्व्वाणतन्त्रे चतुर्थोल्लासे सदाशिववाक्यं।

तव रूपं महाकाली जगत्-संहारकारकं। महासंहारसमये कालः सर्व्वग्रसिष्यति॥

कलनात् सर्व्वभूतानां महाकालः प्रकीर्त्तितः। महाकालस्य कलनात्त्वमाद्या कालिका परा॥

कालसङ्कलनात् काली सर्व्वेषामादिरूपिणी। कालत्वादादिभूतत्वादाद्या कालीतिगीयते॥

पुनः स्वरूपमासाद्य तमोरूपं निराकृति। वाचातीतं मनोऽगम्य त्वमेवैकावशिष्यते॥

साकारापि निराकारा मायया बहुरूपिणी। त्वं सर्व्वादिरनादिस्तं कर्त्री हर्त्रीच पालिका॥

गुप्तसाधन तन्त्रे षष्ठपटले।

आलीढ़ं कीदृशं नाथ प्रत्यालीढ़न्तु कीदृशं। कथं सा दक्षिणा काली श्मशानालयवासिनी॥

आलीड़ंवांमपादन्तु प्रत्यालीढ़न्तु दक्षिणं। सहाररूपिणी काली जगन्मोहनकारिणी॥

वह्निरूपा महामाया सत्यं सत्यं न संशयः। अतएव महेशानी श्मशानालयवासिनी॥

आलीढ़पादा सा देवी प्रत्यालीढ़ा क्षणे क्षणे। अनन्तरूपिणी श्यामा कैर्वक्तुं शक्यते प्रिये॥

पिच्छिलातन्त्रे द्वितीयपटले।

ब्रह्मविष्णुशिवादीनां शिरोरत्नपदाम्बुजा। कलौ काली कलौकाली नान्यदेवः कलौ युगे॥

शान्त्यादावपि सा काली पूजनीया विशेषतः। कालिका पूजने श्रद्धा यदा संजायते हृदि॥

न तदा ग्रहरोगाणां भयमस्ति कदाचन।

कुब्जिकातन्त्रेप्रथमपटले।

के मे गोत्रे समुत्पन्ना कालींसाधितुमुद्यताः। तत् श्रुत्वा पितरः सर्वे नृत्यन्ति हृष्टमानसाः॥

पिच्छिलातन्त्रे।

कालीनिन्दाकरा लोके भविष्यन्ति गतायुषः। तेषां पुत्रकलत्राणां नाशोऽन्ते नरकं व्रजेत्॥

महाकाल ध्यानं निरुत्तरतन्त्रे तृतीयपटले।

धूम्रवर्णं गत्सवावं वटाभारसमन्वितं। त्रिनेत्रं शिवरूपञ्च शक्तियुक्तं निरामयं॥

दिगम्बरं घोररूपं नीलाञ्जनचयप्रमं। निर्गुणञ्च गुणाधारं काली स्थानं पुनः पुनः॥

महाकाली ध्यानं।

शवारूढ़ांमहाभीमां घोरदंष्ट्रां वरप्रदां। हास्ययुक्तां त्रिणेत्राञ्चकरालकत्रिकाकरां॥
सुक्तकेशीं ललज्जिह्वां पिवन्तीं रुधिरं सुहुः। चतुर्ब्बाहुसमायुक्तां वराभय करांस्मरेत्॥

(क्रमशः)

________

का गतिः।

ननुजीवन नाटकस्य मेक्रमशोऽङ्का अभिनीततां गताः।
रुचिरा जलधेरिवोर्म्मयः मम नारायण! का गतिर्व्वत॥१॥

xxxxxति दिनानि जीवनाद् वियतः पेतुरिवात्र तारकाः।
तरुतः कुनुमानि वैकशः मम विश्वेश्वर! का गतिर्वत॥२॥

बिहगैरहितस्तरुर्यथा गतपद्मोऽपजलो यथा ह्रदः।
अभवद् गलितायुषःक्षणः मम दुर्गे! वद का गतिर्वत॥३॥

सुखदं मधुरञ्च वासरं यदतीतं गतमेव तन्ननु।
कुसुमं न विशुष्क मापतेत् मम नारायणि! का गतिर्वत॥४॥

अपरत्नकुलः पयोनिधिरपदीपः खलु नाटकालयः।
अकरो विधुरस्म्याहं हतः मम भागीरथि! का गतिर्वत॥५॥

शिथिलास्थि विशुष्क चर्म्मभिर्जड़ताश्लिष्ट वचोभि रुत्सुकः।
कुतुकं सह किं वहामि नो, मम सीताधव! का गतिर्वत॥६॥

अदृशः स्खलितां गतिं स्वतः ननु दृष्ट्वा सरसं हसन्नहं।
विदधे किमकार्य्यमार्य्यजः मम मृत्युञ्जय! का गतिर्वत॥७॥

विकलाङ्ग जनस्य मानसमनुकृत्य व्यथितं मया न किं।
विहितं सततं समन्ततः मम कंसार्द्दन! का गतिर्वत॥८॥

अलसैः शिशुभिः समैः सममवचोभिर्हतदेवनेन च।
अतिशैशवमभ्ययापयम् मम दाक्षायणि! का गतिर्वत॥९॥

शयनीयविलग्नरोगिनो न कदाचित् परिदेवनध्वनिः।
कृतवानतिचञ्चलं मनः, मम कामार्द्दन! का गतिर्वत॥१०॥

पतिपुत्र वियोग कातरहृदयायाः स्वतनौ कराहतिः।
विकृतिं न निनाय तादृशीं मम गङ्गाधर! का गतिर्वत॥११॥

मृत तातक-बालकाननात् च्युतमार्त्तंश्रुतवानपि स्वरं।
न चकार बहुप्रियं सदा मम कात्यायणि! का गतिर्वत॥१२॥

न ममार्ज दृगम्बुनिःसृतं न बुभुक्षा-विनिवर्त्तनं महत्।
कृतवान् सहसातिदुःखिनां मम नारावण! का गतिर्वत॥१३॥

क्षुधयाकृशतामितैर्न किं मृदु दृष्टाऽप्यहमभ्यतोषयं।
हतकुक्षिमहो! सुभोजनैः मम नारायण! का गतिर्वत॥१४॥

स्थविरानपि शान्तचेतसः ऋत-सारल्य-दया-शुचि-स्मृतान्।
तनु गर्व्वतयाभ्युपाहसं मम नारायण! का गतिर्वत॥१५॥

बल-वीर्य्यमति-स्मृति-क्षमावयसा क्रीड़नकं गुरुंजनं।
अभवं सुविधातुमुत्सुकः मम नारायण! का गतिर्वत॥१६॥

कुतुकाय विहङ्गमान् पशून् बहुशो व्याध इवाहमुत्सुकः।
जितवज्रमना अताड़यम् मम नारायण! का गतिर्वत॥१७॥

अहमत्र—यदक्षदेवनं, अहमस्मिन्—यदलीकभाषणं।
अहमत्र—यदज्ञ—कीर्त्तजं, मन नारायण! का गतिर्वत॥१८॥

हसनं परिहास-साधनं ननु यस्मिन् प्रमदो वृथा क्रिया।
अवसं प्रथमे सुखासने मम नारायण! का गतिर्वत॥१८॥

अभिमान-विलास-देवनैः सम मायुर्दिंनमत्यवाहयम्।
न कदापि परं व्यचिन्तयम् मम नारायण! का भतिर्वत॥२०॥

प्रतिवासरमप्यनिच्छथा यमगेहं ननु यान्ति जन्तवः।
इति लोकयतापि नेक्ष्यते मम नारायण! का गतिर्वत॥२१॥

विजितोपलमानसं दृढ़ं व्यथते नो विषमां विशुश्रुवः।
अधुना पि निरासगीतिकां मम नारायण! का गतिर्वत॥२२॥

रसनार्थमभक्षयं न किं? न किमाघ्रायि धरेन्द्रियेष्टये?
न किमेक्ष्यत तृप्तये दृशः? मम नारायण! का गतिर्वत॥२३॥

त्वगभीष्टकरं किमस्पृशं न न किं विष्णुपदेन्द्रियार्थकं।
श्रुतवान्? हतभागधेयको मम नारायण! का गतिर्वत॥२४॥

विषयोन्नतिहेतवे मयां चिरमभ्रम्यत दीर्घतृष्णया।
अतिदीनतमात्तवर्त्मना मम नारायण! का गतिर्वत॥२५॥

चिरवासनया प्रतिक्षणं ननु धिक् धिक् रमणीमुखाम्बुजं।
मणि रत्न कुलं स्म कामये मन नारायण! का गतिर्वत॥२६॥

निजकष्टमहं नु सृष्टवान् अक्षिलीकसुखाय नित्यशः।
समवर्द्धयमत्र कामनाः मम नारायण! का गतिर्वत॥२७॥

विषये जलधौ पिपासया न विमृश्य स्वबलं न्यमज्जयं।
अधुना न विलोकितं तटं मम नारायण! का गतिर्वत॥२८॥

निजवर्द्धित वासना-शिखिज्वलनं केन निवर्त्तयिष्यते।
हत एमि कथं नु रक्षणं मम नारायण! का गतिर्वत॥२९॥

सुविनश्वर-सम्पदाप्तये भ्रमदासीकृतलुब्धमानसः।
व्यधरं जगतीह नश्वरे मम नारायण! का गतिर्वत॥३०॥

अमिता दिनवर्षनाड़िकाःविविशुः कालमहोदरार्णवे।
क्षणमप्यवरं न चिन्मयं मम नारायण! का गतिर्वत॥३१॥

जननं समनर्घमाप्तवान् न कदाचित् जगदीशितुः कियत्।
परमन्वभबं दयादिकं मम नारायण! का गतिर्वत॥३२॥

जगदीशपदाम्बुजे नतिं ननु नारायणनाम कीर्त्तनं।
भजनञ्च चकार नो हरेः मम नारायणं! का गतिर्वत॥३३॥

ऋजुता करुणा क्षमा धृतिः ऋतमग्र्यंपरितुष्टिरासते।
प्रभवामि किमत्र वर्त्तितुं मम नारायण! का गतिर्वत॥६४॥

न शमो न दमो न सुस्मृतिः न तितिक्षा न गुरौ मतिर्मया
क्रियते करुणा प्यनाशया मम नारायण! का गतिर्वत॥३५॥

दम-सौध-विभूषितोदरं न विवेकामृतसागरान्तरं।
शमपादपमूलमाश्रयं मम नारायण! का गतिर्वत॥३६॥

नरकार्णव यातना क्लमः तनुपातः परजन्म सन्ततिः
न हरेर्नयदण्ड आस्मृतः मम नारायण! का गतिर्वत॥३७॥

तनुपोषणभिन्द्रियाहुतिं धनलाभं परदोषभाषणं।
परमं कुशलं स्म मन्यते मम नारायण! का गतिर्वत॥३८॥

विविधे कलहेतु दुर्ज्जनोऽनृततर्केगुरुरप्यकुण्ठितः।
अधमात् सततं विभेति मत् मम नारायण! का गतिर्वत॥३९॥

अतिथेर्न सुषेवनं गुरौ न सुभक्तिर्गिरिजापतौ मतिः।
न, न शान्तिमतिः कदाप्य हो मम नारायण! का गतिर्वत॥४०॥

क्षणमप्यवलम्ब्यविश्वकृच्चरणाब्जं, न हि नन्दनं वनं।
इह दर्शयितुं क्षमोऽस्म्यहं मम नारायण! का गतिर्वत॥४१॥

भवनं सुरमूर्त्ति-वर्ज्जितं विषमं दावविदग्धकाननं।
हृदजायत शान्ति-विस्मृतं मम नारायण! का गतिर्वत॥४२॥

तटिनीव च सागरोन्मुखी मन आवेगत आत्म-विस्मृतः
हरये न निजं व्यसर्जयं मम नारायण! का गतिर्वत॥४३॥

प्रकृतेः प्रभयातिविस्मितः न कदाचित् परमात्म-तेजति।
अधमोनतमस्तकोऽभवं मम नारायण! का गतिर्वत॥४४॥

अभिलाष मति-स्मृतीर्धृतिं असमोत्साह-समुद्यमौ सुखं।
खलु नास्तिकता व्यलोपयत् मम नारायण! का गतिर्वत॥४५॥

कमलापतिभक्तितो मया क्षणमप्यत्र दृगश्रुसंहतिं।
विनिपात्य न तृप्तिरायये मम नारायण! का गतिर्वत॥४६॥

भवतु भवतु पूर्त्तिर्जीवनाक्षाभिनीतेः
पततु पततु देहो, मास्तु चिन्तैव तत्र।
चलतु चलतु जीवोऽप्याश्रुतादृष्टदेशे
वदतु वदतु कृष्णंविश्ववीजं मनोऽदः॥४७॥

(नारायणार्पणमस्तु)

श्रीअन्नदाचरण तर्कचूड़ामणिः—

नोयाखालि—सोमपाड़ा—

वैदिकाख्यायिका।

(पूर्व्वतोऽनुवृत्ता)

स प्रवाहणो राजा कथयति हे गौतम! यत्त्वया प्रार्थ्यते वरः स तु दैवविषयकः। किन्तु मानुषेषु वरमन्यतमं प्रार्थय॥६॥

तत् श्रुत्त्वा आरुणिः कथयति हे राजन्! भवता यद्विहितं तत्सर्व्वमेव ममास्ति यत्त्वं प्रदित्ससि ररं। मम तु प्रभूतानि हिरण्यानि, गावः, अश्वाः दास्यः परिवाराः वसनानि च समुपार्ज्जितानि सन्ति। न च यन्मम विद्यमानं तत् त्वत्तः प्रार्थनीयं त्वया वा देयं।

_________________________________________________

६। स हो वा च दैवेषु वै गौतम तद्वरेषु मानुषानां हब्रूहीति॥६॥

____________________________________________________

नैवमहमिच्छामि यत् भवान् सर्व्वान् जनान् प्रति वदान्यप्रवरो भूत्वा प्रभूतेषु अनन्तपालकेषु पुत्रपौत्रादिगामिषु दानविषयेषु केवलं मां प्रत्येव कदर्यो भवतु इति।

तदा राजाह हे गौतम! चेदेवंनिर्व्वन्धातिशयस्तर्हि शास्त्रविहितेन शिष्यभावेन मत्तो विद्यामधिगन्तुमिच्छ।

तदाकर्ण्य आरुणिराह राजन्! भवान् गुरुरहंशिष्य इत्येवं वाचा स्वीकृत्य भवदन्ते वसामि। पुरापि ब्राह्मणाःविद्यार्थिनःसन्तः क्षत्रियाणां क्षत्रियाश्च वैश्यानां वाङ्मात्रेण शिष्यत्वमङ्गीचक्रुः किन्तु फलकुसुमादीनादाय समित्पाणयो वा ब्राह्मणगुरुवत् शुश्रूषया वा न ब्राह्मणः क्षत्रियान् क्षत्रिया वा वैश्यानुपजxरिति॥७॥(*)

एवं आपद्गतेनेव गोतमेन उक्तः स राजा तं नितान्तं अन्तर्निर्विन्नं मन्यमानः क्षामयन् कथयति हे गोतम! अस्मदीयोऽपराधो न ग्रहीतव्यस्त्वया, तव च पितामहा अस्मात् पितामहेषु यथापराधं न जगृहुः तथा पितामहानां चरित्रं भवतापि रक्षणीयं। अधुना यथेयं विद्या त्वया प्रार्थिता इतः पूर्व्वंन कोऽपि ब्राह्मणस्तां प्रार्थितवान् अतःसेयं विद्या न कस्मिन्नपि ब्राह्मणे विद्यते। एतत्त्वमेव जानीषे सर्व्वदा क्षत्रियपरस्परेयं विद्या समागता सा मर्य्यादा

_____________________________________________________

७।सहो वा च विज्ञायते हास्ति हिरण्यस्योपात्तं गोअश्यानां दासीनां प्रवाराणां परीधानस्य मा नो भवान् वहोरनन्तस्थापर्य्यन्तस्याम्यवदान्योभूदिति स वै गोतम! तीर्थेनेच्छासा इत्युपेम्यहं भवन्तमिति वाचा हास्यैव पूर्व्व उपयन्ति स होपायन कीर्त्तो वास॥७॥

* एतदेवोजीव्य मनुरब्रवीत्। २। २३८—।

“श्रद्दधानः शुभां विद्यामाददीतावरादपि। अन्त्यादपि परं धर्म्मं स्त्रीरत्नं दुष्कुलादपि। विषादप्यमृतंग्राह्यं बालादपि सुभाषितं। अमित्रादपि सद्वृत्त ममेध्यादपि काञ्चनं॥ स्त्रियोरत्नान्ययो विद्या धर्म्मः शौचं सुभाषितं। विविधानि च शिल्पानि समादेयानि सर्व्वतः॥ अब्राह्मणादध्ययनमापत्काले विधीयते। अनुव्रज्या च शुश्रूषा यावदध्ययन गुरोः॥

___________________________________________________________

मयापि रक्षणीया इति मत्वा उक्तं “देवेषु गोतम! तद्वरेषु मानुषाणां ब्रूही"ति।

न पुनरधुना तुभ्यमदेयोऽयं विद्यावरः शिष्यत्वं स्वीकृतवते। अतस्तां विद्यां तुभ्यं वक्ष्यामि अन्योऽपि एवं विनीतं ब्रुवन्तं त्वां न दास्यामीति वक्तुं न शक्नुयात् तत्कथमहं त्वां प्रत्याख्यातुं शक्नोमि॥८47

(क्रमशः)

____________

सतीच्छाया।

(पूर्व्वानुवृत्ता)

षष्ठः ररिच्छेदः।

पापीयान् निर्द्दयो दुष्टः शक्तिमान् यदि सर्व्वथा।
मानिनोऽपि तिरस्कुर्य्यादज्ञानतमसावृतः॥

यदा खलु राजकुमारो रमणीमोहनः चित्पुरराजपथेन वरासनमध्यासीनः परिणेतुं गतवान्। तदा स प्रायः सुन्दरीमिन्द्रप्रिया मन्तःसत्तां विसस्मार। तदा परिहृत्य सरलायाः सहवासं दुष्टप्रकृतिना अतुलकरेण प्रतारितः कुकृत्ये प्रववृते। संप्रति महोत्सवेन परिणेतुं गच्छन् प्रामादोपरि स्थिताः द्रष्टुकामाः कामिनीः चञ्चलेन चक्षुषा पश्यन् इन्द्रप्रियामपि पश्यति। दृष्ट्वा च तां चिरसहवासिनीं विशुष्कमुखीं द्राक् वज्राहतइवस्तम्भितो भवति। कम्पते च तस्य हृदयं द्रुततरं। स्वयमवश इव पश्चात्स्थितं चर्म्मो-

पाधानं समाश्रयति। इन्द्रप्रियाया मूर्च्छादर्शने च स्वयमपि मूर्च्छति। न जानाति क्वास्ते क्ववा यातीति। ईदृमेव पापिनां दण्डभोगः। कुसंसर्गस्य प्रतिफलञ्च तदैव जायते।

यथासमये नवदम्पतोराजसदने समुपतिष्ठेते। तदा रमणीमोहनः कथञ्चिल्लब्धचैतन्यः मङ्गलाचारमाचरन्तीभिः स्त्रीभिः नवोढ़या वध्वा सार्द्धंगृहं प्रवेशितः।

विवाहप्रथम एव मासि रमणीमोहनः ज्वररोगमुपैति। क्रमशः साङ्घातिक इव ज्वरस्तमतीव कातरतां नयति। बहुविधया सुचिकित्सया च वीतज्वरो भूत्वापि दैहिकीं ग्लानिं न परिहातुमीष्टे। विना हि वायुपरिवर्त्तनं न दौर्बल्यमपगमिष्यतीति चिकित्सकैरुपदिष्टः पिता मोहिनीमोहनस्तथाविधं पुत्रमादाय प्रयागं गतः।

सेवित्वा च गङ्गाजलं पूतपवनञ्च कथञ्चित् स्वास्थ्यांरमणीमोहणोलभते। किन्तु मनोऽतितरां यातनया सततं ज्वलति। अहो कालस्तु बलीयान्। स्पष्टतः कोऽपि नास्ति व्याधीरमणी मोहनशरीरे किन्तु क्रमशः प्रतिदिनं शरीरं कान्त्या त्यज्यते क्षीयते च, एतदवलोक्य सह स्थितः कश्चित् चिकित्सको राजानमाह महाराज! मयैतदनुमीयते अस्ति काचिदस्य मानसी यातना, नान्यथा भवितुमीदृक् कथमपि युज्यते।

कार्त्तिकमासस्य शेषे एकस्मिन्नहनि चिकित्सकः कथयति महाराज! अतीवासमीचीनावस्था ते तनयस्य अतो भवानेव लज्जामपहाय पृच्छतु तावत् कास्य मानसोव्यथेति।

ततोऽपराह्ने रमणीमोहनः पितुरङ्के मस्तकं निधाय यदा स्वपिति तदा स्वयमेव सकरुणं कथयति तात! किञ्चित्ते ब्रवीमि, किन्तु वचनं न स्फुरति। ततः किञ्चित् दुग्धं पाययित्वा पिता कथयति किंवक्ष्यषि प्राणाधिक! ब्रूहि। रमणीमोहनस्य रुग्नचक्षुर्भ्यां दरदरितवेगेन वास्पधारा प्रवर्त्तते। स मृदु मृदु कथयति।

पितः! मया भवत्यज्ञाते काचित् कुलीना स्कुलबालिका परमरमणीया परिणीता। किन्तु सदा ममासाक्षात्कारात् त्वयि कुप्यति नवममासगर्भिणीं तामहं तत्त्याज। राजा सघनं निःश्वसन् कथयति हाहा सर्व्वं विनाशितं, वंशाङ्कुरः क्व विसर्ज्जितः? रमणीमोहणो दीर्घदीर्घश्वासेन कथयति तात! अहं तामवदं भवतीं प्रच्छनं परिणीतवान् अतो न सेत्स्यति विवाहोऽयम्। अतोऽहमन्यां यथाविधि यथारीति विवक्ष्यामि। श्रुत्वैतत् सा बहु रुरोद। अहन्तु तात! त्वत्तो भीतः तस्माद्गृहाद्वहिरभवम्। तदानीमपि सा श्वशुरस्य सन्निधौ नय स खलु ईदृशीमवस्थामापन्नां मां वीक्ष्य आद्योपान्तं वृत्तान्तञ्च श्रुत्वा सदयो भविष्यति इति पुनः पुनर्मां सनिर्व्वेंदमवादीत्। (श्रुत्वैतत् राज्ञश्चक्षुर्भ्यां वाष्यधारा निपेतुः)।तात! तदा तस्या वचनमवज्ञाय तद्भवनमत्यजं। मुहूर्त्तमतीत्य परावृत्य चाद्राक्षं सा नास्ति, तस्यादासी यशोदापि। तदानुमेने पलायिता सह यशोदया सेति।

ततः परं कृतविवाहः स्वगृहं गच्छन् चित्पुरवर्त्म पार्श्वे एकतलगृहच्छदिषि तामपश्यम्। तात! सा कृतप्रसवा इव अन्वमानि। ततः प्रभृत्येव मम पीड़ा जाता, सैव मे तीव्रयातना। हा क्व सा अनाहारा ममार, अथवा ममैव दोषात् स्खलितचरित्रा जाता। हा तात! किं कृतं मया। इत्युक्तैव रमणीमोहणः मुमूर्च्छ। राजा तं शुश्रूषितुमारेभे ततः परं वाक्शक्तिस्तिरोहिता, प्रणा अपि क्रमशस्तस्मात् रमणीमोहनदेहान्निश्चक्रमुः। शोकाकुलञ्च राजानं कथञ्चित् प्रबोध्य भृत्याः कुमारस्य निष्पादितान्त्येष्टिक्रियाः सह राज्ञा स्वगृहं प्रति नौकया गतवन्तः।

महाराजस्तु मोहिनीमोहनः प्रायश एव पुत्रसुहृदं अतुलकरं सर्व्वदा स्वसन्निहितं रक्षति। पुत्रवच्च तं स्निह्यति। दिनानि कानिचिद्गमयित्वा विधवांपुत्रवधूं स्वगृहमानाय्य तनयानिर्व्वशेषं पालयति।

एवं समये समये स्वयमनुतप्यते, हा यदि अधुनाप्यनुसन्धानेन पुत्रो वा कन्या वा रमणीमोहनस्य प्राप्यते तदापि सुखेन मर्त्तुं शक्नोमि। अहो पितृपुरुषस्य पिण्डेनैव लुप्यते। राजा खलु रहसि बहुदिनंयावत् रमणीमोहनस्य पत्न्या अनुसन्धानं चकार, किन्तु सफलप्रयत्नो न भवति। विधेर्वामतया कथं फलिष्यति मनोरथः।

एकदा अतुलकरः राजानं कथयति तात! अहमद्य भवानीपुरे पितृष्वसारं प्रणन्तुंयास्यामि। तस्माच्चागमने पञ्च षड़्वा दिनाति विलम्बो भवेत्। मदीया तु पितृष्वसा महतो विभवस्याधिकारिणी अपुत्रिका च। मह्यं भूसम्पत्तिं कियतीं प्रदास्यतीत्यनुमेने। अतस्तत्रगन्तुं मामनुजानीहि।

अतुलकरस्तत्र गत्वा पितृष्वसुः समीपे उपविशन्तीं अतीव सुन्दरीं बालिकां छायां पश्यति। प्रणम्य च पितृष्वसारं कुशलप्रश्नोत्तरं विज्ञाप्यपृच्छति। अयि पितृष्वसः! केयं देवीरूपिणी बालिका? क्व वा लब्धा? सा कथयति इयं कोननगरवासिनो नरेन्द्रघोषस्य भागिनेयी इत्यादि समस्तं वृत्तान्तं कथयति।

अतुलस्य मनः क्षणं विस्मयसागरे मज्जति। तस्याः सौन्दर्य्यराशिनाकृष्टः कुटिलं पापकटाक्षं तस्यां पुनः पुनः क्षिपति। मनसि चिन्तयति च हाहा अस्यास्तु मात्रा सार्द्धं वाञ्छितोऽपि मम सहवासः नैव सम्पन्नः। किन्तु यद्यपोमां स्नेहविनिमयेने परिणेतुं प्रभवामि तदा पश्चाद्राज्ञे मनोमोहनाय निवेद्य तस्यानन्योत्तराधिकारिकोऽहमेव तत् पौत्रीपतितया राजा भविष्यामीति। किन्तु नरपिशाचोऽसौ नैतच्चिन्तयति विवाहितायां सत्यां मनोमोहनराजस्य पौत्र्यां तस्य कुलमर्य्यादा विनश्यतीति।

अनन्तरं स दुराचारः अतुलकरः अनिच्छन्त्या अपि च्छायायाः सान्निध्यमुपवेष्टुं तया संलपितुञ्च प्रत्यहं यतते, किन्तु सा छाया स्वां

विरक्तिं सूचयति आलपतस्तस्य प्रत्युत्तरं न ददाति, सान्निध्यमुपविशतस्तस्मादन्यत्र व्रजति।

एकदा वृद्धा गृहस्वामिनी छायाया भावमनुमाय अतुलं प्राह। रे अतुल! छाया अतीव लज्जाशीला; त्वन्तु निर्लज्जः वहिर्वाटीमपहाय सततमन्तर्वाट्यां किमर्थं निरन्तरं पर्य्यटसि? नैतदुचितं प्रतिभाति। तच्छ्रुत्वा अतुलः मर्म्मणि वेदनामनुभूय कुप्यति। प्राह्ने अतुलः पुष्पोद्याने विहरन् पुष्पोद्यानभृत्येनालपति—यदि प्राचीना पितृष्वसा वोधशक्तिशून्या अद्यैव म्रियेत तर्हि प्रातरेवास्याः सर्व्वाः सम्पत्तयः ममैवायत्ता भविष्यन्ति। अहमेवैकोऽस्या भ्रातुप्पुत्रः। नान्योऽधिकारीति। वृद्धा तु देवाद्गवाक्षवर्त्मनि प्रच्छन्नं तिष्ठन्ती तत् सर्व्वं शृणोति कथयति च अहो एवम्विधाय गुणाकराय भ्रातृपुत्राय जीवन्ती एव सर्व्वं सम्पत्तिं दास्यामि तत्र कथं मम मरणापेक्षेति तदाकर्ण्य अतुलकरः म्रियमाणो भवति।

(क्रमशः)

_________

धर्म्मविवेकः।

(पूर्व्वपकाशितात्परः)।

अपि चात्रोदाहरणान्तरं यथा “प्राङ्मुखोऽन्नानि भुञ्जीत” इति नियमविधिः। भोजनकर्त्तुर्यदृच्छया यां काञ्चिद्दिशमाश्रित्य भोजनं प्राप्तं— तत्र कदाचित् प्राची कदाचिदितरा दिक् इति या काचिद्दिक् प्राप्ता। तत्र यदा प्राची प्राप्ता न तदेतरा। यदातु इतरा न नदा प्राचीति तत्राप्राप्तिपक्षे विध्यर्थं वचनं प्राङ्मुखोऽन्नानि भुञ्जीत” इति तदतिक्रमाच्छास्वार्थंजहति। परन्तु अयं काम्यनियमः। आयुष्यं प्राङ्मुखो भुङ्क्तोइत्याद्येक वाक्यतया आयुर्वृद्धिकाम-परत्वात्।

एवं ऋतौभार्य्यामुपेयादित्यादिरपि नियमविधिः। विधेयस्य भार्य्याभिगमनस्य रागतः प्राप्तावपि रागाभावात् पक्षतोऽप्राप्तेः। यदृच्छयोपगमनं ऋतावनुपगमनं पक्षेविधीयमानं अनुपगमनं अनुष्ठीयमानञ्चेत् शास्त्राति क्रमणं जनयेत्। यथा अन्येऽपि शास्त्र विहितकर्म्माणि अतिक्रम्यमाणानि सन्ति प्रायश्चित्तकारणानि भवन्ति। तथा ऋतौ भार्य्यानुपगमनं पापजनकमतः प्रायश्चित्तहेतुर्भवेत्। अतो विधिनानेन ऋतुकाले भार्य्योपगमनं नियम्यते।

अथ पञ्च पञ्चनखान् भुञ्जीत48इत्यादिवत् ऋतौ भार्य्यामुपेयादित्यादिरपि परिसंख्याविधिरेवास्तां न तु नियमः। नियमे तु तदकरणे पापमुत्द्यते परिसंख्यायान्तु तदकरणे नास्ति पापकथापि। अत्र क्षुन्नाशार्थं शशकादिषु पञ्चसु पञ्चनखेषु भक्षणं प्रसक्तं एवं शशकादिभिन्नेषु वानरादिष्वपि भक्षणं प्राप्तं अतो युगपत् शशकादिषु पञ्चनखेषु तदन्यत्र वानरादिषु च रागतो भक्षणप्रसङ्गे पञ्च पञ्चनखान् भुञ्जीत विधिरेषः इतरस्य नानरादे प्रतिषेधनात् परिसंख्यैव। एवमिहापि। सत्यं परिसंख्या दोषत्रय विशिष्टा व्याख्याता। अतएव यत्र दोषत्रयं वर्त्तते तत्रैव परिसंख्याभविष्यति। ऋतौभार्य्यामुपेयादित्यत्र दोषत्रयं नास्तीत्यतः परिसंख्या भवितुं न युज्यते। तच्च दोषत्रयं यथा स्वार्थत्यागः। परार्थ कल्पना। प्राप्तवाधश्चेति। अत्र तु नैवमर्थः कर्त्तव्यः— ऋत्वितरकाले भार्य्यां नोपेयादिति, तदा “ऋतावुपेयात् सर्व्वत्र वा प्रतिषिद्धवर्जमि"ति गीतमादिवचनप्राप्तं अनृतावपि गमनंनिषिध्यते। तन्नयुक्तं। यदि मांसं भक्षेत् तदा पञ्चानां पञ्चनखानामेव। अत्र तु एवं नार्थः यदि गच्छेत् तदा ऋतावेव ऋतौ गमनस्यावश्यकत्वात् “यदि” एवमर्थः नैव कर्त्तुं शक्यते। तथा सति पापश्रुतेः। नियमे विधेयप्रवृत्तेः प्राधान्यं परिसंख्यायान्तु इतर निवृत्तेः प्राधान्यमिति।

परिसंख्याविधिस्तु यथा प्रोक्षितं मांसं मुञ्जीत इति अत्र विधेयस्य प्रोक्षितमांसमक्षणस्य रागतः प्राप्तेः। एवं नात्र विवेचनीयं प्रोक्षितमांसं भक्षयेदिति विधिवलात् प्रोक्षितमांस भक्षणस्यावश्यकत्वं किन्तर्हि प्रोक्षितेतरमप्रोक्षितं मांसं नैव भक्षयेत् इत्येवमर्थ एव तात्पर्य्यं। यदि मांसभोजनं रागतः कर्त्तव्यं तदा देवानुद्दिश्य निवेदितस्यैव मांसस्य भोजनं कर्त्तव्यं नत्वनिवेदितस्य। एवं पञ्च पञ्चनखा भक्ष्याः इत्यादिरपि परिसंख्या। अस्यार्थः— पञ्चेतरपञ्चनखा न भक्ष्याः (१)।अत्र विधेयस्य पञ्चनखभक्षणस्य रागतः प्राप्तस्य न प्राधान्यं किन्तु श्वाविधादि पञ्चेतरस्य रागतः प्राप्तस्य भोजन निवृत्तिरेव प्रधान्यं। श्वाविधादिपञ्चनखान् भुङ्क्ष्व वा नैव भुङ्क्ष्व न तत्र वाक्यमेतदेकान्ततो निवर्तकं प्रवर्त्तकं वा भवेत्, किन्तु श्वाविधादिपञ्चेतर पञ्चनखानां भक्षणं अत्यावश्यकत्वेन निषिध्यते। तथाच,—

“विधिरत्यन्तमप्राप्तौनियमः पाक्षिके सति।
तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते॥”

अस्यार्थः। अत्यन्तं रागतः शास्त्रतो युक्तितो वा अप्राप्तौ सत्यां प्रवर्त्तंकं वाक्यं विधि। यथा अहरहः सन्ध्यामुपासीत। अत्र सन्ध्योपासनस्य रागादितोऽप्राप्तत्वात्। पाक्षिके रागाभावात् अप्रापणे सति प्रवर्त्तकं वाक्यं नियमः। यथा ऋतौ भार्य्यामुपेयात्। ऋतौ यदि अनुरागाभावात् भार्य्योपगमनं न सम्भवति तत्रावश्यकत्वेन भार्य्योपगमनप्रवृत्यर्थं नियमः। तत्रचेत्यादि तत्र उद्देश्ये अन्यत्र अनुद्देश्येच रागतः प्राप्तौ उद्देश्येतरनिवर्त्तकं वाक्यं परिसंख्या इति।

_____________________________________________

(१)श्वाविधं शल्यकं गोधा खड़्गकूर्म्मशशांस्तथा।
भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रां श्चैकतो दतः” मनौ।५।१८

_____________________________________________

“श्रुतार्थस्य परित्यांगादश्रुतार्थस्य कल्पनात्
प्राप्तस्य वाधादित्येवं परिसंख्या त्रिदोषिका”॥

ताञ्च परिसंख्यां दोषत्रयवती माचक्षते। तथाच—

त्रयीहि तत्र दोषाः प्रादुः स्युः। स्वार्थत्यागः। परार्थकल्पना। प्राप्त वाधश्च। पञ्चनखा भक्ष्याः इति यदा रागतः पञ्चनखविषये भक्षणं प्रतीयते तदा तद्भक्षणं त्यक्तं भवति। तद्व्यतिरिक्तनिषेध परत्वाद्वाक्यस्य। अश्रुतश्च निषेधः प्रतीयते इति परार्थकल्पना। अर्थित्वाच्च मांसमात्रभक्षणं प्राप्तं तस्य वाधः इत्येवं त्रयो दोषाः परिसंख्यायां। तथा च जैमिनीयन्यायमाला विस्तरे। अं १७ पां ५। अधिं १४। २०

“परिसंख्या पूर्व्वपक्षो न संयुक्ता त्रिदोषतः।
अप्राप्तस्यार्थवाधेन विधेयः स न गम्यते॥” इति।

अङ्गस्य विधिमेदो यथा— शारदीयपूजायामष्टम्यामुपवसेत् इत्यादिरपूर्व्वविधिः। अत्र विधेयस्योपवासस्य एतदन्यशास्त्रतो रागतो न्यायतो वा क्वचिदप्राप्तेः। तथा श्राद्धे भुञ्जीत पितृसेवितं इत्यादिर्नियमविधिः। विधेयस्य श्राद्धशेषभोजनस्य रागतः प्राप्तावपि रागाभावात् पक्षतोऽप्राप्तेः। तथावृद्धिश्राद्धे प्रातरा मन्त्रयेद्विप्रान् इत्यादिः परिसंख्याविधिः। अत्र विधेयस्य प्रातरा मन्त्रणस्य तत्प्रतिपक्षस्य पूर्व्वदिनमायं निमन्त्रणस्य च पार्व्वणवन्यायतः प्राप्तेरिति।

(क्रमशः)

____________

वज्रसूची।

ओं नमः परमात्मने॥

वज्रसूचीं प्रवक्ष्यामि शास्त्रमज्ञानमेदनं।
दूषणं ज्ञानहीनानां मूषयं ज्ञानचक्षुषां॥

ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णाः। तेषां ब्राह्मण्यंप्रधानं वेदवचनान्निरूपितं स्मृतिभिरुक्तं च। तत्र चोद्यमस्ति को ब्राह्मणो नाम। किं जीवः किं देहः किं जातिः किं वर्णः किं पाण्डित्यं किं धर्म्मःकिं धार्म्मिक्यं किं कर्म्म चेत्यष्टौ विकल्पाः। प्रथमं जीवो ब्राह्मण इति चेत् तर्हि सर्व्वस्यापि जनस्य जीवस्यैकरूपत्वात्, तस्माज्जीवो ब्राह्मणो न भवत्येव॥१॥ अन्यश्च देहो ब्राह्मण इति चेत् तर्हि चण्डालपर्यंतानां मनुष्याणां देहस्य जरामरणधर्म्मदर्शनात्। तस्माद्देहो ब्राह्मणो न भवत्येव। पितृमातृशरीर-दहनात्पुत्राणां ब्रह्महत्यादिदोषसम्बवःस्यादित्यपिहेतोर्देहो ब्राह्मणो न भवत्येव॥२॥ जातिः इति चेत् तर्हि अन्यजातिसम्बवा बहवो महर्षयः सन्ति। तथाहि ऋष्यशृङ्गोमृगीजातः। कौशिकः कुशास्तरणे। गोतमः शशपृष्ठे। वाल्मीकिर्वल्मीक्यां। व्यासः कैवर्त्तककन्यायां। वशिष्ठ उर्वश्यां जातः। विश्वामित्रः क्षत्रियाया मगस्त्यः कलशाज्जात इति श्रूयते। तेषां जात्या विनापि सम्यग् ज्ञानविशेषाद् ब्राह्मण्यमत्युत्तमं श्रूयते तस्माजातिर्ब्राह्मण्य हेतुर्नास्ति॥३॥ वर्ण इति चेत्। ब्राह्मणः श्वेतवर्णः क्षत्रियो रक्तवर्णोवैश्यः पीतवर्णः शूद्रः कृष्णवर्ण इति वचनात् सर्व्वेषामेव ब्राह्मणवर्णदर्शनाद्वर्णोऽपि ब्राह्मण्यहेतुर्नास्ति॥४॥ पाण्डित्यमितिचेत्। तर्हि-क्षत्रिय वेश्य शूद्रादयोऽपि पदपदार्थवाक्यप्रमाणविज्ञाना बहवः सन्ति तस्मात् पाण्डित्यमपि ब्राह्मण्यहेतुर्न

भवति॥५॥ धर्म्म इति चेत् तर्हि क्षत्रिय-वैश्य-शूद्रादयोऽपि इष्टापूर्त धर्म्मकारिणो बहवःसन्ति तस्माद्धर्म्मोऽपि न ब्राह्मण्यहेतुः। धार्म्मिक्यमिति चेत् क्षत्रियवैश्य शूद्रादयोऽपि कन्यादान गजदान गोदान हिरण्यदानमहिषदानदातारः सन्ति तद्धार्म्मिक्यमपि न॥७॥ कर्मेति चेत्। ब्राह्मणः श्चेतकर्म्मा शतं वर्षाणि जीवति क्षत्रियस्तदर्द्धं वैश्यस्तदर्द्धंशूद्रस्तदर्द्धमिति नियमाभावात् तस्माद ब्राह्मण्ये कर्म्मापि न हेतुः॥८॥किन्तु करतलामलकमिव पश्यन् यः परोक्षेण कृतार्थस्तथा कामरागद्वेषरहितः शमदमादिसन्तोषः मनमात्सर्य्य तृष्णा संमोहादि दुष्टार्थनिवृत्तः स एव ब्राह्मण उच्यते। उक्तञ्च।

जन्मना जायते शूद्रः संस्कारात् द्विज उच्यते।
वेदाभ्यासाद्भवेद्विप्रो ब्रह्म जानाति ब्राह्मणः॥

अत एव ब्रह्मविदेव ब्राह्मणो नान्य इति।

कर्म्मयोगी च विद्वान् स अन्तरालं सुरालयं।
सत्यंवैकुण्ठकैलासक्षीराद्धिं भैरवंतथा॥

विश्वरूपञ्च चैतन्यमेतन्माया स्वरूपकं।
मयापरं भवेद् ब्रह्म तत्परं ब्रह्म केवलं॥

योगी देहाभिमान्येव भोगी कर्म्मणि तत्परः।
ज्ञानी मुक्ताभिमान्येव तत्त्वज्ञेनाभिमानिता॥

किं करोमि क्व गच्छामि किं गृह्नामि त्यजामि किं।
आत्मना पूरितं सर्व्वं महाकल्पांबुना यथा॥

सावयव-वस्तुज्ञानं मोक्ष इति केचित्। निरवयवगुणातीत-वस्तुज्ञानं मोक्ष इति केचित्। साकारास्य विनाशोऽस्ति निराकारस्यशून्यता उभयपक्षविहीनवस्तुज्ञानं मोक्ष इति केचित्। ऐकदेशिकसिद्धान्तकथितभक्तिविधानं मोक्ष इति केचित्। व्यापकसकलागमशास्त्रार्थनिर्द्दिष्टाचरणं मोक्ष इति केचित्। मनोवाञ्छाविकल्प विच्छ्रेदलक्षणो मोक्ष इति केचित्। मनःपवनध्येयध्यानधारणा

करणं मोक्ष इति केचित्। दृश्यादृश्योभयज्ञानाभावो मोक्ष इति केचित्। महावाक्यविचारणं मोक्ष इति केचित्। मद्यमांसास्वादन सुरतक्रीड़ा विलासविभ्रमानन्दमयो मोक्ष इति केचित्। अस्ति नास्तीत्युभयज्ञानविच्छेदो मोक्ष इति केचित्। सोऽहं भावसमरसत्वं मोक्ष इति केचित्। स्वात्मानन्दबोधभयो मोक्ष इति केचित्। जटास्थापन भस्मोद्धूलनाङ्गीकारादेव मोक्ष इति केचित्। नाना तीर्थयात्रा जप हवन दानव्रतैरेव मोक्ष इति केचित्। स्थावर जङ्गमजात्यर्हिमा केशोत्पाठनादेव मोक्ष इति केचित्। एतेषां सङ्कल्प विकल्पानुसारे दर्शनभेदाः सन्ति बहवः। तन्न भवति सर्व्वेषां मोक्षपदमिति। किन्तु यो महावाक्यविवरणेनोक्तः समष्टि व्यष्टि रूपोऽयं प्रपञ्चः तल्लब्धंशलं वाच्यंपरित्यज्य शुद्धलक्ष्यत्वमङ्गीकत्य यत् जीवपरमेश्वरयोरैक्यंस एव मोक्षः। स कथं यथा महाकाशै घटमठोपाधिर्विद्यते तस्य प्रध्वंसो महाकाशे सिद्धः। तथा जीव परमेश्वरयोरैक्यंस एव मोक्षः सिद्धः।

वेदान्ता बहुतर्ककर्कशमतिग्रस्ताः परा मायया
भाट्टाः49कर्म्मकलाक्तुला हतधियो द्वैते परा वञ्चिताः।
शैवाः पाशुपता महाव्रतधराः कालामुखा जङ्गमाः
गाणेशाः सकलेष्टदङ्गणपतिं ध्यायन्ति चित्तेऽनिशं॥१॥

(क्रमशः)

________

ON TRANSLATION.

⇒ As given by Mr. Seshagiri Sastri M. A. Professor of Sanskrit literature Presidency College, Madras.

Q. Translate into Sanskrit.

Do not these passages and such passages as these indicate that women were honoured in ancient India more perhaps than among any other nation in the

face of the globe? Considered as the intellectual companions of their husbands, as their friends and affectionate helpers in the Journey of life, as the partners of their religious duties and the source of their domestic bliss, Hindu wives were honoured and respected in ancient times. It was not often that they attained the abstruse learning of a Maitriyi and Gargi; but nevertheless they were well informed in general matters and well trained in these old domestic duties. Free from all undue restraint on their movements and actions, women moved freely in the society in which they lived, frequented public festivities and sights, performed religious sacrifices, visited friends and received visits.—

Dut’s Ancient India.

A. कदाचिद्वूमेरुपरिवर्त्तमानेषु सर्व्वेषु जनेषु यथा पूजितास्ततोप्यधिकतरङ्गनाःप्राचीनभारतवर्षे पूजिताः इत्येतान्येतादृंशिवचनानि च न दर्शयन्ति किम्। पतीनां विद्वन्मित्तत्वे न जीवयात्रायां स्निग्धत्वेन प्रोतिसहायत्वेन च धर्म्मकार्य्येषु सहायत्वेन च शद्धगृहस्थानन्दस्य मूलत्वेन च भारतवर्षीयभार्य्याः प्राचीनेषु कालेष्वर्हणां प्रापुः। मैत्रेयोगार्गोसदृशीनां स्त्रीणां रहस्यंज्ञानं ता लेभिरे इति यन्नैव तन्मुहुरभूत्। तथापि साधारणविषयेषु विश्रुताः स्वगृहकृत्येषु सुशिक्षिता अभवत्। स्वीयेषु प्रयत्नेषु कार्य्येषु च सर्व्वविधायुक्तनिर्बन्धरहिताः स्वीयसन्धेषु स्वातन्त्र्येणाचरन्। सार्वलौकिकोत्सवानपश्यन्। यज्ञादि क्रियामकुर्व्वन्। मित्राण्यपश्यन्। मित्रेभ्योऽपि दर्शनमदुः।

श्रीश्रीदुर्गा शरणम्

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-173207966764.jpg”/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्माणि कारयन्ती जनानिव।
मायावलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी॥

<MISSING_FIG href=”../books_images/U-IMG-173207974590.jpg”/>

मासावतरणिका।

किमेभिर्म्मार्त्तण्ड! प्रखर किरणैर्मर्मभिदुरेः
दिधक्षुः शीतं नः क्षितिमपि चशुष्येरतिरुषा।
न शीतो न ग्रीष्मोऽपि तु तदुभयः प्रातरिव तत्
भवेत् सुस्थंसर्वं किमिह न प्रभौ सम्भवपरं॥

<MISSING_FIG href=”../books_images/U-IMG-173207983289.jpg”/>

उद्भटश्लोकाः।

या चण्डीमधुकैटभादि दलिनी या माहिषोन्मर्दिनी
या धूम्रेक्षण चण्डमुण्ड मथिनी या रक्तबीजाशिनी।
शक्तिः शुम्भनिशुम्भ दैत्य दलिनी या सिद्धिलक्ष्मीप्रदा
सा देवी नवकोटी मूर्त्तिसहिता त्वां पातु विश्वेश्वरी॥२४०॥

निरक्षरान् वीक्ष्य धनादिनाथान् त्यजन्ति विद्यां न कदापि धीराः।
आवद्धमुक्तां गणिकां विलोक्य कुलाङ्गनाः किं कुलटा भवन्ति?॥२४१॥

लज्जा मानसुत! द्विजस्य वनिता भिक्षा परा दैन्यजा,
तातैश्वर्य्य विगर्विता बलवतीभिक्षा प्रगल्भा भवेत्।
सा लज्जा निहता तयैव तनयाशोकेन मानो मृतः
साध्वी दैन्यसुता चिरं प्रियसखी नाद्यापि मां सुञ्चति॥३४२॥

नीचैः सङ्गं सर्वथैव न कुर्य्युःसाधवः क्वचित्।
सा काली दाससङ्गेन दृश्यतां ह्रस्वतां गता॥२४३॥ (*)

_______________________________________________

(*) दास सङ्गेन सेवकवाचक दास शब्देन सङ्गात् काली कालीशब्दः ह्रस्वतां ह्रस्वेकारत्वं गता दृष्यतां विलोक्यतां। “कालीचण्ड्यौर्दासे ह्रस्व इति सूत्रेण काली शब्दस्य ह्रस्वविधानात्। शब्दश्लेषमहिमा च काली भगवती। दासश्च सेवक इति लभ्यते। तदपि शब्दस्वरूप बोधने लक्षणं स्वीकृत्योक्तमिति॥”

__________________________________________________

इश्वरस्तोत्रम्।

यन्नाम कीर्त्ति मुदिता पुलकान्तरुच्चैः
गायन्ति पण्डितजनाः प्रथितां पृथिव्याम्।
वित्तं न गोपयति यन्तु वनीयकेभ्य
स्तं श्रीश्वरं मम गुरुं शिरसा नतोऽस्मि॥

शीलेन साधुनिकरो वशतामुपेति
दानेन याचककुलं परिहन्ति याचञाम्।
यत् संश्रयादपि जड़ाःकविता लभन्ते
तं श्रीश्वरं मम गुरुं शिरसा नतोऽस्मि॥

सर्व्वेषु भूतनिकरेषु निजात्मभावं
ज्ञानेन कञ्जज इव प्रथितं जगत्याम्।
चातुर्य्यंकार्य्यरहितं परमार्थ बुद्धिम्
तं श्रीश्वरं मम गुरुं शिरसा नतोऽस्मि॥

सत्येषु वाक्यनिचयेषु दृढ़व्रतं यं
मर्म्मद्विषन् रिपुकुलक्षयकारिणं यं।
स्वर्द्देश वासिभिरहो परिगोत गाथम्
तं श्रीश्वरं मम गुरुं शिरसा नतोऽस्मि॥

यत् संश्रयादतिघृणास्पदनीचबुद्धि
दुष्कर्म्मजालविरतः कुलपांशुलोऽपि।
तेनैव पौरुषकुलं गदितुंसमर्था
स्तं श्रीश्वरं मम गुरुं शिरसा नतोऽस्मि॥

यस्यानुभावममलं परिलोक्य तावत्
निन्दन्ति दुष्टकुलजातविशिष्ट दोषाः।
पश्यन्ति नैव कुधिया महतां महत्त्वम्
तं श्रीश्वरं मम गुरुं शिरसा नतोऽस्मि॥

स्वेच्छातनुं नयसि वै वितनोषि कीर्त्तिम्
ब्रह्मांशको ननु विभो वपुषा हि किंते।
स्तद्धो विघोषयति यं नरमेव नान्य
स्तं श्रीश्वरं मम गुरुंशिरसा नतोऽस्मि ॥

यस्मिन् सुधीर्हिमुकुरे गुणमेव पश्येत्
राकापतौ सकलमावसति प्रमोदा।
यञ्चाज्ञ बोधन गुणाकर देवनन्दम्
तं श्रीश्वरं मम गुरुं शिरसा नतोऽस्मि

श्रीत्रिभूषण देव विरचितं ईश्वराष्टकं सम्पूर्णं

<MISSING_FIG href="../books_images/U-IMG-173208103891.jpg"/>

महाकालःमहाकाली च।

महाकाली जगद्व्यापिनी न तस्या आवरणादिकं किमपि सम्भवति, सा ब्रह्मरूपिणी न कस्माद्विभेति, न वा लज्जते, सा निरन्तरं जगत् प्रसूते न तदा परिधानं सम्भवतीति सा कालीदिगम्बरी!

काली सजलजलदनीला स्वरोचिषा दशदिशमालोकयति तस्यान्तु कालिकायां रूपेण शिवस्यापि मनोमोहिन्यामतुल सौन्दर्य्यायां विवसनायां मातृवुद्ध्या मनोनिश्चलमविकृतञ्च ध्यायन्तो ये साधका स्तामुपासते, तेषामन्यासु स्त्रीषु अश्रद्धयेव मनोनाग्रेसरिष्यति, क्रमशोऽभ्यासवशान्मनश्चञ्चलीभावमपहाय सुसूक्ष्मेऽपि ध्येये

सुस्थिरत्वंग्रहिष्यति, तेन च तेषां साधकानामपवर्गमार्गो विमुक्तार्गलः सम्पत्स्यते। अयमेव महोपकारः कालीमुपासीनानामिति।

अथ कालिकायाः क्रमस्तोत्रम् \।

ओंनमामि कालिकां देवींकलिकल्मषनाषिनीं। नमामि शम्भुपत्नीञ्च नमामि भवसुन्दरीं॥ आद्यादेवीं नमस्कृत्य नमस्त्रैलोक्य मोहिनीं। नसामि सत्यसंकल्पां सर्वपर्वतवासिनीं॥
पार्वतीञ्च नमस्कृत्य नमो नित्यं नगात्मजे।

मातस्त्वदीय चरणं शरणं सुराणां ध्यानास्पदैर्दिशति वाञ्छित-वाञ्छनीयं।
येषां हृदि स्फुरति तच्चरणारविन्दं धन्यास्त एव नियतं सुरलोकपूज्याः ॥

गन्धैः शुभैः कुङ्कुम पङ्कलेपैर्मातस्त्वदीयं चरणं हि भक्ताः।
स्मरन्ति शृन्वन्तिलुठन्ति धीराः तेषां जरा नैव भवेद्भवानि ॥

तवाङ्घ्रि, पद्मंशरणं सुराणां परापरा त्वं प्रकृतिः परा हि।
दिजे दिने देवि भवेत् करस्थः किमन्यमुञ्चैःकथयन्ति सन्तः ॥

कवीन्द्राणां दर्पं करकमलशोभा परिचितम्
विधुन्वञ्चङ्घाभे सकलगणमेतद्गिरिसुते।

अतस्त्वत् पादाअं जननि सततं चेतसि मम
हितं नारीभूतं प्रणिहित पद्मं शाङ्करमपि ॥

ये ते दरिद्राः सततं हि मातस्त्वदीयपादं मनसा नमन्ति।
देवासुराः सिद्धवराश्व सर्वे तवप्रसादात् सततं लुठन्ति ॥

हरिस्त्वत्पादाब्जंनिखिलजगतां भूतिरभवत्
शिवोध्यात्वा ध्यात्वा किमपि परमंतत्परतरं।

प्रजानां नाथोऽयं तदनु जगतां सृष्टिमकृत
किमन्यन्ते मातस्तव चरण युग्मस्य फलता ॥

इन्द्रः सुराणां शरणं शरण्ये प्रजापतिः काश्यप एव नान्यः।
गिरां पतिर्विष्णुभ्रवःपरेशि त्वदीय पादाब्जफलं समस्तम् ॥

त्वदीयनाभीनववल्लभेवानबाङ्कुरैर्लोमवरैः प्रफुल्लम्।
सदा वरण्ये शरणं विदेहि किम्बापरं चित्तवरैर्विभाव्यं॥

त्वदीय पादार्च्चितवस्तुसन्भवः सुरासुरैः पुज्यमवाप शम्भुः।
त्वदीय पदार्च्चन तत्परो हरिः सुदर्शनाधीश्वरतामुपालभेत॥

धरित्रीगन्धरूपेण रसेन च जलं धृतम्।
तेजो वह्निस्वरूपेण प्रणवे ब्रह्मह्मरूपधृक् ॥
सुखं चन्द्राकारं त्रिभुवन पदेयामसहितं

त्रिनेत्रंमे मातः परिहरति यः स्यात् सतु पशुः
न सिद्धिस्तस्य स्यात् सुरत सततं विश्वमखिलं
कटाक्षैस्ते मातः सफल पदपद्मंस लभते॥

क्रतुस्त्वं हविस्त्वंस्वधा त्वं मुरारेः पुरा त्वं परा त्वंसदाशीःपुरारेः।
हरस्त्वं हरिस्त्वं शिवस्त्वं शिवा त्वंगतिस्त्वं गतिस्त्वंगतिस्त्वं भवानि॥

न वाहं न वा त्वंन वा वा क्रियाया वरस्त्वंवरुस्त्वं शरण्यां धरायाः।
मदस्त्वंनदी त्वंगतिस्त्वंनिधीनां सुतस्त्वंसुता त्वंपिता त्वंपितृृणां॥

त्वदीय मुण्डाख्यक चारुमालां विधाय चित्ते भवपङ्कजादयः।
सुराधिपत्यं लभते सुनीन्द्रः शरण्यमेतत् किमपीह चान्यत् ॥

नरस्य मुण्डञ्च तथाहि खड्गंभुजद्वये ये मनसा जपन्ति।
सव्यतेरे देवि वराभयञ्च भवन्ति ते सिद्धजना मुनीन्द्राः ॥

शिवोपरि त्वां हृदये निधाय जपन्ति दिव्यां हृदये कदाचित्।
सदा भवेत् काव्यरसस्य वेत्ता अन्ते पदद्वन्दमुपाश्रयेत ॥

दिगम्बरींत्वां मनसा विचिन्त्यजपेत् पराख्यां जगतां जनीति
जपेत् पराख्यां जगतां मतिश्च किम्वापराख्याशरणं भवामः ॥

शिवाविरारैः परिवेष्टितां त्वां निधाय चित्तेसततं जपन्ति।
भवेय देवेशि परा परादि निरीशतां देवि परा वदन्ति ॥

त्वदीय शृङ्गारवसंविधाय जपन्ति मन्त्रं यदि वेदमुख्याः।
भवन्ति ते देवि जनापवादं कविः कवीनामपि चाग्रजन्मा।

विकीर्णकेशां मनसा निधाय जपन्ति विद्यां चकितः कदाचित्॥
सुराधिपत्यं लभते नरः स किमस्ति भूम्यां शृणु कालकालि ॥

त्वदीयवीजत्रय मातरेतज्जपन्ति सिद्धान्तु विमुक्ति हेतोः ॥
तदेव मातस्तव पादपद्मगा भवन्ति सिद्धाश्च दिनत्रयेऽपि।

त्वदीय कूर्चद्वय जापकत्वात् सुरासुरेभ्योऽपि भवेच्च वर्णः।
धनित्व पण्डित्य मिलन्ति सर्वे किं वा परां देवि परापराांख्यं॥

त्वदीय लज्जाद्वय जापकत्ताङ्मवेग्महेशानि चतुर्य्यसिद्धिः।
कटाक्षकारुण्य वरप्रसादात्तवाधिपत्यं लभते नरेशः॥

ततः सनाम्नः शृणु मातरेतत् फलं चतुर्वर्गमदन्ति सन्तः।
वीजत्रयं वै पुनरप्युपास्य सुराधिपत्यं लभते मुनीन्द्रः ॥

पुनस्तथा कुर्चयुगं जपन्ति नमन्ति सिद्धा भरसिंहरुपाः।

ततोऽपि लज्जाद्वय जापकत्वाद्भवन्ति सिद्धिं मनसी जनास्ते॥
अन्ते पदं क्षिप्य विभाविभावसो स्त्वन्मन्त्रमुद्धारमिदं वदन्ति।

त्रिपञ्चारे चक्रे जननि सततं सिद्धिसहिताम्
विचिन्वन् सञ्चिन्वन् परसमृतरूपं दक्षिणपम्।

सदा कालींध्यात्वा विधिविहितपूजा परिकरं
विशेषाख्यानन्ते न खलु भवभङ्गाभय पदः॥

त्वंश्रीस्त्वमीश्वरींकालिं त्वं ह्रीस्त्वञ्च करालिका।
लज्जालक्ष्मीःशची गौरी नित्या चिन्ता चिति क्रिया॥

परा आद्या पराख्या च परमा परमा वसुः।
अकुल्या दैश्चित्ते प्रचय पदपत्यैः पदयुतैः

सदा जप्त्वास्तुत्वा जपति हृदि मन्त्रं मनुविदा।
न तेषां संसारे विभव परिभङ्गं प्रमथनम्
क्षणं चित्तंदेवि प्रभवति विदग्धे परिकरं॥

त्रयस्त्रिंशैः श्लोकैर्यदि जपति मन्त्रं स्तुवति च
नमच्चैतानेतात् परममृतकल्पं सुरवरं।
भवेत् सिद्धिंशुद्धौ जगति शिरसा त्वत्पदयुगम्
प्रणम्य प्राकास्यं वरसुरजनैः पूज्यविततिं ॥

इति विश्वसारतन्त्रे दक्षिणकालिका क्रमस्तोत्रं समाप्तं।

_______

आशा ।

सुशक्तिदासीकृत जीविसंघा मोहप्रसूतिः प्रचुरक्रियायाः।
निदानमस्मिन् महिषीव रम्या प्रजामनोराज्यगृहे विभाति (१)

रोगेषु शोकेषु सुखेषु तेषु दुःखेषु भोगेषु विपत्षु नित्यं।
एषैव शक्त्यावृतमानसानां काञ्चित् समुत्पादयतीह शान्तिम् (२)

प्रसादतोऽस्या गुरुपत्रमूल फलाशिनो भूमिमधिष्ठिताः स्युः।
सुखादुभोज्याशन पुष्टदेहाः सुखासनस्था धनिनः क्षणेन (३)

मरिष्यतः श्वस्त्वमरान् करोति वृद्धान् जराज्वालविशीर्णदेहान्।
सहस्र मातङ्गसमान सारान् न किं क्षणेनैव सुखेन यूनः (४)

आशाप्रसादेन पिबन्ति नित्यं सुताननाम्भोजगतामृतानि (५)

बध्येत निर्म्मूर्त्तिरसौ न भस्वान् घ्रियेत भिद्येत महाविहायः।
ग्रथ्येत रम्याब्धितरङ्गपङिक्त राशे! तवासाध्य मदृष्टमेव (६)

जलोर्म्मिसंविम्बित चन्द्रविम्बं नवीन धाराधर दृष्टविद्युत्!
बन्ध्या प्रसूतिः शशकस्य शृङ्गं नार्हन्ति हातुं तव तारहस्तं(७)

आशे! भवत्या कवलीक्रियन्ते भृदूनि चेतांसि सदाऽस्थिराणि।
लब्ध्वाकदा शारद पूर्णचन्द्रंजहाति रम्यं ननु सैंहिकेयः(८)

आशे! पिपासेव सदा पिपासून् फुल्लाम्बुजा सा नलिनीव भृङ्गम्।
रसालवृक्षं नववल्लरीव चित्तं समाकृष्टवती नकिं त्वं(९)

रुग्नानरुग्नान् विदधासि सा त्वंदीनान् महारत्नवतः क्षणेन।
दुःखाग्निदग्धान् सुखवारिषिक्तान् रसातलस्थांस्त्रिदिवस्थितांश्च (१०)

अजातमित्रानपि जीविनस्तान् मित्राननाम्भोजनवामृतानि।
सम्पाययस्येव नवस्वहर्षहिन्दोलितै रक्षिभि रुत्सपूर्णैः(११)

अपत्यहीनाय ददास्यपत्यंअवान्धवे प्रीतिभुवं सुबन्धुम्।
अशान्तये शान्तिमहो विगाढ़ामशक्तये शक्तिमनन्तशाखाम् (१२)

तव प्रसादात् खलु वामनोऽपि शृङ्गंसुमेरोरपि तुङ्गतुङ्गं।
समुत्सहेताप्तुमही सुधांशुंकरेण भूमिस्थित एव नो किं? (१३)

त्वं ग्राहयेःसुन्दरदिव्यकन्यापाणिं नरं श्रीकुलयोरलिङ्गं।
पदातिकं मादृश मप्यतन्त्रंप्रस्थापयेः पौष्परथेन नाकं (१४)

दृग्वञ्चितांस्त्वंस्वयमीक्षणाभ्यां निजाश्रितान् निन्दित पङ्कजाभ्यां।
पूर्णं विधुंशारदपौर्णमास्यां प्रीत्या भृशं दर्शयितुंक्षमेथाः (१५)

विवेकवुद्ध्या परिहीयते यः स एव पार्श्वे क्रियते त्वयाशे!
संवर्द्ध्यते नन्द्यत ईक्ष्यतेऽपि संस्थीयते तेन समं सुखेन (१६)

स दुर्लभो यो न तव प्रतापप्रभाविकाशे ननु मुह्यतीव।
न वा मनोरम्य भुजेन भूयः आश्लिष्यति प्रीतिकरीं सुखं त्वां (१७)

उपोषितानीव सवासनानामपुत्रकानामपि लोचनानि!

विहन्यतेवा परिपीड्यते वा विकार्य्यते वा परिगृह्यते वा।
प्रलोभ्यते वा वत! रज्यते वा कियान् मनो नो सततं भवत्या? (१८)

प्रतार्य्यते धिक् क्रियतेऽविवेकी विड़म्व्यते वञ्च्यत एव वा कः।
आक्षिप्यते नर्त्त्यत आस्यते वा प्रहार्य्यते वा न कदा भवत्या (१९)

आशे! त्वदङ्घ्यम्बुजरेण्वगम्यं सुदुर्ल्लभं क्षेत्रमिहेति मन्ये।
प्रायेण सर्व्वेषु समाधिपत्यं शिष्टेषु दृष्टेष्वपि वर्त्तते यत् (२०)

त्वया विमुग्धो वधिरः शृणोति नोकिं प्रियायाः प्रणयाभिगीतिम्।
मूकोऽपि चाटुप्रियभाषणेन तुष्टिं प्रियां प्रापयतीह नो किं? (२१)

त्वत्तर्पिता प्रोषितभर्त्तृकापि वसन्तवाचालपिकालिसान्द्रे।
सपुष्प वल्लीपरिवेष्ट्यमाने गृहे न किं भर्त्तृसुखं लभेत (२२)

अजात दारोऽपि तव प्रसादात् प्रियासुखं चुम्बति मानसेन।
प्रेमाभिमानं प्रणयेन वादं करोति रम्यं रमते च तत्र (२३)

हंसोष्णरश्मिप्रचुरेऽपि काले विलासिनस्तानवलीलया त्वं।
वासन्त पूर्णेन्द्वमृतांशु शान्तिसुखावलिं प्रापयितुं समर्था (२४)

जाग्रज्जनः सुप्तिसुखान्यभुङक्त न किं? मनोराज्य निवासि देवि।
काम्याश्रामोद्यानगतिं जड़ोऽपि कृपाकणात्ते लभते चिराय (२५)

क्षणप्रभाभा भवती कदाचित् अस्मादृशानप्युपवेशयेत।
वाल्मीकिपार्श्वेऽप्यति मन्दसावान् गिरेर्विभेदे नयतीन्द्रभावं (२६)

आशे! त्वमेकैव सहस्रमार्गे प्रावृन्नदीवातितरां प्रयासि।
चलानि चेतांसि समुत्सुकानि विचित्र दृश्यत्वगुणैः करोषि (२७)

प्रायेण चित्तानि सकौतुकानि कर्त्तुं समर्था भवती विचित्रा।
भुजङ्ग रत्नस्य विभामवाप्य गृहाणि नालंनिशि भान्ति कानि (२८)

ज्योत्स्नाप्रवाहे विषमान्धकारे दिवा रजन्यां कुतुकेऽसुखेऽपि।
शान्तावशान्ता विव चित्तशक्तेः समा गतिस्ते सुविचित्र शक्तेः (२९)

विशुष्क पत्रन्त्विव वारिवेगः खरो नभखानिव तूलमत्र।
वलाहकं शारदमूलमद्भिः इतस्ततस्त्वं नयसीह चित्तं (३०)

आशे! त्वमस्मिन्सुदृढ़ापि वज्रात् दुर्ल्लङ्घनीया वसुधाभृतोऽपि।
स्रोतस्विनीतोऽपि सुवेगयुक्ता मायाविनी कोमलयोषितोऽपि (३१)

संसाररङ्गालय-नर्त्तकी त्वंकार्य्यस्य मूलंजननी प्रवृत्तेः।
अचीरचित्ताब्जनिवासि भृङ्गी कामाभिगीते रनुगा सुवीणा (३२)

संसार रत्नाकर वोचिमाला सृष्टेर्वटस्यामितवल्लरी स्याः।
आशे! चिरानन्द सरोजचन्द्र-चाञ्चल्यकन्दर्पसखो वसन्तः (३३)

आशे! सदा मोहमतङ्ग रज्जूःसुचन्द्रिका वा सुखकैरवविन्याः।
मोहातिमुप्तस्य विशालशय्या रागव्रतत्याः खलु वारिधारा (३४)

रुग्नस्य पथ्यं सलिलं पिपासोः, महान् वटो भानुकरार्द्दितस्य।
ग्रीष्माभिभूतस्य मृदुर्नभस्वान् भोज्यं बुभुक्षोः, शयनं सुषुप्सोः (३५)

गुणावली-पर्व्वत-तीक्ष्णवज्रं, विवेक पाथीज—हिमः सुतीव्रः।
विपत्तृणोत्पादनवर्द्धने त्वंशरत्, तमःप्रश्रय-कालरात्रिः(३६)

सरः-पयोऽभ्यन्तर वर्त्तमानं सरोज मारादिव तिग्मरश्मिः।
उन्नीय सम्भाषयसि त्व माशे! त्वदुन्मुखं जीविगणं क्षणेन (३७)

विवेक वैराग्य मनाश्रिताणां संसारिणां जीवनशक्तिभूते!
तवानुकम्पालववञ्चितानामल्पैव संख्या घटते वतेह (३८)

येन त्वंननु जीयसे सुविषये! कष्टे! पिपासे! वत
नैराश्याय मनःसमर्प्यत इह प्रोद्दीपिताभ्यन्तरं।

सोऽयं भाग्यधरो जितत्रिभुवनः सर्वत्र तुल्येक्षणः
विश्वप्रेमनिदर्शनः समुदितोऽस्माभिः सदा वन्द्यते (३९)

(नारायणार्पणमस्तु)

श्रीअन्नदाचरण तर्कचूड़ामणिः

नोयाखाली—सोमपाड़ा

<MISSING_FIG href="../books_images/U-IMG-173208974376.jpg"/>

सती छाया।

(पूर्वतोऽनुवृत्ता)

तस्यामेव रात्रौ छायाया धर्ममाता अतुलमाह रे अतुल! अद्यापि ते प्राप्तवयसोऽपि न स्वभावः परिवृत्तः। यथावद्भवतु। नाधिकन्ते वक्तुसुचितं, अतः त्वया नैवात्र स्थातव्यं, श्वः काले कलिकातायां गन्तव्यं, मया निर्द्देशपत्रे तुभ्यं किञ्चिद्वितं देयत्वेन लिखितमासीत्, किन्तु तत्परिवर्त्त्यते तुभ्यं किञ्चिदपि नो दास्यते। ईदृशादस्नेहादात्मीयात् पर एव साधीयान् मन्यते इति।

रात्रौ तदगृहवासिनः सर्वएव प्रसुप्ताः। किन्तु निर्देशपत्रस्य परिवर्त्तनवार्त्ताया अतुलोऽन्तरदह्यत।

रात्रौ गृहस्वामिनी यदा निद्राच्युतिपापशङ्कया तत्रस्था दासीः छायाञ्चाप्रवोध्य वहिरभ्यूत् तदा तस्याः पादशब्द मनुमाय शनैर्मन्दं मन्दं निःशब्दं पश्चादागत्यं अतुलः यावद्वृद्धा द्वितीये सोपाने पादमर्पयति तावत् महता बलेन पृष्ठे तामाहन्ति। तेन च सा शशब्दं सचित्कारञ्चाधः पतति। अतुलश्च द्रुतमपसृत्य स्वशय्यायां निद्रामभिनयति।

छायाप्रभृतयस्तु सुप्तोत्थिताः किंकर्त्तव्यविमूढ़ाश्च समागत्य गृहस्वामिनीं मूर्छितां पश्यन्ति। छाया त्रस्ता स्वयं वृद्धाया मस्तकं क्रोड़मानीय उपविशति, वृद्धायाश्चक्षुषोर्जलानि सेक्तुंतालवृन्तं वेजयितुञ्च समादिशति। भृत्या स्तु चिकित्सक मानेतुं धाविताः।

द्रुतमागत्य च चिकित्सकः महान् शैलेन्द्रः वृद्धाया नाड़ीं परीक्ष्य कथयति मातः छाये! मा रोदीः। अस्ति खलु तव मातुर्जीवन प्रत्याशा किन्तु आघातस्तु सांघातिको जातः प्राचीनायाः। किन्तु मदुपदिष्टं तावत्कार्य्यंविधेहि, तदा सत्वर मेव व्यथा शान्तिमेष्यति। छाया च चिकित्सकादिष्टं सर्वमकरोत्।

मुहूर्त्तं व्यतीत्य च वृद्धा चक्षुरुन्मील्य पश्यति छायां रुदतीं, अष्फुटरवेन कथयति च मातः! मा रोदीःमम मरणा देवं किं विभेषि? एवं ब्रुवतीं प्राचीनां चिकित्सकाज्ञया सर्वे भृत्यास्तां विधृत्य गृहं प्रवेश्य शय्यायां शाययन्ति। ततोऽपि मुहूर्त्तादुपरि सुस्थतामासाद्य गृह स्वामिनी शुश्रूषमाणां छायां समानीय वक्षसि गाढ़माश्लिष्यति, मुखं चुम्वति च किञ्चित् स्मित्वा कथयति च वत्से छाये! अधुनैव तवमाता प्रायो ममार, केवलं तवैव यत्नेन प्राणास्तिष्ठन्ति। क्रमशो रात्रिः प्रभाता, दिवसस्यापि यामार्द्धं गतम्। छाया प्रातः कर्त्तव्यं द्रुतं सम्पाद्य पुनरपि गृहस्वामिन्याः समीपे उपविशति। गात्रे हस्तंप्रदाय कथयति च मातः! तव शरीरे ज्वरो जातः, भवती कलिकातां चलतु, तत्र तु महान्तश्चिकित्सका वर्त्तन्ते। अत्रावस्थातुं न मह्यं रोचते मनः।

तदाकर्ण्य वृद्धाया यातनापीड़ित मुखेऽपि हास्यमुदेति कथयति च सा वत्से! कथं मदर्थ मेवं भीतासि? छाया रोरुद्यमाना कथयति मातः! भवती सम्यग् जानाति ममेतिहासं ईश्वरो मैवं कार्षीत् त्वयि परलोकं गतायां पुनरम्यहमनाथा स्याम्, मातः नास्त्यतोऽन्य दवस्थानस्थानं, चिरदुःखिनीय मीदृशमादरं यत्नञ्च पुनः कुतोलपस्यते? त्वामृते न कोऽप्यस्ति जगति मां स्निग्धेन चक्षुषा द्रष्टुम्।

वृद्धा कथयति वत्से! यद्यहं सज्ञाना म्रिये तदा त्वां न रक्षिष्यामि असुखेन। तदाकर्ण्य छाया कथयति, मातः! नाहं धनरत्नादिकमभिलषामि, किन्तु भवत्या आरोग्यमेव अभिलषामि। ततो वृद्धा कथयति यद्येवन्ते निर्वंन्धातिशयस्तर्हि आहूयतां प्रधान कर्म्मचारी तदनुज्ञया जया दासीमन्त्रिणमानयति। गृहस्वामिनी कथयति अयि सन्त्रिन्! अहमद्यैव कलिकातां यास्यामि तद्द्रुतमेव संविधानं विधेहि। मया सह यास्यन्ति जया दासी, सती छाया, द्वौ भृत्यौ इति। मन्त्री तदाकर्ण्य सर्वं संविधानं विधाय जिज्ञासति!

मातः! कलिकातायां कुत्र यास्यसि? प्राचीना प्राह आपाततः पितृष्वसृपत्युःमनोमोहनराजस्य गृहं यास्यामि। तस्य तु गृहं श्याम विपण्यां50। सर्वे विधृत्य प्राचीनां घोटकशकटे समारोहयन्ति, तस्मिन्नेव शकटे छाया जयादासी च गते। वेगगामिनौहयौ द्रुतमेव भवानीपुर अतिक्राम्यतः। यथासमयञ्च श्यामविपण्यां राजवाट्यां शकटमुपतिष्ठते। तदा स्वकीये पित्रालये सती छाहा अनभिज्ञाता अतिथिर्जाता इति।

इति षष्ठः परिच्छेदः समाप्तः।

________

सप्तमः परिच्छेदः।

(अज्ञात स्नेहभक्ती)

महाराजं महात्मानं पश्यन्त्या हृदयेऽतुलं।
बालिकाया बभूवेव संघर्षस्तुमुलस्वनः॥

स्वत एव नतं तस्या मनोभक्तिरसाप्लुतं।
स्नेहश्च तस्य महत स्तस्यामजनि वेगवान्॥

स्वतः शोणितसम्बन्धात्तयोराकर्षणं हृदः।
उभयोर्व्याप्नुतो भक्तिः स्नेहश्व हृदयं क्षणात्॥

राजा श्रीमनोमोहनरायः सभामण्डपे उपविशति, द्वारपालस्तत्र गत्वा विज्ञापयति, महाराज! भवानीपुरात् भवतः कापि सम्पर्किता पीड़िता सती समागता।

राजा तु तां मृताया राज्ञ्याःभ्रातुष्णुत्रीं सातिशयं श्रद्दधाति, श्रुत्वैव तदागमनवार्त्ता द्वारदेशे स्वयमुपतिष्ठते। सर्वे भृत्यास्तां सावधानं विधृत्य शकटादवतार्य्य च अन्तर्वाटीवहिर्वाट्योर्मध्यवर्त्तिनि राजनिर्द्दिष्टे गृहे खट्टिकायां शाययन्ति।

अज्ञातावस्थायामेव भक्त्युद्रेकात् सती छाया राजानं प्रणम्य प्राचीनायाः पार्श्ववर्तिनी भवति। राजा प्राचीनामाभाष्य कथयति कमले! का ते पीड़ा? कमला कथयति पितृष्वसृधव! गत रात्रौ यदाहं वहिरभवंतदा केनापि पृष्ठे वेगेन ताड़ितेव मेने। तेनैव सोपाने आस्फुटिता अमूर्च्छं। ततः छायाया शुश्रुषया जीवितास्मि। अहो आश्चर्य्यं बालिकाया ईदृशीं बुद्धिमत्तां न कदापि ददर्श सा मां शुश्रूषितवती, चिकित्सकमानिनाय। अधुना तु ज्वरिताहं तस्या एवाग्रहेण अत्रोपतिष्ठे।

राजा सस्नेहं छातां पश्यन् कथयति यथास्या आकृतिस्तथा गुणा ज्ञानानि च वर्त्तन्ते। अयि कमले! तव केयं बालिका?। प्राचीना कथयति। अस्या माता स्तन्यपानावस्थाया मेव इमां सर्वाङ्ग सुन्दरीमपाहाय वैराग्यात् सर्वैरविदिता क्वापि गता। को वा स्याः पिता तदपि न कैरपि प्रत्यभिज्ञायते। कन्येयं मातुलालय एवास्थास्यत्। किन्तु जन्मनि दोषमाशङ्क्यन केऽपि तत्र एनां श्रद्दधति केवलं मातुल एवास्यां प्रीतिं जग्राह। स एव पण्डितेन विद्यामिमां व्यनैषीत्। कश्चिद्धनिकुमार इमां परिणेतुं मतिञ्चकार, किन्तु जनापवादाद्भोतोऽस्या मातुलः अस्या मातामह्यादीनां तिरस्काराच्च गृहादिमां निरवासयत्। शिक्षकश्चास्या मत्परिचितः मत्सन्निधौ इमां रक्षितवान्।

तदाकर्ण्य राजा कथयति अहो धिक् लोकं। यतो निर्द्दुष्टाया मप्यस्यां दोषमारोपयति। किन्तु इमां प्यश्यतः स्वत एव हृदयं स्नेहेनाप्लाव्यते। प्राचीना कथयति ममापि तथैव। राजा कथयति तद्यथावद्भवतु।अधुना तव चिकित्सार्थं चिकित्सक मानयामि। कमला कथयति भवते यद्रोचते तत् करोतु। परन्तु प्राचीना पीड़िताहं गङ्गातीरे एव तिष्ठासामि, ततस्तदर्थं भवनमेक मन्वेष्टव्यमिति।

(क्रमशः)

धर्म्मविवेकः।

(देशभेदादौ व्यवस्था)।

(पूर्वप्रकाशितात्परः)

आगत्य वामापदः व्यत्यस्तपाणिना गुरुं शिवरामं प्रणम्याग्रेस्थितः।

शिव। वत्स! वामापद! इतो निषीद।

वामा। भगवन्! यदुक्तं १८१६ शाकाषाढ़मासे धर्म्मव्यवस्थापनविधौ विधिनियमपरिसंख्यादिकं देशकालभेदश्चापेक्ष्यते, तेषां विधिनियमादिकं श्रुतं। वस्तुतोऽपि केवलमवलोकनादेव लिङ्तव्यादीनां न विधेयता निर्णेतुं युज्यते, अहो दुरुहोऽयं धर्मनिर्णयः। अद्य पुनर्देश कालमेदेन धर्मव्यवस्था श्रोष्यते। तत् कृपया कथ्यतां।

शिवः। श्रूयतामापाततःजनने मरणे चाशौचे देशभेदे व्यवस्था। यथा मनुः कथयति ५।८३॥

“शुद्ध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति॥”

अङ्गिराः कथयति याज्ञवल्क्यटीकामिताक्षरायां प्रायश्चित्ताध्याये अशौच प्रकरणे २२ श्लोके।

“सर्वेषामेव वर्णानां सूतके सृतके तथा।
दशाहाच्छुद्धिरेतेषामिति शातातपोऽब्रबीत्॥

अत्रानयोर्वचनयोर्द्वैधे देशभेदे व्यवस्था स्वीकर्त्तव्या, प्रायशोऽस्मिन् देशे मनूक्तमेव दशाहादिकं ब्राह्मणादीनामशौचं। ओड्रदेशे51तु अङ्गिर उक्तमेवाशौचं। अधुनापि औड्रदेशीयाः सर्ववर्णा एवाशौचं दशाहं व्यवहरन्ति।

एवमितरस्मिन्नपि देशे तद्देशवासिनस्तत्तन्मुनिमतमादरन्ति। तथा च तत्रैव पराशरः।

क्षत्रियस्तु दशाहेन स्वकर्म्मनिरतः शुचिः।
तथैव द्वादशाहेन वैश्यः शुद्धिमवाप्नुयात्॥

तत्रैव शातातपस्त्वेवमाह—

एकादशाहाद्राजन्यो वैश्यो द्वादशाभिस्तथा।
शूद्री विंशतिरात्रेण शुध्येत मृतसूतके॥

तत्रैव वशिष्ठस्त्वेवमवादीत्।

पञ्चदशरात्रेण राजन्यो विंशतिरात्रेण वैश्य इति॥

एवमपरस्मिन्नपि धर्मविषये देशभेदे धर्मो ज्ञातव्यः।

एतत्तु देशभेदे धर्मव्यवस्थापनं मया कथितं त्वया च श्रुतम्। अधुनातु कालभेदे धर्मव्यवस्था श्रूयतां। तथाहि सत्ययुगे विहितस्तु धर्मस्त्रेतायां निषिद्ध स्त्रेताधर्मश्च द्वापरे द्वापरधर्नंश्च कलौ न व्यवस्थितः। तथा च पराशरसंहिता। १माध्याये।

**“अन्येकृतयुगेधर्मास्त्रेतायां द्वापरे परे। अन्ये कलियुगे नृृणां युगरूपानुसारतः॥२१॥ **

**तपःपरं कृतयुगे त्रेतायां ज्ञानमुच्यते। द्वापरे यज्ञमित्यूचुर्दानमेकं कलौ युगे॥२२॥ **

कृते तु मानवो धर्मस्त्रेतायां मौतमः स्मृतः। द्वापरे शङ्खलिखितौ कलौ पाराशरः स्मृतः॥२३॥

**त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत्। द्वापरे कुलमेकन्तु कर्त्तारञ्च कलौ युगे॥२४॥ **

**कृते सम्भाषणात् पापं त्रेतायाञ्चैवदर्शनात्। द्वापरे चान्नमादाय कलौ पतति कर्मणा॥२५॥ **

**कृते तु तत्क्षणाच्छाप स्त्रेतायां दशभिर्दिनैः। द्वापरे मासमात्रेण कलौ संवत्सरेण तु॥२६॥ **

अभिगम्य कृतेदानं त्रेतास्वाहूय दीयते। द्वापरे याचमानाय सेवया दीयते कलौ॥२७॥

एवमपरेऽपि निषिद्धा धर्माः कलौ श्रूयन्तां तथा च।

बृहन्नारदीयं।

समुद्रयात्रास्वीकारः कमण्डलुविधारणं द्विजानामसवर्णासु कन्यासूपयमस्तथा॥

देवरेण सुतोत्पत्तिर्मधुपर्के पशोर्वधः मांसादनं तथा श्राद्धे वानप्रस्ताश्रमस्तथा॥

दत्तायाश्चैवकन्यायाः पुनर्दानं वरस्य च दीर्घकालं ब्रह्मचर्य्यंनरमेधाश्वमेधकौ॥

महाप्रस्थानगमनं गोमेधञ्च तथा मखं इमान् धर्मान् कलियुगे वर्ज्यानाहुर्मनीषिणः

हेमाद्रिपराशरभाष्ययोरादित्यपुराणम्।

दीर्घकालं ब्रह्मचर्य्यंधारणञ्च कमण्डलोः देवरेण मुतोत्पत्तिर्दत्ताकन्या प्रदीयते।

कन्यानामसवर्णानां विवाहश्च द्विजातिभिः आततायिद्विजाग्र्याणां धर्म्ययुद्धेन हिंसनम्॥

वानप्रस्थाश्रमस्यापि प्रवेशी विधिदेशितः वृत्तस्वाध्यायसापेक्षमघसङ्कोचनं तथा।
प्रायश्चित्तविधांनञ्च विप्राणां मरणान्ति कं संसर्गदोषः पापेषु मधुपर्के पशोर्वधः॥

दत्तौरसेतरेषान्तु पुत्रत्वेन परिग्रहः शूद्रेषु दाषगोपालकुलमित्रार्द्धसीरिणां।
भोज्यान्नता गृहस्थस्य तीर्यसेवाविदूरतः ब्राह्मणादिषु शूद्रस्य पक्कतादिक्रियापि च॥

भृग्वग्निपतनञ्चैव वृद्धादिमरणं तथा।

इत्यादीन्यभिधाय।

एतानि लीकगुप्त्यर्थं कलेरादौ महात्मभिः। निवर्त्तितानि कर्माणि व्यवस्थापूर्वकं बुधैः।
समयश्चापि साधूनां प्रमाणं वेदवद्भवेत्॥*

समयः संवित् सा च प्रतिज्ञा समयाः शपथाचारकालसिद्धान्तसंविद इत्यमरोक्तेः। संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवा इति तेनैवोक्तेः।

वत्स! अधुना धर्मे अधिकारिभेदः श्रूयतां। अधिकारिभेदे धर्मव्यवस्था तु भूयसो, विस्तृतिभिया सम्यक् कथयितुं नैव शक्यते अतः संक्षिप्य कथयामि। महापातक विषये मनुस्ताव देतावत्कथयामास।

_______________________________________________

* मरणमुद्दिश्य समुद्रयात्रास्वीकारः। गृहस्थस्य सर्वदा सजलकमण्डलुधारणं। मधुपर्के अतिथिसेवायां पशोः गोः। मांसादनं निशिद्धमांसादनं। (मांसदानमित्यपि पाठः) अतएव व्याकरोति गोमहिषादेरिति। महाप्रस्थानगमनं मरणमुद्दिश्य हिमालयगमनं। आततायीति “अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारापहारी च षड़ेते आततायिनः।” अघसंकोचनं अशौचसङ्कोचनं। मरणान्तिकामिति मरणं अन्तिकं निकटवर्त्ति यस्य तत्। दासेति दासो निजभृत्यः। गोपालः स्वकीयानां गवां पालकः। कुलमित्रं पुरुषक्रमेण मित्रं अर्द्धसीरिणः कृषकाः शस्यार्द्धभागं भजन्तेशूद्रेषु मध्ये एतेषमित्यर्थः। पक्कतेति दासादीनां अन्नं भोक्तव्यमिति पूर्ववचनार्थः। ब्राह्मणाद्यन्यस्य शूद्रेणपाकः कर्तव्य इति एतद्वचनार्थं इत्यनयोर्भेदः। भृग्वग्रीति “जलप्रवेशी चानन्दं प्रमोदं वह्निसाहसी।” भृगुप्रपाती सौख्यन्तु रणे चैवातिनिर्मलमित्यादिना विहितमरणमित्यर्थः। वृद्धादिमरणमिति अन्ते वार्द्धकासहिष्णुतहा मरणमित्यर्थः। तच्च वृद्धत्वं शौचस्मृतेः लुप्त इत्यादिनाविहितं। लोकग्युर्थं लोकरक्षार्थं। ननु एतेषां कर्मणां निषेधको कलौ वेदो नास्ति तत् कथमेतानि कलौ निषिद्धानि तत्राह समयश्चेति।

____________________________________________________

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः।
महान्ति पातकान्याहुः संसर्गश्चापि तैः सह॥ ११। ५।

एतेन वचनेन वर्णसामान्येष्वेव तत्तन्महापातकत्वेन प्रतीयते। परन्तु वचनान्तरैकवाक्यतया अधिकारिभेदेन च ब्रह्महत्यादिकं महापातकं भवेत्। सुतरां तदा महापातकनिवृत्यर्थं प्रायश्चित्तमपि गुरुलघुरूपेण विदध्यात्। तथाहि ज्ञानतो ब्राह्मणवध एव ब्राह्मण क्षत्रिय वैश्य शूद्राणां महापातकं। सुरापाणं ब्राह्मण क्षत्रिय वैश्यानामेव महापातकं न तु शूद्रस्य। शूद्रस्य तु सुरापाणं उपपातकमेव।

तथाच प्रायश्चित्तविवेके च्यवनः।

“ब्रह्महत्या सुरापानं गुरुतल्पगमनं ब्राह्मण सुवर्णहरणं द्विजादीनां महापातकानि। अदण्ड्यदण्डनं ब्रह्महत्या गुरुशय्यारोहणं युधि पलायनं क्षत्रियस्य। मानतुलानृतत्वं वैश्यस्य। मांसविक्रयो xxहत्याब्राह्मणीगमनं कपिलाक्षीरपाणं शूद्रस्य। तत्सम्पर्कात्पञ्चमं xxxxxकमिति।”

तथाचाधिकारिभेदे प्रायश्चिततारतम्यं विष्णुनोक्तं तथा च।

विप्रे तु सकलं देयं पादोनं क्षत्रिये मतम्।
वैश्येऽर्द्धं पादशेषतु शूद्रजातिषु शस्यते॥”

महर्षिविश्वामित्रोऽपि तथैवाह तथाच प्रायश्चित्तविवेके गोवधप्रकरणे।

“कृच्छ्रांस्तु चतुरः कुर्य्याद्गोबधे बुद्धिपूर्वके।
अमत्या तु द्वयं कुर्य्यात् तदर्द्धं बालवृद्धयोः॥

स्त्री शूद्रयोरेवमेव वधे चैव न शंसयः॥"

अत एव वत्स वामापद! ब्रूहि केवलं वक्तृतोपयोगीनि मुनिवचनानि मुखस्थानि विधाय कथमिदानीं ते वक्तारः धर्मं व्यवस्थापयन्ति? अतोऽहमब्रवं “अहो रे गरीयान् कालः समायतः यदश्रुत-

मपि श्रावयति अदृष्टमपि दर्शयतीत्यादि १८१६ शाकाषाढ़मासे इति। विशेषस्तु प्रायश्चित विवेकादौ ज्ञातव्यः स्वयमिति।

_________

ग्रहणम्।

अनेक एव वितर्कयन्तीदानीं चन्द्रसूर्य्यग्रहणमधिकृत्य। तत्राहमपि शास्त्रयुक्तिदृष्ट्या किञ्चिन्निवेदयामि ग्राहकेभ्यस्तत् सावहितं श्रोतुमर्ह्यते। आपाततः वर्त्तमानमासस्य सप्तदशदिवशे निशीथिन्यां सम्यग्भाविनि चन्द्रग्रहण एव लक्ष्यं निवध्यतां। तस्यां रात्रौ ऐशान्यां स्पर्शः, ग्रहणस्थितिमानन्तु ७ दण्डाः। २७ पलानि। ३० विपलानि।

प्रथमन्तावत् निरुपणीयं चन्द्रः कः पदार्थ इति, शास्त्रन्तु भूय उच्चैः प्रतिपादयति चन्द्रो जलमय इति जलविकार इति न तु जलमिति अस्माभिस्तु चन्द्रस्य जलमयत्वेन हिमसङ्घातः करकाजातीय52श्चन्द्र इति प्रतीयते तथाच वराहसंहिता—

“सलिलमये शशिनि रवेर्दीधितयो भूर्च्छिताः।
नैशं तमःक्षपयन्ति दर्पणोदरवद्गृहोदरधरान्तं॥”

एवं शब्दकल्पद्रुमे विधुशब्दे देवीपुराणम्।

“पूर्वाह्ने विशते चार्कं मध्याह्ने तु वनस्पतिम्।
अपराह्ने विशत्यप्सु स्वयोनिवारिसम्भवः॥”

स्वयोनिवारिसम्भव इत्यनेन स्वोपादानकारणाद्वारिण श्चन्द्रस्य उत्पत्तिः सूच्यते। तथा तत्रैव चन्द्रः अम्बुमय इत्यप्याह।

पिवन्त्यम्बुमयं देवाः पितरश्च स्वधामृतम्।
त्रयञ्चत्रिशतञ्चैव त्रयत्रिशत्तथैव च॥”

एवं हिमसङ्घातपर्य्यायेण जड़शब्देनापि बहुषु स्थानेषु चन्द्रः कथ्यते तत्र शब्दश्लेषमहिम्ना जलमप्युच्यते। तथाच नैषधे।

“किममुभिर्गलितैर्जड़! मन्यसे, मयि निमज्जति भीमसूतामनः।
मम पुनःश्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः॥४।५२।

एतेनान्तरीक्षस्थितं महापृथुलतमं बहुयोजनायामंहिमसङ्घातमेव चन्द्रमण्डलमिति वयं प्रतीमः। तस्मादविरतं गलतां वारिविन्दूनां समोरणेन विश्लिष्य अणुत्वं प्रापितानामवयवा एव शिशिरा इत्यभिधीयन्ते। तेन हि चन्द्रो हिमकर इति।

जलमयत्वादेव चन्द्रे कलङ्करेखाया भूछायात्वं कल्पयन्ति। तथाच रघुवंशे।

“छाया हिभूमेः शशिनो मलत्वे निमज्जतः शुद्धिमतः प्रजाभिः॥”

अपिचोद्भटकाव्यं।

“अङ्कंकेऽपि च शङ्किरे जलनिधेः पङ्कं परे मेनिरे,
सारङ्गं कविचिज्जना जगदिरे भूछायमैच्छन् परे।
इन्दौ यद्दलितेन्द्रनीलसकल श्यामं दरीदृश्यते
तन्नूनं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे॥” इति

सूर्य्यस्तु महास्तेजोराशिरिति बहुषु शास्त्रेषु प्रतिपादितं इति न तत्रान्यप्रमाणदर्शणापेक्षा, एवं प्रत्यक्षमेवात्र जागर्त्ति।

एवञ्च तीरस्थ वृक्षस्य च्छाया पुष्करिण्यामिव यदा पृथिव्याश्छाया जलमये चन्द्रे निपतति तदा चन्द्रग्रहणं। यदा तु पृथिवीछायायुक्तचन्द्रस्यच्छाया सूर्य्येनिपतति तदा सूर्य्यग्रहणं भवति ध्रुवं।

ग्रहणस्य समयस्तु ज्योतिषे। यथा—

भत्रि पादान्तरे राहोः केतीर्वासंस्थितो रविः। चतुष्पादान्तरे चन्द्रस्तदा संभाव्यते ग्रहः॥

यस्मिन्नृक्षे रविस्तस्माच्चतुर्दशगतः शशी। पूर्णिमाप्रतिपत्सन्धौ राहुणा ग्रस्यते शशी॥

कृष्णपक्षे तृतीयायां मासर्क्षं यदि जायते। ततस्त्रयोदशे सूर्य्यो राहुणा ग्रस्यते रविः॥

अस्यार्थः। राहोः केतोर्वा सम्बन्धिनक्षत्रस्य त्रिपादमध्येऽपि यदि रविः संस्थितः स्यात्। चन्द्रो यदि तस्य चतुष्पादमध्येऽपि स्यात् तदा ग्रहो ग्रहणं सम्भाव्यते। अन्ययोरर्थः सुगमः।

अपि च विष्णुधर्मोत्तरे राहुं प्रति ब्रह्मवाक्यम्। यथा—

“पर्वकाले तु संप्राप्ते चन्द्रार्कौ छादयिष्यसि। भूमिकायागतं अन्द्रं चन्द्रगोऽर्कं कदाचन॥”

अस्यार्थः— हेराहो! इत्यध्याहार्यं। त्वंपर्वकाले पूर्णिमायां अमावस्यायां वा प्राप्ते उपस्थिते चन्द्रार्कौ चन्द्रसूर्य्यो छादयिष्यसि आच्छादयिष्यसि। तत्र विशेषमाह भूमीति भूमिच्छायागतः पृथिवीप्रतिविम्वरुपः53सन् चन्द्रं छादयिष्यसि एवं पृथिवीछायायुक्तचन्द्र-गतःसन् सूर्य्यं छादयिष्यसि इति।

अत एव मलमासतत्त्वे सूर्य्यग्रहणे चन्द्रग्रहणमवश्यम्भावीत्युक्तं। किन्तु दिवसतया न दृश्यते इति। भास्काराचार्य्योऽपि तदेवाह यथा—

“छादकोभास्करस्येन्दुरधस्थोघनवद्भवेत्। भूछायां प्रसुखश्चन्द्रो विशत्यार्थो भवेदसौ॥”

अस्यार्थः।— प्रथमतश्चन्द्रो भूछायां पृथिवीछायां विशति आश्रयति। ततस्तु असौ चन्द्रः पृथिवीछायायुक्तः भास्करस्य नीचस्थश्च सन् घनवत् मेघवत् तस्याच्छादको भवेदिति। वचन मेतद्विष्णुधर्मोत्तरीयवचनार्थमेव समर्थयति।

अपिच शुद्धिचिन्तामणौ वाचस्पतिमिश्रःमलमासतत्त्वे रघुनन्दश्च ग्रहणं जगच्छायेति नार्थान्तरमित्यभिधाय गजच्छायाश्राद्धमपि ऊचतुः। तथाच तत्रैव बृहस्पतिः।

“नित्यनैमित्तिके कुर्य्यात् प्रयतः सन् मलिम्लुचे। तीर्थस्नानं गजच्छायां प्रेतश्राद्धं तथैवच॥”

गजच्छाया तु वराहेणोक्ता यथा—

“सैहिकेयो यदा भानुंग्रसते पर्वसन्धिषु। गच्छाया तु सा प्रोक्ता तत्रश्राद्धं प्रकल्पयेत्॥”

इमान्तु गजच्छायामधिकृत्य तत्र श्रुतिरपिदर्शिता,

“राहुर्वै हस्ती भूत्वा चन्द्रमसं ग्रसति॥”

श्रुत्या त्वनया ग्रहणं गजच्छायेति प्रत्याय्यते। परन्तु अत्र विषये आशङ्का महतीउज्जृम्भते। तथाहि पूर्वं प्रतिपादितं ग्रहणं भूछायेति, श्रुतिस्तु कथयति ग्रहणं गजच्छायेति।

अत्र समाधानमुच्यते। श्रुतिर्यत् कथयति राहुर्हस्ती भूत्वा चन्द्रमसं ग्रसति इति तत्र यथा गौर्वाहिक इत्यत्र गोशब्देन लक्षणया

गोसदृश उच्यते तथा अत्रापि लक्षणया हस्तिशब्देन हस्तिसदृश उच्यते, तथा चोक्तं प्राचीनैः—

“परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेण वत्यर्थं गमयति इति”

एवञ्चात्रायमर्थो लभ्यते राहुर्हस्ती हस्तिसदृशः। हस्तिसादृश्यन्तु पृथिवीछायारूपत्वात् वर्त्तुलत्वात् कृष्णवर्णत्वात् विशालत्वाच्च उपपन्नम्। एवं हि सूर्य्यग्रहण प्रतिपादक कठब्राह्मणीयश्रुतेरप्यर्थोऽनया श्रुत्या निर्विरोधः। यथा समयप्रकाशे कठब्राह्मणं

“हस्तीवै भूत्वा स्वर्भानुरंशुभिरादित्यं तमसा पिदधाति” इति श्रुतिः।

अस्या अर्थः। स्वर्भानूराहुः हस्ती भूत्वा हस्तिसदृशीभूय तमसा अन्धकारेण पृथिवीछायारुपेण अंशुभिरादित्यंरश्मिविशिष्टं सूर्य्यं पिदधाति आच्छादयति इत्यर्थः।

अत्र तमःशब्दोपादनात् छायया एव ग्रहणं भवतीत्युपपद्यते। अनयोरेव श्रुत्योरर्थानुसारेण पुर्वोक्तविष्णुधर्मोत्तरीयवचनं साधुसङ्गच्छते। अन्यथा श्रुत्यर्थविरोधात् तस्याप्रामाण्यं स्यादिति।

(क्रमशः)

_________

तत्त्वप्रपञ्चः।

(पूर्वप्रकाशितात् परः)

सत्कार्य्यवादिनां मते कार्य्यस्याव्यक्तावस्थां विना अन्यविधां शक्तिंप्रति प्रमाणं नास्ति। अनयैव शक्त्या वालुकानां तिलानाञ्च प्रभेदो व्यवह्रियते। यत् तिलेषु अव्यक्तावस्थया शक्त्यातैलमस्ति वालुकासु नास्तीति। तथा यदि अव्यक्तावस्थारुपया विविधशक्त्या व्यक्तंजगत् प्रकृतौ नास्थास्यत् तदा विचित्रं जगन्नाजनिष्यत्। अत एव जगत्कारणं प्रकृतिरस्तौति सिद्धं।

बुध्यते तत्। किन्तु कारणशक्तेः कार्य्योत्पत्तिः एवं कार्य्य कारण विभागश्च बुद्धितत्वे एव कल्प्यतां तथापि बुद्धितत्त्वादुपरि प्रकृतिर्न

स्वीक्रियेत।मैवं बुद्धितत्त्वन्तु अव्यापकं—परिमितं कार्य्यरूपेण न सर्वत्रास्ति। यद्यदव्यापकं तेषां सर्वेषामेव अन्यत् कारणमस्तियथा परिमितस्य घटस्य कारणं मृत्तिकेति। अतः सर्वकारणं प्रकृतिरस्तीति सिद्धं। प्रकृतेः परं कारणकल्पने प्रमाणाभावात् अनवस्थादोषाच्च।

अपि च। सुखदुःखमोहसमन्विता बुद्ध्यादयः प्रतीयन्ते। यदि बुद्ध्यादीनां कारणं किमपि नास्ति तदा बुद्ध्यादौ सुखदुःख मोहाः कुत आगमिष्यन्ति? सति च बुद्ध्यादीनां कस्मिंश्चित् कारणे तद्गुणाः कार्ये संक्रमिष्यन्तीति बुद्ध्यादयः सुख दुःख मोहात्मका भवितुमर्हन्ति यथा घटमुकुटादयः मृद्धेमगुणका इति एतदेवाह सांख्यकारिका १५।

“भेदानां परिमाणात् समन्वयाच्छक्तितःप्रवृत्तेश्च।
कारणकार्य्य विभागादविभागाद्वैश्व रूप्यस्य॥”
इति

सा पुनःपञ्चविधा परिस्फुट शक्ति भेदेन वर्णिता मुनिभिः यथा—

“गणेश जननी दुर्गा राधा लक्ष्मीः सरस्वती।
सावित्री च सृष्टिविधौ प्रकृतिः पञ्चमी स्मृता॥”

तस्याव्युत्पत्तिर्यथा।

प्रकृष्टवाचकः प्रश्च कृतिश्चसृष्टिवाचकः। सृष्टौप्रकृष्टा या देवी प्रकृतिः सा प्रकीर्त्तिता॥

गुणे प्रकृष्टे सत्त्वेच प्रशब्दो वर्त्तते श्रुतौ। मध्यमे रजसि कृश्च तिशब्दस्तामसः स्मृतः॥

त्रिगुणात्मस्वरूपा या सर्वशक्ति समन्विता। प्रधाना सृष्टिकरणे प्रकृतिस्तेन कथ्यते॥

प्रथमे वर्त्तते प्रश्न कृतिश्चसृष्टिवाचकः। सृष्टेराद्या च या देवी प्रकृतिः सा प्रकीर्त्तिता॥

सा च ब्रह्म स्वरूपा च या या नित्या सनातनी। यथात्मा च यथा शक्तिर्यथाग्नौ दाहिका भृता॥

अतएव हि योगीन्द्रः स्त्रीपुंभेदं न मन्यते।सर्वं ब्रह्ममयं ब्रह्मन् शश्वत् पश्यति नारद॥

स्वेच्छामयं स्वेच्छया व श्रीकृष्णस्य सिसृक्षया। साविर्वभूव सहसा मूल प्रकृतिरीश्वरी॥

तदाज्ञया पञ्चविधा सृष्टिकर्मणि वेदतः॥

इति प्रकृति खण्डे प्रथमाध्याये, तत्र च गङ्गा तुलसी षष्ठी

काली वसुन्धरा एवं स्वाहा प्रभृतयः सप्ताशीति प्रकृतयोनिर्दिष्टास्तदध्यायतो ज्ञातव्याः।

(क्रमशः)

________

वज्रसूची।

(पूर्वतोऽनुवृत्ता)

शाक्ताः कौल कुलात्मनार्चणरताः कापालिकाः शाम्भवाः।
एते चैवहि मन्त्रतन्त्रनिरतास्तेतत्त्वबोधोज्झिताः॥

आचार्य्याबहुदीक्षिताहुतिरता नक्तव्रतास्तापसाः
नानातीर्थनिषेवका जपपरा मौने स्थिता नित्यशः।

नित्यञ्चानशनादिनात्मदमना दत्तावधानाः परे
एते ये खलु दुःखभारनिरतास्तेतत्त्वधीवञ्चिताः॥

चार्वाकाश्चतुराः स्वतर्क निपुणा देहात्मवादे रताः
सर्वेषां मतिरस्ति दुःसहपरा द्वैते परा शाक्तिकाः।

कर्त्तारं प्रभजन्ति याजकरता भूतेषु ये निर्दयाः
ते वामादिककल्पमेव विफलं नैवास्ति मोक्षं परं॥

अन्यप्रकारमाह इदानीं महावाक्यार्थमुखेन बोधः कथ्यते। यमनियमादि साधन सम्पन्नानामधिकारिणामनुग्रहाय।

तत्र यमाः।अहिंसा सत्यास्तेय ब्रह्मचर्य्यापरिग्रहाः। एतेपञ्चयमाः। शौचसन्तोष स्वाध्यायस्तप ईश्वरप्रणिधाना नियमाः।

तत्र महावाक्यविवरणं तावत्। तत्पदं त्वम्पदञ्चेति पदद्वयमस्ति तत्पदस्य त्वंपदस्य च वाच्यार्थः। साधनोपाधिः जगदुत्पत्तिस्थितिलयकारणरूपत्वात् सर्वज्ञः सर्वेश्वरत्वात् सर्वशक्तिमान् सर्व कामदश्चापरोक्षेण सह वर्त्तमानः सत्यं ज्ञानमानन्दमद्वितीयं चैतन्यं तत्पदवच्यार्थ इति सर्वज्ञः। सर्वेश्वरत्वात् सर्वशक्तिमान् भवति। सर्वकामोऽपि न भवति अपरोक्षेण सह वर्त्तमानोऽपि न भवति

किन्तु केवलं स्वात्मज्ञानानन्दाद्वितीयस्वरुपं चैतन्यमिति तत्पदलक्ष्यार्थः।

अथ त्वंपदस्य वाच्यार्थः। श्रोत्रत्वक्चक्षुर्जिह्वाघ्राण पञ्चबुद्धीन्द्रियसहितः प्राणापानव्यानोदानसमानादिदशवायुसहितो मनोबुद्ध्यहंकारचित्तसंज्ञान्तःकरणचतुष्टयसहितः शब्दस्पर्शरूपरसगन्ध वचना दानगमनविसर्गानन्दसङ्कल्पनिश्चयाभिमानानुसन्धानात्मक चतुर्दशविषयसहितः अन्नमय प्राणमय मनोमय विज्ञानमयानन्दमय पञ्चकोषसहितः। आधिदैविकाधि भौतिकाध्यात्मिक तापत्रय सहितः सत्रिगुणः पुत्रवित्तलोकैषणात्रयसहितो भूतादिकालत्रयसहितोऽशनाया-पिपासा शोक-मोह-जरा-मरणषडुर्मिसहितो जायते वर्द्धते विपरिणमते अपक्षीयते। विनश्यति इति षड्भाव विकारान्वित इति त्वं पदश्य वाच्यार्थः।

अथास्य लक्ष्यार्थःसर्वप्राणिहृदयस्थितमद्वितीयं चैतन्यं त्वं पदलक्ष्यार्थः। एतत् प्रत्यक् चैतन्यमेव सत्यज्ञानानन्ताद्वितीयं चैतन्यं अतस्तदेवाह सत्यं ज्ञानमनन्तं ब्रह्मेति। पृच्छति सत्यमित्येकं ब्रह्मज्ञानमित्येकंअनन्तमित्येकं किमेतावति ब्रह्मणि सत्यमेकमेवेति स्वप्रकाशः। मद्गुरुराह।—सत्यशब्देन ज्ञानशब्देन ज्ञप्तिस्वरुपमुच्यते आनन्दशब्देनाखण्डं ब्रह्मशब्देन परिपूर्णं एकमेवाद्वितीयतं ब्रह्मेति। तत्त्वमसि ब्रह्माद्वयमस्मि इति ज्ञात्वा प्रबुद्धः सन् कृतकृत्यो भवेत् ब्रह्मैव सन् ब्रह्माभ्येति विमुक्तश्च विमुच्यते इत्यादि श्रुतिभिरेवं निश्चयात् प्रबुद्धः सन् जीवन्मुक्तः प्रारब्धकर्मजनितफलावधि लोकानुग्रहं कुर्वन्नेवावतिष्ठते।

ज्ञात्वाप्यसर्पे सर्पोक्तिं यथा कम्पं न मुञ्चति।
बिद्धस्तेऽखिलमोहेऽपि मोहकार्य्यंतथात्मवित्॥

निर्मुच्चापि त्वचंसर्पः स्वस्वरूपं न मुञ्चति॥

इति श्रीशङ्कराचार्य्यविरचिता वज्रसूची समाप्ता।54

<MISSING_FIG href=”../books_images/U-IMG-1732206499Screenshot2024-11-21215745.png”/>

श्रीश्रीदुर्गा शरणम्

संस्कृतचन्द्रिका।

<MISSING_FIG href=”../books_images/U-IMG-173064173734.jpg”/>

श्रीश्रीगणेशाय नमः।

शिवादीनपि कर्म्मणि कारयन्ती जनानिव।
मायावलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी॥

<MISSING_FIG href="../books_images/U-IMG-173064213035.jpg"/>

मासावतरणिका।

उर्वी दुर्वाः प्रकुर्वाणाः सर्वपर्वदलोज्ज्वलाः।
चैत्रे शय्या अवस्थित्यै लोभयेत् कमलालयाम्॥

<MISSING_FIG href="../books_images/U-IMG-173064306037.jpg"/>

उद्भटश्लोकाः।

वृ–ह ङ्गवाहनं येषां, येषां त्रि-क-च-भूषणं।
वामाङ्गेपा-ल-सा येषां ते देवाः पान्तु वः सदा55॥२४३॥

धूलीधूसरितः पलालशयनात् शूलीकदन्नाशनात्
तैलाभाववशात् सदा शिरसि मे केशा जटात्वंगताः।

एको गौस्तदसौ न लाङ्गलवहो भार्य्यागृहे चण्डिका,
युष्मतो यदि चार्द्धचन्द्रमलभे प्राप्स्येपदं शाम्भवं॥२४४॥?

याचना का च नाभाति येन केनापि वा कृता।
पदत्रयकुभिक्षायां प्रभुः खर्वीकृतोयया॥२४५॥?

दुराशा दुर्दशा चैव द्वेभार्य्येमे पतिव्रते।
सार्द्धंदुराशया यामि दुर्दशाग्रे तु गच्छति॥२४६॥

याः पश्यन्ति प्रियंस्वप्ने धन्यास्ताः सखि योषितः।
अस्माकन्तु गते नाथेगता निद्रा च वैरिणो॥२४७॥

श्रीविधुभूषणदेवः। (राँचि)

__________________________________________________
!अर्द्धचन्द्रंअर्द्धरूपर्क॥ ºअष्टानकं। शब्दश्लेषात् अर्द्धशशाङ्कश्रलभ्यते।? कुःपृथिवी

________________________________________________

प्रभातवर्णनम्।

प्रभाचिरात् संभविता समाप्तिः, शुचा हृदीतीव विचिन्तियन्ती।
उषः प्रकाशप्रतिभामिषेण, विभावरी पाण्डुरतां बभार॥१॥

मृगाधिपस्यागमनेन सर्वे, यथाल्पसत्त्वा विपिनं त्यजन्ति।
तथा भयेनेव विभाकरस्य, तारागणा लोपपरा बभूवुः॥२॥

श्यामां सिषेवे चतुरोऽपि यायान्, यां वीक्ष्य तस्याः पतनं शशाङ्कः।
मन्ये महाशोकसमाप्लुताङ्गः, स पश्चिमाम्भोधिजले पपात॥३॥

अलङ्कृतोऽयं महसोदयाद्रि-सिंहासनस्थो भविता क्षणेन।
इति प्रभाते विरुतिच्छलेन, द्विजा दिंगेशस्य जगुर्यशांसि॥४॥

क्व मामनादृत्य निशान्धकारः पलाय्य पापः किल यास्यतीति।
ज्वलन्निव क्रोधभरेण भानुः, अङ्गाररूपः सहसाऽऽविराशीत्॥५॥

दृष्ट्वाऽऽपतन्तंरविबिम्बमाराद्दिवस्तस्तिस्रेण तिरो बभूवे।
महात्मनां सन्मुखसंस्थितो हि कियत् क्षणं स्थास्यति दुर्विनीतः॥६॥

कुशेशयैः स्वच्छजलाशयेषु वधूमुखान्भोजदलैर्गृहेषु।
वनेषु पुष्पैः सवितुः सपर्य्यातत्पादसंस्पर्शनया कृतासीत्॥७॥

प्राप्योदयं पङ्कजकोषलीनं सद्यो मुमोचालिगणं दिनेषु।
यद्वैभवे सत्यपि दैन्यदग्धान् दुःखार्णवात् के न समुद्धरन्ति॥८॥

त्वया समस्तं तिमिरं निरस्तं कृतो महानुग्रह एव देव।
खगा इदं बोधयितुं रविंनु, तदुन्मुखा नीड़गृहेषु तस्थुः॥९॥

गावो वनं फुल्ललतां द्विरेफा द्विजाश्चसन्ध्यासमुपासनार्थं।
कृषीवलाः स्वेष्टकृतिं प्रकर्त्तुं, जग्मुर्दिनेशाय नतिं विधाय॥१०॥

इति तिमिरमुदस्य व्योममार्गेण पश्य-
न्निखिलजनसमूहान् स्वस्ववृत्तौ विलग्नान्।
मुदित इव विवस्वान् शुक्लवर्णं बिभर्त्ति
तमहमपि च नत्वैतस्य पूर्त्तिं तनोमि॥११॥

श्रीमहावीरप्रसाद द्विवेदी (झांसी)

प्रभुभक्तिः।

आसीन्महाराष्ट्रजनपदे भुवनप्रथित-पराक्रमः शिवाजीत्याख्यो महीपतिः। ररक्ष यो निजभुजसारधाराधरेण यवनावनीपाल प्रसभानलाकुलं विरामैकशरणं वैदिकधर्मम्। सन्त्यनेके तस्य निकटे स्वामिशुश्रूषैकनिष्ठाः शिष्टाः मन्त्रिणः सेवकाश्च। तेष्वति विख्यातो विप्रकुलसंभूतो वैरिभीषणधिषणी “वाजीरावाभिधेयः”। अयमेव तस्य महीपतेः“पेशवेति” सचिव पदमलञ्चक्रे।

अथैकदा “चोथसरदेशमुखीति"राजकर-ग्रहणाधिकारानुशासनपत्रंदिल्लीश्वरादासादयितुं शिवाजिना वाजिराव आज्ञप्तः। स च निजविश्वासभाजनं स्वामिसेवापरायणं “भान्वित्युपनामकं” जनार्दनपान्ताख्यं विप्रं(अयमेव ख्यात यशसो नानाकडणीसस्य जनकः) सहचरं गृहीत्वा दिल्लीनगरमगात्। तत्र स्वमतिकौशख्यात् महतायासेनाचिरेणैव साधितमनेन निजेप्सितम्। परमननु कूलतया वाजिरावःदिल्लीश्वरपार्श्ववर्त्ति नृशंसमण्डलस्य हृदयशैल्यमभूत्। यतस्तैरेकीभूय संकेतितं लब्धानुशासनपत्रोवाजीरावो यदा राजमन्दिराद्वहिर्गच्छेत्तदा तं प्रसह्यानुशासनपत्रन्तस्मादुग्रहीष्याम इति। विदितैतद्वृत्तः स ततश्चिन्तावशोऽभूत्।

महायाससाधितमिदं स्वामिकार्य्यमिदानीं स्स्वलतीति मनसि निधाय विषीदन् सः जनार्दनपन्तेनाभिहितः स्वामिन्! मा स्वल्पमपि ददात्ववकाशं स्वहृदयाय दुश्चिन्तायाः। अनुशासनपत्रं गृहीत्वा मद्वेशनेवानिवारितो राजभवनाद्बहिर्गच्छतु भवान्। एवं कृते न केऽपि भवन्तं प्रत्यभिज्ञास्यन्ति। अहन्तु तावद्भवद्यानमधिरुह्य परिवारेण सहितः सवैभवं सपदि भवन्तमनुयास्यामि। यदि सुसमयवलादागमिष्यामि बहिरसङ्कटं तर्हि स्वमीप्सितं भविष्यति। नो चेत् कोऽन्योऽस्ति मे हर्षकरः प्रसङ्गो धर्मरक्षणमात्रैकधियः पालनकर्त्तुः स्वामिनःकार्य्यार्थं मादृशानां किङ्कराणां जीवितव्ययेभ्योऽधिकः।

एवं कृतसङ्केतौ तौ यथोक्तमकुरुतां। जनार्दनपन्त स्तथाविधोराजसदनान्निष्क्रान्तः पथिकृतपूर्वसङ्केतैः खलैः सोऽयं वाजिराव इति धिया घृतशस्त्रैःपुरुषैः सहाक्रम्यबलात् परेतेशभवनातिथिः कृतः।वाजिरावस्त्वक्लेश्तेन निवारितपरो गृहीतशासनपत्रः स्वस्थानमगात्। एवं कृतकार्य्योऽपि स स्वामिचरणैकनिष्ठसेवकविनाश क्लेशविदीर्णमयःशिवाजिराजपादमूलं “सातारपत्तन"मागत्य समर्प्य च नृपेप्सितानुशासनपत्रंवृत्तमखिलमनिवेदयत्। स्वसेवकपरिपालनदीक्षितेन राज्ञा शिवाजिनानुकम्पया ततः कथमिव भानुकुलं भानुरिव लोकवन्दनीयतां नीतमित्यैतिहासिकाः प्रष्टव्या इति।

श्रीबलवन्तकमलाकरः। (उज्जैन)

_________

प्रार्थना।

(भाद्रमासतोऽनुवृता)

हा हतोऽस्मि किमभक्षयं नहि? प्रीतये करण दुष्टयोषितां।
नो किमिन्द्रियमतोषयं ननु न्यायवर्जितपदार्थराजिभिः॥२१॥

तुच्छदग्ध जठरस्य हेतवे किन्न पापमहमाश्रये चिरं?
नो बभूव विषमस्तु कण्टकः कस्य काम्यतमशान्तिवर्त्मनः॥२२॥

कामये न पितरं न मातरं भ्रातरं न तनयं न योषितं।
बान्धवं न जगदेकतारण! पाद-पादपतलं तवार्थये॥२३॥

कामये न विभवं न गौरवंयौवनं न नसुरूप विग्रहं।
मादृशोऽपि पतितस्य पावन! पाद-पादपतलं तवार्थये॥२४॥

नो यशांसि, न वयांसि कामये नो दिवं न पृथिवीं रसातलं।
नो, न विश्वमखिलेश! केवलं पाद-पादपतलंतवार्थये॥२५॥

वृत्रत्वमपि विश्वराजतां माधवत्वमपि नीलकण्ठतां।
कामये न गुरुदेव! केवल पाद-पादपतलं तवार्थं॥२६॥

मण्डलंन भुवनाभिमानतां निर्जराधिपतिताञ्च नार्थये।
भक्तकल्प-विटपिन्! जगद्गुरो! पाद-पादप-तलंतवार्थये॥२७॥

कामयेऽद्भुतकवित्वमीश! नो तीक्ष्णबुद्धिमपि कर्मदक्षताम्।
हे त्रिलोकपरमित्र! केवलंपाद-पादप-तलं तवार्थये॥२८॥

रागलोभपरिहिंसनान्यपि पापिनो मम निकृष्टकर्मणः!
क्रोध काम मद मोह मत्सरान् संहराशु भगवन् दयाश्रय!॥२९॥

हे पितर्मरणमाशु संहर जन्म चास्य विषमं सुदुःसहं।
केशव! श्रमचयञ्च बन्धनं दूर एव नय पापितारण!॥३०॥

गाढ़ दर्पमसहं सुखस्पृहां इन्द्रियाधम-कुवृत्ति-संहतीः।
हे सुरेश! हर मेऽपवित्रतां वक्रतां कपटताञ्च संहर॥३१॥

अन्यदोष वचनं वृथाश्रमः तीव्रदृष्टिरशुभा च वासना।
नास्तिकत्वमपयातु मे हरे! द्वेष बुद्धिरपि निन्दिता स्मृतिः॥३२॥

देहि बुद्धि मनघांयया भवान् नित्यमेव विषयीकरीष्यते।
देहि देव! भवदङ्घिगोचरां केवलां जगदुपास्य! मे मतिं॥३३॥

दीयताममर! चेतना यया लोकयेयमखिलं स्वदेहवत्।
हार्य्यतांभवदगोचरा स्मृतिः भूतविघ्नजनिकापि दुर्मतिः॥३४॥

देहि दृष्टिमखिलंभवन्मयं काम्यरत्नमपि वृत्तिकामयम्।
लोकयेयमखिलप्रभो! यया; सिञ्च मे मनसि शान्तिजीवनम्॥३५॥

त्वद्गुणश्रवण पारगां श्रुतिं त्वद्विभुत्यनुभवक्षमं विभो!
देहि चर्म; रसनां सदा भवन्नामधेयमधुपान कौतुकीं॥३६॥

दिव्यगन्ध परिबोधनक्षमं घ्राणमेतदमरेश! नार्थये।
नार्थये विषयवासनारतं मानसं जगदघाटवीशिखिन्!॥३७॥

पापराशिमपनीय पापिनो यद्यदत्रशिवदं गुरोर्गुरो!
तत् प्रवेशय मनोगृहे हरे! त्वत् समीप-पदवीञ्च मां नय॥३८॥

मां नयाशु तिमिरादुज्वलत्प्रभां स्वस्वरूपमसतोऽमृतं परं।
मृत्युतस्तदवलम्बनां शुभां भक्तिमत्र परमां गतिं नतिं॥३९॥

सन्तु मे सरलता शुचिर्नतिर्बुद्धिसंयमसुखं क्षमा धृतिः।
जन्ममृत्युधनदोषदर्षनं साधुसङ्ग समदर्शिते सदा॥४०॥

पादपो जलचरोऽथ वल्लरी वन्यजन्तुरपि वा विहङ्गमः।
संभवामि न च दुःखमत्र मे चेद्गुरो! त्वयि भवेत् सदा मतिः॥४१॥

हे विभो! मरण वासरे यदा वासरेशतनयः समेष्यति।
कामये जनकवत् जगत्पितः! रुग्नदृष्टिविषयस्तदा भवेः॥४२॥

जनक! समनुगृह्य प्राणवाते प्रयाते
सकलभुवनबन्धो! शक्ति-हीनेऽन्तकाले।
मयि निजकृपयाशु स्वं शरीरं प्रदर्श्य
भव-भयहर-नाम व्यापकं श्रावयेथाः॥४३॥

संसार दावानल गाढ़ दग्ध-मनो न तस्यापि ममाहतस्य।
मतिर्यथा त्त्वच्चरणारविन्दे चिरं रता स्यात् कुरु तद्दयावन्!।४४॥

योगीश योगेश्वर! योगहेतो! वरेण्य! नारायण! विश्वबीज!
यन्मेभवेत्तद्भवतु स्वकार्य्यात् स्वेच्छामय त्वं! भव पूर्णकामः॥४५॥

स्मर हृदय दिनेशं सर्वदं निर्विकल्पं
जगदरितिमिरश्रीभास्करंमुक्तिहेतुं।
भव भवन भयानां नाशकं विश्वबन्धुं
सकृदपि भवलीलाशेषकाले स्वभक्त्या॥४६॥

कृष्णंविभुं भुवनजीवनियन्तृदेवं
स्वीयप्रभावविभूषितसर्वलोकः।
संसारकाननभयं यदि तर्त्तुमिच्छे-
स्तूर्णं तदा स्मर मनः परमेश मुच्चैः॥४७॥

(नारायणार्पणमस्तु)

श्रीअन्नदा चरण तर्कचूड़ामणिः

नीयाखाली—सोमपाड़ा

<MISSING_FIG href=”../books_images/U-IMG-173065359839.jpg”/>

अवन्तिका पुरीवा उज्जयिनी।

महाश्मशानरसिकं सोमसूर्य्याग्निलोचनम्।
महाकालं महाकालं भजेमहि सदा हृदि॥

अस्ति सकलजगतीतलवर्त्तिपुरीललना-ललन्तिकायमाना, श्रीमन्महाकालेश्वरैकवसतिः संग्रामसमुपलब्धकीर्त्तिचन्द्रिका सितायमानभूमण्डलभटाग्रगण्याराधिता, खरतरखदिराङ्गार-निकरदिनकर-किरणोत्कर-पयोधर-जलधारा-सिच्यमानप्रतोली-समुपारुढ़दुर्वाङ्कुराधिष्ठितेन्द्र-गोपव्याजेन लोकानां प्रवालाङ्कुरशङ्कां प्रतिदिनं प्रतिक्षणं वर्षाकाले जनयन्तीव स्थिता, वसन्तऋतौ वनपालकोमल-करकिशलय-संवर्द्धित मल्लिकाकुसुम-गुच्छच्छलेन मुक्ताफलस्तबकान् सर्वेभ्यो मनुजेभ्यो वसन्तमाधवप्रीत्यर्थं समर्पयन्तीव विराजमाना, शिशिरकाले कुन्दलता-प्रसूनकैतवेन सर्वा नगर्य्यो मत्सम्पत्या अधरीकृता इति बीजेन हसन्ती, हेमन्तसमये समस्तकन्यकानां कात्यायनीपूजार्थमिव पाटलिपुष्यस्तबकं धारयन्ती, आकाशपद्धतिरिव गुरु-बुध-कविभूषिता, नागराजसभेव अनन्तविषधर संवृता, कैलास समितिरिव विनायकोपेता, शाक्तसरणिरिव पूजितभैरवकदम्बा, शङ्करपरिषदिव नाथकुलसंवेष्टिता, दाशरथिसेनेव वानरबृन्दसमेता, वैकुण्ठदेहलीव विजयाद्यलंकृता, पितामह तनुरिव संपूर्णरम्यश्रुतिजातभ्राजिता, परमात्मस्थितिरिव निर्गुणस्वरूपा, शेषमूर्त्तिरिव स्वदेहधृतमाधवविग्रहा, एतादृशावन्तीदेशेषु उज्जयिनीनाम्नी नगरी।

अत्यन्तमधुरतरमधुसंलुब्धमधुपझङ्कार-मुखरितनागेन्द्रकुल गण्डस्थलयुगलस्रवन्मदोदक-सुगन्धमनोहरां काम्बोज-वाह्लीक-वनायुजादि-तुरङ्गमनिकुरम्बबहुलांकुबेरकोषवसतिमिव मुकुन्दादिसनाथां, अम्बरसरणिमिवाजाधिष्ठितां त्रिभुवनललामसुन्दरींश्रीमतीमुज्जयिनीं कदाचिदालोक्यस्वात्मनि तत्समृद्ध्याभाव-

माकलय्य महाभिमाना वारानसी गङ्गातीरे शूलिशूलाग्रमवलम्ब्य स्वकीयपञ्चप्राणान् त्यक्तुमिव अद्यापि सन्तिष्ठते।

एतादृश्यामुज्जयिन्यां भगवान् वासुदेवोऽप्यत्रैवागत्य साङ्गानां सरहस्यानां सकलानां वेदानां पठनञ्चक्रे, पुत्रलक्षणगुरुदक्षिणां च स्वगुरुपत्न्या अदात्।

तस्मिन्नेवकाले विन्दानुविन्दनामानौ महारणसंसक्तचेतसौ महाभारतप्रसिद्धयशसौ भूपौ राज्यमचीकरतां।

तदनु बहुकालेन दुष्टमेदिनीपति-तीव्रकर-सन्तप्ता भूः प्रारब्धवशात् प्रद्योतनामकं नृपवरमाशिश्राय। तस्य राज्ञः स्वलोचनयुगल विनिर्जितनीलेन्दीवरदला वासवदत्ता कुमारी आसीत्। तस्या वासवदत्ताया रूपातिशयसमकृष्टहृदयो वत्सराजोऽभूत्। हैमन्तालविपिनं प्रद्योतप्रजापालस्यात्रैव शुशुभे। यस्य प्रद्योतभूपस्य नलगिरिनामकं गजेन्द्रं दृष्ट्वा स्वाराजंस्वात्मानं रक्षितुमिव शरणमैरावतो गतः। स तत्रैव मनुष्यलोचनविषयं सन्तिष्ठतेऽद्यापि नूनम्। तदनुमहानक्रसंग्रस्ता नागेन्द्रवधूरिव पुनरपि दुर्नयनृपतिचक्रकरे दूयते स्म।

तदनु इयमुज्जयिनी अदृष्टवशात् चन्द्रगुप्तस्य हस्तपल्लवच्छायामाश्रित्य चाणक्यमुखकमलविनिर्गत शास्त्रमाकन्दमकरन्दधारां पायं पायं मधुमत्तवाराङ्गनेव निर्भरानन्दसन्दोलितमस्तका सुखमयीं निद्रां लभतेस्म।

पुनश्च कालवशात् शनैश्चरमहादशासङ्कलिता नरसंहतिरिव महापापिभिर्मनुष्याधर्मैः संवेष्टिता महादुःखपरम्परया घोरारण्यस्थितदमयन्तीव क्लेशोदर्कदिनगणान् भूरत्यवाहयत्।

ततश्चप्रचण्डमार्त्तण्ड-किरणसमुदाय-संप्लुष्टा किश्वम्भरेव वर्षाकालसन्निभंभर्तृहरिनामकंपार्थिवं प्रपेदे। तदानीमियमुज्जयिनीं जनकसभेव नानाविद्यापारंगतैः पण्डितचूड़ामणिभिर्वीरयथैः

कारुवरवृन्दैश्चात्यन्तसङ्कुचितभूप्रदेशा भार्गवादिनक्षत्रसङ्कुला द्यौरिवाशोभतं खलु।

तस्मिन्नेव समये सहस्राक्षपाणिपल्लव-वज्रकठिनं पातञ्जलमहाभाष्यंअत्यल्पतरमतीन् भाविमनुष्यवर्गान् समालोच्य तदनुजिघृक्षया करुणासमुद्रलहरीपंक्तितरङ्गितमनाः पञ्चविंशतिसहस्राधिक-लक्षसंख्यक-कारिका-कल्पलतिकाङ्कुरान् स्वमानसभूमिसमधिरूढ़ान् स्वकीय-नवनवोन्मेषशालिधीसलिलेन सिच्यमानान् प्रचुरगुणपुष्पितान् वुधवर्यो भर्तृहरिः संवर्द्धयामास।

भर्तृहरिकृतग्रन्थमवलम्ब्यकैयटभट्टादयो महाभाष्यव्याख्यां विरचयामासुः। इयं सर्वाख्यायिका वैयाकरणानां पाठालयेषु सुप्रसिद्धतमाः खलु। सर्वभूवलयपण्डितमहेन्द्रेण भर्तृहरिणाराज्ञा बहवो ग्रन्था अत्युत्तमाः सन्निद्धाः।स एव पूर्वजन्मार्जितपुण्यपुञ्जपरिपाकात् भगवच्छुकलदृशनाथवरप्रसादातिशयात् तृणवन्नश्वर चक्रवर्त्तित्वंविहायश्रीमद्भगद्दत्तात्रेयप्रभृतियोगिवरसेवित-योगपथं परया भक्त्यानिषेवे। तेन जीवन्मुक्तकलेवरःसंबभूव। अपार परितापकारिघोरसंसारातयान्धीभूतनयनानामशेषजनानां लोचनेषु मोक्षस्वरूपाञ्जनशलावर्त्तिकां प्रदापयितुमिव भगवता श्रीमहाकालेन स्वराजधान्यामुज्जयिन्यामाकल्पं स्थीयते नूनमितिमन्ये।

ततश्चतत् सहोदरः कनीयान् समस्तावनीतलनिवासिसामन्त चक्रवाल-मस्तकस्थित-मुकुटमाणिक्य-मरीचिचयरञ्जित-चरणजलज-युगली बाणभट्ट-भवभूति-कालिदास वराहमिहिर प्रभृति बुधवरेन्द्रैर्वेष्टितोर्विक्रमादित्यो भूपवरश्चकासे56स च विद्यामुक्तानां समुद्रः,

प्रतापराशेर्निधानं, शौर्यभास्करस्योदयाचलः, कमलायाः क्रीड़ामन्दिरं, महाकविकृतरमणीयकविता- कन्दलीनामुत्पत्तिस्थानं महासरस्वत्याः स्वकन्यायाः बालकेलिविनोदार्थमिव भगवता पितामहेन कौतुकातिशयात् मुखारविन्दसदनं विनिर्मितं इति लोकैर्वारं वारं वितर्कितः सम्राड़्बभूव।

स च विक्रमादित्यः जीमूतवाहन इव प्रजारक्षणार्थं स्वशरीरकृन्तनमपि कृत्वा वेतालसन्तोषमकरोत्। यद्भयेन मदोन्मत्तः कलिकुञ्जरः धर्मरूपाङ्कुशेन व्रणीकृतगण्डस्थलयुगलः सन् विन्ध्याचलस्य क्वचन कोणे स्वदेहं मशकीकृत्य निभृतं निलीनः किल। यस्य संसदि शकुन्तलादिदृश्यकाव्यानि, मिताक्षरा-प्रभृतिधर्म्मशास्त्रनिबन्धा, वराहसंहितामुखज्योतिषग्रन्थाः, पण्डितैर्निर्मिताः। स्वयमपि विक्रमादित्य बुधमहेन्द्रेण महानिबन्धारचिताः। यत्प्रमाणमद्यापि सूरयः स्वकीय ग्रन्थेषूल्लिखन्ति।

श्रीविक्रमादित्यतुल्यो भूपालो नो जातो नास्ति न च भविष्यतीतिमन्ये। अत्र संमतिर्मिताक्षराकारैरपि लिखिता। यथा—

“नासीदस्ति भविष्यति क्षितितले कल्याणकल्पं पुरं
नो दृष्टः श्रुत एव वा क्षितिपतिः श्रीविक्रमार्कोपमः।
विज्ञानेश्वरपण्डितो न भजते किञ्चान्यदन्योपम
श्चाकल्पंस्थिरमस्तु कल्पलतिकाकल्पंतदेतत्त्रम्॥”

तस्मिन् विक्रमादित्यसम्राजि कैलासलोकमाभासयति सति वराकीयमिज्जयिनी दिनकरनिशाकररहितां सन्ध्यामधारयन्नूनम्।

भगवान् द्युमणिरपि श्रीविक्रमादित्यचक्रवर्तिवियोगपरितापेन स्वान्तःकरणे परमाधिसन्तप्तः सन् स्वगोत्राशौचनिवृत्यर्थं पश्चिमसमुद्रेससूतसाश्वरथेन साकं नूनं ममज्ज।

न केवलं तस्मिन्दिने, तत्प्रभृति यदा यदा त्विषाम्पतिरुज्जयिनी विलोकनसमकाल-स्मृत श्रीविक्रमादित्य-दान-युद्ध-दयारूपवीर-रस-

दाक्षिण्यादि गुणगणसमाकृष्ट हृदयो भवति, तदा तदा महावीरपुरुष वियोग-घोरतम-प्रज्वलद्वह्निज्वालावाताकुलः सन् तच्छमयितुमिव प्रतिसन्ध्यंवारुणसमुद्रजले मज्जनं करोति नूनमद्यापीति मन्ये। तथैव सन्ध्यापि समुद्रोदके सशिरः स्नानं सेवमाना सकलपक्षिकुल कोलाहलमिषेणैव तारस्वररोदनं कुर्वती महावीरपुरुषपुङ्गव वियोगसन्तापेनाताम्रमुखी विचेयतारका सती श्रीविक्रमादित्यभूपवर्यमणिं मार्गयितुमिव द्वीपाद्विपमद्यापि परिभ्रमतीति मन्ये।

तद्वन्निशानायिकापि स्वशरीरवर्त्ति-लावण्वपुञ्ज-विनिर्जित-मदन-सौन्दर्यगर्व-श्रीविक्रमगुणान् स्मारं स्मारं दिवा सकलजनानां पुरतः स्वकीयमुखचन्द्रंविधवेवाप्रकाशयन्ती कृष्णमुखी अमावस्यया संख्या साकंसंमिलिता कलियुगे तत्सदृशं कुत्रापि नाथमपश्यन्ती प्रतिनगरं प्रतिद्वीपं प्रतिवनं प्रतिमासे संपूर्णस्थावर-जङ्गमाग्रतो दुःखपरम्परा द्योतयन्ती अर्यमादि पितृगृहमद्यापि भजत्येव न्यूनमितिमन्ये। तददुत्तरं द्वादशस्थानस्थित-नीचराहुदशासंवेष्टिता कुलवधूरिवात्यन्तंक्लिश्यमाना दिवसवृन्दानतिवायहति स्म।

तत उत्तरं मृगया-परवधू-मधुपानसमासक्तचित्त नृपति समवाया उज्जयिन्यामभूवन्।

ततश्च सूरिकुलतिलकायमानः पण्डितगणकुञ्जरः दानैकहस्तकमलः “मुञ्जो” नाम नृपतिरेतामुज्जयिनीं मण्डयती स्म। धनिकादयः पण्डितेन्द्रा यस्य सभासद आसन्। स मुञ्जमेदिनोपालो जीर्णोद्धारकरणे सातिशयपुण्यमित्याकलय्येव कलिकलुषमति-क्षिति-पति-संहतिविनष्टीकृतान् शास्त्रप्रबन्धान् विपश्चिद्वारा विरचयामास। तदुक्तं दशरूपके स्वयमेव धनञ्जयेन।—

“विष्णोः सुतेनापि धनञ्जयेन विद्ववानोरातनिबन्धहेतुः।
आविष्कृतंमुञ्जमहीशगोष्ठी वैदग्ध्यभाजा दशरूपमेतत्॥”

परमधार्मिके समस्त-प्राणिकल्याणकारके पण्डितेन्द्रवरे मुञ्जविश्वम्मरापतौ यशोमात्रैकशरीरशेषे सति स्वपितृव्योत्तरं धीमदन्वयतिलकायमानः श्रीभोजः प्रशशास भुवं। श्रीभोजदेवे महीमलङ्कुर्वति सति नीलेन्दोवरवृन्दमिव द्विजसन्ततिं पद्मा स्वयं न जहौ। वीरलक्ष्मीरपि महायोवनxxलब्धयशश्चिन्द्रिकाधवलिताखिलभूमण्डलशूरचक्रवालं न तत्याज। तत्काले इयमुज्जयिनी मैथिलीपतिसंसदिव भरत-शत्रुघ्न संवलिता लक्ष्मणोपेता च, द्वारकेव सांबादिसेविता, मथुरेव गोविन्दाधिष्ठिता, काञ्चीपुरीव पुराणपुरुषासंभ्राजिता, मायापुरीव भूतेशगणविराजिता, काशीपुरीव वक्रतुण्डादि निवहमण्डिता चकासे। भोजेनापि सरस्वतीकण्ठाभरणादयो बहवोमहानिबन्धा निबद्धाः। ते निबन्धास्तु सच्छास्त्रपरिपक्वकुशाग्रधियामपि चंक्रमणं कारयन्ति। किमुसामान्यविद्याभ्यसनिनां, साहित्यशास्त्र पण्डितम्मन्या इतरशास्त्रवेत्तारः शतसहस्रायुत लक्षकोटि परार्द्धसंख्याकश्लोकतर्णक प्रसविनं श्रीभोजकृतं धेनुबन्धं रहसि गुरुमुखादवगम्य किञ्चित् सभासु सामान्यजनसमक्षमस्मत्कृता इमे श्लोक इत्याद्यपि वदन्ति पण्डितासदाः। अतएव भट्ट बिल्हणेनविक्रमाङ्कचरितमहाकाव्ये प्रोक्तम्।

“साहित्य पाथोनिधिमन्थनोत्थंकर्णाभृतं रक्षत हे कवीन्द्राः।
यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोराः प्रगुणीभरन्ति॥”

इत्यलं मान्यानां पूज्याचरणे कटाक्षनिक्षेपेण

अस्तु प्रकृत मनुसरामः। तस्मिन्नपि भोजसूर्य्यंकविकुल कमलदल-विकासकारिणि विस्तिर्णमेदिनी-वलयपरिभ्रमणजन्य परिश्रमात्यन्त-श्रान्तेन्द्रियगणे स्वदेहवर्त्तिग्लानिं निराकर्त्तुमिव वारुणीं मेवमाने सति इयमुज्जयिनी बहुकालमताम्यत।

चुक्रोश च संप्रीलितभृङ्गभङ्कारतारस्वरकपटेन दीर्घं। तद्विरावमुपश्रुत्य स्वमखीदुःखवेदनया समागतानां शुकी-सारिका-मयूरीप्रभृतीनां

सायं महता कोलाहलेन मुखरितदिङ्मुखा वृक्षाद्यफलपतननादव्याजेन उरस्ताड़नं कुर्वतीव वायुसञ्चलितशुष्कदलस्वनदम्भात् स्वपाणिस्थित कङ्कननिवहान् त्रुट्यन्तीव सायंकालसमुपजात तमस्तोमव्याजेन स्वकण्ठस्थित कृष्णवर्गमणिपुञ्जान् धरणितले प्रक्षिपन्तीव “हा कवितैकबन्धो! हा गुणिप्रियेति"मुहुर्मुहूरटन्ती क्वापि तत्समाननाथमपश्यन्ती च मदिराघूर्णितवारवधूरिव विह्वला सती कालं निनाय।

तत उत्तरं “त्रैलोक्यमल्लदेव” उज्जयिन्या विरहज्वरंतारायाः सुग्रीव इव महता प्रयत्नेन दूरीचकार।

तत्पश्चात् सोमवत्सो देव उज्जयिनीसिंहासनमलञ्चक्रे। तदुत्तरं शूरतरजनसम्भावित-कीर्त्तिर्द्वितीयो विक्रमादित्यः स्वसम्पद्विलासेन “कल्याणपुरे” वसन् इमामुज्जयिनीमभूषयत्। तत्प्रभृति सप्तमपुरुषपर्य्यन्तं तत्कुलगृहत्यागमियं वशीकरणप्रयोगेण स्वायत्तीकृता कान्तेव नाकरोत्।57

इत उत्तरं परजीवमांसलोलुपैः जपासुमनिभवक्त्रैर्विडालतुल्यनयनैराप्रपदं कर्कशदीर्घकेशजालसङ्कुचितकायैः पदे पदे महाश्मशानशङ्कां जनयद्भिर्द्विजयूथमारणैकचित्तैर्दुःशासनवत् हठात् परकान्ता मन्य श्रियञ्चापहरर्द्धिर्हारयद्भिश्च द्विजानपि म्लेच्छीकुर्वद्भिःमन्दिरेषु शिवविष्ण्वादिमूर्तीःस्फोठयद्भिः प्रतिरथ्यंजीवास्थीनि रजताद्रीनिव स्थापयद्भिः प्रतिमार्गं चैत्यवृन्दानि रचयद्भिः धर्मसेतून् त्रोटयद्भिः सर्वकालंदशदिशः प्रज्वालयद्भिर्यवनैरियमुज्जयिनी मदोन्मत्तनागेन्द्र करधृत कमलिनीव कथमपि केवलंस्वपञ्च प्राणन् आयुष्यमर्यादया चर्ममात्रगतैकजीविता भेकभार्य्येवदधार।

बहुतिथे काले गते सति इयमुज्जयिनी जयसिंहनृपतिरत्नंसंप्र-

पेदे। तस्मिन् राजनि सति विकासता यथा नक्षत्रेषु तथैव द्विजमुखेषु भूतिधारणं यथा वैश्येषु तथा ब्राह्मणेषु। तारापथदर्शनं यथा जैनगणेषु तथा गणकेष्वितिचित्रम् तस्य जयसिंहस्य वाजपेयप्रभृतिमखपरंपरासमुद्गतात्यन्तपुण्यकारकधूमस्तोमः अस्या उज्जयिन्याः कर्णपूरायमाना बभूव। तेन जयसिंहभूपेन ससागरा सद्वीपा सपर्वता कनकमयीमेदिनी श्रीमहाकालप्रीत्यर्थं कुटुम्बिने श्रुतिजातार्थवेत्रे श्रोत्रियप्रवरतमाय ब्राह्मणाय दत्ता। किमु वाच्या तस्य भूपालस्य दानशूरता! कलौ साक्षात् कर्णेन सूर्यपुत्रेणेव पुनः अवतारो धृतो मन्ये नूनमिति ! परन्तु जन्ममध्ये लोकोत्तरं यत् पूर्वस्मिन् कालेन जातं नास्ते न भविष्वति तत् कृतं जयसिंहमेदिनीपतिना चक्रवर्त्तने भूपतये पेशवे इत्युपनामकाय अश्वमेधमखे इमामेवोज्जयिनीं सदक्षिणं शिप्रानदीतीरे पिशाचमोचनतीर्थे ददातिस्म समग्रदेवद्विजसमक्षं। (?) इमाः सर्वा आख्यायिका धर्मशास्त्रमहानिबन्धे श्रूयन्ते—तत्प्रभृति पेशव इत्युपनामक-मेदिनीपतिना शिन्दे इत्युपनामक-स्वकीयमान्यपुरुषकरसरसीरुहं प्रति समर्पिता (?) तेन पुरुषेण स्वविस्वासपात्रेण रामचन्द्र इत्यन्वर्थनामकेन सौगतमतप्रदूषितधर्मस्थापनार्थमवतीर्णेन कुमारिलभट्टेनेव श्रीमतश्चराचरगुरोः परमपुरुषस्य पुराणस्य चिन्मयस्य भगवतो महाकालस्य प्रासादो निरमायि। मध्याह्नसमये यत्प्रासादप्रोन्नतशिखराग्रमवलोक्य स्वरथ निघातशङ्कयेव दक्षिणायानोत्तरायणकैतवेन निर्गच्छति प्रतिसंवत्सरंगत्यन्तरभावात् यदा विषुवद्वृत्तं भास्करः स्पृशति तदा तन्मन्दिरशिखान्तलङ्घनजनितपातुकक्षालनार्थमिव बहुकासं स्वकीयकोमलकर कमलैर्भगवतो महाकालस्य लिङ्गशरीरं स्पृष्ट्वा क्षमापनामेव कर्त्तुं यतते नूनमद्यापि58। (?) (क्रमशः)

श्रीकाशीनाथशास्त्रिसाहित्याचार्य्यः

संस्कृत प्रोफेसर माधवकलेज उज्जेन।

ग्रहणम्।

(पूर्वतोऽनुवृत्तं)

यस्तु राहुः सिंहिकायां कश्यपमुनेः पुत्रः (१) मलयपर्वतजातः, जात्या शूद्रः कृष्णाङ्गः कृष्णवस्त्रः सिंहवाहनः चतुर्भुजः खड़्ग शूल चर्मंधारी सूर्यस्य इति ग्रहयागतत्त्वेलिखितं, स एव राहुः छायाधिष्ठातृदेवः। अत एव तमोऽधिष्ठातृदेवत्वात् राहुरपि तमः कथ्यतेअमरसिंहेन मेदिनीकरेण च। तथाच—

‘तमस्तुराहुः स्वर्भानुः सैहिकेयो विधुन्तुदः’इत्यमरः।
“तमो द्धान्तेगुणे शोके क्लीवं वा ना विधुन्तुदे” इति मेदिनी।

एते हि सूर्य्यादिग्रहाः अश्विन्यादिनक्षत्राणि, अग्निजलपर्वतादयश्च ये प्रत्यक्षतो दृश्यन्ते ते द्विरूपाः स्थावरजङ्गमात्मकाः(२) तेषामधिष्ठातृदेवा अपि सूर्य्यादिनाम्ना अभिधीयन्ते। तथाहि योऽयंसूर्य्यः वर्त्तुलाकारःप्रतिदिनमुदितोऽस्माभिर्दृश्यते तन्मण्डलाधिष्ठातृदेवोऽपि हस्तपादादिविशिष्टः नाम्ना सूर्य्यः कथ्यते। यथास्य ध्यानं

“रक्ताम्बुजासनमशेषगुणैकसिन्धुं भानुं समस्त जगतामधिपं भजामि।
पद्मद्वयाभयवरं दधतं कराब्जैर्माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रं॥”

तथा जलमय्या गङ्गाया अधिष्ठात्री देव्यपि मकरवाहिनी चतुर्भुजा गङ्गा वर्त्तते। तथा दाहात्मकाग्नेरप्यधिष्ठातृदेवः पिङ्गभ्रू-

______________________________________________________

(१) “कश्यपस्य गृहिणी तु सिंहिका राहुवास्तुतनयावजीजनत्।
पूर्वजो हरिनिकृत्तकन्धरी दैवतैरवरजी निपातितः॥“इति वास्तुयागतत्त्वम्।

(२) नद्यश्चपर्वताः सर्वे द्विरूपाश्च स्वभावतः।तोयं नदीनां रूपन्तु शरीरमपरन्तथा॥
स्थावरं पर्वतानान्तु रूपं कायस्तथापरः। शुक्तीनामथकम्बूनां तथैवान्तर्गता तनूः॥
बहिरस्थिस्वरूपन्तु सर्वदैव प्रवर्त्तते। एवञ्जलं स्थावरञ्च नदीपर्वतयोस्तथा॥
अन्तर्वसति कायस्तुसततं नोपपद्यते। आप्याय्यते स्थावरेण शरीरं पर्वतस्य तु॥
तथा नदीनां कायस्तु तोयेनाप्याय्यतेसदा। नदीनां कामरूपित्वंपर्वतानान्तथैवच॥
जगत्स्थित्यैःपुरा विष्णुः कल्पयामास यत्नतः। तोयहानी नदीदुःखं जायते सततन्द्विजाः
विशीर्णे स्थावरे दुःखंजायते गिरिकायगं॥” इति कालिकापुराणे २२ शोऽध्यायः॥

______________________________________________________________

श्मश्रुकेशः पीनाङ्गजठरः अरुणवर्णः छागवाहनःअग्निर्वर्त्तते। तथा पर्वतस्यापि प्रस्तरादिमयहिमालयस्याधिष्ठातृदेवः कश्चिद्धस्त पदादिविशिष्टःमेनकापत्नीकः उमाकन्यकोऽस्ति तथा अन्येषामपिजलपर्वतादीनामधिष्ठातारो देवा ज्ञातव्याः।

एवं सति पृथिवीछायारूपतमःपातात् सूर्य्यचन्द्रयोर्ग्रहणे छायारूपतमसोऽधिष्ठातृदेवेन राहुणैव तौ ग्रस्येते इति साधु सङ्गच्छते।

यत्तु तन्त्रशास्त्रे कथितमस्ति शिवो यदा शक्तेर्दक्षनेत्रे चुम्बतितदा सूर्य्यग्रहणं यदा तु वामनेत्रे चुम्बति तदा चन्द्रग्रहणं भवतीति। (१) तत्तु मूर्त्तिमत्याःपार्वत्या नयनचुम्बनात् सर्वदा भ्रमणशीलस्य नभोविहारिणः सूर्य्यस्य चन्द्रस्य च ग्रहणंनैव युक्तिसहं भवेत् इत्यतएव तत्रैवमनुमीयते।—

शक्तिर्नाम ऐश्वरिकौ शक्तिःप्रकृतिःसांख्यमतसिद्धजगदुपादानभूता स्वभावरूपा च। लोकानामालोकसम्पादकत्वात् चन्द्रसूर्य्याग्निरूपं प्रकृतेर्नयनत्रयं। तत्र च आलोकप्रदाने अतिशयदक्षत्वात् सूर्य्योदक्षिणनेत्रंसूर्य्यालोकेन जलमयस्य चन्द्रस्य (२) तस्मादल्पा-

_______________________________________

(१) मातृकाभेदतन्त्रेषष्ठपटले।—“चण्डिकोवाच”—

राहुश्चाण्डाल विख्यातः सर्वत्र परमेश्वर। पुण्यः कालः कथन्देव तस्य स्पर्शे दिवाकरे॥
निशाकरे तथा नाथ चेति मे सशयो हृदि। कथयस्वपरानन्द पश्चादन्यंप्रकाशय॥

श्रीशङ्कर उवाच।

शृणु सर्वाङ्गसुभगे ग्रहणञ्चोत्तमोत्तमम्।ग्रहणं त्रिविधंदेविचन्द्रसूर्य्याग्निसंयुतम्॥
शक्तेर्ललाटनेत्रेच वह्निस्तिष्ठति सर्वदा।वामनेत्र तथा चन्द्रोदक्षेसूर्य्यःप्रतिष्ठितः॥
शम्भुनाथेन देवेशि रमणं क्रियते यदा। तदैव ग्रहणं देवि शक्तियुक्तः सदाशिवः॥
वामनेत्रे चुम्बिते च शशाङ्कग्रहणं तदा। दक्षनेत्रेचुम्बिते च भास्करग्रहणं भवेत्॥
ललाटे चुम्बिते चाग्निग्रहणं परमेश्वरि। शिववीर्य्यं यतो वह्निरतोऽदृश्यः सुरेश्वरि॥
राहुः शिवः समाख्यातस्तृधाशक्तिरीरिता॥

(२) “सलिलमये शशिनि रवेर्दीधितयो मूर्च्छिताः।
नैशं तमः क्षपयन्ति दर्पणोदरवद्गृहोदरध्वान्तं॥“इति वराहसंहिता॥

_____________

लोकत्वात् चन्द्रो वामनेत्रंअग्निस्तु ऊर्द्धशिखत्वादूर्द्धनेत्रमिति रूपकितं। एवं शिवस्तु अष्टमूर्त्तिकः59तासामष्टानां मूर्तीनां मध्येक्षितिरपि शिवस्यैका मूर्त्तिः, ततश्च क्षितिरूपेण शिवेन शक्तेःप्रकृतेर्नेत्रे सूर्ये चन्द्रे च चुम्बिते छायया पिहिते ग्रहणंभवतीति। छाया तु अन्धकारः अत एव तमो राहुरुच्यत इति सर्वमवदातं। किन्तु इंरेजमते क्षितिरेको ग्रहः अस्माकं मते तु क्षितिछाया ग्रहः, स एव, राहुः कथ्यते एतावान् भेद इति।

_________

वैदिकाख्यायिका।

(माघमासतोऽनुवृत्ता)

(प्रवाहणः कथयति हे गोतम! प्रथमतश्चतुर्थप्रश्नस्योत्तरंतावन्निशामय, यस्मात् चतुर्थप्रश्नोत्तरसापेक्षाणीतरप्रश्नोत्तराणीति)

हे गोतम! असौद्यौर्लोक एवाग्निरूपः। अस्य द्युलोकाग्नेरादित्य एव प्रज्वलनकाष्ठं। आदित्येन हि सम्यग् दीप्यते द्युलोकः। तस्य सहस्ररश्मय एव धूमः।—कथमिति चेत् ज्वलनकाष्ठात् सूर्य्यरूपात् तस्य निर्गमात्। आदित्याद्धिरश्मयो निर्गच्छन्ति समिधश्च धूम इति लोकप्रसिद्धम्। दिवा तस्यार्चिः।—कथमिति प्रकाशसादृश्यादिति। दिशोऽङ्गाराः, कथमिति दिगन्ते तस्योपशमसादृश्यादिति। विदिशो विस्फुलिङ्गाः—कथमिति विस्फुलिङ्गवत्तिर्यक्विक्षेपसादृश्यादिति। तस्मिन्नीदृग्गुणविशिष्टे द्युलोकाग्नौ इन्द्रादयो देवाः श्रद्धामयीः आपःआहुतिद्रव्यरूपत्वेन जुह्वति। तस्या

आहुतेः सकासात् पितॄणां ब्राह्मणानाञ्च राजा सोमः सम्भवति॥९॥

ताः सूक्ष्मा आपः आहुतिकार्य्यभूता अग्निहोत्रसमवायिन्यः कर्तृसहिताः श्रद्धाशब्दवाच्याः सोमलोके यष्टुः शरीरारम्भायं द्युलोकं प्रविशन्त्यो हूयन्ते इति कथ्यन्ते (१) ता यष्टृशरीरापः द्युलोकं प्रविश्य सोममण्डलेतस्य कर्त्तुःशरीरमारभन्ते। तदेतत् कथ्यते देवाःश्रद्धां जुह्वति तस्यैआहुत्यै सोमो राजा सम्भतीति। “यत्संख्यकायामाहुतीहुतायामापः यदा पुरुषाकाररूपेण परिणता इत्यादीति” प्रश्नस्येदमेवोत्तरं “असौद्यौर्लोक एवाग्निरिति।

तस्मात् कर्मसमवायिन्य आपः कर्तुःशरीरारम्भिकाः श्रद्धाशब्दवाच्या इति निश्चीयते। शरीरे जलीयभागाधिक्यात् पुरुषवाच इति व्यपदेशः नतु क्षित्यादिभूतानि निषिध्यन्ते। कर्मजन्यन्तु शरीरं। कर्म चाप्ममवायि ततश्चापां प्राधान्यंशरीरकर्तृत्वे (२) इति।

__________________________________________________

९। असौ वै लोकोऽग्निर्गौतम तस्यादित्य एव समित्, रश्मयी धूमोऽहरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाःश्रद्धां जुह्वति तस्या आहुत्यैसोमो राजा सम्भवति॥९॥

(१) तथाच ब्रह्मसूत्रम्। तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्यां। ३।१।१ तत्र शाङ्करभाष्यं। —तथाहि प्रश्नः"वेत्थ यथा पञ्चम्यामाहुतावापःपुरुषवचशो भवन्ति” इति निरूपणञ्च प्रतिवचनं।—द्युपर्य्यन्वपृथिवीपुरुषयोषित्सु पञ्चसु अग्निषु श्रद्धा-सोम दृष्ट्यन्नरेतो रूपाः पञ्चाहुतीर्दर्शयित्वा इति तु पञ्चम्यामाहुतावापः पुरुषवचशोभवन्तीति (छान्दो५।९।१।) तस्मादद्भिःपरिवेष्टितो जीवःरंहति व्रजतीति”।

(२) तथाच ब्रह्मसूत्रं"आत्मकत्वात्तुभूयत्त्वात्॥” ३।१।२।अत्र शाङ्करभाष्यम्।—आत्मकश्च देहः त्रयाणामपि तेजोऽवन्नानां तस्मिन् कार्य्योपलब्धेः। पुनश्च आत्मकःत्रिधातुकत्वात् वातपित्तश्लेष्मात्मकत्वात्। न भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारन्ध्रुंशक्यते। तन्माद्भूयस्त्वापेक्षोऽयमापः पुरुषवचन इति प्रश्नप्रतिवचनयोरप्शब्दो न केवलत्वापेक्षः। सर्वदेहेषु रसलोहितादिद्रवभूयत्वं दृश्यते।” “दृश्यते च शुक्रशोणितलक्षणेऽपि देहबीजे द्रवबाहुल्यं। कर्म च निमित्तकारणं देहान्तरारम्भे कर्माणि चाग्निहोत्रादीनि सोमाज्यपयःप्रभृतिद्रवद्रव्य व्यपाश्रयाणि कर्मसमवायिन्यश्वापःश्रद्धाशब्दोदिताः। सह कर्मिभिर्द्युलोकाख्येऽग्नौहूयन्त इति वक्ष्यति। तस्मादपां बाहुल्यप्रसिद्धिः।बाहुल्याच्चाप् शब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानामिति॥

हे गोतम! द्वितीयाहुत्याधारः श्रूयतां—वृष्ट्युपकरणाभिमानी देवःपर्यन्य एवाग्निः, अस्याग्नेः संवत्र एवइन्धनं कथमिति—संवत्रेण हि स्वकीयैर्द्वादशावयवैः षड्भिर्ऋतुभिः परावर्त्तमानैः पर्यन्योऽग्निर्दीप्यते इति। तस्याग्नेर्मेधा एव धूमः, कथमिति—धूमप्रभवत्वाद्धूमवदुपलक्ष्यमाणत्वाद्वाइति। तस्य विद्युदर्चिः, कथमिति प्रकाशसादृश्यादिति। पर्यन्याग्नेरशनिरङ्गाराः।—कथमिति उपशान्तकाठिन्यसादृश्यादिति। मेघशब्दा विस्फुलिङ्गाः,। —कथमिति विक्षेपानेकत्वसादृश्यादिति। एतस्मिन् पर्यन्याग्नीदेवाःहोतारः पितृब्राह्मणराजं सोमंजुह्वति। द्युलोकाग्नौश्रद्धायामाहुतायां सोमो जायते, सोमाहुते वृष्टिःसम्भति॥१०॥

हे गोतम! तृतीयाहुत्याधारः श्रूयताम्। प्राणिवर्गोपभोगाश्रयोऽयं लोक एवाग्निः। तस्यान्नेः पृथिवी समित्—कथमिति पृथिव्या हि अयं लोकः अनेकप्राण्युपभोगसम्पन्नया सम्यगिध्यते। पृथिवीरूपाग्नेरयं लौकिकोऽग्निरेव धूमः—कथमिति पृथिव्याश्रय सादृश्यात् पृथिव्युत्थानसादृश्याच्च। पार्थिवं हि दारुद्रव्यादिकमाश्रित्य अग्निरुत्तिष्ठति यया समिधाश्रयेण धूम इति। तस्याग्नेरात्रिरर्चिः—कथमिति पृथिवीरूपसमित् सम्बन्धप्रभवसादृश्यादिति। यथा अग्नेः समित्सम्बन्धेनार्चिः सम्भवति। तथा पृथिवीसमित्सम्बन्धेन रात्रिःसम्भवति। पृथिव्याःसूर्याभिमुखिन्याश्छायामेव शार्वरं तम आचक्षते60। चन्द्रमा अङ्गाराः,।—कथमिति। रात्रिप्रभवत्वसाम्यात् अर्चिषोह्यङ्गाराः प्रभवन्ति, तथा रात्रौ चन्द्र इति वा सादृश्यात्।

_____________________________________________________

१०। पर्यन्योवा अग्निर्गौतम तस्य संवत्सर एव समिदम्राणि धूमो विद्युदर्चि रशनिरङ्गाराह्लादनयो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा सोमं राजानं जुह्वति तस्या आहुत्यै वृष्टिः सम्भवति॥१०॥

नक्षत्रणिविस्फुलिङ्गाः,।—कथमिति विस्फुलिङ्गवद्विक्षेपसादृश्यात्। तस्मिन्नीदृशेऽस्मिन् लोकाग्नौ देवा वृष्टिंजुह्वति। तस्या आहुताया वृष्टेरन्नं सम्भवति इति॥११॥

हे गोतम चतुर्थात्याधारः श्रूयतां।—हस्तपदोपस्यादिविशिष्टः पुरुष एवाग्निः अस्याग्नेर्मुखमेव विवृतं ज्वलनकाष्ठं,—कथमिति यथा समिद्भिरग्निर्दीप्यते तथा विवृतेन सुखेन वचनस्वाध्यायादौ पुरुषो दीप्यते इति। तस्य पुरुषाग्नेः प्राणा धूमः,।—कथमिति मुखतः प्राणादिवायोरुत्थानसादृश्यादिति। तस्य वाक् एवार्चिः, कथमिति अचिर्यथा आलोकदानेन घटपटादिकं व्यञ्जयति, तथा शब्दोऽपि स्वशक्त्यार्थं प्रकाशयति इति व्यञ्जकत्वसादृश्यादिति। चक्षुरङ्गाराः,।—कथमिति प्रकाशाश्रयसादृश्यादिति। श्रोत्रं विस्फुलिङ्गाः।—कथमिति चेत् विक्षेपसादृश्यादिति। तस्मिन्नेतस्मिन् पुरुषरूपाग्नौ हस्ताधिष्ठातार इन्द्रादयो देवा अन्नं जुह्वति तस्या आहुते रेत उत्पद्यते इति॥१२॥

हे गोतम! पञ्चमाहुत्याधारः श्रूयतां। योषिदेवाग्निः, तस्याग्नेरुपस्थ एव समित्, लोमानि धूमः, योनिरर्चिः, यदन्तः करोति तेऽङ्गाराः, अभिनन्दा विस्फुलिङ्गाः। तस्मिन्नेतस्मिन् योषिद्रूपेऽग्नौ देवा रेतो जुह्वति। तस्या आहुतेः पुरुषः सम्भवति। एवं क्रमेण द्युपर्यन्यैतल्लोक पुरुषयोषि दग्निषु सम्यगाहुताः श्रद्धा-सोम-वृष्ट्यन्नरेतोरूपेण स्थूलतारतम्यं लभमानाः श्रद्धाशब्दवाच्या आपः पुरुषवाच्यत्वंलभन्ते। यश्चतुर्थः प्रश्नः कृतः “यत्संख्यकायामाहुतौ हुतायामापः यदा पुरुषरूपेण परिणता भूत्वा सम्यगुत्थिताः सन्तः-

____________________________________________________

११। अयं वै लोकोऽग्निर्गोतम तस्य पृथिव्येव समिदग्निर्धूमोरात्रिरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौदेवा वृष्टिं जुह्वति तस्या आहुत्या अन्नंसंभवति॥११॥

१२। पुरुषोवा अग्निर्गोतम। तस्य व्यात्तमेव समित् प्राणो धूमो वागर्चिश्चक्षुरङ्गारा श्रोत्रंविस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा अन्नंजह्वतितस्या आहुत्यैरेतः सम्भवति॥१२॥

वदन्ति इति त्वंवेत्थ"स एवेदानीं निर्णीतः “पञ्चम्यामाहुतौ हुतायां योषाग्नौ रेतो भूता आपः पुरुषवाचो भवन्तीति” स पुरुषः एवंक्रमेण जातः सन् जीवति। कियन्तं कालं जीवतीति चेत्—अस्मिन् वर्त्तमाने शरीरे स्थितिनिमित्तं कर्म यावद्विद्यते तावत्, यदा तु तत् कर्म क्षीयते तदा म्रियते इति॥१३॥

हे गोतम! मृते तु तस्मिन् पुरुषे लौकिकाग्नये चरमाहुतित्वेन तं जुह्वति ऋत्विजः। तस्याहुतिभूतस्य प्रसिद्धोलौकिकोऽग्निरेव होमाधिकरणं न तु द्युप्रभृतिवत् परिकल्पितोऽग्निः। प्रसिद्धमिन्धनमेवेन्धनं। प्रसिद्ध धूम एव धूमः।प्रसिद्धार्चिरेवार्चिः। प्रसिद्धाङ्गारा एवाङ्गाराः। प्रसिद्धस्फुलिङ्गा एवं स्फुलिङ्गाः। नत्विमे सर्वे कल्पिताः। तस्या आहुतेः पुरुषो भास्वरवर्णोऽतिशयदीप्तिमान् भवति, कथमिति यथाविधि गर्भाधानाद्यन्त्येष्टिकर्मभिः संस्कृतत्वादिति॥१४॥

हे गोतम! श्रुतश्चतुर्थप्रश्नसिद्धान्तः। अधुना तन्मूलक-प्रथम प्रश्नोत्तरमाकर्ण्यतां। ये गृहस्था अग्नि-समिद्धूमार्चिरङ्गार-विस्फुलिङ्ग-श्रद्धादिविशिष्टान् निर्दिष्टान् पञ्चाग्नीन् विदुः अर्थाद् ये गृहस्था पूर्वोक्तप्रकारेणाग्निजोऽहमग्न्यपत्यमित्येवं क्रमेण अग्नितो जातत्वादग्निरूपोऽहमित्येवं ज्ञानिनो भवन्ति ते। एवं ये च अपरे परिव्राजकाः श्रद्धासम्पन्नाः सन्तः हिरण्यगर्भाख्यं ब्रह्मोपासते ते च सर्व एव अर्चिः अभिसंभवन्ति। अर्थात् अर्चिरभिमानिनीं उत्तरमार्गलक्षणां अभि संभवन्ति (१)—पिण्डपातात् परं ते प्रथमतः

______________________________________________

१३ \। योषा वा अग्निर्गोतम! तस्या उपस्थ एव समिल्लोमानि धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौदेवा रेतोजुह्वति तस्या आहुत्यै पुरुषः सम्भवति स जीवति यावज्जीवत्यथ यदा म्रियते॥१३॥

१४। अथैनमग्नये हरन्ति तस्याग्निरेवाग्निर्भवति समित् समित्, धूमो धूमोऽर्चिरर्चिरङ्गारा अङ्गारा विस्फुलिङ्गा विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषंजुह्वति तया आहुत्यै पुरुषो भास्वरवर्णः सम्भवति॥१४॥

(१) अर्चिरितिनाग्निज्वालामात्रंकिन्तु तदभिमानिदेवतैवोपचारात्। एवमहरादिशब्दा अपि तत्तदभिमानिदेवता परा एव। आयुषः क्षयेहि मरणं नह्येवंविदा अहरेवमर्त्तव्यंइत्यहर्मणकालो नियन्तुं शक्यते। न च रात्रौ प्रेताः सन्तोऽहः प्रतीक्षन्ते”। इति शङ्करभाष्यं ६।२।१५।

अर्चिरादिमार्गाधिष्ठातृदेवस्थानं यान्ति, सा देवता तान् अहरभिमानिदेवतां प्रापयति। सा च देवता शुक्लपक्षाधितृष्ठातृ देवतां तान् प्रापयति। सा च देवता षड़्मासोत्तरायणाधिष्ठातृ देवतां प्रापयति। सा चोत्तरायणाभिमानिनी देवता देवलोकाभिमानिनीं देवतां प्रापयति। सा च देवता आदित्याभिमानिदेवतां तान् प्रापयति! आदित्याभिमानिनी देवता च विद्युदभिमानिनीं देवतामुपस्थापयति। ततो विद्युद्देवतां प्राप्तास्तु तान् ब्रह्मलोकवासी कश्चन पुरुषः समागत्य ब्रह्मलोकं प्रापयति। ते च ब्रह्मलोकगताः पुरुषाः तत्र श्रेष्ठतमाः सन्तः अनेकान् ब्रह्मकल्पान् वसन्ति। ब्रह्मलोकगतनां तेषां न पुनरावृत्तिरस्मिन् संसार इति॥१५॥

अथ ये पुनरग्निहोत्रादिना यज्ञेन, अर्थिभ्यो धनत्यागेन कृच्छ्रचान्द्रायणादिना तपसा च लोकान् जयन्ति ते धूमाभिमानि देवतां प्रथमतो यान्ति। सा च धूमाभिमानिदेवता तान् रात्र्याभिमानि देवतां प्रापयति। रात्र्याभिमानिदेवता च कृष्णपक्षाभिमानिदेवतां तान् प्रापयति। सा च कृष्णपक्षाभिमानिदेवता दक्षिणायणाभिमानिदेवतां प्रापयति। सा च मासाभिमानिदेवतां तान् प्रापयति मासाभिमानिदेवता च पितृलोकाभिमानिदेवतां पितृलोकाभिमानिदेवता च चन्द्रलोकं प्रापयति। ते च चन्द्रं प्राप्य देवानामुपभोगवस्तूनि भवन्ति। यथा यज्ञेऋत्विजः सोमं राजानं आलोड्यालोड्य चमसस्थं पानेनापक्षयञ्च कृत्वा पुनः पुनर्भक्षयन्ति, तथा देवा अपि चन्द्रलोके लब्धशरीरान् कर्मिणो भृत्यानिव स्वामिनस्तानुपभुञ्जते, तेषां कर्मिणां यदा सोमलोकप्रापकं तद्यज्ञदानादिलक्षणं कर्म परिक्षीयते, तदा अनेनैव प्रसिद्धेनाकाशेन सहापृथक्भाव-

____________________________________________________________

१५। ते य एवमेतद्विदुर्येचामौअरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसंभवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्वमानपक्षाद यान् षन्मासानुदङङादित्य एति मासेभ्यो देव लोकं देवलोकादादित्यमादित्याद्वैद्युतं तान् वैद्युतान् पुरुषौमानस एत्य ब्रह्मलोकान् गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तेषां न पुनरावृत्तिः॥१५॥

मापन्नास्तिष्ठन्ति।—अर्थात् याःपूर्वोक्ता द्युलोकाग्नौ हुताः श्रद्धाशब्दवाच्या आपः सोमाकारेण परिणताः सोमलोके देवानामुपभोगाय जलमयशरीरमारभन्ते ताः श्रद्धाशब्दवाच्या आपः कर्मक्षयात् आतपसम्पर्कात् हिमसङ्घात इव प्रविलीय सूक्ष्मा आकाशभूताः सन्ति। तस्मादाकाशाद्वायुमभिगम्य वायुना परितः प्रचरन्ति। वायोश्च वृष्टिं प्रतिपद्यन्ते। एतदेव पूर्वमुक्तंपर्य्यन्याग्नौ सोमं राजानं जुह्वति। ततो वृष्टिभूता इमां तदुक्तंपुरस्तात् “अस्मिल्लोकरूपेऽग्नौ वृष्टिंजुह्वति तस्या आहुत्या अन्नं सम्भवति"पुनः पुरुषाग्नौ जुह्वति। ततश्च योषागर्भतो जायन्ते। जाताश्च लोकान् प्रति समुत्थिताः पुनरग्निहोत्रादि कर्मानुतिष्ठन्ति। ततश्चिताग्नौ धूमादिना पुनः पुनः सोमलोकं पुनः पुनरिमंलोकं यान्त्यायान्ति च ते एवं कर्मिणो घटोयन्त्रवत् चक्रीभूताः बंभ्रय्यन्ते इति ये तु अर्चिर्यानं धूमयानञ्च पन्थानावेतौ न जानन्ति अर्थात् उत्तरमार्गसाधनं पञ्चाग्निज्ञानं ब्रह्मज्ञानं वा दक्षिणमार्गसाधनमग्निहोत्रादि कर्म वा नानुतिष्ठन्ति ते कोटा वा पतङ्गा वा मशकदंशकादयो वा भवन्ति। अहह एवं हीयं संसारगतिः कष्टा अस्यां प्रवर्त्तमानस्य पुनरुद्धारो दुर्लभः। तस्मात् सर्वान्तःकरणेन यथाशक्ति दक्षिणोत्तरमार्गप्राप्तिसाधनं शास्त्रीयं ज्ञानं कर्म वा सम्यगनुष्ठेयमिति॥१६॥

हे गोतम! सर्व एव प्रश्ना निर्णीताः।—“असौ वै लोक” इत्यारभ्य पुरुषः सम्भवतीति चतुर्थःप्रश्नो “यतिय्यामाहुत्यामित्यादि प्राथम्येन।

__________________________________________________

१६। अथ ये यज्ञेन दानेन तपसालोकाञ्जयन्ति ते धूममभिसंभवन्ति धूमाद्रात्रिं रात्रेरपक्षीयमाणपक्षमपक्षीयमाणपक्षाद् यान् षन्मासान् दक्षिणादित्य एति मासेभ्यःपितृलोकं पितृलोकाच्चन्द्रंते चन्द्रंप्राप्यान्नं भवन्ति तांस्तत्रदेवा यथा सोमं राजानमाप्याय स्वापक्षीयस्वेत्येव मेनांस्तत्रभक्षयन्ति तेषां यदा तत्पर्वयैत्यथेममेवाकाशमभिनिष्पद्यन्त आकाशाद्वायुंवायोर्वृष्टिंवृष्टेःपृथिवीं प्राप्यान्नं भवन्ति ते पुनःपुरुषाग्नौ हूयन्ते। ततो योषाग्नो जायन्तेलोकान् प्रत्युत्थायिनस्तएवमेवानुपरिवर्त्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकं॥१६॥

इति बृहदारण्यकोपनिषदि षष्ठाध्यायस्य द्वितीयं ष्ठाण॥

पञ्चमस्तु प्रश्नः द्वितीयेन देवयानस्य वा पथः प्रतिपदं पितृयानस्य वेति दक्षिणोत्तरपथप्राप्ति हेतुकथनेन समानः। पुनरावृत्तिश्च द्वितीय प्रश्नःआकाशवाय्वादिक्रमेणेमं लोकं प्रतिपद्यन्ते। ज्वरादिरोगेण म्रियमाणैरपि बहुभिर्येन प्रकारेण असौ लोको न परिपूर्यते ज्ञान कर्माद्यभावात् कीटपतङ्गादिजन्मलाभादनेकेषामिति तृतीय प्रश्नोत्तरं इति॥ एतदेवोपजीव्य याज्ञवल्क्य आह।—यथा

पितृयानोऽजवीथ्याश्चयदगस्त्यस्य चान्तरम्।
तेनाग्निहोत्रिणो यान्ति स्वर्गकामा दिवंप्रति॥१८४॥

ये च दानपराः सम्यगगष्टाभिश्व गुणैर्युताः।
तेऽपि तेनैव मार्गेण सत्यव्रतपरायणाः॥१८५॥

तत्राष्टाशीतिसहस्रामुनयो गृहमेधिनः।
पुनरावर्त्तिनो बीजभूता धर्मप्रवर्त्तकाः॥१८६॥

सप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः।
तावन्त एव मुनयः सर्वारम्भविवर्जिताः॥१८७॥

तपसा ब्रह्मचर्येण संगत्यागेन मेधया।
तत्र गत्वावतिष्ठन्ते यावदाहूतसंप्लवम्॥१८८॥

यतो वेदाः पुराणानि विद्योपनिषदस्तथा।
श्लोकाः सूत्राणि भाष्याणि यच्चकिञ्चन वाङ्मयम्॥१८९॥

वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः।
श्रद्धोपवासः स्वातन्त्र्यमात्मनोज्ञानहेतवः॥१९०॥

स ह्याश्रमैर्वेजिज्ञास्यः समस्तैरेवमेव तु।
द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश्व द्विजातिभिः॥१९१॥

ये यानमेव विन्दन्ति ये चारण्यकमाश्रिताः।
उपासते द्विजाः सत्यं श्रद्धया परया युताः॥१९२॥

क्रमात्तेसंभवन्त्यर्चिरहः शुक्लंतथोत्तरम्।
अयनं देवलोकं च सवितारं सवैद्युतम्॥१९३॥

ततस्तान्पुरुषोऽभ्येत्य मानसोब्रह्मलौकिकान्।
करोति पुनरावृत्तिस्तेषामिह न विद्यते॥१९४॥

यज्ञेन तपसा दानैर्ये हि स्वर्गजितो नराः।
धूमं निशां कृष्णपक्षं दक्षिणायनमेव च॥१९५॥

पितृलोकं चन्द्रमसं वायुंवृष्टिं जलं महीम्।
क्रमात्ते संभवन्तीह पुनरेव व्रजन्ति च॥१९६॥

एतद्यो न विजानाति मार्गद्वितयमात्मवान्।
दन्दशूकः पतङ्गोवा भवेत् कीटोऽथवा कृमिः॥१९७॥

इति याज्ञवल्क्यसंहितायां प्रायश्चित्ताध्याये यति धर्मप्रकरणे।
समाप्ता वैदिकाख्यायिका।

KARAMATI BAI.

ON THE MINERVA STAGE.

<MISSING_FIG href=”../books_images/U-IMG-173064994938.jpg”/>

There is a sphere of realities open to the gaze ofevery man,—there is a wider circle lying beyond,which only the eye of genius can explore and whichends in that great sea of the unknowable. Everypoetester—every clap-trap dramatist can picture andrepresent what is contained in the first, whereas togive us a glimpse of the second, wrapped to most eyesin the cimmerian darkness, is reserved only for thegifted few. To represent superficially love, marriage,death, sorrow, misery, happiness, the maniac laughter,the maudlin tears, the wickedness of the villain, andthe triumph of the virtuous as we find them occurring in our every day experience, is no great matter,but, to unravel the tangled skien of the psychical workings in the heart, to trace the gradual development of such a heart and make people understandit by representation on the stage, are, what I beleive,lie beyond the abilities of most men. Among thespecially gifted few is certainly our great dramatistBabu Girish chandra Ghose.

The vague hankerings of the heart—the cravings

for we know not what, are very ably illustrated in the character of Karamati and, Ibelieve as brilliantlyrepresented by the lady who acted the part. The shadowy indefinite dream-like memory of a glorious past, shines through the horizontal misty air of mundane oblivion shorn of its beams—but, as time passes, the sun shines stronger—the mists are scattered andthere reigns the day that lasts till eternity.

“Trailing clouds of glory do we come
From God who is our home.”

Ode to Immortality.

No wonder that Karamati should remember that she came from a place more beautiful than this, where the sun shone brighter, the moon looked sweeter, the birds sang pleasanter—that was her home, and she longed to go back to the place and live there eternally with One whose vision are “Thesun, the moon, the stars, the seas, the hills, theplains.” The vague craving strengthened day by day till it was swollen into a torrent, which carried everything before it,—the bonds of time-hallowed custom love, duty and all; she forgot her parent’s care—her husband’s love—she forgot the world and its appurtenances and rushed on to merge herself in the Infinity, which ultimately she did, when her soul was purged of the last vestige of Desire and Egoism.

The promptings of her soul led her on, she heardthe arial music in the atmosphere for there was a music in her soul. Souls let loose from the trammels of the world, can hear the music of the spheres.

“Such harmony is in immortal sou।
But whilst this muddy vesture of decay
Doth grossly close it in, we cannot hear it.”

Merchant of Venice.

It is my belief, that the whole play is an allegorical representation of the struggle between that “in-born impulse deep and strong to high aloft to strugglestill towards heaven” and the obstacles that lie in theway—There is (आगमवागीश)—learned scepticism,to preach “no heaven no God.” There should be worldly wisdom (टुकरो) to dissuade it from its aim,something to lay a stumbling block in its path which, however are overcome in the end—it is the same old story so ably told in Longfellow’s Excelsior. If it be an allegory, the allegorical personages are living beings and not shadowy personifications of abstract qualities—The hero of the play Aloka (आलोक) is a young man rich in world’s goods, handsome, wealthy but blaise in dissipation yet, had he kept himself untainted by blacker vices and more serious crimes. He comes to the place where his father-in-law was,and forms the romantic resolution of seducing his

own wife. He disguised himself as a servant and paid a visit to his father-in-law’s, where he met his wife for the first time since his marriage. The wicked thoughts burned up to ashes as he looked upon that heavenly beauty; the halo of purity that surrounded it, made him ashamed of his own life. He loved her and wanted to be worthy of her; coeretion was far from his thoughts; he could have compelled her obedience as her husband, but he wanted to be loved for himself. Days passed by and he loved on though in vain, (Karamati had no heart to bestow on thepeople who loved her,) till it was impossible for himto retrace his steps. Now came आगमवागीश to play the part of Iachimo and Iago—the flowers served as the bracelet of Imogen, and the scarf of Desdemona—With despair and with wine आलोक was nearly mad and scenes of strong passions that follow, are painted with a masterly hand. The misery purged the dross from his heart and he learnt to be disinterested. He now no longer followed Karamati but wanted to find out what she wanted—to give up the dearest object of his heart to another, and it is then that we are to be brought near the throne of God. We have been taught this lesson by Girish Babu in a previousplay बिल्वमङ्गलto which I belive Karamati bai bearsa close resemblance, but of that afterwards—आलोक

reached at last the stage of “enlightenment”—the निष्काम state—which गीताregards the highest condition of bliss.

विहाय कामान् यः सर्वान् पुमांश्चरति निस्पृहः।
निर्म्ममो निरहङ्कारः स शान्तिमधिगच्छति॥

His cravings are at rest. “Karamati is beautiful the world is beautiful. But what is that to you or me?” The author has respresented आलोक’s love after that of Petrarch; it is but a step removed from the love of the deity to which it is sure to merge in the end. Love is essence of religion. How can we love the deity if we have not learnt to love our fellow men? surely “Love is heaven and heaven is love” and it is better to have loved and lost than never to have loved, at all. आगमवागीश is the spirit of scepticism. He has read much as his name implies,— waded deep through the Shastras, but his unbelief has marred the benifit he might, otherwise have derived. He believes not in virtue but his confidence receives a shock, when he finds that आलोकcould forgive even him—he has read only in the shastras of men, who can forgive heart–struck injuries but he disbelieved their existence as he did other things and he was happy in his disbelief. But now comes a living proof and his doubts are shattered; the light of the sun dawns upon him, he repents, and is saved.

टुकरो—“a piece of the world"a man in whose heartthe good jostled the bad. He is in wicked hands and is wicked; but he mends as soon as he comes in contact with higher and better natures—he represents the ordinary run of men of our world.

अम्बिका—the poet’s aim increating this character is perhaps, to show that a woman is certainly an angel when let alone, but let her just make a false step and she would sell her soul to Satan more readily than a man; “Depraved women are worse than Depraved men”.

What strikes one at once in reading Karamati bai is its close resemblance to बिल्वमङ्गल, आलोक is बिल्वमङ्गलin a slightly different dress. Karamati is the “mad girl”; टुकरो “the beggar”; आगमवागीश the avatar of sadhaka; अम्बिका of थाक and the train of the thought is nearly the same in both places, only the method for the same end (सिद्धि) being different; it may be called a ‘Sequel’ to बिल्वमङ्गल

We can scarcely conclude without noticing the grand stage parapharṇalia got up to aid the performance. All the actors and actresses acquitted themselves brilliantly, the songs were sweet and many, but what impressed me most, was the representation of आलोक

_________

]


  1. " ‘ओंअंगणपतये स्वाहा। अनेनैव हि मन्त्रेण पूजयेद्गणनायकम्।” (गाद्धत्रीतन्त्र१म पटले। ↩︎

  2. “ज्येष्ठाछेलेइति बङ्गेप्रसिद्धम्।” ↩︎

  3. “मनौ। " ↩︎

  4. “अन्यत् आहारविधौविशेषतो वक्ष्यते।” ↩︎

  5. “हिरन्मयवपुः कान्तिः।” ↩︎

  6. “अत्र चम्पाकवृक्षेण कशिद्दाता धनी प्रत्याय्यते।” ↩︎

  7. “ईश्वरं प्रति कस्यंचिह्नक्तस्योक्तिरियम्।” ↩︎

  8. “वप्रः पितरि केदारे इति विश्वः। वाप्, बावा, इति च भाषा।” ↩︎

  9. “एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते। एते मान्या यथा पूर्वमेभ्यो माता गरीयसी॥ याज्ञवल्क्ये आचाराध्याये३५॥” ↩︎

  10. “मादलाद्यञ्जीमते राज्ञो युधिष्ठिरात् २३ विंशःययातिकेशरी। २६ विंशःपुरुषस्तु अलावुकेशरी इति।” ↩︎

  11. “चित्राणाम् आश्चर्य्याणां कूटो यस्मिन् चित्रकूटे, चित्तहरे, “चितोर” ↩︎

  12. “कश्चिद्विशिखा आतुरगृहमित्यर्थयति, तदर्थे शब्दोऽयं कोषकृद्भिरुपेक्षितः।” ↩︎

  13. “कीर्त्तिस्तम्भशिलालिपेर्बहुलायाः तत्तच्छ्लोकानां पाठं नानुसन्दधान एव पूर्ववर्त्ती ऐतिहासिकः भ्रान्तिं गतः। कीर्त्तिस्तम्भशिलाफलके कुम्भकर्णस्य राज्ञः पूर्वेषामपिपुरुषाणां कीर्त्तयी विवृताः। तास्तु समुद्धर्त्तंनावसरः।” ↩︎

  14. “सम्यक् ख्यायते प्रकाश्यते वस्तुतत्त्वमनया इति संख्या सम्यग्ज्ञानम्। इति भगद्गीता २। ३९ श्लोके श्रीधरस्वामी।” ↩︎

  15. “धर्म्मलक्षणं धार्मिकलक्षणञ्च कोराणे तक्सिर, वयजावि, होसयनी, मदारकविभागेषु सविस्तरं वर्णितमस्ति।” ↩︎

  16. “आधुनिकरीत्या रचिततयात्रन दर्शिताः प्राचीनालङ्कृतयः। अतः प्रार्थयामहेऽलङ्कारकोविदान् कृपयया स्वगुणेनैवालङ्कुर्वन्तु सर्वत इति।” ↩︎

  17. “निपातातिरिक्तनामार्थद्वयस्य साक्षाद्भेदान्वयोऽव्युत्पपन्नः” इति जगदीशः। इवादिनिपातयोगे तु भेदान्वयस्य व्युत्पन्नत्वात् षष्ठी नापेक्ष्यते यथा घटो न। अभावास्यर्थ नञः प्रयोगेनात्रघटस्य न इत्येवं साधुः। (इति सम्पादकः ↩︎

  18. “विगते च ज्यैष्ठमासि चतुष्पाचतुर्वक्त्वादिः यद्धर्म्मस्य आकारश्चित्रितः स तु सत्क्रियारूपस्य धर्म्मस्याधिष्ठाता देवविशेषः।” ↩︎

  19. “बहुविद्यालयाणां परिदर्शनकरिणी काचित् इंरेजनारी।” ↩︎

  20. “दारुनिर्म्मितवंशी।” ↩︎

  21. “दानववैरिणा हरिणा। गिरिभुवा पार्वत्या। आहृतं विभज्य नीतम्। (सुतरां ↩︎

  22. “नव्यशिक्षिताया द्वादशवर्षीयाया अपि विधवाया मातुर्निरपेक्षया स्वतन्त्रा एकाकिनीशयितुं प्रीणातीति न रीतिः।” ↩︎

  23. “अमृतफलमिति नास्पाति इति प्रख्यातः फलभेदः। तथा हि भावप्रकाशे भिषगाचार्य्यः श्रीमद्भावमिश्रः॥अमृतफलम्। यद्वदक्सान काविलप्रभृतिषु देशेषु नास्पति इति प्रसिद्धमिति॥ फलमेतच्छिशिरे कलिकातामहानगरीवासिनां सुपरितचितमेव।” ↩︎

  24. “वाग्वाजार इति यस्य प्रसिद्धिः।” ↩︎

  25. “हरिमध्यमम् — हरेः सिंहस्य मध्यमं मध्यस्थानं कटिम्।” ↩︎

  26. “धवं भर्त्तारम्।” ↩︎

  27. “प्रपा पानीयशाला। पयः जलं दुग्धम्। वारःजलानि। पक्षेदिनम्।” ↩︎

  28. “प्रीयातीति यस्य भाषा।” ↩︎

  29. " कामान तोप इति यस्य भाषा।” ↩︎

  30. “कटिभूषणं गोट् इति यस्य भाषा।” ↩︎

  31. “विष्णोर्वामनस्य। दनुजारिनाथमथने वलिदमने।” ↩︎

  32. “दाता अधनःदरिद्रः। अत्रनीचैस्तनमित्यपि पठन्ति।” ↩︎

  33. “आतरस्तरणमूल्यम्। अपणं पणायोग्यं रहोमेलनाकिम्द।” ↩︎

  34. “शिरसि निधाय क्रय्यं, नाम च क्रय्यस्योच्चैर्गायन् पथ्युपपथे च पर्य्यट्ययो विक्रिणाति " ↩︎

  35. “शोणितशोषं कुर्वन् इति णिजन्तात् शतृः।” ↩︎

  36. “धर्माः पुण्यचयन्याय स्वभावाचारिणीपमाः।” ↩︎

  37. “अतीवविवेकहीनः।” ↩︎

  38. “मनुष्यसाधारणौ।” ↩︎

  39. “स्त्रीधनानि च ये मोहादुपजीन्ति बान्धवाः। स्वर्णंयानानि वस्त्राणि ते पापा यान्त्यधोगतिं॥ इत्यापस्तम्बसंहिता ९।२६” ↩︎

  40. “अत्यादरभाजा। दुर्लभवस्तुनापि कृतसन्तोषया।” ↩︎

  41. “काकिणीं षोड़षकार्षापणीम्। अपथप्रपन्नां असत्पथे व्ययिताम्। निष्केति सहस्रदीनारतुल्याम्। निषेवते मन्यते। कोटिष्वपि दीनारादिषु। काले समुचितन्यय समये।” ↩︎

  42. " इड़ःइति द्वितीया बहुवचनान्तं पदं।” ↩︎

  43. “घटस्य अव्यक्तावस्था मृत्पिण्डं मुकुटस्य हेमपिण्डं अव्यक्तं एवं सर्वजगतोऽव्यक्तं प्रकृतिः न व्यज्यते कार्य्यजातं यस्मिन्निति व्युत्पत्तिबलात्। अव्यक्तावस्थैवात्राव्यक्तमुच्यते।” ↩︎

  44. “वामं विपरीतं प्रतीकूलं।” ↩︎

  45. “दक्षिणः सरलः। उदारः सत् स्वभावः।” ↩︎

  46. “पुराकृत युगे इति सम्बन्धः।” ↩︎

  47. “सहोवाच तथान स्त्वंगौतममापराधास्तव च पितामहा यथेयं विद्येतः पूर्व्वं न कस्मिंश्चन ब्राह्मण उवास। तां त्वहं तुभ्यं वक्ष्यामि को हि त्वेवं ब्रुवन्तमर्हति प्रत्याख्यातुम् इति ॥८॥” ↩︎

  48. “शशकः शल्लकी गोधा खड़्गीकूर्म्मस्तु पञ्चमः॥” ↩︎

  49. “भाट्टाःमीमांसका।” ↩︎

  50. “श्यामबाजार इति यस्य नाम।” ↩︎

  51. “उड़िष्या, उत्कल इति च यस्य प्रभिद्धिः।” ↩︎

  52. “वरफ् इति यस्य प्रसिद्धः।” ↩︎

  53. “छायाम्पादतापाभावे प्रतिविम्बार्कभार्य्ययोरिति मेदिनी।” ↩︎

  54. “आदर्शदोषाद्बहुधाभान्तिः सम्भवति। सा च क्षन्तव्या इति।” ↩︎

  55. “वृ वृषः, हंहंसः, ग गरुड़ः। त्रि त्रिशूलं, क कमण्डलूः,च चक्रम्। पा पार्वती, ललक्ष्मीः, सा सावित्री। इत्येवं शब्दाद्यक्षरमादायार्थोऽनुसन्धेयः।” ↩︎

  56.  ↩︎
  57. “कल्याणपुरसाहचर्य्यात् विक्रमादित्येतिनामसारूप्याच्च मिताक्षराकारविज्ञानेश्वरकृतेन ‘नासीदस्ति भविष्यती’ति श्लोकेनैतदेव प्रतीयते मिताक्षराकारेण द्वितीयस्यैव विक्रमादित्यस्य प्रशस्तिः सूचितेति सम्पादकः।” ↩︎

  58. “सद्विषयस्यप्रबन्धस्यास्य क्वापि आदर्शलिपेदोषात् क्वापि भ्रमदुष्टतया वा असंलग्न भाति।” ↩︎

  59. “सर्वाय क्षितिमूर्त्तये नमः भवाय जलमूर्त्तये नमः इत्यादि मूर्त्तयोऽष्टौ शिवस्यैताः पूर्वादिक्रमयोगतः इत्यन्तं भविष्यपुराणम्।” ↩︎

  60. " उद्धृत्यपृथिवीच्छायां निर्मितं मण्डलाकृति। स्वर्भानोस्तु बृहत्स्तानं तृतीयं यत्तमोमयं॥ इतिआनन्दगिरिधृत स्मृतिः” ↩︎