मलयमारूतः

[[मलयमारूतः Source: EB]]

[

॥ श्रीः ॥

॥ मलयमारूतः ॥

प्रथमः स्पन्दः

॥ श्री-उच्छिष्टगणपतिमन्त्रमातृकास्तवः ॥
ओंकारशुक्तिकान्त-
र्मुक्तामणिमाणवादिनिर्मुक्तम् ।
ओड्याणापीठमधयग-
मुच्छिष्टगणेशमाश्रयाम्यनिशम् ॥ 1 ॥
हरिहरसरसिरूहासन-
सर्गत्रयहेतुमद्वयस्फूर्तिम् ।
हालामदाट्टहासं
हस्तिंमुखं नौमि हंसमन्त्रार्थम् ॥ 2 ॥
स्तिमितान्तः करणेभ्यः
शमिताहंताविकारवृत्तिभ्यः ।
अमितैश्वर्यदमनिशं
निमिषध्यानान्नमामि गणनाथम् ॥ 3 ॥
मुग्धेन्दुमुद्रितालिक-
मुन्नतकोटीरमूर्जितौदार्याम् ।
निजनमनोविनोदन-
साधनमाराधयामि गणनाथम् ॥ 4 ॥
खाटीकदम्बकल्पित-
पाटीरमुखोपचारसंतुष्टम् ।
घोटीसमानधाटीं
कवितां तन्वानमन्वहं नौमि ॥ 5 ॥
यक्षाधिराजपूजीत-
पादुकमाकल्पिताखिलैश्वर्यम् ।
उक्षारूढकुमारं
शिक्षाकरमाश्रयामि शत्रूणाम् ॥ 6 ॥
लम्बितविश्वविलासं
लङ्घ्येतरशासनं पराकारम् ।
ललनालंकृतवपुषं
लम्बोदरमाश्रयामि लक्ष्यार्थम् ॥ 7 ॥
बोधाङ्कुरालवालं
बाधाकरमाग्रहस्य दुष्टानाम् ।
मेधाविधानसाधन-
माधाय नमामि वारणास्यमहम् ॥ 8 ॥
दरहासभासमानं
दर्वोकरनिकरकल्पिताकल्पम् ।
दयमानमानतेषु
द्विरदाननमानमामि गणनाथम् ॥ 9 ॥
रागद्वेषविहीनै-
राराधितमात्मभावसंसिद्वैः ।
राजीवलोचनाघै-
रनिशं प्रणमामि वारणास्यमहम् ॥ 10 ॥
यजनादिकर्मफलदं
यजुराघाम्नायसारभूतार्थम् ।
यावकरसारूणभं
योगीश्वरमाश्रयामि गणनाथम् ॥ 11 ॥
उष्णांशुपावकेन्दु-
प्रकरप्रौढप्रकाशपारम्यम् ।
ऊरीकृतोर्ध्वमाया-
विन्यासमहं नमामि गणनाथम् ॥ 12 ॥
छित्त्वैव ग्रम्थिजालमुन्मील्य ।
गत्वा स्वात्मसरोजं
तत्त्वार्थमहं नमामि गणनाथम् ॥ 13 ॥
ष्टापदमपूर्वमद्भुत-
मुच्छ्रितमनिशम ददानमीशानम् ।
जगतः स्वतन्त्रमाघं
जनिमृतिरहितम नमामि गणनाथम् ॥ 14 ॥
यमनियमासनमुरव्यै-
र्योगावयवैरूपेतमात्मानम् ।
अध्यस्तविश्वलूला-
लास्यं कलभास्यमानतोऽस्म्यनिशम् ॥ 15 ॥
मधुवैरिसारसासन-
मारारिमुखामारालिसंसेव्यम् ।
मातङ्गाननमनिशं
मध्येमार्ताण्डमण्डलं मन्ये ॥ 16 ॥
हार्दान्धकारहंसं2
निहतारातिं निरङ्कुशस्फूर्तिम् ।
नित्यानपायिनिर्मल-
संविन्मात्रं नमामि गणनाथम् ॥ 17 ॥
त्मान्ताकारपदेन3
प्रतिपाघार्थं परात्परं पुरूषम् ।
पश्याम्यहं पुराणं
वारणवदनं वरेण्यमरूणभम् ॥ 18 ॥
नेतारमात्मरूपं
नामादिविकारमेदनिर्मुक्तम्
नादान्तनादरूपं
वेतण्डास्यं वरप्रदं नौमि ॥ 19 ॥
आन्तरपथप्रविष्टैः
शिष्टैरष्टाङ्गयोगसंसिद्धैः ।
आराधिताङ्घ्रिपङ्कज-
मनिशमानीशं गणेशमङमीक्षे ॥ 20 ॥
क्रोमित्यक्षरलक्ष्यं
कोकनदच्छायकोमलाकारम् ।
क्रोडीकृताखिलार्थं
कलये कलभास्यमानतः सततम् ॥ 21 ॥
ह्रींकारगाह्वरोदर-
हर्यक्षाध्यक्षमक्षरं त्र्यक्षम् ।
भक्तकृतपातं
भगवन्तमहं भजामि कलभास्यम् ॥ 22 ॥
श्रींकारशर्करान्त-
र्मघुरिमगारिमाणमाणवाविष्टैः ।
अधमैरह्श्यमेकं
परमाद्वैतं प्रणौमि गणनाथम् ॥ 23 ॥
क्लींकारसारसोघ-
न्मकरन्दास्वादपेशलभ्रमरम् ।
कलभाननं कृपालुं
क्लींकारारामकल्पकं कलये ॥ 24 ॥
ग्लौंकारगोपुराग्र-
स्फूरिजद्वोधप्रकाशमणिदीपम् ।
ग्लौंकारकोशखड्गं
गजवदनं भावयामि गुरूमूर्तिम् ॥ 25 ॥
गनिभीरध्वनिमेनं
गगनानिलवह्निवारिगोत्राङ्गम् ।
गन्धर्वगीयमानं
गजवदनं भावयामि गर्वघ्नम् ॥ 26 ॥
घेमिति वर्णव्यक्तं
घनतरविन्घौघवारणोघुक्तम् ।
घण्टानादविलीना-
सिलभुवनं भावयामी कलभास्यम् ॥ 27 ॥
घेंकारघोषभीत-
स्फुटितब्रझाण्डमण्डलोइण्डम् ।
घोरेतरस्वरूपं
गजवदनं भावयामि गूढार्थम् ॥ 28 ॥
उन्मत्तमूर्जितश्रिय-
मुत्तंसितसामिसोमसुकुमारम् ।
उचितार्थदानतत्पर-
मुपमारहितं नमामि गणनाथम् ॥ 29 ॥
छिन्नाविघापाशै-
श्चित्तलयोल्लासवालनासक्तैः ।
गणपतिमहंपदार्थं
चिन्मात्रत्वेन भावितं नौमि ॥ 30 ॥
ष्टान्तैर्वादिभिरेतै-
रज्ञातचरित्रमज्ञसंदोहैः ।
ज्ञानाज्ञानविलक्षण-
मनिशं कलभास्यमानतः सत्यम् ॥ 31 ॥
यदपाङ्गसङ्गवैभव-
संपादितसर्वसिद्धिसाम्राज्याः
रूद्रादयोऽपि देवा-
स्तमहं ध्यायामि वारणेन्द्रास्यम् ॥ 32 ॥
स्वात्मानुभूतिरूपं
समरसभावप्रभावसंसक्तम् ।
स्वातन्त्र्यसिद्धियुक्तं
स्वयमेवाहं भजामि कलभास्यम् ॥ 33 ॥
हारायितोरगेन्द्रं
हानोपादानहीनसिद्धान्तम् ।
हत्यादिपातकनां
हन्तारं भावयामि हरेम्भम् ॥ 34 ॥
मन्त्राक्षरप्रणीत-
स्तोत्राभिप्रायसारसर्वस्वम् ।
यो वेत्ति स्वभावा-
दुच्छिष्टोऽयं गणेश्वरो भवति ॥ 35 ॥
॥ इत्युच्छिष्टगणपतिमन्त्रमातृकास्तवः
संपूर्णः ॥
॥ श्रीमहाराज्ञीस्तोत्रम् ॥
॥ पण्डित-कृष्णकेन विरचितम् ॥
यां द्वादशार्कपरिमण्डितमूर्तिमेकां
सिंहासनास्थितिमतीमुरगावृतां1 च ।
देवीमनक्ष2गतिमीश्चरतां प्रपन्नां
तां नौमि भर्गवपुषीं परमार्थराज्ञीम्3 ॥ 1 ॥
यत्पादपङ्कजतलेऽमरमूर्धमौलि-
न्यस्तेन्द्रेनीलमणिसंततयः श्रयन्ति ।
किञ्जल्कपानरतमुग्धमधुव्रतत्वं
राज्ञी सदा भगवती जननीव नोऽव्यात् ॥ 2 ॥
व्दारं यदियचरणाभ्बुजयुग्मनिर्य-
द्रेणुस्मृतिर्वितमस्ति महोदयानाम् ।
अम्बाधिकप्रणयपूरितचित्तवृत्ती
राज्ञी शुभं वितनुयान्मम सेवकस्य ॥ 3 ॥
दम्भं विहाय भवदङ्घ्रिनतिं तनोति
यो राज्ञि देवि न विमुञ्जति मुक्तिकान्ता ।
तं रूपहीनमपि काममिवीधिगम्य
तां त्वां नतोऽस्म्यशरणो भवभारखिन्नः ॥ 4 ॥
शान्तिं निनाय दशकन्धरमुग्ररूपं
यत्पादसद्दशनखाग्रलुठत्करीटः
रामो दशेन्द्रियनिवृत्तिविधानदक्षो
राज्ञीं नतोऽस्म्यशरणो जगदम्बिकां ताम् ॥ 5 ॥
अर्कप्रभा प्रबलमोहतमः प्रशान्तौ
चन्द्रघुतिर्भवभयद्विपदन्तभङ्गे ।
याग्नेः शिखा दुरितदारूणदारूदाहे
राज्ञीमनन्यशरणः प्रणमाम्यहं ताम् ॥ 6 ॥
कस्यापि राज्ञि बहुभाग्यनिधेः स्वरूपं
भावत्कमस्ति हृदि संश्रितसंनिधानम् ।
दुष्टद्विषद्धृदयपाटनकृत्यहेतुं
तां त्वां नतोऽस्मि नतलोकसुखप्रदात्रीम् ॥ 7 ॥
पत्युर्धुलोकपातिवैभमादघाति
देवाधिपोऽपि न तु पत्यनुकारमेति ।
यत्प्रोल्लसन्नयनयोगवियोगभावा-
द्राज्ञीं महोपपदरम्यतरां नमामि ॥ 8 ॥
रिक्तत्वमाप्य च घनेन यदियभक्ति-
चिन्तामणिं विनिदधाति हृदब्जकोशो ।
नानाविधाभिमतसिद्धिकरं मनुष्यो
राज्ञीम नमामि भववारिघितारिणीं ताम् ॥ 9 ॥
मर्त्याः शतीमहचरीकुचकुड्मलाग्र-
स्प र्शोचितं करसरोजमवाप्रुवन्ति ।
यत्पागयोः सकृदुपाहितपुष्पपूजा-
स्तां शर्मदामनुदिनं र्पणमामि राज्ञीम् ॥ 10 ॥
डिम्भोऽपि पूर्वसुकृतामृतसिक्तचित्तो-
घानस्थयच्चरणभक्तिसुकल्पवीरूत् ।
अभ्येत्यभीष्टफलसन्तति1भाजनत्वं
राज्ञी तनोतु शुभतन्तुमहर्निशंसा ॥ 11 ॥
तापः प्रयाति विलयं नरकाभिषङ्ग-
जातो यदर्चनसुघारससारसेकात् ।
जन्तोरबोधकृतदुष्कृतमग्ग्रमूर्ते
राज्ञी रिपून्दलयतान्मम सन्ततं सा ॥ 12 ॥
मूलच्छिदा करणकारणमङ्रिघ्रपद्म-
युग्मस्मृतेर्भगवाति प्रभवोऽनुभावः
संसारपादपततेस्तव राज्ञि यस्मा-
द्भूयान्मदीयहृदयाहितसन्निधिः सा ॥ 13 ॥
तीव्रः प्रताप इह दुःसहातां प्रयाति
यन्मूर्तिचिन्तननतिप्रभावात् ।
धन्यस्य कस्यचिदपि क्षितिपालमौले
राज्ञीं दयारसनिधिं प्रणमाम्यहं ताम् ॥ 14 ॥
मेधत्वमीहितपयोभरवृष्टिदाने
यन्मूर्तिरेति चरणौ स्मरतां स्मृतैव ।
आस्माकवैरिनिवहं नयताव्दिनाशं
राज्ञी त्रिलोकजननी खलु निर्विलम्बम् ॥ 15 ॥
रेणुर्यदङ्घ्रिकमलप्रभवः प्रयाति
प्रेतेशभृत्यनयनान्ध्यनिमित्तभावम् ।
चित्रं स्वभक्तनयने भदतेऽञ्जनत्वं
राज्ञीं समस्तरिपुनिर्दलनाय वन्दे ॥ 16 ॥
कामी यदीयनाञ्जलपूतदेहो
मन्त्त्रं विनौषधमृते मणिमन्तरेण ।
क्षिप्रं हि संवननमेणह्शां करोति
राज्ञी ममान्तरनुरज्यतु वाञ्छितेन ॥ 17 ॥
सिन्धोरवाप्य तटमर्चननाम1 यस्या
गीर्वाणदुर्लभसुधारससारमय्याः ।
योगी प्रयाति परुलङ्ध्य भवाब्धिपारं
राज्ञी सदा शुभततिं प्रददातु मझम् ॥ 18 ॥
हालाहलं स्म गिरिशो विदधीति हीन-
शक्तिं स्वकणठगतमङ्रिघ्रनतामरेन्द्रः ।
यद्दर्शनामृतभरप्रभवात्प्रसादा-
द्राज्ञी वितारयतु संसृतिसागारान्माम् ॥ 19 ॥
सर्पाधिपो भवति यद्गुणकीर्तनेषु
शक्तो न वाग्दशतद्वयसंयुतोऽपि ।
स्वात्मीयभक्तजनवाञ्छितदानदक्षा
सा सर्वशत्रुदलनं विदधातु राज्ञी ॥ 20 ॥
नश्यत्यनन्यशरणस्य नरस्य यस्या
ध्यानप्रभापरिबृढोदयसंगमेन ।
नीहारराशिरभितो वृजिनाभिधानः
सा मङ्गलं त्रिजगातां विदधातु राज्ञी ॥ 21 ॥
स्थित्या स्थितिं हि कमला यदनुग्रहस्य
वाग्देवता च विदधाति गृहे मुखे च ।
मर्त्यस्य तीव्रतरभक्तिसमन्वितस्य
राज्ञी ददातु2 शुभसन्ततिमाशु मझम् ॥ 22 ॥
तिर्यग्गणादहमवैमि विचारशून्यं
तं मानवं यदभिवन्दनसौरव्यलेशम् ।
स्वन्पेऽपि न स्पृशती जातु यदीयचितं
राज्ञी स्वभक्तजनमङ्गलदास्तु नित्यम् ॥ 23 ॥
मन्त्रं यदीयनभिवीञछितदं पठित्वा
मर्त्यः प्रभावसहितः स्पृहणीयतायाः ।
पात्रीभवत्यमरवारविलासिनीनां
दुर्वारपापदलनं विदधातु राज्ञी ॥ 24 ॥
तीक्ष्णघुतिः शतसहस्त्रतनुत्वमेत्य
यत्तेजसां तुलयितुं कणमप्यशक्तः ।
राज्ञी तथाविधसविस्मयदुर्निरीक्ष-
तेजोन्विता जयति मङ्गलकारिणी सा ॥ 25 ॥
मुक्तीभवत्यचलपूर्वसुकर्ममेघ-
मुक्तोऽधिगम्य यदुपासनभक्तिशुक्तेः ।
मध्यं कदाचिदणुरेष बहूद्भवान्तो
कुर्याच्छुंभ निरूपमं स्वजनस्य राज्ञी ॥ 26 ॥
रश्मिः सहस्त्रकिरणस्य करालपङ्क-
संशोषणे, हिमकरस्य रूचिर्विकासे ।
काव्योत्पलस्य, ननु यच्चरणाब्जसेवा
राज्ञीं विपक्षदमनीं प्रणमाभ्यहं ताम् ॥ 27 ॥
गायन्ति सर्वधरणीधरकन्दरासु
नित्यं सुपर्वहरिणीनयनासमूहाः ।
क्षेमाय यच्चरितमद्भुतमन्तहीनं
राज्ञीं स्मरामि मनया दुरितापहत्यै ॥ 28 ॥
वृक्षा यदर्चनविधीवुपयोगमीयुः
पुष्पैः सुगन्धह्टतभृङ्गकदम्बकैर्यो ।
नाकेऽघ कल्पतरवश्च त एव सन्ति
राज्ञी वपुर्मम निषिञ्चतु भाग्यवष्टौः ॥ 29 ॥
ता निष्पतन्ति नरि तत्र खलेकपोत-
न्यायेन भाग्यभरभागिनि सिद्धयोऽष्टौ ।
यः सर्वदा भजति राज्ञि तवाङ्घ्रयुग्यं
सा त्वं ममार्द्रकरूणा भव सुप्रसन्ना ॥ 30 ॥
चामिकरप्रकरमर्थिगणाय यस्याः
प्रोद्दिश्य नाम मनुजः प्रददाति भक्तः ।
यः स प्रयाति कनकाद्रिगृहाधिपत्यं1
राज्ञी भवत्वखिललोकहिता सदैव ॥ 31 ॥
देवालयादपि परं पदमामनन्ति
कशमीरदेशममलेक्षणयुक्ताः ।
2 मूर्त्यन्तरान्वितयदीयपदातविन्द-
द्व न्द्वार्पणाद् भवतु 3सा विभवाय राज्ञी ॥ 32 ॥
वीतान्यवस्तुनिवहस्पृहया कृता य-
त्पादाब्जयोर्जनतया भजतां प्रणामाः
नाशाय भाविजननप्रकरस्य राज्ञी
कल्याणमन्तरहितं प्रददातु मझम् ॥ 33 ॥
1मनयूत्कटभ्रुकुटिवक्तूमवेक्ष्य यस्याः
कालोऽङ्घ्रिनम्रशिरसां सहते स्वरूपम् ।
द्रष्टुं न दुःसहगिरीशाविलोचनाग्नि-
शङ्कायुतो भवतु मे शुभदा च राज्ञी ॥ 34 ॥
नर्नर्ति रम्यकररङ्गतले नटो य-
त्पादाब्जनम्रशिरसः सुभटस्य खङ्गः ।
संग्रामनिर्दलितशत्रुजयार्जितश्री
राज्ञी करोतु मदधीनमशेष2शर्म ॥ 35 ॥
क्षत्रव्रजोऽतिबलदक्षिणबाहुकोश-
कृष्टासिमन्दरविलोडितसंगराब्धिः ।
लक्ष्मीं परां भजति यच्चरणप्रसादा-
ल्लक्ष्मीं जनाय भजते प्रददातु राज्ञी ॥ 36 ॥
गङ्गादितीर्थजलपुतशरीरयष्ट-
र्यः पूर्वजन्मनि यमान्नियमान् सिषेवे ।
भावत्कभक्तिविषयं भजते स एव
दूरीकृताखिलभयां प्रणमामि राज्ञीम् ॥ 37 ॥
तिग्मांशुमग्निमनिलं क्षितिमम्बु चन्द्र-
मात्मानमभ्रमपि यत्तनुमामनन्ति ।
राज्ञीं समस्तदुरितापह्टतिप्रगल्भां
भर्गाब्धुनिर्जरनदीं सततं स्मरामि ॥ 38 ॥
मीनध्वजो ननु बभूव यदीयद्टष्ट-
पीयूषवृष्टमधिगम्य च लब्धजीवः ।
भृतेशफालनयनानलदग्धदेहो
राज्ञीं प्रसादसुमुखीं प्रणमाम्यहं ताम् ॥ 39 ॥
श्चभ्रं परापतति दुष्कतसारणी य-
द्धथनाचलेन्द्रपरिरूद्धपुरः प्रयाणा ।
रीज्ञीं भज् रविजकिङ्करभीतिभङ्ग-
दानोतां हृदयसन्निहितानुकमपाम् ॥ 40 ॥
रज्जुर्विमार्गगतभक्तकरावलमबे
यत्पादपङ्कजनतिर्जगती प्रसिद्धा ।
राज्ञीमपारतरदुष्कृतकक्षयमार-
दाहे दवानलशिखां प्रणमामि नित्यम् ॥ 41 ॥
तां हेलयैव गतिमेति यदङ्घ्रिनम्रः
पत्युः पतेनमखलिहामपि नेत्रमार्गम् ।
स्वन्पे।टपि यः रठिनपापतमोविनाश-
नित्योदितार्यमरूचिं प्रणमामि राज्ञीम् ॥ 42 ॥
प्राणो न कर्कशकृतान्तधृतावलेप-
पाशोरगेन्द्रकबलत्वमुपैति जनतोः
यभ्दक्तिताक्र्क्ष्यतनुसंश्रितमानसस्य
राज्ञी मुदम वितनुयात्स्वजनस्य तूर्णम् ॥ 43 ॥
पङ्गुर्गुहाङ्गणगतौ पवनोऽन्तराय-
नामा1 यदङ्घ्रियुगनम्रतमोर्नरस्य ।
कीनाशलोकदलनोघमदक्षशक्तिं
राज्ञीमनन्तकरूणाब्धिमुपास्महे ताम् ॥ 44 ॥
नानाकृतिर्विलयमेति भवाभिघानो
यक्षो यदङ्घ्रिनतिभास्करभानुयोगात् ।
मर्त्यस्य शुद्धमनसः, सततं स्मरामि
तस्या अहं पदसरोजरजांसि राज्ञ्याः ॥ 45 ॥
ताराधिपघुतिरनारतशोककोक-
संयोगनाशनविर्धि करोम्यहं त-
द्राज्ञीपदाम्बुजयुगोत्थितरेणुपुञ्जम् ॥ 46 ॥

*****************************************************

.

॥ श्रीः ॥

॥ अमिनवकर्णामृतम् ॥

॥ सुरपुरम् अण्णयार्यविरचितम् ॥

प्रथमः स्पन्दः

सोभाग्यं त्रिदशव्रजस्य विभवस्थेमा रतीशश्रिया-
मैश्चर्यं शिशिरांशुवंशजनुषामालम्बनं योगिनाम् ।
नन्दानन्दनिदानमस्तु पुरतस्तद्वस्तु मस्तुप्रियं1
किंञ्चिद्गोपकिशोरताकवचितक्रीडानिरूढाशयम् ॥ 1 ॥
क्क भुवनसङ्घिलङ्घिमहिमा वसुदेवसुतः
क्क पुनरहं मितंपचकथाजांधिकधीः ।
अपि तु सरस्वती मम नुनुषति धूतभया
तमपि तदीयदिव्यकरूणापरिणाहबलात् ॥ 2 ॥
अव्याजं स्तुमहे न तत्र विशयः स्तव्यः त्वमेवासि यत्
किं त्वन्या मम तन्तनीति हृदये चिन्ता कथंतां (कथां कां)2 मुहुः ।
व्यक्तं ब्रूहि रमां विना व्रजवधूसक्तोऽसि तद्वर्ण्यतां
मुक्त्वा त्रीणि जगन्ति नित्यमपुषो वत्सानुतैतद्विभो3 ॥ 3 ॥
प्रस्तोष्यामि न चेद्गुणांस्तव हरे भिन्धां मदंहः कथं
क्षुद्रक्षत्रनिबर्हणं यदि पुमर्बूयां मनोज्ञं न तत् ।
तद्वक्ष्ये शिशुचेष्टितानि न रूषा क्षुभ्येत चेते मनो
गव्यस्तेयमुखैः तदात्वविगमाद्गूढैर्मदुदधाटितैः ॥ 4 ॥
आच्छाद्याकृतिमादिमां पितृमुदे भूत्वा शिशुः प्राकृतो
मातुर्द्रागयथायथं कुचतटीं चुम्बन्मृषोघत्तृषः ।
मुग्धैरर्भकनाटिकासु रुदितैर्नान्दिमिव प्रस्तुव-
न्नास्तां मे हृदि कोऽप्यकृत्रिमवचःसौभाग्यगर्वङ्कुरः ॥ 5 ॥
निद्रामुद्रितनेत्रमञ्जनलवश्रीमत्कपोलालिकं
निर्व्याजस्मितरुद्धमुग्धरुदितप्रारम्भबिम्बाधरम् ।
फालोपान्तमिलत्करद्वयमुधोन्मीलत्प्रणामाञ्जलिं
बालं भूषितडोलमीशमवसादालम्बते मे मनः ॥ 6 ॥
इहायाहीत्यञ्जत्करकमलताले पितृजने
विधून्वन्पादाब्जे मणिकटकनिक्काणसुभगम् ।
समुत्तिष्ठन्मूर्ध्ना भुजयुगलमुत्क्षिप्य च इसन्
हर्रिमध्येडोलं कृतविहृतिरास्तां मम हृदि ॥ 7 ॥
यशोदाया ग्रैवेयकमभिमृसन् कुड्मलितदृक्
पिबंस्तन्यं तृप्तः कुचकलशमापीड्य दशनैः ।
स्मिताङ्कूरक्षीरद्रववलनमुग्धाधरदलो
मुखं तस्याः पश्यन् वलतु हृदि मे वल्लवशिशुः ॥ 8 ॥
वलद्रग्रीवं साचीकृतविकचनिष्पन्दनयनं
निजच्छायां पश्यन् मणिखचितडोलान्तरगताम् ।
स्मितव्यक्ताङ्कूरद्दशनमुकुले वक्त्रकमले
निधायार्ङ्घ्रा चुम्बन् हरिरवतु गोपार्भकवपुः ॥ 9 ॥
अनुगतबलभद्रभद्रलीला-
व्यतिकरकर्बुरितस्वविभ्रमाणि ।
विदधतु कुशलं विचेष्टितानि
प्रतिपदमद्भुतगर्भितानि शौरेः ॥ 10 ॥
अमृतं यदवाप पूतना सा
प्रतिपाद्यापि हलाहलं हरे ते ।
किमसौ तव मुग्धताविलासः
परिणामः करूणागुणस्य किंस्वित् ॥ 11 ॥
शकटासुरताडनं हरे ते
चरणाब्जस्य शिरीषकोलस्य ।
किमु वल्लवसुन्दरीकठोर-
स्तनशैलार्पणसाहसस्य योग्या ॥ 12 ॥
अविद्याछ(द्)मानं सकृदपि नतानां जनिमतां
महावर्तं भित्वा दिशसि परमानन्दमपि यः ।
स एव त्वं नित्यं निजपदजुषां पुष्यसि मुदं
तृणावर्तच्छेदादूव्रज5 इति हरे का स्तुतिरतः ॥ 13 ॥
चरन्तं जानुभ्यां चिकितचकितापाङ्गवलनं
मिलत्काञ्जीघण्टाकलकलतुलाकोटिरणितम् ।
वृतं डिम्भैर्हुम्भारवमुखरितास्यैर्हृदि भजे
गुणावालं बालं कमपि कुहनागोपवपुषम् ॥ 14 ॥
दरविवलितग्रीवं साचीकृताक्षमुदञ्जित-
स्मितमनुकलं स्थत्वा स्थित्वा विलोक्य पितुर्मुखम् ।
अथ सरभसं धावन्पांसुच्छटाछुरीतालकः
स्फुरतु पुरतः शौरिर्जानुप्रचारकुतूहली ॥ 15 ॥
अंसोत्तंसितवक्त्रमुन्नतनतग्रीवास्खलत्कौस्तुभं
नृत्यत्कुण्डलमन्यशङ्किजघन(?)6 प्रेङ्खत्कटाक्षाञ्जलम् ।
स्वान्तं चुम्वति मे समस्तकघटीविन्यस्तहस्ताम्बुजं
कान्तं स्त्रस्तललंतिकारूचिमिलल्लम्बालकं बालकम् ॥ 16 ॥
अभजमनयोर्द्वित्रैरेव क्रमैः पदमीदृशं
किमिह भविता भाग्यं भूयस्तरैरिति हृष्यतः ।
स्फुटमधुकरे टृग्भिः शक्रस्य मे दिशतां मुदं
चरणकमले धात्रीमालम्ब्य संचरतो हरेः ॥ 17 ॥
उन्मीलन्नवनीतदानवचनैरुद्यघन्मुघाताण्डवै-
रन्तर्गूढदरस्मितैरनुकलं वष्टब्धमन्थानकैः ।
अक्षीणाञ्जनकल्पनैः प्ररुदितैरम्बां मुहुर्हर्षय-
न्नव्याजैर्दधिमन्थनोत्सुकधियं भव्याय भूयाद्विभुः ॥ 18 ॥
चकितचकितापाङ्गं चारुस्मितं चलकुण्डलं
जठरनिहितभ्रश्यद्धान्यस्फुरत्करसंपुटम् ।
शबरतरुणीं मुगधादालापैः फलान्यभियाचतो
वलभिदुपलश्यामं शौरेर्वपुर्हृदि भावये ॥ 19 ॥
सन्ध्येव प्रथमा सरोजमुकुले सामिस्फुटे षट्पदान्
यावद्रागवती न्यधत्त शबरी जम्बूफलान्यञ्जलो ।
तामुन्मीलदनन्तरत्रविभवां तावद्वितन्वन् निजैः
कृत्यैर्व्यञ्जितपारमेष्ठ्यविभवः क्रीडाशिशुः पातु नः ॥ 20 ॥
उपायमीकृत्य पुरा किराती फलानि रामेण कृता विमुक्ता ।
त्वया तु भुक्ता इत धान्यराशिर्वदान्यमौले रचिता समुक्ता ॥ 21 ॥
कृत्वोलूखलमूर्धनि त्रिचतुरान्पर्वक्रमेणार्भकान्
स्थित्वा तेषु विधाय दुग्धकलशे च्छिद्रं च शिक्यस्थिते ।
किञ्जित्कुञ्जितजानु भुग्रवलितग्रिवं दरोत्तानिते
वक्त्रे न्यस्य शयं पयांसि पिबते तस्मै नमः ॥ 22 ॥
निःश्रेणीनिवहेष्वभीशुषु तथा स्तम्भेषु कुमभेषु च
स्थित्वा शिक्यगतान् प्रगृझ कलशान् बालैः कृतक्ष्वेलितैः ।
अश्नद्धिर्दधिखण्डमण्डनवनीतादीन् पिबद्धिः पय-
श्चौर्यं संभृतशौर्य?सपै? जगतां मोदाय राघापतेः ॥ 23 ॥
दधिखण्डमण्डनवनीतकैतवा-
दमृतं हरे त्वैदन्यधीश्वरैः (?) ।
पृथुकैरभावि विबुधैः सुरारिता
रुदतीषु गोपजरतीष्वलक्ष्यत ॥ 24 ॥
उपलब्धदुग्धदधिशीत्करोत्करं
स्मितदिग्धमुग्धमधुराघराघरम्‌ ।
जरतीविडम्बनधुरम्घरैर्वृतं
पृथुकैः स्मरामि नवनीतहारिणम् ॥ 25 ॥
हरिणप्लुतव्कणितभूषणोत्करं
परिवृत्तट्टक्ततितरङ्गतव्रजम् ।
जरला(ठा)हला(ठा)द्ग्रहभतेन धावतः
कलये हरेः किंमपि तत्पलायितम् ॥ 26 ॥
समुद्घुष्टं रात्रौ रतमिदमिदंपूर्वमिति ते
वधूभिर्नाता त्वं तदनु सह केनापि भवनम् ।
तदेतत्किं बाले रतमिति नवोढाः प्रतिगृहं
निरून्धानः पायान्निगमविनुतो वल्लवविटः ॥ 27 ॥
आभीरार्भकयोः कयोश्चन मिथो लीलाजुषोः कन्दुका-
वन्तर्द्धाप्य हसन् विवादसमये राधां विलोक्यागताम् ।
तावेताविति तत्पयोधरतटादाकृष्य चेलाञ्जलं
तामाश्लेषणचुम्बनैरपरूषं कुर्वन् हरिः पातु नः ॥ 28 ॥
मुखररशनं त्वाद्वक्षोरूहं(नृत्यद्वक्षोरूहं)कलङ्ककण-
क्कणनसुभगं टृष्ट्वा निर्मथ्नतीं दधि राधिकाम् ।
स जयति कुचौ गृह्णन् पश्चादुपेक्ष्य विटाग्रणीः
सपदि विवशा चुम्बत्येनं विवृत्तमुखीव सा ॥ 29 ॥
आविर्भूतवतैव येन भवता सघस्तिरोधापितं
तन्नाभीसरसीरूहं स च मणिस्या किं च पञ्चायुधी ।
स त्वं पञ्चषहायनो व्रजवधूचेतांसि गव्यानि वा
मुष्णासीति विचित्रमत्र न मया किंचिद्विभो गण्यते ॥ 30 ॥
अत्ता त्वं सचराचरस्य जगतस्तृप्तेऽसि गव्यैर्मितै-
र्नित्यं श्रीकमनः कदाप्यधिगतैर्हृष्टोऽसि मुग्धारतैः ।
एवं नाम विरक्तिरेव महती दव त्वया प्रस्तुता
जारश्चोर इति प्रथा तु मुनिभिः पारिप्लवैः कल्पिता … 31 ॥
देवक्या समवातरो निजपदादेवावलग्गे स्वयं
सा तु त्वां शुमलग्ग एव सुषुवे देवी तथाप्यात्मजम् ।
तेन स्तेनविटाग्रणीरिती भवान् रव्यतश्चरित्रं तु ते
धन्यं पुण्यमिति स्फुटं बुधजनैः वीथीषु जोधुष्यते ॥ 32 ॥
कथमर्जुनभञ्जनं हरे त्वां
कथयन्त्यर्जुनमित्रमित्यभुज्ञाः ।
अकि मर्णसुखप्रदां कथं त्वां-
मधिकृत्य प्रक्षि (थि? हि?) तां निशम्य वाचम्10 ॥ 33 ॥
यमलार्जुबन्धक्तये
कृतबन्धस्त्वमुलूखले विभो ।
स्वयमप्यनुभूय नः कृता-
न्यवितासीति विनिश्चितं मया ॥ 34 ॥
क्कचन कृतनियुद्धं क्कापि गर्जानुबद्धं
क्कचिदुपचितनृत्तं कुत्रचिद्गीतयुक्तम् ।
कलयतु कुशलं मे क्रान्तवृन्दावनान्तं
प्रथितपृथुकलौल्यं पाशुपाल्यं मुरारेः ॥ 35 ॥
क्कचन क्षपयन्नघं हरे
भवसि त्वं यदि वैभवं न ते ।
सततक्षपिताघसंहते-
स्तवनाम्नो महिमा कियान्वद ॥ 36 ॥
सितांशुनिभमोदनं करतले दधह्दाधिकं
तरङ्गपवनोच्चलच्चिकुरबर्हञ्जलम् ।
कलिन्दतनयातटे कृतसजग्धि गोपार्भकैः
स्मतप्रचुरसंकथं किमपि भावये दैवतम् ॥ 37 ॥
क्कचन भवता साकं सत्राशनैरिहविरश्नता
सदधि मधुरं भक्तं युक्तोपदंशपरिष्क्रयंम् ।
(तव) सहचरैर्लब्धंगोतपैर्हरे दुपक्रमं
किमपि महितं सोभाग्यं तहूजस्य विवर्घताम् ॥ 38 ॥
चतुराननतां वहन् विधिः
किमियेष प्रकृतिं चतुष्पदाम् ।
11परथा विदधीत वञ्चनां
त्वयि देव प्रयते12 न वा (नवां ?) कथम् ॥ 39 ॥
मै (मयि) वत्स चतुर्मुखेत्यसौ यदते (दयते) प्रागिव नैतदुत्सुकः13 ।
इति वत्सगणं गवा विधिर्विदधे देव तिरोहितं तव ॥ 40 ॥
मुधाकर्तुं यत्नं सरसिजभुवो गोपसुट्टशां
प्रियाकर्तुं च त्वं तनय इव यासां समभवः ।
विलासैः पञ्जास्त्रप्रधनविवशास्ता विरचयन्‌
गति(:) स्तव्य(:)सेव्यः कथमसि मुरारे त्रिजगताम् ॥ 41 ॥
किंचित्किंचिदुपात्तनर्त्तनकलाकिंमीरितभ्रूनतं(लतं)
पञ्जास्त्रोदयशिल्पनकृतप्रागल्भ्यनेत्राञ्जलम् ।
किंकुर्वाणवधूकटाक्षवलनैः क्रीडां दधद्विभ्रमै-
रङ्कूरन्नवयोवनं सुररिपोरङ्गं मुहुर्भावये ॥ 42 ॥
प्रगल्भमन्दस्मितकन्दलश्रीः
प्ररिप्सितभ्रूलतिकाविलासः ।
पायादपायात्परमस्य पुंसो
वलां(वलन्)कटाक्षे व्रजसुन्दरीषु ॥ 43 ॥
मदनगर्वमलिम्लूचविभ्रमो
वदनखर्वितपर्वसुधाकरः ।
व्रजवधूरतिशिक्षणदक्षिणो
भवान्नाथो गोपार्भक इति विटश्चोर इति वा
न दूये किंत्वेषा श्रुतिमकुटभूषीयितपदा ।
सुधासुन्धोः कन्या शुभविभवधन्या तव कृते
व्रजस्त्रीसापत्न्यं वहतु जननी नः कथमिति ॥ 45 ॥
कथमिव हरे दैत्यश्चाघातनिरर्गल-
प्रसुमरभुजस्थेमा कोमार एव भवम्भवान् ।
कुसुमविशिखत्रस्ते यद्वा ननु प्रथितं वचः
पटुरपि जनः पुत्रादिच्छेत्पराजयमित्यदः ॥ 46 ॥
सापत्रपाणि सदरस्मितकोरकाणि
सामर्षका(क ?)न्दल16निशातविलोकितानि ।
मुग्धानि पान्तु भवता मुषितांशुकाना-
मब्जाक्षगोपसुह्शामनुनाथितानि ॥ 47 ॥
किंचिच्कुंचितबाहुयुगममवशप्रश्लिष्यदूरूद्वयं
किंचोघत्किलिकिञ्जितं परिणमन्मन्दाक्षलोलेक्षणम् ।
आप्तुं स्वं पटवर्गमञ्जलिकृतामाभीरवामभ्रुवा-
मङ्गे क्काप्यनुरागिणी विजयतामालोकलीला हरेः ॥ 48 ॥
वहति महति मूर्त्तिः काचिह्दिगम्बरतां मम
प्रथितमहिमा पौत्रो जातो गजाजिनभाजनम् ।
इति न भवतश्चिन्चा किंतावदभ्युदिता हरे-
र्व्रजमृगट्टशां मुष्णंश्चेलान्यदाछ पुनरेव यत् ॥ 49 ॥
मुखोद्वान्तक्ष्वेलानलबहुलधूम्यायवनिके
फणारङ्गे रत्रप्रकरकरदीपे फणिपतेः ।
त्वययरब्धं मध्येयसुनमरविन्दाक्ष नटनं
तदव्यादव्याजस्फटरटितकल्लोलपटहम् ॥ 50 ॥
विधातुकामेन कलक्रीडनकेलिलालिताम् ।
भुजङ्गवृत्तेन विवासितस्त्वया
परो भुजंग(:) प्रविजानता नयम् ॥ 51 ॥
त्वया युध्यन् गोवर्धनविधृतिदक्षेण विजित-
स्तृणं खादन् शक्रो दनुजमथन त्रात इति किम् ।
तथा बद्धस्पर्द्धस्तव वपुषि तत्कान्तिविजिता-
स्तृणं गृह्णन्त्यघाप्यधिगतभयास्तस्य मणयः ॥ 52 ॥
वपुषा तव नीलरोचिषा
विजिताः शक्रमपि श्रिता रूषा ।
पुनरीश जितास्त्वया धना
बलवद्वैरिणि कुत्र जैत्रता ॥ 53 ॥
हरौ धूर्ते धृत्वा धरणिधरमप्युन्नतकुचे
तवेदं शिक्षायाः फलमिति वदत्यात्तहसिते ।
गुरून्पार्श्रे ट्टष्टा नमितवदना तं सितशिखैः
कटाक्षैर्मिन्दाना क्षिपतु मम राधा भवभयम् ॥ 54 ॥
अधरबिसुधारसमाधुरी-
महितवेणुनिनादविनोदिनम् ।
निगमगन्धिनजाङिघ्रसरोरूहं
कमपि गोपशिशुं कलये हृदि ॥ 55 ॥
अधरपल्लवफुल्लतरस्मुत-
स्तबकजातमरन्दधुरां दधौ ।
जगदि(ति) यन्मुरलीकलकूजितं
जयति कोऽपि स गोपकुमारकः ॥ 56 ॥
प्रसूनेषु क्रडा कथमनुदयत्पल्लवकथे
मदारामे कामं चल तरणिजायासितटवनम् ।
इति भ्रूसंज्ञाभिर्मदनकदनाय त्वरयते
ब्रुवाणा संकेतं स्पुरतु हृदि राधा मधुभिदे ॥ 57 ॥
चेण्यां भोगाभिलाषी धृतविपुलतमःस्थेमभावः कचौघे-
ष्वक्ष्णोर्लक्ष्यानिमेषस्थितिरधरदले पल्लवोल्लासलोलः ।
उद्धूताहार्यलीलः पृथुनि कुचयुगे स्तमभवानूरूकाण्डे
राधासंसक्तट्टष्टेः कलयतु कुशलं कैटभारेः कटाक्षः ॥ 58 ॥
रहस्यारव्यीव स्पृशसि कबरीं चुम्बसि मुखं
कुचौ हारान्पश्यन्निव लिखसि गाढं नखमुखैः ।
इति क्रुद्धेवोक्त्वा सपदि करजाग्रेण तुदती
कपोलं कंसारेः प्रतिफलतु राधा मम हृदि ॥ 59 ॥
उचितं दधतोर्गिरीशतां
ननु राधे शशिखण्डमण्डनम् ।
इति तां कुचयोर्लिखन्नखै-
रवताद्वल्लवपल्लवः स वः ॥ 60 ॥
धृतिर्या मन्थाद्रेर्यकपि च सुधाया वितरणं
श्रुतीनां च त्राणं तदिह मम राधे फलति ते ।
कुचाश्लेषो बिम्बाधरमधुरसात्पिर्गलरव-
प्रपंचश्चेत्येवं हरिरवतु चाटूक्तिनिपुणः ॥ 61 ॥
जलक्रीडास्वेवं न कथमिति विस्त्रस्य वद(स)नं
समारब्धे पुंस्त्वे करकलितवक्षोजयुगलः ।
मुहुर्हर्षेत्कर्षत्कथितनिजगोवर्द्धनधृति-
र्हरिः पायाद्राधामदनकदनायत्तहृदयः ॥ 62 ॥
महति भवति वंशे जाता मनोहरमध्यमा22
(सु)ललितगुणग्रामा23 रागोज्ज्वला परिचुम्ब्यते ।
इति निगदतः कांचित्स्वप्ने पुनातु मुरद्विषः
सपदि मुरलित्युक्तं राधाभयाकुलचेतसः ॥ 63 ॥
वन्दे हरिमणिनीलं
वंशीस्वनलोलवल्लवीजालम् ।
वञ्चितभवभयचरणं
किंचन राधापयोधराभरणम् ॥ 64 ॥
वपुरञ्जनरूचिभ़ञ्जन-
मतिख़़ञ्जन मुन्नतभ्रु विपुलाक्षम् ।
तव तल्लवविटतल्लज-
मरूदुल्ललदलकबर्हमस्तु हृदि ॥ 65 ॥
करधृतलीलायष्टिः
काञ्जीतटघटितवेणुराघत्ताम् ।
गुञ्जाबर्हविभूषः
कुतुकं मयि गोपकामिनीकमनः ॥ 66 ॥
नासादरहप्ता(हासा ?)क्षिविकासाभिनुताना-
मासान्द्रह्ग्ग(ह्ग ?)सारसुधासारहसानाम् ।
आसादितरासादिविलासानुभवानां
कासामपि भासामिह दासा वयमेते ॥ 67 ॥
मायाविभुर्निजसमाया गुणेषु सुषमाया विलासभवनं
म्याशिशुस्तरूणिमायासितव्रजसमायातगोपवनितः ।
कायासितच्छविनिकायाञ्जतात्तकनकायामि दिव्यवसनः
पायादिमं जनमपायादभङ्गुरकृपाया निधिर्निरवधिः ॥ 68 ॥
जयति पृथुकक्रिडाव्याजावधूतमहासुरः
श्रियमधिगतः सत्या रूक्मिण्युदञ्जतविभ्रमाम् ।
प्रणतजनतारक्षादक्षश्चिरंतनभारति-
(विनुत ?)महिमस्थेमा सोमान्मया(न्वया)भरणं हरिः ॥ 69 ॥
वसुदेवपुण्यपण्यं
व्रजवनिताहृदयहारितारूण्यम् ।
जयति निगमान्तगण्यं
जगति महः किंचिदमितलावाण्यम् ॥ 70 ॥
श्रीरङ्गोत्सङ्गसङ्गि श्रितजनदुरितक्षेपद7स्ववीक्षं
भद्रा निद्रालुमुद्रां दघदपि जगतां रक्षणे जगरूकम् ।
लक्ष्मीलाक्षाङ्घ्रिसाक्षात्कृतरसमसमं ज्योतिरध्यक्षयन्तः
सन्तस्तद्ध्यानाधारापरिचटनादुल्लसन्तो जयन्ति ॥ 71 ॥
इति बुक्कपट्टणकुलाम्बुधीन्दुना
तनयेन तातगुरूवेङ्कटाम्बयोः ।
पदवाक्यमानपदवीपटीयसः
सहजेन वेङ्कटगुरोः कृतक्रतोः ॥ 72 ॥
कृतिरण्णयार्यविदुषा विनिर्मिता
स्तुतिरीशतुः श्रुतिसुधातरङ्गणी ।
कृतिनां मुदेऽस्तु निरवघमाधुरी-
सुषमाधुरीणपदबन्धबन्धुरा ॥ 73 ॥

॥ ईषणानिवृत्तिशिवबोधिनी ॥
वदामि सरणिं सुखप्रणयिनीं सतां संमतां
सदा सवितुरान्तरं स्मरहरं समस्तेश्वरम् ।
निरञ्जनमनामयं निटिललोचनं निष्कलं
निरन्तरसुखाप्तयेऽनिशमुपास्व नित्यं शिवम् ॥ 1 ॥
वदामि हितमादराच्छृणु सरवे सरवेदान्सदा-
श्रितान्विदधतेऽखिलान्विघटयन्ति ये चामृतम् ।
त्यजाशु विषयान्न संश्रय वचित्रविद्वेषिणो
निरञ्जनपरामृतेश्वरमुपास्व मृत्युञ्जयम् ॥ 2 ॥
निवेशय शिवे मनोऽधिगमितस्वभावे मुहुः
प्रवेशय न वा भवे सुविभवेऽप्यभावाश्रये ।
सदाशिवसतीं मुदा भवनिदाघकाम्बिनीं
सदा भज हृदा मतिं किल ददाति पूर्णं शिवम् ॥ 3 ॥
अशेषवियाः कदाचिदुपयान्ति चेदात्मनो-
पभोक्तुमसि किं क्षमो जड तथापि किं तृप्यसि ।
प्रभूतहविषा विभावसुरिवेदमालोच्य सं-
त्यजाशु किमु खिद्यसे तव निवेद्यते यद्धितम् ॥ 4 ॥
दृढाङ्गशुभलक्षणानिह परीक्ष्य हि क्रीणते
विनश्वरदशाजुषः सुपुरूषा न चाश्वान् घनैः ।
वियोजननिसर्गकं विषयजालमालोकय-
न्नपीह ममतां जिहाससि न तत्र चित्रं न्विदम् ॥ 5 ॥
प्रकाममचला अपि प्रचलिता अमी पश्य तान्
शिरीषमृदुलं चिरं किमु शरीरकं स्थास्यति ।
मुधा कलुषमाचरन्ननु रतोऽसि तत्पोषणे
विहाय तनुवासनां व्रज सुधांशुचूङ शिवम् ॥ 6 ॥
कृता उपकृतीर्बहूस्तव परिग्रहा दुर्ग्रहा
स्मरेयुरथवा तनुं क्कचिदुपक्रियां तन्वते ।
क्षणद्युतिवदुज्जवलान् क्षणिकभङ्गसङ्गान्मुहु-
र्निवेश्य हृदि तान् सुखीभव भवाब्धिसेतुं भज ॥ 7 ॥
भवन्ति विभवे सति प्रकटितस्वरागान्वय-
प्रथातनुपरिग्रहाः कलितविग्रहा बन्धवः ।
निरीक्ष्य बत निस्वतां निधुम(व)ति स्वतां ते हि तान्
विहाय विजितान्तकं स्मर सदा सुबन्धुं शिवम् ॥ 8 ॥
प्रियां हरति संभवन् सुभगयोवनध्वंसना-
दिनाथ च धनादिकं वितरणार्चनासाधनम् ।
प्रसूजनकयोरसूनपि हरेद्व्यसुर्हन्त यः
सुतो न सुखदस्ततो जह जहाहि तद्वासनाम् ॥ 9 ॥
घनव्रजसमार्जने बहुघनेऽप्यपर्याप्तितो
बत व्ययविनाशयोस्तदवनेऽपि दुःखं सदा ।
धनं निधनसाध्वसं किमु हरत्यसंस्व्यं च त-
ज्जहीहि घनवासनां निघनपत्युपास्तिं कुरू ॥ 10 ॥
सुखं सुतनुसंगजं क्षणिकमङ्ग मत्वा ध्रुवं
प्रतीक्ष्य तद्विहतितो विरज्यसि हृदा मुघा खिघसे
मुहुः प्रयतसे ततस्त्यज सुखं लभस्वाच्युतम् ॥ 11 ॥
वधूषु सुखमस्ति किं जगति पश्य कंडूप्रति-
क्रियोपमरतासु शुक्लपरुहराभूषु ध्रुवम् ।
अहो परिणतो मनोविरसतां च बीभत्सतां
विचिन्तयसि चेत्तनोर्विशसि मुक्तिमार्गे शिवे ॥ 12 ॥
मुहुस्त्वमुपभुक्तवान्मधुरकोमलाङ्गीं समु-
त्सुकां सुरसिकां स्पृशन्विदघतीं निजस्पर्शनम् ।
रतेरनुपदंसुखंलगति किन्नु तद्भुक्तव-
त्तवालमिति भाति वा जहि दुरन्तकातेषणाम् ॥ 13 ॥
मुदं वहसि सुप्रियाभिसरणप्रवृत्यादिना-
प्यहो तदनुबन्धतस्तदनुषङ्गिताविभ्रमात् ।
मनोरथगतिर्वृथा कलय मन्मथारेस्तया
गतक्षयभवव्यथाः शिवपथाञ्जिताः संकथाः ॥ 14 ॥
इयं वामासक्ता त्वयि यदि च लब्धा किमु दिशे-
द्यथेष्टं संभोगं सुचिरमुपभुक्तापि कलयेत् ।
न संतृप्तिं नित्याप्यहह नहि ते कामशमनी
विमृश्येदं विद्वन्भज भज विरागं सुखकरम् ॥ 15 ॥
विवेकविमुखः स्वमेहनजुहूस्थरेतोहविः
प्रियासुतनुवेदिकाकलितयोनिकुण्डानले ।
जुहोषि यदि ते भवेन्निरयनाकभोगोद्यतो(झतो)
विहाय रतिवासनां विहरणं शिवाग्नौ कुरू ॥ 16 ॥
अलभ्यसुभगाङ्गनावपुषि टृङ्निपीते परं
टृशा स्वमनसा निमज्जसि च तत्र सर्वात्मना ।
विपाकविरसे हृदा रमसि नित्यलब्धे प्रिये
कुतो न रमसे तथा समरसे शिवे स्वात्मनि ॥ 17 ॥
कदाचिदुपलभ्यते जगति दुर्लभं वस्तु य-
च्चिरं मनसि लिप्सितं समुपभुज्य तद्विस्मर ।
निवेशयसि चेत्सदा हृदि हितां दुरन्तेषणां
समर्पयति साऽसुखं जड जहीही तां वासनाम् ॥ 18 ॥
रमस्व सुरसे सुखे जलजपर्णजालोच्चल-
ज्जलाणुतरले जगद्दरसुखे रिरंसा यदि ।
प्रभुक्तचरसौख्यसंस्मरणखेदमुज्झन्सता
सुखेन सुमनोजनोममनोविनोदं कुरू ॥ 19 ॥
कुतश्चिदसुखात्सुखासुखमये समुद्भावितात्
न मानुषभवे भवेः कृतविषादपोष(:)स्वयम् ।
विलोक्य भुवने मुहुर्विहतसौख्यदुःखाघिकान्
विनिश्चनुतरां तनु स्वमसुखं सुखं भावय ॥ 20 ॥
अलभ्यमनुरज्यसे किमिति वस्तु तच्चिन्तया-
नया त(स)मनुबध्यसेऽतनुमनेहसं मानसे ।
यदत्र लभसे यदप्युपगतोऽसि तच्छीलय-
न्नदभ्रमिति निर्वृतिं कलय दभ्रगोष्ठीपतिम् ॥ 21 ॥
प्रतिप्रहरमह्गसन्धिकलनं परिस्त्रंसते
बतायुरतनु प्रतिश्चसितमाशु संक्षीयते ।
अपैति सुकृतोत्करः सुखलवोपभोगेऽप्यघं
म(प्र)तिक्रियमिहैघते तत उपास्व नित्यं शिवम् ॥ 22 ॥
वधूतनुतनूजनुर्विषयबान्धवार्थेणा-
निवृत्तिशिवबोधिनीं दशकयुग्मपद्यावलीम् ।
गृहाण चरणाम्बुजे स्रजमिवार्पितां बिभ्रता-
मिमां सुमनसां सतामनघ देझनन्तं शिवम् ॥ 23 ॥

॥ ऋतुवर्णनम् ॥
दुर्लभकृतम्
[शरद्वर्णनम्]
श्रीखण्डपङ्काङ्कितपङ्कजोत्करैः
करैश्च कर्पूरपरागपाण्ङुरैः ।
स्पृशन्ति कान्तं स्तबकैश्च यावकैः
घनात्यये स्वं प्रमदा मदालसाः ॥ 1 ॥
विधुन्तुदभ्रान्तिभरेण भासुरैः
करैः कुठारैरिव बाधितुं तमः ।
विनोदयन्कामिमनो मनोभवै-
र्विहायसा संचरतीह चन्द्रमाः ॥ 2 ॥
बन्धूकसौगन्धिकपङ्कजोत्पलैः
प्रकाशिसत्कोकनदैः सकैरवैः ।
हंसैर्भ्रमद्भृङ्गभरैर्मनो नृणां
हुदा हरन्ति प्रसभं विचित्रिताः ॥ 3 ॥

विकाशिराशोज्ज्वलवस्त्रभूषिता
तथैव सप्तच्छदगुच्छगुम्फिता ।
सुगन्धिसत्पङ्कजलोचनानना
वनावनीयं रमणीव राजते ॥ 5 ॥
मायूरमारात्यनुयं वितन्वतः
स्वरं शरल्लब्धबलैः स्वनिस्वनैः ।
विलोक्य हंसांस्तरतो जलाशया-
न्समुत्सुकं कस्य मनो न जायते ॥ 6 ॥
विचित्रवीणोत्थितमूर्च्छनाचणाः
शरत्सुधांश्चमबुकणास्तथाङ्गनाः
सुचामरान्दोलनलोलकुण्डलाः
कपोलपालास्‌फुर दिन्दुमण्डलाः ॥ 7 ॥
सितोत्पलाढ्यानि पयांसि चन्‌दनं
सकुङ्कुमं पङ्कजमञ्जि मन्दिरम् ।
सुसूक्ष्मवासांसि निशाः सचन्द्रिकाः
सरवे सुखायेह भवन्ति कामिनाम् ॥ 8 ॥
अन्तः सुशीतं बहि(रूष्ण)मुत्तमं
सुहंसरावं कमनीयपङ्कजम् ।
विराजते मानसमम्बुदात्यये
प्रसन्नमन्तर्मुनिमानसं यथा ॥ 9 ॥
प्रफुल्लजातीकुसुसैः शिरोरूहा-
नुदारमुक्ताभरणैः स्तनान्तरम् ।
नितम्बब्म्बं मणिमेखलागुणै-
र्विभूषयन्ति प्रमदाः सुखप्रदाः ॥ 10 ॥
मुग्धस्मिताः स्फीतसुधांशसन्निभं
शुभं वसाना वसनं सुचन्दनम् ।
सचन्द्रिकायामभिसारिकाः स्त्रियः
प्रियानुरागान्निशि यान्ति सत्वरम् ॥ 11 ॥
मन्दं समान्दोलितपङ्कजाशयाः
स्थलारविन्दावि- गन्धवाहिनः ।
स्वेदच्छिदो वान्ति मुदे विलासिनां
रते हृतान्तःकरणाः समीरणाः ॥ 12 ॥
सचन्द्रलेखं कमनीयतारकं
सुमीनरूपं नितरां मनोहरम् ।
नभो हृदाम्भो नृपतेर्वितानकं
विराजतेऽद्य त्रितयं समानकम् ॥ 13 ॥
समुद्रतीरस्थितरत्नसंगता-
स्तथैव मन्थाचलश्रृङ्गसंस्थिताः ।
स्वात्यां धनैरूज्झिततोयविप्रुषः
पिबन्ति मुक्तोद्गिरणाय शुक्तयः ॥ 14 ॥
कादम्बकारण्डवचक्रसारसै
रसद्भिरूच्चैरूपचक्रहंसकैः ।
सुशोभितान्तःपुलिना नृणां मनो
हरन्ति नद्यस्तरलैस्तरङ्गकैः ॥ 15 ॥
जपाधरा खञ्जनमञ्जुलोचना
प्रफुल्लजातीकुसुमोत्कराशया ।
विराजते पुष्पविहासभासुरा
वधूरिवाद्यत्विकपुष्पवाटिका ॥ 16 ॥
सुबद्धसोपानविशुद्धवापिका
तटस्थमेघोन्मुखचातकाङ्कता ।
स्थलारविन्दोद्गतगन्धसंगता
विलोक्यते पुण्यवताद्य वाटिका ॥ 17 ॥
मुक्तायुतौ रक्तमणिप्रकाशितौ
सपझरागग्रथितेन्द्रनीलकौ ।
निवेशयन्त्युत्पलकोरकप्रभौ
सुकर्णयोः काञ्जनकुण्डलौ स्त्रियः ॥ 18 ॥
ताम्बूलकर्पूरसुपूरुतानना
नविननीलोत्पलपत्रलोचनाः
अभ्यङ्गतस्तीक्ष्णकटाक्षमोचनाः
प्रियं व्रजन्ति प्रमदाः सुयौवनाः ॥ 19 ॥
इयमतिशयरम्या चारूनक्षत्रमाला
विकचकुसुमहासा पक्कबिम्बादरोष्ठी ।
दिशतु रूचिरवाचा दुर्लभोक्तानुरक्ता
शरदतिमुदमुच्चैः कामिनां कामिनीव ॥ 20 ॥
॥ इति श्रीदुर्लमकृते ऋतुवर्णने शरद्वर्णनं नाम प्रथमः सर्गः ॥
[ हेमन्तवर्णनम् ]
प्रफुल्लपुन्नागपरागरागिणां
कस्तूरिकाकुङ्कुमपङ्कशालिनाम् ।
तथैव कालागरूसत्त्वसेविनां
विलासिनामागत एष हैमनः ॥ 1 ॥
उद्भिन्ननीलोत्पलभूषितानि
वितासिलोध्रैरूपशेभितानि ।
फुल्लत्प्रियङ्गूनि सुभूधराणि
वनानिहैमानि मनोहराणि ॥ 2 ॥
हंसा नदद्बालमरालमालिनो
निमज्य चोन्मज्य मृणालभोजिनः ।
सरांसि सत्कौञ्जनिनादितानि
मनांसि यूनां सुखयन्ति कामिनाम् ॥ 3 ॥
विधूप्य कालागरूभिः शिरोरूहां-
स्तथैव सत्कुङ्कुमपङ्कचर्चिताः ।
ताम्बूलरागारूण वक्त्रपङ्कजा
व्रजन्ति काश्चिद्रमणं सुलोचनाः ॥ 4 ॥
सुगन्धिपुष्पोद्ग्रथितैकवेणिका
विचित्रलेखालतशोभितानना ।
पट्टाम्बराच्छादितमन्दिरेऽपरा
विलोकते कान्तपथं सखीजनैः ॥ 5 ॥
उक्त(ष्ण) स्वभावैर्लघुभिः समावृता
वराम्बरैः कापि कलाप कोमलैः ।
सन्नाझमाना नितरां सखीजनैः
सुदं तनोति प्रियमानसेऽपरा ॥ 6 ॥
हंसस्वनस्पर्द्धिसुनृपुरस्वनै-
र्वितन्वती कान्तसुदं मदोन्मदा ।
मणिप्रभोद्भासितक्त्रपङ्कजा
विलोकते सस्मितमङ्गनाऽपरा ॥ 7 ॥
निचोलमानिलमनेकमौक्तिक-
स्फुरत्प्रभादीपशिखाविभासितम् ।
निघाय देहे वरकाञ्जनप्रभे
प्रयाति काचिन्निजमूलमन्दिरम् (रात् ?) ॥ 8 ॥
गृहे हिमानीशिखरोत्थमारूतै-
र्विवर्जिते धूमरजोभिरूद्धतैः ।
रतावसानेऽपि कटाक्षमोक्षणैः
प्रियं प्रिया कापि करोति सोत्सुकम् ॥ 9 ॥
भृङ्गाङ्गनोद्गीतकपोल(भित्त ?)यः
क्षरन्मदोत्सिक्तघरा लस(ल ?)त्कराः ।
विभूषयन्तीह महीभृतं गजा
रजोभिरावर्जितमार्जनक्रमाः ॥ 10 ॥
उत्खातवप्रोद्गतधूलिधूसराः
समीरितोच्छ्वासविर्णपल्लवाः ।
उत्क्षिप्तपुच्छाः कृतभीमनिस्वना
भ्रमन्ति मत्ता महिषा विषाणिनः ॥ 11 ॥
प्रियाभिसारोद्यतकामिनीपथ-
प्रपातसंजातकलङ्कलाञ्छितः ।
वृथापराधाम्बुजदाहदूषितो
हिमे हिमांशुर्न सुखाय जायते ॥ 12 ॥
सूर्येपलोत्क्षिप्तदिवाकरांषुवः
पुराणमाध्वीकसुशर्करासवः ।
प्रवेणिकाच्छादनमङ्गणेऽङ्गनां
काश्मीरजातां सुखयन्ति हैमने ॥ 13 ॥
निश्सु सद्यः श्रुतकोकनिस्वनां
हठात्समालिङ्ग्नतत्परां प्रिये ।
कस्तूरिकालेखवशेषमण्डितां
हिमे हसन्ती हसतीव खण्डिताम् ॥ 14 ॥
निशा विशाला सुरतक्षमा रमा
समागमो रक्तमणिप्रकाशिताः ।
गृहं सुकालागुरूधूमधूपितं
हिमागमे यामन्ति जनस्य सेव्यताम् ॥ 15 ॥
अकालमेगोदयदूषिते दिने
नशीकरे छन्नकरे दिवाकरे ।
अङ्गाररत्रद्युतिभिर्धरागृहे
हिमं हसन्तीव हिमागमेऽङ्गनाः ॥ 16 ॥
धम्मिल्लबन्धोतपाणिपङ्कजा
सुलोलशोणायतलोचनाञ्जिता ।
प्रियान्तिकात् सिंहविलोकनक्रमैः
प्रयाति काचिन्निजमूलमन्दिरम् ॥ 17 ॥
इति विविधविलासः सर्वसस्यैरूपेतः
प्रमुदितगजवृन्दः फुलालनीलारविन्दः ।
भहुमृगरमणीयग्रामसीमान्तरोऽयं
प्रभवतु हीमहासो हैमनो नः सुखाय ॥ 18 ॥
॥ इति श्रीदुर्लभकृते ऋतुवर्णने हेमन्तवर्णनं नाम द्वितीयः स्वर्गः ॥
[ शिशिरवर्णनम् ]
रोमाञ्जकम्पस्वरमेदसीत्कृती-
स्तथैव वैवर्ण्यजडत्वसाश्रुताः ।
कुर्वन्वधृनामधरं च सक्षतं
विलासिवेषः शिशिरः समागतः ॥ 1 ॥
महीगृहान्तश्चतां महीभृतां
मणिप्रकाशोज्ज्वलकामिनीजनैः ।
अङ्गारतापोष्मयुतैः सुसंगतैः
प्रतीपरूपः शिशिरो न जायते ॥ 2 ॥
सुगन्धितैलान्वितपाणिपल्लवैः
सुवर्णकर्णभरणाः सुयौवनाः ।
संवाहयन्तीह पतिं वराङ्गना
मणिप्रभाभासितचारूकङ्गणाः ॥ 3 ॥
काचिद्भ्रङ्गभयेन भामिनी
तिलोद्भवैर्गन्धफलीसुवासितैः ।
अभीक्ष्णशोऽभ्यज्य करान्तदर्पणा
सखीजनैस्साघयते शिरोरूहान् ॥ 4 ॥
काचिच्च यूथा(थी ?) कुसुमाधिवासितैः
करोति केशान्नितरां मनोहरान् ।
तैलैस्तथान्या सुमनासमानकै
र्मनोरमाऽन्या मदयन्तिकोद्भवैः ॥ 5 ॥
विचित्रकौशेयकृतैः कुशेशयैः
अशितलैः शितभयादिवाङ्गनाः ।
विमुच्य सुक्तामणिहेमकिङ्गिणीं
नितम्बबिम्बाभरणानि कुर्वते ॥ 6 ॥
निशासु दिर्घसु रतप्रपीडिता
विमुक्तधम्मिल्लकलापशोभिता ।
कषायितोन्निद्रचकोरलोचना
प्रयाति काचिद्भवनं क्षपाक्षये ॥ 7 ॥
कौशेयकूर्पासलसत्पयोधरा
हिरण्यवर्णाम्बरसंवृतापरा ।
ताम्बूलदानाधरचुम्बनादिभि-
र्विभावयत्यत्र पतिं रहःस्थिता ॥ 8 ॥
प्रसूनसत्त्वैर्मधुसिक्थसंयुतै-
र्विशिद्धकर्पूरपरागवासितैः ।
प्रवातभीत्या(घ)रवर्म शर्मदं
करोति काचिद्वनितार्यमोदय् ॥ 9 ॥
बालाः लसद्बालमरालगामिनीः
दृढंसमालिह्गय कुरङ्गलोचनीः ।
ताम्बूलपूगीफलपूरिताननाः
निहत्य शितं सुखिनोऽत्र शेरते ॥ 10 ॥
कामाग्रितप्तोन्नतपीवरस्तनै-
स्तुषारभीत्येव रतोत्सवे पतिम् ।
निरस्य मिक्तामणिहारमङ्गनाः
परिष्वजन्ते नितरां निरन्तरम् ॥ 11 ॥
न दन्तरत्नातिविमार्जनक्षमाः
न वापि सत्कुङ्कुमपङ्कचर्चिताः ।
न चन्द्रहासासु निशासु सस्पृहाः
भवन्ति नार्यः शिसिरे सशिकरे ॥ 12 ॥
तारूण्यपीनोष्णतरौ सुनिर्मलौ
नखक्षतार्द्धेन्दुविलेखभृषितौ ।
प्रियस्य काचिद्रजनीषु नायिका
गलोपधानाय कुचौ प्रयच्छति ॥ 13 ॥
अट्टालिकाकुट्टिमपट्टिकाङ्गणे
सुखोपविष्टा सुखदे दिवाकरे ।
सुदर्पणान्तः प्रतिबिम्बितापरा
वरा(ञ्ज)नै रञ्जयतीह लोचने ॥ 14 ॥
तुषारदग्धाम्बुजिनी समुत्थितं
निशाक्षये धूममिवाम्बरोन्मुखम् ।
विलोक्य रोषारूणमित्रमण्डलं
वमन्ति बबष्पं शिशिरे महाह्दाः ॥ 15 ॥
मुक्तामणिद्योतितचूर्णकुन्तला
ललाटपट्टार्पितनागसम्भवा ।
सत्कुङ्कुमारक्तकपोलमण्डला
हेलाबलाद्भावयतेऽपरा प्रियम् ॥ 16 ॥
गाढं समालिंग(न)तत्परापरा
वराङ्ग(ना) कान्तनिपीडिताघरा ।
प्रकामकामालिजनं निरीक्षणै-
र्गृहात्समुत्सारयतीह सस्मितैः ॥ 17 ॥
सुशिक्षिता कापि सखीजनैर्भृशं
प्रियेऽपराधिन्यपि कोमलाशया ।
तदग्रतोऽल्पानुनयेन मानिनी
करोति हासं सहसेह भासुरम् ॥ 18 ॥
विचित्रचित्रावलिमण्डिताम्बरैः
शरीरमाच्छाद्य सुगुप्तभूषणा ।
विलासिवेषा करसक्तकन्दुका
तनोति काचिन्निजकान्तवञ्जनाम् ॥ 19 ॥
अतिललितविहारः कान्तनीहारहारः
शिशिरतरसमीरो भव्यताडागनीरः ।
युवजनरमणीयो योषितां वाञ्छनीयो
वितरतु सुखमुच्चैः शैशिरः काल एषः ॥ 20 ॥
॥ इति श्रीदुर्लभकृते ऋतुवर्णनं नाम तृतीयः सर्गः ॥
[ वसन्तवर्णनम् ]
चन्द्रातपत्रोऽम्बुजपुञ्जचामरः
पिकस्वराविष्कृतपञ्जनिस्वनः ।
मत्तालिवैतालिकगीरगर्वितः
समागतो भूपतिवद्वसन्तकः ॥ 1 ॥
प्रफुल्लकुन्दैरिह पुष्पवाटिका
करोति वृष्टिं कमलैश्च वापिका ।
वनी विमुक्तैरतिमुक्तगिच्छकै-
र्वसन्तकान्तागमनाय सोत्सुकाः ॥ 2 ॥
मनोभिरामैरिह दक्षिणानिलैः
कुशेशयामोदपरगपूरितैः ।
स वीज्यमानः शनकैः सुखाकरो
मधुर्द्विरेफानुगतो विराजते ॥ 3 ॥
भृङ्गाङ्गनोद्गीतरसालमञ्जरीं
विलोक्य लोकैरिह प्रवासिभि-
न शक्यते स्थातुमिह प्रवासिभि-
र्भृशं वसन्तागमने मनोरमे ॥ 4 ॥
न मानसंधारणमत्र शर्मदं
न चापि कान्ताविरहः सुखावहः ।
मनोजवाक्यैरिव पंक्ति(वक्ति) कोकिला
विलोड(ल)यन्ती सहकारमञ्जरीम् ॥ 5 ॥
वनी वसन्ते सहकारशलिनी
सरः प्रफुल्लाम्बजपुञ्जरञ्जतम् ।
निशा स्फुरच्चन्द्रमरीचिम्लिनी
न याति कस्याद्य जनस्य सेव्यताम् ॥ 6 ॥
प्रौढाङ्गनालिङ्गनवाजिवाहनै-
र्निरन्तराखेटक जातलाघवाः ।
नियुद्धमध्वासवशूल्य सेविनो
वसन्तकालं क्षपयन्ति कामिनः ॥ 7 ॥
मधौ मनोज्ञोपवनप्रभञ्जनै-
र्विचित्रवापीशतपत्रसंगतैः ।
निषेव्यमानो मणिकुट्टिमे गृहे
रतान्तखेदं विनिहन्ति पुण्यवान् ॥ 8 ॥
माकन्दकुन्दार्तगलाब्जचम्पकैः
सुवर्णजातीनवकर्णिकारैः ।
नेमालिकाकुब्जकरक्तकुब्जकै-
र्हिरण्ययूथीवकुलातिमुक्तैः ॥ 9 ॥
सन्मल्लिकामाधविकाकुरंटकै-
रशोकचामिकर केतकीगणैः ।
प्रफुल्लितैर्भृङ्गपिकप्रणादितैः
सपारिमद्रैः ——- किंशुकैः ॥ 10 ॥
विचित्रवर्णैर्नितरां मनो नृणां
समाकुलं कर्तुमतिप्रवासिनाम् ।
वनानि तोयोपवनानि सर्वतः
स्वयं सखे चित्रयतीव माधवः ॥ 11 ॥
श्रीथण्डशैलानिलगन्धमोदिताः
सुवर्णजातीकुसुमानुरञ्जिताः ।
शक्ता न भांक्तुं मधुपाः सुपझिनीं
वलन्तकाले बहुनायका इव ॥ 12 ॥
प्रौढाङ्गनामेव विशाललोचनां
युवा जनः कामयतेऽत्र केवली ।
न हि प्रफुल्लाम्बुजिनीसमपगं
लवङ्गमङ्गीकुरूते हि षट्पदः ॥ 13 ॥
कस्तूरिकाकुङ्कुमपङ्कचित्रितं
सुरक्तकौशोयनिचोलकाञ्जितम् ।
पीतोत्तरीयं कुसुमाधिवासितं
प्रकुर्वतेऽङ्ग कुसुमाकरे स्त्रियः ॥ 14 ॥
सुवर्णयूथीकुसुमोत्करैः शिरो
विशुद्धमुक्ताभरणैरूरःस्थलीम् ।
कटिं च काञ्च्या चरणौ सुनूपुरै-
र्विभूषयन्तीह रतोत्सवोत्सुकाः ॥ 15 ॥
शिरः शरीरावयवान् सुमन्दिरं
तथैव सज्जासनगोपुराङ्गणम् ।
प्रसूनसर्वै(र्गै)र्घनसारपूरितै-
रलं प्रकुर्वन्ति निशासु योषितः ॥ 16 ॥
पिकस्वराकर्णनजातमन्मथा
वृथाकथाकौतुकदत्तमानसा ।
क्षणं स्थिता स्थातुमशक्यरूपिणी
जहाति मानं सहसेह मानिपी ॥ 17 ॥
सत्पाटलावासिततोयसंयुतै-
श्चतुःसमैः कापि च यक्षकर्दमैः ।
नखक्षतैरूच्छुरितौ पयोघरौ
विलेपयत्यब्जदलायतेक्षणा ॥ 18 ॥
सप्तस्वरग्रामविशेषमूर्छना-
युतैः सुगीतैः कलकण्ठनिस्वनैः ।
शशाङ्कशुभ्रासु निशासु योषितो
हरन्ति चित्तं रमणस्य माधवे ॥ 19 ॥
तरूणकुसुमहासः सर्वपुष्पप्रकाशः
कृतमधुपविलासः कोकिलानां हुताशो
जयतु मधुनिधानो(नं) माधवो नः सुखया ॥ 20 ॥
॥ इति श्रीदुर्लभकृते ऋतुवर्णने वसन्तवर्णनं नाम चतुर्थः सर्गः ॥
[ ग्रीष्मवर्णनम् ]
प्रचण्डमार्तण्डकरोऽतिदुष्करः
प्रसझदावानलदग्धमूधरः ।
ग्रीष्मोऽतिभीष्मो नितरां प्रवासिनां
समागतोऽसौ सुखदो विलासिनाम् ॥ 1 ॥
अद्येन्दुकान्तोपलकुट्टिमाङ्गणं
नवाङ्गनाश्चन्दनपङ्कचर्चिताः ।
पुष्पस्त्रजश्चन्द्रकरा जलाशयाः
सुखाय पुंसां प्रभवन्ति कामिनाम् ॥ 2॥
कर्पूरतोटप्लुततालवृन्तजैः
समिरणैर्मन्दतरं समीरितैः ।
बालाकराभ्यां सुमनोत्कराभ्यां
निषेवितो घन्यतरोऽद्य वर्तते ॥ 3 ॥
सुधांशुपांसुत्करपूर्णपङ्कजे
मृदूपधाने शयने मनोरमे ।
चन्द्रप्रदीपास निशासु साङ्कना
निदाघदाहं शमयन्ति कामिनः ॥ 4 ॥
सोपानबद्धेषु सरस्सु शीकरैः
करोद्गतैः कङ्कणनिस्वनाञ्जितैः ।
सपाटलापङ्कजनपुञ्जसंयुतैः
प्रियं दिनान्ते स्नपयन्ति योषितः ॥ 5 ॥
पुस्तस्त्रियावक्त्र करस्तनोद्गतै-
श्चतुःसमाढचैः सदुशीरशीकरैः ।
निषिक्तगात्रा जलयन्त्रमन्दिरे
वृषार्कतापं गमयन्ति भूभृतः ॥ 6 ॥
केचिद् हरित्कांच(कांस्य ?) निभैश्च कीचकै-
र्विनिर्मिते सेव्यगृहेऽब्जसङ्ग्रहे ।
प्रलम्बमानस्तबकाम्रदाडिमी-
फले निदाघं परिभूय शेरते ॥ 7 ॥
अभ्रंकषाः सालारसालशाखिनो
लतावितानस्तबकालिमण्डिताः ।
गाम्भीर्यतो दूरतरं रवेः करा-
न्निरुध्य तापं क्षपयन्ति भूभृताम् ॥ 8 ॥
परस्यपरोद्घृष्टविशुष्ककीचक-
प्रभूतदावैः परिपीडितं वनम् ।
आक्रन्दतीवाद्य विदग्धमूघरं
दरीमुखोत्थैर्गजयूथनिस्वनैः ॥ 9 ॥
उपत्यकासन्नवनं महिभृतो
भृशं निषिञ्जन्ति हिमाम्बुनिर्झरैः ।
संदझमाना अपि हि प्रियंकरा
भवन्त्यवा- श्रयिणां महाशयाः ॥ 10 ॥
दग्धद्रुमानीह वनानि सर्वतो
विलोक्य चण्डांशुकरीभितापिताः ।
सुनिर्भरं शीतसमीरशिकरं
विशन्त मत्ता गिरिगह्वरं गजाः ॥ 11 ॥
प्लुष्णो(ष्टो)दरास्याः पथि तप्तपांसुभि-
र्विषप्रकोपोष्णकरोष्णशीर्षकाः ।
लब्ध्वाशु रन्ध्रं निजलोककाङ्क्षया
विशन्ति नागा नितरां नगान्तरम् ॥ 12 ॥
मृगाः सरोम्बुप्रतिमं महितलं
विलोक्य धावन्ति जलाशयाशया ।
मरीचिकार्ता नितरामितस्ततो
निदाघकाले चलचारुलोचनाः ॥ 13 ॥
उत्प्लुत्य वर्हाग्रविकाशिताम्बरा
विहाय दावज्वलितं महितलम् ।
खगोरगान्वेषणतत्परा इव
भ्रमन्ति रात्रौ परितः शिखण्डिनः ॥ 14 ॥
कृशानुना दग्धमिति भ्रमैर्भृशं
प्रचण्डवात्याभ्रमिवक्रविक्रमः ।
प्रभञ्जनो वात्यनु भानुमम्बरं
निसर्गतो झग्रिसहाय एव सः ॥ 15 ॥
वातातपक्लिष्टकलेबरा भृशं
करोद्धृतास्याम्बुनिषेवितोदराः ।
जलाशयालोकनतत्परा गिरौ
भ्रमन्ति सिंहस्य समीपतो गजाः ॥ 16 ॥
रजोभिराच्छादितसूर्यमण्डलो
विलुम्पतीवीद्य सहस्त्रलोचनम् ।
झञ्झामरुद्वैरविनोदनेच्छया
विलोडयन् शाखिगणं समन्ततः ॥ 17 ॥
सुनिर्मलस्फाटिकपात्रपूरितं
सुपाटलापङ्कजपुञ्जवासितम् ।
कर्पूरधूलीधवलं सुशीतलं
पिबन्ति तोयं धनिनोऽत्र केवलम् ॥ 18 ॥
सरोऽतिमत्तोग्र गजावलोडितं
विपन्नमीनं परिपीडिताम्‌बुजम् ।
विहाय यान्त्यन्यजलाशयं खगा
न नीरसं हि स्पृहयन्ति जन्तवः ॥ 19 ॥
पिकरसितरसालश्चम्पकाब्जालिमालो
ललिततरमरालः सेव्यशीतांशुतारः ।
शशिरसिकचकोरः प्रिषितानां कठोरो
रमयतु मम चेतः सुन्दरोऽसौ निदाघः ॥ 20 ॥
[ वर्षावर्णनम् ]
वर्षेपलैः शीतसमीरशीकरै-
र्दिवाकराच्छादनपङ्‌कजोत्करैः ।
निदाघदाहं जगतो विनाशय-
न्समागतो – वदम्बुदागमः ॥ 1 ॥
निरीक्ष्य शुष्कान्सरसीरुहाशयां-
स्तथा बृहद्भानुविदगाधमूधरान् ।
तडित्प्रभाभिर्घुमणीनितस्ततो
विलोकयन्तीव नभोङ्गणे घनाः ॥ 2 ॥
कादम्बिनीं कुन्दरदम्बमञ्जरीं
तथा बलाकान् कुटजार्जुनाम्बुजम् ।
सौदामनीं चेह विलोक्य भीरवो
भ्रमन्ति लोका नितरां प्रवासिनाम् ॥ 3 ॥
पिकाङ्गनाचातकचारुनिस्वनैः
पयोधरध्वानगभिरमर्दलैः ।
कलापिनश्चत्रकलापमण्डपे
वितन्वते नर्तनमत्र नन्दिताः ॥ 4 ॥
विजेतुकामा इव कोकिलध्वनिं
घनागमे लब्धबलाः शिखण्डिनः ।
श्रृङ्गे गिरीणामिह चातकस्वनै-
र्निजस्वनं संवलितं प्रकुर्वते ॥ 5 ॥
जलप्रपातैरतिबाष्पनिर्गमै
र्घनप्रचारैरसिताम्बुदोपमाः ।
नीपप्रकाशैः शिखिचातकस्वनै-
र्मनो हरन्ते नितरां महिधराः ॥ 6 ॥
तटद्रुमोत्पाटनजातनिस्वना-
स्तरंगतोयोद्धृततीरभूमयः ।
घनप्रपीताम्बुमिति प्रधाविताः
सरीत्पतिं पूरयितुं च निम्नगाः ॥ 7 ॥
मेकस्वनैर्भोगिकुलं भयाकुलं
प्रयाति निर्मोकधरं महिधरम् ।
शिखण्डिशावैरपि तत्र ताहिताः
सदापदाढ्या हि भवन्त्यसाधवः ॥ 8 ॥
वरेन्द्रनीलोपममम्बुगाम्बरे
सुरेन्द्रचापं सुभगं तडिद्गणम् ।
विलोक्य लाकः किल कान्तिकुण्डलं
समीहते नाब्जदिनेशमण्डले ॥ 9 ॥
धाराधरैः श्यामतरैस्तडिद्भरै-
र्नभः शिलीन्ध्रैश्च महीधरैर्धरा ।
नृत्यन्मयूरैः पकनिस्वनाकुलैः
सरस्तथाद्याब्जगणैर्विराजते ॥ 10 ॥
महीं महासारभरेण भासुरां
जलैकरूपां स्फटिकेन्दुसन्निभाम् ।
विलोक्य नार्यो नितरां प्रवासिनां
स्थिता नाराशा इव जातसाध्वसाः ॥ 11 ॥
नष्टेन्दुतारे गगने सकंकणे
सकोकभेकस्वनसङ्कुलास्विह ।
गाढान्धकारासु निशासु नायिकाः
परिष्वजन्ते रमणं भयाकुलाः ॥ 12 ॥
शिरस्सु यूथीकुसुमीनि कर्णयो-
र्निवेश्य सत्केतकगर्भकुड्मलौ ।
कण्ठेषु जातिस्तबकानिहाङ्गना
व्रजन्ति कान्तं निशि जातमन्मताः ॥ 13 ॥
वलाहकान्विक्ष्य गभीरनिस्वनान्
प्रयान्ति हंसास्त्वरितं हि मानसम् ।
स्वनन्ति भेकाः परितोऽत्र चातकाः
कलापिनश्चापि कलापशोभिताः ॥ 14 ॥
नवाम्बुदालीपरितेऽम्बरे
सशीकरे केतकगन्धवासिताः ।
मन्दं समान्दोलितयूथिकोत्करा
मनो हरन्ते नितरां समिरणाः ॥ 15 ॥
कादम्बिनीतोयभरावलम्बिनी
कसापिनश्‌चारुतराः कलापिनः ।
सौदामनीसंवलिता च यामिनी
सुमालिनीं पीडयतिह कामिनीम् ॥ 16 ॥
श्यामाभ्रजालान्तरितेन्दुमण्डलं
विराजतेऽद्य स्पृहणीयचन्द्रिकम् ।
विकीर्णकेशाकुलितं रसाननं
निरीक्ष्यते किन्न मुदे हि केवलम् ॥ 17 ॥
क्कचिद्धनैरञ्जनराजिसन्निभैः
क्कचित्सुधांशुप्रसरैः सचन्द्रिकैः ।
क्कचिद्वलाकागमनैः सुनिर्मलै-
र्नभोऽद्य विद्युद्द्युतिभिश्च राजते ॥ 18 ॥
विद्युद्गणैः कण्ठमणिप्रकाशनैः
सगोपनैरन्धतमस्यविद्रुताः ।
विलोक्य पन्थानमतीव दुर्गमं
व्रजन्ति जीवेशमिहाभिसारिकाः ॥ 19 ॥
जलधररमणीयो योषितां वाञ्छनीयः
शिखिकुलकलरावः चारुविद्युत्प्रभावः ।
कुमुदकमलकान्तः पान्थकान्ताकृतान्तो
विमलयतु यशो मे वार्षिकः काल एषः ॥ 20 ॥
॥ इति श्रीदुलंभकृते ऋतुवर्णने वर्षावर्णनं नाम षष्ठः सर्गः समाप्तः ॥
॥ अन्योक्तिमुक्तावली ॥
॥ सोमनाथकृता ॥
आर्यासूनुसमानं प्रणम्यमानं धरासुरप्रवरैः ।
झम्पाम्बया तयालं मुद्गलमालम्बदं कलये ॥ 1 ॥
गणपतिरतितुष्यन् भूरि दानानि यस्या
वितरति कलगीतीर्नित्यमाकर्ण्य तूर्णम् ।
गजनगजविरामा सत्कला मालिनीयं
जयति मधुकराली रम्यशब्दावलीषु ॥ 2 ॥
कलितमलिनिमालिः पुल्लनानाप्रसूना-
न्‌यपहरति निपीयाह्नाय यत्सांप्रतं तत् ।
विपदुपगमतान्तं भ्रान्तिशिलो नितान्तं
त्यजति न निशि पझं तत्र हेतुं न विझः ॥ 3 ॥
अगमदयमलिस्त्वां पूर्वहार्दाद्रसाल-
द्रुम ! किमु स चलत्त्वत्पल्लवैर्वार्यते यत् ।
भवदुदयमवेक्ष्याह्नाय यात्येव नागं
मदजलसुरभित्वोदारदूतोपहूतः ॥ 4 ॥
मलिनमधुप ! यत्त्वत्पालमाम्रं विशालं
द्विपदलितमुदस्य श्रीयतेऽरिस्त्वयास्य ।
द्रुतमिह मद लोभात्तत्फलं कर्णताल-
प्रतिहतिततिनश्यत्पक्षतैवौचितं ते ॥ 5 ॥
अतिमृदुमधुर त्वाज्जात्या जातीषु जाता-
द्विहितवदनजाड्यः (ड्यात्) तन्निरासाय भृङ्गः ।
व्रतयति मधु नानापुष्पजातं रसोनं
किमु न पिबति बुध्वा दुग्धतृप्तोऽपि तक्रम् ॥ 6 ॥
द्विजपतिदयितां तां व्यक्तपुष्पांर प्रदोषेऽ-
प्यहह कुमुदिनीं किं भृङ्गभुङक्षे स्वदाक्ष्यत् ।
मलिनमधुप मन्ये तिवय्यदः सर्वमर्हं
विहितमविहितं वा चिन्तयेत्को हि लोलः ॥ 7 ॥
मधुकर रसलौल्यं मुञ्ज नो मुञ्जसे चे-
दयि न भज जलान्तर्वासिपङ्केरुहालिम् ।
भजसि यदि रमेथा नात्र रात्रौ, यदि स्यात्
तव कथमपि बन्धो मोचयेदज्ञ कस्त्वाम् ॥ 8 ॥
मधुप मधुजडस्त्वं यद्विहायेरुजाती-
मनुवनमनुगासे ऽनक्थकं बन्धुजीवम् ।
मम मतमिति नामान्वर्थता भ्रान्त्युपेता-
तिथिरुधिरधिरपिबत्वान्मत्रुणारक्तमेतत् ॥ 9 ॥
भ्रमर भवसि साधुस्तत्त्वतः सारवेदी
सततमसि मुमुक्षुर्यत्तमोजातबन्धात् ।
कुसुममपि जहासि स्वर्णवद्वर्णवच्च
स्पृहयति न हि मुक्तेर्भजनं काञ्जनाय ॥ 10 ॥
सरसि शिशिरकाले नश्यदममभोजजाले
कृतमतनु हिमानीसाधनं यन्निशायाम् ।
तदुरुफलमवाप्तं फुल्लमाकन्दलाभा-
द्भ्रमर तदपि लौल्याद्भ्राम्यसितस्ततः किम् ॥ 11 ॥
इतरतरुषु कृत्वा पूर्वपक्षत्वयोगं
प्रथयितुमलिराम्रे साधुसिद्धान्तभावम् ।
विचरति परितोऽयं, नैव लौल्यान्न ताव-
द्गुणवदपि हि काम्यं निर्गुणं नैक्षि यावत् ॥ 12 ॥
व्धुर ! मधुसुरभ्या मालिती कान्तयालिन्
अहह भज सकामः कुन्दवल्लीं सपुष्पाम् ।
अयि तदपि तथा ते नैव सौरभ्यलाभो
न भवति सुखपात्रं प्राप्य साधारणस्त्रीम् ॥ 13 ॥
परिचयमपनीयोड्डीय रोलम्ब ! जात्या
श्रयसि सुरभिभावादेव कस्तूरिकां किम् ।
मलिन न हि रसोऽस्यां श्यामतास्ये परे स्यात्
तव तु मलिनयार्हः संगमो नो सुजात्या ॥ 14 ॥
बदरमथ च कुन्दं निन्द्यमास्वाद्य मन्दं
मधुकर हिमकालं यापयालं विषादैः ।
कितिपयसमयेनोद्भासिता मञ्जरीभि-
स्तव तनुतर याच्ञादैन्यहारी रसालः ॥ 15 ॥
सति च गिरिशयतिवे नर्तकत्वे स्वकाले
प्रियदहनसुतत्वेऽहिच्छटाहारकृत्तवे ।
शिखिनि च शशिमौलौ नैलकण्ठ्येऽपि तुल्ये
स्मरहरवदवेत्किं स त्रिलोकीं वराकः ॥ 16 ॥
कथमपि भवता चेद्भोगिभोगोऽपि भुक्त-
स्तदपि भवसि बर्हिर्नैव भोगी यथार्थम् ।
सहजमृजुविधेर्यत्प्राप्यते तेन तद्वान्
भवति न तु परस्वैरायतिं नाशयद्भिः ॥ 17 ॥
कलरवचटकाद्या तद्यनेके वाराकाः
पथी पथिष्टं संगतास्तद्वृथैव ।
सुखवसतिरुपास्यस्ते स चाषस्तु यस्या-
शु शुभदमपि दूराद्दर्शनं वामतापि ॥ 18 ॥
जगति विहगपूगाः सन्त्यनेकेे विचित्रा-
स्कदपि वद समानः कः शुकेनास्ति तेषु ।
युवतितमयचाटुन्यस्य शृण्वन्ति यस्य
स्फुटपदचटु भूपास्ते निशान्तेऽनिशं तु ॥ 19 ॥
अहरहरिह यातायातमातन्वते ते
नभसि बत बकाद्याः पत्रिणस्तावता किम् ।
यदि सकृदपि दैवादम्बुदुग्घे विवेक्ता
व्रजति विधिपतत्री धन्यता स्यात्तदास्य ॥ 20 ॥
रुचिरगतिगुरोः सन्मानसावासचञ्जोः
श्रुतिसखविधिराजत्सत्यलोकप्रियस्य ।
मलिनमपि विभुत्वेनेतराधारयोग्यं
गगनमनु न हंसस्योचितः पक्षपातः ॥ 21 ॥
बककुलमुपयामः स्वभ्रमात् पल्वलेऽस्मिन्
कुरु वर वरटेश श्रान्तिशान्तिं मुहूर्तम् ।
न कथय जलदुगधद्वैध्यविद्यां तु तस्मै
झषकबलनविद्यां यद्यपि स्वां प्रदद्यात् ॥ 22 ॥
न गिल किल बकोट ! प्रोत्कटं मत्स्यमेतं
गिलितबिडिषमाशु छझाना धिवरास्तम् ।
सति तु कवलितेऽस्मिन्रश्मिनाकृष्‌यमाणो
यमवसतिनिवासं लप्स्यसेऽनेन सार्धम् ॥ 23 ॥
करट ! सवनकृन्नन्वेकद्दक् सर्वदर्शे
सततकृतसदुञ्छाख्येयवृत्तिर्द्विजस्त्वम् ।
असि यदि किमिदं रे निन्दितं वृत्तमास्ते
यदशुचिनि करङ्के केवलं चित्तमास्ते ॥ 24 ॥
परभृदिति पिकस्येवाख्यया वर्णतश्च
स्पृशति करट किंचित्तत्प्रतिष्ठा हठात्त्वाम् ।
द्विज भज न्जकीर्त्यै स्थूलवाचंयमत्वं
वहति हि बहुमूल्यं मुष्टि रस्पष्टभावात् ॥ 25 ॥
विरम शफरघीतेदारदम्भाटूक ! त्वं
मृगयुरटति पृष्ठे यष्टिकोटिस्थपाशः ।
नृतमिति मतिश्चदेष ते कण्ठहारो
भवति पतग कस्यापीषदाहारकारी ॥ 26 ॥
नपरिवद सुधींशुं कामिकेलेर्निदानं
विधिकृतमिह मर्वं कोक ! शोकं जहीहि ।
अयमुदयति विश्चालोकबन्धु-
र्भवतु बत पुनर्वां योग्ययोराशु योगः ॥ 27 ॥
कुरुतमहनि कोकौ केलिमन्योन्यजीवौ
किमपि च परिचेयो वामुदासीनभावः ।
अशनिपतनभीमो दैवभावी वियोगः
कथमहह युवाभ्यामन्यथा सोढुमर्हः ॥ 28 ॥
हरिकरधृति योग्यं खेचरं चक्रसंज्ञं
त्वमथ मधुभिदस्त्रं कोकयुग्मे ति तुल्यम् ।
विधुगिलगलभित्तत् त्वं तु भेद्यं विधोर्यत्
करिमशरनिभं वामन्तरं तेन सिद्धम् ॥ 29 ॥
अजनि हि विनतायामुन्नतायां त्रि(द्वि ?)पुत्री
परमभवदिहान्धः(ण्डः) कश्चनान्यश्च पङ्गुः ।
जयति स गरुडोऽयं क्लशेनाशी स्वमातु-
र्वरमपि हरयेऽदात्तत्प्रसादासहः सन् ॥ 30 ॥
इह किमविकलाङ्गैस्तैरनेकैर्विहङ्गै-
स्तरुमनुमृगयुः स्वं (चेते ?) ये तरोरुड्डयन्ते ।
जयति स विभयोरुः कोऽप्यनार्यमापि ॥ 31 ॥
अवनि ! तव नितान्तं जन्म संमन्महे य-
त्त्वमवसि वसुभिःस्वैर्भूतजातं वहन्ती ।
अहह महदिदं ते किन्तु निन्दानिदानं
विषमविषमहिम्ना यद्द्विजिह्वेन सङ्गः ॥ 32 ॥
अचस ! सकलपालः स्वैरशेषैर्विशेषै-
रसि तदपि तवैको निर्विवेकोऽयमङ्कः ।
स्पृशति यदुरुधात्रीं पादजालं सहेलं
मलिनजलधरालिं मौलिरालम्बते ते ॥ 33 ॥
अति धर करकाणां पातमासारघातं
मलिनजलघरोत्थं मूर्द्धनि क्षाम्यसीति ।
स्थिरधरणिधरत्वं ते गुरुत्वं च वृत्तं
भवति यदुपलानां टङ्कघातैर्बुधत्वम् ॥ 34 ॥
अगुरुमलयजादेर्वस्तुनो वस्तुतोऽपि
स्फुटमतिसुरभित्वं तेऽस्ति कस्तूरि ! लोके ।
न तु विश दहनं स्वस्पर्धिना सार्धमात्मो-
न्नतिमतितन्तुं ते वहिदिव्ये झकीर्तिः ॥ 35 ॥
कनक ! स जनकस्ते पावकः सर्वतापी
गुरुणि च लघुताकृद्दाहतः स्वाश्रयाशी ।
सकलसुखदभावो घौरवं स्वश्रयोरु-
द्युतिकृतिपटुता च त्वत्तकस्मातु कस्मात् ॥ 36 ॥
हिममृदुधवलत्वादस्मि नाम्नापि चन्द्रः
पर इति वरगर्वं मुञ्ज कर्पूर ! दूरम् ।
किमु कुमुदविबोधं सिन्धुमोदं च कुर्याः
शिरसि च कलयेत्किं त्वत्कलां चन्द्रमौलिः ॥ 37 ॥
उरुगुणमपि रत्न त्वं प्रयत्नात्सुवर्णं
श्रय निजपरभागप्राप्तये स्पर्द्धयाऽलम् ।
सति हि दहनदिव्ये भव्यता हेमनि स्यात्
त्वयि तु न च, यतस्तज्जन्मभूः कृष्णवर्मा ॥ 38 ॥
तव हि जलमपत्यं त्वां निहन्तुं यदुत्कं
दहन तदुचितं त्वत्तापितत्वाच्च जाड्यात् ।
अनुचितमिति तु त्वं वाडवत्वाच्छुचिः स-
न्नहह दहसि सिन्धौ प्रत्यहं तत् प्रसझ ॥ 39 ॥
यदिह तिमिरभारं वारयत्येश कूरो
भवतु स रुचिसिन्धुर्लेकबन्धुः सुखेन ।
त्रिजगति बहिरन्त र्हेतुराहारसिद्धे-
र्जयति सकलजीवोज्जीवकः पावकस्तु ॥ 40 ॥
यदजनि भवतो हे चित्रभानो ! हिरण्यं
वितरसि जगतश्चेत्तन्न मा वा वितारीः ।
दहसि तु जगदेतद्धेतुना केन वह्ने
न च तव तदपूर्वं स्वाश्रयस्यापि दग्धुः ॥ 41 ॥
श्रवणचरणहिनः शेष एष द्विजिह्व-
स्तदपि पवनभुक्त्वात् भूमिभारे नियुक्तः ।
स्वयमनशनशीलो यः स एव प्रियो हि
व्ययचकितविभूनां नाधिकारी गुणी तु ॥ 42 ॥
अनवरतमग ये धार्यमाणा धरण्या
दधति वथमिमां ते तद्वृथा भूधरत्वम् ।
परचितमगत्वं वृक्षवृ(व)त् तेषु शेष !
त्वमसि जगति नागो भूधृतेर्भूधरस्तु ॥ 43 ॥
अजनि सलिंलमग्नेर्हेम च द्विष्ठदेषा-
पहृतय उभयं तत्तापयत्येव तातः ।
प्रथममपचरं यात्याविलं सतु तापा-
दपममपचयं सद्विन्दते मूल्यमुच्चैः ॥ 44 ॥
जहि पशुसमजं भो लुब्धकैकं जहीहि
स्थितमिह पृषदश्वप्रेमपात्रं पृषन्तम् ।
यदि जगदसुभूतो हन्त कुप्येन्मरुत्ते
विरचितदुरितौघ त्वद्दशा कीट्टशी स्यात् ॥ 45 ॥
निरवधिरतिवृद्धस्पर्द्धिमित्रावरोधी
बुधारिपुरिह विन्ध्योऽबन्ध्यगस्त्येन साधु ।
भगवदधिकबन्धुर्वन्धुरः शुद्धरत्नै-
र्विधिहतधरधामाधायि सिन्धुस्त्वसाधु ॥ 46 ॥
त्वयि न सुरभिगन्धो भन्धुरत्वं न तादृ-
ङ्भधुनि मधुरिमा नो मार्दवं नापि किंचित् ।
तदपि जगदमन्दोन्म्दहेतो कुतो रे
निवससि शिवशीर्षे क्रूरधत्तूर ! वग्धि ॥ 47 ॥
अयि कपिशुककाकादीन्वराकान्पुषाण
स्वमृदुलफलवृन्दैर्वन्द्य माकन्द किं तु ।
त्वदितरमनुपेतं वसन्तोल्लसन्तं
परिकलय कलाढ्यं कोकिलं कीर्तिमूलम् ॥ 48 ॥
द्विजकुलमतिरम्यैस्तावदाकार्य गन्धैः
सफलय फलभारं त्वं रसालैतदास्यैः ।
प्रचलति न हि यावन्मेघकालोत्थझञ्झा-
मरुदुरुतरुवृष्टिप्रेरकोऽनोकहारिः ॥ 49 ॥
अलिरयमुपहूतः सौरभेणामुना ते
सफलयितुममन्दं सूनसारं रसल ।
तव न मतमिदं चेद्यात्ययं स्वस्ति तेऽस्मिन्
पवनतपमपीते तेऽनुतापस्तु भावी ॥ 50 ॥
अपुषदिह रसालोऽनेकजीवान्वसन्ते
तदलिकुलमिदानीं याति कार्श्यं तपान्ते ।
अथ वरमिदमेव स्वान् न पुष्णाति को वा
जगति तु बहुमान्यो योऽन्यपोषी कृशः स्यात् ॥ 51 ॥
इह विकटकुटैस्तैः पालितैकस्वकैः किं
जयति स तु रसायां सालराजो रसालः ।
यदुदयमनु जीवाः साधु जीवन्ति सर्वे
घन इव न वदान्यो जीवनार्पी विविच्य ॥ 52 ॥
इत उरुपिकगीतिः सारिकागीः परत्रा-
प्यलिरुतमितरत्रान्यत्र सत्कीरपाठः ।
तव महदिति भाग्यं प्रेक्ष्य माकन्द ! नन्दा-
म्यपटुरटनखिन्नः कण्टकिन्यामटव्याम् ॥ 53 ॥
बलिभुगलिकुटुम्बप्रीणनार्हेऽप्यनर्हेऽ-
नुवनमवनिभारो नास्ति कः को नु शाखी ।
नृपतिरपि फलेभ्यो यस्य हस्तप्रसारी
स तु जयति रसायां सालराजो रसालः ॥ 54 ॥
अमृदुलफलसारैर्यद्धिनोषि त्वमिभ्यान्
न तु कृशविहगांस्ता न्नाप्यलीन्नालिकेर ।
तृणतरुरिति निन्द्यं नाम नापैति विष्णोः
पदमपि भजतस्ते मस्तकेना तिमात्रम् ॥ 55 ॥
सकलसुमनसां यः पोष्य एष द्विरेफ-
स्तदधिकगुणवत्वात्ते तु चाम्पेय ! बाडम् ।
तदपि न भवता किं पोष्यते द्विष्यतेऽपि
त्वमिह कथय हेतुं संशयं नोऽपनेतुम् ॥ 56 ॥
विविधसुमनसो यत्संदशन्‌याति शीघ्रं
तदयमभिधयालिर्वृश्चको निश्चयेन ।
कथमतिसुमनस्त्वान्मे न वध्योऽपराधी
कुरुत मदनिमोदं तद्धतो(तौ) शास्त्रदृम् ॥ 57 ॥
कति कति वत नो सन्त्यर्जुनाः प्रत्यरण्यं
विपिनचरकुठारच्छिन्नविक्रितकाष्ठाः ।
समिति झटिति बाणोत्कीर्णकर्णादिवीरः
स तु हरिसुहृदेकः शक्रभूरर्जुनाख्यः ॥ 58 ॥
वरमिह वटतुम्बीनिम्बबिम्बीदर्यः
फलमतिसुखलभ्यं यस्य तस्यापि यासाम् ।
न तु पनसरसाला यत्फलाप्तौ ललाट-
स्फुटनमवनकारिक्षेपणीयाश्मभिः स्यात् ॥ 59 ॥
विहगविधिबलेन प्राप्तभाग्यो निदाघे
घनफल पिचुमन्द ! त्वं रसालायमे चेत् ।
पिकयनि(सि) कट(टु)काकांस्तेऽद्य भाग्यांश योग्या-
न्न यदि, भजति स त्वां कोकिलस्तावता किम् ॥ 60 ॥
कदलि ! सदलिजालं पाल्यते सूनसारै
र्विपुलदलकले ते भुञ्जतेऽनेकलोकाः ।
फलमपि कपिकीरै रिभ्यसभ्यैश्च भोज्यं
तदपि वद फलाढ्यावाङ्मुखी किंनिमित्तम् ॥ 61 ॥
उपकृतिरतितुच्छार्थिप्रयासो महियान्
मदुपगतिवितीर्णा वर्णनं तद्ध्यवर्णः ।
मम धिगिदमगत्वं यन्न गत्वोपकुर्वे
स्वयमिति किमु लज्जावाङ्मुखी त्वं फलाढ्या ॥ 62 ॥
विटपिवर वट त्वं मौलिघृष्टाम्बरत्वाद्
अथ विकटजटत्वाद् धूर्जटेस्तुल्यरूपः ।
अकटुकफलकोटिप्रीणितानन्तजीवो
निकटलघुवटानां वर्धने किं पटुर्न ॥ 63 ॥
तव चलदल शाखिन् मौलिमूलान्तरालं
कलयति निलयत्वं देवदेवत्रयस्य ।
समिदथ दलमेधस्साधनं साधु यागे
तदपि किमिति मन्दस्पृश्यता तेऽतिवन्द्य ॥ 64 ॥
त्वमसि महनन्तं छेदभेदाद्य योग्ये
विभु च बहु किमुक्त्या शाम्भवी कापि मूर्तिः ।
इति सति बहिरन्तर्यत्त्वया ड्गीकृतस्स
त्यजति गजन न त्वां प्रगवस्थां घटोऽयम् ॥ 65 ॥
द्विजपतिरमृतात्मा कोमलोऽपि स्वसारै-
र्न यद् अवति पिपासून् हन्त, कांश्चिद् द्विजान् स्वान् ।
यदिपि विनददुग्रं स्वं ददज्जीवितं तान्
अवति मलिनमभ्रं चित्रमेतत्त्वदभ्रम् ॥ 66 ॥
त्वमसि जगदसुः सन्नुच्चकै र्दीनबन्धुः
कलयसि यदसारं वस्तु हित्वा ससारम् ।
इति सति भवता किं प्रेर्यते वात ! चह्नि-
र्यदयमखिलधक् सन्नाशु निःसारदाही ॥ 67 ॥
पटुरसि गट पूर्वं साधनेऽग्नेस्तु पश्चा-
दतिहिमजलवासे नित्यमित्थं तपस्वी ।
तदुचितमिह जन्मन्युच्चपुण्येन सूनुः
चुलकितजधिस्ते वस्तुतोऽगस्त्य आस्ते ॥ 68 ॥
निजकरुरिचर्याकारिणि प्रेम पझे
वहति यदुदयस्थो भानुमांस्तन्न चित्रम् ।
अभजदपि यदिन्दुः स्वोदयेन प्रमोदं
नयति कुमुदवृन्दं तद्विचित्रं त्वमन्दम् ॥ 69 ॥
त्वमपि भवसि पात्रं रात्रिभेदाद्विपत्तेः
व्यथयसि किमु कोकौ; युज्यते वा क्षपेश ।
दिनकरपरितप्तः क्षीणदेहश्च यस्मात्
प्रसभमकरुणाः स्युर्ये नराः क्षीणतप्ताः ॥ 70 ॥
सफलितजनचक्षुः घूकमेकं वराकं
कथमहह विधत्से लोकबव्धो दिनान्धम् ।
सकलतिमिरहर्तु स्तत्र कस्ते प्रयासो
न हि भृतशकटस्था राजिका भारहेतुः ॥ 71 ॥
सवितरुदयमुच्छुः प्रागनूरुं विधत्सेऽ-
भ्युदयसहीतमेतद्भ्रातरं नैव घूकम् ।
तदिदमनगतं मे येन कार्यं विभूनां
परमपदमवाप्यः स्वं पुनर्नो तदीयाः ॥ 72 ॥
हरसि तिमिरबन्धं ध्वान्तवैरिन् जनाक्ष्णाम् ।
तदिह महदपूर्वं पझबन्धोऽबलानां
यदखिलयसमुपानां पझबन्धं भिनत्सि ॥ 73 ॥
कति कति न हि जाताः कश्यपाद्देवतास्ताः
क्षितिवलयसमुद्यद्यागभागैकजीव्याः ।
जयति तु परमेकः कर्मसाक्षी समक्षो
यदुदयमनु सिद्धैरध्वरैर्देवपोषः ॥ 74 ॥
तव तनुरवनीशागारसेनाविभूषी
बलमचलभिद्रेऽलं कालवद्भीर्मता च
इति करिवर सर्वेदारचिन्तामकिंचि-
त्कर इव चिरमन्तर्मीलिताक्षः किमेषि ॥ 75 ॥
शितितनुरतिगर्जन्वारिर्षी वरीयान्
मुदिर इति करी ते चातकासौ न याच्यः ।
बत मधुप कुलानां पोषकोऽयं मदान्धो
न तु चिरतृषितानां त्वादृशानां द्विजानाम् ॥ 76 ॥
कति कति न विरोधिव्याधवाक्याभिघाव-
त्पिशुनशुनकदन्तैरङ्किताङ्गः कुरङ्गः ।
स तु जयति कुरङ्गः कोऽपि भूपोत्तमाङ्गऽ-
ईति पदमदरिद्रो यन्मदछ सौरभेण ॥ 77 ॥
परिहर गिरिशत्रोः पत्रवैरं हरे चेद्
गिरिवनचर ! वाञ्छा जीविते तेऽन्यथा तु ।
कुपितकुलिशपातात्त्वं वनं पर्वतश्च
काक नु ननु बलवद्भिः स्पर्द्धः नैवः वृद्ध्यै ॥ 78 ॥
दवलिमहरिनान्मोर्योग्यभावाद्विधोः त्वं
सुहृदिति जहि राहुं ध्वान्तमैत्र्यास्य शत्रुम् ।
तम इति शिति चेति प्रप्तया साम्ययोगात् ;
न कुरु मृगपतित्वात्सिंह ! हिंसां पशूनाम् ॥ 79 ॥
प्लवग ! समुचितं तद्धान्यमुष्टिश्लथत्वे
यदतिकृपणता ते बन्धने प्रस्तुतेऽपि ।
पशुरुत नर इत्थं वानरत्वं तु तेषा-
मपि विपदि हि तेषां (येषां) बद्धमुष्टित्वमर्थे ॥ 80 ॥
भवति समगुणानां मत्सरित्वं युवां तु
प्रतिगतिकलहौ स्तः सिंहहंसौ सवर्णौ ।
स्थिरगतिकलसन्तौ मौक्तिकोदारगेहौ
रजतललितदेहौ देवतावाहने च ॥ 81 ॥
करभ सरभसत्वेऽप्युच्चलत्वं गतौ ते
वचसि च कठिनत्वं चारुता न प्रतीके ।
तदपि तव तु गर्वत्कन्धरोच्चेयती चेत्
किमपि ललितता स्यात्सा विभिन्द्याद्बत द्याम् ॥ 82 ॥
यदहमखिलसैन्ये दुन्दुभेः पात्रमित्थं
जहिहि करभ ! गर्वं सर्वभावैरवद्यम् .
सुललितपृतनायां लोकद्दग्दोषहत्यै
बत नरपतिना त्वं तदध्वनिख्यापितोऽसि ॥ 83 ॥
गुणसुरभिसुरभ्याः सूनुता सूनृता सा
गुरु च गिरिशपत्रं ते सगोत्रं पवित्रम् ।
विविधबिविधासिद्धो साधनं देहिनां त्वं
वद तदपि किमुक्षन् ! काङ्क्षसे शृङ्गधूत्या ॥ 84 ॥
भवतु नदुपकारो जीवलोके कथंचि-
न्न तु सुरभुजगानां लोकयोर्द्दश्यते सः ।
जनरनुचितमेव प्राणिनः पङ्क्तिभेतु
र्वृष किमुपरितोषेणेति शीर्षं धुनोषि ॥ 85 ॥
कुचयुग ! कृतसुक्ताहारकर्पूरगौर
त्वयि धवलगरुत्त्वं न त्विदानीं कुचत्वम् ।
इह न बिभिहि नीरक्षीरभेदापटुत्वेऽ-
त्यनुरजति हि बाझाडम्बरेणैव लोकः ॥ 86 ॥
प्रियपरिचकाले कञ्चुकीं मुञ्जसे किं
कुचयुग ! बहमूल्यं ते यदाच्छादितत्वात् ।
उचितममृदुभावादन्यमर्माविधस्ते
यदुपकृतिकृतामप्यस्मृति र्भाग्योगे ॥ 87 ॥
नयन सरलभावो नायिकाभावबोघे
तव युवनिवहे किं वक्रता पीडनाय ।
इदमपि घटते यद्वक्रतां प्रेक्ष्य कोऽपि
व्रजति मलिनसङ्गनाङ्गत्वतश्च ॥ 88 ॥
अघटितमतिदन्ताः सत्यपूर्वे द्विजत्वे
हह हसितवशाद्यन्मर्म भिन्दन्ति नॄणाम् ।
तदुचितमपि तेषां रागिणो द्वेष्यमुक्ता
युवतिवदनभाजोऽनारतं ये तु तीक्ष्णाः ॥ 89 ॥
सहजगुणपिधायी दून्दूजाते समानः
सदवधिरधिमुक्तासक्तताराजम्नः ।
अतिशुचिरबलायाः कण्ठसङ्ग़पि हार !
त्वमसि जगति साधुर्दर्शनात्खेदहारः ॥ 90 ॥
अवति मुखमनेतान् रागितीक्ष्णान्द्विजांस्तु
द्विजपतिममुमेकं द्वेष्टिशुद्धं यत् ।
तदुचितमतिलक्ष्मीराजितत्वेन तस्य
प्रविदधति न युक्तायुक्तचिन्तां रमाढ्याः ॥ 91 ॥
भृशमवगणितैणीदृङ्निवासे वरेण्ये
कमितुरुरसि सेषे केन पुण्येन वीणे ।
भवदनुरणिताति प्रीणितप्राणिदता-
सिषमनिशमुपैषीत्येष हेतुर्मतोऽत्र ॥ 92 ॥
दिशि दिशि विलसन्ति स्फारकासारभारा
बततुलजलकाकाहारशम्बूक पूर्णाः ।
सितगरुदुपभुक्तोन्मुक्तौघयुक्तं
मदयति तदपिदं मानसं मानसं मे ॥ 93 ॥
विलसति कमलायाः सत्करे यत्प्रसूनं
व्रजति च ललनानामाननस्योपमात्वम् ।
जनयति च जनेशं सर्जनादौ किमन्यत
कमलिनि ! तुलनां ते तल्लता का प्रयातु ॥ 94 ॥
मदुकरनिकरस्य स्वै रसैरप्रमेयैः
कमल ! विमल पोषं दोषमूलं करोषि ।
यदयमपरनारीरात्मगीतैर्विगीतै-
स्त्वरयति रतिहेतोर्भिन्नसेतुः सतीनाम् ॥ 95 ॥
स्थलकमल ! वरत्वं ते जलाज्जन्म यन्नो
पतितमपि रजस्ते मारुतेनोझते च ।
सततमधिगतिस्ते यस्य कस्याप्ययत्नाद्
दृढमिति जलजत्वान्नैव धन्यं त्वदन्यत् ॥ 96 ॥
परिमलमकरन्दैर्वृन्दमिन्दीवराणा-
मपुषमिदमिदानीमीदृशी मे दशेति ।
कुमुद ! न कुरु केदं नन्दते सर्वदा को
यदुदयसुदशः त्वं सोऽपि दीनो यदिन्दुः ॥ 97 ॥
अयि पिक ! सुसमृद्धं याहि म्कन्दबन्धुं
श्रितमपि तमनेकैराश्चनाकारितोऽपि ।
विलसति न विना त्वां पञ्जमालापिनं स
त्वमपि न हि विना तं राजसे वृक्षराजम् ॥ 98 ॥
शुककरटकपोताः कोकिलश्चैककालं
कलकलमनुवेलं कुर्वतां वा रसाले ।
स्थगयतुमतिभूयान्मन्द्रमध्ये तु तारं
यदपि सपदि नादे तारतम्यं स्फुटं स्यात् ॥ 99 ॥
कलकलमपनीय स्वीयमाकर्णयध्वं
मधुमधुरगलाञ्जत्कोतिलालापमत्र ।
कलरवलविङ्काः सद्रसालप्रसादात्
फलितमलिक पट्टोदारलेखेन वोऽद्य ॥ 100 ॥
अनुवनमिह को मत्पञ्जमाल्पसारं
रसयतु सरलात्मा खिद्यसे किं पिकेति ।
द्धनितनुरनुरागार्धाङ्गदुर्गो गिरं ते
कलयति सकलात्मा साधुतुष्टोऽमूर्तिः ॥ 101 ॥
सकल कलकुलोद्यत्सोमनाथाणुमेदा-
गुणविहितशतोक्तान्योक्तिमुक्तावलीयम् ।
अधिगलमनुधार्या साधुभिः शुद्धबुद्धै-
रधिकममलयित्वा स्वप्रसादोदकेन ॥ 102 ॥
॥ इति श्रीसकलकलकुलालंकार[णक]
सोमनाथ विरचिताध्न्योक्ति-
मुक्तावलीयं समाप्ता ॥
॥ चारुचर्या ॥
॥ श्रीभोजराजप्रणीता ॥
सुनीतिशास्त्रसद्वैद्यर्मशास्त्रानुसारतः ।
विरच्यते चारुचर्या भोजराजेन धीमता ॥ 1 ॥
(अथ शौचविधिः, दन्तधावनं च)
ब्राझे मुहूर्त उत्तिष्ठते स्वस्थो रक्षार्थमायुषः ।
शरीरचिन्तां निर्वर्त्य कृतशौचविधिस्ततः ॥ 2 ॥
प्रातरुत्थाय विधिना कुर्याद्दन्तप्रधावनम् ।
वाग्यतः पुण्यकाष्ठेन अत(ध ?) ऊर्ध्वं क्रमेण तु ॥ 3 ॥
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रझ प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ 4 ॥
सर्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः ।
आम्ल(म्र)पुन्नागबिल्वानामपामार्गशिरीषयोः ।
कटुतिक्तकषायाश्च घनीरोग्यसुखप्रदाः ॥ 5 ॥
दशाङ्गुलं तु विप्राणां क्षत्रियाणां नवाङ्गुलम् ।
अष्टाङ्गुतु वैश्यानां शूद्राणां सप्तसंमितम् ।
चतुरङ्गिलमानं तु नारीणां तु न संशयः ॥ 6 ॥
उदङ्मुखः प्राङ्‌मुखो वा दन्तधावनमाचरेत् ।
दक्षिणेन तथा क्रौर्यं पश्चिमेन पराजयम् ।
पूर्वस्यामुत्तरस्यां च कुर्वन् क्मानवाप्नुयात् ॥ 7 ॥
चतुर्दश्यष्टमी दर्श(:) पूर्णिमा सङ्क्रमो रवेः ।
एषु स्त्रीतैलमांसानि दन्तकाष्ठं च वर्जयेत् ॥ 8 ॥
सर्जे धैर्यं वटे कीर्तिः करञ्जे विजयो रणो ।
जातौ चैवार्थसम्पत्तिः बदर्यां मधुरस्वरः ॥ 9 ॥
खदिरे चैव सौन्दर्यं बिल्वे तु विपुलं धनम् ।
साल्मस्यश्वत्थमव्यानां धवकिंशुकयोरपि ॥ 10 ॥
केविदारशमीपिलुश्लेष्मातकविभीतकान् ।
वर्जयेद् दन्तकाष्ठं तु गुग्गुलुं क्रमुकं तथा ॥ 11 ॥
उदुम्बरे वाक्यसिद्धिः बन्धूके च दृढा श्रुतिः ।
आम्ले(म्रे) किर्तिश्व सौभाग्यं कदम्बे सुद्धिरुत्तमा ॥ 12 ॥
गुवाकतालहिन्तालाः केतकी च महावटः ।
खर्जूरी नारिकेलश्व सप्तैते तृणराजकाः ॥ 13 ॥
तृणराजसिरापत्रैर्यः कुर्याद्दन्तधावनम् ।
तावन्दवति चण्डालो यावद्गङ्गां न पश्यति ॥ 14 ॥
भल्लातकीदेवदारुमदयन्तिक्षुवालुकैः ।
तृणाङ्गुल्यश्मलोहाद्यैः शत्रुभ्यः साध्वसं जगुः ॥ 15 ॥
हरीतकीविन्घनागकेतकोद्दालतापसैः ।
कार्पासार्द्रकवाकूचीबलाश्लेष्मातकैर्गदः ॥ 16 ॥
पलाशाश्वत्थजम्बीरमातुलुङ्गकपित्थकैः ।
अगस्त्यतालहिन्तालकुशकाशैस्तथा निशा ॥ 17 ॥
तिन्‌त्रिणीकशमीवेणुशुद्वामलकवञ्जुलैः ।
विकङ्कतव्याघ्रपादसंज्ञवृक्षैर्यशःक्षयः ॥ 18 ॥
यो हि गण्ङषसमये तर्जन्या वक्रचालनम् ।
यदि कुवींत मूढात्मा नरके पतति ध्रुवम् ॥ 19 ॥
नाद्यादजीर्णवमथुश्वासकासज्वरार्दितः ।
तृष्णास्यपाकहृन्नेत्रशिरःकर्णामये च तत् ॥ 20 ॥
मध्याह्नस्नानवेलायां यः कुर्याद्दन्तधावनम् ।
निराशास्तस्य गच्छन्ति देवताः पितृभिस्सह ॥ 21 ॥
अलाभे दन्तकाष्ठानां निषिद्धायां तथा तिथौ ।
अपां द्वादसगण्डूषैः मुखशुद्धिर्भविष्यति ॥ 22 ॥
जिह्वानिर्लेखनं कार्यं सौवर्णां ताम्रमेव वा ।
तन्मलापहरं शस्तं मृदुश्लक्ष्णं षडङ्गुलंम् ॥ 23 ॥
पित्तश्लेष्महरं मेध्यं नैर्मल्यं चक्षुषोर्हितम् ।
श्रोत्रनासा विशुद्ध्यन्ते नराणां दन्तधावनात् ॥ 24 ॥
(स्नानविधिः)
पुण्यनिर्मलतोयेन पादौ प्रक्षाल्य वाग्यतः ।
मलापकर्षणार्थाय स्नानं कुर्यत्प्रयन्ततः ॥ 25 ॥
उष्णाम्बुनाधःकास्य परिषेको बलावहः ।
तेनैव चोत्तमाह्गस्य बल हृत्केशचक्षुषोः ॥ 26 ॥
स्नानमर्दितनेत्रास्य कर्णरोगातिसारिषु ।
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम् ॥ 27 ॥
स्नानास्तानन्तरं सम्यग्वस्त्रेणोद्वर्तयेत्तनम् ।
कान्तिदं च शरीरस्य कण्डूत्वग्दोषनाशनम् ॥ 28 ॥
पिटकाद्यङ्ग दोषघ्रमुद्वर्तनमुदाहृतम् ।
भूमेः समुद्धृतं पुण्यं ततः प्रस्त्रवणोदकम् ॥ 29 ॥
ततोऽपि सारसं पुण्यं तस्मान्नादेयमुत्तमम् ।
तीर्थतोयं ततः पुण्यं गाङ्गं पुण्यं च सर्वतः ॥ 30 ॥
रूपं तेजो बलं कान्तिश्शौचमाप्यायनं तनोः ।
दुःस्वप्ननाशनं पुण्यं स्नानमायुष्यवर्धनम् ॥ 31 ॥
अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः ।
स्रवत्येव दिवा रात्रो प्रातःस्नानेन सुध्यति ॥ 32 ॥
(सन्ध्योपासनादि)
कुलाचारं ततः कुर्यात्संध्योपासनमादितः ।
सूर्योपास्तिं ततः कुर्यात्सर्वरोगापनुत्तये ॥ 33 ॥
(पुण्ड्रधारणम्)
केशानां निचयं कुर्यात्कस्तूरीमनुलेपयेत ।
सुगन्धीनि सुपुष्पाणि नित्यं शिरसि धारयेति ॥ 34 ॥
केशक्लेद समुद्भूतस्वेददुर्गन्धनाशनम् ।
चक्षुष्यं दाहशमनं सौमनस्यस्य धारणात् (णम्) ॥ 35 ॥
जीवाद्याविद्धू केतक्याः कोमलं घारयेद्दलम् ।
जातीं कन्दं नेपाल श्रीकण्ठं गिरिमल्लिकाम् ॥ 36 ॥
मकरन्देन संयुक्तं शिरसा धासयेन्नरः ।
मलिने मल्लिका धार्या निरेमल जातिपाटले ॥ 37 ॥
अभ्यङ्गे केतकी धार्या चोत्पलं सततं धरेत् ।
सर्वाण्येतानि शितान रसतो वीर्यतस्तथा ॥ 38 ॥
त्रिदोषशमनं श्रीमान् घर्मकाले प्रधारयेत् ।
केतकी वकुलं पुश्पं श्रीखण्डं शतपत्रकम् ॥ 39 ॥
श्रीपर्णं चम्पकं पुष्पं वातश्लेष्महरं परम् ।
उष्णवीर्यं वातनाशं शितकाले प्रधारयेत् ॥ 40 ॥
ह्रीबेरं मरुवं चैव नीलोत्पलसुचम्पकौ ।
कुरवं पाटलं चैव करवीरं तथैव च ॥ 41 ॥
नात्युष्णां न च वा शीतं सर्वदोषनिबर्हणम् ।
निर्मलं नेत्रदोषन्धं वर्षाकाले प्रधारयेत् ॥ 42 ॥
मुहूर्तं जातिकुसुमं नेपालं चोत्पलं तथा ।
त्रिरात्रमुत्पलं चैव पंचतात्र तु केतकी ॥ 43 ॥
द्विरात्रं शतपत्रं च अर्धरात्र तु मल्लिका ।
अहारात्रं चम्पकं तु यूथीपुष्पं तथैव च ॥ 44 ॥
श्रीकण्ठमेकरात्रं च बकुलं माधवी तथा ।
अहरेकं तु श्रीपर्णं पुण्यवारं निधारयेत् ॥ 45 ॥
मन्दारं मरुवं चैव करवीरं तथैव च ।
यावत्कालं वहेद्गन्धं तावत्कालं च पाटली ॥ 46 ॥
त्रिदोषशमना जाजी महादाह विनाशिनी ।
सुगन्धं दोषशमनं कोटरं पुष्पमुच्यते ॥ 47 ॥
पित्तहृद्विशदं शैत्यं चक्षुष्यं चोत्पलं तथा ।
श्लेष्मवातप्रशमनमुष्णभावं च निर्मलम् ॥ 48 ॥
पुष्पाणां प्रवरं श्रेष्ठं केतकीपुष्पमुचियते ।
ईषदुष्णं सुशीतं च सुगन्धं पुष्टिदायकम् ॥ 49 ॥
शिरोभ्रमविनाशं च शतपत्रं सुशोभनम् ।
आधार्यं मल्लिकापुष्पं दृष्टिहानिर्न जायते ॥ 50 ॥
चम्पकं वातशमनं चक्षुष्यं विशदं शुभम् ।
पाटलं च महाशीतं श्‌लेष्मवातप्रवर्धनम् ॥ 51 ॥
मन्दारं पित्तदोषन्धं कर्णबाधिर्यनाशनम् ।
पाटलं धारयेद् यस्तु मरुवेण समन्वितम् ॥ 52 ॥
ज्वरमूर्छामवातन्धं चक्षुष्यं दाहनाशनम् ।
हेमन्ते शिशिरेचैव शतापत्रं तु शोभनम् ॥ 53 ॥
वसन्ते केतकी धार्या घर्मे नेपालमालती ।
वर्षे श्रीकण्ठपाटल्यौ शारदे चम्पकं वहेत् ॥ 54 ॥
रक्तोत्पलं सर्वकालं भवेद् लक्ष्मीविवृद्धये ।
(गन्धधारणम्)
कुङ्कुम् चन्दनं चैव तथागरुविमिश्रितम् ॥ 55 ॥
उष्णभावमिदं श्रेष्ठं शीतकाले तु लेपयेत् ।
चन्दनं चेन्दुना युक्तं कस्तूर्या सह मिश्रितम् ॥ 56 ॥
सुगन्धं च सुशीतं च घर्मकाले प्रधारत् ।
चन्दनं घुसृणोपेतमीषत्कस्तूरिकायुतम् ॥ 57 ॥
न चोष्णं न च वा शीतं वर्षाकाले प्रधारयेत् ।
आदौ चोद्वर्तयेद्गन्धं पश्वाद्गन्धं प्रलेपयेत् ॥ 58 ॥
(वस्त्रधारणम्)
शितकाले तु कौशेयं कषायं घर्मवासरे ।
वर्षसु शुक्लवस्त्रं स्यात् त्रिधा वस्त्रस्य धारणम् ॥ 59 ॥
कौशेयं चित्रवस्त्रं च रक्तवस्त्रं तथैव च ।
वातश्लेष्महरं नॄणां शीतकाले तु धारयेत् ॥ 60 ॥
मध्यं सुशीतपित्तघ्नं काषायं वस्त्रमुच्यते ।
तद्धारयेद्धर्मकाले काषायं वस्त्रमुत्तमम् ॥ 61 ॥
शुक्लं सुशीतलं चैव शीततापनिवारणम् ।
न चोष्णं न च वा शीतं शुक्लं वर्षासु धारयेत् ॥ 62 ॥
मलिनं परवस्त्रं तु स्त्रीवस्त्रं तु ततैव च ।
खण्डं च मूषकैर्विद्धमग्निदग्‌धं च वर्जयेत् ॥ 63 ॥
मलिनं न शिवं तत्तु कण्डूत्वग्दोषकारणम् ।
सुकृतस्य फलं नास्ति परवस्त्रस्य धारणात् ॥ 64 ॥
कार्यहानिर्दुर्बलत्व स्त्रीवस्त्रेण प्रजायते ।
खण्डवस्त्रे वसेज्ज्येष्ठा तस्मात्तत्परिवर्जयेत् ॥ 65 ॥
भयदं मूषिकैर्विद्धं दग्धेन च मृतिर्भवेत् ।
तस्मात्सर्वप्रयत्नेन शोध्यवस्त्रं प्रधारयेत् ॥ 66 ॥
सुहृत्सु शुभदं चैव दर्शनेन प्रजाते ।
(रत्नादिदारणम्)
रत्नानि देवतातुष्ट्यै भूषणान्यपि धारयेत् ॥ 67 ॥
आदित्ये पझरागं च सोमे मुक्ताफलं तथा ।
मह्गले विद्रुमं चैव बुदे मरकतं तथा ॥ 68 ॥
गुरौ तु पुष्यरागं च भार्गवे वज्रमुत्तमम् ।
मन्दे तु नीलमीत्युक्तं राहोर्गेमेदकं तथा ॥ 69 ॥
केतोर्वैडूर्यमित्युक्तं क्रमाद्रत्नस्य लक्षणम् ।
लोहो रजतहेमनी ताम्रं कास्यं च पंचकम् ॥ 70 ॥
स्त्रीशूद्रवृद्धघाती च तथा गोब्रझघातकः ।
सर्वपापविनिर्मुक्त्यै पंचलोहस्य (हादि ?) धारयेत् ॥ 71 ॥
(तर्पणम्)
धर्मसंग्रहणं कुर्याद्दानतीर्थेपवासकैः ।
स्वबन्धुपितृदेवानां ब्राझणानां च तर्पणम् ॥ 72 ॥
स्वर्ग्यं यशस्यमायुष्यं सर्वपापहरं शुभम् ।
देवब्राझणबन्धूनां तर्पणेन प्रजायते ॥ 73 ॥
(अष्टमङ्गलवीक्षणम्)
ततो भोजनवेलायां कृताचारस्यदात्मवान् ।
देवान् पितॄन् समभ्यर्च्य कुर्यान्मङ्लवीक्षणम् ॥ 74 ॥
लोकेऽस्मिन्मङ्लान्यष्टौ ब्राझणो गौर्हुताशनः ।
सुवर्णं सर्पिरादित्य आपो राजा ततोऽष्टमः ॥ 75 ॥
एतानि सततं पश्येन्नमस्येदर्चयेद्यथा ।
च कुर्वित आयुर्वर्धनमुत्तमम् ॥ 76 ॥
(भोजनम्)
पत्रीविहितश्रृंगारं प्राप्य भोजमनन्दिरम् ।
यथाऽचाग्निबलं वीक्ष्य भोजनं कारयेद्बुधः ॥ 77 ॥
एक एव न भुंजीत यदीच्छेत्प्रियमात्मनः ।
भोक्तुकामश्व घातुश्व क्रोधवानपि गार्हितः ॥ 78 ॥
अन्नं विषसमं प्राहुरजीर्णं प्राप्नुयान्नरः ।
द्वित्रिभिर्बन्धुभिः सार्धं भोजने न प्रजायते ॥ 79 ॥
अभीष्टफलसंसिद्धिस्तुष्टिकाम्यसुसंपदः ।
चकोरं कुक्कुटं कृष्णं शारिकां च शुकं तथा ॥ 80 ॥
अमात्यराजपुत्राणां गृहेष्वेतानि रक्षयेत् ।
चकोरश्वक्षुषो नैल्यं विष्ठां मुञ्जति कुक्कुटः ।
दृष्ट्वान्नं विषसंयुक्तें कूजन्ति शुकशारिकाः ॥ 81 ॥
तेषां दृष्टिनिपातेन अन्नाद्यं निर्विषं भवेत् ।
परविद्या दिनाशार्थ तेषां दर्शनमुच्यते ॥ 82 ॥
कातिंक्यामपरः पक्षो मार्गशीर्षस्य चादिमः ।
द्वावेतौ यमदंष्ट्राख्यौ मिताहारः स जीवति ॥ 83 ॥
आदौ मधुरमश्नीयान्मध्ये च कटुतिक्तकम् ।
अन्ते तिक्तकषायं च सम्यग्जीर्णं सुखावहम् ॥ 84 ॥
भोजनादौ पिबेतोयमग्निसादः कृशाङ्गता ।
मध्ये कार्यं(य)विवृद्वे (द्धिश्व) अन्ते श्रेष्ठं रसायनम् ॥ 85 ॥
अत्यम्बुपानादविपच्यतेऽन्नमनम्बुपानच्च स एव दोषः ।
तस्मान्नरो वह्निविवर्धनाय मुहुर्मुहुर्वारि पिबेदभूरि ॥ 86 ॥
पिबेद्धटसहस्त्राणि यावदस्तं गते रवौ ।
निशि भोजनवेलायां स्वल्पमप्युदकं विषम् ॥ 87 ॥
अन्नेन कुक्षौ द्वावंशौ पानेनैकं प्रपूरयेत् ।
आश्रयं पवनादीनां चतुर्थमवशेषयेत् ॥ 88 ॥
अत्याहाराद्भवेद्व्याधिरनाहाराद्बलक्षयः ।
समाहाराद्बलं सम्यग् आयुर्वर्धनमुत्तमम् ॥ 89 ॥
तृषार्तस्तु न भुञ्जीत क्षुघार्ते न पिबेज्जलम् ।
तृषणार्ते जायते गुल्मी क्षुधार्तस्तु भगन्दरी ॥ 90 ॥
भोक्तितामस्व)स्य ?) घा(दा ?)तुश्व कोपवादो(वि?)गर्हितः ।
अन्नं विषसमं प्राहुरजीर्णं प्राप्नुयान्नरः ॥ 91 ॥
आमं विदग्धं विष्टंभि रसशेषं तथैव च ।
चतुर्विदमजीर्णं तु तक्रं तत्र परि(प्रति?)क्रिया ॥ 92 ॥
भुक्त्वा तु मथितं सम्यक्कराभ्यां च विशेषतः ।
तत्तोयं नेत्रयोः क्षिप्त्वा नेत्ररोगं जयेन्नरः ॥ 93 ॥
भुक्त्वोपविशतस्तुन्दः भुक्त्वा संविशतस्सुखम् ।
आयुष्यं चरमाणस्य मृत्युर्धावति धावतः ॥ 94 ॥
भुक्त्वा चान्न मपः(मुप)स्पृश्य गत्वा शतपदं शनैः ।
वामपार्श्वे शयानस्य भिषग्भिः किं प्रयोजनम् ॥ 95 ॥
दिवास्वापं न कुर्वीत मिथ्यावादं न कारयेत् ।
दिवास्त्रीसङ्गमो नॄणामायुःक्षयकरो भवेत् ॥ 96 ॥
धर्मशास्त्राणि सततं पुराणश्रवणं तथा ।
कारयेत् विधिना सम्यगात्माभ्यांसांश्व नित्यशः ॥ 97 ॥
तामबूलं चर्वयेद्भुक्त्वा प्रागेव त्रिचतुस्तथा ।
एकपूगं चतुःपत्रं सुधाव्रीहिद्वितीयकम् ॥ 98 ॥
पूगं सुदेश संभूतं कठिनं गुरु चिक्कणम् ।
शशामांससमं छिन्नं क्रमुकं तु सुशोभनम् ॥ 99 ॥
पूगः कषायो मधुरो रूक्षो दोषहरः परम् ॥
सुपक्कः सर्वदोषघ्नः अपक्को दोषदो भवेत् ॥ 100 ॥
कटुकी रससंयुक्तं नागपत्रं सुशोभनम् ।
सुपक्कदलसंयुक्तं सर्वदोषविवर्जितम् ॥ 101 ॥
कफवातहरं चेति नागपत्रं प्रकीर्तितम् ।
दीपनं कृमिदोषन्धं विशदं निर्मलं लघु ॥ 102 ॥
सुधा पाषाणजं वापि शंखेनापि विनिर्मितम् ।
सुक्तिशम्बूकसंभूतं चूर्णं सुक्ताफलोद्भवम् ॥ 103 ॥
चूर्णं पाषाणसंभूतं त्रिदोषशमनं लघु ।
वातपित्तहरं शंखशुक्तिजं शीतलं भवेत् ॥ 104 ॥
शम्बूकं श्लेष्मदोषघ्नं मुक्ताचूर्णं तु वातलम् ।
मनसो हर्षणं श्रेष्ठं रतिदं मद कारणम् ॥ 105 ॥
मुखरोगकिमिहरं ताम्बीलं चन्द्रसंयुतम् ।
दन्तानां स्थैर्यदं चैव वक्त्रदुर्गन्धनाशनम् ॥ 106 ॥
मुखरोगक्रिमिहरं खादिरेण विमिश्रितम् ।
पित्तदोषप्रशमनं रक्तपित्तप्रवर्धनम् ॥ 107 ॥
श्लेष्मरोगहरं रुच्यं नेत्ररोगहरं शुभम् ।
नासारोगहरं कण्ठ्यं ताम्बूलं चन्द्रसंयुतम् ॥ 108 ॥
आदौ विषोपमं पीतं द्वितीयं भेदि दुर्जरम् ।
पश्चात्सुधासमं पीतं सम्यगजीर्णं सुखावहम् ॥ 109 ॥
क्षीरं पीत्वा मुहूर्तेन ताम्बूलं यदि चर्वितम् ।
कुष्ठी भवति मेही च मूत्रदोषी च वा भवेत् ॥ 110 ॥
अक्षिरोगी क्षयी पाण्ङुरोगी भ्रममदात्ययी ।
अपस्मारी श्वासरोगी हृद्रोगी रक्तपैत्त्यकी ॥ 111 ॥
ग्रहणीवा नतीसारी ताम्बूलं परिवर्जयेत् ।
ताम्बूलं क्षतपित्तासृग्रूक्षो त्कुपितचक्षुषाम् ॥ 112 ॥
विषमूर्छामवातानामपथ्यं शोषिणामपि ।
दिवा संध्यां वर्जयित्वा ताम्बूलं खादयेन्नरः ॥ 113 ॥
अनिधाय मुके पर्णं खादेत्पूगीफलं नरः ।
दरिद्रत्वमवाप्नोति शक्रतुल्योऽपि मानवः ॥ 114 ॥
एकद्वित्रिचतुःपञ्जषडिभः पूगीफलैः क्रमात् ।
लाभालाभौ सुखं दुःखमायुर्मरणमेव वा ॥ 115 ॥
प्रातः पूगीफलाधिक्यं मध्याह्नऽधिकचूर्णता .
रात्रौ तु पर्णबाहुल्यमेतत्ताम्बूललक्षणम् ॥ 116 ॥
प्रत्यूषे भुक्तसमये वरयुवतिनां च संगमे प्रथमे ।
विद्वान्(विदुषां)राज्ञां मध्ये ताम्बूलं यो न खादयेत्स पशुः ॥ 117 ॥
पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसंभवः ।
चूर्णपर्णं हरत्यायुः सिरा बुद्धिविनाशिनी ॥ 118 ॥
तस्मादग्रं च मूलं च सिरा चैव विवर्जयेत् ।
चूर्णपर्णं वर्जयित्वा ताम्बूलं खादयेत्सुधीः ॥ 119 ॥
(स्त्रीभोगः)
दिवा संध्यां वर्जयित्वा तथा पर्वदिनेषु च ।
रात्रौ व्यवायां कुर्वोत योषितं यौवने स्थिताम् ॥ 120 ॥
कुरूपिणीं कुशीलां तु विधवां च परस्त्रियम् ।
अतिकृष्णां च हीनां च पुत्रमित्रमृपस्त्रियम् ॥ 121 ॥
त्यजेदन्त्यकुलोद्भूतां वृद्धस्त्रीं कन्यका तथा ।
वयोधिकां स्त्रियं गत्वा तरुणस्स्थविरो भवेत् ॥ 122 ॥
तारुण्यं तरुणीं गत्वा वृद्धोऽपि समवान्पुयात् ।
रतिकालैकशयनमन्यत्काले पृथक्च्छयी ॥ 123 ॥
स्त्रीणां श्वासानिलैः पुंसां दौर्भगत्वं प्रजायते ।
एकशायी द्विभोजी च षण्मूत्री द्विपुरीषकः ।
स्वल्पसगमकारी च शतवर्षाणि जीवति ॥ 124 ॥
अत्यम्बुपावादतिसङ्गमाच्च
स्वन्पाद्दिवा जीगरणाच्च रात्रौ ।
निरोधनान्मूत्रपुरीषयोश्च
षड्भिः प्रकारैः प्रभवन्ति रोगाः ॥ 125 ॥
गोशतादपि गोक्षीरं प्रस्थं धान्यशतादपि ।
प्रासादादपि शय्यार्थं शेषाः परविभूतयः ॥ 126 ॥
क्षुतं वक्त्रेण वहति जृंभणं नासया पुनः ।
बिन्दुसंरक्षणे चैव शतवर्षाणि जीवति ॥ 127 ॥
विचार्य देशकालौ च वयस्सत्त्वं तथा बलम् ।
जलपानमुषःकाले पीत्वा शतसमं वसेत् ॥ 128 ॥
अम्भसः प्रसृतान्यष्टौ पिबेदनुदिते रवौ ।
वातपित्तकफान् जित्वा जीवेद्वर्षशतं सुखी ॥ 129 ॥
परद्रव्यं परस्त्रीं च परनिन्दां च बुद्धिमान् ।
अमित्रभाषणं शाठ्यं स्त्रीष्वालापं च वर्जयेत ॥ 130 ॥
वर्जनं ताप्यगम्याया अभक्ष्यायाश्च(क्ष्यस्याप्य?)भक्षणम् ।
असूयावर्जनं चैव पतितैः सङ्गवर्जनम् ॥ 131 ॥
क्रौर्यस्य वर्जनं चैवमात्मस्तुतिविवर्जम् ।
दानं मनोरमं कार्यमिष्टापूर्तस्य वर्धनम् ॥ 132 ॥
अशोषदेवताभक्तिर्गोषु विप्रेषु तर्पणम् ।
शुश्रूषणं गुरुस्त्रीणां तपस्तीर्थोषु मज्जनम् ॥ 133 ॥
विद्यायाः सेवनं चैव सततं साधुसंगमः ।
दीनान्धकृपणानां च भ्रातॄणां चैव पोषणम् ॥ 134 ॥
कारयेत्सततं भक्त्या कीर्तिलक्ष्मीविवृद्धये ।
हिताय राजपुत्राणां सज्जनानां विशेषतः ।
चारुचर्या प्रिया श्रेष्ठा रचिता भोजभूभुजा ॥ 135 ॥
॥ ईति भोजराजचारुचर्या समाप्ता ॥
“एकादशद्वारनिबद्ध उपदेशः “*
धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्बलं
धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसमपत्तयः ।
कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते
धर्मः सम्यगुपसिते भवति हि स्वर्गापवर्गप्रदः ॥ 1 ॥
(धर्म) सिद्धौ ध्रुवं सिद्धिर्द्युम्नप्रद्युम्नयोरपि ।
दुग्धोपलम्भे सुलभा संपत्तिर्दधिसर्पिषोः ॥ 2 ॥
धर्मो महामङ्गलमङ्गभाजां धर्मो जनन्यिद्दलिताखिलार्तिः ।
धर्मः पिता पूरितवाञ्छितार्थो धर्मः सुहृद्वर्धितनित्यहर्षः ॥ 3 ॥
जैनो गर्मः प्रकटविभवः संगतिः साधुलोके
विद्वद्गोष्ठीवचनपटुता कौशलं सत्कलासु ।
साध्वी लक्ष्मीचरणकमलोपासना सद्गुरुणां
शुद्धं शीलं मतिरमलिना प्राप्यते नाल्पपुण्यैः ॥ 4 ॥
मनसि वचसि काये पुण्यपीयूषपूर्णा-
स्त्रिभुवनमुपकारश्रेणीभिः प्रीणयन्तः ।
परगुणपरमाणून् पर्वतीकृत्य नित्यं
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ॥ 5 ॥
श्रद्धालतां याति जिनेन्द्रशासने धनानि क्षेत्रेषु वपत्यनारतम् ।
किमत्यपुण्यानि सुसाधुसेवनादतोऽपि तं श्रावकमाहुरुत्तमाः ॥ 6 ॥
व्याकुलेनापि मनसा धर्मः कार्यां(र्यो) निरनातरम् ।
मेढीबद्धोऽपि हि भ्राम्यन् घासग्रासं करोति गौः ॥ 7 ॥
तक्रादिव नवनीतं पङ्कादिव पझममृतमिव जलधेः ।
मुक्तामणिरिव वंशाद्धर्मः सारं मनुष्यभवात् ॥ 8 ॥
शिष्टे संगः श्रुतौ रंगः सद्ध्याने धीर्धृतौ मतिः ।
दाने सक्तिर्गुरौ भक्तिः षडेते सुकृताकराः ॥ 10 ॥
भवकोटीदुष्प्रापामवाप्य नृभवादिसकलसामग्रिम् ।
भवजलधियानपात्रे धर्मे यत्नः सदा कार्यः ॥ 11 ॥
धर्मे रागाः श्रतौ चिन्ता धने व्यसनमुत्तमम् ।
इन्द्रियार्थेषु वैराग्यं संप्राप्तं जन्मनः फसम् ॥ 12 ॥
संपदो जलतरंगविलोला यौवनं त्रिचतुराणि दिनानि ।
शारदाभ्रमिव चञ्जलमायुः किं धनैः कुरुत घर्ममनिन्द्यम् ॥ 13 ॥
चला विभूतिः क्षणभङ्गि यौवनं कृतान्तदन्तान्तरवर्ति जीवितम् ।
तथाप्यवज्ञा परलोकसाधनेष्वहो नृणां विस्मयकारि चेष्टितम् ॥ 14 ॥
उद्यमं कुर्वता पुंसां भाग्यं सर्वत्र कारणम् ।
समुद्रमथनाल्लेमे हरिर्लक्ष्मीं हरो विषम् ॥ 15 ॥
आरोहतु गिरिशिखरं समुद्रमुल्लङ्ध्य यातु पातालम् ।
विधिलिखिताक्षरमालं फलति कपालं न भूपालः ॥ 16 ॥
प्रचलति यदि मेरुः शीततां याति वह्नि-
रुदयति यदि भानुः पश्चमायां दिशायाम् ।
विकसति यदि पझं पर्वताग्र शिलायां
न हि भवति हि णिथ्या भाविनी कर्ममरेखा ॥ 17 ॥
औचित्यमेकमेकत्र गुणानां कोटिरेकतः ।
विषायते गुमग्राम औचित्यपरिवर्जितः ॥ 18 ॥
आचारः कुलमाख्याति देशमाख्याति भाषितम् ।
संभ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥ 19 ॥
नाविदु(द ?)ग्धः प्रियं ब्रूयान्नाकामी मण्डनप्रियः ।
निःस्पृहो नाधिकारी स्यात् स्फुटवक्ता न व़ञ्जकः ॥ 20 ॥
सुखी न जानाति परस्य दुःखं न यौवनस्था गणयन्ति शीलम् ।
आपद्गता निष्करुणा भवन्ति आर्ता नरा धर्मपरा भवन्ति ॥ 21 ॥
अभ्यासतारिणी विद्या लक्ष्मीः पुण्यानुसारिणी ।
त्यागानुसारिणी किर्तिर्बुद्धिः कर्मानुसारिणी ॥ 22 ॥
पदे पदे निधानान् योजने रसकूपिकाः ।
पुण्यहीना न पश्यन्ति बहुरत्ना वसुन्धरा ॥ 23 ॥
शतेषु जायते शूरः सहस्त्रेषु च पण्डितः ।
वक्ता शतसहस्त्रेषु दाता भवति वा न वा ॥ 24 ॥
क्षमासमं तपो नास्ति संतोषान्न परं सुखम् ।
नास्ति विद्यासम् दानं नास्ति धर्मो दयासमः ॥ 25 ॥
क्षमाखड्गं करे यस्य दुर्जनः किं करिष्यति ।
अतृणे पतितो वह्निः स्वयमेव विनस्यति ॥ 26 ॥
ओमिति पण्डिताः कुर्युरश्रुपातं च मध्यमाः ।
अधमाश्च शिरोघातं शोके धर्मं विवेकिनां (नः ?) ॥ 27 ॥
यूथं(पं) कृत्वा पशून् हतवा कृत्वा रुघिरकर्दमम् ।
यद्येवं गम्यते स्वर्गो नरके केन गम्यते ॥ 28 ॥
नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया
संतुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव ।
स्वर्गं यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनः
यज्ञं किं नु करोति मातृपितृभिः पुत्रैस्तथा बान्धवैः ॥ 29 ॥
काके शौचं द्यूतकारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः ।
क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥ 30 ॥
जीवन्तो मृतकाः पञ्ज श्रूयन्ते किल भारते ।
दरिद्रो व्याधितो मूर्खः प्रनासी नित्यसेवकः ॥ 31 ॥
हे दारिद्र्य नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः ।
येन पश्याम्यहं सर्वान् न मां कोऽपि (हि ?) पश्यति ॥ 32 ॥
स एव त्वं स एवाहं स एव तव आश्रमः ।
आदरं शिथिलीकृत्य किम(र्थं ?)पुनरागतः (?) ॥ 33 ॥
धनमर्जय काकुत्स्थ दनमूलमिदं जगत् ।
अन्तरं नैव पश्यामि निर्धनस्य मृतस्य च ॥ 34 ॥
आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां
मूकत्वं मितमाषितां वितनुते मौग्ध्यं भवेदार्जवम् ।
पात्रापाविचारमावविरहो यच्छत्युदारात्मतां
मातर्लक्ष्मि तव प्रसादवशतो दोषा अपि स्युर्गणाः ॥ 35 ॥
भक्ते द्वेषो जडे प्रितिः स्वभाववो गुरुलंघने ।
मुखे च कटुता नित्यं धनिनां (ज्व) रिणामिव ॥ 36 ॥
अर्थानामर्जने कष्टमर्जितानां च रक्षणे ।
नाशे दुःखं …धिगर्थान् दुःखभाजनम् ॥ 37 ॥
धर्मस्य फलमिच्छन्ति धर्मं नेच्छन्ति मानवाः ।
फलं नेच्छन्ति पापस्य पापं कुर्वन्ति सादराः ॥ 38 ॥
गतेर्भङ्गः स्वरो दीनो गात्रे स्वेदो महाभयम् ।
मरणे यानि चिह्नानि तानि चिह्नानि याचने ॥ 39 ॥
दानेन भोगाः सुलभा नराणां दानेन भूतानि वशभवन्ति ।
दानेन वैराम्यपि यान्ति नाशं तस्माद्धि दानं सततं प्रदेयम् ॥ 40 ॥
दाता सदैवाक्षयवैभवओः स्याद्वनीपकस्तादृश एव निस्वः ।.
नद्यो भृता अप्यचिरेण रिक्ताः कूपः पयोभिस्तु तथैव पूर्णः ॥ 41 ॥
वरमेका कला रम्या ययाऽलंक्रियते भवः ।
बह्वीभिरपि किं ताभिर्मवो यासु कलङ्क्यते ॥ 42 ॥
वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः ।
अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ॥ 43 ॥
निद्रा मूलमनर्थानां निद्रा श्रेयोविघातिनी ।
निद्रा प्रमादजननी नीद्रा संसारवर्द्धनी ॥ 44 ॥
कूटसाक्षी मृषावादी कृतघ्नो दीर्घरोषणः ।
चत्वारः कर्मचण्डालाः पञ्चमो जातिसंभवः ॥ 45 ॥
माताप्येका पिताप्येको मम तस्य च पक्षिणः ।
अहं मुनिभिरानीतः स च नीतो गवाशिभिः ॥ 46 ॥
गावाशनानां स गिरः श्रुणोति अहं नु राजन् मुनिपुंगवानाम् ।
प्रत्यक्षमेतद्नवतापि दृष्टं संसर्गतो दोषगणा भवन्ति ॥ 47 ॥
संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मपक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
स्वातौ सागरशुक्तिसंपुटगतं वज्रायते मौक्तिकं
प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते ॥ 48 ॥
स्वगुणं परदोषं च वक्तुं प्रार्थयितुं परम् ।
अर्थिनं च निराकर्तुं सतां जिह्वा दडायते ॥ 49 ॥
अयं निजः परो वापि(वेति)गणना लघुचेतकाम् ।
उदारचरितानां तु वसुधैव कुटुंबकम् ॥ 50 ॥
मन एव मनष्याणां कारणां वन्धमोक्षयोः ।
बन्धाय विषयासङ्गे मुक्तिर्निर्विषयं मनः ॥ 51 ॥
उत्तमाः स्वगुणैः ख्याता मध्यमाः स्वपितुर्गुणैः ।
अधमा मातुलैः ख्याताः श्वशुरैस्त्वधमाधमाः ॥ 52 ॥
गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् ।
केतकीगन्धमाघ्राय स्वयं गच्छन्ति षट्पदाः ॥ 53 ॥
गुणैरुत्कर्षतां यान्ति नोच्चैरासनसंस्थितः ।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥ 54 ॥
गुणनि गुणज्ञो रमते नागुणसीलस्य गुणिनि परितोषः ।
अलिरेति वनात्कमलं न दुर्दुरस्त्वेकवासेऽपि ॥ 55 ॥
नागुणी गुणिनं वेत्ति गुणी गुणीषु मत्सरी ।
गुणी च गुणरागी च विरलः सरलो जनः ॥ 58 ॥
यो वेत्ति यस्य न गुणान् सततैनापि(?) तन्न किं कुरुते ।
द्राक्षावनेऽपि फलिते काकः फलमत्ति निम्बस्य ॥ 59 ॥
तच्छ्रेयो यातु पातालं तच्चातुर्यं विलीयताम् ।
विविशन्तु गुणा वह्नौ येषु सत्स्वप्यधोगतिः ॥ 60 ॥
राज्यं यातु श्रियो यान्तु यान्तु प्राणा अशाश्वताः ।
या मया स्वयमेवोक्ता वाचा माया तु शाश्वती ॥ 61 ॥
किं चित्रं यदि दण्डनीतिनिपुणो राजा भवेद्धार्मिकः
किं चित्रं यदि वेदनीतिनिपुणो विप्रो भवेत्पण्डितः ।
तच्चित्रं यदि रूपयौवनवती साध्वी भवेत्कामिनी
तच्चित्रं यदि निर्द्धनोऽपि पुरुषः पापं न कुर्यात्पुनः ॥ 62 ॥
अहङ्कारे सति प्रौढे वदत्येवं गुणावली ।
अहङ्कारे पतिष्यामि समायाता च दंतिके(?) ॥ 63 ॥
जितेद्रयत्वं विनयस्य कारणं गुणप्रकर्षे विनयादवाप्यते ।
गुणाधिते पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥ 64 ॥
क्रोधान्धस्य मुनेश्चण्डचण्डालस्य च नान्तरम् ।
तस्मात्क्रोधं परित्यज्य भजोज्ज्वलधियां पदम् ॥ 65 ॥
अधमा धनमिच्छन्ति धनमानौ हि मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ 66 ॥
लोभमूलानि दुःखानि रसमूलाश्च व्याधयः ।
स्नेहमूलानि दुःखानि त्रीणि त्यक्त्वा सुखी भव ॥ 67 ॥
क्षते प्रहाराः प्रपतन्त्यवश्यं धान्यक्षये स्फूर्जति जाठराग्नः ।

आपत्सु मित्राणि विसंवदन्ति छिद्रेष्वनर्था बहलीभवन्ति ॥ 68 ॥
यास्याम्यायतनं जिनस्य लभते ध्यायंश्चतुर्थं फलं
षष्ठं चोच्छितुमुद्यतोऽष्टममधोगन्तुं प्रवृत्तोऽध्वनि ।
श्रद्धालुर्दशमं बहिर्जिनगृहात्प्राप्तस्ततो द्वादशं
मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् ॥ 69 ॥
भक्तिर्जिनेषु दृढता जिनभाषितेषु श्रद्धा च धर्मकरणेषु गुणेषु रागः ।
दानेषु तीव्ररुचिता विनयेषु वृत्तिः कस्यापि पुण्यपुरुषस्य भवन्त्यवश्यम् ॥ 70 ॥
स पण्डितो यः करणैर्न खण्डितः स तापसो यो निजपापघातकः ।
स दीक्षतो यः सकलं समीक्षते स घार्मिको यो परमर्म न स्पृसेत् ॥ 71 ॥
इक्षे रसं यथादाय कूर्चकस्त्यज्यते नरैः ।.
धर्मः(र्मं) सारं तथादाय देहं त्यजति पण्डितः ॥ 72 ॥
लभ्यन्तेऽपि महार्ध्याणि रत्नानि द्रविणैः सुखम् ।
दुर्लभो रत्नकोट्यापि क्षण एको मनुजायुषः ॥ 73 ॥
गात्रं संकुचितं गतिर्विगलिता दन्ताश्च नाशं गाताः
दृष्टिर्भ्रश्यति रूपमेव हसते वक्त्रं च लालायते ।
वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते
हा कष्टं जरयाभिभूपुरुषं पुत्रोऽप्यवज्ञायते ॥ 74 ॥
दन्तैरुच्चलितं बलेन गलितं पाण्यङ्घ्रिणा कम्पितं
दृग्भ्यां कुड्मलितं धिया तरलितं देहश्रिया प्रोषितम् ।
प्राप्तायां यमभूपतेरिह महाधाट्यामियं सर्वतः
तृष्णा केवलमेककैव सुभटी हृत्पत्तने नृत्यति ॥ 75 ॥
संपदि यस्य न हर्षो विपदि विषादो रणेऽप्यधिरत्वम् ।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ 76 ॥
विग्रहमिच्छन्ति भटा वैद्याश्च व्याधिपीडितं लोकम् ।
भृतकबहुलं च विप्राः क्षेमसुभक्षं च निर्ग्रन्थाः ॥ 77 ॥
सुलभानि सर्वशास्त्राणि दुर्लभं भाववेदनम् ।
शिरो वहति पुष्पाणि गन्धं जानाति नासिका ॥ 78 ॥
तृणं ब्रझविदः स्वर्गं तृणं शूरस्य जीवितम् ।
विरक्तस्य तृणं नारी निरीहस्य तृणं नृपः ॥ 79 ॥
न वीतरागादपरोऽस्ति देवो न ह्रझचर्यादपरं तपोऽस्ति ।
नाभीतिदानात्परमस्ति दानं चारित्रिणो नापरमस्ति पात्रम् ॥ 80 ॥

बुद्धेः फलं चत्त्वविचारणे च देहस्य सारं व्रतधारणं च ।
अर्थस्य सारं किल पात्रदानं वाचः फलं प्रीतिकरं नराणाम् ॥ 81 ॥
रणे वने शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा ।
सुप्तं प्रमत्तं वषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥ 82 ॥
भीमं वनं(भवति)तस्य पुरं प्रधानं सर्वा च भूर्भवति सन्निधिरत्रपूर्णा ।
सर्वे जनः स्वजनतामुपयाति तस्य यस्यास्ति पूर्वरचितं सुकृतं नरस्य ॥ 83 ॥
याति कालो गलत्यायुः क्षीयन्ते च मनोरथाः ।
सुकृतं न कृतं किंचित्सतां संस्मरणोचितम् ॥ 84 ॥
अवाप्य धर्मावसरं विवेकी कुर्याद्विलम्बं न हि विस्तराय ।
तातो(यातो ?) जिनस्त[ा]क्षशिलाधिपेन रात्रिं व्यतिक्रम्य पुनर्न नेमे ॥ 85 ॥
जिनेन्द्रपूजा गुरुपर्युपास्तिः सत्त्वानुकंपा शुभपात्रदानम् ।
गुणानुरागः श्रुतिरागमस्य नृजन्मवृक्षस्य फलान्यमूनि ॥ 86 ॥
संपत्तौ नियमः शक्तौ सहनं यौवने व्रतम् ।
दारिद्य्रे दानमत्यल्पमतिलाभाय कल्पते ॥ 87 ॥
रम्येषु वस्तुषु मनोहरतां गतेषु रे चित्त खेदमुपयासु वृथा किमेवम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा पुण्यैर्विना न हि भवन्ति समीहितानि॥88॥
यथा चितं तथा वाचो यथा वाचस्तथा क्रिया ।
चित्ते वाचि क्रियायां च साधूनामेकरूपता ॥ 89 ॥
आदौ चित्ते ततः काये सतां तंगच्छते जरा (त्वरा ?) ।
असतां तु पुनः काये चित्ते न वचने न च ॥ 90 ॥
उतः(ओतुः)पयः पश्यति नैव दण्डं कीरस्तु शीलीन्न तु सानुखण्डम्(?)
काकोऽपि मांसं ननु सिंहतुण्डं जीवस्तथाशां न यमं प्रचण्डम् ॥ 91 ॥
मानं (हि ?)दारिद्र्यहरं शीलं दुर्गतिनाशनम् ।
अज्ञाननाशिनि प्रज्ञा भावना भवनाशिनी ॥ 92 ॥
अजीर्णं तपसः क्रोधो ज्ञानाजीर्णमहंकृतिः ।
परनिन्दा क्रियाजीर्णमन्नाजीर्णं विषूचिका ॥ 93 ॥
तार्णं जीर्णं कुटीरं वृषनकुलकुलैराकुलं धान्यहीनं
काणी कोलाकुरूपा कटुरटनपरा गेहिनी स्नेहहीना।
खण्डी हण्डी त्रिखण्डी श्रुतिविकलथरी(?) द्वारि कोकूयमाना
एवं सत्यां विभूत्यां रमति जनमनो ही महामोहचेष्टा ॥ 94 ॥
सुभाषितेन गीतेन युवतीनां च लीलया।
मनो न भिद्यते यस्य स योगी अथवा पशुः ॥ 95 ॥
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा निवेशिता ॥ 96 ॥
यौवनं धवसंपत्तिः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किं पुनस्तच्चतुष्टयम् ॥ 97 ॥
राजनि धर्म्ये धर्मिष्ठाः पापे पापाः समे समाः ।
राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥ 98 ॥
भवविटपिसमूलोन्मूलने मत्तदन्ति
न(ज)डिमतिमिरनाशे पझिनीप्राणनाथः ।
नयनमपरमेतद्विश्वविश्वप्रकाशे
ह(क?)रमहरिणबन्धे वागुरा ज्ञानमेव* ॥ 99 ॥
॥ श्रीभोजराजाङ्कः ॥
॥ सुन्दरवीररघूद्वहसूरि-विरचितः ॥
अस्तु नः स्वस्तिदं वस्तु कौस्तुभप्रभमुज्ज्वलम् ।
क्षमाक्षमा सदा लक्ष्मीर्यस्य वक्षसि लक्ष्यते ॥ 1 ॥
नान्द्यन्ते सूत्रधारः (समन्तादवलोक्य)-
अहो विरतप्रायैव शर्वरी ! यतः–
साधूनां हृदयमिव प्रसन्नमभ्रं
सर्वत्र प्रसरति मन्दगन्धवाहः ।
उद्बुद्ध्याम्बुजविपिनं प्रयाति भृङ्गः
चन्द्रो वि(ऽपि ?)प्रियवनितामिव प्रतीचीम् ॥ 2 ॥
(सहर्षं) कथमुदित एव भगवानम्मोजिनीप्राणनाथः !
यतः–
कर्णावतंसरुचिमद्रितटे वनश्रीः
बालातपेन वहते नवरल्लवेषु ।
मुग्धाङ्गनाजनघनस्तनमण्डलाभं
कोकः करोति गमनं प्रिययान्तरिक्षैः(क्षे) ॥ 3 ॥
(इति सर्वत्र दृष्टिं चालयित्वा) अहो भाग्यवति गोपनगरी !
यतः–
बण्णानदीपवनपावितपुण्यमिः
कृष्णाटवीचरवीपदरेणुसान्द्रा ।
श्रीदेहलिश वनुताजनगुल्फलम्बि-
मञ्जीरशिञ्जितशुचिध्वनिचुम्बितास्ते ॥ 4 ॥
(कर्णं दत्वा) किन्निमित्तेयं भगवतः श्रीनन्दनन्दनस्य श्रवणानन्दकरी
सिन्धुनन्दिनी सुन्दरकन्दुकविहारसमयविलोलमेखलालम्बमानमणिगणशिञ्जि-
तानुकारीणी सशुद्धसरससंल्लापपरपुष्टमिथुनसुश्रूयमाणा निरन्तरभगवद्ध्यान्-
परमैकान्तिकुलकलिता गीतिस्तमुज्जृम्भते । (विचिन्त्य) आः, ज्ञातं ज्ञातम् ।
अद्य खलु—
चैत्रशुद्धनवमीमहोत्सवः जानकीकुचविमर्दितोरसः ।
तत्समर्चनकृते द्विजोत्तमैः सारसान्द्रमिह साधु गीयते ॥ 5 ॥
(अन्यत्र दृष्ट्वा) अहो, कथमत्र महतां समाजः । तदेनमुपतिष्ठे।
(अञ्जलिं बद्ध्वा)
नमः श्रीजानकीजानिनिध्यानरसवेदिने ।
श्रुतिस्मृतीतिहासादिनिधये सदये सताम् ॥ 6 ॥
(आकाशे लक्ष्यं बद्ध्वा)
किं कथयन्त्यार्यमिश्राः । भो भो भरतपुत्र, अद्य परितोषयास्मान्नव्येन
रूपकाभिनयेनेति । (सविनयम्) आर्यमिश्राः—
नव्येषु बहुषु सत्स्वपि
नवरसभरितेषु रूपकेष्वधुना ।
केन भवामि गुरूणां
हृदयं सम्यग्विनोदयितुम् ॥ 7 ॥
किं ब्रूथ —-
करुणारसभूयिष्ठं श्रृङ्गाररसमेदुरम् ।
कन्यारत्नकथारम्यं रूपकं तत्प्रयुज्यताम् ॥ 8 ॥ इति ।
(सहर्षं) घन्योऽस्मि ।
अम्भोजुञ्जरमरालनिजाङ्कमध्य-
भ्राजत्क एव जनयेद्भवतां प्रमोदम् ।
आस्ते यतस्सकललोकमनोभिरामः
प्राचिननाथमहिनस्स नवप्रवृत्तिः ॥ 9 ॥
पुनःकिं ब्रथ ? अये ! रसिकशेखरोऽसि । यदस्मद्धृदयस्थं विदित्वा
‘भोजराजाङ्क’ निरूपयितुं प्रवृत्तोऽसीति । (पुनः सविनयम्) सर्वेऽप्यार्यानु-
ग्रहपरिणाम एव । (सप्रमोदं शिरः कम्पयन्)–
सरसो रसिकश्र्लाध्यो
ग्रन्थस्सोऽयं कविश्च वाधूलः ।
दासो भागवतानां
सुन्दरवीररघुनायकाचार्यः ॥ 10 ॥
यस्तु—
श्रीबालकिंगृहपुरीविहरद्रमेश-
पादाब्जरेणुपरिमण्डितमूर्धबागाः ।
श्रीसात्वतामृतमहोदधिपूर्णचन्द्रः
कस्तूरिङ्गतनयो जयतिस्सुमेधाः (?) ॥ 11 ॥
(इति समन्तादवलोक्य) अहो वसन्तोपक्रमः !
यतः—
मलयादचलान्मृदुप्रयारो
मदनामोदभरैः श्रमापनोदम् ।
सहकारवने विदाय मल्ली-
लतिकाविभ्रममातनोति हर्षात् ॥ 12 ॥
अहो मे भागधेयं यदद्यैषामेकासिकता !
कविरपि रसकः श्लाध्यः
कविता सरसा च भोजनृपवृत्ता ।
स्यश्चापि वसन्तः
सवश्च सीतारमणवर्धन्त्यो (न्त्याः?) ॥ 13 ॥
(रङ्गस्थलं विलोक्य सहर्षम्)
सङ्कीर्णाः प्रसवाश्च मद्दलरवैस्तालध्वनिः श्रयते
वीणागानरवेण गीतिनिपुणैस्सङ्गतमुद्गयते ।.
र्णानन्दकरं च तत्सुसुषिरं चेतस्यमाकर्षति
स्वच्छन्दं ललनाजनस्सकुतुकं नृत्ताय सज्जोऽधुना ॥ 14 ॥
(नेपथ्यमालोक्य)
कथं कलितनैपथ्या इव कुशीलवाः । अहमप्यनन्तरकरणीयाय सज्जीभवामि ।
॥ इति निष्क्रान्तः ॥
॥ प्रस्तावना ॥
(ततः प्रविशति गोविन्दपण्डितः ।)
गोविन्दपण्डितः– अहो सिन्धुलप्रभोः प्रभाव !
मूकश्चापि विलोकनान्नरपतेरासाद्य सर्वज्ञतां
वाणीं वाचि विहारयन्नपि सभां सम्यक् समाह्लादयन् ।
कोशागारविभूषणैकनिरतैरावापकाद्यै श्शुभैः
तैस्तैश्च प्रतिकर्मितस्सकुतुकं संभावितः काञ्जनैः ॥ 15 ॥
यद्दत्तमुक्ताभरणानि नित्या
दानेन वोढ्रा परिवर्जितानि ।
लज्जावशदम्बरमभ्युपेत्य
नक्षत्ररूपेण परिक्रमन्ते ॥ 16 ॥
(विचिन्त्य) किं ब्रवीमि तत्तनयस्य भोजकुमारस्य विक्रमम् !
तेनान्तरक्षितिपतेर्युधि विक्रमो य-
स्सन्दर्शितोऽरिमथनार्थमहो विचिन्त्य ।
भूत्वा रविर्दिवमुरपेत्य किमत्र शिष्टा(न् ?)
जेष्यामि तानि वि(तानिति ?) चिनोति दिशो दशापि ॥ 17 ॥
तादृशे पराक्रमवति दुरात्मा तत्पितृव्यः समारोपयति दोषमेव । स
भवतु यथा तथा वा । (सविषादम्) न दृश्यते चिराय स भोजः, न श्रूयते
तस्य स्थितिरपि । (पुरोऽवलोक्य) कोऽयमायाति ? (सम्यङ् निर्वर्ण्य) अहो
भोजमित्रं भवभूतिः । एष जानात्येव तद्वृत्तान्तम्; तन्मुखाज्जानामि । (इति
पश्यन्नास्ते ।)
(ततः प्रविशतिं भवभूतिः)
भवमूतिः– (सनिर्वेदम्)
अदृष्ट्वा तन्मित्रं कविकुमुदशीताशुमनधं
वलन्ते विद्वासो हतजलजहसा इव पुरे ।
कथं वक्ष्ये तेषामहमतिरहस्येन विपिने
चरन्तं भोजं तं मृदुमधुरवाचं विधिवशात् ॥ 18 ॥
गोविन्दपण्डितः –(श्रुत्वा, सखेदमुपसृत्य) वयस्य भवमूते !
किमपि खिन्नं मे हृदयं भवद्वचनश्रवणेन । कथय तावदतिरहस्यमपि
भोजकुमारस्य काननसञ्जारकारणम् .
भवभूतिः–(स्वगतम्) कथमार्यगोविन्दपण्डितमत्रस्थितमपश्यता किं-
चित्कथितं मया । इतो न गोपयितुं शक्यमस्मिन्महानुभावे पण्डितकण्ठिरवे ।
भवतु, रहस्येन विज्ञापयामि । (प्रकाशम्) आर्य अभिवन्दे । (सनिःश्वासम्)
किं वच्मि मुञ्जदेवचरितस्य असामञ्जस्यम् ? विदितमेव भवद्भिः कुमारो
रूढमूलो भविष्यतीति मत्वा आदित्यवर्मणः पुत्रीं लीलावतीं भिल्लमल्लैर-
श्रुतोदन्तां विधाय, नष्टपितृकां चारुमतिसुतां विलासवतीमद्पयदिति ।
गोविन्दः–(स्वगतम्‌) सत्यमेतत् । अवसानसमये स्वेन संरक्ष्य-
माणा आदित्यवर्मणः पुत्री लीलावत्येव परिणेया कुमारेणेति मुञ्जाय कथयित्वा
कालधर्मं गतस्य सिन्धलस्याज्ञामुल्लङ्घ्य स्वस्त्रीयां विलासवतीमदापयत् ।
आवन्तिकापि बाला स्वमल्लैः क(न ?)ष्टपायेति महति वचनीयता मुञ्जस्य ।
भवभूतिः– अन्तरदेशजयशीलेन भोजकुमारेणात्मनः क्षयो भविष्यतीति
भिया स्वसेनापतये वत्सराजाय आज्ञापयामास– ‘वञ्जनया समाहूय भुविष्यस्या-
हाराय’ इति ।
गोविन्दः– (कर्णौ पिघाय) शान्तं पापम् । ईदृशे
दुरात्मनो देशे वासोऽटप्यात्महानिकरोऽस्माकम् ।
भवभूतिः–दयार्द्रहृदयो वत्सराजो भोजं प्रणम्य `कुमार !भुवनेश्वरीप्रीत्यै मया प्रार्थ्थमानो वरो दातव्य इति पौनःपुन्येन पृष्ट्वा वदान्यशिरोमणे स्तथास्त्विति लब्दवरः मुञ्जाज्ञां विज्ञाप्य कंचित्कालमस्मत्प्राणपरित्राणाय कानने निगूढं वस्तव्यं भवता’ इति कुमारं प्रार्थयामास । भोजश्‌च कंचिच्छ्लोकं विलिख्य राज्ञेऽर्पयेति दत्त्वा दुःख्यन् काननं गतः । वत्सश्च भोजदत्तं श्लोकं पैशाचविद्यया कलितं भोजशिरश्च राज्ञे प्रादर्शयत् ।
गोविन्दः –आः कष्टं कष्टम् । विदितमद्य भवन्मुखेन भोजप्रवासकारणम् । तद्भवतु । अपिनाम विज्ञातो भवता भोजलिखितश्लोकः ।
भवभूतिः— विद्वन् ! आलोकितश्च मया ।
`मान्धाता च महिपतिः कृतयुगालङ्कारभूतो गतः
सेतुर्येन महोदधौ विरचितः क्कासौ दशास्यान्तकः ।
अन्ये चापि युधिष्ठिरप्रभृतयो याता दिवं भूपते
नैकेनापि समं गता वसुमती नूनं त्वया यास्यति ॥’
गोविन्दः –श्लोकमेतं विलोक्य किं चिन्तयति दुरात्मा मुञ्जः ?
भवभूतिः –आर्य ! किं ब्रवीमि क्रुद्धस्य तस्य दुश्शेमुषीव्यवसायम् ?
(दीर्धं निःश्वस्य)
देवी शशिप्रभां तां च विलासमपि च स्नुषाम् ।
भोजक्रोधेन दुर्मेघाः कारागारे न्यवेसयत् ॥ 20 ॥
गोविन्दः –(सनिर्वेदं मुञ्जमुद्दिस्य) अये पापिष्ठ ! महाकुलप्रसूतस्य ते कुतो विपरीतासीन्मनीषा ।
भवभूतिः –आर्य ! मन्ये यदि जावाति स मुञ्जः काननस्थं सत्यं हनिष्यति बोजेन सह वत्सराजं च ।
गोविन्दः –मन्ये न कश्चिदपि अवद्यो भविष्यति प्रोषितस्य भोजस्येति । यद्भोजाङ्गलक्षणं वीक्ष्य शारदानन्द एवमाह । यथा —
“पञ्जासत्पञ्जवर्षाणि सप्तमासा दिनत्रयम् ।
भोजराजेन भोक्तव्यः सगौडो दक्षिणापथः ॥” इति ।
भवतु, किं चिन्तयत्यत्र महामात्यो बुद्धिसागरः ?
भवभूतिः –स तु मुञ्जेऽन्तर्निलीनमत्सरेण वत्सराजेन संमन्त्र्य सिन्धुलप्रियवयस्यं लीलावतिव्यसनसञ्जातेर्ष्यम् आदित्यवर्माणं समरोन्मुखं कारयितुं कालिदासं प्राहिणोत् । अहमपि वृत्तान्तमेतं भूपासराज्ञ्यै चारुमत्यै निवेदयितुं गच्छाम् ।
गोविन्दः –(दीर्घं निःश्वस्य) सखे ! कथमासीद्देव्योर्वृत्तान्तः ?
भवभूतिः – मुञ्जे कलितासूयुभिः पौरजानपदैः कलहायिते नगरे कथञ्जिद्बुद्धिसागरः काराया निर्गमय्य सिन्धुलनिशान्तं निनाय ।
गोविन्दः –तर्हि सखे सत्वरं गच्छ । अहमपि बोजकुमारस्य राज्याभिषेकसमये आगच्चामि । (इति निष्किरान्तौ ।)
॥ शुद्धविष्कम्भः ॥
(ततः प्रविशति भिक्षुवेषेण भोजः)
भोजः –(दीर्धं निःश्वस्य)
कथं ते धर्मद्या द्रुपदसुतया साकमनघा
महारण्येऽज्ञाताः कथमपि कश्चिच्च दिवसो
विनेष्येऽहं यावन्मयि विधिदयोदेति महती ॥ 22 ॥
(विचिन्त्य सबाष्पगद्गदम्)
पिता मे स्वर्यातो मयि वसति बाले प्रभुवरः
पितृव्यश्चासूयां विरचयति राज्यार्थमनिशम् ।
प्रियालापोऽमात्यैरपि विघटितो यौवनपदे
वने वासः कष्टो जनयति परं दुःखमधुना ॥ 23 ॥
(समन्तादवलोक्य)आः ईदृशे समये वनश्रीः स्मारयति मे प्रेयसीं विलासवतीम् । यदियमद्य
मन्देनैव समीरणेन नितरां मां वीजयत्यन्तिके
मल्लीकुड्मलकैतवेन कुरुते मन्दस्मितं सादरम् ।
सम्यग्दर्शयतीह तैस्सुरमिलैश्सोणाधरं पल्लवै-
र्गायन्तीं मृदु षटपदप्रियवधूनिस्वानगुम्फेन नः ॥ 24 ॥
(प्रियामुद्दिश्य सकरुणम्) अयि विलासवति !
नालोकितासि सरसं न च भाषितासि
नालिङ्गतासि च मुदा न च चुम्बितासि ।
स्पृष्टासि नैव कुचयोरसि संभ्रमैस्त्वं
भुक्ता न चासि दयिते विधिदुर्विलासात् ॥ 25 ॥
(पुनर्निःश्वस्य) आः कष्टम् ! किं करिष्ये ? पश्य-
मनोजो मे पुष्पायुधचयकृशानुं परिसृजन्

समीरैरव्यक्तैरयि सुतनु दाक्षिण्यरहितः ।
तुदन्नङ्गं सर्वं दहति सवसन्तोऽपि च वन-
प्रयामोदालापैर्जनयति भयं बर्हिनटनैः ॥ 26 ॥
अयि मनोहारिणि !
सौवर्णपिण्डसदृशं हृदयं मदियं

संप्राप्यते घनपयोधररत्नमूषाम् ।
वक्ष्ये किमद्य कुसुमायुधवह्नजालै-
स्सन्द्रावितं प्रसरतीव तव प्रतीकम् ॥ 27 ॥
(सवैरस्यं दुःख्यन्) अयि कान्ते !
आवयोर्यैवनं भीरु जगाम विलयं स्वयम् ।
यन्मे कामगजेन्द्रस्य समासीत्सचिवोऽङ्कुशः ॥ 28 ॥
(क्षणं विचिन्त्य) मूर्खोऽहं महाप्रज्ञे बुद्धिसागरे दोषमारोपयामि । यदुपदेशेन खल्वहमापदमनासाद्य एतावन्तं कालं जीवितोऽस्मि । यदि विलासवतिविहरणकौतूहलेन तदन्तःपुरं प्रविष्टोस्म,मुञ्जकृत्रिमोपायेन नाममात्रावशिष्टो भवामि । (कर्ण दत्त्वा) किमत्र श्रूयते कन्यकानामिवालापः ? यस्तु
कर्णद्वारमुरेत्य मानसमहो पर्णाशनानामपि
स्वच्छन्दं स्ववशे विधातुमुचितो यश्चक्रिगोरौहिषाः ।
वीणाकोकिलेबराः स्थिरधियः श्रोत्रोत्सवं भुञ्जते ॥ 29 ॥
भवतु, का इमाः, किमर्थमिहागताः, पश्यामि । (इति न्यग्रोधतिरोहितात्मा
पश्यन्नास्ते । )
(ततः प्रविशति सखीभ्यां सह लीलावति)
लीलावति—सखि कलहंसिनि ! समाहरस्व सुगन्धशीतलोदकम्, अयि वनप्रिये ! परिकल्पय कुसुमपल्लवफलादिकं, यदभ्यर्च्यते परदेवता मङ्गलदेवता ।
भोजः—(साश्चर्यं दृष्ट्वा)
पुष्पायुधप्रियवधूर्हृदटङ्गमाङ्गैः
पझासनानननटी शुमया गिरेयम् ।
पझा मुरारिललना रुचिराङ्गदीप्त्या
बर्हिर्मुखेशदयिताऽखिलभाग्यपङ्क्त्या ॥ 30 ॥
(पुनर्निर्वर्ण्य) अपि नामेयमस्मद्धृदयविलासिनि विलासवती ? (सविचारम्) कथं तस्या लोकान्तरं गतं मां मत्वा महत् व्यसनार्णवे निमग्नाया निकेतनं विहाय अत्रागमनस्य अवकाशः ? (पुनर्विचार्य) मन्येऽहं वत्सराजमिखाद्विदितास्मद्वृत्तान्ता नृपनिकेतननिवासं निरयवासं मन्यमाना मामेव शरणमभइलषन्ति कान्तारवासिनीं कमलवासिनीमभ्यर्च्य तत्कटाक्षप्रवाहेण कथञ्जन मामुपेतुमायातीति ।
कलहंसिनी—भट्टिदारिए ! एसो गंधो, एदं सीअलोअअं । [भर्तृदारिते ! एष गन्धः, एतचछीतलोदकम् ।]
वनप्रिया—हला 1 एआइ कुसुमाइ, इमाइ फवाइ । [इला ! एतानि कुसुमानि, इमानि फलानि !]
लीलावती—(अञ्जलिं कृत्वा, द्रव्याणि स्पृष्ट्वा) हला ! पूजिता मया मङ्गलदेवता ।
कलहं सिनी–सहि ! पत्थेहि जह होइ भट्टिणो जोओ । [सखि ! प्रार्थय यथा भवति भर्तुर्योोगः ।]
भोजः—अयि मुग्घे ! सन्नद्धे मयि किमितः प्रार्थनया ?
लीलावति—(दीर्घं निःश्वस्य) सखि ! अपि नाम अस्मत्प्रार्थनां सार्थयति माधवप्रियसहधर्मिणी ?
भोजः—अयि मे मनोरङ्गविलासिनि ! यदा स्मृता भगवती तत्रभवती भवत्या, तदैव सार्थ एव आवयोर्मनोरथः ।
वनप्रिया—सहि 1 चिंतेहि सच्चं भअवदीए पणामो पसाआवहत्ति ।
[सखि 1 चिन्तय सत्यं भगवत्याः प्रणामः प्रसादावह इति ।]
लीलावती (प्रणम्य)—
अयि भगवति सिन्धुराजकन्ये
मुरहवक्षसि लक्षितस्तन र्द्रे ।
नरपतितनयः करं मदियं
कुरु करुणां परिपीडयेद्यथा त्वम् ॥ 30 ॥
भोजः—अहो मे बुद्धिशैथिल्यम्, यदियं विवाहार्थिनी काचन कन्यका मे पाणिगृहीते(ती /)ति चिन्तिता । (क्षणें वचिन्तिय) तथापि तस्यास्सौन्दर्यलहर्या स्वान्तं मे सम्यगाक्रान्तम् ; किं करिष्यामि ? (इति मूर्छति ) .
लीलावती—(सहर्षं, स्वगतम्) कथं प्रार्छनाम्ज्त्रेण मे हृदये कश्चन मङ्गलार्थः श्लोकः स्वयमेव ध्वन्यते । यथा—
वत्से श्रृणुष्व जनकेन समीहितो यः
शेते वटद्रुमतलं समुपेत्य भोजः ।
भर्ता स एव तव सिन्धुलराजसूनुः
कन्दर्पदर्पहरसुन्दरपुण्यगात्रः ॥ 31 ॥
(इति विचिन्त्य) मन्येऽहं भगवत्या मङ्गलदेवतयैव मे मनोमोदनार्थं गुम्फितं पद्यमिति । अपि वैष सत्यं भवति पद्यलक्षितोऽर्थः । (ससंभ्रममुत्थाय) सख्यावत्र स्थापयित्वा केनापि व्याजेन वटप्रदेशं गत्वा पश्यामि । (प्रकाशम्) हला ! स्थातव्यं युवाभ्यामत्रैव । अहमभीष्टवरदरटवृक्षं प्रदक्षिणप्रणामादिभिः सभाजियित्वा यावदागच्चामि । (इति परिक्रम्य) अहो आगतैव । (वटमूलं विलोक्य) कोऽत्र भिक्षुश्शेते ? (निर्वर्ण्य, साश्चर्यम्)—
किं वैष मन्मथकरः किमु वेक्षुधन्वा
किं वा स एव भगवान् मगनाभिरामः ।
किं गापिकाकुसकुचाचलप्तर्दितोराः
किं फल्गुनः पृथुयशाः न च भिक्षुरेषः ॥ 32 ॥
(सानुरागम्) अहो सौन्दर्यमस्य !
कुन्दालिश्रीर्वदनकमले कोमला दन्तपङ्क्तिः
नेत्रं किंचिन्मुकुलितमिदं निर्जितानङ्गशक्ति ।
बाहू वृत्तायतपरिघयोस्साम्यमासेदिवांसा-
वूरुर्दन्तावलकुलपतेर्नासिकागर्वहारी ॥ 33 ॥
जपि च—
कमलनयनं कान्तं वक्त्रं प्रवाललताधरं
शशधरसमं श्मश्रुश्रेणीपरंपरयोल्लसत् ।
करसयुगं ज्याघाताङ्क विशालमुरःल्थलं
नरपतिसुतं मन्ये भोजं तमेव सुलक्षणैः ॥ 34 ॥
(समन्तादवलोक्य) नात्रानायः कश्चन । न चान्यथा भवति भगवत्या वचनम् । (समीपमुपसृत्य) किमयं निद्रातीव दृश्यते । तत्सावकाशेन द्रष्टुं शक्नोमि । (इति सम्यङ् निर्वर्ण्य, अङ्गुलीयके भोज इति अक्षरं विलोक्य) अहो कटाक्षपरीवाहो मयि सिन्धुकन्यायाः ! यदद्य—
भिल्लागारमुपेत्य तैर्विरचितैराहारचर्यादिभि–
र्मल्लद्वन्द्वविलोकनेन च पुनः कालं नयन्त्या मम ।
फुल्लाम्भोरुहमुग्धसस्मितमुखश्रीभोजमूर्त्या मिथः
श्रीपुत्रः कुरुते नितान्तमधुना दिव्योत्सवं नेत्रयोः ॥ 36 ॥
(निश्वस्य) निद्रालुममुं कथं प्रबोधयामि । असांप्रतमेवात्र स्थातुमस्माकं यच्छङ्कां विरचयतस्सख्यौ सावकाशेन । अपि च, न च लक्षणमिदं साधु कन्यकानां युनजनोपकण्ठे मिथोऽवस्थानम् । तदहं यथागतं गत्थामि । (कतिचित्पदानि गत्वा) आः कष्टम् ! प्रस्थितमपि मे चरणमाशापाशेन निबध्य तस्मुन्नेव समाकर्षति चेतः । (पुनरुपसृत्य)
हृदयदयित मां विलोकयाशु
स्मरहतकायुधवह्निदग्धगात्राम् ।
यदि न हि कुरुषे कृपावसिक्तां
ध्रुवमयि मिल्लकुलाघमो हरेन्माम् ॥ 37 ॥
आः कथं सुप्रार्थितोऽपि न मां विलोकयति । (वियिन्त्य) तादृशी निद्रा ! भवतु, उपचारव्याजेन प्रबोधयामि । (इत्युशीरहिमोदकं संसित्य,सुगन्धचन्दनेनानुलिप्य) कथं न बुद्ध्यते कान्तः ? तद्व्याहारेण प्रबोधयामि । अयि कान्त !
कान्तारसञ्जारपरिश्रमेण
क्लान्तं करुणाविहीना ।
निद्रापि संक्रम्य हटेन भुङ्क्ते
(निद्रामुद्दिश्य, सरोषहुङ्कारं)
विमुच्य नाथं व्रज दूरदेशम् ॥ 38 ॥
(निर्वर्ण्य) निर्मर्त्सितापि निद्रा न जहाति । हा किं करिष्यामि । (विमृश्य) कथमत्रागतया मया चिरायते समयः । तदद्यास्मिन्नस्मदागमनलक्षणं विधाय गच्छामि । (इति भोजाङ्गुलीयकं गृहीत्वा, वटपत्रमादाय ताम्बूलरसेन कौचिच्छ्लकौ विलिख्य भोजवक्षसि निक्षिप्य सनिःश्वासं कतिचित्पदानि गत्वा, सख्यौ विलोक्य) हला ! प्रसादितो न्यग्रोधराजः । तद्गच्छामो निशान्तम् । (इति निष्क्रान्ता ।)
भोजः—(समाश्वस्य) अयि गूढपातकिनि ! मम हृदयसरोरुहविलासकलहंसिनि ! क्कासि, कथं त्वां प्राप्नोमि / (इत्यिन्मीलिताक्षः घ्राणसुखंविदित्वा) कथमद्यायमपूर्वस्सुरभिः ? (इत्यात्मानं विलोक्य) आश्चर्यमाश्चर्यंम् !
सिक्तोऽहं हिमवारिभिः सुरभिलैः काश्मीरजन्मद्रवैः
कस्तूरीघनसाररेणुरुचिरैश्श्रीगन्धसारैरपि ।
वक्षो मे परिघोपमावपि भुजावाकल्पितौ किन्विदं
(शिखां स्पटष्ट्वा)
संश्लेषैर्गणिका सुमैरपि शिखा मल्लिसुमैरावृता ॥ 39 ॥
(विचिन्त्य) आः कष्टं कष्टम्, मन्ये विलासवत्येव मम विरहमसहमाना अत्यन्तव्यसनेन त्यक्तकलेबरा परुगृहीतमोहिनीरूपा निद्रायां मामुपस्थिता ।
(इति दीर्घं निश्वस्य) कतं पुनरिमां द्रक्ष्यामि ? हा हतविधे !
तादृशः किमु मे मन्तुर्जनकं वापि सिन्धुलम् ।
विलोक्य न त्वया कस्माते रक्षिता महिषी मम ॥ 40 ॥४
(विलासवतीमुद्दिश्य) अयि क्कासि !
प्रिये कतमियागता रहिसि सन्तमासोक्य मां
विधाय सुरतोचितं कुसुमगन्धचर्चादिकम् ।
गाता भवसि हा कथं स्मरशराहताङ्गं वने
विधाय न हि सांप्रतं पतिविसर्जनं तेऽधिना ॥ 41 ॥
(सविनयम्)
यदि यासि विहाय मां प्रिये
वपुरुत्सृज्य ममापि जीवितम् ।
अनुयास्यति सत्यमुच्यते
न हि धर्मस्तव तादृशी क्रिया ॥ 42 ॥
(सप्रार्थनम्)
एहि मे दर्शनपतं संविधेझवलोकनम् ।
कपोलतलमाघ्रय विधत्स्व परिरम्भणम् ॥ 43 ॥
कुत इयं सविनयं प्रार्थितापि न भवति दृष्टिगोचरा । (वितार्य) न मन्ये सा मन्निकटमायास्यतीति । यदहं पाणिग्रहणप्रभृति तस्या दृष्टिपथ(थाद्)दूरं गतोऽस्मि । ततमेतत् ? (क्षणं विचिन्त्य) भवतु, प्रणम्य प्रसदयामि । अयि अज्ञातनिग्रहे विलासवति ! सापराधमपि मां तव पादमूले प्रणिपतन्तं श्क्षमयावलोक्य कृपयोपगूहय । (इति प्रणन्तुमुत्थितस्य भुजान्तरान्निपतितं वटपत्रमालोक्य, सहर्षं) किमपि मे सन्दिश्य गतेव । (इति पत्रमादाय वाचयति ।)
अयि नात तवोर्मुकामिमां त्वा-
मिव यानवन्मम मङ्गलोदयः स्यात् ।
अवलोक्य न यामि कामबाधां
स्मर मां त्वच्चरणां प्रदेहि दास्यम् ॥ 44 ॥
हा ! नेयं विलासवती । अपि तु काचन असहमानवेदना कान्तार्थिनी। अत एव मच्चरमा मया कल्याणकाङ्क्षिणी मम दास्यं प्रार्थयते । किं तयापहृता ममाङ्गुलीयकमुद्रा यल्लिखितं तवोर्मिकामिमाम् अवलोक्य कामबाधां न यामीति । (कराङ्गुलिं विलोक्य) कथमूर्मिका न दृश्यते । (सनुस्मरमम्) सत्यमनयैव सद्वरकामया लक्ष्मीयजनपरया भवितव्यम् । किमुपरि लिथितम् ?
(इति वाचयति ।)
न हि ते विरहं भवामि सोढुं
न हि गन्तुं यतते मनोऽधुना मे ।
अयि नायक यामि यत्र ते मे
गुरवस्सन्ति शुभाङ्ग देझनुज्ञाम् ॥ 45 ॥
इति । आः कष्टं कष्टम् ! कुत्र गाता सा ? कुत्र सन्ति तद्गुरवः ? (सस्पृहम्) तत्पदवीं पश्यामि । (इति सरणीं विलोक्य ।)
ध्वजश्रीवत्सचक्राब्जमत्स्यहंसादिलक्षणैः ।
महाराज्याभिषेकार्हैः पादमुद्रावलोक्यते ॥ 46 ॥
तदहमनयैव पदव्या गच्चामि । (इति कतिचित्पदानि गत्वा) कथं न दृश्यते चरणविन्यारः, यदियं द्वर्वापरिवृता पदवी । (कतिचित्पदानिगात्वा) आः किमितः कार्यम् ? यत्पदव्यां महान् शैलः ! भवतु, कथंचिच्छैलमारुझ गच्छामि । (इति परिक्रम्य) अहो दृश्यते महती गुहा । मन्येऽहमियं सुग्रिवेण किष्किन्धागुहेव केनाचिद् रात्ज्ञाधिष्ठितेति । (समन्तादवलोक्य) महदिदमरण्यम् । (दरे दत्तदृष्टिः) काविमौ दृढतरावागच्छतः ? (इति पश्यति । ततः प्रविशति बाहुको जानुकश्च ।)
बाहुकः—याणुअ ! कहिं पेक्खामो होअं शे कहीअदि मिइं गए उणो आअअक्ति । [जानुक ! कुत्र पश्यावो भोजं स कथ्यते मृतिं गतः पुनरागत इति ।]
जानुकः—अये मए शेशुणुदे कहं लाए अअपालो एदं आअलेदुं अव्णं कलेइ अंहाणं ।[अये मयाप्येतच्छ्रुतं कथं राजा जयपालः एतमाकारयितुमाज्ञां करोत्यस्माकम् ।]
बाहुकः—मियश्श उणो आअमणं लोआणं होइ णाशाआ । ता णं दक्खिर अझे दंडेण तालणं मालइझ । [मृतस्य पुनरागमनं लोकानां भवति नाशाय; तस्मादेनं दृष्ट्वा आवां दण्डेव ताडनं कृत्वा मारयावः ।]
(इति परिक्रामतः । )
जानुकः—मित्तअ ! अडविं दक्खीअविं एशे ण हि लक्कीअदि । कहं एशे । [मित्रक ! अटवीं दृष्ट्वापि एष न ङि लक्ष्यतं, कथमेतत् ?]
बाहुकः—(ङोजं दृष्ट्वा) अए, एत्थ पेक्ख कोवि दण्डए दक्खीअदि । णं पुच्छंह । [अये ! अत्र पश्य कोऽपि दण्डको दृयते । एनं पृच्छावः ।
जानुकः—एशे भिक्खू, णेण पाएण दिंठो होइ । सच्चं भोए ।
[एष भिक्षुःअनेन प्रायेण दृष्टो भवति । सत्यं भोजः ।] (उभौ भोजमुपसृत्य) अए भाअ ! दिट्ठे कि तुए भोए ? यइ अझेहिं दिट्ठे णेण दंडेण शच्चं मालअझ । [आये भ्रातः ! दृष्टः किं त्वया भोजः, यद्यावाभ्यां दृष्‌टः अनेन दणडेन सत्यं मारयावः ।]
भोज—-(स्वगतम्) किमिमौ मुञ्जकिङ्करौ ? अपि नामवत्समुक्तं वने वसन्तं मां विदित्व प्रेषितौ । अन्यथा कुतो निरपराधं मां हन्तुमनयोरुद्योगः ? भवत्वेवं ब्रवीमि । (प्रकाषम्) भोः ! कौ युवाम् ? कुतो यिवयोः तस्मिन् तदृशः क्रेधः ?
जानुकः—(बाहुकमालोक्य, अपवार्य) मुक्खत्तणेण अझाणं आशए एदशिंश कलेंह । [(रे) मूर्खत्वेन अस्माकमाशय एतस्मिन् कथितः । यद्येष वृत्तान्तो राज्ञा विज्ञातस्सत्यं नः प्राणस्य नाशो भवति । किं कुर्मः ?
बाहुकः—(अपवार्य) अए मज्झपाणेण शंआदमलविब्भमेहिं अझेहिं एदश्शि शच्चं विणाविए । एशे अंहाणं शामंदे । [अये मद्यपानेव सञ्जातमतिविभ्रमाभ्यामावाभ्यां एतस्मिन् सत्यं विज्ञापितम् । एतद् आवयोस्सामन्त । (इतपानपात्रं पाषाणे प्रहरति ।) ]
जानुकः—ले मुक्ख ! अय्यं ते मद्धअं भिंदंमि, यत्तुए मे चशए भिंणे । (रे) मूर्ख ! अद्य ते मस्तकं मिनझि, यत् त्वया मे चषको भिन्नः ।
बाहुकः—मित्तअ ! मा कुप्येथाः, एतस्य हद्धे ठिअं कवालं ओहलिय ते ददामि । [मित्रक! मा कुप्येथाः, एतस्य हस्ते स्थितं कपालमाहृत्य ते ददामि ।] (इति भोजकपालमाहरति ।)
जानुकः—(भोजं विलोक्य, स्वगतम्) शे वशणं शुलक्कणे अ दिश्शइ । एशे मे घलणीए खुलणाशाए शुचेलए हेउ । ता ओहलिश्शं । [असेय वसनं शोणं सुलक्षणं च दृश्यते । गृहिण्याः खुरनासायास्सुचेलको भवतु । तस्मादपहरिष्यामि । ] (इति काषायमाकर्षति) ।
भोजः—रे रे मैरेयपायिनौ ! कुतो मे कपालकाषाये समाकर्षथः ? न मुञ्जामि । वामेक एव प्रहरामि ।
ब्हुकः—अए भिक्खो! किं कहिअं तुए ? मंणेहि ते पाणे यमं गअति । [अये ! भिक्षो किं कथितं त्वया ? मन्यस्व ते प्राणो यमं गत इति ।]
भोजः—(मुष्टिमुद्यम्य) अये ! मुञ्ज काषायं, नो चेत्तव मस्तको मुष्टिना भिद्यते ।
बाहुकः—ले दंडय ! देहि कवालं, यइ ण दीअदि शच्चं ते मद्धयकपालं भिदामि । [रे दण्डक! देहि कपालम् । यदि न दीयते सत्यं तेमस्तककपालं भिवझि ।]
भोजः—(सक्रोधम्) रे मूर्ख ! पश्य मे मुष्टिं, सत्यं व्रजसि भीमसेनदर्शितां कीचकपद्धतिम् ।
बाहुकः—(सबयकम्पं, स्वगतम्) कइं एशे णहि णाणुशे, किन्दु लक्कशे, अंहो दुवेवि मालेदुं अले ता गच्छम्मि । [कथमेष न हि मानुषः, किन्तु राक्षसः । आवां द्वावपि मारयितुमलम् । तस्माद्गच्चाम् । (इति निष्क्रान्तः ।)
जानुकः—(स्वगतम्) अहों ! बलवंते एशे भिक्खू । कली ण हिं ठाणे मह । उतंदं एदं रण्णि अअवाले विणविअ शमाणंमि । [अहो बलवानेष भिक्षुः । तस्मादनेन कलिर्न स्ताने । मम वृत्तान्तमेतत् राज्ञि जयपालं विज्ञाप्य समानयामि ।] (इति निष्क्रम्य जयपालंन पिनः प्रविश्य) प्रविश्य) देव! पेक्ख एदत्ति । [देव ! पश्य एतम् ।] (इति भिक्षुं दर्शयति)
कट्यां काषायवस्त्रं करकमलतले भाति तालीकपालः
दोर्मूले वीरलक्ष्मीः पुनरितरकरे ज्यालताघातलक्ष्म ।
नो मन्ये भिक्षुमेनं ध्रुवमयमचलाधीशकन्याविलासी
यद्वा वल्लीविहारी भवति किमथवा राजपुत्रस्स भोजः ॥ 47 ॥
भवत्वेषु यः कश्चद्वा क्रमेण जानामि । अद्य सम्‌भावनीयोऽयं मया ।तदहमुपसृत्य यथार्हं पूजयामि । (जानुकमालोक्य) अये जानुक! अयं महानुभावो भिक्षुः । अवश्‌यमस्माभिराराध्यः ।
जानुकः—देव! शुणमु णो वअणं । एसे ण हि भिक्खू, अवि दु लक्कशे । शे पूआ शच्चं अंहाणं अणत्थं कुलंइवि णिंदं कलेह । पुव्वं लक्कशेभिक्खुरूवं गदुअ शीदं ओहलिअ गओ । अंयुणोवि भिक्खुलीवेण आअदुअ शुभद्दं गण्हीअ गए । तह एशेवि । अम्हे घले वंटल कण्णआलीलावंरं (वई)। विमलिशणं कलिअ यहउइअं कलंहि ।
[देव! श्रृणु नो वचनम् । एष न हि भिक्षुः, अपि तु राक्षसः । अस्मै पूजा सत्यमस्माकमनर्थं कुलस्यापि निन्दां करोति । पूर्वं राक्षसः भिक्षुरूपं गच्वा (कृत्वा) सीतामपसृत्य (हृत्य)गतः । अर्जुनोऽपि भिक्षुरूपेणागत्य सुभद्रां गृहीत्वा । गतः । तथैषोऽपु । अस्मद्गृहे वर्तते कन्यका लीलावति । विमर्शनं कृत्वा यथोचितं करोतु । ]
जयपालः—जानुक! प्रियं नः । (पुनर्निर्वर्ण्य) मन्येऽहमयमेव भविष्यति मे जामातेति । तदुपसरावः । (इत्युपसृत्य, सविनयम्) प्रियदर्शन ! कस्त्वम् ? मन्ये भूतिच्छन्नं हविर्भुजमिव भिक्षुवेषच्छन्नं महीभुजम् । शूरसूरस्य ते दर्शनेन विकसितानि मे मनोनयनसरोरुहाणि । नोचितस्तवैवंविधो वेषः । तदधुनात्मानममरेस्वमिवाम्बराभरणैरलङ्कुरुष्व ।(इति स्वयं गुहाया अनर्घाण्यम्बराभरणानि आहृत्यार्पयति ।)
भोजः—(भषणादिकं विलोक्य, स्वगतम्) आः कष्टं कष्टम् ! हा विलासवति ! हा मम हृदयालयदेवते ! अस्मद्विवासमात्रेण अनाथा अभवः । यत्ते पाणिग्रहणसमये समलङ्कृतान्यखिलान्यप्य्भरणानि अन्येषां हस्तं गतानि । हा प्रेयसि ! कालवैषम्यमस्माकमीदृशम् । (इति नयनाभ्यां बाष्पमुत्सृज्य, प्रकाशम्) मास्तु मझं भिक्षवे । (इति तिरस्करोति ।)
जयपालः—(स्वगतम्) सत्यमेष भोजकुमारः, यदयं सरस्वतीसदनादाहृतान्याभरणानि विलोक्य विषादेन बाष्पमुत्सृजति । अन्यथा कुतोऽस्य बाष्पोद्गमनकारमम् ? भवतु, एनं शुभवयनैस्सान्त्वयन् प्रहर्षयामि । (प्रकाशम्) भो महावीर ! भव मे प्रियवयस्यः । अहं जयपालो नामारण्यराजः, मालवेश्वरस्य सिन्धुलदेवस्य प्रियवयस्यः । (जानुकमालोक्य) अये सख्युर्निवासाय सत्वरं गुहामलङ्कुरुष्व ।
जानुकः—तहंति । [तथा ।] (इति निष्क्रान्तः ।)
जयपालः—(भोजहस्तं गृहीत्वा) राजकुमार ! विदितोऽसि त्वाममारयत् पापीयान् मुञ्ज इति भिल्लमुखाच्छ्रुत्वा परितप्पहृदये निश्चतने परिभ्रमति मयि सपुलकोद्भेदम्—
जगाद कमला मझं दुर्गवल्मीकवासिनी ।
मा शुचो वत्स भोजं तं पालयाम्यत्र कानने ॥ 48 ॥
इति । अथ स़ञ्जातहर्षः सिन्धुलकुटुम्बवृत्तान्तविज्ञानाय वीरमल्लं प्रैषयम् । स च महामात्यबुद्दिसागरं दृष्ट्वा तद्दत्तपत्रिकां मझमदात् । यत्रैवं लिखितं श्रृणु-स्वस्त्यस्तु राजवयस्याय जयपालदेवाय । भोजकृते त्वं मा खेदमगाः । यतः—
भोजस्त्रातो वत्सराजेन मुञ्जात्
सर्वे मुञ्जं हन्तुमिच्छन्ति पौराः ।
आयात्यद्यादित्यवर्मा नियोद्धुं
सन्नद्धाऽऽस्ते सापि भूपालराज्ञी ॥ 49 ॥
सखे ! भवतापि यथार्हं साझं कर्तव्यमिति । ततोऽहं तावकीनं धनमखिलं मुञ्जोऽपहरिष्यतीति भिया सञ्जातत्वरः तद्रात्रावेव दस्युभिस्सर्वमाहृत्य गुहायां परिपालयामि । मालवराज्यकार्यधुरंधराश्च बुद्धिसागरनियोगेन मुञ्जं भीषयित्वा तव मातरं पत्नीं च मुञ्जहस्तान्मोक्षयित्वा शुद्धान्ते परिपालयन्ति । समागच्छ, गुहां प्रविशावः ।
भोजः—तथा । (इति कतिचित्पदानि गत्वा) अतिंरुचुरा दृश्यते गुहा । इयं तु—
पीयूषसारसमतोयतटाकरम्या
सान्द्रद्रुमायुतवनावलिनष्टतापा ।
मल्लीजवन्तिगणिकादिलताशताढ्या
मन्दप्रसर्पिमलयानिलसन्ततास्ते ॥ 50 ॥
जयपालः—वत्स ! उपचरित एव । (इत्यग्रतोऽवलोक्य, स्वगतम्) अहो दृश्यते महती सभा ! (सश्लाघम्)—
वज्ज्रोपलैर्विरचिताखिलभित्तिदेशा
वैडूर्यरत्नखचितावनिभागरम्या ।
गोमेधिकप्रकररञ्जितगोपुराढ्या
माणिक्यदिव्यमणिकल्पितदीपपङ्क्तिः ॥ 51 ॥
इयं पुनस्सुधर्मेव सुरेश्वरैससुतरां सर्वंसहेश्वरैरेवालङ्कर्तुं क्षमा ।
जयपालः—भोजकुमार ! अतिरहस्यमिदमानसथम् । अत्र त्वमतिरुचिरे नवरत्नखचितकुसुमान्वितकनकपर्यङ्के यतावकाशं सुखमास्स्व । अहमस्मत्सदनमुपगम्य पुनरागच्चामि । (इति निषिक्रान्तः ।)
भोजः—(पर्यङ्कमालोक्य, दीर्घं निःश्चस्य)—
स्त्रक्चन्दनादिपरिकल्पितमेतदद्य
शय्यातलं प्रियवधूमतिसुन्दराङ्गीम् ।
संस्मारयत्यहह तामपहाय किन्नु
भूपालभूपतनयामिह संविशामि ॥ 52 ॥
हा प्रेयसि विलासवति मानसदेवते ! इयमद्य—
मल्लीकुसुमैः कीर्णा
मर्दितकर्पूरकुङ्कुमरसार्द्रा ।
मञ्जुलताम्बूलदला
तव संषलेषं प्रबोधयति ॥ 53 ॥
(पार्श्वतोऽवलोकय) अयि मे मनोमोहिनि !
रुचिरकनकपात्रे कुङ्कुमक्षोदसारः
मृगमदघनसारैस्सङ्गतो मे करौ ते ।
त्वरयति कुचकुम्भे पत्रलेखां विधातुं
लिखितमपि कपोले मन्मथाद्वैतविद्याम् ॥ 54 ॥
(पश्चिमतोऽवलोकय) हा मे मनोतङ्गविलासिनि !
ताम्बूलीदलमेतदद्य मृदुलं पूगैश्च संचूर्णितैः
कस्तूरीघनसारदेवकुसुमैरेलाफलैरन्वितम् ।
विन्यस्तं प्रभुणा मदर्तमतुलं स्त्रीपुंसलीलावहं
दृष्ट्वा मे वदनं त्वदीयमधरं बिम्बोपम् वाञ्छति ॥ 55 ॥
(इत्यग्रतो विन्यस्तां कनकमञ्जूषां दृष्ट्वा) अयि कान्ते !
एतामनर्धनवरत्नपिनद्धमञ्जु-
भूषासहस्त्रपरिपूरितमध्यभागाम् ।
मञ्जूषिकामनवलोक्य कथं मदियां
जीवं दधासि दयिते भुवि मामिव त्वम् ॥ 56 ॥
अयि प्राणदयिते ! कथं मर्षयामि ते (कयूरमालोक्य) कोयूरमुद्राधारणविलम्बनम् ? अलं दुःखावहस्यास्य अवलोकनेन ।
(इति समन्तादवलोक्य)
दृश्यन्ते विमलान्यत्र रक्त(त्न)स्तम्भेषु भित्तिषु ।
मुकुराणि मनोज्ञानि जनयन्ति मुदं मम ॥ 57 ॥
(मुकुराण्यवलोक्य) अहो किसलयंत्यद्भुतानि । यतः
प्रतिमुकुरं भाति सभा
प्रतिसभमतिरुचिररत्नपर्यङ्कः ।
प्रतिपर्यङ्क शय्या
प्रतिशयनं भोगयोग्यसामग्री ॥ 58 ॥
(लज्जातिरेकेण सत्वरं पृष्ठतः प्रविष्टायाः लीलावत्याः प्रतिबिम्बं दर्पणेषु विलोक्य सविस्मयवितर्कम्)—
किं नाम माया जगतो विधायुः
किं वाप्सरोमोहनशक्तिरेषा ।
कन्दर्पदेवोन्मथितान्मनोब्धेः
जाताऽथवा किं मम कामलक्षमीः ॥ 59 ॥
(कर्णं दत्त्वा) किमद्य कर्णांवन्दकरी वाणी पृष्ठतः ? अयि हृदय! अलं व्रीडया । यदि नालम्बसे धैर्यं सत्यं भिल्लाधमहृदयानुसारि भवसि । तन्महाराजकुमारमुपसर ।
भोजः—(श्रुत्वा मुखं परावृत्य सामोदं स्वगतम्)
भूषणभूषणमेषा
मदनमहीपालमदकरी शक्तिः ।
शृङ्गारसागरसुता
कामुकलोकपरदेवता हृद्या ॥ 60 ॥
(विचार्य) मन्येऽहं प्रियाविरहितं मां व्यसनार्णवादुत्तारयितुमस्मत्पितुः प्रियसखः कांचन कन्दर्पविलासदेवतामस्मन्निकटं प्रेषितवानिति । (पुनर्बिचार्य) न हि न हि, यदियं ब्रवीति यदि नालम्बसे धैर्यं सत्यं भिल्लाधमहृदयानुसारि भवसीति । किं त्वनया हठादनिष्टजनाक्रमणभिया स्वाभिमतगुणग्रामसमग्रं मां मन्यमानया अत एव मामेव शरणं व्रजन्त्या भवितव्यम् । (सम्यङ् निर्वर्ण्य सानुस्मरणम्) अहो ! इदमेव सद्वरलिप्सया लक्ष्मीयजनाय अभ्यागतं कन्यारत्नम् । (इति पश्यन्नास्ते ।)
लीलावती—अपि नाम सत्यं भवति सख्याः कान्तारपालिकायाः वचनम् ? यदाह मां तातपादः सत्कृतो गुहायां पर्यङ्के शेते तव भर्तेति (तथा भोजं विलोक्य सकौतुकम्)—
अहो दृष्टो दैवान्निखिलगुणसारश्शुचितमो
महाभोगानन्दानुभवसुखराशिः प्रियतमः ।
रसः श्रृङ्गाराख्यः कुसुमशरवेदान्तपठितः
स्वयं मूर्तिकृत्यागत इव पुरो मां सुखयितुम् ॥ 61 ॥
(उपसृत्य साञ्जलिबन्धम्)
अयि नात कृपां कुरुष्व मझं
स्मरवेदान्तविचारितैर्विहारैः ।
यदि तत्र न मन्यसे ध्रुवं मे
शरणं नास्ति चितार्चिता कृशानोः ॥ 62 ॥
अपि च पुरैव मया वरदवटवृक्षमूले वटपत्रपत्रिकामूलेन मे दैन्यं विज्ञापितम् ।
भोजः—(स्वगतम्) अहो ! अतिपरिशुद्धेयं कन्यका यदस्मत्परित्यागे दुष्टबलात्कारभीत्या धनञ्जयं प्रवेष्टुमिच्छति ।
आनन्दयात्मानमलं विषादै-
र्वात्स्यायनोऽयं निजगाद योगी ।
सुप्रार्थयन्ति सुतनुं व्रजेत
कामाद्यदि प्राणभयं व्रजन्तीम् ॥ 63 ॥
(इति गाढमालिङ्ग्य कपोलं जिघ्रति ।)
लीलावती (सहर्षपुलकम्)—
आनन्दसिन्धुमवगाझ मनोजवेद-
चूडाविधौ समुचितास्सुरतोपचाराः ।
एतेऽखिला विरचितास्सरसं यथावत्
किं वच्मि—
ऐक्यं मनोगतमभेग्यमितः प्रियान्मे ॥ 64 ॥
( सप्रणयस्मितम् ) आर्यपुत्र !
प्रतिशुक्रवासरमहं
प्रयत्नशतमयुतमपि समास्थाय ।
वल्मीकसिन्धुकन्या-
प्रसादमासाद्य तेऽस्मि दयिताद्य ॥ 65 ॥
भोजः—( सहर्षानुरागम् ) अयि दयिते ! किं ह्रवीमि ?
तपोऽध्वरार्चनादाननिरतैर्यो न लभ्यते ।
सः स्वस्त्रीसङ्गमानन्दः त्वत्तः प्राप्तो मयाधुना ॥ 66 ॥
(क्षणं विचार्य सनिर्विदं स्वगतम्) अहो ! मे कामावेशः यदहमज्ञातकुलदेशामनिरीक्षितात्मशीलामनुभूय आत्मानमानन्दयामि । भवतु पृच्छामि । (प्रकाशम्) कामिनि ! का-(इत्यर्धेक्ते लज्जाहृतचेतनः जिह्वामन्तर्नियम्य विमृश्य,स्वगतम्) किं प्रश्नेन ? विदितभेव अयं भिल्लराजः स्वदुहितरं मझमर्पयितुं कैतवेन मां कामविलासनिदानभूतां गुहामिमां प्रापय्य रहसि इमामपि प्रेषितवानिति । (सवैरस्यम्)
भूपालकन्यां परिणीय ताम-
प्यवीक्षमाणं रतिसुन्दराङ्गीम् ।
भिल्लात्मजायां कलिताभिमानं
चकार मां पञ्जशरो दुरातमा ॥ 67 ॥
(इति निःश्वसिति ।)
लीलावती (स्वगतम्)—कथमार्यपुत्रो मामालोक्य `का’ इत्युपक्रम्य जोषमास्ते ? (विमृश्य) त्रातं त्रातम् । अयमस्मत्कुलादिकं प्रष्टुमुपक्रम्य प्रश्नोऽयमप्यसाधुः कलितोपभोगायामिति व्रीडितो निःश्वसिति । अयं निःश्वासः मयि हेयकुलप्रसूतिसञ्जातनिर्वेदं च सूचयति । अपि च मामभिसारिकां मन्यत इव । यन्मां कामिनीति विशेषितवान् । तदहमेवं विज्ञाप्य पुनरस्य सौमुख्यं संपादयामि । (प्रकाशम्)—
स्तन्यं न पीतमयि कान्त मया कदापि
भिल्लस्त्रियः—
भोजः—(सविस्मयामोदम्, स्वगतम्) सत्यं बुद्धिः स्त्रीणां चतुर्गणा इति, यदियं मां भिल्लोपभोगखिन्नमानसं विज्ञाय स्तन्यं न पीतमिति भिल्लकुलज्ञाननिवारणाय तत्कुलवासमात्रं सूचयति ।
लीलावति—
—दयित ! ते विचिकितिसया किम् ।
भोज—-(स्वगतम्) अयि किं वृथालापेन ? कथं गच्छति तवाब्युदयपरिज्ञानमन्तरा विचिकित्सा ?
लीलावती—
दृष्टा वनेऽस्मि जयपालनृपेण पुष्टा
वाल्यादहं—
भोजः—(सानुमस्रणं, स्वगतम्) हन्त ! किमियं लीलावति / या किलास्मन्मात्रा मदर्थं शैषवे स्नषाधिया परिपालिता, मयि सञ्जातेर्ष्ये(न) मुञ्जेन व्यापादयितुं भिल्लवर्गे समर्पिता । (सानन्दं विलोक्य) शेषमपि श्रृणुमः । (इति तूर्ष्णीं तिष्ठति ।)
लीलावती—
-सकुतुकं भवताद्य भुक्ता ॥ 68 ॥
भोजः—(स्वगतम्) इयं गुणवद्वरालाभे दुश्शीलावलोकनादपि वीतिहोत्रभजनमेव वरमिति निश्चतधियस्स्वस्याश्चरकालानुष्ठितवल्मीकलक्ष्मीयजनफलरूपस्य स्वेप्सितगुणग्रामपरिपूर्णस्य मे प्राप्त्या आनन्दातिशयं सूचयति सकौकुतुकमिति । भवतु तन्मयोपक्रान्तं प्रश्नमन्यथा परिपूर्य तन्मुखादेव विचिकित्सां व्यपोहयामि । (पर्काशम्) अयि प्रिये ! न कदाचिदपि विचिकित्सा । श्रृणु, का ते समाख्येति त्वां प्रष्टुमुपक्रान्तोऽपि तव संश्लेषानन्दाक्रान्तान्तरङ्गतया उपरि प्रष्टुं न शक्रोमि । (निःश्वस्य) किंच श्रृणु, वटदलीवलोकनप्रभृति तव चिन्तया तान्तगात्रोऽस्मि । आस्तां तत् । भवत्वितो दुर्विघट्टनभोगानन्दायावयोर्भगवान् प्रणतार्तिहरः । कथय, किं ते नाम ?
लीलावती (सविनयम्)—श्रृणोत्वार्यपुत्रः ।
आह्वयन्ति जनास्सर्वे वत्से लीलावतीति माम् ।
न जाने जननीं वापि जनकं वा कुलं मम ॥ 69 ॥
भोजः—(सबहुमानानुकम्पम्) अय्यनुरागिणि ! मम भाग्यवशाद्भिल्लहस्तेभ्यो जयपालहस्तं प्राप्य परिपालितासि । (इति पुनर्गाढमालिङ्ग्य)
किं त्वं सन्तोषवार्धिः किंमु मदनमहाराजसाम्राज्यलक्ष्मीः
किं वा मे भाग्यरेखा किमु जनकयोर्मङ्गलाशावतारः ।
किं वा त्रैलोक्यभूमा किमु मम हृदयाह्लादयीलाविलासः
किं स्त्रीसौन्दर्यसारः किमसि नयनयोः प्राक्तनी पुण्यपङ्क्तिः ॥ 70 ॥
(इति मुखमाघ्राय कर्णं दत्वा) किमद्य श्रयते काटवी भारती ?
(नेपथ्यो)
कतं वनमशेषं विचित्यापि न लक्ष्यते स पापूयान् भोजः । यदि दृश्यते कल्प्यते करवालाहाराय ।
भोज—-(श्रुत्वा स्वगतम्) आः कथं इव विज्ञात इव मुञ्जेन । मन्ये मम निग्रहाय प्रेषिता दूता इति । किं तैः, यन्न तेभ्यो भीतिः । अपि त्वस्मद्दर्शने अनृतवादीति हनिष्यति वत्सराजः, अहमपि भवाम्यनृतप्रतिज्ञः ।
लीलावती—(श्रुत्वा स्वगतम्) आः कष्टं कष्टम् ! अस्मत्पाणिग्रहार्थिना शोणिताक्षेण प्रेषिता मल्ला आर्यपित्रवधाय आगताः यत्प्रतिज्ञातमस्मन्मात्रा दुर्मुख्या यदि भोजं हंसि वत्सां तुभ्यमेव दास्यामीति ।
भोजः—अयि प्रिये ! पश्य मे विधिविपर्ययम् । यदावयोस्समागम एव सञ्जातो विहावसरः । (इति शोचन्नास्ते ।)
लीलावती—(स्वगतम्) कथमार्यपुज्त्रेण विदित एव अस्मन्मात्रा कलितो दुरुद्योगः । भवतु, सत्वरमेतमस्माद्देशान्निष्क्रामयामि । (प्रकाशम्) आर्यपुत्र ! मा शुचः । कस्माच्चिद्योगीश्वराल्लब्धां गोपनविद्यां ते दास्यामि । तया आत्मानं सङ्गोप्य बहिर्न याहि । (इति कर्णे कथयति ।)
भोजः—(सहर्षं गृहीत्वा) प्रिये ! नया गुप्तात्मा अत्रैव कानने वसामि । वर्धतामनुरागः । (इति निष्क्रान्तः ।)
लीलावती—
आः कामदेव तव बाणशरासनाना-
मेषोऽञ्जलिर्विरचितो विनयेन काकम् ।
यन्माम्मानि नृपसूनुविलोकनाशा-
मुत्पाद्य तद्विपदमाशु विनाशयन्ति ॥ 71 ॥

(इति कतिचित्पदानि गत्वा) कथमत्रैव मे पिता । (इति तरुषण्डे तिरोहिता तिष्ठति ।)
(ततः प्रविशति जयपालः ।)
जयपालः—(सविषादम्)
अहं मेने भाग्यं यदयममरेसानसदृसो
युवा स्कन्दो वीर्ये वपुषि रतिदेवीसहचरः ।
स्वयं मे संप्राप्तो विषयमिह धाराधिपसुतः
यथा पाऱ्थः कृष्णालयमतुलवीर्यश्शुभयशाः ॥ 72 ॥
आः तादृशं महानुभावं निहन्तुं भिल्लान्प्राहिणोन्मे भार्या दुर्मुखी । यतः
निहतो रुद्रभूम्यां वा रोपितो वा मृतश्चताम् ।
स जीवन्यत्र निर्याति तत्तद्राज्यं विनश्यति ॥ 73 ॥
इति केचनामनन्ति । (लीलावतीं स्मरन् ।)
अयि वत्से ! किमिति कथयामि ते भाग्यवैपरीत्यम् ?
शतधृतिलिखितं फाले परुमार्ष्टुं कोऽपि शक्रोति ।
यत्त्वं सिन्धुलतनये क्लृप्ता भिल्लाय निश्चता मात्रा ॥ 74 ॥
(निःश्वस्य) भवतु तद् एतस्य दुरितस्य किं करिष्यामि ?
त्वद्दानमनसा बत्से स भोजः प्रापितस्सभाम् ।
मारितः पातकिन्या ते मात्राघं किमितः परम् ॥ 75 ॥
भो वयस्य महाराजसिन्धुल !
मित्रमित्येव लोकेषु वृथा वाक्यं प्रचारयन् ।
भवाम्यहं सुतद्रोही भ्राता मुञ्जो यथा तव ॥ 76 ॥
हा देवि शशिप्रमे !
मोचितः पुत्रहत्याया मुञ्जो वत्सेन तेऽधुना ।
तामहं शिरसा बिभ्रत् सञ्चरामि महितले ॥ 77 ॥
(विचिन्त्य) धिङ्मे जीवितम् ! अद्रिशिखरन्निपत्य प्राणांस्त्यजामि । (इति शैलशिखराधिरोहणं नाटयति) ।
लीलावती—(ससंभ्रमम्, श्वगतम्) मन्निमित्तमेव मे तातः प्राणांस्त्यजतीति तदहमद्य व्रीलां विहाय निवारयामि । (प्रकाशम्) तातः ! अलं साहसेना ।
कुशली ते जामाता कुशलिन्यहमस्मि सैन्धुलालोकाते ।
तव च भविष्यिति सार्तः मनोरथस्तं निवर्तस्व ॥ 78 ॥
जयपालः—अहो किमयं मरिस्थले महावृष्टिः ! (लीलावतीं दृष्ट्वा, सहर्षंम्) अयि वत्से !
किन्नु कामेषुकोदण्डं खण्डितं ते मनीषया ।
किन्नु भोजकुमारोऽपि मोचितो विपदस्त्वया ॥ 79 ॥
लीलावकी—अथ किम् (इत्यवाङ्मुखी तिष्ठति ।)
जयपालः—अलं व्रिलया । पूरयस्व सरस्वतीसुधाधारया मे श्रवणसंपुटम् ।
लीलावती—तात ! वल्मीकक्ष्मीपूजावसाने भिक्षुरूपं भोजमालोक्य तत्र सङ्गतं मे चेतः । ततो भिल्लय दातिमिच्छन्त्या जनन्या भोजवधे निश्चते सति गुहा मे नेत्रेण परिशीलिता ।
जयपालः—(सहर्षम्) उपरि विज्ञातम् अनुष्ठितं गान्धर्वमङ्गलम्, दत्ता च गोपनविद्यति । अहं धारां प्रविश्यमुञ्जं विजित्य भोजमभिषेचयामि ।
लीलावती—(सत्रायम्) तात ! नाहं त्वया त्यक्ता निशान्ते विशामि, यदेस्ति मे शोणिताक्षाद्भीतिः ।
जयपालः—तर्हि वत्से ! त्वमपि स्वीकृतवीरपुरुषवेषा मयैवायाहि । (इति सत्वरं परिक्रम्य) अहो आगतावेव समीहितस्थलम् ।
जयपालः—
धारापुरीं समवलोकय नाकरम्यां
कल्याणभित्तिनवरत्नकवाटगुप्ताम् ।
आदित्यदीप्तिकलशावसिगोपुराढ्यां
मुञ्जप्रवेष्ट बलपातविकसेनाम् ॥ 80 ॥
लीलावती—तात ! किमत्र युद्धाय संरम्भन्‌त इव योधाः । यतः
संक्रुद्धाः कटुभाषणाः घनरवा नानास्त्रशस्त्राश्शिरो-
गात्रत्राणकराङ्गुलित्रवपुषो भीमाट्टहासाः पुनः ।
श्मश्रुश्रेणिसमन्वितश्रुतियुगा व्यूहीकृतस्यन्दनाः
हस्त्यशवैरपी पंक्तिभिः प्रतिपदं सञ्चारमातन्वते ॥ 81 ॥
(नेपथ्ये)
भो भोस्सैनिकास्सज्जन्तु सर्वेऽपि यद्भूपालसेना वैशालिका च निरुन्धते नगरम् ।
जयपालः—वत्से ! भोजनिमित्तं मुञ्जे ,ञ्जातमत्सरा युद्धाय सेरम्भन्ते राजानः । अत एव मुञ्जसेनापतिर्वत्सराज एवमाघोषयति । भवतु नगराभ्यन्तरं विद्ययान्तर्हितावेव प्रविशावः । (इति कतिचित्पदानि गत्वा) पश्य ते श्वश्व्राश्शशिप्रभाया मन्दिरम् ।
सिन्धुलपञ्जास्यगुहा भोजाङ्कुरकवकपालिकापात्रम् ।
मुञ्जमहीपपिशाचप्रोत्सारणयन्त्रसंपृटमनर्धम् ॥ 82 ॥
लीलावती—(सभयम्) तात ! पश्य कयाचिद् वृद्धया निरुद्द्यमाना शोचन्ति बालिका समर्चितचिताग्निर्दृश्यते ।
जयपालः—(सत्वरं विलोक्य) कष्टं कष्टम् ! वत्से ! सपत्नीं पतिशोकेन वैश्वानरे पतितुं यतमानां निवारयति श्वश्रूर्वृद्धा शशीप्रभा ।
(उभौ सगात्रकम्पं विलोकयतः । ततः प्रविशति शशिप्रभा विलासवती च ।)
विलासवती—(सास्त्रम्) हा आर्यपुत्र ! क्कासि ? हा घारानगररत्नप्रदी ! कथं ते पादकमलमनालोक्य जीवितुमुत्सहे ! आपि चतुरानन ! किमर्थं मामसृजः ! पश्य—
जननाज्जनको मृतिं गतो नयनाविषयं विवाहतः ।
पतिरप्ययि मे ऋतोः परं विपिनं गत इत्युदीर्यते ॥ 83 ॥
आः कष्टम् !(इति दीर्घं निःश्वस्य) आर्ये ! न स्थास्यते तद्धविरिव वपुर्मे, प्रतिगृझतां वीतिहोत्र ! (इति अग्निमुपसरति ।)
शशिप्रभा—(सत्रासकम्पम्) वत्सं ! मा साहसं कुरु ।
त्वद्वाञ्छया हृदयमेतदहं वहामि
भोजं शिरीषसुकुमारतनुं विहाय ।
त्वं चापि यासि यदि मां परिहृत्य सत्यं
हास्यंऽद्य जीवितममतो ज्वलिते चिताग्नौ ॥ 84 ॥
लीलावती—अब्रझण्यमब्रझण्यम् ! तात ! नोपेक्षणीये आर्या श्वश्रूः, आर्या विलासवति च, तद्यथाविवेकं रक्षणीये ।
जयपालः—सत्वरमुपसरावः (इत्युपसृत्य, विद्यां विमुच्य, प्रणम्य) जयतु देवी ऍ (विलासदेवीं विलोत्य) वत्से ! साहरं मा कुरु ।
लीलावती—(सविनयमुभे च प्रणम्य) अम्बाः मर्षयन्तु क्षणमात्रम् । (इति प्रार्थयति(ते) ।)
विलासवती—(स्वगतम्) कोऽयं बालः अस्मास्वीव सञ्जातकरुणो दृश्यते ?
शशिप्रभा—कथं जयपालः ? अपि नाम कुशलम् ? वत्स ! पश्य मे दुरवस्थम् ।
राजा गतः पितृवनं तनयोऽतिबालः
प्रप्तो वनं श्रुतिपदाऽविषयः कठोरम् ।
वत्सा स्नुषा मम चितामधिरोढुकामा
हास्ये ततोऽहमपि जीवितमेतयैव ॥ 85 ॥
जयपालः—देवि, माश्लीलं कीर्तय । यतः
कुशली भोजकुमारः कुशलिनमद्यैव तन्निशामयसि ।
मुञ्जं विजित्य तीव्रं सिन्धुलसिंहासनासीनम् ॥ 86 ॥
विलासवती—(सश्रु सरसमुपसृत्य) आर्य देव ! अपि नाम दृष्टो ममार्यपुत्रः, अपि नाम तव वनं प्राप्तः, अपि नाम मां व्यसनार्णवात्पारं नेष्यति, अपि नामाहमार्यपुत्रवदनकमलमालोकयामि ?
लीलावती—(सकरुणम्) देवि ! मा शुचः । अद्यैव ते वदनारविन्दं विकासयिष्यत्यार्यपुत्रः । अहमार्यपुत्रस्य प्रियवयस्यः । अम्ब ! आवाभ्यां चिरमुषितदमरण्यम् । स तु कानने किस्मिंश्चत् प्रदेशे निगूढं सञ्जरति, अवेहीदं रहस्यमिति ।
शशिप्रभा—वत्स जयपाल ! कोऽयं मे वत्सभोजस्य मङ्गलमित्रं प्रियवचनामृतधारावर्षी महामेघः ।
जयपालः—देव ! ते करुणामृतपूराभिषेकस्य पूर्णपात्रमयं मे स्वीकृतकुमारो लीलाशुकः ।
शशिप्रभा—(सम्यङ्निर्वर्ण्य)वत्स लीलाशुक ! भोजप्रियवयस्य ! आगच्छ (इत्याहूय गाढमालिङ्ग्य शिरसमाघ्राय) तवागमनाद्भोजमेवागतं मन्ये, त्वद्वचनामृतघारां पौनःपुन्येन पातुमीहते मे श्रवणयुगलं, ते दर्शनमन्यदपि स्मारयति । (अङ्‌गसौष्ठवं निर्वर्ण्य) वत्स ! लीलाशुकरुपेण वयसा सौन्दर्येण च मे वत्सा लीलावतीव दृश्यसे ! हा वत्से लीलावती ! कथं गाता, क्कासि ? (हाहेति प्रलपति ।)
लीलावती—(स्वगतम्) कथं देवी मामुद्दीश्यैव प्रलपति ? किमहमस्यास्तनया, किन्नाम मे भ्राता भोजकुमारः, कथमेतत् ? (इति खिन्नमानसा प्रस्विन्नसर्वाङ्गा अवाङ्मुखी तिष्ठति ।)
जयपालः—(भ्रूसंज्ञयाऽवलोक्य, अपवार्य) वत्से ! मा चिन्तय (शशिप्रभां विलोक्य) देवि ! ते स्नुषा लीलावत्सपि कुशलेन वर्तते । तन्मास्तु ते शोकः ।
लीलावती—)स्वगतम्) किमयं मम शैशवे मामार्यपुत्रः परिणीतवान् ? तर्झासीन्मयि सार्थः विवाहसमये कलितो ब्रझणानामाशीर्वादः ।
जयपालः—देवि ! सिन्धुलदेवस्य प्रार्थनां सत्यं सार्थयिष्यति भगवान् प्रणतार्तिहरः, यन्मण्डलाग्रलक्षितगलोऽपि भोजकुमारो मम विषयमलंकरोति ।
(नेपथ्यं कोलाहलः । सर्वेऽपि कर्णं ददति । पुनर्नेथ्ये ।)
आः ! आदित्यवर्मा मुञ्जयोधैस्समाक्रान्तः । किं करिष्यामः ?
शशिप्रभा—आः कष्टं कष्टम् ! वत्से ! अपि नाम श्रुतः पौराणामाक्रन्दध्वनिः ? आवयोर्यश्शरणं तस्य विपदि चिताग्निरेव नौ गतिः ।
जयपालः—देवि ! मास्तु वां भीतिः । यज्जयपालस्सेवकः इमाम् (इह वाम् ?) अर्थे जागर्ति । अपि च श्रोतव्यो मे वत्सस्य विक्रमः । यस्तु
इन्द्रमपि हन्तुमुचितः विश्वसृजश्चापि बन्धने शक्तः ।
यदि विशति युद्धभूमिं त्रिपुरहरश्चापि भवति शरणार्थिं ॥ 87 ॥
तदावामादित्यवर्मणं मेचयावः ॥
(इति निष्क्रान्तौ ।)
शशिप्रभा—(सविषादम्) वत्से विलासवति ! लीलाशुकासोकनप्रभृति मे चेतना लोलायते । अन्तश्शरीरमपि किमपि व्याकुलयति । यद्दर्शनेन लीलावती मम नयनयोः पुरतः न्श्चला निबद्धेति निःश्वसिति ।
विलासवती—आर्ये ! अहमेवं मन्ये लीलावत्ये लीलाशुकषेषं बिभर्तिति । यया भिल्लहतया जयपालेन पुत्रवत्परिपालितया तस्मादुपलब्धशस्त्रविद्या आर्यपुत्रेण कानने परिणीतया च भवितव्यम् । यदाह जयपालःदेवि । ते स्नुषा लीलावत्यपि कुशलेन वर्तत इति । (विमृश्य) सत्यम् आर्ये ! अम्बां मां च आश्वासयितुं लीलावतीं वीरपुषवेषां कारयित्वा प्रेषितवानार्य- पुत्रः ।
(नेपथ्ये शङ्खध्वनि ।)
विलासवती—निमित्तमनुमोदते ।
शशिप्रभा—(विचिन्त्य) वत्से ! विमुक्त इव आदित्यवर्मा, यदुज्जयिनीसेनायां श्रूयते दुन्दुभिध्वनिः । (पुनर्नेपथ्ये) धवलशङ्खनिनादः करताडनशब्दः, कलकलारवश्च ।
विलासवती—(ससंभ्रमम्) अम्ब ! विजयशीलेव मे जननी यद्भूपालसेना विजयशङ्खं प्रध्माय शात्रवपरीजयं प्रचुरयति करताडनेन ।
(पुनर्नेपथ्ये)
भो भोः उच्छ्रीयतां विजयतां विजयवैजयन्ती, अलङ्क्रियनातां नगरप्रतोल्यो राजसभा च, यद्देवी चारुमती मुञ्जं विजित्य आदित्यवर्मणा सह देवीगृहमागच्छति ।
शशिप्रभा—(विलासवतीं हस्ताभ्यामालिङ्ग्य स्वचेलाञ्जलेन नयनाम्बु संमृज्य) वत्से ! अपि नाम श्रुतं महामात्यबुद्धिसागरवचनम् ? तद्विस्मृतसकलशोका सुखसञ्जातसामन्तविजयशालिनी मम जननी, संल्लापकाङ्क्षिणी भव ।
अद्यैव वत्सो भोजकुमारः तव वदनकमलमादित्य इव विकासयिष्यति ।
(ततः प्रविशती चारुमति विशाल(ला)राजदम्पती च । )
चारुमती—(सहर्षम्) राजन् आदित्यवर्मन् !
धारा जिताऽद्य युधि मालवराजधानी
मुञ्जो गतो हिमगिरिं तपसे निराशः ।
आनेतुमत्र विपिनात्स्वयमेव भोजं
सेनापतिर्द्रुततरो नगरातप्रयाति ॥ 88 ॥
तद्वयं भोजशोकाग्निदग्धमानसां प्रजावतीं वत्सां विलासवतीं च आश्वासयामः ।
(इत्युपसरन्ति)
शशिप्रभा—वत्से इत एव मे प्रियननान्दा वैशालिकराजदम्पती च, तत्सज्जे भवावः ।
(इत्युत्तिष्ठतः ।)
चारुमती—प्रजावति जयतु देवी । वत्से विलासवति ! मुञ्ज शोकम् । (इति नयनाश्रु परिमृज्य उत्सङ्गमारोपयति ।)
आदित्यवर्मा—जयतु देवी वत्सा विलासवती च ।
शशुप्रभा—राजन् आदित्यवर्मन् ! अपि नाम कुशलेनायासि ? अपि नाम मे श्रुतिपुटे सुधाधारया पूरयसि ?
विलासवती—अम्ब ! (इति दुःखपरम्परया दिशोऽष्टौ शब्दापयन्ती नयनाश्रुधारया चारुमत्याः क्षौमं क्षालयति ।)
चारुमति—वत्से ! अलं शोकेन । किं तस्य स्मरणेन सत्वरमवलोकयसि तव प्रियतमं मम भ्रातृव्यं वत्सं भोजकुमारम् ? (इति अश्रूणि परिमार्जयति ।)
आदित्यवर्मा—देवि ! मुच्यतां शोकः । यतः
फीटिकारे मददन्तिनां निजबलं संक्षोभयत्युच्चकैः
हेषाभिर्युधि घोटकस्य नितरां क्षीणे च घैर्ये पुनः ।
चापज्यातलनिर्यदाशुगरवैर्विद्राव्यमाणो जवा-
दाहूतः प्रतिनादतो हिमनतो दर्या स मुञ्जो गतः ॥ 89 ॥
अपि च—
अद्यैवामलवैदिकद्विजकराम्भोजस्फुरङ्गूडपाद्
रत्नस्वर्णघटीसहस्त्रविगलद्गङ्गाम्बुपूरैस्सह ।
अम्ब त्वन्नयनाम्बुजप्रसृमरैरानन्दबाष्पैर्घ्रुवं
जन्या भोजमुपस्थितं मणिमये संस्नापयस्यान(स)ने ॥ 90 ॥
पझावती—जेउ देवी । [जयतु देवी ।] (इति शशिप्रभां प्रणम्य विलासवतीं दृष्ट्वा) वच्चे सुहिणी हे इत्ति । \वत्से ! सुखिनी भव[^1]
विलासवती—(सप्रणामम्, पुष्पं गृहीत्वा)देव ! मन्ये तत्रभवत्या अनुग्रहपूर्वकपुष्पप्रदानमेव मम भर्तुरपि मङ्गलोदयहेतुः ।
(इति सास्त्रमवाङ्मुखी तिष्ठति ।)
पझावती—(विलासवतीमुत्सङ्गमारोप्य शिरसमाघ्राय) जअउ देवी ।
वच्चे सुहिणी होइ ! हणं (तुज्झाण) अद्धे मह रंणो वि मणिं हद्दिमहिदं तडाअश्श उअअं विअ आविलं अज्ज मुजविअआदो पसंणं आसी । ता मुंचेहि सोअं । [जयतु देवी । वत्से ! सुखिनी भव । [ वत्से] युष्माकमर्थे मम राज्ञेऽपि मनः हस्तिमथितं तटाकस्य उदकमिवाविलमद्य मुञ्जविजयात् प्रसन्नमासीत् । तस्मान्मञ्ज (स्व)शोकम् ।]
शशिप्रभा—(निःश्वस्य) राजन् ! किं ब्रवीमि ? सञ्जातं मे मानसं वायाकुलम् । श्रृणु—
भर्तुर्नाशात्पुत्रशोकाद् रिपूणाम्
ऋद्धेर्जन्या दैन्यवक्त्रावलोकात् ।
अश्रौषं यन्मुञ्जयोधैर्ङृतोऽसी-
त्येतद्दुःखं नैव शक्रोमि सोढुम् ॥ 1 ॥
आदित्यवर्मा—अम्ब, किं ब्रवीमि ?
क्रान्तो दूतैः किमपि प्रोच्यमानोऽधमैस्तैः ।
तादृशीमवस्थामासेदुषि मयी—
(सपुलकोद्भेदम्)
व्याधौ कौचिच्छिवसमबलौ द्रावयित्वारिसैन्यं
कारागारादहह कृपया मोचयामासतुर्माम् ॥ 92 ॥
(सहर्षम्) श्रृणोतु देवि, तयोरेकः लक्ष्मीपुत्र इव सुन्दरशरीरो बालश्च ।
(शशिप्रभा विलासवती च सावधानं शृण्वतः ।)
आदित्यवर्मा—तस्य शौर्यं त्रिपुरघ्नेनापि स्तोतुमशक्यम् । यतः
यत्र माणवको याति रिपुस्तस्मात्पलायते ।
आदानस्याशुगानां वा प्रयागस्यापि किं फलम् ॥ 93 ॥
शशिप्रभा—(अपवार्य) विलासवति कथय। विज्ञातः खलु तस्य विक्रमो जयपालदेवमुखात् ।
पझावती—घसस्पृहम्) अय्यउत्त ! तारिसमुवआरिणं प्रेक्षितुं वाञ्छति मम लोचनयुगलम् ।]
शशिप्रभा—(अपवार्य) वत्सं ! यदि दृष्टो लीलाशुकः स्मर्यते नया (मया) लीलावती ।
विलासवती—(अपवार्य) आर्यो ! मन्येऽहं विजयं निवंदयितुं लीलाशुकेन सह जयपालदेवस्समायास्यसीति ।
(ततः प्रविशति जयपालदेवो वीरवेषा लीलावती च ।)
जयपालदेवः—(शशिप्रभामुपसृत्य) जयतु देवी )इति प्रणामति ।)
लीलावती—(उभे अपि प्रणम्य, सानन्दं विलासवतीं पश्यन्त्यास्ते ।)
शशिप्रभा—वत्स जयपाल ! अगतिकाया मम त्वमेव सर्वस्वमसि । किमितो ब्रवीमि । वत्स लीलाशुक ! (इति लीलावतीमाहूय आलिङ्ग्य) त्वमेव मम प्रियपुत्रोऽसि । मन्येऽहं यदि दृश्यते भोजः तेन सह सिंहासने स्थास्यसीति ।
विलासवती—(हर्षपरवशेन चक्षुषावलोक्य) वत्स ! लीलाशुकेत्यानन्दाश्रु वर्तयन्ती हर्षस्मितान्तरङ्गा पश्यन्ती तिष्ठति ।)
आदित्यवर्मा—(स्वगतम्) कथमिमौं देव्या विलासवत्या च वित्ज्ञातविक्रमाविव ! (जयपालमालोक्य, प्रकाशम्) वीर्यविक्रमनिधे ! कस्त्वम् ? न जानाम्यहं, जानाति देवी वत्सा च मन्योऽहमुज्जयिनीनाथो भगवान्महाकालेश्वरो मम दुर्दशां विलोक्य करुणया वायाधरूपेणावतीर्ण इति । भवतु कोऽयं देवसेनापतिरिव दृश्यते वत्सः ।
पझावती—(लीसावतीं विलोक्‌य, अपवार्य) अय्यउत्त ! एसो महलीलावर्इं विअ दंसइ । से विलोअणादो मह हिअअं (किं) वि उवाहिं अणुहोइ । (प्रकाशम्) हा वच्छे । कहिं गया कहिं चिट्टेसि ? हा महाकाल ! मह कुलदेवदे ! तुह कलुणाए एसो अद्धु वा लीलावर्इ कहं अज्जपुरह मे सव्वं लोअणं । (लीलावतीं वीक्ष्य) अए वच्छे ! पुरदो चिठ्ठ, आअच्चे हि मं समआ ।(इत्युन्मत्तहृदयेव प्रलपति ।)
[आर्यपुत्र ! एष मम लीलावतीव दृश्यते। अस्य विलोकनात् मम हृदयं कमप्युपाधिमनुभवति । (प्रकाशम्) हा वत्से ! कुत्र गता कुत्र तिष्ठसि ? हा महाकाल ! मम कुलदेवते ! तव करुणया एषः अस्तु वा लीलावती । कथमद्य स्फुरति मे सव्यं लोचनम् ! अये वत्स ! मे पुरतस्तिष्ठ आगच्छ मांसमया ।
जयपासः—(आदित्यवर्माणमालोक्य सविनयमञ्जलिं क़त्वाः प्रसीदतु देवः । अहं जयपालो नाम कान्तारराजो भिल्लः । अयं ति तव औरसः पुत्रो, मे स्वीकृतः पुत्रः लीलाशुकः ।
पझावती - (श्रुत्वा, स्वगतम्) कहं अत्यउत्तस्स ओरसो पुत्तओ ! [कथमार्यपुत्रस्य औरसः पुत्रः !]
आदित्यवर्मा—राजन् ! कथमपुत्रस्य ममैदारव्रतस्यौरसः पुत्रः । (इति लीलावतीं विलोकयति ।)
जयपालः—(लीलावतीं विलोक्य) वत्सो ! आगतस्ते कुमारभोजस्येव शुभसमयः, तन्मेचय कवचम् । अयं मे पिता, इयं तव माता )इत्यङ्गुल्या आदित्यवर्माणं पझावतीं च प्रदर्श्य) । मुञ्जद्रोहेण भिल्लगता, मया स्वीकृता, परिपालिता च । तस्मान्मम स्वीकृतः पुत्रोऽसि । (राजानम्लोक्य) देव ! स्वीकतोतु वत्साम् । इयं भोजकुमारेण मम गुहायां गान्धर्वेण परिणीता । (इत्यर्पयति) ।
राजदम्पती—(लीलावतीमुत्सङ्गे समासोप्य, शिरस्समाघ्राय) वत्से ! (इत्यानन्दाश्रुघारयाभिषिच्य हर्षस्तिमितान्तरङ्गौ तिष्ठतः ।)
शशिप्रभा—(अग्रतोऽवलोक्य, ससंभ्रमम्) कथम्त एवागच्छति मम वत्सः, सेनापतिना मन्त्रिबुद्धिसागरेण च !
(ततः प्रविशति बुद्धिसागरवत्साभ्यां भोजः ।)
भोजः—(बुद्धिसागरमालोक्य) आर्य ! तत्रभवतां भवतामाशिषाऽसादितोऽहमायुषम् । निस्तीऱ्णश्च दुस्तरः कान्तारनवासः ।
निगमोदितपूर्वदेवतायाः चरणाम्भोरुहमातनोति कूर्तिम् ।
मकुटादपि धारितान्नृपाणां तदनुज्ञापय वन्दनाय मातुः ॥ 94 ॥
बुद्धिसागरः—सत्वरमनुष्ठीयतां, यदिष्टदेवता वन्द्यते मङ्गलारम्भेषु ।
वत्सराजः—इत इतो गच्छतु धारानगरभूषणम् । यदत्र सज्जते साक्षात्परदेवतेव दर्शनार्थिनी देवी ।
भोजः—(उपसृत्य) अम्ब ! अभिवादयते भोजः ।
शशिप्रभा—वत्स ! चिरंजीव, सदा सिंहासनाधिष्ठितो भव ।
(इति बस्ताभ्यामादायोत्सङ्गे निवेश्य)
दिष्ट्याऽद्य त्वामधिगतवती भोजवत्सं चिराय
दृष्ट्वा प्राणान् कथमपि वधूवक्त्रमालोकयन्ती ।
बिभ्रन्ती ते वदनकमलालोककामा—
(बुद्धिसागरं प्रदर्श्य)
गिरैषां
दैवात्तेषां गिरमिह भवान्सार्थयन्नागतोऽसि ॥ 95 ॥
(इत्यानन्दाश्रुभिरभिषिच्य) वत्स ! पश्य ।
विलासवती—(सबाष्पगद्गदम्) आर्यपुत्र ! (इति भोजस्य पादयोर्निपत्य मूर्च्छति । भोजः हस्ताभ्यामुत्ताप्य समाश्वास्य)
धैर्यं प्राप्नुहि राघवं धरणिजामासेदिवांसौ वनं
रक्षोनायकञ्जनाविघटितौ संक्षोभितौ राक्षसैः ।.
दैवाल्लब्धसुखोदयौ स्मरहृदा नष्टं च कष्टं तथा
प्राप्तो नौ सम(य)श्शुभाभ्युदयकृत्सन्तुष्टचित्ता भव ॥ 96 ॥
(इति तत्पार्श्वारुमतीं विलोक्य प्रणमति ।)
चारुमती—(अस्त्रमुन्मृज्य) अयि प्रियजामातः !
पुनर्जातं मन्ये कटुकव(प)टचर्याविषमयात्
पृदाकोर्मुञ्जात्त्वां यदुवर इवाघास्यकुहरात् ।
(हस्ताभ्यामालिङ्ग्य ।)
सुखी स्या वत्सोतो वस चिरसमा मे तनुजया
महीं प्राप्यानर्दं रघुपतिरिव क्षोणिसुतया ॥ 97 ॥
अपि च, भव इतःप्रभृति त्रिदशेश्वर इव । (इत्यानन्दाश्रु प्रवर्तयति ।)
भोजः—(जयपालं विलोक्य, सहर्षविनयादरमञ्जलिं बद्ध्वा)
या पुत्रभार्याजामातृमित्रामात्येषु ब्नधुषु ।
प्रीतिस्सा मयि विन्यस्ता पितृसौजन्यचिन्तया ॥ 98 ॥
देव ! ते करुणावलोकनेनैव मयि परिणता सिन्धुलराज्यलक्ष्मी) (दक्षिणपार्शमचे आदित्यवर्माणं पझावर्तिं लीलावतीं च दृष्ट्वा, स्वगतम्) कथं अत्रैव मे प्रेयसी ! (विमृश्य) साम्प्रतमियमनयोः पुण्याङ्कुरः ! (इति सानन्दं विलोकयति ।)
आदित्यवर्मा—(सप्रमोदम्) वत्स भोज ! मे प्रियजामातः ! चिरचिन्तितस्त्वं भाग्यवशात् प्राप्तोऽसि । मम सिन्धुलदेवस्य चावा(भ्यां) चिन्तितं दैवेन समर्थितम् । (इत्यानन्दधारयाभिषित्य) गान्धर्ववर्त्मनोढामपि मे नयनानन्दाय ब्राझेणोद्वहस्व । (इति लीलावतीं भोजोत्सङ्गे निवेश्य) अद्य धाराराज्याभिषेकेण सहाभिषेचयाम्युज्जयिनीराज्याय च ।
बुद्धिसागरः—(ससंभ्रमम्) वत्सराज ! संमेलय सभाम् ।
वत्सराजः—(निष्क्रम्य पुनः पण्डितैः मन्त्रिवर्गेण च प्रविश्य) महाराज !
त्वर्यतां यदद्य सुमुहूर्तमिति सज्जते मौहूर्तिकमन्त्रिपुरोहितपण्डितवर्गः ।
आदित्यवर्मा—स्वयमेव सिंहासनमलङ्करोति ।
वत्सराजः—अहो अभिषिक्त एव भोजकुमारः ।
गोविन्दपण्डितः—(सविस्मयम्)
आदित्यकोट्याः प्रभयेव सर्वाः
दिशोऽपि भोजस्य किरीटभासा ।
सभा विभाति स्मितदीप्तिवक्त्रे
देव्यौ सहर्पं नृपपार्श्वभागे ॥ 99 ॥
कालिदासः—(आ(सा)नन्दबाष्पविसरम्)
अद्य धारा सदाधारा सदानन्दा सरस्वती ।
पण्डिता मण्डितास्सर्वे भोजे सिंहासनं गते ॥ 100 ॥
भवभूतिः—देव धारानगरेश्वर !
संपदमतुलां कीर्तिं सन्ततिमपि धर्मकार्यनिरतधियम् ।
निर्जरविप्रश्रद्धां भजस्व दीर्घायुषा विजयम् ॥ 101 ॥
जयपालः—
अस्मद्राज्यमकण्टकम मम सुता लीलावती भुञ्जतां
यद्यद्वस्तु मय्हृतं तदखिलं यायाद्विलासां सतिम् ।
दीर्घायुर्मव सिन्धुलात्मज पुनः किं ते करोमि प्रियं
सा वल्मीकविलासिनी जलधिजा पायान्निशान्तं तव ॥ 102 ॥
बुद्धिसागरः—
वत्स त्वं विरचय पण्डिताङ्घ्रिपूजां
मा तेऽङ्ग लगतु पराङ्गनासमीरः ।
मा त्यागं कुरु जननीगिरोऽतिगुर्व्याः
पत्निभ्यां सह विहरानुरागपूर्वम् ॥ 103 ॥
अ यि किं ते भूयः प्रियमुपहरामि ?
भोजः—
रिपुरपि गतो राज्यं प्राप्तं विलासवति प्रिया
शुभगुणनिधिर्लक्ष्मीर्भूमिर्मया सह सङ्गता ।
तव करुणया लीलावत्या बभूव करग्रहः
भवति जननी सेवाश्लाध्या प्रियं किमतः परम् ॥ 104 ॥
अद्य राज्यपरिपालनाय यतामहे । तथापीदमस्तु भरतवाक्यम्—
नार्यस्सन्तु पतिव्रता भुवि सदा भूपालपुत्री यथा
वाञ्छन्त्वार्यसुतोदयं पुनरिमाः देवीव लीलावती ।
धर्मे दत्तधियो भवन्तु नृपतिर्भोजो यथा भूमिपाः
लाल्यन्तां कवयश्व भूमिपतिभी रामेण देवा यथा ॥ 105 ॥
(इति निष्क्रान्तास्सर्वे ।)
इति बालकिंगृहपुरीतिलकायमानवाधूलकुलतिलक-
श्रीसुन्दरवीररघूद्वबगुरोः कृतिषु
श्रीभोजराजाङ्कस्समाप्तः ॥

पात्राणि
पुमांसः
भोजराजः — धारापुरीशस्य सिन्धुलस्य पुत्रः ।
सिन्धुलः —मुञ्जस्य ज्येष्ठभ्राता, भोजपिता ।
मुञ्जः — भोजस्य पितृव्यः, भोजद्विटि ।
बुद्धिसागरः — सिन्धुलस्य मन्त्री, भोजपक्षपाती ।
वत्सराजः — मुञ्जसेनाधिपतिः, भोजरक्षकश्च ।
आदित्यवर्मा — लीलावत्याः पिका, अवन्तिनाथः ।
जयपालदेवः — भिल्लराजः सिन्धुलसखः, लीलावतीरक्षकः ।
लीलाशुकः — वीरमल्लरूपेण आदित्यवर्मरक्षिता लीलावती ।
गोविन्दपण्डितः, भवभूतिः, कालिदासः — भोजराजवयस्याः महाकवयश्च ।
शोणिकाक्षः — दुर्मुख्यास्सहोदरः ।
बाहुकः, जानुकः — भिल्लराजदूतौ, मद्यपायिनौ ।
स्त्रियः
लीलावती — आदित्यवर्मणः पुत्री, भोजमहिषी ।
विलासवती — तारुमत्याः पुत्री, भोजमहिषी ।
शशिप्रभा — सिन्धुलपत्नी, भोजमाता ।
पझावती — लीलावतीमाता ।
चारुमती — विलासवतीमाता, मुञ्जस्वसा । भूपालराज्ञी ।
दुर्ममुखी — जयपालदेवमहिषी ।
वनप्रिया, कलहंसिनी — भिल्लस्त्रियौ, लीलावत्यास्सख्यौ ।
वल्मीकनिवासिनी — भिल्लकुलदैवतं महालक्ष्मीः ॥

]