[[काव्यमाला (सप्तमो भागः) Source: EB]]
[
[TABLE]
(Registered according to act XXV of 1867. )
(All rights reserved by the publisher )
———————
॥ श्रीः ॥
काव्यमाला।
नाम
नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन-
च्छन्दोलंकारादिसाहित्यग्रन्थानां
संग्रहः।
<MISSING_FIG href="../books_images/U-IMG-1722320550to.png"/>
सप्तमो गुच्छकः।
<MISSING_FIG href="../books_images/U-IMG-1723102626KAVYAMALA_1-removebg-preview.png"/>
जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना पण्डित-
दुर्गाप्रसादेन, मुम्वापुरवासिना परवोपाह्न-
पाण्डुरङ्गात्मजकाशिनाथशर्मणा च
संशोधितः।
<MISSING_FIG href="../books_images/U-IMG-1723102939KAVYAMALA_1-removebg-preview.png"/>
स च
मुम्वय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा
प्राकाश्यं नीतः।
<MISSING_FIG href="../books_images/U-IMG-1723102695KAVYAMALA_1-removebg-preview.png"/>
१८९०
<MISSING_FIG href="../books_images/U-IMG-1723102737KAVYAMALA_1-removebg-preview.png"/>
(अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सवथा जावजोदादाजीइत्यस्यैवाधिकारः।)
<MISSING_FIG href="../books_images/U-IMG-1723102758KAVYAMALA_1-removebg-preview.png"/>
| १. | मानतुङ्गाचार्यविरचितं भक्तामरस्तोत्रम् |
| २. | सिद्धसेनदिवाकरप्रणीतं कल्याणमन्दिरस्तोत्रम् |
| ३. | वादिराजप्रणीतं एकीभावस्तोत्रम् |
| ४. | धनंजयप्रणीतं विषापहारस्तोत्रम् |
| ५. | भूपालकविप्रणीता जिनचतुर्विंशतिका |
| ६. | देवनन्दिप्रणीतं सिद्धिप्रियस्तोत्रम् |
| ७. | सोमप्रभाचार्यविरचिता सूक्तिमुक्तावली |
| ८. | जम्बूगुरुविरचितं जिनशतकम् |
| ९. | पद्मानन्दकविप्रणीतं वैराग्यशतकम् |
| १०. | जिनप्रभसूरिविरचितः सिद्धान्तागमस्तवः (सावचूरिः) |
| ११. | आत्मनिन्दाष्टकम् |
| १२. | जिनवल्लभसूरिविरचितं महावीरस्वामिस्तोत्रम् |
| १३. | हेमचन्द्राचार्यविरचितंमहावीरस्वामिस्तोत्रम् |
| १४. | हेमचन्द्राचार्यविरचितंमहावीरस्वामिस्तोत्रम्(द्वितीयम्) |
| १५. | जिनप्रभसूरिविरचितः पार्श्वनाथस्तवः |
| १६. | जिनप्रभसूरिविरचितं गोतमस्तोत्रम् |
| १७. | जिनप्रभाचार्यविरचितः श्रीवीरस्तवः |
| १८. | जिनप्रभसूरिविरचितः चतुर्विंशतिजिनस्तवः |
| १९. | जिनप्रभसूरिविरचितः पार्श्वस्तवः |
| २०. | जिनप्रभसूरिविरचितः श्रीवीरनिर्वाणकल्याणकस्तवः |
| २१. | विमलप्रणीता प्रश्नोत्तररत्नमाला |
| २२. | धनपालप्रणीता ऋषभपञ्चाशिका |
| २३ | शोभनमुनिप्रणीता चतुर्विंशतिजिनस्तुतिः (सटिप्पणी) |
काव्यमाला
<MISSING_FIG href="../books_images/U-IMG-1722322099to.png"/>
^(१)श्रीमानतुङ्गाचार्यविरचितं
भक्तामरस्तोत्रम्
भक्तामरप्रणतमौलिमणिप्रभाणा-
मुद्द्योतकं दलितपापतमोवितानम्
सम्यक्प्रणम्य जिनपादयुगं युगादा-
वालम्बनं भवजले पततां जनानाम्॥१॥
__________________________________________________________
^(१.)भक्तामरस्तोत्रप्रणेता मानतुङ्गाचार्यो मालवदेशान्तर्गतोजयिनीनगर्यो वृद्धभोजमहीपतिसमये वाणमयूरयोः समकालिक आसीदिति भक्तामरस्तोत्रटीकानामुपोद्धाते समुपलभ्यते.तेन ख्रिस्ताब्दीयसप्तमशतकपूर्वभागो वाणभट्टसमय एवमानतुङ्गसमय इत्यवसीयते. मेरुतुङ्गप्रणीतप्रबन्धचिन्तामणौ तु ‘अथ यदा मालमण्डले श्रीभोजराजो राज्य चकार तदात्र गुर्जरधरित्र्या चौलुक्यचक्रवर्ती श्रीभीम पृथिवी शशास’ इत्यस्ति तदनन्तर भोजसभाया बाणमयूराभ्या सह मानतुङ्गाचार्यस्य विवादादि भक्तामरस्तोत्र- निर्माण च वर्णितमस्ति. भीमभोजराजौ तु ख्रिस्ताब्दीयैकादशशतक आस्तामिति गुजरातदेशीयेतिहासे स्फुटमेव. स एव मानतुङ्गस्य काल इत्यपि वक्तु शक्यते, एवकिंवदन्तीनां परस्परविसवादे सदिग्ध एव मानतुङ्गसमय.. एतादृश्यो जनश्रुतयस्तु समयादिनिर्णये नातीवोपयुक्ता इत्यसकृदुक्तमेव. स्तोत्र चैतद्दिगम्बरे श्वेताम्वरैश्च श्रद्धया पठ्यते. किं तु दिगम्बरा अष्टचत्वारिंशत्पद्यघटितं श्वेताम्बराश्चतुश्चत्वारिंशत्पद्यात्मक च पठन्ति तत्रैकत्रिंशपद्यानन्तरं ‘गम्भीरताररव—’ इत्यादि पद्यचतुष्टयं दिगम्बरैरधिकमु- द्धोष्यते अस्माकं तु चतुश्चत्वारिंशत्पद्यात्मकमेव स्तोत्रमाचार्येण प्रणीतमित्येव भाति यतो भक्तामरस्तोत्रानुकरणप्रवृत्त. सिद्धसेनदिवाकरोऽपि कल्याणमन्दिरस्तोत्र चतुश्चत्वारिं- शच्छ्लोकैरेव निर्मितवान्. अथ च भक्तामरसमस्यापूर्तिस्तोत्रमपि चतुश्चत्वारिंशत्पद्यात्मकमेव दृश्यते. गम्भीरेत्यादि चत्वारि पद्यानि तु केनचन पण्डितंमन्येन निर्माय मणिमालाया काचशकलानीव मानतुङ्गकविताया प्रवेशितानीत्यपि तद्विलोकनमात्रेणैव कवित्वमर्मविद्भिविद्वद्भिर्बोद्धु शक्यते टीकाश्चास्य स्तवस्य श्वेताम्बरैर्दिगम्बरैश्च निर्मिता भूयस्यो वर्तन्ते. तत्र दिगम्बरा मानतुङ्गाचार्यं दिगम्बर श्वेताम्बराश्च श्वेताम्बर वदन्ति. उपोद्घातत्तुटीकासु प्रायः समान एव वर्तते. कैश्चन टीकाकारैः प्रतिश्लोक मन्त्रस्तत्प्रभाव- कथा च लिखितास्ति, ते च मन्त्रास्तत्तत्पद्येभ्य. कथ निर्गता इति त एव जानन्ति मन्त्रशास्त्ररीत्या तु.तेभ्यः श्लोकेभ्यस्तेषां मन्त्राणामुद्धागे दुष्कर एव. अस्माभिस्तु टीकाचतुष्कमुपलब्धम् —तत्र (१) श्वेताम्बरेण गुणचन्द्रसूरिशिष्यगुणाकरेण प्रणीता टीका समीचीना. अस्या चतुश्चत्वारिंशत्पद्यानि व्याख्यातानि प्रायः पद्यानन्तरं मन्त्रस्तत्प्रभावकथा च वर्णितास्ति. टीकानिर्माणसमयस्तु समाप्तौ’वर्षे षट्विंशाधिकचतुर्दशशतीमिते(१४२६) च वर्षर्तौ। मासि नभस्ये रचिता सरस्वतीपत्तने विवृतिः॥’ इत्थमुक्त, नागार्जुनप्रणीतयोगरत्नावल्याष्टीकाकारो गुणाकरस्त्वस्माद्भिन्नः यतस्तट्टीकान्ते ‘श्रीमन्नृपविक्रमतो द्वादशनवषट्भिरङ्किते (१२९६) वर्षे। रचिता गुणाकरेण श्वेताम्वरभिक्षुणा विवृतिः॥’ इति टीकानिर्माणकालो वर्तते.(२) तपागच्छीयहीरविजयसूरिशिष्यकनककुशलप्रणीता टीका संक्षिप्ता उपोद्घातप्रभावकथाभोरहिता च. अत्रापि चतुश्चत्वारिंशत्पद्यान्येव व्याख्यातानि. समाप्तौ च ‘श्रीमत्तणगणगगनाद्गणदिनमणिहीरविजयसूरीणाम्। शिष्याणुना विरचिता वृत्तिरियं कनककुशलेन \।\। नयनशररसेन्दु (१६५२)-मिते वर्षे सुविराटनाम्नि वरनगरे। बालजनविनोधार्थे विजयदशम्या हि सुसमाप्ता॥’ एतदार्यायुग्मं वर्तते. (३) इयं टोका कर्तृनामरहिता सामान्या उपोद्घातमात्रसमेता बर्तते. एतत्प्रणेतापि कश्चन श्वेताम्बर एव प्रतीयते. यतोऽनेन मानतुङ्गाचार्यो वृहद्रच्छाधीशः श्वेताम्वरश्वासोदित्युक्तमस्ति. किंत्वयमष्टचत्वारिंशच्छ्रोकान्व्याख्यातवानित्यस्य श्वेताम्यरत्वे मनाक्सदेहः. (४) इयं टोका १६६७ सवत्सरे दिगम्बरभट्टारकरत्नचन्द्रेण प्रणीता. अत्रापि तादृश एवोपोद्घातोऽनुष्टुप्पद्यघटितस्तादृश्य एवप्रभावकथाश्च वर्तन्ते. मानतुङ्गाचार्यो दिगम्वर आसीदित्यप्यत्रास्ति. किं तु टीकाकारः सुतरामप्रौढःएतटीका चतुष्टयम- स्मभ्य सूरतनगरवासिनास्मन्मित्रेण केवलदासात्मजभगवान्दासश्रेष्ठिना प्रहितम्. द्वित्राणि मूलपुस्तकानि त्वस्माभिर्जयपुरेऽधिगतानि तदाधारेणास्माभि- रेतत्स्तोत्रमुद्रणमारब्धमिति शुभम् .
__________________________________________________________
यः संस्तुतः सकलवाङ्मयतत्त्वबोधा-
दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः।
स्तोत्रैर्जगत्त्रितयचित्तहरैरुदारैः
स्तोप्येकिलाहमपि तं प्रथमं जिनेन्द्रम्॥२॥( युग्मम )
बुद्ध्या विनापि विबुधार्चितपादपीठ
स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम्।
वालं विहाय जलसंस्थितमिन्दुविम्ब-
मन्यः क इच्छति जनः सहसा ग्रहीतुम्॥३॥
वक्तुं गुणान्गुणसमुद्र शशाङ्ककान्ता -
न्कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या।
कल्पान्तकालपवनोद्धतनक्रचक्रं
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम्॥४॥
सोऽहं तथापि तव भक्तिवशान्मुनीश
कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः।
प्रीत्यात्मवीर्यमविचार्य मृगो मृगेन्द्र
नाभ्येति किं निजशिशोः परिपालनार्थम्॥५॥
अल्पश्रुतं श्रुतवतां परिहासधाम
त्वद्भक्तिरेव मुखरीकुरुते वलान्माम्।
यत्कोकिलः किल मधौ मधुरं विरौति
तच्चारुचूतकलिकानिकरैकहेतु॥६॥
त्वत्संस्तवेन भवसंततिसंनिबद्धं
पापं क्षणात्क्षयमुपैति शरीरभाजाम्।
आक्रान्तलोकमलिनीलमशेषमाशु
सूर्याशुभिन्नमिव शार्वरमन्धकारम्॥७॥
मत्वेति नाथ तव संस्तवनं मयेद-
मारभ्यते तनुधियापि तव प्रभावात्।
चेतो हरिष्यति सतां नलिनी दलेषु
मुक्ताफलद्युतिमुपैति ननूदबिन्दुः॥८॥
आस्तां तव स्तवनमस्तसमस्तदोषं
त्वत्संकथापि जगतां दुरितानि हन्ति।
दूरे सहस्रकिरणः कुरुते प्रभैव
पद्माकरेषु जलजानि विकासभाञ्जि॥९॥
नात्यद्भुतं भुवनभूषणभूत नाथ
भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः।
तुल्या भवन्ति भवतो ननु तेन किं वा
भूत्याश्रितं य इह नात्मसमं करोति॥१०॥
दृष्ट्वा भवन्तमनिमेषविलोकनीयं
नान्यत्र तोषमुपयाति जनस्य चक्षुः।
पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः
क्षारं जलं जलनिधे रसितुं क इच्छेत्॥११॥
यैः शान्तरागरुचिभिः परमाणुभिस्त्वं
निर्मापितस्त्रिभुवनैकललामभूत।
तावन्त एव खलु तेऽप्यणवः पृथिव्यां
यत्ते समानमपरं नहि रूपमस्ति॥१२॥
वक्रं क्व ते सुरनरोरगनेत्रहारि
निःशेषनिर्जितजगत्त्रितयोपमानम्।
विम्बं कलङ्कमलिनं क्व निशाकरस्य
यद्वासरे भवति पाण्डुपलाशकल्पम्॥१३॥
संपूर्णमण्डलशशाङ्ककलाकलाप-
शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति।
ये संश्रितास्त्रिजगदीश्वरनाथमेकं
कस्तान्निवारयति संचरतो यथेष्टम्॥१४॥
चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि-
र्नीतं मनागपि मनो न विकारमार्गम्।
कल्पान्तकालमरुता चलिताचलेन
किं मन्दराद्रिशिखरं1 चलितं कदाचित्॥१५॥
निर्धूमवर्तिरपवर्जिततैलपूरः
कृत्स्नं जगत्रयमिदं प्रकटीकरोषि।
गम्यो न जातु मरुतां चलिताचलानां
दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः॥१६॥
नास्तं कदाचिदुपयासि न राहुगम्यः
स्पष्टीकरोषि सहसा युगपज्जगन्ति।
नाम्भोधरोदरनिरुद्धमहाप्रभावः
सूर्यातिशायिमहिमासि मुनीन्द्र लोके॥१७॥
नित्योदयं दलितमोहमहान्धकारं
गम्यं न राहुवदनस्य न वारिदानाम्।
विभ्राजते तव मुखाज्जमनल्पकान्ति
विद्योतयज्जगदपूर्वशशाङ्कविम्बम्॥१८॥
किं शर्वरीषु शशिनादि विवस्वता वा
युष्मन्मुखेन्दुदलितेषु तमःसु नाथ।
निष्पन्नशालिवनशालिनि जीवलोके
कार्यंकियज्जलधरैर्जलभारनम्रैः॥१९॥
ज्ञानं यथा त्वयि विभाति कृतावकाशं
नैवं तथा हरिहरादिषु नायकेषु।
तेजः स्फुरन्मणिषु याति यथा महत्त्वं
नैवं तु काचशकले किरणाकुलेऽपि॥२०॥
मन्ये वरं हरिहरादय एव दृष्टा
दृष्टेषु येषु हृदयं त्वयि तोषमेति।
किं वीक्षितेन भवता भुवि येन नान्यः
कश्चिन्मनो हरति नाथ भवान्तरेऽपि॥२१॥
स्त्रीणां शतानि शतशो जनयन्ति पुत्रा-
न्नान्या सुतं त्वदुपमं जननी प्रसूता।
सर्वा दिशो दधति भानि सहस्ररश्मिं
प्राच्येव दिग्जनयति स्फुरदंशुजालम्॥२२॥
त्वामामनन्ति मुनयः परमं पुमांस-
मादित्यवर्णममलं तमसः परस्तात्।
त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं
नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः॥२३॥
त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं
ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम्2।
योगीश्वरं विदितयोगमनेकमेकं
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः॥२४॥
बुद्धस्त्वमेव विबुधार्चितबुद्धिवोधा-
त्त्वं शंकरोऽसि भुवनत्रयशंकरत्वात्।
धातासि धीर शिवमार्गविधेर्विधाना-
द्व्यक्तं त्वमेव भगवन्पुरुषोत्तमोऽसि॥२५॥
तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ
तुभ्यं नमः क्षितितलामलभूषणाय।
तुभ्यं नमस्त्रिजगतः परमेश्वराय
तुभ्यं नमो जिन भवोदधिशोषणाय॥२६॥
को विस्मयोऽत्रयदि नाम गुणैरशेषै-
स्त्वं संश्रितो निरवकाशतया मुनीश।
दोषैरुपात्तविविधाश्रय3जातगर्वैः
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि॥२७॥
उच्चैरशोकतरुसंश्रितमुन्मयूख-
माभाति रूपममलं भवतो नितान्तम्।
स्पष्टोल्लसत्किरणमस्ततमोवितानं
बिम्बं रवेरिव पयोधरपार्श्ववतिं॥२८॥
सिंहासने मणिमयूखशिखाविचित्रे
विभ्राजते तव वपुः कनकावदातम्।
बिम्बं वियद्विलसदंशुलतावितानं
तुङ्गोदयाद्विशिरसीव सहस्ररश्मेः॥२९॥
कुन्दावदातचलचामरचारुशोभं
विभ्राजते तव वपुः कलधौतकान्तम्।
उद्यच्छशाङ्करुचिनिर्झरवारिधार-
मुच्चैस्तटं सुरगिरेरिव शातकौम्भम्॥३०॥
छत्रत्रयं तव विभाति शशाङ्ककान्त-
मुच्चैःस्थितं स्थगितभानुकरप्रतापम्।
मुक्ताफलप्रकरजालविवृद्धशोभं
प्रख्यापयत्रिजगतः परमेश्वरत्वम्॥३१॥
[गम्भीरतार4रवपूरितदिग्विभाग-
स्त्रैलोक्यलोकशुभसंगमभूतिदक्षः।
सद्धर्मराजजयघोषणघोषकः स-
न्खे दुन्दुभिर्नदति5 ते यशसः प्रवादी॥३२॥
मन्दारसुन्दरनमेरुसुपारिजात-
संतानकादिकुसुमोत्करवृष्टिरुद्धा6।
गन्धोदविन्दुशुभमन्दमरुत्प्रयाता
दिव्या दिवः पतति ते वचसां ततिर्वा॥३३॥
शुंभत्प्रभावलयभूरिविभा विभोस्ते
लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती।
प्रोद्यद्दिवाकरनिरन्तरभूरिसंख्या
दीप्त्याजयत्यपि निशामपि सोमसौम्याम्॥३४॥
स्वर्गापवर्गगममार्गविमार्गणेष्टः
सद्धर्मतत्त्वकथनैकपटुस्त्रिलोक्याः।
दिव्यध्वनिर्भवति ते विशदार्थसर्व-
भाषास्वभावपरिणामगुणप्रयोज्यः॥३५॥]
उन्निद्रहेमनवपङ्कजपुञ्जकान्ती
पर्युल्लसन्नखमयूखशिखाभिरामौ।
पादौ पदानि तव यत्र जिनेन्द्र धत्तः
पद्मानि तत्र विबुधाः परिकल्पयन्ति॥३६॥
इत्थं यथा तव विभूतिरभूज्जिनेन्द्र
धर्मोपदेशनविधौ न तथापरस्य।
यादृक्प्रभा दिनकृतः प्रहतान्धकारा
तादृक्कुतोग्रहगणस्य विकासिनोऽपि॥३७॥
श्व्योतन्मदाविलविलोलकपोलमूल-
मत्तभ्रमद्भ्रमरनादविवृद्धकोपम्।
ऐरावताभमिभमुद्धतमापतन्तं
दृष्ट्वा भयं भवति नो भवदाश्रितानाम्॥३८॥
भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्त-
मुक्ताफलप्रकरभूषितभूमिभागः।
वद्धक्रमः क्रमगतं हरिणाधिपोऽपि
नाक्रामति क्रमयुगाचलसंश्रितं ते॥३९॥
कल्पान्तकालपवनोद्धतवद्विकल्पं
दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम्।
विश्वंजिघत्सुमिव संमुखमापतन्तं
त्वन्नामकीर्तनजलं शमयत्यशेषम्॥४०॥
रक्तेक्षणं समदकोकिलकण्ठनीलं
क्रोधोद्धतं फणिनमुत्फणमापतन्तम्।
आक्रामति क्रमयुगेण निरस्तशङ्क-
स्त्वन्नामनागदमनी7 हृदि यस्य पुंसः॥४१॥
वल्गत्तुरङ्गगजगर्जितभीमनाद-
माजौ बलं बलवतामपि भूपतीनाम्।
उद्यद्दिवाकर्मयूखशिखापविद्धं
त्वत्कीर्तनात्तम इवाशु भिदामुपैति॥४२॥
कुन्ताग्रभिन्नगजशोणितवारिवाह8-
वेगावतारतरणातुरयोधभीमे।
युद्धे जयं विजितदुर्जयजेयपक्षा-
स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते॥४३॥
अम्भोनिधौ क्षुभितभीषणनक्रचक्र9-
पाठीनपीठभयदोल्वणवाडवाग्नौ।
रङ्गत्तरङ्गशिखरस्थितयानपात्रा-
स्त्रासं विहाय भवतः स्मरणाद्व्रजन्ति॥४४॥
उद्भूतभीषणजलोदरभारभुग्नाः10
शोच्यां दशामुपगताश्च्युतजीविताशाः।
त्वत्पादपङ्कजरजोभृतदिग्धदेहा
भर्त्या भवन्ति मकरध्वजतुल्यरूपाः॥४५॥
आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा
गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः।
त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः
सद्यः स्वयं विगतबन्धभया भवन्ति॥४६॥
मत्तद्विपेन्द्रमृगराजदवानलाहि-
सङ्ग्रामवारिधिमहोदरबन्धनोत्थम्।
तस्याशु नाशमुपयाति भयं भियेव
यस्तावकं स्तवमिमं मतिमानधीते॥४७॥
स्तोत्रस्रजं तव जिनेन्द्र गुणैर्निवद्धां
भक्त्या मया रुचिरवर्णविचित्रपुष्पाम्।
धत्ते जनो य इह कण्ठगतामजस्रं
तं मानतुङ्गमवशा11 समुपैति लक्ष्मीः॥४८॥
इति श्रीमानतुङ्गाचार्यविरचितं भक्तामरस्तोत्रम्।
———————
श्रीसिद्धसेनदिवाकरप्रणीतं
कल्याणमन्दिरस्तोत्रम्।
कल्याणमन्दिरमुदारमवद्यभेदि
भीताभयप्रदमनिन्दितमङ्घ्रिपद्मम्।
संसारसागरनिमज्जदशेषजन्तु-
पोतायमानमभिनम्य जिनेश्वरस्य॥१॥
यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः
स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम्
__________________________________________________________
२.कल्याणमन्दिरस्तोत्रं सिद्धसेनदिवाकरेण प्रणीतमिति प्रसिद्धिरस्ति. स्तोत्रान्तिमपद्ये तु कुमुदचन्द्र इति कर्तुर्नाम लभ्यते. तच्च सिद्धसेनदिवाकरस्य गुरुणा दीक्षावसरे विहित नामेति स्तोत्रटीकाकर्ता वक्ति. सिद्धसेनदिवाकरो विक्रमादित्यसमय उज्जयिन्यामागत इत्यादि प्रबन्धचिन्तामणौविक्रमादित्यप्रबन्धे वर्तते. स च श्वेताम्बर आसीदित्यपि तत एव प्रतीयते. दिगम्बरास्तु दिगम्वरमेनं वदन्ति. ख्रिस्ताब्दीयपष्ठशतकोद्भूतः श्रीवराहमिहिराचार्यो बृहज्जातकस्य सप्तमेऽध्याये कचन सिद्धसेननामान गणकं स्मरति. स चायमेव सिद्धसेनदिवाकरः स्यात्. अन्येऽपि द्वित्राः सिद्धसेना जैनेषु प्रसिद्धाः सन्ति. कल्याणमन्दिरस्तोत्र तु दिगम्बराः श्वेताम्बराश्च पठन्ति. किं तु भक्तामरस्तोत्रवदस्य भूयस्यष्टीकाः प्रतिपद्य मन्त्रास्तत्प्रभावकिंवदन्त्यश्च नातीव प्रचरिताः सन्ति. मध्ये प्रक्षिप्तश्लोका अपि न दृश्यन्ते. अस्मद्दृष्टेषु निखिलेष्वपि पुस्तकेषु चतुश्चत्वारिंशत्पद्यान्येव वर्तन्ते. एतन्मुद्रणावसरे चास्माभिरेक कर्तृनामरहितसक्षिप्तटीकासमेतमपर हिन्दीभाषान्तरसहितमिति पुस्तकद्वय भगवान्दासश्रेष्ठितः प्राप्तम्. द्वित्राणि मूलपुस्तकानि चेति.
तीर्थेश्वरस्य कमठस्मयधूमकेतो-
स्तस्याहमेष किल संस्तवनं करिष्ये॥२॥( युग्मम् )
सामान्यतोऽपि तव वर्णयितुं स्वरूप-
मस्मादृशाः कथमधीश भवन्त्यधीशाः।
धृष्टोऽपि कौशिकशिशुर्यदि वा दिवान्धो
रूपं प्ररूपयति किं किल धर्मरश्मेः॥३॥
मोहक्षयादनुभवन्नपि नाथ मर्त्यो
नूनं गुणान्गणयितुं न तव क्षमेत।
कल्पान्तवान्तपयसः प्रकटोऽपि यस्मा -
न्मीयेत केन जलधेर्ननु रत्नराशिः॥४॥
अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि
कर्तुं स्तवं लसदसंख्यगुणाकरस्य।
बालोऽपि किं न निजबाहुयुगं वितत्य
विस्तीर्णतां कथयति स्वधियाम्बुराशेः॥५॥
ये योगिनामपि न यान्ति गुणास्तवेश
वक्तुं कथं भवति तेषु ममावकाशः।
जाता तदेवमसमीक्षितकारितेयं
जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि॥६॥
आस्तामचिन्त्यमहिमा जिन संस्तवस्ते
नामापि पाति भवतो भवतो जगन्ति।
तीव्रातपोपहतपान्थजनान्निदाघे
प्रीणाति पद्मसरसः सरसोऽनिलोऽपि॥७॥
हृद्वर्तिनि त्वयि विभो शिथिलीभवन्ति
जन्तोः क्षणेन निविडा अपि कर्मवन्धाः।
सद्यो भुजंगममया इव मध्यभाग-
मभ्यागते वनशिखण्डिनि चन्दनस्य॥८॥
मुच्यन्त एव मनुजाः सहसा जिनेन्द्र
रौद्रैरुपद्रवशतैस्त्वयि वीक्षितेऽपि।
गोस्वामिनि12 स्फुरिततेजसि दृष्टमात्रे
चौरैरिवाशु पशवः प्रपलायमानैः॥९॥
त्वं तारको जिन कथं भविनां त एव
त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः।
यद्वा दृतिस्त13रति यज्जलमेप नून-
मन्तर्गतस्य मरुतः स किलानुभावः॥१०॥
यस्मिन्हरप्रभृतयोऽपि हतप्रभावाः
सोऽपि त्वया रतिपतिः क्षपितः क्षणेन।
विध्या14पिता हुतभुजः पयसाथ येन
पीतं न किं तदपि दुर्धरवाडवेन॥११॥
स्वामिन्ननल्पगरिमाणमपि प्रपन्ना-
स्त्वां जन्तवः कथमहो हृदये दधानाः।
जन्मोदधिं लघु तरन्त्यतिलाघवेन
चिन्त्यो न हन्त महतां यदि वा प्रभावः॥१२॥
क्रोधस्त्वया यदि विभो प्रथमं निरस्तो
ध्वस्तस्तदा वद कथं किल कर्मचौराः।
प्लोपत्यमुत्र यदि वा शिशिरापि लोके
नीलद्रुमाणि विपिनानि न किं हिमानी॥१३॥
त्वां योगिनो जिन सदा परमात्मरूप-
मन्वेपयन्ति हृदयाम्बुजकोपदेशे।
पूतस्य निर्मलरुचेर्यदि वा किमन्य-
दक्षस्य15 संभवपदं16ननु कर्णिकायाः॥१४॥
ध्यानाज्जिनेश भवतो भविनः क्षणेन
देहं विहाय परमात्मदशां व्रजन्ति।
तीव्रानलादुपलभावमपास्य लोके
चामीकरत्वमचिरादिव धातुभेदाः॥१५॥
अन्तः सदैव जिन यस्य विभाव्यसे त्वं
भव्यैः कथं तदपि नाशयसे शरीरम्।
एतत्स्वरूपमथ मध्यविवर्तिनो हि
यद्विग्रहं प्रशमयन्ति महानुभावाः॥१६॥
आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या
ध्यातो जिनेन्द्र भवतीह भवत्प्रभावः।
पानीयमप्यमृतमित्यनुचिन्त्यमानं
किं नाम नो विपविकारमपाकरोति॥१७॥
त्वामेव वीततमसं परवादिनोऽपि
नूनं विभो हरिहरादिधिया प्रपन्नाः।
किं काचकामलिभि17रीश सितोऽपि शङ्खो
नो गृह्यते विविधवर्णविपर्ययेण॥१८॥
धर्मोपदेशसमये सविधानुभावा-
दास्तां जनो भवति ते तरुरप्यशोकः18।
अभ्युद्गते दिनपतौ समहीरुहोऽपि
किं वा विबोधमुपयाति न जीवलोकः॥१९॥
चित्रं विभो कथमवाङ्मुखवृन्तमेव
विष्वक्पतत्यविरला सुरपुष्पवृष्टिः।
त्वद्गोचरे सुमनसां यदि वा मुनीश
गच्छन्ति नूनमध एव हि बन्धनानि॥२०॥
स्थाने गभीरहृदयोदधिसंभवायाः
पीयूपतां तव गिरः समुदीरयन्ति।
पीत्वा यतः परमसंमदसङ्गभाजो
भव्या व्रजन्ति तरसाप्यजरामरत्वम्॥२१॥
स्वामिन्सुदूरमवनम्य समुत्पतन्तो
मन्ये वदन्ति शुचयः सुरचामरौघाः।
येऽस्मै नतिं विदधते मुनिपुंगवाय
ते नूनमूर्ध्वगतयः खलु शुद्धभावाः॥२२॥
श्यामं गभीरगिरमुज्ज्वलहेमरत्न-
सिंहासनस्थमिह भव्यशिखण्डिनस्त्वाम्।
आलोकयन्ति रभसेन नदन्तमुच्चै-
श्चामीकराद्विशिरसीव नवाम्वुवाहम्॥२३॥
उद्गच्छता तव शितिद्युतिमण्डलेन
लुप्तच्छदच्छविरशोकतरुर्बभूव।
सांनिध्यतोऽपि यदि वा तव वीतराग
नीरागतां व्रजति को न सचेतनोऽपि॥२४॥
भो भोः प्रमादमवधूय भजध्वमेन-
मागत्य निर्वृतिपुरी प्रति सार्थवाहम्।
एतन्निवेदयति देव जगत्रयाय
मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते॥२५॥
उद्दयोतितेषु भवता भुवनेषु नाथ
तारान्वितो विधुरयं विहताधिकारः।
मुक्ताकलापकलितोरुसितातपत्र-
व्याजात्त्रिधा धृततनुर्ध्रुवमभ्युपेतः॥२६॥
स्वेन प्रपूरितजगत्त्रयपिण्डितेन
कान्तिप्रतापयशसामिव संचयेन।
माणिक्यहेमरजतप्रविनिर्मितेन
सालत्रयेण19 भगवन्नभितो विभासि॥२७॥
दिव्यस्रजो जिन नमन्त्रिदशाधिपाना-
मुत्सृज्य रत्नरचितानपि मौलिवन्धान्।
पादौ श्रयन्ति भवतो यदि वापरत्र
त्वत्संगमे सुमनसो न रमन्त एव॥२८॥
त्वं नाथ जन्मजलधेर्विपराङ्मुखोऽपि
यत्तारयस्यसुमतो निजपृष्ठलग्नान्।
युक्तं हि पार्थिवनिपस्य20 सतस्तवैव
चित्रं विभो यदसि कर्मविपाकशून्यः21॥२९॥
विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वं
किं वाक्षरप्रकृतिरप्यलिपिस्त्वमीश।
अज्ञानवत्यपि सदैव कथंचिदेव
ज्ञानं त्वयि स्फुरति विश्वविकासहेतुः॥३०॥.
प्राग्भारसंभृतनभांसि रजांसि रोषा-
दुत्थापितानि कमठेन शठेन यानि।
छायापि तैस्तव न नाथ हता हताशो
ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा॥३१॥
यद्गर्जदूर्जितघनौघमदभ्रभीम-
भ्रश्यत्तडिन्मुसलमांसलघोरधारम्।
दैत्येन मुक्तमथ दुस्तरवारि दध्रे
तेनैव तस्य जिन दुस्तरवारि22कृत्यम्॥३२॥
ध्वस्तोर्ध्वकेशविकृताकृति मर्त्यमुण्ड-
प्रालम्बभृद्भयदवक्त्रविनिर्यदग्निः।
प्रेतव्रजःप्रति भवन्तमपीरितो यः
सोऽस्याभवत्प्रतिभवं भवदुःखहेतुः॥३३॥
धन्यास्त एव भुवनाधिप ये त्रिसंध्य-
माराधयन्ति विधिवद्विधुतान्यकृत्याः।
भक्त्योल्लसत्पुलकपक्ष्मलदेहदेशाः
पादद्वयं तव विभो भुवि जन्मभाजः॥३४॥
अस्मिन्नपारभववारिनिधौ मुनीश
मन्ये न मे श्रवणगोचरतां गतोऽसि।
आकर्णिते तु तव गोत्र23पवित्रमन्त्रे
किं वा विपद्विपधरी सविधं समेति॥३५॥
जन्मान्तरेऽपि तव पादयुगं न देव
मन्ये मया महितमीहितदानदक्षम्।
तेनेह जन्मनि मुनीश पराभवानां
जातो निकेतनमहं मथिताशयानाम्॥३६॥
नूनं न मोहतिमिरावृतलोचनेन
पूर्वंविभो सकृदपि प्रविलोकितोऽसि।
मर्माविधो24विधुरयन्ति हि मामनर्थाः
प्रोद्यत्प्रवन्धगतयः कथमन्यथैते॥३७॥
आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि
नूनं न चेतसि मया विधृतोऽसि भक्त्या।
जातोऽस्मि तेन जनवान्धव दुःखपात्रं
यस्मात्क्रियाः प्रतिफलन्ति न भावशून्याः॥३८॥
त्वं नाथ दुःखिजनवत्सल हे शरण्य
कारुण्यपुण्यवसते वशिनां वरेण्य।
भक्त्या नते मयि महेश दयां विधाय
दुःखाङ्कुरोद्दलनतत्परतां विधेहि॥३९॥
निःसंख्यसारशरणं शरणं शरण्य-
मासाद्य सादितरिपुप्रथितावदानम्।
त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो
वन्ध्योऽस्मि चेद्भुवनपावन हा हतोऽस्मि॥४०॥
देवेन्द्रवन्द्य विदिताखिलवस्तुसार
संसारतारक विभो भुवनाधिनाथ।
त्रायस्व देव करुणाह्वद मां पुनीहि
सीदन्तमद्य भयदव्यसनाम्बुराशेः॥४१॥
यद्यस्ति नाथ भवदङ्घ्रिसरोरुहाणां
भक्तेः फलं किमपि संततसंचितायाः।
तन्मे त्वदेकशरणस्य शरण्य भूयाः
स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि॥४२॥
इत्थं समाहितधियो विधिवज्जिनेन्द्र
सान्द्रोल्लसत्पुलककञ्चुकिताङ्गभागाः।
त्वद्बिम्व25निर्मलमुखाम्बुजवद्धलक्ष्या
ये संस्तवं तव विभो रचयन्ति भव्याः॥४३॥
जननयनकुमुदचन्द्र प्रभाखराः स्वर्गसंपदो भुक्त्वा।
ते विगलितमलनिचया अचिरान्मोक्षं प्रपद्यन्ते॥४४॥(युग्मम्)
इति श्रीसिद्वसेनदिवाकरविरचित पार्श्वनाथस्य कल्याणमन्दिरस्तोत्रम्॥
____________
श्रीवादिराजप्रणीतं
एकीभावस्तोत्रम्
एकीभावं गत इव मया यः स्वयं कर्मबन्धो
घोरं दुःखं भवभवगतो दुर्निवारः करोति।
तस्याप्यस्य त्वयि जिनरवे भक्तिरुन्मुक्तये चे-
ज्जेतुं शक्यो भवति न तया कोऽपरस्तापहेतुः॥१॥
ज्योतीरूपं दुरितनिवहध्वान्तविध्वंसहेतुं
त्वामेवाहुजिनवर चिरं तत्त्वविद्याभियुक्ताः।
चेतोवासे भवसि च मम स्फारमुद्भासमान-
स्तस्मिन्नंहः कथमिव तमो वस्तुतो वस्तुमीष्टे॥२॥
आनन्दाश्रुस्नपितवदनं गद्गदं चाभिजल्प-
न्यश्चायेत26 त्वयि दृढमनाः स्तोत्रमन्त्रैर्भवन्तम्।
तस्याभ्यस्तादपि च सुचिरं देहवल्मीकमध्या-
न्निष्कास्यन्ते विविधविषमव्याधयः काद्रवेयाः ॥३॥
प्रागेवेह त्रिदिवभवनादेप्यता भव्यपुण्या-
त्पृथ्वीचक्रं कनकमयतां देव निन्ये त्वयेदम्।
ध्यानद्वारं मम रुचिकरं स्वान्तगेहं प्रविष्ट -
स्तत्किं चित्रं जिन वपुरिदं27 यत्सुवर्णीकरोषि॥४॥
लोकस्यैकस्त्वमसि भगवन्निर्निमित्तेन वन्धु-
स्त्वय्येवासौ सकलविषया शक्तिरप्रत्यनीका।
भक्तिस्फीतां चिरमधिवसन्मामिकां चित्तशय्यां
मय्युत्पन्नं कथमिव ततः क्लेशयूथं सहेथाः ॥५॥
जन्माटव्यां कथमपि मया देव दीर्घंभ्रमित्वा
प्राप्तैवेयं तव नयकथा स्फारपीयूपवापी।
तस्या मध्ये हिमकरंहिमव्यूहशीते नितान्तं
निर्मग्नं मां न जहति कथं दुःखदावोपतापाः॥६॥
पादन्यासादपि च पुनतो यात्रया ते त्रिलोकीं
हेमाभासो भवति सुरभिः श्रीनिवासश्च पद्मः।
सर्वाङ्गेण स्पृशति भगवंस्त्वय्यशेषं मनो मे
श्रेयः किं तत्स्वयमहरहर्यन्न मामभ्युपैति॥७॥
पश्यन्तं त्वद्वचनममृतं भक्तिपात्र्या पिवन्तं
कर्मारण्यात्पुरुषमसमानन्दधाम प्रविष्टम्।
त्वां दुर्वारस्मरमदहरं त्वत्प्रसादैकभूमिं
क्रूराकाराः कथमिव रुजाकण्टका निर्लुठन्ति॥८॥
पाषाणात्मा तदितरसमः केवलं रत्नमूर्ति-
र्मानस्तम्भो भवति च परस्तादृशो रत्नवर्गः।
दृष्टिप्राप्तो हरति स कथं मानरोगं नराणां
प्रत्यासत्तिर्यदि न भवतस्तस्य तच्छक्तिहेतुः॥९॥
त्द्दद्यः प्राप्तो मरुदपि भवन्मूर्तिशैलोपवाही
सद्यः पुंसां निरवधि रुजाधूलिवन्धं धुनोति।
ध्यानाहूतो हृदयकमलं यस्य तु त्वं प्रविष्ट-
स्तस्याशक्यः क इह भुवने देव लोकोपकारः॥१०॥
जानासि त्वं मम भवभवे यच्च यादृक्च दुःखं
जातं यस्य स्मरणमपि मे शस्त्रवन्निष्पिनष्टि।
त्वं सर्वेशः सकृषइति च त्वामुपेतोऽस्मि भक्त्या
यत्कर्तव्यं तदिह विषये देव एव प्रमाणम्॥११॥
प्रापद्दैवं तव नुतिपदैर्जीवकेनोपदिष्टैः28
पापाचारी मरणसमये सारमेयोऽपि सौख्यम्29।
कः संदेहो यदुपलभते वासवश्रीप्रभुत्वं
जल्पञ्जाप्यैर्मणिभिरमलैस्त्वन्नमस्कारचक्रम्॥१२॥
शुद्धे ज्ञाने शुचिनि चरिते सत्यपि त्वय्यनीचा
भक्तिर्नो चेदवधि सुखावञ्चिका कुञ्चिकेयम्।
शक्योद्धाटं भवति हि कथं मुक्तिकामस्य पुंसो
मुक्तिद्वारं परिदृढमहामोहमुद्राकवाटम्॥१३॥
प्रच्छन्नः खल्वयमघमयैरन्धकारैः समन्ता-
त्पन्था मुक्तेः स्थपुटितपदः क्लेशगर्तैरगाधैः।
तत्कस्तेन व्रजति सुखतो देव तत्त्वावभासी30
यद्यग्रेऽग्रे न भवति भवद्भारतीरत्नदीपः ॥१४॥
आत्मज्योतिर्निधिरनवधिर्द्रष्टुरानन्दहेतुः
कर्मक्षोणीपटलपिहितो योऽनवाप्यः परेषाम्।
हस्ते कुर्वन्त्यनतिचिरतस्तं भवद्भक्तिभाजः
स्तोत्रैर्वन्धप्रकृति31परुषोद्दामधात्रीखनित्रैः॥१५॥
प्रत्युत्पन्नानयहिमगिरे32रायता चामृताव्धे-
र्या देव त्वत्पदकमलयोः संगता भक्तिगङ्गा।
चेतस्तस्यां मम रुचिवशादाप्लुतं क्षालितांहः-
कल्माषंयद्भवति किमियं देव संदेहभूमिः॥१६॥
प्रादुर्भूत स्थिरपदसुख त्वामनुध्यायतो मे
त्वय्येवाहं स इति मतिरुत्पद्यते निर्विकल्पा।
मिथ्यैवेयं तदपि तनुते तृप्तिमभ्रेपरूपां
दोषात्मानोऽप्यभिमतफलास्त्वत्प्रसादाद्भवन्ति॥१७॥
मिथ्यावादं मलमपनुदन्सप्तभङ्गी33तरङ्गै-
र्वागम्भोधिर्भुवनमखिलं देव पर्येति यस्ते।
तस्यावृत्तिं34सपदि विबुधाश्चेतसैवाचलेन
व्यातन्वन्तः सुचिरममृतासेवया तृप्नुवन्ति॥१८॥
आहार्येभ्यः35स्पृहयति परं यः स्वभावादहृद्यः
शस्त्रग्राही भवति सततं वैरिणा यश्च शक्यः।
सर्वाङ्गेषु त्वमसि सुभगस्त्वं न शक्यः परेषां
तत्किंभूषावसनकुसुमैः किं च शस्त्रैरुदस्त्रैः॥१९॥
इन्द्रः सेवां तव सुकुरुतां किं तया श्लाघनं ते
तस्यैवेयं भवलयकरी श्लाघ्यतामातनोति।
त्वं निस्तारी जननजलधेः सिद्धिकान्तापतिस्त्वं
त्वं लोकानां प्रभुरिति तव श्लाघ्यतेस्तोत्रमित्थम्॥२०॥
वृत्तिर्वाचामपरसदृशी न त्वमन्येन तुल्य-
स्तुत्युद्गाराः कथमिव ततस्त्वय्यमी नः क्रमन्ते।
मैवं भूवंस्तदपि भगवन्भक्तिपीयूपपुष्टा-
स्ते भव्यानामभिमतफलाः पारिजाता भवन्ति॥२१॥
कोपावेशो न तव न तव क्वापि देव प्रसादो
व्याप्तं चेतस्तव हि परमोपेक्षयैवानपेक्षम्।
आज्ञावश्यं तदपि भुवनं संनिधिर्वैरहारी
क्वैवभूतं भुवनतिलक प्राभवं36 त्वत्परेषु॥२२॥
देव स्तोतुं त्रिदिवगणिकामण्डलीगीतकीर्ति
तोतूर्ति37 त्वां सकलविषयज्ञानमूर्ति जनो यः।
तस्य क्षेमं न पदमटतो जातु जोहूर्ति38 पन्था-
स्तत्त्वग्रन्थस्मरणविषये नैष मोमूर्ति39 मर्त्यः॥२३॥
चित्ते कुर्वन्निरवधिसुखज्ञान दृग्वीर्यरूपं
देव त्वां यः समयनियमादादरेण स्ववीति।
श्रेयोमार्गंस खलु सुकृती तावता पूरयित्वा
कल्याणानां भवति विषयः पञ्चधा पञ्चितानाम्40॥२४॥
भक्तिप्र
ह्वमहेन्द्रपूजितपद त्वत्कीर्तने न क्षमाः
सूक्ष्मज्ञानदृशोऽपि संयमभृतः के हन्त मन्दा वयम्।
अस्माभिस्तवनच्छलेन तु परस्त्वय्यादरस्तन्यते
स्वात्माधीनसुखैषिणां स खलु नः कल्याणकल्पद्रुमः॥२५॥
वादिराजमनु शाब्दिकलोको वादिराजमनु तार्किकसिंहः।
वादिराजमनु काव्यकृतस्ते वाजिराजमनु भव्यसहायः॥२६॥
इति श्रीवादिराजकृतमेकीभावस्तोत्रम्॥
——————
** श्रीधनंजयप्रणीतं**
विषापहारस्तोत्रम्।
स्वात्मस्थितः सर्वगतः समस्तव्यापारवेदी विनिवृत्तसङ्गः।
प्रवृद्धकालोऽप्यजरो वरेण्यः पायादपायात्पुरुषः पुराणः॥१॥
परैरचिन्त्यं युगभारमेकः स्तोतुं वहन्योगिभिरप्यशक्यः।
स्तुत्योऽद्य मेऽसौ वृषभो न भानोः किमप्रवेशे विशति प्रदीपः॥२॥
तत्याज शक्रः शकनाभिमानं41
नाहं त्यजामि स्तवनानुबन्धम्।
स्वल्पेन वोधेन ततोऽधिकार्थं42
वातायनेनेव निरूपयामि॥३॥
त्वं विश्वदृश्वा सकलैरदृश्योविद्वानशेषंनिखिलैरवेद्यः।
वक्तुं कियान्कीदृश इत्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु॥४॥
व्यापीडितं बालमिवात्मदोपैरुल्लाघतां लोकमवापिषस्त्वम्43।
हिताहितान्वेषणमान्द्यभाजः सर्वस्य जन्तोरसि वालवैद्यः॥५॥
दाता नं हर्ता दिवसं विवस्वानद्यश्व44 इत्यच्युत दर्शिताशः।
सव्याज्यमेवं गमयत्यशक्तः क्षणेन दत्सेऽभिमतं नताय॥६॥
उपैति भक्त्या सुमुखः सुखानि त्वयि स्वभावाद्विमुखश्च दुःखम्।
सदावदातद्युतिरेकरूपस्तयोस्त्वमादर्श इवावभासि॥७॥
अगाधताब्धेः स यतः पयोधिर्मेरोश्च तुङ्गा प्रकृतिः स यत्र45।
द्यावापृथिव्योः पृथुता तथैव व्याप त्वदीया भुवनान्तराणि॥८॥
तवानवस्था46 परमार्थतत्त्वं त्वया न गीतः पुनरागमश्च47।
दृष्टं विहाय त्वमदृष्टमैषीर्विरुद्धवृत्तोऽपि48 समञ्जसस्त्वम्॥९॥
स्मरः सुदग्धो भवतैव तस्मिन्नुद्धूलितात्मा यदिनाम शंभुः।
अशेत वृन्दोपहतोऽपि विष्णुः किं गृह्यते येन भवानजागः॥१०॥
स नीरजाः49 स्यादपरोऽघवान्वा तद्दोषकीर्त्यैव न ते गुणित्वम्।
स्वतोऽम्बुराशेर्महिमा न देव स्तोकापवादेन जलाशयस्य50॥११॥
कर्मस्थितिं जन्तुरनेकभूमिं नयत्यमुं सा च परस्परस्य।
त्वं नेतृभावं हि तयोर्भवाब्धौ51 जिनेन्द्रनौनाविकयोरिवाख्यः॥१२॥
सुखाय दुःखानि गुणाय दोषान्धर्माय पापानि समाचरन्ति।
तैलाय बालाः सिकतासमूहं निपीडयन्ति स्फुटमत्वदीयाः52॥१३॥
विषापहारं मणिमौषधानि मन्त्रं समुद्दिश्य रसायनं च।
भ्राम्यन्त्यहो न त्वमिति स्मरन्ति पर्यायनामानि तवैव तानि॥१४॥
चित्ते न किंचित्कृतवानसि त्वं देवः कृतश्चेतसि येन सर्वम्।
हस्ते कृतं तेन जगद्विचित्रं सुखेन जीवत्यपि चित्तवाह्यः॥१५॥
त्रिकालतत्त्वं त्वमवैस्त्रिलोकीस्वामीति संख्यानियतेरमीषाम्।
वोधाधिपत्यं प्रति नाभविष्यंस्तेऽन्येऽपि चेद्याप्स्यदमूनपीदम्॥१६॥
नाकस्य पत्युः परिकर्म रम्यं नागम्यरूपस्य तवोपकारि।
तस्यैव हेतुः स्वसुखस्य भानोरुद्विभ्रतच्छत्रमिवादरेण॥१७॥
क्वोपेक्षकस्त्वं क्व सुखोपदेशः स चेत्किमिच्छाप्रतिकूलवादः।
क्वासौ क्व वा सर्वजगत्प्रियत्वं तन्नो यथातथ्यमवेविचं ते॥१८॥
तुङ्गात्फलं यत्तदकिंचनाच्च प्राप्यं समृद्धान्नधनेश्वरादेः।
निरम्भसोऽप्युच्चतमादिवाद्रेर्नैकापि निर्याति धुनी पयोधेः॥१९॥
त्रैलोक्यसेवानियमाय दण्डं दध्रेयदिन्द्रो विनयेन तस्य।
तत्प्रातिहार्यंभवतः कुतस्त्यं तत्कर्मयोगाद्यदि वा तवास्तु॥२०॥
श्रिया परं पश्यति साधु निःस्वःश्रीमान्न कश्चित्कृपणं त्वदन्यः।
यथा प्रकाशस्थितमन्धकारस्थायीक्षतेऽसौ न तथा तमःस्थम्॥२१॥
स्ववृद्धिनिःश्वासनिमेषभाजि प्रत्यक्षमात्मानुभवेऽपि मूढः।
किं चाखिलज्ञेयविवर्तिबोधस्वरूपमध्यक्षमवैति लोकः॥२२॥
तस्यात्मजस्तस्य पितेति देव त्वां येऽवगायन्ति53 कुलं प्रकाश्य।
तेऽद्यापि नन्वाश्मनमि54त्यवश्यं पाणौ कृतं हेम पुनस्त्यजन्ति॥२३॥
दत्तस्त्रिलोक्यां पटहोऽभिभूताः सुरासुरास्तस्य महान्स लाभः।
मोहस्य मोहस्त्वयिको विरोद्धुर्मूलस्य नाशो बलवद्विरोधः॥२४॥
मार्गस्त्वयैको ददृशे विमुक्तेश्चतुर्गतीनां55 गहनं परेण।
सर्वंमया दृष्टमिति स्मयेन त्वं मा कदाचिद्भुजमालुलोक॥२५॥
स्वर्भानुरर्कस्य हविर्भुजोऽम्भः कल्पान्तवातोऽम्बुनिधेर्विघातः।
संसारभोगस्य वियोगभावो विपक्षपूर्वाभ्युदयास्त्वदन्ये॥२६॥
अजानतस्त्वां नमतः फलं यत्तज्जानतोऽन्यं न तु देवतेति।
हरिन्मणिं काचधिया दधानस्तं56 तस्य57 बुद्ध्या वहतो न रिक्तः॥२७॥
प्रशस्तवाचश्चतुराः कषायैर्दग्धस्य देवव्यवहारमाहुः।
गतस्य दीपस्य हि नन्दितत्वं दृष्टं कपालस्य च मङ्गलत्वम्॥२८॥
नानार्थमेकार्थमदस्त्वदुक्तं58 हितं वचस्ते निशमय्य वक्तुः।
निर्दोषतां के न विभावयन्ति ज्वरेण मुक्तः सुगमः स्वरेण॥२९॥
न क्वापि वाञ्छा ववृते59 च वाक्ते काले क्वचित्कोऽपि तथा नियोगः।
न पूरयाम्यम्बुधिमित्युदंशुः स्वयं हि शीतद्युतिरभ्युदेति॥३०॥
गुणा गभीराः परमाः60 प्रसन्ना बहुप्रकारा बहवस्तवेति।
दृष्टोऽयमन्तः स्तवने न तेषां गुणो गुणानां किमतः परोऽस्ति॥३१॥
स्तुत्या परं नाभिमतं हि भक्त्या स्मृत्या प्रणत्या च ततो भजामि।
स्मरामि देवं प्रणमामि नित्यं केनाप्युपायेन फलं हि साध्यम्॥३२॥
ततस्त्रिलोकीनगराधिदेवं नित्यं परं ज्योतिरनन्तशक्तिम्।
अपुण्यपापं परपुण्यहेतुं नमाम्यहं वन्द्यमवन्दितारम्॥३३॥
अशब्दमस्पर्शमरूपगन्धं त्वां नीरसं तद्विषयावबोधम्।
सर्वस्य मातारममेयमन्यैर्जिनेन्द्रमस्मार्यमनुस्मरामि॥३४॥
अगाधमन्यैर्मनसाप्यलङ्घ्यं निष्किंचनं प्रार्थितमर्थवद्भिः।
विश्वस्य पारं तमदृष्टपारं पतिं जनानां शरणं व्रजामि॥३५॥
त्रैलोक्यदीक्षागुरवे नमस्ते यो वर्धमानोऽपि
निजोन्नतोऽभूत्।
प्राग्गण्डशैलः पुनरद्रिकल्पः पश्चान्न मेरुः कुलपर्वतोऽभूत्॥३६॥
स्वयंप्रकाशस्य दिवा निशा वा न बाध्यता यस्य न बाधकत्वम्।
न घालवं गौरवमेकरूपं वन्दे विभुं कालकलामतीतम्॥३७॥
इति स्तुतिं देव विधाय दैन्याद्वरं न याचे त्वमुपेक्षकोऽसि।
छायातरुं संश्रयतः स्वतः स्यात्कश्छायया याचितयात्मलाभः॥३८॥
अथास्ति दित्सा यदि वोपरोधस्त्वय्येव सक्तां दिश भक्तिवुद्धिम्।
करिष्यते देव तथा कृपां मे को वात्मपोष्ये सुमुखो न सूरिः॥३९॥
वितरति विहिता यथाकथंचिज्जिन विनताय मनीषितानि भक्तिः।
त्वयि नुतिविषया पुनर्विशेषाद्दिशति सुखानि यशो धनं जयं च॥४०॥
इति श्रीधनजयकृतं विषापहारस्तोत्रम्॥
_________________
श्रीभूपालकविप्रणीता
जिनचतुर्विंशतिका61।
श्रीलीलायतनं महीकुलगृहं कीर्तिप्रमोदास्पदं
वाग्देवीरतिकेतनं जयरमाक्रीडानिधानं महत्।
स स्यात्सर्वमहोत्सवैकभवनं यः प्रार्थितार्थप्रदं
प्रातः पश्यति कल्पपादपदलच्छायं जिनाङ्घ्रिद्वयम्॥१॥
शान्तं वपुः श्रवणहारि वचश्चरित्रं
सर्वोपकारि तव देव ततः श्रुतज्ञाः62।
संसारमारवमहास्थलरुन्दसान्द्र63-
च्छायामहीरुह भवन्तमुपाश्रयन्ते॥२॥
स्वामिन्नद्य विनिर्गतोऽस्मि जननीगर्भान्धकूपोदरा-
दद्योद्घाटितदृष्टिरस्मि फलवज्जन्मास्मि चाद्य स्फुटम्।
त्वामद्राक्षमहं यदक्षयपदानन्दाय लोकत्रयी-
नेत्रेन्दीवरकाननेन्दुममृतस्यन्दिप्रभाचन्द्रिकम्॥३॥
निःशेषत्रिदशेन्द्रशेखरशिखारत्नप्रदीपावली
सान्द्रीभूतमृगेन्द्रविष्टरतटी64माणिक्यदीपावलिः।
क्वेयं श्रीः क्व च निःस्पृहत्वमिदमित्यूहातिगस्त्वादृशः
सर्वज्ञानदृशश्चरित्रमहिमा लोकेश लोकोत्तरः॥४॥
राज्यं शासनकारिनाकपति65 यत्त्यक्तं तृणावज्ञया
हेलानिर्दलितत्रिलोकमहिमा यन्मोहमल्लो जितः।
लोकालोकमपि (?) स्ववोधमुकुरस्यान्तः कृतं यत्त्वया
सैषाश्चर्यपरम्परा जिनवर क्वान्यत्र संभाव्यते॥५॥
दानं ज्ञानधनाय दत्तमसकृत्पात्राय सद्वृत्तये
चीर्णान्युग्रतपांसि तेन सुचिरं पूजाश्च बह्व्यः कृताः।
शीलानां निचयः सहामलगुणैः सर्वः समासादितो
दृष्टस्त्वं जिन येन दृष्टिसुभगः श्रद्धापरेण क्षणम्॥६॥
प्रज्ञापारमितः स एव भगवान्पारं स एव श्रुत-
स्कन्धाब्धेर्गुणरत्नभूषण इति श्लाघ्यःस एव ध्रुवम्।
नीयन्ते जिन येन कर्णहृदयालंकारतां त्वद्गुणाः
संसाराहिविषापहारमणयस्त्रैलोक्यचूडामणे॥७॥
जयति दिविजवृन्दान्दोलितैरिन्दुरोचि-
र्निचयरुचिभिरुच्चैश्चामरैर्वीज्यमानः।
जिनपतिरनुरज्यन्मुक्तिसाम्राज्यलक्ष्मी-
युवतिनवकटाक्षक्षेपलीलां दधानैः॥८॥
देवः श्वेतातपत्रत्रयचमरिरुहाशोकभाश्चक्रभाषा-
पुष्पौघासारसिंहासनसुरपटहैरष्टभिः प्रातिहार्यैः। (?)
साश्वर्यैर्भ्राजमानः सुरमनुजसभाम्भोजिनीभानुमाली
पायान्नः पादपीठीकृतसकलजगत्पालमौलिर्जिनेन्द्रः॥९॥
नृत्यत्स्वर्दन्तिदन्ताम्बुरुहवननटन्नाकनारीनिकायः
सद्यस्त्रैलोक्ययात्रोत्सवकरनिनदातोद्यमाद्यन्निलिम्पः।
हस्ताम्भोजातलीलाविनिहितसुमनोद्दामरम्यामरस्त्री-
काम्यः कल्याणपूजाविधिषु विजयते देव देवागमस्ते॥१०॥
चक्षुष्मानहमेव देव भुवने नेत्रामृतस्यन्दिनं
त्वद्वक्रेन्दुमतिप्रसादसुभगैस्तेजोभिरुद्भासितम्।
येनालोकयता मयानतिचिराच्चक्षुः कृतार्थीकृतं
द्रष्टव्यावधिवीक्षणव्यतिकरव्याजृम्भमाणोत्सवम्॥११॥
कन्तोः66 सकान्तमपि मल्लमवैति कश्चि-
न्मुग्धो मुकुन्दमरविन्दजमिन्दुमौलिम्।
मोघीकृतत्रिदशयोपिदपाङ्गपात-
स्तस्य त्वमेव विजयी जिनराजमल्लः॥१२॥
किसलयितमनल्पं त्वद्विलोकाभिलाषा-
त्कुसुमितमतिसान्द्रं त्वत्समीपप्रयाणात्।
मम फलितममन्दं त्वन्मुखेन्दोरिदानीं
नयनपथमवाप्ताद्देव पुण्यद्रुमेण॥१३॥
त्रिभुवनवनपुष्प्यत्पुष्पको67दण्डदर्प-
प्रसरदवनवाम्भोमुक्तिसूक्तिप्रसूतिः।
स जयति जिनराजव्रातजीमूतसङ्घः68
शतमखशिखिनृत्यारम्भनिर्बन्धवन्धुः॥१४॥
भूपालस्वर्गपालप्रमुखनरसुरश्रेणिनेत्रालिमाला
लीलाचैत्यस्य69 चैत्यालयमखिलजगत्कौमुदीन्दोर्जिनस्य।
उत्तंसीभूतसेवाञ्जलिपुटनलिनीकुङ्मलास्त्रिः परीत्य
श्रीपादच्छाययापस्थित70भवदवथुः संश्रितोऽस्मीव मुक्तिम्॥१५॥
देव त्वदङ्घ्रिनखमण्डलदर्पणेऽस्मि -
न्नर्ष्येनिसर्गरुचिरे चिरदृष्टवक्रः।
श्रीकीर्तिकान्तिधृतिसंगमकारणानि
भव्यो न कानि लभते शुभमङ्गलानि॥१६॥
जयति सुरनरेन्द्रश्रीसुधानिर्झरिण्याः
कुलधरणिधरोऽयं जैनचैत्याभिरामः।
प्रविपुलफलधर्मानोकहाग्रप्रवाल-
प्रसरशिखरशुम्भत्केतनः श्रीनिकेतः॥१७॥
विनमदमरकान्ताकुन्तलाक्रान्तकान्ति-
स्फुरितनखमयूखद्योतिताशान्तरालः।
दिविजमनुजराजव्रातपूज्यक्रमाब्जो
जयति विजितकर्मारातिजालो जिनेन्द्रः॥१८॥
सुप्तोत्थितेन सुमुखेन सुमङ्गलाय
द्रष्टव्यमस्ति यदि मङ्गलमेव वस्तु।
अन्येन किं तदिह नाथ तवैव वक्रं
त्रैलोक्यमङ्गलनिकेतनमीक्षणीयम्॥१९॥
त्वं धर्मोदयतापसाश्रमशुकस्त्वं काव्यबन्धक्रम-
क्रीडानन्दनकोकिलस्त्वमुचितः श्रीमल्लिकाषट्पदः।
त्वं पुन्नागकथारविन्दसरसीहंसस्त्वमुत्तंसकैः
कैर्भूपाल71 न धार्यसे गुणमणिस्रङ्मालिभिर्मौलिभिः॥२०॥
शिवसुखमजरश्रीसंगमं चाभिलष्य
स्वमभि नियमयन्ति क्लेशपाशेन केचित्।
वयमिह तु वचस्ते भूपतेर्भावयन्त-
स्तदुभयमपि शश्वल्लीलया निर्विशामः॥२१॥
देवेन्द्रास्तव मज्जनानि विदधुर्देवाङ्गना मङ्गला-
न्यापेटुःशरदिन्दुनिर्मलयशो गन्धर्वदेवा जगुः।
शेषाश्चापि यथानियोगमखिलाः सेवां सुराश्चक्रिरे
तत्किं देव वयं विदध्म इति नश्चित्तं तु दोलायते॥२२॥
देव त्वज्जननाभिषेकसमये रोमाञ्चसत्कञ्चुकै-
र्देवेन्द्रैर्यदनर्तिनर्तनविधौ लब्धप्रभावैः स्फुटम्।
किंचान्यत्सुरसुन्दरीकुचतटप्रान्तावनद्धोत्तम-
प्रेङ्खद्वल्लकिनादझंकृतमहो तत्केन संवर्ण्यते॥२३॥
देव त्वत्प्रतिविम्वमम्बुजदलस्मेरेक्षणं पश्यतां
यत्रास्माकमहो महोत्सवरसो दृष्टेरियान्वर्तते।
साक्षात्तत्र भवन्तमीक्षितवतां कल्याणकाले72 तदा
देवानामनिमेषलोचनतया वृत्तः स किं वर्ण्यते॥२४॥
दृष्टं धाम रसायनस्य महतां दृष्टं निधीनां पदं
दृष्टं सिद्धरसस्य सद्म सदनं दृष्टं च चिन्तामणेः।
किं दृष्टैरथवानुषङ्गिकफलैरेभिर्मयाद्य ध्रुवं
दृष्टं मुक्तिविवाहमङ्गलगृहं दृष्टे जिनश्रीगृहे॥२५॥
दृष्टस्त्वं जिनराजचन्द्र विकसद्भूपेन्द्रनेत्रोत्पले
स्नातं त्वन्नुतिचन्द्रिकाम्भसि भवद्विद्वच्चकोरोत्सवे।
नीतश्चाद्य निदाघजःक्लमभरः शान्तिं मया गम्यते
देव त्वद्गतचेतसैव भवतो भूयात्पुनर्दर्शनम्॥२६॥
इति श्रीभूपालकविप्रणीता जिनचतुर्विंशतिका॥
समाप्तेयं जिनपञ्चस्तवी॥
** ————**
श्रीदेवनन्दिप्रणीतं
सिद्धिप्रियस्तोत्रम्73
\।
सिद्धिप्रियैः प्रतिदिनं प्रतिभासमानै74 -
र्जन्मप्रबन्धमथनैः प्रतिभासमानैः75।
श्रीनाभिराजतनुभूपदवीक्षणेन76
प्रापे जनैविंतनुभूपदवी77 क्षणेन॥१॥
येन स्मरास्त्रनिकरैरपराजितेन
सिद्धिर्वधूर्ध्रुवमवोधि पराजितेन78।
संवृद्धधर्मसुधिया कविराजमानः (?)
क्षिप्रं करोतु यशसा स विराजमानः॥२॥
श्रुत्वा वचांसि तव संभव79कोमलानि
नो तृप्यति प्रवरसंभव कोऽमलानि।
देवप्रमुक्तसुमनोभवनाशनानि80नानि प्रेरकाणि स्वार्थस्य.”)
स्वार्थस्य संसृतिमनोभवनाशनानि॥३॥
यस्मिन्विभाति कलहंसरवैरशोक-
श्छिन्द्यात्स भिन्नभवमत्सरवैरशोकः।
देवोऽभिनन्दनजिनो गुरु मेऽघजालं
शम्पेव पर्वततटं गुरुमेघजालम्॥४॥
येन स्तुतोऽसि गतकुन्तल तापहार
चक्रासिचापशरकुन्तलतापहार।
भव्य प्रभो सुमतिनाथ वरानतेन81
कामाश्रिता82 सुमतिनाथ वरा न तेन॥५॥
मोहप्रमादमदकोपरतापनाशः (?)
पञ्चेन्द्रियाश्वदमकोऽपरतापनाशः।
पद्मप्रभुर्दिशतु मे कमलां वराणां
मुक्तात्मनां विगतशोकमलाम्बराणाम्॥६॥
ये त्वां नमन्ति विनयेन महीनभोगाः
श्रीमत्सुपार्श्व विनयेनमहीनभोगाः83।
ते भक्तभव्यसुरलोक विमानमाया
ईशा भवन्ति सुरलोकविमानमायाः84॥७॥
आकर्ण्य तावकवचोऽवनिनायकोऽपि
शान्तिं मनः समधियावनिनाय कोपि85।
चन्द्रप्रभ प्रभजति स्म रमा86 विना शं87
दोर्दण्डमण्डितरतिस्मरमाविनाशम्88॥८॥
श्रीपुष्पदन्त जिनजन्मनि काममाशा
यामि प्रिये वितनुतां च निकाममाशाः।
इत्थं रतिं निगदतातनुना सुराणां
स्थानं व्यधायि हृदये तनुना89 सुराणाम्90॥९॥
श्रीशीतलाधिप तवाधिसभं जनानां
भव्यात्मनां प्रसृतसंसृतिभञ्जनानाम्।
प्रीतिं करोति विततां सुरसारमुक्ति91-
र्मुक्तात्मनां जिन यथा सुरसार92 मुक्तिः॥१०॥
पादद्वये मुदितमानसमानतानां
श्रेयन्मुने विगतमान समानतानाम्93।
शोभां करोति तव कांचन भा सुराणां
देवाधिदेव मणिकाञ्चनभासुराणाम्॥११॥
घोरान्धकारनरकक्षतवारणानि
श्रीवासुपूज्यजिन दक्ष तवारणानि94।
मुक्त्यै भवन्ति भवसागरतारणानि
वाक्यानि चित्तभवसागरतारणानि95॥१२॥
भव्यप्रजाकुमुदिनीविधुरञ्जनानां96
हन्ता विभासि दलयन्विधुरं जनानाम्।
इत्थं स्वरूपमखिलं तव ये विदन्ति
राज्यं भजन्ति विमलेश्वर तेऽविदन्ति97॥१३॥
स्वर्गापवर्गसुखपात्र जिनातिमात्रं
यस्त्वां स्मरन्भुवनमित्त्रजिनाति98 मात्रम्99।
श्रीमन्ननन्त वर निर्वृतिकान्त100 कान्तां
भव्यः स याति पदवी व्रतिकान्तकान्ताम्101॥१४॥
जन्माभिषेकमकरोत्सुरराजनामा
यस्याश्रितो गुणगणैः सुरराज नामा102।
धर्मः करोत्वनलसं प्रति बोधनानि
सिद्ध्यै मनः सपदि संप्रति वो धनानि॥१५॥
नास्तानि यानि महसा विधुनामितानि
चेतस्तमांसि तपसा विधुनामि तानि।
इत्याचरन्वरतपो गतकामिनीति103
शान्तिः पदं दिशतु मेऽगतकामिनीति104॥१६॥
कुन्थुः क्षितौ क्षितिपतिर्गतमानसेनः105
पूर्व पुनर्मुनिरभूद्धतमानसेनः।
योऽसौ करोतु मम जन्तुदयानिधीनां
संवर्धनानि विविधर्द्ध्यदयानि धीनाम्॥१७॥
या ते शृणोति नितरामुदितानि दानं
यच्छत्यभीप्सति न वा मुदिता निदानम्106।
सा नो करोति जनता जनकोपितापि
चित्तं जिनार107 गुणभाजन कोपि108तापि॥१८॥
मल्लेर्वचांस्यनिकृतीनि सभावनानि109
धर्मोपदेशनकृतीनि सभावनानि110।
कुर्वन्तु भव्यनिवहस्य नभोगतानां111
मङ्क्षुश्रियं कृतमुदं जनभोगतानाम्॥१९॥
संस्तूयसे शुभवता मुनिना यकेन112
नीतो जिनाशु भवता मुनिनायकेन।
नाथेन नाथ मुनिसुव्रत मुक्तमानां
मुक्ति चरन्स मुनिसुव्रतमुक्तमानाम्113॥२०॥
चित्तेन मेरुगिरिधीर दयालुनासि
सर्वोपकारकृतधीरदया लुनासि।
इत्थं स्तुतो नमिमुनिर्मम तापसानां
लक्ष्मींकरोतु मम निर्ममतापसानाम्114॥२१॥
येनोद्धशृङ्गगिरनार115गिराविनापि116
नेमिः स्तुतोऽपि पशुनापि गिरा विनापि।
कंदर्पदर्पदलनः क्षतमोहतान-
स्तस्य श्रियो दिशतु दक्षतमोऽहता नः॥२२॥
गन्धर्वयक्षरकिंनर दृश्यमानः
प्रीतिं करिष्यति न किं नरदृश्यमानः117।
भानुप्रभाप्रविकसत्कमलोपमायां
पार्श्वः प्रसूतजनताकमलो118ऽपमायाम्॥२३॥
श्रीवर्धमानवचसा119 परमाकरेण120
रत्नत्रयोत्तमनिधेः परमाकरेण121।
कुर्वन्ति यानि मुनयोऽजनता122 हि तानि
वृत्तानि सन्तु सततं जनताहितानि॥२४॥
वृत्तात्समुल्लसितचित्तवचःप्रसूतेः
श्रीदेवनन्दिमुनिचित्तवचः प्रसूतेः।
यः पाठकोऽल्पतरजल्पकृतेस्त्रिसंध्यं
लोकत्रयं समनुरञ्जयति त्रिसंध्यम् (?)॥२५॥
तुष्टिं123 देशनया जनस्य मनसो येन स्थितं दित्सता
सर्वंवस्तु विजानता शमवता येन क्षता कृच्छ्रता।
भव्यानन्दकरेण येन महतां तत्त्वप्रणीतिः कृता
तापं हन्तु जिनः स मे शुभधियां तातः सतामीशिता॥२६॥
इति श्रीदेवनन्दिप्रणीत सिद्धिप्रियस्तोत्रम्।
___________
श्रीसोमप्रभाचार्यविरचिता
(सिन्दूरप्रकरापरपर्याया)
सूक्तिमुक्तावली।
सिन्दूरप्रकरस्तपः करिशिरःक्रोडे कपायाटवी-
दावार्चिर्निचयः प्रबोधदिवसप्रारम्भसूर्योदयः।
मुक्तिस्त्रीकुचकुम्भकुङ्कुमरसः श्रेयस्तरोः पल्लव-
प्रोल्लासः क्रमयोर्न124खद्युतिभरः पार्श्वप्रभोः पातु वः॥१॥
सन्तः सन्तु मम प्रसन्नमनसो वाचां विचारोद्यताः
सूतेऽम्भः कमलानि तत्परिमलं वाता वितन्वन्ति यत्।
कि वाभ्यर्थनयानया यदि गुणोऽस्त्यासां ततस्ते स्वयं
कर्तारः प्रथनं न चेदथ यशःप्रत्यार्थिना तेन125 किम्॥२॥
अथ धर्मप्रक्रमः।
त्रिवर्गसंसाधनमन्तरेण पशोरिवायुविंफलं नरस्य।
तत्रापि धर्मंप्रवरं वदन्ति न तं विना यद्भवतोऽर्थकामौ॥३॥
यः प्राप्य दुष्प्रापमिदं नरत्वं धर्मं न यत्नेन करोति मूढः।
क्लेशप्रबन्धेन स लब्धमव्धौ चिन्तामणिं पातयति प्रमादात्॥४॥
स्वर्णस्थाले क्षिपति स रजः पादशौचंविधत्ते
पीयूषेण प्रवरकरिणं वाहयत्येधभारम्126।
चिन्तारत्नं विकिरति कराद्वायसोड्डायनार्थं
यो दुष्प्रापं गमयति मुधा मर्त्यजन्म प्रमत्तः॥५॥
ते धत्तूरतरुं वपन्ति भवने प्रोन्मूल्य कल्पद्रुमं
चिन्तारत्नमपास्य काचशकलं स्वीकुर्वते ते जडाः।
विक्रीय द्विरदं गिरीन्द्रकरणिं127 क्रीणन्ति ते रासभं
ये लब्धं परिहृत्य धर्ममधमा धावन्ति भोगाशया॥६॥
अपारे संसारे कथमपि समासाद्य नृभवं
न धर्मंयः कुर्याद्विपयसुखतृष्णातरलितः।
ब्रुडन्पा128रावारे प्रवरमपहाय प्रवहणं
स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते॥७॥
भक्तिं तीर्थकरे गुरौ जिनमते संघे129 च हिंसानृत-
स्तेयाब्रह्मपरिग्रहव्युपरमं क्रोधाद्यरीणां जयम्।
सौजन्यं गुणिसङ्गमिन्द्रियदमं दानं तपोभावनां
वैराग्यं च कुरुष्व निर्वृतिपदे यद्यस्ति गन्तुं मनः॥८॥
अथ पूजाप्रक्रमः130
पापं लुम्पति दुर्गतिं दलयति व्यापादयत्यापदं
पुण्यं संचिनुते श्रियं वितनुते पुष्णाति नीरोगताम्॥
सौभाग्यं विदधाति पल्लवयति प्रीतिं प्रसूते यशः
स्वर्गं यच्छति निर्वृतिं च रचयत्यर्चार्हतां निर्मिता॥९॥
स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मीः शुभा
सौभाग्यादिगुणावलिर्विलसति स्वैरं वपुर्वेश्मनि।
संसारः सुतरः शिवं करतलक्रोडे लुठत्यञ्जसा
यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः॥१०॥
कदाचिन्नातङ्कः131 कुपित इव पश्यत्यभिमुखं
विदूरे दारिद्र्यं चकितमिव नश्यत्यनुदिनम्।
विरक्ता कान्तेव त्यजति कुगतिः सङ्गमुदयो
न मुञ्चत्यभ्यर्णंसुहृदिव जिनार्चंरचयतः॥११॥
यः पुष्पैर्जिनमर्चति स्मितसुरस्त्रीलोचनैः सोऽर्च्यते
यस्तं वन्दत एकशस्त्रिजगता सोऽहर्निशं वन्द्यते।
यस्तं स्तौति परत्र वृत्रदमन132स्तोमेन स स्तूयते
यस्तं ध्यायति क्लृप्तकर्मनिधनः स ध्यायते योगिभिः॥१२॥
अथ गुरुप्रक्रमः133।
अवद्यमुक्ते134 पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निस्पृहः।
स135सेवितव्यः स्वहितैषिणा गुरुः स्वयं तरंस्तारयितुं क्षमः परम्॥१३॥
विदलयति कुबोधं बोधयत्यागमार्थं
सुगतिकुगतिमार्गौ पुण्यपापे व्यनक्ति।
अवगमयति कृत्याकृत्यभेदं गुरुर्यो
भवजलनिधिपोतस्तं विना नास्ति कश्चित्॥१४॥
पिता माता भ्राता प्रियसहचरी सुनुनिवह
सुहृत्स्वामी माद्यत्करिभटरथाश्वः परिकर।
निमज्जन्तं जन्तुं नरककुहरे रक्षितुमलं
गुरोर्धर्माधर्मप्रकटनपरात्कोऽपि न परः॥१५॥
किं ध्यानेन भवत्वशेषविषयत्यागैस्तषोभिः कृतं
पूर्णंभावनयालमिन्द्रियजयैः136 पर्याप्तमाप्तागमैः।
किं त्वेकं भवनाशनं कुरु गुरुप्रीत्या गुरोः शासनं
सर्वे येन विना विनाथबलव137त्स्वार्थाय नालं गुणाः॥१६॥
अथ जिनमतप्रक्रमः138।
न देवं नादेवं न शुभगुरुमेनं न कुगुरुं
न धर्मं नाधर्मंन गुणपरिणद्धं न विगुणम्।
न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं
विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः॥१७॥
मानुष्यं विफलं वदन्ति हृदयं व्यर्थंवृथा श्रोत्रयो-
निर्माणं गुणदोषभेदनकलां तेषामसंभाविनीम्।
दुर्वारं नरकान्धकूपपतनं मुक्ति बुधा दुर्लभां
सार्वज्ञः समयो दयारसमयो येषां न कर्णातिथिः॥१८॥
पीयूषं विषवज्जलं ज्वलनवत्तेजस्तमःस्तोमव-
न्मिन्त्रंशात्रववत्स्त्रजं भुजगवच्चिन्तामणि लोष्टवत्।
ज्योत्स्नां ग्रीष्मजघर्मवत्स मनुते कारुण्यपण्यापणं
जैनेन्द्रं मतमन्यदर्शनसमं यो दुर्मतिर्मन्यते॥१९॥
धर्मंजागरयत्यघं विघटयत्युत्थापयत्युत्पथं
भिन्ते मत्सरमुच्छिनत्ति कुनयं मध्नाति मिथ्यामतिम्।
वैराग्यं वितनोति पुष्यति कृपां मुष्णाति तृष्णां च य-
त्तज्जैनं मतमर्चति प्रथयति ध्यायत्यधीते कृती॥२०॥
अथ संघप्रक्रम.139।
रत्नानामिव रोहेण140क्षितिधरः खं तारकाणामिव
स्वर्गः कल्पमहीरुहामिव सरः पङ्केरुहाणामिव।
पाथोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसा-
वित्यालोच्य विरच्यतां भगवतः संघस्य पूजाविधिः॥२१॥
यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते
यं तीर्थंकथयन्ति पावनतया येनास्ति नान्यः समः।
यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं141 जायते
स्फूर्तिर्यस्य परा वसन्ति च गुणा यस्मिन्स संघोऽर्च्यताम्॥२२॥
लक्ष्मीस्तं स्वयमभ्युपैति रभसात्कीर्तिस्तमालिङ्गति
प्रीतिस्तं भजते मतिः प्रयतते तं लब्धुमुत्कण्ठया।
स्वःश्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते
यः संघं गुणसंघकेलिसदनं श्रेयोरुचिः सेवते॥२३॥
यद्भक्तेः फलमर्हदादिपदवीमुख्यं कृषेः सस्यव-
च्चक्रित्वत्रिदशेन्द्रतादि तृणवत्प्रासङ्गिकं गीयते।
शक्तिं यन्महिमस्तुतौ न दधते वाचोऽपि वाचस्पतेः
संघः सोऽघहरः पुनातु चरणन्यासैः सतां मन्दिरम्॥२४॥
अथाहिंसाप्रक्रमः।
क्रीडाभूः सुकृतस्य दुष्कृतरजःसंहारवात्या भवो -
दन्वन्नौर्व्यसनाग्निमेघपटली सकेतदूती श्रियाम्।
निःश्रेणिस्त्रिदिवौकसः142 प्रियसखी मुक्तेः कुगत्यर्गला
सत्त्वेषु क्रियतां कृपैव भवतु क्लेशैरशेषैःपरैः॥२५॥
यदि ग्रावा तोये तरति तरणिर्यद्युदयते
प्रतीच्यां सप्तार्चिर्यदि भजति शैत्यं कथमपि।
यदि क्ष्मापीठं स्यादुपरि सकलस्यापि जगतः
प्रसूते सत्त्वानां तदपि न वधः क्वापि सुकृतम्॥२६॥
स कमलवनमग्नेर्वासरं भास्वदस्ता-
दमृतमुरगवक्त्रात्साधुवादं विवादात्।
रुगपममजीर्णाज्जीवितं कालकूटा-
दभिलषति वधाद्यः प्राणिनां धर्ममिच्छेत्॥२७॥
आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं
वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम्।
आरोग्यं विगतान्तरं त्रिजगति श्लाघ्यत्वमल्पेतरं
संसाराम्बुनिधिं करोति सुतरं चेतः कृपार्द्रान्तरम्॥२८॥
अथासत्यप्रक्रमः।
विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं
मुक्तेःपथ्यदनं143 जलाग्निशमनं व्याघ्रोरगस्तम्भनम्।
श्रेयःसंवननं समृद्धिजननं सौजन्यसंजीवनं
कीर्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम्॥२९॥
यशोयस्माद्भस्मीभवति वनवद्देरिव वनं
निदानां दुःखानां यदवनिरुहाणां जलमिव।
न यत्र स्याच्छायातप144 इव तपःसंयमकथा
कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान्॥३०॥
असत्यमप्रत्ययमूलकारणं कुवासनासद्म समृद्धिवारणम्।
विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम्॥३१॥
तस्याग्निर्जलमर्णवः स्थलमरिर्मिन्त्रंसुराः किंकराः
कान्तारं नगरं गिरिर्गृहमहिर्माल्यं मृगारिर्मृगः।
पातालं विलमस्त्रमुत्पलदलं व्यालः145 सृगालो विषं
पीयूषं विषमं समं च वचनं सत्याञ्चितं वक्ति यः॥३२॥
अथ स्तेयप्रक्रमः।
तमभिलषति सिद्धिस्तं वृणीते समृद्धि-
स्तमभिसरति कीर्तिर्मुञ्चते तं भवार्तिः।
स्पृहयति सुगतिस्तं नेक्षते दुर्गतिस्तं
परिहरति विपत्तं यो न गृह्णात्यदत्तम्॥३३॥
अदत्तं नादत्ते कृतसुकृतकामः किमपि यः
शुभश्रेणिस्तस्मिन्वसति कलहंसीव कमले।
विपत्तस्माद्दूरं व्रजति रजनीवाम्बरमणे-
र्विनीतं विद्येव त्रिदिवशिवलक्ष्मीर्भजति तम्॥३४॥
यन्निर्वर्तितकीर्तिधर्मनिधनं सर्वागसां साधनं
प्रोन्मीलद्बधवन्धनं विरचितक्लिष्टाशयोद्बोधनम्146।
दौर्गत्यैकनिबन्धनं कृतसुगत्या श्लेषसंरोधनं
प्रोत्सर्पत्प्रधनं जिघृक्षति न तद्धीमानदत्तं धनम्॥३५॥
परजनमनः पीडाक्रीडावनं वधभावना-
भवनमवनिव्यापिव्यापल्लताघनमण्डलम्।
कुगतिगमने मार्गः स्वर्गापवर्गपुरार्गलं
नियतमनुपादेयं स्तेयं नृणां हितकाङ्क्षिणाम्॥३६॥
अथ शीलप्रक्रम.।
दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चक-
श्चारित्रस्य जलाञ्जलिर्गुणगणारामस्य दावानलः।
संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः
शीलं147 येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः॥३७॥
व्याघ्रव्यालजलानलादिविपदस्तेषांब्रजन्ति क्षयं
कल्याणानि समुल्लसन्ति विबुधाः सांनिध्यमध्यासते।
कीर्तिः स्फूर्तिमियर्तिं148 यात्युपचयं धर्मः प्रणश्यत्यघं
स्वर्निर्वाणसुखानि संनिदधते ये शीलमाविभ्रते॥३८॥
हरति कुलकलङ्कं लुम्पते पापपङ्कं
सुकृतमुपचिनोति श्लाव्यतामातनोति।
नमयति सुरवर्ग हन्ति दुर्गोपसर्ग
रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम॥३९॥
तोयत्यग्निरपि स्रजत्यहिरपि व्याघोऽपि सारङ्गति
व्यालोऽप्यश्वति पर्वतोऽप्युपलति क्ष्वेडोऽपि पीयूषति।
विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपां-
नाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद्ध्रुवम्॥४०॥
अथपरिग्रहप्रक्रम।
कालुप्यं जनयज्जडस्य149 रचयन्धर्मद्रुमोन्मूलनं
क्लिश्नन्नीतिकृपाक्षमाकमलिनीं लोभाम्बुधिं वर्धयन्।
मर्यादातटमुद्रुजञ्छुभमनोहंसप्रवासं दिश-
न्किंन क्लेशकरः परिग्रहनदीपूरः प्रवृद्धिं गतः॥४१॥
कलहकलभविन्ध्यः कोपगृध्रश्मशानं
व्यसनभुजगरन्ध्रंद्वेषदस्युप्रदोषः।
सुकृतवनदवाग्निर्मार्दवाम्भोदवायु-
र्नयनलिनतुषारोऽत्यर्थमर्थानुरागः॥४२॥
प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मोहस्य विश्रामभूः
पापानां खनिरापदां पदमसद्ध्यानस्यलीलावनम्।
व्याक्षेपस्य निधिर्मदस्य सचिवः शोकस्य हेतुः कलेः
केलीवेश्म परिग्रहः परिहृतेर्योग्यो विविक्तात्मनाम्॥४३॥
वद्दिस्तृप्यति नेन्धनैरिह यथा नाम्भोभिरम्भोनिधि-
स्तद्बल्लोभघनो150 घनैरपि धनैर्जन्तुर्न संतुष्यति।
न त्वेवं मनुते विमुच्य विभवं निःशेषमन्यं भवं
यात्यात्मा तदहं मुधैव विदधाम्येनांसि भूयांसि किम्॥४४॥
अथ क्रोधप्रक्रमः।
यो मिन्त्रंमधुनो विकारकरणे संत्राससंपादने
सर्पस्य प्रतिबिम्बमङ्गदहने151 सप्तार्चिषःसोदरः।
चैतन्यस्य निषूदने विपतरोः सब्रह्मचारी चिरं
स क्रोधः कुशलाभिलाषकुशलैर्निर्मूलमुन्मूल्यताम्॥४५॥
फलति कलितश्रेयःश्रेणीप्रसूनपरम्परः
प्रशमपयसा सिक्तो मुक्तिं तपश्चरणद्रुमः।
यदि पुनरसौ प्रत्यासत्तिं प्रकोपहविर्भुजो
भजति लभते भस्मीभावं तदा विफलोदय॥४६॥
संतापं तनुते भिनत्ति विनयं सौहार्दमुत्सादय-
त्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम्।
कीर्तिं कृन्तति दुर्मतिं वितरति व्याहन्ति पुण्योदयं
दत्ते यः कुगतिं स हातुमुचितो रोषःसदोषः सताम्॥४७॥
यो धर्मंदहति द्रुमं दव इवोन्मथ्नाति नीतिं लतां
दन्तीवेन्दुकलां विधुंतुद इव क्लिश्नाति कीर्ति नृणाम्।
स्वार्थ वायुरिवाम्बुदं विघटयत्युल्लासयत्यापदं
तृष्णां धर्म इवोचितः कृतकृपालोपः स कोपः कथम्॥४८॥
अथ मानप्रक्रम.।
यस्मादाविर्भवति विततिर्दुस्तरापन्नदीनां
यस्मिञ्शिष्टाभिरुचितगुणग्रामनामापि नास्ति।
यश्च व्याप्तं वहति वधधीधूम्यया क्रोधदावं
तं मानाद्रिं परिहर दुरारोहमौचित्यवृत्तेः॥४९॥
शमालानं भञ्जन्विमलमतिनाडीं विघटय-
न्किरन्दुर्वाक्पांशूत्करमगणयन्नागमसृणिम्।
भ्रमन्नुर्व्यंस्वैरं विनयवनवीथीं विदलय-
ञ्जनः कं नानर्थंजनयति मदान्धो द्विप इव॥५०॥
औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव
प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीविनम्।
कीर्तिं कैरविणीं मतङ्गज इव प्रोन्मूल्यत्यञ्जसा
मानो नीच इवोपकारनिकरं हन्ति त्रिवर्गं नृणाम्॥५९॥
मुष्णाति यः कृतसमस्तसमीहितार्थ
संजीवनं विनयजीवितमङ्गभाजाम्।
जात्यादिमानविषजं विषमं विकारं
तं मार्दवामृतरसेन नयस्व शान्तिम्॥५२॥
अथ मायाप्रक्रमः।
कुशलजननवन्ध्यां सत्यसूर्यास्तसंध्यां
कुगतियुवतिमालां मोहमातङ्गशालाम्।
शमकमलहिमानीं दुर्यशोराजधानीं
व्यसनशतसहायां दूरतो मुञ्च मायाम्॥५३॥
विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति।
ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखाः स्वमेव॥५४॥
मायामविश्वासविलासमन्दिरं दुराशयो यः कुरुते धनाशया।
सोऽनर्थसार्थंन पतन्तमीक्षते यथा विडालो लगुडं पयः पिवन्॥५५॥
मुग्धप्रतारणपरायणमुज्जिहीते
यत्पाटवं कपटलम्पटचित्तवृत्तेः।
जीर्यत्युपप्लवमवश्यमिहाप्यकृत्वा
नापथ्यभोजनमिवामयमायतौ तत्॥५६॥
अथ लोभप्रक्रम।
यद्दुर्गामटवीमटन्ति विकटं क्रामन्ति देशान्तरं
गाहन्ते गहनं समुद्रमतनुक्लेशां कृषिं कुर्वते।
सेवन्ते कृपणं पतिं गजघटासंघट्टदुःसंचरं
सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम्॥५७॥
मूलं मोहविषद्रुमस्य सुकृताम्भोराशिकुम्भोद्भवः
क्रोधाग्नेररणिः प्रतापतरणिप्रच्छादने तोयदः।
क्रीडासद्मकलेर्विवेकशशिनः स्वर्भानुरापन्नदी-
सिन्धुः कीर्तिलताकलापकलभो लोभः पराभूयताम्॥५८॥
निःशेषधर्मवनदाहविजृम्भमाणे
दुःखौघभस्मनि विसर्पदकीर्तिधूमे।
वाढं धनेन्धनसमागमदीप्यमाने
लोभानले शलभतां लभते गुणौघः॥५९॥
जातः कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहे
चिन्तारत्नमुपस्थितं करतले प्राप्तो निधिः संनिधिम्।
विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्गश्रियो
ये संतोषमशेषदोषदहनध्वंसाम्बुदं विभ्रते॥६०॥
अथ सुजनप्रक्रमः।
वरं क्षिप्तः पाणिः कुपितफणिनो वक्रकुहरे
वरं झम्पापातो ज्वलदलनकुण्डे विरचितः।
वरं प्रासप्रान्तः सपदि जठरान्तर्विनिहितो
न जन्यं दौर्जन्यं तदपि विपदां सद्म विदुषा॥६१॥
सौजन्यमेव विदधाति यशश्चयं च
स्वश्रेयसं च विभवं च भवक्षयं च।
दौर्जन्यमावहसि यत्कुमते तदर्थं
धान्येऽनलं क्षिपसि तज्जलसेकसाध्ये॥६२॥
वरं विभववन्ध्यता सुजनभावभाजां नृणा-
मसाधुचरितार्जिता न पुनरूर्जिताः संपदः।
कृशत्वमपि शोभते सहजमायतौ सुन्दरं
विपाकविरसा न तु श्वयथुसंभवा स्थूलता॥६३॥
न ब्रूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं
संतोषं वहते परर्द्धिषु पराबाधासु धत्ते शुचम्।
स्वश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लङ्घय-
त्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चरित्रं सताम्॥६४॥
अथ गुणिसङ्गप्रक्रमः।
धर्मंध्वस्तदयो यशश्च्युतनयो वित्तं प्रमत्तः पुमा-
न्काव्यं निष्प्रतिभस्तपः शमदमैः152 शून्योऽल्पमेधः श्रुतं।
वस्त्वालोकमलोचनश्चलमना ध्यानं च वाञ्छत्यसौ
यः सङ्गं गुणिनां विमुच्य विमतिः कल्याणमाकाङ्क्षति॥६५॥
हरति कुमतिं भिन्ते मोहं करोति विवेकितां
वितरति रतिं सूते नीतिं तनोति विनीतताम्।
प्रथयति यशो धत्ते धर्मंव्यपोहति दुर्गति
जनयति नृणां किं नाभीष्टं गुणोत्तमंसंगमः॥६६॥
लब्धुं बुद्धिकलापमापदमपाकर्तुं153विहर्तुं पथि
प्राप्तुं कीर्तिमसाधुतां विधुवितुं धर्मंसमासेवितुम्।
रोद्धुं पापविपाकमाकलयितुं स्वर्गापवर्गश्रियं
चेत्त्वं चित्त समीहते गुणवतां सङ्गंतदङ्गीकुरु॥६७॥
हिमति महिमाम्भोजे चण्डानिलत्युदयाम्बुदे
द्विरदति दयारामे154 क्षेमक्षमाभृति वज्रति।
समिधति कुमत्यग्नौ कन्दत्यनीतिलतासु यः
किमभिलपतां श्रेयः श्रेयान्स155 निर्गुणि संगमः॥६८॥
अथेन्द्रियप्रक्रमः।
आत्मानं कुपथेन निर्गमयितुं यः सुकलाश्वायते156
कृत्याकृत्यविवेकजीवितहतौ यः कृष्णसर्पायते।
यः पुण्यद्रुमखण्डखण्डनविधौ स्फूर्जत्कुठारायते
तं लुप्तव्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुर्भव॥६९॥
प्रतिष्ठां यन्निष्ठां नयति नयनिष्ठां विघटय-
त्यकृत्येष्वाधत्ते मतिमतपसि प्रेम तनुते।
विवेकस्योत्सेकं विदलयति दत्ते च विपदं
पदं तद्दोषाणां करणनिकुरुम्बं157 कुरु वशे॥७०॥
धत्तां मौनमगारमुज्झतु विधिप्रागल्भ्यमभ्यस्यता-
मस्त्वन्तर्वणमा158गमश्रममुपादत्तां तपस्तप्यताम्।
श्रेयःपुञ्जनिकुञ्जभञ्जनमहावातं न चेदिन्द्रिय-
व्रातंजेतुमवैति भस्मनि हुतं जानीत सर्वंततः॥७१॥
धर्मध्वंसधुरीणमभ्रमरसावा159रीणमापत्प्रथा-
लंकर्मीणमशर्मनिर्मितिकलापारीणमेकान्तत।
सर्वान्नीनम160नात्मनीनमनयात्य161न्तीनमिष्टे162यथा-
कामीनं कुपथा163ध्वनीनमजयन्नक्षौघमक्षेमभाक्॥७२॥
अथ लक्ष्मीस्वभावप्रक्रम।
निम्नं गच्छति निम्नगेव नितरां निद्रेव विष्कम्भते164
चैतन्यं मदिरेव पुष्यति मदं धूम्येव धत्तेऽन्धताम्।
चापल्यं चपलेव चुम्बति दवज्वालेव तृष्णां नय-
त्युल्लासं कुलटाङ्गनेव कमला स्वैरं परिभ्राम्यति॥७३॥
दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमीभुजो
गृह्णन्ति च्छलमाकलय्य हुतभुग्भस्मीकरोति क्षणात्।
अम्भः प्लावयते क्षितौ विनिहितं यक्षा हरन्ते हठा-
हुर्वृत्तास्तनया नयन्ति निधनं धिग्वद्दधीनं धनम्॥७४॥
नीचस्यापि चिरं चटूनि रचयन्त्यायान्ति नीचैर्नति
शत्रोरप्यगुणात्मनोऽपि विदधत्युच्चैर्गुणोत्कीर्तनम्।
निर्वेदं न विदन्ति किंचिदकृतज्ञस्यापि सेवाक्रमे
कष्टं किं न मनस्विनोऽपि मनुजाः कुर्वन्ति वित्तार्थिन॥७५॥
लक्ष्मीः सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनी-
संसर्गादिव कण्टकाकुलपदा न क्वापि धत्ते पदम्165।
चैतन्यं विपसंनिधेरिव नृणामुज्जासयत्यञ्जसा
धर्मस्थाननियोजनेन गुणिभिर्ग्राह्यं तदस्याः फलम्॥७६॥
अथ दानप्रक्रमः।
चारित्रं चिनुते तनोति166 विनयं ज्ञानं नयत्युन्नतिं
पुष्णाति प्रशमं तपः प्रबलयत्युल्लासयत्यागमम्।
पुण्यं कन्दलयत्यघंदलयति स्वर्गंददाति क्रमा-
-न्निर्वाणश्रियमातनोति निहितं पात्रे पवित्रं167 धनम्॥७७॥
दारिद्र्यं न तमीक्षते न भजते दौर्गत्यमालम्बते
नाकीर्तिर्न पराभवोऽभिलषते न व्याधिरास्कन्दति।
दैन्यं नाद्रियते दुनोति न दरः क्लिश्नन्ति नैवापदः
पात्रे यो वितरत्यनर्थदलनं दानं निदानं श्रियाम्॥७८॥
लक्ष्मीः कामयते मतिर्मृगयते कीर्तिस्तमालोकते
प्रीतिश्चुम्बति सेवते सुभगता नोरोगतालिङ्गति।
श्रेयःसंहतिरभ्युपैति वृणुते स्वर्गोपभोगस्थिति-
मुक्तिर्वाञ्छति यः प्रयच्छति पुमान्पुण्यार्थमर्थंनिजम्॥७९॥
तस्यासन्ना रतिरनुचरी कीर्तिरुत्कण्ठिता श्रीः
स्निग्धा बुद्धिः परिचयपरा चक्रवर्तित्वऋद्धिः।
पाणौ प्राप्ता त्रिदिवकमला कामुकी मुक्तिसंप-
सप्तक्षेत्र्यां (?) वपति विपुलं वित्तवीजं निजं यः॥८०॥
अथ तपःप्रक्रमः।
यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानल-
ज्वालाजालजलं यदुग्रकरणग्रामाहिमन्त्राक्षरम्।
यत्प्रत्यूहतमःसमूहदिवसं यल्लब्धिलक्ष्मीलता-
मूलं तद्विविधं यथाविधि तपः कुर्वीत वीतस्पृहः॥८१॥
यस्माद्विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते
कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति।
उन्मीलन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां
स्वाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन्न किम्॥८२॥
कान्तारं न यथेतरो ज्वलयितुं दक्षो दवाग्निं विना
दावाग्निं न यथापरः शमयितुं शक्तो विनाम्भोधरम्।
निष्णातः पवनं विना निरसितुं नान्यो यथाम्भोधरं
कर्णौघं तपसा विना किमपरो168 हन्तुं समर्थस्तथा॥८३॥
संतोषस्थूलमूलः प्रशमपरिकरस्कन्धबन्धप्रपञ्चः
पञ्चाक्षी169रोधशाखः स्फुरदभयदलः शीलसंपत्प्रवालः।
श्रद्धाम्भःपूरसेकाद्विपुलकुलबलैश्वर्यसौन्दर्यभोगः170
स्वर्गादिप्राप्तिपुष्पः शिवपदफलदः स्यात्तपः171कल्पवृक्षः॥८४॥
अथ भावनाप्रक्रमः।
नीरागे तरुणीकटाक्षितमिव त्यागव्यपेतप्रभोः
सेवाकष्टमिवोपरोपणमिवाम्भोजन्मनामश्मनि।
विष्वग्वर्षमिवोषरक्षितितले दानार्हदर्चातपः-
स्वाध्यायाध्ययनादि निष्फलमनुष्ठानं विना भावनाम्॥८५॥
सर्वंज्ञीप्सति पुण्यमीप्सति दयां धित्सत्यघंभित्सति172
क्रोधं दित्सति173 दानशीलतपसां साफल्यमादित्सति।
कल्याणोपचयं चिकीर्षति भवाम्भोधेस्तटं लिप्सते
मुक्तिस्त्रींपरिरिप्सते यदि जनस्तद्भावयेद्भावनाम्॥८६॥
विवेकवनसारिणीं प्रशमशर्मसंजीवनीं
भवार्णवमहातरीं मदनदावमेघावलीम्।
चलाक्षमृगवागुरां गुरुकषायशैलाशनिं
विमुक्तिपथवेसरीं174 भजत भावनां किं परैः॥८७॥
घनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं
क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत्।
तपस्तीव्रं तप्तं चरणमपि175 चीर्णंचिरतरं
न चेच्चित्ते भावस्तुषवपनवत्सर्वमफलम्॥८८॥
अथ वैराग्यप्रक्रमः।
यदशुभरजःपाथो दृप्तेन्द्रियद्विरदाङ्कुशं
कुशलकुसुमोद्यानं माद्यन्मनःकरिशृङ्खला।
विरतिरमणीलीलावेश्म स्मरज्वरभेषजं
शिवपथरथस्तद्वैराग्यं विमृश्य भवाभयः॥८९॥
चण्डानिलः स्फुरितमब्दचयं दवार्चि-
र्वृक्षब्रजंतिमिरमण्डलमर्कविम्बम्।
वज्रं महीध्रनिवहं नयते यथान्तं
वैराग्यमेकमपि कर्म तथा समग्रम्॥९०॥
नमस्या देवानां चरणवरिवस्या शुभगुरो-
स्तपस्या निःसीमक्लमपदमुपास्या गुणवताम्।
निपद्यारण्ये स्यात्करणदमविद्या च शिवदा
विरागः क्रूरागःक्षपणनिपुणोऽन्तः स्फुरति चेत्॥९१॥
भोगान्कृष्णभुजंगभोगविषमान्राज्यं रजःसंनिभं
वन्धून्वन्धनिबन्धनानि विपथग्रामं विपान्नोपमम्।
भूतिं भूतिसहोदरां तृणतुलं स्त्रैणं विदित्वा त्यजं-
स्तेष्वासक्तिमनाविलो विलभते मुक्तिं विरक्तः पुमान्॥९२॥
________________
जिनेन्द्रपूजा गुरुपर्युपास्तिः सत्त्वानुकम्पा शुभपात्रदानम्।
गुणानुरागः श्रुतिरागमस्य नृजन्मवृक्षस्य फलान्यमूनि॥९३॥
त्रिसंध्यं देवार्चंविरचय चयं प्रापय यशः
श्रियः पात्रे वापं जनय नयमार्गंनय मनः।
स्मरक्रोधाद्यारीन्दलय कलय प्राणिषु दयां
जिनोक्तं सिद्धान्तं शृणु वृणु जवान्मुक्तिकमलाम्॥९४॥
कृत्वार्हत्पदपूजनं यतिजनं नत्वा विदित्वागमं
हित्वा सङ्गमधर्मकर्मठधियां पात्रेषु दत्त्वा धनम्।
गत्वा पद्धतिमुत्तमक्रमजुषां जित्वान्तरारिब्रजं
स्मृत्वा पञ्चनमस्क्रियां176 कुरु करक्रोडस्थमिष्टं सुखम्॥९५॥
प्रसरति यथा कीर्तिर्दिक्षु क्षपाकरसोदरा-
भ्युदयजननी याति स्फीतिं यथा गुणसंततिः।
कलयति यथा वृद्धिं धर्मः कुकर्महतिक्षमः
सुलभकुशले177 न्याय्ये कार्यंतथा पथि वर्तनम्॥९६॥
भवारण्यं मुक्त्वा यदि जिगमिपुर्मुक्तिनगरीं
तदानीं मा कार्षीर्विषयविषवृक्षेषु वसतिम्।
यतश्छायाप्येषां प्रथयति महामोहमचिरा-
दयं178 जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति॥९७॥
सोमप्रभाचार्यमभा च लोके वस्तु प्रकाशं कुरुते यथाशु।
तथायमुच्चैरुपदेशलेशः शुभोत्सवज्ञानगुणांस्तनोति॥९८॥
अभजदजितदेवाचार्यपट्टोदयाद्रि-179
द्युमणिविजयसिंहाचार्यपादारविन्दे।
मधुकरसमतां यस्तेन सोमप्रभेण
व्यरचि मुनिपनेत्रा180 सूक्तिमुक्तावलीयम्॥९९॥
इति श्रीसोमप्रभाचार्यविरचिता सिन्दूरप्रकरापरपर्याया सूक्तिमुक्तावली।
________________
श्रीजम्बूगुरुविरचितं
जिनशतकम्।
श्रीमद्भिः स्वैर्महोभिर्भुवनमविभुवत्तापयत्येष181 शश्व-
त्सत्स्वप्यस्मादृशेषु प्रभुषुकिमिति सन्मन्युनेवो182परक्ताः।
सूर्यंवीर्यादहार्यादभिभवितुमि183वाभीशवो यस्य दीप्राः
प्रोत्सर्पन्त्यङ्घ्रियुग्मप्रभवनखभुवः स श्रिये स्ताज्जिनो वः॥१॥
संसारापारनीरेश्वरगुरुनिरयाशर्मपङ्कौघमग्ना-184
नुद्धर्तुं सत्त्वसार्थानिव नखजमृजाजीर्णरज्जू185र्यदीयाः।
पादाः प्रासीसरन्तः186 प्रकटितकरुणाः प्रार्थितार्थान्समर्था
भर्तुं तीर्थाधिपोऽसौ पृथुदवथुपथप्रस्थितिं वो रुणद्धु॥२॥
प्रोद्यद्दीप्रप्रभाढ्यक्रमनखमुकुरक्रोडसंक्रान्तविम्वं
वक्त्रंवृत्तस्य शत्रुः स्वकमधिकरुचिं विभ्रदभ्रान्तचेताः।
पश्यञ्शीतांशुकान्तं प्रणतिकरणतो न व्यरंसीप्रमोदा-
द्यस्यासौ श्रीजिनेन्द्रो द्रुतमतनुतमस्तानवं वस्तनोतु॥३॥
मार्तण्डश्चण्डभावं दधदहनि हिनस्त्यस्तदोषोऽपि पादै-
र्वध्नात्यह्नाय187रात्रौ पुनरलिपटलैरारटन्तीं रटद्भिः।
माम्भोजन्मधाम्नि188 स्थिततनुलतिकामेवमालोच्य लक्ष्मी-
रुद्विग्नेवापविघ्नं189क्रमकजमगमद्यस्य190 सोऽव्याज्जिनो वः॥४॥
…………………………………………………………………………………………………………………..
१. शतकस्यास्यैकं सटीकं मनोहरमपर्युपितं नातिशुद्धं चाष्टादशपत्रात्मकं पुस्तकं श्रीशान्तिविजयमुनिभिरस्मभ्यं दत्तम्. तत्र नागेन्द्रकुलोद्भूतसाम्यमुनिप्रणीता समीचीना टीका वर्तते. स च साम्वष्टीकासमाप्तौ ‘शरदा सपञ्चविंशे शतदशके (१०२५) स्वातिभे च रविवारे \। विवरणमिदं समाप्तं वैशाखसितत्रयोदश्याम्॥’ इत्थमात्मनो ग्रन्थनिर्माणसमयं वदति. द्वितीयं तु मूलमात्रं शुद्धं पत्रचतुष्टयात्मकं प्राचीनं पुस्तकं जोधपुरनगरपाठशालाध्यापकपण्डितरामकर्णशर्मभिः प्रहितम्. टीकामुद्रणं तु पुस्तकान्तराभावाद्दुष्करमिति मत्वा ततः सक्षिप्तमुपयोगिटिप्पणमात्रमेवात्रोद्धृतम् .
निर्विघ्नान्विघ्ननिघ्नानतिघनघृणया श्लाघ्यघोषानघोषा-
न्घोराघौघैरनुद्धापघनसुघटिता191ञ्शीघ्रमुद्धाङ्घ्रिपाणीन्192।
अर्घोप193घ्नाननर्घान्घ194टयति लघिमालिङ्गितान्वोऽलघिष्ठा-
ञ्श्लाघ्यं यस्याङ्घ्रियुग्मं विघटयतु घनं सोऽघसंघातमर्हन्॥५॥
रक्तस्त्यक्तस्मरोऽपि प्रतिभयभयकृन्निर्भयत्वप्रदोऽपि195
प्रायश्चित्तग्रहीता सततनिरतिचारोऽपि यत्पादपद्मः।
वैकुण्ठाभ्यर्चितोऽपि प्रकटमपचितः196 पण्डितैः खण्डितांहा-
स्तन्यादन्याय्यवृत्तिव्यपगमगुरुतां वः स निर्ग्रन्थनाथः197॥६॥
स्वान्तारण्यं शरण्याश्रयणमिति यदध्यास्त विध्वस्तशङ्क-
स्तद्धर्मध्यानधूमध्वजजवजनितात्यन्तसंतापतप्तम्।
संत्यज्यासह्यदाहादिव चरणसरोऽशिश्रियत्सत्सरोजं198
यस्यातिप्रौढरागद्विरद उरुरजः सोऽस्यतात्तीर्थपो वः॥७॥
जङ्घोद्यत्स्कन्धवुध्नोद्गतलसदरुणाभाङ्गुलीपल्लवाढ्या-
न्प्रेङ्खन्तीभिर्नखार्चिर्निचयरुचिरसन्मञ्जरीभिर्युतान्वः।
प्रेक्ष्य प्राप्तेप्सितार्थैर्भुवि बलवदवाक्कल्पवृक्षाः199 किमेवं
विद्वद्भिः शङ्कयतेऽङ्घ्रीन200तुलफलयुजो यस्य सोऽर्हन्मुदेऽस्तु॥८॥
क्षोणीं क्षान्त्या क्षिपन्तः क्षणिकरतिकरस्त्रीकटाक्षाक्षताक्षा
मोक्षक्षेत्राभिकाङ्क्षाः क्षपितशुभशताक्षेमविक्षेपदक्षाः।
अक्षोभाः क्षीणरूक्षाक्षरपटुवचना भिक्षवो201 मङ्क्ष्वलक्ष्मीं
साक्षाद्वीक्ष्य क्षिपन्ति क्षपयतु स जिनः क्षय्यपक्षं यदङ्घ्री॥९॥
तन्वाना वैनतेयश्रिय202वैनतेयो गरुडः”)महितवृषोत्क203 वृषोऽरिष्टासुरः “)र्पमोपिप्रतापाः
कामं कौमोदकीनाशरणशरणदा204 कौमीदकी गदा तस्या इना. प्रभवोऽशरणशरणदाश्च.”) नीरजोदाररागाः205 नीरजः शङ्खः.")।
सद्यः प्रद्युम्नयुक्ताः206प्रद्युम्नो वासुदेवपुत्रः”) सदसिकृतमुदो207 संश्चासावसिः खड्गो नन्दकस्तेन कृता मुद्येषाम्”) यत्क्रमाश्चक्रिणो208 वा
भ्राजन्ते भ्राजिताशाः209 सुखमखिलमसौ श्रीजिनो वो विधेयात्॥१०॥
यत्पादौ पादपौ वा शुचिरुचिनिचिताम्भोजपुञ्जालवालौ
स्वःसन्मूर्धाधिरूढोद्भटमुकुटकुटैर्नि210र्यदंशूदभारैः।
संसिक्तौ शोणरत्नप्रतिमनखरुचः सत्प्रवालावलीव-
द्धत्तः शुद्धिं विधेयादधिकमधिपतिः श्रीजिनानामसौ वः॥११॥
द्यां द्युत्योद्द्योत्य मुद्यद्द्यु211सदधिपमता विद्युदुद्द्योतजेत्र्या-
विद्यानद्याद्यसद्योनय212 उपदधते सद्यमोद्यानमोदम्213 स एवोद्यानं तस्य मोदं पुष्टिलक्षणम्.")।
दुर्भेद्यावद्यमुद्यद्द्युमणिमिव समाच्छाद्य वन्द्याभिवन्द्याः
सद्यो यत्पादकंदा214द्यतुस जिनपतिर्वोऽतिनिन्द्यामविद्याम्॥१२॥
निर्वाणापूर्वदेशप्रगमकृतधियां शुद्धबुद्ध्यध्वगानां
मार्गाचिख्यासयैषात्रिभुवनविभुना प्रेषिता किं नु लोकैः।
आलोक्यारेकितैवं215 चरणनखभवा वो विभाविर्भवन्ती216
यस्य श्रेयांसि स श्रीजिनपतिरपतिः पाप्मभाजां विदध्यात्॥१३॥
शोभामम्भोरुहाणामपहरति करोत्युद्धवं कौशिकस्या217-
नुष्णैः पुष्णाति पादैः कुमुदमसुमतां218 नोपतापाय दृष्टेः।
प्राज्याजेयप्रतापं सततमिनतया219 युक्तमप्यन्यरूपं
युग्मं यत्पादयोः स्तात्स भवदविभवाभावकृत्तीर्थनाथः॥१४॥
दूरे220 दूरेपसो वो वसतिमसुभृतां साधयन्तौ धयन्तौ221
वारी वारीतिमङ्घ्रीनतससुरमहादेवराजौ वराजौ222।
यस्यायस्याप्तिहेतू223जयमुपनयतो मोहिताना हितानां
दध्यादध्यामतेजाः224 स भुवि जिनवरोऽनन्तमोदं तमोदम्॥१५॥
कृत्वाधः पादयोर्मंनिरतिशयशमश्रीसमालिङ्गिताङ्गः
स्वस्थस्तिष्ठत्यनिष्ठः कथमयमधुनेतीव संचिन्त्य सृष्टा225।
ऊर्ध्व वाणाशनिर्वा226 मृदुहृदयभिदे भाति रागेण227 गाढं
यस्य प्रेङ्खन्नखालीद्युतिरतनुरतिं रातु स श्रीजिनो वः॥१६॥
चार्वाचारोक्तिचुञ्चुप्रवचनचतुराचार्यचक्रस्य चञ्च-
न्नो च्येताचण्डरोचीरुचिरुचिररुचिर्यस्य228 वाचां प्रपञ्चैः।
उच्चैश्चञ्चूर्यमाणश्चरणगुणचयश्चारुचित्तार्चितार्च229-
श्वेतःशौचं चिनोतूचितमचलमसौ चारुचेष्टो जिनो वः॥१७॥
पद्भ्यां भूभृद्गुरुभ्यां भ्रमति भृशमभीर्भंशयन्हेलयायं
कोऽस्मन्मूर्धोद्धृतां गामिति फणिसमितेः सक्रुधः क्रोधवह्णेः।
ज्वाला निर्यान्त्यधस्तात्किमिति230 सुजनता शङ्कते लोकयन्ती
भव्यानव्याद्भयेभ्यो निखिलनखरुचो यस्य योगीश्वरोऽसौ॥१८॥
प्रख्यातादच्युतश्रीवरवसतितया शेषकान्त्योषगूढा231 -
त्सेन्मीना232त्क्षीरैनीरे233श्वरत इव यदङ्घ्रयोर्युगान्निर्गता भा।
वेलेव प्लावयन्ती नखमणिकिरणोन्मिश्रिता श्रीमदब्ज234-
श्रेणीं विश्वंभरावद्भवदनभिमतं तीर्थपोऽसौ भिनन्तु॥१९॥
मा पप्तत्तप्त्यभावा235त्कलिकलिलभराक्रान्तमत्यन्तमेत-
र्त्यातालापारपङ्के236 त्रिभुवनभवनं द्रागितीवावधार्य।
त्वष्टा237वष्टम्भनार्थंप्रचुरभरसहौ निर्मिमाते यदङ्घ्री
वज्रस्तम्भाविवासौ निखिलसुखखनीर्वो विधत्तां यतीन्द्रः॥२०॥
दुर्गे स्वर्गापवर्गाध्वनि सदरितया238 स्यन्दनः सस्यदाग239-
स्तिग्मांशूत्तप्तजन्तून्प्रति वरविटपी छायया संयुतत्वात्।
सद्भूत्याहूतिमन्त्रः सति धननिधने व्यक्तवर्णत्वतो वः
सिद्ध्यध्वन्यध्वनीनानवतु स मुनिपः पादपद्मो यदीयः॥२१॥
यत्पादैः पारिजातक्षितिरुहमहिमा हानिमानीयतेऽहि-240
भ्रातृव्यायाप्ययोपाः240 प्रमदभरनमन्मस्तकस्रस्तदाम्नः।
द्राग्भूयो भूपयद्भिः शुचिरुचिनखरुङ्मञ्जरीकर्णपूरैः
पापाकूपारवारिप्रतरणपटुतां तीर्थकृद्वः स दध्यात्॥२२॥
सर्वोर्वीभृत्प्रबर्हप्रणतिपरशिरःश्रेणिचूडामणिद्यु-241
त्संदोहा241लीढमूढम्रदिम नखमयूखोल्लसत्केसरालि।
वलवङ्गुल्यग्रपत्रं सकमलममलं पादयुग्मं यदीयं
भात्यादित्योस्रमिश्रं नलिनमिव स वोऽवद्यमर्हन्हिनस्तु॥२३॥
प्राज्यप्रौढप्रमादप्रतिभटनिधनप्राप्तदीप्रप्रतापा-
न्प्रोञ्चैःप्रीतिं प्रयान्ति प्रतिकलममलान्प्राणिनः प्रेक्षमाणाः।
प्रत्ताप्रान्तप्रसादान्प्रणमदसुमतां यत्क्रमान्सत्प्रणम्या-
न्प्राणिप्राणप्रियाणि प्रवितरतु जिनः स प्रशान्तप्रयासम्॥२४॥
उज्जृम्भाम्भोजगर्भश्रितमिति परमेष्ठीयते निष्ठितार्थ242
त्रैलोक्यत्रासहन्त्र्या नरकरिपुतयानन्तमूर्तीयते वः।
सद्भूतिभ्राजितत्वाद्वृषभगतितया चाद्रिजेशायते य-
त्पादाम्भोजं स सद्यो भवतु भवभयाभोगभित्केवलीशः243॥२५॥
इति श्रीजम्बूकविविरचिते जिनशतके जिनपादवर्णन नाम प्रथम परिच्छेद।
_______________
कोषाढ्येऽपि द्रढिम्ना विरहितमहिमन्युत्कटे कण्टकैर्मे
सक्ते व्यक्तं जडौघैःसुचिरमनुचितं सद्रजस्यत्र वस्तुम्।
पद्मं पद्मा स्वसद्मेत्युदितविपदिव प्रोज्झ्य यत्रानुलिल्ये
छेका244 दानच्छलेन245 त्रिजगदधिपतेर्वः पुनीतात्स हस्तः॥१॥
प्रध्वस्ताशर्मधर्मप्रणयनविधये व्यापृतः प्राणिपूगा-
न्कालव्यालावलुप्तौ प्रतिसमवसृतौ भ्रान्तिमन्तस्तनोति।
यः संहर्तुं विषार्तिंकिमयमिह चलत्येवमाखण्डलस्य
ख्यातं सौख्यं स दत्तां जिनवृषभनरेन्द्रस्य246 पाणिर्द्रुतं वः॥२॥
भाभिर्योऽम्भोजशोभामभिभवति भृशं विभ्रदुद्भूतभव्यं
भूषाभावं सभाया भवभवभयभिद्भूरिभीभारभाजाम्।
भर्तुर्भद्रस्य पाणिस्त्रिभुवनभवनोद्भासनोद्भूतभूते-
र्भूयाद्भूत्यै स भूते247र्ऋभुविभुविभवाधीशभूभर्तृभाजः248॥३॥
कल्पान्तेऽनल्पभासः प्रलयमसुमतां249 यूर्यमुच्चैर्विघातं
कृत्वायुर्गोत्रनाम्नामपि कुरुत किल द्वादशैकत्वमेत्य।
नित्यं पञ्चापि कुर्मो वयमिति हसितार्का इवोद्भान्ति भासा
प्रज्ञप्तौ250 यन्नखाः स्तात्स शिवशतकरोऽर्हत्करः प्रोल्लसन्वः॥४॥
गीर्वाणैर्निर्मितोर्वीरुह251वहलदलश्यामलाभीशुजालै-
र्जीमूतैः प्रावृपेण्यैरिव नभसि सदस्यातते यः समन्तात्।
विद्युत्पुञ्जायमानः स्फुरदरुणरुचा दृश्यते त्रैदशैर्व252-
स्त्राणाय स्तात्स हस्तस्तनुरहितजितः253 साधु बोधोद्यतोऽद्य॥५॥
चञ्चच्चक्रोऽप्यकृष्णो विवरयुततलोऽप्यस्तरन्ध्रानुपङ्गः254
सत्कार्यो255ऽप्यस्तकृत्यो विलसितकमलोऽप्यङ्ग256 दोषाकरो नो।
यः सार्वज्ञः सुपर्वा शय257 इति महिमापीक्ष्यते नो विरोधी
वध्यात्स ध्यानवृद्धेनिधनकरमरं वस्तु वः स्तूयमानः॥६॥
द्वारं व्यस्तार्गलं वः परमपदपुरो दर्शयाम्येत यूयं
श्रोतृृञ्जन्तूनिवैवं गदितुमतिगुरुभ्राम्यतीतस्ततो यः।
पर्पद्युत्कर्पवत्यां प्रवचनकरणानेहसि श्रीजिनस्य
स्ताद्धस्तो वः प्रशस्तः प्रणिपतनकृतावादृतानां स वृद्ध्यै॥७॥
वज्रिन्वज्रं समस्ति प्रकटतरमिदं मेऽपि मा गर्वितो भू-
र्यक्ष258 क्षिप्रं जहीहिं त्वमपि निधिमदं शङ्खपद्मौ यतः स्तः।
अम्लानौ मय्यपीमाविति परिहसतीवोच्छलद्भिर्मयूखै-
र्व्याख्यायां यन्नखेभ्योऽखिलसुखकृदसावस्तु वो जैनहस्तः॥८॥
जेताजावूर्जितौजा विजयिजविगजभ्राजि सद्वाजिराज्यां
तेजोभाजां जजौर्जाविजितजनजितां259 स्वौजसा दुर्जनानाम्।
योऽन्यब्जोऽजातजाड्यो260 जगति जिनशयो261 जम्भजित्पूजितौजा
अज्यायो262 जन्मवीजं263 जयतु सरजसौर्जित्यजित्सोऽञ्जसा264 वः॥९॥
भित्त्वा दोपानुपङ्गं जनवनजवनं265 बोधयामीद्धधाम्ना
मोत्कर्षं सूर्य कार्षीरिति मम पुरतो दर्पतो हन्त यत्तत्।
साक्षाद्दोषं266 श्रितोऽपि श्रमणगणगुरो267र्बोधयेऽहं महिम्ने-
तीव प्रेङ्खन्सदोऽन्तः प्रणिगदति करो यः स वो वामहास्तु268॥१०॥
स्निग्धं मूर्ध्नोऽलिनीलद्युतिकचनिचयं प्रोद्धरन्धैर्यराशे-
र्निमूलं लोकभर्तुश्चरणकृतमते269र्भाति यः पाणिपद्मः।
अन्तर्वर्त्यर्तिकृत्किंशिति270
कलिलमिदं
कर्षतीहैषएवं
देवैरारेक्यमाणो271 भवदशिवशताशर्म स स्राक् श्रृणातु272 ॥११॥
दक्षं273 दीक्षां जिघृक्षोर्मदनशरनुदो274 देहतो दीप्रदीप्तीः
सत्स्वर्णालंकृतीर्यः सरससुमनसः कल्पवृक्षादिवोच्चैः।
पाणिः प्रोत्तारयन्वः सरसिरुहरुचिः सन्नखांशुप्रसूनो
मालाकारायतेऽसौ स्यतु कुमतिमलं प्राणमत्कंधराणाम्275॥१२॥
यः कालः शोणिमानं दधदपि निधने कल्मषस्योल्वणस्य
द्रष्टृृणांदृष्टमात्रः सरुगपि नितरां नीरुगात्माप्तसक्तः276।
लक्ष्मीदानेन तृष्णाछिदपि तनुमतामग्रहस्तोऽजडोऽसौ
मुष्याद्दोषानशेषान्कलुषितवपुषां वो विरुद्धात्मकोऽपि॥१३॥
मय्यप्यस्मि
न्स्म
यारौ
प्रभवति भुवने भूभृतः किं कराणां
पातैरुत्तापयन्ति क्षितिमित कि277 भवद्भूमभामादिवालम्278।
रक्तः शक्त्या स्फुरन्वोनिगडित इव यो भूषणालानकाले279
व्याधेरव्यात्स पाणिः सदुपलवलयामुक्तितो280 मुक्तिभाजः274॥१४॥
मा भूदन्तःपुरस्त्रीकठिनकुचभिदाकारिणी रागभाक्त्वा281-
त्सक्तैतस्मिन्नखाली स्मरविकृतिहृतः सर्वदा
स्येते कीव।
______________________________________________
२०…….
मुद्राभिर्मुद्रितोऽलंकरणविधिकृता वज्रिणार्हत्करो यः
सोऽहांस्यह्नाय हन्तु प्रविहितविनतेर्भक्तिभाजो जनस्य॥१५॥
स्रष्टाजस्रं श्रियो यः शिवपुरपथिकासद्महानोचितायाः282
कोषाधीशैर्निशान्ते नमुचिरि283पुगिरासद्महा284 नो चितायाः285।
आनीयानीय नित्यं परमगुरुकरः पर्वशली286क्षयाय287-
प्राप्तेर्हेतुः प्रधानो भवतु स भवतां पर्वशालीक्षयाय288॥१६॥
युक्ता यस्मिन्नृजिम्ना289 मसृणितपरुषो290ऽग्रेऽर्धचन्द्रायमाणा-
नङ्गुल्यः संदधानाः सघृणिनखमणीन्द्राघिमोद्धस्वरूपाः291।
पुष्पेपोर्निर्जितस्येपव इव विषमाः292 संग्रहीता विभान्ति
क्षेपीयः293 पातकान्तं प्रजनयतु स वः पाणिरर्हद्भूजस्थः॥१७॥
ब्रध्नेनानापीद्धधाम्ना परिहृतमिदमालोक्य पातालमूलं
सव्यालत्वात्करालं तिमिरभरभृतं भीरुणेवेति यस्य।
वीक्ष्यन्तेऽधो विविक्षन्त्य इव ननु भुवो भ्राजनार्थंनखाभाः
स्रस्तस्य ध्यानकाले दलयतु दुरितं वः स जैनेन्द्रपाणिः॥१८॥
यो नान्वीतो जडिम्ना नयति न कुमुदं294 नंदथुंदीप्यमानो
न ज्योतिर्ज्यानियुक्तोऽहनि मलिनतमं लक्ष्म धत्ते न मध्ये।
सोल्लासं नो नदीनं295 जनयति लभते धाम दोषोदयान्नो
सोऽपूर्वो यन्नखेन्दुश्चरमतनुशयो296 योग्यतां वो युनक्तु॥१९॥
अर्थव्यक्तिं विविक्तां विदधति वहवो यां करा हारिदश्वा
विश्वस्मिंस्तीव्रुरूपाः प्रशममितवतैकाकिना सा मयापि।
प्रोच्चैर्निष्पाद्यतेऽमुं स्मयमिव वहता धार्यते वैजयन्ती297
येनासौ युष्मदाधेर्वधकरणपटुर्वुद्धसक्तः298 करोऽस्तु॥२०॥
श्रद्धालोर्यो विधत्ते विविधवुधधृतीरेधयन्वोधवृद्ध्या
धैर्यंधामर्द्धिमिद्धां धनमपनिधनं शुद्धबुद्धि धरित्रीम्।
व्याधिध्वंसं पुरंध्रीर्जितविवुधवधूर्धर्मवृद्धेः समृद्धिं
धर्मोक्तौ299 वः स धत्तां धियमधिकधृतिं प्रोद्धृतो बौद्धहस्तः॥२१॥
ज्येष्ठासक्तं300 सचित्रं301 गुरुमहिम302पुनर्वस्वपोढात्मकं नो303
नित्यं सत्कृत्तिकं304 यज्जनितवृषतुलं305 व्यक्तमीनं सकुम्भम्।
व्योमेवाभाति किं तु प्रविरहितमलं306 शून्यवृत्त्यात्युदात्तं
छिन्द्यात्कृच्छ्राणि तद्वः सुमृदु करतलं निर्वृतेरीश्वरस्य॥२२॥
दारिद्र्याद्रेर्महेन्द्रप्रहरणसमतां यो विभेदे विभतिं
प्राकाश्ये विश्ववेश्मोदरविवरगतस्यार्थजातस्य दीपः।
हस्तालम्बोऽवलम्बो307 गुरुतरनरकागाधकूपप्रपाते
पातात्पातात्स308 हस्तस्तमसि तततमे वो विनेतुस्त्रिलोक्याः॥२३॥
यः प्रोद्यद्विद्रुमद्युत्कररुहमणिमन्मस्तकाङ्गुल्यहीन्द्रः
सत्सत्त्वोऽपारिजातः309 पुनरसुरतनुः310 साधुमुक्ताफलश्रीः।
चक्रे हस्तः समुद्रो311 दशशतनयनेनोन्मुदा312 मूर्ध्नि मेरोः
कृच्छ्रोच्छ्रायं छिनत्तु प्रतिहतसुषमं वः स जेतुः स्मरस्य॥२४॥
सत्स्कन्धाबद्धमूलावृजित313भुजलतालग्नमम्लानरूपं
विभ्रद्बन्धूककान्ति करतलमचलं पल्लवभ्रान्तिभाग्भिः।
मौग्ध्यात्सारङ्गशावैर्वनगहनभुवि ध्यानवृत्तेर्विधातुः
सिद्धेर्लेलिह्यते यत्तदवतु पतनादापदन्तः सदा वः॥२९॥
इति श्रीजम्बूकविविरचिते जिनशतके जिनहस्तवर्णनं नाम द्वितीयःपरिच्छेदः।
_____________
मल्लक्ष्म्या क्षिप्तदीप्ति प्रलपदलिरवैर्वारिणीन्दीवरं वो
मङ्क्तुंशक्त्या वियुक्तं सदलमपि314 जये वाञ्छतीत्युच्छलच्छ्रि।
हर्षोत्कर्षात्प्रफुल्लं किमिदमिति जनैः कल्प्यतेऽनल्पधीभि-
र्यच्चक्षुर्वीक्ष्यमाणं क्षणमहितहतिंतत्तनोत्वाप्तवक्त्रम्315॥१॥
भास्वान्भास्वानपि स्वैर्घृणिभिरनणुभिर्यत्तमोऽनुत्तमं नो
नेता316 नेतुं तनुत्वं तदतनिम मनो मोहयन्मानवानाम्।
मुष्णद्धिष्ण्यं गुणानामगुणमपि317 मुखं खण्डितामूर्तिकीर्ते318-
स्तथ्यं पथ्यं प्रथीयः319 प्रदिशतु दशनामीशुभिः शोभितं वः॥२॥
यस्य स्यादन्तरात्मा कलितमलिनिमा चञ्चलश्च स्वभावा-
तुल्यर्द्धि स्पर्धयान्यं क्रमत इति320 सहीतीव धात्रा व्यधायि।
मर्यादार्थंयदन्तर्निहितनयनयोः सेतुबन्धायमानो
नासावंशो जिनास्यं दिशतु शम321शनैः322 शाश्वतं तद्भवद्भ्यः॥३॥
सोत्कण्ठाः कण्ठपीठोल्लुठितजरठरुक्तारहाराभिरामा
विभ्रत्योऽदभ्रमूर्तिस्तनभरमवलाः स्वर्भुवो323 याः समायुः324।
ध्यानध्वंसं विधातुं विकृतिमकृत यत्प्रत्युत प्रेक्ष्यमाणं
तावेवास्यं जिनस्य प्रणुदतु तदघं वः स्वरूपश्रियैव॥४॥
स्पष्टं जुष्टं ललाटं विकटतरमतिस्निग्धलम्बालकान्तैः
कान्तं शान्तं दृशां शं दिशदनुकुरुते दृश्यमानाङ्कपङ्कम्।
यस्योद्यत्पार्वणैणाङ्कनशकलमलं तद्भवद्भाग्यपुष्टिं
द्वेष्टुर्दुष्टाष्टकर्मद्विषउपचिनुतादास्यमस्यत्तमांसि॥५॥
दर्प कंदर्पशत्रोष्टसिति भगवता भ्रंशयित्वा यदाप्तं
क्रोधाद्द्वेधा विधायोद्धृतविततगुणं कार्मुकं तत्किमेतत्।
आस्ते न्यस्तं लसद्भूयुगलमिति नृभिर्भाव्यते यत्र वक्त्रं
तद्दृष्टुर्विष्टपान्तर्गतनिखिलपदार्थाननर्थ हताद्वः॥६॥
यत्कान्त्या त्याजितश्रीः क्षितिपतिरिव सत्कोषपत्रोरुदण्डै-
राढ्योऽपि क्षीणदार्ढ्योवसति वनभुवि वीडयेवाञ्जखण्डः।
तन्मौनीन्द्रं325 विनिद्रं स्फुरदधरदलं कण्ठनालोपलीनं
दृग्भृङ्गासङ्गि गुर्वीं ग्लपयतु विपदं सन्मुखं युष्मदीयाम्॥७॥
शान्तं श्वेतांशुशोचिःशुचिदशनमशं326 स्यद्दृशां दृश्यमानं
विश्वक्लेशोपशान्तिं दिशदतिविशदश्लोकराशि327 प्रकाशम्।
निःशेषश्रीनिशान्तं शरणमशरणे नाशिताशेषशङ्कं
दिश्याद्वः शोभिताशं शिवमुपशमिनामीशितुः शश्वदास्यम्॥८॥
दुष्टारिष्टानि दृष्टेऽप्यकृतविकृतिकान्येव निर्नामकानि
क्षीयन्ते दक्षमक्ष्णांप्रविकसनकृति प्राणियूथस्य यत्र।
नैशानीवांशुमालिन्यलिकुलमलिनान्यन्धकाराणि बन्धो-
रूर्ध्वाधोमध्यलोकश्रितजनसमितेरास्यमस्यत्वघंतत्॥९॥
व्यालम्वालोलनीलालकजलदयुजो राजमानाद्धिमानी-
शुभ्रैर्दन्तैः328 सदन्तै329र्वरविवरभृतः330 प्रस्फुरद्गण्डशैलात्331।
यस्माद्गौः शुद्धवर्णा प्रभवति सुमनोमानसं नन्दयन्ती
तज्जैनेन्द्रं हिमाद्रेरिव दिविजनदी332 वो नुदत्वास्यमेनः॥१०॥
दुर्बोधो दुर्विधैर्यः333 प्रवररदमणीन्धारयन्मध्यसंस्था-
नस्तश्रेष्ठौष्ठमुद्रो व्यसनशंतशमप्रत्यलावाप्तिरुच्चैः334।
सुप्रापः प्रायशोऽस्मिञ्जिनवदननिधिर्बुद्धतत्त्वैः सुतत्त्वै-
स्तत्त्वार्थंसत्वरं वस्त्वरयतुं स गुरुर्वोद्धमध्यामरूपम्335॥११॥
किं विम्बं पद्मवन्धोर्नहि दहनमहस्तन्मनाग्नेदमिन्दो336 -
स्तर्हि स्यात्सत्कलङ्कं तदपि न विकलं लाञ्छनेनैतदेवम्।
दृष्ट्वा द्वेष्टुर्बलस्य337 प्रमुदितहृदयास्तर्कयन्तेऽतिमुग्धा
वध्वो मूर्ध्न्यद्रिभर्तुर्यदजितलपनं338 वस्तदेनस्तृणेढु339॥१२॥
मान्ये मान्येन कारि स्वदृगशुभतरात्रेतिकृष्णातिकृष्णा340
चक्रे चक्रे दिशां यत्सिततरयशसि341 भ्रूलतारालतारा342।
रक्षारक्षालिनी343वेत्यवहितविधिना344 यत्र पापात्रपापा345-
दव्यादव्यपदास्यं346 तदमरणगुरोर्वः274 सदन्तं347 सदन्तम्348॥१३॥
वक्षस्याधोक्षजे श्रीः परिवसति सदेतिप्रसिद्धिं वृथार्था-
मत्यर्थंभावयन्तोऽभिलषितविभवावाप्तितः कल्पयन्ति।
साक्षाल्लक्ष्मीरिहास्तेऽनवरतमिति यद्दर्शने याचकौघा-
स्तद्वक्त्रंवैतरागं गुरुगदगहनध्वंसनाद्बो धिनोतु॥१४॥
श्रीमत्पौरंदरं दृग्नलिनघनवनं वानमप्य349न्यदीप्ति
प्रत्यक्षत्वेक्षणेन350 श्रवणपरिकरः351 स्वातिरक्तो352
वुधप्रीः353।
स्वाभिर्यो दीधितीभिः कुरुत इतितरामा354चरन्नप्यचण्ड-
श्चण्डांशोः कर्म धर्माधिपलपनविधुर्वोविरुद्धं स वध्यात्॥१५॥
सद्वाणं355सालकान्तं शिशिरघनतरच्छायमन्तर्द्विजानां356
राज्यापूर्णंसदन्तच्छदलसदलिकं काननं वाननं357 वः।
सप्तसप्तेरिव विषमगतेरागसोऽतीव गुर्वी-
मूल्यान्मन्मथानुन्मथितमुनिगणप्रष्ठकण्ठस्थलस्थम्॥१६॥
तर्न दत्ते स्थितिमयममदो नस्तथाप्येप सेव्यो
चत्वात्सर्वदोर्व्या बहिरपि निरतैः पूर्वपृक्ते358रितीव।
गोगरीयस्यधरवरमणौ यत्र चित्रातिचण्ड-
प्राप्तात्संसारतो द्रास्मृतिजनननुदस्त्रायतां वस्तदास्यम्॥१७॥
लिन्ययोगेऽप्यतिचपलतया योऽवदातानुयातः
स्थारक्तवर्णो भवति स लभते भूरिशोभां सुवृत्तः।
लब्धासमाधौ ब्रुवदिव युगलं तारयोर्लोचनान्त-
वं राजते तन्मुखमुपशमयत्वार्हतं गर्हितं वः॥१८॥
यं दधद्भिर्वहुधवलगुणः संगतो गीयते य-
दर्थानर्थदशीत्यवितथमिव तत्कर्तुमालक्ष्यतेऽक्ष्णोः।
र्णोपसपिं द्वितयमुपवद्द्राघिमाणं यदीयं
शस्याननं तच्छकलयतु कलां काश्मली हेल्या वः॥१९॥
त्वं निजर्द्ध्या जयसि बहुरजः सत्कथं कथ्यतां मा-
श क्षीयमाणस्त्वमपि किल मया स्पर्धसे सार्धमेवम्।
वासलुब्धभ्रमदलिपटलप्रोच्छलद्राणतो359 य-
कीव व्यक्तमक्तान्स्नपयतु360 रजसा वस्तदर्हन्मुखाव्जम्॥२०॥
त्वात्स्वकीयां क्षरदमृतरसां सौम्यतां न्यूनवृत्ति
लोक्यालोकिताशः कृशतनुरविशत्स्वश्रियोऽन्तर्द्धिमिच्छुः।
त्वादिवेन्दुर्मृडविकटजटाजूटरौद्राटवीं वो
छत्वच्छिन्नवाञ्छं सुषममि361तमृतेराननं तन्मनोहृत्॥२१॥
र्णः प्रपूर्णं चलदृगनिमिषं राजहंसोपजीव्यं
यद्भ्रूयुग्मभङ्गं त्रिदशमुनिगणासेवनीयं प्रसन्नम्।
_________________________________________
२.अरुणत्वं मानसो विकारश्च३. निकटस्था अनुरक्ता वर्णा स्य यजिनस्य.
PDF मध्ये अस्पष्टता अस्ति । कृपयाएकवारंपश्यतु ।
सच्छङ्खं मानसा
द्दंसर इव तरसा मानसस्यातनोति
प्र
ह्लरत्तिवीक्षितं यत्तदरिविहतये वः शमीशास्यमस्तु॥२२॥
सेवां कर्तुं किमेतौ मिहिरहिमरुची पार्श्वयोरेतेदात्त362-
स्वश्रीलिप्साकुलाङ्गाविति मनसि सतां शेमुषी प्रादुरस्ति।
निर्वर्ण्य363ाकीर्णदीप्तिप्रतिहततमसी कुण्डले गण्डलग्ने
यत्सत्कर्णापिनद्धे नयतु शिवपदं तन्मुनीन्द्राननं वः॥२३॥
अम्लानं मौलिमालोल्ललितकपिलरुग्धूलिलुब्धालिजालं
व्यालोलारालकालालकममलकलालाञ्छनं364 यद्विलोक्य।
लेखाली365 लालितालं366 प्रवलबलकुलोन्मूलिना367 शैलराजे368
प्र
ह्लन्नालीलया वो दलयतु कलिलं लोलदृक्तज्जिनास्यम्॥२४॥
यद्वन्नासत्ययुक्तः सुरवरदयिताख्यातिमांस्त्वं पवित्रो369
गोभूद्गोत्रस्य370 हन्ता बलभिदहमपि371 त्वत्समानं तथैव।
तस्माद्दर्पावलेपं जहिहि हरिमितीवाहसत्सत्स्मितैर्य-
त्तद्वो द्वन्द्वानि372विद्वद्वरगुरुवदनं मुप्रसन्नं पिनष्टु॥२५॥
इति श्रीजम्बूकविविरचिते जिनशतके जिनमुखवर्णनं नाम तृतीयः परिच्छेदः
____________
ब्राह्मी373 ब्रह्माधिभर्तुः374 कृतरतिरसकृद्वैबुधानां375 विशुद्ध्या
गुर्वी भास्वत्सुवर्णार्वनरुचिखचिता चारुचामीकराद्रेः।
चूडा वा रोचमाना दिवि दिवसपतेर्भानुसीमानमुञ्चै-
रुल्लङ्घ्यालङ्घनीयावृहदवमवने वन्यवद्दीयतां वः॥१॥
इन्द्रैर्विद्राणनिद्रं श्रितविधि विबुधैः सार्थकं ऋक्षनाथैः
सिद्धैः साध्यार्थसिद्ध्यै376 धुतदिति दितिजैः साधुभिः साधितार्थम्।
गन्धर्वैर्गीतगर्भ कृतकरमुकुलैः श्रूयमाणानणीयो
जैनी गौर्गौरवं वोऽतनुभुवनकुटीकोटरान्तः करोतु॥२॥
या मन्दारैरशोकैः प्रविकचसुमनःशोभितैर्भिक्षुवृक्षै-
स्तुङ्गैर्नीरागमानैः377 सततमुपचिता भारती वैतरागी।
स्वच्छायाच्छिन्नतापा विहितशुभफलालंकृतारामलेखा378-
तुल्या कल्याणमाल्यैर्बहुभिरिह तनूर्भूषयत्वाशु सा वः॥३॥
यूथैर्या संयतानां379 सुदृढनियमनान्मोक्षमाकाङ्क्षमाणै-
र्गुप्तैः संसृत्यटव्याश्रयणगमनतः संश्रितत्वादितीह।
कारागारानुकाराप्यघनतरतमा निर्भया भ्रष्टवन्धा
साधीयोधीधनर्द्धेरतिसमधिकतां सा क्रियात्सिद्धगीर्वः॥४॥
संसारोदन्वदम्भस्यमितिमृतिमहोमिंण्यगण्योद्भवौर्व380-
द्युद्भीमे लोभकुम्भीनसविषमतले मज्जतो जन्तुराशीन्।
प्रत्यप्रान्तप्रथिम्नि स्मरमकरवति ब्राह्म्यजिह्मस्वरूपा
निर्व्याजं नाव्यते381 या यतिपतिगदिता सा हताद्वो द्विषन्तम्॥५॥
नामीष्टं विष्टपान्तः प्रति चरमचरं प्राणिनं प्राणितव्या-
दन्यद्वस्त्वित्यवेत्य स्वमिव तदपि भो रक्षता क्षुद्रभावाः।
भद्रं भोक्तं विमुक्त्यां यदि मतिरिति याकर्ण्यते कर्णरन्ध्रे.
सा श्रीयोगीन्द्रगीर्वः प्रवलयतु वलं कालमल्लं विजेतुम्॥६॥
द्रव्यादेशेन नित्यं यदितरदपि तत्पर्ययादेशतोऽस्मि -
न्वस्त्वेवं यैकमेव प्रकटयति नयद्वन्द्वतो द्विप्रकारम्।
कुग्राहोग्रग्रहास्यप्रपतिततनुभृत्स्तोममुन्मोचयन्ती
चेतोभूप्रच्युतिं वः सुमतियतिपुरोगस्य सा वाग्विधेयात्॥७॥
निर्दोषा सन्निशीथा382प्यवितथरचना सत्यहीनापि383 नित्यं
सद्गुप्तिर्मोक्षदापि श्रुतयममहिमाप्युन्नतासत्कृतान्ता384।
द्विष्टार्था385 सार्थकापि स्खलितपरमताप्युन्नतासत्तमाया-
मारोप्यात्सा पदव्यां प्रशमिपरिवृढब्राह्म्यलं वोऽविलम्बम्॥८॥
सत्या सत्यानताङ्गे तनुमति भविका सर्वदा386 सर्वदाग387-
स्तानेऽस्तानेकशर्मण्यपि विनिपतिते स्तूयमानायमाना388।
नाशं नाशङ्कितार्था भवतु कविशतैः पूरिताशरिताशा389
गौर्वा गौर्वामपङ्के मुनिपलपनभूर्वः सदावासदावा390॥९॥
वाचो वोऽर्चामचिन्त्याचलचरणरुचेश्चुचुरन्मा चिराया-
त्युच्चैस्ताश्चोरयन्त्यो रुचिमतिशुचयो नीचवाक्तारकाणाम्।
याश्चण्डाश्चण्डवर्चोरुच इव निचितं चित्तभूध्वान्तचित्या391
सच्चेतोम्भोजचक्रं प्रचुररुचिचितं कुर्वते चित्रचाराः॥१०॥
श्रोतॄन्वृन्दारकादीन्प्रणिहितकरणानादराद्देशनायां
संसद्यासाद्य सद्यः परिणमति392 वचोऽर्हन्मुखान्निर्गतं सत्।
तेषां भाषाविशेषैविंषमिव393 विषदाद्भु394विभागान्विभिन्ना-
न्स्वैः स्वैर्वणैः सुवर्णं यदनुगुणयतात्स्वश्रुतौ तन्मनो वः॥११॥
या वारिक्षीरयोर्वा प्रकृतिपुरुषयोः395श्लि
ष्टयोस्त्रोटयन्ती
संबन्धं निर्विवन्धं ललितपदगती रामरामेव396 रम्या।
सा वः शुक्लाभदेहा दहतु महदपि क्षुद्रपक्षद्रुमाणां
वृन्दं वृन्दारकादीश्वरसभसरसीभूषणा वाग्जिनस्य॥१२॥
गृध्रुत्वात्तत्त्वगन्धाधिगमविषयतः संपतद्भिः समुद्धिः
सद्भिः सद्भिर्द्विरेफैरिव मधुररवैश्चारुपक्षैः सुदक्षैः।
यत्प्राप्य प्राप्यते शं स्वरिनकरिमदा397म्भोवदाप्तं398 वचो व-
स्तत्क्लेशाश्लेषशोषोपशमकृतिविधिं प्रत्यलं399भूष्णु भूयात्॥१३॥
नानावर्णैर्विचित्रा रुचिरगुणशतैः कल्पितानल्पशोभा
शुद्धाधिक्यान्महार्घा हृदि मुदमधिकं संदधाना ग्रहीतुः।
शाटं400वः सत्पटीवोत्कटकटुकफलाकार्यशीतस्य401 गौर्द्रा-
क्संपर्कात्कुर्वती श्रीसुखमतितनुतात्सा जितोत्सेकमूर्तेः402॥१४॥
प्रोत्खातासंख्यदुःखाखिलजनसुखकृत्खण्डिताखण्डखेदं
खड्गाभा मूर्खमुख्यप्रखलमुखरताशाखिशाखा विलेखे403।
ख्याता वाग्लेखसंख्याप्रमुखशतमखाभ्यर्चिता खण्डशो वः
सख्यं404 प्रेङ्खन्मनो267भूविशिखमुखभिदः खण्डयत्वस्खलन्ती॥१५॥
वर्णैः पूर्णाप्यवर्णा405 कुजनपरिचिता406प्याप्तलोकैर्विनूता407
साराप्युच्चैरसारा408 रतिसुखकृदपि409 प्रास्तकंदर्पदर्पा।
या सन्निष्ठाप्यनिष्ठा410 प्रविदितजगतो भारतीनां411 रतीनां
सा युष्माकं निमित्तं त्वरितमुपदधात्वित्यनेकप्रकारा॥१६॥
भद्रा द्रोणी समुद्रे412 द्रविणवरनिधिर्द्राग्धनायेऽपिधानः413
स्वापस्त्वानूपपातापदि414 परिपततां कुवरी415 दुर्गमार्गे।
युद्धे साध्वायुधश्रीः शशिसमयशसां योनिरार्यार्यगीर्या416
सा युष्माकं महाधिप्रधनविधुरताध्वस्तयेऽस्तु प्रशस्ता॥१७॥
भूमानं विभ्रतोऽपि प्रकटयति झटित्योजसा स्वेन हानिं
स्नेहस्योच्चैः पतङ्गप्रभृतितनुमतोऽवन्त्यनित्यत्वशून्या।
यान्यादृक्षेव साक्षात्कृतनयनपथातीतवस्तुस्वरूपा
दैपी वर्तिः कुवृत्तीरपहरतुतरामर्हतां वागसौ वः॥१८॥
ज्योतिर्मैत्रं न यत्र प्रविचरति रुचिर्नैन्दवी न प्रकाश्यं
यद्भासां चित्रभानोरनणुमणिरुचां गोचरे यच्च नैव।
वस्तु प्रत्यक्षयन्ती तदपि मुदमितैः प्राप्तरूपैर्नुता417 या
सार्हद्भारत्यरत्या वियुततनुलतान्वः क्रियादक्रमेण॥१९॥
सालंकारां करोति श्रुतिमति विशदन्यायरत्नो418द्भटश्रि
श्रीमद्भिर्धार्यमाणं गतमतिविभवैर्दुर्लभं भास्वराङ्गम्।
सद्वृत्तोदात्तरूपं व्युपरतविकृतेर्यत्तुलां419 कुण्डलस्य
क्षिप्रं विभ्रक्रियाद्वो वचनमुपचितिं चिन्तितानां तदर्च्यम्॥२०॥
नाश्रेयांसि श्रितानां न भयतरलता श्रूयते श्राद्धदेवा-
दश्रीणां नाश्रयोऽश्रु स्रुतिरपि न नवा विस्रसा420 न श्रमो वः।
नाविश्रम्भश्रुतिर्न श्रवणकटुवचो यत्र तत्स्थानमीयुः
श्रुत्वा यां श्रीजिनस्याश्रियमभिभवताद्गौरसौ स्राक् श्रुतीष्टा॥२१॥
मिथ्यादृक्पाथसान्तर्भूतगुरुविपदावर्तगर्तंगरीयः-
सर्पत्कंदर्पसर्पंप्रचरितकुनयानेकनक्रादिचक्रम्।
यत्प्राप्य प्रोत्तरन्ति प्रततमपि भवाम्भोनिधिं साधुवन्धं
पातात्पो308तायमानं तदवमपतना421ज्जैनचन्द्रं वचो वः॥२२॥
सोन्मुद्भिर्जन्मवद्भिः शिखिभिरिव समाकर्णिता निर्णयन्ती422
क्लेशग्रीष्मोष्मशोषं स्वमहिमभवना423त्संहरन्ती रजांसि।
विस्फूर्जन्नीतिधारानिकरपतनतः प्रावृषाया समाना
मानारे267र्माननामाप्यपनुदतु भवत्स्वाशु सा सूनृता वाक्॥२३॥
लक्ष्मीर्वा दुग्धसिन्धोर्धरणिधरवराज्जद्वुकन्येव मान्या
श्यामेशाच्चन्द्रिकेवाभिनवजलधरादम्भसः श्रीरिवोच्चैः।
ध्वान्तावन्धो424रहःश्रीरिव समुदभवद्भारती रत्यधीन्द्रं425
द्रोग्धुर्या सा निधेयादधरितविबुधाधीशराज्ये पदे वः॥२४॥
नाक्षेमं क्षुद्रपक्षात्क्षणमपि लभते संभ्रमेणेह विभ्र-
त्कण्ठे निर्लोठ्य शाठ्यं कुदृशमसदृशोद्भासितां भ्रंशयन्तीम्।
यां रक्षां वा426 विवेकी वहुविधविपदां भेदिकां दैन्यशून्या-
न्युष्मान्मान्याग्रग267स्याननवनजशया427 वागसौ द्वाग्विधेयात्॥२५॥
इति श्रीजम्बूगुरुविरचिते जिनशतके जिनवाग्वर्णन नाम चतुर्थः परिच्छेदः।
समाप्तमिदं जिनशतकम्।
** _____________**
श्रीपद्मानन्दकविप्रणीतं
वैराग्यशतकम्।
त्रैलोक्यं युगपत्कराम्बुजलुठन्मुक्तावदालोकते
जन्तूनां निजया गिरा परिणमद्यः सूक्तमाभाषते।
स श्रीमान्भगवान्विचित्रविधिभिर्देवासुरैरर्चितो
वीतत्रासविलासहासरभसः पायाज्जिनानां पतिः॥१॥
यैः क्षुण्णाः प्रसरद्विवेकपविना428 कोपादिभूमीभृतो
योगाभ्यासपरश्वधेन मथितो यैर्मोहधात्रीरुह।
वद्धः संयमसिद्धमन्त्रविधिना यैः प्रौढकामज्वर-
स्तान्मोक्षैकसुखानुषङ्गरसिकान्वन्दामहे योगिन॥२॥
यैस्त्यक्ता किल शाकिनीवदसमप्रेमाञ्चिता प्रेयसी
लक्ष्मीः प्राणसमापि पन्नगवधूवत्प्रोज्झिता दूरतः।
मुक्तं चित्रगवाक्षराजिरुचिरं वल्मीकवन्मन्दिरं
निःसङ्गत्वविराजिताः क्षितितले नन्दन्तु ते साधवः॥३॥
‘यः परवादे मूकः परनारीवक्रवीक्षणेऽप्यन्धः।
पङ्गुः परधनहरणे स जयति लोके महापुरुषः॥४॥
आक्रोशेन न दूयते न च चटुप्रोक्त्या समानन्द्यते
दुर्गन्धेन न वाध्यते न च सदामोदेन संप्रीयते।
स्त्रीरूपेण न रज्यते न च मृत
श्वानेन विद्वेष्यते
माध्यस्थ्येन विराजितो विजयते कोऽप्येष योगीश्वरः॥५॥
मित्रे नन्दति नैव नैव पिशुने वैरातुरो जायते
भोगे लुभ्यति नैव नैव तपसि क्लेशं समालम्बते।
रत्ने रज्यति नैव नैव दृ
षदि प्रद्वेषमापद्यते
येषां शुद्धहृदां सदैव हृदयं ते योगिनो योगिनः॥६॥
सौन्दर्यैकनिधेः कलाकुलविधेर्लावण्यपाथोनिधेः
पीनोत्तुङ्गपयोधरालसगतेः पातालकन्याकृतेः429।
कान्ताया नवयौवनाश्चिततनोर्यैरुज्झितः संगमः
सम्यङ्मानसगोचरे चरति किं तेषां हताशः स्मरः॥७॥
शृङ्गारामृतसेकशाद्वलरुचिर्वक्रोक्तिपत्रान्विता
प्रोद्गच्छत्सुमनोभिपङ्गसुभगा स्त्रीणां कथावल्लरी।
यैर्ब्रह्मव्रतपावकेन परितो भस्मावशेषीकृता
किं तेषां विषमायुधः प्रकुरुते रोषप्रकर्षेऽपि रे॥८॥
आताम्रायतलोचनाभिरनिशं संतर्ज्य संतर्ज्य च
क्षिप्तस्तीक्ष्णकटाक्षमार्गणगणो मत्ताङ्गनाभिर्भृशम्।
तेषांकिं नु विधास्यति प्रशमितप्रद्युम्नलीलात्मनां
येषां शुद्धविवेकवज्रफलकं पार्श्वे परिभ्राम्यति॥९॥
अग्रे सा गजगामिनी प्रियतमा पृष्ठेऽपि सा दृश्यते
धात्र्यां सा गगनेऽपि सा किमपरं सर्वत्र सा सर्वदा।
आसीद्यावदनङ्गसंगतिरसस्तावत्तवेयं स्थितिः.
संप्रत्यास्यपुरःसरामपि न तां द्रष्टासि कोऽयं लयः॥१०॥
योगे पीनपयोधराञ्चिततनोर्विच्छेदने विभ्यतां
मानस्यावसरे चटूक्तिविधुरं दीनं मुखं विभ्रताम्।
विश्लेषस्मरवह्निनानुसमयं दन्दह्यमानात्मनां
भ्रातः सर्वदशासु दुःखगहनं धिक्कामिनां जीवितम्॥११॥
मध्ये स्वां कृशतां कुरङ्गकदृशो भ्रूनेत्रयोर्वक्रतां
कौटिल्यं चिकुरेषु रागमधरे मान्द्यं गतिप्रक्रमे।
काठिन्यं कुचमण्डले तरलतामक्ष्णोर्निरीक्ष्य स्फुटं
वैराग्यं न भजन्ति मन्दमतयः कामातुरा ही नराः॥१२॥
पाण्डुत्वं गमितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं
चक्षुः क्षीणवलं कृतं श्रवणयोर्वाधिर्यमुत्पादितम्।
स्थानभ्रंशमवापिताश्च जरया दन्तास्थिमांसत्वचः
पश्यन्तोऽपि जडा हहा हृदि सदा ध्यायन्ति तां प्रेयसीम्॥१३॥
अन्यायार्जितवित्तवत्क्वचिदपि भ्रष्टं समस्तै रदै-
स्तापक्रान्ततमालपत्रवदभूदङ्गंवलीभङ्गुरम्।
केशेषु क्षणचन्द्रवद्धवलिमा व्यक्तं श्रितो यद्यपि
स्वैरं धावति मे तथापि हृदयं भोगेषु मुग्धं हहा॥१४॥
उद्गृणन्ति प्रपञ्चेन योषितो गद्गदां गिरम्।
तामामनन्ति प्रमोक्तिं कामग्रहिलचेतस॥१५॥
यावद्दुष्टरसक्षयाय नितरां नाहारलौल्यं जितं
सिद्धान्तार्थमहौषधेर्निरुपमश्चूर्णोन जीर्णो हृदि।
पीतं ज्ञानलघूदकं न विधिना तावत्स्मरोत्थो ज्वरः
शान्तिं याति न तात्त्विकींहृदय हे शेषैरलं भेषजैः॥१६॥
शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसत्रोतसि
प्रद्युम्नप्रियवान्धवे चतुरवाङ्मुक्ताफलोदन्वति।
तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने॥१७॥
सम्यक्परिहृता येन कामिनी गजगामिनी।
किं करिष्यति रुष्टोऽपि तस्य वीरवरः स्मरः॥१८॥
लज्जेयं प्रलयं प्रयाति झटिति ब्रह्मव्रतं भ्रश्यति
ज्ञानं संकुचति स्मरज्वरवशात्पश्यामि यावत्प्रियाम्।
यावत्तु स्मृतिमेति नारकगतेः पाकक्रमो भीषण-
स्तावत्तत्त्वनिरीक्षणात्प्रियतमाप्येषा विषौघायते॥१९॥
कारुण्येन हता वधव्यसनिता सत्येन दुर्वाच्यता
संतोषेण परार्थचौर्यपटुता शीलेन रागान्धता।
नैर्ग्रन्थ्येन परिग्रहग्रहिलता यैर्यौवनेऽपि स्फुटं
पृथ्वीयं सकलापि तैः सुकृतिभिर्मन्ये पवित्रीकृता॥२०॥
यत्रा
ब्जोऽपि (?) विचित्रमञ्जरिभरव्याजेन रोमाञ्चितो
दोलारूढविलासिनीविलसितं चैत्रे विलोक्याद्भुतम्।
सिद्धान्तोपनिषन्निपण्णमनसां येषां मनः सर्वथा
तस्मिन्मन्मथबाधया न मथितं धन्यास्त एव ध्रुवम्॥२१॥
स्वाध्यायोत्तमगीतिसंगतिजुषःसंतोषपुष्पाञ्चिताः
सम्यग्ज्ञानविलासमण्डपगताः सद्ध्यानशय्यां श्रिताः।
तत्त्वार्थप्रतिबोधदीपकलिकाः क्षान्त्यङ्गनासङ्गिनो
निर्वाणैकसुखाभिलाषिमनसो धन्या नयन्ते निशाम्॥२२॥
किं लोलाक्षि कटाक्षलम्पटतया किं स्तम्भजृम्भादिभिः
किं प्रत्यङ्गनिदर्शनोत्सुकतया किं प्रोल्लसच्चाटुभि।
आत्मानं प्रतिबाधसे त्वमधुना व्यर्थ मदर्थं यतः
शुद्धध्यानमहारसायनरसे लीनं मदीयं मनः॥२३॥
सज्ज्ञानमूलशाली दर्शनशाखश्च येन वृत्ततरुः।
श्रद्धाजलेन सिक्तो मुक्तिफलं तस्य स ददाति॥२४॥
क्रोधाद्युग्रचतुष्कषायचरणो व्यामोहहस्तः सखे
रागद्वेषनिशातदीर्घदशनो दुर्वारमारोद्धुरः।
सज्ज्ञानाङ्कुशकौशलेन स महामिथ्यात्वदुष्टद्विषो
नीतो येन वशं वशीकृतमिदं तेनैव विश्वत्रयम्॥२५॥
दृश्यन्ते बहवः कलासु कुशलास्ते च म्फुरत्कीर्तये
सर्वस्वं वितरन्ति ये तृणमिव क्षुद्रैरपि प्रार्थिताः।
धीरास्तेऽपि च ये त्यजन्ति झटिति प्राणान्कृते स्वामिनो
द्वित्रास्ते तु नरा मनः समरसं येषां सुहृद्वैरिणोः॥२६॥
हृदयं सदयं यस्य भाषितं सत्यभूपितम्।
कायः परहितोपायः कलिः कुर्वीत तस्य किम्॥२७॥
नास्त्यसद्भाषितंयस्य नास्ति भङ्गो रणाङ्गनात्।
नास्तीति याचके नास्ति तेन रत्नवती क्षितिः॥२८॥
आनन्दाय न कस्य मन्मथकथा कस्य प्रिया न प्रिया
लक्ष्मीः कस्य न वल्लभा मनसि नो कस्याङ्गजः क्रीडति।
ताम्बूलं न सुखाय कस्य न मतं कस्यान्नशीतोदकं
सर्वाशाद्रुमकर्तनैकपरशुर्मृत्युर्न चेत्स्याज्जनोः॥२९॥
भार्येयं मधुराकृतिर्मम मम प्रीत्यन्वितोऽयं सुत
स्वर्णस्यैष महानिधिर्मम ममासौ बन्धुरो बान्धवः।
रम्यं हर्म्यमिदं ममेत्थमनया व्यामोहितो मायया
मृत्युं पश्यति नैव दैवहतकः क्रुद्धं पुरश्चारिणम्॥३०॥
कष्टोपार्जितमत्र वित्तमखिलं द्यूते मया योजितं
विद्या कष्टतरं गुरोरधिगता व्यापारिता कुस्तुतौ।
पारम्पर्यसमागता च विनयो वामेक्षणायां कृत
सत्पात्रे किमहं करोमि विवशः कालेऽद्य नेदीयसि॥३१॥
आत्मा यद्विनियोजितो न विनये नोग्रंतपःप्रापितो
न क्षान्त्या समलंकृतः प्रतिकलं सत्येन न प्रीणितः।
तत्त्वं निन्दसि नैव कर्महतकं प्राप्ते कृतान्तक्षणे
दैवायैव ददासि जीव नितरां शापं विमूढोऽसि रे॥३२॥
बालो यौवनसंपदा परिगतः क्षिप्रं क्षितौ लक्ष्यते
वृद्धत्वेन युवा जरापरिणतो व्यक्तं समालोक्यते।
सोऽपि क्वापि गतः कृतान्तवशतो न ज्ञायते सर्वथा
पश्यैतद्यदि कौतुकं किमपरैस्तैरिन्द्रजालैः सखे॥३३॥
द्वारं दन्तिमदप्रवाहनिवहैर्येपामभूत्पङ्किलं
ग्रासाभाववशान्न संचरति यद्रङ्कोऽपितेषां पुनः (?)।
येऽभूवन्विमुखाः स्वकुक्षिभरणे तेषामकस्मादहो
यच्च श्रीरिह दृश्यतेऽतिविपुला तत्कर्मलीलायितम्॥३४॥
नापत्यानि न वित्तानि न सौधानि भवन्त्यहो।
मृत्युना नीयमानस्य पुण्यपापे परं पुरः ॥३५॥
ब्रूतेऽहंकृतिनिग्रहं मृदुतया पश्चात्करिष्याम्यहं
प्रोद्यन्मारविकारकन्दकदनं पञ्चेन्द्रियाणां जयात्।
व्यामोहप्रसरावरोधनविधिं सद्ध्यानतो लीलया
नो जानाति हरिष्यतीह हतकः कालोऽन्तराले किल ॥३६॥
बद्धा येन दशाननेन नितरां खद्वैकदेशे जरा
द्रोणाद्रिश्च समुद्धृतो हनुमता येन स्वदोर्ल्लीलया।
श्रीरामेण च येन राक्षसपतिस्त्रैलोक्यवीरो हतः
सर्वे तेऽपि गताः क्षयं विधिवशात्कान्येषु तद्भोः कथा॥३७॥
सर्वभक्षी कृतान्तोऽयं सत्यं लोके निगद्यते।
रामदेवादयो धीराः सर्वे क्वाप्यन्यथा गताः॥३८॥
मिथ्यात्वानुचरे विचित्रगतिभिः संचारितस्योद्भटै-
रत्युग्रभ्रममुद्गराहतिवशात्संमूर्च्छितस्यानिशम्।
संसारेऽत्रनियन्त्रितस्य निगडैर्मायामयैश्चोरव-
न्मुक्तिः स्यान्मम सत्वरं कथमतः सद्वृत्तवित्तं विना॥३९॥
दुष्प्रापं मकराकरे करतलाद्रत्नंनिमग्नं यथा
संसारेऽत्र तथा नरत्वमथ तत्प्राप्तं मया निर्मलम्।
भ्रातः पश्य विमूढतां मम हहा नीतं यदेतन्मुवा
कामक्रोधकुवोधमत्सरकुधीमायामहामोहतः॥४०॥
येनेह क्षणभङ्गुरेण वपुषा क्लिन्नेन सर्वात्मना
सद्व्यापारवियोजितेन परमं निर्वाणमप्याप्यते।
प्रीतिस्तेन हहा सखे प्रियतमावक्रेन्दुरागोद्भवा
क्रीता स्वल्पसुखाय मूढमनसा कोट्या मया काकिणी॥४१॥
क्रीडाकारि परोपहासवचनं तुष्टयै परव्यंसनं
कान्ता काञ्चनसुन्दराङ्गलतिका कान्तैव पृथ्वीतले।
भव्यो द्रव्यसमर्जने किल महारम्भोद्यमकि तु रे
भेदच्छेदनताडनादिविधिना रौद्रो महारौरवः॥४२॥
कंदर्पप्रसरप्रशान्तिविधये शीलं न संशीलितं
लोभोन्मूलनहेतवे स्वविभवो दत्तो न पात्रे मुदा।
व्यामोहोन्मथनाय सद्गुरुगिरां तत्त्वं न चाङ्गीकृतं
दुष्प्रापो नृभवो मया हतधिया हा हारितो हारितः॥४३॥
सौख्यं मित्रकलत्रपुत्रविभवभ्रशादिभिर्भङ्गुरं
कासश्वासभगंदरादिभिरिदं व्याप्तं वपुर्व्याधिभिः।
भ्रातस्तूर्णमुपैति संनिधिमसौ कालः करालाननः
कष्टं किं करवाण्यहं तदपि यच्चित्तस्य पापे रति॥४४॥
संसारे गहनेऽत्र चित्रगतिषु भ्रान्त्यानया सर्वथा
रे रे जीवन सोऽस्ति कश्चन जगन्मध्ये प्रदेशो ध्रुवम्।
यो नाप्तस्तव भूरिजन्ममरणैस्तत्किं न तेऽद्यापि हो
निर्वेदो हृदि विद्यते यदनिशं पापक्रियायां रतिः॥४५॥
नो स्कन्धेन समुन्नतेन घरसे चारित्रगन्त्र्या धुरं
पृष्ठेनोपचितेन नैव वहसे प्रोच्चैरहिसाभरम्।
मिथ्या त्वन्निवयं (?) पदाहतिवशाद्भो गाहसे त्वं यत-
श्वेतस्तद्गतशङ्क साङ्कवृषवन्निन्द्यं परिभ्राम्यसि॥४६॥
प्राप्ते सत्कुलजन्ममाऩवभवे निर्दोषरत्नोपमे
नीरोगादिसमस्तवस्तुनिचये पुण्येन लब्धे सति।
नोपात्तं किमपि प्रमादवशतस्तत्त्वं त्वया मुक्तये
रे जीवात्र ततोऽतिदुःखविषमे संसारचक्रे भ्रमः॥४७॥
क्रोधो न्यक्कृतिभाजनं न विहतो नीतो न मानः क्षयं
माया नैव हता हताश नितरां लोभो न संक्षोभितः।
रे तीत्रोत्कटकूटचित्तवशग स्वान्त त्वया हारितं
हस्ताप्तं फलमाशु मानवभवश्रीकल्पवृक्षोद्भवम्॥४८॥
वाल्ये मोहमहान्धकारगहने मग्नेन मूढात्मना
तारुण्ये तरुणीसमाहृतहृदा भोगैकसंगेच्छुना।
वृद्धत्वेऽपि जराभिभूतकरणग्रामेण निःशक्तिना
मानुष्यं किल दैवतः कथमपि प्राप्तं हतं हा मया॥४९॥
यस्मै त्वं लघु लड्ङ्घसे जलनिधिं दुष्टाटवीं गाहसे
मित्रं वञ्चयसे विलुम्पसि निजं वाक्यक्रमं मुञ्चसि।
तद्वित्तं यदि दृश्यते स्थिरतया कस्यापि पृथ्वीतले
रे रे चञ्चलचित्त वित्तहतक व्यावर्ततां (?) मे तदा॥५०॥
अज्ञानाद्रितटे क्वचित्क्वचिदपि प्रद्युम्नगर्तान्तरे
मायागुल्मतले क्वचित्क्वचिदहो निन्दानदीसंकटे।
मोहव्याघ्रभयातुरं हरिणवत्संसारघोराटवी-
मध्ये धावति पश्य सत्वरतरं कष्टं मदीयं मनः॥५१॥
सच्चारित्रपवित्रदारुरचितं शीलध्वजालंकृतं
गुर्वाज्ञागुणगुम्फनादृढतरं सद्बोधपोतं श्रितः।
मोहग्राहभयंकरं तर महासंसारवारांनिधिं
यावन्न प्रतिभिद्यते स्तनतटाघातैः कुरङ्गीदृशाम्॥५२॥
किं भस्मप्रतिलेपनेन वपुषो धूमस्य पानेन किं
वस्त्रत्यागजुगुप्सया किमनया कि वा त्रिदण्डाप्यहो।
किं स्कन्धेन नतेन कम्बलभराज्जापस्य कि मालया
वामाक्षीमभिधावमानमनिशं चेतो न चेद्रक्षितम्॥५३॥
रोद्धुं बालमृणालतन्तुभिरसौ मत्तेभमुज्जृम्भते
भेत्तुं वज्रमणीञ्शिरीषकुसुमप्रान्तेन संनह्यति।
माधुर्यं मधुविन्दुना रचयितुं क्षाराम्बुधेरीहते
नेतुं वाञ्छति यः सतां पथि खलान्सूक्तैः सुधास्यन्दिभिः॥५४॥
मुक्त्वा दुर्मतिमेदिनीं गुरुगिरा संशील्य शीलाचलं
बद्ध्वाक्रोधपयोनिधिं कुटिलतालङ्कां क्षपित्वा क्षणात्।
नित्वा मोहदशाननं निधनतामाराध्य वीरव्रतं
श्रीमद्राम इव द्युमुक्तिवनितायुक्तो भविष्याम्यहम्॥५५॥
आहारैर्मधुरैर्मनोहरतरैर्हारैर्विहारैर्वरैः
केयूरैर्मणिरत्नचारुशिखरैर्दारैरुदारैश्च किम्।
प्राणान्पद्मदलाग्रवारितरलाञ्ज्ञात्वा जवाज्जीव रे
दानं देहि विधेहि शीलतपसी निर्वेदमास्वादय॥५६॥
ज्ञात्वा वुद्बुदभङ्गुरं धनमिदं दीपप्रकम्पं वपु-
स्तारुण्यं तरलेक्षणाक्षितरलं विद्युच्चलं दोर्बलम्।
रे रे जीव गुरुप्रसादवशत किंचिद्विधेहि द्रुतं
दानध्यानतपोविधानविषयं पुण्यं पवित्रोचितम्॥५७॥
श्रीखण्डपादपेनेव कृतं स्वं जन्म निष्फलम्।
जिह्मगानां द्विजिह्वानां संबन्धमनुरुन्धता॥५८॥
किं तर्केण वितर्कितेन शतशो ज्ञातेन कि छन्दसा
किं पीतेन सुधारसेन बहुधा स्वाध्यायपाठेन किम्।
अभ्यस्तेन च लक्षणेन किमहो ध्यानं न चेत्सर्वथा
लोकालोकविलोकनैककुशलज्ञाने हृदि ब्रह्मण॥५९॥
मां बाल्यादपि निर्निमित्तनिविडप्रोद्भूतसख्यश्रियं
दम्भारम्भ विहाय सत्वरतरं दूरान्तरं गम्यताम्।
पश्योन्मीलति मेऽधुना शुभवशाञ्ज्ञानोष्णरश्मिप्रभा
प्रालेयोत्करवद्भवन्त(द्धतं त) मनया द्रक्ष्याम्यहं त्वां कथम्॥६०॥
कारुण्यान्न सुधारसोऽस्ति हृदय द्रोहान्न हालाहलं
वृत्तादस्ति न कल्पपादप इह क्रोधान्न दावानलः।
संतोषादपरोऽस्ति न प्रियसुहृल्लोभान्न चान्यो रिपु-
र्युक्तायुक्तमिदं मया निगदितं यद्रोचते तत्त्यज॥६१॥
औचित्यांशुकशालिनीं हृदय हे शीलाङ्गरागोज्ज्वलां
श्रद्धाध्यानविवेकमण्डनवती कारुण्यहाराङ्किताम्।
सद्बोधाञ्जनरञ्जिनी परिलसच्चारित्रपत्राङ्कुरां
निर्वाणं यदि वाञ्छसीह परमक्षान्तिप्रियां तद्भज॥६२॥
यत्रार्तिर्न मतिभ्रमो न न रतिः ख्यातिर्न नैवोन्नति-
र्न व्याधिर्न धनं ^(…………)न वधो ध्यानं न नाध्येपणा।
नो दास्यं न विलास^(……….) वदनं हास्यं च लास्यं च नो
तत्सांसारिकपुण्यपापरहितं ध्येयं पदं धीधनाः॥६३॥
तावद्भानुकराः प्रकाशनपरा यक्षेश्वरोऽप्यर्थवा-
न्संपूर्णेन्दुमुखीप्रिया प्रियमहीमाधुर्यहृद्या च ^(……)।
……………………………………………………….
……………………………………………………….॥६४॥
…………………………………………………हृदये।
मन्त्ररहस्योद्गारी मन्त्रीव स दूरतस्त्याज्यः॥६५॥
धर्मोऽयं निहतः प्रमादवशतः प्राप्तेऽपि मानुष्यके
कार्पण्येन विडम्बितौ सति धने यैरर्थकामावपि।
अत्यन्तं चलचित्तनिग्रहपरैरप्याप्यते वा न वा
मोक्षः शाश्वतिकः प्रसादसदनं तेषां दवीयान्पुनः॥६६॥
आकाशेऽपि चिराय ति [ ष्ठति ] शिला मन्त्रेण तत्रेण वा
बाहुभ्यामपि तीर्यते जलनिधिर्वेधाः प्रसन्नो यदा।
दृश्यन्ते ग्रहयोगतः सुरपथे प्राह्वेऽपि ताराः स्फुटं
हिंसायां पुनराविरस्ति नियतं गन्धोऽपि न श्रेयसः॥६७॥
निशानां च दिनानां च यथा ज्योतिर्विभूषणम्।
सतीनां च यतीनां च तथा शीलमखण्डितम्॥६८॥
मायया राजते वेश्या शीलेन कुलबालिका।
न्यायेन मेदिनीनाथः सदाचारतया यतिः॥६९॥
यावद्व्याधिविवाधया विधुरतामङ्गं न संसेवते
यावच्चेन्द्रियपाटवं न हरति क्रूरा जरा राक्षसी।
तावन्निष्कलनिश्चलामलपदं कर्मक्षयायाधुना
ध्येयं ध्यानविचक्षणैः स्फुटतरं हृत्पद्मसद्मोदरे॥७०॥
अज्ञानावृतचेतसो मम महाव्यामूढतां^(……………..)
कृत्वा धर्मधनं हृतं यदनिशं वाराणसीधूर्तवत्।
युक्तं तद्विहितं त्वयेदमपि ते युक्तं भवेद्धि द्रुतं
मां पुण्याप्तगुरुप्रसादमधुना संत्यज्य निर्गच्छ रे॥७१॥
तन्नो नागपतेर्भुजंगवनिताभोगोपचारैः परै-
स्तन्नो श्रीसविलाससंगमशतैः सारैर्मुरारेः किल।
तन्नो वज्रधरस्य देववनिताक्रीडारसैर्निर्भरै-
र्यत्सौख्यं बत वीतकाममनसां तत्त्वार्थतो योगिनाम्॥७२॥
मध्यक्षामतया योषित्तपः क्षामतया यतिः।
मुखक्षामतया चाश्वो राजते न तु भूषणैः॥७३॥
तन्व्या श्रोत्ररसा [यनेन वचसा ] सप्रेम संभाषितः
सर्पत्कोपविपाकपाटलरुचा संवीक्षितश्चक्षुषा।
सद्योगान्न तिलाग्रमात्रमपि यः संक्षोभितुं शक्यते
रागद्वेषविवर्जितो विजयते कोऽप्येष योगीश्वर॥७४॥
आताम्रायतलोचनातुरमिदं न्यक्कारवाङ्निन्दितं
बद्धभ्रुकुटिभालभीममधरप्रस्पन्ददुर्दर्शनम्।
व्यालोलालकसंकुलं कृशतनोः कोपेऽपि कान्तं मुखं
पश्यन्ति स्मरविह्वलीकृतहृदो ही कामिनां मूढता॥७५॥
कौशल्यं प्रविलीयते विकलता सर्वाङ्गमाश्लिष्यते
ज्ञानश्रीः प्रलयं प्रयाति कुमतिः प्रागल्भ्यमभ्यस्यति।
धर्मोऽपि प्रपलायते कलयति स्थेमानमंहः परं
यस्माच्छोकवशात्कथं स विदुषां संसेवितुं युज्यते॥७६॥
क्व कफार्तंमुखं नार्याः क्व पीयूषनिधिः शशी।
आमनन्ति तयोरैक्यं कामिनो मन्दबुद्धयः॥७७॥
पाशे कुरङ्गनिवहो न पतत्यविद्वा-
न्दाहात्मतामकलयञ्शलभः प्रदीपे।
जानन्नहं पुनरमून्करिकर्णलोला-
न्भोगांस्त्यजामि न तथापि क एष मोहः॥७८॥
ज्ञानमेव परं मित्रं काम एव परः परः।
अहिंसैव परो धर्मो योपिदेव परा जरा॥७९॥
धिक्कंदर्प जगत्त्रयीविजयिनो दोःस्थामविस्फूर्जितं
विद्वान्कः किल तावकीनमधुना व्यालोकतामाननम्।
दृष्ट्वा यौवनमित्र ^(…….)भवान्सर्पज्जराराक्षसी-
वक्रान्तःपतितं विमुञ्चति न यः कोदण्डकेलिक्रमम्॥८०॥
तृष्णावारितरङ्गभङ्गविलसत्कौटिल्यवल्लीरुह-
स्तिर्यक्प्रेक्षितवाक्प्रपञ्चकबरीपाशभ्रुवः पल्लवाः।
यस्यां मान्ति न तुच्छके हृदि ततः स्थानं बहिः कुर्वते
कस्ताश्चञ्चलचक्षुषःकुशलधीः संसेवितुं वाञ्छति॥८१॥
रे रे मोहहताश तावकमिदं धिक्पौरुषोज्जृम्भितं
विस्रब्धं भवसागरे किल भवान्संयम्य मां क्षिप्तवान्।
संप्रत्याप्तगुरूपदेशफलकः पारं प्रयातोऽस्म्यहं
शोटीर्यंतव विद्यते यदधुना दोष्णोस्तदा दर्शय॥८२॥
रे कंदर्प किमाततज्यमधुना धत्से धनुस्त्वं मुधा
किं भ्रूलास्यकलासु पक्ष्मलदृशः प्रागत्म्यमम्यस्यथ।
वैराग्याम्बुजिनीप्रबोधनपटुः प्रध्वस्तदोषाकरः
खेलत्येष विवेकचण्डकिरणः कस्त्वादृशामुत्सवः॥८३॥
अन्यं प्रियालापपथं नयन्ते किंचित्कटाक्षैरपरं स्पृशन्ति।
अन्यं हृदा कंचन मन्त्रयन्ते धिग्योषितां चञ्चलचित्तवृत्तिम्॥८४॥
याच्ञायै वचनक्रमं रचयतः पादौ परिभ्रान्तये
नेत्रे रोषकषायितानि वदनान्यालोकितुं स्वामिनाम्।
धातश्चेन्न दयालुता तव हृदि स्थानं ववन्ध क्षणं
तत्किं हन्त परिश्रमोऽपि निकटीभूयं ( ? ) न संपन्नवान्॥८५॥
रक्षाकृते धनलवस्य विमूढचेता
लो [भाज्जनः ] किमपि संतनुते प्रयत्नम्।
तल्लक्षकोटिभिरनाप्यमपीदमायुः
कालो निकृन्तति न तन्ननु शङ्कतेऽपि॥८६॥
वन्धो क्रोधविधेहि किंचिदपरं स्वस्याधिवासात्पदं
भ्रातर्मान भवानपि प्रचलतु त्वं देवि माये व्रज।
हंहो लोभ सखे यथाभिलषितं गच्छ द्रुतं वश्यतां
नीतः शान्तरसस्य संप्रति लसद्वाचा गुरूणामहम्॥८७॥
मनो न वैराग्यतरङ्गितं चेद्वृथा तदा दानतपःप्रयासः।
लावण्यमङ्गे यदि नाङ्गनानां मुधा तदा विभ्रमवल्गितानि॥८८॥
विश्वाः कलाः परिचिता यदि तास्ततः कि
तप्तं तपो यदि तदुग्रतरं ततः किम्।
कीर्तिः कलङ्कविकला यदि सा ततः कि-
मन्तर्विवेककलिका यदि नोल्ललास॥८९॥
स्फूर्जल्लोभकरालवक्रकुहरो हुंकारगुञ्जारवः
कामक्रोधविलोललोचनयुगो मायानखश्रेणिभाक्।
स्वैरंयत्र स वम्भ्रमीति सततं मोहाह्वयः केसरी
तां संसारमहाटवीं प्रतिवसन्को नाम जन्तुः सुखी॥९०॥
एकः स वैवस्वत एव देवः शौटीर्यशाली च महाव्रती च।
पशौ च गीर्वाणपतौ च यस्या विभिन्नमुद्रस्य दृशः पतन्ति॥९१॥
एतानि तानि मदनज्वलनेन्धनानि
दूरीकुरुष्व मयि वऋविलोकितानि।
उन्मीलति स्म ललिताङ्ग्यधुना स एव
मन्मानसे शुचिविवेककलाविलासः॥९२॥
प्रत्यक्षो नरकः स एषवसुधापीठे परायत्तते-
त्येवं पूत्कुरुते जनः प्रतिकलं सर्वोऽपि विद्वानिह।
तन्नारी (?) वशवर्तिनोऽपि विषयान्कण्डूतिकल्पानयं
रोमाञ्चाङ्कुरचविताङ्गलतिकः किं नाम नैवोज्झति॥९३॥
ता एवैताः कुवलयदृशः सैषकालो वसन्त-
स्ता एवान्तः शुचिवनभुवस्ते वयं ते वयस्याः।
किं तूद्भूतः स खलु हृदये तत्त्वदीपप्रकाशो
येनेदानीं हसति हृदयं यौवनोन्मादलीलाः॥९४॥
को देवो वीततमाः कः सुगुरुः शुद्धमार्गसंभाषी।
किं परमं विज्ञानं स्वकीयगुणदोषविज्ञानम्॥९५॥
यत्कारुण्यहिरण्यजं न न च यत्सन्मार्गताम्रोद्भवं
नो यत्संयमलोहजन्म न च यत्संतोषमृत्स्नामयम्।
यद्योग्यं न तपोविधानदहनज्वालावलीतेजसां
सिद्धिं याति कथं नृधान्यनिकरस्तस्मिन्कुपात्रे श्रितः॥९६॥
हे मोहाहत जीव हुं शृणु वचः श्रद्धास्ति चेत्कथ्यतां
प्राप्तं किंचन सत्फलं भवमहाटव्यां त्वया भ्राम्यता।
भ्रातर्नैव तथाविधं किमपि तन्निर्वाणदं तर्हिकिं
शून्यं पश्यसि पङ्गुवन्ननु गतं नोपक्रमे तिष्ठति॥९७॥
शौक्ल्येहंसवकोटयोः सति समे यद्वद्गतावन्तरं
कार्ष्ण्येकोकिलकाकयोः किल यथा भेदो भृशं भाषिते।
पैत्ये हेमहरिद्रयोरपि यथा मूल्ये विभिन्नार्घता
मानुष्ये सदृशे तथार्यखलयोर्दूरं विभेदो गुणैः॥९८॥
त्वदृष्टिपातनिहताः खलु तेऽन्य एव
धैर्यब्रतं सुतनु ये परिमार्जयन्ति।
अन्ये त्वमी शुचिविवेकपवित्रचित्ता-
स्तत्किं विडम्बयसि मन्मथविभ्रमैः स्वम्॥९९॥
संपत्स्यते मम कदाचन तद्दिनं कि
सद्ध्यानरूढमनसः सततं भवेयुः।
आनन्दविन्दुविशदानि सुधामयानि
यत्रेक्षितानि मयि मुक्तिमृगेक्षणायाः॥१००॥
ललितं सत्यसंयुक्तं सुव्यक्तं सततं मितम्।
ये वदन्ति सदा तेषां स्वयं सिद्धैव भारती॥१०१॥
सिक्तः श्रीजिनवल्लभस्य सुगुरोः शान्तोपदेशामृतेः
श्रीमन्नागपुरे चकार सदनं श्रीनेमिनाथस्य यः।
श्रेष्ठी श्रीधनदेव इत्यभिधया ख्यातश्च तस्याङ्गजः
पद्मानन्दशतं (इति) व्यधत्त सुधियामानन्दसंपत्तये॥१०२॥
संपूर्णेन्दुमुखीमुखे न च न च श्वेतांशुविम्वोदये
श्रीखण्डद्रवलेपने न च न च द्राक्षारसास्वादने।
आनन्दः स सखे न च क्वचिदसौ कि भूरिभिर्भाषितैः
पद्मानन्दशते श्रुते किल मया यः स्वादितः स्वेच्छया॥१०३॥
इति श्रीपद्मानन्दप्रणीत वैराग्यशतकम्।
————
श्रीजिनप्रभसूरिविरचितः
सिद्धान्तागमस्तवः।
सावचूरिः
_______________
ध्यायन्ति श्रीविशेषाय गतावेशा लयेन यम्।
स्तुतिद्वारा जयश्रीदः श्रीवीरगुरुगो रवः॥
पुरा श्रीजिनप्रभसूरिभिःप्रतिदिन नवस्तवनिर्माणपुरःसरं निरवद्याहारग्रहणाभिग्रहवद्भिः प्रत्यक्षपद्मावतीदेवीवचसामभ्युदयिन श्रीतपागच्छं विभाव्य भगवतां श्रीसोमतिलकसूरीणां स्वशैक्षशिष्यादिपठनविलोकनाद्यर्थ यमकश्लेषचित्रच्छन्दोविशेषादिनवनवभङ्गीसुभगाः सप्तशतीमिताः स्तवा उपदीकृता निजनामाङ्किताः। तेष्वय सर्वसिद्धान्तस्तवो बहूपयोगित्वाद्विव्रियते—
नत्वा गुरुभ्यः श्रुतदेवतायै सुधर्मणे च श्रुतभक्तिनुन्नः।
निरुद्धनानावृजिनागमानां जिनागमानां स्तवनं तनोमि॥१॥
गुरुभ्यः श्रुतदेवतायै सरस्वत्यै सुधर्मणे च पश्चमगणधराय नत्वा।त्रिषु नतिक्रिया।‘अभिप्रेयत्वाच्चतुर्थी’ इति सूत्रेण संप्रदानाच्चतुर्थी। श्रुतभक्तिप्रेरितोऽहं निरुद्धा रुद्धा नाना अविरतिकषायादिभिर्बहुविधानां वृजिनानां पापानामागमाः प्रसरणानि यैस्तेषां जिनागमानां श्रीवीरसिद्धान्तानां स्तवनं तनोमि करोमि॥
सामायिकादिकपडध्ययनस्वरूप-
मावश्यकं शिवरमावदनात्मदर्शम्।
निर्युक्तिभाष्यवरचूर्णिविचित्रवृत्ति-
स्पष्टीकृतार्थनिवहं हृदये वहामि॥२॥
अवश्यकरणादावश्यकम्। सामायिकादिकानि सामायिक-चतुर्विंशतिस्तव-वन्दनकप्रतिक्रमण-कायोत्सर्ग-प्रत्याख्यानरूपाणि यानि षडध्ययनानि तत्स्वरूपम्। शिवरमाया (मोक्षलक्ष्म्याः)वदनात्मदर्श दर्पणतुल्यम्। पुनः किंविशिष्टम्। निर्युक्तिः श्रीभद्रबाहुकृता एकत्रिंशच्छतप्रमाणा। भाष्य सूत्रार्थ- प्रपञ्चनम्। वरावचूर्णिरष्टादशसहस्रप्रमाणा पूर्वेर्षिविहिता। विचित्रवृत्तिरनुगतार्थकथनं द्वाविंशतिसहस्रप्रमाणम्। एताभिः स्पष्टीकृतोऽर्थनिवहो यस्य तथाविध हृदये वहामि स्मरामि॥
युक्तिमुक्तास्वातिनीरं प्रमेयोर्मिमहोदधिम्।
विशेषावश्यकं स्तौमि महाभाष्यापराह्नयम्॥३॥
युक्तय एव मुक्ता मौक्तिकानि तासां निष्पादकत्वात्स्वातिनीरम्।प्रमेयाः पदार्थास्त एवोर्मयः कल्लोलास्तेषां महोदधिम्। महाभाष्यमित्यपर आहृयो यस्य तद्विशेषावश्यक स्तौमि॥
दशवैकालिकं मेरुमिव रोचिष्णुचूलिकम्।
प्रीतिक्षेत्रं सुमनसां सत्कल्याणमयं स्तुमः॥४॥
विकालेनापराह्णरूपेण निर्वृत्तानि वैकालिकानि दशाध्ययनानि यत्र तद् शय्यंभवसूरिकृतं दशवैकालिक मेरुमिव रोचिष्णू चूलिके इह
खःचूलिपरूपे
यत्र। पक्षे चत्वारिंशद्योजनमाना। सुमनसामुत्तमाना पक्षे देवाना प्रीतिस्थानम्। सत्कल्याणमयं श्रेयोमयं पक्षे सुवर्णमयं स्तुमः॥
उद्धामुपोद्घातविकल्पकालभेदप्रभेदप्रतिभेदरूपाम्।
मिताभिधानाममिताभिधेयां नौम्योघनिर्युक्तिममोयुक्तिम्॥५॥
उद्धां प्रशस्यां मिताभिधाना स्तोकशब्दाममिताभिधेया बह्वर्थाममोघयुक्तिं सफलयुक्तिमोघनियुक्तिं नौमि स्तौमि। किंविशिष्टाम्। उपोद्घातः शास्त्र- स्यादिस्तस्य विकल्पा द्वाराणि ‘उद्देसे निद्देसे निग्गमे’ इत्यादीनि षड्विंशतिः। तत्र विकल्परूपास्तस्य भेदा एकादश नामस्थापनाद्रव्यादयः ‘दव्वे अट्ठअहाउ अउवक्कमे इत्यादिगाथोक्तास्तेषु पष्टभेदस्योपक्रमकालस्य प्रभेदौ सामाचार्युपक्रमकालः यथायुष्कोपक्रमकालच। तयोः प्रयमस्य त्रयः प्रतिभेदाः ओघसामाचारी इच्छाकारादिदशविधसामाचारी पदविभागसामाचारी च त्रिषु ओघःसामान्य संक्षेपाभिधानरूपा सामाचारी तद्रूपा ओघनि- र्युक्तिः श्रीभद्रराहुस्वामिना नवमपूर्वात्तृतीयादाचाराभिधवस्तुनो विंशतितमप्राभृतान्निर्व्यूढासाप्रतिकसाधूनां हितायास्मिन्काले स्थिरीकृता श्रीआवश्यक- निर्युक्तौ गणधरवादस्याग्रे संप्रति च सुखपाठाय पृथग्ग्रन्यरूपा विहितास्ति ताम्॥
पिण्डविधिप्रतिपत्तावखण्डपाण्डित्यदानदुर्ललिताम्।
ललितपदश्रुतिमिष्टामभिष्टुमः पिण्डनिर्युक्तिम्॥६॥
पिण्डस्याहारस्य विधिर्दोषरहितत्वेन विशुद्धस्तज्ज्ञाने संपूर्णकौशलवितग्णसक्ता ललितानां सुकोमलानां पदानां श्रुतिः श्रवणं तथा मिष्टा (मृष्टां ) मधुरां पिण्डनिर्युक्तिवयमभिष्टुमः॥
प्रवचननाटकनान्दी प्रपञ्चितज्ञानपञ्चकसतत्त्वा।
अस्माकममन्दतमं कन्दलयतु नन्दिरानन्दम्॥७॥
प्रवचनं जिनमतमेव नाटकं तत्र नान्दी द्वादशतूर्यनिर्घोष।तन्मूलत्वान्नाटकस्य। प्रपञ्चितं प्रकटीकृत ज्ञानपञ्चकस्य मतिश्रुतावधिमनःपर्ययकेवल- ज्ञानस्पस्य सतत्त्व स्वरूपंयया सा नन्दिरस्माकममन्दतम बहुतरमानन्दं कन्दलयतु वर्धयतु।
अनुयोगद्वाराणि द्वाराणीवापुनर्भवपुरस्य।
जीयासुः श्रुतसौधाधिरोहसोपानरूपाणि॥८॥
श्रुतमेव सौध गृह तदरोहे सोपानरूपाणि अपुनर्भवपुरस्य मोक्षनगरस्य द्वाराणीवानुयोगद्वाराणि जीयासुः॥
अनवमनवमरससुधाह्वदिनींषट्त्रिंशदुत्तराध्ययिनीम्।
अञ्चामि पञ्चचत्वारिंशतमृषिभाषितानि तथा॥९॥
अनवमो रम्यो यो नवमो रसः शान्ताख्यः स एव सुधामृतं तस्य हृदिनी नदीं षट्त्रिंशद्यान्युत्तराणि प्रधानान्यध्ययनानि [यस्यां] तामहमञ्चयामिपूजयामि। तथा पञ्चचत्वारिंशतं श्रीनेमिपार्श्वश्रीवीरतीर्थवर्तिभिर्नारदादिभिः प्रणीतानध्ययनविशेषान्॥
उच्चैस्तरोदञ्चितपञ्चचूडमाचारमाचारविचारचारु।
महापरिज्ञास्थनभोगविद्यमाद्यं प्रपद्ये गमनं गजेन्द्रम्॥१०॥
आचारविचारचारु योगानुष्ठानपूर्वंयथा स्यादेवम् आचारप्रतिपादकत्वादाचारं नामाद्यमङ्गमहं प्रपद्ये श्रये। किंविशिष्टम्। उच्चैस्तराः शब्दार्थाभ्याम- तिशायिन्य उदञ्चिताः प्रकटीकृता पञ्च चूडायेन तत्। उक्तशेषानुवादिनोऽधिकारविशेषाश्चुडासंज्ञाः। पुनः किंविशिष्टम्।महापरिज्ञानामाध्यायनं तत्रस्था आकाशगामिनीविद्या तस्य। तत एवोद्धृत्य श्रीवज्रस्वामिना प्रभावना कृता॥
त्रिषष्टिसंयुक्तशतत्रयीमितप्रवाददर्पाद्रिविभेद
ह्नादिनीम्।
द्वयश्रुतस्कन्धमयं शिवश्रिये कृतस्पृहः सूत्रकृदङ्गमाद्रिये॥११॥
श्रुतस्कन्धद्वयरूपं सूत्रकृदङ्ग शिवत्रिये कृतस्पृहोऽहमाद्रिये आश्रयामि। किंविशिष्टम्। त्रिषष्ट्यधिकशतत्रयीमिता ये प्रवादिनः क्रियावादिप्रभृतयस्तेषां दर्पाद्रिविभेदे
ह्वादिनीं वज्रसमम्॥
स्थानाङ्गाय दशस्थानस्थापिताखिलवस्तुने।
नमामि कामितफलप्रदानसुरशाखिने॥१२॥
कामितफलप्रदानसुरशाखिने तिष्ठन्ति प्रतिपाद्यजीवादयः पदार्था [येषु] इति स्थानान्यधिकारविशेषाः। तथाहि—‘तनुइन्दा^(……..)कम्म बन्धन्ति’ इत्या- दयः। एवमेतेषु दशस्थानेषु स्थापितान्यखिलवस्तूनि यत्र तस्मै स्थानाङ्गायाहं नमामि। ‘विवक्षातः कारकाणि भवन्ति’ इति न्यायात्स्थानाङ्गायेति संप्रदानम्॥
तत्तत्संख्याविशिष्टार्थप्ररूपणपरायणम्।
संस्तुमः समवायाङ्गं समवायैः स्तुतं सताम्॥१३॥·
तास्ता एकादिदशान्ताः संख्यास्ताभिर्विशिष्टा येऽर्थास्तेषां प्ररूपण कथन तत्र परायणं तत्परं सतां समवायैः समूहैः स्तुतं समवायाङ्गंवयं स्तुमः॥
या षट्त्रिंशत्सहस्रान्प्रतिविधिसजुषां विभ्रतो प्रश्नवाचां
चत्वारिंशच्छतेषु प्रथयति परितः श्रेणिमुद्देशकानाम्।
रङ्गद्भङ्गोत्तरङ्गानयगमगहना दुर्विगाहा विवाह -
प्रज्ञप्ती पञ्चमाङ्कं जयति भगवती सा विचित्रार्थकोषः………॥१४॥
या प्रतिविधिरुत्तरं तेन सहितानां प्रश्नवाचा षट्त्रिंशत्सहस्रान्यिभ्रती दयती या चत्वारिंशच्छतेष्वधिकारविशेषेषूद्देशकानां श्रेणिं परितसर्वतः प्रथयति सा विवाहप्रज्ञप्ती नाम्नी पश्चमाङ्ग रङ्गन्तो ये भङ्गा रचनाविशेषास्तैरुत्तरङ्गा उत्कल्लोला तया युक्तयो गमाः सदृशपाठास्तैर्गहना ग्रन्थिला अकुशलैर्दुर्विगाहा विचित्रार्थकोषोजयति। भगवतीति पूज्याभिधानम्॥
कथानकानां यत्रार्धचतस्रः कोटयः स्थिताः।
सोत्क्षिप्तादिज्ञातहृद्या ज्ञातधर्मकथाः श्रये॥१५॥
यत्रार्धचतस्रः कथानकानां कोटयः स्थिता सा ज्ञातधर्मकथा नाम पष्टमङ्गमुत्क्षिप्तादिभिर्ज्ञातैर्दृष्टान्तैर्हृद्या श्रियेऽस्तु (श्रये)॥
आनन्दादिश्रमणोपासकदशकेतिवृत्तसुभगार्थाः।
विशदामुपासकदशा भावदृशं मम दिशन्तु सदा॥१६॥
आनन्दादयः श्रमणोपासकास्तेषां दशकं तस्येतिवृत्तानि चरितानि तैः सुभागार्या उपासकदशा नाम सप्तमाङ्ग विशदां भावदृशं मम सदा दिशन्तु॥
महद्दषिमहासतीनां गौतमपद्मावतीपुरोगाणाम्।
अधिकृतशिवान्तसुकृताः स्मरतोच्चैरन्तकृद्दशाः कृतिनः॥१७॥
गौतमपद्मावतीप्रमुखाणां महर्षीणां महासतीनामधिकृतानि प्रकटितानि शिवान्तानि सुकृतानि यासु ता अन्तकृद्दशा हे कृतिनः उच्चैर्यूय स्मरत॥
गुणैर्यदध्ययनकलापकीर्तिता अनुत्तरा प्रशमिषु जालिमुख्यकाः।
अनुत्तरश्रियमभजन्ननुत्तरोपपातिकोपपददशाः श्रयामि ता॥१८॥
यदध्ययनकलापे कीर्तिताः कथिताः प्रशमिषु ऋषिषु गुणैश्वारित्रादिभिरनुत्तरा प्रधानाः। जालिमुख्यका जालिर्नाम ऋषि स एव मुख्योयेषां ते जालि- मुख्यका।स्वार्थे कप्रत्यय’।अणुत्तराणि विजयादीनि पञ्चविमानानि तेषां श्रियमभजन्।अनुत्तरोपपातिकमित्युपपदं पूर्वपदं यासां ता अनुत्तरोपपाति- कदशा अहं श्रयामि॥
अङ्गुष्ठाद्यवतरदिष्टदेवतानां विद्यानां भवनमुदात्तवैभवानाम्।
निर्णीताश्रयविधिसंवरस्वरूपा प्रश्नव्याकरणदशा दिशन्तु शं नः॥१९॥
अङ्गुष्ठादिषु आदिशब्दाद्दीपजलादिष्ववतारोऽवतरणं तेन दिष्टाः कथिता देवता यासां तासामुदात्तवैभवानामुत्कृष्टमहिम्नां विद्यानां भवनं स्थानम्।आश्रवविधिः कर्म पुद्गलानां सवरस्तन्निरोधः।निर्णीत तयोः स्वरूपं यासु ताः प्रश्नव्याकरणदशा दशमाङ्गंनोऽस्माकं शं सुखं दिशतु॥
ज्ञातैर्मृगापुत्रसुबाहुवादिभिः शासद्विपाकं सुखदुःखकर्मणाम्।
द्विः पङ्क्तिसंख्याध्ययनोपशोभितं श्रीमद्विपाकश्रुतमस्तु नः श्रिये॥२०॥
मृगापुत्रसुबाहुवादिभिर्दृष्टान्तैः सुखदुःखकर्मणां विपाकं परिणामं शासच्छिक्षयत्। ज्ञापयदित्यर्थः। केषाम्। भव्यजीवानामिति गम्यम्। विंशत्यध्ययनालं- कृतं श्रीमद्विपाकश्रुतमेकादशमङ्गंनः श्रियेऽस्तु। सुबाहुवादिभिरित्यत्र ‘इवर्णादेः’ इत्यनेन सूत्रेण परतो वत्वम्। एतान्यप्येकादशान्यङ्गानि श्रीसुधर्मस्वामिना रचितानि। अन्येषां गणभृता पूर्वनिर्वृतत्वेन सर्वगणधरशिष्याणामेतद्वाचनाग्रहणात्। अत एवादौश्रीसुधर्मा नमस्कृतः॥
प्रणिधाय यत्प्रवृत्ता शास्त्रान्तरवर्णनातिदेशततिः।
नमतोपपातिकं तत्प्रकटयदुपपादवैचित्रीम्॥२१॥
यत्प्रणिघाय स्मृत्वा शास्त्रान्तरेषु पदार्थवर्णनातिदेशनाततिः श्रेणि प्रवृत्ताः। अतिदेशोऽन्यत्र विस्तरेण प्ररूपितस्य वस्तुनः सक्षेपेण कथनम्। तदुप- पातिकमाचाराङ्गोपाङ्गंदेवनारकाणामुपपाद उत्पादस्तस्य वैचित्रीं प्रकटयत् हे विद्वांसः, यूयं नमत।आचाराङ्गस्य शास्त्रपरिज्ञाध्ययनाख्ये द्वे शतके। सूत्रमिदं ‘एवमेगे सिनोनायं भवइ’ इत्यादि। अत्र सूत्रे यदौपपातिकत्वमात्मनो निर्दिष्ट तदत्र प्रपञ्च्यत इत्यर्थ। अङ्गस्योपसमीप उपाङ्गम्॥
सूर्याभवैभवविभावनहृष्टतीर्थ-
प्रश्नादनन्तरमिनानननिर्गतेन।
केशिप्रदेशिचरितेन विराजि राज-
प्रश्नीयमिद्धमुपपत्तिशतैर्महामि॥२२॥
सूर्याभदेवस्य वैभवमृद्धिस्तस्य विभावनेनीक्षणेन हृष्ट यत्तीर्थंप्रथमगणधरश्चचतुर्विधः सघो वा तस्य प्रश्नात्पृच्छाया अनन्तरमिनस्य श्रीवीरस्याननं मुखं ततो निर्गतेन। केशी गणभृत् प्रदेशी च राजा तयोश्चरितेन विराजि शोभि। उपपत्तिशतैर्युक्तिशतैरिद्धं दीप्त राजप्रश्नीयं सूत्रकृदुपाङ्गमहं महामि। प्रदेशी केशिना प्रतियोधितो देवत्वमाप्य श्रीवीरं वन्दितुं समवसृतौ गतः तत्रात्यद्भुत तस्य तेजो वीक्ष्य श्रीसघेन प्रश्नः कृतः सर्वेभ्यो देवेभ्यो किमित्ययमुत्कृष्ट इति॥
जीवाजीवनिरूपिद्वेधाप्रतिपत्तिनवककमनीयम्।
जीवाभिगमाध्ययनं ध्यायेमासुगमगमगहनम्॥२३॥
जीवाजीवनिरूपिण्यौया द्वेधा द्विप्रकाराः प्रतिपत्तयोऽधिकारास्तासा नवकेन रम्यम्।असुगमा विषमा ये गमास्तैर्गहनं जीवाभिगमाध्ययन स्थानाङ्गोपाङ्गं ध्यायेम।जीवानामुपलक्षणादजीवानामप्यभिगमो ज्ञान यत्र तत्॥
षट्त्रिंशता पदैर्जीवाजीवभावविभावनीम्।
प्रज्ञापनां पनायामि श्यामार्यस्यामलं यशः॥२४॥
षट्त्रिंशता पदैरधिकारैर्जीवाजीवभावप्ररूपिका प्रज्ञापनां समवायाङ्गोपाङ्ग पनायामि स्तौमि। श्यामार्यस्य कालिकाचार्यस्यामलं यशः। तत्र तदधि- कारात्॥
विवृताद्यद्वीपस्थितिजिनजनिमहचक्रिदिग्विजयविधये।
भगवति जम्बूद्वीपप्रज्ञप्ते तुभ्यमस्तु नमः॥२५॥
हे भगवति, जम्बूद्वीपप्रज्ञप्ते, पञ्चमाङ्गपाङ्ग^(………) विवृता प्रकटिता आद्यद्वीपस्य स्थितिर्जिनजन्ममहश्चक्रिणो दिग्विजयविधिश्च यया सा। तुभ्यं नमोऽस्तु॥
प्रणमामि चन्द्रसूर्यप्रज्ञप्ती यमलजातके नव्ये।
गुम्फवपुषैव नवरं नातिभिदार्थात्मनापि ययोः॥२६॥
चन्द्रसूर्यप्रज्ञप्ती चन्द्रसूर्यविचारप्रतिपादके यमलजातके सहजाते नवरं केवलं गुम्फवपुषैव गुम्फेनैव नव्ये भिन्नग्रन्थरूपे अहं प्रणमामि। ययोरर्थात्म- नापि नातिभिदा भेदः। अपिशब्दाच्छब्दतोऽपि॥
कालादिकुमाराणां महाहवारम्भसंभृतैर्दुरितैः।
दर्शितनरकातिथ्या निरयावलिका विजेपीरन्॥२७॥
कालादिदशकुमाराणां चेटककोणिकवैरे महाहवारम्भसभृतैर्महायुद्धारम्भोपार्जितैःपापैर्दर्शितं नरकातिथ्यं नरकभवप्राप्तिर्याभिस्ता निरयावलिका विजेपीरन्विजयन्ताम्। तत्र कालादिकुमाराणां वर्णनात्॥
पद्मादयः कल्पवतंसभूयमुपेयिवांसः सुकृतैः शमीशाः।
यत्रोदिताः श्रेणिकराजवंश्या उपास्महे कल्पवतंसिकालाः॥२८॥
श्रेणिकराजवंश्याः पद्मादयः शमीशा ऋषयः सुकृतैः कल्पवतंसभूयंदेवत्वमुपेयिवांमः प्राप्ता यत्रोदिताः कथितास्ताः कल्पवतसिका
वय- मुपास्महे।^(…………….)॥
चन्द्रसूर्यवहुपुत्रिकादिभिर्यत्र संयमविराधनाफलम्।
भुज्यमानमगृणाद्गणाधिपः पुष्पिकाः शमभि
पुष्पयन्तुनः॥२९॥
यत्र संयमविराधनायाः फल चन्द्रसूर्यौ राजानोपूर्वभवे गृहीतदीक्षोबहुपुत्रिकानपत्या पूर्वभवे प्रब्रजिता ^(…..’)अगृणाजगाद ताः पुष्पिकाः शं सुखमभिपु- ष्पयन्तूत्फुल्लयन्तु। यत्र ग्रन्थेऽङ्गिनोग्रहवासत्यागेन संयमभावपुष्पिता वर्णिताः (?)॥
श्रीह्रीप्रभृतिदेवीनां चरित्रं यत्र सूत्रितम्।
ताः सन्तु मे प्रसादानुकूलिकाः पुष्पचूलिकाः॥३०॥
श्रीह्रीप्रभृतिदेवीनां चरित्रं परिवारादिस्वरूप यत्र सूत्रितं कथितं ता पुष्पचूलिका मे मम प्रसादानुकूलिकाप्रसादतत्पराः सन्तु॥
वृष्णीनां निषधादीनां द्वादशानां यशःस्रजः।
पुष्णन्तु भक्तिनिष्ठानां दशां वृष्णिदशाः शुभाम्॥३१॥
निषधादीनां राज्ञा वृष्णीनामन्धक^(……..)वृष्णिदशा भक्तिपरायणानां शुभां दशा पुष्णन्तु॥
नन्द्यनुद्योगद्वारयोः पूर्वेकथनादार्याद्वयेन त्रयोदशप्रकीर्णकानि स्तौति—
वन्दे मरणसमाधिं प्रत्याख्याने महातुरोपपदे।
संस्तारचन्द्रवेध्यकभक्तपरिज्ञाचतुःशरणम्॥३२॥
वीरस्तवदेवेन्द्रस्तगच्छाचारमपि च गणिविद्याम्।
द्वीपाव्धिप्रज्ञप्तिंतण्डुलवैतालिकं च नुमः॥३३॥
अह वन्दे मरणसमाधिम्। प्रत्याख्याने महा इति आतुर इत्युपपदे ययोस्ते। महाप्रत्याख्यानमातुरप्रत्याख्यान च। सस्तार-चन्द्रवेध्यक-भक्तपरिज्ञा-चतुःशरणमिति समाहारः। वीरस्तवं-देवेन्द्रस्तवं- गच्छाचारं गणिविद्यां द्वीपाब्धिप्रज्ञप्तिं तण्डुलवैतालिकं च वयं नुमः। सर्वेषां नामार्थाः पाक्षिकसूत्रावचूर्णौ सन्ति॥
शिवाध्वदीपायोद्धातानुद्धातारोपणात्मने।
चित्रोत्सर्गापवादाय निशीथाय नमोनमः॥३४॥
मोक्षमार्गदीपाय उद्धातो गुरुप्रायश्चित्तविशेषः। अनुद्धातस्तु तद्विपरीतः। लघुरित्यर्थः। तयोरारोपणमुचितस्थाने प्रयोजन तदात्मा स्वरूपं यस्य स तस्मै उद्धातानुद्धातारोपणात्मने। चित्रा विविधा उत्सर्गापवादा यत्र। उत्सर्गे मुख्यमार्गः। अपवादः करणे प्रतिषिद्धसेवा। निशीथमर्धरात्रस्तद्वद्रहोभूतं यदध्ययन तन्निशीथं तस्मै निशीथाचाराङ्गपञ्चमचूढायै नमोनमः॥
निर्युक्तिभाष्यप्रमुखैर्निबन्धैः सहस्रशाखीकृतवाच्यजातम्।
दशाश्रुतस्कन्धमनात्तगन्धं परैः सकल्पव्यवहारमीडे॥३५॥
निर्युक्तिभाष्यप्रमुखैर्निवन्धैः सहस्रशाखीकृतं विस्तारितं वाच्यजातं यत्र तं दशाध्य-
यनानां श्रुतस्कन्धं दशाश्रुतस्कन्ध परैः परमतिभिरनात्तगन्धम्। कल्पः साध्वाचारस्तत्प्रतिपादको ग्रन्थोऽपि कल्पः। व्यवहारः प्रतीतार्थस्तत्प्रतिपादको ग्रन्थोऽपि व्यवहारः। ताभ्यां सह वर्तते यः स कल्पव्यवहारस्तमीडे स्तुवे॥
षट्सप्तपङ्क्तिविंशतिपङ्गुणसप्तप्रकारकल्पानाम्।
विस्तारयिता कल्पितफलदः स्वात्पञ्चकल्पो नः॥३६॥
षट् सप्त पक्तिर्दशा विंशतिः पङ्गुणसप्त द्विचत्वारिंशत् एतत्प्रकारा ये कल्पास्तेषाविस्तारयिता पञ्चकल्पो नोऽस्माकं कल्पितफलदो वाञ्छितफल- प्रदः स्तात्॥
लेभे य
द्व्यवहारेणाधुनान्त्येनापि मुख्यता।
तं जीतकल्पमाकल्पकल्पं तीर्थश्रियः श्रये॥३७॥
अन्त्येनापि यद्व्यवहारेण यदाचारेणाधुना मुख्यता लेभे। एतदाधारेणैव प्रायश्चित्तविधिप्रवृत्तेः। तं जीतकल्प तीर्थश्रियशासनरमाया आकल्पकल्पं वेष- तुल्यं श्रये। व्यवहारा पञ्च। आगम श्रुतमाज्ञा धारणा जीतं चेति सन्ति। ^(……………..)। एवं जीतव्यवहारोऽन्त्यः।
अञ्चामि पञ्चघ्ननवप्रमाणमाचाम्लसाध्यं कुमतैरवाध्यम्।
महानिशीथं महिमौषधीनां निशीथिनीशं शिववीथिभूतम्॥३८॥
पञ्चघ्ननवतिः पञ्चचत्वारिंशत् तत्प्रमाणैराचाम्लैः (?) साध्यम्। कुमतैरवाध्यम्। महिमान ओषध्यस्तासां निशीथिनीशं चन्द्रम् \। वृद्धिप्रापकत्वात्। मोक्ष- मार्गभूत महानिशीथमञ्चामिपूजयामि॥
निर्युक्तिभाष्यवार्तिकसंग्रहणीचूर्णिटिप्पनकटीका।
सर्वेषामप्येषां चेतसि निवसन्तु न सततम्॥३९॥
निर्युक्तिः सूत्रोक्तार्थभेदप्ररूपिका। भाप्यं सूत्रोक्तार्थप्रपञ्चकम्। वार्तिकमुक्तानुक्तदुरुक्तार्थानां चिन्ताकारि। सग्रहणी सूत्रार्थस्य सग्राहिका। चूर्णिरव- चूर्णि। टिप्पनक विषमपदव्याख्या।टीका निरन्तरव्याख्या। एता एषां सर्वेषामपि पूर्वोक्तग्रन्थाना नश्चेतसि सततं निवसन्तु॥
परिकर्मसूत्रपूर्वानुयोगगतपूर्वचूलिकाभेदम्।
ध्यायामि दृष्टिवादं कालिकमुत्कालिकं श्रुतं चान्यत्॥४०॥
परिकर्म सप्तभेदम्। सूत्राणि द्वादशभेदानि। पूर्वानुयोगो द्विधा प्रथमानुयोग कालानुयोगः। प्रथमे जिनचक्रिदशारचरितानि। कालानुयोगेऽर्धतो जिनैः शब्दनो गणधरैश्चपूर्वे रचितत्वात् पूर्वाणि चतुर्दशापि पूर्वगतम्। चूलिका उक्तशेप
नाप्या(?)।एतेपश्च भेदा यस्य तम्। दृष्टयो दर्शनानि तासां वदनं दृष्टिवादस्तं ध्यायामि। च पुनर-
न्यत्कालिकमगाढायोगसाध्यमुत्कालिकमनागाढायोगसाध्य ध्यायामि। श्रुतं हि द्विधा —
अङ्गप्रविष्टमनङ्गप्रविष्टं च।
…………….
॥
यस्या भवन्त्यवितथा अद्याप्येकोनषोडशादेशाः।
सा भगवती प्रसीदतु ममाङ्गविद्यानवद्यविधिसाध्या॥४१॥
यस्या अद्याप्येकोनषोडश पश्चदशादेशाः स्वप्नादिष्वतीतानागतवर्तमानकथनान्यवितथाः सत्या भवन्ति सा अङ्गविद्या भगवती अनवद्यविधिसाध्या मम प्रसीदतु॥
वन्दे विशेषणवतीं संमतिनयचक्रवालतत्त्वार्थान्।
ज्योतिष्करण्डसिद्धप्राभृतवसुदेवहिण्डींश्च॥४२॥
विशेषणवती सपत्। एतान्ग्रन्थानह वन्दे॥
कर्मप्रकृतिप्रमुखाण्यपराण्यपि पूर्वसूरिचरितानि।
समयसुधाम्बुधिपृतान्परिचिनुमः प्रकरणानि चिरम्॥४३॥
कर्मस्वरूपप्रतिपादको ग्रन्थः कर्मप्रकृतिः। तत्प्रमुखाण्यपराण्यप्यनुक्तानि पूर्वसूरिचरितानि प्रकरणानि चिरं परिचिनुमः सुपरिचितानि कुर्मः। सिद्धान्तोदधिबिन्दुप्रायाणि॥
व्याकरणच्छन्दोलंकृतिनाटककाव्यतर्कगणितानि।
सम्यग्दृष्टिपरिग्रहपूतं जयति श्रुतज्ञानम्॥४४॥
व्याकरणादिक मिथ्यादृग्भिः कृतमपि सम्यग्दृष्टयो देवास्तैपरिग्रहः स्वीकृतिस्तया पूत श्रुतज्ञान जयति॥
सर्वश्रुताभ्यन्तरगां कृतैनस्तिरस्कृतिं पञ्चनमस्कृतिं च।
तीर्थप्रवृत्तेः प्रथमं निमित्तमाचार्यमत्रं च नमस्करोमि॥४५॥
कृतपापतिरस्कारां सर्वसिद्धान्तमध्यगां पञ्चनमस्कृतिं पञ्चनमस्कारं शासनप्रवृत्तेः प्रथम निमित्तमाचार्यमन्त्र च नमस्करोमि॥
इति भगवतः सिद्धान्तस्य प्रसिद्धफलप्रथां
गुणगणकथां कण्ठे कुर्याज्जिनप्रभवस्य यः।
वितरतितरां तस्मै तोषाद्वरं श्रुतदेवता
स्पृहयति च सा मुक्तिश्रीस्तत्समागमनोत्सवम्॥४६॥
इत्यमुना प्रकारेण भगवतः सिद्धान्तस्य जिनप्रभवस्य जिनप्रणीतस्य यः पुरुषो गुणा^(…………………..)माहात्म्यादयस्तेषां गणः समूहस्तस्य कथां जल्पनमेतत्स्तवरूपा कण्ठे कुर्यात्पठति। कथंभूताम्। प्रसिद्धा सर्वविद्भिर्ज्ञाता फलानां ‘कुत्रचिन्नगरे बहुपद्मपरि-
वृतं महापुण्ढरीकं देवताधिष्टित सरस्यास्ते तच्च केनापि ग्रहीतुं न शक्यते। राज्ञोक्तंय एतदानयति तद्धर्ममहं प्रतिपद्य इति। यदा परतीर्थिकैरुपक्रमे- णाप्यादातु न शक्त मन्त्रिणा जैनर्षिराकारितः। तेन च सचित्तजलास्पर्शिना (?) त्रिः प्रदक्षिणीकृत्य पालिस्थेनैव ‘उप्पाहि पुण्ढरीया’ इत्यादि पुण्डरीका- ध्ययन पेठे। ततस्तत्पुण्डरीकमुत्प्लुत्य
राज्ञोऽङ्के,पपात। तदनु सपरिकरो राजा जैनोऽजनि।’ इत्यादीनां प्रथा विस्तारो यत्यास्तां प्रसिद्धफलप्रथाम्। तस्मै श्रुतदेवता वर वितरति दत्ते। सा मुक्तिश्रीस्तत्समागमनोत्सव स्पृहयति। अत्र पूर्वार्धे जिनप्रभवस्येति सिद्धान्तविशेषणेन कविरौद्धत्यपरिहाराय गुप्तं जिनप्रभेति स्वनामाभिहितवान्॥
आदिगुप्ताभिधानस्य430 गुरोः पादप्रसादतः।
पदविच्छेदरूपेय विवृतिर्लिखिता मिता॥
इति श्रीजिनप्रभविरचितः सावचूरिः सिद्धान्तागमस्तव।
________________
आत्मनिन्दाष्टकम्।
श्रुत्वा श्रद्धाय सम्यक्छुभगुरुवचनं वेश्मवासं निरस्य
प्रव्रज्याथो पठित्वा बहुविधतपसा शोषयित्वा शरीरम्।
धर्मध्यानाय यावत्प्रभवति समयस्तावदाकस्मिकीयं
प्राप्ता मोहस्य धा
टी तडिदिव विषमा हा हताः कुत्र याम॥१॥
एकेनापि महाव्रतेन यतिनः खण्डेन भग्नेन वा
दुर्गत्यां पततो न सोऽपि भगवानीष्टे स्वयं रक्षितुम्।
हत्वा तान्यखिलानि दुष्टमनसो वर्तामहे ये वयं
तेषां दण्डपदं भविष्यति कियज्जानाति तत्केवली॥२॥
कट्यां चोलपटं तनौ सितपटं कृत्वा शिरोलुञ्चनं
स्कन्धे कम्बलिकां रजोहरणकं निक्षिप्य कक्षान्तरे।
वक्रे वस्त्रमथो विधाय ददतः श्रीधर्मलाभाशिषं
वेषाडम्बरिणः स्वजीवनकृते विद्मो गति नात्मनः॥३॥
भिक्षापुस्तकवस्त्रपात्रवसतिप्रावारलुब्धा यथा
नित्यं मुग्धजनप्रतारणकृते कष्टेन खिद्यामहे।
आत्मारामतया तथा क्षणमपि प्रोज्झ्यप्रमादद्विषं
स्वार्थाय ग्रयतामहे यदि तदा सर्वार्थसिद्धिर्भवेत्॥४॥
पाखण्डानि सहस्रशो जगृहिरे ग्रन्था भृशं पेठिरे
लोभाज्ञानवशात्तपांसि बहुधा मूढैश्चिरं तेपिरे ।
क्वापि क्वापि कथंचनापि गुरुभिर्भूत्वा मदो भेजिरे
कर्मक्लेशविनाशसंभवविमुख्या (मुखा ) न्यद्यापि नो लेभिरे॥५॥
किं भावी नारकोऽहं किमुत बहुमवी दूरभव्यो न भव्यः
किं वाहं कृष्णपक्षी किमचरमगुणस्थानकं (?) कर्मदोषात् ।
वह्निज्वालेव शिक्षा व्रतमपि विपवत्खड्गधारा तपस्या
स्वाध्यायः कर्णसूची यम इव विषमः संयमो यद्विभाति॥६॥
वस्त्रं पात्रमुपाश्रयं बहुविधं भैक्षं चतुर्थौषधं
शय्यापुस्तकपुस्तकोपकरणं शिष्यं च शिक्षामपि ।
गृह्णीमः परकीयमेव सुतरामाजन्मवृद्धा वयं
यास्यामः कथमीदृशेन तपसा तेषां हहा निष्क्रयम्॥७॥
अन्तर्मत्सरिणां वहिः शमवतां प्रच्छन्नपापात्मनां
नद्यम्भःकृतशुद्धिमद्यपवणिग्दुर्वासनाशात्मिनाम् (?) ।
पाखण्डव्रतधारिणां वकदृशां मिथ्यादृशामीदृशां
वद्धोऽहं धुरि तावदेव चरितैस्तन्मे हहा का गतिः॥८॥
येषां दर्शनवन्दनप्रणमनस्पर्शप्रशंसादिना
मुच्यन्ते तमसा निशा इव सिते पक्षे प्रजास्तत्क्षणात् ।
तादृक्षो अपि सन्ति केऽपि मुनयस्तेषां नमस्कुर्महे
संविग्ना वयमात्मनिन्दनमिदं कुर्मः पुनर्बोधये॥९॥
रागो मे स्फुरति क्षणं क्षणमथो वैराग्यमुज्जृम्भते
द्वेषो मां भजति क्षणं क्षणमथो मैत्री समालिङ्गति ।
दैन्यं पीडयति क्षणं क्षणमथो हर्षोऽपि मां बाधते
कोपेयं कृपणोऽकृपापरिवृतैः (?) कार्यं हहा कर्मभिः॥१०॥
इत्यात्मनिन्दाष्टकम् ।
श्रीजिनवल्लभसूरिविरचितं
समसस्कृतप्राकृत
श्रीमहावीरस्वामिस्तोत्रम्।
भावारिवारणनिवारणदारुणोरु-
कण्ठीरवं मलयमन्दरसारधीरम्।
वीरं नमामि कलिकालकलङ्कपङ्क-
संभारसंहरणतुङ्गतरङ्गतोयम्॥१॥
बाढं विसारिगरिमा महिमा तवेह
बुद्धो न देवगुरुणा न पुरंदरेण।
तं कोऽवगन्तुमखिलं जडिमालयोऽह-
मिच्छामि किं तु तव देव गुणाणुमेव॥२॥
सन्तो गुणा गुणिगुरो तव हासहंस-
नीहारहारधवला बहुलीभवन्ति।
ते सोमसूरहरिहीरविरञ्चिवुद्ध-
मायाविदेवनिवहेन मलीमसा वा॥३॥
देवं भवन्तमवहाय दुरन्तमोह-
संछन्नवुद्धिमिहिरा इह भूरिकालम्।
संसारनीरनिलये वहु संसरन्तो
विन्दन्ति जन्तुनिवहा नहि सिद्धिभावम्॥४॥
सासूयसंगमसुरोरुसमूढदम्भ-
संरम्भसंतमससंचयचण्डभासम्।
हिंसासरोरुहतमीरमणं चिरोढा-
हंकारकन्दलदलीकरणासिदण्डम्॥५॥
वन्देऽहमिन्दुदलभालममन्दभद (?)
संदोहमन्दिरवरं दरकन्दकोलम्।
गम्भीरसंभवजरामरणोरुनीर-
संसारसागरतरीकरणिं च वीरम्॥६॥( युग्मम्)
उद्दामकामभरभङ्गुरमङ्गभङ्ग-
संसङ्गबन्धुरमुरोरुहभारखिन्नम्।
देहं सलीलपरिरिङ्खणमनुशिञ्जि-
मञ्जीरचारुचरणं सरसं वहन्ती॥७॥
संगेयताललयचञ्चुरचारचारी-
संचारिणी करणवन्धकलासु सज्जा।
उन्नालनीररुहकोमलबाहुवल्ली
भल्लीव विद्धवहुकामिकुरङ्गसंघा॥८॥
हेलाविलोलमणिकुण्डललीढगल्ला
कङ्केल्लिपल्लवकरा वरकम्बुकण्ठी।
केलीललामरमणी रमणीयहावा
नालं निहन्तुमिह ते विमलाभिसंधिम्॥९॥(विशेषकम्)
संचारिकिंनरगणारववेणुवीणा-
संरावभिन्नकलगेयरवाभिरामा।
आकालभाविकुगुरूहकुधीकुदेव-
संबन्धवुद्धहरणी तव देव वाणी॥१०॥
संदेहदावजलवाहमजीवजीव-
भावावभासतरणिं भवसिन्धुनावम्।
आगामिकेवलरमातरुणीविवाहा
देवागमं तव नरा विमला महन्ति॥११॥
देवा महापरिमलं तरलालिजाल-
झंकारहारि तव वीर सभासु भूरि।
फुल्लारविन्दनवसुन्दरसिन्दुवार-
मन्दारकुन्दकवरं कुसुमं किरन्ति॥१२॥
निःसीमभीमभवसंभवरूढगूढ-
संमोहभूवलयदारणसारसीरम्।
वीरं कुवासमलहारिसुवारिपूर-
मुत्तुङ्गमारकरिकेसरिणं नमामि॥१३॥
भिन्दन्तमन्तरणकारणमन्तरायं
संरुद्धरोगसमवायमलोभमायम्।
उच्छिन्नमोहतिमिरावरणावसायं
वीरं नमामि नवहेमसमिद्धकायम्॥१४॥
वन्दारुवासवसुरासुरभासुरालं-
कारामलच्छविपरागसमुद्धुराणि।
सेवामि ते चरणवारिरुहाणि भूरि-
संदेहरेणुहरणोरुसमीर वीर॥१५॥
अञ्चामि ते चरणतामरसालिलीला
संघायि पञ्चममहागणधारिवाणी (?)।
संबन्धबुद्धिकरुणालयलिङ्गसिद्ध-
संधावलीदमिगणं चरणं चरन्तम्॥१६॥(?)
उच्चण्डधारकरवालकरारिवार-
विच्छिन्नकुम्भगलनालकरालनागे।
कुन्तासितोमरविभिन्नपरासुदेहे
कङ्कालसंकुलभयावहभूमिभागे॥१७॥
सावेगहुंकरणडामरमुण्डरुण्ड-
कीलाललालसविहंगकुलावरुद्धे।
आवद्धवाणविसरे सहसा नुवन्तो
वीरं नरा रणभरेऽरिवलं जयन्ति॥१८॥( युगलकम्)
आसन्नसिद्धिकमलापरिरम्भलम्भ-
दम्भोलिपाणिमिव मोहगिरि किरन्तम्।
संपत्तिकारणममङ्गलमूलकीलं
सेवन्ति के न भगवन्तमघं हरन्तम्॥१९॥
आयासभङ्गडमरामयसंपराय-
चोरारिमारिविरहेण चिराय देव।
भूमण्डले सुनगरानिगमा (?) विहार-
चारेण ते परममुद्धवमामनन्ति॥२०॥
निःसङ्ग निःसमर निःसम निःसहाय
नीराग नीरमण नीरस नीररंस।
हे वीर धीरिमनिवासनिरुद्धघोर-
संसारचार जय जीवसमूहबन्धो॥२१॥
उल्लासितारतरलामलहारिहारा
नारीगणा बहुविलासरसालसा मे।
संसारसंसरणसंभवभीनिमित्तं
चित्तं हरन्ति भण किं करवाणि देव॥२२॥
इच्छामहासलिलकामगुणालवालं
चिन्तादलं समलचित्तमहीसमुत्थम्।
संभोगफुल्लमिव मोहतरुंलसन्तं
हे वीरसिन्धुर समुद्धर मे समूलम्॥२३॥
संपन्नसिद्धिपुरसंगममङ्गलाय
मायोरुवारिरुहिणीवरकुञ्जराय।
वीराय ते चरमकेवलपुंगवाय
कामं नमोऽसमदयादमसत्तमाय॥२४॥
हे देव किंकरमिमं परिभावयेह
मज्जन्तमुद्धरजवे भवसिन्धुपूरे।
उत्तारणाय कुरु वीर करावलम्बं
भूयोऽसमञ्जसनिरन्तरचारिणो मे॥२५॥
कुसमयतरुमालाभङ्गसंहारवायो
कुनयकुवलयालीचूरणे (चूर्णने) मत्तनाग।
तव गुणकणगुम्फे मे परीणाममित्थं
विमलमपरिहीणं हे महावीर पाहि॥२६॥
अनयनिविडे पीडागाढे भयावहदुःसहे
विरहविरसे लज्जापुञ्जे रमे भवपञ्जरे।
निरयकुहरंगामी हाहं न सिद्धिमहापुरी -
सरलसरणिं सेवे मूढो गिरं तव वीर हे॥२७॥
निरीहं गन्तारं परमभुवि मन्तारमखिलं
निहन्तारं हेलाकलिकलह ^(……….)।
भवन्तं नन्तारो नहि खलु निमज्जन्ति भवभी-
महापारावारे मरणभयकल्लोलकलिले॥२८॥
एवं सेवापरिहरहया (?) लोलचूलामणीद्ध-
च्छायालीढं खरकिरणभाभिन्नमम्भोरुहं वा।
चित्तागारे चरणकमलं ते चिरं धारिणो मे
सिद्धावासं बहुभवभयारम्भरीणाय देहि॥२९॥
इत्थं ते समसंस्कृतस्तवमहं प्रस्तावयामासिवा-
नाशंसे जिनवीर नेन्द्रपदवीं न प्राज्यराज्यश्रियम्।
लीलाभाञ्जि431 न वल्लभप्रणयिनीवृन्दानि किं त्वर्थये
नाथेदं प्रथय प्रसादविषदां दृष्टि दयालो मयि॥३०॥
इति श्रीजिनवल्लभसूरिप्रणीत समसंस्कृतप्राकृत श्रीमहावीरस्वामिस्तोत्रम्।
_________________
श्रीहेमचन्द्राचार्यविरचितं
अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं
श्रीमहावीरस्वामिस्तोत्रम्।
अनन्तविज्ञानमतीतदोषमवाध्यसिद्धान्तममर्त्यपूज्यम्।
श्रीवर्धमानं जिनमाप्तमुख्यं स्वयंभुवं स्तोतुमहं यतिष्ये॥१॥
अयं जनो नाथ तव स्तवाय गुणान्तरेभ्यः स्पृहयालुरेव।
विगाहतां किं तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्धः॥२॥
गुणेष्वसूयां दधतः परेऽमी मा शिश्रियन्नाम भवन्तमीशम्।
तथापि संमील्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम्॥३॥
स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः।
परात्मतत्त्वादतथात्मतत्त्वा द्वयं वदन्तोऽकुशलाः स्खलन्ति॥४॥
आदीषमाव्योम समस्वभावं स्याद्वादमुद्रानतिभेदिवस्तु।
तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विषतां प्रलापाः॥५॥
कर्तास्ति कश्चिज्जगतः स चैकः स सर्वगः स स्ववशः स नित्यः।
इमाः कुहेवाकविडम्वनाः स्युस्तेषां न येषामनुशासकस्त्वम्॥६॥
न धर्मधर्मित्वमतीव भेदे वृत्त्यास्ति चेन्न त्रितयं चकास्ति।
इहेदमित्यस्ति मतिश्च वृत्तौ न गौणभावोऽपि च लोकवाधः॥७॥
सतामपि स्यात्क्वचिदेव सत्ता चैतन्यमौपाधिकमात्मनोऽन्यत्।
न संविदानन्दमयी च मुक्तिः सुसूत्रमासूत्रितमत्वदीयैः॥८॥
यत्रैव यो दृष्टगुणः सतत्र कुम्भादिवन्निप्प्रतिपक्षमेतत्।
तथापि देहाद्बहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति॥९॥
स्वयं विवादग्रहिले वितण्डा पाण्डित्यकण्डूलमुखे जनेऽस्मिन्।
मायोपदेशात्परमर्म भिन्दन्नहोविरक्तो मुनिरन्यदीयः॥१०॥
न धर्महेतुर्विहितापि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च।
स्वपुत्रघातान्नृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम्॥११॥
स्वार्थावबोधक्षम एव बोधः प्रकाशते नार्थकथान्यथा तु।
परे परेभ्यो भयतस्तथापि प्रपेदिरे ज्ञानमनात्मनिष्ठम्॥१२॥
माया सती चेद्द्वयतत्त्वसिद्धिरथासती हन्त कुतः प्रपञ्चः।
मायैव चेदर्थसहा च तत्किं माता च वन्ध्या च भवत्परेषाम्॥१३॥
अनेकमेकात्मकमेव वाच्यं द्वयात्मकं वाचकमप्यवश्यम्।
अतोऽन्यथा वाचकवाच्यक्लृप्तावतावकानां प्रतिभाप्रमादः॥१४॥
चिदर्थशून्या च जडा च वुद्धिः शब्दादि तन्मात्रजमम्बरादि।
न बन्धमोक्षौ पुरुषस्य चेति कियज्जडैर्न ग्रथितं विरोधि॥१५॥
न तुल्यकालः फलहेतुभावो हेतौ विलीने न फलस्य भावः।
न संविदद्वैतपथेऽर्थसंविद्विलूनशीर्ण सुगतेन्द्रजालम्॥१६॥
विना प्रमाणं परवन्न शून्यः स्वपक्षसिद्धेः पदमश्नुवीत।
कुप्येत्कृतान्तः स्पृशते प्रमाणमहो सुदृष्टं त्वदसूपिदृष्टम्॥१७॥
कृतप्रणाशाकृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान्।
उपेक्ष्य साक्षात्क्षणभङ्गमिच्छन्नहो महासाहसिकः परस्ते॥१८॥
सा वासना सा क्षणसंततिश्च नाभेदभेदानुभयैर्घटेते।
ततस्तटादर्शिशकुन्तपोतन्यायात्त्वदुक्तानि परे श्रयन्तु॥१९॥
विनानुमानेन पराभिसंधिमसंविदानस्य तु नास्तिकस्य।
न सांप्रतं वक्तुमपि क्व चेष्टा क्व दृष्टमात्रं च हहा प्रमादः॥२०॥
प्रतिक्षणोत्पादविनाशयोगि स्थिरैकमध्यक्षमपीक्षमाणः।
जिन त्वदाज्ञामवमन्यते यः स वातकी नाथ पिशाचकी वा॥२१॥
अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम्।
इति प्रमाणान्यपि ते कुवादिकुरङ्गसंत्रासनसिंहनादाः॥२२॥
अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविच्यमानम्।
आदेशभेदोदितसप्तभङ्गमदीदृशस्त्वं बुधरूपवेद्यम्॥२३॥
उपाधिभेदोपहितं विरुद्धं नार्थेष्वसत्त्वं सदवाच्यते च।
इत्यप्रबुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति॥२४॥
स्यान्नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव।
विपश्चितां नाथ निपीततत्त्वसुधोद्गतोद्गारपरम्परेयम्॥२५॥
य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव।
परस्परध्वंसिषु कण्टकेषुजयत्यधृष्यं स्मरशासनं ते॥२६॥
नैकान्तवादे सुखदुःखभोगौ न पुण्यपापे न च वन्धमोक्षौ।
दुर्नीतिवादव्यसनासिनैवं परैर्विलुप्तं जगदप्यशेषम्॥२७॥
सदेव सत्स्यात्सदिति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणैः।
यथार्थदर्शी तु नयप्रमाणपथेन दुर्नीतिपथं त्वमास्यः॥२८॥
मुक्तोऽपि वाभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मितात्मवादे ।
षड्जीवकायं त्वमनन्तसंख्यमाख्यस्तथा नाथ यथा न दोषः॥२९॥
अन्योन्यपक्षप्रतिपक्षभावाद्यथा परे मत्सरिणः प्रवादाः।
नयानशेषानविशेषमिच्छन्नपक्षपाती समयस्तथा ते॥३०॥
वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेन्महनीयमुख्य।
लङ्घेमजङ्घालतया समुद्रं वहेम432 चन्द्रद्युतिपानतृष्णाम्॥३१॥
इदं तत्त्वातत्त्वव्यतिकरकरालेऽन्धतमसे
जगन्मायाकारैरिव हतपरैर्हा विनिहितम्।
तदुद्धर्तुं शक्तो नियतमविसंवादिवचन-
स्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः॥३२॥
इति श्रीहेमचन्द्रसूरिविरचितमन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं
श्रीमहावीरस्वामिस्तोत्रम् \।
___________________
श्रीहेमचन्द्राचार्यविरचितं
अयोगव्यवच्छेदिकाद्वात्रिंशिकाख्य
श्रीमहावीरस्वामिस्तोत्रम्
अगम्यमध्यात्मविदामवाच्यं वचस्विनामक्षवतां परोक्षम्।
श्रीवर्धमानाभिधमात्मरूपमहं स्तुतेर्गोचरमानयामि॥१॥
स्तुतावशक्तिस्तव योगिनां न किं गुणानुरागस्तु ममापि निश्चलः।
इदं विनिश्चित्य तव स्तवं वदन्न वालिशोऽप्येष जनोऽपराध्यति॥२॥
क्व सिद्धसेनस्तुतयो महार्था अशिक्षितालापकला क्व चैषा।
तथापि यूयाधिपतेः पथस्थः स्खलद्गतिस्तस्य शिशुर्न शोच्यः॥३॥
जिनेन्द्र यानेव विवाधसे स्म दुरन्तदोषान्विविधैरुपायैः।
त एव चित्रं त्वदंसूययेव कृताः कृतार्थाः परतीर्थनाथैः॥४॥
यथास्थितं वस्तु दिशन्नधीश न तादृशं कौशलमाश्रितोऽसि।
तुरंगशृङ्गाण्युपपादयद्भ्यो नमः परेभ्यो नवपण्डितेभ्यः॥५॥
जगत्यनुध्यानबलेन शश्वत्कृतार्थयत्सु प्रसभं भवत्सु।
किमाश्रितोऽन्यैः शरणं त्वदन्यः स्वमांसदानेन वृथा कृपालुः॥६॥
स्वयं कुमार्गंलपतां नु नाम प्रलम्भमन्यानपि लम्भयन्ति।
सुमार्गगं तद्विदमादिशन्तमसूययान्धा अवमन्वते च॥७॥
प्रादेशिकेभ्यः परशासनेभ्यः पराजयो यत्तव शासनस्य।
खद्योतपोतद्युतिडम्वरेभ्यो विडम्बनेयं हरिमण्डलस्य॥८॥
शरण्य पुण्ये तव शासनेऽपि संदेग्धि यो विप्रतिपद्यते वा।
स्वादौ स तथ्ये स्वहिते च पथ्ये संदेग्धि वा विप्रतिपद्यते वा॥९॥
हिंसाद्यसत्कर्मपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः।
नृशंसदुर्बुद्धिपरिग्रहाच्च ब्रूमस्त्वदन्यागममप्रमाणम्॥१०॥
हितोपदेशात्सकलज्ञक्लृप्तेर्मुर्मुक्षुसत्साधुपरिग्रहाच्च।
पूर्वापरार्थेऽप्यविरोधसिद्धेस्त्वदागमा एव सतां प्रमाणम्॥११॥
क्षिप्येत वान्यैः सदृशीक्रियेत वा तवाङ्घ्रिपीठे लुठनं सुरेशितुः।
इदं यथावस्थितवस्तुदेशनं परैः कथंकारमपाकरिष्यते॥१२॥
तद्दुःखमाकालखलायितं वा पचेलिमं कर्म तवानुकूलम् \।
उपेक्षते यत्तव शासनार्थमयं जनो विप्रतिपद्यते वा॥१३॥
परः सहस्राः शरदस्तपांसि युगान्तरं योगमुपासतां वा।
तथापि ते मार्गमनापतन्तो न मोक्ष्यमाणा अपि यान्ति मोक्षम्॥१४॥
अनाप्तजाड्यादिविनिर्मितित्वसंभावनासंभविविप्रलम्भाः।
परोपदेशाः परमाप्तक्लृप्तपथोपदेशे किमु संरभन्ते॥१५॥
यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिष्यैः।
न विप्लवोऽयं तव शासनेऽभूदहो अधृष्या तव शासनश्रीः॥१६॥
देहाद्ययोगेन सदाशिवत्वं शरीरयोगादुपदेशकर्म।
परस्परस्पर्धि कथं घटेत परोपक्लृप्तेष्वधिदैवतेषु॥१७॥
प्रागेव देवान्तरसंश्रितानि रागादिरूपाण्यवमान्तराणि।
न मोहजन्यां करुणामपीश समाधिमास्थाय युगाश्रितोऽसि (?)॥१८॥
जगन्ति भिदन्तु सृजन्तु वा पुनर्यथातथा वा पतयः प्रवादिनाम्।
त्वदेकनिष्ठे भगवान्भवक्षयक्षमोपदेशे तु परं तपस्विनः॥१९॥
वपुश्च पर्यङ्कशयं श्लथं च दृशौ च नासानियते स्थिरे च।
न शिक्षितेयं परतीर्थनाथैर्जिनेन्द्र मुद्रापि तवान्यदास्ताम्॥२०॥
यदीयसम्यक्त्ववलात्प्रतीमो भवादृशानां परमस्वभावम्।
कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय॥२१॥
अपक्षपातेन परीक्षमाणा द्वयं द्वयस्याप्रतिमं प्रतीमः।
यथास्थितार्थप्रथनं तवैतदस्थाननिर्वन्धरसं परेषाम्॥२२॥
अनाद्यविद्योपनिषन्निपण्णैर्विशृङ्खलैश्चापलमाचरद्भिः।
अगूढलक्ष्योऽपि पराक्रिये यत्त्वत्किंकरः किं करवाणि देव॥२३॥
विमुक्तवैरव्यसनानुवन्धाः श्रयन्ति यां शाश्वतवैरिणोऽपि।
परैरगम्यां तव योगिनाथ तां देशनाभूमिमुपाश्रयेऽहम्॥२४॥
मदेन मानेन मनोभवेन क्रोधेन’ लोभेन च संमदेन।
पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम्॥२५॥
स्वकण्ठपीठे कठिनं कुठारं परे किरन्तः प्रलपन्तु किंचित्।
मनीषिणां तु त्वयि वीतराग न रागमात्रेण मनोऽनुरक्तम्॥२६॥
सुनिश्चितं मत्सरिणो जनस्य न नाथ मुद्रामतिशेरते ते।
माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः॥२७॥
इमां समक्षं प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां व्रुवे।
न वीतरागात्परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः॥२८॥
न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु।
यथावदाप्तत्वपरीक्षया तु त्वामेव वीर प्रभुमाश्रिताः स्मः॥२९॥
तमःस्पृशामप्रतिभासभाजं भवन्तमप्याशु विविन्दते याः।
महेम चन्द्रांशुदृशा (?) वदातास्तास्तर्कपुण्या जगदीश वाच॥३०॥
यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया।
वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते॥३१॥
इदं श्रद्धामात्रं तदथ परनिन्दां मृदुधियो
विगाहन्तां हन्तः प्रकृतिपरवादव्यसनिनः।
अरक्तद्विष्टानां जिनवर परीक्षाक्षमधिया-
मयं तत्त्वालोकस्तुतिमयमुपाधि विधृतवान्॥३२॥
इति श्रीहेमचन्द्रसूरिविरचितमयोगव्यवच्छेदिकाद्वात्रिंशिकाख्य
श्रीमहावीरस्वामिस्तोत्रम् \।
______________
श्रीजिनप्रभसूरिविरचितः
** श्रीपार्श्वनाथस्तवः।**
का मे वामेयशक्तिर्भवतु तव गुणस्तोमलेशप्रशस्तौ
न स्याद्यस्यामधीशः सुरपतिसचिवस्यापि वाणीविलासः।
माने वा वार्धिवारां कलयति क इव प्रौढिमारूढधारां
भक्तिव्यक्तिप्रयुक्तस्तदपि किमपि ते संस्तवं प्रस्तवीमि॥१॥
संसाराम्भोधिवेला निविडजडमतिध्वान्तविध्वंसहंसः
श्यामाश्यामाङ्गधामा (?) शठकमठतपोधर्मनिर्माथपायः।
स्फारस्फूर्जत्फणीन्द्र प्रगुणफणमणिज्योतिरुद्द्योतिताशा-
चक्रश्चक्रिध्वज त्वं जय जिन विजितद्रव्यभावारिवार॥२॥
कम्रानम्राङ्गिचेतःशिखिकुलविलसत्ताण्डवाडम्बरश्री-
हेतुः प्रेङ्खन्नखालीरुचिररुचितडिद्दामनेत्राभिरामः।
प्रीतिं फुल्लत्फणाभाग्मणिघृणिसुमनश्चापचित्रीकृतद्यौ-
र्देयास्त्वं देशनावाक्स्तनितसुखकरो मेघवन्मेऽघहन्तः॥३॥
भिन्दंल्लोकप्रवाहप्रबलतरसरित्पूरमुच्चैर्वहन्तं
जन्तूनां चित्तभूमौ स जयति जगति त्वद्वचोवारिकान्तः।
मुक्त्वा गाढं गृहीतानपि विनतजनान्यत्प्रवाहाद्भयार्तो
भूयस्तन्मध्यमेव प्रविशति झटिति क्रूरमोहावतारः॥४॥
लौल्याल्लावण्यलक्ष्मीमधुरमधुरसं त्वन्मुखाम्भोरुहोत्थं
पायंपायं भरेण प्रणतभवभृतां नेत्रपुष्पंधयाल्यः।
नूनं हर्षप्रकर्षोद्गतनयनपयःपूरदम्भेन दूरं
मिथ्यादृग्लोचनानामसुलभ भगवन्सद्य एवोद्धिरन्ति॥५॥
निःस्यन्दानन्दकन्दः कलिमलकदलीकाण्डखण्डीकृतौ य-
त्कक्षाकौक्षेयकस्य क्षपितभवशतं नेत्रपीयूषसत्रम्।
श्रेयः श्रीवल्लिहल्लीसकमलयमरुद्भाग्यमारोग्यलक्ष्म्या -
दर्शः कंदर्पदर्पद्विजपतिपतनं दर्शनं तावकीनम्॥६॥
विद्याविद्याधरीणां मणिमयमुकुरः क्रूरवैरारिजैत्रो
गात्रश्रीमैत्र्यपात्रीकृतरतिरमणः सच्चरित्रैः पवित्रः।
सद्भोगाभोगभागी सुभगिमभवनं श्रीजिन श्रीद संप-
न्निःष्कम्पः संपनीपद्यत इह मनुजः साधु नत्वा जिन त्वा॥७॥
देव्या वाचोऽपि433 वाचामविषय दिविषन्मन्दिरद्वारसेवा-
हेवाकी सर्वनाकीश्वरमुकुटतटीघृष्टपादाम्बुजस्य।
नेतश्चैतन्यशून्यः सकलकलयितुर्भुक्तिमात्रस्य दाता
भुक्तिं मुक्तिं च दातुः कथमिव भवतः कल्पवृक्षः सदृक्षः॥८॥
चन्द्रः प्रत्युदकाशयं434 प्रतिफलत्येको न चार्थक्रिया-
कारीत्येष न चास्तवांस्तव पुनर्वृत्तं जयत्यद्भुतम्।
एकस्त्वं प्रतिमानसं वससि यद्भव्यात्मनामेकदा
सर्वेषामथ च प्रयच्छसि फलं तेषां मनोवाञ्छितम्॥९॥
यौष्माकीणगुणस्तुतिं विकिरती शुण्डामिवान्तर्गत-
प्रीतिं स्फीतिमतीमतीव सुरभि दानाम्बुना विभ्रती।
त्रैलोक्यैकसुरद्रुम द्रुमवनानीवोन्मदा वासिता435
युष्मद्भक्तिरलं भनक्ति भविनामेनांसि हृद्वासिता॥१०॥
आधारे स्थिरतोज्झिते किल भवत्याधेयमप्यस्थिरं
सोऽयं ज्ञानपथस्तथापि किमपि स्वार्थैकनिष्ठो ब्रुवे।
अश्रान्तं मम चञ्चलेऽपि मनसि स्वामिन्वधान स्थिति
त्रैलोक्याधिप शक्तिभाजि यदि वा किं नोपपन्नं त्वयि॥११॥
विश्वेश प्रसभंत्वदीययशसा व्यालुप्यमाने प्रभा-
सर्वस्वे जगदाक्रमैकपटुना नूनं द्विजानां पतिः।
शस्त्रीं लाञ्छनकैतवात्प्रतिनिशं कुक्षिप्रदेशे क्षिप-
न्कोपाटोपवशादसावुदयते बिभ्रद्वपुर्लोहितम्॥१२॥
वक्रेण त्वमपाहरः शशधरस्याखण्डमूर्तेः श्रियं
व्याकोशस्य कुशेशयस्य सुषमासर्वस्वमप्यग्रहीः।
यत्तुल्यव्यसनादपि स्म जहितो नैतौ विरोधं मिथ-
स्तेनाकारि समानशीलविपदां सख्यप्रवादो मृषा॥१३॥
पुष्टाङ्गं व्यवहारनिश्चयनयप्रोत्तुङ्गशृङ्गं शुभं
दानाद्यङ्घ्रिचतुष्टयं च विकसज्ज्ञानक्रियालोचनम्।
नित्यच्छेकविवेकपुच्छलतिकं स्याद्वादपर्युल्लस-
त्पीनोच्चैः ककुदं कुतीर्थतृणभुक्सूते वृषं गौस्तव॥१४॥
आकण्ठं कमठाम्बुदोज्झितपयःपूरे निमम्नाङ्गक-
स्योत्फुल्लं मुखपङ्कजं तव पपौ या कौतुकोत्कर्षतः।
नागस्त्रैणविलोचनालिपटली संख्याय धुर्येव तां (?)
धन्यानां गणनाक्षणे न खलु सा रेखान्यतः सर्पति॥१५॥
वन्दारोः प्रियकोपितप्रणयिनीदृक्कोणशोणत्विषः
सान्द्रस्निग्धसमुच्छलत्क्रमनखश्रेणीमयूखास्तव।
त्वद्वृत्तस्तुतिदूतिकाभिमुखितां पाणौ चिकीर्षोः शिव-
श्रीरामां नवपद्मरागमहितं वध्नन्तु मौलौ मम॥१६॥
एवं नृदेवमहितः सहितः प्रभाव-
भूत्या प्रभूततमया विनुतो मयायम्।
पार्श्वप्रभुर्विमलचिन्मयचित्तसौध-
मुत्तंसयत्त्ववृजिनप्रभसूरिवर्ण्यः॥१७॥
इति श्रीजिनप्रभसूरिविरचितः पार्श्वनाथस्तवः।
_______________
श्री जिनप्रभसूरिविरचितं
गोतमस्तोत्रम्।
श्रीमन्तं मगधेषु गोर्वर इति ग्रामोऽभिरामः श्रिया
तत्रोत्पन्नमसन्नचित्तमनिशं श्रीवीरसेवाविधौ।
ज्योतिः संश्रयगौतमान्वयविपत्प्रद्योतनद्योमणिं
तापोत्तीर्णसुवर्णवर्णवपुषं भक्त्येन्द्रभूतिं स्तुवे॥१॥
के नाम नाभङ्गुरभाग्यसृष्ट्यै दृष्ट्यै सुराणां स्पृहयन्ति सन्तः।
निमेषविघ्नोज्झितमाननेन्दुज्योत्स्नां मनोहत्य तवापिबद्या॥२॥
निर्जित्य नूनं निजरूपलक्ष्म्या तृणीकृतः पञ्चशरस्त्वया सः।
इत्थं न चेत्तर्हि कुतस्त्रिनेत्रनेत्रानलस्तं सहसा ददाह॥३॥
पीत्वा गिरं ते गलितामृतेच्छाः सुराश्चिरं चकुरभोज्यमिन्दुम्।
सुधाह्नदे तत्र मुनीश मन्ये लक्ष्मच्छलाच्छैवलमीक्ष्यतेऽन्तः॥४॥
सौभाग्यभङ्ग्यापि समाधिदाने प्रत्येति लोकः कथमेतदज्ञः।
यत्त्वां समग्रा अपि लब्धिकान्ताः समालिलिङ्गुःसमकालमेव॥५॥
त्वत्पादपीठे विलुठन्त्यमर्त्यास्त्वद्गेहभृत्याः किल कल्पवृक्षाः।
तैरप्यमा हन्त तवोपमानोपमेयभावः कथमस्तु वस्तु॥६॥
पदोर्नखाली तव रोहिणीयं मुदे न कस्याद्भुतकृच्चरित्रा।
वन्दारुपुंसां वदनेन्दुरन्तः प्रविष्टविम्बोऽपिशिवाय यस्याः॥७॥
यत्केवलज्ञानमविद्यमानमथात्मनि स्वान्तिपदामदास्त्रम् (?)।
लोकोत्तरत्वे ननु तावकानां दिङ्मात्रमेतच्चरिताद्भुतानाम्॥८॥
भवद्गुणानां स्तुतयो गुणज्ञैर्विधीयमाना विबुधाधिपाद्यैः।
स्तुत्यन्तरस्तोत्रकथागणस्य समाप्तये वृत्करणीभवन्ति॥९॥(?)
न रागवान्नो भजसेऽतिचारं नालम्बसे वक्रगतिं कदाचित्।
पुरस्कृतेनोऽपि घनाय नासि तथापि पृथ्वीतनयोऽसि रूढः॥१०॥
प्रभो महावीरमुपास्य सम्यक्त्वयार्जितं यज्ज्ञकलारहस्यम्।
गृहे यतित्वेऽप्यभिरूपरत्नत्रयीजुषा कीर्तिरतानि तेन॥११॥
त्वद्वाणिमाधुर्यजिता पलाय्य सितोपला काचघटीं विवेश।
तत्रापि भीतिं दधती शलाकाव्याजेन जग्राह तृणं तु वक्रे॥१२॥
श्रीवीरसेवारसलालसत्वात्तद्वाधिनीं केवलवोधलक्ष्मीम्।
अप्याय (ग) तामादरिणी वरीतुं तृणाय मत्वा त्वमिमन्वमंस्थाः (?)॥१३॥
अपोढपङ्के कविभिर्निषेव्ये निरस्ततापे बहुभङ्गजाले।
विभो भवद्वाङ्मुखगाङ्गपूरे दुर्वादिपूगास्तृणवत्तरन्ति॥१४॥
राकामये दिग्वलये समन्ताद्यशःशशाङ्केन ध्रुवं कृते ते।
कुहूध्वनिः केवलमेव कण्ठदेशं पिकानां शरणीचकार॥१५॥
जगत्रयोद्भासि यशस्तवैतत्क्वस्पर्धतां सार्धमनेन चन्द्रः।
यस्यापरार्धेऽपि तृणस्य (?) नैव प्रभाप्रभावो लभतेऽवकाशम्॥१६॥
छत्रेन्दुपद्मादिषु रूढिमात्रं त्वन्नाम्नि तु श्रीर्वसतीति पुष्टिः।
कुतोऽन्यथा तज्जपदीक्षितानां पुरःपुरो नृत्यति नित्यमृद्धिः॥१७॥
वसुभूतिसूतोऽपि कौतुकं वसुभूतेर्जनकः प्रणेमुषाम्।
भगवन्नभवोऽपि वर्तसे कथमङ्गीकृतसर्वमङ्गलः॥१८॥
नाधःकरोषिवृषमीशगणाधिपोऽपि
धत्से सदाशयमपाशमपि प्रचेताः।
श्रीदोऽपि सूत्रितयमालयवासकेलि-
स्त्वं पावकोऽपि हरसे हरहेतिपातम्॥१९॥
यत्तपत्यपि कलौ जिन प्रभाचार्यमन्त्रमनुशीलतां स्फुरेत्।
हेतुतात्र खलु तत्त्वदेकताध्यानपारमितयैव गृह्यते॥२०॥
मयैवं दुर्दैवं शमयितुमलंभूष्णुमहिमा
स्तुतस्त्वं लेशेन श्रुतरथधुरागोतम गुरो।
कुरूद्द्योतं क्लीवद्दिनपतिसुधागौ तमसि मे
प्रभो विद्यामन्त्रप्रभव भवते गोतम नमः॥२१॥
इति श्रीजिनप्रभाचार्यविरचित गोतमस्तोत्रम्।
________________
श्रीजिनप्रभाचार्यविरचितः
श्रीवीरस्तवः।
कंसारिक्रमनिर्यदापगाधाराशुद्धविराट्छदच्छविम्।
छन्दोभिर्विविधैरधीरधीस्तोष्येऽहं चरमं जिनेश्वरम्॥१॥
त्रैलोक्यनेतस्तव दुर्नयालीनिर्नाशनं शासनमाश्रितो यः।
तस्येन्द्रवज्रायुधमाविरस्ति दुष्कर्मशैलेन्द्रभिदाविधाने॥२॥
किमेकमाश्चर्यकरं न ते यत्पुष्पंधयोऽप्येष विशेषविज्ञः।
त्यक्तोपजातिभ्रमणाभिलाषस्त्वदङ्गसौगन्ध्यमनुप्रयाति॥३॥
यः सृजत्यजरसौरभसारैरम्बुजैस्तव पदाम्बुजपूजाम्।
प्रेत्य तस्य दिवि देवमृगाक्ष्यः स्वागतानि निगदन्ति सरागम्॥४॥
वाजिवारणरथोद्धता भटैरुद्भटा सुभगभोगभङ्गिभृत्।
राज्यऋद्धिरुपनंनमीति तं नंनमीति तव यः पदौ मुदा॥५॥
नाकिनिकायकरप्रहतानां संप्रसरन्गगने मुरजानाम्।
जन्ममहे तव कस्य न जज्ञे दत्तमदो धकधोंकृतिनादः॥६॥
ये भक्त्यात्तभ्रमरविलसिता जाताः पादाम्बुरुहि तव विभो।
तैः श्रेयश्रीर्मधुरमधुरसास्वादासादात्समजनि कृतिभिः॥७॥
तत्त्वातत्त्वारोपलोपप्रवीणां प्रदृ्वप्राणित्राणसंस्थाधुरीणाम्।
आज्ञां धत्ते मौलिना भव्यजन्तुश्रेणिः श्रद्धाशालिनी तावकीनाम्॥८॥
वसुधाम सुधामय वक्रविधो तव भाषितमाद्रियते भुवि यः।
स सुखानि सुखानिरिवोद्धमणीन्विभृते परितोऽटककीर्तिभरः॥९॥
स्रग्विणी
कुण्डलभ्राजिगण्डस्थला तारहारद्युतिद्योतिवक्षस्तटा।
राजिराखण्डलानामखण्डादरा पादपीठेऽलुटत्तावके पावके॥१०॥
क्षणादेव तेषांशिवश्री
भुजंग प्रयातं
विवृद्धिं शुभं कर्म पुंसाम्।
भवन्नाममन्त्रस्य वर्णानुपूर्वी रसज्ञाग्रवर्तिष्णुरापादिता यैः॥११॥
द्रुतविलम्वितम
ध्यरवध्वनद्विविधतूर्यमनेकमणीमयम्।
कुसुमवर्षचितं तव देशनावनितलं क इवैत्य न मोदते॥१२॥
मुकुरोज्ज्वले गणभृतां हृदये
प्रमिताक्षरापि
वत वाग्भवतः।
अनियत्तया प्रतिपफाल जिन ध्वनितार्थतश्च जगदर्च्यधियाम्॥१३॥
जगत्प्रभो भक्तिभरादनुद्द्विजाद्विजातिवंशादपहृत्य कृत्यवित्।
नरेन्द्रवंशस्थ
मचीकरच्छचीपतिर्भवन्तं हरिनैगमेषिणा (?)॥१४॥
वाचां ते निखिलनयाविरोधिनीनां दुर्बोधद्रुमदलने कुठारिकाणाम्।
माहात्म्यं भुवनमनःप्रहर्षिणीनां निर्वक्तुं क इव यथावदस्तु शक्तः॥१५॥
सिद्धार्थराजकुलनन्दनपारिजात
न भ्राम्यति क्वतव कीर्तिरपारिजात।
वर्णेन दुग्धमधुरेण मनोजनाग-
सिंहोद्धता436
स्थिरतया सुमनोजनाग॥१६॥
अतिमहति भवोर्मीमालिनीह भ्रमन्तो
जननमरणवीच्याघातदोदूयमानाः।
कथमपि पृथुपुण्याः प्राणिनः प्राप्नुवन्ति
प्रवहणमिव केचिच्छासनं तावकीनम्॥१७॥
लवणिमतर्जितस्मरपुरंध्रिरूपदर्पा
घटितकटाक्षलक्षशरविद्धकामिमर्मा।
कनकमणीमयाभरणरश्मिरञ्जिताङ्गी
व्यजयत
वाणिनी
न भवतः समाधिमुद्राम्॥१८॥
प्रबोधं भव्याम्भोरुहवनमधीशाभिगमय-
न्हरन्मोहध्वान्तं पर
समयताराः
कवलयन्।
निविष्टः सिंहासन्य437लममलभामण्डलयुतो
भवानाभाति स्मोदय
शिखरिणी
व द्युतिपतिः॥१९॥
अमित दमितस्त्रोतोमाद्यत्तुरंगमसंगम
त्रिदशह
रिणी
नेत्रा नेत्रत्रिभागविलोकितैः।
तव जिन मनः शेके कर्तुं मनागपि न स्वसा -
च्चलयितुमलं किं हेमाद्रिं युगान्तमहावलाः438॥२०॥
दारिद्र्यापत्परिभवजनुर्विस्रसामृत्युदुःखै-
रार्ताः के के न तव बलवद्देव सेवां प्रपन्नाः।
किं स्याद्दोषप्रशमनपटोरोषधस्योपयुक्तौ
मन्दाक्रान्ता
जगति जनता दुःसहेनामयेन॥२१॥
शरदुदितनिशाकरांशु
प्रभा439
जैत्रकीर्तिच्छटा-
धवलितनिखिलत्रिलोकीतलं श्रद्धयोपासते।
सरभसविनमत्सुराधीशचूडामणिज्योतिषा-
मरुणितपदपीठमूर्मीभिरेष्यच्छिवास्त्वां प्रभो॥२२॥
बिभ्राणो
नखविक्रियां भयकरीं धूतोल्लसद्वालधी
रौद्रं शब्दमनीचकैः प्रकटयन्भूपोऽवनीपादृतः।
त्वद्भक्त्या भृतकोऽव्यवाप्यनृपतां मांसादरं वर्धय-
न्धत्तेऽनेकपराजिदर्पदलने
शार्दूलविक्रीडितम्
॥२३॥
विद्यामन्त्रैर्न कार्यंसुरतरुभिरलं वित्तेन च मृतं
पर्याप्तं राज्यलक्ष्म्या कृतममरतया ह्यास्तां
सुवदना
।
स्फूर्जत्वेका तु भक्तिस्तव मम मनसि ध्वस्ताखिलमला
कैवल्यश्रीर्यया स्यात्करतलनिलया
साह्णाय भगवन्॥२४॥
श्रीवीरः सर्वदिक्कैः कनकरुचितनूरोचिरुद्दीप्तदीपै-
र्मङ्गल्यः सोऽस्तु दीपोत्सव इव जगदानन्दसंदर्भकन्दः।
सूक्तिर्जैनप्रभीयं मृदुविशदपदा
स्रग्धरा
धीयमाना
भव्यानां भव्यभूत्यै भवतु भवतुदे भावनाभावितानाम्॥२५॥
इति श्रीजिनप्रभसूरिविरचितो वीरस्तव।
________________
श्रीजिनप्रभसूरिविरचितः
चतुर्विंशतिजिनस्तवः।
कनककान्तिधनुःशतपञ्चकोच्छ्रितवृषाङ्कितदेहमुपास्महे।
रतिपतेर्जयिनं प्रथमं जिनं नृवृषभं वृषभं वृषभञ्जिनः॥१॥
द्विरदाञ्छित वाञ्छितदायक क्रमलुठ
त्रिदशासुरनायक।
स्तुतिपरः पुरुषो भवति क्षितावजित राजितरा जितराग ते॥२॥
तुरगलाञ्छन संभव संभवत्वहरिदं जिन यत्र रसादहम्।
हृदि दधे भणितीर्गुणभूरुहां शमहिता महिता महि तावकीः॥३॥
भवमहार्णवनिस्तरणेच्छया त्वमभिनन्दन देव निषेव्यसे।
व्रतभृतां कुगतेः स्मरनिग्रहप्रसभया सभया सभयात्मना॥४॥
त्रिभुवनामित कामितपूरणे सुरतरोरुपमामतिगामुकौ।
तव विभो भजते भवतः क्रमावसुमते सुमते सुमतेर्दद॥५॥
धरनृपात्मज षष्ठजिनेश्वर त्वयि कृतप्रणयः क्रियते पतिः।
रभसतः प्रथितार्थि^(……)तोपरमया रमयारमयान्वितः॥६॥
प्रभुसुपार्श्व जगत्रितयाज्जनुःपवितकाशिपुरीक विलक्षण।
सुकृतिनः कृतिनश्चरितं विदुः सुभवतो भवतो भवतोदनम्॥७॥
कुनयकाननभञ्जनकुञ्जराः शशिरुचे महसेनसुत प्रभो।
निखिलजीवनिकायदितोक्तिभिः शुभवदाभवदाभवदागमाः॥८॥
युधि विजित्य मनोभवमग्रहीन्मकरमङ्कमिषाद्ध्वजमस्य यः।
स्तुतजनाः सुविधिं कुदृशां सुरस्तुतमसंतमसं तमसंस्तुतम्॥९॥
दृढरथाङ्गजशीतल शीतलद्युतिकला विमला तव भारती।
मनसि कस्य न हर्षसनाथतां जिन तता नततानततायिनी॥१०॥
जयति गण्डकलक्ष्म तनुर्जिनः शशिमुखाम्बुजदृग्दशमोत्तरः।
कनकदीप्तिरमर्षित हीरकस्तबरदो वरदो वरदोर्युगः॥११॥
शुभमयी वासुपूज्यसुतप्रभो भुवननेत्रमहो महिपाङ्किता।
तव तनुर्वितनोतु सुखं सतामरुचिरं रुचिरं रुचिरञ्जिता॥१२॥
सकलसत्त्वसरोजविकासने रविरुचिर्विमल त्रिजगत्पते।
अपि शमं नयते तव गीर्जितामृतरसा तरसा तरसा तृषम्॥१३॥
निजयशोभरनिह्नुतजाह्नवीजलवलक्षितकीर्तिरनन्तजित्।
दिशतु वः कुमतासुरनिग्रहे भृशमनःशमनः शमनश्वरम्॥१४॥
भव भयं तव धर्म धुनोतु वाक्श्रुतिपथातिथितां गमिता सती।
किमु करोति न पित्तरजः शमं वरसिता रसिता रसिताजुषा॥१५॥
जयति शान्तिजिनः स्म जगन्ति या भटचमूर्युधि मोहमहीपतेः।
रणकथामपि भक्तिभरेण ते स सहसा सहसा सहसामुचत्॥१६॥
अवति कुन्थुजिनाधिप राज्यमा हिमवतस्त्वयि चक्रहताहितम्।
त्रिदिवतोऽप्यधिकाजनि ऋद्धिभिर्घनरसा नरसा न रसा न किम्॥१७॥
जगदधीश सुदर्शनभूमिपान्वयपयःसरिदीशशिखामणे।
प्रणिदधेऽन्तिषदो विषदव्रता वनरता न रता नर तावकान्॥१८॥
हृदि नरस्तव मल्लिजिन स्मरन्नपि हि मूर्तिमुपैति महत्फलम्।
निशमयन्समताकरुणाञ्चितां किमुदितामुदिता मुदितादरः॥१९॥
त्वयि न सुव्रत कच्छपलाञ्छनोऽञ्जनरुचिर्हरिवंशविभूषणः।
शिवसुखाय तपः परशुच्छिता शुभवतो भवतो भवतो धियाम्॥२०॥
विरतिवर्मतटावतिकुण्ठितस्मरशरः शरणीक्रियतां त्वया।
गुणगणस्य नमिर्बुधबर्हणब्रजनभाजनभाजनभावभाक्॥२१॥
अनुमितं खलु नेमिविभो भवभ्रमणतो मयका यदियच्चिरम्।
महितपाद भवान्भवतः कृपाभवनमावनमावनमालिका॥२२॥
कमठशासनपार्श्व शिवंकरे रमत एव मनः प्रियधर्मणाम्।
अपि कुतीर्थ्यजनेन दुरात्मना तव मते वमतेऽवमतेजसः॥२३॥
त्रिजगदीक्षण केसरिलक्षण क्षणमपि प्रभुवीर मनोगिरौ।
गुणगणान्मम मा स्म विरज्यतामुदयिता दयितादयि तावकात्॥२४॥
च्युतजनुर्व्रतकेवलनिर्वृतिक्षणदिनाददतां मुदमार्हता।
व्यरचि यैरुपयत्रिदशैर्दृशां नवसुधा वसुधावसुधामभिः॥२५॥
इति जिनप्रभवो मयकान्तिमक्रमगतैर्यमकावयवैर्नुताः।
बलममी वितरन्तु धुरि स्थिताः शुभवतां भवतां भवतान्ति भित्॥२६॥
सदुपदेशकरप्रसरक्षताखिलतमस्कतया तपनोपमाः।
ददतु तीर्थकृतो मम निर्ममा शमरमामरमा मरमानिताः॥२७॥
जयति दुर्नयपङ्कजिनीवने हिमततिर्मतिकैरवकौमुदी।
शमयितुं तिमिराणि जने महावृजिनभाजि नभाजिनभारती॥२८॥
करकृताम्रफला पृणती जिनप्रभवतीर्थमिभारिमधिष्ठिता।
हरतु हेमरुचिः सुदृशां सुखव्युपरमं परमं परमम्विका॥२९॥
इति श्रीजिनप्रभसूरिप्रणीतश्चतुर्विंशतिजिनस्तवः।
_____________
श्री जिनप्रभसूरिविरचितः
पार्श्वस्तवः।
अधियदुपनमन्तो यात्रिकाः प्रीतिपात्रा
अविकलफलशालि प्राणितं मन्वते स्वम्।
स जयति फलवर्धिस्ता (स्था) नक्लृप्तावतार-
स्त्रिभुवनभवनश्रीदीपकः पार्श्वनाथः॥१॥
जिनविभुरविभाव्यं वैभवं भूरि विभ्र-
द्भवतु भुजगभोगाभोगविभ्राजिमौलिः।
शुभसुभगिमभङ्गीभाजनं भक्तिभाजा-
मभिमतफलकल्पानोकहः शोकहर्ता॥२॥
शरदुडुपरुचिश्रीगर्वसर्वस्वचौरै-
र्धवलितनिखिलाशामण्डलः कीर्तिपूरैः।
दधदलिकुलनीलं भावितानं नताना-
मुपनयतु समृद्धीराश्वसावाश्वसेनिः॥३॥
किमपि जिन विजेतुं दुःशकानां शकानां
महिम तलिनयन्त (?) स्त्वत्प्रभावस्य लेशाः।
प्रसृमरकलिकालक्षोणिपालप्रताप-
प्रतिहतिकृतहस्ताः स्वस्ति विस्तारयन्ति॥४॥
सुहृदति रिपुवारः क्षीरति क्षारनीरं
तुहिनति दहनोऽहिः पद्मिनीनालति द्राकू।
स्थलति जलधिरेणत्येणराजः करीन्द्रो
गवति भवति भक्तिं विभ्रतामीश पुंसाम्॥५॥
नतशखमखचूडारत्नरोचिष्णुरोचिः
कवचितचरणाम्भोजाग्रजाग्रन्नखार्चिः।
पुलकनिचुलिताङ्गैरुत्प्रमोदैर्न कैः कै-
रमृतपदसुखाय स्तूयसे भूयसे त्वम्॥६॥
इदमिन तव चैत्यं शैत्यकृल्लोचनानां
कलितकलिवितण्डं मण्डपाखण्डितश्रि।
तुलितसुरविमानं मानवानाममानां
दिशति मुदमुदग्रस्तम्भपाञ्चालिकाभिः॥७॥
तव चरणयुगेन स्पर्धिनः कल्पवृक्षाः
क इति लपतु नेतुर्युक्तिरिक्तं खलोऽपि।
दिवि विबुधगणानां त्वत्पुरो दास्यभाजां
दधति खलु सदा यद्गेहदासत्वमेते॥८॥
तव तनुरुचिसालं नम्रमूर्धा जनोऽयं
प्रतिफलितमसक्तं स्वे ललाटे विचिन्त्य।
मरकतदलनील ध्यानसिद्धिं व्यपोढ-
श्रममुपलभते ही लोभऋद्धेर्निदानम्॥९॥
सकलकुशलसंपद्वीरुधां वारिवाहः
प्रचितदुरितकक्षप्रक्षये हव्यवाहः।
कमठधरणपद्मापार्श्वयक्षैश्चिराय
त्वमचिरहितपार्श्वः पार्श्वतीर्थेश नन्द्याः॥१०॥
सफलय फलवर्धीचैत्यलक्ष्मीवतंस
त्रिजगदभयदातर्मङ्क्षुनः काङ्क्षितानि।
स्तवनमवनमेतच्चेतसस्तावकीनं
विलसतु रसनाग्रे चातुरीचञ्चुवाचाम्॥११॥
नन्दर्तुज्वलनक्षपाकर (१३६९) मिते संवत्सरे वैक्रमे
राधस्याधिशिती त्रयोदशिवुधे संघेन सार्धंसुधीः।
यात्रायै फलवर्धिकामुपगतः स्तोत्रं तवेदं प्रभो
श्रीमत्पार्श्व जिनप्रभो मुनिपतिः संसूत्रयामासिवान्॥१२॥
इति श्रीजिनप्रभसूरिविरचितः पार्श्वस्तव।
_____________
** जिनप्रभसूरिविरचितः**
श्रीवीरनिर्वाणकल्याणकस्तवः।
श्रीसिद्धार्थनरेन्द्रवंश कमलाशृङ्गारचूडामणे-
र्भव्यानां दुरपोहमोहतिमिर प्रोज्जासनेऽहर्मणेः।
कुर्वे किंचन काञ्चनोज्ज्वलरुचेर्निर्वाणकल्याणक-
स्तोत्रं गोत्रभिदर्चनीयचरणाम्भोजस्य वीरप्रभोः॥१॥
प्राप्य देवशरदां द्विसप्ततिं शीतगौ पवनदैवतर्क्षगे।
तामुपायत रसेन (?) कार्तिकामावसी निशि शिवश्रियं भवान्॥२॥
हस्तिपालकनृपालपालिता पूर्न पूरयतु मन्मनःशुचा।
यत्र दर्श इव चन्द्रमा भवानस्तमाप भवतापहापनः॥३॥
ऊर्जदर्शनिशि दर्शिताद्वयास्तत्र पुर्यखिलवर्णजाः प्रजाः।
त्वन्महोदयमहीतयाधुनाप्युत्सवं विदधतेऽनुवत्सरम्॥४॥
यैर्ध्वनिस्तव पपे श्रवःपुटैः षोडशप्रहरदेशनाविधौ।
तान्निवेश्य धुरि धन्यताजुषां रेखया न खलु सृप्यतेऽन्यतः॥५॥
पुण्यपापफलपाकवर्णनामध्यमध्ययनपङ्क्ति युक्छतम्।
व्याकृथाः स्फुटमपृष्ट षट्कृतिव्याकृतीश्च परिषत्पुरस्तदा॥६॥
जीवति त्वयि जिनेन्द्रभूतिना त्वत्प्रणामविधिभङ्गभीरुणा।
नूनमैष्यत न देव केवलज्ञानसंपदनुरागभागपि॥७॥
यद्विधेयमुपदिश्य गौतमः प्रैषि भक्तिभृदपि त्वयान्यतः।
रोगिणः कटुकजायु440पानवज्ज्यायसेऽस्य चक्लृपे गुणाय तत्॥८॥
त्वद्दिदृक्ष्ववतरत्सुरावलीयानदेहमणिभूषणांशुभिः।
सा कुहूरजनिरस्ततामसा पूर्णिमानिशमुपाहसद्ध्रुवम्॥९॥
निर्वृते त्वयि विलोक्य विष्टपं ध्वान्तपूरपरिपूरितोदरम्।
रोदयन्त इव रोदसीं प्रतिशुद्भरेण रुरुदुः पुरंदराः॥१०॥
वह्निवायुजलदेश्वरैः सुरैस्तैलेपर्णिक441कृताङ्गसंस्कृतेः।
भूतिमात्रमपि भूतिधाम ते येऽस्पृशन्त न तान्रजोऽस्पृशत्॥११॥
भक्तितो महितुमीश वासवास्तावकीनहनुसंग्रहं व्यधुः।
नूनमक्षविजयेन तावकानुग्रहेण हनुमत्त्वमिच्छवः॥१२॥
कुग्रहा न तव जातु शासनं वीर बाधितुमलंभविष्णवः।
एककः स खलु भस्मकग्रहो वाधते भवदुपेक्षितस्तदा॥१३॥
जग्मुषि त्वयि शिवं नराधिपास्तं क्षणं गृहिणीनबोधयन् (?)।
ये बभुः कुनयकाननप्लुषस्त्वत्प्रतापशिखिनः कणा इव॥१४॥
यन्न कश्चन मुनिस्त्वया समं मुक्तिमायदितरैर्जिनैरिव।
दुःपमासमयभावलिङ्गिनां व्याञ्जि तेन गुरुनिर्व्यपेक्षता॥१५॥
प्रस्थिते त्वयि शिवाय तत्क्षणं संमुमूर्छुरधिपृथ्वि कुन्थवः।
क्षुद्रजीव बहुलामतः परं सूचयन्त इव भाविनीं महीम्॥१६॥
यत्र यत्र चरणौ त्वयार्पितौ तत्तदास्पदमगादपापताम्।
एकया पुनरपापया पुरा पापयाजनि सुरोक्तिनामतः॥१७॥
यत्र मुक्तिमगमः शमद्रुमावाप पापतुदि नार्कतापतत्।
प्रीतिमीतितनुकुञ्जभञ्जने नागनागकरणं करोतु नः॥१८॥
यः पठत्यशठधीस्तव वीर स्तोत्रमेतदवधानसमेतः।
तत्र भावरिपुराजिरयश्रीभाजि न प्रभवति प्रवलापि॥१९॥
इति श्रीजिनप्रभसूरिविरचितः श्रीवीरनिर्वाणकल्याणकस्तवः।
———————
** श्रीविमलप्रणीता**
प्रश्नोत्तररत्नमाला।
प्रणिपत्य वर्धमानं442 प्रश्नोत्तररत्नमालिकां443 वक्ष्ये।
नागनरामरवन्द्यं देवं देवाधिपं वीरम्॥१॥
कः खलु नालंक्रियते दृष्टादृष्टार्थसाधनपटीयान्।
कण्ठस्थितया विमलप्रश्नोत्तररत्नमालिकया॥२॥
भगवन्किमुपादेयं गुरुवचनं हेयमपि च किमकार्यम्।
को गुरुरधिगततत्त्वः सत्त्वहिताभ्युद्यतः सततम्॥३॥
त्वरितं किं कर्तव्यं विदुषा संसारसंततिच्छेदः।
किं मोक्षतरोर्वीजं सम्यग्ज्ञानं क्रियासहितम्॥४॥
कि पथ्यदनं धर्मः कः शुचिरिह यस्य मानसं शुद्धम्।
कः पण्डितो विवेकी किं विषमवधीरिता गुरवः॥५॥
किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव।
मनुजेषु दृष्टतत्त्वं444 स्वपरहितायोद्यतं जन्म॥६॥
मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः।
का भववल्ली तृष्णा को वैरी नन्वनुद्योगः॥७॥
कस्माद्भयमिह मरणादन्धादपि को विशिष्यते रागी।
कः शूरो यो ललनालोचनवाणैर्न च व्यथितः॥८॥
पातुं कर्णाञ्जलिभिः किममृतमिव बुध्यते सदुपदेशः।
किं गुरुताया मूलं यदेतदप्रार्थनं नाम॥९॥
किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन।
किं दारिद्र्यमसंतोष एव किं लाघवं याच्ञा॥१०॥
किं जीवितमनवद्यं किं जाड्यं पाटवेऽप्यनभ्यासः।
को जागर्ति विवेकी का निद्रा मूढता जन्तोः॥११॥
नलिनीदलगतजललवतरलं किं यौवनं धनमथायुः।
के शशधरकरनिकरानुकारिणः सज्जना एव॥१२॥
को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या।
किं सत्यं भूतहितं किं प्रेयः प्राणिनामसवः॥१३॥
किं दानमनाकाङ्क्षंकिं मित्रं यन्निवर्तयति पापात्।
कोऽलंकारः शीलं किं वाचां मण्डनं सत्यम्॥१४॥
किमनर्थफलं मानसमसंगतं का सुखावहा मैत्री।
सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागः॥१५॥
कोऽन्धो योऽकार्यरतः को बधिरो यः शृणोति न हितानि।
को मूको यः काले प्रियाणि वक्तुं न जानाति॥१६॥
किं मरणं मूर्खत्वं किं चानर्घ्यंयदवसरे दत्तम्।
आ मरणात्किं शल्यं प्रच्छन्नं यत्कृतमकार्यम्॥१७॥
कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने।
अवधीरणा क्व कार्या खलपरयोषित्परधनेषु॥१८॥
काहर्निशमनुचिन्त्या संसारासारता न च प्रमदा।
का प्रेयसी विधेया करुणा दाक्षिण्यमपि मैत्री॥१९॥
कण्ठगतैरप्यसुभिः कस्यात्मा नो समर्प्यते जातु।
मूर्खस्य विषादस्य च गर्वस्य तथा कृतघ्नस्य॥२०॥
कः पूज्यः सद्वृत्तः कमधनमाचक्षते चलितवृत्तम्।
केन जितं जगदेतत्सत्यतितिक्षावता पुंसा॥२१॥
कस्मै नमः सुरैरपि सुतरां क्रियते दयाप्रधानाय।
कस्मादुद्विजितव्यं संसारारण्यतः445 सुधिया॥२२॥
कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य।
क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाय446॥२३॥
विद्युद्विलसितचपलं किं दुर्जनसंगतं युवतयश्च।
कुलशैलनिष्प्रकम्पाः के कलिकालेऽपि सत्पुरुषाः॥२४॥
किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्यमौदार्यम्।
तनुतरवित्तस्य तथा प्रभविष्णोर्यत्सहिष्णुत्वम्॥२५॥
चिन्तामणिरिव दुर्लभमिह किं कथयामि ननु चतुर्भद्रम्।
किं तद्वदन्ति भूयो विधूततमसो विशेषेण॥२६॥
दानं447 प्रियवाक्सहितं ज्ञानमगर्वंक्षमान्वितं शौर्यम्।
त्यागसहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम्॥२७॥
इति कण्ठगता विमला प्रश्नोत्तररत्नमालिका येषाम्।
ते मुक्ताभरणा अपि विभान्ति विद्वत्समाजेषु॥२८॥
रचिता448 सितपटगुरुणा विमला विमलेन रत्नमालेव।
प्रश्नोत्तरमालेयं कण्ठगता कं न भूषयति॥२९॥
इति श्रीविमलविरचिता प्रश्नोत्तररत्नमाला।
_____________
महाकविश्रीधनपालप्रणीता
ऋषभपञ्चाशिका।
जय जन्तुकप्पपायव चन्दायव रामपङ्कयवणस्स।
सयलमुणिगामगामणि तिलोअचूणामणि नमो ते॥१॥
[ जय जन्तुकल्पपादप चन्द्रातप रागपङ्कजवनस्य।
सकलमुनिग्रामग्रामणीस्त्रिलोकचूडामणे नमस्ते॥]
जय रोसजलणजलहर कुलहर वरनाणदंसणसिरीणम्।
मोहतिमिरोहदिणयर नयर गुणगणाण पउराणम्॥२॥
[ जय रोपज्वलनजलधर कुलगृह वरज्ञानदर्शनश्रियोः।
मोहतिमिरौघदिनकर नगर गुणगणानां पौराणाम्॥]
दिट्ठो कहँवि विहडिए गण्ठिम्मि कवाडसंपुडघणम्मि।
मोहन्धयारचारयगएण जिण दिणयरुव्व तुमम्॥३॥
\दृष्टः कथमपि विघटिते ग्रन्थौ कपाटसंपुटघने।
मोहान्धकार[चारकगतेन449 जिन दिनकर इव त्वम्॥]
भविअकमलाणँ जिणरवि तुह दंसणपहरिसुससन्ताणम्।
दढबद्धा इव विहडन्ति मोहतमभमरचन्दाई॥४॥
[भव्यकमलानां जिनरवे त्वद्दर्शनप्रहर्षोच्छ्रसताम्।
दृढबद्धा इव विघटन्ते मोहतमोभ्रमरवृन्दानि॥]
लट्ठत्तणाभिमाणो सव्वोसव्वट्ठसुरविमाणस्स।
एइँ नाह नाहिकुलगरघरावयारम्मुहे नट्ठो॥ ५॥
[ प्रधानत्वाभिमानः सर्वः सर्वार्थसुरविमानस्य।
त्वयि नाथ नाभिकु.…गृहावतारोन्मुखे नष्टः॥]
एइँ चिन्तादुल्लहमुक्खसुक्खफलए अउव्वकप्पदुमे।
अवइन्ने कप्पतरू जयगुरु हित्था इव पउत्था॥६॥
[त्वयि चिन्तादुर्लभमोक्षसुखफलदेऽपूर्वकल्पद्रुमे।
अवतीर्णे कल्पतरवो जगद्गुरो ह्रीस्था इव प्रोपिताः॥]
अरएणं तइएणं इमाइ ओसप्पिणीइ तुह जम्मे।
फुरिअं कणगमएणं व कालचक्किक्कपासम्मि॥७॥
[अरकेण तृतीयेणास्यामवसर्पिण्या तव जन्मनि।
स्फुरितं कनकमयेनेव कालचक्रैकपार्श्वे॥]
जम्मि तुमं अहिसित्तो जत्थ य सिवसुक्खसंपयं पत्तो।
ते अट्ठावयसेला सीसामेला गिरिकुलस्स॥८॥
[ यत्र त्वमभिषिक्तो यत्र च शिवसुखसंपदं प्राप्तः।
तावष्टापदशैली शीर्पापीडौगिरिकुलस्य॥]
धन्ना सविम्हयं जेहिँझत्ति कृतरज्जमज्जणोहरिणा।
चिरधरिअनलिणपत्ताभिसेअसलिलेहिँ दिट्ठोसि॥९॥
[धन्याः सविस्मयं यैर्झगिति कृतराव्यमज्जनो हरिणा।
चिरधृतनलिनीपत्राभिषेकसलिलैर्दृष्टोऽसि॥]
दाविअविज्जासिप्पो वज्जरिआसेसलोअववहारो।
जाओसि जाण सामिअ पयाउताओ कयत्थाओ॥१०॥
[ दर्शितविद्याशिल्पो व्याकृताशेषलोकव्यवहारः।
जातोऽसि यासां स्वामी प्रजास्ताः कृतार्थाः॥]
बन्धुविहत्तवसुमई वच्छरमच्छिन्नदिन्नधणनिवहो।
जह तं तह को अन्नो निअमधुरं धीर पडिवन्नो॥११॥
[बन्धुविभक्तवसुमतीको वत्सरमच्छिन्नदत्तधननिवहः।
यथा त्वं तथा कोऽन्यो नियमधुरां धीर प्रतिपन्नः॥]
सोहसि पसाहिअंसो कज्जलकसिणाहिँ जयगुरु जडाहि।
उवगूढविसज्जिअरायलच्छिवाहच्छडाहि वा॥१२॥
[शोभसे प्रसाधितांसः कज्जलकृष्णाभिर्जगद्गुरो जटाभिः।
उपगूढविसर्जितराजलक्ष्मीवाष्पच्छटाभिरिव॥]
उवसामिआ अणज्जा देसेसु तुए पवन्नमोणेण।
अभणन्तच्चिअ कज्जं परस्स साहन्ति सप्पुरिसा॥१३॥
[उपशमिता अनार्या देशेषु त्वया प्रपन्नमौनेन।
अभणन्त एव कार्यं परस्य साधयन्ति सत्पुरुषाः॥]
मुणिणो वि तुहल्लीणा नमिविनमी खेअराहिवा जाया ।
गुरुआण चलणसेवा न निष्फला होइ कइयावि॥१४॥
[मुनेरपि तवालीनौ नमिविनमी खेचराधिपौ जातौ।
गुरूणां चरणसेवा न निष्फला भवति कदाचनापि॥]
भद्दं से सेअंसस्स जेण तवसोसिओ निराहारो।
वरिसन्ते निव्वइओ मेहेण व वणदुमो तं सि॥१९॥
[भद्रं तस्य श्रेयसो येन तपःशोषितो निराहारः।
वर्षान्ते निर्वापितो मेघेनेव वनद्रुमस्त्वमसि॥]
उप्पन्नविमलनाणे तुमम्मि भुवणस्स विअलिओ मोहो।
सेलुग्गयसूरे वासरम्मि गयणस्स व तमोहो॥१६॥
[उत्पन्नविमलज्ञाने त्वयि भुवनस्य विगलितो मोहः।
सकलोद्गतसूर्ये वासरे गगनस्येव तमओघः॥]
पूआवसरे सरिसो दिट्ठो चक्कस्स तं पि भरहेण।
विसमा हु विसयतिह्णागुरुआण वि कुणइ मइमोहम्॥१७॥
[पूजावसरे सदृशो दृष्टश्चक्रस्य त्वमपि भरतेन।
विषमा खलु विपयतृष्णा गुरूणामपि करोति मतिमोहम्॥]
पढमसमोसरणमुहे तुह केवलसुरवहूकउज्जोआ।
जाया अग्गेइदिसा सेवासयमागयसिहि व्व॥१८॥
[प्रथमसमवसरणमुखे तव केवलसुरवधूकृतोद्दयोता।
जाता आग्नेयी दिशा सेवास्वयमागतशिखीव॥]
गहिअवयभङ्गमलिणो नूणं दूरोणएहिँ मुहराओ।
तइओ पढमुल्लअतावसेहिँतुह दंसणे पढमे॥१९॥
[गृहीतव्रतभङ्गमलिनो नून दूरावनतैर्मुखरागः।
स्थगितः प्रथमोत्पन्नतापसैस्तव दर्शने प्रथमे॥]
तेहिँ परिवेढिएण य वूढा तुमए खणं कुलवइस्स।
सोहा विअडंसत्थलघोलन्तजडाकलावेण॥२०॥
[तैः परिवेष्टितेन च व्यूढा त्वया क्षणं कुलपतेः।
शोभा विकटांसस्थलप्रेङ्खज्जटाकलापेन॥]
तुह रूवं पेच्छन्ता न हुन्ति जे नाह हरिसपडिहत्था।
समणावि गयमणच्चिअ ते केवलिणो जइन हुन्ति॥२१॥
[तव रूप पश्यन्तो न भवन्ति ये नाथ हर्षपरिपूर्णाः।
समनस्का अपि गतमनस्का इव ते केवलिनो यदि न भवन्ति॥]
पत्तानि असामन्नं समुन्नइंजेहिँदेवया अन्ने।
ते दिन्ति तुम्ह गुणसंकहासु हासं गुणा मज्झ॥२२॥
[प्राप्तान्यसामान्यां समुन्नतिं यैर्दैवतान्यन्यानि।
ते ददते तव गुणसंकथासु हासं गुणा मह्यम्॥]
दोसरहिअस्स तुह जिण निन्दावसरम्मि भग्गपसराए।
वायाइ वयणकुसला वि बालिसाहुन्ति मच्छरिणो॥२३॥
[दोषरहितस्य तव जिन निन्दावसरे भग्नप्रसरया।
वाचा वचनकुशला अपि बालिशायन्ते मत्सरिणः॥]
अणुरायपल्लविल्ले रइवल्लिफुरन्तहासकुसुमम्मि।
तवताविओ वि न मणो सिङ्गारवणे तुहत्लीणो॥२४॥
[अनुरागपल्लववति रतिवल्लीस्फुरद्धासकुसुमे।
तपस्तापितमपि न मनः शृङ्गारवने तव लीनम्॥]
आणा जस्स विलइआ सीसे सेसव्व हरिहरेहिं पि।
सो वि तुह झाणजलणे मयणो मयणं विअ विलीणो॥२५॥
[आज्ञा यस्य विलम्बिता शीर्पे शेपेव हरिहराभ्यामपि।
सोऽपि तव ध्यानज्वलने मदनो मदन इव विलीनः॥]
पइँ नवरि निरभिमाणा जाया जयदप्पभज्जणुत्ताणा।
वम्महनरिन्दजोहा दिट्ठिच्छोहा मयच्छीणम्॥२६॥
[त्वयि केवलं निरभिमाना जाता जगद्दर्पभञ्जनोत्तानाः।
मन्मथनरेन्द्रयोधा दृष्टिक्षोभा मृगाक्षीणाम्॥]
विपमा रागद्देसा निन्ता तुरयव्व उप्पहेण मणम्।
ठायन्ति धम्मसारिहि दिट्ठे तुह पवयणे नवरम्॥२७॥
[विपमौ रागद्वेपौ नयन्तौ तुरगाविवोत्पथेन मनः।
तिष्ठतो धर्मसारथे दृष्टे तव प्रवचने निश्चितम्॥]
पच्चलकसायचोरे सइसंनिहिआसि चक्कधणुरेहा।
हुन्ति तुह च्चिअ चलणा सरणं भीआण भवरन्ने॥२८॥
[प्रत्यलकपायचोरे सदासंनिहितासि चक्रधनूरेखौ।
भवतस्तवैव चरणौ शरण भीतानां भवारण्ये॥]
तुह समयसरव्भट्ठा भमन्ति सयलासु रुक्खजाईसु।
सारणिजलं व जीवा ठाणट्ठाणेसु वज्झन्तो॥२९॥
[तव समयसरोभ्रष्टा भ्रमन्ति सकलासु रू(वृ)वृक्षजातिषु।
सारणिजलमिव जीवा स्थानस्थानेषु वध्यमानाः॥]
सलिलिव्व पवयणे तुह गहिए उड्ढंअहो विमुक्कम्मि।
वच्चन्ति नाह कूवारहट्टघडिसंनिहा जीवा॥३०॥
[सलिल इव प्रवचने तव गृहीते ऊर्ध्वमधो विमुक्ते।
व्रजन्ति नाथ कूपारघट्टघटीसंनिभा जीवाः॥]
लीलाइ निन्ति सुक्खं अन्ने जह तित्थिआ तहा न तुमम्।
तह वि तुह मग्गलग्गा मग्गन्ति बुहा सिवसुहाइं
॥३१॥
[लीलया नयन्ति सुखमन्ये यथा तीर्थिका तहा न त्वम्।
तथापि तव मार्गलग्ना मृगयन्ते बुधाः शिवसुखानि॥]
सारिव्व बन्धवहभरणभाइणो जिण ण हुन्ति पर दिट्ठे।
अक्खहिँवि हीरन्ता जीवा संसारफलयम्मि॥३२॥
[शारय इव बन्धवधमरणभागिनो जिन न भवन्ति त्वयि दृष्टे।
अक्षैरपि ह्रियमाणा जीवाः संसारफलके॥]
अवहीरिआ तए पहु निन्ति निओगिक्कसङ्खलावद्धा।
कालमन्तं सत्ता समं कयाहारनीहारा॥३३॥
[अवधीरितास्त्वया प्रभो नयन्ति निगोदे (योगै) कशृङ्खलावद्धाः।
कालमनन्तं सत्ता समं कृताहारनीहाराः॥]
जेहिँतविआणँ तवनिहि जायइ परमा तुमम्मि पडिवत्ती।
दुक्खाइँ ताइँ मन्ने न हुन्ति कम्मं अहम्मस्स॥३४॥
[यैस्तापितानां तपोनिधे जायते परमा त्वयि प्रतिपत्तिः।
दुःखानि तानि मन्ये न भवन्ति कर्माधर्मस्य॥]
होही मोहच्छेडं तुह सेवाए धुवत्ति नन्दामि।
जं पुण न वन्दिअव्वो तत्थ तुमं तेण झिज्जामि॥३५॥
[भविष्यति मोहच्छेदस्तव सेवया ध्रुव इति नन्दामि।
यत्पुनर्न वन्दितव्यस्तत्र त्वं तेन क्षीये॥]
जा तुह सेवाविमुहस्स हन्तु मा ताड मह समिद्धीओ।
अहियारसंपया इव पेरन्तविडम्बणफलाओ॥३६॥
[यास्तव सेवाविमुखस्य भवन्तु मा ता मम समृद्धयः।
अधिकारसंपद इव पर्यन्तविडम्बनफलाः॥]
भित्तूण तमं दीवो देव पयत्थे जणस्स पयडेइ।
तुह पुण विवरीयमिणं जइक्कदीवस्स निव्वडिअम्॥३७॥
[भित्त्वा तमो दीपो देव पदार्थाञ्जनस्य प्रकटयति।
तव पुनर्विपरीतमिदं जगदेकदीपस्य निर्वृत्तम्॥]
मित्थत्तविसपत्ता सचेयणा जिण न हुन्ति किं जीवा।
कन्नम्मि कमइ जइ फित्तिअं पि तुह वयणमन्तस्स॥३८॥
[मिथ्यात्वविषप्रसुप्ताः सचेतना जिन न भवन्ति कि जीवाः।
कर्णयोः क्रामति यदि कियदपि त्वद्वचनमन्त्रस्य॥]
आयण्णिआ खणद्धं पि पइथिरं ते करन्ति अणुराअम्।
परसमया तह वि मणं तुह समयज्जाण न हरन्ति॥३९॥
[आकर्णिताः क्षणार्धंत्वयि स्थिरं ते कुर्वन्त्यनुरागम्।
परसमयास्तथापि मनस्तव समयज्ञानां न हरन्ति॥]
वाईहिँपरिग्गहिआ करन्ति विमुहं खणेण पडिवक्खम्।
तुज्झ नया नाह महागयव्व अन्नुन्नसंलग्गा॥४०॥
[वादि (जि) भिः परिगृहीताः कुर्वन्ति विमुखं क्षणेन प्रतिपक्षम्।
तब नया नाथ महागजा इवान्योन्यसंलग्नाः॥]
पावन्ति जस असमञ्जसा वि वयणेहिँ जेहिँ परसमया।
तुह समयमहोअहिणो ते मन्दा विन्दुनिस्सन्दा॥४१॥
[प्राप्नुवन्ति यशोऽसमञ्जसा अपि वचनैर्यैः परसमयाः।
तव समयमहोदधेस्तानि मन्दा विन्दुनिस्यन्दाः॥]
पर मुक्के पोअम्मिव जीवेहिँ भवन्नवम्मि पत्ताओ।
अणुवेलमावयामुहपडिएहिँ विडम्बणा विविहा॥४२॥
[त्वयि मुक्ते पोत इव जीवैर्भवार्णवे प्राप्ताः।
अनुवेलमापदा(गा)मुखपतितैर्विडम्बना विविधाः॥
]
वुत्थं अपत्थिआगयमत्थभवन्तो मुहुत्तवसिएण।
छावट्ठीअयराइंनिरन्तरं अप्पइट्ठाणे॥४३॥
[उषितमप्रार्थितागतमत्स्यभवान्तर्मुहूर्तमुषितेन।
षट्पष्टिसागरोपमानि (?) निरन्तरमप्रतिष्ठाने॥]
सीउह्नवासधारानिवायदुक्खं सुतिक्खमणुभूअम्।
तिरिअत्तणम्मि नाणावरणसमुच्छाइएणावि॥४४॥
[शीतोष्णवर्पधारानिपातदुःखं सुतीक्ष्णमनुभूतम्।
तिर्यक्त्वेऽपि ज्ञानावरणसमवच्छादितेनापि॥]
अन्तोनिक्खन्तेहिं पत्तेहिं पिअकलत्तपुत्तेहिं।
सुन्ना मणुस्सभवणाडएसु निव्भाइआ अङ्का॥४५॥
[अन्तेनिष्क्रान्तै प्राप्तैः (पात्रैः) प्रियकलत्रपुत्रैः।
शून्या मनुष्यभवनाटकेषु निभालिता अङ्काः॥]
दिट्ठा रिउरिद्धीओ आणाउ कया महट्टिअसुराणम्।
सहियावहीणदेवत्तणेसु दोगच्चसंतावा॥४६॥
[दृष्टा रिपुऋद्धय आज्ञा कृता महर्द्धिकसुराणाम्।
सोढाववहीनदेवत्वेषु दौर्गत्यसंतापौ॥]
सिञ्चन्तेण भववणं पल्लट्टा पल्लिआ रहट्टव्व।
घडिसंठाणोसप्पिणिओसप्पिणिपरिगया बहुसो॥४७॥
[सिञ्चता भववनं परिवर्ताः प्रेरिता अरघट्ट इव।
घटीसंस्थानावसर्पिण्युत्सर्पिणोपरिगता बहुशः॥]
भमिओ कालमणन्तं भवम्मि भीओ न नाह दुक्खाणम्।
दिट्ठे तुमम्मि संपइ जायं च भयं पलायं च॥४८॥
[भ्रान्तः कालमनन्त भवे भीतो न नाथ दुःखानाम्।
दृष्टे त्वयि संप्रति जातं च भयं पलायितं च॥]
जइ वि कयत्थो जगगुरु मज्झत्थो जइ वि तह वि पत्थेमि।
दाविज्जसु अप्पाणं पुणो वि कइयावि अह्माणम्॥४९॥
[यद्यपि कृतार्थो जगद्गुरो मध्यस्थो यद्यपि तथापि प्रार्थये।
दर्शयेरात्मानं पुनरपि कदाचिदप्यस्माकम्॥]
इअ झाणग्गिपलीविअकम्मिन्धण बालबुद्धिणा वि मए।
भत्तीइ थुओ भवभयसमुद्दवोहित्थवोहिफलो॥५०॥
[इति ध्यानाग्निप्रदीपितकर्मेन्धन बालबुद्धिनापि मया।
भक्त्या स्तुतो भवभयसमुद्रयानपात्रबोधिफलः॥
]
इति महाकविश्रीधनपालविरचिता ऋषभपश्चाशिका।
महाकविशोभनमुनिप्रणीता
चतुर्विंशतिजि^(१)नस्तुतिः।
टिप्पणसमेता।
________________________
धनपालपण्डितबान्धवेन शोभनाभिधानेन मुनिचक्रवर्तिना विरचितानांप्रतिजिन चतुष्कभावा षण्णवति (?) संख्याना शोभनस्तुतीनामवचूरिः किंचिल्लिख्यते। तत्रादौयुगादिस्तुतिमाह—
भव्याम्भोजविबोधनैकतरणे विस्तारिकर्मावली-
रम्भासामज नाभिनन्दन महानष्टापदाभासुरैः।
भक्त्या वन्दितपादपद्म विदुषां संपादय प्रोज्झिता-
रम्भासान जनाभिनन्दन महानष्टापदाभासुरैः॥१॥
हे नाभिनन्दन नाभिनरेन्द्रपुत्र, त्व महानुत्सवान्विदुषा सपादयेति संबन्धः। भव्या एवाम्भोजानि कमलानि तेषा विबोधन एकोऽद्वितीयस्तरणिः सूर्यस्तस्य संबोधन हे भव्याम्भोजविबोधनैकतरणे। सूर्यो यथा स्वगोसभारस्तमो विधूय पद्मखण्डानि विकासयत्येवं भगवानपि मिथ्यात्वादितमस्तोमं ध्वसयित्वा निजगोसंभारैर्भव्यजन्तूनां बोध विधत्ते। ननु भव्यानामेव स प्रबोध विधत्ते न त्वभव्यानां तर्हितस्य तद्बोधनेऽसामर्थ्यमायातमिति नैवम्। नहि भानवीया भानवो विश्वं विश्वमवभासयन्तोऽपि कौशिककुले आलोकमकुर्वाणा उपलम्भास्पदं स्युः। एवं भगवतो वाणी विश्वविश्वस्य प्रमोदविधायिन्यपि यद्यभव्यानां केपांचिन्निबिडकर्मनिगडनियन्त्रितानां प्रबोधाय न प्रभवति तर्हि तस्या न ह्यसामर्थ्यम्। किं तु तेषामेवाभाग्य येषां ता न रोचयन्ते (सा न रोचते) नहि जलदो जलं प्रयच्छन्नूषरक्षेत्रे तृणान्यनुत्पादयन्नुपालम्भ-सभावनामर्हतीत्यलं विस्तरेण। विस्तारिणी विस्तारवती कर्मणां ज्ञानावरणादिभेदभिन्नानामावली माला सैव रम्भा कदली तस्याः प्रमर्दहेतुत्वात्सामजो हस्ती। तस्य संबोधनम्। हे नाभिनन्दन। तथा महत्यो नष्टा आपदा यस्य स महानष्टापत्। संबोधन वा। तथा आभासुरैः कान्तिसभारेण समन्ताद्देदीप्यमानैरासुरैर्देवविशेषैर्भक्त्या आन्तर चित्तप्रतिबन्धेन हे वन्दितपादपद्म हे स्तुतचरणकमल। प्रोज्झिताः प्रकर्षेण त्यक्ता आरम्भाः सावद्यव्यापारा
————————————————————————————
१. एतस्या जिनस्तुतेः पुस्तकत्रयमवचूरिसमेत केवलदासात्मजेन भगवान्दासश्रेष्टिनास्मदर्थंप्रहितम् तत्र प्रथमं शुद्ध सुन्दर पश्चपत्रात्मक १५०५ मिते विक्रमाब्देलिखितम् द्वितीयमपि तादृशमेवैकादशपत्रात्मक १६१४ मिते विक्रमाब्दे लिखितम् तृतीय नातिशुद्धं त्रयोदशपत्रात्मक १६१५ मिते विक्रमाब्दे लिखितमस्ति।
येन तस्य सबोधनम्। तथा सह आमै रोगैर्वर्तते सामः। न तथा असामोऽरोगस्तस्य संबोधनम्। जनानभिनन्दयति तस्य संबोधनम्। तथा अष्टापदं सुवर्णंतद्वदासमन्ताद्भा दीप्तिर्यस्य तस्य संबोधनम्। तप्त जात्यतपनीयसमवर्णत्वाद्भगवतः॥
ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपूर्यन्मनो
दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः।
यत्पादौ च सुरोज्झिताः सुरभयांचक्रुः पतन्त्योऽम्बरा-
दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः॥२॥
ते जिनोत्तमा जिनेन्द्रा वो युष्मान्पान्तु रक्षन्तु। किंभूता। क्षताः क्षीणा रुजो रोगा येषां येभ्यो वा ते। तथा येषा जिनानां मनो मानस कर्मतापन्न दारा कलत्राणि कर्तृरूपाणि नाचिक्षुपुर्न क्षोभयामासु’। ‘दाराः प्राणास्तु वलजाः’ इति वचनाद्दारशब्दो बहुवचनान्तःपुलिङ्गश्च। ते दारा किंभूताः। विभ्रमैर्विलासै रोचिता सशोभिता। सुमनसः सुन्दरहृदया। मन्दारवा मृदुरवा सन्तो राजिताः शोभिताः। सुमनस पुष्पाणि कर्तॄणि यत्पादौ यच्चरणौ सुरभयामासुः। किंभूताः सुमनसः। सुरोज्झिता देवमुक्ताः। अम्बरादाकाशात्पतन्त्यः। समवसरणभुवि सगच्छमानाः। आराविणः शब्दायमाना भ्रमरास्तेषामुचिता योग्या। मन्दारकुसुमव्रातैरजिता॥
शान्ति वस्तनुतान्मिथोऽनुगमनाद्यन्नैगमाद्यैर्नयै-
रक्षोभं जन हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम्।
तत्पूज्यैर्जगता जिनैः प्रवचन दृप्यत्कुवाद्यावली-
रक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालंकृतम॥३॥
तज्जगतां पूज्यैर्जिनै कृत प्रवचन गणिपिटकरूप वो युष्माकं शान्तिं मोक्षमुपशम वा तनुतात्कुरुतात्।यन्मिथोऽनुगमनादनुवर्तनाद्धेतोर्नैगमादिभिर्नयैरक्षोभं परवादिभिरजेय वर्तते। हे जन भव्यलोक। शान्तिं किंभूताम्। अतुला निरुपमाम्। मत किंभूतम्। छिदमदं छिन्नदर्पमुदीर्णमुच्छ्रितमङ्गानामाचारादीना जाल समूहो यत्र तत्। तथा माद्यत्कुवादिश्रेणिः सैव क्रूरात्मकत्वाद्रक्षो राक्षसस्तस्य भज्जनैर्भङ्गकारिभिर्हेतुभिर्लाञ्छित मण्डितम्। अदः प्रत्यक्षदृश्यम्। शीर्णमदनै श्रमणादिभिरलकृतम्। मिथोऽनुगमनादित्यत्र ‘गुणादस्त्रियां न च’ इति पञ्चमी
॥
शीतांशुत्विषि यत्र नित्यमदधद्गन्धाढ्यधूलीकणा-
नाली केसरलालसा समुदिताशु भ्रामरीभासिता।
पायाद्वः श्रुतदेवता निदधती तत्राव्जकान्ती क्रमौ
नालीके सरलालसा समुदिता शुभ्रामरीभासिता॥४॥
यत्र नालीके चन्द्रतुल्यरुचि भ्रामरी भ्रमरसबन्धिनी आली श्रेणिर्गन्धाढ्यजिकल्कबिन्दूनदधत्पपौ। किंभूता। केसरेषु लालसा लम्पटा। समुदिता मिलिता। आशु शीघ्रम्। इभेषु मदलौल्यादासिता विश्रब्धा। तत्र नालीके क्रमौ निदधती श्रुतदेवता वः पातु। किंभूता। समुदिता सहर्षा। शुभ्रा शुक्ला छविर्यासां ताश्च ता अमर्यश्च ताभि शोभिता। (सरला अलसा च)॥
तमजितमभिनौमि यो विराजद्वनघनमेरुपरागमस्तकान्तम्।
निजजननमहोत्सवेऽधितष्ठावनघनमेरु परागमस्तकान्तम्॥५
॥
यः स्वामी निजजन्मोत्सवेऽधितष्ठौ। किं कर्म। विराजद्भिर्वनैर्धनो निरन्तरः अथवा शोभमानाम्भसो घना यत्र स चासौ मेरुपरागो मेरुपरमपर्वतस्तस्य शिखराग्रम्। किंभूतम्। अनघा नमेरवो देववृक्षविशेषास्तेषां रेणुर्यत्र तत्तथा। किभूतं शिखराग्रम्। अस्तोऽस्तगिरिस्तद्वत्कान्तं कमनीयम्। अथवा जिनविशेषणम्। अस्ता कान्ता येन तम्॥
स्तुत जिननिवहं तमर्तितप्ताध्वनदसुरामरवेण वस्तुवन्ति।
यममरपतयः प्रगाय पार्श्वध्वनदसुरामरवेणव स्तुवन्ति॥
६॥
हे लोकाः। त जिनवृन्द स्तुत। यं जिनव्रजममरेन्द्राः स्तुवन्तीति संबन्धः। किं कृत्वा। अर्त्या पीढया तप्तानां शैत्याधायकतया साक्षादध्वनदी मार्गहृदः सुरामः सुष्टु। रमणीयो यो रवः शब्दस्तेन करणभूतेन। वस्तुवन्ति च्छन्दोजातिविशेषवन्ति गीतानि प्रगाय गीत्वा। किंभूताः। पार्श्वे समीपे ध्वनन्तोऽसुरामराणां वेणवो वंशा येषां ते तथा। ‘वत्यये (?) लुग्वा’ इति रेफस्य लुक्॥
प्रवितर वसतिं त्रिलोकबन्धो गम नययोगततान्तिमे पदे हे।
जिनमत विततापवर्गवीथीगमनययो गततान्ति मेऽपदेहे ॥७॥
अन्तिमे मोक्षलक्षणे पदे हे जिनमत। मे मम वासं देहि। हे गम हे सदृशपाठ, नया निगमादयस्तैर्योगः सबन्धस्तेन विस्तीर्ण विपुलशिवमार्गगमने ययो अश्व। ‘ययुरश्वोऽश्वमेधीयः’ इति वचनात्। ‘तमोऽवग्लानौ’ इति धातोस्तान्तिर्ग्लनिः। आपदित्यर्थः। गततान्ति अपगतग्लानि यथा स्यात्। किंभूते पदे अपदेहे देहमुक्ते॥
सितशकुनिगताशु मानसीद्धात्तततिमिरंमदभा सुराजिताशम्।
वितरतु दधती पविं क्षतोद्यत्तततिमिर मदभासुराजिता शम् ॥८॥
हसारूढा मानसी देवी पविं वज्र दधतो शं सुखं प्रवितरतु। पविं किंभूतम्। इद्धा दीप्ता आत्ता गृहीता ततिर्विस्तारो येन तत्तथा। इरंमदो जलदाग्निस्तद्वत्कान्तिर्यस्याः सा सुष्ठु शोभिता आशा दिशो येन। क्षत विनष्टमुद्यदुद्गच्छत्ततं विस्तीर्णं ध्वान्तं यस्मातत्तथा। देवी दर्पोद्धरैरपराभूता॥
निर्भिन्नशत्रुभवभय शं भवकान्तारतार तार ममारम्।
वितर त्रातजगत्रय शंभवकान्तारतारतारममारम्॥९॥
हे निर्भिन्नशत्रुसंभूतभय, हे संसारकान्तारतारक, हे तार उज्ज्वल, अरं शीघ्र मम श सुखं देहि। हे रक्षितजगत्रय, शंभव जिन, योषित्सुरतेष्वरत अनासक्त, न रमत इत्यरमोऽरममाणोऽक्रीडन्मार कामो यत्र॥
आश्रयतु तव प्रणतं विभया परमा रमारमानमदमरैः।
स्तुत रहित जिनकदम्बक विभयापरमार मारमानमदमरैः॥१०॥
हे जिनकदम्बक जिनसमूह, रमा लक्ष्मीस्तव प्रणत नरमाश्रयतु। किंभूता। विभया रोचिषा परमा प्रकृष्टा। अर शीघ्रमानमन्तश्च ते सुराश्च तै स्तुत वन्दित। हे विगतभय। है न परान्मारयतीत्यपरमार। सर्वजन्तुरक्षक। हे रहित त्यक्त। कैः। काममानमदमरणैः॥
जिनराज्या रचितं स्तादसमाननयानया नयायतमानम्।
शिवशर्मणे मतं दधदसमाननयानयानया यतमानम्॥११॥
जिनानां राज्या श्रेण्या रचितं अर्थस्य तदुक्तत्वात्कृत मतं शासनं नोऽस्माक शिवसुखाय स्तात् भूयात्। किंभूतया। असमे निरुपमे आननयाने मुखगमने यस्यास्तया न इत्यत्र ‘रौर्यः’ इति रस्य यः। ‘स्वरे वा’ इति विकल्पत्वात्तस्यात्र न लुक्। आयतो विपुलो मानः पूजा प्रमाणं वा यस्य तत्तथा। दधत् धारयत्। कान्। असमाननयान् असदृशनयान्। किंभूतया जिनराज्या। अयानया अवाहनया। मत किंभूतम्। यतमानं प्रयत्न कुर्वाणम् ॥
शृङ्खलभृत्कनकनिभा यातामसमानमानमानवमहिताम्।
श्रीवज्रशृङ्खलां कजयातामसमानमानमानवमहिताम्॥१२॥
या देवी शृङ्खलाभरणभृत्सुवर्णवर्णा चास्ति तां श्रीवज्रशृङ्खला वज्रलाभिधानामानम। किंभूताम्। असमानोऽसाधारणो मानः पूजा बोधो वा येषाम्। अथवा असदृशौ अनमानौ प्राणाहकारौ येषा ते असमानमाना। ते च मानवाश्च तैर्महिता पूजिता ताम्। कजयाता पङ्कजगताम्। असमानं निरहकार यथा स्यात् एवमानम नमस्कुरु। अवम पापं तन्न विद्यते येषा तेऽनवमास्तेभ्यो हिताम्॥
त्वमशुभान्यभिनन्दन नन्दितासुरवधूनयनः परमोदरः।
स्मरकरीन्द्रविदारणकेसरिन्सुरव धूनय नः परमोऽदरः॥१३॥
हे अभिनन्दन जिन, त्वमशुभान्यशिवान्यकल्याणान्यपुण्यानि वा नोऽस्माक धूनय कम्पय विनाशय। किंभूत। नन्दिता असवः प्राणा प्राणिनां येन। अथवा धर्मधर्मिणोः कथचिदभेदादसुशब्देनासुमन्त एवोच्यन्ते। तथा न वधूषु नयने यस्य स तथा। यद्वा
नन्दितानि असुरवधूनयनानि येन सः। तथा परेभ्यो मोदं राति ददाति यः। यद्वा पग्मुदरं यस्य। हे सुरव, जगदाह्लादित्वात्…………….। परम प्रधानोऽदरो निर्भयश्च॥
जितवरा प्रयतध्वमितामया मम तमोहरणाय महारिणः।
प्रदधतो भुवि विश्वजनीनताममतमोहरणा यमहारिणः॥१४॥
हे जिनवराः, मम तमोहरणायाज्ञानापगाय यूय प्रयतध्वं प्रयत्न कुरुध्वम्। किंभूता। इतामया गतरोगाः। पुनः किंभूता। महान्ति अरीणि चक्राणि धर्मचक्रलक्षणानि येषां ते। किं कुर्वाणा। दधानाः पृथिव्यां विष्टपजनहितत्वम्। अमतावनभिप्रेतौमोहसङ्ग्रामौयेषां ते। यमहारिणो मृत्युहरणशीलाः। यद्वा यमानि महाव्रतानि तैर्मनोहराः॥
असुमतां मृतिजात्यहिताय यो जिनवरागम नो भवमायतम्।
प्रलघुतां नय निर्मथितोद्धताजिनवरागमनोभवमाय तम्॥१५॥
यो भवोऽसुमतां मृतिजाती मरणजन्मनी ते एवाहितमपथ्यं तस्मै मरणजन्माहिताय स्यात्। हे जिनेन्द्रसिद्धान्त, नोऽस्माकं तं भव संसारमायतं प्रबलं लधीयस्त्व प्रापय। आजिःसङ्ग्रामः नवरागो द्रव्यादौ नूतनोऽमिलापः। यद्वा उद्धताजौनवगगो यस्य तच्च तन्मनस्तत्र भवा या माया सा निराकृता येन। यद्वा मुक्तसङ्भ्रामनूतनरागकाममाय॥
विशिखशङ्खजुषा धनुपास्तसत्सुरभिया ततनुन्नमहारिणा।
परिगतां विशदामिह रोहिणीं सुरभियाततनुं नम हारिणा॥१६॥
धनुषा मण्डितहस्तां रोहिणीं देवीं नम। किंभूतेन। शरशङ्खसहितेन। अस्ता ध्वस्ता सत्सुराणा प्रकृष्टदेवानां भीर्येन। तताः प्रसृता नुन्ना प्रेरिता महान्तोऽरयो येन। परिगता परिवारिताम्। विशदा शुक्लवर्णाम्। इहात्र जगति रोहिणीं रोहिण्यभिधानाम्। सुरभिर्गौस्तत्र याता प्राप्ता तनुर्यस्यास्तां देवीं नम प्रणिपत। धनुषा किंभूतेन। हारिणा मनोहरेण॥
मदमदनरहित नरहित सुमते सुमतेन कनकतारेतारे।
दम दमपालय पालय दरादरातिक्षतिक्षपातः पातः॥१७॥
हे मदकामाभ्यां त्यक्त, हे नरेभ्यो हित, हे सुमतिजिन, दमद प्रशमद नर दरादिहलोकादिभेदभिन्नसाध्वसात्पालय रक्ष। हे सुमतेन सुसिद्धान्तस्वामिन्। यद्वा सुमतेन करणभूतेन। हे अपालय अपगतनिलय। हे कनकतार तपनीयोज्ज्वल। हे इतारे गतशात्रव। हे पातस्त्रायक। अरातिक्षति शत्रुभ्य उपमर्दः सैव रौद्रात्मकत्वाक्षपा रात्रिस्तस्याः॥
विधुतारा विधुताराः सदा सदाना जिना जिताघाताघाः।
तनुतापातनुतापा हितमाहितमानवनवविभवा विभवाः॥१८॥
विधुतारा है जिनाः, हित तनुत कुरुत। विधुतमारमरीणां समूहोऽरणं वा अरो भ्रमणमर्थात्संसारो यैस्ते। तथा विधुश्चन्द्रस्तद्वदुज्ज्वलाः। सदाना सत्यागा। जितमघात घातवर्जितमघ पापं यैस्ते। अपगतमहातापाः। आहितो विस्तीर्णो मानवाना नवविभवो नवः प्रत्यग्रो विभव ऐश्वर्यंयैस्ते। तथा विगतसंसाराः॥
मतिमति जिनराज नराहितेहिते रुचितरुचि तमोहे मोहे।
मतमत नूनं नूनं स्मरास्मराधीरधीरसुमतः सुमतः॥१९॥
जिनराजि सर्वज्ञे, मतत्व स्मरेति संबन्ध। किंभूते। मतिमति सातिशयज्ञानयुक्ते। नराणामाहित पूरितमीहित वाञ्छितं येन तस्मिन्। रुचिता परेषा प्रमोदकारित्वादभीष्टा रुक्कान्तिर्यस्य तस्मिन्। तमोहे अज्ञानघातिनि। मोहे ममत्वमुक्ते। मत किंभूतम्। तनु तुच्छमूनमपूर्णं च तनूनं न एवविधमतनूनम्। नूनं निश्चितम्। न स्मरेणाधीरा धीर्यस्य स। असुमत प्राणिन। जातावेकत्वम्। सुमतो रक्षाक्रियाया सुष्ठु अभिप्रेत॥
नगदामानगदा मामहो महो राजिराजितरसा तरसा।
घनघनकाली काली बतावतादूनदूनसत्रासत्रा॥२०॥
अहो इति सबोधने विस्मये वा। काली देवी मामवताद्रक्षतात्। किंभूता। नगदा ‘दो अवच्छेदने’ इति धातोः पर्वतभेत्री अमाना अप्रमाणा गदा प्रहरणविशेषो यस्या सा। कान्तिराज्या राजिता शोभिता रसा भूमिर्यया सा। तरसा बलेन शीघ्रं वा। घनो मेघस्तद्वद्धनकाली प्रभूतकालवर्णा। बतेति विस्मये। ऊना अपूर्णाः। दूना विपक्षै। सत्रासाः सभयास्तास्त्रायते रक्षति या॥
पादद्वयी दलितपद्ममृदुः प्रमोद-
मुन्मुद्रतामरसदामलतान्तपात्री।
पाद्मप्रभी प्रविदधातु सतां वितीर्ण-
मुन्मुद्रतामरसदा मलतान्तपात्री॥२१॥
पद्मप्रभसबन्धिनी पादद्वयी प्रमोद प्रविदधातु। किंभूता। दलित विकसित यदब्जं तद्वत्कोमला। उन्मुद्राणि विकसितानि तामरसदामानि कमलमाला लतान्तानि कुसुमानि तेषां पात्रीव पात्री भाजनम्। यद्वा उन्मुद्रतामरसदामान्येव लम्बत्वाल्लतास्तासामन्तपात्री समीपभाजनम्। सता वितीर्णमुद्दत्तप्रीतिः। मुदि मुदा वा रता अमरसदा देवसभा यस्याः सा। मलेन कर्मणा तान्तान्ग्लानान्पातीनि मलतान्तपात्री॥
सा मे मतिं वितनुताज्जिनपङ्किरस्त-
मुद्रा गतामरसभासुरमध्यगाद्याम्।
रत्नांशुभिर्विदधती गगनान्तराल-
मुद्रागतामरसमासुरमध्यगाद्याम्॥२२॥
सा जिनश्रेणी मम मतिं दद्यात्। अस्तमुद्रा मुक्तप्रमाणा। गता प्राप्ता अमरसभा देवपर्षद्यां
जिनपङ्क्तिं अध्यगात्प्राप्तवती। आद्यां
प्रथमाम्। किंभूता। असुरमध्यगा असुरमध्ये गच्छतीति। किं कुर्वती। रत्नाशुभिर्भूषणमणिकान्तिभिर्गगनमध्य उद्गतरागं यत्तामरसं पद्मं तद्वद्भासुरं कुर्वाणा॥
श्रान्तिच्छिदं जिनवरागममाश्रयार्थ-
माराम मा नम लसन्तमसंगमानाम्।
धामाग्रिमं भवसरित्पतिसेतुमस्त-
माराममानमलसंतमसं गमानाम्॥२३॥
हे लोक, जिनेन्द्रागममानम। किंभूतम्। श्रमभेदकम्। आश्रयहेतोराराममिवारामम्। लसन्तं शोभमानम्। केषाम्। असगमानाम्। निःसङ्गानां मुनीनामित्यर्थः। अग्रिमं प्रकृष्टं धाम गृहम्। केषाम्। गमानां सदृशपाठानाम्। ससारसमुद्रसेतुम्। अस्ता कामरोगाहंकारपापाज्ञानानि येन॥
गान्धारि वज्रमुसले जयतः समीर-
पातालसत्कुवलयावलिनीलभे ते।
कीर्तीःकरप्रणयिनी तव ये निरुद्ध-
पातालसत्कुवलया बलिनी लभेते॥२४॥
हे गान्धारि देवि, ते वज्रमुसले आयुधे जयतः। किभूते। वातप्रेङ्खोलनेनालसन्ती या कुवलयमाला तद्वन्नीला भा कान्तिर्ययो। ये वज्रमुसले कीर्तीर्यशांसि लभेते। किभूते। तव हस्तस्नेहले। बलिनी बलवती। कीर्ती किंभूताः। निरुद्धमावृतं पातालं सत्पृथ्वीवलय च याभिः॥
कृतनति कृतवान्यो जन्तुजातं निरस्त-
स्मरपरमदमायामानबाधायशस्तम्।
सुचिरमविचलत्व चित्तवृत्तेः सुपार्श्वं
स्मर परमदमाया मानवाधाय शस्तम्॥२५॥
यः स्वामी जन्तुजातं कृतप्रणाम विहितवान्। किंभूतम्। निरस्तानि कंदर्पवैरिमदमाया मानपीडायशासि येन तत्। त सुपार्श्वं देव हे मानव, नर, त्व स्मर। किं कृत्वा। निश्चलत्वमाधाय। कस्याः। चित्तवृत्तेर्मनोव्यापारस्य। सुचिरं प्रभूतकालम्। परमो मो यस्याः। शस्त शोभनम् ॥
व्रजतु जिनततिः सा गोचरं चित्तवृत्तेः
सदमरसहिताया वोऽधिका मानवानाम्।
पदमुपरि दधाना वारिजानां व्यहार्षी-
त्सदमरसहिता या बोधिकामा नवानाम्॥२६॥
सा जिनानां ततिर्वो युष्माकं मनोवृत्तेर्गोचर व्रजतु गच्छतु। किंभूतायाः। सह दमरसेन वर्तन्ते ये तेषां हितायाः। जिनततिः किंभूता। मानवानां नराणामधिका उत्कृष्टा। या जिनश्रेणिर्व्यहार्षीद्विहार कृतवती। किंभूता। नवाना नवसंख्यानां नूतनानां वारिजानां स्वर्णकमलानामुपरिष्टात्पदं स्थापयन्ती। सद्देवयुक्ता। बोधिकामा स्वयमवाप्तबोधित्वात्परेषा बोधिर्धर्मप्राप्तिस्तत्र कामो यस्याः सा ॥
दिशदुपशमसौख्यं संयतानां सदैवो-
रु जिनमतमुदारं काममायामहारि।
जननमरणरीणान्वासयन्सिद्धवासे-
ऽरुजि नमत मुदारं काममायामहारि॥२७॥
है जना जिनमत नमत प्रणमत। किंभूतम्। उरु प्रौढं प्रशमसुखं ददत्। केषाम्। सयताना मुनीनाम्। सदैव सर्वदा। उदारमुदात्तम्। काममत्वर्थमायामहारि दैर्घ्यशोभि। अरुजि रोगरहिते सिद्धवासे वासं कारयन्। कान्। जन्ममरणखिन्नान्। मुदा हर्षेण। अरं शीघ्रम्। काममाययोर्महारि महावैरिभूतम् ॥
दधति रविसपत्नं रत्नमाभास्तभास्व-
न्नवघनतरवारिं वा रणारावरीणाम्।
गतवति विकरत्यालीं महामानसीष्टा-
न्नव धनतरवारिं वारणारावरीणाम्॥२८॥
हे महामानसि देवि, इष्टानभिमतान्नरादीनव रक्ष। हे गतवति प्रापुषि। कस्मिन्वारणारौ सिंहे। हे दधति धारयन्ति। किम्। रत्नंमणिम्। किंभूतम्। रविसपत्नं रविप्रतिपक्ष प्रभाधिक्यात्। अभया कान्त्या अस्तो भास्वान्सूर्यो येन स चासौ नवो नूतनो घनो निविडस्तरवारिः खङ्गश्च तम्। वा समुच्चये। सिहे किं कुर्वति। अरीणां वैरिणामालीं श्रेणिं विकिरति क्षिपति। किंभूतामालीम्। रणस्यारावेण रीणां क्षीणाम्। खङ्ग किंभूतम्। घनतरवारि सान्द्रतरपानीयम्। रत्नविशेषण वा।
तुभ्यं चन्द्रप्रभ जिन नमस्तामसोज्जृम्भितानां
हाने कान्तानलसम दयावन्दितायासमान।
विद्वत्पङ्क्त्या प्रकटितपृथुस्पष्टदृष्टान्तहेतू-
हानेकान्तानलसमदया वन्दितायासमान॥२९॥
हे चन्द्रप्रभ जिन, हे दयावन्, तुभ्यं नमोऽस्तु। तमःसंबन्धिविस्फूर्जिताना हाने
त्यागे मनोहरवह्निसमान। दितौ छिन्नावायासमानौ येन। तुभ्यं किंभूताय। विद्वत्पङ्क्त्या वन्दिताय। प्रकटिता पृथवो वितताः स्पष्टा दृष्टान्ता निदर्शनानि हेतवः करणानि ऊहो वितर्कः अनेकान्तः स्याद्वादो येन तत्सबोधनम्। विद्वत्पङ्क्त्या किंभूतया। न विद्येते अलसमदौ तन्द्राहंकारौ यस्यास्तया। हे असमान निरुपमान॥
जीयाद्राजिर्जनितजननज्यानिहानिर्जिनानां
सत्यागारं जयदमितरुक्सारविन्दावतारम्।
भव्योद्धृत्या भुवि कृतवती या वहद्धर्मचक्रं
सत्यागा रञ्जयदमितरुक् सा रविं दावतारम्॥३०॥
जिनानां राजिर्जयतात्। किंभूता। विहितजराजन्मक्षया। सत्यस्यागारं गृहम्। जयदमभ्युदयावहम्। इतरुग्गतरोगा। सारविन्दा सहारविन्दैः पदाधस्तनैः पूजाकमलैर्वर्तते या। याभव्योद्धृत्या भव्यानामुद्धतिर्भवोत्ताररूपा तया हेतुभूतया भुवि पृथिव्यामवतारं कृतवती। या धर्मचक्रमवहदुवाह। सत्यागा सदाना। धर्मचक्र कथंभूतम्। रञ्जयद्रक्तीकुर्वत्। रविं सूर्यम्। दावतारम् दावोज्ज्वलम्। अमिता अप्रमाणा रुक्कान्तिर्यस्य॥
सिद्धान्तस्तादहितहतयेऽख्यापयद्य जिनेन्द्रः
सद्राजीवः स कविधिषणापादनेऽकोपमानः।
दक्षः साक्षाच्छ्रवणचुलकैर्यं च मोदाद्विहायः
सद्राजीवः सकविधिषणापादनेकोपमानः॥३१॥
स
सिद्धान्तो वो युष्माकमहितक्षयाय भूयात्
।
य सिद्धान्तं सन्ति शोभनानि कम
लानि यस्य स जिनेन्द्रः प्रधानकमलोऽख्यापयदूचिवान्
।
कवयः शास्त्रज्ञास्तेषां बुद्धिजन
ने दक्षो विचक्षणः
।
न विद्येते कोपमानौ यस्य यत्र वा
।
विहायःसदो देवास्तेषां
रा
जी श्रेणिः कर्णचुलकैः श्रोत्राञ्जलिभिर्मोदाद्धर्षाद्य च सिद्धान्तमपात् पीतवती
।
श्रेणी
किंभूता
।
सह कविधिषणाभ्या शुक्रगुरुभ्यां वर्तते या
।
अनेकानि चन्द्रसमुद्रादीन्युपमा
नानि यस्या
।
प्रथमान्तविशेषणानि जिनस्यागमस्य वा योज्यानि ‘सद्राजीव’
इति मुक्त्वा॥
वज्राङ्कुश्यङ्कुशकुलिशभृत्त्वं विधत्स्व प्रयत्नं
स्वायत्यागे तनुमदवने हेमतारातिमत्ते।
अध्यारूढे शशधरकरश्वेतभासि द्विपेन्द्रे
स्वायत्यागेऽतनुमदवने हेऽमतारातिमत्ते॥३२॥
है वज्राङ्कुशि देवि, तनुमदवने जन्तुरक्षणे प्रयत्नं विधेहि। हे सृणिवज्रधारिणि। स्वायत्यागे शोभन आयोऽर्थागमो दानं च यस्याः। त्व कथंभूता। हेमतारा कनको-
ज्ज्वला। हे अध्यारूढे। क्व। द्विपेन्द्रे। किंभूते। अतिमत्ते मदोद्धते। चन्द्रकरा इव श्वेता भा यस्य तस्मिन्। स्वायत्या निजायामेन अगे पर्वत इव। अतनु प्रचुर मदवन मदवारि यस्य तस्मिन्। अरातिर्वैरी सोऽस्यास्तीत्यरातिमान् तस्य भावोऽरातिमत्ता, सा न मता यस्यास्तस्याः संबोधनम्॥
तवाभिवृद्धिं सुविधिर्विधेयात्स भासुरालीनतपा दयावन्।
यो योगिपङ्क्त्या प्रणतो नभःसत्सभासुरालीनतपादयावन्॥३३॥
स सुविधिर्जिनो हे दयावन् जन, तव समृद्धि क्रियात्। भासुरं घोरमालीनमाश्रित तपोऽनशनादिरूप यस्य सः। यः स्वामी अवन्रक्षन योगिवृन्देन प्रकर्षेण नतः। योगिपङ्क्त्याकथभूतया। नभःसदो देवास्तेषा सभा पर्षत् असुगवली असुरश्रेणिश्च ताभ्या नतौ पादौ यस्यास्तया॥
या जन्तुजाताय हितानि राजीसारा जिनानामलपद्ममालम्।
दिश्यान्मुदं पादयुगं दधाना साराजिनानामलपद्ममालम्॥३४॥
या सारा श्रेष्ठा जिनाना ततिर्जन्तुजाताय हितानि अलपत् गदितवती सा मम अलमत्यर्थंमुदं प्रीतिं दिश्याद्दद्यात्। कथभूता। पादयुग्मं धारयन्ती। राजिनी राजनशीलाःनाना बहुविधाःअमलापद्ममाला यस्य तत्पादयुगम्॥
जिनेन्द्र भङ्गैः प्रसभं गभीराशु भारती शस्यतमस्तवेन।
निर्नाशयन्ती मम शर्म दिश्यात् शुभारतीशस्य तमस्तवेन॥३५॥
हे जिनेन्द्र, तव भारती मम शर्म सुखं देयात्। किंभूता। भद्गैरर्थविकल्पैर्गभीरा तथा आशु शीघ्रं तमोऽज्ञानं निर्नाशयन्ती। केन। शस्यतमश्चारुतमो यस्तवस्तेन हेतुभूतेन शुभा प्रकृष्टा। तव कीदृशस्य। अरतीशस्याकामस्य। हे इन स्वामिन्॥
दिश्यात्तवाशु ज्वलनायुधाल्पमध्या सिता कं प्रवरालकस्य।
अस्तेन्दुरास्यस्य रुचोरुपृष्ठमध्यासिताकम्प्रवरालकस्य॥३६॥
तव ज्वलनायुधा देवी क सुख दिश्यात्करोतु। किंभूता। अल्पं तुच्छं मध्यं मध्यभागो यस्याः सा। कृशोदरीत्यर्थः। सिता शुभ्रा। प्रवरालकस्य प्रवरकुन्तलस्य। अस्तेन्दुर्न्यक्कृतमृगाङ्का। कया। आस्यस्य मुखस्य रुचा कान्त्या। उरु विस्तीर्णंपृष्ठमध्यासिताध्यारूढा। कस्य। अकम्प्रः स्थिरो यो वरालको देववाहनविशेषस्तस्य॥
जयति शीतलतीर्थकृतः सदा चलनतामरसं सदलं घनम्।
नवकमम्बुरुहां पथि संस्पृशच्चलनतामरसंसदलङ्घनम्॥३७॥
शीतलतीर्थकरस्य चलनतामरस पादपद्म जगति। किंभूतम्। अम्बुरुहा कमलाना नवक पथि मार्गे संस्पृशत्। नवक किंभूतम्। सदल सपत्रम्। घन सारम्। चलनतामरस
किंभूतम्। चला नता च अमराणांसंसद् यस्य तत्। नास्ति लङ्घनमधःकरण कुतश्चिद्यस्य तदलङ्घनम्॥
स्मर जिनान्परिनुन्नजरारजोजननतानवतोदयमानतः।
परमनिर्वृतिशर्मकृतो यतो जन नतानवतोऽदयमानतः॥३८॥
हे जन, भव्यलोक, अतोऽस्मात्कारणाज्जिनान् स्मर। किंविशिष्टान्। परिनुन्ना परिक्षिप्ता जरा वयोहानिरूपा, रजः कर्म, जननं जन्म, तनोर्दुर्बलस्य भावस्तानवं कार्श्यं, तोदो बाधा, यमो मृत्युर्यैस्तान्। यतः कारणात् परममुक्तिसुखकर्तृृन्। नहि जिनस्मरणमन्तरेण जन्तोस्तात्त्विकी सिद्धिः। नतान् जन्तूनवतो रक्षत। अदयं शरीरावयवनिरपेक्ष यथा स्यात्तथा आनतः प्रणतः सन् त्वम्॥
जयति कल्पितकल्पतरूपमं मतमसारतरागमदारिणा।
प्रथितमत्र जिनेन मनीपिणामतमसा रतरागमदारिणा॥३९॥
जिनेन मनीषिणां गणभृता प्रथित प्रोक्त मत जयति। किंभूतम्। कल्पिता समर्पिता सकलमनोरथपूरणात्कल्पतरुणा उपमा साम्यं यस्य तत्। असारतरान्मिथ्यारूपानागमान् दृणातीत्येवंशील। जिनविशेषणमिदम्। पुनः किंभूतेन। अतमसा अज्ञानरहितेन। रते मैथुने रागो रतरागः। मदश्च जात्याद्युत्थोऽभिनिवेशः। यद्वा रत मैथुन, रागो द्रव्यादावभिलापः, मदः पूर्वोक्त एव, तेषामरिणा वैरिणा॥
घनरुचिर्जयताद्भुवि मानवी450 गुरुतरा विहतामरसंगता।
कृतकरास्त्रवरे फलपत्रभागुरुतराविहतामरसं गता॥४०॥
मानवी देवी जयतात्। किंभूता। घना सान्द्रा रुचिः कान्तिर्यस्याः सा। गुरुतरा अतिमहान्तोऽविहता अपरिक्षता येऽमरास्तैः संगता सहिता। अस्रवरे प्रधानायुधे कृतपाणिः। फलपत्रे भजते फलपत्रभाक्। तरोर्विशेषणमेतत्। स चासौ उरुतरुश्चविशालद्रुमश्च तत्र। तामरसं पद्मं गता प्राप्ता॥
कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः
कमलसदृशां गीतारावा वलादयि तापितम्।
प्रणमततमां द्राक्श्रेयांसं न चाहृत यन्मनः
कमलसदृशाङ्गी तारा वावला दयितापि तम्॥४१॥
अलसदृशामलसेक्षणाना स्त्रीणांनृणा वा गीतारावा गीतध्वनयो यस्माज्जिनात्कमन्य जनं मोहवशवर्तिनं न व्यधुः। अपि तु सर्वमप्यकार्षुः। किंविशिष्टम्। बलात्प्रसभम्। अयि सबोधने। तापितं पीडितम्। केन। कुसुमधनुषा कामेन। हे जनाः,तश्रेयासं प्रणमततमाम्। द्राक् शीघ्रम्। अबला स्त्री दयितापि कान्तापि यन्मनो यन्मा–
नसं च नाहृत नाक्षिप्तवती। किंभूता। कमलसदृशं कोमलत्वादङ्ग यस्याः सा कमलसदृशाङ्गी। तारा मनोहरा। वा समुच्चये॥
जिनवरततिर्जीवालीनामकारणवत्सला-
समदमहितामारादिष्टा समानवराजया।
नमदमृतभुक्पङ्क्त्या नूता तनोतु मतिं ममा-
समदमहितामारादिष्टा समानवराजया॥४२॥
जिनेन्द्रराजिर्मम मतिं ददातु। किंभूता। प्राणिगणाना निर्निमित्तवत्सला। असमो दमो येषां निरुपमदमस्य वा हिताभिप्रेता। अमारा अकामा अमरणा वा। आदिष्टो दत्तोऽसमानोऽपूर्वो वरो वाञ्छितार्थप्राप्तिर्यया सा। अजया अपरिभूता। यद्वा न जायते इत्यजा तयानमन्तो नम्रा येऽमृतभुजो देवास्तेषा पङ्क्त्या नूता स्तुता। मतिं किंभूताम्। असमदैर्निरहकारैर्महिता पूजिताम्। आरान् शीघ्रमिष्टा पूजिता अभिमता वा। देवपङ्क्त्या किंभूतया, सह मानवराजैर्नरेन्द्रैर्वर्तते या तया॥
भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत हे
तनु मतिमतां सन्नाशानां सदा नरसंपदम्।
समभिलषतामर्हन्नाथागमानतभूपतिं
तनुमति मतां सन्नाशानां सदानरसं पदम्॥४३॥
हे ससारार्णवभ्रमज्जन्तुजातविपुलयानपात्र जिनेन्द्रसमय मतिमतां पुरुषाणां नरसपदं मानववृद्धिं समभिलषतां वाञ्छता सह दाने रसेन वर्तते सदानरस पदं तनु विधेहि। इति सटङ्कः(?)। नरसपद किंभूताम्। तनुमति प्राणिनि मतामभीष्टामभिमताम्। किंविशिष्टानाम्। सन्ना क्षीणा आशा मनोरथा येषाम्। नरसपद किंभूताम्। आनता भूपतयो यस्यां सा ताम्। सन् विद्यमानो नाशो मरणं येषां ते। अल्पायुषामित्यर्थः॥
धृतपविफलाक्षालीघण्टैः करैः कृतबोधित
प्रजयतिमहा कालीमर्त्याधिपङ्कजराजिभिः।
निजतनुलतामध्यासीनां दधत्यपरिक्षतां
प्रजयति महाकाली मर्त्याधिपं कजराजिभिः॥४४॥
महाकाली देवी प्रजयति प्रकर्षेण वैरिजयेन सर्वोत्कृष्टा वर्तते। करैर्हस्तैरुपलक्षिता। किंभूतैः। धृता वज्र-फल-जपमाला-घण्टा यैस्ते तथा। देवी किंभूता। बोधिता प्रजा लोको यैस्ते बोधितप्रजास्ते च ते यतयश्च साधवः। तत कृतो बोधितप्रजयतीनां महः पूजा उत्सवो वा यया सा। तथा कालीं श्यामा दधती धारयन्ती। काम्।स्ववपुर्लताम्। किंभूताम्। अपरिक्षतामदूषिताम्। कै। अर्ति पीडा, आधिर्मानसी व्यथा,
पङ्ककर्दमः कालुष्य, जरा विस्रसा, आजिः प्रधनं तै। पुनः किंभूताम्, अध्यासीनाम्। कम्। मर्त्याधिप पुरुषप्रकाण्डम्। करैः किंविशिष्टैः। कजं पद्मं तद्वद्राजिभी राजनशीलै ॥
पूज्य श्रीवासुपूज्यावृजिन जिनपते नूतनादित्यकान्ते
ऽमायासंसारवासावन वर तरसाली नवालानवाहो।
आनम्रा त्रायतां श्रीप्रभवभवभयाद्बिभ्रती भक्तिभाजा-
मायासं सारवासावनवरतरसालीनवालानबाहो ॥४५॥
हे पूजनीय, हे श्रीवासुपूज्य, हे अवृजिन, हे जिनपते, भक्तिभाजां जनानामाली श्रेणिस्त्वया त्रायतां रक्षताम्। नूतनो विभातसमये उद्गच्छन् य आदित्यस्तद्वद्रक्ता कान्तिर्यस्य तस्य सबोधनम्। हे अमाय अदम्भ। हे असंसारवास, मुक्तौ प्राप्तत्वात्। हे अवन रक्षक, हे वर प्रधान। केन। तरसा बलेन वेगेन वा। यद्वा मायासंसारवासाभ्या सकाशादवति रक्षतीति। नवालानवद्वाहू भुजौ यस्य तस्य सबोधनम्। आली किंभूता। आनम्रा कृतप्रणामा। कस्मात्रायताम्। श्रीप्रभवः कामस्तद्भवं यद्भयं तस्मात्। हे श्रीभव लक्ष्मीसमुत्पत्तिस्थानेति पृथग्जिनामन्त्रणं वा। आली किं कुर्वाणा। दधती। कम्। आयास दुःख श्रमं वा। सारवा प्रारब्धस्तुतित्वात्सशब्दा। असौ प्रत्यक्षा।अनवरतमजस्र रसाया पृथिव्यां लीना वालाः केशा यस्याः सा। एतेन भक्त्याधिक्य सूचितम्। नवा कतिपयदिनप्राप्तबोधिः अस्मदादिवत्। अहो इत्यामन्त्रणे ॥
पूतो यत्पादपांशुः शिरसि सुरततेराचरच्चूर्णशोभां
या तापत्रासमाना प्रतिमदमवतीहार ताराजयन्ती।
कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस्ते
यातापत्रासमानाप्रतिमदमवती हारतारा जयन्ती ॥४६॥
पूतः पवित्रो यत्पादपाशुश्चरणरेणुः सुरसमूहस्य मस्तके चूर्णशोभां वासक्षोदलक्ष्मीं प्राप्तवान्। या ततिस्तापत्रा तापभेत्री। असमाना गुणैरनन्यसदृशी। प्रतिमद प्रतिगतमदं निर्मदमवति रक्षति। इह अरता अप्रतिबद्धा। राजयन्ती शोभां लम्भयन्ती। सा तती रजः कर्म ते तव प्रविकिरतु क्षपयतु। किंविशिष्टा। जिनराजानामियं जैनराजी तीर्थकरसंबन्धिनी। अप्रतिमो दमो यस्याः सा अप्रतिमदमवती। याता गता आपद्विपत्, त्रासस्त्वाकस्मिक भयं, मानो गर्यो यस्याः सा। कीर्तेः कान्त्या जयन्ती अभिभवन्ती। काः। हारताराः मुक्तावलीनक्षत्राणि॥
नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा-
पायायासाद्यमानामदन तव सुधासारहृद्या हितानि।
वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ क्रियान्मे
पापायासाद्यमानामदनत वसुधासार हृद्याहितानि॥४७॥
नित्यं सर्वदा हे तीर्थनाथ, तव वाणी मम हितानि क्रियात्। कथंभूता, हेतवो वस्तुगमकलिङ्गानि। उपपत्तयो युक्तय। यद्वा हेतूनामुपपत्तयस्ताभिर्विध्वस्तः कुशासनप्रोद्दामतमोग्रन्थिर्यया। अपगता अपाया अनर्था यस्याः सा। आसाद्यमाना प्राप्यमाणा। अपापायैरासाद्यमाना वा। हे अमदन अकाम। सुधाया अमृतस्यासारो वेगवान्वर्षस्तद्वन्मनोहरा। श्रूयमाणामृतमिव हृदयंगमेत्यर्थः। मोक्षपथस्नेहलै स्वीकृता। न विद्यते पाप चायासश्चादिर्येषा ते पापायासादयस्ते च तेऽमानाश्च। मदाश्च नरास्तैर्वन्दित। हे वसुधासार पृथिव्युत्कृष्ट। आहितानि स्थापितानि। क्व। हृदि मनसि ॥
रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी वाहितश्वेतभास्व-
त्सन्नालीका सदा प्तापरिकरमुदिता साक्षमाला भवन्तम्।
शुभ्रा श्रीशान्तिदेवी जगति जनयतात्कुण्डिका भाति यस्याः
सन्नालीका सदाप्ता परिकरमुदिता सा क्षमालाभवन्तम्॥४८॥
श्रीशान्तिदेवी भवन्तं त्वा क्षमा उपशमस्तस्या लाभ सोऽस्यास्तीति तं क्षमालाभवन्त क्रियात्। कीदृशा। रक्षासि पलादाः, क्षुद्राशाकिनीप्रमुखा, ग्रहाः शनैश्चरादय। आदिशब्दाद्रूपालव्यालादय। तेभ्यः प्रतिहतिरुपघातस्तस्याः शमनी नाशिका। वाहित वाहनीकृतं श्वेतं सित भास्वद्दीप्यमानं सत् शोभन नालीक कमल यया सा। सतां साधूनामाप्ता अविप्रतारिका। प्तापरिकर जटामण्डलं तेन मुदिता प्रीता। सन्नं क्षीणमलीकमसत्यं यस्याः सा। सहाक्षमालया जपमालया वर्तते। इदं देव्याः कुण्डिकाया वा विशेषणम्। यस्या देव्याः कुण्डिका कमण्डलुर्भाति। कथभूता। करं हस्तं परि लक्षीकृत्य उदिता उदयं प्राप्ता।
अपापदमलं धनं शमितमानमामो हितं
नतामरसभासुरं विमलमालयामोदितम्।
अपापदमलङ्घनं शमितमानमामो हितं
न तामरसभासुरं विमलमालयामोदितम्॥४९॥
विमल जिन वयमानयाम। पापं ददातीति पापदः। न पापदमपापदम्। पुण्यप्रदमित्यर्थः। अलमत्यर्थम्। यद्वा अपापो यो दम उपशमस्त लातीति अपापदमलम्। धनं निश्छिद्रं अशेषमलक्षयोत्थ शं सुखमितं प्राप्तम्। हितं प्राणिगणस्य। नता नम्रीभूता अमरसभा देवपर्षदसुराश्च यस्य। विमला या माला पुष्पस्रक तयामोदित सुरभीकृतम्। अपगता आपदो यस्मात्तम्। अलङ्घन केनाप्यपराभूतम्। शमितो मानो वैन तम्। आमोहित न मोहेन समन्तान्न वशीकृतम्। तामरसं कमलं तद्वद्भासुर दीप्यमानम्। (विमलं निर्दोषम्)। आलये गृहविषये। अमोदितमहृष्टम्॥
सदानवसुराजिता असमरा जिना भीरदाः
क्रियासु रुचितासु ते सकलभा रतीरायताः।
सदानवसुराजिता असमराजिनाभीरदा
क्रियासुरुचितासु ते सकलभारतीरा यताः॥५०॥
ते जिनास्ते तव आयता विपुला रतीर्मुदः क्रियासु कर्तव्येषु क्रियासुर्देयासुः। किंभूतासु। रुचितासु इष्टासु। उचितासु योग्यासु। पुण्यरूपास्वित्यर्थः। जिनाः किंविशिष्टाः। सदानवैः सासुरैः सुरैरुपसर्गादिभिर
जिताः। असमरा अरणाः। भियं भीतिं रदन्ति मिन्दन्तीति भीरदाः। ‘रद विलेखने’। सकलाः सदोषाः संसारकृत्यरूपा ये भारास्तेषा पर्यन्ते स्थितत्वात्तीराः। यद्वा असदोषा भारतीरीरयन्ति रान्ति वा। यताः प्रयत्नवन्तः। सदानं सत्याग यद्वसु सुवर्णं तेन राजिताः शोभिताः। असमाः शोभमानाश्च नाभीरदा येषां ते। सकला समस्ता भा दीप्तिर्येषा येषु वा। यद्वा सह कलभया रुचिररुचा वर्तन्ते॥
सदा यतिगुरोरहो नमत मानवैरञ्चितं
मतं वरदमेनसा रहितमायताभावतः।
सदायति गुरोरहो न मतमानवैरं चितं
मतं वरदमेन सारहितमायता भावतः॥५१॥
अहो लोकाः, यतिगुरोः सर्वज्ञस्य भावतो भक्त्या मतं शासनं नमत। सदा सर्वकालम्। कथभूतम्। मानवैर्मानुषैरञ्चित पूजितम्। वरमभीष्टार्थ ददाति वरदम्। एनसा पापेन रहित त्यक्तम्। यतिगुरोः किंभूतस्य। आयताभावतः आयता विपुला भा अस्यास्तीति मतुप्। मत किंभूतम्। सदायति सती शोभना आयतिरागामिकालः प्रभूता वा यस्य तत्। गुरोरर्हतो रहो रहस्यभूतम्। न मतेऽभीष्टे मानवैरे यस्य। चित व्याप्तम्। केन। वरदमेन प्रधानोपशमेन। किंभूतेन। आयता आगच्छता। मतं कथभूतम्। मत सर्वस्याभिप्रेतम्। सारं च तद्धितं च। यद्वा सार हित यस्मिन्॥
प्रभाजि तनुतामलं परंमचापला रोहिणी
सुधावसुरभीमना मयि सभाक्षमालेहितम्।
प्रभाजितनुतामलं परमचापलारोहिणी
सुधावसुरभीमनामयिसभा क्षमाले हितम्॥५२॥
रोहिणी देवी माये विषये ईहितममलमनवद्य हितं शुभोदर्कंतनुतां कुरुताम्। मयि कथभूते। प्रभाजि प्रकर्षेण भजत इति तच्छीले। अलमत्यर्थम्। परं प्रकृष्टम्। देवी किंविशिष्टा। अचापला चापल्य
मुक्ता। सुधा प्रासादलेपनद्रव्य तद्वद्वसु तेजो यस्याः। यद्वा अमृतमेव द्रव्य यस्याः। न भीर्भयं मनसि यस्याः सा अभीमनाः। सभा सका-
न्तिका अक्षमाला यस्याः। प्रभाजितैस्तेजस्तिरस्कृतैर्नुता स्तुता। परमं चापं धनुर्लातीति। आरोहणशीला। काम्। सुष्ठु धावतीति सुधावा सुवेगा या सुरभी गौस्ताम्। अनामयनी नीरोगा सभा यस्याः सा। क्षमां लातीति क्षमाले मयि॥
सकलधौतसहासनमेरवस्तव दिशन्त्वभिषेकजलप्लवाः।
मतमनन्तजितः स्नपितोल्लसत्सकलधौतसहासनमेरवः॥५३॥
सकलाः समस्ता धौताः क्षालिता सहासाः सविकासा न मेरवो वृक्षविशेषा यैस्ते। मतमभिप्रेतम्। हे अनन्तजिन। चतुर्दशस्य तीर्थकृतो द्वे नाम्नी अनन्तोऽनन्तजिच्च। सहासनेन स्नानपीठेन असनैर्वा वृक्षविशेषैर्वर्तते ततः स्नपितः स्नानं कारितःउल्लसञ्शोभमानः सकलधौतः सहेमा सहासनो मेरुर्यैस्ते। यद्वा सकलधौतं ससुवर्णंसहं समर्थं हढमासनं यस्मिन्। ततः स्नपित उल्लसन् सकलधौतसहासनमेरुर्यैस्ते। हे अनन्तजित्, तव स्नानजलप्रवाहा मत हित दिशन्त्विति सबन्धः ॥
मम रतामरसेवित ते क्षणप्रद निहन्तु जिनेन्द्रकदम्बक।
वरद पादयुगं गतमज्ञताममरतामरसे विततेक्षण॥५४॥
हे जिनेन्द्रपटल, ते तव पादयुगं ममाज्ञता जाड्यंनिहन्तु। रता सक्तचित्ता येऽमरास्तैः सेवित। हे क्षणप्रद उत्सवदायक। वर ददातीति वरद। पादयुग क्रिभूतम्। गतं प्राप्तम्। क्व। अमरतामरसे सुरकृतनवकमलेषु। जातित्वादेकवचनम्। वितते विस्तीर्णे लोचने यस्य तस्य संबोधनम्॥
परमतापदमानसजन्मनःप्रियपदं भवतो भवतोऽवतात्।
जिनपतेर्मतमस्तजगत्रयीपरमतापदमानसजन्मनः॥५५॥
हे भव्यलोकाः, जिनेन्द्रमत भवतो युष्मान् भवतसंसारात् अवताद्रक्षताम्। किंविशिष्टम्। परमतानां बौद्धादिशासनानामापदा हेतुत्वादापद्व्यसनम्। अमानान्यसंख्यानि सजन्ति संबध्यमानानि मनःप्रियाणि चित्तप्रीतिकराणि पदानि स्वाद्यन्तानि यस्मिंस्तत्। जिनपतेः कथंभूतस्य। अस्तो ध्वस्तो जगन्नय्याः परमतापदो महासतापकारी मानसजन्मा कामो येन तस्य ॥
रसितमुच्चतुरङ्गमनायकं दिशतु काञ्चनकान्तिरिताच्युता।
धृतधनुःफलकासिशरा करै रसितमुच्चतुरं गमनाय कम्॥५६॥
अच्युता अलुप्ता देवी कं सुखं देयात्। कथंभूता। इता प्राप्ता। कम्। उच्चतुरद्गमनायक तुङ्गाश्वप्रकाण्डम्। किंविशिष्टम्। रसितं शब्दायमानम्। उत्प्रावल्येन चतुरं दक्षम्। असितं नीलवर्णम्। यद्वा रसिते मुत्प्रमोदो यस्य स चासौ चतुरश्च तम्। गमनाय गत्यर्थम्। देवी कथंभूता। काञ्चनवत्कान्तिर्यस्याः सा। करैः शयैर्धृता चापावरणखड्गबाणा यया सा ॥
नमः श्रीधर्म निष्कर्मोदयाय महितायते।
मर्त्यामरेन्द्रनागेन्द्रैर्दयायमहिताय ते॥५७॥
हे धर्मनाथ जिन, ते तुभ्य नमोऽस्तु। कथंभूताय। निर्गतः कर्मोदयो मलोत्पादो यस्य स तस्मै निर्गतकर्मोदयाय। महिता पूजिता आयतिरुत्तरकालः प्रभुता वा यस्य। यद्वा महिता आसमन्ताद्यतयः साधवो यस्य तत्सबोधनम्। कैर्मर्त्यमरेन्द्रनागेन्द्रैर्मर्त्यश्चामराश्च तेषामिन्द्रा नागेन्द्राश्च। नागेन्द्रस्योपलक्षणात्पातालवासिदेवैः। दया च यमाश्च व्रतानि तेषां हिताय ते तुभ्यम्॥
जीयाज्जिनौघो ध्वान्तान्तं ततान लसमानया।
भामण्डलत्विषा यः स ततानलसमानया॥५८॥
स जिनौधो जीयात्। भामण्डलकान्त्या यो ध्वान्तध्वस ततानाकृत। किंभूतया। ततो विपुलो योऽनलो वह्निस्तत्सदृशया लसमानया वर्धमानया॥
भारति द्राग्जिनेन्द्राणां नवनौ रक्षतारिके।
संसाराम्भोनिधावस्मानवनौ रक्ष तारिके॥५९॥
हे जिनवराणां वाणि, अस्मानवनौ पृथिव्यां रक्ष। किंविशिष्टा। नवा प्रत्यग्रा नौर्मङ्गिनी (?) संबोधन वा। कस्मिन्। संसाराम्भोनिधौ भवसागरे। अक्षतानुपहता अरयः शत्रवः कं जल यत्र। हे तारिके निर्वाहिके॥
केकिस्था वः क्रियाच्छक्तिकरा लाभानयाचिता।
प्रज्ञप्तिर्नूतनाम्भोजकरालाभा नयाचिता॥६०॥
प्रज्ञप्तिर्देवी वो युष्माकमयाचिता अप्रार्थिता लाभान् दद्यात्। किंभूता। केकिनि मयूरे तिष्ठतीति केकिस्था। शक्तिः प्रहरणविशेषः करे यस्याः। नवकमलवत्कराला अत्युल्बणा भा यस्याः सा नयेन नीत्या आचिता व्याप्ता॥
राजन्त्या नवपद्मरागरुचिरैः पादैर्जिताष्टापदा-
द्रेऽकोपद्रुत जातरूपविभया तन्वार्य धीर क्षमाम्।
विभ्रत्यामरसेव्यया जिनपते श्रीशान्तिनाथास्मरो-
द्रेकोपद्रुत जातरूप विभयातन्वार्यधी रक्ष माम्॥६१॥
हे श्रीशान्तिदेव, मां रक्ष पालय। जितोऽष्टापदाद्रिर्मेरुर्येन तस्य सबोधनम्। कया। तन्वा शरीरेण। किंभूतया। पादैश्वरणै राजन्त्या शोभमानया। किंभूतैः। नवपद्मरागो नूतनकमलरक्तता तद्वद्गुचिरैश्चारुभिः। हे अकोप अक्रोध। पुनस्तन्वा किंभूतया। द्रुतमुत्तप्त यज्जातरूप तपनीयं तद्वद्विभा कान्तिर्यस्यास्तया। हे अयं स्वामिन्। हे धीर परीषाद्यक्षोभ्य। तन्वा किं कुर्वत्या। क्षमां क्षान्तिं बिभ्रत्या धारयन्त्या। अमरसेव्यया
देवसेवनीयया। हे अस्मरोद्रेकोपद्रुत न कामवेगपीडित। जात प्रादुर्भूतं
विश्वातिशायि रूपं सौन्दर्यं यस्य। हे विभय गतभय। अतनुरकृशा आर्या प्रशस्या धीर्यस्य तस्य संबोधनम्। त्वमित्यस्यानुक्तस्यापि रक्षेति क्रिययोपलव्धस्य विशेषण वा। अत्र तनोमेरुणा श्लेषः। सोऽपि पद्मरागमणिमयैः पादैर्मूले राजते स्वर्णवर्णश्च। क्षमा भुवं बिभर्ति। अमरसेव्यश्च स्यात्॥
ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजो-
राज्या मेदुरपारिजातसुमनःसंतानकान्तां चिताः।
कीर्त्या कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयी-
राज्या मेदुरपारिजातसुमनःसंतानकान्ताञ्चिताः॥६२॥
ते जिनोत्तमा जयन्तु। ये प्राप्तत्रैलोक्यैश्वर्या अपि ईषदपि न मेदुर्मद चक्रुरिति सबन्धः। किंविशिष्टाः। अविद्विष शत्रुरहिताः। माला स्रजं धारयन्त। माला किंभूनम्। रजोराज्या परागपूरेण मेदुरा पारिजातकुसुमानि संतानकानि सतानककुसुमानि व तेषामन्ता अवयवा यस्यां ताम्। चिता व्याप्ताः। कया। कीर्त्या। कथंभूतया। कुदपुष्पोज्ज्वलया। अपारिजाता अपगतवैरिवृन्दा ये सुमनःसताना विद्वत्समूहा देवसमूहावा तेषां कान्ताः शिरःप्रान्ता प्रणामपराः स्त्रियो वा तैरश्चिताः पूजिताः॥
जैनेन्द्र मतमातनोतु सततं सम्यग्दृशां सद्गुणा-
लीलाभं गमहारि भिन्नमदनं तापापहृद्यामरम्।
दुर्निर्भेदनिरन्तरान्तरतमोनिर्नाशि पर्युल्लस-
ल्लीलाभङ्गमहारिभिन्नमदनन्तापापहृद्यामरम्॥६३॥
जैनेन्द्र जिनेन्द्रप्रोक्त मतं सद्गुणश्रेणिलाभं सम्यग्दृष्टीना वितनोतु। किंविशिष्टम्। माः सदृशपाठास्तैर्हारि मनोहरम्। भिन्नो विदीर्णो मदनोऽनङ्गो येन। तापं ससारमजमपहरतीति। यामानि व्रतानि रातीति। दुर्निर्भेदं दुःखभेद्यं निरन्तरं निर्विवरआन्तरमन्तर्भवं तमो मोह निर्नाशयतीत्येवशीलम्। पर्युल्लसल्लीलान्प्रोद्यद्विलासान् अभनजेयान् महारीन्महावैरिणो भिनत्तीति। नमन्तोऽनन्ता अप्रमाणाः अपापहृद्या मरा यस्य॥
दण्डच्छत्रकमण्डलूनि कलयन्स ब्रह्मशान्तिः क्रिया-
त्संत्यज्यानि शमी क्षणेन शमिनो मुक्काक्षमाली हितम्।
तप्ताष्टापदपिण्डपिङ्गलरुचिर्योऽधारयन्मूढतां
संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम्॥६४॥
स ब्रह्मशान्तिनामा यक्षः शं सुखं कुरुतात्। किं कुर्वन्। दण्डच्छत्रकमण्डलुनि क–
लयन्नुद्वहन्। किंभूतानि। सन्ति शोभनानि। अज्यानि अहीनानि। शमी प्रशमवान्। क्षणेन वेगेन। मुक्ताक्षमाला अस्यास्तीति। तप्तस्वर्णपिण्डपीतरुचिः। यो यक्षः कस्यापि शमिनो मुनेरनिशं निरन्तरमीक्षणेन विलोकनेनाज्ञतां मूढतां संत्यज्य हितं परिणतिसुखमधारयत्। हित किंभूतम्। मुक्ता अक्षमा यैस्ते मुनयस्तेषामाली श्रेणिस्तस्या ईहितं चेष्टितम्॥
भवतु मम मनः श्रीकुन्थुनाथाय तस्मा-
यमितशमितमोहायामितापाय हृद्यः।
सकलभरतभर्ताभूज्जिनोऽप्यक्षपाशा-
यमितशमितमोहयामितापायहृद्यः॥६५॥
तस्यै श्रीकुन्थुनाथाय जिनाय नमोऽस्तु। अमितः शमितो मोहस्यायामितापो दीर्घदवथुर्येन तस्मै। यः स्वामी हृद्यो हृदयहारी। सपूर्णभरतक्षेत्राधिपश्चक्रवर्ती जिनोऽप्यभूत्। किंभूतः। अमितानपायान्हरतीति। तस्मै किंभूताय। अक्षपाशा इन्द्रियरज्जवस्तैरयमिता अबद्धा ये शमिनो मुनयस्तेषां तमोहायाज्ञानघातिने॥
सकलजिनपतिभ्यः पावनेभ्यो नमः स-
न्नयनरवरदेभ्यः सारवादस्तुतेभ्यः।
समधिगतनुतिभ्यो देववृन्दाद्गरीयो-
नयनरवरदेभ्यः सारवादस्तु तेभ्यः॥६६॥
तेभ्यः सर्वजिनेन्द्रेभ्यो नमोऽस्तु। किंभूतेभ्यः। पावनेभ्यः पवित्रताजनकेभ्य। सन्तः शोभमाना नयनानि लोचनानि रवो देशनाध्वनिः रदा दन्ताश्च येषा तेभ्यः। सारोऽर्थप्रधानो वाद उक्तिर्येषां तैः स्तुताः। यद्वा सारश्चासौ वादश्च तेन स्तुता तेभ्यः। समधिगता प्राप्ता नुतिर्यैस्तेभ्यः। कस्माद्देवसमूहात्। किंविशिष्टात्। सारवात् प्रस्तुतस्तुतिकात्। गरीयांसो गरिष्ठा नया नीतयो येषु ते च ते नराश्च तेषां वरदेभ्य। इत्थभूतेभ्यो जिनेभ्यो नमोऽस्तु भवतु॥
स्मरत विगतमुद्रं जैनचन्द्रं चकास-
त्कविपदगमभङ्गं हेतुदन्तं कृतान्तम्।
द्विरदमिव समुद्यद्दानमार्गं धुताघै-
कविपदगमभङ्गं हे तुदन्तं कृतान्तम्॥६७॥
हे लोकाः, जिनचन्द्रसबन्धिनं कृतान्तं सिद्धान्तं यूयं स्मरत। हस्तिनमिव। किंभूतम्। विगतमुद्रं गतप्रमाणम्। चकासन्तः शोभमानाः कविपदानि कवियोग्याः शब्दाः गमा भङ्गाश्च यस्मिन्। हेतुदन्तं हेतव एव दन्तो विपक्षभेदकत्वाद्विषाणो यस्य
तम्। कृतान्त यमम्। तुदन्त व्यथमानम्। समुद्यन्समुल्लसन्दानमार्गो ज्ञानादीनां वितरणक्रमो यस्मिन्। अधैकविपदः पापैकविपद एवागा वृक्षास्ते धुता येन। अभङ्गमजेयम्। अत्र द्विरदेन श्लेषः। सोऽप्यपेतमर्यादः। तस्यापि पदगमनभङ्गाः शोभन्ते। दानमार्गो मदप्रवाहश्च स्यात्। स च कृतविनाश च तुदति॥
प्रचलदचिररोचिश्चारुगात्रे समुद्य-
त्सदसिफलकरामेऽभीमहासेऽरिभीते।
सपदि पुरुषदत्ते ते भवन्तु प्रसादाः
सदसि फलकरा मेऽभीमहासेरिभीते॥६८॥
हे पुरुषदत्ते, ते तव प्रसादा सदसि सभायां फलकराः कार्यसिद्धिकारिणो भवन्तु मे मम। प्रचलन्ती स्फुरन्ती या विद्युत्तद्वच्चारु गात्र यस्याः सा तस्याः संबोधनम्। विलसद्भ्यामसिफलकाम्या खड्गखेटकाभ्यां रामा रमणीया तस्याः संबोधनम्। अभीमोऽरौद्रो हासो हसनं यस्याः। अरिभ्यो भीर्भय तस्या ईतिभूते। अभीर्निर्भया या महासेरिभी प्रौढमहिषी तामिता गता तस्याः संबोधनम्॥
व्यमुचच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं
सन्नमदमरमानसंसारमनेकपराजितामरम्।
द्रुतकलधौतकान्तमानमतानन्दितभूरिभक्तिभा-
क्संन्नदमरमानसं सारमनेकपराजितामरम्॥६९॥
यश्चक्रवर्तिलक्ष्मीं क्षणेन वेगेन तृणवदत्याक्षीत् त अरं अरनामानं जिनं हे जनाः, आनमत। किंभूतम्। सन्ना क्षीणा मदमरणमानससारा यस्य तम्। लक्ष्मीं किंभूताम्। अनेकपा गजास्तै राजितां शोभिताम्। जिन किंभूतम्। द्रुत विलीन यत्सुवर्णंतद्वत्कान्तं कमनीयम्। आनन्दित भूरिभक्तिभाजा सनमतां प्रणामकारकाणाममराणां मानसं चित्त येन। तथा सार श्रेष्ठम्। दिग्विजयादिप्रक्रमेऽनेके बहवः पराजिता अमरा मागधादिदेवा येन तम्। यद्वा लक्ष्मीं कथभूताम्। अनेकै परैरजिताम्। अर शीघ्रम्॥
स्तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः
सकलकलाकलापकलितापमदारुणकरमपापदम्।
तं जिनराजविसरमुज्जासितजन्मजरं नमाम्यहं
सकलकला कलापकलितापमदारुणकरमपापदम्॥७०॥
सुरेन्द्रश्रेणी य जिनेन्द्रव्यूह स्तौति। समन्ततः सर्वतः। स्मेत्यतीतार्थकम्। समवसरणभूमौ। किंभूता। सकला समस्ताः कला विज्ञानानि तासां कलापेन समूहेन कलिता सहिता। अपमदा अपगतमदा। सह कलकलेन कोलाहलेन वर्तते। कला मै–
धुरा। त जिनेन्द्रविसरमहं नमामि। किंविशिष्टम्। अरुणावारक्तौ करौ हस्तौ यस्य। अपगता आपदो यस्मात्तम्। विनाशितजन्मजरम्। अपकलितापमपगतकलहसतापम्। अदारुणमरौद्रं करोतीति तम्। अपापं पुण्यं ददातीति तम्॥
भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुर-
त्परमतमोहमानमतनूनमलं घनमघवतेऽहितम्।
जिनपतिमतमपारमर्त्यामरनिर्वृतिशर्मकारणं
परमतमोहमानमतनूनमलङ्घनमघवतेहितम्॥७१॥
भीषणमहासंसारसमुद्रोत्पन्नभयविदारकम्। परास्ताःपरिक्षिप्ता विस्फुरन्तः परमतमोहमाना येन। यद्वा मोहादज्ञानान्मानो मिथ्याभिनिवेशः। परमतानां मोहमानौवा। तनु तुच्छमूनमपूर्णं च न। अलमत्यर्थ घन निबिड प्रमेयगाढम्। अघवते पापिने अहितं न श्रेयस्कारि। अपाराण्यपर्यन्तानि मर्त्यानाममराणां निर्वाणस्य शर्माणि तेषां कारणम्। परम तमो हन्ति। यद्वा परमतमा ऊहा यस्मिन्। आनमत प्रणमत। नूनं निश्चितम्। न लङ्घनमभिभवो यस्य स चासौ मघवा च तेन सामर्थ्यादच्युतनाथेन ईहितमभिलषितम्॥
यात्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुता-
त्समतनुभागविकृतधीरसमदवैरिव धामहारिभिः।
तडिदिव भाति सांध्यघनमूर्धनि चक्रधरास्तु सा मुदे-
ऽसमतनुभा गवि कृतधीरसमदवैरिवधा महारिभिः॥७२॥
अरा एषां सन्तीत्यरीणि चक्राणि। महान्ति च तान्यरीणि च तैर्महारिभिर्महाचक्रैःयात्रजगति चक्रधरा देवी अप्रतिचक्रा देवी भाति शोभते। कथंभूता। विविधवर्णगरुडपृष्ठमधिरूढा। हुतमत्तीति हुताद्वह्निस्तत्तुल्या तनुं भजते। अविकृता अविकारिणी धीर्यस्याः सा। महारिभिः किंभूतैः। असमानदवानलैरिव। धाम तेजस्तेन हारिभिर्मनोहरैः। यथा विद्युत्सध्याभवमेघमस्तके भाति तद्वत्। सा देवी मुदेऽस्तु भवतु। समा च तनुश्च समतनुः न समतनुरसमतनुः एवविधा भा यस्याः। गवि पृथिव्यां स्वर्गे वा कृतो धीराणां समदाना वैरिणां वधो यया॥
नुदंस्तनुं प्रवितर मल्लिनाथ मे प्रियंगुरोचिररुचिरोचितां वरम्।
विडम्बयन्वररुचिमण्डलोज्ज्वलः प्रिये गुरोऽचिररुचिरोचिताम्बरम्॥७३॥
नुदन् क्षिपन्। तनु शरीरम्। प्रियंगुः श्यामो वृक्षविशेषस्तद्वद्रोचिर्यस्य। तनुं कथभूताम्। रुचिरां उचितां च न एवविधाम्। रुचिमण्डलं भामण्डलं तेनोज्ज्वलः कान्तः। अचिररुच्या रोचितं विद्युच्छोभितमम्बरमाकाशं विडम्बयन्। हे मल्ले (मल्लि-
नाथ) हे गुरो, अरुचिरोचिता तनुं नुदन् प्रियगुवर्णःभामण्डलशोभितः विद्युत्सहितमाकाशं पराभवन् मम वर प्रवितर॥
जवाद्गतं जगदवतो वपुर्व्यथाकदम्बकैरवशतपत्रसं पदम्।
जिनोत्तमान्स्तुत दधतः स्रजं स्फुरत्कदम्बकैरवशतपत्रसंपदम्॥७४॥
जवाद्वेगज्जगद्विश्चमवतो रक्षतो जिनोत्तमान् हे भव्यजनाः, स्तुत नुत। जगत्किंविशिष्टम्। पद स्थान नरकादिलक्षण गतं प्राप्तम्। पदं किंभूतम्। वपु पीडोत्पीडैरवशाः परतन्त्रास्तपन्तस्तापमनुभवन्तस्त्रसाप्राणिनो यत्र तत्। जिनोत्तमान्कथभूतान्। स्रजंपुष्पमाला दधतः। मालां कथभूताम्। स्फुरन्ती कदम्बाना कैरवाणा शतपत्राणा च सपद्यत्र॥
स संपद दिशतु जिनोत्तमागमः शमावहन्नतनुतमोहरोऽदिते।
स चित्तभूः क्षत इह येन यस्तपःशमा वहन्नतनुत मोहरोदिते॥७५॥
स जिनेन्द्रागमः संपद दद्यात्। कथभूतः। श सुखमावहन्कुर्वन् अतनु प्रौढं तमो हरतीति। यद्वा अतनुतमानूहान् राति ददातीति। स चित्तभूः कामो येन क्षतो हतः। यः
कंदर्पस्तपशमौ अहन् जघान। अदिते अखण्डिते मोहश्च रोदित च मोहरोदिते च योऽतनुताप्रथयत्॥
द्विपं गतो त्दृदि रमतां दमश्रिया प्रभाति मे चकितहरिद्विपं नगे।
वटाह्वये कृतवसतिश्च यक्षराट् प्रभातिमेचकितहरिद्विपन्नगे॥७६॥
यक्षराट् कपर्दिनामा मम मनसि रमता परिक्रीडताम्। हृदि कथभूते। उपशमलक्ष्म्या प्रभाति प्रकर्षेण शोभमाने। यक्षराट् किंविशिष्ट। चकितस्त्रस्तो हरिद्विप ऐरावणोयस्मात्त द्विप वारण गतः प्राप्तः। विपन्नगे विगतसर्पे नगे वृक्षे वटाभिधाने कृता वसतिरालयो येन। प्रभया कान्त्या अतिमेचकिता श्यामलीकृता हरितो दिशो येन सः॥
जिनमुनिसुव्रतः समवताज्जनतावनतः
समुदितमानवा धनमलोभवतो भवतः।
अवनिविकीर्णमादिषत यस्य निरस्तमनः
समुदितमानवाधनमलोभवतो भवतः॥७७॥
जिन
मुनिसुव्रतो भवतो युष्मान् भवत संसारात्समवतात्सरक्षतु। कथभूत। जनतथा जनसमूहेनावनतः। समुदिता सहर्षा ये मानवा मनुष्या अवनिविकीर्णंभूमौ राशीकृत धन कनकादिकं यस्यालोभवतोऽलोभिनो भवतः सतः। दीक्षां ग्रहीतुकामस्येत्यर्थः। आदिषताददत। जिनः कथंभूतः। निरस्ता अपकीर्णा मनसमुदिता हृदि समुत्पन्ना सहता वा मानो बाधनं पीडा मलः कर्म च येन॥
प्रणमत तं जिनव्रजमपारविसारिरजो
दलकमलानना महिमधाम भयासमरुक्।
यमतितरां सुरेन्द्रवरयोषिदिलामिलनो-
दलकमला ननाम हिमधामभया समरुक्॥७८॥
प्रणमत नमत तं जिनब्रजमर्हत्संदोहम्। कथभूतम्। भयासं भयक्षयकारकम्। सुरेन्द्रवरयोपिदिन्द्राणी यं ननाम अनंसीत्। कथंभूता। अपाराण्यपर्यन्तानि प्रसरणशीलानि रजासि दलानि च यस्य तच्च तत्कमलं च तद्वत्सुगन्धमाननं मुखं यस्याः। महिम्रो धाम गृहम्। जिनव्रजविशेषणमेतत्। हिमधामा चन्द्रस्तस्य भया कान्त्या समाना रुग्रुचिर्यस्याः सा। इलामिलनेन क्षितिघट्टनेन उद्गतोऽलकेषु केशेषु मलो यस्याः सा॥
त्वमवनताञ्जिनोत्तमकृतान्त भवाद्विदुषो-
ऽव
सदनुमानसंगमन याततमोदयितः।
शिवसुखसाधकं स्वभिदधत्सुधियां चरणं
वसदनु मानसं गमनयातत मोदयितः॥७९॥
हे जिनोत्तमसमय, त्वमवनतान् प्रणमतो विदुषोऽव रक्ष भवात्ससारात्। सत् शोभमानं विद्यमानं वा अनुमानस्य प्रमाणस्य संगमनं संगतिर्यस्य तस्य संबोधनम्। त्व किं विशिष्टः। यातं तमो येभ्यस्ते याततमसो मुनयस्तेषा दयितोऽभीष्टः। मोक्षसुखप्रापकं। चरणं चारित्रं स्वभिदधत्स्वाख्यन्। किंभूतम्। सुधियां मानसमनु लक्ष्यीकृत्य वसत्तिष्ठत्। हे गमनयातत गमा सदृशपाठाः नयाश्च नैगमादयस्तैरातत विस्तीर्ण। हे मोदयितः प्रमोदकारक।
अधिगतगोधिका कनकरुक्तव गौर्युचिता-
ङ्कमलकराजि तामरसभास्यतुलोपकृतम्।
मृगमदपत्रभङ्गतिलकैर्वदनं दधती
कमलकरा जितामरसभास्यतु लोपकृतम्॥८०॥
गौरी देवी तव लोपकृतं विनाशकारकमस्यतु क्षिपतु। किंभूता। अधिगता प्राप्ता गोधिका देववाहनविशेषो यया सा। कनकवद्रुग्दीप्तिर्यस्य। वदनं मुखं दधती। किंभूतम्। मृगमदस्य कस्तूरिकाया ये पत्रभङ्गाः पत्रच्छेदास्तैरुपलक्षिता ये तिलकास्तरुचिता योग्या अङ्का लाञ्छनानि यस्य तदुचिताङ्कम्। अलकैश्चिकुरैराजते इत्येवंशीलमलकराजि तामरसभासि। अतुलमुपकृतं स्वकान्तिसंविभागादिना उपकारो यस्य तत्। कमलं करे यस्याः कमलवद्वा करो यस्याः सा। जिता निष्प्रभीकृता रूपनेपथ्यप्रागलभ्यादिभिरमराणां सभा यया सा॥
स्फुरद्विद्युत्कान्ते प्रविकिर वितन्वन्ति सततं
ममायासं चारो दितमद नमेऽघानि लपितः।
नमद्भुव्यश्रेणीभवभयभिदां त्हृद्यवचसा-
ममायासंचारोदितमदनमेघानिल पितः॥८१॥
हे नमे नमिजिन, ममायास वितन्वन्ति अघानि पापानि प्रविकिर निरस्य। स्फु
रन्ती या विद्युत् तद्वत्कान्तिर्यस्य तस्य संबोधनम्। हे चारो दर्शनीय। हे दितमद
च्छिन्नमद। है लपितःवादक। केषाम्। हृद्यवचसाम्। कथंभूतानाम्। नमद्भव्यश्रेणी
भवभयभिदाम्। मायाया दम्भस्य संचारो यस्य स नैवविधस्तस्य संबोधनम्। उदित
उ
दयं प्राप्तो मदनः काम एव मेघो जीमूतस्तस्य सहारकत्वादनिलो वात इव तस्य
सं
बोधनम्। हे पितः जनक इव हितकारक॥
नखांशुश्रेणीभिः कपिशितनमन्नाकिमुकुटः
सदा नोदी नानामयमलमदारेरित तमः।
प्रचक्रे विश्वं यः स जयति जिनाधीशनिवहः
सदा नो दीनानामयमलमदारेरिततमः॥८२॥
यो विश्वं इततमो गतमोह प्रचक्रे स जिनेन्द्रसमूहो जयति। कथभूतः। नखाशुश्रेणीभिर्नखमयूखसंततिभिः कपिशितनमन्नाकिमुकुटः पीतीकृतनमद्देवकिरीटः। सदा शश्वत् नोदी प्रेरणशीलः। कस्य। नाना अनेकरूपा आमयाश्च मलाश्च मदाश्च। समाहारद्वन्द्व। तदेवारिस्तस्य। सदानो दानसहितः। दीनाना कृपणानाम्। अयमेपः। अलमतिमात्रम्। अतिशयेन दारै. कलत्रैरीरितो धैर्याच्चालितो दारेरिततमः। न एवविध अदारेरिततमः॥
जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधो
गुरुर्वाहोऽपातापदघनगरीयानसुमतः।
कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिभा-
गुरुर्वाहो पाता पदघनगरीयानसुमतः॥८३॥
कृतान्तः सिद्धान्तोऽसुमत प्राणिनस्रासीष्ट रक्षतात्। कस्मात्। जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुध। व्यालः सर्प। रुजो जलोदरादिरोगा। बन्धनं कारानिगेधादि। युत्सङ्ग्रामः। जलादीना सकाशादित्यर्थः। किंभूत। गुरुर्महान्। वाहोऽश्वः। न विद्यते पातश्च्यवनं आपद्विपत् अघ पाप च यस्या सा चासौ नगरी च युक्त्या मुक्तिरेव तस्या याने गमने सुत्रु मतोऽभिप्रेतः। स्फुटा अविसवादिन्यो विकटा विस्तृता हेतुप्रमितयः हेतवः प्रमाणानि च भजते यः स्फुटविकटहेतुप्रमितिभाक्। उरुर्विशालः।
वाशब्दश्चकारार्थे। अहो इत्यामन्त्रणे। पाता त्रायकः। पदधनगरीयान पदधनोऽर्थनिबिडःगरीयांश्च महत्त्वयुक्तः। यद्वा पदेषु वाक्यावयवेषु घनश्च गरीयांश्च॥
विपक्षव्यूहं वो दलयतु गदाक्षावलिधरा-
समा नालीकालीविशदचलना नालिकवरम्।
समध्यासीनाम्भोभृतघननिभाम्भोधितनया-
समानाली काली विशदचलनानालिकवरम्॥८४॥
काली देवी वो युष्माकं विपक्षव्यूहं प्रतीपपटलं दलयतु पिनष्टु। किंविशिष्टा। गदा आगुधविशेषः अक्षावलिरक्षमाला च ते धरतीति। असमा रूपैश्वर्यादिना अनन्यसदृक्। नालीकाना कमलानामाली श्रेणी तद्वद्विरादौ निर्मलौ चलनौ पादौ यस्याः सा। नालिकवरं प्रधानकमलं समध्यासीना अधिरोहन्ती अधिरूढा वा। अम्भोभृतः पयःपूर्णो यो घनो मेघस्तस्य निभा कृष्णवर्णत्वात्समा। अम्भोधितनयासमाना लक्ष्मीतुल्या आल्यः सख्यो यस्याः। विशन्तो लीयमाना अचलाः स्थिरा नाना बहुविधा येऽलयो भ्रमरास्तैः कवर मिश्रम्। खचितमित्यर्थः। इद नालिकवरस्य विशेषणम्॥
चिक्षेपोर्जितराजकं रणमुखे यो लक्षसंख्यं क्षणा-
दक्षामं जन भासमानमहसं राजीमतीतापदम्।
तं नेमिं नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो
दक्षामञ्जनभासमानमहसं राजीमतीतापदम्॥८५॥
यो नेमिजिनो लक्षसख्यं लक्षप्रमाणमूर्जितराजकं बलवद्राजवृन्दं रणमुखे चिक्षेप बभज। क्षणाद्वेगेन। राजकं किंभूतम्। अक्षाममुपचितम्। हे जन, तं नेमिं नम। किंभूतम्। भासमान कान्तिकदम्बेन दीप्यमानं जनैर्भासमानं वा। अहसं हास्यमुक्तम्। राजीमत्या राजकन्यायाः प्रव्रज्याग्रहणेन मनोरथविफलीकरणात्तापदम् पश्चात्तु मुक्तिसुखप्रदम्। नम्राणां निर्वृतिं मुक्ति सुखं वा करोतीति। यश्च स्वामी यदूनां यादवानां दक्षां राजी श्रेणिं अतीता अतिक्रान्ता आपदो यया सा तामतीतापद चक्रे कृतवान्। नेमि किंभूतम्। भञ्जनस्य भया कान्त्या समानं तुल्यं महस्तेजो यस्य॥
प्राव्राजीज्जितराजका रज इव ज्यायोऽपि राज्यं जवा-
द्या संसारमहोदधावपि हिता शास्त्री विहायोदितम्।
यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा-
यासं सारमहो दधाव पिहिताशास्त्रीविहायोऽदितम्॥८६॥
या उदितमुदयं प्राप्त ज्यायोऽपि अतिप्रौढमपि राज्य रज इव विहाय प्राव्राजीत् प्रव्रज्यामग्रहीत्। किंभूता। जित राजक राजसमूहो यया सा। संसारमहोदधौ भवम–
हार्णवेऽपि हिता सुखकारिणी। शास्त्री शिक्षयित्री। यस्याश्च सर्वतः सर्वासु दिक्षु सारमही सारतेजो दधाव प्रससार। किंभूतम्। पिहिता आच्छादिता आशास्त्रियो दिग्वनिताविहाय आकाश च येन। तत्। अदितमखण्डितम्। सा जिनानां राजी भवायासं संसारक्लेश नोऽस्माकं हरतु॥
कुर्वाणाणुपदार्थदर्शनवशाद्भास्वत्प्रभायास्त्रपा-
मानत्या जनकृत्तमोहरत मे शस्तादरिद्रोहिका।
अक्षोभ्या तव भारती जिनपते प्रोन्मादिनां वादिनां
मानत्याजनकृत्तमोहरतमेश स्तादरिद्रोहिका॥८७॥
हे जिनपते, तव भारती वाणी मे मम अरिद्रोहिका बाह्याभ्यन्तरशत्रुजयकारिणी स्ताद्र्यात्। किंविशिष्टा। अणव सूक्ष्मा पदार्थाजीवाजीवादयस्तेषां दर्शनवशात्प्रकाशनात् भास्वत्प्रभाया सूर्यकान्तेस्त्रपा लज्जां कुर्वाणा। आनत्या प्रणामेन हेतुभूतया जनानां कृत्तश्छिन्नो मोहो रतं च येन तस्य संबोधनम्। शस्ता प्रकृष्टा। अदरिद्रा आढ्या उहास्तर्का यस्या. सा अदरिद्रोहिका। अक्षोभ्या अपराभवनीया। प्रोन्मादिना दर्पवता परवादिना मानस्याहंकारस्य त्याजन मोक्षणं करोतीति। अतिशयेन तमो हरतीति तमोहरतमा। हे ईश नेत॥
हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागम-
द्विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत्।
सा भूतिंवितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लस-
द्विश्वासे वितताम्रपादपरताम्बा चारिपुत्रासकृत्॥८८॥
यस्या अम्बाया जनो लोको विश्वेन जगता सेवितयोस्ताम्रयो रक्तयो पादयोश्चरणयोः परता तदेकशरणतामभ्यागमज्जगाम साम्बा नोऽस्माक भूर्ति सपद वितनोतु। किंभूता। हस्ते आलम्बिता चूतलुम्बिरेव लतिका यया सा। वाचा वाण्या रिपूणा त्रास करोतीति। अर्जुन काञ्चनं तद्वदुचि कान्तिर्यस्याः सा। सिंहे कण्ठीरवेऽधिरुवा आसीना। उल्लसन् प्रसरन् विश्वासो यस्माद्यस्य वा। विततो विपुलो य आम्रपादपश्रूतवृक्षस्तत्र रता। चारिणौ विहरणशीलौ पुत्रौ यस्याः सा। असकृन्निरन्तरम्॥
मालामालानबाहुर्दधददधदरं यामुदारा मुदारा-
ल्लीनालीनामिहाली मधुरमधुरसां सूचितोमाचितो मा।
पातात्पातात्स पार्श्वोरुचिररुचिरदो देवराजीवराजी-
पत्रापत्रा यदीया तनुरतनुरवो नन्दको नोदको नो॥८९॥
मा मा पातात् नरकादिपतनात्पाताद्रक्षतात्। स पार्श्वस्त्रयोविंशो जिनः। किंवि-
शिष्टः। मालां स्रजं दधत् दधानः। यां मालामलीनां भ्रमराणामाली पटली उदारा प्रघुरा मुदा हर्षेण आरात् अन्तिके अरमत्यर्थंलीना श्लिष्टा सती अदधत्पीतवती। किं भूताम्। मधुरो मधुर्मकरन्दरसो यस्याः सा ताम्। पार्श्वः किंभूतः। आलानवद्बाहू यस्य सः। सुष्ठु उचिता या उमा कीर्तिस्तया चितो व्याप्तः। रुचिररुचयो रम्यकान्तयो रदा दन्ता यस्य सः। तथा यस्येय यदीया तनुः शरीरं आपत्रा विपदो रक्षिका। किंभूता। देवानां सबन्धिनी या राजीवराजी स्वर्णाम्बुजश्रेणी सैव पत्रं वाहनं यस्याः सा। पार्श्वः किंभूतः। अतनुर्योजनप्रमाणभूमौ श्रूयमाणत्वात्प्रौढो रवो देशनाध्वनिर्यस्य सः। नन्दकः समृद्धिजनकः नन्दयिता वा। नोदको नो प्रेरको न भवतीत्यर्थः॥
राजी राजीववत्रा तरलतरलसत्केतुरङ्गत्तुरङ्ग-
व्यालव्यालग्नयोधाचितरचितरणे भीतिहृद्यातिहृद्या।
सारा साराज्जिनानामलममलमतेर्बोधिका माधिकामा-
दव्यादव्याधिकालाननजननजरात्रासमानासमाना॥९०॥
राजी श्रेणी राजीववत्कमलवद्वक्र यस्याः सा। तथा तरलतरलसत्केतवः कम्प्रविराजमानध्वजा रङ्गता चलतां तुरङ्गाणा व्यालानां दुष्टदन्तिनां व्यालग्ना अभिघटिताः कृताधिरोहणा वा ये योधाः सुभटास्तैराचित आकीर्णो रचितः कृतश्च यो रणः सङ्ग्रामस्तत्र या भीतिर्भयं तां हरतीति सा। या अतिहृद्या अत्यन्तहृदयंगमा। सारा उत्कृष्टा। सा यच्छब्दनिर्दिष्टा। आराद्दुरादन्तिकाद्वा। जिनानां सर्वज्ञानाम्। अलमत्यर्थम्। अमला मतिर्यस्य तस्य बोधिका बोधजनका। मा माम् अधिको यो आमो रोगस्तस्मात् यद्वा आधिश्च कामश्च तस्मात्। व्याधिश्चकालाननं यममुखं मरणं च जनन च जरा च त्रासश्च मानश्च न विद्यन्ते व्याध्यादयो यस्या सा। असमाना गुणैरसदृशा। या जिनाना राजी रणे भीतिहृत्सा अव्यादिति संबन्धः॥
स
द्योऽसद्योगभिद्वागमलगमलया जैनराजीनराजी-
नूता नूतार्थधात्रीह ततहततमःपातकापातकामा।
शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाबाधिका वा-
देया देयान्मुदं ते मनुजमनुजरां त्याजयन्ती जयन्ती॥९१॥
जि
नराजानां सबन्धिनी जैनराजी वाग्वाणी ते तुभ्यं मुद देयात्। किंविशिष्टा। सद्यः
शी
घ्र असन्तो ये योगा मनोवाक्कायव्यापारास्तान् भिनत्तीति सा
।
अमलानां गमाना
ल
यो यत्र सा
।
इना इभ्याः सूर्यां वा तेषां राज्या नूता स्तुता
।
नूतान्नवोनानर्थान् द
धातीति सा
।
इह पृथिव्याम्
।
तत विपुल हतं ध्वस्तं तमोऽज्ञानं पातकं पाप्मा यया
सा
। अपातः पतनरहितः कामश्च यया। यद्वा पृथग्विशेषणम् न विद्यते पातकामौयस्याः सा। शास्त्री शास्त्रसंबन्धिनी। नराणां शास्त्री शासिका। यद्वा शास्त्रीणामीशा
स्वामिनी। स्त्रियो नार्यो नरा मर्त्यास्तेषा हृदय हरतीति। अयशो रुणद्धीति। न बाधते इत्यबाधिका। वा समुच्चये। आदेया ग्राह्या। मनुजं मानवमनु लक्ष्यीकृत्य जरा विस्रसा त्याजयन्ती विनाशयन्ती। जयन्ती केनाप्यपरिभूतत्वात्॥
याता या तारतेजाः सदसि सदसिभृत्कालकान्तालकान्ता-
पारिं पारिन्द्रराजं सुरवसुरवधूपूजितारं जितारम्।
सा त्रासात्रायतां त्वामविषमविषभृद्भूषषणाभीषणा भी-
हीनाहीनाग्र्यपत्नी कुवलयवलयश्यामदेहामदेहा॥९२॥
याता प्राप्ता देवी। तारमुज्ज्वलं तेजो यस्याः सा। सदसि सभायाम्। सन्त शोभनमसिं बिभर्ति सा। काला कृष्णाः कान्ता रुचिरा अलकानामन्ताः प्रान्ता यस्या सा। अपगता अरयो यस्मात् तमपारि पारिन्द्रराजमजगरेन्द्रम्। सुरवा सुशब्दा या सुरवध्वो देवकान्तास्ताभिः पूजिता। अर शीघ्र जितमारमरिसमूहो येन। सा यच्छव्दादिष्टा त्रासाद्भयात्रायता रक्षताम्। त्वा भवन्तम्। अविषमाः सौम्या विषभृतः सर्पा भूषण यस्याः सा। तथा अभीषणा अरौद्राकारा भिया भयेन हीना त्यक्ता। अहीनो नागपतिस्तस्याग्र्या प्रधाना पत्नी अग्र्यमहिषी। चिरोढेत्यर्थ। कुवलयाना वलय समूहस्तद्वच्छ्यामो देहो यस्याः सा। अमदा मदरहिता ईहा चेष्टा यस्याः सा। या सदसिः पारिन्द्रराजं प्राप्ता सा अहीनाग्र्यपत्नी त्रासात्रायतामिति सबन्धः॥
नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांह्ने धरित्रीकृतावन वरतम संगमोदारतारोदि- तानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षो भवान्। मम वितरतु वीर निर्वाणशर्माणि जातावतारो धराधीशसिद्धार्थधाम्नि क्षमालंकृता—
वनवरतमसङ्गमोदारतारोदितानङ्गनार्याव लीलापदे हे क्षितामो हिताक्षोभवान्॥९३॥
नमताममराणा शिरोरुहेभ्य केशेभ्यः स्रस्ता सामोदानां निनिद्राणा विकसितानां मन्दाराणां या मालास्तासा रजसा परागेण रञ्जिताह्ने पाटलितचरण। धरित्र्या भुव कृतावन विहितरक्षण। वरतम प्रधानतम। संगमनाम्नो देवस्य संबन्धिनी उदारा ताग उदितानङ्गा उद्गतस्मरा अथवा वरतमः संगमः समागमो यस्याः सा वरतमसगमा उदारतारा अदीनकनीनिका उदितानङ्गा उद्गतस्मरा या नार्यावली नारीणा पङ्क्तिस्तस्या लापेन जल्पितेन देहेन ईक्षितेन च न मोहितानि अक्षाणि इन्द्रियाणि यस्य स भवान् त्वम् मम वितरतु हे वीर जिन। निर्वाणशर्माणि मोक्षसुखानि। जातावतारोऽवतीर्णः। उत्पन्न इत्यर्थः। धराधीशः क्षितिपतिर्यः सिद्धार्थस्तस्य धाम्नि गृहे। कथंभूते। क्षमालंकृतौ भुवोऽलंकारभूते। अनवरतमजस्रम्। हे असङ्गमोद सङ्गमोदाभ्यां रहित। यद्वा
सङ्गाद्यो मोद स नास्ति यस्यासी असङ्गमोदः। स्वतन्त्रसुख इत्यर्थः। हे अरत अनासक्त। हे अरोदित रोदनहीन। शोकरहितेत्यर्थः। हे अनङ्गन अङ्गनारहित। हे आर्याव आर्यानवति यस्तदामन्त्रणम्। धाम्नि कथंभूते। लीलानां विलासानां पदे स्थाने। हे इत्यामन्त्रणे। भवान् कथंभूतः। क्षितामः क्षपितरोगः। हे हित हितकारिन्। पुनः कथभूतः। अक्षोभवान् न भयान्वितः। हे वीर, भवान्मम निर्वाणशर्माणि वितरत्विति सबन्धः॥
** समवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षण- प्रायशोभातपत्रप्रभागुर्वराराट् परेताहितारोचितम्। प्रवितरतु समीहितं सार्हतां संहतिर्भक्तिभाजां भवाम्भोधिसंभ्रान्तभव्यावलीसेविता—**
** सदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुर्वराराट्परेताहितारोचितम्॥**
** **समवसरण धर्मदेशनास्थान यस्याः अत्र अस्मिन् अराराट् भूशमराजत सा अर्हतां ततिर्भक्तिभाजां समीहित वितरतु। समवसरण कथभूतम्। स्फुरत् केतुर्धर्मध्वजश्चक्रं धर्मचक्र आनको देवदुन्दुभिः अनेकपद्मानि सुरकृतकमलानि इन्दुरुक्चामराणि चन्द्रावदातप्रकीर्णकानि उत्सर्पिणी सालत्रयी प्राकारत्रय प्रधानावनमदशोकद्रुमः पृथिव्युत्सवभूतच्छायातपत्रत्रयं तस्य प्रभा कान्तिस्तया गुरु महार्हम्। पुनः किंभूतम्। परेता अपगता अहिताः शत्रवो येषां तैरारोचितं शोभितम्। अथ वा परा प्रधाना इताहिता गतशत्रुरित्यहता सहतेविशेषणे। आरोचितं शोभितम्। सहतिः कथंभूता। भवाम्भोधौ संसारसमुद्रे सभ्रान्ता आकुलीभूता या भव्यावली तया सेविता। पुनः कथंभूता। सदवना सोपतापा च मदशोकाभ्या पृथ्वी वितता च या न भवति। ईक्षणानि चक्षूषि ज्ञानानि वा प्राति पूरयति सा। यशसा भातानि शोभितानि पत्राणि वाहनानि प्रभजन्ते ये उर्वराराजः पृथ्वीपतयः परेताः पिशाचा अहयो नागारतारा ज्योतिष्कास्तेषामुचितं योग्यम्। समवसरणविशेषणमिदम्॥
परमततिमिरोग्रभानुप्रभा भूरिभङ्गैर्गभीरा भृशं विश्ववर्ये निकाय्ये वितीर्यात्तरामहति मतिमते हि ते शस्यमानस्य वासं सदा तन्वतीतापदानन्दधानस्य सामानिनः।
जननमृतितरङ्गनिप्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौभारतीतीर्थकृत्
म
हति मतिमतेहितेशस्य मानस्य वा संसदातन्वती तापदान दधानस्य सामानि नः॥९५॥
हे
ती
र्थकृत्, ते तव मते शासने भारती विश्ववर्ये निकाय्ये वासमाश्रयम्। मोक्षमित्यर्थ। वितीर्यात्तरामिति सबन्ध। भारती कथंभूता। परशासनध्वान्तसूर्यसमा। भूरिभङ्गैरर्थविकल्पैर्गभीरा। निकाय्ये कथंभूते। अहतिमति अविद्यमानहनने। मते शासने आधारभूते। यद्वा अहतिं अविद्यमानघातम्। एतद्वासस्य विशेषणम्। अतिमते अतिशयेनाभिप्रेते। हि स्फुटम्। ते तव। शस्यमानस्य स्तूयमानस्य। सदा नित्यम्। अतनवो चहुतरा अतीता आपदो यस्य तस्यामन्त्रणं अतन्वतीतापत्। आनन्दधानस्य प्रमोदस्थानस्य। सा इत्यभूता। अमानिनो निरहंकारस्य। नौस्तरणिः। महति विस्तीर्णे। हे हित प्रियकारिन्। यद्वा मतिमता मनीषिणा ईहिता। ईशस्य स्वामिनः। वा इवार्थे भिन्नक्रमश्च। मानस्य पूजाया ससद् वा सभेव। तापदानं सतापखण्डनमातन्बती। सामानि प्रियाणि दधानस्य। नोऽस्माकम्॥
सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे परमवसुतराङ्गजा रावसन्नाशिताराति भाराजिते भासिनी हारतारा बलक्षेमदा। क्षणरुचिरुचिरोरुचञ्चत्सटासंक
टोत्कृष्टकण्ठोद्भटे संस्थिते भव्यलोकं त्वमम्बाम्बिके।
परमव सुतरां गजारावसन्ना शितारातिभा राजिते भासिनीहारताराबलक्षेऽमदा॥९६॥
हे सवेगनतदेववधूजनस्तनपीठीषु लुठतां तारहाराणां स्फुरद्रश्मिभिः सारे कर्बुरे क्रमाम्भोरुहे चरणकमले यस्यास्तस्या संबोधनम्। परमवसुतराङ्गजा अतिशयेन परमवसू परमतेजसौ अङ्गजौ पुत्रौ यस्याः सा। रावेण ध्वनिना सम्यग् नाशितोऽदर्शनं नीतो अरातिभारः शत्रुवर्गो यया सा। अजितेऽपराभूते। भासिनी भासनशीला। हारतारा हारोज्ज्वला। वल क्षेम च ददाति या। सिंहे कथभूते। क्षणरुचिरुचिराभिर्विद्युद्दीप्तिभिरिव रुचिराभि उर्वीभिः चञ्चन्तीभिः सटाभिः सकट उत्कृष्टो य कण्ठस्तेनोद्भटे। हे अम्ब मातः। हे अम्बिके देवि। परमुत्कृष्टमव रक्ष। सुतरामत्यर्थम्। गजारौ सिंहे। असन्ना अखिन्ना। सस्थिता। शितस्य तनूकृतस्य आरस्येव पित्तलस्येव अतिशयेन भा यस्याः सा। राजिते भ्राजिते। भासमानहिमनक्षत्रधवले। अमदा मदरहिता। है अम्बिके सिंहे सस्थिते सुतरा त्वं भव्यलोकमवेति सबन्धः॥
इति श्रीमहाकविशोभनमुनिप्रणीता सावचूरिश्चतुर्विंशतिजिनस्तुतिः
===============
]
-
" ‘मन्दरो मेरुः । युगान्ते सर्वपर्वताना क्षोभो भवति न तु मेरोः’ इति टीकाकृतः." ↩︎
-
“मदनस्य क्षयहेतुम्.” ↩︎
-
" ‘विबुधाश्रय’ इति पाठ.." ↩︎
-
“गम्भीरेत्यादिपद्यचतुष्टय श्वेताम्बरर्न व्याख्यातम् अस्माकमप्येतत्प्रक्षितमेव इति.” ↩︎
-
“ध्वनति’” ↩︎
-
“उद्धा प्रशस्ता मतल्लिकादयः शब्दाः समासान्तर्गताएव प्रशस्तवाचकाः. उद्धशब्दस्तु समास विनापीति रामाश्रम्या द्रष्टव्यम्.” ↩︎
-
“ओषधिविशेष..” ↩︎
-
“वारिवाहा जलप्रवाहाः " ↩︎
-
“‘चक्रे’ इति पाठः” ↩︎
-
" ‘भग्ना.’ ‘मग्ना.’ इति च पाठः .” ↩︎
-
" मानतुङ्गमिति स्वकीयं नामाप्याचार्येण युक्त्या चरमपद्ये निवेशितम्. " ↩︎
-
“सूर्ये” ↩︎
-
“चर्मभस्त्रा” ↩︎
-
“निर्वाण नीताः” ↩︎
-
“अक्षस्य पद्मवीजस्य " ↩︎
-
“‘सभविपद’ इति पाठ..” ↩︎
-
“काचकामलादयो नेत्रोरोगास्तद्युक्तैः” ↩︎
-
“श्रीपार्श्वनाथोऽशोकवृक्षतले स्थितवान्. ‘उच्चैरशोकतरुसश्रितं’ इति भक्तामरस्तवेऽपि.” ↩︎
-
“प्राकारत्रयेण” ↩︎
-
“पार्थिवश्चासौ निपो घटः.‘पार्थिवनिभस्य’ ‘पार्थिवभवस्य’ इति च पाठः” ↩︎
-
“घटस्तु वह्निकृतपाकेन शून्यस्तारयितुमसमर्थो भवति” ↩︎
-
“तरवारिः खड्गः,‘विमलतरवारिधारात्रासितराजहंसमण्डलः’ इति वासवदत्ताश्लेषः.” ↩︎
-
" गोत्रं नाम” ↩︎
-
" मर्मभेदकाः" ↩︎
-
“विम्ब प्रतिमा” ↩︎
-
“पूजयेत् ‘चायृ पूजानिशामनयोः” ↩︎
-
“कुष्ठरोगाक्रान्त मदीयं शरीरमिति टीकाकारः.” ↩︎
-
“‘जीवकेन क्षत्रियवशचूडामणि श्रीसत्यधरमहाराजपुत्रेणेति टीकाकारः’” ↩︎
-
“सौमित्यस्य दैवमिति विशेषणम्. सारमेय. श्वा.” ↩︎
-
" तत्त्वैसप्तसंख्यैरवभासते य." ↩︎
-
“प्रकृतिस्थित्यनुभागप्रदेशा बन्धप्रकृतय इति टीका.” ↩︎
-
" स्याद्वादनयहिमाचलात् " ↩︎
-
“स्यादस्ति, स्यान्नास्ति, स्यादस्ति नास्ति, स्यादवक्तव्यम्, स्यादस्त्यवक्तव्यम्, स्यान्नास्त्यवक्तव्यम्, स्यादस्ति च नास्ति चावक्तव्यं च इति सप्त भङ्गाः स्याद्वादनये प्रसिद्धाः” ↩︎
-
" चेतोरूपपर्वतेनावृत्तिं मथनम् ." ↩︎
-
“बाह्यभूषणादिभ्यः” ↩︎
-
" प्रभुत्वम्" ↩︎
-
“स्तोतु तोतूर्ति त्वरितो भवति.” ↩︎
-
“कुटिलो भवति” ↩︎
-
" सदेहं प्राप्नोति" ↩︎
-
" विस्तृतानाम्" ↩︎
-
“त्वां स्तोतुमहं शक्त इत्यभिमानम्.” ↩︎
-
“स्वल्पाद्बोधात्” ↩︎
-
" प्रापितवानसि " ↩︎
-
“सूर्यो न ददाति नापहरति केवलमद्यश्व इत्याशा दर्शयन्नशक्त. सन्सव्याज दिवसं यति, केवल कालपेक्षं करोतीत्यर्थ.. अन्यत्राशा दिशः.” ↩︎
-
“यत्र स मेरुर्वर्तते तत्रैव प्रकृतिर्नान्यत्र " ↩︎
-
“तव मतेऽनवस्था परमार्थतत्त्वं वर्तते.” ↩︎
-
“पुनरावृत्ति .” ↩︎
-
“वाञ्छितवानसि” ↩︎
-
" पापरहितः स ब्रह्मादिदेवसमूहः” ↩︎
-
“सरोवरादेः स्तोकापवादेन पमेतदिति निन्दया समुद्रस्य महत्त्वं न ख्याप्यते स तु स्वभावेनैव महान् " ↩︎
-
“जीर्मणोरन्योन्यस्य नेतृभावं भवाब्धौत्वमाख्य. कथितवानसि यथा समुद्रे नौका नाविक नयति नाविकश्च नौकां तद्वत् " ↩︎
-
“त्वत्तः पराङ्मुखाः.” ↩︎
-
“अवजानन्ति " ↩︎
-
“पापाणोद्भवम्.” ↩︎
-
“नरदेवतिर्यगादीनाम्” ↩︎
-
" काचम्. " ↩︎
-
" हरिन्मणेः.” ↩︎
-
“पूर्वापरविरोधरहितार्थम् .” ↩︎
-
“प्रवृत्ता. " ↩︎
-
“उत्कृष्टा” ↩︎
-
“द्वित्राणि मूलपुस्तकान्येका च टीकास्य स्तोत्रस्यास्माभिः समासादिता. तत्र टीकायां तत्कर्तुर्नाम नास्ति” ↩︎
-
“पण्डिताः” ↩︎
-
“रुन्दा विस्तीर्णा.” ↩︎
-
“सिंहासनस्य.” ↩︎
-
“आज्ञाविधेयः शक्रो यस्मिन् " ↩︎
-
" कामस्य. " ↩︎
-
" माद्यन्.” ↩︎
-
" जिनानां गणधरदेवानां राजानस्तेषा व्रातः समूह एव मेघसंघ इति टीका.” ↩︎
-
“वृक्षविशेषस्य” ↩︎
-
“अपस्थितो दूरीभूतः,” ↩︎
-
“हे जगत्पालक.” ↩︎
-
“जन्माभिषेके.” ↩︎
-
“स्तोत्रस्यास्य त्रिचतुराणि मूलपुस्तकान्येवोपलब्धानि टीका तु न प्राप्ता. एकस्मिन्मूलपुस्तके टिप्पण वर्तते तदेवात्रोद्धृतम्. " ↩︎
-
“देदीप्यमानैः” ↩︎
-
“प्रतिभयानुपमैः” ↩︎
-
“नाभिराजतनुभूर्वृषभनाथस्वामी तच्चरणविलोकनेन.” ↩︎
-
" वितनवो मुक्तास्तेषां भूर्मोक्षभूमिस्तस्याः पदवी मार्गों रत्नत्रयात्मकः. " ↩︎
-
“परा उत्कृष्टा, अजितेन एतन्नाम्ना जिनेन.” ↩︎
-
“संभवेति जिननाम.” ↩︎
-
“हे देव प्रमुक्तसुमनोभवन, अश(स ↩︎
-
“हे वर,आनतेन.” ↩︎
-
" लक्ष्मीः” ↩︎
-
“विनयस्येन प्रभुम् अहीनभोगाः” ↩︎
-
“देवलोकव्योमयानश्रियः.” ↩︎
-
“कोपयुक्तं मनः शान्तिमवनिनाय.” ↩︎
-
“द्वितीयाबहुवचनम् .” ↩︎
-
" सुखम्” ↩︎
-
“दोर्दण्डमण्डितरतेः स्मरस्य माया लक्ष्म्याश्च विनाशो यस्मिन्सुखे, मोक्षसुखमिति भावः " ↩︎
-
“सूक्ष्मेण” ↩︎
-
“सुशब्दां रतिम” ↩︎
-
“सुरसा-अरं-उक्तिः” ↩︎
-
“हे सुरश्रेष्ठ " ↩︎
-
“मानत्वेन सहवर्तमानानाम् " ↩︎
-
“अरणानि युद्धनिषेधकानि.” ↩︎
-
“चित्तभवमायाः कामलक्ष्म्या गरता विषत्वं तां रणन्ति कथयन्ति तानि.” ↩︎
-
“कल्मषाणाम्. " ↩︎
-
“विगता दन्तिनो यस्मात्तद्विदन्ति, न विदन्ति अविदन्ति हस्तियुक्तं राज्यमित्यर्थः.” ↩︎
-
“जीर्यते वृद्धो भवति.” ↩︎
-
“मां मोक्षलक्ष्मीं त्रायते मात्रस्तम्. " ↩︎
-
“मुक्तिप्रभो.” ↩︎
-
“हे व्रतिक व्रतदानदक्ष, अन्तकान्ता यमस्य विनाशका पदवीम्. " ↩︎
-
“ना पुरुषो गुणगणे अमा सह सुष्ठु रराज” ↩︎
-
“गता कामिना नीतिर्यस्मात्तपम” ↩︎
-
“अगता न प्राप्ता कामिन्य ईतयश्च यत्र तादृश पदम्.” ↩︎
-
" अप्रमाणा सेना यस्य. " ↩︎
-
“आगामिवाञ्छान्.” ↩︎
-
“है जिन, हे अर.” ↩︎
-
“कोपयुक्त तापयुक्त च चित्तं नो करोति.” ↩︎
-
“भावनया सहितानि” ↩︎
-
“सभाया अवनानि.” ↩︎
-
“देवानां जनभोगस्य तानो विस्तारो यस्यां ता श्रियं भव्यनिवहस्य कुर्वन्तु.” ↩︎
-
“यकेन येन.” ↩︎
-
“कथितप्रमाणाम् " ↩︎
-
“निःशेषेण मतामपस्यन्तीति निर्ममतापसास्तेषाम्.” ↩︎
-
“उद्धशब्दः प्रशंसावचनः प्रशस्तशिखरे गिरिनारिपर्वते " ↩︎
-
“इना कामेनापि.” ↩︎
-
“मनुष्यमात्रदृष्टौ " ↩︎
-
“प्रसूता प्रकटीकृता जनतार्थे कमला लक्ष्मीर्येन.” ↩︎
-
“श्रीमहावीरस्वामिवाक्येन. " ↩︎
-
“परमेणाकरेण खनिरूपेण” ↩︎
-
“परलक्ष्मीकरेण.” ↩︎
-
“जनतातो बहिर्भूताः,अलौकिका इत्यर्थः.” ↩︎
-
“चक्रबन्धपद्यमेतत् तत्र तृतीयवलये ‘देवनन्दिकृति’ इत्युद्ध्रियते " ↩︎
-
“पाटयोः. " ↩︎
-
“प्रथनेन.” ↩︎
-
“काष्ठभारम्” ↩︎
-
“पर्वततुल्यम्. ‘गिरीन्द्रसदृशं’ इति क- पाठः.” ↩︎
-
“मज्जन्.” ↩︎
-
“साधुसमूहे.” ↩︎
-
“‘पूजाद्वारम्’ ग. क-पुस्तके तु प्रक्रमविभागो नास्ति.” ↩︎
-
“रोगः” ↩︎
-
“इन्द्रसमूहेन.” ↩︎
-
“‘गुरुद्वारम् ’ ग. " ↩︎
-
“निर्दोषे” ↩︎
-
“‘स एव सेव्य.’ क.” ↩︎
-
“‘दमैः’क. " ↩︎
-
“स्वामिरहितसैन्यवत्” ↩︎
-
" ‘जिनमतद्वारम्’ ग.” ↩︎
-
" ‘सघद्वारम् ’ ग. " ↩︎
-
" ‘रोहणः ’ क.” ↩︎
-
“‘सुखं’ ख.” ↩︎
-
“‘नि.श्रेणी त्रिदिवौकसां ’ क.” ↩︎
-
“मार्गोपयुक्त भोजनम्. शम्बलमिति यावत् " ↩︎
-
“आतपे छायेव.” ↩︎
-
“दुष्टगजः.” ↩︎
-
“‘क्लिष्टाशयोद्दीपनम्’ ख " ↩︎
-
" ‘कामार्तस्त्यजति प्रभोदयभिदाशस्त्रींपरस्त्रीं न यः’ इति क- पुस्तके चतुर्थः पादः” ↩︎
-
“गच्छति,” ↩︎
-
“जलस्य मूर्खस्य च. " ↩︎
-
" ‘मोहघनो’ क.” ↩︎
-
" ‘अन्यदहने’ क.” ↩︎
-
“’ शमदयाशून्यो’ क.” ↩︎
-
“‘अपाहर्तुं’ ख.” ↩︎
-
“‘दमारामे’ ख.” ↩︎
-
“‘श्रेयः’ क-ख " ↩︎
-
“‘शूकल’ क. ‘सूकलाश्वायते दुर्विनीततुरग इवाचरति’ इति टीका. " ↩︎
-
" इन्द्रियसमूहम्” ↩︎
-
“वने तिष्ठतु.” ↩︎
-
" ‘शान्तरसाच्छादनम्’ इति टीका.” ↩︎
-
“‘सर्वभक्षकम्’ इति टीका.” ↩︎
-
“‘अनपेऽन्यन्तगामिनं’ इति टीका.” ↩︎
-
£ “‘इष्टे वस्तुनि यथाकामीन यथाभिलाषिणम्’ इति टीका. " ↩︎
-
£ “‘कुमत’ क. " ↩︎
-
" ‘विनाशयति’ इतिटीका.” ↩︎
-
“गतिम्’ क.” ↩︎
-
" ‘धिनोति’ ख.” ↩︎
-
“‘पवित्रे’ ख,” ↩︎
-
" ‘अपर हर्तुं समर्थे’ ख-ग.” ↩︎
-
“पञ्चेन्द्रियाणि पञ्चाक्षी.” ↩︎
-
" ‘निस्तारभोगः’ ग.” ↩︎
-
" ‘तपः पादपोऽयम्’ क-ग. " ↩︎
-
" ‘मित्सति’ क- ग. " ↩︎
-
" ‘खण्डयितुमिच्छति’ इति टीका.” ↩︎
-
“मार्गोपयुक्तामश्वतरीम्.” ↩︎
-
“’ चारित्रं ’ इति टीका.” ↩︎
-
“जिनमतप्रसिद्धां पञ्चपरमेष्टिनमस्कृतिम्” ↩︎
-
“‘कुशलसुलभे’ क-ख.” ↩︎
-
" ‘विमुच्येन दूरे भव जनमन शर्मसदनम्’ ख.” ↩︎
-
“अयं श्लोकः ख-ग-पुस्तकयोर्नास्ति. " ↩︎
-
“मुनीन्द्रनायकेन.” ↩︎
-
“अस्वामिकमिव.” ↩︎
-
“सन्नुत्पद्यमानश्चासौ मन्युस्तेन.” ↩︎
-
“हर्तुमशक्यात्. " ↩︎
-
“अपारसंसारसमुद्र एव महानरकदुःखं तदेव पङ्कौघस्तत्र मग्नान्.” ↩︎
-
“नखोत्पन्ना दीप्तय एवाजीर्णा नवा रज्जवः.” ↩︎
-
“प्रसारितवन्तः” ↩︎
-
“शीघ्रम्” ↩︎
-
“कमलरूपगृहे.” ↩︎
-
" निरुपद्रवं यथा स्यात्.” ↩︎
-
" चरणकमलम्.” ↩︎
-
“अनुद्वा अप्रशस्ता अपघना अङ्गानि " ↩︎
-
“प्रशस्तहस्तपादान्.” ↩︎
-
“अर्घेण पूजया आश्रितान् " ↩︎
-
" पूजारहितान्.” ↩︎
-
“भयानकभयकर्ता. भयानकभयं कृन्ततीति विरोधपरिहारः” ↩︎
-
“अपचितोऽपचयं नीत इति विरोधः अपचितः पूजित इति परिहारः” ↩︎
-
“निर्ग्रन्थास्तपस्विनस्तेषानाथो जिन.. " ↩︎
-
“चरणयोः कमलरूपाणि लाञ्छनानि भवन्ति. यस्य हृदयं वीतरागं चरणौ च सरागाविति तात्पर्यम्. " ↩︎
-
“बलवदत्यर्थमवाञ्चोऽधोमुखाः कल्पवृक्षा. " ↩︎
-
“पूजाया बहुवचनम्.” ↩︎
-
“भिक्षवो यतयो यदद्गी साक्षाद्वीक्ष्य मद्क्षुशीघ्रमलक्ष्मीं क्षिपन्ति स जिनः क्षय्यपक्ष शत्रुपक्षं क्षपयतु.” ↩︎
-
“वै निश्चयेन नते प्राणिनि अयश्रियं शुभावहविधिसंपत्तिम्;(पक्षे ↩︎
-
“अहितो विरुद्धो यो वृषो धर्मः; (पक्षे ↩︎
-
" कौ भूमौ मोदस्य कीनाशी नाशको यो रणस्तत्र शरणदाः; (पक्षे ↩︎
-
“नीरजेष्विवोदारो रागो येषु; (पक्षे ↩︎
-
“प्रकृष्ट द्युन्नं तेजः;(पक्षे ↩︎
-
“सदसि सभायाम् ;( पक्षे ↩︎
-
“क्रमाः पादा वासुदेवा इव " ↩︎
-
" पूरितमनोरथाः.” ↩︎
-
“कुटो घटः " ↩︎
-
“मुदं यन्गच्छन्.” ↩︎
-
" विद्यैव नदी तस्या आद्याःसद्योनयः शोभनान्युत्पत्तिस्थानानि " ↩︎
-
“संश्चासौ यमश्च ( नियमसहचरः ↩︎
-
“क जल ददतीति कंदा मेघाः पादा एव कंदाः कमित्यव्ययं जलवाचकम्. " ↩︎
-
“आरेकिता उत्प्रेक्षिता.” ↩︎
-
“आविर्भवन्ती ऊर्ध्वे गच्छन्ती.” ↩︎
-
“इन्द्रस्योलूकस्य च. " ↩︎
-
“कोः पृथिव्या मुदम्. " ↩︎
-
“सूर्यत्वेन प्रभुत्वेन च” ↩︎
-
“दुष्ट च तद्रेपः पाप तस्माद्दूरे स्थानेऽसुमता वसतिं साधयन्तौ. स्वर्गप्रदावित्यर्थः” ↩︎
-
" वारीव जलमिव अरीतिं शत्रूपद्रवं धयन्तौ पिवन्तौ. नाशयन्तावित्यर्थः " ↩︎
-
“श्रेष्ठयुद्धे मोद्दितानां हितानां भक्तानां जयमुपनयतः " ↩︎
-
“यस्याङ्गी आयस्य लाभस्याप्तिहेतू.” ↩︎
-
“अकृशतेजाः.” ↩︎
-
“ऊर्ध्व क्षिप्ता. " ↩︎
-
“बाणावलीव. " ↩︎
-
" कामेन. " ↩︎
-
“यस्य चरणगुणचयो नोच्येत वक्तुं न शक्येत. अतिप्राचुर्यात्” ↩︎
-
“चारुचित्तैरिन्द्रादिभिरर्चिता अर्चा मूर्तिर्यस्य स जिनः " ↩︎
-
“पातालमुद्भिद्य.” ↩︎
-
“शेषनागस्य कान्त्या अशेषया पूर्णया कान्त्या च” ↩︎
-
“सन्तो विद्यमाना मीना लाञ्छनरूपा यत्र.” ↩︎
-
“क्षीरसमुद्रात् " ↩︎
-
“पादतलवर्तिनीं लाञ्छनरूपां पद्मपङ्क्तिं विश्वम्भरावद्भूमिवत्. " ↩︎
-
“तपश्चरणाभावात्. " ↩︎
-
“नरककर्दमे त्रिभुवनरूपं गृहं मा पप्तग्नपततु.” ↩︎
-
“विधात्रा.” ↩︎
-
“सच्चक्रयुक्ततया. " ↩︎
-
“सह स्यदेन वेगेन यदागः पापं तदेव तिग्मांशु” ↩︎
-
“अहिर्वृत्रासुरस्तस्य भ्रातृव्यः शत्रुरिन्द्रस्तस्यायाप्या अनवद्या योषाः स्त्रियोऽप्सरसः. " ↩︎ ↩︎
-
" शिष्टाशेषप्रयोजनम्” ↩︎
-
“केवलं सर्वद्रव्यपर्यायग्राहकमप्रतिद्दत ज्ञान तद्वतामीशो जिनः " ↩︎
-
“चतुरा. " ↩︎
-
“सांवत्सरिकमहादानव्याजेन. " ↩︎
-
“जिनबृषभ एव नरेन्द्रो विषवैद्यः. " ↩︎
-
“लक्ष्म्याः. " ↩︎
-
“ऋभवो देवास्तद्विभुरिन्द्रः विभवाधीशः कुबेरः भूभर्तारो राजानः तान्भजते तस्या भूतेः” ↩︎
-
" जिनपक्षे प्रकृष्टो लयोमोक्ष.” ↩︎
-
" व्याख्यायान” ↩︎
-
“उर्वीरुहोऽत्रशोक..” ↩︎
-
“त्रिदशसमूहैः " ↩︎
-
“मदनजयिनः” ↩︎
-
" हस्तपक्षे विवराः पक्षिश्रेष्ठा हंसादयस्तचिह्नाङ्कितः” ↩︎
-
“सत्कारार्हः” ↩︎
-
“कमलो हरिणः” ↩︎
-
“शयो हस्तः.” ↩︎
-
“हे कुबेर. " ↩︎
-
“‘जजि युद्धे’ । जजन्तीति जजा योधास्तेषामूर्जा बलं तेनाविजितं जनं जयन्ति ये तेषाम्.” ↩︎
-
" न विद्यते न्यव्ज उपतापो रोगो वा यस्य. " ↩︎
-
" हस्तः. " ↩︎
-
“अश्रेष्टम्.” ↩︎
-
“कर्म.” ↩︎
-
“सह रजसा वर्तन्ते सरजसाः सरागा अज्ञानिनो मिथ्यादृष्टयस्तेषामौर्जित्यं बलवत्त्व जयतीति सः " ↩︎
-
“जनरूपकमलवनम्.” ↩︎
-
“भुजम्.” ↩︎
-
“प्रतिकूलहन्ता.” ↩︎
-
“चरणं प्रव्रज्या.” ↩︎
-
“कृष्णम्.” ↩︎
-
“आशङ्कयमानः " ↩︎
-
“हिनस्तु.” ↩︎
-
“शीघ्रं यथा स्यात्. " ↩︎
-
“कर्षेणानमन्ती कघरा येषाम्” ↩︎
-
“आप्तो जिनस्तस्य सक्तस्तदीय. " ↩︎
-
“इतकि इति । अकजागमः” ↩︎
-
“भवञ्जायमानो भूत्रा बाहुल्येन यो भाम धस्तस्मादिव.” ↩︎
-
" ग्रहणकाले.” ↩︎
-
“सन्तः शोभना उपला मणयो येषु तानि व तेषामामुक्तिः परिधानं ततः " ↩︎
-
" रागो मन्मवासक्तिरपि” ↩︎
-
" शिवपुरपथिकाश्च तेऽसद्मानोऽनगारास्तेषां हानं त्यागस्तस्योचिताया योग्यायाः.” ↩︎
-
" इन्द्रवचनेन. " ↩︎
-
“असद्महा नो किं तु सद्महाः सत्तेजोविशिष्टः करः” ↩︎
-
" पूरितायाः.” ↩︎
-
“पर्वयुक्तः” ↩︎
-
“ईक्षया दर्शनेनायस्य शुभावहविधेः प्राप्तेर्हेतुः " ↩︎
-
“पर्वाण्युत्सवानि श्यन्ति तनूकुर्वन्तीति पर्वशा विपक्षास्तेषामाली पङ्किस्तस्याः क्षयाय” ↩︎
-
“ऋजुत्वेन.” ↩︎
-
“श्लक्ष्णग्रन्थयः” ↩︎
-
“दीर्घत्वेन प्रशस्तरूपाः " ↩︎
-
“पञ्चसंख्याकाः” ↩︎
-
“क्षिप्रतरम्.” ↩︎
-
“कुत्सितां मुदम्. " ↩︎
-
“समुद्रम् .पक्षे दीनं न.” ↩︎
-
“चरमतनुर्जिनस्तस्य हस्तः.” ↩︎
-
“जयपताका का मया सह स्पर्धेत्येवरूपा.” ↩︎
-
“बुद्धो जिनस्तत्सबन्धी” ↩︎
-
" धर्मोक्तौधर्मकथने प्रोद्धृत ऊर्ध्वीकृतः” ↩︎
-
“ज्येष्ठेषु वृद्धेष्वेवोपदेशार्थमासक्तम्.” ↩︎
-
“शङ्खचक्रादि चित्रसहितम्” ↩︎
-
“गुरुर्महिमा यस्य.” ↩︎
-
“पुनःपुनरपि वसुना तेजसा अपोढात्मकं रहितात्मक नो.” ↩︎
-
“सती शोभना कृत्तिश्चर्म यस्य " ↩︎
-
“वृषतुलामीनकुम्भा रेखात्मकाः. " ↩︎
-
" शून्यवृत्त्या अलमत्यर्थं प्रविरहितम् व्योमपक्षे तु ज्येष्ठाचित्रागुरुपुनर्वसुकृत्तिकावृषतुलामीनकुम्भशब्दाः प्रसिद्धार्थाः व्योम शून्य भवति” ↩︎
-
“अस्खलितः” ↩︎
-
“अपगतशत्रुसमूहः पारिजातरहितश्च.” ↩︎
-
" असून्नातीत्यसुराप्राप्तप्रदा तनुर्यस्य । पक्षे सुरारहितदेहः” ↩︎
-
“मुद्रासहित सागरश्च. " ↩︎
-
“उद्गतहर्षेण” ↩︎
-
" अवृजिता सरला.” ↩︎
-
“सदलं सपरिकरमपि.” ↩︎
-
" आप्तस्य जिनस्य मुखम् " ↩︎
-
“समर्थः” ↩︎
-
“अगुणं तमोगुणादिरहितमपि गुणानां सौन्दर्यादीना धिष्ण्यम्.” ↩︎
-
“खण्डिता अमूर्तेः कामस्य कीर्तिर्येन तस्य जिनस्य " ↩︎
-
“अतिशयेन पृथु " ↩︎
-
“एव” ↩︎
-
" शं सुखम् " ↩︎
-
“शीघ्रम्.” ↩︎
-
“स्वर्गोत्पन्नाः” ↩︎
-
“समागताः .” ↩︎
-
“मुनीन्द्रसबन्धि " ↩︎
-
“न शमशं दुःखम् " ↩︎
-
“स्पष्टतरयशःसमूद्दन्. " ↩︎
-
“दन्ता अग्रेनिर्गताः पर्वतैकदेशा अपि.” ↩︎
-
“सत्पर्यन्तैः” ↩︎
-
“विवरं मुखान्तरालं गुहाथ” ↩︎
-
" गण्डावेव शैलाविति मुखपक्षे.” ↩︎
-
“गङ्गा” ↩︎
-
“भाग्यहीनैः” ↩︎
-
“व्यतनशतशमे प्रत्यला तमर्था अवाप्तिर्यस्य सः.” ↩︎
-
“प्रकटतरम्.” ↩︎
-
“दाहात्मकतेजोविशिष्टम् " ↩︎
-
“इन्द्रस्य " ↩︎
-
" अजितस्य जिनस्य लपनं मुखम्” ↩︎
-
“हिनस्तु. " ↩︎
-
“कृष्णादप्यतिकृष्णा.” ↩︎
-
“दिशां समूहे यद्गच्छत्सिततरं यशो यस्य. " ↩︎
-
“कुटिलकनीनिका दृक्.” ↩︎
-
“अरक्षा न विद्यते अन्या रक्षा यस्याः सा रक्षा. " ↩︎
-
“अवहितेन धात्रा.” ↩︎
-
“त्रपामापयति प्रापयति तस्मात्” ↩︎
-
“निरुपद्रवम्.” ↩︎
-
“दन्तैः सहितम्. " ↩︎
-
" शोभनप्रान्तम्. " ↩︎
-
“म्लानमपि " ↩︎
-
“प्रत्यक्षत्वेन यदीक्षण तेन.” ↩︎
-
“श्रवणौ कर्णौ श्रवणं च नक्षत्रम्.” ↩︎
-
“शोभना आतिर्गतिः.” ↩︎
-
“बुधान्प्रीणयति.” ↩︎
-
“अतिशयेन. " ↩︎
-
“मुखपक्षे बाणः शब्दः” ↩︎
-
" दन्तानां पक्षिणां च पङ्क्त्या” ↩︎
-
" इवार्थे वा.” ↩︎
-
.न्धात्. “न्धात्. " ↩︎
-
" शब्दत” ↩︎
-
" रजसा पापेनाक्तान् लिप्तान् " ↩︎
-
“शोभनम्.” ↩︎
-
" एतेन मुखेन आत्ता गृहीता या स्वश्रीः सूर्याचन्द्रमकीया शोभा तस्या लब्धुमिच्छा तया आकुलमङ्गययोः " ↩︎
-
" विलोक्य” ↩︎
-
“कलः पूर्णिमा चन्द्रस्तस्येवासमन्तालाञ्छनम्” ↩︎
-
“देवपङ्क्तिः” ↩︎
-
“अत्यर्थे” ↩︎
-
“इन्द्रेण.” ↩︎
-
" मेरौ " ↩︎
-
“पविंवज्रं त्रायते पवित्र . " ↩︎
-
" गोत्राख्यस्य जिनपक्षे.” ↩︎
-
“वलं सनहनाख्य कर्म. " ↩︎
-
“सकलोपद्रवान्” ↩︎
-
“वाणी " ↩︎
-
“परमपद तस्याधिभर्ता जिनः " ↩︎
-
“देवसमूहानाम्” ↩︎
-
“साध्यस्यार्थस्य सिद्ध्यै धुता दिति खण्डन यत्र. " ↩︎
-
“नीरं पानीयं तस्यागमः प्राप्तिस्तेनानाः प्राणा येषांतैः,भिक्षुपक्षे तु रागमानाभ्यां रहितैः.” ↩︎
-
“उपवनराजीसमाना. " ↩︎
-
“संयतास्तपस्विनो वद्धाश्च.” ↩︎
-
“अभिनयो मृतयो मरणान्येव महान्तस्तरङ्गा यत्र. " ↩︎
-
“नौरिवाचरति. " ↩︎
-
“निशीथो ग्रन्थविशेषः " ↩︎
-
“सती शोभना अहीना च. " ↩︎
-
“असन्नविद्यमानः कृतान्तो यमो यस्याम्; अन्यत्र सत्कृतान्ता शोभनसिद्धान्ता. " ↩︎
-
“द्विष्टोऽर्थो द्रव्यादिर्यया. " ↩︎
-
“सर्वे ददातीति सर्वदा.” ↩︎
-
“पापविस्तारे, " ↩︎
-
“वामपङ्के मिथ्यादृष्टिरूपकर्दमे नाशमयमाना.गच्छन्ती. " ↩︎
-
“अरितां शत्रुतां श्यति सा” ↩︎
-
“सदावासो मोक्षस्त ददति ते ज्ञानादयस्तानवति सा.” ↩︎
-
“मदनान्धकारसमूहेन.” ↩︎
-
“पर्यायान्तरमनुभवति” ↩︎
-
“जलमिव.” ↩︎
-
“जलदात्. " ↩︎
-
“कर्मजीवयोः” ↩︎
-
“मनोहरवनितेव.” ↩︎
-
“इन्द्रगजदानोदकवत् " ↩︎
-
“आप्तो जिनस्तस्येदमाप्तम्. " ↩︎
-
“समर्थम्.” ↩︎
-
“नाशम्.” ↩︎
-
“उत्कटकटुकं फल यस्य तादृश यदकार्ये दुष्कर्म तदेव शीत तस्य” ↩︎
-
“जितगवां मूर्तिर्यस्य । शान्ताकृतेरित्यर्थः " ↩︎
-
" छेदने. " ↩︎
-
“मोहरूपं प्रेम.” ↩︎
-
“शुक्लादिवर्णरहिता.” ↩︎
-
" भूमिस्थलोकैः” ↩︎
-
“अभिष्टुता.” ↩︎
-
“सारो गमनं तद्रहिता । न्धिरेत्यर्थः " ↩︎
-
“रतिसुखं कृन्ततीति विरोधपरिहारः” ↩︎
-
" सन्निष्पत्तिर्नाशरहिता च.” ↩︎
-
“भारती वाणी ईना लक्ष्मीणा रतीनां च निमित्त त्वरितमुपदधातु” ↩︎
-
“नौका.” ↩︎
-
“धनाभिलाषेऽपिधानो मुद्रणरहितो द्रवणवरनिधिः” ↩︎
-
“निर्जलदेशगमनापदि स्वापः शोभनजलम्.” ↩︎
-
“रथः” ↩︎
-
“आर्याणा तपस्विनामर्य स्वामी जिनस्तस्य गीः.” ↩︎
-
“पण्डितैः. " ↩︎
-
“शीघ्रम् । विशदा न्याया नीतय एव रत्नानि " ↩︎
-
" जिनस्य. " ↩︎
-
" जरा.” ↩︎
-
“पापपातात्” ↩︎
-
“अपनयन्ती” ↩︎
-
" स्वकीयमाहात्म्यभावात्.” ↩︎
-
“ध्वान्तशत्रो.” ↩︎
-
“रत्यधीन्द्रं कामं द्रोग्धुर्द्वेष्टुर्जिनात्” ↩︎
-
“इव.” ↩︎
-
“मुखकमलस्था” ↩︎
-
" वज्रेण” ↩︎
-
" नागकन्यातुल्यायाः.” ↩︎
-
“पुस्तकेऽवचूरिकृतो नाम नोपालब्धम्.” ↩︎
-
“जिनवल्लभेति ग्रन्थकर्तुर्नामापि” ↩︎
-
“हेमचन्द्र इति ग्रन्थकर्तुर्नामापि .” ↩︎
-
“सरस्वत्याः” ↩︎
-
“प्रतिजलाशयम्.” ↩︎
-
" करिणी.” ↩︎
-
“वसन्ततिलकेति नामान्तरम्.” ↩︎
-
“आसनशब्दस्यासन्नादेश इति काशिका.” ↩︎
-
“वाताः” ↩︎
-
“महामालिकेति नामान्तरम्.” ↩︎
-
" जायुरौषधम् " ↩︎
-
" तैलपर्णिक चन्दनविशेषः .” ↩︎
-
“‘जिनवरेन्द्रं’ क.” ↩︎
-
“‘पद्धतिं’ ख.” ↩︎
-
“‘सत्त्व’ क.” ↩︎
-
" ‘संसारावासतः’ क. " ↩︎
-
“‘दृष्टादृष्टार्थलाभाय’ ख. " ↩︎
-
“हितोपदेशेऽपीयमार्या समद्धृतास्ति.” ↩︎
-
“ख-पुस्तकेऽस्था आर्याया स्थाने ‘विवेकात्यक्तराज्येन राज्ञेयं रत्नमालिका । रचितामोघवर्षेण सुधिया सदलंकृति. ॥’ एतत्यपद्य वर्तते.” ↩︎
-
“कारागारगतेन.” ↩︎
-
“‘मानसी’ इति पुस्तकान्तरे पाठः.” ↩︎