काव्यमाला (चतुर्थो भागः)

[[काव्यमाला (चतुर्थो भागः) Source: EB]]

[

[TABLE]

[All rights reserved by the publisher.]

———————————

Publisher:-Pandurang Jawaji,Nirnaya Sagar Press,
Printer:-Ramchandra Yesu Shedge,26-28, Kolbhat Street, Bombay

[TABLE]

<MISSING_FIG href="../books_images/U-IMG-1721566066Screenshot2024-07-21181651.png"/>
बाणभट्टकृतं चण्डीशतकम् (सटिप्पणम् )
नागराजकविप्रणीतं भावशतकम्
नारायण भट्टपादकृतः स्वाहासुधाकरः
श्रीकृष्णकविप्रणीतं ताराशशाङ्कम्
रामचन्द्रकविकृतं रसिकरञ्जनम्
क्षेमेन्द्रकविकृतं कविकण्ठाभरणम्
भल्लटकृतं भल्लटशतकम्
नीलकण्ठदीक्षितप्रणीतं सभारञ्जनशतकम्
कालिदासकृता नवरत्नमाला

काव्यमाला।
<MISSING_FIG href="../books_images/U-IMG-17209593552…png"/>

महाकविश्रीबाणभट्टविरचितं^(१)
चण्डीशतकम्^(२)।

टिप्पणसमेतम्।
<MISSING_FIG href="../books_images/U-IMG-1720959654L.png"/>

मा भाङ्क्षीर्विभ्रमं भ्रूरधरविधुरता केयमास्यास्य रागं
पाणे प्राण्येव नायं कलयसि कलहश्रद्धया किं त्रिशूलम्।

—————————————————————————————————————————————————————

१. वात्स्यायनवंशोद्भवो महाकविः श्रीबाणभट्टः कान्यकुब्जाधिपतेर्हर्षवर्धनस्य सभायामासीदिति हर्षचरितात्प्रतीयत एव। ख्रिस्तसंवत्सरीयसप्तदशतकपूर्वाधे’हुएन त्सङ्ग्’– (Hiouen–Thsang) नामा कश्चन बौद्धश्चीनदेशाद्भारतवर्षे समागतः बभ्राम च बहूनि वर्षाणि भारते वर्षे। स च प्रत्यहं स्ववृत्तं लिखितवान्।तस्मिन्समये हर्षवर्धनो राज्यं कुर्वन्नासीदिति तद्वृत्तान्तपुस्तकादाधुनिकैर्महापण्डितैरधिगतम्।तस्माद्वाणभट्टोऽपि सप्तमशतकपूर्वार्ध एवासीदिति निश्चितमेव।सांप्रतं बाणभट्टकृतिषु (१) कादम्बरीपूर्वभागः, (२) हर्षचरितम्, (३) चण्डीशतकम्, (४) पार्वतीपरिणयनाटकम्, एतचतुष्टयमुपलभ्यते। तत्र पार्वतीपरिणयकर्ता कश्चिदन्यो बाणकविरयमेव वेति संदेहः। विद्यारण्यशिष्योऽपि कञ्चन शब्दचन्द्रिकाकर्ताबाण आसीत्।विस्तरेण बाणभट्टवर्णनं तु हर्षचरिते डॉक्टरपटर्सनमुद्रितकाबर्युपोद्घाते च द्रष्टव्यम्।श्लोकबद्धा कादम्बरी, मुकुटताडितकनाटकं च बाणभट्टेनप्रणीतमित्यपि ज्ञातम्, किं त्वेतद्ग्रन्थद्वयं नाद्याप्युपलब्धम्। २. अस्य

शसोमेश्वरसूनुधनेश्वरप्रणीतैका, कर्तृनामरहिता चापरा, एवं टीकाद्वयमुपलब्धमस्माभिः। किं तु टीकाद्वयमप्यतीव तुच्छं वृथा समासादिभिः पल्लवितमस्ति।लब्धं तत्पुस्तकद्वयं चातीवाशुद्धं मध्येमध्ये त्रुटितं चेति संपूर्णटीकामुद्रण

मुटीकाद्वयोद्धृतं स्वयं टिप्पणमेवात्र गृहीतम्।बाणभट्टस्य चण्डीशतकनिर्माणे मानतुङ्गप्रणीतभक्तामराख्यजिनस्तुतिटीकाकर्तृभिर्गुणाकररत्नचन्द्रादिभिः टीकारम्भेलिखितमस्ति, तच्च कपोलकल्पितमिति नानास्माभिरुद्धृतम्। शतस्य शार्ङ्गधरपद्धति-सरखतीकण्ठाभरण-वाग्भटप्रणीतकाव्यानुशासन-अर्जुनदेवप्रणीतामरुशतकटीकादिग्रन्थेषु श्लोकाः समुपलभ्यन्ते।

—————————————————————————————————————————————————————

इत्युद्यत्कोपकेतून्प्रकृतिमवयवान्प्रापयन्त्येव1 देव्या
न्यस्तो वो मूर्ध्नि मुष्यान्मरुदसुहृदसून्सहरन्नङ्घ्रिरंहः॥१॥

देव्या अङ्घ्रिश्चरणोवो युष्माकमंहः पापं मुष्याद्धरतु। किं कुर्वन्। मरुदसुहृदसून्देववैरिप्राणान्संहरन्। कीदृशोऽङ्घ्रिः। मूर्ध्नि न्यस्तः। अर्थान्मरुदसुहृदो महिषासुरस्यैव। किंभूतया देव्या। इत्यमुना प्रकारेण उद्यत्कोपकेतूनाविर्भवत्क्रोधचिह्नानवयवान्निजाङ्गान्प्रकृतिं पूर्वावस्थां प्रापयन्त्या इव। इति कथम्। हे भ्रूः,विभ्रमं विलासं मा भाङ्क्षीः मा आमर्दयेः। हे अधर ओष्ठ, केयं विधुरता किमिदं वैकल्यम्। हे आस्य मुख, रागं लौहित्यमस्य क्षिप। ‘असु क्षेपणे’। हे पाणे हस्त, अयं महिषः प्राण्येव चेतनावानेव न। कलहश्रद्धया सङ्ग्रामवाञ्छ्या त्रिशूलं किं कलयसि। यद्वायं ना पुरुषः प्राण्येव जन्तुमात्रोऽयमस्मत्पादतलाघातमात्रसाध्यः, तत्किं युष्माभिरसमय एव वृथा कोपाद्विकृतिरास्थीयते, स्वस्था भवन्तु भवन्तः। उत्प्रेक्षालंकारः॥

हुंकारे न्यक्कृतोदन्वति महति जिते शिञ्जितैर्नूपुरस्य
श्लिष्यच्छृङ्गक्षतेऽपि क्षरदसृजि निजालक्तकभ्रान्तिभाजि।
स्कन्धे विन्ध्याद्रिबुद्ध्या निकषति महिषस्याहितोऽसूनहार्षी–
दज्ञानादेव यस्याश्चरण इति शिवं सा शिवा वः करोतु॥२॥

सा शिवा भगवती वः शिवं कल्याणं करोतु। सा का। इत्यज्ञानादेव यस्याश्चरणो महिषस्यासून्प्राणानहार्षीत्। किंभूतश्चरणः। विन्ध्याद्रिबुद्ध्या अस्मन्निवासोऽयं विन्ध्यपर्वत इति धिया स्कन्धे अर्थान्महिषस्य आहेतो न्यस्तः। किंभूते च स्कन्धे। विन्ध्याद्रिबुद्ध्या निकषति कण्डूत्यपनयार्थं निकषणंकुर्वति। श्यामत्वाद्देवीचरणस्य तस्मिन्महिषस्कन्धस्यापि विन्ध्यद्रिभ्रमोजातः। अत एव घर्षणं करोति। इति किम्। महति न्यक्कृतोदतिरस्कृतसमुद्रघोषे हुंकारे अर्थान्महिषस्य नूपुरस्य शिञ्जितैर्जिते सलि

कान्धनिकषणेनैव नूपुरध्वनिः समुत्पन्नः। हुंकारेण महिषोऽयमिति

ज्ञान शक्यः। हुंकारस्य नूपुरशिञ्जिततिरस्कृतत्वात्। अन्यच्च श्लिष्यच्छृङ्गपि क्षरदसृजि गलद्रुधिरे [अर्थाद्देव्याश्चरणे] निजालक्तकभ्रान्तिभाजि स्वरवकरसभ्रमयुक्ते सति। एवमुपन्यस्तहेतुत्रयाद्भ्रान्तिः समुत्पन्ना॥

जाह्नव्या या न जातानुनयपरहर2क्षिप्तया क्षालयन्त्या
नूनं नो नूपुरेण ग्लपितशशिरुचा ज्योत्स्नया वा नखानाम्।
तां शोभामादधाना जयति नवमिवालक्तकं पीडयित्वा
पादेनैव क्षिपन्ती महिषमसुरसादाननिष्कार्यमार्या॥३॥

आर्या देवी जयत्युत्कर्षेण वर्तते। कथंभूता। नवमलक्तकमिव पादेनैव पीडयित्वा महिषं क्षिपन्ती। पादेनैवेति नियमेनान्ययोगव्यवच्छेदः। पुनः कथंभूता। तां शोभामादधाना धारयन्ती। [अर्थाच्चरणे।] तां काम्। यानुनयपरहरक्षिप्तया प्रसादनतत्परमहादेवप्रेरितया अत एव अक्षालयन्त्या। [अर्थाच्चरणम्।] जाह्नव्या गङ्गया न जाता। नूनं नूपुरेण या शोभा नोजाता। नखानां ज्योत्स्नयाकान्त्या वा नो जाता। ग्लपितशशिरुचा इति जाह्नवीनूपुरज्योत्स्नानां विशेषणम्। कथंभूतं महिषम्। असुरसादाननिष्कार्यम्। अलवःप्राणा एव रसस्तस्यादानं ग्रहणं तेन निष्कार्यं निष्प्रयोजनम्। यथालक्तकं पादेन निष्पीड्य तदीयं रसमादाय निःसारभागं क्षिपति कश्चित् ‚एवं देवी रसभूतान्प्राणानादाय महिषं क्षिप्तवतीति भावः। तां शोभामिति अलक्तकरसादाने या रक्तत्वलक्षणा भवति। किं त्वलक्तकेन कृत्रिमा शोभा, इयं तु स्वाभाविक।

मृत्यो3स्तुल्यं त्रिलोकीं ग्रसितुमतिरसान्निःसृताः किं नु जिह्वाः
किं वा कृष्णाङ्घ्रिपद्मद्युतिभिररुणिता विष्णुपद्याः पदव्यः।
प्राप्ताः संध्याः स्मरारेः स्वयमुत नुतिभिस्तिस्र इत्यूह्यमाना
देवैर्देवीत्रिशूलाहत4महिषजुषो रक्तधारा जयन्ति॥४॥

देवीत्रिशूलाहतमहिषजुषो देवीत्रिशूलकृतच्छिद्रमहिषशरीरादुद्गतास्तिस्रो रक्तधारा जयन्ति। किंभूताः। देवैरित्यमुना प्रकारेणोह्यमाना उत्प्रेक्ष्यमाणाः। इतीति किम्। अतिरसादतिगार्ध्यात्तुल्यं युगपदेव त्रिलोकीं ग्रसितुं मृत्योः किं नु जिह्वा निःसृताः। अर्थान्मुखकुहरात्। किं वा कृष्णाङ्घ्रिपद्मद्युतिभिर्विष्णुचरणपङ्कजकान्तिभिररुणिता रक्ततां नीता विष्णुपद्या गङ्गायाः पदव्यः प्रवाहाः।

उत अथवा स्मरारेः शिवस्य नुतिभिः प्रार्थनाभिस्तिस्रः संध्याः स्वयंप्राप्ताः। संध्या अपि रक्तवर्णा भवन्ति॥

दत्ते दर्पात्प्रहारेसपदि पदभरोत्पिष्टदेहावशिष्टां
श्लिष्टां शृङ्गस्य कोटिं महिषसुररिपोर्नूपुरग्रन्थिसीम्नि।
मुष्याद्वःकल्मषाणि5 व्यतिकरविरतावाददानः कुमारो
मातुः प्रभ्रष्टलीलाकुवलयकलिकाकर्णपूरादरेण॥५॥

अस्मिञ्लोके कुमारो वः कल्मषाणि मुष्यादित्यन्वयो यदि विधीयते तदा कुमारस्याप्राकरणिकत्वादप्रस्तुतान्वयता स्यात्। तस्मादेवमध्याहृत्य व्याख्येयम्— सा माता वः कल्मषाणि मुष्यात्। यस्या मातुः कुमारो व्यतिकरविरतौ महिषेण सह युद्धसमाप्तौ प्रभ्रष्टलीलाकुवलयकलिकाकर्णपूरादरेण शृङ्गस्य कोटिमग्रमाददानो वर्तते। नेयं महिषशृङ्गकोटिः, किंतु मम मातुः कर्णाच्च्युतो नीलोत्पलकलिकारूपः कर्णपूर एवायमिति श्रद्धयेति भावः। कीदृशीम्। दर्पान्मदात्प्रहारे दत्ते सति सपदि तत्क्षणं पदभरेण चरणगुरुत्वेनोपिष्टश्चूर्णितः स चासौ देहश्च तस्मादवशिष्टाम्। अथ च नूपुरग्रन्थिसीम्नि श्लिष्टां लग्नाम्। कस्य देहावशिष्टाम्। महिषसुररिपोर्महिषरूपः सुररिपुस्तस्य। महिषशृङ्गाणि प्रायेण कठिनानि भवन्तीति शृङ्गकोटेरवशिष्टत्वकारणम्॥

शश्वद्विश्वोपकारप्रकृतिरविकृतिः सास्तु शान्त्यै शिवा वो
यस्याः पादोपशल्ये त्रिर्देशपतिरिपु6र्दूरदुष्टाशयोऽपि।
नाके प्रापत्प्रतिष्ठामसकृदभिमुखो वादयञ्शृङ्गकोट्या
हत्वा कोणेन वीणामिव रणितमणिं मण्डलीं नूपुरस्य॥६॥

सा शिवा वः शान्त्यैसुखायास्तु। किंभूता। विश्वोपकारप्रकृतिः सर्वोपकृतिस्वभावा जगदुपकारशीला वा। शश्वन्निरन्तरम्। पुनः कीदृशी। अविकृतिर्विकाररहिता। यस्याः पादोपशल्ये चरणप्रान्ते त्रिदशपतिरिपुरिन्द्रवैरी महिषो नाके स्वर्गे प्रतिष्ठां स्थितिं प्रापत्।चरणसंसर्गजनितपुण्यातिशयेन स्वर्गनिवासी जात इति भावः। कीदृशः। दूरदुष्टाशयोऽपि नितरां नीचस्वभावोऽपि। किं कुर्वन्। रणितमणिंनूपुरमण्डलीमसकृद्वास्वारमभिमुखः संमुखः सञ्श्रृङ्गाग्रकोट्या हत्वा कोणेन वादनदण्डेन वीणामिव वादयन्। यः किल देवीपादमूले वीणां वादयति स मृतः स्वर्गमाप्नोति॥

निष्ठ्यूतोऽङ्गुष्ठकोट्या नखशिखरहतः पार्ष्णिनिर्यातसारो7
गर्भे दर्भाग्रसूचीलघुरिव गणितो नोपसर्पन्समीपम्।
नाभौ वक्रं प्रविष्टाकृति8विकृति यया पादपातेन कृत्वा
दैत्याधीशो विनाशं रणभुवि गमितः सास्तु देवी9 श्रिये वः॥७॥

सा देवी वः श्रियेऽस्तु। यया दैत्याधीशो महिषो रणभुवि विनाशं गमितः प्रापितः। कथंभूतः। अङ्गुष्ठकोट्या निष्ट्यूतो निरस्तः। पुनः। नखशिखरेणाङ्गुष्ठनखाग्रेण हतस्ताडितः। पुनः। पार्ष्ण्यागुल्फाधोभागेन निर्यातः सारोयस्य सः।पादपश्चिमाधोभागनिष्पीडित इति यावत्। पुनः। गर्भे पादमध्वे दर्भाग्रसूचीलघुरिव न गणितः अतितुच्छो दृष्टः। किं कृत्वा। प्रविष्टाकृतिविकृति यथा स्यात्तथा पादपातेन नाभौ वक्रं कृत्वा।आदौ पादघातेन तद्वक्रं तदीयनाभौ प्रवेशितम्, तदनन्तरं व्यापादितः। यद्वा प्रविष्टाकृतेः स्वरूपस्य विकृतिर्विकारो यस्मिंस्तादृशं महिषस्य वक्रं पादपातेन तदीयनाभौ प्रवेशयित्वा॥

ग्रस्ताश्वः शष्पलोभादिव हरितहरेरप्रसोढानलोष्मा
स्थाणौ कण्डूं विनीय प्रतिमहिषरुषेवान्तकोपान्तवर्ती।
कृष्णं पङ्कं यथेच्छन्वरुणमुपगतो मज्जनायेव यस्याः
स्वस्थोऽभूत्पादमास्वा ह्रदमिव महिषः सास्तु दुर्गा10 श्रिये वः॥८॥

सा दुर्गा वः श्रियेऽस्तु। यस्याः पादं ह्रदं सरोवरमिव प्राप्य महिषः स्वस्थो निर्वृतः स्वर्गस्थश्चाभूत्। किंभूतः। हरितहरेः सूर्यस्य शष्पलोभाद्वालतृणगार्ध्यादिव ग्रस्ताश्वः। सूर्यस्याश्वा हरिद्वर्णाः सन्तीति महिषेण हरितको मलतृणबुद्ध्या कवलीकृताः। पुनः। अप्रसोढानलोष्मा असोढाग्नितेजाः। देवपक्षतयाग्नेस्तस्य दर्पं न सहते। स्थाणौ महादेवे कण्डूं विनीय शिवेन सह समरं कृत्वा मदकण्डूतिमपनीय। महिषो हि स्थाणौ कीलके कण्डूत्यपनयनं करोति। पुनः। प्रतिमहिषरुषा महिषान्तरकोपेनेवान्तकोपान्तवर्ती यमसमीपगन्ता जातः। पुनः। कृष्णं विष्णुं कृष्णवर्णत्वात्पङ्कमिवेच्छन्मज्जनाय जलावगाहायेव वरुणं जलाधीशमुपगतः। एवं बहुष्वपि हरिदश्वप्रभृतिस्थानेषु भ्राम्यन्स्वस्थो यो न बभूव स महिषश्चण्डीपादमूले स्वस्थतां प्राप। अन्योऽपि महिषो हरिततृणलोलुपो भवति, अनलोष्माणं न सहते, स्थाणौ कण्डूतिमपनयति, द्वितीयं महिषं विलोक्य कोपाविष्टो भवति, कृष्णवर्णकर्दमे लुठनेच्छया जलाशयं गच्छति, ह्रदं प्राप्य च स्वस्थो भवति॥

त्रैलोक्यातङ्कशान्त्यै प्रविशति विवशे धातरि ध्यानतन्द्री–
मिन्द्राद्येषु द्रवत्सु द्रविणपतिपयःपालकालानलेषु।
ये स्पर्शेनैव पिष्ट्वा महिषमतिरुषं त्रातवन्त11स्त्रिलोकीं
पान्तु त्वां पञ्च चण्ड्याश्चरणनखनिभेनापरे12 लोकपालाः॥९॥

चण्ड्याश्चरणनखनिभेनापरे पञ्च लोकपालास्त्वां पान्तु। किंभूताः। स्पर्शेनैवातिरुषं महिषं पिष्ट्वा चूर्णयित्वा ये त्रिलोकीं त्रातवन्तो रक्षमाणाः। ननु ब्रह्मादयः क्व गताः, येन चण्डीपादनखा महिषं पिष्ट्वा लोकपालाः संवृत्तास्तत्राह— विवशे विह्वले धातरि ब्रह्माणि त्रैलोक्यातङ्कशान्त्यै त्रैलोक्योपद्रवनिवृत्तये ध्यानतन्द्रीं चिन्तारूपां प्रमीलां प्रविशति सति। यो हि तन्द्रीग्रस्तो भवति स विवशो भवत्येव। कथं लोकरक्षा भविष्यतीति चिन्ताकारणम्। किं च इन्द्राद्येष्विन्द्रप्रधानेषु द्रविणपतिपयःपालकालानलेषु कुबेरवरुणयमाग्निषु द्रवत्सु सङ्ग्रामान्निवर्तमानेषु सत्सु। इन्द्राद्याः पञ्च पलायिता इति देवीपादनखा लोकपाला जाताः॥

प्रालेयोत्पीडपी13त्नां नखरजनिकृतामातपेनातिपाण्डुः
पार्वत्याः पातु युष्मान्पितुरिव तुलिताद्रीन्द्रसारः स पादः।
यो धैर्यान्मुक्तलीलासमुचितपतनापातपीतासुरासी–
न्नोदेव्या एव वामश्छलमहिषतनोर्नाकलोकद्विषोऽपि॥१०॥

नखरजनिकृतां नखचन्द्राणामातपेन प्रकाशेनातिपाण्डुरोऽतिशुभ्रः पार्वत्याः स पादो युष्मान्पातु। कथंभूतानां नखरजनिकृताम्। प्रालेयोत्पीडपीन्नाम् प्रालेयं हिमं तच्च धवलं भवति। तदुत्पीडनेन धवलिम्नः पुष्टता भवति। भगवती च प्रायेण प्रालेयशैलसंचारिणी। कस्येव पादः। पितुरिव हिमाचलस्येव पादः प्रत्यन्तपर्वतः। पादशब्दो द्विरावर्तनीयः। अथवा स्वपितृचरणसदृशश्चरणः। पितृसदृशी कन्या धन्येति प्रशस्तत्वकथनम्। कीदृशः पादः। तुलिताद्रीन्द्रसारः। अतिगुरुरिति यावत्। स कः। यः पादो देव्या एव नो वामः सव्यः, अपि तु छलमहिषतनोः कपटमहिषस्य नाकलोकद्विषो देवशत्रोरपि वामो वैरी प्रतिकूलो वा। कुतः। धैर्यात्सत्त्वाधिक्यान्मुक्ता या लीला तस्याः समुचितं यत्पतनं पातस्तस्यापाते आरम्भे यद्वा समुचितपतनेन आपाततः पीता गिलिता असवः प्राणा येन [अर्थान्महिषस्य]। यत्र वीररसविभावका धैर्यशौर्यादयो भवन्ति तत्र शृङ्गारव्यञ्जिका लीला न भवति। अत एव लीलामुक्तत्वमुक्तम्। ततो वैरिव्यापादनमुचितम्। तत आपाततोऽविभावितविचारं पीतासुत्वम्॥

वक्षो व्याजैणराजः स दशभिरभिनत्पाणिजैः प्राक्सुरारेः
पञ्चैवास्तं नयामो युवतिचरणजाः शत्रुमेते वयं तु।
इत्युत्पन्नाभिमानैर्नख14शशिमणिभिर्ज्योत्स्नया स्वांशुमय्या
यस्याः पादे हतारौ हसित इव हरिः सास्तु काली9 श्रिये वः॥११॥

सा काली वः श्रियेऽस्तु। सा का। यस्याः पादे हतारौ घातितशत्रौ सति स्वांशुमय्या ज्योत्स्नया नखशशिमणिभिर्नखचन्द्रकान्तैर्हरिरिति हसित इव बभूव। इतीति किम्। प्राक्पूर्वं सुरारेर्हिरण्यकशिपोर्वक्ष उरःस्थलं व्याजैणराजः कपटसिंहो नरहरिर्दशभिः पाणिजैर्नखैरभिनत्। एते वयं तु युवतिचरणजाः, पञ्चैव शत्रुमस्तं नयाम इत्युत्पन्नाभिमानैर्जातगर्वैः। हरेर्नखाः करजाः, वयं युवतिचरणजाः, ते दश वयं पञ्च, तैर्वक्षोमात्रं विदारितमस्माभिस्तु शत्रुरस्तं नीतः, इत्यभिमानकारणम्॥

रक्ताक्तेऽलक्तकश्रीर्विजयिनि विजये नो विराजत्यमुष्मि–

न्हासो हस्ताग्रसंवाहनमपि दलिताद्रीन्द्र15सारद्विषोऽस्य।

त्रासेनैवाद्यः सर्वः प्रणमति कदनेनामुनेति क्षतारिः
पादोऽव्याच्चुम्बितो वो रहसि विहसता त्र्यम्बकेणाम्बिकायाः॥१२॥

इति विहसता त्र्यम्बकेण रहस्येकान्तेऽन्यं विनयप्रकारमपश्यता चुम्बितः क्षतारिर्व्यापादितशत्रुरम्बिकायाः पादो वो युष्मानव्याद्रक्षतु। इतीति किम्। हे विजये पार्वतिसखि, अथवा विजये सति अमुष्मिन्विजयिनि विजयशालिनि रक्ताक्ते महिषरुधिरार्द्रीभूते ते पादेऽलक्तकश्रीर्न विराजति। अथ च दलिताद्रीन्द्रसारद्विषो नाशितः पर्वतेन्द्रसमानगरिमा शत्रुर्येन तस्यास्य तव पादस्य हस्ताग्रेण संवाहनमपि हासः। किं चाद्याधुनामुना कदनेन महिषवधेन सर्वो जनस्त्रासेनैव प्रणमतीति। चरणे यावकरसरञ्जनं हस्ताग्रेण संवाहनं प्रणामश्चेति त्रयमुचितम्। किं त्वत्र त्रयमपि न घटत इति महादेवेन तच्चुम्बनमेव कृतम्॥

भङ्गो न भ्रूलतायास्तुलितबलतयानास्थमस्थ्नां तु चक्रे

न क्रोधात्पादपद्मं महदमृतभुजामुद्धृतं शल्यमन्तः।

वाचालं नूपुरं नो जगदजनि जयं शंसदंशेन पार्ष्णे-

र्मुष्णन्त्यासून्सुरारेः समरभुवि यया पार्वती पातु सा वः॥१३॥

सा पार्वती वः पातु। यया पार्ष्णेरंशेन पादतलपश्चाद्भागैकदेशेन समरभुवि सुरारेर्महिषस्यासून्मुष्णन्त्या न केवलं भ्रूलताया एव भङ्गः कृतः, अपि तु तुलितबलतया अनास्थं यथा स्यात्तथा अस्थ्नांकीक

सानापि अर्थान्महिषस्य भङ्गश्चूर्णनं चक्रे। यस्य बलं तुलितं भवति तस्य पराजयेऽनास्था क्रियते। भ्रूलताभङ्गो भ्रूकुटिलत्वं क्रोधेन। किं च क्रोधात्पादपद्ममेव नोद्धृतम्, अपि तु अमृतभुजां देवानां महदन्तः शल्यमप्युद्धृतम्। देवा हि महिषं शल्यभूतमन्तश्चिन्तयन्ति स्म। अन्यच्च नूपुरमेव वाचालं मुखरं नो जातम्, अपि तु जयं शंसत्कथयज्जगदपि वाचालमजनि॥

निर्यन्ना16नास्त्रशस्त्रावलि वलति बलं केवलं दानवानां
द्राङ् नीते दीर्घनिद्रां द्विषति न महिषीत्युच्यसे प्रायशोऽद्य।

अस्त्रीसंभाव्यवीर्या त्वमसि खलु मया नैवमाकारणीया

कात्यायन्यात्तकेलाविति हसति हरे ह्रीमती हन्त्वरीन्वः॥१४॥

हरे आत्तकेलौ गृहीतक्रीडे इति हसति सति ह्रीमती लज्जाकुला कात्यायनी वो युष्माकमरीञ्शत्रून्हन्तु। इतीति किम्। अद्य त्वं महिषीति मया नोच्यसे। यतः, अस्त्रीसंभाव्यवीर्या। स्त्रीष्वेतादृशं वीर्यं न संभाव्यते।

द्वाझिटिति द्विषति रात्रौ महिषे दीर्घनिद्रां मृत्युं नीते सति, त्वयेत्यर्थात्,

निर्य्रन्नानास्त्रशस्त्रावलि दानवानां बलं सैन्यं केवलं स्वामिशून्यमद्य वलति चलति यथागतं याति। महिषी कृताभिषेका राज्ञी सैरभी च। या महिषवधं करोति सा कथं महिषीशब्दाभिधेया। महिषी महिषाद्धीनबला भवति, त्वंतु महिषात्कोटिगुणाधिकबला। प्रायशो बाहुल्येन। एवं मया त्वं नाकारणीया। स्त्रीरूपाया एव भार्याया आकारणमाह्वानं युक्तम्। त्वं तु पुरुषचेष्टितेति हासः॥

जाता किं ते हरे भीर्भवति महिषतो भीरवश्यं हरीणा–

मद्येन्दोर्द्वौ कलङ्कौ त्यजति पतिरपां धैर्यमालोक्य चन्द्रम्।

वायो कम्प्यस्त्वयान्यो नय यम महिषादात्मयुग्यं ययारौ

पिष्टे नष्टं जहास द्युजनमिति जया सास्तु देवी श्रिये वः॥१५॥

सा देवी वः श्रियेऽस्तु। सा का। यया अरौ महिषाख्ये रात्रौ पिष्टे चूर्णिते सति जया तत्प्रतीहारी नष्टं महिषभयात्पलायितं द्युजनमिन्द्राद्यमिति जहास। इतीति किम्। हे हरे इन्द्र अथवा विष्णो, ते तव भीर्भयं किं जाता।अथवा युक्तमेतत्। यतोऽवश्यमेव महिषतो हरीणां भीर्भवति। अत्र हरिशब्दोऽश्ववाचकः। किं चाद्य इन्दोश्चन्द्रस्य द्वौ कलङ्कौ जातौ।एकस्तावत्सहजः, द्वितीयस्तु महिषयुद्धे पलायनान्निन्दारूपः। अपां पतिर्वरुणश्चन्द्रं नष्टमालोक्य धैर्यं त्यजति कातरो भवति। उचितमेतत्।अपांपतिः समुद्रचन्द्रमालोक्य धैर्यं त्यजेद्वेलाभिमुखं प्रसरेत्। हे वायो, त्वयान्यः कम्प्यः कम्पनीयः, त्वं तु स्वयं कम्पस इति भावः। अपि च हे यम, महिषादात्मयुग्यं स्ववाहनं नय अपसारय। महिषो महिषान्तरं दृष्ट्वा क्रुध्यतीति भावः॥

शूलप्रोतादुपात्तप्लुतमहि महिषादुत्पतन्त्या स्रवन्त्या
वर्त्मन्यारज्यमाने सपदि मखभुजां जातसंध्याप्रमोहः।
नृत्यन्हासेन मत्वा विजयमहमहं मानयामीतिवादी
यामाश्लिष्य प्रनृत्तः पुनरपि पुरभित्पार्वती पातु सा वः॥१६॥

सा पार्वती वः पातु। यामाश्लिष्य पुरभिच्छिवः पुनरपि प्रनृत्तो नर्तितुमारब्धवान्। किं कुर्वन्। नृत्यन्। कथंभूतः। सपदि तत्क्षणं मखभुजां वर्त्मनि देवमार्ग आकाश उपान्ते समीपे प्लुता मही यस्मिन्नेवं यथा स्यात्तथा शूलप्रोतात्त्रिशूलविद्धादुत्पतन्त्योच्छलन्त्या स्रवन्त्या रुधिरनद्यारज्यमाने रक्तीक्रियमाणे सति जातसंध्याप्रमोहः समुत्पन्नसंध्याकालभ्रान्तिः। संध्यासमये हरो नृत्यतीति भावः। पुनश्च मत्वा बुद्ध्वा। अस्मद्भार्याशूलप्रोत महिषोत्पतद्रक्तनदीरक्तमेव व्योम नायं संध्याकाल इति ज्ञात्वेति भावः। ततो हासेन परितोषेण विजयमहं विजयोत्सवं मानयाम्यहमिति वादी। उपान्तलुतमहीति क्रियाविशेषणम्। समासान्तविधेरनित्यत्वान्न कप्॥

नाकौकोनायकाद्यैर्द्युवसतिभिरसिश्यामधामा धरित्रीं
रुन्धन्वर्धिष्णुविन्ध्याचलचकितमनोवृत्तिभिर्वीक्षितो यः।
पादोत्पिष्टः स यस्या महिषसुररिपुर्नूपुरान्तावलम्बी
लेभे लोलेन्द्रनीलोपलशकलतुलां स्तादुमा सा श्रिये वः॥१७॥

सा उमा वः श्रिये स्तात्। सा का। यस्याः पादोत्पिष्टो महिषाख्यः सुररिपुर्नूपुरान्तावलम्बी लोलेन्द्रनीलपाषाणखण्डसाम्यं लेभे। नूपुरसमीप इन्द्रनीलशकलेनावश्यमेव भाव्यम्। कथंभूतः। नाकौकोनायकाद्यैरिन्द्राद्यैर्द्युवसतिभिर्देवैर्धरित्रीं रुन्धन्पृथ्वीमावृण्वन्दृष्टः। कथंभूतैः। वर्धिष्णुविन्ध्याचलचकितमनोवृत्तिभिः। किमयं विन्ध्याचल एव पुनर्वृद्धिं गच्छतीति भीतैः। असिश्यामधामा खड्गवन्मेचककान्तिः॥

दुर्वारस्य द्युधाम्नां महिषितवपुषो विद्विषः पातु युष्मा–
न्पार्वत्या प्रेतपालस्वपुरुषपरुषः प्रेषितोऽसौ पृषत्कः।

यः कृत्वा लक्ष्यभेदं हृतभुवनभयो गां विभिद्य प्रविष्टः
पातालंपक्षपालीपवनकृतपतत्तार्क्ष्यशङ्काकुलाहिः॥१८॥

महिषितवपुषो महिषीकृतकायस्य विद्विषः पार्वत्या प्रेषितः प्रहितोऽसौ पृषत्कोबाणो युष्मान्पातु। कथंभूतः पृषत्कः। प्रेतपालस्य यमस्य ये स्वपुरुषाःस्वकीयदूतास्तद्वत्परुषः क्रूरः। कथंभूतस्य विद्विषः। द्युधाम्नां देवानां दुर्वारस्य दुःखेन वारयितुं शक्यस्य। यः पृषत्को लक्ष्यस्य महिषस्य भेदं कृत्वा हृतभुवनभयः सन्। महिषहिंसनाद्भुवनभयहरणम्। गां भूमिं विभिद्य पातालं प्रविष्टः। कथंभूतः। पक्षपाल्याः पत्रपङ्क्तेः पवनेन कृता पततस्तार्क्ष्यस्य गरुडस्य शङ्कया आकुला अहयः सर्पा येन सः। पूर्वं गरुडेन पातालं प्रविशता पक्षपवनेन फणिनस्त्रासितास्तथा पार्वतीशरेणापीति भावः॥

वज्रं विन्यस्य हारे हरिकरगलितं कण्ठसूत्रे च चक्रं
केशान्बद्ध्वाब्धिपाशैर्धृतधनदगदा प्राक्प्रलीनान्विहस्य।
देवानुत्सारणोत्का किल महिषहतौ मीलतो ह्रेपयन्ती
ह्रीमत्या हैमवत्या विमतिविहतये तर्जिता स्ताज्जया वः॥१९॥

जया देव्याः प्रतीहारी वो विमतिविहतये स्ताद्दुर्बुद्धिविनाशाय भवतु। किंभूता। ह्रीमत्या लज्जितया हैमवत्या पार्वत्या तर्जिता। कुतः। प्राक्प्रलीनान्पूर्वं पलायितान्महिषहतौ महिषवधे जाते सति मीलत एकीभवतो देवान्ह्रेपयन्ती लज्जितान्कुर्वाणा। किं कृत्वा ह्रेपयन्ती। हरिकरगलितं महिषभीत्या इन्द्रहस्ताच्युतं वज्रं हारे विन्यस्य। एवं हरिकरगलितं विष्णुहस्तात्पतितं चक्रं कण्ठसूत्रे च विन्यस्य। केशानब्धिपाशैर्वरुणपाशैर्बद्ध्वा। धृतधनदगदा। तत्त्यक्तायुधधारणेन तेषां हास इति भावः। कथंभूता। उत्सारणोत्काउत्सारणे दूरीकरणे। देवानामित्यर्थः। उत्का उत्कण्ठिता ॥

खड्गेपानीयमाह्लादयति हि महिषं पक्षपाती पृषत्कः
शूलेनेशो यशोभाग्भवति परिलघुः स्याद्वधार्हेऽपि दण्डः।
हित्वा हेतीरितीवाभिहतिबहलितप्राक्तनापाटलिम्ना
पार्ष्ण्यैव प्रोषितासुं सुररिपुमवतात्कुर्वती पार्वती वः॥२०॥

पार्ष्ण्यैव पादपश्चाद्भागेनैव सुररिपुं महिषं प्रोषितासुं गतप्राणं कुर्वती पार्वती वोऽवतात्। किंभूतया पार्ष्ण्या। अभिहत्याभिघातेन बहलितः सान्द्रीकृतः प्राक्तन आपाटलिभा यस्याः। देवीचरणे नैसर्गिकमारक्तत्वं महिषघातनेन बहुलीभूतमिति भावः। कुतः। खड्गे पानीयं तिष्ठति तत्प्रत्युत महिषमाह्लादयति न घातयति। पृषत्को बाणः। पक्षपाती पक्षैः पत्रैः पतनशीलः, अथ च महिषस्य पक्षपाती सहायभूतः। शूलेन ईशः शिवो यशोभाक्शिव एव शूली नान्यः। यदि महिषं प्रति शूलं प्रेष्यते तदायमपि शूली स्यात्।वधार्हे दण्डोऽपि परिलघुः शीघ्रं भाव्यः स्यात्। उत्तिष्ठमानः परो नोपेक्ष्य ‘इति। इतीव हेतीरायुधानि हित्वा पार्ष्ण्यैव महिषं व्यापादितवती॥

कृत्वेदृक्कर्म लज्जाजननमनशने शक्रमासून्विहासी–
र्वित्तेश17 स्थाणुकण्ठे जहि गदमगदस्यायमेवोपयोगः।
जातश्चक्रिन्विचक्रो दितिज इति सुरांस्त्यक्तहेतीन्ब्रुवन्त्या
व्रीडां18 व्यापादितारिर्जयति विजयया नीयमाना भवानी ॥२१॥

विजयया देव्याः सख्या व्यापादितारिर्भवानी ब्रीडां नीयमाना जयति। किंभूतया। त्यक्तहेतीन्सुरानिति ब्रुवन्त्या। इतीति किम्। हे शक्र, ईदृग्लज्जाजननं कर्म युद्धात्पलायनं कृत्वा अनशनेऽभोजन विषयेऽसून्प्राणान्मा विहासीर्मा त्यज। अथ च अशनिर्वज्रं तद्रहितोऽनशनिस्तत्संबोधनं हे अनशने त्यक्तवज्र।युद्धात्पलायनं लज्जाजननम्। यो हि लज्जाजननंकर्मकरोति सोऽनशनेन प्राणांस्त्यजतीति भावः। हे वित्तेश कुबेर, स्थानुकण्ठे गदं रोगं जहि। यतो भवानगदो गदारहित औषधरूपश्च। भवानौषधरूपः संवृत्तोऽतो भवन्मिन्त्रस्य शिवस्य कण्ठरोगं दूरीकुर्विति भावः। हे चक्रिन् विष्णो, दितिजो महिषो विचक्रः सैन्यरहितो जातः। यथा भवांश्चक्री भूत्वापि त्यक्तचक्रस्तथा महिषोऽपि विचक्र इति भावः॥

देयाद्वो वाञ्छितानि च्छलमयमहिषोत्पेषरोषानुषङ्गा19
न्नीतः पातालकुक्षि हृतभुवनभयो20 भद्रकाल्याः स पादः।

यः प्रादक्षिण्यकाङ्क्षावलयितवपुषा वन्द्यमानो मुहूर्ते
शेषेणेवेन्दुकान्तोपलरचितमहानूपुराभोगलक्ष्मीः॥२२॥

छलमयस्य महिषस्योत्पेष उत्पेषणं तेन यो रोषानुषङ्गः क्रोधसंबन्धस्तस्मात्पातालकुक्षिं नीतो हृतभुवनभयो भद्रकाल्याः स पादो वो वाञ्छितानि देयात्। यः पाद इन्दुकान्तोपलरचितमहानूपुराभोगलक्ष्मीश्चन्द्रकान्तमणिघटितनूपुरशोभमानो यः पादः प्रादक्षिण्यवाञ्छया वलयीकृतशरीरेण शेषेण मुहूर्तं वन्द्यमान इव भाति। देवीपादस्य क्षणं पाताले स्थितस्य चन्द्रकान्तनूपुरे शेषकायोत्प्रेक्षणम्॥

शूलं तूलं नु गाढं प्रहर हर हृषीकेश केशोऽपि वक्र–
श्चक्रेणाकारि किं मे पविरवति नहि त्वाष्ट्रशत्रो द्युराष्ट्रम्।
पाशाः केशाब्जनालान्यनल न लभसे भातुमित्यात्तदर्प
जल्पन्देवान्दिवौकोरिपुरवधि यया सास्तु21 शान्त्यै शिवा वः॥२३॥

आत्तदर्पं गृहीतमदं यथा स्यात्तथा इति देवाञ्जल्पन्दिवौकोरिपुर्देवशत्रुर्महिषो यया अवधि हतः सा शिवा वः शान्त्यै अस्तु। इतीति किम्।हे हर, शूलं अर्थात्तव तूलं नु कर्पासतुल्यं किमु, अतस्त्वं गाढं प्रहर। हे हृषीकेश, तव चक्रेण किं मम केशोऽपि वक्रीकृतः। अपि तु न। हे त्वाष्ट्रशत्रो इन्द्र, तव पविर्वज्रं द्युराष्ट्रं स्वर्गदेशं नावति न रक्षति। हे केश जलेश वरुण, तव पाशा अञ्जनालानि कमलनालवदतिमृदवः। हे अनल, भातुं न लभसे। मत्प्रभया हतस्त्वमित्यर्थः॥

शार्ङ्गिन्बाणं विमुञ्च भ्रमसि बलिरसौ संयतः केन बाणो
गोत्रारे हन्म्यहं ते रिपुममररिपु22स्त्वेष गोत्रस्य शत्रुः।
दैत्या व्यापाद्यतां द्रागज इव महिषो हन्यते मन्महेऽद्ये–
त्युत्प्रास्योमा पुरस्तादनु दनुजतनुं मृद्गती त्रायतां वः॥२४॥

पुरस्तात्पूर्वमित्युत्प्रास्योपहस्य।अर्थाद्देवान्। अनु पश्चाद्दनुजतनुं महिषदेहं

मृद्गती चूर्णयन्ती उमा वस्त्रायताम्। इतीति किम्। हे शार्ङ्गिन् विष्णो, बाणं विमुञ्च। बाणं तन्नामानं दैत्यं शरं च। असौ बलिरिति भ्रमसि भ्रान्तिं करोषि। बाणः केन संयतः। त्वं बलिबन्धनकर्ता अतस्तव बाणमोक्षो युक्त इति भावः। हे गोत्रारे इन्द्र, ते रिपुमहं हन्मि। एषोऽमररिपुर्महिषो गोत्रस्य स्वकुलस्य शत्रुः। यतो देवा दैत्याश्च काश्यपेयाः। अतोऽयमपि गोत्रारिः, तस्माद्गोत्रारिद्वयं नोचितमित्येनं तव रिपुं हन्मीति भावः। अत एव दैत्या अपि शास्यन्ते— हे दैत्याः, मन्महे मदीयोत्सवेऽज इव च्छाग इव महिषो हन्यते, अतोऽयं महिषो द्राक्शीघ्रं व्यापाद्यतामद्य। देवीपर्वणि च्छागो हन्यत एव॥

स्पर्धावर्धितविन्ध्यदुर्भरभरव्यस्ताद्विहायस्तलं

हस्तादुत्पतिता प्रसादयतु वः कृत्यानि कात्यायनी।
यां शूलामिव देवदारुघटितां स्कन्धेन मोहान्धधी–
र्वध्योद्देशमशेषबान्धवकुलध्वंसाय कंसोऽनयत्॥२५॥

स्पर्धया पराभवेच्छया वर्धितो यो विन्ध्यस्तद्वद्दुर्भरो यो भरस्तेन व्यस्ताद्विकलाद्धस्तात्। अर्थात्कंसस्य। विहायस्तलं गगनतलमुत्पतिता कात्यायनी वः कृत्यानि कार्याणि प्रसादयतु प्रसन्नानि निर्विघ्नानि करोतु। यां कात्यायनीमशेषबान्धवकुलध्वंसाय मोहान्धधीः कंसो देवदारुघटितां शूलमिव स्कन्धेन वध्योदेशं वध्यप्रदेशमनयत्॥

तूर्णं तोषात्तुराषाट्‌23प्रभृतिषु शमिते शात्रवे स्तोत्रकृत्सु

क्लान्तेवोपेत्य पत्युस्ततभुजयुगलस्यालमालम्बनाय।

देहार्धे गेहबुद्धिं प्रतिविहितवती लज्जयालीय काली

कृच्छ्रं वोऽनिच्छयैवापतितघनतराश्लेषसौख्या विहन्तु॥२६॥

पत्युर्देहार्धे गेहबुद्धिं प्रतिविहितवती काली वः कृच्छ्रं विहन्तु। किं कृत्वा।शात्रवे महिषे शमिते तुराषाट्प्रभृतिषु इन्द्रादिषु तूर्णं तोषात्स्तोत्रकृत्सु सत्सु लज्जयालीय लीना भूत्वा। महान्तो हि प्रत्यक्षप्रशंसया सुतरां लज्जन्ते।कथंभूतस्य पत्युः। आलम्बनायालं ततभुजयुगलस्य। अत एवानिच्छयैव इच्छां विनैव आपतितघनतराश्लेषसौख्या प्राप्तसदृढालिङ्गनसुखा। उत्प्रेक्षते— क्लान्तेवोपेत्य। यो हि क्लान्तो भवति स क्वाप्यालम्बनमिच्छति॥

आस्तां मुग्धेऽर्धचन्द्रः क्षिप सुरसरितं या सपत्नी भवत्याः

क्रीडा द्वाभ्यां विमुञ्चापरमलममुनैकेन मे पाशकेन।

शूलं प्रागेव लग्नं शिरसि यदबला युध्यसेऽव्याद्विदग्धं

सोत्प्रासालापपातैरिति दनुजमुमा निर्दहन्ती दृशा वः॥२७॥

इतीत्थं सोत्प्रासाः समनाक्स्मिता य आलापास्तेषां पातैर्विदग्धं चतुरं दनुजं महिषं दृशा निर्दहन्ती उमा वोऽव्यात्। इतीति किम्। हे मुग्धे, अर्धचन्द्रो बाणविशेषश्चन्द्रार्ध च आस्तां तिष्ठतु। अनेन तव भर्तृमूर्धस्थितेनार्धचन्द्रेण किमपराद्धं वराकेणेति भावः। सुरसरितं गङ्गां क्षिप या भवत्याः सपत्नी वर्तते। अस्थानकोपवती त्वमत एव मुग्धापदेन संबोध्यसे। अमुनैकेन पाशकेनाल्पपाशेन द्यूतसाधनेनाक्षेण मे चालम्। अपरं द्वितीयमपि पाशकं मुञ्च। यतः क्रीडा द्वाभ्यां पाशकाभ्यां भवति। एकेन क्रीडितुं न शक्यते। शूलमायुधं व्याधिश्च। शूलं किमिति त्यजसि। मम शिरसि प्रागेव शूलं रोगविशेषो लग्नम्। यतो मया सहाबला योषिद्युध्यसे। इदमकीर्तिरूपं शूलम्। यद्वा अहं सबलः ससैन्यः, त्वं पुनरबला एकाकिनीति। इदमकीर्तिरूपं शूलं मम शिरसि लग्नमेव॥

वक्राणां विक्लवः किं वहसि बत रुचं स्कन्द षण्णां विषण्णा–
मन्याः षण्मातरस्ते भव भव सकलस्त्वं शरीरार्धलब्ध्या।
जिह्मां हन्म्यद्य कालीमिति सममसुभिः कण्ठतो निर्गता गी–
र्गीर्वाणारेर्ययेच्छामृदु24पदमृदितस्याद्रिजा सावताद्वः॥२८॥

ययेच्छया मृदुपदमृदितस्य कोमलचरणन्यासचूर्णीकृतस्य गीर्वाणारेर्महिषस्य कण्ठतोऽसुभिः प्राणैः सममिति गीर्वाङ् निःसृता सा अद्रिजा पार्वती वोऽव्यात्। इतीति किम्। हे स्कन्द, त्वं विक्लवः सन् षण्णां वक्राणां रुचं कान्तिं विषण्णां बत खेदे किं वहसि। यतोऽन्याः कृत्तिकारूपाः षट् मातरस्ते

तव सन्ति। पार्वत्यां तव मातरि हतायां तास्वेव मातृस्नेहं बधान विषादं मा कृथा इति भावः। अन्यच्च हे भव शिव, त्वं शरीरार्धलब्ध्या सकलः समग्रो भव। पार्वत्या भवच्छरीरार्धं हृतमस्ति, अधुना तन्नाशात्पुनरपि भवतः संपूर्णशरीरलाभः स्यात्। अद्याहं जिह्मां दुष्टाशयां कालीं हन्मि। इयं कुटिला काली च, त्वं पुनः सरलो गौरश्चेति न युवयोर्योगः साधीयान्, अतो घातयाम्येतामिति भावः॥

गाहस्व व्योममार्गं गतमहिषभयैर्ब्रध्नविश्रब्धमश्वैः

शृङ्गाभ्यां विश्वकर्मन्घटयसि न नवं शार्ङ्गिणः शार्ङ्गमन्यत्।

ऐभी

त्वङ्गिष्ठुरेयं बिभृहि मृदुमिमामीश्वरेत्यात्तहासा

गौरी वोऽव्यात्क्षतारिः स्वचरणगरिमग्रस्तगीर्वाणगर्वा॥२९॥

क्षतारिर्नाशितशत्रुः, स्वचरणगरिमग्रस्तगीर्वाणगर्दा स्वपादगौरवनाशितदेवाहंकारा। यत्कर्म देवैः शस्त्रास्त्रशक्तिमद्भिर्न कृतं तद्देव्या स्वचरणव्यापारमात्रेणैव कृतमिति भावः। अथ च इत्यात्तहासा इत्यमुना प्रकारेण कृतपरिहासा गौरी वोऽव्यात्। इतीति किम्। हे ब्रध्नसूर्य, त्वं गतमहिषभयैरश्वैर्विश्रब्धं यथा स्यात्तथा व्योममार्गमाकाशपथं गाहस्व। हे विश्वकर्मन् देव शिल्पिन्, एताभ्यां महिषस्य शृङ्गाभ्यां शार्ङ्गिणो विष्णोर्नवमन्यच्छार्ङ्गं धनुर्न घटयसि। किमनेन पुराणधनुषेति काकुः। हे ईश्वर, इयमैभी त्वग्गजचर्म निष्ठुरा कठोरा इमाम्अर्थान्माहिषींत्वचं बिभृहि धारय॥

क्षिप्तो बाणः कृतस्ते त्रिकविनतिततो निर्वलिर्मध्यदेशः

प्रह्लादो नूपुरस्य क्षतरिपुशिरसः पादपातैर्दिशोऽगात्।

सङ्ग्रामे संनताङ्गि25 व्यथयसि महिषं नैकमन्यानपि त्वं

ये युध्यन्ते26ऽत्र नैवेत्यवतु पतिपरीहासहृष्टा शिवा27वः॥३०॥

इति पतिपरीहासहृष्टा शिवा वः पातु। इतीति किम्। हे संनताङ्गि, त्वं सङ्ग्रामे एकं महिषमेव व्यथयसीति न, अन्यानपि येऽत्र न युध्यन्ते तानपि व्यथयसि। कथम्। बाणः शरः क्षिप्तः कृतः, पक्षे बाणोऽसुरविशेषः क्षिप्तो

गलहस्तितः। ते त्रिकविनतिततो मध्यदेशो निर्वलिस्त्रिवलिरहितः कृतः। बाणक्षेपणसमये हि शरीरस्योर्ध्वोत्तम्भनान्मध्यदेशो निर्वलिर्जात इति भावः। पक्षे बलिर्दानवविशेषः। क्षतरिपुशिरसो नूपुरस्य पादपाते प्रह्लादो ध्वनिर्दिशोऽगात्। नूपुरशब्दो दिगन्तगामी जात इत्यर्थः। पक्षे प्रह्लादोऽसुरविशेषः। अत्र युद्धे बाणबलिप्रह्लादा न सन्ति, भवती तानपि व्यथयतीति परीहासः॥

मेरौ मे रौद्रश्रृङ्गक्षतवपुषि रुषो नैव नीता नदीनां
भर्तारो रिक्ततां यत्तदपि हितमभून्निःसपत्नोऽत्र कोऽपि।
एतन्नो मृष्यते यन्महिष कलुषिता स्वर्धुनी मूर्ध्नि मान्या
शंभोर्भिन्द्याद्धसन्ती पतिमिति शमितारातिरीतीरुमा वः॥३१॥

शमितारातिः पार्वती पतिमिति हसन्ती वः ईतीरुपद्रवान्भिन्द्यात्। इतीति किम्। हे महिष, मेरौ रौद्रश्रृङ्गक्षतवपुषि सति मे रुषो नैव। त्वया श्रृङ्गाभ्यां मेरुपर्वते क्षते मम क्रोधो नास्ति। अन्यच्च यन्नदीनां भर्तारः समुद्रा रिक्ततां नीतास्तदपि हितमभूत्। तत्रापि मे रुषो नैव। अत्र कोऽपि निःसपत्नोजातः। समुद्रो महादेवश्च गङ्गापतिः। समुद्ररिक्तीकरणे तु महादेवस्य निःसपत्नंगङ्गापतित्वं जातमिति भावः। एतत्तु नो मृष्यते इदं न क्षम्यते यच्छम्भोर्मूर्ध्नि मान्या अर्थाच्छम्भोरेव स्वर्धुनी गङ्गा कलुषिता कलुषीकृता। सेयं परपुरुषसङ्गात्कलुषा जातेति भावः॥

सद्यः साधितसाध्यमुद्धृतवती शूलं शिवा पातु वः
पादप्रान्त28विषक्त एव महिषाकारे सुरद्वेषिणि।
दिष्ट्या देव वृषध्वजो यदि भवानेषापि नः स्वामिनी
संजाता महिषध्वजेति जयया केलौ कृतेऽर्घस्मिता ॥३२॥

पादप्रान्ते महिषाकारे सुरद्वेषिणि विषक्ते एव साधितसाध्यं कृतकार्यं शूलमुद्धृतवती, अथ च जयया इति केलौ परीहासे कृते सति अर्धस्मिता शिवा वः पातु। इतीति किम्। हे देव, यदि भवान्वृषध्वजः, एषापि नः स्वामिनी पार्वती महिषध्वजा दिष्ट्या संजाता। साधु युवयोर्योगो यद्द्वावपि पशुध्वजौ। त्वं वृषारूढः,इयं पुनर्महिषारूढेति हास्यम्॥

विद्राणेन्द्राणि किं त्वं द्रविणददयिते पश्य संख्यं स्वसख्याः
स्वाहेस्वस्था स्वभर्तर्यमृतभुजि29 मुधा रोहिणी रोदितीय।
लक्ष्मि श्रीवत्सलक्ष्मोरसि वससि पुरेत्यार्तमाश्वासयन्त्यां
स्वर्गस्त्रैणं जयायां जयति हतरिपोर्हेपितं हैमवत्या॥३३॥

स्वर्गस्त्रैणंस्वर्गस्त्रीसमूहं जयायामित्याश्वासयन्त्यां सत्यां हैमवत्या द्वेषितं लज्जितं जयति। कथंभूतं स्वर्गस्त्रैणम्। आर्तम्। कथंभूताया हैमवत्याः। हतरिपोः। इतीति किम्। हे इन्द्राणि, त्वं किं विद्राणा। हे द्रविणददयिते कुबेरपत्नि, स्वसख्याः पार्वत्याः संख्यं युद्धं पश्य। हे स्वाहे अग्निदयिते, त्वं स्वभर्तर्यग्नौ अमृतभुजि सति स्वस्था भव। महिषे हतेऽधुना सुखेन ब्राह्मणैते इति भावः। रोहिणी चन्द्रपत्नी सुधा वृथा रोदितीव। असंजातक्षतिरिति भावः। हे लक्ष्मि, श्रीवत्सलक्ष्मोरसिविष्णुवक्षःस्थले पुरा वससि वत्स्यसि। इति सर्वं देवस्त्रीणामाश्वासनमाकर्ण्य देवी लज्जितेति भावः॥

निर्वाणः किं त्वमेको रणशिरसि शिखिञ्शार्ङ्गधन्वापि विध्यं–
स्तत्तेधैर्यंक्वयातं जहिहि जलपते दीनतां त्वं न दीनः।
शक्तो नो शत्रुभङ्गे भयपिशुन सुनासीर नासीरधूलि–
र्धिग्यासि क्वेति जल्पन्रिपुरवधि यया पार्वती पातु सा वः ॥३४॥

इति जल्पन्रिपुर्महिषो ययावधि हतः सा पार्वती वः पातु। इतीति किम्। हे शिखिन् वह्ने, किं त्वमेको रणशिरसि निर्वाणः शान्तः किं तु शार्ङ्गधन्वा विष्णुरपि विध्यञ्शरान्मुञ्चन्निर्बाणो बाणरहितो जातः। श्लेषे वबयोरभेदः। हे जलपते वरुण, तत्ते धैर्य क्व यातं क्व गतम्। दीनतां जहिहि त्यज, यतस्त्वं न दीनः दीनो न भवसि अथ च

नदीनामिनः प्रभुर्नदीनः। हे भयपिशुनभयसूचक सुनासीर इन्द्र, नासीरधूलिः सेनामुखोत्थधूलिः शत्रुभङ्गे नो शक्तः, धिक् त्वं क्व यासि। यथा पूर्वं तव सेनामुखोत्थधूलिमात्रमेव विलोक्य शत्रवः पलायन्ते स्म न तथाधुनेति भावः। यत्र यास्यसि तत्रैव हन्यसे॥

नन्दिन्नानन्ददो मे तव मुरजमृदुः संप्रहारे प्रहारः
किं दन्ते रोम्णिरुग्णे व्रजसि गजमुख त्वं वशीभूत एव।

निघ्नन्निघ्नन्निदानीं द्युजनमिह महाकाल एकोऽस्मि नान्यः
कन्याद्रेर्दैत्यमित्थं प्रमथपरिभवे मृद्गतीत्रायतां वः॥ ३५॥

इत्थं प्रमथानां पार्षदानां परिभवे सति दैत्यं मृद्गति मर्दयन्ती अद्रेः कन्या पार्वती वस्त्रायताम्। इत्थं कथम्। हे नन्दिन्, संप्रहारे युद्धे तव प्रहारो मे आनन्ददः सुखप्रदः। यतो मुरजमृदुर्मृदङ्गध्वनिकोमलः। हे गजमुख गणेश, रोम्णि रोमतुल्ये दन्ते रुग्णे भग्ने सति किं व्रजसि। यतस्त्वं पलायितोऽपि वशीभूत एव। लम्बोदरत्वाद्दूरं पलायनं कर्तुमशक्त इति भावः। द्युजनमिन्द्राद्यं निघ्नन्निघ्नन्नितरां मारयन्नहमेवैको महाकालः। अन्यो नास्ति॥

वज्रं मज्ञो मरुत्वानरि हरिरुरसः शूलमीशः शिरस्तो
दण्डं तुण्डात्कृतान्तस्त्वरितगतिगदामस्थितोऽर्थाधिनाथः।
प्रापन्यत्पादपिष्टेद्विषि महिषवपुष्यङ्गलग्नानि भूयो–
ऽप्यायूंषीवायुधानि द्युवसतय इति स्तादुमा सा श्रिये वः॥३६॥

महिषवपुषि द्विषि यत्पादपिष्टे सति द्युवसतयइन्द्रादयोऽङ्गलग्नान्यायुधान्यायूंषीव भूयोऽपीति प्रापन्प्राप्तवन्तः सा उमा वः श्रियेऽस्तु। पूर्वं महिषयुद्धे सर्वदेवायुधानि तच्छरीरे मग्नान्यासन्, अधुना देव्या महिषे पिष्टे पुनरपि तैः स्वायुधानि प्राप्तानि तद्वन्महिषविनाशादायूंष्यपि लब्धानि, अन्यथा तु जीवनं संदिग्धमेवासीदिति भावः। इति कथम्। मज्ञः मज्जधातोः सकाशादिन्द्रो वज्रं प्रापत्। अरि चक्रं हरिस्तस्योरसः प्रापत्। ईशः शिवः शिरस्तः शूलमापत्। कृतान्तो यमस्तुण्डान्मुखाद्दण्डं प्रापत्। अर्थाधिनाथः कुबेरोऽस्थितस्त्वरितगतिशालिनीं गदां प्रापत्॥

दृष्टावासक्तदृष्टिः प्रथममिव30 तथा संमुखीनाभिमुख्ये

स्मेरा हासप्रगल्भे प्रियवचसि कृतश्रोत्रपेयाधिकोक्तिः।
उद्युक्ता नर्मकर्मण्यवतु पशुपतौ31 पूर्ववत्पार्वती वः
कुर्वाणा सर्वमीषद्विनिहितचरणालक्तकेव क्षतारिः॥३७॥

पशुपतौ महिषे सर्वमीषदाभासमात्रं कुर्वाणा पार्वती वोऽवतु रक्षतु।

कथंभूता। नर्मकर्मणि सङ्ग्रामाख्ये उद्युक्ता। यथा पशुपतौ शिवे सर्वं नर्मकर्माकरोन्न तथा महिषे किं तु ईषत्। दृष्टौ अर्थान्महिषस्यासक्तदृष्टिः। तथा आभिमुख्ये प्रथममिव संमुखीना। हासप्रगल्भे स्मेरा। प्रियवचसि कृतश्रोत्रपेयाधिकोक्तिः। कथंभूता। क्षतारिः अत एव विनिहितचरणालक्तकेव। पूर्ववद्यथा शिवे नर्मकर्माकरोत्तद्वदित्यर्थः॥

दैत्यो दोर्दर्पशाली नहि महिषवपुः कल्पनीयाभ्युपायो
वायो वारीश विष्णो वृषगमन वृषन्किं32 विषादो वृथैव।
बध्नीत ब्रघ्नमिश्राः कवचमचकिताश्चित्रभानो दहारी–
नेवं देवाञ्जयोक्ते जयति हतरिपोर्ह्रेपितं33 हैमवत्याः॥३८॥

देवान्प्रति जयया एवमुक्ते सति हतरिपोर्हैमवत्याः पार्वत्या ह्रेपितं लज्जितं जयति। एवं कथम्। हे वायो, हे वारीश वरुण, हे विष्णो, हे वृषगमन शिव, हे वृषन् इन्द्र, महिषवपुर्दैत्यो दोर्दर्पशाली अतो न कल्पनीयाभ्युपायः सामादिप्रयोगसाध्यः। किं वृथैव विषादः क्रियते। तस्मा

द्रध्नमिश्राः सूर्यसहिता यूयमचकिताः सन्तः कवचं बध्नीत संनद्धा भवत। हे चित्रभानो वह्ने, अरीन्दह भस्मीकुरु॥

आ व्योमव्यापिसीम्नां वनमतिगहनं गाहमानो भुजाना–
मर्चिर्मोक्षेण मूर्च्छन्दवदहनरुचां लोचनानां त्रयस्य34
यस्या निर्मज्जमज्जच्चरणभरनतो गां विभिद्य प्रविष्टः
पातालं पङ्कपातोन्मुख इव महिषः स्तादुमा35 सा श्रिये वः॥३९॥

यस्या निर्मज्जमज्जच्चरणभरनतो महिषो गां भुवं विभिद्य पङ्कपातोन्मुख इव पातालं प्रविष्टः सा उमा वः श्रिये स्तात्। निर्गता मज्जा यस्मादसौ निर्मज्जः स चासौ चरणभरनतश्चेति। कथंभूतः। आ व्योम व्यापिसीम्नांभुजानामर्थाद्देव्या अतिगहनं वनं गाहमानः। पुनः कथंभूतः।दवदहनरुचां लोचनानां त्रयस्यार्चिर्मोक्षेण मूर्च्छन्। यथा वने भ्राम्यन्दावाग्नितप्तोऽन्यो महिषः कर्दमपातोन्मुखो गर्तं प्रविशति तथायमपि देवीलोचनार्चिर्भिर्दन्दह्यमानः पातालं प्रविष्टः॥

नीते निर्व्याजदीर्घां मघवति मघवद्वज्रलज्जानिदाने
निद्रां द्रागेव देवद्विषिमुषितरुषः36 संस्मरन्त्याः स्वभावम्।
देव्या दृग्भ्यस्तिसृभ्यस्त्रय इव गलिता राशयो रक्तताया37
स्त्रायन्तां38 वस्त्रिशूलक्षतकुहरभुवो लोहिताम्भः समुद्राः॥४०॥

त्रिशूलक्षतकुहरभुवो लोहिताम्भः समुद्रा रुधिररूपजलसमुद्रा वस्त्रायन्ताम्। उत्प्रेक्षते— मघवद्वज्रलज्जानिदाने अघवति पापिनि। देवद्विषि महिषे द्रागेव निर्व्याजदीर्घां निद्रां मरणं नीते सति मुषितरुषो निवृत्तकोपाया अत एव स्वभावं संस्मरन्त्या देव्यास्तिसृभ्यो दृग्भ्यो नेत्रेभ्यस्त्रयो रक्तताया आरुण्यस्य राशय इव गलिताः। क्रोधाभावाद्देव्या नेत्राणां रक्तत्वं निवृत्तं तदेव रुधिरसमुद्रत्वेन संभावितम्॥

काली कल्पान्तकालाकुलमिव सकलं लोकमालोक्य पूर्वं
पश्चाच्छ्लिष्टे विषाणे विदितदितिसुता लोहिता मत्सरेण।
पादोत्पिष्टे परासौ निपतति महिषे प्राक्स्वभावेन गौरी
गौरी वः पातु पत्युः प्रतिनयनमिवाविष्कृतान्योन्यरूपा39 ॥४१॥

पत्युः शिवस्य प्रतिनयनं लोचनान्तरमिव आविष्कृतान्योन्यरूपा गौरी वः पातु। आविष्कृतमन्योन्यस्य रूपं यया। स्वस्य रूपं भर्तृलोचनस्य, भर्तृलोचनरूपमात्मन इति भावः। किंभूता। महिषोपप्लवेन कल्पान्तकालाकुलमिव सकलं लोकमालोक्य पूर्वं काली कृष्णा जाता। पश्चादनन्तरं विदितदितिसुता ज्ञातदैत्या मत्सरेणामर्षेण लोहितारक्ता जाता। क्व सति। विषाणेश्रृङ्गे अर्थान्महिषस्य श्लिष्टे लग्ने सति। पुनः। महिषे पादोत्पिष्टे अत एव परासौ गतप्राणे निपतति सति प्राक्स्वभावेन पूर्वप्रकृत्या गौरी अवदाता जाता। एवं त्रिरूपा देवी त्रिभिर्महादेवनयनैस्तुल्येति भावः॥

गम्यं नाग्नेर्न40 चेन्दोः सपदि दिनकृतां द्वादशानामसह्यं41
शक्रस्याक्ष्णां सहस्रं सह सुरसदसा सादयन्तं प्रसह्य।

उत्पातोग्रान्धकारागममिव महिषं निघ्नती शर्म दिश्या–
द्देवी वो वामपादाम्बुरुहनखमयैः पञ्चभिश्चन्द्रमोभिः॥४२॥

वामपादकमलनखरूपैः पञ्चभिश्चन्द्रैरुत्पातोग्रान्धकारागममिव महिषं निघ्नती देवी वः शर्म दिश्यात्। कथंभूतम्। अग्नेर्न गम्यं न तिरस्करणीयम्।इन्दोश्चन्द्रस्य च न गम्यम्। सपदि द्वादशानां दिनकृतामादित्यानामसह्यम्। सुरसदसा देवसभया सह शक्रस्याक्ष्णां सहस्रं प्रसह्य सादयन्तं म्लानयन्तम्॥

दत्त्वा स्थूलान्त्रमालावलिविघसहसद्धस्मरप्रेतकान्तं
कात्यायन्यात्मनैव त्रिदशरिपुमहादैत्यदेहोपहारम्।
विश्रान्त्यै पातु युष्मान्क्षणमुपरि धृतं42 केसरिस्कन्धभित्ते–र्बिभ्रत्तत्केसरालीमलिमुखररणन्नूपुरं पादपद्मम्॥ ४३॥

कात्यायन्या केसरिस्कन्धभित्तेरुपरि विश्रान्त्यै क्षणं धृतं पादपद्मं युष्मान्पातु। कथंभूतं पादपद्मम्। तत्केसरालीः सिंहस्क

न्धसटा बिभ्रत्। पुनः।अलिवन्मुखरो वाचालो रणन्नूपुरो यत्र तत्। पद्मे हि केसरैर्भ्रमरैश्च भाव्यम्। किं कृत्वा। आत्मनैव त्रिदशरिपुमहादैत्यदेहोपहारं दत्त्वा। कथंभूतमुपहारम्। स्थूलात्रमालावलिः स एव विघसो भोजनशेषस्तेन हसन्त्यो घस्मराः प्रेतकान्ता यत्र। निःसारा आत्रावलिरेवास्मदर्थमवशेषिता देव्येति प्रेतकान्तानां हासकारणम्॥

कोपेनेवारुणत्वं दधदधिकतरा43लक्ष्यलाक्षारसश्रीः
श्लिष्यच्छृङ्गाग्रकोणक्वणितमणितुलाकोटिहुंकारगर्भः।
प्रत्यासन्नात्ममृत्युप्रतिभयमसुरैरीक्षितो हन्त्वरीन्वः
पादो देव्याः कृतान्तोऽपर इव महिषस्योपरिष्टान्निविष्टः॥४४॥

महिषस्योपरिष्टान्निविष्टोऽपरः कृतान्तो यम इव देव्याः पादो वोऽरीन्हन्तु। कथंभूतः पादः। कोपेनेवारुणत्वं दधत्। अत एवाधिकतरालक्ष्यलाक्षारसश्रीः।पुनः कीदृशः। श्लिष्यच्छृङ्गाग्रमेव कोणो वीणादिवादनकीलस्तेन क्वणिता या मणितुलाकोटिर्मणिनूपुरं स एव हुंकारो गर्भे यस्य। पुनः। प्रत्यासन्नात्ममृत्युप्रतिभयं यथा स्यादेवमसुरैर्वीक्षितः। यमोऽपि कोपारुणो हुंकारं कुर्वन्महिषोपरिस्थित आसन्नमृत्युभीतैः पुरुषैर्वीक्ष्यते॥

आहन्तुं44 नीयमाना भरविधुरभुजस्रंसमानोभयांसं
कंसेनैनांसि सा वो हरतु हरियशोरक्षणाय क्षमापि।
प्राक्प्राणानस्य नास्यद्गगनमुदपतद्गोचरं या शिलायाः
संप्राप्यागामिविन्ध्याचलशिखरशिलावासयोगोद्यतेव॥४५॥

भरविधुरभुजस्रंमानोभयांसं यथा स्यादेवं कंसेनाहन्तुं नीयमाना क्षमापि समर्थापि हरियशोरक्षणायास्य कंसस्य प्राणान्प्राक्पूर्वं नास्यन्नाहरत् किं तुशिलाया गोचरं विषयं प्राप्य आगामिविन्ध्याचलशिखरशिलावासयोगोद्यतेव गगनमुदपतत् सा व एनांसि पापानि हरतु॥

साम्नानाम्नाययोनेर्धृतिमकृत हरेर्नापि चक्रेण भेदा–
त्सेन्द्रस्यैरावणस्याप्युपरि कलुषितः45 केवलं दानवृष्ट्या।
दान्तो दण्डेन मृत्योर्न च विफलयथोक्ताभ्युपायो हतोऽरि–
र्येनोपायः स पादः सुखयतु46 भवतः पञ्चमश्चण्डिकायाः॥४६॥

येन पादेनारिः शत्रुर्महिषो हतः स पञ्चम उपायश्चण्डिकायाः पादो वः सुखयतु। यो महिष आम्नाययोनेर्ब्रह्मणः साम्ना वेदविशेषेण प्रथमोपायेन च धृतिं नाकृत न कृतवान्। हरेश्चक्रेण भेदाद्विदारणाद्द्वितीयोपायाच्चापि धृतिं परितोषं न कृतवान्। सेन्द्रस्यैरावणस्य दानवृष्ट्या मदवर्षणेन तृतीयोपायेन च केवलमुपरि कलुषितो मलिनत्वं गतः, अथवा क्रोधं गतो न तु तुष्टः। न च मृत्योर्यमस्य दण्डेनायुधेन चतुर्थोपायेन च दान्तो दमितः। अत एव विफलयथोक्ताभ्युपायः निष्फलीकृतसामाद्युपायः॥

भर्ता कर्ता त्रिलोक्यास्त्रिपुरबधकृती पश्यति त्र्यक्ष एष
क्वस्त्री क्वायोधनेच्छा न तु सदृशमिदं प्रस्तुतं किं मयेति।

मत्वा सव्याजसव्येतरचरणचलाङ्गुष्ठकोणाभिमृष्टं47
सद्यो या लज्जितेवासुरपतिमवधीत्पार्वती पातु सा वः॥४७॥

** **सव्याजं यथा स्यादेवं सव्येतरचरणस्य वामपादस्य चलाङ्गुष्ठकोणेनाभिमृष्टमसुरपतिं सद्यो यावधीत्सा पार्वती वः पातु। या इति मत्वा लज्जितेव। इतीति किम्। त्रिलोक्याः कर्ता त्रिपुरवधकृती एष त्र्यक्षः शिवो मम भर्ता पश्यति। स्त्री क्व, आयोधनेच्छा क्व। न त्विदं सदृशमुचितम्।मया किं प्रस्तुतमारब्धम्॥

वृद्धोक्षो न क्षमस्ते भवतु भव भवद्वाह एषोऽधुनेति
क्षिप्तः पादेन देवं प्रति झटिति यया केलिकान्तं विहस्य।
दन्तज्योत्स्नावितानैरतनुभिरतनु48र्न्यक्कृतार्धेन्दुभाभि– र्गौरो गौरेव जातः क्षणमिव महिषः सावतादम्बिका वः ॥४८॥

हे भव शिव, ते वृद्धोक्षो वृद्धवृषो न क्षमः, अधुना एव महिषो भवद्वाहो भवत्विति केलिकान्तं यथा स्यादेवं विहस्य देवं शिवं प्रति झटिति यया महिषः पादेन क्षिप्तः सा अम्बिका वोऽवतात्। कथंभूतो महिषः।अतनुभिर्न्यक्कृतार्धेन्दुभाभिर्दन्तज्योत्स्नावितानैर्गौरः शुभ्रः, अतः क्षणमिव क्षणमात्रं गौरेव वृष एव जातः ॥

प्राक्कामं दहता कृतः परिभवो येन त्रिसंध्यानतैः49
सेर्ष्या वोऽवतुचण्डिका चरणयोः स्वंपातयन्ती पतिम्।
कुर्वत्याभ्यधिकं कृते प्रतिकृतं मुक्तेन मौलौ मुहु–
र्बाष्पेणाहितकज्जलेन लिखितं स्वं50नाम चन्द्रे यया॥४९॥

त्रिसंध्यानतैस्त्रिसंध्यानमनैः स्वंपतिं चरणयोः पातयन्ती चण्डिका वोऽवतु। येन पत्या प्राक्पूर्वं कामं दहता परिभवः कृतः। अत एव सेर्ष्या। यया चण्डिकया कृतेऽभ्यधिकं प्रतिकृतं कुर्वत्या आहितकज्जलेन मुहुर्मौलौ मुक्तेन बाष्पेण स्वं नाम चन्द्रे लिखितम्। हरेण गौरीसमक्षं कामो दग्धः, तया च काममुत्पादयन्त्या

हरश्चरणयोः पातित इति कृताभ्यधिकं प्रतिकृतम्॥

तुङ्गां51

श्रृङ्गाग्रभूमिं श्रितवति मरुतां प्रेतकाये52 निकाये
कुञ्जौत्सुक्याद्विशत्सु श्रुतिकुहरपुटं द्राक्ककुप्कुञ्जरेषु।
स्मित्वा वः संहृतासोर्दशनरुचिकृताकाण्डकैलासभासः
पायात्पृष्ठाधिरूढे स्मरमुषि महिषस्योच्चहासेव देवी ॥५०॥

स्मित्वा संहृतासोर्दशनरुचिकृताकाण्डकैलासभासो महिषस्य प्रेतकाये मरुतां निकाये देवसमूहे श्रृङ्गाग्रभूमिं श्रितवति सति। ककुप्कुञ्जरेषु दिग्गजेषु कुञ्जौत्सुक्याच्छ्रुतिकुहरपुटं द्राक् विशत्सु सत्सु। स्मरमुषि शिवे पृष्टाधिरूढे सति उच्चहासेव देवी वः पायात् ॥

कृत्वा पातालपङ्के53 क्षयरयमिलितैकार्णवेच्छावगाहं
दाहान्नेत्रत्रयाग्नेर्विलयनविगलच्छृङ्ग54शून्योत्तमाङ्गः।
क्रिडाक्रोडाभिशङ्कां विदधदपिहितव्योमसीमा महिम्ना
वीक्ष्य क्षुण्णो ययारिस्तृणमिव महिषः सावतादम्बिका55 वः॥५१॥

यया महिषोऽरिर्वीक्ष्य तृणमिव क्षुण्णश्चूर्णीकृतः साम्बिका वोऽवतात्। किं कृत्वा। क्षयरयेण प्रलयवेगेन मिलितः स चासावेकार्णवश्च तत्रेच्छयावगाहस्तं पातालपङ्के कृत्वा। यथादिवराहः प्रलयैकार्णवेऽवगाहं कृतवान्, तथानेन पातालपङ्के कृतमिति भावः। कथंभूतः। नेत्रत्रयाग्नेर्दाहाद्विलयनं तेन विगलन्ती ये शृङ्गे ताभ्यां शून्यमुत्तमाङ्गं शिरो यस्य। पुनः कथंभूतः। महिम्ना महत्त्वेनापिहितव्योमसीमाच्छादितगगनप्रान्तः। अत एव क्रीडाक्रोडाभिशङ्कां लीलावराहभ्रान्तिं विदधत्कुर्वाणः॥

शूले शैलाविकम्पं न निमिषितमिषौ पट्टिशे साट्टहासं
प्रासे सोत्प्रासमव्याकुलमपि56 कुलिशे जातशङ्कं न शङ्कौ।

चक्रेऽवक्रं57कृपाणे न कृपणमसुरारातिभिः पात्यमाने
दैत्यं पादेन देवी महिषितवपुषं

पिंषती वः पुनातु॥५२॥

महिषितवपुषं दैत्यं पादेन

पिंषती चूर्णयन्ती देवी वः पुनातु। किंभूतम्। असुरारातिभिर्देवैः पात्यमाने शूले शैलवदविकम्पम्। इषौ शरे न निमिषितं निर्निमेषलोचनम्। पट्टिशे साट्टहासम्। प्रासे कुन्ते सोत्प्रासं समनाक्स्मितम्। कुलिशे वज्रेऽपि अव्याकुलम्। शङ्कौ आयुधविशेषे न जातशङ्कम्। चक्रेऽवक्रं सरलमेव स्थितम्। कृपाणे खड्गेन कृपणं न दीनम्। असुरारातिभिः पात्यमाने इति सर्वत्र योज्यम्॥

चक्रे चक्रस्य नास्त्र्यान च खलु परशोर्न क्षुरप्रस्य नासे–
र्यद्वक्रं कैतवाविष्कृतमहिषतनौ विद्विषत्याजिभाजि।
प्रोतात्प्रासेन मूर्ध्नः सघृणमभिमुखायातया कालरात्र्या
कल्याणान्याननाब्जं सृजतु तदसृजो धारया वक्रितं वः॥५३॥

यच्चक्रस्य। अर्थान्महिषक्षिप्तस्य। अस्त्र्याधारया वक्रं न चक्रे। न च खलु परशोः कुठारस्य, अस्त्र्याः। न क्षुरप्रस्य बाणविशेषस्य। न चासेः खड्गस्य। कस्मिन्सति। कैतवाविष्कृतमहिषतनौ कपटमहिषे विद्विषति शत्रौ आजिभाजि युद्धं कुर्वति सति। किं तु प्रासेन कुन्तेन प्रोतान्मूर्ध्नो महिषमस्तकादभिमुखायातया संमुखागतया असृजो रुधिरस्य धारया सघृणं यथा स्यादेवं वक्रितंतत्कालरात्र्या भगवत्या आननाब्जं मुखकमलं वः कल्याणानि सृजतु करोतु। सङ्ग्रामे नानायुधपातेऽपि भगवत्या मुखं न कूणितम्। किं तु संमुखमापतन्त्या महिषमस्तकोद्भूतरुधिरधारया घृणया कूणितमिति भावः॥

हस्तादुत्पत्य यान्त्या गगनमगणिताधैर्यवीर्यावलेपं
वैलक्ष्येणेव पाण्डुद्युतिमदितिसुतारातिमापादयन्त्याः।
दर्पानल्पाट्टहासद्विगुणतरसिताः58 सप्तलोकीजनन्या–
स्तर्जन्या जन्यदूतो नखरुचि59ततयस्तर्जयन्त्या जयन्ति॥ ५४॥

तर्जयन्त्या भर्त्सयन्त्या। अर्थाद्दैत्यान्। सप्तलोकीजनन्या जगदम्बाया

स्तर्जन्याः प्रदेशिन्या नखरुचिततयो जयन्ति। कथंभूताः। जन्यस्य सङ्ग्रामस्य दूत्यः सङ्ग्रामसूचिकाः। कथंभूताः। दर्पेणानल्पो योऽट्टहासस्तेन द्विगुणतरं सिता अधिकशुक्लीभूताः। कथंभूतायाः। हस्तात्। अर्थात्कंसस्य। उत्पत्य गगनं यान्त्याः। पुनः कथंभूतायाः। अगणितोऽधैर्येण कातरत्वेन वीर्यावलेपो येन तमदितिसुतारातिं देवशत्रुं कंसं वैलक्ष्येणेव पाण्डुद्युतिं धवलमापादयन्त्याः॥

प्रालेयाचलपल्वलैकबिसिनी सार्यास्तु वः श्रेयसे
यस्याः पादसरोजसीम्नि महिषक्षोभात्क्षणं विद्रुताः।
निष्पिष्टे पतितास्त्रिविष्टपरिपौ गीत्युत्सवोल्लासिनो
लोकाः सप्त सपक्षपातमरुतो भान्ति स्म भृङ्गा इव॥५५॥

प्रालेयाचलो हिमालयः स एव पल्वलं सरस्तत्रैका मुख्या बिसिनी पद्मिनी आर्या गौरी वः श्रेयसेऽस्तु। यस्याः पादसरोजसीम्नि चरणकमलपर्यन्ते सप्त लोका भृङ्गा इव भान्ति स्म। कथंभूताः। महिषक्षोभात्क्षणं विद्रुताः, त्रिविष्टपरिपौ महिषे निष्पिष्टे सति पतिताः पुनर्मिलिताः। पुनः कथंभूताः। गीत्युत्सवोल्लासिनः। पुनः। सपक्षपाताः पक्षपातसहिता मरुतो देवा येषांते। पद्मस्थिता भ्रमरा अपि महिषादिक्षोभे सति क्षणं विद्रवन्ते क्षोभे निवृत्ते पुनरागच्छन्ति, गीत्युत्सवोल्लासिनः पक्षपातसमुत्पन्नेन महता सहिताश्च भवन्ति॥

आप्राप्येषु60रुदासितासिरशनेरारात्कुतः शङ्कत–
श्चक्रव्युक्रमकृत्परोक्षपरशुः शूलेन शून्यो यया।
मृत्युर्दैत्यपतेः कृतः सुसदृशः पादाङ्गुलीपर्वतः61
पार्वत्या प्रतिपाल्यतां त्रिभुवनं निःशल्यकल्यं तया॥५६॥

तया पार्वत्या त्रिभुवनं परिपाल्यताम्। कथंभूतम्। निःशल्यकल्यं निर्गतेन महिषरूपशल्येन निरातुरम्। यया पार्वत्या दैत्यपतेर्महिषस्य पादाङ्गुलीपर्वतः सुसदृशो मृत्युः कृतः। कथंभूतो मृत्युः। अप्राप्येषुर्बाणागोचरः। उदासितासिर्निर्व्यापारः खड्गो यत्र तादृशः। अशनेर्वज्रस्याराद्दूरे वर्तमानः। कुतः। शङ्कुतः। यो वज्रादीनामप्यसाध्यः स शङ्कुतः कुतः साध्य इति भावः। चक्रव्युक्रमकृदतिक्रान्तचक्रः। परोक्षः परशुर्यत्र सः। शूलेन शून्यः॥

नष्टानष्ष्टौ गजेन्द्रानवत न वसवः किं दिशो द्राग्गृहीताः
शार्ङ्गिन्सङ्ग्रामयुक्त्या लघुरसि गमितः साधु तार्क्ष्येणतैक्ष्ण्यम्।
उत्खाता नेत्रपक्तिर्न तव समरतः62 पश्य नश्यद्वलं स्वं

स्वर्नाथेत्यात्तदर्पं व्यसुमसुरमुमा कुर्वती त्रायतां वः॥५७॥

इत्यमुना प्रकारेणात्तदर्पं गृहीतगर्वमसुरं महिषं व्यसुं गतप्राणं कुर्वती उमा वस्त्रायताम्। इतीति कथम्। हे वसवः, नष्टान्पलायितानष्टौ गजेद्वान्दिग्गजान्न अवत, किं दिशो दाक् गृहीताः यूयमपि पलायिताः। हे शार्ङ्गिन् विष्णो, तार्क्ष्येण गरुडेन तैक्ष्ण्यं शीघ्रतां गमितः सङ्ग्रामयुक्त्या लघुरसि इति साधु युक्तम्। हे स्वर्नाथ इन्द्र तव नेत्रपङ्क्तिर्नोत्खाता केनापि नोत्पाटिता, अतस्त्वं समरतः सङ्ग्रामान्नश्यत्स्वं बलं सेनां पश्य॥

श्रुत्वा शत्रुंदुहित्रा निहतमतिजडोऽप्यागतोऽह्नाय हर्षा–
दाश्लिष्यञ्छैलकल्पं महिषमवनिभृद्वान्धवो विन्ध्यबुद्ध्या।
यस्याः श्वेतीकृतेऽस्मिन्स्मितदशनरुचा तुल्यरूपो हिमाद्रि–

र्द्राग्द्राघीयानिवासीदवतमसनिरासाय63 सा स्तादुमा वः॥५८॥

सा उमा वोऽवतमसनिरासाय अज्ञानान्धकारदूरीकरणाय स्ताद्भवतु।साका। यस्याः स्मितेया दशनरुक्तया श्वेतीकृतेऽस्मिन्महिषे तुल्यरूपो हिमाद्रिर्द्राघीयानितवासीत्। कथंभूतः। दुहित्रा पार्वत्या निहतं शत्रुं महिषं श्रुत्वातिजडोऽप्यह्नाय शीघ्रं हर्षादागतो विन्ध्यबुद्ध्या शैलकल्पं महिषमाश्लिष्यन्। कीदृशः। अवनिभृतः पर्वता बान्धवा यस्य तादृशः॥

क्षिप्तोऽयं मन्दराद्रिः पुनरपि भवता वेष्ट्यतां वासुकेऽब्धौ64
प्रीयस्वानेन65 किं ते बिसतनुतनुभिर्भक्षितस्तार्क्ष्य नागैः।

अष्टाभिर्दिग्गजेन्द्रः सह न हरिकरी कर्षतीमं हते वो
ह्रीमत्या हैमवत्यास्त्रिदशरिपुपतौ66 पान्त्विति व्याहृतानि॥५९॥

त्रिदशरिपुपतौ महिषे हते ह्रीमत्या लज्जिताया हैमवत्याः पार्वत्या इति व्याहतानि वः पान्तु। हे वासुके, अयं मन्दराद्रिर्मन्दराद्रितुल्यो महिषोऽब्धौ समुद्रे क्षिप्तो भवता पुनरपि वेष्ट्यताम्। हे तार्क्ष्य गरुत्मन्, अनेन महिषेण प्रीयस्वतृप्तो भव। बिसतनुतनुभिर्मृणालकोमलैर्नागैर्भक्षितैस्ते किम्। इमं महिषमष्टाभिर्दिग्गजेन्द्रैः सह हरिकरी ऐरावतो न कर्षति॥

एष प्लेष्टा पुराणां त्रयमसुहृदुरः पाटनोऽयं नृसिंहो
हन्ता त्वाष्ट्रं द्युराष्ट्राधिप इति विविधान्युत्सवेच्छाहृतानाम् ।
विद्राणानां विमर्दे दितितनयमये नाकलोकेश्वराणा–
मश्रद्धेयानि कर्माण्यवतु विदधती पार्वती वो हतारिः॥६०॥

दितितनयमये विमर्दे दैत्यसङ्ग्रामे विद्राणानां पलायितानां पुनर्महिषवधानन्तरमुत्सवेच्छयाहृतानामेकीभूतानां नाकलोकेश्वराणामिन्द्रादीनामश्रद्धेयान्यसंभावनीयानि विविधानि कर्माणि विदधती कुर्वती हतारिः पार्वती वोऽवतुरक्षतु। एष पुराणां त्रयं प्लोष्टा। यद्यनेन त्रिपुरदाहः कृतः किमिति महिषसङ्ग्रामे पलायित इति भावः। एवमग्रेऽपि योज्यम् । असुहृदुरःपाटनोऽयं नृसिंहः। अयं त्वाष्ट्रं वृत्रं हन्ता द्युराष्ट्राधिप इन्द्रः॥

शत्रौ शातत्रिशूलक्षतवपुषि रुषा प्रेषिते67 प्रेतकाष्ठां
काली कीलालकुल्यात्रयमधिकरयं68 वीक्ष्य विश्वासितद्यौः।
त्रिस्रोतास्त्र्यम्बकेयं वहति तव भृशं पश्य रक्ता विशेषा–

न्नोमूर्ध्ना धार्यते किं हसितपतिरिति प्रीतये कल्पतां वः॥६९॥

शातत्रिशूलक्षतवपुषि शत्रौ रुषा प्रेतकाष्ठां यमदिशं प्रेषिते सति अधिकरयमधिकवेगयुक्तं कीलालकुल्यात्रयं रुधिरधारात्रयं वीक्ष्य इति हसितपतिः काली वः प्रीतये कल्पताम्। इतीति किम्। हे त्र्यम्बक, इयं विश्वासितद्यौः परिचितद्यौ रक्ता रक्तवर्णानुरक्ता च त्रिस्रोता वहति पश्य। इयं तव मूर्ध्ना भृशं किं भो धार्यते॥

शृङ्गे पश्यो69र्ध्वयाधिकतरमतनुः सन्न पुष्पायुधोऽस्मि

व्यालासङ्गेऽपि नित्यं न भवति भवतो भीर्नयज्ञोऽस्मि येन।
त्वं मुञ्चोच्चैः पिनाकिन्पुनरपि विशिखं दानवानां पुरोऽहं
पायात्सोत्प्रासमेवं हसितहरमुमा मृद्गती दानवं वः॥६२॥

एवं सोत्प्रासं समनाक्सि्मतं यथा स्यात्तथा हसितहरं दानवं महिषं मृद्गती उमा वः पायात्।एवं कथम्। हे पिनाकिन्, ऊर्ध्वदृष्ट्या तृतीयलोचनेन मम शृङ्गे विषाणद्वयमधिकतरं पश्य।किं त्वहमतनुः सन्न पुष्पायुधः कामोऽस्मि। कामोऽप्यतनुरनङ्गः, अहं चातनुरकृशः।यथा स्वयोर्ध्वदृष्ट्या कामो दुग्धस्तथाहं दग्धुं न शक्यः। अथ च व्यालस्य बाणस्यासङ्गेऽपि भवतो नित्यं भीर्न भवति। यतोऽहं यज्ञो नास्मि। यथा तव बाणपातभीत्या यज्ञः पलायितस्तथा नाहम्। व्यालाः सर्पाश्च तेषामासङ्गेऽपि मम भीर्न, यतोऽहं नयज्ञो गारुडशाखज्ञोऽस्मि। अहं दानवानां पुरः पुरत्रयमस्मि त्वं पुनरपि विशिखं बाणचैर्मुञ्च।पक्षे दानवानां पुरोऽग्रे अस्मि।दानवाग्रेसरोऽहमिति भावः। ‘व्यालः स्याद्बाणसर्पयोः॥

नन्दीशोत्सार्यमाणापसृतिसमनमन्नाकिलोकं70 नुवत्या
नप्तुर्हस्तेन हस्तं तदनुगतगतेः षण्मुखस्यावलम्ब्य।
जामातुर्मातृमध्योपगमपरिहृते दर्शने शर्म दिश्या-
न्नेदीयच्चुम्ब्यमाना71 महिषवधमहे मेनया मूर्ध्न्युमा वः॥६३॥

महिषवधमहे मेनया हिमवद्भार्यया मूर्ध्नि चुम्ब्यमाना उमा वः शर्म दिश्यात्। किंभूतया मेनया। नन्दीशेन उत्सार्यमाणं अपसृतिसमं अपसरणकालतुल्यं नाकिलोकं नुवत्या स्तुवत्या। किं कृत्वा। तदनुगतगतेः षण्मुस्वस्य हस्तं हस्तेनालम्ब्य। कस्मिन्सति।जामातुर्दर्शने मातृमध्योपगमपरिहृते सति। नेदीयः समीपम्, अर्थाज्जमातुः, गौरी मेनया चुम्बिता॥

भक्त्या भृग्वत्रिमुख्यैर्मुनिभिरभिनुता बिभ्रती नैव गर्वं
शर्वाणी शर्मणे वः प्रशमितसकलोपप्लवा सा सदास्तु।
या पाष्णिक्षुण्णशत्रुर्विगलितकुलिशप्रासपाश72त्रिशूलं
नाकौकोलोकमेव73 स्वमपि भुजवनं संयुगेऽवस्त्वमंस्त॥६४॥

भक्त्या भृग्वत्रिमुख्यैर्मुनिभिरभिनुता, तथा गर्वंनैव बिभ्रती, प्रशमितसकलोपप्लवा सा शर्वाणी वः शर्मणे सदास्तु। या पार्ष्णिक्षुण्णशत्रुर्नाकौकोलोकं देवलोकं स्वंभुजवनमप्यवस्त्वपदार्थममंस्त। कथंभूतम्। संयुगे विगलितकुलिशप्रासपाशत्रिशूलम्।देवहस्तेभ्यो भयेन भवानीभुजेभ्यश्च प्रहारार्थं कुलिशादीनि गलितानि॥

चक्रं शौरेः प्रतीपं प्रतिहतमगम74त्प्राग्द्युधाम्नांतु पश्चा–

दापच्चापं बलारेर्न परमगुणतां पूस्त्रयप्लेषिणोऽपि।
शक्त्यालं मां विजेतुं न जगदपि शिशौ षण्मुखे का कथेति
न्यक्कुर्वन्नाकिलोकं रिपुरवधि यया सावतात्पार्वती वः॥६५॥

इत्यमुना प्रकारेण नाकिलोकं न्यक्कुर्वन्यया रिपुरवधि शत्रुर्हतः सा पार्वती वोऽवतात्। इतीति किम्। शौरेर्विष्णोश्चक्रं सुदर्शनं प्रतिहतं सत्प्राक्प्रथमं प्रतीपमगमत्, द्युधाम्नां देवानां तु चक्रं सैन्यं पश्चात्। बलारेरिन्द्रस्य चाप परं केवलमगुणतां नापत्, पूस्त्रयप्लेषिणः शिवस्यापि। शक्त्या सामर्थ्येन मां जेतुं जगदपि नालं न समर्थम्, शिशौ बाले षण्मुखे का कथा। षण्मुखः शक्त्यायुधविशेषेण मां जेष्यतीति दूरापास्तमिति भावः॥

विद्राणे75 रुद्रवृन्दे सवितरि तरले वज्रिणिध्वस्तवज्रे
जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे।
वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं
निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी॥६६॥

रुद्रवृन्दे विद्राणे पलायिते सति, सवितरि सूर्ये तरले सति, वज्रिणीन्द्रे ध्वस्तवज्रेसति, शशाङ्के जाताशङ्के सति, मरुति वायौ विरमति सति, कुबेरे त्यक्तवैरे सति, वैकुण्ठे विष्णौ कुण्ठितास्त्रे सति, अतिरुषं पौरुषोपघ्ननिघ्नं पौरुषाश्रयाधीनं महिषं निर्विघ्नं यथा स्यादेवं निघ्नती भूरिभावा भवानी वो दुरितं शमयतु॥

भूषां भूयस्तवाद्य द्विगुणतरमहं दातुमेवैष लग्नो
भग्नेदैत्येन दर्पान्महिषितवपुषा किं विषाणे विषण्णः।
इत्युक्त्वा पातु मातुर्महिषवधमहे कुञ्जरेन्द्राननस्य

न्यस्यन्नास्ये गुहो वः स्मितसितरुचिनी द्वेषिणो द्वे विषाणे॥६७॥

मातुर्महिषवधमहे महिषवधोत्सवे इत्युक्त्वा द्वेषिणो महिषस्य द्वे विषाणे शृङ्गद्वयं कुञ्जरेन्द्राननस्य गणपतेरास्ये मुखे न्यस्यन्क्षिपन्गुहो वः पातु। कथंभूते विषाणे।स्मितसितरुचिनी स्मितेन धवलकान्ती। इतीति किम्। हे गजानन, महिषितवपुषा दैत्येन विषाणे दन्ते भग्ने सति त्वं किं विषण्णः खिन्नः, अहमेष द्विगुणतरं यथा स्यादेवं भूयः पुनरपि तवाद्य भूषां दातुं लग्न एव॥

विश्राम्यन्ति श्रमार्ता इव तपनभृतः सप्तयः सप्त यस्मि–
न्सुप्ताः सप्तापि लोकाः स्थितिमुषि महिषे यामिनीधाम्नियत्र।
धाराणां रौधिरीणामरुणिमनि नभःसान्द्रसंध्यां दधान–
स्तस्य ध्वंसात्सुताद्रेरपरदिनपतिः पातु वः पादपातैः॥६८॥

अपरदिनपतिर्द्वितीयः सूर्योऽद्रेः सुता पार्वती वः पातु। कथंभूतोऽपरदिनपतिः।यामिनीधाम्नि रात्रितुल्यवर्णे। कृष्णवर्ण इति यावत्। स्थितिमुषिलोकव्यवहारनाशके महिषे सति यस्मिञ्श्रमार्ता इव तपनभृतः सूर्यस्य सप्त सप्तोयोऽश्वा विश्राम्यन्ति। किं च यत्र सप्तापि लोकाः सुप्ता इव सन्ति, तस्य महिषस्य पादपातैश्चरणप्रहारैर्ध्वंसान्नाशात् रौधिरीणां रुधिरसंबन्धिनीनां धाराणामरुणिमनि रक्तत्वे नभः सान्द्रसंध्यां नभसि या सान्द्रा निबिडा संध्या तां दधानः।सूर्योऽपि निखिललोकस्थितिहारिणीं विश्रामकारिणीं रात्रिं पादपातैः किरणपनैर्नाशयति। रक्तवर्णां संध्यां च धारयति॥

देवारेर्दानिवारेर्द्रुतमिह महिषच्छद्मनः पद्मसद्मा
विद्रातीत्यत्र चित्रं तव किमिति भवन्नाभिजातो यतः सः।
नामीतोऽभूत्स्वयंभूरिव समरभुवि त्वं तु यद्विस्मितास्मी76

त्युक्त्वा तद्विस्मितं वः स्मररिपुमहिषीविक्रमेऽव्याज्जयायाः77॥६९॥

स्मररिपोः शिवस्य महिष्याः पार्वत्या विक्रमे जयाया इत्युक्त्वा तद्विस्मितं विस्मयो वः पातु।इतीति किम्। महिषच्छद्मनो देवारेः सकाशात्पद्मसद्मा ब्रह्मा द्रुतं विद्राति पलायत इत्यत्र तव किं चित्रम्। यतः स दानवारेर्विष्णोर्नाभिजातोविष्णुनाभिसमुत्पन्नो भवन्वर्तते। अथ च अभिजातः कुलीनो न कुलीनस्य पलायनमनुचितम्। अत्र हे शिव इति संबोधन पदमध्याहार्यम्। यत्समरभुवि त्वं तु त्वमपि स्वयंभूरिव ब्रह्मेव नाभीतो नाभिसकाशात्, अथ च अभी तो निर्भयो नाभूत्, तद्विस्मितास्मि॥

निस्त्रिंशेनोचितं ते विशसनमुरसश्चण्डि कर्मास्य घोरं

व्रीडामस्योपरि त्वं कुरु दृढहृदये78 मुञ्च शस्त्राण्यमूनि।
इत्थं दैत्यैः सदैन्यं समदमपि सुरैस्तुल्यमेवोच्यमाना
रुद्राणी दारुणं वो द्रवयतु दुरितं दानवं दारयन्ती॥७०॥

** **इत्थममुना प्रकारेण सदैन्यं दैत्यैः समदं सहर्षं च सुरैस्तुल्यमेवोच्यमाना दानवं महिषं दारयन्ती रुद्राणी वो दारुणं दुरितं द्रवयतु। इत्थं कथम्। हे निस्त्रिंशे निर्दये, उरसः, अर्थान्महिषस्य, विशसनं ते नोचितम्। हे चण्डि, घोरं कर्म महिषवधरूपमस्य क्षिप। ‘असु क्षेपणे’।अस्योपरि त्वं व्रीडां कुरु। पशुवधेन लज्जा भवति। हे दृढहृदये, हृढमपराधसहिष्णु हृदयं यस्यास्तत्संबुद्धौ। अमूनि शस्त्राणि मुञ्च दूरे परिहर। इत्थं दैत्यैरुच्यमाना। देवैस्तु— हे चण्डि, निस्त्रिंशेन खड्गेनोरसः, अर्थान्महिषस्य वक्षसः, ते विशसनमुचितम्। यतोऽस्य कर्म घोरं वर्तते। व्रीडामस्योपरि त्वं कुरु। यदि महिषवधोन क्रियते तदा महती ब्रीडा तव भविष्यतीति भावः। हे दृढहृदये कठिनहृदये, अमूनि शस्त्राण्यस्योपरि मुञ्च। सर्वैः शस्त्रैर्युगपदेव प्रहर॥

चक्षुर्दिक्षु क्षिपन्त्याश्चलितकमलिनीचा रुकोषाभिताम्रं
मन्द्रध्वानानुयातं झटिति वलयिनो मुक्तबाणस्य पाणेः।
चण्ड्याः सव्यापसव्यं सुररिपुषु शरान्प्रेरयन्त्या जयन्ति
त्रुट्यन्तः पीनभागे स्तनवलनभरात्संधयः कञ्चुकस्य॥७१॥

स्तनवलनभरात्पीनभाग उपचितप्रदेशे त्रुट्यन्तश्चण्ड्याः कञ्चुकस्य संधयो जयन्ति। कथंभूतायाः।चलितकमलिनीचारुकोषाभिताम्रम्, अथ च वलयिनो झटिति मुक्तबाणस्य पाणेर्हस्तस्य मन्द्रध्वानेनानुयातं चक्षुर्दिक्षु क्षिपन्त्याः। पुनः कथंभूतायाः। सव्यापसव्यं सुररिपुषु शरान्प्रेरयन्त्याः॥

बाहूत्क्षेपसमुल्लसत्कुचतटं प्रान्तस्फुटत्कञ्चुकं
गम्भीरोदरनाभिमण्डलगलत्काञ्चीधृतार्धांशुकम्।
पार्वत्या79 महिषासुरव्यतिकरे व्यायामरम्यं80 वपुः
पर्यस्तावधिबन्धबन्धुरलसत्केशोच्चयं पातु वः॥७२॥

महिषासुरव्यतिकरे बाहूत्क्षेपसमुल्लसत्कुचतटम्, प्रान्तस्फुटत्कञ्चुकम् गम्भीरोदरनाभिमण्डलगलत्काञ्चीधृतार्धांशुकम्, व्यायामरम्यम्, पर्यस्तावधिबन्धबन्धुरलसत्केशोच्चयं पार्वत्या वपूर्वः पातु॥

चक्रं चक्रायुधस्य क्वणति निपतितं रोमणि ग्रावणीव
स्थाणोर्वाणश्च लेभे प्रतिहतिमुरुणा चर्मणा वर्मणेव।
यस्येति क्रोधगर्भं हसितहरिहरा तस्य गीर्वाणशत्रोः
पायात्पादेन मृत्युं महिषतनुभृतः कुर्वती पार्वती वः॥७३॥

क्रोधगर्भम् इति हसितहरिहरा महिषतनुभृतस्तस्य गीर्वाणशत्रोर्मृत्युं पादेन कुर्वती पार्वती वः पायात्। इतीति किम्। ग्रावणि पाषाणे इव यस्य रोमणि, अर्थान्महिषस्य निपतितं चक्रायुधस्य चक्रं क्वणति। स्थाणोः शिवस्य बाणश्चउरुणा चर्मणा वर्मणा कवचेनेव प्रतिहतं प्रतिघातं लेभे। विष्णोश्चक्रमस्य रोममपि नाच्छिनत्। शिवस्य बाणश्चास्य चर्ममात्रमपि नाभिनदिति भावः॥

कृत्वा वक्रेन्दुबिम्बं चलदलकलसद्भू्लताचापभङ्गं
क्षोभ81व्यालोलतारं स्फुरदरुणरुचिस्फारपर्यन्तचक्षुः।
संध्यासेवापराद्धं भवमिव पुरतो वामपादाम्बुजेन

क्षिप्रं दैत्यं क्षिपन्ती महिषितवपुषं पार्वती वः पुनातु॥७४॥

संध्यायाः सेवा तयापराद्धं कृतापराधं भवं शिवमिव वामपादाम्बुजेन महिषितवपुषं दैत्यं पुरतः क्षिप्रं क्षिपन्ती पार्वती वः पुनातु। किं कृत्वा। चलदलकलसद्भ्रूलताचापभङ्गं, क्षोभव्यालोलतारं, स्फुरदरुणरुचिस्फारपर्यन्तचक्षुर्वक्रेन्दुबिम्बं कृत्वा॥

गङ्गासंपर्कदुप्यत्कमलवनसमुद्धूतधूलीविचित्रो
वाञ्छासंपूर्णभावादधिकतररसं तूर्णमायान्समीपम्।
क्षिप्तः पादेन दूरं वृषग इव यथा वामपादाभिलाषी
देवारिः कैतवाविष्कृतमहिषवपुः सावतादम्बिका वः॥७५॥

कैतवाविष्कृतमहिषवपुर्देवारिर्यया वृषगः शिव इव पादेन दूरं क्षिप्तः साम्बिका वोऽवतात्। कथंभूतो देवारिर्वृषगश्च। गङ्गासंपर्कदुष्यत्कमलवनसमुद्धूतधूलीविचित्रः। पुनः कथंभूतः। वाञ्छासंपूर्णभावादधिकतररसं यथा स्यादेवं तूर्णं समीपमायानागच्छन्। कथंभूतः। वामपादाभिलाषी प्रसादयितुमपकर्तुं च वामपादे लगितुकामः॥

भद्रे भ्रूचापमेतन्नमयसि82 नु वृथा विस्फुरन्नेत्रवाणं
नाहं केलौरहस्ये प्रतियुवतिकृतख्यातिदोषः पिनाकी।
देवी सोत्प्रासमेवं धृतमहिषतनुं83 दृप्तमन्तःसकोपं

देवारिं पातुयुष्मानतिपरुषपदा निघ्नती भद्रकाली॥७६॥

एवं सोत्प्रासं दृप्तमन्तःसकोपं धृतमहिषतनुं देवारिमतिपरुषपदात्यन्तकठोरचरणेन निघ्नती भद्रकाली देवी युष्मान्पातु। एवं कथम्। हे भद्रे, विस्फुरन्नेत्रबाणमेतद्भूचापं वृथा नमयसि नु। रहस्ये केलौ प्रतियुवत्याः सपत्नाकृतः ख्यातिदोषो येन तादृशः पिनाकी नाहम्। नाहं कृतगोत्रस्खलनः शिव इति भावः॥

अन्योन्यासङ्गगाढव्यतिकरदलितभ्रष्टकापालमालां84
स्वां भोः संत्यज्य शंभौ85 खुरपुटदलितप्रोल्लसद्धूलिपाण्डुः।
भद्रे क्रीडाभिमर्दी86तव सविधमहं कामतः प्राप्त ईशो–
ऽत्रैवं87 सोत्प्रासमव्यान्महिषसुररिपुं निघ्नती पार्वती वः॥७७॥

एवं सोत्प्रासंमहिषसुररिपुं निघ्नती पार्वती वोऽव्यात्। एवं कथम्। भो भद्रे, अन्योन्यासङ्गेन यो गाढव्यतिकरस्तस्मिन्दलिता अत एव भ्रष्टा या कपालसंबन्धिनी माला तां स्वां मालां शंभौ संत्यज्य खुरपुटदलितप्रोल्लसद्धूलिपाण्डुः क्रीडयाभिमर्दो गाढालिङ्गनम्, पक्षे सङ्ग्रामः स यस्य सोऽहमीशस्तव सविधं कामतोऽत्र प्राप्तः॥

ज्वालाधाराकरालं ध्वनित88कृतभयं यं89 प्रभेत्तुं न शक्तं
चक्रं विष्णोर्दृढास्रि90प्रतिविहतरयं91 दैत्यमालाविनाशि92
क्षुण्णस्तस्यस्थिसारो विबुधरिपुपतेः93 पादपातेन यस्या
रुद्राणी पातु सा वः प्रशमितसकलोपप्लवा94 निर्विघातम्॥७८॥

सा प्रशमितसकलोपप्लवा रुद्राणी निर्विघातं वः पातु। सा का। यस्याः पादपातेन तस्य विबुधरिपुपतेर्महिषस्यास्थिसारः क्षुण्णः पिष्टः। तस्य कस्य। ज्वालाधाराकरालं ध्वनितकृतभयं दृढास्रिदैत्यमालाविनाशि विष्णोश्चक्रं प्रतिविहतरयं सत्यं प्रभेत्तुं न शक्तम्॥

गाढावष्टम्भपादप्रबल95भरनमत्पूर्वकायोर्ध्वभागं

दैत्यं संजातशिक्षं96 जनमहिषमिव न्यक्कृताग्र्याङ्गभागम्97

आरूढा शूलपाणिः कृतविबुधभयं98 हन्तुकामं सगर्वं
देयाद्वश्चन्तितानि द्रुतमहिषवधावाप्ततुष्टिर्भवानी॥७९॥

गाढावष्टम्भपादस्य प्रबलभरेण नमत्पूर्वकायोर्ध्वभागं न्यक्कृताग्र्याङ्गभागम्, अत एव संजातशिक्षं शिक्षितं जनमहिषमिव लौकिकं महिषमिव आरूढा, शूलपाणिः, द्रुतमहिषवधावाप्ततुष्टिर्भवानी वश्चिन्तितानि देयात्। कथंभूतम्। कृतविबुधभयम्, हन्तुकामम्, सगर्वम्॥

ब्रह्मा99 योगैकतानो विरहभव100भयाद्धूर्जटिः स्त्रीकृतात्मा101
वक्षः शौरेर्विशालं प्रणयकृतपदा पद्मवासाधिशेते।
युद्धक्ष्मामेवमेते विजहतु धिगिमं102यस्त्यजत्येष शक्रो
दृप्तं103 दैत्येन्द्रमेवं सुखयतु समदा निघ्नती पार्वती वः॥८०॥

ब्रह्मा योगैकतानो योगनिष्ठः। विरहभवभयाद्धूर्जटिः शिवः स्त्रीकृतात्मा। शौरेर्विष्णोर्विशालं वक्षः पद्मवासा लक्ष्मीरधिशेते। एवमेते युद्धक्ष्मां सङ्ग्रामभूमिं विजहतु नाम। किं तु य एष शक्रो युद्धभूमिं त्यजति इमं धिक्। एवं दृप्तं सगर्व दैत्येन्द्रं निघ्नती समदा पार्वती वः सुखयतु॥

एवं मुग्धे किलासीः करकमलरुचा104 मा मुहुः केशपाशं
सोऽस्त्रीणां रतादौ कलहसमुचितो यः प्रिये दोषलब्धे105
वैदग्ध्यादेवमन्तः कलुषितवचनं दुष्टदेवारिनाथं
देवी वः पातु पार्ष्ण्यादृढतनुमसुभिर्मोचयन्ती भवानी॥ ८१॥

हे मुग्धे, एवं करकमलरुचा किल केशपाशं मुहुः मा आसीः मा क्षिप। यः दोषलब्धे प्रिये अन्यस्त्रीणां रतादौ कलहसमुचितः। एवं वैदग्ध्यादन्तःकलुषितवचनं दुष्टाश्च ते देवारयो दैत्यास्तेषां नाथं महिषं दृढतर्नु पार्ष्ण्याअसुभिर्मोचयन्ती भवानी देवी वः पातु॥

बालोऽद्यापीशजन्मा समरमुडुप106भृत्पांसुलीलाविलासी107
नागास्यः शातदन्तः स्वतनुकरमदाद्विह्वलः सोऽपि शान्तः।
धिग्यासि क्वेति दुष्टं108 मुदिततनुमुदं109 दानवं सस्फुरोक्तं110
पायाद्वः शैलपुत्री महिषतनुभृतं निघ्नती वामपार्ष्ण्या॥८२॥

इति सस्फुरोक्तं मुदिततनुमुदं महिषतनुभृतं दानवं वामपर्ष्ण्यानिघ्नती शैलपुत्री वः पायात्। सस्फुरं स्फुरणयुक्तमुक्तं यस्य तम्। मुदितायां रोमाञ्चितायां तनौ मुद् यस्य तम्। इति किम्। समरं सङ्ग्रामं प्रति ईशजन्मा कार्तिकेयोऽद्यापि बालः। उडुपभृच्चन्द्रशेखरः शिवः पांसुलीलाविलासी भस्मोद्धूलनासक्तः। नागास्यो गणपतिः शातदन्तः अथ च स्वतनुकरमदाद्विह्वलः अत एव सोऽपि शान्तः। अधुना त्वं क्वयासि धिक्॥

मूर्ध्नः शूलं ममैतद्विफलमभिमुखं शंकरोत्खातशूलं
सङ्ग्रामाद्दूरमेतद्धृतमरि111 हरिणा मन्मनः कर्षतीव।
गर्वादेवं क्षिपन्तं विबुधजनविभून्दैत्यसेनाधिनाथं
शर्वाणी पातु युष्मान्पदभरदलनात्प्राणतो दूरयन्ती॥८३॥

विबुधजनविभून्देकाधिनाथान्शिवादीन् एवं गर्वात्क्षिपन्तं तिरस्कुर्वाणं दैत्यसेनाधिनाथं महिषं पदभरदलनात्प्राणतो दूरयन्ती गतप्राणं कुर्वाणा शर्वाणी युष्मान्पातु। एवं कथम्। शंकरेणोत्खातं प्रहारार्थमुत्तम्भितं शूलमभिमुखं सद्विफलं जातम्, एतन्मम मूर्ध्नः शूलं शिशः पीडाजनकम्। अतीव दुःखमिति यावत्। हरिणा एतत् अरि सुदर्शनं चक्रं सङ्ग्रामाद्दूरं धृतं सत् सन्मनः कर्षतीव॥

भ्राम्यद्धामौर्वदाहक्षुभितजल112चरव्यस्तवीचीन्सकम्प–
न्कृत्वैवाशु113 प्रसन्नान्पुनरपि जलधीन्मन्दरक्षोभभाजः।

दर्पादायान्तमेव श्रुतिपुटपरुषं नादमभ्युद्गिरन्तं
कन्याद्रेः पातु युष्मांश्चरणभरनतं पिंषती दैत्यनाथम्॥८४॥

भ्राम्यद्धामौर्वदाहेन क्षुभितैर्जलचरैव्यस्ता वीचयो येषां तान्प्रसन्नान्निर्मलाञ्जलधीन्पुनरपि मन्दुरक्षोभभाजः, अर्थादाविलान, आशु कृत्वा दर्पादायान्तमेव, अथ च श्रुतिपुटपरुषं कर्णकठोरं नादमभ्युद्गिरन्तं दैत्यनाथं चरणभरेणनतं पिंषती अद्रेः कन्या युष्मान्पातु॥

मैनामिन्दो114ऽभिनैषीःश्रितपृथुशिखरां शृङ्गयुग्मस्य पाश्वै115
युद्धक्ष्मायां तनुं स्वां रतिमदविलसतत्स्त्रीकटाक्षक्षमेयम्।
भानो किं वीक्षितेन क्षितिमहिषतनौ त्वं हि संन्यस्तपादो
दर्पादेवं हसन्तं व्यसुमसुरसुमा कुर्वती त्रायतां वः॥८५॥

हे इन्दो, श्रितपृथुशिखरां पर्वतशिखराश्रयां स्वांतनुं शृङ्गयुग्मस्य, अर्थान्मम, पार्श्व माभिनैषीः अभिमुखं मा नय। यतस्तवेयं तनुः रतिमदविलसत्स्त्रीकाक्षक्षमा। हे भानो, वीक्षितेन किम्। वं क्षितिमहियेषु प्राकृतमहिषैषु संन्यस्तपादः।अहं तादृशो महिषो न भवामि। यत्र त्वं पादन्यासं कर्तुमिच्छासीति भावः। एवं दर्पाद्धसन्तमसुरं व्यसुं गतप्राणं कुर्वती उमा वस्त्रायताम्॥

सङ्ग्रामात्रस्तमेतं त्यज निजमदहिषं लोकजीवेश मृत्यो

स्यातुं शूलाग्रभूमौ116 गतभयनजयं मत्तमेनंगृहाण।
दैत्येपादेन यस्याश्छालमहिषतनौशायिते117दीर्घनिद्रां118

भावोत्पत्तौजयैवं हसति119 पितृपतिं साम्बिका वः पुनातु॥८६॥

यस्याःपादेन च्छलमहिषतनौ दैत्येहै दीर्घनिद्रां शायिते सति जया भावोत्पत्तौ सत्यां पितृपतिं यममेवं हसति साम्बिका वः पुनातु। एवं कथम्। हे लोकजीवेश मृत्यो, सङ्ग्रामात्रन्तंभीतमेतं निजमहिषं त्यज, स्वातुं

गमयमजयमेतंमत्तंगृहाण॥

श्रुत्वैतत्कर्म120 भावादनिभृतरभसं स्थाणुनाभ्येत्य121 दूरा-

च्छिष्टा बाहुप्रसारं122 श्वसितभरचलत्तारका123 धूतहस्ता।

दैत्ये गीर्वाणशत्रौ124 भुवनसुखमुषि प्रेषिते125 प्रेतकाष्ठां

गौरी126 वोऽव्यान्मिलत्सु त्रिदिविषु तमलं लज्जया वारयन्ती॥८७॥

भुवनसुखमुषि गीर्वाणशत्रौ दैत्ये प्रेतकाष्टां प्रेषिते सति एतत्कर्म महिषवधरूपं श्रुत्वा भावादनिभृतरभसं यथा स्यादेवं स्थाणुना दूरादभ्येत्य बाहुप्रसारं बाहु प्रसार्य श्लिष्टा आलिङ्गिता, अत एव धूतहस्ता श्वसितभरचलत्तारका गौरी त्रिदिवषु देवेषु मिलत्सु सत्सु तं स्थाणुं लज्जया वारयन्ती सती वोऽव्यात्॥

भद्रे स्थाणुस्तवाङ्ध्रिः क्षतमहिषरणव्याजकण्डूतिरेष127

त्रैलोक्यक्षेमदाता128 भुवनभयहरः शंकरोऽतो हरोऽपि।

देवानां129 नायिके त्वद्गुणकृतवचनोऽतो महादेव एष

केलावेवं स्मरारिर्हसति130 रिपुवधे यां शिवा पातु सा वः॥८८॥

रिपुवधे स्मरारिः शिवो यां केलौ क्रीडायामेवं हसति सा शिवा वः पातु। एवं कथम्। क्षता महिषस्य रणव्याजेन कण्डूतिर्येन एतादृशस्तवाङ्घ्रिः स्थाणुः अर्थान्नाहं स्थाणुः। स्थाणौ महिषस्य कण्डूतिशमनं प्रसिद्धम्। त्रैकोक्यक्षेमदाता तवाङ्घ्रिः, अतः शंकरः। भुवनभयहरः, अतो हरोऽपि तवाङ्घ्रिः। हे देवानां नायिके, त्वद्गुणेन कृतं वचनं शब्दो यस्य। महत्त्वं त्वद्गुणस्तेन जातवचनो महादेवः, अत एष तवाङ्घ्रिर्महादेवोऽपि।महिषवधेनान्वर्थत्वात्स्थावरादयः संज्ञास्तव चरणस्यैव युज्यन्ते, नास्माकमिति भावः॥

खड्गः कृष्णस्य नूनं रहितगुणगतिर्नन्दकाख्यां प्रयातः

शत्रोर्भङ्गेन वामस्तव मुदितसुरो नन्दकस्त्वेष पादः।

भावादेवं जयायां131 नुतिकृति नितरां संनिधौ देवतानां
सव्रीडा भद्रकाली हरिपुरवताद्वीक्षिता शंभुना वः॥८९॥

देवतानां संनिधौ जयायां भावाद्भक्तिविशेषादेवं नितरां नुतिकृति सत्यां हतरिपुः सव्रीडा शंभुना वीक्षिता भद्रकाली वोऽवतात्। एवं कथम्। रहितगुणगतिर्नन्दकत्वगुणरहितः कृष्णस्य खड्गो नन्दकाख्यां प्रयातः। शत्रोर्भङ्गेन मुदितसुरस्तवैष वामः पादो नन्दकः॥

एकेनैवोद्गमेन132 प्रविलयमसुरं प्रापयामीति पादो
यस्याः कान्त्या नखानां हसति133 सुररिपुं हन्तुमुद्यन्सगर्वम्।
विष्णोस्रिःपादपद्मं वलिनियमविधावुद्धृतं134 कैतवेन
क्षिप्रं135 सा वो रिपूणां वितरतु विपदं पार्वती क्षुण्णशत्रुः॥९०॥

सुररिपुं हन्तुं सर्वमुद्यन्यस्याः पादो नखानां कान्त्या इति हसति सा क्षुण्णशत्रुः पार्वती वो रिपूणां विपदं क्षिप्रं वितरतु। इतीति किम्। अहमेकेनैवोद्गमेनासुरं प्रविलयं प्रापयामि, विष्णोः पादपद्मं बलिनियमविधौ कैतवेन त्रिरुद्धृतम्॥

खड्गं136खट्वाङ्गयुक्तं युवतिरपि विभो ते शरीरार्धलीना
हास्यं प्रागेव लब्धं137 सुरजनसमितौ दुष्कृतेन त्वयैवम्।
जाता138 भूयोऽपि लज्जा रणत इयमलं हास्यता शूलभर्त–
र्दर्पादेवं हसन्तं भव139मसुरमुमा निन्नती त्रायतां वः॥९१॥

दर्पादहंकाराद्भयं शिवमेवं हसन्तमसुरं निम्नती उमा वस्त्रायताम्। एवं कथम्। हे शूलभर्तः, तव खड्गंखट्वाङ्गयुक्तम्। हे विभो, युवतिर्भार्यापि ते शरीरार्धे लीना। एवं दुष्कृतेन दुष्टाचरणेन त्वया सुरजनसमितौ देवसभायां प्रागेव हास्यं लब्धम्। भूयोऽपि रणतो युद्धादियं लज्जा पलायनरूपा जाता। इयमलं परिपूर्णरूपेण हास्यता॥

स्थाणौ कंण्डूविनोदो140 नुदति दिनकृतस्तेजसा तापितं नो141

तोयस्थाने न चाप्तं सुखमधिकतरं गाहनेनाङ्गजातम्।
शून्यायां युद्धभूमौ वदति हि धिगिदं माहिषं रूपमेकं142
रुद्राण्यारोपितो वः सुखयतु महिषे प्राणहृत्पादपद्मः॥९२॥

सर्वदेवपलायनाच्छून्यायां युद्धभूमौ इति वदति महिषे रुद्राण्या आरोपितः प्राणहृत्पादपद्म वः सुखयतु। इतीति किम्। स्थाणौ शिवे कीलके च यदि कण्डूविनोदः क्रियते तदा तं नुदति। यतोऽयं स्थाणुः स्थिरो नास्तीति भावः। नोऽस्माकमङ्गजातमङ्गसमूहो दिनकृतः सूर्यस्य तेजसा तापितम्, किंतु तोयस्थाने वरुणालये च गाहनेनाधिकतरं सुखं नाप्तम्।वरुणोऽपि पलाय्य गत इति भावः। तस्मादिमं माहिषं रूपं धिक्॥

पिंषञ्छैलेन्द्रकल्पं महिषमतिगुरुर्भग्नगीर्वाणगर्वं143
शंभोर्जातो144 लघीयाञ्छ्रमरहितवपुर्दूरमभ्यूह्यपातः145
वामो देवारिपृष्ठे कनकगिरिसदां क्षेमंकारो146ऽङ्घ्रिपद्मो
यस्या दुर्वार एवं विविधगुणगतिः सावतादम्बिका वः॥९३॥

यस्या अङ्घ्रिपद्म एवं विविधगुणगतिरस्ति साम्बिका वोऽवतात्।कथंभूतः। भग्नगीर्वाणगर्वं शैलेन्द्रकल्पं महिषं पिंषन्, अतिगुरुरपि शंभोर्लघीयाञ्जातः। पुनः कथंभूतः। श्रमरहितवपुः दूरमभ्यूह्योऽभ्यूहनीयः पातो गतिर्यस्य। यो हि गुरुर्भवति स श्राम्यति, दूरं च न याति। अयं तु श्रमरहितवपुर्दूरपाती च। देवारेर्महिषस्य पृष्ठे वामः प्रतिकूलः। कनकगिरिसदां देवानां क्षेमकारः कल्याणजनकः॥

मार्गं शीतांशुभाजां सरभसमलधुं हन्तुमुद्यन्सुरारिं
नेत्रैरुद्वृत्ततारैः सचकितममरैरुन्मुखै147र्वीक्ष्यमाणः।

यस्या वामो महीयान्मुदितमुरमनाः प्राणहृत्पादपद्मः
प्राप्तस्तन्मूर्धसीमां सुखयतु भवतः सा भवानी हतारिः॥९४॥

यस्या वामः पादपद्मस्तस्य महिषस्य मूर्धसीमां प्राप्तः सा मुदितमुरमना हारिर्भवानी वः सुखयतु। कथंभूतः पादपद्मः। सरभसं यथा स्यादेवमलघुं सुरारिं हन्तुं शीतांशुभाजां नक्षत्राणां मार्गमाकाशमुद्यन्नुत्पतन्। अत एव सचकितं यथा स्यादेवमु

द्ध्रृत्ततारैनैत्रैरुन्मुखैरमरैवीक्ष्यमाणः। पुनः कथंभूतः। प्राणहृत्। अर्थान्महिषस्य॥

मूर्धन्यापातभग्नेमिषमहिषतनुः148 सन्ननिःशब्दकण्ठः
शोणान्नाताम्रकान्ति149प्रततघनबृहन्मन्ण्डले150पादपद्मे।
यस्या लेभे सुरारिर्मधुरसनिभृत151द्वादशार्धाङ्घ्रिलीलां
शर्वाणी पातु सा152 वस्त्रिभुवनभयहृत्स्वगिभिः स्तूयमाना॥९५॥

यस्याः पादपद्मे मिषमहिषतनुः कपटमहिषः सुगरिर्मधुरसे निभृतस्य निश्चलस्य द्वादशार्धाङ्घ्रैःषट्पदस्य भ्रमरस्य लीलां लेभे सा त्रिभुवनभयहृत्स्वर्गिभिर्देवैः स्तूयमाना शर्वाणी वः पातु। कथंभूतेपादपद्मे। शोणाजवदाताम्नाकान्तिर्यस्य प्रततं प्रकर्षेण विस्तीर्ण घनं निविडं वृहन्मण्डलमाभोगो यस्य तयोः समाहारस्तस्मिन्। कथंभूतः सुरारिः। मूर्धनि मस्तक आपातेन प्रहारेण भग्नेसति सन्ननिःशब्दकण्ठः। अत एव निश्चलभ्रमतुल्यतां गत॥

पादोत्क्षेपाद्व्रजद्भिर्नखकिरणशतैर्भूषितश्चन्द्रगौरै–
मूर्धाग्रेचापतद्भिश्चरणतलगतैरंशुभिः शोणाशोभः153
संन्यस्तालीनरत्नप्रविरचितकरैश्चर्चितः क्षिप्तकायै–
र्यस्यादेवैः प्रणीतो हविरिव महिषः सावतादम्बिका वः॥९६॥

यस्याक्षिप्तकायैर्दण्डवत्प्रणमद्भिर्देवैर्हविरिव संस्कृतं हव्यमिव महिषःप्रणीत उपनीतः साम्बिका वोऽवतात्। कथंभूतो महिषः। पादोत्क्षेपाद्जद्भिश्चन्द्रगौरैर्नखकिरणगतैर्भूषितः।पुनः कथंभूतः। मूर्धाग्रआपतद्भिश्चरणतलगतैरंशुभिः शोणशोभः। पुनः कथंभूतः। संन्यस्तान्यालीनानि च यानि रत्नानि। अर्थाद्देवमुकुटेषु। तेषां प्रविरचितैः करैः किरणैश्चर्चितः। यो हि देवतायै हविरुपनयति स दण्डवत्प्रणतो भवति। अत्र हविर्मांसपिण्डम्। तच्च शुक्लं रक्तं च भवति॥

क्वायं तीक्ष्णोग्रधाराशतनिशितवपुर्वज्ररूपः सुरारिः
पादश्चायं सरोजद्युतिरनतिगुरुर्योषितः154 क्वेति देव्याः।
ध्यायं155 ध्यायं स्तुतो यः सुररिपुमथने विस्मयावद्धचित्तैः

पार्वत्याः ‘सोऽवतात्’156स्त्रिभुवनगुरुभिः सादरं वन्द्यमानः157॥९७॥

त्रिभुवनगुरुभिर्ब्रह्माद्यैः सुररिपुमथने विस्मयाबद्धचित्तैरिति ध्यायं ध्यायं ध्यात्वा ध्यात्वा यः स्तुतः सादरं वन्द्यमानश्च स पार्वत्याः पादो वोऽवतात्। इति कथम्। तीक्ष्णोग्रधाराशतनिशितवपुरयं वज्ररूपः सुरारिः क्व। अयं सरोजद्युतिर्योषितो देव्या अनतिगुरुः पादश्च क्व। महदन्तरमिति भावः॥

वज्रित्वं वज्रपाणेर्दिदितितनयभिद158श्चक्रिणश्चक्रकृत्यं
शूलित्वं शूलभर्तुः सुरकटकविभोः159 शक्तिता षण्मुखस्य।
यस्याः पादेन सर्वं कृतममररिपो160र्बाधयैतत्सुराणां

रुद्राणी पातु सा वो दनुविफलयुधां स्वर्गिणां क्षेमकारी॥९८॥

यस्याः पादेनामररिपोर्महिषस्य बाधया सुराणामेतत्सर्वं कृतं सा रुद्राणी वः पातु। कथंभूतानां सुराणाम्। दनुषु दनुजेषु विफलं युद्धं येषां तेषाम्। कथंभूता रुद्राणी। स्वर्गिणां क्षेमकारी देवकल्याणकर्त्री। एतत्किम्। वज्रपाणेरिन्द्रस्य वज्रित्वं वज्रकार्यम्। दितितनयभिदश्चक्रिणो विष्णोश्चक्रित्वम्। शूलभर्तुः शिवस्य शूलित्वम्। सुरकटकविभोर्देव सेनापतेः षण्मुखस्य कार्तिकेयस्य शक्तिता। वज्रादीनां कृत्यं देव्याश्चरणेनैव साधितमिति भावः॥

पङ्गुर्नेता हरीणामसमहरियुतः स्वन्दनश्चैकचक्रो
भानोः सामग्र्यपेतः कृत इति विधिना त्यक्तवैरः पतङ्गे।
दर्पाद्भ्राम्यन्रणक्ष्मां प्रतिभटसमराश्लेषलुब्धः सुरारि–

र्यस्याः पादेन नीतः पितृपतिसदनं सावतादम्बिका वः॥९९॥

पतङ्गे सूर्ये इति त्यक्तवैरः प्रतिभटसमराश्लेषलुब्धः अत एव दर्पाद्रणक्ष्मांयुद्धभूमिं भ्राम्यन्सुरारिर्यस्याः पादेन पितृपतिसदनं यमलोकं नीतः साम्बिका वोऽवतात्। इति किम्।हरिणामश्वानां नेता सारथिः पङ्गुः। स्यन्दनो रथोऽसमहरियुतो विषमाश्व एकचक्रश्च। एवं भानो रथो विधिना सामग्र्यपेतः सामग्रीविकलः कृतः। इति हेतोः सूर्ये त्यक्तवैरः॥

युक्तं तावद्गजानां प्रतिदिशमयनं161 युद्धभूमेदिंगीशां
हीयेताशागजत्वं सुभटरणकृतां162 कर्मणा दारुणेन।
यद्येष163 स्थाणुसंज्ञो भयचकितदृशा नश्यतीत्यद्भुतं त–
हर्षादेवं सन्तं सुररिपुमवतान्निघ्नती पार्वती वः॥१००॥

दर्पादेवं हसन्तं सुररिपुं निघ्नती पार्वती वोऽवतात्। एवं कथम्। दिगीशां गजानां दिग्गजानां युद्धभूमेः सकाशात्प्रतिदिशमयनं स्वस्वदिग्गमनं तावद्युक्तम्। यतः सुभटैः सह रणकृतामेषां दारुणेन कर्मणा मरणरूपेणाशागजत्वं दिग्गजत्वं हीयेत। यद्येष स्थाणुसंज्ञः शिवो भयचकितदृशोपलक्षितो नश्यति इत्यद्भुतम्। स्थाणोः पलायनमाश्चर्यमिति भावः॥

स्रस्ताङ्गः164 सन्नचेष्टो भयहतवचनः सन्नदोर्दण्डशाखः
स्थाणुर्दृष्ट्वा165यमाजौक्षणमिह166 सरुपं स्थाणुरेवोपजातः।
तस्य ध्वंसात्सुरारेर्महिर्षितवपुषो लब्धमानावकाशः

पार्वत्या वामपादः शमयतु दुरितं167 दारुणं वः सदैव॥१०१॥

यं सुरारिं सरूषंसक्रोधमाजौ युद्धे क्षणं दृष्ट्वा स्रस्ताङ्गः सन्नचेष्टो भयहतवचनः सन्नदोर्दण्डशाखः स्थाणुः शिवः स्थाणुः कीलक एव जातः। जडीभूत इति यावत्। तस्य महिषितवपुषः सुरारेर्ध्वसाल्लब्धमानावकाशः पार्वत्या वामपादो वो दारुणं दुरितं सदैव शमयतु।

कुन्ते दन्तैर्निरुद्धे धनुषि विमुखितज्ये विषाणेन मूला168
ल्लाङ्गूलेन प्रकोष्ठे वलयिनि पतिते तत्कृपाणे स्वपाणेः।
शूले लोलाङ्घ्रिपातैर्ललितकरतलात्प्रच्युते दूरमुर्व्यां
सर्वाङ्गीणं लुलायं जयति चरणतश्चण्डिका चूर्णयन्ती॥१०२॥

देव्याः कुन्ते दन्तैर्महिषेण निरुद्धे सति, विषाणेन धनुषि मूलाद्विमुखितज्ये विमुखीभूतमौर्वीके सति, लाङ्गूलेन देव्याः प्रकोष्ठे वलयिनि वेष्टिते सति, अत एव तत्कृपाणे तदीये खड्गेस्वपाणेः स्वहस्तात्पतिते सति, लोलाङ्क्षिपातैर्ललितकरतलाच्छूले दूरमुर्व्या भूमौ प्रच्युते सति। चण्डिका चरणतः सर्वाङ्गीणं लुलायं महिषं चूर्णयन्ती जयति॥

इति महाकविश्रीवाणभट्टविरचितं चण्डीशतकं सटिप्पणं समाप्तम्।

————————

श्रीनागराज169कविप्रणीतं
भावशतकम्।

शुभ्रं क्वचित्क्वचिदतीव सितेतराभं
क्वापिप्रफुल्लनपङ्कजसंनिकाशम्।
तप्तं क्वचित्क्वचनशीतलमस्तु वस्तु
कैवल्यसंसृतिपथानुगतं मुदे वः॥१॥

नागराजशतं ग्रन्थं नागराजेन तन्वता।
अकारि गतवक्त्रश्रीर्नागराजो गिरां गुरुः॥२॥

वसन्तकाले चकिता नताङ्गी विज्ञाय चक्रीकृतचापदण्डम्।
मनोभवं सौरभशोभमानैरपूरयत्पाणियुगं प्रसूनैः॥३॥

मधुकरालिमौर्वीभङ्गो न भवत्विति॥

काचिद्वसन्तसमये गत्वा पुष्पद्रुमावलीम्।
नामुञ्चन्निजनिःश्वासवायुं वारिजलोचना॥४॥

भृङ्गागमनभीत्या॥

काचित्तृषार्तावनिता निदाघे गङ्गां समभ्येत्य सुधासवर्णाम्।
आदाय तद्वारि करद्वयेन विलोकयन्ती न पपौ किमेतत्॥५॥

करकिसलयकान्तिक्रान्त्या शोणितशङ्कयेति॥

प्राचीन स्मृतविरहव्यथातिभीतः
काकुत्स्थः कृतकुतुकाक्षिमीललीलः।
संपूर्णे शशिनि चिराय लग्नदृष्टेः
प्रेयस्याः स्थगयति लोचने कराभ्याम्

कनकमृगवन्मृगाङ्कमृगमपीयं याचिष्यतीति भीत्या॥

मदनातुरापि लक्ष्मीरालिङ्गनलोलुपापि ललिताङ्गी।
मा पश्य पश्य नाथेत्यवद

न्मुरवैरिणं तत्किम्॥७॥

हरौ पश्यति नेत्रीभूतः सहोदरश्चन्द्रो द्रक्ष्यत इति। तथा चण्डकरकिरणाः कोमले वपुषि दुःसहा भवन्ति॥

यद्यस्मासु कृपापरोऽसि वनितावर्ण्याकृते कौतुका–
दाशु प्रोल्लसदुत्सवासु बहुशो रथ्यासु मा संचर।
वाचस्ते सुभगोद्गिरन्ति च सुधामुच्चावचाः कर्णयोः
प्रोत्तुङ्गा गृहभित्तयः समदनोल्लासा च नः स्वामिनी॥८॥

उत्सवालोकनव्याजेनास्मत्स्कन्धमधिरुह्य त्वां पश्यतीति॥

मणिमयमण्डपमध्ये क्रीडन्ती कापि कामिनी विदुषी।
अपराधेन विना तं निजचरणैस्ताडयामास॥९॥

स्वप्रतिबिम्बं वीक्ष्य कामिन्यन्तरप्रतीतेः॥

शिरसि देवनदीं पुरवैरिणः सपदि वीक्ष्य धराधरकन्यका।
निबिडमानवती रमणाङ्गके क्वचन चुम्बनमारभते स्म सा॥१०॥

क्रोधातिशयेन सविषो गलश्चुम्बितः॥

सकलं स पुरा पीत्वा मुमोच मकरालयम्।
मुनीन्द्रः किं न जानाति योषितां विरहव्यथाम्॥११॥

पीतश्चन्द्रो मुक्त इति॥

सौधस्थले विरहिणी विमले शयाना
निर्मुक्तसर्वजलदासु शरन्निशासु।
देवाननिन्ददधिकं दनुजोत्तमांश्च
दुग्धार्णवं च भुजगेश्वरमन्दरौ च॥१२॥

एभिश्चन्द्र उत्पादित इति॥

अपारं दुःखमापन्ना मदनार्तावियोगिनी \।
कोकिलालिशशाङ्काद्या वर्धन्तामित्यभाषत॥१३॥

एतद्वाहुल्येनाचिरेण वियोगिनीनां वरणं संभाव्यते॥

ज्याबन्धः शिथिलीभवत्वयममी शाम्यन्तु कोलाहलाः
स्वामिंस्त्वन्मृगयाविहारकुतुकासक्तिः क्षणं तिष्ठतु।
इन्दौ स्प्रष्टुमुपागतेऽपि सहसा निःशङ्कमन्याङ्गनां
मा मा मा स्पृश मा स्पृशेति चकिता यद्रोहिणी जल्पति॥१४॥

मृगयाचकितमृगापगमाद्विमृगे चन्द्रे रोहिण्याः परपुरुषशङ्केति॥

तीक्ष्णाग्रंकठिनं कुचद्वयमिदं तन्वङ्गियच्चोन्नतं
तद्वक्षः परिहाय किं प्रियतमः पृष्ठे समालिङ्ग्यते।

किं कुर्मः सखि नर्मकेलिषु मया दष्टे रसेनाधरे
रुष्टोऽयं गमनोद्यतस्तदधुना पन्थानमानीयते॥१५॥

धवलो हि प्रतोदेन प्रेरितः पन्थानमायाति॥

प्राप्ते वसन्तसमये पथिकस्य कान्ता
श्रान्तान्तरा पिकगणा निनदन्ति यत्र।
उत्थाय तत्परिसरं सहसैव गत्वा
गातुं मतिं कृतवती कमनीयकण्ठम्॥१६॥

मत्स्वराकर्णनेनेतः सन्नपा यास्यन्ति, मूका वा भविष्यन्ति॥

जलदानवलोक्य निर्गता नगरोद्यानसुकेलयेऽङ्गनाः।
पुनरागमनेषु ताः कथं घनदृष्ट्यापि भजन्ति न त्वराम्॥१७॥

शीघ्रगमनेन श्रमश्वासादिना गुरुजनस्यासतीत्वप्रतीतिर्मा भूत्। अथवा व्यभिचारपरासृष्टचन्दनलेपादि भूषागोपनाय घनवृष्ट्येत्यसतीपक्षः॥

पत्रावली चित्रकपोलपालिं प्रातः सपत्नीमवलोक्य काचित्।
तुतोष लाक्षाक्तमनाप्तनिद्रं पुनः प्रियं वीक्ष्य विषादमाप॥१८॥

पत्रावलेरविनाशादनया संयोगो नाभूदिति तुतोष। सर्वस्यामपि निशायां प्रीतिबाहुल्यादतिपादपतनैः संमानितापि मानमियं न मुमोचेति विषादमाप॥

स्मरातुराङ्गी प्रियविप्रयोगे शीतोपचारं परिहृत्य सर्वम्।
सुखेप्सया सर्वगतान्सिषेवे काचित्करानेव सुधाकरस्य॥१९॥

यस्मादेते मत्प्रियसंगताः सन्तीति॥

अन्यास्ताः प्रिय योषितः प्रियतमं कण्ठे समालिङ्गय या
याचन्ते हृदयस्थितं बहुकृपं तूर्णं पुनः संगमम्।
याचे त्वामहमेतदेव न परं त्वन्मङ्गलाकाङ्क्षिणी
प्रस्थाने मम जीवितेश्वर वृथा कण्ठग्रहं मा कृथाः॥२०॥

प्रस्थानालिङ्गनेन क्षणेनापि मत्प्राणायास्यन्तीति॥

क्रीडां प्रीतसखीजनैः पितृगृहे संस्मृत्य रेवातटे
मा स्विद्यस्वमनोहराङ्गिसरलः कान्तोऽस्ति चित्तानुगः।
सन्त्येवात्र जलाशयाः सुगहनाः सख्यश्च ताः पण्डिताः
क्रीडन्त्यास्तव तेषु ताभिरनिशं विस्मृत्य तद्यास्यति॥२१॥

सुगमम्॥

कान्तः क्वापि गतोऽस्ति कोपकलितः श्वश्रूजनैः संकुलं
वेश्म स्तोकमिदं महोत्सववशात्सख्या गृहे याम्यहम्।
मध्याह्नो विषमः सुपान्थ भवता तस्मान्निकुञ्जोल्लस–
द्ग्रामस्योत्तरतः सरोऽस्ति ललितं किं तत्र न स्थीयते॥२२॥

सुगमम्॥

का चित्सरोजनयना रमणे स्वकीये
दूरं गते सति मनोभवबाणखिन्ना।
त्यक्तुं शरीरमचिरान्मलयाद्रिवायुं
सौरभ्यशालिनमहो पिबति स्म चित्रम्॥२३॥

मलयपवनानां भुजंगभुक्तावशिष्टत्वात्॥

सच्छास्त्रवाक्यकथिते शुभकर्ममूले
न्याय्ये पथि प्रतिदिनं किल वर्तमानः।
सद्यः पुमान्सकललोकहितानुयायी
शून्यं करोति सकलं दनुजारिवक्षः॥२४॥

न्याय्यमार्गस्थितो हरिवक्षःस्थलस्थितामपि लक्ष्मीमपहर्तुं शक्तः॥

सा क्षामेति किमुच्यते तनु यया भद्रेतराशङ्कया
त्वत्प्रत्यागमशंसिने बलिभुजे भूमौ बलिर्नायते।

कुड्याग्रेषु पुनः प्रसारितकरं निःशङ्कया दीयते
प्रत्यग्रेन्दुकलामिव प्रणयिनीं तन्मङ्क्षुसंभावय॥२५॥

भूमौ बलिदाने मङ्गलवलयविनिपातः संभावितः। अथवा सशब्दवलयनिपातेन चकितः काको बलिं न स्पृशतीति॥

शोणाङ्कः शशालाञ्छनः किसलयं शोभां विधत्तेऽलिना
कम्बुः क्वापि सुरेखितः कुवलये बन्धूकपुष्पाञ्चिते।
एवं धूर्तसखीजने वदति तां मुग्धां गृहीत्वा शठः
किं दृश्यं नयनेषु नेति कथयन्वापीं ययौ क्रीडितुम्॥२६॥

जलक्रीडाव्याजेन व्यभिचारचिह्नप्रक्षालनं स्यादिति॥

दूरं गतं प्रियतमं परिचिन्त्य चित्ते
रुद्धेषु वारिदगणैर्हरितां मुखेषु।
रुद्धास्यमेव सुदृशा शनकै रुदन्त्या
नेत्राम्बुना तिलकमाशु विशीर्णमासीत्॥२७॥

तप्तस्तनपतितनेत्राम्बुसेकाविर्भूतबाष्पजनितस्वेदादिभिः॥

लीलासरोरुहि कयाचन वीक्षमाणे
केनाप्यहोमधुकरेण विवर्जितेऽपि।
आगत्य कश्चन सलीलमलिः पपात
भङ्गीमनङ्गविवशः परिशङ्क्य चात्र॥२८॥

कमले दृक्प्रभालोकनात्॥

सत्यैकोद्यम नागराज भवति प्रत्यर्थिविध्वंसन-
व्यापारे कृतनिश्चये सति सतां दारिद्र्यविध्वंसके।
तत्कान्ताः क्षितिभृत्तटीषु मणिभिर्नीलैः सुरम्यास्वहो
कोकान्षट्पदमालिकाश्च कमलान्यालोकयन्त्यद्भुतम्॥२९॥

** **स्वस्तनालकमुखप्रतिबिम्बालोकनात्। अथवा नीलमणिजनितान्धकारे दिनज्ञानाय कोकसंयोगं षट्पदतद्विधप्रचारं कमलविकासं च॥

उत्तार्य काञ्चिंशयने विमुच्य यत्किंचिदाच्छादयितुं कयाचित्।
ऊचे तदेवोषसि सालिवर्गं पदच्युतो हि क्वह ते तुरङ्गः॥३०॥

शब्दभयादुपरि सुरते चेयमुत्तारितेति॥

काचित्साश्रुमुखी वियोगविधुरा धृत्वा करे लेखनीं
सर्वस्यां निशि कामलेखमखिलं शून्या लिखित्वा पुनः।
कान्ते प्रेषयति स्म सोऽपि चतुरो निर्वर्णमालोक्य तं
साकं दुःखमुदौ चकार सहसा पक्षित्वमाकाङ्क्षते॥३१॥

ईदृशीमवस्थां सा प्राप्नोतिदुःखम्। मयि सुतरां प्रीतिं सा धत्त इति हर्ष। अन्यच्चात्र परे पदे भावः॥

तत्कालयोग्याभरणा व्रजन्ती काचित्समीपे हृदयेश्वरस्य।
विलोचने नाञ्जयति स्म तारं न चापि हारं हृदये न्यधत्त॥३२॥

सती अन्तरभयात्। असती व्यभिचारप्रकटनभयात्। अथवा विशालयोरक्ष्णोरञ्जनेन महती वेला स्यात्। हारः कामाग्निना दग्धो भविष्यतीति॥

ईषदुल्लसितमिन्दुमण्डलं पश्य चूतनवपल्लवप्रभम्।
अङ्गतां हरिदिगङ्गनामुखे भूषणत्वमुपयाति चाद्भुतम्॥३३॥

ललाटत्वं तिलकत्वं च॥

पुष्पेषोरिषुभिर्विभिन्नहृदयः कान्तां मुहुश्चिन्तय-
न्पान्थः कोऽपि निदाघभास्वति नभोभागं गते मध्यमम्।
श्रान्तोऽप्येष पिपासितोऽपि पयसे धावन्नपीतस्ततः
शुष्कं वीक्ष्य सरश्चिराय महतीं धत्ते मुदं चेतसा॥३४॥

अत्र सरोजाभावेन पुष्पेषोरिषुसंकोचाद्विरहिणः प्रमोदोदयः॥

परिपाकसमयपाण्डोः परिणतपत्रालिपरिहृतार्करुचेः।
त्वय्यनुरागातिशयादिक्षोः फलमीक्षते तन्वी॥३५॥

फलितामिक्षुवाटीमुत्पाततया परिहरन्तीति संकेतभङ्गायेत्यसतीपक्षः। सतीपक्षे तु तादृश्या वाटिकाया दाहस्यापि संभावितत्वेनेक्षुधन्वनो धनुरुच्छेदो विरहिणीप्रीतिकृत्॥

उदितः शनकैर्निशाधिनाथो वनितानां वदनानि वीक्षमाणः।
शुचिमौक्तिकभूषणातिभीतो गणनायां निरतो नु तारकाणाम्॥३६॥

मुखेन निर्जित्य बन्दीकृततारकाभ्रान्तिमौक्तिकेषु॥

आलोकयन्ती शशिपूर्णबिम्बमाशामुखे दैवतनायकस्य।
संचिन्त्य किंचिन्मनसैव भीता धत्ते रतिं चम्पकमालिकासु॥३७॥

चन्द्रोदये मुकुलितपद्मत्यागिनो मधुपा मन्मुखे पतिष्यन्तीति॥

किं मौग्ध्यादनुतप्यसे किमधिकं नेत्रे क्रुधेवाश्रुभि–
र्व्याप्नोषित्यज वीक्षणं प्रतिदिशं प्रेम्णो हि नानागतिः।
आलिं निन्दसि किं वृथा स्वपदयोरालक्तकं नेक्षसे
सर्वत्रातिनिषिद्धमेव हृदयं किं भाषसे निष्ठुरम्॥३८॥

सुगमम्। पदे पदे भावाः॥

कान्तः कान्तकरः परः प्रकृतिमप्यङ्गीकरोत्येव य–
स्त्वश्चित्तानुगया तथा सरलया युक्ते पदे स्थापितः।
सोऽयं संप्रति नाथ किं प्रणतिभिर्नीतस्त्वया नीचतां
तेनायुक्तविधायिता हि भवतः स्पष्टैव दुष्टाशय ॥३९॥

तस्यास्तिलकस्त्वल्ललाटं गतो मत्पदमानीत इति॥

पश्यैनं पुरतः स्थितं प्रियतमं मान्याः सखीनां गिरः
किं जातासि पराङ्मुखी मणिगृहे मुग्धेऽत्र को वा जनः।
इत्यालीवचनेन कोपकलुषा काचिच्चिरं मानिनी
दीर्घोष्णं निपुणा मुहुर्मुहुरसौ निःश्वासमेव व्यधात्॥४०॥

प्रियप्रतिबिम्बाच्छादनायात्र निःश्वासाः॥

हारे संदर्शिते यूना कम्पयन्त्या शिरो मुहुः।
प्रसारितः करेणोच्चैः कचभारो मृगीदृशा॥४१॥

मन्मनस्त्वयि स्वच्छमिति तरुणेन ज्ञापिते तया मलिनमिति ज्ञापितम्॥

उद्यानवाटीषु कदापि बाले मा गास्त्वमेकैव यथा गतेऽह्नि।
क्वचित्क्वचित्कण्टकिनां तरूणां सङ्गेन दुःखी स्तनभार एषः॥४२॥

उद्यानगमननिषेधव्याजेन पत्युः पुरः स्तननस्वाङ्कगोपनम्॥

अक्ष्णोरञ्जनमोष्ठयोश्चरणयोस्ताम्बूललाक्षाकृतो
रागः पत्रलता कपोलविषये देहे घनं चन्दनम्।
आसां तिष्ठति सर्वदा मम पुनर्दृष्ट्वा कदाचित्क्षणं
श्वश्रूः किं विदधे वृथैव दधते दुःखं सपत्न्योयदि॥४३॥

सपत्नीशृङ्गारवर्णनव्याजेन स्वसौभाग्यप्रकटनम्। अत्र पदे पदे भावाः॥

पीनोत्तुङ्गघनस्तनी व्रज मुहुर्लीलागृहाभ्यन्तरं
त्वामुद्वीक्ष्य चिराय हन्त कलिताशङ्कः शशाङ्कोऽधुना।
एतच्चेतसि मंस्यते सकुतुकोत्प्रेक्षः किमासीदसौ
वल्मीकादपि विस्मयी बहुगुणो वल्मीकजन्मा मुनिः॥४४॥

चन्द्रदर्शनेऽपि त्वत्कुचचक्रवाकयुगमवियुक्तमिति रामशापस्यान्यथात्वेन वाल्मीकेर्निन्दा॥

शृणु नागराज धृतखङ्गभीषणे भवति प्रगल्भरिपुखण्डनोद्यते।
विचरत्तरङ्गशतशोभिताकृतिर्जलधिर्नितान्तमुपयाति संमदम्॥४५॥

नवीनरुधिरनदीसंगमाशया॥

देहे घनश्चन्दनचन्द्रलेपो बिम्बाधरे यावकरागयोगः।
प्रातः कृतोऽयं चतुरे भवत्या तन्वङ्गि शोभां त्वयि कां तनोति॥४६॥

अवेलाशृङ्गारेण त्वया रतिचिह्नाच्छादनं कृतमिति द्योतयति। अथवा काकुवाक्यैरसंयोगादसौभाग्यं ख्यापयति॥

हारस्तार उदारमौक्तिकमयं सीमन्तसच्चित्रके
वासश्चन्द्रसितं तनौ रुचिकरो लेपो धनश्चान्दनः।

धम्मिल्लेसखि मल्लिकास्रगुचितैरेतैः सुधादीधिते–
र्मन्ये स्वास्यजितस्य जेतुमधुना ज्योत्स्नामिमां वाञ्छसि॥४७॥

चन्द्रोदये श्वेताभरणैरलक्षिता व्यभिचाराय गन्तुमीहस इति वर्णनव्याजेन प्रकटयति॥

व्रज दूति समर्प्यतां भवत्या नवताटङ्कयुगं करे तदीये।
इदमेव निवेदयिष्यतीमां मदवस्थामलमत्र पत्रलेखैः॥४८॥

कज्जलमिश्राश्रुकणिकाङ्कितत्वेन तस्य सवर्णतेति॥

कृतानि शान्त्यै विरहव्यथायास्तया सखे कान्यपि भूषणानि।
गुणान्वितानीति तदङ्गसङ्गादन्तः स्थितं सारमिवोद्गिरन्ति॥४९॥

मृणालानिफेनिलाननानीति॥

श्रीरामचन्द्रे दशवक्त्रपुर्या मार्गाय वारांनिधिबद्धकोपे।
आग्नेययमस्त्रं गुरु संदधाने मेनागिरीन्द्रौ चकितावभूताम्॥५०॥

जलधिमध्यस्थितमैनाकाख्यपुत्रनाशभीत्या।

चन्द्रोदये जृम्भति कर्तुकामे किंचित्प्रिये प्रोद्धतजातकामे।
विलोक्य किंचिन्मणिसौधभूमौ निक्षिप्य काचिद्वसनं ललज्जे॥५१॥

चन्द्रप्रतिबिम्बाच्छादनेऽपि ज्योत्स्नायास्तादवस्थ्येन नग्नस्वाङ्गदर्शनात्॥

उक्तं कार्यमभून्नवेति किमिह प्रष्टव्यमेतत्त्वया
हन्तानुक्तमपि प्रसाधितमहो कृत्यं स्वबुद्ध्यैव मे।
तद्दूति त्वदृतेऽस्ति का मम सखीत्याख्यातमात्रैव सा
सव्रीडा मुहुरम्बरं नयनयोरन्तेन किं वीक्षते॥५२॥

यन्मदीयमम्बरं तेन नीतं तत्त्वया परिवृत्य पुनरानीतमिति॥

यस्मिन्सुस्फुटरश्मिपुञ्जविलसच्छ्रीस्फाटिकग्रावभा–
तुल्याच्छाम्भसि चित्तहारिणि सरोमध्ये न पङ्केरुहम्।

तत्राहं सलिलं पिबामि तरसेत्युर्वी भ्रमन्ती सुदृ–
क्तादृग्भूतसरोवरं न लभते को वात्र हेतुर्वेद॥५३॥

सर्वत्र निजवदनप्रतिबिम्बावलोकनात्॥

आलिङ्ग प्रतिवाचमुद्गिर सुधाकण्ठि क्वभूयो वयः
कोपं मुञ्च मयि प्रसीद सुभगे नैवं विधास्ये पुनः।
पश्य श्वश्रु कथं वदत्ययमहो मानोन्नतां सारिका–
मेवं मानयितुं शुको हि भवने दैवस्य चित्रा गतिः॥५४॥

निशासमयोक्तं शुकाभ्यस्तं पतिवाक्यं व्याजेनाच्छादयति ॥

सिक्तंचन्दनवारिभिः कमलिनीशय्यादलं कोमलं
हस्तस्थस्य तया मृणालवलयस्यावेष्टितं तन्तुभिः।
आलेख्यं त्विदमेव यद्दयितया दत्तं स्वहस्तेन मे
लेखस्तिष्ठतु दूरतः किमधुनाप्याकर्ण्यते वाचिकम्॥५५॥

विरहे सतीदृशस्थले स्वस्य निर्वाहाभावात्॥

दृष्टोऽयं सरितां पतिः प्रियतम क्वास्ते स सेतुः क्ववा
सेतुः क्वेति मुहुर्मुहुः सकुतुकं पृष्टेपरं विस्मिते।
अत्रासीदयमत्र नास्ति किमिति व्यग्रेनिजप्रेयसि
व्यावृत्तास्यसुधानिधिः समभवन्मन्दस्मिता जानकी॥५६॥

स्वमुखचन्द्रदर्शनक्षुब्धजलधिकल्लोलैराच्छादितस्य सेतोः प्रकटनाय मुखव्यावृत्तिः॥

धवलय दशनश्रेणिं बिम्बोष्ठिन शोणता गताद्यापि।
इति दर्शितमुकुराभिः सखीभिरायास्यते मुग्धा॥५७॥

अधरसंनिधानजनितारुणतानपायिनीति॥

श्रीरामे मृगयाविनोदविपुलप्रीतिप्रभूतीभव–
त्प्रस्वेदाम्बुकणावृतास्यकमले सद्मागते जानकी।

उत्थायाशु ससंभ्रमं बहुतरां भक्तिं दधाना पुन–
स्तत्पादं मणिकङ्कणोज्ज्वलकरा नैव स्पृशत्यद्भुतम्॥५८॥

अहल्यावच्चरणस्पर्शमात्रेण कङ्कणमणयोऽपि योषितो मा भूवन्निति॥

गत्वोद्यानवनस्थलीं सुनयना प्रोद्यद्वसन्तागम–
प्रोत्फुल्लाखिलचूतचम्पकमुखं क्ष्मारुड्विशेषाकुलम्।
आदायातिमनोज्ञमद्भुतरसं

किचित्फलं पाणिना
तन्मध्यं च विलोक्य शङ्कितमना हस्तेऽकरोद्दर्पणम्॥५९॥

दशनपङ्कौ दाडिमबीजोपमास्ति न वेति विलोकयितुम्॥

फूत्काराधिकभीषणास्यभुजगप्रत्यग्रभूषावली–
भावद्वर्ष्मणि भूतकोटिघटितप्रौढस्तवैः संस्तुते।
संध्याताण्डवकर्म खण्डपरशौ कर्तुं प्रवृत्ते सति
प्रत्याशं प्रतिपर्वतं समभवन्मेघौर्विना वृष्टयः॥६०॥

भ्रमरिकासमये शिरः स्थितगङ्गाजलप्रसरात्॥

निशाकरास्ये निशि कामतप्ता विधुंतुदं निन्दसि किं वृथैव।
दोषं न जानासि परं मुरारेः शिरोऽस्य कोपात्सखि येन कृत्तम्॥६१॥

उदरासंभवे जरणाभावात्॥

धाराधीश महीमहेन्द्र भवता प्रख्यातवीरव्रतं
सङ्ग्रामे निजवैरिवृन्दमसमं हन्तुं तपः कुर्वता।
हानिं यस्य विचार्य निर्जरगणः खिन्नस्तदेवाखिलं
तुल्यं प्रेषयति स्म रक्षितुमहो यन्न त्वया रक्षितम्॥६२॥

एतन्निहताः सर्वे स्वर्गे समागन्तारः। ततश्च तद्वरणे सुराङ्गना यास्यन्ति चेति तपोभङ्गाय ता एव प्रेषिताः॥

निशाकरेणातिनिपीडिताङ्गी दिवाकरं कापि परं निनिन्द।
तदन्तिके सिंहमवेक्षमाणा पुनः समाश्वासयति स्म चेतः॥६३॥

अनुदयादथवा कलाक्षये चैतस्मादेव समुपजीवतीति॥

श्रीराम रामेति पदं मनोज्ञं वक्तुं मतिं हन्त विधाय कश्चित्।
विचिन्त्य किंचित्पुनराशु चित्ते संदेहशाली स शनैर्व्यरंसीत्॥६४॥

सुरतावसरे स्वेष्टदेवध्यानमयुक्तमिति रीतेरिति॥

श्रीराघवे दिग्विजयाय वेगाद्विनिर्गते चापभृतां पुरोगे।
शून्यान्यभूवन्सुदृशां शिरांसि कासां च कासांचन वीक्षितानि॥६५॥

रिपुस्त्रीणां देवाङ्गनानां च॥

सङ्ग्रामं त्वयि देव कुर्वति सुरास्तत्कौतुकालोकिनः
पश्यन्तस्तव विक्रमं निजशिरः कम्पं न के चक्रिरे।
लोकेशादिकपालकोटिकलितां मालां समुत्तारय-
न्भीतश्चारुमतिर्व्यलम्बत पुनः खण्डेन्दुमौलिः क्षणम्॥६६॥

निजशिरःकम्पनेन सुधांशोः सुधाक्षरणान्मुण्डमाला सजीविता भविष्यतीति॥

समुद्धतानां दनुजेश्वराणां विमर्दने यस्य चकास्ति धैर्यम्।
स श्रीपतिः किं निजनामधेयमुहूर्तपद्भ्यो नितरां बिभेति॥६७॥

स्वर्लोकः सर्वोऽप्याक्रम्यत इति॥

संमानिता कापि रमा समाना कान्तेन साकं मदिरां पिबन्ती।
बिम्बं सुधांशोः प्रतिबिम्बिताङ्गं नखेन काचिच्चषके लिलेख॥६८॥

यतोऽयं नखाङ्कितः स्वकान्तामानेन विरहव्यथां वेत्तीति॥

पङ्केरुहाक्षी170 प्रियविप्रयोगे गन्तुं निशापारमपारयन्ती।
उद्गातुमादाय करेण वीणामेणाङ्कमालोक्य शनैरहासीत्॥६९॥

चन्द्रमृगोऽपि गीतप्रिय इति॥

त्वयि प्रवृत्ते मृगयाविनोदे नवाम्बुजाभेक्षण नागराज।
भीतिर्न जाता हरिणाङ्गनानां प्रवर्धते स्म प्रकटः प्रमोदः॥७०॥

कामभ्रान्त्या॥

अलङ्घितास्मद्वचसा भवत्या निर्व्यूढमद्यैव पराङ्मुखत्वम्।
कपोलयोग्या तव पत्रवल्ली पृष्ठे यदेतल्लिखिता प्रियेण॥७१॥

लतालभ्ये (?) त्वं नोपभुक्तेत्युपालम्भः॥

मायाप्रगल्भेषु विदारितेषु रक्षःसु रामस्य शरैः सुतीक्ष्णैः।
अकाण्ड एवाद्भुतमेतदुच्चैर्वल्लीद्रुमाः पल्लविता बभूवुः॥७२॥

गगनादापतितरुधिरबिन्दुसंपर्कात्॥

यूनां नागरिका विधाय विपुलं मानग्रहं याः प्रिया-
न्पादे पातयथ प्रियाणि वदतो दक्षालिभिः शिक्षिताः।
ग्रामीणाः सरला वयं पुनरमूः कान्तैर्न विद्मः क्वचि-
न्मानं कर्तुमिहालयोऽपि न तथा याः शिक्षयेयुश्च नः॥७३॥

अत्र काकुवाक्यैः पदे पदे भावः॥

श्रीरामचन्द्रे दशवक्त्रहानौ कृतोद्यमे क्रव्यभुजः सहस्राः।
मित्राण्यमन्यन्त मृगं कपिं च तपोधनं गाढतरं वनं च॥७४॥

राक्षसवधे मांसबाहुल्यादिभिरुपकारः कृतः॥

दूरेऽन्योन्यकथा कुतूहलविधिर्भ्रातस्तया भीतया
गच्छन्त्या गुरुसंनिधौ नयनयोरन्तेन नैवार्थितः।
किं त्वाश्वासयितुं चलाचलमिदं चित्तं मदीयं शनैः
स्नेहव्यग्रहृदा हि मौक्तिकमयो हारोऽयमुत्सूत्रितः॥७५॥

भूमिपतितमौक्तिकग्रहणव्याजेन विलम्बः॥

जाते त्वयि श्रीसख नागराजंपूर्वं प्रहृष्टोऽभवदिक्षुधन्वा।
आचारमालोक्य पुनस्त्वदीयं विषादमत्यन्तमवाप चित्ते॥७६॥

द्वितीयोऽयं मे सहचर इति संतोषः। पुनस्त्वदीयशिवभक्ततया विषादः॥

एकाकिनीं चित्तवतीं विहाय यियासुना मुग्धतया विदेशम्।
निजाशयं ज्ञापयितुं प्रियेण सारीषु चिक्रीड चरेण काचित्॥७७॥

चरे सारीणामेकाकिनीनां मरणाच्चरक्रीडायां विलम्बहेतोः॥

शिरः समालोक्य शशाङ्कमौलेरावेष्टितं भीममुखैर्भुजंगैः।
बिभेति पूर्वं मरुतामधीशो विचिन्त्य किंचिद्विजहाति भीतिम्॥७८॥

सर्पदर्शनेन भयम्, चन्द्रस्मरणेन च भयापगमः॥

त्वं मुग्धे न तु मन्दिरं पितुरुपानीतासि भर्तुर्गृहा–
त्तत्काव्यं परिपूजयैनमपरैः किं तैर्ग्रहैः पूजितैः।
एकोऽसावपराङ्मुखः फलति नैवेच्छानुकूलैः फलै–
रित्येवं कथिते सखीभिरभवन्मन्दाक्षमन्दा वधूः॥७९॥

संमुखे शुक्रे भर्तुर्गृहे गमनं न संभवति। व्यभिचारः सुलभश्चात्र\।\।

षण्मुखसेव्यस्य विभोः सर्वाङ्गेऽलंकृतित्वमापन्नाः।
पन्नगपतयः सर्वे वीक्षन्ते गणपतिं भीताः॥८०॥

स्कन्दवाहनमयूरदर्शनभीताः शुण्डादण्डप्रवेशाय॥

विच्छायतां गच्छति पश्य मुग्धे मन्ये त्वदास्येन जितो मृगाङ्कः।
हृदि स्थितापीति निगद्यमाना कान्तेन कान्ता पतति स्म चित्रम्॥८१॥

रजन्या गतप्रायत्वात्॥

अन्योन्यं भुजगवराः शंकर सर्वाङ्गभूषणीभूताः।
पश्यन्तो वदनानि प्रायः कम्पं भजन्ति को हेतुः॥८२॥

नीलं कण्ठं विलोक्य केनायं दंशापराधः कृत इति॥

योऽयं भाति पयोधरस्तदुपरीत्याख्याय ऋज्वाशये
बाले बाहुमुदस्य किं प्रियतमस्येन्दोः कला दर्श्यते।
दुर्लक्ष्याः सखि दर्शिताः कति न वा वक्रेन्दुलेखास्त्वये–
त्यालीजल्पितविस्मिता क्षणमथो सान्तः स्मितान्तर्हिता॥८३॥

नखाङ्कितं पयोधरमयं पश्यतीति॥

संगत्य नेत्रसलिलैस्तव विप्रयोगे
हारस्थितानि हृदयं हरिणायताक्ष्याः।

मुक्ताफलान्यपि दहन्ति हि नीचमार्गे
सङ्गो जडैर्गुणिनमप्यहितीकरोति॥८४॥

अतितापाच्चूर्णकलिकीभूतानामुपलानामुष्णजलसङ्गाद्बहुतापकारित्वम्॥

ईश्वरजटाप्रदेशे प्रोद्यत्कृतमालमालिकानिकरे।
परिमलबहुलेऽप्यलयः किमिति मनोज्ञेऽपि नासते लुब्धाः॥८५॥

चम्पककुसुमभ्रान्त्या॥

कंदर्पो योगजुषां भेत्तुं सर्वं समाधिमतिवेगात्।
आकृष्य चापमधिकं नो मुञ्चति सायकं चित्रम्॥८६॥

आत्मदाहवृत्तान्तं स्मृत्वा॥

त्वं पार्थादधिकोऽसि संप्रति धनुर्विद्याविदामग्रणीः
प्रीत्या यद्वचनं करोषि नियतं कुर्या विशेषादिदम्।
चन्द्रेणेह कलङ्किना मम मुखं गायन्ति तुल्यं ततो
हत्वैनं प्रिय पातयास्य हरिणं प्रातः प्रयातासि यत्॥८७॥

प्रातर्विदेशं प्रयातरि प्रियतमे सूर्योदयमनाकाङ्क्षमाणा मृगवधमादिशति । तद्बधेन रात्रेस्तथैवावस्थानात् । तद्वियोगादियं परासुर्भवित्री । त्वं तमेव यथाकालं पश्यसीति तत्समत्वात्॥

सखीनिदेशानुचरः प्रियोऽयमुच्चस्वरा पञ्जरशारिका च ।
एतत्सपत्नीगृहमप्यदूरे कथं नु मानः सखि नैष मान्यः॥ ८८॥

अत्रत्यं वृत्तान्तं शारिकामुखात्सपत्नीशृणोतीति परित्याज्यो मानः॥

मज्जंश्चरमसमुद्रे मार्तण्डश्चण्डमात्मनस्तापम् ।
तस्यैव तटविभागे जन्तुविशेषेऽक्षिपत्सत्यम्॥ ८९॥

चक्रवाके॥

कामेषोरिव भल्लिका विरहिहृच्चिन्ताम्बुपूर्णार्णवे
तापानामिव नौर्विधोरिव कला मानग्रहग्रन्थिहृत् ।

कालस्य च्छुरिकेव हा तब करे संवर्तिका कैतकी
वैयोगी

क्रकचद्वयीव सखि मे चित्तं परं कृन्तति॥९०॥

अवधिभूतवर्षाकालशमनात्॥

स्मरमतसचिवं कलाविदग्धं भज सखि तं तरुणं शशाङ्ककान्तम्।
इति गिरमधिगम्य दूतिकाया मुखमबला स्वकरेण सा पिधत्ते॥९१॥

आत्मनि पद्मिनीभावप्रकटनेन चन्द्रगुणान्विते तरुणे स्नेहराहित्यं प्रकाशयति॥

उद्याने स्मरसांपरायविवशामालिङ्ग्य गाढं प्रिया–
मागच्छन्मदवारणेश्वरभयादन्यत्र नीत्वा युवा।
बुद्धायां पुनरन्तरायमखिलं स्नेहादवादीद्द्रूतं
श्रुत्वा सा निजजीवितेशविषये स्नेहच्छटामत्यजत्॥९२॥

हस्तिदर्शनेनान्यासक्तत्वं द्योत्यत इति। अथवा पयोधरोरुगमनविजितकुम्भस्थलकरगतिरात्मनि पराजयमाशङ्क्य कुप्यति॥

जनकतनयां हृत्वा रागाद्गते दशकंधरे
तदुरुविरहज्वालाजालाकुलीकृतविग्रहः।
रघुपरिवृढो नाधो नोर्ध्वं न तिर्यगवेक्षते
मुकुलितदृगम्भोजद्वन्द्वः समाहितवत्स्थितः॥९३॥

श्वश्रूस्ववंशजनपरिलज्जया

पतिव्रताहं प्रमदासु रूढा लोकापवादो नितरां गरीयान्।
उल्लङ्घ्य शीतं व्रज वर्तमानमायाहि पूर्वं प्रिय भाविशीतात्॥ ९४॥

अधरस्फुटनपरिहारः॥

मलयाद्रिसमुद्भूते मन्दं वाति समीरणे।
निनिन्द वानरान्काचित् कामिनी यामिनीमुखे॥९५॥

मलयाद्रिसमीरणेन विरहिणी दुःखं प्राप्नोति॥

सीताजानिरवादीदवनीमखिलां वहन्भुजाभोगे।
पृथ्वीपतिरिति लोका मा ब्रूध्वं मामतः क्वपि॥९६॥

पृथ्वी श्वश्रूरूपिणी, तत्पतित्वमयुक्तमिति॥

अन्याङ्गनो……..कृतोपपत्तिमशोकमालां बकुलस्रजं च।
प्रियेण दत्तामधिकादरेण न मानिनी स्वीकुरुते कदापि॥९७॥

सपत्नीचरणताडनगण्डूष… त्याशङ्किनी॥

आसीत्कर्पटिगोत्रसागरसुधाधामा सुकामाद्भुतः
श्रीविद्याधर इत्यशेषभुवनप्रख्यातनामामृतः।

यः केदारपदारविन्दयुगलप्रत्यग्रपूजाविधि–
प्राप्ताशेषपवित्रभव्यविभवैः सार्थीकृतार्थिश्रमः॥९८॥

तत्पुत्रः सर्वमित्रं सरसकविकुलस्तूयमानोरुकीर्ति–
र्विख्यातो जालपाख्यो जगति विजयते टाकवंशप्रशस्यः।
विष्णुर्दैत्येन्द्रयुद्धव्यतिकरसमये व्याकुलत्वात्स्वभार्यां
लक्ष्मीं निक्षिप्य यस्मिन्विहरति दिनशः स्वेच्छया स्वस्थचित्तः॥ ९९॥

तस्माज्जातः सुजातो निजगुणमणिभिः प्रीणिताशेषलोकः
कोकाहंकारहारिस्मितमहितमुखष्टाकवंशावतंसः।
भाति श्रीनागराजो परनृपतिशिरोदर्शितोद्यत्प्रतापो
राजेतेयं समेते विगलितकलहे वाक्च पद्मालया च॥१००॥

भारत्यां यदि पुंस्त्वमामरतरुव्राते विवेकोऽस्ति चे–
स्त्वाङ्गत्वं यदि मन्मथे सकलता नित्यं शशाङ्के यदि।
सिंहे चेन्नरता जितारियशसो भावज्ञचूडामणे-
स्तत्तत्सद्गुणतोपमानघटना स्यान्नागराजप्रभोः॥१०१॥

यत्तीक्ष्णाक्षतधारदुर्धरमहाकौक्षेयकाक्षेपण–
क्षुभ्यत्क्ष्मापतिवल्लभोदरदरी निर्भिन्नगर्भायते।
सोऽयं दुर्जयदोर्भुजंगजनितप्रौढप्रतापानल–

ज्वालाजालस्विलीकृतारिनगरः श्रीनागराजो जयी॥१०२॥

इति श्रीनागराजकविप्रणीतं भावशतकं संपूर्णम् ।

————————

^(१)श्रीनारायणभट्टपादकृतः171 इत्थं गुरुवायुपुरेश भगवच्छ्रीनारायणप्रसाद समवाप्तनिखिलामयापगमसमुज्वलनिजशरीरोऽयं देवालयनदीवास्तव्यराज्ञाभ्यर्थितः ‘प्रक्रियासर्वस्व’नामकं पाणिनीयसूत्रव्याख्यानरूपं कमपि ग्रन्थं निर्मितवान् पुनः कदाचिदयं बालचन्द्रदर्शनजनितकौतुकैर्भूदेवैः संप्रार्थितः ‘कस्मात्कारणान्निखिलैर्जनैरथं वासोविक्षेपपूर्वमभिवन्द्यते इत्यस्मात्प्रबन्धरूपेणैव वक्तव्यम्’ इति द्रुतमेवेदं स्वाहासुधाकरनामकं प्रबन्धरत्नं च कृतवान् . अयं वर्षशतत्रयान्न प्राचीनः तस्मादेतच्छ्लोकास्त्वन्यग्रन्थेषु नोदाहृताः. एतेनायं प्राचीन इति न परिशङ्कनीयम्. “लोकाम्बिका दिशतु मङ्गलमस्मत्कुलदैवतम्”. सोपोद्घातोऽयं प्रबन्ध उत्तरमलबार(केरल)देशान्तर्वर्ति’कटथनद’राजेन श्रीमदुदयवर्मणा केरलीयलिपितो भूयसा श्रमेण देवनागराक्षरैर्विलिख्य प्रेषितः, अतो वयं तस्य राज्ञो महान्तमुपकारभारं शिरसा धारयामः .‘आशास्महे च तद्देशप्रसिद्धनानाकाव्यनाटकभाणादिप्रेषणेन सर्वदैवास्मानुपकरिष्यति रसिकशिरोमणिर्महीपतिः एतत्कविप्रणीतः कश्चन ’ चण्डिकासप्तति’नामको देवीस्तवोऽस्तीत्यपि श्रूयते.”)
स्वाहासुधाकरः।

मङ्गल्यं वः करोतु ज्वलनदयितया संगमे भर्तृभीत्या
ग्रस्ताङ्गो हन्त तस्यामपि च हुतभुजा ग्रस्ततां प्रापितायाम् ॥
निश्चन्द्रे व्योममार्गे सदसि च हरिणा कौशलाद्दर्शितात्मा
वासोभिः सोपहासं सकलसुरगणैरर्चितोऽयं मृगाङ्कः॥१॥

जिह्वायां कमलोद्भवः स्वगृहिणीं वाणीं दधत्यादरा-
त्कृष्णोवक्षसि सिन्धुराजतनयामाधाय धत्ते मुदम् ।
देहार्धे गिरिकन्यकांच गिरिशो गृह्णाति मोहाद्यथा
स्वाहां हव्यभुगादधाति जठरे कामातुरोऽयं तथा ॥ २ ॥

——————————————————————————

^(१.)“केरलदेशालंकरणभूताया ‘निला’नामकपुण्यनद्याः पञ्चाशन्न्यूनार्धयोजनमात्रमुत्तरे तीरे ‘मेप्युन्नूर्’ इति प्रथिते धरणीसुरवंशे कृतावतारोऽयं नारायणभट्टपादः सोऽयं बाल्येऽनभ्यस्तशास्त्रो बभूव अवगतवांश्च किंचित्काव्यादिकमात्रम्, ततः कदाचन ‘अच्युत’नामकस्य वैष्णवदासस्य शिष्यानुपगम्याधीतसकलशास्त्रस्तस्य कुतोऽपि हेतोः संजातं महान्तमामयं निजतपःशक्त्यास्मि संक्रमय्य तदपनयनोपायं समालोच्य ‘गुरुवायुपुरम्’ इति प्रसिद्धे क्षेत्रे संनिहितं भगवन्तं श्रीनारायणमभजत प्रतिदिनमेतत्स्तोत्ररूपं श्रीमद्भागवतार्थप्रतिपादनपरं मानसश्रवणसंतोषजनकमतिरमणीयपदनिवहघटितं नारायणीयनामकं स्तोत्ररत्नं रचितवान् एतदपि केरलीयैरहरहः पर्युपास्यमानं भागवतमिवविजेजीयते. एतत्स्तोत्रनिर्माणकलिगतदिवससंख्या तत्रैवान्तिमश्लोके ‘आयुरारोयसौख्यम्172 एतावती गतकलिदिवससंख्यासीदिति ज्ञायते. तेन १५९० मिते ख्रिस्ताब्दे कविरयं ‘नारायणीयं’ नाम स्तोत्रं प्रणीतवान्. २. प्रक्रिया सर्वस्वस्येदं मङ्गलाचरणम्— ‘रासविलासविलोलं स्मरत मुरारेर्मनोरमं रूपम् । प्रकृतिषु यत्प्रत्ययवत्प्रत्येकं गोपिकासु संमिलितम् ॥’ इति .”)’ इति पदेन प्रकाशिता (१७१२२१० इति गतकलिदिवससंख्या) इत्थं गुरुवायुपुरेश भगवच्छ्रीनारायणप्रसाद समवाप्तनिखिलामयापगमसमुज्वलनिजशरीरोऽयं देवालयनदीवास्तव्यराज्ञाभ्यर्थितः ‘प्रक्रियासर्वस्व’नामकं पाणिनीयसूत्रव्याख्यानरूपं कमपि ग्रन्थं निर्मितवान् पुनः कदाचिदयं बालचन्द्रदर्शनजनितकौतुकैर्भूदेवैः संप्रार्थितः ‘कस्मात्कारणान्निखिलैर्जनैरथं वासोविक्षेपपूर्वमभिवन्द्यते इत्यस्मात्प्रबन्धरूपेणैव वक्तव्यम्’ इति द्रुतमेवेदं स्वाहासुधाकरनामकं प्रबन्धरत्नं च कृतवान् . अयं वर्षशतत्रयान्न प्राचीनः तस्मादेतच्छ्लोकास्त्वन्यग्रन्थेषु नोदाहृताः. एतेनायं प्राचीन इति न परिशङ्कनीयम्. “लोकाम्बिका दिशतु मङ्गलमस्मत्कुलदैवतम्”. सोपोद्घातोऽयं प्रबन्ध उत्तरमलबार(केरल)देशान्तर्वर्ति’कटथनद’राजेन श्रीमदुदयवर्मणा केरलीयलिपितो भूयसा श्रमेण देवनागराक्षरैर्विलिख्य प्रेषितः, अतो वयं तस्य राज्ञो महान्तमुपकारभारं शिरसा धारयामः .‘आशास्महे च तद्देशप्रसिद्धनानाकाव्यनाटकभाणादिप्रेषणेन सर्वदैवास्मानुपकरिष्यति रसिकशिरोमणिर्महीपतिः एतत्कविप्रणीतः कश्चन ’ चण्डिकासप्तति’नामको देवीस्तवोऽस्तीत्यपि श्रूयते.

——————————————————————————

एतावानस्ति विशेषः—

ब्रह्मादयस्त्रयो देवाः सदा दधति वल्लभाम् ।
दधाति याममात्रं न पावकः संध्ययोर्द्वयोः॥३॥

———————————————————————————

———————————————————————————

१. संपूर्ण श्लोक स्त्वित्थम्— ‘अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ क्षमेथाः स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् । द्वेधा नारायणीयं श्रुतिषु च जनुषां स्तुत्यतावर्णनेन स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम्॥’ अत्र ‘आयुरारोग्यसौख्यम्’ इत्यस्मात्पदादार्यभटसिद्धान्तादिज्योतिःशास्त्रप्रसिद्धेन वाररुचेन कटपयादिक्रमेण ग्रन्थनिर्माणसमये ( १७१२२१० ) एतावती गतकलिदिवससंख्यासीदिति ज्ञायते. तेन १५९० मिते ख्रिस्ताब्दे कविरयं ‘नारायणीयं’ नाम स्तोत्रं प्रणीतवान्. २. प्रक्रिया सर्वस्वस्येदं मङ्गलाचरणम्— ‘रासविलासविलोलं स्मरत मुरारेर्मनोरमं रूपम् । प्रकृतिषु यत्प्रत्ययवत्प्रत्येकं गोपिकासु संमिलितम् ॥’ इति .

अथ कदाचित्—

संध्योपासनकर्मणे सपदि तां निक्षिप्य कान्ते गते
चन्द्रस्तामवलोक्य मन्मथशरैः संतापितात्मा चिरम्।
मल्लीचन्दनमन्दमारुतरसेष्वा हन्त निन्दापरः
कष्टं कांश्चन वासरानगमयत्प्रत्येकमब्दोपमान्॥४॥

तदनु कदाचन दिवसावसानवेलायां मन्दमन्दमायाति च मलयशिखरिशिखरशेखरितसुन्दरतरचन्दनतरुमञ्जुलतरमञ्जरीविसृमरमकरन्दबिन्दुभरणमन्दगमने

मन्द पवने, झंकुर्वाणे च संध्यासमयविनमदुन्नमदतिकोमलदलपेशलसकलकमलकुमुदकुलमधुरतरमकरन्दरस तुल्यकालसमाखादनजनितानन्दकन्दलितविरहिवर्गव्यलीके चञ्चरीके, वियुज्यमाने च विरहवेदनाविदीर्णहृदये समाक्रन्दवाचालिताशाचक्रवाले चक्रवाके, संप्रयाते च कुहचन सहचरीं निक्षिप्य विक्षेपादिकर्मकृतादरे स्वाहासहचरे पुष्पायुधनिष्पादितपीडाकुल एष दोषाकरः कुमुदिनीरोहिणीभ्यामप्यविज्ञातवृत्तान्तं स्वाहयासनाथीकृतमुटजाङ्गणमभिससार ।

दृष्ट्वा सा कामसेनापतिमतिसुकुमाराङ्गमारादकाण्डे
चन्द्रं नारीजनानामतिशय सुलभादाकुला चित्तलौल्यात्।
तस्थौ गत्वा गृहाभ्यन्तरमररमुखेनास्य173 संचारयन्ती
वक्त्रे मन्दस्मितार्द्रानतिमधुरसुधाशीतपातान्कटाक्षान्॥५॥

किमिह बहुभिरुक्तप्रक्रमैः पक्ष्मलाक्ष्याः
सकलभुवनबन्धोश्चातिमुग्धाः कटाक्षाः।
हृदयहरणदक्षाः प्रोचुरन्योन्यमेत्य
प्रणयगतिमशेषां दूतिकातुल्यरूपाः॥६॥

अनन्तरममृतगुरेवमवादीत्—

पश्य त्वं भृङ्गपोतं कमपि कुमुदिनीतीरभागे चरन्तं
सौरभ्यं मन्दवातैरुपहृतमतुलं किंचिदाखादयन्तम्।
एतस्या हन्त माध्वीरसमतिमधुरं जातु पातुं नितान्तं
मुग्धे वक्त्रे विकासंदिवसपरिणतिप्राप्तमाकाङ्क्षमाणम्॥७॥

अथ स्वाहयाप्येवमभिहितम्—

रविरयमस्तं यातः समागतो हन्त हन्त चन्द्रोऽयम्।
याति विकासमपीयं कुमुद्वती किं विलम्बसे भृङ्ग॥८॥

अनयोरेवमादिभिः संल्लापैरुल्लासितमल्लिकायुधविलासयोः सपदि परस्परगृहीतहस्ताम्बुजयोरालिङ्गनचुम्बनाडम्बरैः संभृतानन्दयोरतिमधुरमधरबिम्बमास्वादयतोरतिकोमलवदनकमलसमवलोकनविधुतविरहवेदनयोरन्तरान्तरा ससंभ्रमज्वलनसमागमनावलोकनव्यापृतैकैकनेत्रयोः स्वाहाचन्द्रमसोर्मन्दमन्दनिष्पन्दमानमञ्जुलतरमिलितसीत्कारमनोहरा मञ्जुशिञ्जानवलयनूपुरमेखलागुणा दशननिपातविदलितसकलावयवाः प्रसृमरघर्मलेशमिलितनिखिलशरीराः शनैर्म्लायमानसकलावयवाः सुरतोत्सवाः संबभूवुः। ततश्च—

भूयादेवं प्रभाते दिवसपरिणतौ चावयोरङ्गजन्म–
क्रीडाभेदो निगूढो मुहुरिति सदयं सस्पृहं सप्रमोदम्।
संभाषन्तौ युवानौ विरहुतवहग्रस्तदेहावभूतां
स्वाहा हा हन्त पश्चादपि च हुतवहग्रस्तदेहा बभूव॥९॥

तदनु तयोरेवमेव चौर्यसुरतमनुसेवतोरनुक्षणविजृम्भिताभिलाषयोः कदाचिदप्यपरिपूर्णमनोरथयोः स्वाहासुधाकरयोराज्यधारयेव महानलो मदनानलः प्रतिक्षणं समजृम्भत।

अथ निपुणमतीनामग्रणीरुग्ररूपः
स्मरशरपरितापव्याकुलाङ्गो मृगाङ्कः।
प्रतिदिनमवियोगे कल्पयन्नभ्युपायं
प्रणयपरवशां तां वल्लभामेवमूचे॥१०॥

हृद्यां विद्यामधीष्व त्वमिह सहचरात्पावकाव्द्यजपूर्वं
धत्ते सोऽयं यथा त्वामनुदिनमुदरे सादरं हन्त पश्चात्।
धृत्वा मां याहि नित्यं जठरकुहरमेतस्य जातानुमोदा–
वावां तस्मिन्वसन्तौ तदनु विहरणं कुर्वहे सार्वकालम्॥११॥

अथ सा हुतवहसहचरी मधुरां जारभारतीं तथेति प्रतिगृह्य स्त्रीजनसुलभेन निर्बन्धेन निबध्य सुदुर्लभामपि तां विद्यां जडात्मनो हुताशनादधिजगाम।

संध्यायामथ निर्गते पुनरहो कामाहवं कुर्वतोः
स्वाहाचन्द्रमसोः क्षणेन स गतो यामोऽयमामोदिनोः।
संप्राप्ते परिणेतरि क्षणमिव स्वाहानु विद्यावशा–
त्संजग्राह निजोदरे शशधरं तामप्यसौ पावकः॥१२॥

ततश्च—

कथं वा राकायामिह नहि समायाति गगने
शशाङ्को रात्र्यर्धंगतमिति मिथो हन्त गदताम्।
नितान्तं तिथ्यर्क्षग्रहणगणनव्याकुलधियां
जनानां संजाताः कतिचन महान्तः कलकलाः॥१३॥

हा हा नः प्राणनाथः क्व नु खलु विगतः संत्यजन्कष्टमस्मा–
नित्थं तारावलीनां क्व नु मम जनको हन्त हन्तेति चान्द्रेः।

आहारो हन्त हा हा गत इति च सुराणां नितान्तातुराणां
वाक्यैरश्रुप्रवाहैरपि च सुरकुलं व्याकुलं संबभूव॥ १४॥

अथ शतमस्वचतुर्मुखप्रमुखैरखिलैरमरैरस्मदापन्निवारणप्रवीणो नारायणान्नान्यः कश्चिदिति निश्चिन्वानैरनवरतस्तुतिरवमुखरितहरिदन्तरालैः संचिन्तितो भगवानम्बुजाक्षः।

विज्ञायाथ दयानिधिः स भगवानाकाङ्क्षितं नाकिनां
सद्यः प्रादुरभूदपारमहिमा मन्दस्मितार्द्राननः।
नीलाम्भोधरजालकोमलतरैरानन्दयन्नङ्गकै–
श्चन्द्रालोकनकौतुकं सुमनसां वक्त्रेन्दुना पूरयन्॥१५॥

स्वाहाग्रस्तं मृगाङ्कं तुलितमहदकूपारगाम्भीर्ययासौ
बुद्ध्या निध्याय देवान्मुकुलितकरपङ्केरुहानेवमूचे।
विज्ञातं वः सुरेन्द्राः सकलमिह मया कारणं मत्प्रणामे
संजातं घोरघोरं व्यसनमिदमहं नूनमुन्मूलयामि॥१६॥

यूयं यात बहिः क्षणं हुतभुजा संभाषणं कुर्महे
नास्माकं वचनं तदन्तरगता स्वाहापि गृह्णातु सा।
षट्कर्णश्रुतमन्त्ररक्षणविधौ को वा विदग्धः पुमा–
नित्थं नीतिविदां वचो न किमिदं युष्माभिराकर्णितम्॥१७॥

नारायणेन गदिता मुदितानुभावा–
मेवंविधामथ गिरं विबुधा विचार्य।
स्वाहागतं निखिलचापलमाकलय्य
व्रीडापरा नतमुरारिपदाः प्रयाताः॥१८॥

स्वाहां विन्यस्य याते कुहचन दहने पार्श्वभागं मुरारे–
र्देवाः स्वाहासमीपं निभृतमुपगतास्तस्थुरत्यन्तगूढाः।

सापि प्रीता समन्तात्प्रति मुहुरवलोक्याशु लब्धावकाशा।
वासोलेशेन हीनं गगनपथमथो यापयामास चन्द्रम्॥१९॥

अथ निभृतमवस्थिताः सुरेन्द्राः परिहसनाभिमुखाः सहस्ततालम्।
वसनमुरुतरं समुत्क्षिपन्तो विविधतरां गिरमेवमूचिरे ते॥२०॥

तव हन्त वियोगपीडितं जनमेनं प्रविहाय किं भवान्।
गमनं विदधाति गृह्यतां वसनं चेति च केचिदूचिरे॥२१॥

निहितं वसनं क्व तावकं रचयामोऽस्य गवेषणं वयम्।
अथवा वसनं प्रगृह्यतामिदमेवेति च केचिदूचिरे॥२२॥

व्यसनं वसनापहारजं कथमेतद्भवतः समागतम्।
त्वरितं च मदीयमंशुकं परिधेहीति च केचिदूचिरे॥२३॥

देवो नारायणोऽथ ज्वलनमुपगतं मन्दमन्दं बभाषे
चन्द्रालोकाभ्युपायं कथयितुमधुना बुद्धिकौशल्यशाली।

आनीतः स्वं समीपं स किल शशधरो लक्षितो देववृन्दै–
स्तस्माद्याहीति याते तदनु च दहने देवदेवस्तिरोऽभूत्॥२४॥

निन्दन्तः केचिदिन्दुंकतिचन दयितां पावकस्य क्षिपन्तः

स्वाहानाथस्य जाड्यं महदिति च परे निर्विशङ्कं वदन्तः।

चित्रं चित्रं चरित्रं सकलसुरपतेर्माधवस्येति भक्त्या
वैकुण्ठं संस्तुवन्तो निजमथ विबुधा मन्दिरं भेजिरे ते ॥२५॥

स्वाहासुधाकरं नाम प्रबन्धमतिकोमलम्।
अकरोदचिरेणैव नारायणमहासुरः॥२६॥

इति श्रीनारायणभट्टपादकृतः स्वाहासुधाकरः समाप्तः।

———————

नारायणसूनु174श्रीकृष्णकविप्रणीतं
ताराशशाङ्कम्।

चञ्चञ्चन्द्रमरीचिभिश्चकचकच्चुडं चलल्लोचना–
चारुस्मेरकुचोपभोगघुसृणव्यालिप्तवक्षःस्थलम्।
बिभ्राणं धनुरैक्षवं सृणिगुणौ पौष्पं शरं चोदय–
त्सूर्याप्रकरद्युतिं गणपतिं वन्दे जगन्मोहनम्॥१॥

दारुकावनविलोललोचनोदारकामकलनैककौतुकम्।
कामिनीकलितवामभागकं वामदेवमनिशं श्रयामहे॥२॥

राधा पयोधरतटीपटुचित्रकार–
पाणिं नखांशुचयकन्दलिताग्रवेणुम्।
वन्दे कलिन्दतनयाजलकेलिलोल–
गोपालिकावसनचौर्यपरं किशोरम्॥३॥

श्रुतिपरिसरगुञ्जिद्वम्भरी175शिञ्जिनीकं
मधुरिमनिधिचापं176 सौरभाधाररोपम्177
दधदरुणिमसंपत्कोषमुन्मादितेशं
सुखयतु मम भावं धाम शृङ्गारदेवम्॥४॥

ताराधीशरुचिः सेयं तारा जयति संततम्।
यद्विभूतिः सरसतां पदेषु तनुते कवेः॥५॥

वाञ्छन्नपि कविकीर्ति लोकानां लालनीय एव स्याम्।
लोके न हासहेतुश्चन्द्रकलाग्रहणचापलं हि शिशोः॥६॥

कृतिर्मम नवीनापि कमनीया भवेदियम्।
अप्रौढिमा नवोढेव रसिकानां कलाविदाम्॥७॥

दोषान्निरस्य गृह्णन्तु गुणमस्या मनीषिणः।
पांसूनपास्य मञ्जर्या मकरन्दमिवालयः॥८॥

कलशजलधिगेहस्याक्षि178 यं वाममाहुः
प्रथमरस179विकासप्रौढिमश्रीनिवासन्।
स जयति जगदेकानन्दनोद्दामधामा
सकलविभवभूमा देवतासार्वभौमः॥९॥

अयं सखायं मम चिन्त्यकायं चकार घोरेक्षणवीक्षणेन।
इतीव रोषेण शिरः पुरारेराक्रम्य यो भातितरां कलात्मा॥१०॥

कुमुदवलयव्यालोलश्रीविलाससुधासरि–
द्भ्र्मकरकरश्रीकाद्राकाङ्गनासुमकन्दुकात्।
अविरहयुवश्रेणीसाम्राज्यसौख्यसुरद्रुमा–
त्रिजगति यतो निर्वर्ण्यं वा न वर्ण्यमवेक्ष्यते॥११॥

सुरासुरशिरोरत्ननीराजितपदाम्बुजः।
स राजसूयं सद्राजो विधातुमुपचक्रमे॥१२॥

अतिविचित्रतदुत्सववीक्षणोत्सुकहृदः ससतीसुतबान्धवाः।
सुरनरोरगलोकनिवासिनः सरयमभ्यगमन्सकला जनाः॥१३॥

वाणीपाण्यग्रचञ्चद्व्यजनभवमरुन्मृष्टहोमश्रमाम्बौ
दिक्कान्तालोचनान्तप्रसृमरसहजप्रेमसाम्राज्यधाम्नि।
तस्मिन्सौन्दर्यमन्दीकृतमदनमदप्राभवे श्रीसनाभौ
सर्वासामङ्गनानां सपदि समपतन्दृष्टयः कामकृष्टाः॥१४॥

स एव जानाति विलासिनीनां कटाक्षतैक्ष्ण्यं कमनीयमूर्तिः।
योऽयं कलङ्कीत्यधुनापि लोकैरालोक्यते तेन गृहीतसारः॥१५॥

विस्मयस्तिमितनेत्रतारकं विस्मयस्फुरणपक्ष्म काचन।
वीक्षते स्म तमतिस्मराकृतिं लक्ष्यसाधनमिवानुकुर्वती॥१६॥

निमिषद्भिरुन्मिषद्भिस्त्रपया कुतुकेन विकसितानङ्गैः।
लावण्यनिधिमपाङ्गैस्तमापिबन्तीव कापि बभौ॥१७॥

अहो लक्ष्मीरहो रूपमहो लक्षणशालिता।
अहो दाक्षायणीपुण्यमिति काचित्समालपत्॥१८॥

काचिदन्तःप्ररूढस्य कुतूहल महीरुहः।
कुसुमेनोद्गतेनेव स्मितेनाकलिता बभौ॥१९॥

अर्पयैतमधरं मधुरं ते मत्सखाय शशिने सहसेति।
अन्तरङ्गजनुषोन्नमितास्येवोन्मुखी गगनमैक्षत कापि॥२०॥

चकिता मृगीव काचिच्चलनयना वक्रिताननोद्ग्रीवा।
व्यलसत्परुषतरस्मरशरागमायनमवेक्षमाणेव॥२१॥

रेजे काप्यङ्गभङ्गप्रसृतभुजलतालिङ्गितुं संप्रवृत्ते–
वैका किंवापि वक्तुं चलितरदपटी चुम्बितुं प्रोद्यतेव।

अन्या रोमाञ्चिताङ्गी बहिरिव विगलत्प्रौढमानान्धकारा–
प्यन्योद्यन्मन्दहासा विमलरुचि किरन्तीव संमोहचूर्णम् ॥२२॥

निमीलन्निःश्वासा निमिषदरविन्दाभवदना
तिरो मीलन्नेत्रा तनुजलकणालंकृततनुः।
उदञ्चद्रोमाञ्चा व्यलसदपरिस्पन्दसकल–
प्रतीका काप्यन्तःकरणरतितान्तेव तरुणी॥२३॥

अपसरापसरेति पुरः स्थितं जनमिव ब्रुवती करकम्पितैः।
अनुचकार लतामनिलोच्चलत्किसलयामपरा चपलेक्षणा॥२४॥

अयं किल भयंकरं त्रिभुवना180सुवातंधयं
ससर्ज पुरुषं विषं तदिति पुष्कराक्षो181 रुषा।
चकर्ष कलशोदधेः182 सकलभाग्यसारं श्रिया
सहामुमिति काचिदन्वलपदेणशावेक्षणा॥२५॥

काचित्तं हृदयंगमं मनसिजप्रेम्णेव संभावय–
न्युद्यत्केलिमनोरथोत्सवरसोल्लासा बभासे क्षणम्।
सव्रीडेव सकौतुकेव चकितेवाह्लादिनीवोन्मदा
संभ्रान्तेव च कोपना व्यसनिनीवानन्दसान्द्रेव च॥२६॥

परपुरुषमुखं न वीक्षणीयं कुलभवयेति विचिन्तयामि भूयः।
घटयितुमपि पक्ष्म नैव शक्नोम्यहह किमेतदिति स्म वक्ति कापि॥२७॥

किं पश्यामि किमालपामि किमहं ध्यायामि किं चिन्तये
किं वाञ्छामि वितर्कयामि किमु किं तिष्ठामि कुर्वे च किम्।
इत्याक्लृप्तविकल्पजल्पितशता काचित्कुचोज्जृम्भणा–
त्रुट्यन्तीमपि कञ्चुलीं विगलितां नीवीं च नावैक्षत॥२८॥

दग्धोमारस्त्रिपुररिपुणेत्यद्य मिथ्या विजाना–
म्येतं पश्यन्त्यहमिति सखीं काचिदूचे ब्रुवाणाम्।
मुग्धे किं त्वं भ्रमसि स तनुं तस्य हुत्वाक्षिवह्नौ
लेभे तस्याप्यतिमदकरश्रीकमेतच्छरीरम्॥२९॥

अयं नात्रेः पुत्रो नयनमलजातस्य नु कथं
भवेल्लावण्यश्रीरियमनुपमा सोऽयमथवा।
तपःशक्त्या तेजोनिधिमपि दृगुल्लासकममुं
ससर्जार्कंगर्वंतिरयितुमिति स्माह च परा॥३०॥

यदा सुमशरः शरं समसृजत्तदा पार्वतीं
मनस्यकलयत्परं पुररिपुर्यदासौ शिरः।
रुरोह विरहागमव्यसनतस्तदाद्येकतां
तया स विषमेक्षणोऽप्यलभतेति काप्यालपत्॥३१॥

अत्रेःक्व शक्तिरपि तस्य पितुर्नहीदृ–
गाश्चर्यवस्तुकलनेष्विति चिन्तयन्ती।
कस्माद्भ्रमामि मनसोऽभवदेष विष्णो–
रित्याह नु श्रुतिरितीव जगाद कापि ॥३२॥

एवं स्मरेणाकुलितासु तासु व्यालोलदृष्टेरुडुनायकस्य।
तस्यापि सांक्रामिकबभूव स्मारो विकारः करणापहारी ॥३३॥

परा लक्ष्मीरेषा प्रथमरसवेणीयमतनो–
रियं संपद्युनामियमपि तपःसंततिफलम्।
इयं देवी वात्स्यायनमुनिमतस्येति स तत–
स्ततस्तास्ताः पश्यन्किमपि परमं प्रैक्षत महः ॥३४॥

किमेतदित्याकुलितान्तरात्मा विसृज्य नेत्रे मुहुरीक्षमाणः।
तदन्तरे मानुषरूपमेकं ददर्श नारीत्यपि निश्चिकाय ॥३५॥

श्यामामुन्मुखजानुसंगतभुजं सख्यङ्गदेशोल्लस–
ज्जान्वध्यासितकूर्परं करतलन्यस्तैकगण्डस्थलम्।
आसीनां स्खलितांशुकान्तविकसद्वक्षोरुहां वीक्ष्य तां
मायामेव मनोहराकृतिधरां मेने स मैनध्वजीम् ॥३६॥

पुनः स रम्भा किमुतोर्वशीयं तिलोत्तमा गौतमसुन्दरी वा।
रतिर्नु वाणी गिरिजा रमेति विचार्य वेत्ति स चिराय ताराम् ॥३७॥

तस्या गुरुनितम्बिन्यालावण्यं रमणीयताम्।
सौन्दर्यमपि संपश्यन्स एवं हृदयेऽकरोत् ॥३८॥

अहह महल्लावण्यं मोहनमूर्तेर्यतो दृगङ्गेऽस्याः।
यत्नेनैव विधेया रत्ने स्निग्धेशलाकेव॥३९॥

नूनमालोक्य कान्तायाः कान्तिमस्यास्तडिल्लता।
लज्जिता जातमात्रैव तत्र तत्र विलीयते॥४०॥

को नाम रामणीयकमेतस्या वर्णयेत्कविर्लोके।
एकैकमपि यदङ्गं न विमुञ्चत्यन्यतो दृशं प्राप्ताम्॥४१॥

सृष्ट्वा प्रथममहल्यां तिलोत्तमामपि विधिः कृताभ्यासः।
एतां ससर्ज नूनं नो चेत्कथमङ्गसौष्ठवमियत्स्यात्॥ ४२॥

तिरश्चांनो लज्जेत्यभिदधति मिथ्यैव विबुधा–
श्चमर्यो यदृष्ट्वा कचनिचयमस्या वनमगुः।
दृशं दृष्ट्वा प्राणेष्वपि विगततृष्णैरविरतं
चकोरैरङ्गारग्रसननियमः सोऽपि विधृतः॥४३॥

श्रुत्वास्या वचनं वनप्रियतया ख्याताः पिका मैव भू–
त्स्वीयानां कलकण्ठतेति करटैः संरक्षयन्ते शिशून्।
आस्तामेतदचेतना अपि दिवारात्रं यदालाबुकं
धृत्वा पात्रमहो भ्रमन्ति भुवने वीणा विरक्ता इव॥४४॥

मृत्वा जितं मनसिजेन मम प्रियैव
यः सुन्दरीति भुवनेषु ववल्ग दृप्तः।
दृष्ट्वाथवा स्त्रियमिमां निपपात भाल–
वह्नौ हरस्य सुरकार्यचिकीर्षयेव॥४५॥

मनोजेऽनङ्गे तत्करसरसिजानाश्रयशुचा

द्विधा जातं चापं यदपि बहुधा तस्य विशिखाः।
अमुष्याः संप्राप्य भ्रुकुटिकुटिलापाङ्गरुचितां
विवल्गन्त्येते ते सकलजनसंमोहनचणाः॥४६॥

अस्या मुखेन चलकुन्तललाञ्छितेन
मुग्धस्मितेन समतामधिगन्तुमेव।
पाथोरुहं परिचयं कुरुते मिलिन्दै–
र्हसार्भकं च वदनेन मुहुर्दधाति॥४७॥

कुचावमुष्याः स्मरकुम्भिकुम्भौ न वेद को नाम यतः समीपे।
नलित्रयाकल्पितमुष्टिमुद्रा तनूरुहश्रेणिसृणिर्विभाति॥४८॥

नामैव न स्यादसतः सतो न स्याददर्शनम्।
ब्रह्मेव तत एतस्या वलग्नं वेद्म्यगोचरम्॥४९॥

सकलभुवनमोहनस्य केलीसदनमिति ब्रुवते यदङ्गजस्य।
जधनमिदमृतं मनो विमूढं न पुनरतो विनिवर्तते यतो मे॥५०॥

तारुण्याङ्कुररवृद्धये मनसिजः सीमन्तकुल्यामुखे
लावण्याम्बुमवाहयज्झरमहो तेनालकान्पार्श्वयोः।
कृत्वाधिक्यमितस्ततो विकृषता वक्षोजशैलाग्रतो
वेगेनापतता निखातमुदरं श्रोणीभरश्चैधितः॥५१॥

अंशैरियमभून्नूनमिन्दिरापार्वतीगिराम्।
यदङ्गेष्वपि सर्वेषु सौन्दर्यसुषमा समा॥५२॥

अस्यां ममेव हृदयं मयि नूनमस्याः
सक्तं स्मितेन लसितं चलितं कटाक्षैः।
उन्मीलितं कररुहैः स्फुरितं करेण
खिन्नं हृदा समुदितं हि मनोरथैश्च॥५३॥

अतः परमहो सौख्यमैहिकं किमु देहिनाम्।
अकृत्रिमतमप्रेमरमणीसंगमादपि॥५४॥

शृङ्गारोहि रसो मरुन्मलयभूर्मल्लीप्रसूनं वय–
स्तारुण्यं समयो मधुर्मनसिजो मित्रं सहायो मनः।

उत्साहो बलमङ्गना सहृदया दूतः सहासेक्षणं
सारल्यं च गुणो रतिर्विहरणं सौख्यं तदैक्यं परम्॥५५॥

सन्तु स्वैरविहारसौभगभुवो वाराङ्गना निर्भर–
व्रीडाविभ्रमवल्गुवल्गितरसाः स्वीयाः सुरूपा अपि।
निर्व्याजप्रणयानुरागविकसद्वक्षोरुहालिङ्गनै–
र्लोके का नु पराङ्गनेव सरसं प्रेयांसमुल्लासयेत्॥५६॥

निन्दन्तु सुमनसो वा कुर्वन्तु कुलाद्बहिर्वा माम्।
सहृदयया परमनया सह वस्तव्यं क्षणं वापि॥७॥

योगे भोगेऽपि सक्तानां वस्तुना हृद्गतेन यत्।
अद्वैत तत्परानन्दसाम्राज्यं सुधियो विदुः॥५८॥

एवं विचिन्तयन्नेव सवनं183 तत्समापयन्।
स दक्षिणीकृतक्षोणीवलयः कमलानुजः॥५९॥

अभूदवभृथस्नानं यत्स एव सुधारुचेः।
स्मारदीक्षाभिषेकोऽभूत्तारासंसक्तचेतसः॥६०॥

ताराविधू सहृदयावपि मन्मथार्तौ
ज्ञातेङ्गितौ सहसितेक्षणविभ्रमेण।
तौ नूतनाभिसरणत्रपितान्तरङ्गौ
मुग्धाविव प्रभवतः स्म न चोपसर्तुम्॥६१॥

क्वचन संगतयोर्विजने तयोः कुतुकिनोरपि च त्रपितात्मनोः।
हृदयहारि वभूव परस्परं सहसितं क्षणमीक्षणवल्गितम्॥६२॥

अन्योन्यवीक्षणपदं मुहुरीक्षमाणौ
साकूतमत्र किमितीव ततस्ततस्तौ।

अन्योन्यमीक्षणकलामिव शिक्षयन्तौ

ताराविधू व्यलसतां क्षणमात्तलज्जौ॥६३॥

यदा मदनमार्गणत्रुटितमानबन्धादिव

त्रपा हृदयश्च्युता निभृतकौतुकोज्जृम्भणात् ।
अकम्पत करस्तदा पुलकितः कपोलस्तयो–
स्तनुः श्रमजलाङ्किता स्तिमिततारका दृग्बभौ॥६४॥

प्रसारय दयामयं मयि कटाक्षमित्याकुलं

वदन्गुरुनितम्बिनीमुपससार चन्द्रो यदा ।
शनैर्गललसत्पदं184 किमिदमाचरस्यङ्गज–

प्रियेति बहुशो वदन्त्यपससार सा कामिनी॥६५॥

सरयमपसरन्तीं तां परित्यागशङ्का–

कुलमिव पदयोर्यत्प्राग्रहीदन्तरीयम्।
स्मरसुहृदपि तेन व्याहरन्तीं च मा मे–
त्यमनुत निजचेतः कामनाकल्पवल्लीम्॥६६॥

मम दयस्वविलासवतीत्ययं चिबुकसीम्निचकार करं यदा।
त्यजति मामिति रोषवशेन तन्मुखमवक्रयदीषदिव त्रपा॥६७॥

यदुपविवेश सा दलितकञ्जुलिकाविगल–
न्मणिरशनावलग्नकरमीषदपत्रपिता।
तदुपदिदेश कामसुहृदे किल कामकलां
परवनितारतिक्रमविलासविबोधकरीम्॥६८॥

ताराधरसुधासारहारी सोऽयं सुधामयः ।
अभूदन्नानुरूपा हि तनुरूपविवृद्धयः॥६९॥

दयिताकुचपक्षपातिता परमिन्दोरिति मन्महे वयम्।
अधुनापि रथाङ्गपक्षिणौ यदयं तत्सदृशौ विबाधते॥७०॥

अमन्दानन्दश्रीकरणमुदयच्चाटुवचसो–
स्तयोः किंवाप्यासीदसमशरलक्ष्मीविलसनम्।
अनिर्वाच्यं कन्याजननयनकौतूहलपदं
यदाहुर्धीराणामपि हृदयचापल्यजननम्॥७१॥

किमतः परं विचित्रं यदिन्दुनिकटेऽन्धकारमुल्ललति।
वल्गति रथाङ्गयुग्मं कुवलयमपि मीलितुं यतते॥७२॥

नीलोत्पले वा भ्रमरी तिरो भवेत्पाथोरुहे वापि मरालशावकः।
यदेतयोर्मीलनमेकदा भवत्यदस्तु मायां मदनस्य मन्महे॥७३॥

को नाम रतिसौख्यं तद्वर्णयेन्मतिमानपि।
भवन्ति यत्रोल्लासाय नखदन्तक्षतान्यपि॥७४॥

क्वचिद्रम्ये हर्म्ये क्वचिदपि नदीकूलपुलिने
क्वचिन्मञ्ज कुञ्जेकचिदुपवने मन्दपवने।
क्वचिल्लीलाशैले सरसतरसाऽपि स तया
समं सीमन्तिन्या व्यहरदसमश्रीरहरहः॥७५॥

तारानुगाः काश्चिदमर्त्यमर्त्यभोगिस्त्रियो भोगरतान्तरङ्गाः।
संगत्य ताभी रमते स्म नित्यं कृष्णो यथा गोकुलसुन्दरीभिः॥७६॥

योगमार्ग प्रवृत्तस्य सुषम्णा नाडिकास्विव।
तासु मुख्याभवत्तारा तस्य भोगरतात्मनः॥७७॥

तत्पतीनुपचरन्निव यात श्वः परश्व इति वारयति स्म।
स्वांपुरीं जिगमिषून्मधुरोक्त्या सोऽयमङ्गजविलासरतात्मा॥७८॥

राज्ञि185सर्वानुकूलेऽपि बाहुल्येन मृगीदृशाम्।
सापत्न्यकलहः प्रादुरासीदैकान्त्यघातुकः॥७९॥

स्पष्टे किंचित्तदा चौर्ये कामिन्योऽपि यथापुरम्।
न शेकुरभिसर्तुंतं चिन्तासंतानयन्त्रिताः॥८०॥

असन्तः कं नु निन्दन्ति सन्तो निन्दन्ति कं पुनः
नूनं रन्तव्यमित्येव काश्चिन्नतममूमुचन्॥८१॥

ताराविरहितस्यासन्नन्या नानन्दहेतवः।
तस्य लक्ष्मीवियुक्तस्य राज्ञः प्रकृतयो यथा॥८२॥

कस्य नाम सुखाय स्यादनेकरमणीकता।
तस्य राज्ञोऽपि यच्चित्तवैक्लव्यमुदपादयत्॥८३॥

केचिच्चन्द्रं186 निनिन्दुः कतिचन वनिताः केऽपि शे

पुस्तदानीं

जेपुः केऽप्याभिचारं मनुशतमसृजन्केऽपि कृत्याः करालाः।
तस्मिंस्तेजस्विनीदं सकलमपि सुधाभूतमालोक्य दिष्टं
जानन्तः केऽपि दुष्टं सह युवतिजनैर्निर्ययुः स्वस्वलोकान्॥८४॥

यातासु तासु वनितासु ततः क्रमेण
लीलास्थलानि चरितानि च तानि तानि।
दृष्ट्वा विचिन्त्य विमना विललाप शश्व–

त्ताराविलासरसिकः स सखा स्मरस्य॥८५॥

एतत्तदेव भवनं वनमेतदेव
शैलोऽप्ययं कुसुमराशिरयंनिकुञ्जः।
सौधोऽप्यसौ किमु न भान्ति विशोचयन्ति
सर्वेऽप्यहोविरहितं प्रियया तयाद्य॥८६॥

दिशि दिशि नलिनाक्षि लक्ष्यसे त्वं तदपि न मोदयसे मनो मदीयम्।
प्रकटयति किमङ्गजः स्वमायामयि हृदयं मम मुह्यति प्रकामम्॥८७॥

प्रियजन विरहादप्यस्ति दुःखं किमन्य–
त्रयमपि भुवनानां नूत्नवद्भाति यत्र।
किमु हृदयविकारश्चाक्षुषं वापि जाड्यं
जगदिदमखिलं वा शून्यतामेत्यकाण्डे॥८८॥

वपुरतिकृशमस्तु बाष्पधाराविलमधुनाक्षि तदङ्गसङ्गहीनम्।
हृदयदयितया तया क्षणं वा नहि विरहस्तव खिद्यसे किमर्थम्॥८९॥

इदानीमप्यग्रे मम विचलतीव प्रतिपदो–
च्चलच्चेलप्रान्ता चरणकटकोदारनिनदैः।
मरालानाकर्षन्त्यनुपदमुदञ्चकुचतटी–
पटाकष्टिक्रीडाविचलितकरा सा स्मितमुखी॥९०॥

अद्याप्युल्लसतीव सा मम पुरः पाञ्चालिकेव स्थिता
द्वारे केलिनिकेतनस्य कटिविन्यस्तैकहस्ताम्बुजा।
अन्येनाददती करेण करतः सख्याः शनैर्वीटिकां
पश्यन्ती मम मार्गमेव विलसन्नीलोत्पलाभेक्षणा॥९१॥

अद्यापि मामिव समेतिविलासिनी सा
माद्यन्मरालमदहारिगतिर्मृगाक्षी।
आच्छादयन्त्यनुपदं च विजृम्भमाणं
वक्षोजमंशुकसमीकरणच्छलेन॥९२॥

अद्यापि प्रविलसतीव मे पुरस्तात्तन्वङ्गी घनकुचभारसंनताङ्गी।
वीटींमे सकुतुमर्पयन्त्युदारस्मेरास्या दरचलितप्रवालपाणिः॥९३॥

अधुनापि धुनातीव करं मम कुचस्पृशम्।
करेण कङ्कणक्वाणकैतवान्मेऽतिशंसता॥९४॥

अद्यापि मामिव परिष्वजतेऽतिवेल–

कौतूहलत्रुटितकञ्चुकसंधिबन्धा।
काञ्चिलतां विगलितामपि नेक्षमाणा
मल्ली रसालमिव सा मधुरस्मितास्या॥९५॥

अद्यापि चिकुरभारप्रचलन्मल्लीमरन्दधाराभिः।
अभिषिञ्चतीव सा मां कामकलोल्लाससौख्यसाम्राज्ये॥९६॥

अद्याप्यग्रे मम विलसतीवानिशं सा रतान्त–
श्रान्ता कान्ता लुलितकबरीभारचञ्चत्करान्ता।
स्वेदार्द्रेण प्रविशदरुचा वाससोल्लासिताङ्गी
सद्यो दुग्धाम्बुधिसमुदिता श्रीरिव स्वर्णगौरी॥९७॥

इतः परं च किं दुःखं कामुकस्य न यत्प्रिया।
लक्ष्यते नयनोन्मेषे लभ्यते करवल्गिते॥९८॥

तच्चिन्तयामि परिषत्सु पराङ्गनानां
सभ्रूविलासमलसैर्वलितैरपाङ्गैः।
कंदर्पकार्मुकलतोत्पतितैरिवास्त्रै–
र्धैर्यं ममापचिनुते स्म हसन्मुखी सा॥९९॥

तच्चिन्तयामि चिबुकाकलिताङ्गुलिभ्रू–

भङ्गाभिरामदरवकितवक्त्रमक्ष्णा।
संभाव्य मां मनसि पूर्णमनोरथा सा

चित्रार्पितेव यदभात्पुलकाचिताङ्गी॥१००॥

तच्चिन्तयामि मयि चञ्चदपाङ्गमङ्ग–

भङ्गोन्नमद्भुजशिरःस्खलदंशुकान्तम्।
जृम्भाविरामविक लोक्त्यवदद्रुजेव
कान्ते क्षणं कुरु कृपागिति सा यदालीम्॥ १०१ ॥

तच्चिन्तयामि रहसि स्वयमन्तिकं मे
प्राप्तापि यन्मम करं चिबुकाग्रलोलम्।
मा मेति वल्गु निगदन्त्यरुणत्प्रकम्प्र–

हस्तादृतत्रुटितकञ्चुकनीविबन्धा॥१०२॥

तच्चिन्तयामि गुरुसाध्वसलोलनेत्र–
मुद्यत्रपास्खलितचाटुनिषेधवाक्यम्।
ईषत्पराकृतदुकूलमनङ्गचौर्य–
विक्रीडितं किमपि भोगिकुलैकभाग्यम्॥१०३॥

तच्चिन्तयामि सदनं मम सा समाया–
न्त्येकाकिनी क्वचलसीत्यनुयुञ्जता यत्।
लीलाशुकेन मृदु लापयति स्म तारा
कान्तस्य संनिधिमितीव सयुक्ति भीरुः॥१०४॥

तच्चिन्तयामि सततं मयि चूचुकाग्र–
चञ्चत्करे पुलकधर्मजलाचिताङ्गी।
यत्स्वाम्बरं विगलदप्यनवेक्षमाणा
म न्यषीददचिरं विनिमीलिताक्षी॥१०५॥

तच्चिन्तयामि निजपाणिनखाग्रकान्ति–
संछादिते जघनधानि हृतान्तरीये।
मामंशुकापनयनाय पुनश्चलाग्र–
हस्तं विलोक्य हसितं दरमीलिताक्ष्या॥१०६॥

तच्चिन्तयामि सततं चरितं मनस्वि–
सायुज्यसंपदयनं वचसामभूमिम्।
यत्तत्त्वमक्षिपरिपीतमनोजसारो
वेत्त्येक एव वनितायितवाममूर्तिः॥१०७॥

तच्चिन्तयामि मयि केलिकृतापराधे
व्यर्थाशयेऽपि कपटेन निमीलिताक्षे।
ईषद्विवृत्य शनकैरधरं ममाशु
संदर्श्य यन्निववृतेविकसन्मुखी सा॥१०८॥

तच्चिन्तयामिसततं शयिता समीपे–
ऽप्याकाङ्क्षितार्थसफलीकरणासमर्था।
अर्धोन्मिषन्नयनमाननमादरान्मे
पश्यन्त्यभाद्विवशितेव यदङ्गजेन॥१०९॥

तच्चिन्तयामिमनसि स्मितदीपशोभा
शोभायमानधनपुष्पकपोलरङ्गम्।
उच्चिक्रविभ्रममुदञ्चितकण्ठनाद–
मुल्लासकं किमपि कर्णमणीप्रवृत्तम्(?)॥१०७॥

तच्चिन्तयामि गतमोहमदुःखगन्ध–
मन्तर्गतश्वसितमुज्झितनादरूपम्।
तत्पूर्वमेव निमिषन्नयनच्छदार्ध–
लीनालिकं किमपि कामिकुलैकसौख्यम्॥१११॥

तच्चिन्तयामि सुरतान्तनितान्ततान्त–

मास्यान्तरे विनिहितं मम कान्तकान्तम्।
यद्विस्मृतस्मितमपि स्फुटतालुगर्भ–ताम्बूलमङ्कुरितहासमिवाननान्नम्॥११२॥

तच्चिन्तयामि निजभर्तृसमागमोक्ति–
माकर्ण्य पान्थमुखतः परुषां मृगाक्षी।
निःश्वस्य दीर्घमसुमारुतमुञ्चलन्तं
संरुन्धतीव हृदये विदधे करं सा॥११३॥

तच्चिन्तयामि हृदि लग्नमिवोग्रशल्यं
तेन द्विजन्महतकेन187 विनीयमाना।
मामश्रुकोरकितपक्ष्मदृशा निरीक्ष्य

व्योम्नि व्यकल्पयत यज्जलदश्रियं सा॥११४॥

इति स्मारं स्मारं बहुविधमुदञ्चज्जलकणां
दृशं वारं वारं दिशि दिशि विवृण्वन्विकलधीः।
मुहुर्घ्यायं ध्यायं पुर इव चरन्तीं तत इतः
पुनर्भ्रामं भ्रामं व्यलसदसमोन्माद इव सः॥११५॥

तारापि नाकं प्रययौ कथंचिद्देशान्तरावासगदातुरेव।
श्लथस्तनी क्षामकपोलभागा पाण्डुद्युतिश्चन्द्र वियोगखिन्ना॥११६॥

तां वेपमानां परिशुष्कवक्रांखिद्यत्तनुं निःश्वसतीं निकामम्।
मार्गश्रमेणाकुलितां विदित्वा दस्रौ188गुरुः पश्यतमित्युवाच॥११७॥

नाडीषु विस्फुरति धर्म तनौ च वायु–
श्चिह्नं शरीरजगदोऽयमवाच्यरीतिः।
स्वैरस्थितेरुपशमोऽस्य भवेदितीव
व्यालोक्य तां जगदतुर्भिषजौसुराणाम्॥११८॥

दलति द्विधा न हृदयं भवत्यहो ज्वलति स्फुटं न वपुरेति भस्मताम्।
भ्रमतीव दृग्विगलतीव चेतना जगदद्य शून्यमिति सालपन्मुहुः॥११९॥

क्षणमिव पुरः स्थितं तं समीक्ष्यमाणापि सान्द्रमन्दाक्षा।
व्यनमयदीषद्वदनं स्तनवसनं सा समीचकारेव॥१२०॥

कदा नु दयिताननं तदवलोकये सस्मितं
कदा परिरभे च तं त्रुटितकञ्चुली संभ्रमात्।

कदा तदुरसि स्वपिम्यहमनङ्गलीलालसे–
त्युदञ्चितमनोरथा न विदधे निमेषं च सा॥१२१॥

नवकिसलयतल्पेवक्रिताङ्गं शयाना
निभृतकृशशरीरा दुर्निरीक्ष्यातिपाण्डुः।

नवविकसितसंध्यारञ्जिताङ्गी द्वितीया
शिशिरकरकलेव प्रेक्षणीया बभूव॥१२२॥

वामाङ्गविस्फुरणमप्यनुभूतपूर्वं
सौभाग्यसूचकममंस्त मरुद्गदं सा।
शून्यं जगत्सकलमित्यवगच्छतां किं
विश्वासपात्रमसमव्यसनाकुलानाम्॥१२३॥

क्षणं सव्रीडेव क्षणमिव सकौतूहलभरा
क्षणं चिन्ताक्रान्ता क्षणमिव च केलिप्रकुपिता।
क्षणं सानन्देव ह्रियमपि च संत्यज्य मदन–
ज्वराटोपभ्रान्ता गदितुमसमं प्रारभत सा॥१२४॥

परिचरता स्वयमालीजनेन शिशिरोपचारेषु।
प्रोक्तो हिमकरशब्दो मूर्च्छालां तामबोधयच्छश्वत्॥१२५॥

सा स्मरज्वरसंतापसंभ्रान्तासूनमूमुचत्।
तेऽपि तादृक्शरीरस्यालाभात्तां पुनराश्रयन्॥१२६॥

प्रवालतरूपे शफरीमिव स्थलेपरिस्फुरन्तीं प्रसवेषुणोल्बणम्।
अङ्गारभङ्गेष्विव रोपितां रहः समेत्य तां प्राणसमावदत्सखी॥१२७॥

तवेयानिति संतापं के नु निर्णेतुमीशते।
ज्वलन्ति सकलाङ्गानि यस्य निर्वर्णनेऽपि नः॥१२८॥

यतेत नित्यं सुमतिः सुखाप्तये दैवं हि साह्यं कुरुते क्रियावताम्।
अचेष्टमानस्य कथं स्वयं मुखे पतेयुरन्धः189कवलाः शुभेक्षणे॥१२९॥

तदर्चय त्वं जगदेकमोहनं मनोभवं त्वं नमतामभीष्टदम्।
स्वकीयतापं प्रभवत्यपोहितुं स एव पूषेव कृपाम्बुवृष्टिभिः॥१३०॥

इतीदं वचनं सख्याः संमान्य विरहातुरा।
शनैः प्रातिष्ठतोद्यानं रहः पूजयितुं स्मरम्॥१३१॥

यान्ती कथंचिदुद्यानं सह सख्या तथा शनैः।
पदे पदे विमुह्यन्ती विविधं विललाप सा॥१३२॥

सुखायागन्तुमीहन्ते सर्वे सुकृतिनो दिवम्।
हा हन्त मम पापाया दुःखायाद्य दिवि स्थितिः॥१३३॥

मन्दमन्दमनुयासि मां सखे गन्धवाह शुभसूचनाकृते।
मन्दभाग्यकशिरोमणेरहो कंधरां समुपयान्ति मेऽसवः॥१३४॥

कोकिल काकलिकां त्वं मा कुरु यावत्समेति नो कान्तः।
दयिते समागते मे कलयेः कोलाहलं सह स्वीयैः॥१३५॥

अलिनि नाद्रियसे मम याचनां कलरवैर्विकलां मम चेतनाम् !
कलय से हि समेतु स मे प्रियो निगलितां कलये नलिनोदरे॥१३६॥

रथाङ्गिपत्या सममग्रतो नटन्त्युदञ्चयस्यद्य मनोव्यथां मम।
समागते मे दयितेऽपहास्यतामुपैषि शोचन्त्यनवेक्षितप्रिया॥१३७॥

कः क इति राजहंसि ब्रवीषि किं त्वं न वेत्सि मम कान्तम्।
योऽभूदत्रेर्नयनाज्जगदेकानन्दकः श्रीमान्॥१३८॥

मनोमयस्त्वं मनसो हरेरभूर्मनोजमित्रं जगतां मनोहरः।
मनोगतं किं नु न वेत्सि कान्त मे ममैव दौर्भाग्यमहो महत्तरम्॥१३९॥

इत्याद्यनुपदं शोचन्त्यनङ्गशरपीडिता।
शनैरगमदुद्यानमवलम्ब्य सखीकरम्॥१४०॥

चन्द्रोऽपि मुह्यन्विवशः स्मरार्तो विचिन्त्य नानाविधमाकुलात्मा।
न जीवितुं शक्यमपि क्षणं वा प्रियां विना तामिति निश्विकाय॥१४१॥

तांपश्यामि दरस्मितां सहसितं जल्पामि साचीक्षणं
पश्यन्त्याश्चिबुकं स्पृशंश्चलकरश्वम्बामि बिम्बाधरम्।
आलिङ्गाम्यतिकौतुकेन कठिनापीनस्तनीं गाढमि-
त्युद्यत्केलिमनोरथः स शनकैः प्रातिष्ठदैन्द्रं पुरम्॥१४२॥

प्रस्थितस्य शुभं तस्य प्रशशंस स्फुरन्भुजः।
अनुगोऽभून्मरुत्पोतो मानसं च पुरःसरम्॥१४३॥

उत्साहे सति किं शक्त्या कामे सुहृदि किं भटैः।
किं रथेन च संकल्पहये सति मनोरथे॥१४४॥

पुरःस्थितां भावनया पुनः पुनस्तिरोभवन्तीं हृदयस्य चापलात्।
ग्रहीतुकामो हरिणीमिवाधिक प्लुतप्रयाणामगमन्निशाविटः॥१४५॥

प्रसीद परिहासस्य नैष कालः शुचिस्मिते।
परमार्तं प्रपन्नं मां पाहीत्यनुललाप सः॥१४६॥

मुहुर्विमुह्यन्मुहुरुत्थितो व्रजन्मुहुर्विशोचन्विहसन्मुहुर्लपन्।
उन्मत्तरूपोऽपि स दैवयोगतो वनं तदागात्प्रियया तया स्थितम्॥१४७॥

वसन्तलक्ष्मीनटनैकरङ्गं विसृज्य बाष्पं बहुशो वनं तत्।
वियोगिनां प्राणहरं प्रपश्यन्विसिस्मिये सोऽयमचिन्तयच्च॥१४८॥

नूनमत्र मनः कान्ता बसेन्मम विलासिनी।
नान्तरङ्गं हि निर्व्याजं रुचिरेऽपि प्रवर्तते॥१४९॥

विरहिणां यमकिंकरगर्जितप्रतिममप्यधुना मधुरायते।
पिकशिशोरिह कूजितमूर्जितं कुसुमिताग्ररसालविलासिनः॥१५०॥

उदञ्चयति रोमाञ्चमुलासयति मानसम्।
उन्मूलयति संतापमनिलोऽम्बुजसौरभः॥१५१॥

विसृज्य कुसुमानीह विद्रवन्तो मधुव्रताः।
प्रदर्शयन्ति मे मार्गमिवैते मधुरस्वराः॥१५२॥

इदं विकचपङ्कजं सर इमेऽपि मन्दानिलो–
ल्लसत्कुसुमलालसभ्रमरपङ्कयः स्वर्द्रुमाः।
इयं पुलिनविभ्रमोन्मदमरालवामालिरि–
त्ययं सहसितेक्षणस्तत इतोऽविशत्तद्वनम्॥१५३॥

प्रविशंस्तत्र शुश्राव तारायाः करुणां गिरम्।
मनीषितफलावाप्त्यैप्रार्थयन्त्या मनोभवम्॥१५४॥

सांसारिकपरानन्दकन्दं कंदर्पमेव तम्।
वन्दामहे किमपरैरदृष्टसुखसाधकैः॥१५५॥

आसीदर्धं पौरुषं चान्तकारेः शौरेः सद्यो भीरुतैवाविरासीत्।
मायावेषाद्यस्य तस्यात्मयोनेर्माहात्म्यं ते को नु विज्ञातुमीष्टे॥१५६॥

लोकातीतं वस्तु किंवा चकास्तीत्याभाषन्ते शास्त्रविज्ञा महान्तः।
जाने तस्याप्यङ्गजातं प्रभुं त्वां मायायोगात्पौरुषं नाम तस्य॥१५७॥

एकं द्विधा कलयितुं सकलाः समर्था
द्वावेकमारयितुं त्वदृतेन कोऽपि।
त्वामर्चयामि तदहं सुचिरं त्वयैव
संतापितौ घटय नौ भगवन्मनोज॥१५८॥

श्रुत्वा स मधुरां तस्या वाचं वाचामगोचरम्।
आनन्दमन्वभून्नष्टां श्रियं प्राप्येव भूमिपः॥१५९॥

विधिरमणीपाणिरणन्मणिवीणागुणकलक्कणोदारः।
मरुदवनीरमणवनीचरदलिनीमदहरः स्वरः कस्याः॥१६०॥

एवमानन्दसाम्राज्यविवशो बहुशः शशी।
विचिन्त्यात्रैव तारेति निश्चिकाय चिराय सः॥१६९॥

आकर्णयन्कर्णसुखानि तस्या वाक्यानि चैतन्य विकासकानि।
ईचिक्षिषा190संभ्रमलोलदृष्टिर्मृद्गन्करीव व्रततीर्जगाम॥१६२॥

स तत्र चैकत्र सुरद्रुमस्य प्रगृह्य वामेन करेण शाखाम्।
कोषीभवत्पङ्कजसुन्दरेण परेण पुष्पाण्यवचिन्वतीं ताम्॥१६३॥

वामेतरांसस्खलितोत्तरीयामुत्कंधरामूर्ध्वविलोलदृष्टिम्।
कर्णावलम्बिप्रसवाग्रलम्बिरोलम्बशङ्काकरकुन्तलालिम्॥१६४॥

संकोचिताङ्गं चलनेत्रतारमाकुञ्चितभ्रुकुटि कम्प्रहस्तम्।
क्वचित्क्वचिद्भृङ्गनिपातमीत्या शनैः प्रसूने करमादधानाम्॥१६५॥

अलं प्रसूनावचयेन भद्रे मनोभवार्चावसरोऽयमायान्।
करण्डपाण्येति विबोध्यमानामाल्या मुहुः श्रान्तसमस्तगात्रीम्॥१६६॥

नमो नमस्ते भगवन्प्रसीद प्रपन्नकल्पद्रुम मन्मथेति।
मुहुर्वदन्तीं मदनाग्नितापविशोषिताङ्गीं स्वरमात्रबोध्याम्॥१६७॥

अशोचनीयां प्रियदर्शनां च वातेन पत्रावलिशोषणेन।
स्पृष्टा लता माधविकेति शङ्कयां प्राणप्रियामैक्षत शीतरोचिः॥१६८॥

हृष्टः समेत्य पश्चात्कुचतटचलदेकपाणिरेष शनैः।
अवटुतटघटितकुसुमं कबरीभरमग्रहीत्तस्याः॥१६९॥

आकृष्यमाणेव लतातिभीरुर्निवृत्य तं चन्द्रमसं निरीक्ष्य।
ईषत्रपावक्रितगात्रयष्टिः स्तब्धा क्षणं सा प्रतिमेव रेजे॥१७०॥

आलिङ्गय निश्चलकरायगलत्प्रसूना–
मादाय सोऽपि तरलाङ्गुलिपल्लवान्तः।

आरोप्य चाङ्कभुवि संकुचिताङ्गयष्टि–
माचुम्बति स्म वदनं कुचलोलपाणिः॥१७१॥

आनन्दसाम्राज्यनिमग्नचेतसोर्यथापुरं पोषमवापतुस्तनू।
क्षणात्तयोर्नव्यमिव व्यभाज्जगत्समस्तमासीन्मतिरीदृशी तदा॥१७२॥

योगानन्दमखण्डं किमिति ब्रुवते महाकवयः।
नूनं शास्त्रव्यसनान्नासीद्धोगेषु तेषां धीः॥१७३॥

अनशननियमेन श्रौतचिन्ताकुलाना–

मजनि मुनिजनानां नूनमुन्माद एव।
परममिति हि किं वा सादरं संगिरन्ते
सहृदयजनसङ्गानन्दसाम्राज्यतोऽपि॥९७४॥

विनाशो दुःखानां विरतिरपि मोहस्य महतः
सुखस्यापि स्फूर्तिर्न भवति किमत्रैव सततम्।
विशेषः को मोक्षे श्रुतिरपि च भोगैकफलदाः
क्रियाः प्रोचे कण्ठादुपरि परमं ब्रह्म तदिति॥१७२॥

तयोश्चिन्तयतोरेवमानन्दाम्बुधिमग्नयोः।
प्रययौ सा सखी भोज्यपदार्थादानकैतवात्॥१७६॥

ततः कृतार्थः स तया समं शशी निषेवमाणो मरुतं ततस्ततः।
संप्रस्थितः स्वंनिलयं जगाद तां विलासभूमी रुचिराः प्रदर्शयन्॥१७७॥

स्मरसि यदिहारामे रामे सुमान्यवचिन्वती
हरति मरुति क्षौमं वासः समीक्ष्य मम स्मितम्।

अयमुपसरेदित्यावृत्याद्रुतं जघनस्थलीं
त्वमपिदधती191 सूनं लूनं समस्तमवाकिरः॥१७८॥

स्मरसि विहरतोः पुरावयोः किं सरसि घनस्तनि यत्त्वमीर्ष्ययात्र।
नलिनमुकुलसंग्रहप्रवृत्ते मयि जलपूर्णमुखेन फूदकार्षीः॥१७९॥

स्मरसि च कपोतपोतस्वरमनुकलयेति वदति मयि यदिह।
त्रपिता सस्मितमवदः कुपितेव न पौरुषं तवार्हमिति॥१८०॥

स्मरसि किमवचिन्वती सुमानि भ्रमरक एष विजृम्भते हृदीति।
वदति मयि विधुन्वती दुकूलं सरयमगाः किल चम्पको यदत्र॥१८९॥

स्मरस्यपि चलक्षणे प्रतिकृतिं तवाम्भोरुहा–
द्रमामिव परिच्युतां सरसि वीक्षमाणे मयि।
भृशं किल विशङ्किताद्भुतमुपेत्य दृष्ट्वा सर–
स्त्रपाविवशिता शनैरपससार यत्त्वं पुनः॥१८२॥

स्मरस्यम्भोजाक्षि त्वमपि सुमनः कन्दुकहता
मया मध्ये वक्षोरुहमखिलगात्रोद्गतजला।
विमुद्ह्यन्तीवेषन्मुकुलितदृगालम्बति मयि
प्रबुद्धा मद्धस्तं रुष इव यदाधूनयदिह॥१८३॥

स्मरसि किमु चाटुवाक्यं मयि लापयति त्रपाकुला त्वमिह।
यत्केलिशारिकायै व्यतरस्तुष्टेव शिखरिबीजानि192॥१८४॥

स्मरस्यप्यक्षकेलौमां विजित्यापि यथापणम्।
अवाप्तुं पौरुषं नालमभूर्यदिह कामिनि॥१८५॥

इति प्रदर्शयंस्तांस्तान्विलासविषयान्विधुः।
शनैः शनैस्तया साकमगारमगमन्निजम्॥१८६॥

वक्षोजौमेचकाग्राविव जनितकिणौ रिङ्गणैरङ्गुलीना–
मीषत्पाण्डू कपोलाविव मुषितकलौ डम्बरैचुम्बनानाम्।

चित्रैर्नाभी चपेटैरिव निभृतमुदं मध्ययष्टिं च किंचि–
त्पुष्टां चक्रे प्रियायाः कतिपयदिवसैरेव मित्रं स्मरस्य॥१८७॥

तस्यां कदाचिन्निकटस्थितायां मुख्यैः सुहृद्भिः सहितः सितांशुः।
दूतं गिरीशस्य गिरोपयातमुवाच मन्दस्मितलाञ्छितास्यः॥१८८॥

रूपानुरूपगुणविभ्रमलोभनीया–
मेतां कथं कथमपि प्रयतो विधाता।
निर्माय हन्त निगमाध्ययनालसस्य
हस्ते चकार सुरलोकपुरोहितस्य॥१८९॥

संमित्कुसुमपल्लवच्छदपवित्रदर्भाङ्कुर–
भ्रमाकुलितचेतनः क्व सुमनः पुरोधा गुरुः।
पटीरहिमवालुकामृगमदस्रगुल्लासिनी
क्व चेयमसमाशुगागमकृतव्रता कामिनी॥१९०॥

अभिज्ञानामाद्यो निरुपममहाः प्रौढिमनिधि–
महैश्वर्यावासः सरसहृदयः प्रीतिजननः।
तथापि श्रौतार्थव्यसननिरतो मे पतिरिति
ध्रुवं शोचन्त्येषा समजनि कृशाङ्गी सुवदना॥१९९॥

दीपिकेवाकुलदृशोदरिद्रस्य मणीव च।
परं परोपभोगाय वैदिकस्य विलासिनी \।\।१९२॥

तदेतया विलासिन्या तस्य किं नु पुरोधसः।
भजेति चेटिकां ब्रूहि कामकण्डूतिशान्तये॥१९३॥

भ्रातुः परिग्रहपरिग्रहणप्रवृत्तो–

ऽप्यास्तां गुरुः स विरहार्तिविमूढचेताः।
किं दारुकावनवधूं गिरिशोऽप्यहल्या–
मिन्द्रो नहि स्मरति गोपसतीरुपेन्द्रः॥१९४॥

अस्त्वेतदखिलं लोकः स्वदोषं नैव पश्यति।
वदेन्द्रोपेन्द्रसहितं भवभक्तिवशं गुरुम्॥१९५॥

समानहृदयामिमां श्रितवतः स्वयं संगतां
किमत्र मम दुष्कृतं कथमियं विसृज्या च मे।
अयुक्तमभिभाषसे यदि तवाद्य कण्डूः परा
द्रुतं पशुपते स मे चलतेजसं मामिति॥१९६॥

ततस्तस्मिन्गते दूते समीकाय पिनाकिनम्।
आह्वयन्तमभिप्रागाच्छुक्रशिष्यैर्वृतः शशी॥१९७॥

आसीद्देवासुराणामथ युगविगमादित्यसंभेदशङ्का–
कारि क्रूरास्त्रशस्त्रप्रभवहुतवह ज्वालजालोल्बणं तत्।
घोरं तारामयाख्यं रणमुदधिपरिक्षोभसंभूतवीची–
घोषत्रस्यद्दिगन्तद्विरदवरशिरश्चालितक्षोणिचक्रम्॥१९८॥

स्वस्वास्त्राभ्यां रुद्रसोमौ समेतौ दृष्ट्वा धाता तौ जगन्नाशशङ्की।
आविर्भूयावार्य युद्धं मृदूक्त्या जीवाय द्राग्दापयामास ताराम्॥१९९॥

पराहितं गर्भमये त्यजेत्यथो तारा घवेनाभिहिताभ्यसूत सा।
शिशुं तमालोक्य मनोहरं गुरुः शशी ममेति व्यवजहतुस्तदा॥ २००॥

कस्यैष बाल इति सा बहुभिश्च पृष्टा
मौनं यदा न विजहौ स शिशुस्तदात्वे।
क्रुद्धो जगाद जननीमयिदुर्विदग्धे
घोरं शपामि यदि नो वदसीति शीघ्रम्॥२०१॥

शिशोर्वाक्यं तदाकर्ण्य सर्वे सुमनसस्तदा।
विस्मिताः समपद्यन्त साक्षाद्विष्णुं स्म तं विदुः॥२०२॥

तारा तदनु विधात्रा विजने कस्यैष बाल इति पृष्टा।
चन्द्रस्येति शनैः सा मन्दाक्षभरानमन्मुखी न्यगदत्॥२०३॥

शिशुरेष महाबुद्धिर्बुध इत्यभिधीयताम्।
इति जल्पन्विरञ्चितं विततार सितांशवे॥२०४॥

लब्ध्वा सुतं सितांशुः सतीं च वाचस्पतिस्तदा हृष्टः।
स्वंगृहमगमन्सर्वे सुरासुरास्तत्कथां प्रशंसन्तः॥२०५॥

श्रीकृष्णराजकरुणैकनिकेतनेन
कृष्णेन भागतव इत्यभिशब्दितस्य।
नारायणस्य तनयेन समीरितेयं
तारासुधाकरकथा विदुषां मुदेऽस्तु॥२०६॥

इति भागवतनारायणसूनुश्रीकृष्णकविप्रणीतं ताराशशाङ्कं काव्यं समाप्तम्।

———————

रामचन्द्रकविकृतं
रसिकरञ्जनम्।

सटीकम्
—————

शुभारम्भेऽदम्भे महितमतिडिम्भेङ्गितशतं
मणिस्तम्भे रम्भेक्षणसकुचकुम्भे परिणतम्।
अनालम्बे लम्बे पथि पदविलम्बेऽमितसुखं
तमालम्बे स्तम्बेरमवदनमम्बेक्षितमुखम्॥१॥

शुभेति। शुभानां कर्मणामदम्भे दम्भरहित आरम्भे महितं पूजितम्।

———————————————————————————————————————————————————

१. वैराग्यशृङ्गारार्थद्वयसमानं सटीकमेतत्काव्यमयोध्यानगरे लक्ष्मणभट्टसुतो रामचन्द्रकविः १५२४ मिते ख्रिस्तसंवत्सरे प्रणिनायेति ग्रन्थसमाप्तितो ज्ञायते।एतत्पुस्तकं चास्माभिः १७०३ मितविक्रमसंवत्सरे लिखितमधिगतम्। एतत्कविप्रणीतं रोमावलीशतकमप्युपलभ्यते।

डिम्भान्बालानतिक्रान्तम् इङ्गितानां चेष्टानां शतं यस्य तम्।रम्भायाईक्षणेन सकुचकुम्भे मणिस्तम्भे परिणतं तिर्यक्प्रहारासक्तम्। अन्यगजकुम्भभ्रमेण। अनालम्बे दीर्घे पथि पदानां विलम्बेन लम्बोदरतयामितमपरिमितं सुखं यस्य। अम्बया पार्वत्या ईक्षितं मुखं यस्य। एवंविधं स्तम्बेरमवदनमालम्बे आश्रये॥

विशिष्टश्रीभावालयनयनमुद्राविवरणे
मुखं यस्या यस्माद्विलसति मिलत्कुञ्चिकमिव।
स तस्याः स्वारस्याकलितचरणे काव्यकरणे
कवीनां प्रावीण्यं कुवलयवतंसोऽवतु गिरः॥२॥

विशिष्टेति। तस्या गिरः कुवलयकर्णाभरणं कवीनां काव्यकरणे प्रावीण्यमवतु। कीदृशे काव्यकरणे। स्वारस्येनानायासेनाकलिताः स्फुरितीश्चरणायत्र। यस्मादवतंसात् यस्या गिरो मुखं विशिष्टा या श्रीः शोभा भावा विलासाश्च तदालयरूपं यन्नयनं तस्य या मुद्रा तद्विवरणे तदुद्घाटने मिलन्तीकुञ्चिका यत्र तदिव विलसति॥

एकश्लोककृतौ पुरः स्फुरितया सत्तत्त्वगोष्ठ्यासमं
साधूनां सदसि स्फुटां विटकथां को वाच्यवृत्त्या नयेत्।
इत्याकर्ण्य जनश्रुतिं वितनुते श्रीरामचन्द्रः कविः
श्लोकानां सह पञ्चविंशतिः शतं शृङ्गारवैराग्ययोः॥३॥

एकेति। स्पष्टोऽर्थः॥

अपापघनसंवृतेरविशदस्मितात्युन्नम-
त्समस्तनरसादरग्रहणतः कृतार्थप्रिया।
रतिर्मनसि जायते यदि कदापि शौर्याश्रया
तदैव सकलं जनुः सफलमेवमाहात्मभूः॥४॥

अपेति। [वैराग्ये—] यदि कदापि शौर्याश्रया शौरिः कृष्ण आश्रयोयस्याः सा रतिः प्रीतिर्मनसि जायते तदैव सकलं जनुर्जन्म सफलमित्यात्म-

भूर्ब्रह्मा आह। कीदृशी रतिः। अपापघनसंवृतेरविशदस्मिता पापनिबिडसंवरणव्यतिरेकान्नविशन्ती अस्मिता अहंकारो यस्यां सा। पुनः। अत्यन्तमुन्नमन्तः समस्ता ये नरा अम्बरीषादयस्तेषां यत्सादरं ग्रहणं ततः कृतार्थाये शुकादयस्तेषामपि प्रिया॥

[शृङ्गारे—

] यदि शौर्यमाश्रयो यस्याएवंविधा रतिः कामवधूर्मनसिजायते मनसिज इवाचरति तदैव सकलं जन्म सफलमित्यात्मभूः काम आह।कीदृशी रतिः। अपगतापघनानामवयवानां या संवृतिराच्छादनं ततोऽविशदमव्यक्तं स्मितं यस्याः सा। पुनः। अत्यन्तमुन्नमन्तावुत्पतनादिना समौयौ स्तनौ तयो रसेनावेशेनादरेण यद्ग्रहणं ततः कृतार्थः प्रियो यस्याः सा॥

अकलियुगमखर्वमत्र हृद्यं व्यचरदतापघनो यतः कुटुम्बी।
मम रुचिरिह लक्ष्मणाग्रजेन प्रभवति शर्मदशास्यमर्दनेन॥५॥

अकलीति। वै०—

] अत्र संसारे अकलियुगं कलिव्यतिरिक्तंत्रेतादियुगं महत् हृद्यं हृदयंगमं भवति। यतो युगात् कुटुम्बी संसारी नतापघनः सन् व्यचरत्। अत एव इह त्रेतायां लक्ष्मणाग्रजेन रामेण ममरुचिः प्रभवति शर्म सुखं च दशास्यमर्दनेन प्रभवति॥

[शृ०—

] अखर्व पीनं, हृद्यं हृदयोद्भवं युगं युग्मं, अकलि दृष्टम्।यतो यत्र अपगतापघनः अनङ्गः कुटुम्बी रत्या सहितः सन् व्यचर

न्। ममइह युग्मे रतिः प्रीतिः प्रभवति। अग्रजेनाग्रे जातेन, लक्ष्मणा चिह्नेन, कुचाग्रश्यामिकया नखक्षतेन वा। अथ च अस्य मर्दनेन शर्मदशा च प्रभवति॥

जातु सुदर्शनपाणिः श्रवणादेः किं न वाञ्छितं यच्छेत्।
दास्यति चिरानुवृत्त्या रमणीयं किमपि कामितं वस्तु॥६॥

जात्विति। [वै०—

] सुदर्शनं चक्रं पाणौ यस्य स विष्णुः श्रवणादेःश्रवणमननादितः किं वाञ्छितं न यच्छेत्। अपि तु सर्वमपि। चिरानुवृत्याकिमपि रमणीयं किमप्यनिर्वाच्यं मोक्षलक्षणं वस्तु किं न दास्यति॥

[शृ०—

] सुष्ठु दर्शनं ययोः एवंविधौ पाणी यस्याः सा श्रवणादिनावाञ्छितं किं न यच्छेत्। इयं रमणी दास्याः अतिचिरमनुवृत्त्या किमप्यनिर्वाच्यं संभोगादि कामितं वस्तु यच्छेदेव। पूर्वत्र संबन्धः॥

घनस्तनभरालसा व्रजति गौरवन्ध्येह ते
विधेहि कटिपार्श्वयोर्नखमुखेन कण्डूयनम्।
इतः सुखपरम्परा मिलति संप्रति श्रेयसा
सदा न खलु संगतिर्भवति गर्भसंभूतये॥७॥

घनेति। [वै०—

] घनस्तनभरेण अलसा अवन्ध्या प्रसूता इह तेगौर्व्रजति। त्वं नखमुखेन कटिपार्श्वयोः कण्डूयनं विधेहि। संप्रतीदानीमेवश्रेयसा पुण्येन इतः सुखपरम्परा मिलति। अस्याः सदा संगतिः गर्भसंभूतये जन्मने न भवति॥

[शृº—

] इयं गौरवन्ध्या घनस्तनभरालसा व्रजति। ईहते वाञ्छति।अतः कटिपार्श्वयोर्नखमुखेन कण्डूयनं विधेहि। इतो वन्ध्यायाः सङ्गेन संप्रतिश्रेयसा सुखपरम्परा मिलति। अस्याः सदा संगतिरपि गर्भसंभूतये न भवति॥

कदलीकरभसमानां कलयति यो रूपक्लृप्तिमतिरुचिराम्।
सोपायाद्दृढयोगं गमितोरसिकोपकरणविषयतया॥८॥

कदेति। [वै०—

] यः पुरुषः रूपाणां नानाविधानां क्लृप्तिं कल्पनाम्अत्यन्तं रुचिरां मनोहरां कुत्सितालीकरभसाहंकारां कलयति जानाति।स इदानीमपगतेन्द्रियविषयत्वेनारसिको दृढयोगं योगाभ्यासं गमितो गुरुणा अपायात् अपगतः॥

[शृ०—

] या कदलीकरभयोः समानां ऊर्वोरुपक्लृप्तिं कलयति। सा उपायात् कोपकरणविषयत्वेन उरसि दृढयोगं गमिता॥

नर्मदामनु तपस्यशान्तहृद्धृष्टधीरसिकतामये क्वचित्।
संसृताविह परात्मयोगकृत्किं तदन्यदपि कर्म शर्मणे॥९॥

नर्मेति। [वै०—

] हे धृष्ट धीर, नर्मदानदीमनु क्वचित् सिकतामयेसैकते शान्तहृत् भूत्वा तपस्य तपः कुरु। इह संसृतौ परात्मयोगकृत् ततोऽपिकिमन्यत् कर्म शर्मणेऽस्ति॥

[शृ०—

] अहं तपसि माघे अशान्तहृत् शीतासहिष्णुतया नर्म ददातीति नर्मदा ताम् अनुगम्य हृष्टधीः सन् क्वचिदेकान्ते रसिकतां रसिकत्वम्

अये प्राप्नोमि। इह संसारे परया अन्यया आत्मनो योगं संबन्धं करोति यत्कर्म तत् किं एतद्व्यतिरिक्तं अस्ति यच्छर्मणे भवतीति॥

योगमितो मधुरतया पौरोभाग्यं व्यनक्ति विषयेषु।
धन्यः स एव मान्यः संसारेऽस्मिन्नसाधुताभिज्ञः॥१०॥

योगमिति। [वैº—

] यः मधुरतया मनोहरत्वेन अगं पर्वतं इतः प्राप्तःसन् विषयेषु स्रगादिषु पौरोभाग्यं दोषैकदृक्त्वं व्यनक्ति प्रकटयति। मधुरत्वेन योगाभ्यासम् इतः प्राप्तः इति वा। स एव धन्यः संसारेऽस्मिन् असाधुतामभिजानाति।

[शृ०—

] यः पौरो नागरिकः रतयानुरक्तया मधु गमितः प्रापितोविषयेषु भाग्यं व्यनक्ति स एव धन्यो मान्यश्व। संसारेऽस्मिन् साधुताभिज्ञो न मान्य इति॥

आसाद्य सोमभुवमास्वहि यत्र नित्यं
मङ्क्तुंप्रलोभयति सैकतमंशुकाभम्।
तत्तत्र निर्वहति संप्रति नित्यकृत्य-
मेतस्य विस्मृतगृहस्य परानुभूत्या॥११॥

आसाद्येति। [वै०–] सोमभुवं नर्मदां आसाद्य आवाम्आस्वहि। यत्रनित्यं मङ्क्तुम्अंशुकाभमुज्ज्वलं सैकतं प्रलोभयति। तस्माद्धेतोरावयोर्मध्ये एतस्यपरानुभूत्या परब्रह्मानुभवेन विस्मृतगृहस्य नित्यकृत्यं तत्र निर्वहति॥

[शृ०—

] त्रयाणां मध्ये द्वयोरेकं प्रति वचनम्—उमा अतसी तत्सहितां भुवमासाद्यावामास्वहि। यत्र सा ज्ञाता स्त्री शुकाभं शुकदेवसमानमेकतममावयोर्मङ्क्तुंप्रलोभयति। तत्तस्माद्धेतोरेतस्य संप्रति नित्यकृत्यं निर्वहति। परस्य अनुभूत्या अनुभवेन विस्मृतगृहस्य॥

आसाद्य कृष्णपक्षानत्रसतः सर्वदाभीकान्।
परयात्मनि रतचित्तान्विभाव्य तत्कर्म कुर्वतः क्व भयम्॥१२॥

आसाद्येति। [वै०– ] अत्र संसारे कृष्णः पक्षो येषां तान् सर्वदाअभीकान् निर्भयान् सतः पुरुषान् आसाद्य उपगम्य परे आत्मनि रतचित्तान्विभाव्य तत्कर्म तेषां कर्म कुर्वतः पुरुषस्य क्वभयम्॥

[शृ०—

] कृष्णपक्षान् प्राप्य सर्वदा अत्रसतोऽभीकान् कामुकान् परयान्यया आत्मनि रतमनसो विभाव्य त्वमपि तत् कर्म कुरु। ततस्ते क्व भयम्॥

असौ समरसाहसं वितनुतेऽग्रिमश्रेयसे
मुकुन्दममुमात्मनि स्थिरयितुं न किं वाञ्छति।
अतः परतरं कुतः प्रतरणाय वारां निधे-
र्निदानमिह संसृतेः सुखसृतेश्च किं कारणम्॥१३॥

असाविति। [वै०—

] असौ पुरुषोऽग्रिमश्रेयसे समरसाहसं वितनुतेसंमुखयुद्धेन तनुं त्यक्त्वा मुक्तो भवेयमिति इच्छति। अमुं मुकुन्दम् आत्मनिहृदये स्थिरयितुं किं न वाञ्छति। अग्रे स्पष्टम्॥

[शृ०—

] असौ स्त्री समो रसो यस्याः सा हसं हास्यं वितनुते अग्रिमश्रेयसे संभोगाय आत्मनि स्वशरीरे अमुं मुरहितं मुकुन्दम् अर्थात् कुन्दंस्थिरीकर्तुं किं न वाञ्छति। इयं हासेन स्वदेहे कुन्दपुष्पं स्थिरीकरोतीव।अतो हेतोः संसारसिन्धुतरणाय किं निदानं सुखमार्गस्य वा किं कारणमस्ति॥

चिरमीक्षेमहिलास्यं मायाया दीर्घसीमनि स्वप्ने।
यद्वासनया वासितमात्मानं वेद नापि वेदज्ञः॥१४॥

चिरमिति। [वै०—

] दीर्घसीमनि स्वप्नेसंसारे मायाया लास्यं नृत्यंचिरं वयमीक्षेमहि। वेदज्ञोऽपि यद्वासनया वासितमात्मानं न वेद॥

[शृ०—

] दीर्घसीमनि स्वप्नेचिरमनुवर्तमाने मायाया महिलायाःस्त्रिया आस्यं मुखम् ईक्षे पश्यामि। यस्य मुखस्य वासनया वासितमात्मानम्अहं वेदज्ञोऽपि न वेद, इति विरहिणो वचनम्॥

आसादितव्योऽस्ति करालकेशः सखेदयार्हः समयोपकारी।
तदुत्तमश्लोककथानुबन्धस्तावद्यथा स्यात्प्रयते तथाहम्॥१५॥

आसादीति। [वै०—

] हे सखे, कराला भीषणाः केशा यस्मिन् दयार्हःअपकारी समयो वार्धकसमयः मया आसादितव्योऽस्ति। तस्माद्धेतोरुत्तमश्लोकस्य कृष्णस्य कथानुबन्धः तावत्पर्यन्तं यथा स्यात्तथा प्रयते यत्नंकरोमि॥

[शृº—

] सखेदया सदुःखया मया उपकारी करेण अलकेशः कुबेरः

अर्थाद्द्रव्यदाता अयोग्यः स पुरुष आसादितव्योऽस्ति। तादृक्तस्यैव उत्तमश्लोककथानुबन्धे उत्तमयशः कथानुबन्धो यथा भवति पथा यते यत्नं करोमि॥

सैवाद्रियेत रत्यै पुंसः परमस्य यानवाचर्चा।
तस्मात्तदेकनिष्ठं चित्तं कृत्वा सुखं समासीत॥१६॥

सैवेति। [वै०—

] परमस्य पुंसः कृष्णस्य या नवा चर्चा सैव रत्यैप्रीतये आद्रियेत। अग्रे स्पष्टम्॥

[शृ०–] यतः सैव रत्यै रताय त्वाम् आद्रियेत। परं त्वस्य पुंसस्तत्पतेर्यानवाचा गमनवचनेन ऋचा ऋक्रूपया। सत्ययेत्यर्थः। तस्मिन् प्रोषिते सैवागमिष्यतीत्यर्थः। तस्मात्तस्यामेवैका निष्ठा यस्यैवंविधं मनः कृत्वासुखेनासीत॥

दृष्ट्या सागरलङ्घनं कलयते रामायते श्लाघते
लोको यः स न वेदनामपरतः प्राप्नोति भीतिं यतः।
क्व स्यान्मे पुनरङ्गसंगतिरिति ध्यायन्नयं त्वादरा-
कोऽहं कुत्र कुतः कदा कथमिति स्मृत्या परित्यज्यते॥१७॥

दृष्ट्येति। [वै०—

] यो लोकः दृष्ट्या सागरस्य लङ्घनं कलयते कुर्वतेरामाय ते तुभ्यं श्लाघते स्तुतिं करोति। स लोकः अपरतोऽन्यतो वेदनांदुःखं न प्राप्नोति भीतिं च यतो न प्राप्नोति। अतो हे राम, मम पुनरङ्गसंगतिः शरीरसंबन्धः क्व स्यादिति बुद्ध्या अयं लोक आदरात् त्वा त्वां ध्यायन् अहं कः कुत्रास्मि कुतः समागतोऽस्मि कदा कस्मिन् काले कथं केन प्रकारेण इति स्मृत्या परित्यज्यते॥

[शृ०—

] कस्यचन नष्टयतिं प्रति वचनम्— हे यते, सा रामा स्त्री दृष्ट्यादर्शनेन धनं निबिडं गरलं विषं कलयते क्षिपति तद्गोचरो यो लोकः श्लाघतेस नामेति प्रसिद्धौ न जानाति किल। यतः परतः अग्रे भयं दशमावस्थापर्यन्तं प्राप्नोति। तु पुनः अयं लोक आदरात् एतदङ्गसंगतिः क्व स्यात्, इतिध्यायन् ‘कोऽहं कुत्र’ इत्यादिस्मृत्या परित्यज्यते॥

अचिरात्परात्मनिष्ठा भवति यतस्तत्क्रियेत चतुरेण।
क्लेशेन कामदमनं धिगेकदारञ्जयन्तमात्मानम्॥१८॥

अचिरादिति। [वै०—] अचिरात् परमात्मनि निष्ठा यतो भवति तदेवचतुरेण क्रियेत कामदमनमीश्वरमेकदा कदाचित् कष्टेन रञ्जयन्तं धिक्॥

[शृ०—] अचिरात् परा अन्या स्त्री यतो हेतोः आत्मनिष्ठा स्ववशाभवति तदेव चतुरेण कर्म कार्यम्। एकदारमेकपत्नीकं क्लेशेन कामम्अन्यांप्रत्युत्पन्नमपि दमयन्तम् आत्मानं जयन्तं धिक्॥

स्फुटस्फुरणमानसा सबहुमानरोषस्थिति-
र्भवद्विषयवासना चलतया दुरुत्सारणा।
प्रियाचरणभाग्यतो भवति सप्रसादोऽजित-
स्ततस्तदुपसेवनं तव सुखाय नान्याश्रयः॥१९॥

स्फुटेति। [वै०— ] भवतो विषयवासना चलतया दुरुत्सारणा। कीदृशी। स्फुटस्फुरणं मानसं यस्यां सा। पुनः। बहुमानेनाहंकारेण रोषेण चसहिता स्थितिर्यस्याः सा। अजितः कृष्णः प्रियस्य हितस्य आचरणं तज्जन्यभाग्यतः पुण्यात् सप्रसादः प्रसन्नो भवति। अतस्तस्यैवोपसेवनं तव सुखायस्यात्, अन्याश्रयो न हितायेति॥

[शृ०—] है चल चञ्चल, अन्यासक्ततया भवद्विषया वासना त्वदपराधाहितः संस्कारो नापनेतुं शक्यते। कीदृशी। बहोर्मानस्य रोषस्य च स्थित्यासहिता। पुनः। नसा नासिकया स्फुटा व्यक्ता स्फुरणमा स्फुरणलक्ष्मीर्यस्यांसा। यतो हेतोः प्रियायाश्चरणौ भजते प्रियाचरणभाक् पुरुषः जितः सन्सप्रसादः तत्प्रसादसहितो भवति। अन्यस्या आश्रयोऽन्योपाश्रयो वा नतव सुखायेति॥

दृश्येतदेव रूपं सुकृतविपाकेन केन ते दृष्टम्।
एतर्हि गर्हितं मे जन्म न तत्कर्हिचिद्यदालोचि॥२०॥

दृश्येतेति। [वै०—] हे देव, तव रूपं युण्यपरिपाकेण दृश्येत कर्हिचित्। अथवा केन ते रूपं दृष्टम्, न केनापि। यत् यतो हेतोस्तत्ते रूपं मयानालोचि मनसापि न शीलितम्। ततो मे जन्म एतर्हि इदानीं गर्हितम्॥

[शृ०—] हे दृश्ये दर्शनार्हे, तदेव ते रूपं श्रुतपूर्वमद्भुतमिति एतर्ही-

दानींकेन पुण्यपरिपाकेण दृष्टम्। तत्ते रूपं पूर्वं कदाचिदपि यन्नालोचिततो मे जन्म गर्हितमिदानीं त्वद्दर्शनेन सफलमिति॥

प्रसीदति किलाजितः श्रितमनोजवन्ध्यायते
क्षरन्मदनवारणप्रतिकृतौ प्रयत्नं कुरु।
यतः श्रुतिशिरःशतप्रकटितप्रमोदाद्वय-
स्वरूपविषया भवेत्तव परानुभूतिश्चिरात्॥२१॥

प्रेति। [वै०-] अजितः कृष्णः श्रितो मनोजवो मनोवेगो यस्मिंस्तद्यथा स्यात्तथा ध्यायते पुरुषाय प्रसीदति किल। तत आदौ क्षरन् यः मदनएव वारणो हस्ती तस्य प्रतिकृतौ प्रतीकारे प्रयत्नं कुरु। किं विष्णुप्रसादेनभवतीत्यत आह—

यतो विष्णुप्रसादात् श्रुतिशिरसां वेदान्तानां शतेन प्रकटितं पदद्वयं स्वरूपं तद्विषया परानुभूतिर्ब्रह्मसाक्षात्कारस्तव चिराद्भवेदिति॥

[शृ०—] श्रितो मनोजः कामो येन। हे यते, बन्ध्या स्त्री आजितःसंग्रामात्कामयुद्धतः प्रसीदति किल। अतः अक्षरदस्खलत् मदनवाः कामजलं रेतो यस्यैवंविधः सन् रणप्रतिकृतौ कामरण एव प्रतीकारस्तत्र प्रयत्नंकुरु। यतो यत्नाद्वेदान्तशतप्रतिपादितानन्दाद्वयरूपात्मानुभवश्चिरात्तव भवेदिति परिहासोक्तिः॥

साधोरजनिमहेशं किमुपर्यासीन्न तेऽतिभावयतः।
प्रायो मयोपदिष्टो विनैव कष्टं स्वयं सुखं लभते॥२२॥

साध इति। [वैo—

] महेशमीश्वरम् अतिभावयतः अत्यन्तं चिन्तयतः साधोस्ते किं नाजनि किम् उपरि नासीत् किं न जातं ज्ञानादिकंकिमुत्कृष्टं पदं नाभूत्। अग्रे स्पष्टम्॥

[शृ०–] रजनिमहे रात्र्युत्सवेऽधः स्थिता साशं सुखविशेषम् अतिभावयतस्ते उपरि किं नासीत्, अपि त्वासीदेव। प्रायो मदुपदेशेन स्वयंकष्टं विनैव सुखं सुहृल्लभत इति॥

प्रसादसुकुमारताविजितसान्द्रचान्द्रप्रभा
रसोत्तरतरस्फुरन्मधुरवृत्तवर्णोत्तमा।

सदच्युतपदस्थितिर्भवति भारतीशस्यते
ततस्तव रसज्ञयाजनि कृतार्थया संगमात्॥२३॥

प्रसादेति। [वै०-] ईश्वरश्लोककृतं कविं प्रति वैष्णववचनम्— भवति त्वयि भारती शस्यते स्तुत्या भवति। ततो हेतोस्तव जिह्वया तत्संगमात्कृतार्थयाजनि जातम्। कीदृशी सा सरस्वतीत्यपेक्षायामाह— प्रसादेनसुकुमारतया च विजिता सान्द्रा चान्द्री प्रभा यया। अतिशयेन रसप्रचुरारसोत्तरतराः स्फुरन्मधुरं वृत्तं छन्दो येषु एवंविधा वर्णोत्तमाः श्रेष्ठाक्षराणियस्यां सा अच्युतस्य पदे चरणे स्थितिर्यस्याः सा भारती॥

[शृ०–] हे मित्र, रतीशस्य कामस्य भा कान्तिः शरीरशोभा तेभवति। ततो हेतोस्तव संगमाद् रसज्ञया रसं जानत्या कृतार्थयाजनि। कीदृशीशान्तिः। प्रसादेन मुखप्रसादेन सुकुमारत्वेन च विजिता सान्द्रा चान्द्रीप्रभा यया। पुनः। रसोत्तरा भूलोकातिगा अतिशयेन रसोत्तराणि स्फुरन्तिमधुराणि वृत्तानि चरित्राणि वर्णोत्तमो गौरिमा यस्यां सा। पुनः। सती अच्युतास्खलिता पदे स्थाने त्वल्लक्षणे स्थितिर्यस्याः॥

आसाद्यते कथं वा शौर्याश्रयणे न गौरवध्वंसः।
तत्तत्र दत्तचित्तश्चित्तजसंतापभाजनं न जनः॥२४॥

आसेति। [वै०– ] शौरेः कृष्णस्य आश्रयणे कथं वा गौरवध्वंसः आसाद्यते। तत् तत्र दत्तचित्तो जनश्चित्तोत्पन्नसंतापभाजनं न स्यात्॥

[शृ०- ] गौर्या वध्वा अंसः स्कन्धः शौर्याश्रयणे शूरतावलम्बने सति’कथं वा नासाद्यते न प्राप्यते। तस्मात् तत्र साहसे दत्तचित्तश्चित्तजेन कामेनयः संतापस्तद्भाजनं जनो न स्यात्॥

प्राप्तः कांचनसंपदा विपुलयाहंभावसीमामिमां
को जानाति जनोमनागपिहितो मायामयोग्राधिना।
एतच्चित्तफलं मनुष्यजनुषो यत्प्रेम रामाश्रितं
किंचोरस्थलशायिनः कुशलतो याता निशा हैमनी॥२५॥

प्राप्त इति [ वै०—

] विपुलया संपदा कांचन अनिर्वचनीयाम् अहंभावसीमां प्राप्तः मायामयेन उग्राधिना अमनाक् अधिकम् अपिहित आच्छादितः

कः पुरुषो जन्मफलं स्वकीयं जानाति, अपि तु न कोऽपि। एतदेव मनुष्यजन्मनः फलं चित्तस्य जानीत। यद् रामं आश्रितं प्रेम। दृष्टान्तः—

चोरस्थशायिनःहैमनी हेमन्तसंबन्धिनी निशा कुशलतः किं कस्यापि याता॥

[शृ०—

] भावानां बिब्बोकादीनां सीमां मर्यादाम् इमां स्त्रियम् अहंविपुलया सुवर्णसंपत्त्या प्राप्तः उग्राधिना मया अपिहित आच्छादितः कोजनो मम मायां जानाति। मनुष्यजन्मनो देहिन एतदेव फलं चित्तस्य यद्रामाश्रितं प्रेम। किं च अस्या उरःस्थले शयनीयशीलस्य मम हैमनीनिशा सुखेन याता॥

कार्येहानुसरणतो वारंवारं परं पुमांसमनु।
यतमानस्यानुदिनं भवति यतः प्रेमलक्षणं भजनम्॥२६॥

कार्येति। [वै०—

] वारंवारं परं पुमांसं परमेश्वरम् अनु लक्षीकृत्य ईहास्पृहा कार्या। यतः स्पृहातोऽनुदिनं यतमानस्य प्रेमलक्षणं भजनं भवति॥

[शृ०—

] इह संसारे वारंवारम् अनुसरणतः परं पुरुषम् अनु का स्त्री आर्यासाध्वी। अतोऽनुदिनं यत्नं कुर्वतः प्रेम्णो लक्षणं चिह्नरूपं भजनं भवतीति॥

न कर्म रामाप्तिकरं कृतं मया न वाचिरम्भारतवर्णनं श्रुतम्।
वृथैव पूर्वः समयः समापितो न चेदिदं किं नु कृतं किमु श्रुतम्॥२७॥

नेति। [ वै०—

] रामस्य प्राप्तिकृत् कर्म न कृतम्। न वा भारतस्य वर्णनं चिरं श्रुतम्। ततः पूर्वः समयो वृथैव समापितः। इदं कार्यद्वयं नकृतं चेत् किं कृतम्, किं नु श्रुतम्॥

[शृ०—

] रामा स्त्री तत्प्राप्तिकरं कर्म किमपि मया न कृतम्। वाचिवचने रम्भाया रतस्य वर्णनं न श्रुतम्। ततः पूर्वः समयः तारुण्यवयः क्रमोवृथैव समापितः। इदं कर्मद्वयं चेन्न कृतम्, तदा किं कृतम्, किं श्रुतम्॥

स्पृशति खरूपमुग्धं शश्वदसत्यद्वितीयभावेन।
भ्रमयति विकलयतीदं दृश्यञ्जनमात्ममायया कलितम्॥२८॥

स्पृशतीति। [वै०—

] इदं दृश्यं विश्वं स्वरूपे परमात्मभावे मुग्धं जनंशश्वन्निरन्तरम् असत्यो यो द्वितीयभावस्तेन स्पृशति। यत आत्मन एव माययाकलितं कल्पितम्। ततो जनं भ्रमयति भ्रान्तं करोति विकलयति च॥

[ शृं०— ] असती स्वरूपेण मुग्धं शश्वदद्वितीयेन भावेन कटाक्षादिनास्पृशति चक्षुःप्रीतिमुत्पादयति। इदं दृशि अस्या नेत्रे आत्मनो मायया वशीकरणौषधादिमेलनेन कलितं निहितम् अञ्जनं भ्रमयति विकलयति च तमेव॥

पूर्वमेव शिवसन्निधौ वने द्वन्द्वपीडनमुदेति सर्वथा।
कोऽपवर्गभजनेऽतिनिःस्पृहोऽयत्नतः सुखमवाप्यते यदि॥२९॥

पूर्वमिति। [वै०—

] शिवस्य संनिधौ वने पूर्वमेव द्वन्द्वपीडनं सर्वथोदेति अयत्नत एव यदि सुखमवाप्यते। तदा अपवर्गभजने मोक्षभजने कोनिःस्पृहः स्यात्— इति कश्चिदुपदिशति॥

[शृ०—

] निश्च धुश्चनिधू पूर्वमेव आदावेव शिवौ शुभौ सन्तौ निधूवर्णौयस्यैवंविधे वने। निधुवन इत्यर्थः। तत्र सर्वथा सुरते द्वन्द्वपीडनम्अर्थात् कुचनितम्बादिपीडनमुदेति। यदि यत्नतः सुखमवाप्यते तदा अपवर्गभजने पवर्गरहिते भजनशब्दे अर्थात् जने को अतिनिःस्पृहोऽस्ति। सर्वोऽपि’सुखार्थ यतत इत्यर्थः॥

अतिरुचिरङ्गजकृत्त्या क्षोभितदक्षं भवन्तमेव भजे।
यस्मिन्प्रसादसुमुखे सद्यो वामापि भवति मम तुष्ट्यै॥३०॥

अतीति। [ वै० –] गजकृत्या गजचर्मणा अत्यन्तभव्यं तं भवं शिवमेव भजे। क्षोभितो दक्षः प्रजापतिर्येन तम्। यस्मिन्प्रसादसुमुखे सतिसद्यस्तस्य वामा गौर्यपि मम तुष्ट्यै भवेत्॥

[शृ०—

] अङ्गजस्य कामस्य कृती रत्यभिलाषादिरूपा तथा अतिरुचिरत्यन्तप्रीतिमान् अहं क्षोभितचतुरं भवन्तं त्वामेव भजे। यस्मिंस्त्वयि प्रसादसुमुखे सति सद्य एव वामापि प्रतिकूलापि सा मम तोषाय भवति—

इति
कस्यचिन्मानिनीप्रसादकं प्रति वचनम्॥

विना किमात्यन्तिकमङ्गनाशं श्रेयो भवेदत्र भवे विशिष्टम्।
अतस्तदर्थं प्रयतेत धीमान्कुतोऽन्यथा निस्तृतिरस्ति पुंसः॥३१॥

विनेति। [ वैº—

] अत्र भवे संसारे आत्यन्तिकम् अङ्गस्य देहस्य नाशंविना विशिष्टं श्रेयो मोक्षः किं भवेत्। अतो धीमान् पुमान् आत्यन्तिकशरीनाशाय प्रयतेत॥

[शृ०—

] अत्र भवेऽत्यन्तम् अङ्गनायाः शं सुखं विना विशिष्टं श्रेयःकिं भवेत्। अतो धीमान् अत्यन्ताङ्गनासुखाय प्रयतेत। अन्यथा पुंसःकुतो निस्तारः॥

तुदति हिमालयपवनोमाधवपरिशीलने न योगजुषम्।
यस्मादयोगभाजां प्रभवन्ति पदे पदे विपदः॥३२॥

तुदेति। [ वै०—

] हिमालयपवनो माधवस्य कृष्णस्य परिशीलने योगजुषं न तुदति। अग्रे स्पष्टम्॥

[शृ०—

] हि निश्चयेन मालयपवनो दक्षिणानिलो वैशाखस्य परिशीलने स्त्रीयोगसेविनं न तुदति। यतो यस्माद्दक्षिणानिलाद् अयोगभाजां विरहिणांपदे पदे विपदः प्रभवन्ति॥

विद्याधनाभिजनकाममदेषु पुंसा
दुर्वार एष चरमस्तदहं ब्रवीमि।
रामात्मकं जगदिदं हृदि भावयन्तः
कंदर्पमेकमवलम्बितुमुत्सहेरन्॥३३॥

विद्येति। [ वै०– ] विद्याधनकुलकामजन्यमदचतुष्टये चरमः काममदएव दुरपनेयः। ततोऽहं ब्रवीमि। इदं जगद् राममयं हृदि भावयन्तः सन्तःकम् एकं दर्पम् एतेष्वन्यतमम् अवलम्बितुम् उत्साहं कुर्युः। नैकमपि॥

[ शृ०—] काममदः सर्वेषु मदेषु दुर्वारस्ततोऽहं ब्रवीमि जगदिदं स्त्रीमयंभावयन्तः कामिन एकं कंदर्पमेव अवलम्बितुम् उत्सहेरन्॥

नारदरुचिसंदीपनचतुराननवादतो मुहुः स्पृहयन्।
आश्लिष्टशेषशय्यां धन्यो रामाकृतिं चिरं भजते॥३४॥

नारेति। [ वै० – ] धन्यः कोऽपि पुरुषश्चिरं रामस्य विष्णोराकृतिमाकारविशेषम् आलिङ्गितशेषशयनीयां भजते। नारदस्य मुने रुचिः प्रीतिस्तत्संदीपनं यच्चतुराननस्य ब्रह्मणो वचनं तस्मान्मुहुः स्पृहां कुर्वन्॥

[ शृ०—

] धन्यो ना पुरुषो रामायाः स्त्रियाः कृतिं संभोगलक्षणां चिरंभजते। कीदृशीं कृतिम्। आश्लिष्टा आलिङ्गिता शेषा अवशिष्टा शय्या तदे-

कदेशो यस्यां सा। किं कुर्वन्। रदरुचेर्दन्तकान्तेः संदीपनं यत् चतुरायास्तस्याः’न न’ इति वचनं ततो मुहुरतिशयेन स्पृहयन्। नकारस्य दन्त्यत्वात्॥

भवनेत्रकृशानुभूतियोगात्परमैश्वर्यमवाप्यदृप्तचेताः।
बत वेदजनो निजां गतिं न प्रतिपद्येत कथं परात्मतत्त्वम्॥३५॥

भवेति। [ वै० – ] अयं जनो लोकोऽस्मदादिः शिवदृष्टिवह्निभूतेः कामस्य योगात् परमैश्वर्यं प्राप्य दृप्तचितः सन् निजां गतिं न वेद। सांसारिकीमपि गतिं कामधनमदेन न जानाति। परस्य ब्रह्मण आत्मनो जीवस्य तत्त्वमैक्यलक्षणं कथं प्रतिपद्येत जानीयात्। न कथमपीत्यर्थः॥

[ शृ०—

] अत्र भवने अस्मिन्गृहे कृशा कृशाङ्गी अनुभवसंबन्धात्परमुत्कृष्टम् ऐश्वर्यं मुक्तामणिकाञ्चनादिलक्षणम् अवापि प्रापिता। द्रव्यदानेनेयं प्रलोभ्य भुक्ता। अर्थान्मयेति शेषः। एतद्गृहे पुंव्यक्तिबाहुल्यात् कथंकोऽपि नाज्ञासीत् इत्यपेक्षायामाह—

अदृप्तचेता उन्मादरहितः वेदजनो वेदपाठको जनो निजामपि गतिम् अशनाच्छादनादिरूपां न जानाति। परेषामात्मनो हृदयस्य तत्त्वं कथं प्रतिपद्येत॥

श्रितपरमहंसकरणाद्यस्मात्प्रतिभाति चित्ररचनेयम्।
अनुगतपङ्कजरागो बत रागी तत्पदं समेतु कथम्॥३६॥

श्रितेति। [वै० – ] श्रितानि परमहंसानां संन्यासिनां करणानीन्द्रियाणियेनैवंविधाद्यस्माद्विष्णोरियं चित्ररचना विचित्रा विश्वस्थितिः प्रतिभाति तत्पदंतस्य विष्णोः पदं चरणं स्थानं वा रागी जनः अनुगतः पङ्कः पापलक्षणो ययाएवंविधां जरां गच्छतीति अनुगतपङ्कजरागोऽपि कथं समेतु॥

[शृ०—] श्रितः परमो हंसकस्य नूपुरस्य रणोऽतिशब्दो येनैवंविधाद्यस्मात् पदश्चरणाद् इयं चित्रमेव रचना कृतिर्यस्याः सा चित्ररचना चित्रिणीप्रतिभाति। ‘चित्रिणी चित्ररक्ता’ इति प्रसिद्धेः। अनुगतोऽनुकृतः पङ्कजस्यकमलस्य रागो वर्णो येन सः तत्पत् स चासौ पच्च स चरणः तस्याः पत्इति वा अंसं स्कन्धं कथम् एतु॥

असौजन्यञ्चेतो भवसमुचितं भावयति त-
द्वृथासंसारेऽस्मिन्नहह समयं किं गमयति।

चिराद्भूयोभूयः कलयसि सखेदो भवसुखं
ततो मन्ये त्यागात्प्रभवति परा निर्वृतिरिति॥३७॥

असाविति। [वै०—

] चेतः संसारोचितमसौजन्यं दुर्वृत्तत्वं भावयतितदस्मिन् संसारे समयं वृथा किमिति गमयसि। अहह खेदे। चिरादनादौसंसारे भूयोभूयः सखेदोऽपि भवसुखं वाञ्छसि ततस्त्यागादेव निवृत्तिमार्गादेव परा निर्वृतिर्भवेदिति मन्ये॥

[शृ०— ] असौ स्त्री कामोचितं जन्यं युद्धं रतं भावयति। तद्वृथास्मिन्संसारे समयं त्वं किमिति गमयसि। अहहेति खेदे। हे सखे, अदःसंसारसुखं चिराद्भूयोभूयः परदारगमनजन्यं कलयसि वाञ्छसि। ततस्त्यागाद्द्रव्यदानात् परा या निर्वृतिः परस्त्रीसुखं प्रभवति। यद्वा परिणेयां कन्यांभविष्यत्स्वयंवरां विलोक्य सुन्दरं स्वमित्रमुद्दिश्य स एवाह—

असौ जनीपरिणेया कन्या समुचितं योग्यं वरं विचारयति। तत् त्वमञ्च चल, इतोभव अस्यां दिशि प्रवर्तस्व। सुन्दरतया त्वामेव वरीष्यते। अपि अहमपिवृथा आसं व्यर्थोऽभवम्। इयदवधि त्वदनुपदेशेनेति शेषः। सारे सारसूते अस्मिन्कन्यारले किं समयं गमयसि। अहह सखे, अदो भवसुखं चिरात्भूयोभूयः पतिं वराप्राप्तिरूपं वाञ्छसि। ततो मन्ये प्रभवति प्रभौ त्वयि परानिर्वृतिः सुखानुभूतिः अत्यागात् अतिशयेनागतेति॥

यद्भजनमत्र सारं वयस्यसौहार्दतश्चिरासक्त्या।
हृदयं गोपजनमें हरति सदूर्वाभया तन्वा॥३८॥

यदिति। [ वै० — ] हे वयस्य, सौहार्दतः प्रेम्णश्चिरमासक्त्या च यस्यविष्णोर्भजनमत्र संसारे सारम्। स गोपजनुर्हरिः दूर्वासमकान्त्या तन्वा मेहृदयं हरति॥

[शृ०—

] असौ गोपजनुर्गोपकन्या सती ऊर्वोराभा कान्तिर्यस्या एवंविधया तन्वा देहेन मे हृदयं हरति। हार्दतः प्रेमतः चिरासक्त्या वयसितारण्ये यद्भजनं सारभूतम्॥

सदातिकलुषाशया भवसमुद्भवत्पद्धतिः
प्रसिद्धनरकामिता कथमनेनसा गम्यते।

क्व सिध्यति समीहितं फलमनन्तचर्चामुचा-
मतोऽजितविचारणापरमनोभिरानन्द्यते॥३९॥

सदेति। [ वै० – ] अनेनसा निष्पापेण पुरुषेण भवे समुद्भवतां जन्मिनां पद्धतिर्मार्गः कथं गम्यते। कीदृशी। सदा अतिकलुष आशयो यस्यांसा। तथा पुनः प्रसिद्धा नरकाः कुम्भीपाकादयो यस्यां सा। अमिता अपरिच्छिन्ना। अनन्तस्य कृष्णस्य चर्चा मुञ्चन्तीति ते तथा तेषां समीहितमभीष्टं फलं क्व सिध्यति, न क्वापि। अतोऽजितस्य विष्णोर्विचारणायां परानिष्ठा यस्यैवंविधं मनो येषां तैरानन्द्यते॥

[शृ०—

] सा स्त्री अनेन कथं गम्यते, यतः सा प्रसिद्धैर्नरैः प्रभुभिःकामिता वाञ्छिता। अथ च सदा अतिकलुषाशया भवे संसारे समुत्सु सानन्देषु भवन्ती पदाहतिर्यस्याः सानन्दानपि पदा हन्तीत्यतिदुर्लभा अनन्ताअपरिमिता चर्चा योषिद्विषया तन्मुचां क्वसमीहितं सिध्यति। अतः अजितंविचारणापरं मनो यैस्तैरानन्द्यते॥

संसारिणापि सुलभं शश्वद्रामाश्रयेण नित्यसुखम्।
अच्युतरसेन सद्यःफलवत्कालत्रयोगतः क्वभयम्॥४०॥

समिति।[ वै० - ] रामस्याश्रयेण संसारिणापि नित्यसुखं ब्रह्मानन्दंसुलभमेव।अच्युतरसेन विष्णुविषयप्रेम्णा सद्यः फलवत् कालत्रयं यस्य सपुमान् क्वभयं गतः॥

[ शृ०–] रामाया आश्रयेण शश्वत्संसारिणापि दैनंदिनं सुखं सुलभम्।अच्युतोऽस्खलितो यो रसस्तेन सद्यः फलवान् यः कालन्नश्रोणिसंबन्धीयोगस्ततः क्व भयं कामादेरिति शेषः॥

प्रमदाय निरत्ययाय पुंसां मिलिताष्टाङ्गविधिः समाधियोगः।
अनुकूलकलत्रकोटिकण्ठग्रहणेनापि कुतः सुखं तथा स्यात्॥४१॥

प्रमेति। [ वै० - ] मिलितः अष्टानामङ्गानां यमादीनां विधिर्यत्रैवंविधःसमाधियोगो निरत्ययाय सुखाय ब्रह्मानन्दाय भवति। अनुकूलानां कलत्राणांया कोटिस्तत्कण्ठग्रहणेनापि तथा सुखं कुतः स्यात्॥

[ शृº—

] समः समान आधिर्यस्यास्तस्याः परस्त्रिया योगः संबन्धो

मिलितोऽष्टानामङ्गानां विधिर्न्यासविशेषो यत्रएवंविधो निरवधये सुखायभवति। अग्रे स्पष्टम्॥

पदयुगलं पद्मदृशो हृद्यारोपयति यः स्मरतिसमये।
स कथं स्वर्गसुखान्यपि धन्यो मन्येत न तृणेभ्यः॥४२॥

पदेति। [ वै०—

] पद्मदृशः पुण्डरीकाक्षस्य पदयुगलं यो हृद्यारोपयति, समये चरमावस्थायां स्मरति च, स धन्यः स्वर्गापवर्गसुखान्यपितृणेभ्यो न मन्येत॥

[शृ०— ] यः पुरुषः पद्माक्ष्याश्चरणद्वयं रतिसमये हृद्यारोपयति स्म।अग्रे स्पष्टम्॥

मधुरिपुमधरं शिवं वरेण्यं वदति जनो विदितैतदीयतत्त्वः।
तदहमिह महानुरागभूमावहरहरस्मि रहस्युदीततृष्णः॥४३॥

मध्विति। [ वै०—

] अविदितमज्ञातमेतदीयं विष्णुसंबन्धि तत्त्वं येनएवंविधः शैवो जनो मधुरिपुम् अधरमपकृष्टं शिवं तु वरेण्यं श्रेष्ठं वदति॥यद्वाविदितशिवतत्वः शैवो जनो मधुरिपुमधरं शिवं वरेण्यं वदति। तत्तस्मादमिह मधुरिपौ शिवे वा महानुरागस्थाने उत्पन्नतृष्णोऽस्मि एकान्तेतद्ध्यानतृष्णोऽस्मि॥

[ शृ०—

] विदितमेतदीयम् अधरसंबन्धि तत्त्वमत्यन्तमधुरस्वरूपत्वंयेन सः अधरं मधुनो रिपुं वदति। शिवं मङ्गलरूपं वरेण्यं श्रेष्ठं वदति। तदहमिहाधरे आरुण्यस्य प्रेम्णो वा भूमौ उत्पन्नतृष्णोऽस्मि॥

परपुरुषजीवनार्यासङ्गोत्रसतां मिलत्यसत्त्यागात्।
तस्मादपहाय भयं तदाप्तये तत्परः प्रवर्तेत॥४४॥

परेति। [ वै०– ] अत्र संसारे परः पुरुषः परमेश्वर एव जीवनं येषांतेषामार्याणां सतामासङ्गः असतां खलानां त्यागान्मिलति। अग्रे स्पष्टम्॥

[शृ०—

] अत्रसतां त्रासमकुर्वतां पुरुषाणाम् असत्त्यागादसद्व्ययात्परेपुरुषे जीवो यस्यास्तस्या नार्याः सङ्गो मिलति। अग्रे स्पष्टम्॥

साकं मनोभवमदेन भजेत कम्रं
लक्ष्म्या बलेन यदि कोऽपि लभेत तत्त्वम्।

लभ्येत पुष्कलपुरातनपुण्यपुञ्ज-
पाकेन केवलमिदं भजनं जनेन॥४५॥

सेति। [ वै०—

] कोऽपि कश्चिद्ब्रह्मापि वा तत्वं लभेत विष्णो रहस्यं प्राप्नुयात्। लक्ष्म्याः कम्रं कामुकं हरिं यदि बलेन बलभद्रेण हठेन वा साकं मनोभवमदेनोपलक्षितो भजेत। कामुकोऽपि हरिभजनेन तत्त्वं प्राप्नुयात्। इदं भजनं (अस्य विष्णोर्भजनं) पुष्कलपुरातनपुण्यपुञ्जपरिपाकेनैव केवलं लभ्येत॥

[शृ०—

] सा स्त्री मनोभवमदेन स्वद्रविणेन वा कं कभ्रं कामुकं भजेत। अपि तु न कमपि। यदि कश्चित्कामी लक्ष्म्या बलेन द्रव्यव्ययसामर्थ्येन तत्त्वं तस्याः स्वरूपं लभेत। इदं भजनमस्या भजनं पूर्वपुण्यपुञ्जपरिपाकेनैव लभ्यते॥

आकलितोरुक्रमपदपद्मालंकृत्यनल्पपुण्यभवम्।
निजगुणगुरुखरूपं काव्यञ्जयति प्रसन्नमतिमधुरम्॥४६॥

आकेति। [ वै०—

] आकलिता स्वीकृता उरुक्रमस्य विष्णोः पदपद्ममेवालंकृतिर्येन। अनल्पात्पुण्याद्भवति तादृशम्। निजैर्गुणैः श्लेषप्रसादादिभिर्गुरु गरिष्ठस्वरूपं शब्दार्थरूपं यस्य तथाविधं प्रसन्नमतिमधुरं काव्यं कवित्वं जयति॥

[शृ०—

] इयं का स्त्री प्रसन्नमधुरं स्वरूपं व्यञ्जयति। कीदृशम्।आकलितः स्वीकृत उरुः श्रेष्ठो हंसादीनामिव क्रमो विक्षेपो येन तादृशं यत् पदपद्मं तदेवालंकरणं यत्र। आकलित ऊर्वोः क्रमः अङ्घ्रिकमलालंकृतिर्नूपुरादिश्चयत्रेति वा। बहुपुण्यभवं निजैः सहजैर्गुणैर्गुरु गरिष्ठम्॥

मनोभवध्यानपरायणानां तदन्यमिच्छाविषयं न वेद।
अतस्तदामोदरसे निमग्नाः कथं नु संसारभयं लभन्ताम्॥४७॥

मेति। [ वै०—

] भवस्य ध्यानमेव परमयनं येषां तेषां मनः तदन्यमिच्छाविषयं न वेद। अतस्तद्ध्यानरसे निमग्नाः कथं संसारभीतिं लभन्ताम्॥

[शृ०—

] मनोभवः कामस्तद्ध्यानासक्तानां तदन्यमिच्छाविषयमहं नवेद।अग्रे स्पष्टम्॥

प्राप्तैव निर्वृतिश्रीः सत्यं सामानि गायतानेन।
तद्गाानमेव मन्येस्त्रीहृदयग्रन्थिभेदने हेतुः॥४८॥

प्राप्तैवेति। [वै०—

] सामानि गायतानेन सामगेन निर्वृतिश्रीः सुखसंपत् प्राप्तैव। तस्माद्धृदयग्रन्थेरहंकारस्य भेदने हेतुर्गानमेव अस्त्री छुरिकेति मन्ये॥

[शृ०—

] गायतानेन निर्वृतिश्रीः सुखसंपद्रूपा निर्गतावृतिरवगुण्ठनाद्यावरणशोभा वा यस्याः सा सत्यं प्राप्तैवामानि। अग्रे स्पष्टम्॥

गृहमघममुपेक्ष्यं कृष्णपक्षातिरागै-
रविधुवनमुपेयं सद्भिरादौ निसर्गात्।
क इह गतिमितोऽन्यां वक्त कामातुराणां
तदहमुपदिशामि श्रेयसे भूयसे यत्॥४९॥

गृहेति। [ वै०—

] कृष्णः पक्षो येषां तेषु अतिरागैर्वैष्णवपक्षपातिभिःगृहम् अधममित्युपेक्ष्यम् सद्भिरादौ निसर्गात्स्वभावाद् अविधु चन्द्राद्युद्दीपनरहितं वनम् उपेयं गन्तव्यम्। कामैरभिलाषैरातुराणां क्लेशभाजाम् इतोऽन्यत्गतिं को वक्तु। अहं तु यद्भूयः श्रेयसे तद्ब्रवीमि॥

[शृº—

] कृष्णपक्षे अधिकरागैः सद्भिरधमं स्वायत्तं गृहं कलत्रमुपेक्ष्यम्। विगतो धुर्यत्र तद्विधु, न विधु अविधु, धुसहितं वनं धुवनम्,आदौ निसर्गात् नेर्वर्णस्य सर्गात्सृष्टेः निधुवनं भवति तदुपेयं प्राप्तव्यम्।अन्यत्रेति शेषः। इतोऽन्यां कामातुराणां गतिं क इह कृष्णपक्षे वक्तु।अहंतु भूयः श्रेयो हेतुमुपदिशामि॥

त्यक्तान्यविषयवृत्तिर्ध्यायति सारं श्रुतं मतं पुरुषम्।
तदसौ कथं न विन्देत्परमानन्दं प्रयत्नपरचेताः॥५०॥

त्यक्तेति। [वै०– ] असौ पुरुषस्त्यक्तान्यविषयवृत्तिः सन् श्रुतिवाक्येभ्यो मतमुपपत्तिभिः सारं सारभूतं पुरुषं परमात्मानं ध्यायति।अग्रे स्पष्टम्॥

[शृ०—

] सा स्त्री त्यक्तान्यविषया वृत्तिर्यया सा श्रुतं दूत्यादिमुखेनमतमभीष्टं पुरुषं ध्यायति। अरं शीघ्रं तत्तस्मादसौ पुरुषस्तस्याः संमतः कथंपरमानन्दं न विन्देत्॥

गाङ्गेयमुख्यमिततुङ्गसमस्तनीति-
गुप्तापि विश्रुतकथाभरणाचितापि।

अत्येति कामरणवेगमियं तनुस्त-
दस्यामहोरुचिरभाग्यजनादितः स्यात्॥५१॥

गाङ्गेति। [ वै० - ] गाङ्गेयमुख्यैर्भीष्मप्रभृतिभिर्मिता या तुङ्गा समस्तानीतिस्तया गुप्तापि रक्षितापि विश्रुता प्रसिद्धा या कथा कीर्तिस्तद्रूपाभरणसहितापि का तनुः किं राजादिशरीरं मरणवेगमत्येति अतिक्रामति। अपि तुन। तत्तस्मादस्यां तनौ इतोऽस्मादभाग्यजनाद्रुचिः स्यान्न भाग्यवतः॥

[शृ०–] तनुः कृशाङ्गीयं कामरणे कंदर्पयुद्धे वेगमतिक्रामति लघुदेहत्वेन विपरीतरतेऽतिवेगवतीत्यर्थः। तस्मादस्या मह उत्सवो रुचिरभाग्यादितो मल्लक्षणाज्जनात्स्यात्। यद्वा अस्या महतोरूर्वोश्चिरं बहुकालं भजते महोरुचिरभाक् यजनादितःपुण्यात्स्यात्193

अतिविशदानन्तपदप्रवृत्तदृष्टिर्न मधुरवीक्षणतः।
तुष्यत्यश्चितुकामः प्रातस्तनकमलमुकुलवीक्षणतः॥५२॥

अतीति। [ वै० - ] मधुरवीक्षणतो वसन्तादित्यदर्शनादतिविशदेऽतिनिर्मलेऽनन्तस्य विष्णोः पदेचरणे प्रवृत्तदृष्टिः कः पुरुषोऽञ्चितुकामोऽर्चनं कर्तुकामः प्रातस्तनानां प्रातः कालिकानां कमलमुकुलानां दर्शनान्न तुष्यति॥

[शृ०– ] वसन्तादित्यदर्शनादतिनिर्मले आकाशस्थाने दत्तदृष्टिः प्रातरञ्चितुकामो यातुकामः कः कामी स्तनकमलमुकुलयोर्दर्शनेन न तुष्यति॥

इह यादववंशकृष्णवर्त्मानुगतिः साङ्गतया मयान्वभावि।
अधुना तवाप्तिचेतसे मे मधुराकामधुरापि रोचते किम्॥५३॥

इहेति। [ वै०- ] इह सतां समाजे यादववंशो यः कृष्णस्तस्य यद्वर्त्ममार्गस्तदनुगतिः साङ्गत्वेन मयान्वभावि। इदानीं तत्प्राप्तिचित्ताय मे मधुराकामस्य धूः किं रोचते। अपि तु न॥

[शृ०—] अङ्ग हे, दवेऽरण्ये वेणुधर्षणजन्यो यः कृष्णवर्मा वह्निस्तदनुगतिय तत्र निपातरूपा सा तया मया चान्वभावि अनुभूता। अधुनातत्प्राप्तिमनसेऽपि मे मधुरापि मधुराका वसन्तपूर्णिमा न रोचते॥

रुचिरजनिसौरभासावह्निविधुश्रीः पयोधराकलिता।
विदितोऽस्तिमार्गणादेरात्मभुवोऽस्याः पितृप्रसूसमयः॥५४॥

रुचीति। [ वै० - ] सौर्या सूर्यसंबन्धिन्या भासा पयोधरैर्मेधैराकलितावह्निविध्वोरिवारुणा श्वेता च रुचिरजनि जाता। अतोऽस्या रुचेरात्मभुवोब्रह्मणः। उपलक्षणमिदम्। अर्थाद्ब्राह्मणस्य। पितृप्रस्वाः सायंसंध्यायाः समयो विदितः। किंभूतस्यात्मभुवः। आ समन्तादृचां गणा आर्गणाः। अस्तिविद्यते मा लक्ष्मीर्येभ्य एवंविधा अस्तिमास्ते च ते आर्गणाश्च तेषामादिभूतस्य। उपलक्षणमिदम् ऋगादिसकलवेदमूलस्य। ब्राह्मणस्य संध्यावन्दनसमयोजातस्ततो विधिनिषेधज्ञैरुत्तालैर्भाव्यम्॥

[शृ०—

] असौ स्त्री पयोधराभ्यामाकलिता उद्गतस्तनी अह्नि दिवसेएव विधोरिव श्रीर्यस्या एवंविधा सुन्दरी रुचिरा जनिरुत्पत्तिर्यस्यैवंविधंसौरभं पद्मगन्धः स्वाभाविको यस्याः सा तथा। अतः पद्मिनीत्यवगम्यते।किं ततःअस्याः पितृप्रसूः पितामही तत्समयः स्नानाद्यर्थं गमनकालआत्मभुवो मार्गणादेः स्वकल्पितयाचकचारणशिल्पिविशेषादिच्छद्मदूतादेःसकाशाद्विदितो ज्ञातोऽस्ति॥

नव्यस्तनीतिपरिशीलयतो न सौख्य-
साम्राज्यमस्तु कथमात्मभुवातिसृष्टम्।
नात्रापि मर्दितमुरो यदि किं ततः स्या-
तस्मान्निरन्तरमिदं भजनेन भाव्यम्॥५५॥

नव्येति। [ वै०—

] न व्यस्ता नीतिर्यस्मिन्कर्मणि यथा स्यात्तथा आत्मभुवा ब्रह्मणातिसृष्टं निर्मितं सौख्यस्य साम्राज्यं राज्यप्राहयादिजन्यं कथंनास्तु। अपि तु भवतु। अत्रापि राज्यादिसौख्ये सत्यपि मर्दितो मुरो येनमुरजिद्वासुदेवो यदि न आराधित इति शेषः। ततः क्षयशीलेन सौख्येनकिं स्यात्। अग्रे न किंचित्॥

[शृº—

] इयं नव्यस्तनी परिशीलयतः पुंस आत्मभुवा कामेन अतिसृष्टं दत्तं सौख्यसाम्राज्यं कथं नास्तु। अत्रापि तत्परिशीलनेऽपि उरो यदि नमर्दितम्, ततः किं स्यात्। तस्मान्निरन्तरमिदंभजन उरोमर्दनासक्त्या भाव्यम्॥

जानामि दुःखहेतुं स्मरस्य दुर्वारतान्तेषु।
सद्यः सखे विरक्तिः प्रभवति विषयानुबन्धिनी यत्र॥५६॥

जानेति। [ वै०—

] यत्र येषु पुरुषेषु विषयानुबन्धिनी विरक्तिः सद्यःप्रभवति परंतु हे सखे, तेषु स्मरस्य दुर्वारतां दुःखहेतुं जानमि तस्मात्कामजये सति विरक्तिर्दृष्टा भवति॥

[ शृ०—

] हे सखे, रतसमाप्तिषु स्मरस्य दुर्वाः दुष्टमुदकं वीर्यं दुःखहेतुं जानामि। यत्र येषु रतान्तेषु सद्य एव विषयानुबन्धिनी विरक्तिर्भवति।अतः स्तम्भनाद्युपायं शिक्षयतो यावदिच्छं रतं निर्वहेत्॥

कलितोरुचिरं न कर्म चेत्क्रियतेऽनङ्गकृतेः कुतः फलम्।
स्मरतो हृदि पुण्डरीकदृग्भजतेऽसौ सफलस्ततः श्रमः॥५७॥

कलीति। [ वै०—

] कलितःकलियुगाद्रुचिरं साङ्गं कर्म चेन्न क्रियतेअनङ्गकृतेः अङ्गहीनाया यज्ञादिकृतेः कुतः फलं स्यात्। अत्रैकोऽस्त्युपायः।स्मरतः पुरुषस्य यज्ञादिकर्मकृतो हृदि पुण्डरीकदृक् पुण्डरीकाक्षः भजते।ततः श्रमः सफलः॥

[शृ०—

] कलितौ दृष्टावूरू यत्र तत्कर्म रतं चिरं चेन्न क्रियते तदाअनङ्गकृतेरनङ्गकार्यस्य चुम्बनालिङ्गनादेः फलं कुतः। असौ पद्माक्षी स्मरतः।‘कामशास्त्रोक्तं रतविधिम्’ इति शेषः। तस्य पुरुषस्य हृदि भजते हृदयंगमा भवति। ततः श्रमोऽपि सफल एव॥

अतिपरमाद्भुतवेषा काप्येषा जयति सृष्टिरात्मभुवः।
किं न वाञ्छितं स्यादस्य यदि विधुरवीक्षणः पाता॥५८॥

अतीति। [ वै०—

] अतिपरमा अत्युत्कृष्टा महीमहीधरसमुद्रादिरूपाअद्भुत आश्चर्यकारी वेषो मुखवैलक्षण्यादिः प्राणिनां यत्र तादृशी काप्यनिर्वाच्या आत्मभुवो ब्रह्मणः सृष्टिर्जयति। यदि अस्याः सृष्टेर्विधुरवी चन्द्रसूर्यौईक्षणे नेत्रे यस्य स विष्णुः पाता तदा किं वाञ्छितं न स्यात्॥

[शृ०—

] अतिपरमोऽद्भुतो वेषो यस्याः सा काप्येषा आत्मभुवः कामस्य सृष्टिर्जयति। यदि अस्याः पाता रक्षकः पतिर्वा विधुरं वीक्षणं यस्यैवंविधस्तदा समीहितं मम किं न स्यात्। स्यादेव॥

सर्वागमान्तप्रमितान्धकारे निवार्य कार्यान्तरचारि चेतः।
अये दयालुर्मयि चेत्प्रसीद सीदन्तमिष्टोरुपदं नयाशु॥५९॥

सर्वेति। [ वै०—

] सर्वैरागमान्तैर्वेदान्तैः प्रमित ज्ञात हे अन्धकारेमहेश, कार्यान्तरचारि मम चेतो अये शुभावहविधौ निवार्य मयि दयालुश्वेत् प्रसीद प्रसन्नो भव सीदन्तं माम् इष्टं उरु श्रेष्ठं पदं स्वं चरणं नयपदं स्थानं वा आशु प्रापय॥

[ शृ०—

] कार्यान्तरचारि चेतो निवार्य सर्वे येऽगमा वृक्षास्तेषामन्तेमध्ये प्रमितो योऽन्धकारस्तत्र अये प्रिये यदि मयि दयालुस्तर्हि त्वद्विरहात्सीदन्तं मां यदिष्टमभिमतं यदुरुपदमूरुस्थानं तदाशु नय॥

सत्यं समर्तुकामः पुत्री भवति स्वयं कुतः पुत्री।
मत्वा विषमतिथिं यदि विद्वान्परिहरति विधिनिषेधज्ञः॥६०॥

सत्यमिति। [ वै० – ] स्वयं विद्वान्विधिनिषेधज्ञः सन् यद्यतिथिं विषंमत्वानिष्टं ज्ञात्वा परिहरति विमुखं करोति तदा स गृहस्थः सत्यं मर्तुकामआसन्नमृत्युः पुरुषोऽपि अप्रयोजकत्वेन पुत्री भवति कन्येव स्वपितुर्भवति।स्वयं कुतः पुत्री पुत्रवान् भवेत्। अतोऽतिथिसत्कारोऽवश्यं कार्यः॥

[ शृ०– ] स्वयं विद्वान् पण्डितोविधिनिषेधज्ञो यदि विषमां तिथिं मत्वा पुत्रकामश्चेन्न परिहरति ‘युग्मासु संविशेत्’ इति विधेः। तदा सत्यं पुत्री पुत्रवान् भवति पुत्री कन्या कुतःस्यात्। यतोऽसौ स्वयं समे ऋतौकामो यस्यैवंविधस्त्वमपि पुत्रकामश्चेत्तथा कुरु॥

नरीनृत्यमानं भुजंगोत्तमाङ्गे समाकर्ण्य तुष्यन्ति ये वर्ण्यमानम्।
त एवात्र संसारिणो मुक्तबन्धा यदेषां विमोक्षाधिकानन्दलक्ष्मीः॥६१॥

नरीति। [ वै०—

] स्पष्टोऽर्थः॥

[शृ०—

] भुजंगस्य विटस्य उत्तमेऽङ्गे सुखसाधनत्वेन अर्थान्मेहने नरीमानुषी तस्या नृत्यस्य मानं नानाविधं परिमाणं वर्ण्यमानमाकर्ण्य ये कामिनस्तुष्यन्ति त एवात्र संसारिणः संसारसुखभाजः। यतो मुक्ता बन्धा नानाविधासनविशेषा यैस्ते तथा यत एषां विमोक्षाधिकानन्दसंपत्॥

ननु सर्वतो निवृत्तिः स्मर्तुः संभवति पुण्डरीकदृशः।
द्वित्राण्यहानि जीवनमिह दुर्लभमित्यवेत्य विरतोऽस्मि॥६२॥

नन्विति। [ वै०—

] पुण्डरीकाक्षस्य स्मर्तुः सर्वतो निवृत्तिर्भवति। इहसंसारे जीवनं द्वित्राण्यप्यहानि नैयत्येन दुर्लभमित्यवेत्य विरतोऽस्मि॥

[शृ०—

] पद्माक्ष्यास्तस्याः ऋतुः संभवति स्म। किं तत इत्यत आह—

सर्वतश्चुम्बनालिङ्गनादेरपि निवृत्तिः। अतोऽस्पृश्यत्वात् द्वित्राण्यहानि ममजीवनं दुर्लभमिति विरक्तोऽस्मि॥

क्षेत्रज्ञे कमलाकरार्पितपदे सर्वागमान्तायने
नित्यं दर्शनकाङ्क्षिभिः सुकृतिभिर्दृष्टे कथंचित्क्वचित्।
ऋत्वारम्भपयोधरोन्नतिभवश्रीशालिनि श्रीधरे
चेतश्चेन्मम वर्तते त्वयि कथं न स्यात्कृपा ते मयि॥६३॥

क्षेत्रेति। [ वै०– ] हे कृष्ण, श्रीधरे लक्ष्मीनिवासे त्वयि मम चेतोवर्तते चेत्कथं तव कृपा मयि न स्यात्। किंभूते क्षेत्रज्ञे। कमलायाः करे अर्पितं पदं येन। सर्वे ये आगमान्ता वेदान्तास्तत्रायनं यस्य। नित्यं दर्शनकाङ्क्षिभिः पुण्यवद्भिः कथंचिद्योगाभ्यासादिना क्वचिद्दृष्टे ऋतोर्वर्षर्तोरारम्भे मेवानां या उन्नतिस्तद्भवा या श्रीस्तच्छालिनि॥

[ शृ०—

] कस्यचित्कांचित्प्रति संकेतनिवेदकं वचनम्— हे क्षेत्रज्ञे इक्ष्वादिक्षेत्रज्ञानवति, कमलाकरे सरसि अर्पितं पदं यया तद्गमनशीले, सर्वेषामगमानां वृक्षाणामन्तेऽयनं गमनं यस्यास्तथाविधे। संबोधनत्रयेणैव संकेतस्थलत्रयं मया गन्तव्यमिति सूचितम्। नित्यं दर्शनकाङ्क्षिभिर्धन्यैः कथंचित्क्वचिदृष्टे ऋतौ ऋतुसमयस्यारम्भे या पयोधरयोन्नतिरुत्थानं तद्भवाया श्रीः शोभा तच्छालिनि मयि तव कृपा कथं न स्याच्चेत् मम चेतो निरन्तरं त्वयि वर्तते॥

तव पुण्डरीकदृष्टे क्व स्मरतां ते भवन्ति नहि कामाः।
किं त्वा विनास्ति मेऽन्यत्तत्त्वमुदर्काय सपदि संपर्कात्॥६४॥

तवेति। [ वै०—

] हे पुण्डरीकाक्ष, तव स्मरतां पुंसां ते प्रसिद्धाः स्व-

र्गापवर्गाद्यभिलाषा हि निश्चयेन क्व न भवन्ति। त्वां विना किमन्यन्मे तत्त्वमस्ति यत्सपदि संपर्कादुदर्कायोत्तरफलाय स्यात्॥

[शृ०—

] हे पद्माक्षि, तव क्वकस्मिन् रतान्ते रतसमाप्तौ कामाः पुनारतोद्योगा न भवन्ति त्वां विना त्वद्व्यतिरेकेण मे किमन्यदस्ति तत्तस्मात्त्वमेवसपदि संपर्कादुदर्कायोत्तरफलाय॥

श्रुता गीता लोकैर्जगति बहुशोभारतकथा
यदीया लीलास्ते मम हृदि महोरूपचयभृत्।
नरे सारथ्यादावुदितपरमार्थव्यवहृतिः
समानात्मा साक्षात्कृतिविषयतामेष्यति कदा॥६५॥

श्रुतेति। [वै० —

] महोरूपयोस्तेजोलावण्ययोश्चयः समूहः। यद्वामहसां ज्योतिषां रूपाणां महीमहीधरसागरादीनां चयस्तं बिभर्तीति तथाविश्वरूपादिप्रसङ्गे तथात्वात्तथाविधा भारतकथारूपा यदीया लीला गीतालोकैर्जगति बहुशः श्रुता मम हृदि आस्ते। नरे अर्जुने सारथ्यादिसमये उदित उक्तः परमार्थो व्यवहृतिर्व्यवहारश्च येन सः मानात्मा प्रमाणरूपः स्वप्रकाशो भगवान्कृष्णः कदा साक्षात्कृतेर्विषयतामेष्यति॥

[शृ०—

] यदीया रतकथा लोकैर्विटजनैर्जगति बहुशोभा श्रुता गीतास्तुता च। यदीया लीला महान्तं ऊर्वोरुपचयं पीनत्वं बिभर्ति तादृशीमम हृदि आस्ते सा वेश्या रथ्याया आदौ मुखे उदित उक्तः परमस्य महतोऽर्थस्य धनस्य व्यवहार आदानलक्षणो यया सा समानो मानसहित आत्मायस्यास्तावद्धनलाभमन्तरेणानङ्गीकुर्वाणा साक्षात्प्रत्यक्षीभूय मे कृतेर्विषयत्वंगोचरत्वं कदा एष्यति॥

चक्षुरपाङ्गाहितदृक्चेतश्चरतीशसङ्गरमितं ते।
ननु भाविनीविमुक्तौ विचिकित्सा केन हेतुनेदानीम्॥६६॥

चक्षुरिति। [ वै० – ] हे सखे, तव चक्षुरपाङ्गस्यापगतदेहस्य कामस्याहितं शिवं पश्यतीति तथा चेतश्च ते ईशसङ्गेन रमितं चरति। ननु इदानींकेन हेतुना ते विमुक्तो विचिकित्सा संशयः भाविनी॥

[ शृ०—

] अपाङ्गयोनैत्रान्तयोराहिता दृष्टिर्येनैवंविधं ते चक्षुश्चेतश्च ते

रतीशसंगरं इतं प्राप्तम्। ततः केन हेतुनेदानीं भाविन्यां नीवीमुक्तौ संशयः॥

स्फुरति निरुपमानवर्तुलाभा मम हृदि गोपसुताधिकाननश्रीः।
कथमिव न लभेय शर्म तस्याविशदविचारनिरन्तरानुवृत्त्या॥६७॥

स्फुरतीति। [ वै०—

] गोपसुतस्य नन्दसूनोरधिका आननश्रीर्मम हृदिस्फुरति। निरुपमाना वर्तुला आभा यस्याः। ततो विशदो निर्मलो यो विचारस्तेन निरन्तरमनुवृत्त्याशर्म सुखं कथं न लभेय प्राप्नुयाम्॥

[ शृ०—

] निरुपमा उपमारहिता नव ऋतुलाभो यस्या एवंविधा अतएवाधिका आननश्रीर्यस्या एवंविधा गोपसुता स्फुरति मम हृदि वर्तते। विगतां गृहं दूत्यादीनामविचारेण निरन्तरं चिरं या अनुवृत्तिस्तया तस्याःसकाशात् शर्म रतसुखं कथमिव न लभेय॥

यास्यति वयस्य कस्मादस्मितया ममतया कृतः क्लेशः।
विदितमनन्योपायादच्युतचरणाम्बुजग्रहादेव॥६८॥

यास्येति। [ वै० – ] हे वयस्य, अस्मितयाहंकारेण ममतया ममत्वेनच कृतो यः क्लेशः स कस्माद्यास्यति। अथवा विदितं स्पष्टम्॥

[ शृ०—]

हे वयस्य, अस्मितया स्मितशून्यया तया कृतो यो मम क्लेशःन कस्माद्यास्यति। अथवा विदितं स्पष्टम्॥

तां काञ्चनस्वर्गलतामवाप्य किमप्ययं गेहसुखं व्यनक्ति।
करोति चेदेष परात्मनिष्ठां जीवन्विमुच्येत चिरात्कथंचित्॥६९॥

तामिति। [ वै० —

] कांचन अनिर्वचनीयां सुष्ठु अर्गला यन्त्रणा

श्रुतिमृत्युक्ता यस्यासौ तस्य भावस्तत्ता तां प्राप्यायं पुमान् किमप्यनिर्वाच्यं गेहसुखं प्रकटयति। एष पुरुषः परे आत्मनि विष्णौ निष्ठामासत्तिं चेत्करोतितदा चिरात्कथंचिज्जीवन्नेव विमुच्येत॥

[शृ०—

] काञ्चननिर्मिता स्वर्गस्येव लता तां स्त्रियं प्राप्यायं किमपि

हसुखं प्रकटयति चेदेष परस्या आत्मनि शरीरे निष्ठामासक्तिं कुर्यात्तदाकथंचिन्महता कष्टेन चिरान्महता कालेन जीवन् विमुक्तो भवेत्। तस्याःशासनादिति शेषः॥

अचिरेण रोचते मे दिवसानेवं वृथातिवाहयते।
श्रितकृष्णपक्षगतये वयस्य काम्यस्तनीविरहः॥७०॥

अचिरेणेति। [ वै०—

] एवं वृथादिवसान्गमयते आश्रितवैष्णवगतयेमे हे वयस्य, मनोज्ञस्तन्या विरहोऽचिरेण शीघ्रमेव रोचते॥

[ शृ०—

] हे वयस्य, अद्यावधि एवमेव कालक्षेपं कुर्वते कृष्णपक्षेसमाश्रितगमनाय मे अचिरेण कामिना अस्ता क्षिप्ता नीविर्यत्रैवंविधं रहेएकान्तस्थलं रोचते॥

परपुरुषविवादे लौकिकी मानचर्चा
भवति न खलु युक्ता जाग्रति स्वप्रकाशे।
तदिह मधुविरोधिन्यश्रुते साक्षिरूपे
प्रभवति कुरु चेतोवृत्तिनिष्ठां गरिष्ठाम्॥७१॥

परेति। [ वै०—

- ] परपुरुषस्य ब्रह्मणो विवादे प्रसक्ते सति लोकिकीलोकसिद्धा मानचर्चा अनुमानादिप्रमाणोपन्यासरूपा खलु निश्चयेन न युक्ताभवति। स्वप्रकाशे चैतन्यलक्षणे प्रमाणे जाग्रद्रूपे सति। तत्तस्मादिहास्मिन्मधुरिपौसाक्षिस्वरूपे अश्रुते इयदवधि तव वेदान्तश्रवणरूपप्रथमप्रतिपत्त्यगोचरे त्वं चेतोवृत्तिनिष्ठां गरिष्ठां कुरु॥

[ शृ०—

] हे भवति, परपुरुषेण समं विवादे कलहे सति खलु निश्चयेन अलौकिकी लोकमर्यादोल्लङ्घिनी मानचर्चा स्वप्रकाशे ज्ञाने जाग्रति सतिन युक्ता। अज्ञा परमेवं मानं करोति। त्वं तु ज्ञानसंपन्ने इत्यर्थः। तत्तस्माद् हे साक्षिरूपे नेत्रसौन्दर्यसहिते, मधुर्वसन्तो विरोधी यस्याः। विरहादिति शेषः। एवंविधे, अश्रु नेत्रोदकं ते प्रभवति। चेतोवृत्तेर्निष्ठाभिहास्मिन्पुरुषे गरिष्ठां कुरु॥

सहचर मम भालतले विधिना लिखितास्ति चित्ररचनेयम्।
यामेनवरमहिता मनोरथातिक्रमेण संजाता॥७२॥

सहेति। [ वै०—

] हे सहचर मित्र, मम भालतले ललाटपट्टे इयमेवंविधा चित्रा अद्भुता रचना लिखितास्ति। या मे मनोरथानामतिक्रमेण नै

प्फ-

ल्यसंपादने अनवरतं सदा अहिता संजाता। यत्परलोकसाधनं न जातमिति॥

[शृ०—

] हे सखे, चित्रमेव रचना यस्याः सा चित्रिणी स्त्री धात्रा मेललाटतले लिखितास्ति ‘त्वयोपभोग्येयम्’ इति मनोरथस्य चातिक्रमेण वेगवत्तयेति शेषः। यामे प्रहरे सर्वस्मिन्नपि नवरतेन नूतनेनोपरिरतेन महितापूजिता उत्सवयुक्ता वा संजाता॥

कासारे पद्मिनीयं मुकुलयुगमनत्यन्तरं यत्र हृद्यं
यस्मिन्सद्यः समुद्यद्ग्रहमतिकरजन्यावृतिः श्लाघनीया।
तस्मादेतद्विशेषस्मृतिकलितमिह प्रेक्ष्य साक्षादुपेक्ष्यं
वर्यं शौर्यं च नादौ न गमय समयं त्वं व्रजस्त्रीहितज्ञः॥७३॥

केति। [ वै०—

] कासारे सरसि इयं पद्मिनी कमलिनी। वर्तत इतिशेषः। यत्र यस्यां हृद्यं मनोहरम् अत्यन्तरहितम् एकदेश एव वर्तमानं मुकुलयुगलमस्तीति शेषः। यस्मिन्मुकुलयुग्मे सद्यः समुद्यन् यो ग्रहपतिः सूर्यस्तस्य करेभ्यो जाताव्यापृतिः सा श्लाघनीया स्तुत्या। तस्मात् शौरेः कृष्णस्याञ्चनादौ पूजादौ विशेषस्मृत्या स्मृतिवचनेन ‘मुकुलैर्नार्चयेद्विष्णुं विनाकमलकोरकैः’ इत्यादिना। वर्य श्रेष्टम् इह साक्षात् प्रत्यक्षनेत्रेण दृष्ट्वा स्वयंनोपेक्ष्यम्। व्रजस्त्रीभ्यो हितं कृष्णं जानातीति तथाविधस्त्वं समयं गमय॥

[शृº—

] इयं पद्मिनी। कासारे तिष्ठतीति शेषः। यद्वा। अरे, सेयंका पद्मिनीति विशेषप्रश्नः। यत्र यस्यां हृद्यं हृदयोद्भवम् अनत्यन्तरं मिथःसंगतं मुकुलयुगमर्थात् पद्मकोशसमानं स्तनयुगलम्। अस्तीति शेषः। यस्मिन्सद्यः समुद्भवन् ग्रह आग्रहो ग्रहणं वा यस्यैवंविधो यः पतिर्भर्ता तस्यकरजानां नखानां व्यापारः श्लाघनीयः। तस्मादेतत्स्तनयुगं विशेषस्मरणेतिं सदा चिन्तितं कदा द्रक्ष्यत इति इह स्थले साक्षात् प्रत्यक्षतः प्रेक्ष्यवर्यं श्रेष्ठं शौर्य च प्रस्तावमेवंविधं न गमय न यापय। स्त्रीकृतमीहितं जानातीति स्त्रीहितज्ञस्त्वं व्रज एनां गृहाण॥

नव्याहारभृदधिकं धन्या मृदुभाषिणी रसज्ञेयम्।
सद्यःफलदनवरतं संभाषणमच्युतास्पदं यस्याः॥२०॥

नेति। [ वै०—

] अधिकं न व्याहारं भाषणं बिभर्तीति मृदुभाषिणी च

इयं रसज्ञा जिह्वा धन्या। यस्या जिह्वाया अच्युतास्पदं विष्णुविषयं निरन्तरंसंभाषणं सद्यः फलवद्वर्तत इति शेषः॥

[ शृ०—

] इयं रसज्ञा नव्या नूतना हारभृत् धन्या अधिकं यस्या अच्युतमास्पदं स्थलं यत्र तत्संभाषणं सद्यः फलदं नवरतं यस्मात्॥

कृष्णाभीरवधूरतस्य लभते दास्यङ्गतस्ते सुखं
लब्ध्वात्यन्तिकमङ्गनाशमसकौ विन्देत्कथं देवनम्।
तस्मात्त्वामधुनाशनं खभजनं दातुं परं प्रार्थये
नैतच्चेन्मम चेतसि स्फुरति न स्वर्गापवर्गादिकम्॥७५॥

कृष्णेति। [ वै०—

] हे कृष्ण, आभीरवधूरतस्य ते दास्यं गतः सुखंलभते। असकौ असौ पुरुषः आत्यन्तिकमङ्गस्य नाशं लब्ध्वा देवनं त्वच्चरिताकर्णनकीर्तन गाननृत्यादिलक्षणं क्रीडनं कथं विन्देत्। मोक्षे पाषाणवद्भवनमनर्थकमित्यर्थः। तस्मात् परं परमात्मानं मधुनाशनं त्वा त्वां स्वभजनं दातुंप्रार्थये। एतच्चेवद्भजनं न प्राप्तं मम चेतसि स्वर्गापवर्गादिकमपि न स्फुरति॥

[शृ०—

] कृष्णा श्यामा आभीरवधूस्तद्वतस्य तेऽङ्गतः पक्षाच्छरीराद्वादासी सुखं लभते। यद्वा आभीरवधूः दास्या अङ्गतः दासी कुट्टनीं प्राप्यतेरतस्य सुखं लभते। असकौ अङ्गना ते स्त्री आत्यन्तिकं शं सुखं लब्ध्वा पूर्वमिदानीं देवनं क्रीडनं त्वया सह कथं विन्देत्। भोजनमात्रेऽपि यतस्तस्याःसंनेहस्तस्मादधुना त्वां अशनं स्वभजनं च दातुं प्रार्थये। चेदिदं मदुक्तंन करोषि तदा मम चेतसि स्वर्गापवर्गादिकं अर्थात्तव न स्फुरति॥

दृष्टा मनो हरति या सायोध्यारामवसतिराकलिता।
तस्मादधिवसतैनां नित्यानन्दो मयानुभूयेत॥७६॥

दृष्टेति। [ वै०– ] स्पष्टम्॥

[शृ०—

] आरामे उपवने वसतिः स्थितिर्यस्याः दृष्टा सती मनो हरतिया सा मयायोधि योधिता निष्ठुररतेन तोषिता। तस्मादेनाम् अधिवसतामया नित्यमानन्दः प्रात्यहिकःप्रमोदोऽनुभूयेत॥

विशिष्टा नवयौवनश्रीस्तदस्यामवाप्या कथं सौमनस्यादिवृद्धिः।
भवत्वत्र वागर्हणा यादवीया ततो वारिणैवास्तु पूजा तदीया॥७७॥

विशीति। [वै०—] वायौ वहति सति वनश्रीर्विशिष्टा न। तत्तस्मादस्यां वनलक्ष्म्यां सौमनसी पुष्पसंबन्धिनी आदिवृद्धिः इदानीं वातान्दोलनतया तथा नास्ति। ततो यादवस्य विष्णोः संबन्धिनी वागर्हणा वाचा अहंणापूजा भवतु। तदीया पूजा वारिणैव वा अस्तु॥

[श्रु०—] अस्यां विशिष्टा अतिशयिता नवा नूतना यौवनश्रीः। अस्तीतिशेषः। तदस्यां सौमनस्यादेः प्रीत्यादेरभिवृद्धिः कथं प्राप्या। अनया सहसौमनस्ये वृत्ते शत्रवो निन्दां यदि कुर्युरित्यत आह —तत एतत्सौमनस्यसिद्धेरत्र अरिणा शत्रुणा गर्हणा निन्दा वा भवतु या निन्दा दवीया दवाग्निसंबन्धिनी। तद्वत्संतापहेतुत्वादित्यर्थः। अथवा अरिणा तदीया एतत्संबन्धिनीपूजास्तु। वस्तुनि योगे प्रसक्त इति॥

स्वादितरवैपरीत्यं सद्यो माद्यन्ति हन्त ये लब्ध्वा।
मन्ये त एव धन्या मान्यानन्यायमार्गमुज्झन्तः॥७८॥

स्वेति। [ वै०—] स्वात् धनात् इतरवैपरीत्यमन्यवैलक्षण्यं लब्ध्वा येसद्यो माः श्रियो द्यन्ति खण्डयन्ति विभज्यार्थिभ्यः प्रयच्छन्ति। हन्त हर्षे।त एव न्यायमार्गं न उज्झन्तो धन्या मान्या इति मन्ये॥

[ शृ०—] सुः आदिर्यस्य तत्स्वादि तत् ‘तर’वैपरीत्यं रतम्। सुरतमित्यर्थः। तत्कुतश्चिल्लब्ध्वा ये सद्यो माद्यन्ति तुष्टा भवन्ति त एव धन्या इति मन्ये॥

मनोहरवयोन्विते तनुनिरस्तशीतातपे
कदा सदलकानने भवतु योगसिद्धिस्तव।
अये शृणु मयोदितं परमयोगिना दुर्लभं
हृदा कलय माधवं सुमनसां यतो वैभवम्॥७९॥

मेति। [वैº—] हे सखे, योगसिद्धिं चेद्वाञ्छसि तदा सदले काननेनिबिडपर्णाच्छादिते वने योगसिद्धिस्तव भवतु। किंभूते वने। मनोहरैर्वयोभिः पक्षिभिरन्विते। तथा तन्वा शरीरेण निरस्तं शीतातपादिकं यत्र। कथंकदां योगस्ते सिध्येत्। अये मित्र, मयोदितमुक्तं शृणु परमयोगिनापि दुर्लभं दुष्प्रापं यत्तदुपदिशामि। माधवं लक्ष्मीकान्तमेव हृदा कलय यतोविष्णोः सुमनसां तदेकचित्तावां वैभवं भवति॥

[ शृ०—

] मनोहरेण वयसा तारुण्येनान्विते। तन्वा शरीरेण निरस्तौशीतातपौ यया तथाविधे। तरुणीतनुः शीतकाले उष्णा, उष्णकाले शीतला।यतः सन्तोऽलकाश्चूर्णकुन्तला यस्मिन् एवंविधमाननं यस्याः हे युवते, तवयोगसिद्धिस्त्वत्संसर्गलाभः कदा भवतु। अये, मयोदितमुक्तं शृणु परमुत्कृष्टम्अयोगिना विरहिणा दुष्प्रापं माधवं वैशाखं वसन्तं पश्यतः सुमनसां पुष्पाणांवैभवं समृद्धिस्तस्मान्मामङ्गीकुरु॥

नित्यं निरञ्जनकथं साक्षिज्योतिः स्वतःप्रकाशसुखम्।
गमयति यतिमनुगमयति रमयति शमयति च सपदि संतापम्॥८०॥

नित्यमिति। [ वै०—

] नित्यमविनाशि निरञ्जनकथं निर्लेप

वार्त साक्षिरूपं ज्योतिःस्वरूपं ब्रह्म विष्णुलक्षणं यतिं संन्यासिनं स्वतःप्रकाशं यत्सुखंचिदानन्दरूपं तद्गमयति अनुगमयति रमयति सपदि सांसारिकं संतापंशमयतीति॥

[ शृ०—– ] सा विधवा, नित्यं निर्गता अञ्जनकथा कज्जलकथा यस्मात्स्वतःप्रकाशेन स्वाभाविकेनैव कान्तिविशेषेण सुखं सुखकारि अक्षिज्योतिर्नेत्रप्रभां गमयति प्रापयति यतिमनुगमयति अनुगतंकरोति रमयति सपदिसंतापं च शमयति॥

चिरप्रेमस्थेमस्थगितहृदये पद्मनयने
समानारम्भेऽस्मिन्भवति न मयागोपि किमपि।
उदस्राक्षी रागं नयसि दृशमेनां च यदि मां
हृदा वाचा श्रीमत्यचलनमिदं तत्त्वमुदितम्॥८१॥

चिरेति। [ वै०—

] पद्मनयने कृष्णे चिरं प्रेम्णः स्थित्या स्थगितं हृद्यस्यैवंविध अये मित्र, समान आरम्भ उद्यमो यस्यैवंविधे भवति अस्मिन् त्वयिसमानशीले विष्णुभक्ते मया किमपि न अगोपि गुप्तम्। त्वं रागमनुरागंविषयेषु उदस्राक्षीरुत्सृष्टवान्। दृशं दृष्टिं नयसि प्रापयसि। आन्तरं रागं दृष्टौन्यस्यसि। यदि एनां सरागां दृष्टिं मां नयसि प्रापयसि अनुरक्तो मां पश्यसितदा हृदा वाचा श्रीमति वासुदेवे अचलनमिदमेव तत्त्वमुदितमुक्तम्॥

[शृ०—] चिरप्रेमस्थित्या छादितहृदये पद्माक्षि हे भवति, अस्मिन्नेवं-

विधे मानसहिते आरम्भे किमपि आगोऽपराधो न यदि उदस्रेअक्षिणी यस्याएवंविधा त्वं दृशं रागं नयसि एनां दृशं रक्तां मां नयसि तदा हृदा वाचाश्रीमत्यां त्वयि अचलमिदं मया तत्त्वमुदितमुक्तम्॥

स्तम्भितमनोभवमदो घन्यो भजते सनर्मदारोधः।
नित्यं तपस्यतो निशि किं नानन्दाद्वयानुभूतिः स्यात्॥८२॥

स्तम्भितेति। [वै०—

] स्तम्भिता मनोभवाश्चित्तजा मदा विद्यादिजन्यायेनैवंविधो धन्यः स नर्मदाया रोधस्तटं भजते। निशि नित्यं तपस्यतोऽस्यकिमानन्दाद्वयानुभूतिर्न स्यात्॥

[शृ०—

] स्तभितो मनोभवमदो वीर्यं येन सनर्मदारो नर्मसहितस्त्रीकोधन्यः पुरुषोऽधो भजते। अतस्तपसि माघे आनन्दाद्वयस्यानुभूतिः किं न स्यात्॥

सप्तसामनुत ईश्वरो भवान्किं ददाति न वृथा विलम्बते।
तत्त्वदीयभजनं हिताय नः स्वाव्ययत्वमिह न प्रकाशय॥८३॥

सप्तेति। [ वै०—

] सप्तभिः सामभिः स्तुतो भवान् ईश्वरो नियन्ताकिं स्वभजनं न ददाति वृथैव विलम्बते तत्त्वदीयभजनं नोऽस्मभ्यं हिताय।इह स्वाव्ययत्वं न प्रकाशय अव्ययत्वं शब्दच्छलात्कार्पण्यं न प्रकाशय।भजनं देहीति॥

[ श्रु०—

] कामपि द्रव्यदानेनाभिलष्यन्तं प्रति वचनम्—सा सप्तमनुते। भवान् ईश्वरो धनाढ्यः। अतः सप्तापि न ददाति किं वृथा विलम्बते। किं ततस्तवेत्याह—

तस्यास्त्वदीयभजनं तत्त्वदीयभजनं नो हिताय इहस्वाव्ययत्वं कार्पण्यं न प्रकटय॥

रम्भास्फुटोपमानामुत्क्षेपस्पष्टमूलवरदोषाम्।
करजानुशीलितानां हरिणाक्षीणां स्मराद्यबाणभुजाम्॥८४॥

रम्भेति। [वै०—

] हे सखे, अद्य त्वं बाणस्य बाणासुरस्य भुजां स्मर।जात्यैकवचनम्। अवशिष्टबाहुद्वयातिरिक्तवाहून्स्मरेत्यर्थः। कीदृशीम्।रम्भायाः कदल्याः स्फुटा उपमा यस्यास्ताम्। पुनः। उत्क्षेपे दर्पेणोर्ध्वक्षेपेस्पष्टं मूलं वरो महेशवर एव दोषो यस्यास्ताम्। पुनः। करश्चजानु च तच्छीलितानं दीर्घता यस्याः। पुनः। हरिणा कृष्णेन क्षीणाम्॥

[शृ०—

] हे सखे, हरिणाक्षीणां मृगदृशां स्मर। कीदृशीनाम्। आद्योबाणोऽर्थात्स्मरस्य तं भुञ्जत इति आद्यबाणभुजस्तासाम्। रम्भाया अप्सरोविशेषस्य स्फुटोपमा यासु। पुनः। उत्क्षेपे स्पष्टमूला वराः श्रेष्ठा दोषो बाहवो यासाम्। करजैर्नखैरनुशीलितानाम्॥

नवोन्नतपयोधरस्फुटतराम्बराभ्यन्तर-
श्रिया हृदयहारितां वहति नीलिमोत्कर्षतः।
स्मराहितगलप्रभातिशयशालिनि श्रीधरे
मनो मम किरीटिनः कपटमानवेश्यालके॥८५॥

नवेति। [वै०—

] मम मनः किरीटिनोऽर्जुनस्य श्यालके कृष्णे वर्तते।किंभूते। कपटमानवे स्मरस्याहितो भवस्तस्य या गलप्रभा तच्छालिनि। श्रीधरे नीलिम्न उत्कर्षतोऽतिशयात् नवा उन्नता ये पयोधरा मेघास्तैः स्फुटतरंयदम्बरस्याभ्यन्तरं तस्य श्रिया हृदयहारितां मनोहरत्वं वहति दुधाने॥

[शृ०—

] किरीटिनः किरीटयुक्तस्य मम मुकुटवर्धनस्यापि मनः कपटमाना या वेश्या तस्या अलके चूर्णकुन्तले वर्तते। किंभूते। नवयोरुन्नतयोःपयोधरयोः स्फुटतरं यदम्बरं सूक्ष्मं वस्त्रं तस्याभ्यन्तरे या श्रीस्तया नीलिमोत्कर्षतो हृदयहारितां वहति। स्मरेण कामेन आहितो यो गले प्रभातिशयस्तच्छालिनि ततः श्रीधरे शोभां वहति॥

कलयसि वयस्यकस्मात्त्वं रुचिरम्भारतीशास्त्रम्।
अत्रोक्तिप्रत्युक्तौ कलय मिथो भूरिशस्त्रपातरणम्॥८६॥

कलेति। [ वै०—

] हे वयस्य, त्वं भारती सरस्वत्येव। कस्मात्। शास्त्रंरुचिरं मीमांसादिकं कलयसि। अत्र शास्त्रे मिथः परस्परम् उक्तिप्रत्युक्तौभूरिः शस्त्रपातो यत्रैवंविधं रणं युद्धं कलय जानीहि॥

[शृ०—

] वयसि तारुण्येऽकस्माद् रुचौ कान्तौ लावण्ये रम्भा रम्भेव। रतीशस्य कामस्यास्त्रं कलयसि तद्गोचरीभवसि। अत्र मिथः एकान्ते ममउक्तेः प्रत्युक्तावुत्तरवचने भूरिशः त्रपाया लज्जायास्तरणं विजयं कलय लज्जांवेजित्योत्तरं देहि॥

नासंन्यासितया मयानवरतानन्दस्तथैवाप्यते
तन्मे नाद्य वयस्य निश्चलतया चेतोन्यदाकाङ्क्षति।
तामासाद्य सदा हिमर्तुमनसोनेहा वृथा यास्यति
श्रेयः स्यादथवेत एव कलितादाकृष्टपद्माकरात्॥८७॥

नेति। [वै०—

] हे वयस्य, असंन्यासितया तथैव यथा पूर्वं गार्हस्थ्येनैव अनवरतानन्दो न प्राप्यते तत्तस्मान्मे चेतो निश्चलतया अन्यन्नाकाङ्क्षति।तामसंन्यासितामासाद्य हि निश्चयेन मर्तुमनसो मर्तुकामस्य सांसारिकदुःखासहिष्णोरनेहा समयो वृथा यास्यति। अपुरुषार्थत्वेनैव। अथवा इत एवअसंन्यासिताया एव आकृष्टः पद्माया लक्ष्म्याः करो येन तस्मात्कृष्णात्कलिताच्चिन्तितात् श्रेयो मोक्षलक्षणं संपत्स्यते॥

[शृ०—

] मया संन्यासितया तत्समानेन ब्रह्मचर्येण तथैवोद्यमं विनापिनवरतजन्यो य आनन्दः स न प्राप्यते। तत्तस्मान्मे चेतो निश्चलतया नवरतैकनिष्ठतया अन्यत् किमप्याद्यवयसि नवयौवने नाकाङ्क्षति। अथवा तांस्त्रियं कथंचिदासाद्य लब्ध्वा सदा सर्वदा हिमर्तौ शीतकाले मनो यस्य तत्रदत्तचित्तस्य ईहा स्पृहा न वृथा यास्यति।आकृष्टः पद्मानामाकरो येन तस्मात्कलिताच्चिन्तिताद्धिमतीरेव श्रेयः स्यात्। संभोगपर्याप्तरावित्वादिति भावः॥

सहजौयौवनवृत्ती सार्वदिकासत्तिशालिनौ हृद्यौ।
हृदि तौ निरुध्य दूतः कथमात्मभुवोऽपि संभवति भीतिः॥८८॥

सहेति। [ वै०—

] देवकीगर्भस्यैवाकर्षणेन संकर्षणोत्पत्तेः सहजावेकोदरौ यौ बलकृष्णौ एकचरुभागजन्यत्वेन सहजौ रामलक्ष्मणौ वा वनवृत्ती वृन्दावनदण्डकारण्यवासिनौ। सार्वदिकी यासत्तिरेकत्र वासस्तच्छालिनौ। हृद्यौमनोहरौ तौ हृदि निरुध्य दधत आत्मभुवो ब्रह्मणोऽपि कथं भीतिः संभवति॥

[शृ०— ] यौ हृद्य हृदयोद्भवौ। सहजौ युगपदुत्पन्नौ। यौवने वृतिर्ययोः। सार्वदिकी निरन्तरा यासत्तिस्तच्छालिनौ तौ स्तनौ हृदि निरुध्य दधतः पुरुषस्य आत्मभुवोऽपि कामादपि भीः कथं संभवतीति॥

विषयाद्यविषत्तमानसानां बहुशोभाविरहोऽपि नः सुखाय।
परिहृत्य तदन्यदत्र कृत्यं कृतरामोरुपदस्मृतिः कृती स्यात्॥८९॥

विषेति। [ वै०—

] विषयादावविषक्तमनासक्तं मानसं येषामेवंविधानांनो बह्वी या शोभा तद्विरहोऽपि सुखायैव। तत्तस्मादन्यत्कृत्यं परिहृत्य कृतं’राम’ इत्युरुणः श्रेष्ठस्य पदस्य नाम्नः स्मृतिर्येन स कृती स्यात्॥

[शृ०—

] विषयेषु आद्यविषक्तं मानसं येषामीशां नो बहुशः भाविरहोऽपि एकान्तोऽपि सुखाय। तदन्यत्कृत्यं परिहृत्य कृता रामाया ऊरुपदस्यस्मृतिर्येन एवंविधः सुखी स्यात्॥

नव्याष्टताकुचेष्टा हरिणाक्षीणामुरस्थितिः श्लाघ्या।
यस्याः श्रुतिस्मृतिभृतो बिभ्रति रोमाञ्चमुत्तमाः पुरुषाः॥१०॥

नेति। [ वै०—

] नव्या नूतना पृताकोः सर्पस्य कालियस्य चेष्टा मुरस्यदैत्यस्य स्थितिश्च श्लाध्या यतो हरिणा कृष्णेन क्षीणा। यस्या हरिणाक्षीणायाःश्रुतिस्मृतिभृतः श्रवणस्मरणकृत उत्तमाः पुरुषा रोमाञ्चं बिभ्रति।

[ शृ०—

] हरिणाक्षीणां उरः स्थितिर्वक्षःस्थितिः श्लाघ्या। कीदृशी। नव्यापृता मर्दनादिव्यापारमप्राप्ता अभुक्ता। कुचाभ्यामिष्टा। अतः स्तुत्या।यस्याः श्रुतिस्मृतिभूत उत्तमा रसिका रोमाञ्चं बिभ्रति॥

विषमेषुभवेषुवेदनामनुभूयाप्यकृतप्रतिक्रियः।
पुरुषो लभतां कथं सुखं यदि सामान्यतनुः करोतु किम्॥९१॥

विषेति। [ वै०—

] विषमेषु उच्चनीचेषु नानाविधेषु भवेषु वेदनां दुःखमनुभूयापि अकृतप्रतिक्रियः पुमान् कथं सुखं लभताम्। यदि पुनः सामान्यतनुः सामान्यशरीर एव पश्चादिरेव तदा किं करोतु।अविवेकित्वात्॥

[ शृ०—

] विषमेषुः कामस्तद्भवा या इषुवेदना तामनुभूयापि अकृततत्प्रतीकारः पुरुषः कथं सुखं लभताम्। यदि सा स्त्री अमानि प्रतीकारत्वेनज्ञाता ततो अतनुः कामः किं करोतु॥

करकलितदारनरकेशेरत इह ये सजन्ति भवसिन्धौ।
रसिकास्त एव मान्या मन्यन्तां धन्यमात्मानम्॥९२॥

करेति। [ वै०– ] करकलितो दाररूपो नरको यत्रतत्र भवसिन्धौशेरते स्वपन्ति सजन्त्यासक्ताश्च भवन्ति त एव रसिका मान्या आत्मानं धन्यंमन्यन्ताम् इति कामिनामुपहासः॥

[शृº—

] इह भवसिन्धौये करकलिता हस्तेन गृहीता दाराणां नरस्यच केशा यस्मिन्नेवंविधे रते केशाकेशिमदनयुद्धे सजन्त्यासक्ता भवन्ति तएव रसिका मान्या धन्यमात्मानं मन्यन्तां नान्ये॥

विद्येते द्वे सर्वतः श्लाघनीये याभ्यां कष्टं तत्र नात्रापि लोके।
तस्मादेने वर्तितात्मश्रुतिस्मृत्याह्वाने न त्यक्तुमीशे वयस्य॥९३॥

विद्येते इति। [ वैº—

] ते द्वे सर्वतः श्लाघनीये विद्ये। याभ्यामत्रतत्रापि लोके इह परत्र च न कष्टम्। हे वयस्य तस्मात् एने, वर्तितम्आत्मनःश्रुतिः स्मृतिः इत्याह्वानं याभ्यां ते न त्यक्तुमीशे नोत्सहे॥

[शृ०—

] ये हे सर्वतः श्लाघनीये स्तुत्ये विद्येते स्तः। याभ्यां कष्टं न।अत्र तत्र वा। अत्र वा तयोरागमनमस्तु। तत्र वा मम गमनम्। उभयथापि न कष्टं लोके। यद्वा तत्र लोके पितृसंबन्धिजने याभ्यां कष्टं यथास्यात्तथा न। अत्रापि न लज्जितमतिधृष्टत्वात्। तस्माद्वर्तितानि आत्मनःश्रुतिः श्रवणं स्मृतिः स्मरणं आह्वानं नाम च एतानि याभ्यां ते एने त्यक्तुं नप्रभवामि। ताभ्यामेव स्वश्रवणादीनि दूत्यादिद्वारा ख्यापितानि। अतः कष्टमपि लोके न। तस्मादेने द्वे अपि न त्यक्ष्यामि॥

न यथारुचिरम्भारतमाकणितमेवमन्यदिह किंचित्।
तदिदं हृदि चिन्तयतां यतमानानां कदाचिदपि सिध्येत्॥९४॥

नेति। [ वै०—

] आकर्णितं श्रुतं भारतं यथा रुचिरम् एवम् अन्यद्इह संसारे न। तस्मादिदं हृदि चिन्तयतां यतमानानां यतो मानोऽहंकारोयस्तेषां कदाचिदपि सिध्येत्॥

[शृ०—

] यथारुचि रम्भाया अप्सरोविशेषस्येव रतं समाकर्णितम्। एवमिहान्यत् किंचित्तत्तस्मादिदं हृदि चिन्तयतां यत्नंकुर्वतः कदाचिदपि सिध्येत्॥

मुक्तात्मरोचिरतिदीप्रगुणप्रपञ्चं
साक्षिप्रमाणकमनावरणं कुतश्चित्।
हृष्यन्महाशयपरिग्रहयोग्यमूर्ति
तद्वस्तु सद्वयमिदं हृदि भावयामः॥९५॥

मुक्तेति। [वैº—

] मुक्तं नित्यमुक्तस्वभावं आत्मरोचि स्वप्रकाशरूपं

अत्यन्तं दीप्रः प्रकाशमानो गुणानां सत्त्वादीनां प्रपञ्चो यत्र त्रिगुणात्ममायाप्रपञ्चोपादानं साक्षि प्रमाणं यत्र तत्साक्षिप्रमाणकं स्वप्रकाशचैतन्यमेव यत्रप्रमाणं कुतश्चिदनावरणं मायावरणरहितं हृष्यन्तो ये महाशया भक्ताः तत्परिग्रहयोग्या मूर्तिर्यस्य तदिदं सद्वस्तु स्वरूपतः सत् परमार्थरूपं ब्रह्म वयंहृदि भावयामः॥

[शृ०—] इह हृदि अस्या वक्षसि सद्वयं द्वितयसहितं तद्वस्तु स्तनरूपंभावयामः। कीदृशं तत्। मुक्तानां मौक्तिकानामात्मनश्च रोचिषा अतिदीप्रोगुणप्रपञ्चो यत्र। अक्षिप्रमाणं तत्सहितं साक्षिप्रमाणम्। स्वार्थे कः। साक्षादेवाक्षिभ्यां दृश्यम्। यतः क्वचिदनावरणं कञ्चुकाञ्चलावरणशून्यं हृष्यन् रोमाञ्चमञ्चन् आनन्दजडो भवन् यो महाञ्शयो हस्तस्तत्परिग्रहयोग्या मूर्तिर्यस्य॥

आलिङ्गदाप्य गोपीं तद्बाहुं सह रिरंसयाधाय।
श्रुत्वेति निश्चिनोम्यहमङ्गिषु दुर्वारतामनङ्गस्य॥९६॥

आलीति। [वै०—] स हरिर्गोपीमाप्य तद्बाहुमंसे स्कन्धे आधाय आलिङ्गत् इति श्रुत्वा पुराणादौ आङ्गिषु देहिषु अनङ्गस्य दुर्वारतामहं निश्चिनोमि॥

[शृ०—] कश्चन कामपि गोपीमाप्य रिरंसया सह तद्बाहुमाधायालिङ्गत् अतोऽहमङ्गिषु स्मरस्य दुर्वारतां निश्चिनोमि॥

अनुभूतभवव्यवस्थितिर्जनता का नरताभिलाषिणी।
तदवैमि सुखेन संसृतौ कलितानङ्गतयैव निस्तृतिः॥९७॥

अन्विति। [वै०–] अनुभूता भवस्य संसारस्य व्यवस्था यया सा काजनता नरताभिलाषिणी। तत्तर्हि कलिता या अनङ्गता अशरीरता तत एवचिराय निस्तार इत्यवैमि॥

[शृ०—] अनुभूतसंसारव्यवस्था का जनता रताभिलाषिणी न यतस्ततो हेतोः संसृतौ कलितः स्वीकृतोऽनङ्गो येन स तथा तस्य भावस्तत्तातयैव चिराय निस्तारो नान्यथेति॥

असकृन्ननेतिसावधिनिषेधबोधिश्रुतिर्मया कलिता।
गमयति परमनवरतं या तमखण्डार्थरूपमानन्दम्॥९८॥

असेति। [वै०—] असकृत् ‘इदमिदं न’ इति सावधेर्निषेधस्य बोधिका

श्रुतिर्मया कलिता श्रुता। या श्रुतिः परं ब्रह्मलक्षणमुत्कृष्टं अनवरतं अखण्डारूपमानन्दं गमयति॥

[शृo—

] असकृदनेकदा न न इति अवधिनिषेधबोधिनी श्रुतिर्वाग्यस्याः सा मया कलिता रमिता। या परमं नवरतं तमखण्डमर्थरूपं पुरुषार्थरूपमानन्दं गमयति प्रापयति सा स्वयमेवागतेत्यर्थः॥

अहह सहजमोहा देहगेहप्रपञ्चे
नवरतमतिमग्नाकामिनीविग्रहाप्तिः।
तदहमिह विहर्तुं संततामोदमुग्धा
स्वहितमहितकृत्यं हन्त नान्तः स्मरामि॥९९॥

अहहेति। [वै०—] देहस्य गेहस्य च प्रपञ्चे मार्जनानुलेपनादिरूपेअनवरतं निरन्तरमतिमन्ना कामिनीविग्रहस्य स्त्रीशरीरस्याप्तिः प्रातिस्तस्मादिह स्त्रीशरीरप्राप्तौ विहर्तुं क्रीडितुं संततमामोदे सुखे मुग्धा। वस्तुगत्या सुखाभावात्। हन्त खेदे। स्वहितेन स्वस्यातिशयसुखहेतुना महितं पूजितं कृत्यंकर्म विष्णुपूजनादिकम्। अथवा सुष्ठु अहितमः सर्पश्रेष्ठः शेषस्तस्य हितोविष्णुस्तत्कृत्यं तच्चरितमन्तर्न स्मरामीति॥

[शृ०—

] कामिना योऽयं नीवेर्वसनग्रन्थेग्रहो ग्रहणं तदातिस्तत्प्राप्तिःसा गेहस्य देहस्य च प्रपञ्चे सहजो मोहो यस्या एवंविधास्ति। अहहेतिहर्षे। नवरते या मतिस्तत्र मग्नाच। तत्ततो हेतोरहमिह नीविग्रहाप्तौविहर्तुंक्रीडितुं संततमामोदो येनानन्देन परिमलेन वा मुग्धा मोहयुक्ता सुन्दरी वास्वहितमहितानां शत्रूणां च कृत्यम्अन्तः किमपि न स्मरामि हिताहितविचारो मम नास्ति॥

परपुरुषभजनमेकं त्रिजगति सारं वदन्ति धर्मविदः।
यस्मादानन्दमयी सद्योमोक्षानुबन्धिनीविरतिः॥१००॥

परेति। [वै०—

] धर्मविदः परपुरुषस्य कृष्णस्य भजनमेकं त्रिजगति सारं वदन्ति। यस्मात्सद्यो मोक्षानुगता विरतिर्वैराग्यं भवति॥

[शृ०—

] कामधर्मविदः परपुरुषस्य भजनमेकं सारं त्रिजगतीति वद-

न्ति। यस्माज्जारभजनात्सद्यः मोक्षानुबन्धिनीविःमोचनानुबन्धसहिता नीविर्वसनग्रन्थिर्यत्रैवंविधा रतिर्भवति॥

निरन्तरगुणोल्लसद्रुचिरकाम्यमुक्ताफल-
प्रपञ्चविषयस्पृहोपगतलौकिकानन्दभूः।
रतीशसमराधिकारमणमात्रलक्ष्यस्थितिः
परात्मरतधीरसावतिकृशोदरीदृश्यते॥१०१॥

निरेति। [वै०—] परे आत्मनि ब्रह्मणि रता धीर्यस्यासावतिकृशः पुरुषो दरीदृश्यते भूयो भूयो दृश्यते। कीदृशः। निरन्तरं संततं गुणेषु साधुसंमतेषु उल्लसन्ती रुचिः प्रीतिर्यस्य। अकाम्या अनाशास्या अत एव मुक्तात्यक्ता निष्फलप्रपञ्चविषया स्पृहा येन। अपगता लौकिकानन्दभुवः प्रमदादयो यस्मात्। रतीशसमः कन्दर्पकोटिलावण्यो यो राधिकारमणस्तन्मात्रे लक्ष्ये स्थितिर्यस्य॥

[शृ०—

] परेण पुरुषेण आत्मनो रते धीर्यस्या असौ स्त्री अतिकृशोदरी दृश्यते। निरन्तराणि घनानि गुणे सूत्रे उल्लसन्ति रुचिराणि काम्यानिआशास्यानि यानि मुक्ताफलानि तत्प्रपञ्चस्तदाभरणाधिक्यं तद्विषया या स्पृहातयोपगता लौकिकानन्दभूमिर्मर्यादा यया। रतीशस्य समरे कामयुद्धे अधिका। रमणश्च माता च श्वश्रूस्ताभ्यामलक्ष्या स्थितिर्यस्याः सा अतिचतुरा कथमपि निरोद्धुं न शक्यते॥

ममत्वरयतः समागमरहस्यमन्विष्यतः
स्फुटीभवति नान्वितश्रुति तदात्मतत्त्वं क्वचित्।
विचित्रमधुनामनागियमनादिमाया न मा
समुत्सुकमनारतं कलयितुं सुखं मुञ्चति॥१०२॥

ममेति। [वै०—] ममत्वस्य ममताया रयतो वेगात् तत्प्रसिद्धमात्मतत्त्वंजीवब्रह्मैक्यलक्षणम् अन्विताः समन्विताः श्रुतयो यत्र। ‘तत्तु समन्वयात्’इति सूत्रोक्तेः। तत्त्वमस्यादिवाक्यविषयम्। समा ये आगमा वेदान्तास्तेषांरहस्यम्। समं यदागमरहस्यं वा। तदन्विष्यतो मम न स्फुटीभवति। विचित्रमाश्चर्यम्। एवमनिशं विचारेऽपि न तत्त्वबोधः। यतः अधुनेदानीमिय-

मनादिर्माया अनारतं सुखं नित्यानन्दरूपं ब्रह्म कलयितुं लब्धुं समुत्सुकं मामां मनागपि न मुञ्चति॥

[शृ०—

] त्वरग्रतस्त्वरां कुर्वतः समागमाय रहस्यं संकेतस्थलम् अन्विष्यतो मम तस्या आत्मनो हृदयस्य तत्त्वं यदप्यन्विता श्रुतिः श्रवणं यत्रदूतीद्वारकवचःश्रवणेन यद्यपि ज्ञातप्रायं तथापि न स्फुटीभवति विचित्रेणमधुना वसन्तेन अमनाक् अधिकम् अनादिमा आदिमा न प्रौढा यद्यपि प्रथमा तथापि वसन्तकुसुमानिलादिवैचित्र्यवशात्प्रौढैव या रतं कलयितुं सुखंसमुत्सुकमना मा मां न मुञ्चति॥

वर्णालंकृतिकाम्या साकाङ्क्षायोग्यतासत्तिः।
एषा कलितरसज्ञा ननु बहुशोभारतीहितं कुर्यात्॥१०३॥

वर्णेति। [वै०—

] वर्णैर्मधुरैरलंकृतिभिरुपमादिभिः काम्या।आकाङ्क्षायोग्यतासत्तिभिः पदधर्मैः सहिता। कलिता निवासत्वेन रसज्ञा जिह्वायया। यद्वा कलितास्तोषिता रसज्ञा रसिका यया। यद्वा कलितो रसज्ञः परमात्मा कृष्णो यया। एवंविधा एषा भारती ननु निश्चयेन हितमभीष्टं कृष्णकीर्तनादिकं कुर्यात्॥

[शृ०—

] वर्णेन शरीरकान्त्या अलंकृत्यालंकारेण काम्या कमनीया।अकाङ्क्षाभिलाषः, योग्यता संभोगयोग्यता, आसत्तिः संनिधिः परिशीलनंवा तत्सहिता।कलितो रसज्ञो रसिको यया। बह्वीशोभा यस्याः सैषा स्त्रीननु निश्चयेन रतिरूपमीहितमभीष्टं कुर्यात्॥

वृथाश्रमपरिग्रहो यदि वयस्य शून्यो धनैः
सुखेन खलु वर्तनं तव सदैव दास्यन्तिके।
इदं मम मतं सखे सकलगोपदाराभिकं
विनोदय मनो मनोभवकृताधिभाराधिकम्॥१०४॥

वृथेति। [वै०—

] हे वयस्य, यदि त्वं धनैः शून्यो निर्धनस्तदा तवाश्रमपरिग्रहो गार्हस्थ्यस्वीकारो वृथैव। सदैव सुखेनानायासेन वर्तनं तव जीवनं के दास्यन्ति। तस्मात् हे सखे, ममेदं मतं संगतम्— मनोभवकृतेना-

धिभारेण अधिकं मनः सकलः कलया बलमद्रेण सहितः समग्रो वा सर्वमयोवा गोपस्त्रीकामुकः कृष्णो यत्रैवंविधं विनोदय॥

[शृ०—

] यदि वयसि तारुण्ये त्वं धनैरशून्यः सहितः तदा वृथाश्रमपरिग्रहो वधूर्यस्यैवंविधस्त्वम्। धनसमृद्धावपि तव स्त्रियाः श्रमो गृहकृत्यनिर्वाण वृथैव। कुत इत्यत आह— तव सदैव नैरन्तर्येण दास्या अन्तिकेनिकटे सुखेन रतादिना वर्तनं स्थितिर्यतः। हे सखे, ममेदं मतं शृण्वितिशेषः। सर्वगोपवधूकामुकं मनोभवकृताधिभाराधिकं मनो विनोदय विश्रमथ॥

वेति सारतयात्मानं परं चेन्न कदाचन।
संसाररसमग्नत्वं तत्कथं विजहात्वसौ॥१०५॥

वेत्तीति। [वै०—

] सारतया सारत्वेन परमात्मानं चेन्न वेत्ति तर्हिअसौ पुमान् संसाररसमग्नत्वं कथं विजहातु। परमात्मनः सारत्वेन ज्ञानमन्तरेण संसारमञ्जनान्न निस्तारः॥

[शृ०—

] सा स्त्री रते रतसमये परमन्यम् आत्मानमपि च चेन्न वेत्तिकदाचित्तदासौ खी एतच्छीली पुरुषो वा संसारसौख्यमग्नतां कथं त्यजतु॥

विधते सोत्कम्पं स्फुटयति सरोमाञ्चमुदितं
कथं मज्जन्माघे पततु निरयप्रापणपथे।
यदि स्यान्मासेऽस्मिन्नसितसितकल्लोलघटना-
चला दृष्टिस्तत्कः सुकृतमिदमीयं गणयिता॥१०६॥

विधत्त इति। [वै०—] स्फुटा व्यक्ता यतयो यत्रैवंविधमिदं सरो मांसोत्कम्पमुद्भुतकम्पसहितं मुदितं संतुष्टं च करोति। अत्र माघे मज्जन् पुरुषःकथं निरयप्रापणपथे नरकगमनमार्गे पततु। यद्यस्मिन्मासे माघे दृष्टिः असिताःसिताश्च ये कल्लोला यमुनाया गङ्गायाश्च तेषां घटना परस्परसंबन्धस्तत्राचलानिश्चला स्यात् तर्हि क इदमीयं सुकृतं पुण्यं गणयिता। को ब्रह्मा वा॥

[शृ०—

] सा स्त्री उत्कम्पमुद्गतं कम्पं सात्त्विकभावं शीतजन्यकम्पगोपितं विधत्ते। स पुरुष उदितं रोमाञ्चं स्फुटयति स्फुटं करोति। सात्त्विकभावमपि शीतजन्यत्वेन प्रकटयति। माघस्नानं कुर्वत एवंविधा चेष्टा कथं ननरकाय स्यादित्यत आह—

माघे मज्जन् स्नानं कुर्वन् कथं निरयप्रापणपथे पततु

अस्मिन्मासे यदि दृष्टिः असिताः सिताश्च ये कल्लोलास्तद्घटना तद्व्यतिकररूपाअचला अस्मिन्पुरुषे स्थिरा स्यात्तदा इदमीयं सृकृतं को गणयिता॥

अतिचारुचन्द्ररोचिः कुर्वन्कुसुमेषुकेलिकेतनताम्।
सुरभिः कदानुयास्यति समुकुलरुचिरस्तनीहारः॥१०७॥

अतीति। [वै०—

] अतिचारु चन्द्ररोचिश्चन्द्रिका यत्र। कुसुमेषु पुष्पेषुकेलिकेतनतां क्रीडावासत्वं कुर्वन् सुरभिर्वसन्तः कदा यास्यति। नु वितर्के। चित्तविक्षेपहेतुत्वात्तपश्चरतां न निस्तार इति। कीदृशः। समुकुलरुचिः’कमलादिकोरककान्तियुक्तः। अस्तनीहारो निरस्तहिमः॥

[शृ०—

] सुरभिर्वसन्तः कदा अनुयास्यति अनुगतो भविष्यति। कामिनइति शेषः। अतिचारुचन्द्ररोचिः। कुसुमेषुकेलेः कामक्रीडायाः केतनतां स्थानरूपं पताकात्वं वा कुर्वन्। सुकुलसमस्तन्या हारेण सह वर्तते इति तथा॥

हेया कामधुरा दुराग्रहवता संसारचक्रमे
वार्ताभिः प्रसभं प्रवर्तयति या योहान्धकूपे बुधान्।
नाकोपाधिकृतिं समीक्ष्य न ततः कुर्याद्विरक्तिं कथं
तत्को नाम निकाममत्र पुरुषं दध्यादनादिं हृदि॥१०८॥

हेयेति। [वै०—

] संसारचक्रमे संसारचके यो अमस्तत्र दुराग्रहवता पुंसा कामधुरा कंदर्पभारः हेया त्याज्या। या प्रसभं बलान्मोहान्धकूपे बुधान्पण्डितानपि वार्ताभिः स्वकथाभिः प्रवर्तयति। ना पुरुषः अकोपाधिकृतिम् अकस्य पापस्य दुःखस्य वा य उपाधिः प्रयोजकस्तत्कृतिं तत्करणंसमीक्ष्य ततः पापसाधनात्कथं विरक्तिं न कुर्यात्। तत्तस्मात्को नाम पुमानत्र कामधुरायां निकामं अनादिपुरुषं विष्णुं हृदि कुर्यात्। यद्वा कोपजन्योय आधिर्मनःपीडा तत्कृतिं समीक्ष्य ततः कोपाधिकृतेर्विरक्तिं न कुर्यात्।तत्तस्मात्कामक्रोधावुभावपि दुःखहेतूज्ञात्वा निकामं पुरुषं च शब्द अनादिमादिवर्णरहितं कामं पुरुषं च हृदि को नाम दध्यादिति॥

[शृ०—

] मधुरा मनोहरा का स्त्री संसारचक्रे भ्रमे दुराग्रहवता पुंसाहेया परिहार्या। या वार्ताभिर्नानाविधाभिश्चातुर्यमर्यादाभिः प्रसभं हठात्बुधान्विदुषोऽपि मोहान्धकूपे प्रवर्तयति। तत्तस्मात्तस्याः सुन्दर्याः सकाशा-

न्नाकस्य स्वर्गस्योपाधिः प्रयोजकस्तत्कृतिं समीक्ष्य को नाम कथं विरक्ति विशेषेण रक्तिं रागं न कुर्यात्। अत्र निकामं निर्गतः कामो यस्मादेवंविधं अनादिंपुरुषं महेशं को नाम कथं हृदि दध्यात्॥

भवार्णवस्योत्तरणे सरोजदृक्चकास्ति नौकेयमहो पुरःस्थिता।
सखे सखेदोऽहमनन्यजभ्रमादमूं विहातुं न ततः समुत्सहे॥१०९॥

भवेति। [वै०—

] भवार्णवस्य संसारसिन्धोरुत्तरणे सरोजदृक् पुण्डरीकाक्ष एव इयं पुरःस्थिता नौका चकास्ति प्रकाशते। ततोऽनन्यजः स्वाभाविको यो भ्रमः अहं ममेति देहगेहादौ ततः सखेदः क्लेशवानहं हे सखे,अमूं कृष्णनावं विहातुं नोत्सहे॥

[शृ०—

] इयं पद्माक्षी आवयोः पुरःस्थिता भवार्णवस्योत्तरणे उत्तरणनिमित्तं चकास्ति शोभते। अतोऽहमनन्यजभ्रमात्कामकृतमोहादमूं त्यक्तुंनोत्सहे। इयं सरोजदृक् भवार्णवस्योत्तरणे नौकेति वा पूर्ववत्॥

साधयति धरमपूर्वं पातालं कश्चिदेति कमलार्थी।
न खलु सहजानुरागाद्विरमति तृष्णैतयोः कदाचिदपि॥११०॥

साधेति। [वै०—

] कमलार्थी लक्ष्मीकामः कश्चिदपूर्वमदृष्टपूर्वं धरंपर्वतं असाध्यमपि साधयति। कोऽपि पातालमेति। सहजः स्वाभाविकोयोऽनुरागो धनविषयस्तस्मात् खलु निश्चयेन एतयोरुभयोरपि तृष्णा कदाचिदपि न विरमति॥

[शृ०—

] सा स्त्री अपूर्वम् अकारपूर्वं धरम्अधरं धयति पिबति। कश्चित्कमलार्थी द्रव्यलिप्सुरस्याः सकाशादलमतिशयेनाधरं पातेत्यागच्छति।अग्रे स्पष्टम्॥

सामानिनीत्वा सलिलात्पयोधेरजिग्रहत्कंजभुवा दृशा यः।
भजन्सखे तच्चरणारविन्दे विन्देस्तमानन्दममन्दमाशु॥१११॥

सामेति। [वै०—

] पयोधेः समुद्रस्य सलिलात् सामानि। उपलक्षणमेतत्। सर्वान्वेदान् दैत्याहृतान् यः कृष्णः कंजभुवा ब्रह्मणा दृशा दृष्ट्याअजिग्रहत् ग्राहयामास। हे सखे। अग्रे स्पष्टम्॥

[शृ०—

] सा मानिनी स्त्री कंजानि कमलानि भवन्त्यस्या इति कंजभुवा

कमलपरम्पराजनितयारुणया दशा त्वा त्वां अयो लोहं अजिग्रहत्। लोहितदृष्टिच्छलात्फालमेव ग्राहयामासेत्यर्थः। अतस्तत्फलनिभारुणदृष्टिग्रहेण शुद्धएव त्वमपि तस्याश्चरणारविन्दे भजन्तममन्दमानन्दं भजेः॥

सर्वत्र साक्षिभावं कलयन्ती सपदि शर्म संदधती।
संमोहयति मनो मे मूर्तिगोपालवंशजन्मापि॥११२॥

सर्वेति। [वै०—

] नन्दगृहजातापि कृष्णमूर्तिः परब्रह्ममयी मे मनःसंमोहयति ध्याने मुग्धं करोति। कीदृशी। सर्वत्र क्षेत्रे साक्षिभावं कलयन्ती। सपदि शर्म यच्छन्ती॥

[शृ०—

] सा स्त्री सर्वत्र अक्ष्णोर्भावं कलयन्ती सपदि शर्म यच्छन्तीआभीर्यपि मूर्तिर्मे मनः संमोहयति॥

निवसति हृदये स मेघरूपो न तदुपपत्त्यवलम्बिकृत्यमन्यत्।
अत उचितमिहैतदेव यत्तत्सुदृढनियन्त्रणमन्तरङ्गसाध्यम्॥११३॥

निवसतीति। [वैº—

] मेघरूपो मेघश्यामः कृष्णो हृदये निवसति।तस्य उपपत्तिः प्राप्तिस्तदवलम्बि नान्यत्कृत्यम्। अस्तीति शेषः। अत इहैतदेवोचितं यदन्तरङ्गसाध्यं मनः कार्य तस्य विष्णोः सुहृदं नियन्त्रणम्।मनसितया विष्णुः स्थाप्य इति॥

[ शृ०—

] अघरूपः पापरूपोऽपराधरूपो वा स पुमान् मे हृदये वसतिस चासावुपपतिर्जारस्तदवलम्बि अन्यत्कृत्यं कर्तव्यं न। अत इहैतदेवोचितंयत्स्वान्तरङ्गेण हृदयेन गुह्यप्रदेशेन वा साध्यं तस्य सुदृढनियन्त्रणमिति॥

असत्यमेतद्विदितं समस्तमकार्यकारीति मृषा प्रपञ्चः।
कुचापलापक्रममेव कर्तुमाच्छादनं ते हृदयस्य शश्वत्॥११४॥

असत्यमिति। [वै०—

] एतद्विश्वं समस्तम्असत्यं विदितं ज्ञातम् अकार्यकारि अर्थक्रियाकारि न भवति। अयं प्रपञ्चो मृषा मिथ्या। कुत्सितं चापलंचपलत्वमेव अपक्रममन्यायं कर्तुं ते हृदयस्य शश्वत् निरन्तरमाच्छादनमिति॥

[शृ०—

] एतत्त्वयोक्तम् असत्यं मिथ्या। समस्तं विदितं त्वच्चरितं सर्वंज्ञातम्। अकारि अकारीति प्रपञ्च मृषा। एतावत्परिणामौकुचाविति कोऽपि

न वेत्त्विति कुचयोरपलापक्रममेव कर्तुं ते शश्वत् हृदयाच्छादनं न तु मृषावादेन स्वाभिप्रायगोपनमपि कर्तुमिति॥

नानाबन्धप्रभेदे प्रथमकलितहृत्कञ्चुकग्रन्थिभेदै-
रत्यन्तानन्दमन्दीभवदपरभिदं नित्यमात्मानमीहे।
स्मारं स्मारं भवाम्भोनिधिमधिकतया दुस्तरं निस्तरीतुं

नान्यं पश्याम्युपायं कमपि तदितरं सत्स्वरूपोपलब्ध्यै॥११५॥

नानेति। [वै०—

] नानाविधा ये बन्धप्रभेदाः कामक्रोधादयस्तत्र प्रथमकलिता ये हृत्कञ्चुकस्याहंकारस्य ग्रन्थेर्भेदा विदारणानि विमोचनानि तैरत्यन्तानन्देन मन्दीभवन्ती अपरभिदा प्रपञ्चभेदो यत्र तमेवंविधं नित्यमात्मानंब्रह्म ईहे वाञ्छामि। भवाम्भोनिधिं स्मारं स्मारम्अधिकतया दुस्तरं निस्तरीतुंतदितरमुपायं न पश्यामि। सत् सत्तामात्रं यत्स्वरूपं तस्योपलब्ध्यै॥

[शृ०—

] अहं नित्यं प्रत्यहं नानाप्रकारा बन्धभेदा यत्रैवंविधे सुरतेप्रथममादौ कलिताः कृता ये कञ्चुकस्य कूर्पासस्य ग्रन्थीनां भेदा विमोचनानि तैरत्यन्तं य आनन्दस्तेन मन्दीभवन्ती अपरभिदा अन्यभेदो यत्र तथाविधमात्मानं वाञ्छामि। अरं शीघ्रं स्मारं स्मरसंबन्धिनं दुस्तरं भवाम्भोनिधिं निस्तरीतुं तदितरमुपायं न पश्यामि स्म नापश्यम्। कस्यै। सत्स्वरूपंयस्यास्तस्याः सुन्दर्या उपलब्ध्यै प्राप्त्यै॥

काश्यामाकृतिमीशितुर्न लभते हृद्याहितातत्त्वधी-
र्यस्य श्रीरिव साभवत्प्रियतमा या सर्वदाराधिका।
शश्वत्तद्रतचेतसस्तव पुरापुण्यान्यगण्यानि य-
द्ब्रह्माद्वैतसुखेऽपि तद्भजनतो मन्दादरं ते मनः॥११६॥

काश्यामिति। [वै०—

] काश्यां हृदि आहिता अतत्त्वधीर्येनैवंविध ईशितुः शिवस्याकृतिं विश्वेश्वरादिशिवलिङ्गमूर्तिं न लभते न प्राप्नोति। यस्यशिवस्य का सा प्रियतमा अतिशयेन प्रियाभवत् श्रीरिव या सर्वदा आराधि।लोकैरिति शेषः। शश्वत्सदा तन्नशिवे रतं रक्तं चेतो यस्यैवंविधस्य तव पुरापुण्यानि पूर्वजन्मकृतानि अगण्यानि गणयितुमशक्यानि। यद्यस्माद्धेतोर्ब्रह्याद्वैतसुखेऽपि तद्भजनतस्ते मनो मन्दादरम्। अस्तीति शेषः। विष्णुपक्षे वा

हृदि आहिता आरोपिता हृद्या मनोहरा, हिता इष्टा, का तत्त्वबुद्धिरीशितुःकृष्णस्य भगवतः श्यामाकृतिं गोपालमूर्ति न लभते। अपि तु लभत एव।तत्त्वबुद्ध्या सांख्योक्तानां पञ्चविंशतितत्त्वनां गणनायां प्रसक्तया मत्या षड्विंशको विष्णुरिति षड्विंशत्वेन लभ्येतैव। यस्य कृष्णस्य या राधिका सा श्रीर्लक्ष्मीरिव प्रियतमा अभवत्। अग्रे समानम्॥

[शृ०—

] हृदि हृदये वक्षसि आरोपिता तस्य पुरुषस्य भावस्तत्त्वं तत्रधीर्बुद्धिर्यस्याः पुरुषायितुमनाः ईशितुः प्रियस्य कृतिं प्रियकर्तृकरतव्यापारंतद्वत्स्वयमेव का श्यामा षोडशवार्षिकी युवतिर्न लभते। अपि तु लभत एवयस्य भगवतः श्रीरिव लावण्येन युवतिर्भवतः प्रियतमा अतिशयेन प्रिया।या सर्वेभ्यो दारेभ्योऽधिका शश्वत्तस्या रते चेतो यस्य तदासक्तचित्तस्यवा तव पुरापुण्यानि अगण्यानि। यद्यतस्तस्या भजनतो ब्रह्मानन्देऽपिमनो मन्दादरम्॥

यदस्ति मे किंचन तत्समस्तं दास्यामिहास्यामितरेयमेवम्।
अकिंचनासत्तिजुषो न लज्जा भवेद्धनं तन्न समर्पितं चेत्॥११७॥

यदिति। [वै०—

] यत्किंचन मेऽस्ति धनदारादिकं तत्समस्तं दास्यामि,हास्यामि त्यक्ष्यामि। एवं सति तरेयम्। संसारसिन्धुमित्यर्थः। तद्धनं चेन्नसमर्पितं तदा अकिंचनानां निष्परिग्रहाणां विरक्तानामासत्तिं सेवमानस्य मेलज्जा न भवेत्। अपि तु भवेदेव॥

[शृ०—

] इह मे यत्किंचनास्ति द्रव्यादिकं तत्समस्तम्अस्यां दास्याम्।इतरा इयं स्त्री ऊढा एवमकिंचनैव तिष्ठति। तत्तस्माद्धनं न समर्पितं चेत्तदा अकिंचनाया ऊढाया आसत्तिं सेवमानस्य मे लज्जा न भवेत्, अपितुभवेदेवेति काकुः। इदानीमूढाप्युपभोगक्षमा वृत्ता। तस्मादियदवधि उपभुज्यमानदासीहस्तस्थं द्रव्यं गृहीत्वाभरणादिदानेनेयमपि संमाननीयेति॥

सपटघटसमस्तन्यायतत्त्वोल्लसद्दृ-
ग्विरचितविविधात्मप्रक्रियामोहितस्य।
कथमभिनिविशेत स्वान्तमन्यद्बुभुत्सो-
स्तव नयमनयं वा वीतबुद्धेर्विवेक्तुम्॥११८॥

सेति। [ वै०—] उदाहरणत्वेन पटघटकुलालादिसहितः समस्तो योन्यायो न्यायशास्त्रं तस्य यत्तत्त्वं साधर्म्यवैधर्म्यादिना प्रमाणादिषोडशपदार्थविवेचनं तत्रोल्लसन्ती या दृग् दृष्टिर्बुद्धिस्तया विरचिता या विविधानां नानाविधानामात्मनां प्रक्रिया तथा मोहितस्य नयं सच्छास्त्रं अनयमसच्छास्त्रं बुभुत्सोर्बोद्धुमिच्छोर्विवेक्तुं वीतबुद्धेस्तव स्वान्तं चित्तं अन्यन्नयं वेदान्तशास्त्रंएकात्मप्रतिपादनरूपं कथमभिनिविशेत॥

[शृ०—

] सपटौ साञ्चलपरिधानौ घटसमौ स्तनौ यस्यास्तस्या आयतत्वेन विशालत्वेन उल्लसन्ती या दृग् नेत्रं तया विरचिता या आत्मनः प्रक्रियानानाविधो विलासस्तया मोहितस्य नयं नीतिम् अनयमनीतिं बुभुत्सोर्विवेक्तुंवीतबुद्धेस्ते स्वान्तमन्तः कथमन्यत्पदार्थमभिनिविशेत॥

श्रुतो जगति योधरो मधुपवर्गवर्णोद्धृतेः
स मेऽतिरुचिरो हृदि स्फुरति साधु गोवर्धनः।
द्विजातिपरिशीलनक्रमविदा मयासाद्यते
सविद्रुमरुचिः स्फुरन्मृदुपलामृतश्रीधरः॥११९॥

श्रुत इति। [वै०—] मधुपवर्गस्य भ्रमरसमूहस्य वर्ण इव वर्णोयस्यसवासुदेवस्तेनोद्धृतेरुद्धरणादुत्पाट्योन्नयनाज्जगति विश्रुतः ख्यातो यो धरः पर्वतो गोवर्धनः अतिरुचिरोऽतिमनोज्ञः स मे हृदि साधु यथा स्यात्तथा स्फुरति। अतो द्विजातीनां ब्राह्मणादीनां परिशीलनक्रमविदा यात्राक्रमज्ञेन मयाआसाद्यते आसादयिष्यते। कीदृशः। वीनां पक्षिणां द्रुमाणां या रुचिस्तत्सहिता स्फुरन्ती या मृदः, उपलानाम्, अमृतस्य जलस्य च श्रीः शोभा तांधारयतीति तथा। ततो मयावश्यं गन्तव्य इति॥

[शृ०—] योऽधरोऽधरोष्ठः श्रुतो जगति मधु, संसारे मधुस्वरूपः। पवर्गवर्णानां पफबभमानामुद्धृतेरुच्चारणाद् गोवर्धनो वचनवर्धनशीलः। अतिरुचिरो मम हृदि साधु सम्यक्प्रकारेण स्फुरति। द्विजानां दन्तानामतिपरिशीलनं मणिमालादिनामकक्षतदानं तत्क्रमज्ञेन मया सोऽधर आसाद्यते प्राप्य। कीदृशः। विद्रुमस्य प्रवालस्य रुचिरिव रुचिर्यस्य स्फुरन्ती स्फुटीभवन्तीमृदुनि पले मांसे अमृतश्रीस्तां धारयतीति॥

यासौ संसृतिनिर्वृतिस्थितिरतिक्लिष्टा कुचेष्टाकृति-
स्तामेवानुदिनं विचारयति यः स्यादेष दोषानुगः।
अस्मिन्सारमते निधाय हृदयं निर्द्वन्द्वपीडः स्थिरा-
मन्दानन्दचिरानुभूतिरभजद्योगेन सद्यः फलम्॥१२०॥

येति। [—वै०] या असौ संसृतिनिर्वृतेः संसारसुखस्य स्थितिः अतिक्लिष्टा केशानुषङ्गवती। कुत्सिता या चेष्टा तत्कृतिः पश्वादिसाधारणरतजन्यातामेव योऽनुदिनं विचारयति एष पुमान् दोषानुगो रागादिदोषकिंकरः स्यात्।अयं पुमानस्मिन् सारमते सारभूते मते योगाभ्यासलक्षणे हृच्चित्तं निधायनिर्गता द्वन्द्वपीडा शीतोष्णादिबाधा यस्मादेवंविधः सन् स्थिरामन्दानन्दस्यब्रह्मावाप्तिसुखस्य चिरमनुभवो यस्यैवंविधो योगेन सद्यः फलमभजत्॥

[शृº—] यासी स्त्री संसारसुखस्थानरतिक्लिष्टा कुचाभ्यामिष्टा मनोज्ञाआकृतिराकारो यस्यास्तामेव योऽनुदिनं विचारयति एष पुमान् दोषा रात्रिस्तदनुगस्तदनुसरणशीलः स्यात्। सा स्त्री अस्मिन्पुंसि रमते। किं कृत्वा।हृद्धृदयं मनो वक्षो वा निधाय। अयं पुमान्नितरां द्वन्द्वस्यार्थात्कुचयुग्मस्यपीडा यस्मात् सः। तथा स्थिरा अमन्दानन्दस्याधिकसुखस्य चिरमनुभूतिर्यस्यैवंविधो योगेनास्याः संबन्धेन सद्यः फलमभजदिति॥

वसन्ते संजाते धरणिभृदपत्योत्सवविधा-
वसावङ्गीकुर्यान्नवरणमनङ्गस्य भवतः।
विहायेान्येहां कलितसुमना माधवपदे
विधेहि स्वंधीरं प्रथममथवेदं कथय नः॥१२१॥

वसन्त इति। [वै०—] वसन्ते संजाते चैत्रे समागते धरणिभृतो हिमवतोऽपन्यस्य दुर्गाया उत्सवविधौ असौ यजमानः अनङ्गस्य अङ्गहीनस्य नेवरणं नाङ्गीकुर्यात् तस्मान्मदुक्तं शृणोषि चेत्तदाहमुपदिशामि। इहोत्सवे अन्येहां द्रव्यप्राप्तिवाञ्छां विहाय माधवस्य कृष्णस्य पदे कलितं स्थापितं सुष्टुमनो येनैवंविधः सन् प्रथममादौ स्वमात्मानं धीरं विधेहि। अथानन्तरं नोऽस्मभ्यं चेदं कथय विष्णुप्रीत्यै अस्मदग्रे वेदपाठं कुर्विति ॥

[शृ०—] असौ स्त्री वसन्ते वैशाखे प्राप्ते धरणिभृतो राज्ञो यदपत्यंकन्या तदुत्सवविधौ तद्विवाहसंमर्दे भवतस्ते अनङ्गस्य कामस्य नवरणं नूतनरतमङ्गीकुर्यात्। इह प्रसङ्गेअन्यस्यामीहां स्पृहां विहाय माधवपदे वसन्तस्थाने उपवनादौ कलिता दृष्टाः सुमनसो नानाकुसुमानि चित्तविक्षोभहेतुभूतानि येन एवंविधस्त्वं स्वमात्मानं प्रथममादौ धीरं विधेहि। अथवा इदंस्वमतं नः कथयेति॥

प्राज्ञैरनन्तपथपान्थतयासितव्यं
नैवान्यथा भवति कामनयोपयोगः।
तन्मृग्यतामिह परत्र च सारसाक्षी
यागोपि दिव्यसुखहेतुरमानि मान्यैः॥१२२॥

प्राज्ञेति। [वै०—] अनन्तपथं विष्णुमार्गं पान्थत्वेन प्राज्ञैः सुबुद्धिभिःस्थेयम्। अन्यथा कामनया नानाविधया उपयोगः फलसंबन्धो न भवति।सर्वस्यापि नश्वरत्वात्। तत्तर्हि इह संसारे परत्र परलोके च सारे स्थिरांशेसाक्षी तदनुभववान् मृग्यतामन्विष्यताम्। स एव सारं वक्ष्यति। यागोऽपिमान्यैर्मन्वादिभिर्दिव्यसुखहेतुत्वेन अमानि अनुमतः॥

[शृ०—] प्राज्ञैश्चतुरैरनन्ता अपरिमिता ये पन्थानस्तत्र पान्थत्वेन संचरणशीलत्वेन स्थातव्यम्। अनेकानुसंधानं विधेयमित्यर्थः। तत्तस्मादिहात्रपरत्रान्यत्र वा अत्र नगरे नगरान्तरे वा सारसाक्षी पद्माक्षी मृग्यतामन्विप्यताम्। यत्र क्वापि या मान्यैर्महद्भिः क्षत्रियादिभिरगोपि रक्षिता दिव्यसुखहेतुरमानि॥

सुखं सारत्यागः कलयतु समेत्य द्विजपदा-
न्यसौ मामेत्यद्य श्रुतिमधुरवाचाहृतमनाः।
सदाम्नायार्थेनाधिकसुरभिणैक्यस्थिरमतिः
प्रपञ्चं पञ्चानां न खलु मनुते सत्यमधुना॥१२३॥

सुखेति। [वै०—

] द्विजपदानि ब्राह्मणस्थानानि समेत्य गत्वा सारत्यागो यस्य सद्व्ययशीलः असौ दाता सुखं कलयतु सुखी भवतु।अद्य श्रुत्यावेदेन मधुरवाचा मधुरवेदपाठेन हृतचित्तो मामेति प्राप्नोति। त्वयापि तद्दत्तं

ग्राह्यमेवेत्यत आह—

सदा अधिकसुरभिणा अतिप्रसिद्धेनाम्नायार्थेनैक्ये जीवब्रह्माभेदे स्थिरा मतिर्यस्यैवंविधः पुमानस्मदादिः पञ्चानां भूतानां प्रपञ्चं देहमपि खलु निश्चयेन अधुना सत्यं न मनुते। किं पुनर्धनादिकमिति॥

[शृ०—] सासौ सेयं स्त्रीअद्य द्विजपदानि दन्तक्षतान्मणिमालादिप्रभेदान्समेत्य मा मा इति श्रुतिमधुरवाचाहृतमना रत्यागः सुरतापराधं सुखमेव कलयतु जानातु। अधिकं सुरभिणा कर्पूरकस्तूरीचन्दनताम्बूलादिना सदाम्ना समाल्येन मत्प्रेषितेन ऐक्ये मया सहाभिन्नभावे स्थिरा मतिर्यस्या एवंविधा या पञ्चानां दूतीसख्यादीनां प्रपञ्चं कल्पितविघटनोपायं अधुना खलुनिश्वयेन सत्यं न मनुते। ततः प्रसन्ना मम मनोरथं पूरयिष्यतीति॥

ज्योतिर्मन्ये त्रिनेत्रोद्भवमिह विहरत्कामिचक्रार्तिदं य-
द्रत्याः पत्याथ सद्यः प्रकटितमधिकं पाटवं स्वात्मभूतेः।
एतस्यालोकतोऽमी वयमपहृतहृत्तापतामाप्तवन्तः
संतुष्टाः प्रोषितस्त्रीरतिसुखमनसो दुस्तरं निस्तरेम॥१२४॥

ज्योतिरिति। [वै०—] विहरतः क्रीडतः कामिचक्रस्य या अर्तिर्मनः पीडातत्पदं त्रिनेत्रोद्भवं ज्योतिः शिवतृतीयलोचनतेजो मन्ये। यत्तेजः प्राप्यरत्याः पत्या कामेन सद्यः स्वात्मनः स्वशरीरस्य भूतिर्भस्म तस्या अधिकं पाटवंसामर्थ्यं प्रकटितम्। अमी वयमेतस्य शिवद्यग्वह्निपाटवस्यालोकतो दर्शनादपहृतहृत्तापत्वं प्राप्तवन्तःसंतुष्टाः प्रोषितं दूरे गतं स्त्रीरतिसुखे मनो येषामेवंविधाः सन्तो दुस्तरं संसारसमुद्रं निस्तरेम। भस्मीभूतात्कामात्कामी (?)। अतः कथं संसारसिन्धुं न तरेम॥

[शृ०—] अत्रेर्नेत्रादुद्भूतं ज्योतिश्चन्द्रलक्षणमिह विहरतां कामिनां चक्राणां चक्रवाकाणांमनः पीडाप्रदं मन्ये। यज्ज्योतिश्चन्द्ररूपमवाप्य सद्यःकामेन स्वात्मनो भूतेरैश्वर्यस्याधिकं पाटवं प्रकटितम्। एतस्य चन्द्रस्यालोकतो दर्शनाच्चन्द्रिकाया वा अमी वयमपहृतहृत्तापत्वं प्राप्तवन्तः संतुष्टाःप्रोषितानां परदेशं गतानां या स्त्रियस्तद्रतिसुखे मनो ये

षामेवंविधाः सन्तोदुस्तरं कामं निस्तरेम। चन्द्राद्युद्दीपनदर्शनेनाधिककामवेगाद्वयं विदेशस्थवधूसमागमेन क्लृप्तेन सुखिनः स्यामेति॥

हित्वा तामसतां मनोरथमितां मत्वा कुचेष्टास्थितिं
नार्यासत्तिमुपेक्ष्य तां नय निजां नो मुञ्च सीमामपि।
भ्रातस्ते भ्रमतः कदापि न भवेदद्वैतसंविद्भवे
तस्माद्विस्मर न स्मराहितपदद्वन्द्वानुरागक्रमम्॥१२५॥

हित्वेति। [वै०—] कुत्सिता चेष्टा यस्यामेवंविधा स्थितिर्यस्या एवंविधां मत्वा मनोरथैरभिलाषैर्युक्तां तामसतां तामसत्वं हित्वा त्यक्त्वाआर्याणां सज्जनानां आसत्तिं नोपेक्ष्य तां सतामासत्तिं निजां सीमां मर्यादांनय। नो मुञ्च न त्यज। हे भ्रातः, भवे संसारे भ्रमतः संचरतो भ्रमयुक्तस्य वा भ्रमाद्वा तेऽद्वैतबुद्धिः कदापि न भवेत्। तस्मात् स्मराहितः शिवस्तस्य पदद्वन्द्वेऽनुरागक्रमं न विस्मर। यथा शिवचरणद्वयेऽनुरागो भवतितथा कुरु तत एव ते ज्ञानं भवेत्॥

[शृ०—] असतां विटानामन्येषां मनोरथमभिलाषं प्राप्तां कुचाभ्यामिष्टा स्थितिर्यस्या एवंविधां तां नारीणामासत्तिमुपेक्ष्य तां प्रसिद्धां पूर्वोपभुक्तामन्यैर्विटैरज्ञातां निजां स्वकीयासेव नय। सीमां मर्यादामपि नो मुञ्च।यद्वाइमामपि नो मुञ्चसि पराभिलाषविषयानेकनारीप्रत्यासत्तिमिच्छोरिमामपिन त्यजतस्ते हे भ्रातरद्वैतबुद्धिर्भवे संसारे न कदापि भवेत्। इतस्ततो गमनेन द्वैतबुद्धिरेव भवेत्। एकावलम्बनेन द्वैतधीनं स्यात्। तस्मादहितो यःपदद्वन्द्वे स्थलद्वयेऽनुरागक्रमस्तं न स्मर। किं तु विस्मर। यद्वा स्मरेणाहितो यःपदद्वन्द्वेऽनुरागक्रमस्तं न विस्मर।संततं स्थलद्वयानुरागविशेषं स्मरेति॥

रामेतिनामस्मृतिरप्यमन्दमानन्दमाधाय सुधामयीह।
मृतायमानेऽप्यमृतायमाना व्यनक्ति साक्षादमृतात्मतां यत्॥१२६॥

रामेति। [वै०—] इह संसारे राम इति नाम्नः स्मृतिरप्यमृतमयी अमन्दमधिकमानन्दमाधाय मृतायमाने चरमावस्थां गतेऽपि अमृतायमानामोक्षवदाचरन्ती साक्षादव्यवधानेन नित्यमुक्तात्मलाभलक्षणं मोक्षरूपत्वंव्यनक्तिप्रकटयति। अन्ते रामस्मरणेन मुक्तः स्यादिति॥

[शृ०—] रामा स्त्री इति नाम्नः स्मृतिरपि सुधा अमृतम् इह मयि मृतायमानेऽपि अमृतायमाना साक्षादमृतात्मतां जीवतो भावं व्यनक्तीति॥

इच्छेत्परमनुसर्तुं प्रतिमासंदर्शनेन विशदरुचिः।
अनवाप्य येनयोगं भवतो हृदये परं निधीयेत॥१२७॥

इच्छेदिति। [ वै०—] जगन्नाथप्रयागमाधवबदरीनारायणादीनां विष्णुप्रतिमानां तत्र तत्र क्षेत्रे संदर्शनेन विशदा निर्मला रुचिर्यस्यैवंविधः पुरुषस्तत्तत्तीर्थविष्णुमूर्तिदर्शननिष्पापः परं परमात्मानं प्रकृतेः परत्वान्निराकारम्अनुसर्तुमिच्छेत्। साकारस्य प्रतिमां दृष्ट्वा निर्मलकान्तिः पुमान् निराकारस्यानुसरणं कर्तुमिच्छेत्। येन पुंसा योगं समाधिमनवाप्य भवतः संसारात् अपरंन परं संसारमनतीतं साकारमेव ब्रह्म हृदये निधीयेत स्थाप्येत। योगाभ्यासस्य सिद्धौ प्रकृतेः पर आत्मा लभ्येत। तदसिद्धौ प्रतिमादिरूप साकारात्मैवहृदये स्थाप्यते तत एव तदपि सिध्यतीति॥

[ शृ०—] प्रतिमासं मासं मासं प्रति दर्शनेन अर्थादृतोःऋतुमनु ऋतुंलक्ष्यीकृत्य सा ते प्रतिवेशिनी विशन्ती अरुचिर्यस्या एवंविधा सती परं पुरुषमिच्छेत्। अनुमासमृतुदर्शनेन दुःखमनुभवन्ती परपुरुषेच्छां कुर्यादेव।कथमित्यत आह— या इनस्य स्वामिनो भर्तुर्योगं विना परं केवलं भवतस्तव हृदये निधीयेत निधिरिवाचरेत्। तत्प्रतिवेशितया तवैव निधिवल्लाभो भवेदिति॥

अध्यास्य सौरभेयं मौक्तिकरुचिरङ्गणेषु विहितगतिः।
मान्यः स एव हृदि मे गौरी वामाङ्गमाश्रिता यस्य॥१२८॥

अधीति। [ वै०—] मौक्तिकवद्रुचिरं स्निग्धं सौरभेयं वृषमध्यास्यआरुह्य गणेषु प्रमथेषु विहिता कृता गतिर्गमनं येन। यस्य वामाङ्गे गौरीआश्रिता स सदाशिव एव हृदि मान्यः। अन्यो मास्तु, स एव शिवो हृदिमेऽस्त्विति वा॥

[शृ०—] आस्यं मुखमधिकृत्य अध्यास्यं सौरभं परिमलः कमलादीनामिवयस्याः। सेयं पद्मिनी मौक्तिकरुचिः स्त्रिग्धा देदीप्यमाना यस्याः। अङ्गणेषु विहिता गतिर्यया अङ्गणमात्ररिङ्गणशीला। सुकुमारत्वात् गौरी गौराङ्गीवामा स्त्री यस्य पुरुषस्याङ्गमुरःस्थलादिकमाश्रिता स एव से हृदि मान्य इति पक्षद्वयेऽपि सुधीभिः पदच्छेदभेदेनार्थविशेष ऊहनीयः॥

शृङ्गारे वैराग्ये व्यधायि सद्यः स्फुरत्समग्रार्थम्।
श्रीरामचन्द्रकविना काव्यमिदं रसिकरञ्जनं नाम॥१२९॥

शृङ्गारेति। स्पष्टोऽर्थः॥

प्रख्यातो यः पदार्थैरमृतहरिगजश्रीसखैः श्लोकशाली
स्फीतातिस्फूर्तिरुद्यद्बुधमुदनुगिरं क्षीरधी रामचन्द्रः।
भ्रान्तोऽस्मिन्मन्दरागः फणिपतिगुणभृज्जातु मज्जेत्कथं न
स्यादाधारोऽमुना चेदिह न विरचितः श्रीमता वाङ्मुखेन॥१३०॥

प्रख्यात इति। अमृतं सुधा हरिगज ऐरावतस्तयो श्रीस्तत्सखैर्माधुर्येणवैशद्येन चामृतैरावतशोभायुतैः पदार्थैः पदैरर्थैश्च श्लोकशाली। अतिस्फूर्तिर्यस्यप्रशस्तशब्दार्थस्फुरणवान्। अनुगिरं वाणीमनु उद्यन्ती बुधानां पण्डितानांमुद्यस्मात् क्षीरवद् धीर्बुद्धिर्यस्य क्षीरनिर्मलमतिर्यो रामचन्द्रः प्रख्यातः प्रसिद्धःअस्मिन् रामचन्द्रे फणिपतेर्गुणं भाष्यव्याख्यानं बिभर्तीति स तथा वैयाकरणोऽपि भ्रान्तः सन् मन्दो रागो यस्यासौ मन्दादरो जातु कदाचित्कथं नमज्जेत्। शृङ्गारवैराग्यरूपार्थव्याख्यायां मतिकर्दमे कथं न पतेत्। चेत् इहसपञ्चविंशति शृङ्गारवैराग्यशते अमुना रामचन्द्रेण वाङ्मुखेनार्थद्वयोपन्यासेनाधारो न विरचितः स्यात्। एतत्कृतटीकाया आधारमप्राप्य मतिकर्दमे पतेदेवेत्यर्थः॥ रामोऽपि रामचन्द्रः। यस्माद् अमृतं, हरिरुच्चैःश्रवाः, गज ऐरावतः, श्रीर्लक्ष्मीः, तत्सखैः पारिजातादिभिः पदार्थैः श्लोकशाली कीर्तिमान्अनुगिरं गिरिं मन्दरमनुगम्य स्फीता अत्यन्तं स्फूर्तिः फेनादिना यस्य उद्यन्तीबुधानां देवानां मुत् संतोषो यस्मादेवंविधो यः क्षीरधिः अस्मिन्क्षीरसमुद्रेफणिपतिर्वासुकिः स एव गुणो रज्जुस्तं बिभर्तीति स तथाभूतो मन्दरागोमन्दरपर्वतो भ्रान्तो भ्रमणं प्राप्तः जातु कदाचित्कथं न मज्जेत्। चेदिह अमुना अवाक् अधो मुखं यस्य कूर्मस्यैवंविधेन कूर्मरूपेण श्रीमता विष्णुना विरचित आधारो न स्यात्। पयःपयोधिमथनप्रस्तावे क्षीरधेरधः कूर्मावतारेण हरिणा मन्दराधारभूतसूतेनाभावि ततो न तस्य मज्जनं वृत्तमिति पौराणिकीकथेति द्वितीयो ध्वनिरूपोऽर्थः॥

शृङ्गारवैराग्यशतं सपञ्चविंशत्ययोध्यानगरे व्यधत्त।
अब्दे वियद्वारणबाणचन्द्रे (१५८०) श्रीरामचन्द्रोऽनु च तस्य टीकाम्॥

श्रीरामचन्द्रकविना काव्यमिदं व्यरचि विरतिबीजतया।
रसिकानामपि रतये शृङ्गारार्थोऽपि संगृहीतोऽत्र॥

इति श्रीलक्ष्मणभट्टसूनुश्रीरामचन्द्रकविकृतं सटीकं रसिकरञ्जनं नाम
शृङ्गारवैराग्यार्थसमानं काव्यं संपूर्णम्।

_______________________________

महाकविश्रीक्षेमेन्द्रविरचितंकविकण्ठाभरणम्।

प्रथमः संधिः।

जयति जितसुधाम्भःसंभवद्वाग्भवश्री-
रथ सरससमुद्यत्कामतत्त्वानुभावा।
तदनुपरमधामध्यानसंलब्धमोक्षा
रविशशिशिखिरूपा पुरी मन्त्रशक्तिः॥१॥

शिष्याणामुपदेशाय विशेषाय विपश्चिताम्।
अयं सरस्वतीसारः क्षेमेन्द्रेण प्रदर्श्यते॥२॥

तत्राकवेः कवित्वाप्तिः शिक्षा प्राप्तगिरः कवेः।
चमत्कृतिश्च शिक्षासौ गुणदोषोद्गतिस्ततः॥३॥

पश्चात्परिचयप्राप्तिरित्येते पञ्च संधयः।
समुद्दिष्टाः क्रमेणैषां लक्ष्यलक्षणमुच्यते॥४॥

सुविभक्तिसमन्वितं बुधैर्गुणसंयुक्तममुक्तसौष्ठवैः।
रचितं पदकैः सुवर्णवत्कविकण्ठाभरणं विचार्यताम्॥५॥

अथेदानीमकवेः कवित्वशक्तिरुपदिश्यते—

प्रथमं तावद्दिव्यः प्रयत्नः, ततः पौरुषः—

ॐ स्वस्त्यङ्कं स्तुमः सिद्धमन्तराद्यमितीप्सितम्।
उद्यदूर्जप्रदं देव्या ऋॠललनिगूहनम्॥६॥

एकमैश्वर्यसंयुक्तमोजोवर्धनमौषधम्।
अन्तरान्तः कलाखण्डगलद्धनसुधाङ्कितम्॥७॥

चन्द्रोच्छलञ्जलं प्रोज्झदज्ञानं टठसंयुतम्।
डम्बरप्रौढकिरणं तथतां दधदुन्नतम्॥८॥

परं फलप्रदं बद्धमूलोद्भवमयं वपुः।
रम्यं लघुवरं शर्म वर्षत्सर्वसहाक्षरम्॥९॥

एतां नमः सरस्वत्यै यः क्रियामातृकां जपेत्।
क्षेममैन्द्रं स लभते भव्योऽभिनववाग्भवम्॥१०॥

श्वेतां सरस्वतीं मूर्ध्नि चन्द्रमण्डलमध्यगाम्।
अक्षराभरणां ध्यायेद्वाङ्मयामृतवर्षिणीम्॥११॥

त्रिकोणयुगमध्ये तु तडित्तुल्यां प्रमोदिनीम्।
स्वर्गमार्गोद्गतांध्यायेत्पराममृतवाहिनीम्॥१२॥

निर्विकारां निराकारां शक्तिं ध्यायेत्परात्पराम्।
एषा बीजत्रयी वाच्या त्रयी वाक्काममुक्तिसूः॥१३॥

काव्यक्रियेच्छाङ्कुरमूलभूमिमन्विष्य विश्रान्तिलवेन मोक्षः।
अन्यावधाने मदनस्य मोक्षस्तृतीयबीजे सकलेऽस्ति मोक्षः॥१४॥

अथ पौरुषः।

तत्र त्रयः शिष्याः काव्यक्रियायामुपदेश्याः। अल्पप्रयत्नसाध्यः,कृच्छ्रसाध्यः, असाध्यश्चेति।

तत्र प्रथमः—

कुर्वीत साहित्यविदः सकाशे श्रुतार्जनं काव्यसमुद्भवाय।
न तार्किकं केवलशाब्दिकं वा कुर्याद्गुरुं सूक्तिविकासविघ्नम्॥१५॥

विज्ञातशब्दागमनामधातुश्छन्दोविधाने विहितश्रमश्च।
काव्येषु माधुर्यमनोरमेषु कुर्यादखिन्नः श्रवणाभियोगम्॥१६॥

गीतेषु गाथास्वथदेशभाषाकाव्येषु दद्यात्सरसेषु कर्णम्।
वाचां चमत्कारविधायिनीनां नवार्थचर्चासु रुचिं विदध्यात्॥१७॥

रसे रसे तन्मयतां गतस्य गुणे गुणे हर्षवशीकृतस्य।
विवेकसेकस्वकपाकभिन्नं मनः प्रसूतेऽङ्कुरवत्कवित्वम्॥१८॥

अथ द्वितीयः—

पठेत्समस्तान्किल कालिदासकृतप्रबन्धानितिहासदर्शी।
काव्याधिवासप्रथमोद्गमस्य रक्षेत्पुरस्तार्तिकगन्धमुग्रम्॥१९॥

महाकवेः काव्यनवक्रियायै तदेकचित्तः परिचारकः स्यात्।
पदे च पादे च पदावशेषसंपूरणेच्छां मुहुराददीत॥२०॥

अभ्यासहेतोः पदसंनिवेशैर्वाक्यार्थशून्यैर्विदधीत वृत्तम्।
श्लोकं परावृत्तिपदैः पुराणं यथास्थितार्थं परिपूरयेच्च॥२१॥

तत्र वाक्यार्थशून्यं यथा—

‘आनन्दसंदोहपदारविन्दकुन्देन्दुकन्दोदितबिन्दुवृन्दम्।
इन्दिन्दिरान्दोलितमन्दमन्दनिष्यन्दनन्दन्मकरन्दवन्धम्॥’

परावृत्तिपदैर्यथा—

‘वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥

‘वाण्वार्थाविव संयुक्तौ वाण्यर्थप्रतिपत्तये।
जगतो जनकौ वन्दे शर्वाणीशशिशेखरौ॥’

अथ तृतीयः—

यस्तु प्रकृत्याश्मसमान एव कष्टेन वा व्याकरणेन नष्टः।
तर्केण दग्धोऽनलधूमिनावाप्यविद्धकर्णः सुकविप्रबन्धैः॥२२॥

न तस्य वक्तृत्वसमुद्भवः स्याच्छिक्षाविशेषैरपि सुप्रयुक्तैः।
न गर्दभो गायति शिक्षितोऽपि संदर्शितं पश्यति नार्कमन्धः॥२३॥

इति ततसुकृतानां प्राक्तनानां विपाके
भवति शुभमतीनां मन्त्रसिद्धं कवित्वम्।
तदनु पुरुषयत्नैर्धीमतामभ्युदेति
स्फुरति जडधियां श्रीशारदा साधनेन॥२४॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे
कवित्वप्राप्तिः प्रथमः संधिः।


द्वितीयः संधिः।

छायोपजीवी पदकोपजीवी पादोपजीवी सकलोपजीवी।
भवेदथ प्राप्तकवित्वजीवी स्वोन्मेषतो वा भुवनोपजीव्यः॥१॥

छायोपजीवी यथा भट्टभल्लटस्य—

‘नन्वाश्रयस्थितिरियं तव कालकूट
केनोत्तरोत्तरविशिष्टपदोपदिष्टा।
प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ
कण्ठेऽधुना वससि वाचि पुनः खलानाम्॥’

यथा च श्रीमदुत्पलराजदेवस्य—

मात्सर्यतीव्रतिमिरावृतदृष्टयोये
ते कस्य नाम न खला व्यथयन्ति चेतः।
मन्ये विमुच्य गलकन्दलमिन्दुमौले-
र्येषां सदा वचसि वल्गति कालकूटः॥’

पदकोपजीवी यथा मुक्ताकणस्य—

‘यथा रन्धं व्योम्नश्चलजलदधूमः स्थगयति
स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः।
यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभ-
स्तथा मन्ये लभः पथिकतरुखण्डे स्मरदवः॥’

यथा चैतद्रातुश्चकपालस्य—

‘सरस्यामेतस्यामुदरबलिवीचीविलुलितं
यथा लावण्याम्भो जघनपुलिनोल्लङ्घनकरम्।
यथा लक्ष्यश्चायं चलनयनमीनव्यतिकर-
स्तथा मन्ये मनः प्रकटकुचकुम्भः स्मरगजः॥

पादोपजीवी यथामरकस्य—

‘गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा
द्वित्राण्येव दिनानि तिष्ठतु भवान्पश्यामि यावन्मुखम्।
संसारे घटिकाप्रणालविगलद्वारा समे जीविते
को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगमः॥”

यथा मम—

‘हंहो स्निग्धसखे विवेक बहुभिः प्राप्तोऽसि पुण्यैर्मया
गन्तव्यं कतिचिद्दिनानि भवता नास्मत्सकाशात्कचित्।
त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः
को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगम॥

सकलोपजीवी यथार्यभट्टस्य—

‘शब्दैर्निसर्गकटुभिर्मलिनखभावाः
श्रोत्रं खला निगडवत्परितस्तुदन्ति।

श्रव्यैरलुप्तपदबन्धतयातिमञ्जु-
मञ्जीरवत्तु सुजना जनयन्ति मोदम्॥’

यथा च भट्टबाणस्य—

‘कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव।
मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव॥’

भुवनोपजीव्यो यथा भगवान्व्यासः—

तथा चोक्तम्—

‘इदं कविवरैः सर्वैराख्यानमुपजीव्यते।
उदयं प्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥’

प्राप्तगिरः कवेः शिक्षास्तावदाह—

व्रतं सारस्वतो यागः पूर्वं विघ्नेशपूजनम्।
विवेकशक्तिरभ्यासः संधानं प्रौढिरश्रमः॥२॥

वृत्तपूरणमुद्योगः पाठः परकृतस्य च।
काव्याङ्गविद्याधिगमः समस्यापरिपूरणम्॥३॥

सहवासः कविवरैर्महाकाव्यार्थचर्वणम्।
आर्यत्वं सुजनैर्मैत्री सौमनस्यं सुवेषता॥४॥

नाटकाभिनयप्रेक्षा शृङ्गारालिङ्गिता मतिः।
कवीनां संभवे दानं गीतेनात्माधिवासनम्॥५॥

लोकाचारपरिज्ञानं विविक्ताख्यायिकारसः।
इतिहासानुसरणं चारुचित्रनिरीक्षणम्॥६॥

शिल्पिनां कौशलप्रेक्षा वीरयुद्धावलोकनम्।
शोकप्रलापश्रवणं श्मशानारण्यदर्शनम्॥७॥

व्रतिनां पर्युपासा च नीडायतनसेवनम्।
मधुरस्निग्धमशनं धातुसाम्यमशोकता॥८॥

निशाशेषे प्रबोधश्व प्रतिभा स्मृतिरादरः।
सुखासनं दिवा शय्या शिशिरोष्णप्रतिक्रिया॥९॥

आलोकः पत्रलेख्यादौ गोष्टीप्रहसनज्ञता।
प्रेक्षा प्राणिभावानां समुद्राद्रिस्थितीक्षणम्॥१०॥

रवीन्दुताराकलनं सर्वर्तुपरिभावनम्।
जनसंघाभिगमनं देशभाषोपजीवनम्॥११॥

आधानोद्धरणप्रज्ञा कृतसंशोधनं मुहुः।
अपराधीनता यज्ञसभाविद्यागृहस्थितिः॥१२॥

अतृष्णता निजोत्कर्षे परोत्कर्षविमर्शनम्।
आत्मश्लाघाश्रुतौ लज्जा परश्लाघानुभाषणम्॥१३॥

सदा स्वकाव्यव्याख्यानं वैरमत्सरवर्जनम्।
परोन्मेषजिगीषा च व्युत्पत्त्यैसर्वशिष्यता॥१४॥

पाठस्यावसरज्ञत्वं श्रोतृचित्तानुवर्तनम्।
इङ्गिताकारवेदित्वमुपादेयनिबन्धनम्॥१५॥

उपदेशविशेषोक्तिरदीर्घरससंगतिः।
स्वसूक्तप्रेषणं दिक्षु परसूक्तपरिग्रहः॥१६॥

वैदग्ध्यं पटुताभङ्गिर्निःसङ्गैकान्तनिर्वृतिः।
आशापाशपरित्यागः संतोषः सत्त्वशीलता॥१७॥

अयाचकत्वमग्राम्यपदालापः कथास्वपि।
काव्यक्रियासु निर्बन्धो विश्रान्तिश्चान्तरान्तरा॥१८॥

नूतनोत्पादने यत्नः साम्यं सर्वसुरस्तुतौ।
पराक्षेपसहिष्णुत्वं गाम्भीर्यं निर्विकारता॥१९॥

अविकत्थनतादैन्यं परेषां नष्टयोजनम्।
पराभिप्रायकथनं परसादृश्यभाषणम्॥२०॥

सप्रसादपदन्यासः ससंवादार्थसंगतिः।
निर्विरोधरसव्यक्तिर्युक्तिर्व्याससमासयोः॥२१॥

प्रारब्धकाव्यनिर्वाहः प्रवाहश्चतुरो गिराम्।
शिक्षाणां शतमित्युक्तं युक्तं प्राप्तगिरः कवेः॥२२॥

इति बहुतरशिक्षालक्षणक्षीणदोषे
प्रभवति गतनिद्रे प्रातिभे सुप्रभाते।
कविरविरविलुप्तव्याप्तिभिः सूक्तपादै-
र्नयति नवनवत्वं भावभावस्वभावम्॥२३॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे
[ प्राप्तगिरः कवेः शिक्षाकथनं ] द्वितीयः संधिः।


तृतीयः संधिः।

अथ शिक्षितस्य कवेः सूक्तिचमत्कारमाह—

सुकविरतिशयार्थी वाक्चमत्कारलोभा-
दभिसरति मनोज्ञे वस्तुशब्दार्थसार्थे।
भ्रमर इव वसन्ते पुष्पकान्ते वनान्ते
नवकुसुमविशेषामोदमास्वादलोलः॥१॥

नहि चमत्कारविरहितस्य कवेः कवित्वं काव्यस्य वा काव्यत्वम्।

एकेन केनचिदनर्घमणिप्रभेण
काव्यं चमत्कृतिपदेन विना सुवर्णम्।
निर्दोषलेशमपि रोहति कस्य चित्ते
लावण्यहीनमिव यौवनमङ्गनानाम्॥२॥

चमत्कारविरहो यथा मालवरुद्रस्य—

‘वेल्लत्पल्लव संमिलल्लत लसत्पुष्प स्फुटत्कुड्मल
स्फूर्जद्गुच्छभर क्वणन्मधुकरक्रीडाविनोदाकर।
रक्ताशोक सखे दयां कुरु हर प्रारब्धमाडम्बरं
प्राणाः कण्ठमुपागताः प्रियतमो दूरे त्वमेवंविधः॥’

चमत्कारो यथा कालिदासस्य

‘रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै-
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि।
कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः
सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः॥

तत्र दशविधश्चमत्कारः—अविचारितरमणीयः, विचार्यमाणरमणीयः, समस्तसूक्तव्यापी, सूक्तैकदेशदृश्यः, शब्दगतः, अर्थगतः,शब्दार्थगतः, अलंकारगतः, रसगतः, प्रख्यातवृत्तिगतश्च।

अविचारितरमणीयो यथा मम शशिवंशे—

‘शूराः सन्ति सहस्रशः सुचरितैः पूर्णं जगत्पण्डितैः
संख्या नास्ति कलावतां बहुतरैःशान्तैर्वनान्ताः श्रिताः।
त्यक्तुं यः किल वित्तमुत्तममतिः शक्नोति जीवाधिकं
सोऽस्मिन्भूमिविभूषणं शुभनिधिर्भव्यो भवे दुर्लभः॥’

विचार्यमाणरमणीयो यथा मम पद्यकादम्बर्याम्—

‘अङ्गेऽनङ्गज्वरहुतवहश्चक्षुषि ध्यानमुद्रा
कण्ठे जीवः करकिसलये दीर्घशायी कपोलः।
अंसे वीणा कुचपरिसरे चन्दनं वाचि मौनं
तस्याः सर्वं स्थितमिति न तु त्वां विना कापि चेतः॥’

समस्तसूक्तव्यापी यथा मम शशिवंशे—

‘माधुर्यानुभवेऽपि ते सुवदने तीक्ष्णाः कटाक्षाः परं
पर्यन्तस्थिततारका अपि नृणां रागानुबन्धोद्यताः।
नैवोज्झन्ति विवेकिनश्चपलतामुत्सेकसंवादिनी-
माश्चर्यं श्रवणौ स्पृशन्ति च पुनर्मारं च कुर्वन्त्यमी॥’

सूक्तैकदेशदृश्यो यथा मम पद्यकादम्बर्याम्—

‘नित्यार्चा हृदयस्थितस्य भवतः पद्मोत्पलैश्चन्दनै-
स्त्वद्भक्तिस्त्वदनुस्मृतिश्च मनसि त्वन्नाममन्त्रे जपः।
सर्वत्रैव घनानुबन्धकलना त्वद्भावना सुभ्रुव-
स्तस्या जीवविमुक्तिरेव दिवसैर्देव त्वदाराधनात्॥’

शब्दगतो यथा मम चित्रभारतनाटके—

‘इतश्चञ्चच्चूतच्युतमधुचया वान्ति चतुराः
समीराः संतोषं दिशि दिशि दिशन्तो मधुलिहाम्।
निशान्ते कान्तानां स्मरसमरकेलिश्रममुषो
विजृम्भन्ते जृम्भाकलितकमलामोदसुहृदः॥’

अर्थगतो यथा मम लावण्यवत्याम्—

‘सदासक्तं शैत्यं विमलजलधारापरिचितं
घनोल्लासः क्ष्माभृत्पृथुकटकपाती वहति यः।
विधत्ते शौर्यश्रीश्रवणनवनीलोत्पलरुचिः
स चित्रं शत्रूणां ज्वलदनलतापं भवदसिः॥’

शब्दार्थगतो यथा मम पद्यकादम्बर्याम्—

‘किंचित्कुञ्चितकामकार्मुकलतामैत्री विचित्रा भ्रुवो-
र्नर्मोक्तिः स्मितकान्तिभिः कुसुमिता प्रागल्भ्यगर्भा गिरः।

रागोत्सङ्गनिषङ्गिभिः सरसतासंवादिभिर्विभ्रमै-
रायुष्यं परमं तया रतिपतेः प्राप्तं मृगाक्ष्या वयः॥’

अलंकारगतो यथा मम लावण्यवत्याम्—

‘स्तनौ स्तब्धौ तीक्ष्णं नयनयुगलं निम्नमुदरं
भ्रुवोर्वक्तावृत्तिर्विहितमुनिमारोऽधरमणिः।
तथासन्ने दैवादिति विषमे दुर्जनगणे
गुणी मध्ये हारः स्पृशति तब दोलातरलताम्॥’

रसगतो यथा मम कनकजानक्याम्—

‘अत्रार्यः खरदूषणत्रिशिरसां नादानुबन्धोद्यमे

रुन्धाने भुवनं त्वया चकितया योद्धा निरुद्धः क्षणम्।
सस्नेहाः सरसाः सहासरभसाः सभ्रूभ्रमाः सस्पृहाः
सोत्साहास्त्वयि तद्बले च निदधे दोलायमाना दृशः॥’

प्रख्यातवृत्तिगतो यथा मम शशिवंशे—

‘अयं गच्छत यच्छत स्वपृतनां व्यूहक्षितिं रक्षत
क्षोणीं पश्यत नश्यत द्रुततरं मा मा स्थितिं मुञ्चत।

यत्रातिष्ठत पृष्ठतस्तनुभिदामुग्रा गतिः पत्रिणा—

मित्यासीज्जनभञ्जने रथपथे पार्थस्य पृथ्वी श्रुतिः॥’

इत्युक्त एष सविशेषचमत्कृतीनां
सारः प्रकारपरभागविभाव्यमानः।
कर्पूरवेध इव वाधुगन्धयुक्ते-
श्चैत्रासवस्य सहकाररसाधिवासः॥३॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे चमत्कारकथनंतृतीयः संधिः।


अथ गुणदोषविभागः—

काव्यैकपात्रविलसद्गुणदोषदुग्ध-
पाथःसमूहपृथगुद्धरणे विदग्धाः।
जानन्ति कर्तुमभियुक्ततया विभागं
चन्द्रावदातमतयः कविराजहंसाः॥१॥

तत्र शब्दवैमल्यमर्थवैमल्यं रसवैमल्यमिति त्रयः काव्यगुणाः।शब्दकालुष्यमर्थकालुष्यं रसकालुष्यमिति काव्यदोषाः। सगुणं निर्गुणंसदोषं निर्दोषं सगुणदोषं च काव्यम्।

शब्दवैमल्यं यथा मम पद्यकादम्बर्याम्—

‘तत्कालोपनते वयस्यनिधने हा पुण्डरीकेति त-
न्मोहव्यञ्जनमश्मभञ्जनमलं जीवस्य संतर्जनम्।
कुञ्जव्यापि कपिञ्जलेन करुणं निस्पन्दमाक्रन्दितं
येनाद्यापि च तैः स्मृतेन हरिणैः शष्पं परित्यज्यते॥’

अर्थवैमल्यं यथा मम शशिवंशे—

‘स्निग्धश्यामलशाद्वले फलतरुच्छायानिपीतातपे
चञ्चद्वीचिचयोच्छलत्कलकले निःसङ्गगङ्गातटे।
अन्योन्याभिमुखोपविष्टहरिणे स्वस्थैर्यदि स्थीयते
तत्का श्रीः किमकाण्डभङ्गुरसुखैर्मोहस्य दत्तोऽञ्जलिः॥’

रसवैमल्यं यथा मम पद्यकादम्बर्याम्—

‘अथोद्ययौ बालसुहृत्स्मरस्य श्यामाधवः श्यामललक्ष्मभङ्ग्या।
तारावधूलोचनचुम्बनेन लीलाविलीनाञ्जनबिन्दुरिन्दुः॥’

शब्दकालुष्यं यथा भट्टश्रीशिवस्वामिनः194 द्विपदीशतान्यथमहाकाव्यानि सप्त क्रमान्त्र्यक्षप्रत्यहनिर्मितस्तुतिकथालक्षाणि चैकादश। कृत्वानाटकनाटिकाप्रकरणप्रायान्प्रबन्धान्बहून्विश्राम्यत्यधुनापि नातिशयिता वाणी शिवस्वामिनः॥’ इति सूक्तिमुक्तावली कस्यचिच्छ्लोकः”)—

‘उत्खातप्रखरा सुखासुखसखी खङ्गासिता खेलगा
वैशृङ्खल्यखलीकृताखिलखला खे(खा)त्खेष्टकैः ख्यापिता !
खेटादुत्खनितुं निखर्वमनसां मौर्ख्वंमुखात्खक्खटं
निःसंख्यान्यनिखर्वसर्वमणिभूराख्यातु संख्यानि वः॥’

अर्थकालुष्यं यथा तस्यैव—

‘पित्रापि त्रायते या न खलु खलधृताज्ञानमात्रपमात्रा
स्योनस्योनस्थितेर्भूरनुनयविरमद्दामपाशाप्यपाशा।
वर्षावर्षाम्बुपातात्रुटिततृणवसत्यश्रियातां श्रियातां
सौरी सौरीष्टयाग्रेसरदिह जनतां साश्नुवानांश्नुवानाम्॥’

सायं यथा भट्टनारायणस्य वेणीसंहारे—

‘भानुमत्या नकुलप्राणिस्दवप्नदर्शने पाण्डवनकुलस्वैरसंगमेर्ष्या सद्भावश्चक्रवर्तिमहिष्याः सामान्यनीचवनितावत्॥’

सगुणं यथा कालिदासस्य—

‘श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं
गण्डच्छायां शशिनि शिखिनां बर्हमारेषु केशान्।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासा-
न्हन्तैकस्थं क्वचिदपि न ते चण्डि सादृश्यमस्ति॥’

निर्गुणं यथा चन्द्रकस्य—

‘स्तनौ सुपीनौ कठिनौ ठिनौ ठिनौ कटिर्विशाला रभसा भसा भसा !
मुखं च चन्द्रप्रतिमं तिमं तिमं अहो सुरूपा तरुणी रुणी रुणी॥’

सदोषं यथा भट्टश्रीशिवस्वामिनः—

‘आद्यत्वावधि शिण्ढिशिण्ढि दृढतागूढानि गूढेतरां
प्रौढिं ढौकय पिण्ढि पिण्ढिच रुजं रूढापरूढां तया।
मूढं मूढममूढयस्व हृदयं लीढ्वाथ मूढा तमः
सोऽव्यूढामिति च प्रभापरिवृढाव्यूढा द्रढिम्नेऽस्तु वः॥

निर्दोषं यथा श्रीभीमसाहेः सांधिविग्रहिकस्येन्द्रेभानोः195

‘स्नातुं वाञ्छसि किं मुधैव घवलक्षीरोदफेनच्छटा—

छायाहारिणि वारिणि घुसरितो दिक्पूरविस्तारिणि।
आस्ते ते कलिकालकल्मषमषीप्रक्षालनैकक्षमा
कीर्तिः संनिहितैव सप्तभुवनस्वच्छन्दमन्दाकिनी॥’

सगुणदोषं यथा भट्टमयूरस्य196

‘अस्तव्यस्तत्वशून्यो निजरुचिरनिशानश्वरं (रः) कर्तुमीशो
विश्वं वेश्मेव दीपः प्रतिहततिमिरं यः प्रदेशस्थितोऽपि।
दिक्कालापेक्षयासौ त्रिभुवनमटतस्तिग्मभानोर्नवाख्यां
यातः शातक्रतव्यां दिशि दिशतु शिवं शोचिषामुमो वः॥

इति गदितगुणार्थी त्यक्तनिर्दिष्टदोषः
कविरुचिरपदस्थचक्रवर्तित्वसिद्ध्यै।
किमपि कृतविवेकः साधुमध्याधमानां
नृप इव परिरक्षेत्संकरं वर्णवृत्तेः॥२॥

इति श्रीव्यासदासापराख्य क्षेमेन्द्रकृते कविकण्ठाभरणे गुणदोषविभागश्चतुर्थः संधिः।

पञ्चमः सन्धिः

अथ परिचयचारुत्वमाह—

नहि परिचयहीनः केवले काव्यकष्टे
कुकविरभिनिविष्टः स्पष्टशब्दप्रविष्टः।
विबुधसदसि पृष्टः क्लिष्टधीर्वेति वक्तुं
नव इव नगरान्तर्गह्वरे कोऽप्यधृष्टः॥१॥

तत्र तर्कव्याकरणभरतचाणक्यवात्स्यायनभारतरामायणमोक्षोपायात्मज्ञानधातुवादरत्नपरीक्षावैद्यकज्यौतिषधनुर्वेदगजतुरगपुरुषलक्षणद्यूतेन्द्रजालप्रकीर्णेषु परिचयः कविसाम्राज्यव्यञ्जनः।

तर्कपरिचयो यथा मम पद्यकादम्बर्याम्—

‘यत्प्राप्यं न मनोरथैर्न वचसा स्वप्नेऽपि दृश्यं न य-
त्तत्रापि स्मरविप्रलब्धमनसां लाभाभिमानग्रहः।
मोहोत्प्रेक्षितशुक्तिकारजतवत्प्रायेण यूनां भ्रमं
दत्ते तैमिरिकद्विचन्द्रसदृशं खे नूनमाशाकृषिः॥’

व्याकरणपरिचयो यथा भट्टमुक्तिकलशस्य197

‘द्विगुरपि सद्वन्द्वोऽहं गृहे च मे सततमव्ययीभावः।
तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः॥’

भरतपरिचयो यथा भट्टश्रीशिवस्वामिनः—

‘आतन्वन्सरसां स्वरूपरचनामानन्दि

विन्दूदयं
भावग्राहि शुभप्रवेशकगुणं गम्भीरगर्भस्थिति।
उच्चैर्वृत्ति सपुष्करव्यतिकरं संसारविष्कम्भकं
भिन्द्याद्वो भरतस्य भाषितमिव ध्वान्तं पयो यामुनम्॥

चाणक्यपरिचयो यथा मम पद्यकादम्बर्याम्—

‘स्वामी प्रमादेन मदेन मन्त्री कोपेन राष्ट्रं व्यसनेन कोषः।
छिद्रेण दुर्गं विषमेण सैन्यं लोमेन मित्रं क्षयमेति राज्ञाम्॥’

वात्स्यायनपरिचयो यथा भट्टदामोदरगुप्तस्य198

‘अधरे199 बिन्दुः कण्ठे मणिमाला कुचयुगे शशलुतकम्।
तव सूचयन्ति सुन्दरि कुसुमायुधशास्त्रपण्डितं रमणम्॥’

भारतपरिचयो यथा मम देशोपदेशे—

‘भगदत्तप्रभावाढ्या कर्णशल्योत्कटस्वना।
सेनेव कुरुराजस्य कुट्टनी किं तु निष्कृपा॥’

रामायणपरिचयो यथा भट्टवाचस्पतेः—

‘जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम्।
कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता॥’

मोक्षोपायपरिचयो यथा मम मुक्तावल्याम्—

‘निरासङ्गा प्रीतिर्विषयनियमोऽन्तर्न तु बहिः
स्वभावे भावानां क्षयजुषि विमर्शः प्रतिदिनम्।
अयं संक्षेपेण क्षपिततमसामक्षयपदे
तपोदीक्षाक्षेपक्षपणनिरपेक्षः परिकरः॥”

आत्मज्ञानपरिचितिर्यथा मम चित्रभारतनाम्नि नाटके—

‘पृथुशास्त्रकथाकन्थारोमन्थेन वृथैव किम्।
अन्वेष्टव्यं प्रयत्नेन तत्त्वज्ञैर्ज्योतिरान्तरम्॥’

धातुवादपरिचयो यथा राजशेखरस्य—

‘नखदलितहरिद्रामन्थिगौरे शरीरे
स्फुरति विरहजन्मा कोऽप्ययं पाण्डुभावः।
बलवति सति यस्मिन्सार्धमावर्त्य हेम्ना
रजतमिव मृगाक्ष्याः कल्पितान्यङ्गकानि॥’

रत्नपरीक्षापरिचयो भट्टभल्लटस्य—

‘द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः।
बहुविधोर्व्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः॥’

वैद्यकपरिचयो यथा मम पद्यकादम्बर्याम्—

‘अङ्गं चन्दनपङ्कपङ्कजबिसच्छेदावलीनं मुहु-
स्तापः शाप इवैष शोषणपटुः कम्पः सखीकम्पनः।
श्वासाः संवृततारहाररुचयः संभिन्नचीनांशुका
जातः प्रागतिदाहवेदन महारम्भः स तस्या ज्वरः॥’

ज्योतिःशास्त्रपरिचयो यथा विद्यानन्दस्य—

‘द्यामालोकयतां कलाः कलयतां छायाः समाचिन्वतां
क्लेशः केवलमङ्गुलीर्गणयतां मौहूर्तिकानामयम्।
धन्या सा रजनी तदेव सुदिनं पुण्यः स एव क्षणो
यत्राज्ञातचरः प्रियानयनयोः सीमानमेति प्रियः॥

धनुर्वेदपरिचयो यथा मम कनकजानक्याम्—

‘आर्यस्यास्त्रघनौघलाघववती संधानसंबन्धिनी
स्थाणुस्थानकसौष्ठवप्रणयिनी चित्रक्रियालंकृतिः।

निष्पन्देन मयातिविस्मयमयी सत्यस्थितप्रत्यया
संहारे खरदूषणत्रिशिरसामेषैव दृष्टा स्थितिः॥

गजलक्षणपरिचयो यथा मम कनकजानक्याम्—

‘कर्णाभ्यर्णविकीर्णचामरमरुद्विस्तीर्ण निःश्वासवा-
ञ्छङ्खच्छत्रविराजिराज्यविभवद्वेषी विलीनेक्षणः।
स्मृत्वा राघवकुञ्जरः प्रियतमामेकाकिनीं कानने
संत्यक्तां चिरमुक्तभोगकवलः क्लेशोष्मणा शुष्यति॥’

तुरगलक्षणपरिचयो यथा ममामृततरङ्गनाम्नि काव्ये—

‘आवर्तशोभी पृथुसत्त्वराशिः फेनावदातः पवनोरुवेगः।
गम्भीरघोषोऽद्रिविमर्दखेदादश्वाकृतिं कर्तुमिवोद्यतोऽब्धिः॥

उच्चैःश्रवाः शक्रमुपाजगाम स विश्वसाम्राज्यजयप्रदोऽश्वः।
जग्राह हेलाघनशङ्खशब्दनिवेदिताशेषशुभं तमिन्द्रः॥’

(युग्मम् )

पुरुषलक्षणपरिचयो यथा कालिदासस्य—

‘व्यूढोरस्को वृषस्कन्धः सालप्रांशुर्महाभुजः।
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः॥’

द्यूतपरिचयो यथा चन्द्रकस्य—

‘यत्रानेके क्वचिदपि गृहे तत्र तिष्ठत्यथैको
यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते।
इत्थं नेयौ रजनिदिवसौ तोलयन्द्वाविवाक्षौ
कालः काल्या सह बहुकलः क्रीडति प्राणिसारैः॥’

इन्द्रजालपरिचयो यथा श्रीहर्षस्य—

‘एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शंकरोऽयं
दोर्भिर्दैत्यान्तकोऽसौ सधनुरसिगदाचक्रचिह्नैश्चतुर्भिः।

एषोऽप्यैरावणस्थस्त्रिदशपतिरमी देवि देवास्तैथगिरां
नृत्यन्त्यो व्योम्नि चैताश्चलचरणरणन्नूपुरा दिव्यन्यार्थिनाम्।

प्रकीर्णे चित्रपरिचयोयथा भगवतो व्यासस्य—

‘अतथ्यान्यपि तथ्यानि दर्शयन्ति विचक्षणाः।
समे निम्नोन्नतानीव चित्रकर्मविदो जनाः॥’

देशपरिचयो यथा मम शशिवंशे—

‘भोजैर्भञ्जनभीरुभिर्विलुलितं व्यामीलितं मालवै-
र्मद्वैर्विद्रुमेव यातमसकृन्मार्गादधो मागधैः।
वङ्गानामभिमन्युकङ्कणरवैर्व्राते पुरः सूचिते
मीनैः संकुचितं परस्परधृतैर्नीरन्धमन्त्रैः स्थितम्॥’

वृक्षपरिचयो यथा मम कनकजानक्याम्—

‘जम्बूबिम्बकदम्बनिम्बबकुलप्लक्षाक्षभल्लातक-
द्राक्षाकिंशुककर्णिकारकदलीजम्बीरकोदुम्बरैः।
सा संतानकबिल्वतिल्वतिलकश्लेष्मातकारग्वध-

न्यग्रोधार्जुनशातनासनवनश्यामान्ददर्शाश्रमान्॥’

वनेचरपरिचयो यथा मम तत्रैव—

‘वामस्कन्धनिषण्णशार्ङ्गकुटिलप्रान्तार्पिताधोमुख-
स्यन्दच्छोणितलम्बमानशशकान्पाणिस्खलच्चामरान्।
ज्यान्तप्रोतकपोतपोतनिपतद्रत्ताक्ततूणीरका-
न्सापश्यत्करिकुम्भभेदजनिताक्रन्दान्पुलिन्दान्पुरः॥’

औदार्यपरिचयो यथा मम चतुर्वर्गसंग्रहे—

‘मान्यः कुलीनः कुलजात्कलावान्विद्वान्कलाज्ञाद्विदुषः सुशीलः।
धनी सुशीलाद्धनिनोऽपि दाता दातुर्जिता कीर्तिरयाचकेन॥’

अचेतनचेतनाध्यारोपपरिचयोयथा मच्छिष्यमहाश्रीभट्टोदयासिंहस्य ललिताभिधाने महाकाव्ये—

‘इह विकसदशोकास्तोकपुष्पोपकारै-
रयमतिशयरक्तः सक्तसुस्निग्धभावः।
त्रिभुवनजयसज्जः प्राज्यसाम्राज्यभाजः
प्रथयति पृथुमैत्रीं पुष्पचापस्य चैत्रः॥’

भक्तिपरिचयो यथास्यैव भक्तिभवनाम्निमहाकाव्ये—

‘बाल्यादेव निरर्गलप्रणयिनी भक्तिर्भवानीपतौ
जन्माभ्यासविकासवासितमनःसंवाससंदायिनी।
प्रायः प्राक्तनकर्मनिर्मितमहामोहप्ररोहापहा

भव्यानां भवभीतिभञ्जनसखी संजायते सन्मतिः॥’

विवेकपरिचयो यथा मच्छिष्यराजपुत्रलक्ष्मणादित्यस्य—

‘आशापाशविमुक्तियुक्तममलं संतोषमान्यं मनः
सेवायासविवर्जितं विहरणं मायाविहीनं वचः।
चण्डीशार्चनमात्मशुद्धिजननी गङ्गेव सत्संगतिः
सोऽयं संतरणे परः परिकरः संसारवारां निधेः॥’

प्रशमपरिचयो यथा मम चतुर्वर्गसंग्रहे—

‘चित्तं वातविकासिपांसुसचिवं रूपं दिनान्तातपं
भोगं दुर्गतगेहबन्धचपलं पुष्पस्मितं यौवनम्।
स्वप्नं बन्धुसमागमं तनुमपि प्रस्थानपुण्यप्रपां
नित्यं चिन्तयतां भवन्ति न सतां भूयो भवग्रन्थयः॥’

इत्युक्ता रुचिरोचिता परिचयप्राप्तिर्विभागैर्गिरां

दिङ्मात्रेण विचित्रवस्तुरचनामैत्रीपवित्रीकृता।
यद्यस्त्यत्र नवोपदेशविषये लेशेऽप्युपादेयता
तत्सद्भिर्गुणकौतुकादवसरः श्रोतुं समाधीयताम्॥२॥

कृत्वा निश्चलदैवपौरुषमयोपायं प्रसूत्यै गिरां
क्षेमेन्द्रेण यदर्जितं शुभफलं तेनास्तु काव्यार्थिनाम्।
निर्विघ्नमतिभाप्रभावसुभगा वाणी प्रमाणीकृता
सद्भिर्वाग्भवमन्त्रपूतविततश्रोत्रामृतस्यन्दिनी॥३॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे परिचयप्राप्तिः पञ्चमः संधिः।

काश्मीरेषु पृथुप्रतापसवितुः कीर्त्यंशुतारापतेः
प्रौढाराविनानलस्य धनदस्येन्द्रस्य भूमण्डले।
विश्वाकारवतः पुनः कलियुगे विष्णोरिवोत्साहिनो
राज्ये श्रीमदनन्तराजनृपतेः काव्योदयोऽयं कृतः॥

इति कविकण्ठाभरणं समाप्तम्।


महाकविश्रीभल्लटकृतं^(१)

भल्लटशतकम्।

युष्माकम^(२)म्बरमणेः प्रथमे मयूखा-
स्ते मङ्गलं विदधतूदयरागभाजः।


१.ख्रिस्तसंवत्सरीयदशमशतकसमाप्तिसमये विद्यमानेन श्रीमदभिनवगुप्ताचार्येणास्य शतकस्य बहवः श्लोका लोचनाख्यायां ध्वन्यालोकव्याख्यायामुदाहृताः सन्ति, तस्मादयं भल्लटकविः किंचिदूननवशतवर्षेभ्योऽपि प्राचीनोऽस्ति भावि चायं काश्मीरक एव. अस्य शतकस्य श्लोकाः काव्यप्रकाशादिषु, सुभाषितावल्यादिषु, क्षेमेन्द्रग्रन्थेषु च बहवः समुपलभ्यन्ते एतच्छत कमपहायान्यः कोऽपि ग्रन्थ एतत्कृतो न प्राप्तः। केषुचिच्छार्ङ्गधरपद्धतिपुस्तकेषु कैश्चन महापण्डितैः ‘भल्लटः’ इति नामार्थहीनं पश्यद्भिः ‘भट्टमल्लः’, ‘मलभट्टः’ इत्यादि शोधनमपि कृतमस्ति।आसीत्कश्चन धातुपाठप्रणेता भट्टमल्लोऽपि, यो मल्लिनाथेन माघादिटीकासु स्मृतोऽस्ति।२.‘युष्माकम्’ इत्यादि मङ्गलाचरणश्लोकः सुभाषिताबलौ प्रमादाद्भागवतामृतदत्तनाम्रा समुद्धृतोऽस्ति एवमन्येऽपि केचनात्रत्याः श्लोकाः सुभाषितावलि-शार्ङ्गधरपद्धत्यादिष्वन्यकविनाम्ना समुद्धृता दृश्यन्ते।

कुर्वन्ति ये दिवसजन्ममहोत्सवेषु
सिन्दूरपाटलमुखीरिव दिक्पुरंध्रीः॥१॥

बद्धा यदर्पणरसेन विमर्दपूर्व-
मर्थान्कथं झटिति तान्प्रकृतान्न दद्युः।
चोरा इवातिमृदवो महतां कवीना-
मर्थान्तराण्यपि हठाद्वितरन्ति शब्दाः॥२॥

काचो मणिर्मणिः काचो येषां तेऽन्ये हि देहिनः।
सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः॥३॥

नन्वाश्रयस्थितिरियं तव कालकूट
केनोत्तरोत्तरविशिष्टपदोपदिष्टा।
प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ
कण्ठेऽधुना वससि वाचि पुनः खलानाम्॥४॥

द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि200 दीपिका।
बहुविधा201भ्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः॥५॥

श्रीर्विशृङ्खलखलाभिसारिका वर्त्मभिर्घनतमोमलीमसैः।
शब्दमात्रमपि सोढुमक्षमा भूषणस्य गुणिनः समुत्थितम्॥६॥

माने नेच्छति वारयत्युपशमे क्ष्मामालिखन्त्यां ह्रियां
स्वातन्त्र्येपरिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते।
तृष्णे त्वामनुबध्नता फलमियत्प्राप्तं जनेनामुना
यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते॥७॥

पततु वारिणि यातु दिगन्तरं विशतु वह्निमथ व्रजतु क्षितिम्।
रविरसावियतास्य गुणेषु का सकललोकचमत्कृतिषु क्षतिः॥८॥

सद्वृत्तयः सदसदर्थविवेकिनो ये
ते पश्य कीदृशममुं समुदाहरन्ति।
चौरासतीप्रभृतयो ब्रुवते यदस्य
तद्गृह्यते यदि कृतं तदहस्करेण॥९॥

पातः पूष्णो भवति महते नोपतापाय यस्मा-
त्कालेनास्तं क202इह न ययुर्यान्ति यास्यन्ति चान्ये।
एतावत्तु व्यथयतितरां203 लोकबाह्यैस्तमोभि-
स्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोऽवकाशः॥१०॥

पङ्क्तौविशन्ति गणिताः प्रतिलोमवृत्त्या
पूर्वे भवेयुरियताप्यथवा त्रपेरन्।
सन्तोऽप्यसन्त इव चेत्प्रतिभान्ति भानो-
र्भासावृते नभसि शीतमयूखमुख्याः॥११॥

गते तस्मिन्भानौ त्रिभुवनसमुन्मेषविरह-
व्यथां चन्द्रो नैष्यत्यनुचितमतो नास्त्यसदृशम्।
इदं चेतस्तापं जनयतितरामत्र यदमी
प्रदीपाः संजातास्तिमिरहतिबद्धोद्धुरशिखाः॥१२॥

सूर्यादन्यत्र यच्चन्द्रेऽप्यर्था204संस्पर्शि तत्कृतम्।
खद्योत इति कीटस्य नाम तुष्टेन केनचित्॥१३॥

घनसंतमसमलीमसदशदिशि निशि यद्विराजसि तदन्यत्।
कीटमणे दिनमधुना तरणि205करस्थगितसितकिरणम्॥१४॥

सत्त्वान्तःस्फुरिताय वा कृतगुणाध्यारोपतुच्छाय वा
तस्मै कातरमोहनाय महसो लेशाय मां स्वस्ति भूत्।
यच्छायाच्छुरणारुणेन खचिता खद्योतनाम्नामुना
कीटेनाहितयापि जङ्गममणिभ्रान्त्या विडम्ब्यामहे॥१५॥

दन्तान्तकुन्तमुखसंततपातघात-
संताडितोन्नतगिरिर्गज एव वेत्ति।
पञ्चास्यपाणिपविपञ्जरपातपीडां
न क्रोष्टुकः श्वशिशुहुंकृतिनष्टचेष्टः॥१६॥

अत्युन्नतिव्यसनिनः शिरसोऽधुनैष
स्वस्यैव चातकशिशुः प्रणयं विधत्ताम्।
अस्यैतदिच्छति यदि206 प्रततासु दिक्षु
ताः स्वच्छशीतमधुराः क्व नु नाम नापः॥१७॥

सोऽपूर्वोरसनाविपर्ययविधिस्तत्कर्णयोश्चापलं
दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा।
पूर्वं207 निश्चितवानसि भ्रमर हे यद्वाणोऽद्याप्यसा-
वन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः॥१८॥

तद्वैदग्ध्यं समुदितपयस्तोयतत्त्वं विवेक्तुं
संल्लापास्ते208 स च मृदुपदन्यासहृद्योविलासः।
आस्तां तावद्बक यदि तथा वेत्सि किंचिच्छ्लथांसं209
तूष्णीमेवासितुमपि210 सखे त्वं कथं मे न हंसः॥१९॥

पथि निपतितां शून्ये दृष्ट्वा निरावरणाननां
नवदधिघटीं गर्वोन्नद्धः समुद्धतकंधरः।
निजसमुचितास्तास्ताश्चेष्टा विकारशताकुलो
यदि न कुरुते काणः काकः कदा नु करिष्यति॥२०॥

नृत्यन्तः शिखिनो मनोहरममी श्राव्यं211 पठन्तः शुका
वीक्ष्यन्ते न त एष संप्रति रुषा वार्यन्तएवाधुना।
पान्थस्त्रीगृहमिष्टलाभकथनाल्लब्धान्वयेनामुना
संप्रत्येत्य212 निरर्गलं बलिभुजा मायाविना भुज्यते॥२१॥

करभ रभसात्क्रोष्टुं वाञ्छस्यहो श्रवणज्वरः
शरणमथवानृज्वी दीर्घा तथैव शिरोधरा।
बहु213गलबिलावृत्तिश्रान्तोच्चरिष्यति वाङ्मुखा-
दियति समये को जानीते भविष्यति कस्य किम्॥२२॥

अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः।
कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः॥२३॥

किं दीर्घदीर्घेषु गुणेषु पद्म सितेष्ववच्छादनकारणं ते।
अस्त्येव तान्पश्यति चेदनार्या त्रस्तेव लक्ष्मीर्न पदं विधत्ते॥२४॥

214पङ्कादुद्भूतिर्न जडसहवासव्यसनिता
वपु215र्दृश्यं कान्त्या स्थलकमल रक्तद्युतिमुषा।
व्यधास्यद्दुर्वेधा हृदयलघिमानं यदि न ते
त्वमेवैकं लक्ष्म्याः परममभविष्यः पदमिह॥२५॥

उच्चैरुच्चरतु चिरं झिल्ली216 वर्त्मनि तरुं समारुह्य।
दिग्व्यापिनि शब्दगुणे शङ्खः संभावनाभूमिः॥२६॥

शङ्खोऽस्थिशेषः स्फुटितो मृतो वा217 प्रोच्छ्वास्यतेऽन्यश्वसितेन सत्यम्।
किं तूच्चरत्येव न सोऽस्य शब्दः श्राव्यो न यो यो न सदर्थशंसी॥२७॥

यथापल्लवपुष्पास्ते218 यथापुष्पफलर्द्धयः।
यथाफलर्द्धि स्वारोहा हा मातः क्वागमन्द्रुमाः॥२८॥

साध्वेव तद्विधावस्य वेधा क्लिष्टो न यद्व्यधात्219
स्वरूपाननुरूपेण चन्दनस्य फलेन किम्॥२९॥

फलितघनविटपविघटितपटुदिनकरमहसि लसति कल्पतरौ।
छायार्थी कः पशुरपि भवति जरद्वीरुधां प्रणयी॥३०॥

ग्रथित एव220 मिथः कृतशृङ्खलैर्विषधरैरधिरुह्य महाजडः।
मलयजः सुमनोभिरनावृतो221 यदत एव फलेन वियुज्यते222॥३१॥

चन्दने विषधरान्सहामहे वस्तु सुन्दरमगुप्तिमत्कुतः।
रक्षितुं वद किमात्मगौरवं223 संचिताः खदिर कण्टकास्त्वया॥३२॥

यत्किंचनानुचितमप्युचितानुबन्धि
किं चन्दनस्य न कृतं कुसुमं फलं वा।
लज्जामहे भृशमुपक्रममेव यान्त224-
स्तस्यान्तिकं परिगृहीतबृहत्कुंठाराः225॥३३॥

लब्धं चिरादमृतवत्किममृत्यवे स्या-
द्दीर्घं रसायनवदायुरुत प्रदद्यात्।
एतत्फलं यदयमध्वगशापदग्धः
स्तब्धः खलः226 फलति वर्षशतेन तालः॥३४॥

अन्तः कर्कशता बहिश्च घटना मर्माविधैः कण्टके-
श्छायामण्डलसंस्पृशां तनुभृतामुद्वेजिनी संस्थितिः।
तन्नामास्तु विधेरिदं विलसितं बर्बूरशाखिन्सखे
शाखा ते फलशाखिनामपि वृतिः संपत्स्यते भूरुहाम्॥३५॥

एष श्रीमानविरलगुणग्रामणीर्नारिकेल-
श्छाया यस्य प्रभवति चिरं घर्मशान्त्यै जनानाम्।
तेनाम्भोभिः कतिचन जना वासरांस्तर्पयध्वं
दास्यत्येतच्छतगुणमयं वारि मूर्ध्ना दधानः॥३६॥

छिन्नस्तप्तसुहृत्स चन्दनतरुर्यस्मै227 पलाय्यागता
भोगाभ्याससुखासिकाः प्रतिदिनं ता विस्तृतास्तत्र वः।
दंष्ट्राकोटिविषोल्कया प्रतिकृतं तस्य प्रहर्तुर्न चे-
त्किं तेनैव सह स्वयं न दलशो228 याताः स्थ भो भोगिनः॥३७॥

संतोषः किमशक्तता किमथवा तस्मिन्नसंभावना
लोभो229 वायमुतानवस्थितिरियं प्रद्वेष एवाथवा।
आस्तां खल्वनुरूपया सफलया पुष्पश्रिया दुर्विधे
संबन्धोऽननुरूपयापि न कृतः किं चन्दनस्य त्वया॥३८॥

किं230जातोऽसि चतुष्पथे घनतरच्छायोऽसि किं छायया
युक्तश्चेत्फलितोऽसि किं फलभरैराढ्योऽपि किं संनतः।
हे सद्वृक्ष सहस्वसंप्रति सखे शाखा शिखाकर्षण-
क्षोभामोटनमञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः॥३९॥

सन्मूलः प्रथितोन्नतिर्घनलसच्छायः स्थितः सत्पथे
सेव्यः सद्भिरितीदमाकलयता तालोऽध्वगेनाश्रितः।
पुंसः शक्तिरियत्यसौ सफलता231 त्वद्याथवा श्वोऽथवा
काले क्वाप्यथवा कदाचिदथवा न232 त्वेव वेधाः प्रभुः॥४०॥

त्वन्मूले पुरुषायुषं गतमिदं गात्रेण233 संशुष्यता
क्षोदीयांसमपि क्षणं परमतः शक्तिः कुतः प्राणितुम्।
तत्स्वस्त्यस्तु विवृद्धिमेहि महतीमद्यापि का नस्त्वरा
कल्याणैः फलितासि तालविटपिन्पुत्रेषु पौत्रेषु वा॥४१॥

पश्यामः किमयं प्रपद्यत234 इति स्वल्पाभ्रसिद्धिक्रियै-
र्दर्पाद्दूरमुपेक्षितेन बलवत्कर्मेरितैर्मन्त्रिभिः।
लब्धात्मप्रसरेण रक्षितुमथाशक्तेन मुक्त्त्वाशनि
स्फीतस्तादृगहो235 घनेन रिपुणा दग्धो गिरिग्रामकः॥४२॥

साधूत्पातघनौघ साधु सुधियां ध्येयं धरायामिदं
कोऽन्यः कर्तुमलं तवैव घटते कर्मेदृशं दुष्करम्।
सर्वस्यौपयिकानि यानि कतिचित्क्षेत्राणि तत्राशनिः
सर्वानौपयिकेषु दग्धसिकतारण्येष्वपां वृष्टयः॥४३॥

लब्धायां तृषि गोमृगस्य विहगस्यान्यस्य वा कस्यचि-
दृष्ट्या स्याद्भवदीययोपकृतिरप्यास्तां दवीयस्यदः।
अस्यात्यन्तमहाजलस्य जलदारण्योषरस्यापि किं
जातं पश्य पुनः पुरेव परुषा सैवास्य दग्धा छविः॥४४॥

संत्यज्य पानाचमनोचितानि तोयान्तराण्यस्य सिसेविषोस्त्वाम्।
निजैर्न जिह्रेषि जलैर्जनस्य जघन्यकार्यौपयिकैः पयोद॥४५॥

आस्त्रीशिशु प्रथितयैष पिपासितेभ्यः
संरक्ष्यतेऽम्बुधिरपेयतयैव दूरात्।
दंष्ट्राकरालमकरालिकरालिताभिः
किं भाय236यत्यपरमूर्मिपरम्पराभिः॥४६॥

स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरभितः
क्रुशित्वा237 पुष्णासि238 श्रुतिकुहरमब्धे किमिति नः।
इहैकश्चूडालो ह्यजनि239 कलशादस्य सकलैः
पिपासोरम्भोभिश्चुलकमपि नाहर्तुमशकः240॥४७॥

सर्वासां त्रिजगत्यपामियमसावाधारता तावकी
प्रोल्लासोऽयमथो241तवाम्बुनिलये केयं महासत्त्वता।
सेवित्वा बहुभङ्गभीषणतनुं त्वामेव वेलाचल-
ग्रावस्रोतसि पाप तापकलहो यत्कापि निर्वाप्यते॥४८॥

नोद्वेगं यदि यासि यद्यवहितः कर्णं ददासि क्षणं
त्वां पृच्छामि यदम्बुधे किमपि तन्निश्चित्य देह्युत्तरम्।

नैराश्याति242शयातिमात्रमनिशं निःश्वस्य यद्दृश्यसे
तृप्यद्भिः पथिकैः कियत्तदधिकं स्यादौर्वदाहादतः॥४९॥

ग्रावणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी
मुक्तौघाः सिकताः प्रबाललतिका शैवालमम्भः सुधा।
तीरे कल्पमहीरुहाः किमपरं नाम्नापि243 रत्नाकरो
दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति॥५०॥

भिद्यतेऽनुप्रविश्यान्तर्यो यथारुच्युपाधिना।
विशुद्धिः कीदृशी तस्य जडस्य स्फटिकाश्मनः॥५१॥

चिन्तामणे भुवि न केनचिदीश्वरेण
मूर्ध्ना धृतो244ऽहमिति मा स्म सखे विषीदः।
नास्येव हि त्वदधिरोहण245पुण्यबीज-
सौभाग्ययोग्यमिह कस्यचिदुत्तमाङ्गम्॥५२॥

संवित्तिरस्त्यथ गुणाः प्रतिभान्ति लोके
तद्धि प्रशस्यमिह कस्य किमुच्यतां वा।
नन्वेवमेव सुमणे लुठ यावदायु-
स्त्वं मे जगत्प्रहसनेऽत्र कथाशरीरम् (?)॥५३॥

चिन्तामणेस्तृणमणेश्च कृतं विधात्रा
केनोभयोरपि मणित्वमदः समानम्।
नैकोऽर्थितानि दददर्थिजनाय खिन्नो
गृह्णञ्जरत्तृणलवं तु न लज्जतेऽन्युः॥५४॥

दूरे कस्यचिदेव कोऽप्यकृतधीर्नैवास्य वेत्त्यन्तरं
मानी कोऽपि न याचते मृगयते कोऽप्यल्पमूल्याशयः।
इत्थं प्रार्थितदानदुर्व्यसनिनो नौदार्यरेखोज्वला
जाता नैपुणदुस्तरेषु निकषस्थानेषु246 चिन्तामणिः॥५५॥

परार्थे247 यः पीडामनुभवति भङ्गेऽपि मधुरो
यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः।
न संप्राप्तो वृद्धिं स यदि भृशमक्षेत्रपतितः
किमिक्षोर्दोषोऽयं न पुनरगुणाया मरुभुवः॥५६॥

आम्राः किं फलभारनम्रशिरसो रम्याः किमूष्मच्छिदः
सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश्चम्पकाः।
एतास्ता निरवग्रहोग्रकरभोल्लीढा248र्धरूढाः पुनः
शम्यो भ्राम्यसि मूढ निर्मरुति किं मिथ्यैव मर्तुं मरौ॥५७॥

आ जन्मनः कुशलमण्वपि रे कुजन्म-
न्पांसो त्वया यदि कृतं वद तत्त्वमेव249
उत्थापितोऽस्यनलसारथिना यदर्थं
तुष्टेन250 तत्कुरु कल

ङ्कय विश्वमेतत्॥५८॥

निःसाराः सुतरां लघुप्रकृतयो योग्या न कार्ये क्वचि-
च्छुष्यन्तोऽद्य जरत्तृणाद्यवयवाः प्राप्ताः स्वतन्त्रेण ये।
अन्तःसारपराङ्मुखेण धिगहो ते मारुतेनामुना
पश्यात्यन्तचलेन सद्म251 महतामाकाशमारोपिताः॥५९॥

ये जात्या लघवः सदैव गणनां याता न ये कुत्रचि-
त्पद्भ्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरम्।
उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षेऽधुना252
तुङ्गानामुपरि स्थितिं क्षितिभृतां कुर्वन्त्यमी पांसवः॥६०॥

हे253दन्दशूक तदयोग्यमपीश्वरस्त्वां
वात्सल्यतो254 नयति नूपुरधाम सत्यम्।
आवर्जितालिकुलझंकृति255मूच्छितानि
किं शिञ्जितानि भवता256 क्षमतेऽत्र कर्तुम्॥६१॥

कल्लोल257वेल्लितदृषत्परुषप्रहारै
रत्नान्यमूनि मकरालय मा वमंस्थाः।
किं कौस्तुभेन विहितो भवतो न नाम
याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि॥६२॥

मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो
निर्यत्नोपनतैः स्ववृत्ति258रनिलैरेकत्र चर्येदृशी।
अन्यत्रानृजु वर्त्म वाग्विरसना दृष्टौ विषं दृश्यते
यादृक्तामनु दीपको ज्वलति नो259 भोगिन्सखे किं न्विदम्॥६३॥

भूयांस्यस्य मुखानि नाम विदितैवास्ते महाप्राणता260
कद्र्वाःसत्प्रसवोऽपि261 यत्र कुपिते चिन्त्यं यथेदं जगत्।

त्रैलोक्याद्भुतमीदृशं तु चरितं शेषस्य येनास्य सा
प्रोन्सृज्येव निवर्तिता विषधर262ज्ञातेयदुर्वर्णिका॥६४॥

लोके समस्त एवैकः श्लाघ्यः कोऽप्येष वासरः।
जनैर्महत्तयानीतो यो न पूर्वैर्न चापरैः॥६५॥

आबद्धकृत्रिमसटाजटिलांसभित्ति-
रारोपितो मृगपतेः पदवीं यदि वा।
मत्तेभकुम्भतटपाटनलम्पटस्य
नादं करिष्यति कथं हरिणाधिपस्य॥६६॥

किमिदमुचितं शुद्धेः श्लिष्टं263स्वपक्षसमुन्नतेः
फलपरिणतेर्युक्तं प्राप्तं264 गुणप्रणयस्य वा।
क्षणमुपगतः कर्णोपान्तं परस्य पुरःस्थिता-
न्विशिख निपतन्क्रूरं दूरान्नृशंस भिनत्सि265 यत्॥६७॥

अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता
भवत्येषां यस्य क्षणमुपगतानां विषयताम्।
निरालोके लोके कथमिदमहो चक्षुरधुना
समं जातं सर्वैर्न सममथवान्यैरवयवैः॥६८॥

आहूतेषु विहंगमेषु मशको नायान्पुरो वार्यते
मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां रुचम्।
खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां
धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम्॥६९॥

हेमकार सुधिये नमोऽस्तु ते दुस्तरेषु बहुशः परीक्षितुम्।
काञ्चनाभरणमश्मना समं यत्त्वयैवमधिरोप्यते तुलाम्॥७०॥

वृत्त एव स घटोऽन्धकूपकं266 त्वां प्रसादमपि नेतुमक्षमः।
मुद्रित त्वधमचेष्टितं त्वयातन्मुखाम्बुकणिकाः परीप्सता267॥७१॥

शतपदी सति पादशते क्षमा भुवि न गोष्पदमप्यतिवर्तितुम्।
किमियता द्विपदस्य हनूमतो जलनिधिक्रमणे268 विवदामहे॥७२॥

न गुरुवंशपरिग्रहशौण्डता न च महागुणसंग्रहणादरः।
फलविधानकथापि न मार्गणे किमपि269 लुब्धकबालगृहेऽधुना॥७३॥

तृणमणेर्मनुजस्य च तद्वतः किमुभयोर्विपुलाशयतोच्यते।
तनुतृणाग्रलवावयवैर्ययोरवसिते ग्रहणप्रतिपादने॥७४॥

तनुतृणाग्रधृतेन हृतश्चिरं क इव270 तेन न मौक्तिकशङ्कया।
स जलबिन्दुरहो विपरीतदृग्जगदिदं वयमत्र सचेतनाः॥७५॥

बुध्यामहे न बहुधापि विकल्पयन्तः271
कैर्नामभिर्व्यपदिशेम272 महामतींस्तान्।
येषामशेषभुवनाभरणस्य हेम्न-
स्तत्त्वं विवेक्तुमुपलाः परमं प्रमाणम्॥७६॥

संरक्षितुं कृषिमकारि कृषीवलेन
पश्यात्मनः प्रतिकृतिस्तृणपूरुषोऽयम्।
स्तब्धस्य निष्क्रियतयास्तभियोऽस्य नून-
मश्नन्ति273 गोमृगगणाः पुनरेव सस्यम्॥७७॥

कस्यानिमेषवितते नयने दिवौको-

लोकादृते जगति ते अपि वै गृहीत्वा।

पिण्ड274प्रसारितमुखेन तिमे किमेत-
दृष्टं न बालिश विशद्बडिशं त्वयान्तः॥७८॥

पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि

यायाद्यदि प्रणयनेन महानपि स्यात्।
अभ्युद्धरेत्तदपि विश्वमितीदृशीयं
केनापि दिक्प्रकटिता पुरुषोत्तमेन॥७९॥

स्वल्पाशयः स्वकुलशिल्पविकल्पमेव
यः कल्पयन्स्खलति काचवणिपिशाचः।
ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न-
निर्यत्नगुम्फ275नकवैकटिकेर्ष्ययान्तः॥८०॥

तत्प्र276त्यर्थितया वृतोऽनु कृतकः सम्यक्स्वतन्त्रो भया-
त्स्वस्थस्तान्न निपातयेदिति यथाकामं न संतोषितः277
संशुष्यन्वृषदंश एष कुरुतां मूकः स्थितोऽप्यत्र किं
गेहे किं बहुनाधुना गृहपतेश्चौराश्चरन्त्याखवः॥८१॥

एवं चेत्सरसि278 स्वभावमहिमा जाड्यं किमेतादृशं
यस्मादेव279 निसर्गतः सरलता किं ग्रन्थिमत्तेदृशी।
मूलं चेच्छुचि पङ्कजश्रुतिरियं कस्माद्गुणा यद्यमी
किं छिद्राणि सखे मृणाल भवतस्तत्त्वं न मन्यामहे॥८२॥

ये280 दिग्ध्यैव कृता विषेण कुसृतिर्येषां कियद्गण्यते
लोकं हन्तुमनागसं द्विरसना रन्ध्रेषु ये जाग्रति।

व्यालास्ते विदधत्यमी सदसतोश्चूडामणि281ं मूर्धभि-
र्नौचित्याद्गुणशालिनां क्वचिदपि भ्रंशोऽस्त्यलं चिन्तया॥८३॥

अहो क्रौर्यं स्त्रीणां हतरजनि धिक्त्वामतिशठे
मृषा प्रक्रान्तेयं तिमिरकबरीविश्लथधृतिः।
अवक्तव्ये पाते जननयननाथस्य शशिनः
कृतं स्नेहस्यान्तोचितमुदधिमुख्यैर्न तु जडैः॥८४॥

अहो गेहेनर्दी दिवसविजिगीषाज्वररुजा

प्रदीपोऽयं स्थाने ग्लपयति मृषामूनवयवान्।
उदात्तस्वच्छन्दाक्रमणहृतविश्वस्य तमसः
परिस्पन्दं द्रष्टुं मुखमपि च किं सोढममुना॥८५॥

नामाप्यन्यतरोर्निमीलितमभूत्तत्तावदुन्मीलितं
प्रस्थाने स्खलित282स्ववर्त्मनि विधेरन्यैर्गृहीतः करः।
लोकश्चायमदृष्टदर्शनवशाद्दृ283ग्वैशसान्मोचितो
युक्तं काष्ठिक लूनवान्यदसि तामाम्रालिमाकालिकीम्॥८६॥

वाताहारतया जगद्विषधरैराश्वस्य निःशेषितं

ते ग्रस्ताः पुनरभ्रतोयकणिकातीत्रव्रतैर्बर्हिभिः।
तेऽप्य284क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकै-
र्दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते॥८७॥

ऊढा येन महाधुराः सुविषमे मार्गे सदैकाकिना
सोढो येन कदाचिदेव न निजे गोष्ठेऽन्यशौण्डध्वनिः।
आसीद्यस्तु गवां गणस्य तिलकं तस्यैव संप्रत्यहो
धिक्कष्टं धवलस्य जातजरसो गोः पण्यमुद्धोष्यते॥८८॥

अस्थानोद्योगदुःखं जहिहि नहि नभः पङ्गुसंचारयोग्यं
स्वायासायैव साधो तव शलभ जवाभ्यासदुर्वासनेयम्।
ते देवस्याप्यचिन्त्याः प्रचलितभुवनाभोगहेलावहेला-
मूलोत्स्वातानुमार्गा गतगिरिगुरवस्तार्क्ष्यपक्षामवाताः॥८९॥

चन्द्रेणैव तरङ्गभङ्गिबहुलं संवर्ध्यमानाम्भसो
दद्युर्जीवनमेव किं गिरिसरित्स्रोतांसि यद्यम्बुधैः।
तेष्वेव प्रतिसंविधानविकलं पश्यत्सु साक्षिष्विव
द्राग्दर्पोद्धुस्मागतेष्वपि न स क्षीयेत यद्यन्यथा॥९०॥

किलैकचुलकेन यो मुनिरपारमब्धिंपपौ
सहस्रमपि घस्मरोविकृत एव तेषां पिवेत्।
स संभवति किंचिदम्बरविकासिधाम्ना विना
सदप्यसदिव स्थितं स्फुरितमन्तरोजस्विनाम्॥९१॥

ग्रावाणोऽत्र विभूषणं त्रिजगतो मर्यादया स्थीयते
नन्वत्रैव विधुः स्थितो हि विबुधाः संभूय पूर्णाशिषः।
शेते चोद्गतनाभिपद्मविलसद्ब्रह्मेह देवः स्वयं
दैवादेव गतः स्वकुक्षिभृतये सोऽप्यम्बुधिर्निम्नगाः॥९२॥

अनीर्ष्याः श्रोतारो मम वचसि चेद्वच्मि तदहं
स्वपक्षाद्भेतव्यं न285तु बहु विपक्षात्प्रभवतः।
तमस्याक्रान्ताशे कियदिव286 हि तेजोवयविनः
स्वशक्त्या भासते दिवसकृति सत्येव न पुनः॥९३॥

एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं पाथसो
यो मुक्तामणिरित्यमंस्त स जडः शृण्वन्नकस्मादपि287

अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने तत288 -
स्तत्रोड्डीय गतो289 ममेत्यनुनिशं निद्राति नान्तः शुचा॥९४॥

आस्तेऽत्रैव सरस्यो त कियान्संतोषपक्षग्रहो
हंसस्यास्य मनाङ् न धावति मनः290 श्रीधाम्नि पद्मे क्वचित्।
सुप्तोऽद्यापि न291बुध्यते तदितरस्तावत्प्रतीक्षामहे
वेलामित्युदरप्रि292या मधुलिहः सोढुं क्षणं293 न क्षमाः॥९५॥

भेकेन क्वणतासरोषपरुषं यत्कृष्णसर्पानने
दातुं गण्ड294चपेटमुज्झितभिया हस्तः समुल्लासितः।
याच्चाधोमुखमक्षिणी विदधता295 नागेन तत्र स्थितं
तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितम्॥९६॥

मृत्योरास्यमिवाततं धनुरिदं296 चाशीविषाभाः शराः
शिक्षा सापि जितार्जुन297प्रभृतिका सर्वत्र निम्नाकृतिः।
अन्तः क्रौर्यमहो शठस्य मधुरं हा हारि गेयं मुखे
व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं निर्मृगम्॥९७॥

ग्रावग्रस्तसमस्तचेतनमनोवैदग्ध्यमुग्धो जनः
कः स्पर्धामधिरोहति त्रिभुवने चित्रं त्वया तन्वता।
भावानां सदसद्विवेककलनाभ्यासेन जीर्णान्तरं

दूरादेव न नाम येन हृदयं वोढुं कृतो दुर्ग्रहः॥९८॥

कोऽयं भ्रान्तिप्रकारस्तव पवन298 पदं लोकपादाहतानां
तेजस्विव्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठाम्।

अस्मिन्नु299त्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां
केनोपायेन साध्यो300 वपुषि कलुषतादोष एष त्वयैव॥९९॥

एते ते विजिगीषवो नृपगृहद्वारार्पणावेक्षणाः
क्षिप्यन्ते वरयाचनाहितधियः कोपोद्धतैर्वैत्रिभिः।
अर्थेभ्यो विषयोपभोगविरसैर्नाकारि यैरादर-

स्ते तिष्ठन्ति मनस्विनः सुरसरित्तीरे मनोहारिणि॥१००॥

वाता वान्तु कदम्बरेणुबहला301 नृत्यन्तु सर्पद्विषः
सोत्साहा नवतो302यपानगुरवो मुञ्चन्तु नादं घनाः।
मग्नांकान्तवियोगदुःख303दहने मां वीक्ष्य दीनाननां
विद्युत्प्रस्फु304रसि त्वमप्यकरुणे स्त्रीत्वेऽपि तुल्ये सति॥१०१॥

प्राणा येन समर्पितास्तव बलाद्येन त्वमुत्थापितः
स्कन्धे येन चिरं धृतोऽसि विदधे यस्ते सपर्यामपि।
तस्यान्तः स्मितमात्रकेण जनयञ्जीवापहारं क्षणा-

तः प्रत्युपकारिणां धुरि परं वेताल लीलायसे॥१०२॥

रज्ज्वा दिशः प्रवितताः सलिलं विषेण
पाशैर्मही हुतभुजा ज्वलिता वनान्ताः।
व्याधाः पदान्यनुसरन्ति गृहीतचापाः305
कं देशमाश्रयतु306 यूथपतिर्मृगाणाम्॥१०३॥

<MISSING_FIG href=”../books_images/U-IMG-1723271535Untitled.png”/>

<MISSING_FIG href=”../books_images/U-IMG-1723272035Screenshot2024-08-10120312.png”/>

सन्ति सर्वविधा मर्त्या न सन्त्येके विपश्चितः।
असूर्येणेव लोकेन किं तेन विषयेण नः॥२॥

उद्यन्तु शतमादित्या उद्यन्तु शतमिन्दवः।
न विना विदुषां वाक्यैर्नश्यत्याभ्यन्तरं तमः॥३॥

बहुभ्यो बहु बोद्धव्यं बहुधा बहुवासरान्।
बहुकल्पशतस्थायि लब्धुं बहुविधं यशः॥४॥

पाषाणाः सर्व एवैते पद्मरागेषु को गुणः।
प्रकाशः कश्चिदत्रास्तेऽपरत्र स न विद्यते॥५॥

जात्यन्धा जातिबधिरा जातिमूकाश्च ते जनाः।
सम्यगाराधिता यैर्न सन्तो विज्ञानसिन्धवः॥६॥

अपि मानुष्यकं लब्ध्वा भवन्ति ज्ञानिनो न ये।
पशुतैव वरा तेषां प्रत्यवायाप्रवर्तनात्॥७॥

किं परोक्षं किमध्यक्षं किं लभ्यं किं नु दुर्लभम्।
सर्वमैन्द्रियकं वस्तु सर्वं करगतं सताम्॥८॥

स्थावरा जङ्गमा मर्त्या ब्राह्मणा मुनयः सुराः।
शिव इत्यप्यमी भेदाश्चिदुत्कर्षनिबन्धनाः॥९॥

विद्युज्जलधरो वृष्टिचन्द्रार्कौ सागरा इति।
सर्वमद्भुतमज्ञानाज्ज्ञानतां तु न किंचन॥१०॥

तत्र तत्र स्थितैर्ज्ञानकरणैरिव विग्रहः।
विद्वद्भिः शोभते देशस्तैर्विहीनस्त्वमङ्गलः॥११॥

अमलीमसमच्छिद्रमक्रौर्यमतिसुन्दरम्।
अदेयमप्रतिग्राह्यमहो ज्ञानं महाधनम्॥१२॥

संदर्भशक्तिहीनानां शब्दाभ्यासो वृथा श्रमः।
मुग्धानि लब्ध्वा पुष्पाणि मुण्डितः किं करिष्यति॥१३॥

शास्त्रेषु दुर्भहोऽप्यर्थः स्वदते कविसूक्तिषु।
दृश्यं करगतं रत्नं दारुणं फणिमूर्धनि॥१४॥

आञ्जस्यं व्यवहाराणामार्जवं परमं धियाम्।
स्वातन्त्र्यमपि तन्त्रेषु सूते काव्यपरिश्रमः॥१५॥

साहित्यविद्याहीनानां सर्वशास्त्रविदामपि।
समाजं परिपश्यन्ति समजं307 बुद्धिशालिनः॥१६॥

अशिक्षितानां काव्येषु शास्त्राभ्यासोनिरर्थकः।
किमस्त्यनुपनीतस्य वाजपेयादिभिर्मखैः॥१७॥

अन्धा विद्वज्जनैर्हीना मूका कविभिरुज्झिता।
बधिरा गायनैर्हीना सभा भवति भूभृताम्॥१८॥

साहित्यादपि शास्त्राणि विशिष्टानीति चेन्मतिः।
ततोऽपिवेदाध्ययनं ततोऽपि शिवकीर्तनम्॥१९॥

सन्त्वश्वाः सन्तु मातङ्गाः सन्तु योधाः सहस्रशः।
नरेन्द्राणां विशेषेण न विना कविना यशः॥२०॥

काणाः कमलपत्त्राक्षाः कदर्याः कल्पशाखिनः।
कातरा विक्रमादित्याः कविदृग्गोचरं गताः॥२१॥

पारवश्यं वृथा दास्यं पञ्चानामेकदारता \।
पाण्डवानामभूत्कीर्त्यै पाराशर्यकवेर्गिरा॥२२॥

जानाते यन्न चन्द्रार्कौ जानते यन्न योगिनः।
जानीते यत्र भर्गोऽपि तज्जानाति कंविः स्वयम्॥२३॥

सर्वासामपि विद्यानां साहित्यं हि कवेः पदम्।
साधारण्येऽपि यत्रैव सारस्वतपदं ध्रुवम्॥२४॥

नादातव्यं न दातव्यं न कर्तव्यं च किंचन।
सान्त्वमेकं प्रयोक्तव्यं सर्वं तस्य वशे जगत्॥२५॥

नामरूपात्मकं विश्वं दृश्यते यदिदं द्विधा।
तत्राद्यस्य कविर्वेधा द्वितीयस्य चतुर्मुखः॥२६॥

ज्योतिष्टोमे किमुक्थ्ये किं किमाज्ये किं रथन्तरे।
स्तुतिरित्येव हृष्यन्ति सर्वज्ञा अपि देवताः॥२७॥

न जातिरूपकर्माणि दृश्यन्ते मृदुभाषिणि।
पक्षिणो मलिनास्तत्र परपुष्टा निदर्शनम्॥२८॥

अर्थहीनोऽपि मधुरः शब्दो लोकप्रियंकरः।
वीणावेणुमृदङ्गादीन्यत्रोदाहरणानि नः॥२९॥

जिघांसन्तोऽपि पशवो रुदन्तोऽपि स्तनंधयाः।
घ्नन्तोऽपि रिपवो युद्धे वशमायान्ति सान्त्वतः॥३०॥

दातुः प्रतिग्रहीतुश्च यौ हस्तावुत्तराधरौ।
तयोरप्यौत्तराधर्यं ताभ्यामेवोपपाद्यते॥३१॥

अमर्त्याः सन्तु मर्त्या वा चेतनाः सन्त्वचेतनाः।
दानमेव पुरस्कृत्य स्तूयन्ते भुवनैस्त्रिभिः॥३२॥

देयं द्रव्यमियत्तावद्दानोत्कर्षे न कारणम्।
किं त्ववच्छेदराहित्यं धनदाम्बुदयोरिव॥३३॥

ददातिराददातिश्च द्वावेतौ परमाद्भुतौ।
ययोः स्वाम्यं च दास्यं च लीलामात्रविजृम्भितम्॥३४॥

दोषा अपि गुणायन्ते दातारं समुपाश्रिताः।
कालिमानं किलालम्ब्य कालमेघ इति स्तुतिः॥३५॥

किं दातुरखिलैर्दोषैः किं लुब्धस्याखिलैर्गुणैः।
न लोभादधिको दोषो न दानादधिको गुणः॥३६॥

अर्थाः साधारणा एव वियुज्यन्ते स्वभावतः।
ममतां त्यजतां तेषु महदुत्पद्यते यशः॥३७॥

मृतोऽप्यर्थं न मोक्ष्यामि बद्ध्वानेष्यामि मूर्धनि।
इति चेत्सुदृढो लोभः पात्रे देयमशङ्कितम्॥३८॥

षष्टिर्देशान्तरे लभ्या शतं दत्त्वात्र नैगमे308
पात्रे त्वेकमिहोत्सृज्य परत्रानन्तमाप्यते॥३९॥

को दत्ते क इवादत्ते स्वादृष्टं स्वेन भुज्यते।
धीभेदमात्रे दातृत्वे क्लिश्यन्ते कृपणाः कियत्॥४०॥

स्वातन्त्र्यं यदि चोरेऽपि भोक्तृत्वं यदि बन्धुषु।
निष्कर्षेतु भ्रमः स्वाम्यं तत्त्यक्त्वा लभ्यतां यशः॥४१॥

न धैर्येण विना लक्ष्मीर्न शौर्येण विना जयः।
न ज्ञानेन विना मोक्षो न दानेन विना यशः॥४२॥

स्वकीयान्भुञ्जते मत्स्याः स्वापत्यानि फणाधराः।
बलाबलव्यवस्थेयं बलिनस्त्वकुतोभयाः॥४३॥

गुरुं हत्वा दिवं यान्ति तृणं छित्त्वा पतन्त्यधः।
बलिनां दुर्बलानां च श्रुतयोऽपि द्विधा स्थिताः॥४४॥

बलिनो बलिनः स्निह्यन्त्यबलं तु न गृहृते।
दावं दीपयते चण्डो दीपं व्याहन्ति मारुतः॥४५॥

बाधका अपि लोकानां बलिनो बिभ्यति स्वयम्।
सर्वं बलवतः पथ्यं भिषग्भिरपि गीयते॥४६॥

शुभप्रारब्धलब्धापि लक्ष्मीः शौर्यविवर्जिते।
शोकेन दुःखमाप्नोति षण्ढे कुलवधूरिव॥४७॥

सर्वत्र लाल्यते शूरो भीरुः सर्वत्र हन्यते।
पच्यन्ते केवला मेषाः पूज्यन्ते युद्धदुर्मदाः॥४८॥

भार्यायाःसुन्दरः स्निग्धो वेश्यायाः सुन्दरो धनी।
श्रीदेव्याः सुन्दरः शूरो भारत्याः सुन्दरः सुधीः॥४९॥

न शौर्यं शौर्यमित्येव स्तूयते बुद्धिशालिभिः।
किं तु नीत्या समाश्लिष्टं वाग्मित्वमिव मेधया॥५०॥

शौर्येण लोकसेव्यत्वं शौर्येण क्षितिपालता।
शौर्येण लभ्यः स्वर्गेऽपि शौर्यं कस्य न साधनम्॥५१॥

समरेषु नरेन्द्राणां सवनेषु द्विजन्मनाम्।
पतिकर्मसु नारीणां शौर्य भवति भूषणम्॥५२॥

शौर्ये तुल्ये कथं वृत्तं स्वामी दास इति द्विधा।
अन्वयव्यतिरेकाभ्यां नीरैरित्यवधार्यताम्॥५३॥

न जयाय स्वतः शौर्यं किं तु नीत्योपबृंहितम्।
प्रयुक्तं हि जयत्यस्त्रं प्रयोक्ता न स्वतः क्वचित्॥५४॥

इदमेव परं शौर्यमुपायैस्त्रिभिरन्वितम्।
इदमेव परं मौर्ख्यमुपायैस्त्रिभिरुज्झितम्॥५५॥

पराक्रमन्ते युद्धेषु सममेवोभये भटाः।
विजयन्तेऽभ्युपायज्ञा विजीयन्ते तदुज्झिताः॥५६॥

किं शास्त्रैर्बहुधाभ्यस्तैः किं चातुर्येण किं धिया।
किं शौर्येणानिवार्येण ललाटे चेन्न लिख्यते॥५७॥

घटमानाः कुटुम्बेषु दरिद्रति विपश्चितः।
मूढेषु रमते लक्ष्मीरहो दिष्टस्य चेष्टितम्॥५८॥

तुल्यं कर्षन्ति पृथिवीं तुल्यं शास्त्राण्यधीयते।
उन्मज्जन्ति निमज्जन्ति दिष्टस्यैकस्य चेष्टया॥५९॥

लुभ्यन्ति वितरन्तोऽपि कुप्यन्ति सरला अपि।
मुह्यन्ति मतिमन्तोऽपि भोक्तुर्भाग्यविपर्ययात्॥६०॥

अधीयते विजानन्ति विरज्यन्ति मुहुर्मुहुः।
नात्यन्ताय निवर्तन्ते नरा वैषम्यतो विधेः॥६१॥

दोहदैरावालैश्च कियद्वृक्षानुपास्महे।
ते तु कालं प्रतीक्षन्ते फलपुष्पसमुद्गमे॥६२॥

कः प्रसूते पुरोवातं कः प्रेरयति वारिदम्।
प्राप्ते तु श्रावणे मासि भवत्येकार्णवं जगत्॥६३॥

कलः करोति कार्याणि काल एव निहन्ति च।
करोमीति विहन्मीति मूर्खो मुह्यति केवलम्॥६४॥

अपि कालस्य यः कालः सोऽपि कालमपेक्षते।
कर्तुं जगन्ति हन्तुं वा कालस्तेन जगत्प्रभुः॥६५॥

कालः सदागतिरपि स्थायीव परिचेष्टते।
चण्डमारुतवद्विश्वमधरोत्तरयन्क्षणात्॥६६॥

कालश्चालयति प्रायः पण्डितान्पामरानपि।
तं चेच्चिकीर्षसि वशे तितिक्षैव महौषधम्॥६७॥

रन्ध्रेषु प्रहरिष्यन्तः कति कामादयोऽरयः।
क्षणान्नश्यति लोकोऽयं क्षमा चेन्न नियच्छति॥६८॥

अपकारदशायामप्युपकुर्वन्ति साधवः।
छिन्दन्तमपि वृक्षः स्वच्छायया किं न रक्षति॥६९॥

स्रवत्येव तदा ज्ञानं स्रवत्येव तदा तपः।
छिद्रं छिद्रमनुप्राप्य न चेच्छादयति क्षमा॥७०॥

क्षमां रक्षन्ति ये यत्नात्क्षमां रक्षन्ति ते चिरम्।
क्षमास्ते निभृता येषु क्षमास्ते सर्वकर्मसु॥७१॥

मूर्खाः शमयितुं दुःखं संरभन्ते ततस्ततः।
क्षमयैव निगृह्णन्ति धीराः संरम्भवर्जिताः॥७२॥

आ कल्यादा निशीथाच्च कुक्ष्यर्थं व्याप्रियामहे।
न च निर्वृणुमो जातु शान्तास्तु सुखमासते॥७३॥

नायास्यन्ते शरीराणि न दैन्यमवबुध्यते।
संभवत्यपि चानन्दः शान्तिमभ्यस्यतां सताम्॥७४॥

प्रसीदत्यपरिस्पन्दि पयः कलुषितं यथा।
तथाऽशान्तमपि स्वान्तं प्रसीदति शनैः शनैः॥७५॥

यत्नेन महता लभ्या दासा द्वित्राः सुखाय नः।
शान्तस्य कालादृष्टाद्याः शतं भृत्या अवेतनाः॥७३॥

अपि मृद्व्या गिरा लभ्यः सदा जागर्त्यतन्द्रितः।
नास्ति धर्मसमो भृत्यः किंचिदुक्तस्तु धावति॥७७॥

अर्थेनोपायेते धर्मो धर्मेणार्थ उपार्ज्यते।
अन्योन्याश्रयणं ह्येतदुभयोत्पत्तिसाधनम्॥७८॥

विपणिः पुण्यतीर्थानि विक्रेतारस्त्वकिंचनाः।
तृणेनाध्यन्ततो धर्मः पर्वसु क्रियते महान्॥७९॥

चुलकोदकमात्रेण धान्यमुष्टिव्ययेन वा।
मरुभूमिपु दुर्भिक्षे धर्मसस्यं महाफलम्॥८०॥

धर्मो नर्मसखः कामे गुरुतत्त्वोपदेशने।
भटः संगररङ्गेषु सचिवोऽर्थसमर्जने॥८१॥

भुवि वृक्षो दिवि च्छाया भुवि कूपो जलं दिवि।
भुवि गृह्यते विप्रैर्दिवि तद्दीयते सुरैः॥८२॥

कदलीकन्दवद्धर्मो न रोहति बहिर्गतः।
छादितस्तु फलं चारु सूते पनसमूलवत्॥८३॥

दुःखेनोपार्ज्यते धर्मः सुखेन तु विनाश्यते।
कृच्छ्रलब्धमिमं त्रातुं नेच्छन्ति मुनयः सुखम्॥८४॥

संपाद्यतां वा यत्नेन यद्वा विक्रीयतामयम्।
सर्वथा भजतावाप्यो धर्मो भवति नान्यथा॥८५॥

अर्थवन्तः प्रशस्यन्ते निन्द्यन्ते तद्विनाकृताः।
आगमेष्वपि चेदेवमद्भुतं किं शरीरिषु॥८६॥

अर्थोऽप्यर्थेन चेत्साध्यः का वार्ता धर्मकामयोः।
अर्थः सर्वजगन्मूलमनर्थोऽर्थ विपर्ययः॥८७॥

कर्मज्ञानं च मोक्षाय कर्मण्यर्थोऽधिकारिता \।
अतोऽर्थेनैव कैवल्यं न कैवल्येन लभ्यते॥८८॥

कथमर्थं निषेधन्तु श्रुतयः स्मृतयोऽपि वा।
यासामेकं पदमपि न चलत्यर्थतो विना॥८९॥

लक्ष्मीश इति गोविन्दो मेरुधन्वेति शंकरः।
हिरण्यगर्भ इत्येव ब्रह्मापि बहु मान्यते॥९०॥

ऊर्ध्वं गच्छन्ति यं त्यक्त्वा यं गृहीत्वा पतन्त्यधः।
तस्य गौरवमर्थस्य तावतैवानुमीयताम्॥९१॥

गृहिणा यदि लभ्येत गृहिणी हृदयंगमा।
संसार इति को भारस्तं सारमनुपश्यतः॥९२॥

आहत्य चिनुमः स्वर्गमपवर्गमनुक्रमात्।
अनुकूले हि दांपत्ये प्रतिकूलं न किंचन॥९३॥

गृहिणीवृत्तिदोषेण गौतमोऽत्यन्ततापितः।
आतस्थे दुःखविध्वंसं कैवल्यं परमं मुनिः॥९४॥

अपि यत्परमं तत्त्वमर्धेन्दुकृतशेखरम्।
तस्यापि तावानानन्दः किमस्मज्जननीं विना॥९५॥

निन्दन्ति च प्रशंसन्ति निगमा यद्गृहाश्रमम्।
दांपत्यसाम्यवैषम्यभेदादेतद्व्यवस्थितिः॥९६॥

इन्द्रियाण्यनुपक्लेश्य लभ्यं श्रेयो गृहाश्रमे।
अतस्तुर्याश्रमं प्राहुरबाधन्यायबाधितम्॥९७॥

भुज्यते यत्सुखं घीरैरप्रमत्तैर्गृहाश्रमे।
स्वर्गस्तस्यागसः पूर्तिरपवर्गोऽस्य नित्यता॥९८॥

दृष्टदोषोऽपि गार्हस्थ्ये दीर्घदर्शितया स्वयम्।
गार्हस्थ्यमेव परमं मेने नैयायिको मुनिः॥९९॥

उच्चावचं जगद्दौःस्थ्यमेक एव निषेधति।
प्रविष्टमात्रो नृपतिः प्रपञ्चमिव नः श्रुतिः॥१००॥

न राजानं विना राज्यं बलवत्स्वपिमन्त्रिषु।
प्राणेष्वसत्सु किं देहश्चण्डवातेन धार्यते॥१०१॥

मातुः किंचित्पितुः किंचिदाचार्यात्किंचिदाप्यते।
सम्यग्विनीतैः शास्त्रेषु सर्वं राज्ञस्तु लभ्यते॥१०२॥

चलन्ति सर्वमर्यादाश्चलिते सति पार्थिवे।
पर्वता अपि कम्पन्ते प्रसक्ते कम्पने भुवः॥१०३॥

पत्न्या मङ्गल्ययोगेन पत्युरायुः प्रवर्धते।
प्रकृतीनां तु भाग्येन पार्थिवः सुखमेधते॥१०४॥

निर्मितं शतकं साग्रं नीलकण्ठेन यज्वना।
सभारञ्जनमेतेन साधयन्तु मनीषिणः॥१०५॥

इति श्रीभरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशत-

प्रबन्धनिर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चादीक्षितपौत्रेण श्रीनारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेनश्रीनीलकण्ठदीक्षितेन विरचितं सभारञ्जनशतकम्।

महाकवि श्रीकालिदासकृतानवरत्नमाला309

ॐकारपञ्जरशुकीमुपनिषदुद्यानकेलिकलकण्ठीम्।
आगमविपिनमयूरीमार्यामन्तर्विभावये गौरीम्॥१॥

दयमानदीर्घनयनां देशिकरूपेण दर्शिताभ्युदयाम्।
वामकुचनिहितवीणां वरदां संगीतमातृकां वन्दे॥२॥

श्यामलिमसौकुमार्यामानन्दामन्दसंपदुन्मेषाम्।
तरुणिमकरुणापूरां मदजलकल्लोललोचनां वन्दे॥३॥

नखमुखमुखरितवीणानादरसास्वादनवनवोल्लासम्।
मुखमम्ब मोदयतु मां मुक्ताताटङ्कमुग्धहसितं ते॥४॥

सरि310गमपधनिरतां तां वीणासंक्रान्तकान्तहस्तान्ताम्।
शान्तां मृदुलस्वान्तां कुचभरतान्तां311 नमामि शिवकान्ताम्॥५॥

अवटुतटघटितचूली पालीं ताली पलाशताटङ्काम्।
वीणावादनवेलाकम्पितशिरसं नमामि मातङ्गीम्॥६॥

वीणारवानुषङ्गे विकचमदामोदमाधुरीभृङ्गम्।
करुणापूरतरङ्गं कलये मातङ्गकन्यकापाङ्गम्॥७॥

मणिभङ्गमेचकाङ्गीं मातङ्गीं नौमि सिद्धमातङ्गीम्।
यौवनवनसारङ्गी संगीताम्भोरुहानुभवभृङ्गीम्॥८॥

मेचकमासेचनकं312 मिथ्यादृष्टान्तमध्यभागं तम्।
मातस्तव स्वरूपं मङ्गलसंगीतसौरभं मन्ये॥९॥

नवरत्नमालिकाख्यां विरचितमातङ्गकन्यकाभूषाम्।
यः पठति लिखति वैतां स भवेद्वागीश्वरः साक्षात्॥१०॥

इति महाकविश्रीकालिदासकृता नवरत्नमाला समाप्ता।

]


  1. “स्थापयन्त्येव” ↩︎

  2. “‘अनवमपुरहर–’ "

     ↩︎
  3. “‘याम्याः’” ↩︎

  4. " ‘देव्यास्त्रिशूलक्षत–’” ↩︎

  5. " ‘किल्विषाणि’" ↩︎

  6. “‘महिषसुररिपुः’” ↩︎

  7. " ‘निष्णातसारः’" ↩︎

  8. " ‘प्रतिष्ठाकृति’" ↩︎

  9. " ‘शान्त्यै शिवा वः’" ↩︎ ↩︎

  10. " ‘देवी मुदे वः’" ↩︎

  11. “‘त्रातवन्तो जगन्ति’” ↩︎

  12. “‘नखमिषेण’” ↩︎

  13. “‘प्रालेयोत्पीडदीप्ताम्’; ‘प्रालेयोत्पीडदीव्यत्’” ↩︎

  14. " ‘अतिरुचिरनखैः’"

     ↩︎
  15. " ‘तुलिताद्रीन्द्र –’" ↩︎

  16. “‘तिर्यक्’” ↩︎

  17. " ‘अर्थेश’" ↩︎

  18. " ‘लज्जाम्’" ↩︎

  19. " ‘दोषा–’" ↩︎

  20. " ‘कृतपरमभयो’" ↩︎

  21. " ‘पार्वती पातु सा वः’" ↩︎

  22. " ‘असुररिपुः ‘" ↩︎

  23. " ‘रोषात्’" ↩︎

  24. “‘यदृच्छामृदु–’” ↩︎

  25. “‘संतता वो’” ↩︎

  26. “‘विद्यन्ते’” ↩︎

  27. “‘तुष्टा भवानी’” ↩︎

  28. " ‘प्रोतप्रान्त–’" ↩︎

  29. “‘अमृतसृजि” ↩︎

  30. “कृतमुखविकृतिः” ↩︎

  31. " ‘पशुपतेः’"

     ↩︎
  32. " ‘बृहत्’" ↩︎

  33. “‘हतरिपुर्ह्रेपितखर्निकाया’” ↩︎

  34. “‘त्रयेण ‘” ↩︎

  35. “’ सा शिवास्तु’” ↩︎

  36. " ‘मुषितभियः’" ↩︎

  37. “’ शोणितस्य’” ↩︎

  38. " ’ रक्षन्तु त्वाम्’" ↩︎

  39. " ‘प्रतिनयन इवाविष्कृतान्योन्यभावा’" ↩︎

  40. " ‘जितेन्दुम् ‘" ↩︎

  41. “‘अशक्यम्’” ↩︎

  42. " ‘कृतम्’"

     ↩︎
  43. “‘अधिक्रमलम्’” ↩︎

  44. " ‘आघातम्’"

     ↩︎
  45. “‘पुलकित : ‘” ↩︎

  46. “’ नुदतु भवदघम्’” ↩︎

  47. " ‘चरणनखाङ्गुष्ठकोणेन पिष्ट्वा’"

     ↩︎
  48. " ‘अलभत तनुभिः ‘" ↩︎

  49. “‘त्रिसंध्यानतेः’” ↩︎

  50. " ‘नामेव’" ↩︎

  51. “‘तुङ्गाः शृङ्गाग्रभूमी : ‘” ↩︎

  52. " ‘प्रोतकाये’" ↩︎

  53. “‘पातालपङ्कैः क्षयरयमिलितैरर्णवेच्छा –’” ↩︎

  54. “‘विलसत्’” ↩︎

  55. “‘कालिका वः ‘” ↩︎

  56. “‘इव’” ↩︎

  57. “‘वक्रं कृपाणं’” ↩︎

  58. “‘दर्पानल्पाट्टहासाद्विगुणितरसिताः ‘” ↩︎

  59. " ‘नखरुचिररुचः’" ↩︎

  60. “‘अप्राप्तेषुः’” ↩︎

  61. “‘पर्वणा’” ↩︎

  62. “‘सुरपते’” ↩︎

  63. " ‘अतनुजनु निरासाय ‘" ↩︎

  64. “‘असौ’ " ↩︎

  65. “‘प्रीतोऽनेनैव’” ↩︎

  66. “‘त्रिदिवरिपुहतौ’” ↩︎

  67. " ‘ग्रोषिते’” ↩︎

  68. “‘अधिकतरम्’” ↩︎

  69. “’ यस्य’” ↩︎

  70. “‘नाकिनृत्यम्’” ↩︎

  71. “‘देवी संतुष्यमाणा’”

     ↩︎
  72. “‘विगलितकुलिशापास्तशस्त्रीपिनाकम्’; ‘नगणितकुलिशप्रासशस्त्रीपिनाकम्’”

     ↩︎
  73. “‘एवं स्वमपि भुजवनं संयुगे’; ‘आर्त द्रुतमिति रभसा संयुगे’” ↩︎

  74. " ‘अपतत्’" ↩︎

  75. “अयं श्लोकः सरस्वतीकण्ठाभरणे शार्ङ्गवरपद्धतौ च वर्तते” ↩︎

  76. " ‘विस्मितास्मांस्त्यक्त्वा’; ‘विस्मितासीत्युक्त्वा’"

     ↩︎
  77. “‘जया वः’” ↩︎

  78. “‘दृढहृदयम्’”

     ↩︎
  79. “‘रुद्राण्याः’”

     ↩︎
  80. " ‘शृङ्गाररम्यम्’" ↩︎

  81. “‘कोपात्’” ↩︎

  82. " ‘शमय मम रुषा’; ‘शमयसि तु रुषा’" ↩︎

  83. “‘महिषितवपुषम्’” ↩︎

  84. “‘कापालमालं स्वाङ्गंविन्यस्य’” ↩︎

  85. " ‘शंभोः’" ↩︎

  86. “‘क्रोडाभिमर्दी’.” ↩︎

  87. “‘अत्र’ इति पुस्तकान्तरे नास्ति.” ↩︎

  88. “‘खनित’” ↩︎

  89. “‘यत्र कर्तुम्’” ↩︎

  90. “’ दृढाश्रि’”

     ↩︎
  91. “‘सृतिविहतरयम्’.” ↩︎

  92. “‘दैत्यमायाविलासि’” ↩︎

  93. “’ रिपुविभोः’” ↩︎

  94. “‘भुवनोपद्रवा’” ↩︎

  95. “‘प्रचुर’” ↩︎

  96. “‘निज्ञातशिक्षम्’; ‘निर्ज्ञातशिष्यम्’; ‘निर्यातसारम्’; ‘निर्जातशिष्टम्’” ↩︎

  97. “‘प्राकृताग्र्याङ्गभागम्’” ↩︎

  98. “’ विबुधरुपम् ‘” ↩︎

  99. “‘ब्रह्मन्’” ↩︎

  100. “‘भवविरह’” ↩︎

  101. “‘स्वीकृतात्मा’”

     ↩︎
  102. " ‘धिगिमान्यत्त्यजत्येष शत्रुः ‘; ‘विदिशं द्राक्त्यजत्वेष शक्रः ‘" ↩︎

  103. “‘दृष्टम् ‘” ↩︎

  104. " ‘करकमलतया’" ↩︎

  105. “‘कोपलब्धे’” ↩︎

  106. “समरसुरपतिर्भस्मलीलाविलासी’” ↩︎

  107. “‘लीलाभियोग्यः ‘” ↩︎

  108. “‘दृष्टम्’” ↩︎

  109. “’ मृदिततनुमुदम्’ " ↩︎

  110. “‘सुस्फुटोक्तम्’”

     ↩︎
  111. “‘दूरमस्मत्स्थितमरि’” ↩︎

  112. “भ्राम्यत्भीमोरुदेहक्षुभितचलजल–’”

     ↩︎
  113. " ’ कृत्वा द्रागप्रसन्नान्’” ↩︎

  114. “‘मैनां मुग्धे’” ↩︎

  115. “‘पात्र्यम्” ↩︎

  116. ॑॑# “‘शस्वाग्रभूमौ’” ↩︎

  117. “‘प्रापिते’” ↩︎

  118. “‘द्रादुर्भेदे’” ↩︎

  119. “‘हक्षितपिनृपतिम्” ↩︎

  120. " ‘ईदृक्कर्म’" ↩︎

  121. “‘शंभुनागत्य’” ↩︎

  122. “’ बाहूपसादम्’” ↩︎

  123. “‘कोद्धूतहस्ता’” ↩︎

  124. " ‘संतापितारौ’" ↩︎

  125. “‘प्रोषिते’” ↩︎

  126. " ‘गौरी वोऽव्यात्स्वरूपं त्रिदशपतिपुरोलज्जया धारयन्ती’" ↩︎

  127. " ‘एव’" ↩︎

  128. “‘क्षेमदानात्’” ↩︎

  129. " ‘देवानां नायकत्वाद्गुण’;‘देवैर्ब्रह्मादिभिस्त्वद्गुण–’" ↩︎

  130. " ‘स्मरारौ वदति रिपुवधे पार्वती वः पुनातु ‘" ↩︎

  131. “‘गतानाम्’” ↩︎

  132. “‘उद्गतेन प्रविजयमपरम्’” ↩︎

  133. " ‘सह विबुधरिपुम्’ .‘हसितसुररिपुम्’"

     ↩︎
  134. “‘उद्गतम्’”

     ↩︎
  135. " ‘क्षिप्तम्’" ↩︎

  136. " ‘गङ्गा मौलौ विलग्नायुवतिरिति’; ‘खट्टानं खङ्गयुक्तं युवतिरपि’" ↩︎

  137. " ‘लग्नम्’" ↩︎

  138. “‘याता’” ↩︎

  139. " ‘हरम्’" ↩︎

  140. “कण्डूविनोदात्” ↩︎

  141. “‘नः’; ‘वः’” ↩︎

  142. “‘एवम्’” ↩︎

  143. “शीर्णगीर्वाणगर्वम्’ ‘शीर्णगीर्वाणगर्वः’” ↩︎

  144. “‘यातो गरीयान्” ↩︎

  145. “वपुर्न्यस्त उत्पात्य कोपात्” ↩︎

  146. “क्षेमकारो हि यस्याः पादोऽतुल्यप्रभाव’” ↩︎

  147. “असुरैः” ↩︎

  148. “सुरमहिषतनुः’; ‘मिषतनुमहिषः” ↩︎

  149. “कान्तिः” ↩︎

  150. “लसन्मण्डले’” ↩︎

  151. “मधुपसुनिभृत” ↩︎

  152. “सर्वत्रिभुवन” ↩︎

  153. “पद्मशोणः "

     ↩︎
  154. “अमरगुरोर्योपितः”

     ↩︎
  155. “‘ध्यात्वा ध्यात्वा’” ↩︎

  156. " सावतात्” ↩︎

  157. “‘वीक्ष्यमाण.’; ‘वन्दितायाः’” ↩︎

  158. “‘दितिदनुजभिदः’” ↩︎

  159. “‘सुरसमितिविभोः’” ↩︎

  160. “‘दितितनयभृतः’” ↩︎

  161. “‘प्रतिदिशगमनम्’” ↩︎

  162. “‘रणयुवाम्’.” ↩︎

  163. “‘या चैंपां स्थाणुसंज्ञा भयचकितदृशाम्’.” ↩︎

  164. " ‘यं दृष्ट्वा स्रस्तचेष्टः’" ↩︎

  165. “‘स्थाणुर्देयं तमाजौ’; ‘स्थाणुर्दैत्यं यमाजौ’, ‘स्थाणुर्दृष्ट्वा सुरारिम्’” ↩︎

  166. “‘दृषसभयम्’”

     ↩︎
  167. “‘भवतां ध्वान्तमन्तर्हितार्कः’” ↩︎

  168. “शूलात्” ↩︎

  169. “नागराजनामा धारानगराधिपः कश्चिन्महीपतिरासीत् तन्नाम्ना तदाश्रितेन केनचित्कविना शतकमेतर्न्निमितमिति शतकविलोकनाज्ज्ञायते” ↩︎

  170. “समुद्धृतोऽयं श्लोकः शार्ङ्गधरपद्धतौ प्रहेलिकादिप्रकरणे” ↩︎

  171. “.“केरलदेशालंकरणभूताया ‘निला’नामकपुण्यनद्याः पञ्चाशन्न्यूनार्धयोजनमात्रमुत्तरे तीरे ‘मेप्युन्नूर्’ इति प्रथिते धरणीसुरवंशे कृतावतारोऽयं नारायणभट्टपादः सोऽयं बाल्येऽनभ्यस्तशास्त्रो बभूव अवगतवांश्च किंचित्काव्यादिकमात्रम्, ततः कदाचन ‘अच्युत’नामकस्य वैष्णवदासस्य शिष्यानुपगम्याधीतसकलशास्त्रस्तस्य कुतोऽपि हेतोः संजातं महान्तमामयं निजतपःशक्त्यास्मि संक्रमय्य तदपनयनोपायं समालोच्य ‘गुरुवायुपुरम्’ इति प्रसिद्धे क्षेत्रे संनिहितं भगवन्तं श्रीनारायणमभजत प्रतिदिनमेतत्स्तोत्ररूपं श्रीमद्भागवतार्थप्रतिपादनपरं मानसश्रवणसंतोषजनकमतिरमणीयपदनिवहघटितं नारायणीयनामकं स्तोत्ररत्नं रचितवान् एतदपि केरलीयैरहरहः पर्युपास्यमानं भागवतमिवविजेजीयते. एतत्स्तोत्रनिर्माणकलिगतदिवससंख्या तत्रैवान्तिमश्लोके ‘आयुरारोयसौख्यम्’ इति पदेन प्रकाशिता (१७१२२१० इति गतकलिदिवससंख्या ↩︎

  172. “संपूर्ण श्लोक स्त्वित्थम्— ‘अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ क्षमेथाः स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् । द्वेधा नारायणीयं श्रुतिषु च जनुषां स्तुत्यतावर्णनेन स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम्॥’ अत्र ‘आयुरारोग्यसौख्यम्’ इत्यस्मात्पदादार्यभटसिद्धान्तादिज्योतिःशास्त्रप्रसिद्धेन वाररुचेन कटपयादिक्रमेण ग्रन्थनिर्माणसमये ( १७१२२१० ↩︎

  173. “कपाटरन्ध्रेण” ↩︎

  174. “स्वाहासुधाकरप्रबन्ध’कर्तुरेव नारायणस्यायं सूनुरिति भाति” ↩︎

  175. “भ्रमरीमौर्वीकम्”

     ↩︎
  176. “इक्षुचापम्” ↩︎

  177. “पुष्पबाणम्” ↩︎

  178. “दुग्धाब्धिशायिनो विष्णोर्वामनेत्रं चन्द्रम्” ↩︎

  179. " शृङ्गारः” ↩︎

  180. “लोकत्रयप्राणहरम्” ↩︎

  181. “विष्णुः " ↩︎

  182. “क्षीरसागरात्” ↩︎

  183. “यज्ञम्” ↩︎

  184. “सगद्गदखरं यथा स्यात्”

     ↩︎
  185. “चन्द्रे” ↩︎

  186. “चतु०” ↩︎

  187. " बृहस्पतिना” ↩︎

  188. “हे दत्रौ अश्विनीकुमारौ युवां पश्यतम्’ इति गुरुरु- वाचेत्यर्थः” ↩︎

  189. “ओदनप्रासाः” ↩︎

  190. “ईक्षितुमिच्छा.” ↩︎

  191. “अपिदधती आच्छादयन्ती” ↩︎

  192. “दाडिमबीजानि”

     ↩︎
  193. “आदर्शपुस्तकेऽस्य श्लोकोत्तरार्धस्य शृङ्गारपक्षे टीका त्रुटितास्ति” ↩︎

  194. “रत्नाकरादिकसमकालीनः शिवखामिकविः ‘वाक्पञ्च (? ↩︎

  195. “सुवृत्ततिलकेऽयमेव श्लोको रिस्सुनाम्ना लिखितः, तस्मादिन्द्रभानोरेव रिस्सुरिति नामान्तरमिति भाति” ↩︎

  196. “अयं सूर्यशतककर्ता मयूरकविरुज्जयिनीप्रान्तेबाणभट्टसमसमये समुत्पन्न इति सुप्रसिद्धमेव” ↩︎

  197. “बिह्लणकवेः प्रपितामहो भट्टमुक्तिकलश इति विक्रमाङ्कदेवचरितेऽष्टादशेसर्गे द्रष्टव्यम्” ↩︎

  198. “अयं कुट्टनीमतग्रन्थकर्ता दामोदरगुप्तः कश्मीरमहाराजस्य जयापीडस्यसचिव आसीत्. जयापीडराज्यसमयस्तु ७५५ मितख्रिस्तसंवत्सरादारभ्यं ७८६मितसंवत्सरपर्यन्तम्.” ↩︎

  199. “इयमार्या कुट्टनीमते ४०२ एतत्संख्याविशिष्टा वर्तते.बिन्दुमणिमालाशशप्लुतकलक्षणं वात्स्यायनकामसूत्रे द्वितीयेऽधिकरणे चतुर्थपञ्चमाध्याययोर्द्रष्टव्यम्.” ↩︎

  200. “‘निशि दीपकः’ इति सुभाषितावलीपाठः” ↩︎

  201. “‘अर्थ्युपकार -’ इति सुभा०.” ↩︎

  202. “‘क इव न गता’ इति सुभाषितावलि - शार्ङ्गधरयोः पाठः” ↩︎

  203. " ‘व्यथयदालोक -’ इति सुभा० शार्ङ्ग० पाठः. " ↩︎

  204. “‘अर्थसंस्पर्श’ इति सुभा०’तरणिकरान्तरित -’ इति सुभा० शार्ङ्ग०.” ↩︎

  205. “धृष्टेन’ इति पाठो युक्तः स्यात्.” ↩︎

  206. “‘नहि’ इति सुभा० पाठः,” ↩︎

  207. “‘सर्व निश्चितवानसि’ इति सुभा०; ‘सर्वंविस्मृतवानसि’ इत्यपि पाठः” ↩︎

  208. “आलापाः’ इति सुभा०.” ↩︎

  209. “‘श्लथाशं इतिसुभा०, " ↩︎

  210. " ‘अयि’ इति सुभा०.” ↩︎

  211. “‘श्रव्यं’ इति सुभा” ↩︎

  212. “‘एतदनर्गलं’ इति सुभा०.” ↩︎

  213. “‘पृथुगल—‘इति सुभा०” ↩︎

  214. “‘न पङ्कात्’ इत्यादि श्लोकः सुभाषितावला श्रीजयवर्धननाम्ना समुद्धृतोऽस्ति” ↩︎

  215. “वपुर्दिग्धं कान्त्या स्थलनलिन रत्नद्युतिमुषा’ इति सुभा०.” ↩︎

  216. “‘चीरी’ इति॰ सुभा०. अयं श्लोकः सुभाषितावलौ भागवतजयवर्धननाम्नासमुद्धृतः.” ↩︎

  217. “यदुच्छ्रुसितेनोच्छुसते नु’ इति सुभा०.” ↩︎

  218. “‘पुष्पाढ्याः” इति सुभा॰” ↩︎

  219. “‘यन्मुधा’ इति सुभा०” ↩︎

  220. “‘एष मिथः कृतं शृङ्खलो’ इति सुभा०” ↩︎

  221. “‘अनाश्रितः’ इति सुभा०.” ↩︎

  222. “‘न युज्यते’ इति सुभा०.” ↩︎

  223. “‘सौष्ठवं’ इति सुभा०” ↩︎

  224. “‘यातः’ इति सभा०” ↩︎

  225. “‘कुठारः’ इति सभा०.” ↩︎

  226. “‘फलं फलति’ इति सुभा०.” ↩︎

  227. “‘यूयं’ इति सुभा०.” ↩︎

  228. " ‘निधनं’ इतिसुभा०.” ↩︎

  229. " ‘शोभैवाथ च काननस्थितिरियं’ इति सुभा० .” ↩︎

  230. “‘यजातोऽसि चतुष्पधे घनलसच्छायोऽसि किं छायया संयुक्तः फलितोऽसिकिं यदि फलैः पूर्णोऽसि किं संनतः’ इति सुभा०, सुभाषितावली शार्ङ्गधरपद्धतौचायं को भदन्तज्ञानवर्मणो नाम्ना समुद्धृतः.” ↩︎

  231. “‘स तु फलेदद्याथवा’ इतिसुभा०.” ↩︎

  232. “‘नैत्यत्र’ इति सुभा०” ↩︎

  233. “‘कालेन संशुष्यतां’ इति सुभा०. " ↩︎

  234. “विचेष्टते’ इति सुभा० .” ↩︎

  235. .# “‘तावदहो’ इति सुभा” ↩︎

  236. “‘भाययसि’ इति सुभा०” ↩︎

  237. “‘कुषित्वा’ इति सुभाषितावलावशुद्धः पाठः,” ↩︎

  238. “‘क्लिश्नासि’ इति सुभा०” ↩︎

  239. “‘अभ्यजनि’ इति सुभा०” ↩︎

  240. “‘नो भर्तु’ इतिसुभा०. सुभाषितावलौ ‘स्वमाहात्म्य-’ इत्यादिश्लोकस्य पूर्वोत्तरार्धयोर्व्यत्ययोऽस्ति.” ↩︎

  241. " ‘असौ’ इति सुभा” ↩︎

  242. “‘अनुराया-’ इति सुभा०” ↩︎

  243. “‘नामापि ’ इति सुभा०. " ↩︎

  244. “धृतोऽसि यदि मा स्म ततो’ इति सुभा०” ↩︎

  245. “‘रोपणपुण्यबीज’ इति सुभा०” ↩︎

  246. “‘निकषा स्थानेषु’ इति सुभा०” ↩︎

  247. “अयंश्लोकः शार्ङ्गधरपद्धतौ इन्दुराजनाम्ना, सुभाषितावलौ च यशसो नाना समुद्धृतः” ↩︎

  248. “‘अवरूढाः’ इति ‘सुभा०” ↩︎

  249. “‘एतत्’ इति सुभा०” ↩︎

  250. “‘दुष्टेन’ इति सुभा०” ↩︎

  251. “व’ इति सुभा०.” ↩︎

  252. “‘सखे’ इति सुभा०.” ↩︎

  253. " ‘रे’ इति सुभा०” ↩︎

  254. “वाल्लभ्यतो’ इति सुभा०” ↩︎

  255. “‘सत्कृति-’ इति सुभा०” ↩︎

  256. “भवतः क्षम एष’ इति सुभा०” ↩︎

  257. “अयं श्लोकःसुभाषितावलौ भागवतत्रिविक्रमनाम्ना समुद्धृतः तत्र पूर्वार्धे प्रथमद्वितीयपादयोर्व्यत्ययः” ↩︎

  258. " ‘च’ इति सुभा०. " ↩︎

  259. “‘किं’ इति सुभा०” ↩︎

  260. “‘महासत्त्वता’ इति सुभा०.” ↩︎

  261. “‘प्राक्प्रसवोऽयमत्र’ इति सुभा” ↩︎

  262. “‘विषधरज्ञानेऽपि ’ इति सुभा०.” ↩︎

  263. “‘स्पष्टं सपक्ष -’ इति सभा” ↩︎

  264. “‘प्राप्तुगुणप्रणयस्य ते’ इति सुभा०.” ↩︎

  265. “‘निहंसि’ इति सुभा० ५. ‘एतत्’ इवि सुभा०” ↩︎

  266. “‘अन्ध्रकूप यस्त्वत्प्रसादमपनेतुं’ इति सुभा०.” ↩︎

  267. “’ प्रतीच्छता’ इतिसुभा०. " ↩︎

  268. " ‘जलधिविक्रमणे’ इति सुभा०. " ↩︎

  269. “‘किमिह’ इति सुभा०.” ↩︎

  270. “‘इहयेन’ इति सुभा०.” ↩︎

  271. " ‘विकल्पमानाः’ इति सुभा०. " ↩︎

  272. " ‘व्यपदिशाम’ इतिसुभा०” ↩︎

  273. “‘अत्स्यन्ति’ इति सुभा.” ↩︎

  274. “‘पिण्डे’ इति सुभा०” ↩︎

  275. “‘गुम्फपटु’ इति सुभा०.” ↩︎

  276.  ↩︎
  277. “‘संपोषितः’ इति सुभा०” ↩︎

  278. “‘सरसस्वभावपरता’ इति सुभा० " ↩︎

  279. “‘यद्यस्त्येव’ इति सुभा०” ↩︎

  280. “‘यान्’ इति सुभा०.” ↩︎

  281. “‘मूढा मणीन्’ इति सुभा०” ↩︎

  282. “‘स्खलतः’ इति सुभा०” ↩︎

  283. “‘दशा दृग्वैशसादुद्धृतः’ इति सुभा०.” ↩︎

  284. " ‘तेऽपि क्रूर-’ इति सुभा" ↩︎

  285. “‘बहु न तु’ इति सुभा० " ↩︎

  286. “‘कियदपि’ इति सुभा०” ↩︎

  287. “‘यदस्मादपिइति सुभा०,” ↩︎

  288. “‘शनैः’ इति सुभा०.” ↩︎

  289. “‘गते हहेत्यनुदिनम्’ इति सुभा०” ↩︎

  290. “मतिः’इति सुभा०. " ↩︎

  291. “‘विबुध्यते न तदितः’ इति सुभा०.” ↩︎

  292. “‘उषसि प्रिया’ इति सुभा०.” ↩︎

  293. “‘कर्ण चपेटम्’ इति सुभा०.” ↩︎

  294. “‘त एव क्षमाः’ इति सुभा०.” ↩︎

  295. “‘पिदधता’ इति सुभा० " ↩︎

  296. “‘अमी’ इति सुभा०” ↩︎

  297. “जितार्जुना प्रतिभयंसर्वाङ्गनिम्ना गतिः’ इति सुभा०” ↩︎

  298. “‘पवन घनावस्करस्थानजातम्’ इति सुभा०.” ↩︎

  299. “‘यस्मिन्’ इति सुभा०” ↩︎

  300. “‘सह्यः’ इति सुभा०. अयं ‘कोऽयं’ इत्यादिश्लोकः सुभाषितावलौ भागवतमृतदत्तनाम्ना समुद्धृतः” ↩︎

  301. “‘शबला’ इति सुभा० .” ↩︎

  302. “‘नवचारिभारगुरवो’ इति सुभा०. " ↩︎

  303. “‘दुःखजलधौ’ इति सुभा०. " ↩︎

  304. “‘विद्युत्किं स्फुरसि’ इति सुभा० " ↩︎

  305. “‘गृहीतवाणाः’ इति सुभा..” ↩︎

  306. “‘आश्रयति’इति सुभा०. ‘अयं रज्ज्वा’ इत्यादि श्लोकः सुभाषितावली मुक्तापीडनाम्नासमुद्धृतः.” ↩︎

  307. “समजः पशुसमूहः,” ↩︎

  308. “वणिजि.” ↩︎

  309. “देवीस्तुतिरूपोऽयं ग्रन्थः, " ↩︎

  310. “सरिगमेति सप्तस्वरसूचकान्यक्षराणि.” ↩︎

  311. " खिन्नाम्. " ↩︎

  312. “‘तदासेचनकं तृप्तेनास्त्यन्तो यस्य दर्शनात्’.” ↩︎