[[संस्कृतरत्नाकर Source: EB]]
[
[TABLE]
All rights including those of translation and repraduction are reserved.
__________________________________________________________________________
संस्कृत-रत्नाकरः
Sanskrit-Ratnakara
Seleetions from Sankrit Prose and Poetry
EDITED BY
GULBAHAR SINGH, M.A., LL.B.,
Retired Professor of Sanskrit, Government College, Lahore.
<MISSING_FIG href="../books_images/U-IMG-1730688433Screenshot2024-11-04081636.png"/>
PUBLISHED BY
THE UNIVERSITY OF THE PANJAB
for the Matriculation Examination
Publisher:
Rai Bahadur Lala Ishwar Das, M.A., LL.B.,
Registrar,
University of the Panjab,
LAHORE.
COPYRIGHT
SEVENTH EDITION. 1940.
All copies legitimately sold bear the impression of
the University Seal.
Printed by:
Dharam Chand Bhargava, B. Sc.,
at the AMRIT ELECTRIC PRESS,
Railway Road, Lahore.
विषय-सूची।
प्रथमो भागः। (गद्यम्।)
[TABLE]
[TABLE]
द्वितीयो भागः। (पद्यम्)
[TABLE]
संस्कृत-रत्नाकरः।
शशकेन निपातितः सिंहः। (१)
अस्ति मन्दरनाम्नि पर्वते दुर्दान्तो नाम सिंहः। स च सर्वदा पशूनां वधं कुर्वन्नास्ते।
एकदा सर्वैः पशुभिर्मिलित्वा स सिंहो विज्ञप्तः,— ‘मृगेन्द्र, किमर्थमेकदा बहुपशुघातः क्रियते। यदि प्रसादो भवति तदा वयमेव भवदाहारार्थं प्रत्यहमेकैकं पशुमुपढौकयामः”।
ततः सिंहेनोक्तम्,— “यद्येतदभिमतं भवतां तर्हि भवतु तत्”। ततः प्रभृत्येकैकं पशुमुपकल्पितं भक्षयन्नास्ते।
अथ कदाचिद् वृद्धशशकस्य कस्यचिद्वारः समायातः। स मार्गेण गच्छन्नचिन्तयत्,—“यद्यवश्यमेव मे मरणं तर्हि किं सिंहस्यानुनयेन। मन्दं मन्दमेव गच्छामि” इति।
————
अभ्यासः।
१. सन्धिच्छेद करो— कुर्वन्नास्ते, मृगेन्द्र, प्रत्यहम् गच्छामीति।
२. सः मे, गच्छन्, अनुनयेन, भवताम्,— इन रूपों के शब्द, विभक्ति और वचन लिखो।
३. शब्दप्रयोग—
(किम्) अप्राज्ञेन सानुरार्गेण भृत्येन किम्?
किम्— अनुनयेन।
सुन्दरेण— पुरुषेण—
शब्दार्थ—
** मृगेन्द्रः।**– सिंह। उपढौकयामः।– भेंट कर देते हैं,(भेज देते हैं)। उपकल्पितम्।– दिये हुए।
————
शशकेन निपातितः सिंहः। (२)
तत्र सिंहोऽपि क्षुधापीडितः कोपात्तमुवाच,—“कुतस्त्वं विलम्बादागतोऽसि?”
शशकोऽब्रवीत्,— “देव, नाहमपराधी। आगच्छन् पथि सिंहान्तरेण बलाद् धृतः। तस्याग्रे पुनरागमनाय शपथं कृत्वा स्वामिनं निवेदयितुमत्रागतोऽस्मि”।
सिंहः सकोपमाह,— “सत्वरं गत्वा तं दुरात्मानं दर्शय, क्वस दुरात्मा तिष्ठति”।
ततः शशकस्तं गृहीत्वा गंभीरकूपं दर्शयितुं गतः। “अत्रागत्य स्वयमेव पश्यतु स्वामी” इत्युक्त्वा तस्मिन्कूपजले तस्य सिंहस्यैव प्रतिबिम्बं दर्शितवान्।
ततोऽसौ सिंहः क्रोधाध्मातो दर्पात्तस्योपर्यात्मानं निक्षिप्य पञ्चत्वं गतः।
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम्।
पश्य सिंहो मदोन्मत्तः शशकेन निपातितः॥
————
अभ्यासः।
१. सन्धिच्छेद करो—
सिंहोऽपि, कुतस्त्वम्, अत्रागत्य, इत्युक्त्वा, बुर्द्धिर्यस्य।
२. अपराधी, पथि, तस्मिन्, असौ, बुद्धेः— इन रूपों के शब्द, विभक्तिऔरवचन बताओ।
३. स्था, दृश्, ब्रू औरअस्, (अदादि) धातुओं के लङ् प्रथम पुरुष एकवचन के रूप संस्कृतवाक्यों में प्रयुक्त करो।
शब्दार्थ—
** शपथम्।**—सौगन्द। प्रतिविम्बम्।— परछाई। पञ्चत्वम्।— मौत को।
————
जरद्गवगृध्रस्य। (१)
अस्ति भागीरथीतीरे गृध्रकूटनाम्नि पर्वते महान् पर्कटीवृक्षः। तस्य कोटरे दैवदुर्विपाकाद् गलितनखनयनो जरद्गवनामा गृधः प्रतिवसति। अथ कृपया तज्जीवनाय तद्वृक्षवासिनः पक्षिणः स्वाहारात् किंचित् किंचिदुद्धृत्य ददति। तेनासौ जीवति, पक्षिशावकानां रक्षणं च करोति।
अथ कदाचिद्दीर्घकर्णनामा मार्जारः पक्षिशावकान्भक्षयितुं तत्रागतः। ततस्तमायान्तं दृष्ट्वा पक्षिशावकैर्भयार्तैःकोलाहलः कृतः।
तच्छ्रुत्वा जरद्गवेनोक्तम्,— “कोऽयमायाति”।
दीर्घकर्णो गृध्रमवलोक्य सभयमाह,—“हा हतोऽस्मि। अधुनास्य सन्निधाने पलायितुमक्षमः। तद्यथा भवितव्यं, तथा भवतु। तावद्विश्वासमुत्पाद्यास्य समीपमुपगच्छामि।
यतः—
“तावद्भयस्य भेतव्यं यावद्भयमनागतम्।
आगतं तु भयं वीक्ष्य नरः कुर्याद्यथोचितम्”॥
इत्यालोच्योपसृत्याब्रवीत्,— “आर्य, त्वामभिवन्दे”।
गृध्रोऽवदत्,—“कस्त्वम्?”
सोऽवदत्,—“मार्जारोऽहम्।”
गृध्रो ब्रूते,—“दूरमपसर। नोचेद्धन्तव्योऽसि मयाः”।
मार्जारोऽवदत्,— “श्रूयतां तावदस्मद्वचनम्”।
गृध्रोऽवदत्,—“ब्रूहि, किमर्थमागतोऽसि?”
अभ्यासः।
१. सन्धिच्छेद करो—
तज्जीवनाय, उद्भृत्य, तद्यथा, कस्त्वम्, इत्यालोच्य।
२. नीचे लिखे रूपों के शब्द, विभक्ति औरर वचन लिखो—
पक्षिणः, मया, कृपया, जीवनाय, अयम्।
३. शब्दप्रयोग—
तरुकोटरे गृध्रः प्रतिवसति।
लवपुरे—प्रतिवसन्ति।
वेन वानराः—।
पाठशालायामध्यापकाः—।
शब्दार्थ—
** सन्निधाने।–सामने। अक्षमः।– असमर्थ। भवितव्यम्।**– होना है।
** दैवदुर्विपाकात्।**– भाग्य के बुरे परिणाम (दुर्भाग्य) से।
————
जरद्गवगृध्रस्य। (२)
मार्जारोऽवदत्,— “अहमत्र गङ्गातीरे नित्यस्रायी निरामिषो ब्रह्मचारी चान्द्रायणव्रतमाचरंस्तिष्ठामि। ‘यूयं धर्मज्ञनरताः’ इति विश्वासभूमयः पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति। अतो भवद्भ्यो विद्यावयोवृद्धेभ्यो धर्मं श्रोतुमहमिहागतः। भवन्तश्चैतादृशा धर्मज्ञायन्मामतिथिं हन्तुमुद्यताः। गृहस्थधर्मश्चैषः— यदि चान्नं नास्ति, तदा प्रीतिवचसाप्यतिथिः पूज्य एव। यतः—
तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन॥
अपरं च—
निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः॥
अन्यच्च—
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते।
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति॥
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः”॥
गृध्रोऽवदत्,—“मार्जारो हि मांसरुचिः। पक्षिशावकाश्चात्र निवसन्ति। तेनाहमेवं ब्रवीमि”।
तच्छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति। ब्रूते च,— “मया धर्मशास्त्रं श्रुत्वा वीतरागेणेदं दुष्करं व्रतं चान्द्रायणमध्यवसितम्। यतः परस्परं विवदमानानामपि धर्मशास्त्राणाम् “अहिंसा परमो धर्मः” इत्यत्रैकमत्यम्।
अभ्यासः।
१. सन्धिच्छेद करो—
आचरंस्तिष्ठामि, तच्छ्रुत्वा, भूमिरुदकम्, भवन्तश्च, पूज्य एव, तेनाहमेवम्।
२. निम्नलिखित रूपों के शब्द, विभक्ति और वचन लिखो—
माम्, वचसा, सताम्, वाक्, तस्मै।
३. स्तु, आप्, कृ, और गम् धातुओं के क्तान्त, क्तवत्वन्त औरतुमुन्नन्त रूप लिखो।
शब्दार्थ—
** निरामिषः।** विश्वासभूमयः।
सूनृता।
मांस न खाने वाला। विश्वासपात्र। सच्चीऔर प्यारी।
** वेश्मनः**
सर्वदेवमयः। अध्यवसितम् (अधि+अव+सो+क्त)।
घर से। सारे देवताओं का स्वरूप। मान लिया गया।
————
जरद्गवगृध्रस्य। (३)
“हिंसा सर्वथा हेया”—इत्यत्र बहूनि प्रमाणानि विद्यन्ते।
तद्यथा—
सर्वहिंसानिवृत्ता ये नराः सर्वसहाश्च ये।
त सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः॥
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः।
शरीरेण समं नाशं सर्वमन्यत्तु गच्छति॥
अन्यच्च—
योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम्।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्वियुज्यते॥
अपि च—
मर्तव्यमिति यद् दुःखं पुरुषस्योपजायते।
शक्यस्तेनानुमानेन परोऽपि परिरक्षितुम्॥
शृणु पुनः—
स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते।
अस्य दग्धोदरस्यार्थे कः कुर्यात्पातकं महत्”॥
एवं विश्वास्य स मार्जारस्तरुकोटरे स्थितः। ततो दिनेषु गच्छत्सु पक्षिशावकानाक्रम्य कोटरमानीय प्रत्यहं खादति।
येषामपत्यानि खादितानि, तैः शोकार्तैर्विलद्भिरितस्ततो जिज्ञासा समारब्धा। तत्परिज्ञायमार्जारः कोटरान्निःसृत्य बहिः पलायितः।
पश्चात्पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरुकोटरे शावकास्थीनि प्राप्तानि।
अनन्तरम् “अनेनैव जरद्गवेनास्माकं शावकाः खादिताः” इति सर्वैः पक्षिभिर्निश्चित्य गृध्रो व्यापादितः।
अज्ञातकुलशीलस्य वासो देयो न कस्यचित्।
मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः॥
अभ्यासः।
१. सन्धिच्छेद करो—
सुहृद्धर्मः, एक एव अनेनैव, प्रीतिरन्यः।
२. नीचे लिखे रूपों के शब्द, विभक्ति और वचन लिखो—
अस्य महत्, जिज्ञासा, अस्माकम्, गामिनः।
३. अद्, हन्, गम्, और आप्, धातुओं के लोट् मध्यम पुरुष एकवचन के रूप संस्कृतवाक्यों में प्रयुक्त करो।
शब्दार्थ—
निधने। उभयोः। प्रपूर्यते। शावकान्।
मरने पर। दोनों का। भर जाता है। बच्चों को।
आर्त (आ+ऋ+क्त)। जिज्ञासा।
विह्वल (दुःखित) \। खोज।
कर्पूरपटकरजकस्य।
अस्ति वाराणस्यां कर्पूरपटको नाम रजकः। स चैकदा प्रसुप्तः। तदनन्तरं तद्गृहद्रव्याणि हर्तुं चौरः प्रविष्टः।
तस्य प्राङ्गणे गर्दभो बद्धस्तिष्ठति, कुक्कुरश्चोपविष्टोऽस्ति।
अथ गर्दभः श्वानमाह,—“सखे, भवतस्तावदयं व्यापारः। तत्किमिति त्वमुच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि”।
कुक्कुरो ब्रूते,— “भद्र, मम नियोगस्य चर्चा त्वया न कर्तव्या। त्वमेव किं न जानासि यथा तस्याहर्निशं गृहरक्षां करोमि। यतोऽयं चिरान्निर्वृतो ममोपयोगं न जानाति, तेनाधुना ममाहारदानेऽपि मन्दादरः। यतो विना विधुरदर्शनं स्वामिन उपजीविषु मन्दादरा भवन्ति”।
गर्दभो ब्रूते,— “शृणु रे बर्वर,—
याचेत कार्यकाले यः स किंभृत्यः स किंसुहृत्”। कुक्कुरो ब्रूते,— “शृणु तावत्,
भृत्यान्संभाषयेद्यस्तु कार्यकाले स किंप्रभुः”।
ततो गर्दभः सकोपमाह,— “अरे दुष्टमते, पापीयांस्त्वं यद्विपत्तौ स्वामिकार्योपेक्षां करोषि। भवतु तावत्, यथा स्वामी जागरिष्यति तन्मया कर्तव्यम्। यतः—
पृष्ठतः सेवयेदर्कं जठरेण हुताशनम्।
स्वामिनं सर्वभावेन परलोकममायया”॥
इत्युक्त्वोच्चैश्चीत्कारशब्दं कृतवान्। ततो रजकस्तेन चीत्कारेण प्रबुद्धो निद्राभङ्गकोपादुत्थाय गर्दभं लगुडेन ताडयामास।
पराधिकारचर्चां यः कुर्यात्स्वामिहितेच्छया।
स विषीदति चीत्काराद् गर्दभस्ताडितो यथा॥
अभ्यासः।
१. चैकदा, बद्धस्तिष्ठति, ममोपयोगम्, पापीयांस्त्वम्, तन्मया—इन में सन्धिच्छेद करो।
२. नीचे लिखे समस्त पदों का विग्रह करो और समासों के नाम लिखो—
गृहरक्षाम्, अहर्निशम्, किंप्रभुः?, कार्यकाले, सकोपम्।
३. प्रविष्टः, कृतवान्, हर्तुम्, प्रसुप्तः— इन के धातु और प्रत्यय लिखो।
शब्दार्थ—
रजकः। निर्वृतः। विधुरदर्शनम्।
धोबी। निश्चिन्त। विपत्ति (दुःख) देखना,(कष्ट अनुभव करना)।
विषीदति। चीत्काराद्।
दुःख पाता है। चीख से।
————
वायसदम्पती।
कस्मिंश्चित्तरौ वायसदम्पती निवसतः। तयोश्चापत्यानि तत्कोटरावस्थितेन कृष्णसर्पेण खादितानि।
ततः पुनर्गर्भवती वायसी वायसमाह,— “नाथ, त्यज्यतामयं तरुः। अत्र यावत्कृष्णसर्पस्तावदावयोः संततिः कदाचिदपि न भविष्यति।
यतः—
“दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः।
ससर्पे च गृहे वासो मृत्युरेव न संशयः”॥
वायसोब्रूते,— “प्रिये, न भेतव्यम्। वारं वारं मयैतस्य महानपराधः सोढः। इदानीं पुनर्न क्षन्तव्यः”।
वायस्याह,—“कथमेतेन बलवता सार्धं भवान् विग्रहीतुं समर्थः”।
वायसो ब्रूते,— “अलमनया शङ्कया। अत्रासन्ने सरसि राजपुत्रः प्रत्यहमागत्य स्नाति। स्नानसमये तदङ्गादवतारितं तीर्थशिलानिहितं कनकसूत्रं चञ्च्वा विधृत्यानीयास्मिन्कोटरे धारयिष्यसि”।
अथ कदाचित्स्नातुं जले प्रविष्टे राजपुत्रे वायस्या तदनुष्ठितम्।
अथ कनकसूत्रानुसरणप्रवृत्तराजपुरुषैस्तत्र तरुकोटरे कृष्णसर्पो दृष्टो व्यापादितश्च।
तथा च—
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः।
काकः कनकसूत्रेण कृष्णसर्पमघातयत्॥
अभ्यासः।
१. प्रत्यहम्, कस्मिंश्चित् कृष्णसर्पः, राजपुत्रः।
इनका विग्रह करो और समासों के नाम बताओ।
२. भविष्यति, ब्रूते, निवसतः, अघातयत्— इन क्रियाओं के धातु, लकार, पुरुष और वचन लिखो।
३. अलम्, सार्धम्— इनका संस्कृतवाक्यों में प्रयोग करो।
शब्दार्थ—
कनकसूत्रम्। व्यापादितः। सोढः।
विग्रहीतुम्।
सोने के हार को। मारा गया। सहा गया। लड़ने को (मुक़ाबला करने को)
————
कम्बुग्रीवकूर्मस्य। (१)
अस्ति मगधदेशे फुल्लोत्पलाभिधानं सरः। तत्र चिरं संकटविकटनामानौ हंसौ निवसतः। तयोर्मित्रं कम्बुग्रीवनामा कूर्मश्चप्रतिवसति।
अथैकदा धीवरैरागत्य तत्रोक्तं यत्,— “अत्रास्माभिरद्योषित्वा प्रातर्मत्स्यकूर्मादयो व्यापादयितव्याः”।
तदाकर्ण्य कूर्मो हंसावाह,— “सुहृदौ, श्रुतोऽयं धीवरालापः। अधुना किं मया कर्तव्यम्”?
हंसावाहतुः,— “ज्ञायताम्। पुनस्तावत्प्रातर्यदुचितं तत्कर्तव्यम्”।
कूर्मो ब्रूते,—“मैवम्। यथाहमन्यं हृदमद्य प्राप्नोमि, तथा क्रियताम्”।
हंसावाहतुः,— “जलाशयान्तरे प्राप्ते तव कुशलम्। स्थले गच्छतस्ते को विधिः”?
कूर्म आह,—“यथाहं भवद्भ्यां सुहाकाशवर्त्मना यामि, स उपायो विधीयताम्”।
हंसौ ब्रूतः,— “कथमुपायः संभवति”।
कच्छपो वदति,—“युवाभ्यां चञ्चुधृतं काष्टखण्डमेकं मया मुखेनावलम्बितव्यम्। युवयोः पक्षबलेन मयापि सुखेन गन्तव्यम्”।
अभ्यासः।
१. सन्धिच्छेद करो—
कूर्मश्च, हंसावाहतुः, मैवम्, धीवरालापः।
२. युवयोः, मया, गच्छतः, ते, सरः, विधिः—इन रूपों के शब्द, विभक्ति और वचन लिखो।
३. रिक्त स्थानों में उपयुक्त शब्द प्रयुक्त करो—
श्रतोऽयम् आलापः—। मयैतद्वचः तस्मै—।
किं कर्तव्यमधुना—। मया सुखेन गन्तव्यं युवयोः—
शब्दार्थ—
धीवरैः। अधुना। ह्रदम्। संभवति।
मछेरों से। अब। सरोवर को। हो सकता है, (मुमकिन है)।
————
कम्बुग्रीवकूर्मस्य। (२)
हंसौ ब्रूतः,—“आवाभ्यां नीयमानं त्वामवलोक्य लोकैः किञ्चिद्वक्तव्यमेव। तदाकर्ण्य यदि त्वमुत्तरं दास्यसि, तदा त्वन्मरणम्। तत्सर्वथाऽत्रैव स्थीयताम्”।
कूर्मो वदति,—“किमहमज्ञः। न किमपि मया वक्तव्यम्”।
ततस्तथानुष्ठिते तथाविधं कूर्ममालोक्य सर्वे गोरक्षकाः पश्चाद्धावन्ति वदन्ति च।
तत्र कश्चिदाह,— “यद्ययं कूर्मः पतति तदात्रैव पक्त्वा खादितव्यः”।
कश्चिद्वदति,— “अत्रैव दग्ध्वा खादितव्योऽयम्”।
कश्चिद् ब्रूते,— “गृहं नीत्वा भक्षणीयः” इति।
तत्परुषवचनं श्रुत्वा स कूर्मः कोपाविष्टो विस्मृतपूर्वसंस्कारः प्राह,— “युष्माभिर्भस्म भक्षयितव्यम्”। इति वदन्नेव पतितो गोरक्षकैर्व्यापादितश्च।
सुहृदां हितकामानां यो वाक्यं नाभिनन्दति।
स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति॥
अभ्यासः।
१. नीचे लिखे समस्त पदों का विग्रह करो और, समासों के नाम बताओ—
कोपाविष्टः, परुषवचनम्, गोरक्षकाः, पक्षबलेन।
२. सन्धिच्छेद करो—
वदन्नेव, पश्चाद्धावन्ति, त्वन्मरणम्, तदात्रैव, कश्चिदाह।
३. दा (जुहोत्यादि), (वि) नश्, स्था और वद् धातुओं के ऌट् उत्तम पुरुष बहुवचन के रूप संस्कृतवाक्यों में प्रयुक्त करो।
शब्दार्थ—
अज्ञः। संस्कारः। अभिनन्दति। भ्रष्टः।
मूर्ख। विचार। मानताहै। गिरा हुआ।
व्याघ्रीकृतस्य मूषिकस्य।
अस्ति गौतमस्य महर्षेस्तपोवने महातपा नाम मुनिः। तेनाश्रमसन्निधाने मूषिकशावकः काकमुखाद् भ्रष्टो दृष्टः। ततः स्वभावदयात्मना तेन मुनिना नीवारकणैः संवर्धितः।
ततो विडालस्तं मूषिकं खादितुमुपधावति। तमवलोक्य मूषिकस्तस्य मुनेः कोडं प्रविवेश।
ततो मुनिनोक्तम्— “मूषिक, त्वं मार्जारो भव”।
ततः स विडालः कुक्कुरं दृष्ट्वापलायते।
मुनिनोक्तम्,—“कुक्कुराद् बिभेषि। त्वमेव कुक्कुरो भव”।
स च कुक्कुरो व्याघ्राद् बिभेति। ततस्तेन मुनिना कुक्कुरो व्याघ्रः कृतः।
अथ व्याघ्रमपि तं मूषिकनिर्विशेषं पश्यति स मुनिः।
अथ तं मुनिं व्याघ्रं च दृष्ट्वासर्वे वदन्ति,—“अनेन मुनिना मूषिको व्याघ्रतां नीतः”।
एतच्छ्रुत्वा स व्याघ्रः सव्यथोऽचिन्तयत्,—“यावदनेन मुनिना जीवितव्यं, तावदिदं मे स्वरूपाख्यानमकीर्तिकरं न पलायिष्यते”। इत्यालोच्य मुनिं हन्तुं गतः।
ततो मुनिना तज्ज्ञात्वा “पुनर्मूषिको भव’ इत्युक्त्वा मूषिक एव कृतः।
नीचः श्लाघ्यपदं प्राप्य स्वामिनं हन्तुमिच्छति।
मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा॥
अभ्यासः।
१. सन्धिच्छेद करो—
महर्षिः, दयात्मना, तज्ज्ञात्वा, विडालस्तम्, एतच्छ्रुत्वा।
२. मुनिना, मे, क्रोडे, महर्षेः, सर्वे,— इन रूपों के शब्द, विभक्ति और वचन लिखो।
३. इच्छति, बिभेति, पश्यति वदन्ति— इन क्रियाओं के धातु, लकार, पुरुष और वचन लिखो।
४. कृतः, गतः, हतः, दृष्टः,— इनके प्रकृति और प्रत्यय बताओ और इन शब्दों का संस्कृतवाक्यों में प्रयोग करो।
शब्दार्थ—
क्रोडे। कुक्कुरम्। मूषिकनिर्विशेषम्। सव्यथः।
गोद में। कुत्ते को। मूषिक के समान। दुःखित।
वीरवरस्य। (१)
कश्चिद् वीरवरो नाम राजपुत्रः कुतश्चिद्देशादागत्य राजद्वारमुपगम्य प्रतीहारमुवाच,—“अहं तावद्वर्ननार्थी राजपुत्रः। मां राजदर्शनं कारय”।
ततस्तेनासौ राजदर्शनं कारितो ब्रूते,—“देव, यदि मया सवकेन प्रयोजनमस्ति, तदाऽस्मद्वर्तनं क्रियताम्”।
राजा उवाच, “किं ते वर्तनम्”?
वीरवरो ब्रूते,—“प्रत्यहं सुवर्णशतचतुष्टयम्”।
राजाह,—“का ते सामग्री”?
वीरवरो ब्रूते,—“द्वौ वाहू तृतीयश्च खङ्गः”।
राजाह,—“नैतच्छक्यम्”।
तच्छ्रुत्वा वीरवरः प्रणम्य चलितः।
अथ मन्त्रिभिरुक्तम्,— “देव, दिनचतुष्टयस्य वर्तनं दत्त्वा ज्ञायतामस्य स्वरूपम्—‘किमुपयुक्तोऽयमेतावद्वर्तनं गृह्णाति, अनुपयुक्तो वा’ इति”।
ततो मन्त्रिवचनादाहूय वीरवराय ताम्बूलं दत्त्वा सुवर्णशतचतुष्टयं दत्तम्।
तद्विनियोगश्च राज्ञा सुनिभृतं निरूपितः—“तदर्धं वीरवरेण देवेभ्यो ब्राह्मणेभ्यश्च दत्तम्। स्थितस्यार्धं दुःखितेभ्यः। तदवशिष्टं भोज्यव्ययविलासव्ययेनेति”।
एतत्सर्वं नित्यकृत्यं कृत्वा राजद्वारमहर्निशं खड्गपाणिः सेवते। यदा च राजा स्वयं समादिशति, तदा स्वगृहमपि याति।
अथ चतुर्थ्यां रात्रौ राजा सकरुणं क्रन्दनध्वनिं शुश्राव।
राजा उवाच,—” कः कोऽत्र द्वारि”?
तेनोक्तम्,— " देव, अहं वीरवरः”।
राजोवाच,— “क्रन्दनानुसरणं क्रियताम्”।
वीरवरः,— " यथाज्ञापयति देवः” इत्युक्त्वा चलितः।
अभ्यासः।
१. नीचे लिखे समस्त पदों का विग्रह कर के समासों के नाम बताओ—
राजदर्शनम्, प्रत्यहम्, खड्गपाणिः, अहर्निशम्, सकरुणम्।
२. द्वारि, रात्रौ, देवेभ्यः, ते, असौ, चतुर्थ्याम्— इन रूपों के शब्द, विभक्ति और वचन लिखो।
३. दा, कृ, दुह् और नम् धातुओं के क्तान्त रूपों को संस्कृतवाक्यों में प्रयुक्त करो।
शब्दार्थ—
वर्तनम्,। विनियोगः। सुनिभृतम्।
निरूपितः।
वृत्ति (गुज़ारा)। उपयोग (इस्तेमाल)। बहुत चुपके से। देखा गया।
अवशिष्टम्। विलासः। अहर्निशम्।
शेष (बाक़ी)। विनोद। दिनरात।
————
वीरवरस्य। (२)
राज्ञाच चिन्तितम्,— “नैतदुचितम्। अयमेकाकी राजपुत्रो मया सूचीभेद्ये तमसि प्रेषितः। तदहमपि गत्वा ‘किमेतत्’ इति निरूपयामि”।
ततो राजापि खड्गमादाय तदनुसरणक्रमेण नगराद् बहिर्निर्जगाम।
गत्वा च वीरवरेण रुदती रूपयौवनसंपन्ना सर्वालङ्कारभूषिता काचित्स्त्री दृष्टा, पृष्टा च,— “का त्वम्? किमर्थं रोदिषि”? इति।
स्त्रियोक्तम्,— “अहमेतस्य शूद्रकस्य राज्ञो लक्ष्मीः। चिरादेतस्य भुजच्छायायां महता सुखेन विश्रान्ता। इदानीमन्यत्र गमिष्यामि”।
वीरवरो ब्रूते,— “यत्रापायः संभवति, तत्रोपायोऽप्यस्ति। तत्कथं स्यात्पुनरिहावलम्बनं भगवत्याः”।
लक्ष्मीरुवाच,— ‘यदि त्वमात्मनः पुत्रं शक्तिधरं द्वात्रिंशल्लक्षणोपेतं भगवत्याः सर्वमङ्गलाया उपहारीकरोषि, तदाहं पुनरत्र सुचिरं सुखं निवसामि”। इत्युक्त्वाऽदृश्याऽभवत्।
ततो वीरवरेण स्वगृहं गत्वा निद्राणा स्ववधूः प्रबोधिता पुत्रश्च। तौ निद्रां परित्यज्योत्थायोपविष्टौ। वीरवरस्तत्सर्वं लक्ष्मीवचनमुक्तवान्।
तच्छ्रुत्वा सानन्दः शक्तिधरो ब्रूते,— “धन्योऽहमेवंभूतः, स्वामिराज्यरक्षार्थं यस्योपयोगः। तत्तात, कोऽधुना विलम्बस्य ‘हेतुः? कदापि तावदेवंविध एव कर्मण्येतस्य देहस्य विनियोगः श्लाघ्यः। यतः—
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्।
सन्निमित्तं वरं त्यागो विनाशे नियते सति”॥
शक्तिधरमातोवाच,— “यद्येतन्न कर्त्तव्यं, तत्केनान्येन कर्मणा मुख्यस्य महावर्तनस्य निष्क्रयो भविष्यति”।
इत्यालोच्य सर्वे सर्वमङ्गलायाः स्थानं गताः।
तत्र सर्वमङ्गलां संपूज्य वीरवरो ब्रूते,— देवि, प्रसीद।विजयतां विजयतां शूद्रको महाराजः। गृह्यतामयमुपहारः”। इत्युक्त्वा पुत्रस्य शिरश्चिच्छेद।
ततो वीरवरश्चिन्तयामास,—“गृहीतराजवर्तनस्य तावन्निस्तारः कृतः। अधुना निष्पुत्रस्य मे जीवनं विडम्बनम्”। इत्यालोच्यात्मनः शिरश्छिन्नवान्।
ततः स्त्रियापि स्वामिनः पुत्रस्य च शोकार्तया तदनुष्ठितम्।
अभ्यासः।
१. राजन्, तमस्, मातृ— इन शब्दों के सब विभक्तियों के एकवचन में रूप लिखो।
२. आदाय गत्वा, परित्यज्य, निद्राणा, पृष्टः— इनके प्रकृति प्रत्यय बताओ।
३. भू, रुद्, दा, इष्, ग्रह के शत्रन्त रूप बताओ।
शब्दार्थ—
सूची तमसि। अपायः। उपहारीकरोषि।
घोर अन्धकार में। अनिष्ट (अनर्थ)। भेंट करे।
निद्राणा। उपयोगः। निष्क्रयः।
विडम्बनम्।
सोई हुई। विनियोग (इस्तेमाल)। बदला । व्यर्थ।
————
वीरवरस्य। (३)
एतत्सर्वं श्रुत्वा दृष्ट्वा च राजा साश्चर्यं चिन्तयामास,—
“जीवन्ति च म्रियन्ते च मद्विधाः क्षुद्रजन्तवः।
अनेन सदृशो लोके न भूतो न भविष्यति॥
तदेतत्परित्यक्तेन मम राज्येनापि न प्रयोजनम्।” ततः स्वशिरश्छेत्तुमुल्लासितः खड्गः शूद्रकेनापि।
अथ भगवत्या सर्वमङ्गलया प्रत्यक्षभूतया राजा हस्ते धृतः, उक्तश्च,— “पुत्र, प्रसन्नास्मि ते। एतावता साहसेनालम्। जीवनान्तेऽपि तव राज्यभङ्गो नास्ति”।
राजा च साष्टाङ्गपातं प्रणम्योवाच,—“देवि, किं मे राज्येन, जीवितेन वा किं प्रयोजनम्। यद्यहमनुकम्पनीयस्तदा ममायुःशेषेणायं सदारपुत्रो वीरवरो जीवतु। अन्यथाहं यथाप्राप्तां गतिं गच्छामि”।
भगवत्युवाच,— “पुत्र, अनेन ते सत्त्वोत्कर्षेण भृत्यवात्सल्येन च सर्वथा संतुष्टास्मि। गच्छ, विजयी भव। अयमपि सपरिवारो राजपुत्रो जीवतु”।
इत्युक्त्वा देव्यदृश्याऽभवत्।
ततो वीरवरः सपुत्रदारः प्राप्तजीवनः स्वगृहं गतः। राजापि तैरलक्षितः सत्वरम् अन्तःपुरं प्रविष्टः।
अथ प्रभाते वीरवरो द्वारस्थः पुनर्भूपालेन पृष्टः सन्नाह,—
“देव, सा रुदती मामवलोक्यादृश्याऽभवत्। न काऽप्यन्या वार्ता विद्यते”।
तद्वचनमाकर्ण्य राजाऽचिन्तयत्,— “कथमयं श्लाघ्यो महासत्त्वः”।
ततः स राजा प्रातः शिष्टसभां कृत्वा सर्ववृत्तान्तं प्रस्तुत्य प्रसादात् तस्मै कर्णाटराज्यं ददौ।
अभ्यासः।
१. शिरश्छेत्तुम्, काप्यन्या, सन्नाह, शोकार्त्तया—इनमें सन्धिच्छेद करो और सन्धि के नियम भी बताओ।
२. नीचे लिखे समस्त पदों का विग्रह करो और समासों के नाम बताओ—सपरिवारः, प्रत्यक्षम्,क्षुद्रजन्तवः, प्राप्तजीबनः, सपुत्रदारः, राजपुत्रः।
३. शब्दप्रयोग—(अलम्)— १.एतावता साहसेनालम्। २.मित्रमेव व्यसने रक्षणायालम्। ३.दैत्येभ्यो हरिः—।, ४.रामस्तव—अलम्। ५.राक्षसान् हन्तुं कपयः—। ६. क्षुधितस्य मे तृप्त्यै अलम् (तृप्या अलम्)।
शब्दार्थ—
**यथाप्राप्तां गतिम्। **
भृत्यवात्सल्येन। प्रस्तुत्य।
भाग्यानुसार पाई हुई दशा को। नौकरों के ऊपर कृपा के कारण। कहकर।
————
पतिव्रताया महत्त्वम्। (१)
आसीत् पुरा कोऽपि महातपा वनवासी मुनिः। कदाचित् तरुच्छायोपविष्टस्य तस्योपरि बलाकैका पुरीषमुत्ससर्ज। स च क्रुद्धस्तां ददर्श। दृष्टमात्रैव सा बलाका भस्मसादभूत्। ततश्च स मुनिः तपःप्रभावादहंकारमापद्यत।
एकदासौ मुनिः क्वापि नगरे एकं ब्राह्मणगृहमेत्य तद्गृहिणीं भैक्षमयाचत। सा तु गृहिणी पतिव्रता— “प्रतीक्षस्व क्षणं, यावद् भर्तुः परिचर्य्यासमापये” इति तं निजगाद। ततश्च तं कोपदृष्ट्यावीक्षमाणं निरीक्ष्य सा विहस्य अभ्यभाषत,— “मुने, नाहं बलाका” इति। तदाकर्ण्य मुनिरद्भुतम्मन्यमानः ‘समुपविश्य—‘एतत् कथमिव ज्ञातमनया’ इति चिन्तयन् तत्र तस्थौ।
ततश्च सा साध्वी आदौ अग्निकार्य्यम्, ततः भर्तुः शुश्रूषां कृत्वा भैक्षमादाय मुनेरन्तिकमाजगाम। स च मुनिर्बद्वाज्जलिस्तामवदत्,—“कथं त्वया अनन्यगोचरो बलाकावृत्तान्तो ज्ञात इति ब्रूहि, ततो भिक्षां ग्रहीष्ये”। इत्युक्तवन्तं तं मुनिं सोवाच,- “मुने, न भर्तृसेवाया अपरं कंचन धर्मं करोम्यहम्, तेन तत्प्रसादेन मे एतादृशं विज्ञानम्। किञ्चेतः धर्मव्याधाख्यं कञ्चन मांसविक्रयिणं गत्वा एतत् पृच्छ। ततस्ते श्रेयः। त्वं निरहङ्कारश्च भविष्यसि " इति।
एवं सर्वविदा पतिव्रतयाऽभिहितो? गृहीतातिथिसत्कारस्तां प्रणम्य स मुनिस्तस्माद् गृहात् निरगात्।
अभ्यासः।
१. इन पदों में सन्धि करो— चिन्तयन्+तत्र, आदौ+अग्निः, अनया+इति, ततः+भर्तुः, मे+एतादृशम्।
२. नीचे लिखे समस्त पदोंका विग्रह करो और समासों के नाम बताओ—
महातपाः, बद्धाञ्जलिः, तरुच्छायायाम्, कोपदृष्ट्या, भर्तृसेवायाः।
३. विरुद्धाःशब्दाः—
[TABLE]
शब्दार्थ —
बलाका। पुरीषम्। अहंकारम्। परिचर्याम्।
शुश्रूषा। श्रेयः।
बगली। बीठ। गर्व को। सेवा को। सेवा।
कल्याण।
————
पतिव्रताया महत्त्वम्। (२)
अन्येद्युः स मुनिः समन्विष्य तं धर्मव्याधं विपणिस्थं मांसानि विक्रीणानमुपागच्छत्। धर्मव्याधश्च दृष्ट्वैव तं मुनिमभाषत,— “ब्रह्मन् किं पतिव्रतया तया इह त्वं प्रेषितः”? तदाकर्ण्य मुनिर्विस्मितस्तं धर्मव्याधमवादीत्, “भद्र, मांसविक्रयिणस्ते कथमीदृशं विज्ञानम्" ? इत्यभिहितवन्तं तं मुनिं धर्मव्याधो निजगाद,—“ब्रह्मन्, अहं मातापित्रोर्भक्तः। तौ हि मम परायणम्। तयोः स्नपितयोः स्वामि, भोजितयोः भुञ्जे, शयितयोश्च शये। तेन मे एतादृशं विज्ञानम्। अन्यहतानाञ्च मृगादीनां मांसानि स्वधर्म इति वृत्त्यर्थंनतु अर्थलालस्येन विक्रीणे। हे मुने, ज्ञानविघ्नमहंकारम् अहं सा च पतिव्रता नैव कुर्वः। तेनैव हेतुना आवयोरीदृशं निर्बाधं ज्ञानम्। तस्मात्त्वमपि अहंकारं मुक्त्वा स्वधर्मं चर, येनाशु परं श्रेयोऽवाप्स्यसीति”।
इत्येवमनुशिष्टस्तेन धर्मव्याधेन स मुनिस्तद्गृहान् गत्वा तस्य धर्मव्याधस्य सर्वां क्रियामवलोक्य परितुष्टो वनमगात्, अवापच्च तदुपदेशात् सिद्धिम्। तावपि पतिव्रताधर्मव्याधौ सद्धर्म्मचर्य्यया परमां सिद्धिं गतौ।
अभ्यासः।
१. पितृ, मुनि, तत् (स्त्री०)—इनके सब विभक्तियों के एक वचन में रूप लिखो।
२. शये, भुञ्जे, विक्रीणे, कुर्वः, अवाप्स्यसि—
इन क्रियाओं के धातु, लकार, पुरुष और वचन बताओ।
३. सेव्, सह, आस्, मृ, और की धातुओं के शानजन्त रूप बताओ।
शब्दार्थ—
अन्येद्युः। निर्बाधम्। आशु। परमां सिद्धिम्।
दूसरे दिन। निर्विघ्न। शीघ्र,जलदी। मोक्ष को।
————
बकस्य।
आसीत् पूर्वं मत्स्याढ्येक्वचित् सरसि कोऽपि बकः। तस्य दृष्टिभयात् तत्रस्थाः मत्स्याः पलायन्ते। स च बकः मत्स्यान् प्राप्य तान् मृषाऽब्रवीत्,— “भद्राः, इह कश्चित् जालवान् मत्स्यादः आगतः। स जालेन युष्मान् गृहीत्वा अचिरात् हनिष्यति। तन्मम वचसि विश्वासश्चेत्, कुरुध्वं मद्वचनम्। अस्ति एकान्ते स्वच्छं सरः, यन्न ज्ञातं धीवरैः। युष्माकं तत्र निवासार्थम् अहं क्रमशः एकैकं नेतुं तत्रइच्छामि”। तदाकर्ण्य सभयैस्तैर्मत्स्यैर्जडबुद्धिभिरुक्तम्,—“एवं कुरुष्व। वयं सर्वे त्वयि विश्वस्ताः” इति।
ततो बकस्तान् क्रमेण नीत्वा शिलातले क्वचित् निक्षिप्य एकैकं भक्षयामास। अथ तान् मीनान् नयन्तं बकं दृष्ट्वा तत् सरोगतो सुकरस्तं वकं “क्व नयसि मीनान्” इति पप्रच्छ। ततस्तं स तदेवाह यत् मत्स्यानन्यान् पूर्वम्। ततश्च सरुषा तेनोक्तम्,— “तर्हि मामपि तत्र नय”। ततोऽसौ यावद् बकेन शिलातले न्यस्तः, तावत्स धीमान् मकरस्तस्य वञ्चकस्य बकस्य शिरश्चकर्त शशंस चागत्य तद्वार्तां सर्वान् मत्स्यान्। ते चापि तं प्राणप्रदायिनं तुष्टाः समभ्यनन्दयन्।
तस्मात् प्रज्ञैव बलम्। निष्प्रज्ञस्य किं बलेन।
अभ्यासः।
१. सरसि, युष्मान्, मम, वचसि, ते, पूर्वम्—
इन रूपों के शब्द, विभक्ति, और वचन भी बताओ।
२. नेतुम्, दृष्टः, आगतः, उक्तम्, नयन्तम्—
इनमें प्रकृति-प्रत्यय बताकर इनकी धातुओं के लट् में रूप लिखो।
३. सन्धिच्छेद करो—तन्मम,कश्चित् तेनोक्तम्, वकस्तान्,एकैकम्। प्रज्ञैव।
शब्दार्थ—
जालवान्। वञ्चकस्य।
जाल वाला (जाल लिए हुए)। ठग का।
————
मुनिमूषिकयोः।
पूर्वं कश्चिन्मुनिः कस्यापि हस्तच्युतां मूषिकां शिशुं प्राप्य कृपया तपोबलात् कन्यामकरोत्। कालेन प्राप्तयौवनामाश्रमवर्द्धितां तां दृष्ट्वा स मुनिः बलवते दातुमादित्यमाह्वयत्, अवदच्च,— “विभावसो, बलवते दित्सितामेतां कन्यां परिणय" इति। तदाकर्ण्य रविरब्रवीत्,—“ब्रह्मन्, मत्तोऽपि मेघो बलवान्। स हि क्षणेन मां स्थगयति”।
तदाकर्ण्य स मुनिस्तं विसृज्य तथैव मेघमाह्वयदवदच्च। ततः सोऽब्रवीत्,—- “भगवन्, मत्तोऽपि वायुर्बलवान्। स क्षणात् मां दिक्षु क्षिपति”। इत्युक्तः स मुनिर्वायुमाहूय तथैवावदत्। वायुरुवाच,— “मत्तोऽपि शैलाः बलवन्तः। तदेकं तेषामाह्वय” इति। श्रुत्वैतदृषिर्यावत् तमद्रिमाह, तावत् सोऽपि तं जगाद,—“ब्रह्मन् मूषिकाः मत्तो बलवन्तः। ते मम छिद्राणि कुर्वते”।
एवं क्रमेण दैवतैर्ज्ञानिभिश्च प्रत्युक्तो महर्षिर्वनसम्भवमेकं मूषिकमाह्वयत्, उवाच च,—“कन्यामेतां परिणय” इति। सोऽवदत्,—“ब्रह्मन्, कथमेषा बिलं प्रवेक्ष्यतीति समादिश्यताम्” इति। ततः स “पूर्ववत् मूषिकैवास्तु” इति तां मूषिकां कृत्वा तस्मै आखवे प्रायच्छत्।
अभ्यासः।
१. नीचे लिखे पदों का विग्रह करो और समासों के नाम बताओ—तपोबलात्, महर्षिः, हस्तच्युताम्, सुनिमूषिकयोः।
२. अब्रवीत्, अकरोत् परिणय, कुर्वते, अवदत्—
इन क्रियाओं का परिचय दो।
३. नीचे लिखे शब्दों के स्त्रीप्रत्ययान्त रूप बताओ—
राजन्, श्वन्, विद्वस्, कुमार, वर्कर, नर, पति, युवन्।
शब्दार्थ—
विभावसो। स्थगयति। आखुः।
हे सूरज। ढांप लेता है। चूहा।
————
सिंहशृगालगर्दभानाम् (१)
आसीत् कोऽपि गोमायुसचिवः सिंहः क्वचिदरण्ये। स च कदाचित् व्याधस्य हेतिभिः क्षतो जीवन् गिरिगुहामासःसाद। तत्र स्थिते तस्मिन् स गोमायुर्वृत्तिग्लानस्तमभ्यधात्,—“प्रभो, निर्गत्य यथाशक्ति आहारं किं न चिनुषे? शरीरन्ते परिजनेन समं सीदति” इति। तदाकर्ण्य सिंहोऽब्रवीत्,— “सखे! नाहं रणात् क्लान्तः भ्रमितुं शक्नोमि। यद्यहं खरस्य कर्णहृदयं भक्ष्यं प्राप्नोमि, तन्मे व्रणानि रोहन्ति, अहञ्च प्रकृतिस्थो भवामि। तदाशु त्वं कुतोऽपि गर्दभमेकमानय” इति। एवमुक्तस्तेन स गोमायुस्तथेति प्रतिज्ञाय प्रययौ।
भ्रमँश्च कस्यचिद्रकस्यान्तिके गर्दभं दृष्ट्वा प्रीत्या तमभ्युपेत्य प्राह स्म,— “भोः, किं भवानीदृक् दुर्बल” इति।
“कृशीभूतोऽस्मि, रजकोऽतिनिर्दयो मह्यमतिभारं वहतेऽपि घासमुष्टिमपि न प्रयच्छति”। इत्युक्तवन्तं तं खरं स प्रोवाच जम्बूकः,— “भद्र, इह किं खेदमनुभवसि? एहि मया सह। तद्वनं त्वां नयामि यत्र त्वं स्वर्गसुखमाप्स्यसि” इति। तच्छ्रुत्वा स गर्दथेत्युक्त्वा भोगलोलुपः तेन गोमायुना सह सिंहसकाशमगात्।
अभ्यासः।
१. नीचे लिखे पदों का विग्रह करो और समासों के नाम बताओ—
यथाशक्ति, कर्णहृदयम्, स्वर्गसुखम् गिरिगुहाम्, सिंह शृगालगर्दभाः।
२. नीचे लिखे वाक्यों में कारक लिखो और नियम भी बताओः—
एहि मया सह। मह्यं घासमुष्टिमपि न प्रयच्छति। परिजनेन समम्। अहं तद्वनं त्वां नयामि।
३. गम्, दृश्, शी, स्मृ, और कृ धातुओं के अनीयान्त; भू, स्था, वृत्, सह् और हन् के तव्यान्त और जि, दा और नी के यदन्त रूप बताओ और गम् धातु का अनीयान्त, स्था धातु का तव्यान्त और दा धातु का यदन्त रूप संस्कृतवाक्यों में प्रयुक्त करो।
शब्दार्थ—
गोमायुः। हेतिभिः। वृत्तिग्लानः।
प्रकृतिस्थः।
गदिड़। शस्त्रों से। भोजन से निराश। स्वस्थ।
अन्तिके। लोलुपः।
पास। उत्सुक (लोभी)।
————
सिंहशृगालगर्दभानाम्। (२)
तत्रागतञ्च तं वीक्ष्यैव स सिंहस्तस्य पृष्ठे करप्रहारमदात्। स तु तेन विक्षतस्त्रस्तः खरः सत्वरं पलाय्य अगच्छत्। सिंहस्तु विह्वलाकुलः तं न पुनराक्रमत। ततश्चासिद्धकार्य्यः सत्वरं गुहायामविशत्। ततः स मन्त्री जम्बूकः सोपालम्भमब्रवीत्,— “प्रभो, एष वराकः गर्दभश्चेत् त्वया न हतः, तदा हरिणादिवधे तव का वार्त्ताभविष्यति?” तदाकर्ण्य स सिंहः सलज्जमवदत्,—“यथा वदसि तत्तथा, साम्प्रतं पुनस्तं खरमत्रानय। अहं तावत् सज्जो भूत्वा तिष्ठामि तद्वधाय”।
इति सम्प्रोषितस्तेन स जम्बूकः पुनर्गर्दभमुपेत्य अभ्यभाषत,— “सखे, किं विद्रुतोऽसि”? “अहं केनापि सत्त्वेन तत्र ताडितः” इति वादिनं तं खरमाह स्म जम्बूको विहसन्,—“मिथ्या विभ्रमस्त्वया दृष्टः। नचात्र तादृशं किमपि सत्त्वमस्ति येनाहमपि सुखं निवसामि। तदद्य मया साकं तत् निर्बाधमरण्यमागच्छ”।
इति जम्बूकवचनात् विश्वस्तः स खरः पुनस्तत्राभ्यगच्छत्। तत्रागतं दृष्ट्वैव स सिंहो गुहामुखात् निर्गत्य पृष्ठे निपत्य नखैर्विदार्य्य न्यवधीत्। इत्थं तं गर्दभं निहत्य जम्बूकं तस्य रक्षकं नियुज्य श्रान्तः सिंहः स्नातुं सरोवरमगच्छत्। तत्कालमेवासौ धूर्तो जम्बूकः खरस्य हृदयं कर्णौ चाभक्षयत्।
अथ स्नातागतः स केसरी तं तथागतं दृष्ट्वा,— “क्व गतौ कर्णौ हृदयञ्चास्य" इति तं गोमायुमपृच्छत्। स च प्रत्यभाषत,—“प्रभो,
अकर्णहृदय एवासौ प्रागेवासीत्। अन्यथा कथं त्वां दृष्ट्रा प्रतिनिवृत्य पुनरायातः”। तदाकर्ण्य स हरिस्तथैव मत्वा तं भक्षयामास। शेषं च तन्मांसं जम्बूकोऽपि चखाद।
अभ्यासः।
१. मन्त्री, प्रभो, हृदयम्, विहसन्, सखे— इनके शब्द, विभक्ति और वचन लिखो।
२. स्नातागतः, अकर्णहृदयः, करप्रहारम्, सलज्जम्— इन समस्त पदों का विग्रह करके समासों के नाम बताओ।
३. रिक्त स्थानों में उपयुक्त शब्द प्रयुक्त करो।
सिंहं दृष्ट्वा खरः—। असिद्धकार्य्यः सिंहो गुहायाम्—। सिंहः—अगच्छत्। धूर्तः—खरस्य हृदयम्।
शब्दार्थ—
वराकः। सज्जः। इत्थम्।
तुच्छ। तैय्यार। इस प्रकार।
————
कपोतमृषिकयोः।
आसीत् कस्मिंश्चित् वनोद्देशे महान् शाल्मलीतरुः। तत्रैको लघुपातीति कृतनामधेयो वायसः कृतालयस्तस्था। स कदाचित् स्वंनीडस्थः तरोरधस्तात् जालहस्तं सलगुडं रौद्ररूपं पुरुषमैक्षत। ततस्तं यावत् स काको वीक्षते, तावत् स जालं वितत्य भुवि तण्डुलान् विकीर्य्य प्रच्छन्नोऽभवत्।
अत्रान्तरे चित्रग्रीवनामा कपोतपतिः परिवारशतैर्वृतो भ्रमन्तत्र समाजगाम। स तु तान् तण्डुलान् पतितान् दृष्ट्वाभोजनलिप्सया सवर्गः पतितो जाले शाकुनिके बद्धोऽभवत्। तद्दृष्ट्वैव स कपोतराजः सर्वाननुचरान् जगाद, —“भद्राः, चञ्चुभिर्जालं गृहीत्वा सर्वे समकालमुत्पतत सवेगम्”। ततस्ते भीताः कपोताः सर्वे तथेति जालमादाय वेगतः समुत्पत्य नभसा गन्तुं प्रचक्रमिरे। सोऽपि दृष्ट्वाऊर्ध्वदृष्टिः समुद्विग्नो लुब्धकः सन्न्यवर्तत।
अथ निर्भयश्चित्रग्रीवस्ताननुयायिनः कपोतानब्रवीत्,—“भोः, मित्रस्य मे हिरण्यकस्य मूषिकस्य सकाशं व्रजामः। स एवास्माकं पाशानेतान् समुच्छेत्स्यति”। इत्युक्त्वा स सानुगैः कपोतैर्जालकार्षभिः समेतः सत्वरं तस्य मूषिकस्य बिलद्वार प्राप्य नभसः समवततार।
‘भो मित्र हिरण्यक, निर्याहि, मित्रमहं ते चित्रग्रीवः समायातः’। इत्थं स कपोतपतिस्तं मूषिकमाजुहाव। सोऽपि मूषिको हिरण्यकः
द्वारमार्गेण आगतं तं सुहृदं दृष्ट्वाससम्भ्रमं तस्मात् शतमुखात् बिलात् निर्ययौ। सत्वरं समुपेत्य च तं वृत्तान्तं पृष्ट्वातस्य सानुगस्य पारावताधीशस्य पाशानच्छिनत्। अथ छिन्नपाशः स कपोतराजः अनुगैः सह तं मूषिकमामन्त्र्य स्वस्थानं ययौ।
अभ्यासः।
१. नीचे लिखी क्रियाओं के धातु, लकार, पुरुष और वचन बताओ—ऐक्षत, सन्न्यवर्तत, अब्रवीत्, आसीत्।
२. समेतः, भ्रमन्, कृतः, पतितः—इन पदों के प्रकृति-प्रत्यय लिखकर इनके धातुओं के लङ् लकार के रूप लिखो।
३. पति, भूपति, मित्र —इनके सब विभक्तियों के एकवचन के रूप लिखो।
शब्दार्थ—
वेगतः। अनुगः। स्वनीडस्थः।
समकालम्।
वेग (तेज़ी) से। अनुचर। (नौकर)। अपने घोंसले में बैठा हुआ। एकदम।
————
विप्रभोजसंवादः।
अथ मुञ्जेतपोवनं याते, बुद्धिसागरं मुख्यामात्यं विधाय स्वराज्यं बुभुजे भोजराजभूपतिः। एवमतिक्रामति काले कदाचिद्राज्ञाक्रीडोद्यानं गच्छता कोऽपि धारानगरवासी विप्रो लक्षितः। स च राजानं वीक्ष्य नेत्रे निमील्य आगच्छन् राज्ञापृष्टः,—“द्विज, त्वं मां दृष्ट्वा स्वस्तीति न जल्पसि, विशेषेण लोचने निमीलयसि। तत्र को हेतुः?” इति।
विप्र आह,—“देव, त्वं वैष्णवोऽसि, विप्राणां नोपद्रवं करिष्यसि। ततस्त्वत्तो न मे भीतिः। किन्तु कस्मैचित् किमपि न प्रयच्छसि तेन तव दाक्षिण्यमपि नास्ति। अतस्ते किमाशीर्वचसा। किञ्च, ‘प्रातरेव कृपणमुखावलोकनात् परतोऽपि लाभहानिः स्यात्’ इति लोकोक्त्यालोचने निमीलिते”।
राजा तस्य सत्यप्रियतया निर्भीकतया च प्रसन्नः प्राह,—“विप्रवर, शृणु—
सुलभाः पुरुषा लोके सततं प्रियवादिनः।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः॥
मनीषिणः सन्ति न ते हितैषिणो
हितैषिणः सन्ति न ते मनीषिणः।
सुहृश्च विद्वानपि दुर्लभो नृणां
यथौषधं स्वादु हितञ्च दुर्लभम्॥”
इति विप्राय लक्षं दत्त्वा, “किं ते नाम?” इति पप्रच्छ। विप्रः स्वनाम भूमौ लिखति “गोविन्दः” इति। राजा वाचयित्वोवाच,—“विप्र, प्रत्यहं राजभवनमागन्तव्यम्, न ते कश्चिनिषेधः”।
अभ्यासः।
१. नीचे लिखे पदों का परिचय दो —
लोचने, स्वनाम, गच्छता, प्रियवादिनः, श्रोता, नृणाम्, स्वादु।
२. नियम सहित कारक बताओ—
(१) काले अतिक्रामति।
(२) विप्राय लक्षं दत्त्वा।
(३) किमाशीर्वचसा।
(४) त्वत्तः न मे भीतिः।
शब्दार्थ—
अतिक्रामति। स्वस्ति। उपद्रवम्।
कृपणः। मनीषिन्
व्यतीत होने पर। भला हो। अपकार (हानि) कंजूस।
बुद्धिमान्।
————
भट्टिपुत्रस्य कमलाकरस्य। (१)
गुरूपदेशं शृण्वन्तः क्षेमं यान्तीह बालकाः।
गुरुपदेशादभवत् सर्वज्ञःकमलाकरः॥
उज्जयिन्यां भट्टिर्नाम कोऽपि ब्राह्मण आसीत्। तस्याभयाम्वा नाम भार्या, कमलाकरो नाम तनयः। एकपुत्रौ तौ कमलाकरे नितान्तं प्रेमवन्तौ बभूवतुः। किन्तु कमलाकरः प्रतिदिनमाकण्ठं भुञ्जानो वस्त्राभरणादिभिः शरीरमलंकृत्य विद्यापराङ्मुखो विषयोन्मुखश्चाभवत्। तथाविधं तमाहूय भट्टिः कदाचिदेवमुपदिदेश,—“पुत्र, स्वकर्मवशादयमात्मा नानायोनिषु जन्म प्राप्नोति। कदाचित्सत्कर्मवशान्मनुष्ययोनिं प्रविशति। तत्रापि ब्राह्मणकुले जन्म महता पुण्येन लभ्यते। तल्लब्ध्वपि त्वमेवं दुर्वृत्तोऽसि। सर्वदा बहिरेव संचरसि। भोजनकाले केवलं गृहमागच्छसि। किंच, तवायं विद्याभ्यासस्य कालः। इदानीं यदि विद्यां नाभ्यस्यसि तर्हि पश्चात्तव महान् संताषोभविष्यति।
रूपयौवनसंपन्ना विशालकुलसंभवाः।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः॥
अपरं च, यावदहं जीवामि तावत्त्वया विद्याभ्यसनीया। पश्चात्तुसा दुर्लभा भवेत्। अतः इतः परं मैवं स्वच्छन्दं चर। परित्यज बालबुद्धिम्। प्रवर्तय मनो विद्यायाम्। निवर्तय विषयेभ्यः। सफलय चात्मनो जन्म” इति।
अभ्यासः।
१. सन्धिच्छेद करो— गुरूपदेशम्, यान्तीह, तल्लब्ध्वापि, कमलाकरः, पराङ्मुखः।
२. विद्याहीनाः, प्रतिदिनम्, बालबुद्धिम्, विषयोन्मुखः—इन समस्त पदों का विग्रह करके समासों के नाम भी बताओ।
३. जन्मन्, मनस्, विद्या—इनके सब विभक्तियों के एकवचन में रूप लिखो।
४. भू, अस्, (अदादि), आप्, लभ्, और कृ धातुओं के विधिलिङ् प्रथम पुरुष एकवचन के रूप संस्कृतवाक्यों में प्रयुक्त करो।
शब्दार्थ—
तनयः। नितान्तम्। दुर्वृत्तः।
किंशुकाः।
पुत्र। बहुत, अत्यन्त। दुराचारी। केसू।
————
भट्टिपुत्रस्य कमलाकरस्य। (२)
एवं पितुरुपदेशं श्रुत्वा पश्चात्तापपीडितः कमलाकरः ‘यदाहं सर्वज्ञो भविष्यामि तदा पितृमुखं द्रक्ष्यामि’ इति मनसि निश्चित्य काश्मीरदेशं जगाम। तत्र चन्द्रमौलिभट्टो नाम कोऽपि महापण्डितोऽभूत्। ‘तत्सकाशे बहवो विद्यार्थिनो विद्यामभ्यस्यन्ति’ इति श्रुत्वा कमलाकरस्तमुपसृत्य सविनयं प्रणम्य विज्ञापयति स्म,—“भोः स्वामिन्, मूर्खोऽहं भवतः सकाशाद्विद्यामभ्यसितुमागतोऽस्मि। प्रसीद। यथाहं सर्वज्ञो भवेयं तथा मामध्यापयितुमर्हसि” इति। पण्डितोऽपि विनीतमेनं शिष्यं स्वीचकार। कमलाकरश्च भक्त्या गुरुं शुश्रूषमाणः पपाठ।
तथा च स्मृतिः—
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा।
अथवा विद्यया विद्या चतुर्थं नोपलभ्यते॥
यथा खनन् खनित्रेण नरो वार्यधिगच्छति।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति॥ इति च।
एवमप्रमादं शुश्रूषया विद्याभ्यासपरे तस्मिन् गुरोर्महती प्रीतिरजायत। स सर्वाणि शास्त्राणि सम्यगध्यापयति स्म। अन्ते च प्रसन्नः सिद्धसारस्वतं नाम रहस्यतमं मन्त्रं तस्मा उपदिदेश। तेन चोपदेशेन सर्वज्ञोभूत्वा कमलाकरः कृतार्थमात्मानं मन्यमानः पितृमुखं दिदृक्षुर्गुरोरनुज्ञामवाप्य स्वनगरमाजगाम। तत्पितापि सर्वज्ञंपुत्रं ज्ञात्वा परां संतुष्टिमगमत्॥
अभ्यासः।
१. अध्यापयति, उपलभ्यते, अजायत, विज्ञापयति, द्रक्ष्यामि—इन क्रियाओं में उपसर्ग, धातु, लकार, पुरुष और वचन लिखो।
२. पितृमुखम्, गुरुशुश्रूषया, पश्चात्तापपीडितः, विद्यार्थिनः— इन समस्त पदों का विग्रह करो और समासों का नाम बताओ।
३. नामन्, वारि, भवत्— इन शब्दों के सब विभक्तियों के बहुवचन में रूप लिखो।
४. रिक्त स्थानों में उपयुक्त शब्द प्रयुक्त करो—
अध्यापकाः______। ___गुरुं______। विद्यार्थिनः______। ___पितरौ______\।
शब्दार्थ—
पश्चात्तापः। विनीतः।
शुश्रूषा।
अनुताप, अनुशय, खेद। विनययुक्त (नम्र )। सेवा।
दिदृक्षुः। अनुज्ञाम्।
देखना चाहता हुआ। अनुमति को।
————
विद्याभ्यासः।
विद्याविषये परमः फलवान् यत्न आर्यैरादृत आसीत्। विद्वांसो विद्यार्थिनम् उपगतं धनानपेक्षया विद्याम् अध्यापयामासुः। राजभिश्च विद्यामन्दिराणि राजधानीषु परिकल्पितानि।
माणवकस्यावरतो द्वादश वर्षाणि गुरुकुले वासो भवेत्। स गुरुं भक्त्या शुश्रूषमाणो विद्याम् अधीयीत। अथ यथाशक्ति दक्षिणां गुरवे समर्प्य स गुरुकुलात् समावर्त्तेत। इत्येषा पुरातनी विद्याभ्यासरीतिः।
समावर्तमानं व शिष्यं गुरुरेवम् अनुशास्ति,—“सत्यं वद। धर्मं चर। स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्। मातृदेवो भव। पितृदेवो भव। यान्यनवद्यानि कर्माणि तानि सेवितव्यानि, नो इतराणि " इति।
न केवलं पुरुषाः, स्त्रियोऽपि पुरा विद्यां निरङ्कुशम् अभ्यस्यन्ति स्म। ताः किल ब्रह्मविद्यायाम् अपि निपुणा बभूवुरिति उपनिषद् अस्मान् बोधयति। ये विद्वांसः, ये च प्रवक्तारः, तेष्वसामान्यो बहुमानो राज्ञां जनानां चासीत्। अतश्च विद्याभ्यासे बाला अतिमात्रम् उद्यमिनोऽभवन्।
अभ्यासः।
१. विद्वस्, फलवत, कर्मन्—इनके सब विभक्तियों में रूप लिखो।
२. नीचे लिखे समस्त पदों का विग्रह करो और समासों के नाम बताओ—
गुरुकुल, विद्याभ्यांसः यथाशक्ति, ब्रह्मविद्यायाम्, मातृदेवः, द्वादश।
३. अनुशास्ति, अधीयीत, भवेत्, बोधयति—
इन क्रियाओं के धातु, लकार, पुरुष और वचन लिखो।
शब्दार्थ —
अनवद्यानि। समावर्तमानम्।
निरंकुशम्। अतिमात्रम्।
अनिन्द्य, शुद्ध। शिक्षा समाप्त करके जाते हुए को। बे-रोकटोक (स्वतन्त्रता से)। अत्यन्त।
————
वैदिकमतम्।
आर्याः— ‘दैवम् अस्ति’—इति मतम् आश्रिताः। आपोऽग्निः सूर्यो वायुर्भूमिराकाश इत्येतेषां विशिष्टं महत्त्वं पश्यामः। एतैर्हि जायमानाः प्राणिनाम् उपकृतयः सङ्ख्यातुंन शक्यन्ते। अत एतेषु ते देवबुद्धिं चक्रुः। सत्योद्यौर्मन्त्रैरेतान्? स्तुवन्ति स्म। पयसा घृतेन हविषा च यजन्ते स्म। परस्सहस्रा हि यज्ञा वेदेषु प्रतिपादिताः। यज्ञेषु च महती श्रद्धा तेषां स्थिता।
क्रमेण तेऽग्न्यादीनाम् अपि कारणं विमृशन्तः सर्वानुस्यूतं चिदानन्दरूपं वस्तु परब्रह्मशब्दितम् उपनिषद्भिर्व्यवस्थापयामासुः। अस्य निरन्तरया भावनया जीवानां मोक्षो भवति। अन्ये पुनरुपासनाभेदा एतस्याः परिचायकाः। आमुक्तेर्जीवानां पुनर्जन्म भवतीति चार्याणामभ्युपगमः।
सत्यं शौचं दया दानं क्षमेति महागुणाः पुण्यहेतवः। अनृतं क्रोधः परदारसङ्गोमधुपानं लोभो हिंसेति दोषा महापातकहेतवः। एकदारनियमः पातिव्रत्यं च परमं ब्रह्मचर्यम् आर्याणाम्।
अभ्यासः।
१. पयसा, हविषा, प्राणिनाम्, अन्ये, एतेषाम्, आपः—इन रूपों के शब्द विभक्ति और वचन लिखो।
२. महती, मधु— इन शब्दों के सब विभक्तियों के रूप लिखो।
३. स्तुवन्ति यजन्ते, शक्यन्ते, पश्चामः— इन क्रियाओं के धातु, लकार, पुरुष और वचन लिंखो।
शब्दार्थ—
दैवम्। मधु। विमृशन्तः।
सर्वानुस्यूतम्। भावना। अभ्युपगमः।
ईश्वर। शराब। विचारते हुए। सर्वव्यापक। ध्यान।
सिद्धान्त।
————
श्रीरामचरितम्। (१)
अयोध्यायां पुरा दशरथो नाम राजा बभूव। तस्य कौसल्या, कैकेयी, सुमित्रा इति तिस्रो धर्मपत्न्य आसन्। तस्य पुत्रार्थे तत्पुरोहितस्य वसिष्ठमहर्षेरनुमत्या जामाता ऋष्यशृङ्गो नाम महर्षिः पुत्रकामेष्टिम् अनुष्ठितवान्। ततः कौसल्या ज्येष्ठा राजपत्नी श्रीरामम्, कैकेयी मध्यमा भरतम्, सुमित्रा च कनिष्ठा लक्ष्मणशत्रुघ्नौ यमलौ प्रसूतवती।
अधीतसाङ्गवेदेषु बालेषु रामलक्ष्मणौ महर्षिर्विश्वामित्रो यज्ञरक्षायै स्वाश्रमं निनाय अस्त्रविद्यां चाध्यापयामास। गुरुः स्वारब्धस्य यस्य विघ्नकारिणो राक्षसान् हतवतोस्तयोः शिष्ययोरत्यन्तं परितुतोष।
अथ ताभ्यां सह महर्षिर्विदेहाधिपतेर्जनकस्य राजधानीं मिथिलां जगाम। तत्रान्यैरनमितं जनकेन पूज्यमानं शैवं धनुर्विशेषं जनकस्य गुरोश्चानुमत्या रामो लीलया नमयन् भग्नवान्। एवं स्वबाहुवीर्ये दर्शिते वीर्यशुल्काम् अतिसुन्दरीं जनकस्य सुतां सीतां रामः परिणयति स्म। तस्यान्यां कन्याम् ऊर्मिलां लक्ष्मणः, तद्भ्रातुः सुतां माण्डवीं भरतः, श्रुतकीर्तिं शत्रुन्घश्च परिणीतवान्।
ततो मार्गे प्रत्यवस्थितं क्षत्रशत्रुंपरशुरामं जित्वा सदारः सह भ्रातृभिरयोध्यां रामः प्रत्याजगाम।
अभ्यासः।
१. सन्धिच्छेद करो— महर्षिः, गुरोश्चानुमत्या, परिणयति।
२. रामलक्ष्मणौ, राजपत्नी, क्षत्रशत्रुम्, सदारः—इनका विग्रह करके समासों के नाम बताओ।
३. जित्वा, नमयन्, अनुष्टितवान्, परिणीतवान्—इनका पदपरिचय दो।
शब्दार्थ—
यमलौ। शैवम्।
एक साथ पैदा हुए दो लड़के [जोड़े ]। शिव का।
शुल्कः—शुल्कम्।
विवाह के समय जो उपहार वर वधू को देता है।
————
श्रीरामचरितम्। (२)
अथातिवृद्धो दशरथः सर्वैर्गुणैरुपेतं प्रियं ज्येष्ठं पुत्रं रामं राज्येऽभिषेचयितुं मतिं चकार। किन्तु तस्य स मनोरथः कैकेय्या विफलित आसीत्। पुरा हि क्वचन युद्धे कृतोपकारायै तस्यै परितुष्टेन दशरथेन द्वौ वरौ यथेच्छवरणीयौ प्रतिश्रुतौ। तयोरेकं वरं ‘भरतो राज्येऽभिषेक्तव्य’ इति, अन्यं वरं च ‘चतुर्दश वर्षाणि वन्यवृत्या रामेण वने वर्त्तितव्यम्’ इति सा साम्प्रतम् अवृणीत।
राज्यमनिच्छतःस्वभक्तस्य भरतस्य प्रार्थनया राज्याभिषेकायात्मनः पादुके प्रतिनिधाय रामः सह सीतया लक्ष्मणेन च पितृवाक्यगौरवाद वनं प्रविवेश। दशरथस्तु पुत्रवियोगम् असहमानो भूलोकवासम् अत्यजत्।
वने चरन्तौ रामलक्ष्मणौ कापि कामुकी राक्षसी शूर्पणखा नाम कदर्थयामास। कदर्थनासंरम्भम् असहमानो मायाविन्यास्तस्या नासां लक्ष्मणश्चकर्त।
अथ कुपितया तया प्रेरितस्तभ्राता रावणो नाम लङ्कापतिः सीतादेवीं मारीचस्वर्णमृगमायया रामलक्ष्मणाभ्यां रहयित्वापजहार, लङ्कायां चावरुरोध। अथ सुग्रीवं वानरपतिं तद्भ्रातुः बालिनो वधाद् उपकृतं हनुमत्प्रभृतिभिर्वानरसैन्यैरुपेतं सहायम् आसाद्य सलक्ष्मणो रामः सेतुमार्गेण लङ्कां जगाम। रावणभ्रातरं च शरणागतं विभीषणं स्वपक्षे चकार। ततः स्व-
दारापहारिणं रावणं सपरिजनंहत्वा रामः सीतां प्रत्यानिनाय। बहुभिः प्रकारैरवगतायां तस्याः शीलशुद्धौ सतयालक्ष्मणेन च सार्धम् अयोध्यां प्रत्यागत्य चिरं धर्मेण राज्यम् अकरोत्।
अभ्यासः।
१. सन्धिच्छेद करो—
मनोरथः, यथेच्छम्, शुर्पणखा, शरणागतम्।
२. नासाम्, तस्यै, मायया, भ्रातुः, शुद्धौ—
इनके शब्द, विभक्ति और वचन लिखकर प्रथमा विभक्ति के रूप लिखो।
३. अस्, रुध्, सद् औरगम् धातुओं के लोट्प्रथम पुरुष एकवचनके रूप संस्कृतंवाक्यों में प्रयुक्त करो।
शब्दार्थ —
साम्प्रतम्। पादुके। मायाविन्याः।
नासाम्। आसाद्य।
अब। खड़ाओं की जोडी जादूगरनी की। नाक को।
प्राप्त करके।
————
श्रीरामचरितम्। (३)
अथ सीतायाः शीलशुद्धिं प्रति मिथ्यापवादो लोके बहुलीबभूव। अतस्तां पतिव्रतां जानन्नपि रामो लोकापवादभयात् कठोरगर्भाम् अरण्ये तत्याज। तत्र यमलौ कुशलवौ प्रसूतवती सा महर्षिणा वाल्मीकिना परिरक्षिता बभूव।
अथ हिरण्मयीं सीताप्रतिकृतिं पत्नीं कृत्वा क्रतुम् अश्वमेधम् आहरते रामाय वाल्मीकिः सपुत्रां सीताम् आनीय निवेदयामास। पुनरपि तस्याः शुद्धौ प्रत्ययम् अपेक्षमाणे रामे सीता दुःखातिभारात् पश्यत्सु महाजनेषु भूमिदेवतया पतिव्रताप्रीत्या किल दत्तं विवरं प्रविवेश।
ततः सत्यपरिपालनाय रामो लक्ष्मणम् अपि त्यक्तवान्। अचिरेण च राज्यं पुत्रयोरर्पयित्वा सह भरतशत्रुघ्नाभ्यां स्वर्गं प्रपेदे।
अनया कथया ‘दक्षिणापथो लङ्काद्वीपश्च ब्राह्मणकालस्य शेषे सम्यग् आर्यैर्विदिताविति’ ज्ञायते।
पितृभक्तिः, पुत्रवात्सल्यं, भ्रातृस्नेहो, मित्रभावः, स्वामिभक्तिः, पातिव्रत्यम्, एकदारनियमो, जनरञ्जनं, धर्मानुरोध, इत्येतेषां गुणानां हृदयार्युदाहरणं रामचरितम् अतिशयान इतिहासो जगति नोपलभ्यते।
अभ्यासः।
१. जानन्नपि, विदिताविति, अतस्ताम्, मदर्षिणा— इन में सन्धिच्छेद करो।
२. नीचे लिखे समस्त पदों का विग्रह करो और समासो के नाम बताओ—
स्वामिभाक्तिः, भ्रातृस्नेहः, लोकापवादभयात्, पुत्रवात्सल्यम्।
३. दत्तम्, जानन्, कृत्वा, आनीय और अतिशयानः के धातुओंके लट्उत्तम पुरुष एकवचन के रूप संस्कृतवाक्यो में प्रयुक्त करो।
शाब्दार्थ—
हिरण्मयीम्। सीताप्रतिकृतिम्।
अतिशयानः। ऋतुम्। महाजनः।
सोने कीबनी हुई। सीता की मूर्ति को। उत्तम, बढ़कर। यज्ञ को। प्रजा।
————
पाण्डवचरितम्। (१)
हस्तिनापुरे विचित्रवीर्यस्य राज्ञो धृतराष्ट्रः, पाण्डुः इति द्वौ सुतौ भिन्नोदरजावभवताम्। तयोर्ज्यायसो धृतराष्ट्रस्य गान्धार्यां दुर्योधनो दुःशासन इत्याद्याः शतं पुत्रा अजायन्तः। पाण्डोस्तु पञ्च पुत्राः। तेषु अजातशत्रुः, भीमः, अर्जुनश्च कुन्त्याम्, नकुल-सहदेवौ च माद्र्यां जातौ।
अन्धो धृतराष्ट्रो राज्याधिकारिणि भ्रातर्युपरते तत्पुत्राणां बालानां पाण्डवानां योगक्षेमं चिन्तयामास। तत्प्रेरणया तान् धार्तराष्ट्रशतं च कृपद्रोणावस्त्रविद्याम् अध्यापयामासतुः।
दुर्योधनस्तु राज्यलोभात् पाण्डवानां प्रच्छन्ने हनने बहून् यत्नान् अकरोत्। स कदाचिद् वारणावते लाक्षागृहं निर्माय तत्र पाण्डवान् वासयामास। ते तत्कृतं कपटवधोपायम् अवगत्य स्वयमेव लाक्षागृहं दग्ध्वा मात्रा सह ब्राह्मणवेषधारिणः कञ्चित् कालं भैक्षवृत्त्या जीवन्ति स्म।
ततः पाञ्चालेषु द्रौपदीस्वयंवरे शुल्कतया व्यवस्थितं लक्ष्यवेधनं कृत्वार्जुनो द्रौपदीं परिणिनाय।
अथाजातशत्रुर्धृतराष्ट्रेण दत्तं राज्यार्धें पालयन् विधेयैर्भ्रातृभिः सार्धमिन्द्रप्रस्थे सुखमुवास।
अभ्यासः।
१. सान्धिच्छेद करो—
भ्रातर्युपरते, दुश्शासनः, दुर्योधनस्तु,वधोपायम्, इत्याद्या।
२. नीचे लिखे पदों का परिचय दो— अजायन्त, अभवताम्, जीवन्ति, अकरोत्।
३. अल्प, गुरु, दूर, अन्तिक, प्रिय, बहु, वृद्ध, कला, दृढ़ औरमृदु शब्दों के ईयसुन्नन्त ओर इष्ठन्नन्त रूप और उनके अर्थबताओ।
शब्दार्थ—
योगक्षेमम्। शुल्कतया। हनने।
पालन पोषण। उपहार के रूप में। मारने में ।
————
पाण्डवचरितम्। (२)
द्वारिकापुरस्याधीश्वरो यदुवंश्यः सर्वेषां सद्गुणानामायतनं दिव्यमहिमा वीरः श्रीकृष्णः पाण्डवानां मातुलपुत्रः सौराष्ट्रेषु प्रसिद्ध आसीत्। स धर्मप्रीत्या बन्धुप्रीत्या च पाण्डवानां सर्वदा सहायो बभूव।
ततः शौर्ये धने कीर्तौच पाण्डवानाम् उत्कर्षम् अभिवर्धमानम् असहमानो दुर्योधनो मातुलशकुनिसहायः कपटद्यूतेन तान् ऐश्वर्यात् प्रच्यावयति स्म। द्रौपदीं सभायाम् अवमेने। द्वादश वर्षाणि वनवासं, वर्षम् एकम् अज्ञातवासं च तान् अङ्गीकारयामास।
सत्यसन्धाः पाण्डवाः कथमपि तं प्रवासक्लेशं निस्तीर्णवन्तः। अथ तेभ्यो जीवनार्थे याचमानेभ्यः पञ्च ग्रामान् अपि धृतराष्ट्रः पुत्रमतानुवर्ती न प्रायच्छत्।
अतः पाण्डवानां कौरवाणां च कुरुक्षेत्रेऽतिभीषणं युद्धम् अवर्तत। तत्र श्रीकृष्णसाहाय्यात् कौरवान् निरवशेषं हत्वा ‘पाण्डवा अखण्डं भारतसाम्राज्यम् अलभन्त। किन्तु भूयिष्ठबन्धुविरहात् तेषां राज्यभोगवाञ्छा स्वल्पेनैव कालेन प्रणष्टाऽभवत्।
ततः श्रीकृष्णे परमपदं प्रयाते पाण्डवाः सर्वे महाप्रस्थानेन पुण्यलोकं जग्मुः।
एतया कथया राज्ञांबाल्ये आयुधाभ्यासः, स्त्रीणां सभासु प्रवेशः, स्वयंवरश्च तेषु कालेष्वौत्सर्गिक आसीदिति जानीमः।
अभ्यासः।
१. विग्रह करो और समासों के नाम भी लिखो—
कपटद्यतेन, वनवासः, परमपदम्, पुण्यलोकम्।
२. अलभन्त, अवर्तत, जानीमः, प्रायच्छत्—
इन क्रियाओं के धातु, लकार पुरुष और वचन लिखो।
३. कीर्तौ, सभायाम्, पञ्च, वर्षाणि, राज्ञाम्—
इनके शब्द, विभक्ति और वचन लिखो।
४. ‘स्त्री’ शब्द के सब विभक्तियों में रूप लिखो।
शब्दार्थ—
सौराष्ट्रेषु। निरवशेषम्।
महाप्रस्थानेन। औत्सर्गिकः।
सूरत देश वालों में। शेष छोड़े बिना। मृत्यु के कारण।
सर्वसामान्य।
————
हिन्दुबालाः।
विद्याभ्यासः—अद्यत्वे हिन्दुबालाः श्रद्धया विद्याम् अभ्यस्यन्ति। तेषु बहवो देश्यभाषाम् आङ्गलभाषां चाधीयते। संस्कृतमप्यधीयाना बालास्तत्र तत्र वर्तन्ते। वेदम् अपि सलक्षणं केऽपिपरिशीलयन्ति। किन्तु वेदाध्यायिनो वेदस्य निगदपठनेचतुराः पर्यवस्यन्ति, न पुनर्वेदस्यार्थंप्रायशो बुध्यन्ते। वेदस्यार्थम् अवगन्तुं शक्ता निगदपाठिनस्तु विरला उपलभ्यन्ते।
देश्यभाषाङ्गलभाषयोः पाठालया राजशासनेनोप्रोद्वलिता। राजकीयाश्च प्रतिग्रामं प्रतिनगरम् उल्लसन्ति। संस्कृतपाठालयास्तु भारते राजकीयाः पञ्चषाः सन्ति। संस्कृतपक्षपातिभिर्धनिकैरुपकल्पिताश्च कतिपये वर्तन्ते। तेषु बालैरध्ययनं सुकरं भवति। संस्कृतार्थिनां पाठशाला यद्यपि सङ्ख्यया न पर्याप्ताः, तथापि तेषां समानम् आसन्नं वा ग्रामम् अधिवसद्भ्यः पण्डितेभ्योऽध्येतुं तत्र तत्र किञ्चित् सौकर्यम् अस्ति।
गृहे वृत्तिः— विद्याम् अधीयाना बालाः प्रायेण रात्रेश्वरम् यामे प्रबुध्यन्ते। अधीतान् पाठान् असकृद् वाचयन्तस्तदर्थम् एकाकिनः ससहाया वा ते चिन्तयन्ति। सूर्योदयात् प्राक् परतो या वहिर्विहत्य नद्यां स्नान्ति। शीतालवस्तु गृहे उष्णोदकेन स्नान्ति। सौकर्याभावे देहम् आर्द्रवस्त्रेण केवलम् उद्वर्तयन्ति। स्नानन्तरं बालाः पुण्ड्रं धृत्वा यथोपपन्नम् अन्नं भुञ्जते, गच्छन्ति
च पाठाल्यम्। उपनीताश्चेद्वालाः, यथाकालं सन्ध्याम् उपास्यैवान्नं भुञ्जते।
सायाह्णेबालाः पाठालयाद् विसृष्टाःकन्दुकादिक्रीडयालङ्घनधावनकरणादिभिर्व्यायामैश्चद्वित्रान् मुहूर्त्तान् नयन्ति।आङ्गलभाषाध्यायिनां क्रीडा आङ्गलरीतिमेव प्रायेणानुसरन्ति। ततो रात्रौ मुक्त्वा प्रायेणादशमहोरं पुस्तकानि परिशीलयन्ति। दक्षाः केचिद् बाला ईषत्करेषु गृहकार्येष्वपि व्याप्रियन्ते,पठनम् अबाधमानाः।
आङ्गलभाषाध्यायिषु बहवो रात्रावत्यल्पमेवसमयं स्वपन्ति। आसन्नायां तु परीक्षायां रात्रिम्अखिलां पुस्तकं वाचयन्ति। तम् एतम् अतिश्रमम् आरोग्यभञ्जकम् इतरभाषाध्यायिनोनोपाददते।
प्रबुद्धतराः कुमारा अनध्यायेषु स्थिरम् अस्थिरं वा समाजं मेलयित्वा तत्रक्षोदक्षमान् विषयान् उपन्यस्यन्ति।
अपि च, प्रायेण मातापितृभ्यां गृहेबालास्तथा प्ररिशील्यन्ते यथा तेषाम् ईश्वरभक्तिर्हिन्दुमतश्रद्धा च जायेत।
अभ्यासः।
१. उल्लसन्ति, सूर्योदयात् , रात्रावत्यल्पमेव, उपास्यैवान्नम्—इनमें सान्धिच्छेद करो।
२.अधीयते, वाचयन्ति, भुञ्जते, उपाददते, जायेत—इन क्रियाओं के धातु, लकार, पुरुष और वचन लिखो।
३, नीचे लिखे समस्त पदों का विग्रद्द करो और समासों के नामं वताओ—
पञ्चषाः, द्वित्राः, प्रतिनगरम् , मातापितरौ‚ईश्वरभक्तिः।
शब्दार्थ—
अद्यत्वे। परिशीलयन्ति। निगदपाठिनः।
उपोद्वलिताः—
आजकल। पढ़ते हैं । रटने वाले, कण्ठस्थ करने वाले।
स्वीकृत, माने हुए।
पुण्ड्रम्। सायाह्ने (सायम् अह्नः, सायाह्नः)।
मुहुर्तः–तम्।
तिलक। शाम को। दो घड़ी-४८ मिनट।
आदशमहोरम्। ईषत्करेषु।
गृहकार्येषु क्षोदक्षमान्।
दस बजे तक । छोटे मोटे (सुकर)। घर केकामों में। अनुसन्धान के योग्य।
————
दूतवाक्यम्।(१)
(सूत्रधारः प्रविशति।)
(नेपथ्ये।)
भो भोःप्रतिहाराधिृताः, महाराजो दुर्योधनः समाज्ञापयति—
सूत्रधारः— भवतु, विज्ञातम्—
उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह।
मन्त्रशालां रचयति भृत्यो दुयोधनाज्ञया॥१॥
(निष्क्रान्तः।)
(ततः प्रविशति काञ्चुकीयः।)
काञ्चुकीयः— भो भोः प्रतिहाराधिकृताः, महाराजो दुर्योधनः समाज्ञापयति,— “अद्य सर्वेपार्थिवैःसह मन्त्रयितुमिच्छामि। तदाहूयन्तां सर्वे राजान” इति। (परिक्रम्यावलोक्य च।) अये, अयं महाराजो दुर्योधन इत एवाभिवर्तते।
(ततः प्रविशति दुर्योधनः।)
काञ्चुकीयः— जयतु महाराजः। महाराजशासनात् समानीतं सर्वंराजमण्डलम्।
दुर्योधनः— सम्यक् कृतम्। प्रविश त्वमवरोधनम्।
काञ्युकीयः— यदाज्ञापयतिमहाराजः। (निष्क्रान्तः।)
दुर्योधनः—आर्यौ, वैकर्णवर्षदेवौ, उच्यताम्,— अस्ति
ममकादशाक्षौहिणीवलसमुदायः। अस्य कः सेनापतिर्भवितुमर्हति? किमाहतुर्भवन्तौ,— “अत्रभवति गाङ्गेयेःस्थिते कोऽन्यः सेनापतिर्भवितुमर्हति”? भवतु, भवतु, पितामह एवं भवतु।
अभ्यासः।
१. नीचे लिखे पदों का परिचय दो— भवतु, अद्य, राजानः, अत्रभवति, भवन्तौ।
२. नीचे लिखे समस्त पदोंका विग्रह कर के समासों के नाम बताओ— सेनापतिः, महाराजः, राजमण्डलम्, सर्वपार्थिवाः।
३.प्रविशति, भवतु, इच्छामि, अस्ति— इन क्रियाओं के धातु, लकार, पुरुष और वचन बता कर इनके धातुओं के भूत्काललङ् में प्रथम पुरुष के रूप लिखो।
शब्दार्थ—
नेपथ्ये। सम्यक्। अवरोधनम्।
पितामहः।
परदे के पीछे। अच्छा, ठीक। अन्तःपुर में। दादा (भीष्म पितामह)।
————
दूतवाक्यम्। (२)
काञ्चुकीयः—जयतु महाराजः।एष खलु पाण्डवस्कन्धावाराद् दौत्येनागतः पुरुषोत्तमो नारायणः।
दुर्योधनः—मा तावद् भो बादरायण, किं किं कंसभृत्यो दामोदरस्तव पुरुषोत्तमः? स गोपालकस्तव पुरुषोत्तमः? आः, अपध्वंस।
काञ्चुकीयः— प्रसीदतु प्रसीदतु महाराजः। दूतः प्राप्तः केशवः।
दुर्योधनः— केशव इति—भोः, सम्यग् उक्तमिदानीम्। भो भो राजानः, योऽत्र केशवस्य प्रत्युत्थास्यति, स मया द्वादशसुवर्णभारेण दण्ड्यः।
दुर्योधनः— बादरायण, आनीयतां स विहगवाहनमात्रविस्मितो दूतः।
काञ्चुकीयः— यदाज्ञापयति महाराजः।
दुर्योधनः— वयस्य कर्ण,
प्राप्तः किलाद्य वचनादिह पाण्डवानां
दौत्येन भूत्य इव कृष्णमतिःस कृष्णः।
श्रोतुं सखे‚ त्वमपि सज्जय कर्ण‚ कर्णौ
नारीमृदूनि वचनानि युधिष्ठिरस्य॥२॥
(ततः प्रविशति वासुदेवः काञ्चुकीयश्च।)
वासुदेवः— (प्रविश्य, स्वगतम्।) कथं कथं मां दृष्ट्वासंभ्रान्ताः सर्वक्षत्रियाः (प्रकाशम्।) अलमलं सम्भ्रमेण, स्वैरमासतां भवन्तः।
दुर्योधनः— (स्वगतम्।) कथं केशवं दृष्ट्वासम्भ्रान्ताः सर्वक्षत्रियाः? अलमलं सम्भ्रमेण।स्मरणीयः पूर्वमाश्रावितो दण्डः। (वासुदेवं प्रति) भो दूत, एतदासनम्, आस्यताम्।
वासुदेवः— आचार्य, आस्यताम्। गाङ्गेयप्रमुखा राजानः, स्वैरमासतां भवन्तः। वयमप्युपविशामः। (उपविशन्ति सर्वे।)
अभ्यासः।
१. सन्धिच्छेद करो—
केशव इति, एष खलु, प्रत्युत्थास्यति।
२. आसनम् , कर्णौ, राजानः, एषः।
इन रूपों के शब्द विभक्ति ओर वचन लिखो।
३.कारक नियमसहित लिखो—
अलं सम्भ्रमेण। वासुदेवं प्रति।
शब्दार्थ—
स्कन्धावारात्। अपध्वंस। प्रत्युत्थास्यति।
छावनी से। निकल जा। स्वागत के लिये उठेगा।
विस्मितः। संभ्रान्ताः। स्वैरम्।
उद्धत, फूलाहुआ। घबरा गए। आराम से।
————
दूतवाक्यम्। (३)
दुर्योधनः— भोदूत,
धर्मात्मजो वायुसुतश्च भीमो
भ्रातार्जुनो मे त्रिदशेन्द्रसूनुः।
यसौच तावश्विसुतौविनीतौ
सर्वेसभुत्याः कुशलोपपन्नाः?॥३॥
वासुदेवः— सदृशमेतत् गान्धारीपुत्रस्य।कुशलिणःसर्वे। भवतो राज्ये शरीरे च कुशलमनामयं च पृष्ट्वाविज्ञापयन्ति युधिष्ठिरादयः पाण्डवाः—
अनुभूतं महद् दुःखं संपूर्णःसमयः स च।
अस्माकमपि धर्म्येयद् दायाद्यं तद् विभज्यताम्॥४॥
दुर्योधनः— कथं कथं दायाद्यमिति? देवात्मजास्ते नैवार्हन्ति दायाद्यम्।
वासुदेवः—राजन् , मा मैवम्।
एवं परस्परविरोधविवर्धनेन
शीघ्रं भवेत् कुरुकुलं नृप, नामशेषम्।
तत् कर्तुमर्हति भवानपकृष्य रोषं
यत् त्वां युधिष्ठिरमुखाः प्रणयाद् ब्रुवन्ति॥५॥
कर्तव्योभ्रातृषु स्नेहो विस्मर्तव्या गुणेतराः।
सम्बन्धो बन्धुभिः श्रेयान् लोकयोरुभयोरपि॥६॥
दुर्योधनः—
देवात्मजैर्मनुष्याणां कथं वा बन्धुता भवेत्।
पिष्टपेषणसेतावत् पर्य्याप्तं छिद्यतां कथा॥ ७॥
वासुदेवः—भो दुर्योधन, न जानीषेऽर्जुनस्य पराक्रमम्? शृणु—
कैरातं वपुरास्थितः पशुपतिर्युद्धेन सन्तोषितो
वह्नेः खाण्डवमश्नतः सुमहती वृष्टिशरैश्छादिता।
देवेन्द्रार्तिकरा निवातकवचा नीताः क्षय लीलया
नन्वेकेन तदा विराटनगरे भीष्मादयो निर्जिताः॥८॥
अभ्यासः।
१. नीचे लिखे समस्त पदों में कौन २ समास हैं और कैसे?—
वायुसुतः, कुरुकुलम्, सभृत्याः, देवात्मजाः।
२. शृणु, जानीषे, ब्रुवन्ति—
इन क्रियाओं के धातु, लकार, पुरुष और वचन बताओ।
३. भ्रातृ, श्रेयस्, वपुस्—
इनके सब विभक्तियों के एकवचन में रूप लिखो।
शब्दार्थ—
अनामयं-यः। दायाद्यम्। नामशेषम्।
स्वास्थ्य, अरोगता। पैतृक धन। विनष्ट, विलुप्त।
पिष्टपेषणम्। पर्याप्तम्।
निवातकवचाः।
व्यर्थ किसी बात को कहना, काफ़ी। दैत्यविशेष \।
या किसी काम को करना।
[ पिसे हुए को पीसना ]
————
दूतवाक्यम्। (४)
किंबहुना? —
दातुमर्हसि मद्वाक्याद् राज्यार्धं धृतराष्ट्रज।
अन्यथा सागरान्तां गां हरिष्यन्ति हि पाण्डवाः॥९॥
दुर्योधनः—कथं कथं हरिष्यन्ति हि पाण्डवाः?
प्रहरति यदि युद्धे मारुतो भीमरूपी
प्रहरति यदि साक्षात् पार्थरूपेण शक्रः।
परुषवचनदक्ष, त्वद्वचोभिर्न दास्ये
तृणमपि पितृभुक्तेवीर्यगुप्ते स्वराज्ये॥१०॥
वासुदेवः—एवमेवास्तु। न वयमनुक्तसन्देशा गन्तुमिच्छामः। तदाकर्ण्यतां युधिष्ठिरस्य सन्देशः—
शठ, बान्धवनिःस्नेह, काक, केकर, पिङ्गल,
त्वदर्थात् कुरुवंशोऽयमचिरान्नाशमेष्यति॥११॥
भो भो राजानः, गच्छामस्तावत्।
दुर्योधनः—कथं यास्यति किल केशवः? दुःशासन, दुर्मर्षण, दुर्मुख, दुर्बुद्धे, दुष्टेश्वर, केशवो बध्यताम्। कथमशक्ताः? दुःशासन, न समर्थः खल्वसि? मातुल,त्वयैव बध्यतां केशवः। न कोऽपि शक्तः? भवतु, अहमेव बध्नामि। (पाशमुद्यस्योपसर्पति।)
वासुदेवः—कथं बन्धुकामो मां किल दुर्योधनः?भवतु, अस्य सामर्थ्यं पश्यामि। (विश्वरूपमास्थितः।)
अभ्यासः।
१. सन्धिच्छेद करो—
त्वयैव, रूपेण, एवमेवास्तु, खल्वसि।
२. नीचे लिखी क्रियाओं के धातु, लकार, पुरूष ओर वचन लिखो—
हरिष्यन्ति, दास्ये, एष्यति, परयामि, गच्छामः।
शब्दार्थ—
अन्यथा। केकर। मातुल।
विश्वरूपम्।
नहीं तो । भेंगा । मामा । अनेकरूप।
————
दूतवाक्यम्। (५)
दुर्योधनः—भो दूत,
सृजसि यदि समन्ताद् देवमायाः स्वमायाः
प्रहरसि यदि वा त्वं दुर्निवारैः सुरास्त्रैः।
हयगजवृषभाणां पातनाज् जातदर्पो
नरपतिगणमध्ये वृध्यसे त्वं मयाद्य॥१२॥
आः, तिष्ठेदानीम्। कथं न दृष्टः केशवः? अयं केशवः। “अहो ह्रस्वत्वं केशवस्य! आः, तिष्ठेदानीम्। कथं न दृष्टः केशवः? अयं केशवः। अहो दीर्घत्वं केशवस्य! कथं न दृष्टः केशवः? अयं केशवः। सर्वत्र मन्त्रशालायां केशवा भवन्ति। किमिदानीं करिष्ये? भवतु, दृष्टम्। भो भो राजानः, एकेनैकः केशवो बध्यताम्। कथं स्वयमेव पाशैर्बद्धाः पतन्ति राजानः! साधु भो जम्भक! साधू!
मत्कार्मुकोदरविनिःसृतवाणजालै-
र्विद्धं क्षरत्क्षतजरञ्जितसर्वगात्रम्।
पश्यन्तुपाण्डुतनयाः शिविरोपनीतं
त्वां वाष्परुद्धनयनाः परिनिःश्वसन्तः॥१३॥
(निष्क्रान्तः।)
वासुदेवः—यावदहमपि पाण्डवशिविरमेव यास्यामि।
(इति निष्क्रान्तः।)
अभ्यासः।
१. सान्धिच्छेद करो—
मयाद्य, एकेनैकः, पातनाज्जातः।
२. पश्वन्तु, तिष्ठ, प्रहरसि, पतन्ति—
इन क्रियाओं के धातु, लकार, पुरुष और वचन लिखो।
३. अयम् , सवत्र, इदानीम् , अहो, राजानः—
इनका पदपरियय दो।
शब्दार्थ—
जम्भक। कार्मुकम्। क्षतजम्।
शिविरम।
हे बहुरूपिये। धनुष, कमान। रक्त, खून। छावनी।
————
मत्स्यत्रयस्य।
कस्मिंश्चिज्जलाशयेऽनागतविधाता प्रत्युत्पन्नमतिर्यद्भाविष्यश्चेति त्रयो मत्स्याः सन्ति। अथ कदाचित्तं जलाशयं दृष्ट्वा गच्छद्भिर्मत्स्यजीविभिरुक्तम्,— “अहो, बहुमत्स्योऽयं ह्रदः। कदाचिदपि नास्माभिरन्वेषितः। तदद्य ताबदाहारवृत्तिः संजाता, संध्यासमयश्च संवृत्तः। ततः प्रभातेऽत्रागन्तव्यमिति निश्चयः।” ततस्तेषां तत्कुलिशपातोपमं वचः समाकर्ण्यनागतविधाता सर्वान्मत्स्यानाहूयेदमूचे,— “अहो श्रुतं भवद्धिर्यन्मत्स्यजीविभिरभिदहितम्। तद्रात्रावपि गम्यतां किंचिन्निकटं सरः। उक्तं च—
अशक्तैर्बलिनः शत्रोः कर्तव्यं प्रपलायनम्।
संश्रितव्योऽथवा दुर्गो नान्या तेषां गतिर्भवेत्॥
तन्नूनं प्रभातससये . मत्स्यजीविनोऽत्र समागत्य मत्स्यसंक्षयं करिष्यन्ति। एतन्मम मनसि वर्तते। तन्न युक्तं सांप्रतं क्षणमप्यत्रावस्थातुम्। उक्त च—
विद्यमाना गतिर्येषामन्यत्रापि सुखावहा।
ते न पश्यन्ति विद्वांसो देशभङ्गं कुलक्षयम्॥
तदाकर्ण्य प्रत्युत्पन्नमतिः प्राह,— “अहो, सत्यमभिहितं भवता। ममाप्यभीष्टमेतत्। तदन्यत्र गम्यताम् इति। उक्तं च,—
परदेशभयाद्भीता बहुमाया नपुंसकाः।
स्वदेशे निधनं यान्ति काकाः कापुरुषा मृगाः॥
यस्यास्ति सर्वत्र गतिः स कस्मात्
स्वदेशरागेण हि याति नाशम्।
तातस्य कूपोऽयमिति ब्रुवाणाः
क्षारं जले कापुरुषाः पिबन्ति”॥
अथ तत्समाकर्ण्य प्रोच्चैर्विहस्य यद्भविष्यः प्रोवाच,— “ अहो, न भवद्भ्यां मन्त्रितं सम्यगेतदिति, यतः किं वाङ्मात्रेणापि तेषां पितृपैतामहिकमेतत्सरस्त्यक्तुं युज्यते। यद्यायुःक्षयोऽस्ति, तदन्यत्र गतानामपि मृत्युर्भविष्यत्येव। उक्तं च,—
अरक्षितं तिष्ठति दैवरक्षितं
सुरक्षितं दैवहतं विनश्यति।
जीवत्यनाथोऽपि वने विसर्जितः
कृतप्रयत्नोऽपि गृहे विनश्यति॥
तदहं न यास्यामि। भवद्भ्यां च यत्प्रतिभाति तत्कर्तव्यम्”। अथ तस्य तं निश्चयं ज्ञात्वाऽनागतविधाता पत्युत्पन्नमतिश्च निष्कान्तौ सह परिजनेन। अथ प्रभाते तैर्मत्स्यजीषिभिर्जालैस्तज्जलाशयमालोड्य यद्भविष्येण सह तत्सरो निर्मत्स्यतां नीतम्।
अभ्यासः।
१, कापुरुषाः, दैवरक्षितम्, सन्ध्यासमयः, बहुमायाः।—
इन समस्त पदों का विग्रह् करो और समासों के नाम बताओ।
२, विद्वांसः, गृहे, सरः, गतिः, वचः, मनसि— इन रूपों के शब्द, विभक्ति और वचन लिखो।
३. ब्रु, नी, दृश् और कृ धातुओं के क्तान्तं रूप संस्कृतवाक्यों में प्रयुक्त करो।
शब्दार्थ—
कुलिशः—शम्। आलोड्य। प्रपलायनम्।
निधनम्।
वज्र। मथ केर। भागना।
मृत्यु को।
————
सिंहशृगालयोः।
कस्मिंश्चिद्वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म। स कदाचिदितश्चेतश्च परिभ्रमन् क्षुत्क्षामकण्ठो न किंचिदपि सत्त्वमाससाद्। ततश्चास्तमनसमये महतीं गिरिगुहामासाद्य प्रविष्टश्चिन्तयामास,— “नूनमेतस्यां गुहायां रात्रौ केनापि सत्त्वेनागन्तव्यम्। तन्निभृतो भूत्वा तिष्ठामि"।
एतस्मिन्नन्तरे तत्स्वामी दधिपुच्छो नाम शृगालः समायातः। स च यावत्पश्यति तावत्सिंहपदपद्धतिर्गुहायां प्रविष्टा, न च निष्क्रमणं गता। ततश्चाचिन्तयत्,— “अहो विनष्टोऽस्मि। नूनमस्यामन्तर्गतेन सिंहेन भाव्यम्। तत्किं करोमि। कथं ज्ञास्यामि।” एवं विचिन्त्य द्वारस्थः फूत्कर्तुमारब्धः— “अहो बिल, अहो बिल”। इत्युक्त्वा तूष्णीभूय भूयोऽपि तथैव प्रत्यभाषत,— “भोः, किं न स्मरसि, यन्मया त्वया सह समयः कृतोऽस्ति। यन्मया बाह्यात् समागतेन त्वं वक्तव्यः। त्वया चाहमाकारणीय इति। तद्यदि मां नाह्वयसि, ततोऽहं द्वितीयं बिलं यास्यामि"।
अथ तच्छ्रुत्वा सिंहश्चिन्तितवान्,— “नूनमेषा गुहाऽस्य समागतस्य सदा समाह्वानं करोति। परमद्य मद्भयान्न किंचिद् ब्रूते। तदहमस्याह्वानं करोमि, येन तदनुसारेण प्रविष्टोऽयं मे भोज्यतां यास्यति”। एवं संप्रधार्य सिंहस्तस्याह्वानमकरोत्।
अथ सिंहशब्देन सा गुहा प्रतिरवसंपूर्णाऽन्यानपि दूरस्थानरण्यजीवांस्त्रासवामास।
शृगालोऽपि पलायमान इमं श्लोकमपठत्,—
“अनागतं यः कुरुते स शोभते
स शोच्यते यो न करोत्यनागतम्।
वनेऽत्र संस्थस्य समागता जरा
बिलस्य बाणी न कदापि मे श्रुता॥
अभ्यासः।
१. सन्धिच्छेद करो।
पद्धतिः, तच्छ्रुत्वा, भयान्न, कस्मिंश्चिद्वने, एतस्मिन्नन्तरे।
२. प्रतिवसति, ब्रूते, अकरोत्, ज्ञास्यामि—इन क्रियाओं के धातु, लकार, पुरुष और वचन लिखो।
३. जरा, इदम् (पुं०), तत् (स्त्री०)— इन शब्दों के सब विभक्तियों में रूप लिखो।
शब्दार्थ—
अस्तमनम्। पद्धतिः। फूत्कर्तुम्।
सूर्यास्त। पंक्ति। चिल्लाने (आवाजे देने)।
————
मूर्खब्राह्मणानाम्। (१)
कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणाः परस्परं मित्रत्वमापन्नाः वसन्ति स्म। बालभावे तेषां मतिरजायत,— “भोः, देशान्तरं गत्वा विद्याया उपार्जनं क्रियेत”। अथान्यस्मिन्दिवसे ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपार्जनार्थं कान्यकुब्जे गताः। तत्र च विद्यामठे गत्वा पठन्ति।
एवं द्वादशाब्दानि यावदेकचित्ततया पठित्वा विद्याकुशलास्ते सर्वे संजाताः। ततस्तैश्चतुर्भिर्मिलित्वोक्तम्,— “वयं सर्वविद्यापारे गताः। तदुपाध्यायमुत्कलापयित्वा स्वदेशे गच्छाम। तथैव क्रियताम्”। इत्युक्त्वा ब्राह्मणा उपाध्यायमुत्कलापयित्वायुज्ञां लब्ध्वा पुस्तकानि नीत्वा प्रचलिताः। यावत्किंचिन्मार्गं यांति, तावद् द्वौ पन्थानौ समायातौ। उपविष्टाः सर्वे। तत्रैकः प्रोवाच—, “केन मार्गेण गच्छाम?” एतस्मिन् समये तास्मिन्पत्तने कश्चिद्वणिक्पुत्रो मृतः। तस्य दाहार्थं महाजनो गतोऽभूत्। ततश्चतुर्णां मध्यादेकेन पुस्तकमवलोकितम्,—
“महाजनो येन गतः स पन्थाः”।
इति। “तन्महाजनमार्गेण गच्छामः"। अथ ते पण्डिता यावन्महाजनमेलापकेन सह यान्ति, तावद्रासभः कश्चित्तत्र श्मशाने दृष्टः। अथ द्वितीयेन पुस्तकमुद्घाट्यवलोकितम्,—
“उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकरे।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥
तदहो, अयमस्मदीयो बान्धवः”। ततः कश्चित्तस्य ग्रीवायां लगति। काऽपि पादौ प्रक्षालयति।
अथ यावत्ते पण्डिता दिशामवलोकनं कुर्वन्ति, तावत्कश्चिदुष्ट्रो दृष्टः। तैश्चोक्तम्,— “एतत् किम्?” तावत्तृतीयेनं, पुस्तकमुद्घाट्योक्तम,—
“धमेस्य त्वरिता गतिः"।
“एष धर्मस्तावत्”। चतुर्थेनोक्तम्,—
“इष्टं धर्मेण योजयेत्”।
अभ्यासः।
१, नीचे लिखे पदों को विग्रह करो और समासों के नाम लिखो—
विद्याकुशलाः, महाजनः, वणिक्पुत्रः, विद्योपार्जनम्, शत्रुसंकटे।
२, पथिन्, चतुर्— इन शब्दों के सब विभक्तियों के रूप लिखो।
३. विद्यायाः, दिशाम्, द्वौ, अब्दानि, मतिः—
इनके शब्द, विभक्ति और वचन लिखो।
शब्दर्थ—
अब्दः—ब्दम्। उपाध्यायमुत्कलापयित्वा।
पत्तने। महाजनः।
वर्ष। गुरु से जाने की आज्ञा लेकर। नगर में। बहुत आदमी।
मेलापकः। इष्टम्।
समूह। काम्य अथवा मित्र को।
————
मूर्खब्राह्मणानाम्। (२)
अथ तैः स रासभ उष्ट्रग्रीवायां बद्धः। केनचिद्रजकस्याग्रे कथितम्। यावद्रजकस्तेषां मूखेपण्डितानां प्रहारकरणाय समायातस्तावत्ते प्रणष्टाः।
यावदग्रे किंचित्स्तोकं मार्गं यान्ति, तावत् काचिन्नदी समासादिता। तस्या जलमध्ये पलाशपत्रमायान्तं दृष्ट्वा पण्डितेनैकेनोक्तम,—
“आगमिष्यति यत्पत्रं तदस्मांस्तारयिष्यतिः”।
एतत्कथयित्वा तत्पत्रस्योपरि पतितो यावन्नद्या नीयते, तावत्तं नीयमानमवलोक्यान्येन पण्डितेन केशान्तं गृहीत्वोक्तम,—
“सर्वनाशे समुत्पन्ने, अर्धं त्यजति पण्डितः।
अर्धेन कुरुते कार्यं सर्वनाशो हि दुस्सहः॥”
इत्युक्त्वा तस्य शिरश्छेदो विहितः।
अथ तैः पश्चाद्गत्वा कश्चिद् ग्राम आसादितः। तेऽपि ग्रामीणैर्निमन्त्रिताः पृथक्पृथग्गृहेषु नीताः। तत एकस्य सूत्रिका घृतखण्डसंयुक्ता भोजने दत्ताः। ततो विचिन्त्य पण्डितेनोक्तम्,—
“दीर्घसूत्री विनश्यति।”
एवमुक्त्वा भोजनं परित्यज्य गतः। तथा द्वितीयस्य मण्डका दत्ताः। तेनाप्युक्तम्,—
“अतिविस्तारविस्तीर्णं तद्भवेन्न चिरायुषम्।”
स च भोजनं त्यक्त्वा गतः। अथ तृतीयस्य वटिकाभोजनं दत्तम्। तत्रापि पण्डितेनोक्तम्,—
“छिद्रेष्वनर्था बहुलीभवन्ति।"
एवं ते त्रयोऽपि पण्डिताः क्षुत्क्षामकण्ठा लोकैर्हस्यमानास्ततः स्थानात्स्वदेश गताः।
अभ्यासः।
१, सन्धिच्छेद करो—
शिरश्छेदः, भवेन्न, तदस्मांस्तारयिष्यति, दुस्सहः।
२, गम्, जन्, ज्ञा, दृश्, पा (भ्वादि), मुच् और कृ धातुओं के णिजन्त रूप बताओ।
३. गतः, दत्तम्, विहितः, नीतः— इनमें प्रकृति-प्रत्यय बताओं।
शब्दाथे—
पत्रम्। केशान्तम्। सूत्रिकाः।
मण्डकाः। वटिका।
वाहन,पत्ता। वालों कीलट। सेमियां। मण्डे,फुलके।
मालपूआ।
————
कृपणस्य।
कस्मिंश्चिन्नगरे कश्चित्स्वभावकृपणो नाम ब्राह्मणः प्रतिवसति स्म। तेन भिक्षार्जितैः सक्तुभिर्भुक्तशेषैः कलशः संपूरितः। तं च घटं नागदन्तेऽवलम्ब्य तस्याधस्तात्खट्वां निधाय सततमेकदृष्ट्या तमवलोकयति।
अथ कदाचिद्रात्रौ सुप्तश्चिन्तयामास,— “परिपूर्णोऽयं घटस्तावत्सक्तुभिर्वतेते। तद्यदि दुभिक्षं भवति, तदनेन रूपकाणां शतमुत्पद्यते। ततस्तेन मयाऽजाद्वयं ग्रहीतव्यम। ततः षाण्मासिकप्रसववशात्ताभ्यां यूथं भविष्यति। ततोऽजाभिःप्रभूता गा ग्रहीष्यामि। गोभिर्महिषीः, महिषीभिर्वडवाः। वडवाप्रसवतः प्रभूता अश्वा भविष्यन्ति। तेषां विक्रयात्प्रभूतं सुवर्णं भविष्यति। सुवर्णेन चतुःशालं गृहं संपद्यते। ततः कश्चिद् ब्राह्मणो मम गृहमागत्य प्राप्तवयस्कां रूपाढ्यां कन्यां दास्यति। तत्सकारात्पुत्रो मे भविष्यन्ति। तस्याहं सोमशर्मेति नाम करिष्यामि। ततस्तस्मिञ्चानुचलनयोग्ये संजातिऽहं पुस्तकं ग्रहीत्वाऽश्वशालायाःपृष्ठदेशे उपविष्टस्तदवधारयिष्यामि। अत्रान्तेरे सोमशर्मा मां दृष्ट्वा जनन्युत्सङ्गाज्जानुप्रचलनपरोऽश्वखुरासन्नवर्ती मत्समीपमागमिष्यति। ततोऽहं बाह्मणीं कोपाविष्टोऽभिधास्यामि,— “गृहाण तावद्वालकम्”। सापि गृहकर्मव्यग्रतयाऽस्मद्वचनं न श्रोष्यति। ततोऽहं समुत्थाय तां पादप्रहारेण ताडयिष्यामि"। एवं तेन ध्यानस्थितेन तथैव पादप्रहारो दत्तो
यथा स घटो भग्नः। ब्राह्मणश्च सक्तुभिः पाण्डुरतां गतः।
अभ्यासः।
१. स्वभावकृपणः, कोपाविष्टः, भुक्तशेषैः, पादप्रहारः, भिक्षार्जितैः—
हन पदों का विग्रह करके समासों के नाम लिखो।
२. गृहाण, गमिष्यति, करिष्यामि, दास्यति— इनके धातु, लकार, पुरुष और वचन लिखो।
३. रात्रौ, नाम, कस्मिन्, महिषीः— इनके शब्द, विभाक्तं और वचन लिखो।
शब्दार्थ—
नागदन्ते। अवधारयिष्यामि। दुर्भिक्षम्।
चतुःशालम्,
खूंटी पर। विचार करूंगा। काल। जिसमें चारों ओर मकान बने हों।
————
ध्रुवचरितम्। (१)
श्रीभगवतो नारायणाद् ब्रह्मा अजायत। बह्मणः मनुरभूत्। मनोः प्रियव्रतोत्तानपादौ द्वौ पुत्रौ जातौ। तत्रोत्तानपादस्य सुनीतिः सुरुचिश्चेति द्वे स्त्रियौ। तत्र सुरुचिः पत्युः प्रिया। यस्याः पुत्रो ध्रुवः सा सुनीतिर्न प्रिया।
एकदा राजा सुरुचेरुत्तमनामकं पुत्रमङ्कमारोप्य लालयन् अङ्कमारोदुमिच्छन्तं ध्रुवं नाभ्यनन्दत्। तदा सुरुचिस्तथाङ्कारोहणं कुर्वन्तं ध्रुवं दृष्ट्वा राज्ञः शृण्वतः गर्विता सती ईर्ष्यासहितं जगाद,— ‘हे वत्स, त्वं नृपतेरङ्कम् आरोढुं नार्हसि। यतस्त्वं मया कुक्षौ न धृतः। भवानन्यस्त्रीगर्भसंभूतमात्मानं नूनं न वेद। यतस्वं बालोऽसि। अतः एवं मनोरथश्चेत् तर्हि तपसा हरिमाराध्य तत्कृपया मे गर्भे आत्मनो जन्मप्रप्त्यर्थं यत्नं कुरु” इति। एवं सपत्न्या मातुः दुर्भाषणरूपैर्बाणैर्विद्धो ध्रुवः सर्प इव श्वसन पश्यन्तं मौनीभूतं पितरं हित्वा रुदन् मातुः समीपं जगाम।
सुनीतिः सपत्न्याः वाक्यम् अन्तःपुरजनमुखाच्छ्रुत्वा निःश्वसन्तं रुदन्तं बालमुत्सङ्गे गृहयित्वा धैर्यं त्यक्त्वा शोकेन विललाप। सपत्न्याः वाक्यस्य स्मरन्ती जगद च,— “हे तात, त्वं परकृतं दुर्भषणरूपमपराधं मा स्म चिन्तयः। यतो यो मनुष्यः परेभ्यो दुःखं ददाति, स कालान्तरे तद्दुःखं स्वयमेव भुङ्क्ते। है बालक, राजा मां भार्येति स्वीकर्तुमपि विलज्जते। त्वं च भाग्यहीनाया
ममोदरे जातोऽसि। अतः सुरुच्या यद्वाक्यम् उक्तं, तत्सत्यम्। त्वं यदि राज्यासनमिच्छसि, तर्हि भगवन्तम् आराधय। ब्रह्मा यस्य चरणकमलं निषेव्य योगिभिरपि वन्दितं सर्वोत्कृष्टं स्थानं लेभे, तथा ते पितामहो मनुः सर्वान्तर्यामिदृष्ट्या भूरिदक्षिणैर्यशेज्ञैर्यमिष्ट्वा राज्यस्वर्गादिसुखं लेभे, हे वत्स, तमेवेश्वरं मनसि ध्यात्वा भजस्व। हरेर्विना अन्यं तव दुःखच्छिदमहं न पश्यामि” इति।
अभ्पासः।
१, सन्धिच्छेद करो—
मुखाच्छ्रुत्वा, सुरुचिश्चेति, ममोदरे।
२. कृ, गम् , दृश्, स्था, पा, (भ्वादि) धातुओं क लोट् मध्यम पुरुष एकवचन के रूप संस्कृतवाक्यों में प्रयुक्त करो।
शब्दार्थ—
कक्षौ। विद्धः। हित्वा।
कोख में बींधा हुआ। छोड़कर।
भूरिदक्षिणैर्यज्ञैः।— ऐसे यज्ञों से जिनमें ब्राह्मणों को बहुत दक्षिणा दी गई थी।
————
ध्रुवचरितम्। (२)
एवं मातुर्वचः श्रुत्वा ध्रुवः पितुः पुरान्निर्जगाम। तदानीं नारदमहर्षिः ध्रुवचिकीर्षितं ज्ञात्वा जगाद,— “अहो, क्षत्रियाणां प्रभावं पश्यत। बालोऽप्ययं मातुर्दुष्टवचांसि हृदि धारयति” इति। तत्रागत्य च तं पाणिना मूर्ध्नि स्पृष्ट्वा उवाच,— “हे पुत्रक, पुरुषस्य सुखं दुःखं वा निजकर्मभिरेव भवति। ईश्वरानुकूल्यं विनोद्योगाः सफला न भवन्ति। अतो दैवात् यत्प्राप्तं तेनैव सन्तोषं प्राप्नुयात्। हे पुत्र, मात्रा उपदिष्टेनोपायेन यस्य देवस्य प्रसादं संपादयितुमिच्छसि, तस्य मार्गं मुनयस्तीव्रेण योगेन वहुजन्मभिर्मृगयन्तोऽपि न विदुः। स ईशो दुःखेनाराध्य इति मम मतम्। अतोऽधुना निष्फलोऽयं तवाग्रहो निवर्ततास। त्वं वृद्धावस्थायां भगवत्पाप्तौ यत्नं करिष्यसि। सुखं दुःखं च दैवानुरूपं लभ्यते इति मनसः सन्तोषं कुर्वन देही मोक्षं प्राप्नोति। अतो गुणैरधिकं दृष्ट्वा प्रीतिं कुर्यात् नेर्ष्याम्। गुणैर्हीनं दृष्ट्वा कृपां कुर्यान्न तिरस्कारम्। गुणैस्समं दृष्ट्वा मैत्रीं कुर्यान्न स्पर्धाम्। एवं कृते सति दुःखं नाप्नोति”।
ध्रुवःप्राह,— “हे नारद, भवता सुखदुःखसमचित्तानां पुंसामयं मार्गो दर्शितः। परं स सुरुच्या दुष्टभाषणरूपैर्बाणिर्भिन्ने मम हृदि न तिष्ठति। त्रिभुवने श्रेष्ठमन्यैरसंपादितं स्यानमिच्छतो ममोपायं ब्रूहि। भवान् लोकानां हितार्थं सूर्यवत्पयेटति" इति।
एतदाकर्ण्य नारदः प्रीतः सन् तं ज्ञगाद,— “हे बाल, जनन्या तव यो मार्गः कथितः स एव ते इष्टकार्यसाधकः। स च भगवाम् वासुदेव एव। अतस्तं भज। धर्मार्थकाममोक्षरूपमात्मनः श्रेयो य इच्छेत्तस्य हरिचिरणसेवनमेव साधनमस्ति। तस्मात् हे तात ध्रुव, त्वं मधुवने गत्वा तत्र यमुनाजले त्रिकालं स्रात्वा, आसने उपविश्य, यमानियमान् धृत्वा, प्राणायामेन मनोमलं हिध्वा, मनसा भगवन्तं प्रसादसुमुखं, चारुनेत्रं, सुनासिकं, सुभ्रवं, सुकपोलं, तरुणं, सुन्दरावयवं, पल्लवकरं, श्रीवत्सालाञ्छन, मघश्यामं, वनमालिनं, चतुर्भुज, शङ्खचक्रगदापद्मधरं, किरीटकुण्डकूलकौस्तुभधरं, पीताम्बरं, मनोनयनानन्दकरं, वरदश्रेष्ठं, हरिमेकाग्रचित्तेन ध्यायेः। एवं ध्यानं कुर्वतः पुंसः मनः विषयेषु न सज्जते।”
अभ्यासः।
१, वचस्, मातृ, कुर्वत्— इन शब्दों के सब विभक्तियों में रूप लिखो।
२. पीताम्बरम्, मेघश्यामम् , चतुर्भुजम्, मधुवनम्— इनका विग्रह करो और समासों के नाम बताओ।
६. गम् और कृ धातुओं के शत्रन्त प्रथमा एकवचन के रूप संस्कृतवाक्यों में प्रयुक्त करो।
शब्दार्थ—
आलुकूल्यम। मृगयन्तः। आग्रहः।
त्रिकालम्।
कृपा। खोजते हुओं ने। हठ। तीनों काल, प्रातः, मध्याह्न और सायम्।
सज्जते।
फंसता है।
————
ध्रुवचरितम्। (३)
एवं नारदवचः श्रुत्वा ध्रुवस्तं प्रदक्षिणीकृत्य प्रणम्य च मधुवनं ययौ। एवं ध्रुवे तपोवनं गते सति, नारदः उत्तानपादनगरं गत्वा पूजितस्सन् पुत्रशोकातुरं तं राजानं जगाद,— “है राजन्, शुष्केण मुखेन दीर्घं किं ध्यायसि" इति।
राजा प्राह,— “हे ब्रह्मन, स्त्रीजितेन मया पञ्चवर्षो बालो नगराद्वहिर्निर्वासितः। हे भगवन्नारद, वने तं श्रान्तं क्षुधितं शयानं वृकादयः किं न खादन्ति? अहो, स्त्रीजितस्थ में दुष्टचित्तत्त्वं पश्य। प्रेम्णा अङ्कमारोढुमिच्छन्तं तं ध्रुवं नाभ्यनन्दम्” इति।
नारद उवाच,— “हे राजन , यस्य यशो विश्वं व्याप्नोति, तेन श्रीहरिणा संरक्षितं पुत्रं त्वं मा शुचः। स तव पुत्रो देवैरपि कर्तुमशक्यं कर्म कृत्वा ते यशो विस्तारयन् शीघ्रमेवैष्यति”। इति नारदोक्तं श्रुत्वा राजा राजलक्ष्मीमप्यनादृत्य पुत्रमेव चिन्तयामास।
ध्रुवस्तु मधुवनं गत्वा तां रात्रिमुपोष्यैकाग्रीचित्तः सन् हरिं पूजयामास। हरिरपि गरुडमारुह्य मधुवनं ययौ। ध्रुवो हृदिस्थं सहसैवान्तर्हितं दृष्ट्वा व्युत्थितस्सन् यादृशोऽन्तःकरणे स्फुरितः, तादृशं हरिं बहिःस्थितं ददर्श। तद्दर्शनेन जातसंभ्रमस्सन् दृग्भ्यां प्रपिबन्निव पश्यन्भूमौ दण्डवत्प्रणनाम।
ततो हरिः स्वगुणान् वक्तुमिच्छन्तं तं ज्ञात्वा तस्य कपोले शङ्खेन स्पर्शं कृतवान्। तदा शाङ्खस्पर्शमात्रेणोत्पन्नज्ञानः स ध्रुवो भक्त्या प्रेमयुक्तस्सन् तं हरिं तुष्टाव।
अभ्यासः।
१. पुत्रशोकातुरः, पञ्चवर्षः, एकाग्रचित्तः, राजलूक्ष्मीम्—
इन समस्त पदों का विग्रह करो और समासों के नाम बताओ।
२. शयानः, विस्तारयन्, परयन्— इनके प्रकृति प्रयय लिखो।
३. यशः, सन्, प्रेम्णा, भूमौ, कर्म, मातुः— हनके शब्द विभक्ते और वचन लिखो।
शब्दार्थ—
दीर्घम्। उपोष्य।
अन्तर्हितम्। दृग्भ्याम्।
देर तक। उपवास (व्रत) कर के। अदृश्य। आंखों से।
————
ध्रुवचरितम्। (४)
“है नाथ, तव चरणकमलध्यानात्कथाश्रवणेन च यत्सुखं स्यात्, तादृशं सुखम् अन्यतः कुतोऽपि न भवति। है जगदीश, त्वयि भक्तिं कुर्वतां साधूनां समागमो मे भूयात्, येन भवसमुद्रं तरिष्यामि। यः भक्तानुग्रहतत्परस्सन् भक्तानां वरदो भूत्वा तान् सर्वापद्भ्यः रक्षसि, तस्मै श्रीवासुदेवाय भवत नमः"।
एवं स्तुतः हरिः प्रीतस्सन्निदमाह,— “हे ध्रुव, तव वाञ्छितमहं वेद्मि। तच्च ते ददामि। तव कल्याणमस्तु। यत्र निहितं ग्रहनक्षत्रताराणां चक्रम्, यच्चलोकत्रयनाशेऽपि अनश्वरं, तत् ध्रुवपदं ते दत्तमस्ति। तव पितरि प्रथिवीं तुभ्यं दत्त्वा वनं गते सति, त्वं राज्यं करिष्यसि। त्वद्भ्रातरि उत्तमे मृगयायां नष्टे सति, तन्माता सुरुचिस्तं मृगयन्ती दावाग्निं प्रवेक्ष्यति। त्वं यज्ञैर्मामिष्ट्वा इह लोके उत्तमान् भोगान् भुक्त्वाऽन्ते मां संस्मरिष्यसि। ततः ऋषिभ्यः उपरिष्ठात् सर्वेलोकनमस्कृतम् अचलं मत्स्थानं गमिष्यसि"। इत्युक्त्वा भगवान् ध्रुवस्य पश्यतः स्वधाम जगाम। ध्रुवोऽपि स्वमनोरथं प्राप्य पुरं जगाम।
अभ्यासः।
१. सन्धिच्छेद करो—
प्रीतस्सन्निदमाह, मनोरथः, भक्तानुग्रहः, तच्च।
२, वेद्मि, प्राह, स्यात्, ददामि— इनके धातु, लकार, पुरुष ओर वचन लिखो।
३. नमः और विना के योग में कौन २ विभक्ति होती है। उदाहरणार्थं संस्कृतवाक्य बनाओ।
शब्दार्थ—
अनश्वरम्। अन्यतः कुतोऽपि।
मामिष्ट्वा। दावाग्निः।
अक्षय, अविनाशी। और कहीं से भी। मेरी पूजा करणे। जंगछ की आग।
————
रक्षोभीतिवारणम्। (१)
एकदा राजा विक्रमादित्यः राज्यभारं मन्त्रिषु निधाय स्वयं योगिवेषेण देशान्तरं निर्गतः। यत्रात्मनाश्चेत्तस्य सुखं भवति, तत्र कतिचिद्दिनानि तिष्ठति। यत्राश्चर्य्यं पदयति, तथापि कालं नयति।
एवं पर्य्यटन् स एकस्मिन् दिवसे यदा महाऽरण्यमध्ये प्राविशत्, तदा सूर्य्योऽस्तं गतः। तद्दृष्ट्वा राजा वृक्षमूलमेकमाश्रित्य रात्रौ स्थितः। तस्य वुक्षस्योपरिवृद्धः चिरञ्जीविनामा कश्चित् पक्षिराज आसीत्। तस्य पुत्राः पौत्रश्च देशान्तरं गत्वा स्वोदरपूरणं विधाय सायंकाले प्रत्येकमेकैकं फलमादाय वृद्धाय तस्मै चिरञ्जीविने प्रतिदिनं प्रयच्छन्ति। तथाच—
वृद्धौ च मातापितरौ साध्वी भार्य्या शिशुः सुतः।
अप्यकार्य्यशतं कृत्वा भर्त्तव्या मनुरव्रवीत्॥
तता रातौ चिरञ्जीवी सुखेनोपविष्टस्तान् पक्षिणः अपृच्छत्। राजाऽपि वृक्षमूले स्थितस्तद्वचः शृणोति। “भोः पुत्राः, युष्माभिर्नानादेशान् पर्य्यटद्भिः किं चित्रं दृष्टम्?" तत्रैकेन पक्षिणा भणितम्,— “मया कमिप्याश्चर्य्यं न दृष्टम्। परमद्य मम चेतसि महादुःखं भवति”। चिरञ्जीविनोक्तम्,— “तत् कथय, किंनिमित्तं दुःखम्”। तनोक्तम् ,— “केवलं कथनेन
किं भवति?” वृद्धेनोक्तम्,— “भोः पुत्र, यो दुःखी, स सुहृदि दुःखं निवेद्य सुखी भवतिः”।
तस्य वाक्यं श्रुत्वा स दुःखकारणं कथयति,— “भोः, तात, श्रूयताम्। अस्ति उत्तरदेशे शैवालघोषो नाम पर्वतः। तत्पर्वतसमीपं पलाशनगरमस्ति। तस्मिन् पर्व्वते स्थितः किश्चत् राक्षसः प्रतिदिनं नगरमागत्य सम्मुखागतं यं कञ्चन मानुषं स्त्रियंबालकादिकं वा पर्वते नीत्वा भक्षयति। एकदा स नगरवासिभिः जनैः उक्तः,— “भो वकासुर, त्वं यथेच्छं सम्मुखपतितं यं कमेव मा भक्षय। वयं तुभ्यं प्रतिदिनमाहारार्थम् एकंमानवं दास्यामः। तद्वचस्तेनाङ्गीकृतम्।
अभ्यासः ।
१, मातापितरौ,प्रतिदिनम्, चिरञ्जीविनामा, दुःखकारणम्, प्रत्येकम्, पक्षिराजः— इन समस्त पदों का विग्रह करो ओर समासों के नाम लिखो।
२, तिष्ठति, पश्यति, नयति, अपृच्छत्, अब्रवीत्— इन क्रियाओं को सस्कृतवाक्यों में प्रयुक्त करो ।
शब्दार्थ—
आश्चर्य्यम्। निवेद्य। मानवम्।
अनोखी चीज। बता कर। मनुष्य को।
————
रक्षोभीतिवारणम्। (२)
“तदनन्तरं तत्रत्यो जनः प्रतिदिनं गृहक्रमेणैकैकं मानुषं तस्मै प्रयच्छति।एवं महान् कालो गतः। अद्य पूर्वजन्मनि सञ्जातसौहार्दस्य मम मित्रस्य कस्यचित् ब्राह्मणस्य वारः समायातः। तस्यैक एव पुत्रः। पुत्रं ददाति चेत्, सन्ततिच्छेदो भविष्यति।आत्मानं प्रयच्छति चेत्, पत्नीविधवा भविष्यति। वैधव्यं पुनर्महादुःखम्। पत्नींदास्यति चेत्, आश्रमभ्रंशो भवति। तेषां दुःखेनाहं महादुःखी, इति मम महद्दुःखकारणम्”।
इति पक्षिणो वचः श्रुत्वा विहङ्गरवार्थविद् राजा तत्र नगरे वध्यशिलासमीपे गतः। तत्र ब्राह्मणं निरीक्ष्य, अभयं दत्त्वा, स्वगृहं सम्प्रेष्य च, तत्समीपस्थे सरोवरेस्नात्वा, वध्यशिलायामुपविष्टः।
तस्मिन् समये राश्चसः समागत्य, प्रहसितवदनं पुरुषं दृष्ट्बाविस्मितस्तं वदति,— “भोमहासत्त्व, अत्रशिलायां प्रतिदिनं यः उपविशति, स मदागमनात पूवमेव म्रियते। त्वं पुनः महाधैर्य्यसम्पन्नःप्रहसितवदनो दृश्यसे। यस्य मरणकालः समायाति, तस्येन्द्रियाणि ग्लानिं प्राप्नुवन्ति। त्वं पुनरधिकां कान्तिं प्राप्य प्रहससि। तर्हि कथय को भवान्” इति। राजा भणति,—“मया परार्थमेतच्छरीरं दीयते स्वेच्छया। अतो न मे
कापि ग्लानिः। यद् भवतु, किमनेन विचारेण तव?त्वमात्मनः समीहितं कुरु"।
राज्ञःपरोपकारश्रद्धया प्रीतः स राजानमब्रवीत्,— “भो महासत्त्व, तवाहं तुष्टोऽस्मि, वरं वृणीष्व”। राज्ञोक्तम्,— “भो राक्षस, त्वं यदि मम प्रसन्नोऽसि, तर्ह्यद्यप्रभृति मनुष्यभक्षणं परित्यज। अन्यमपि मया अभिधीयमानमुपदेशं शृणु—
यथात्मनः प्रियाः प्राणाः सर्वेषां प्राणिनां तथा।
तस्मान्मृत्युभयात् तेऽपि त्रातव्याःप्राणिनो बुधैः॥
तथा च,—
यथा भवेज्जीवितमात्मनः प्रियं
तथा परेषामपि जीवितं प्रियम्।
निरीक्ष्यते जीवितमात्मनो यथा
तथा परेषामपि रक्ष जीवितम्"॥
इति राज्ञा निरूपितः स राक्षसः तदाप्रभृति जीवमारणं तत्याज। राजा च स्वनगरींप्रत्यगच्छत्।
अभ्यासः।
१, सन्धिच्छेद करो—
परोपकारः, को भवान्, यथात्मनः, भवेज्जीवितम्।
२. पक्षिणः, आत्मनः, प्राणिनाम्, राज्ञा, शिलायाम्, महान्, वचः— इन रूपोको संस्कृतवाक्यों मेप्रयुक्त करो।
३. निम्नलिखित पदों में नियमसहित कारक बताओ—
तस्मै प्रयच्छति। किमनेन विचारेण। ततः प्रभृति।
शब्दार्थ—
विहङ्गः। वदनम्। ग्लानिः।
श्रद्धा।
पक्षी। मुख। शिथिलता। प्रबल इच्छा।
————
सूर्य्यलोकगमनम्। (१)
एकदा कश्चित् वैदेशिकः समागत्य राजानं विक्रमं दृष्ट्वा।उपविष्टः। ततो राज्ञा भणितम्,—“भो महात्मन्, तव निवासः कुत्र?” तेनोक्तम् ,—“भो राजन, अहं वैदेशिकः, मम कोऽपि निवासो नास्ति।सर्वदा परिभ्रमणमेव करोमि"। राज्ञोक्तम्,—“पृथिवीं भ्रमता त्वया कि किम्अपूर्वं दृष्टम्?" तेनोक्तम्,—“भोराजन, महदेकम् आश्चर्यंदृष्ठम”। राज्ञोक्तम्,—(किं तत्?” तेनोक्तम्,—“उदयाचले आदित्यस्य महान् प्रासादोऽस्ति। तत्रगङ्गा वहति। गङ्गातटे पापविनाशनो नाम शिवालयोऽस्ति। तत्र गङ्गाप्रावाहात् कश्चित् सुवर्णस्तम्भो निर्गच्छति। तस्य उपरि नवरत्नखचितं सिंहासनमस्ति। ससुवर्णस्तम्भः सूर्य्योदयादुपरि पूर्णवृद्धिंलब्ध्वा मध्याह्ने सूर्य्यमण्डलंप्राप्नोति। ततः सूर्य्योयावदस्तं गच्छति, तावत् स्वयमेव प्रत्यावृत्य गङ्गाप्रवाहे मज्जति।प्रतिदिनमेवं तत्रभवति। एतन्महदाश्चर्य्यंमया दृष्टम्”।
राजा विक्रमोऽपि तच्छ्रुत्वा तेन सह तत् स्थानं गतो रात्रौ निद्रां गतः। प्रभातसमये सूर्य्यस्य यावदुदयो भवति, तावत् गङ्गाप्रवाहात् रत्न-सिंहासनयुक्तो हेमस्तम्भो निगेतः। तस्मिन् समये स्तम्भे राजा स्वयमुपविष्टः। स्तम्भोऽपि सूर्य्यमण्डलं प्रति गन्तुं प्रवृत्तो यावत् सूर्य्यसमीपं गच्छति, तावदग्निकणसदृशैः
सूर्य्यकिरणैःराजशरीरं मांसपिण्डाकारमभूत्। ततः पिण्डरूपेण सूर्य्यमण्डलं प्राप्य नमश्चकार। सूर्य्यःस्तम्भम् अमृतेनाभ्यषिञ्चत। तेन राजा दिव्यशरीरो जातः।
अभ्यासः।
१.सन्धिच्छेद करो—
शिवालयः, कश्चित्, महदेकम्, सूर्योदयः।
२.दिव्यशरीरः, गङ्गाप्रवाहः, नवरत्नखचितम्, सूर्यमण्डलम्, हेमस्तमभः—
इन समस्त पदोंका विग्रह करो और समासों के नाम बताओ।
३. वाच्य परिवतन करो—तेन उक्तम्। मया तत् दृष्टम्। सूर्यः अस्तं गच्छति। स सूर्यमण्डलं प्राप्नोति।
शब्दार्थ—
वैदेशिकः। प्रासादः। हेमस्तम्भः। खचितम्।
परदेसी। मन्दिर। सोने का खम्भा। जड़ा हुआ।
प्रत्यावृत्य। मांसपिण्डः-डम्।
लौट कर। मांस का लोथड़ा।
सूर्य्यलोकगमनम्। (२)
सूर्येणोक्तम,—“भो राजन्, त्वं महासत्वोऽसि। यदेतन्मण्डलं कस्यापि अगम्यं, तत्र त्वं प्राप्तोऽसि। तदहं प्रसन्नोऽस्मि, वरं वुणीष्वः”। राजा वदति,—“किं मत्तोऽधिकः परोऽस्ति? यन्मुनीनामप्यगम्यं तव स्थानं, तदहं प्राप्तः। तव प्रसादात् सर्वमप्यर्थजातं मम सञ्जातम्”।तद्वचनेनातिसन्तुष्टः सूर्य्योनवरत्नखचिते स्वकीयकण्डले, दत्वा भणति,—“भो राजन्, एतत् कुण्डलद्वयं प्रतिदिनमेकं सुवर्णभारं प्रयच्छतिः"।
ततो राजा कुण्डलद्वयं गृहीत्वा, पुनः सूर्य्यंनमस्कृत्य प्रत्यावृत्तात् तस्मात् स्तम्भादुत्तीर्य्ययावदुज्जयिनीं प्रति आगच्छति, तावत् कश्चित् ब्राह्मणो मार्गे समागत्य आशीर्वादमुच्चार्य्यभणति,—“भो यजमान, अहं कुटुम्बी बाह्मणः पर दरिद्रः, सर्वत्रभिक्षाटनं करोमि, तथाऽपि उदरं न पूर्य्यते”।तच्छ्रुत्वा राजा कुण्डलद्वयं तस्मैदत्वा भणति,—“भो ब्राह्मण, एतत् कुण्डलूयुगलंनित्यं सुवर्णभारमेकं तुभ्यं दास्यति”। तच्छ्रुत्वा ब्राह्मणोऽतिसन्तुष्टो राजानं सविशेषं सम्मान्य निजस्थानं जगाम। राजाऽप्युज्जयिनीमगच्छत्।
अभ्यासः।
१. त्वम्, मत्तः, तव, मार्गे, तस्मै, उदरम्, यजमान—
इनके शब्द, विभक्ते और वचन लिखो।
२. दत्त्वा, गहीत्वा, समागत्य—
इनके धातुओं के लङ्लकार, प्रथम पुरुष में रूप लिखो।
३.करोमि, आगच्छति, दास्यति,—इनके धातु, लकार, पुरुष और वचन बताकर बहुवचन के रूप बताओ।
शब्दार्थ—
अर्थजातम्।
अर्थ-समुह।
————————
इन्द्रजालप्रदर्शनम्। (१)
एकदा ऐन्द्रजालिकः कश्चित् महाराजविक्रमसमीपमागत्य सप्रणाममवदत्,—“देव, त्वं सकलकलाभिज्ञः। भवतः समीपमागत्यानेकैःमहेन्द्रजालिकैः स्वस्वलाघवानि दर्शितानि। अद्य ममापि एकं लाघवं निरीक्षणीयम्”। राज्ञोक्तम्,—“नेदानीमवसरोऽस्माकम्। प्रभाते द्रक्ष्यामः”।
ततः प्रभाते कश्चिद्महाकायः विपुलकन्धरः पुरुषः आत्मनः स्त्रिया युक्तः समागत्य सभायां राजानं प्रणतवान्, उवाच च,—“देव, अहं महेन्द्रस्य सेवकः। कदाचित् स्वामिना शप्तोऽधुना भूमण्डले तिष्ठामि। इयं मम भार्या। अद्यैव देवासुराणां युद्धं प्रारब्धम्। अहमपि स्वभार्यां भवतः पार्श्वे निक्षिप्य युद्धार्थं गमिष्यामि”।
एवमुक्त्वाभार्यांच राज्ञःसमीपे निक्षिप्य गगने उत्पतितः। क्षणेनैवाकाशे महान् भीषणरवो जञातः,—“रे रे, मारय मारय, घातय घातय”इति। सभायामुपविष्टाः सर्वेऽपि लोका ऊर्ध्वमुखाः सकौतुकं यावत् पश्यन्ति स्म, तावत् गगनात् खङ्गो रक्तलिप्तः, तथैको बाहुः पतितः। एवं सर्वैरवलोक्य भणितम्,—“अहो! एतस्याः स्त्रिया वीरः पतिः संग्रामे प्रतिभटैःहतः। तस्यैको बाहुः खङ्गश्च पतितः”। एवं वदत्सु एव तेषु पुनः शिरश्च पतितम्, ततः कबन्धोऽपि पतितः।
एतत् सर्वंदृष्ट्वासा स्त्रीरोदितुमारब्धा, उवाच च,—“देव,
मम भर्ता रणाङ्गणे युध्यमानः शत्रुभिर्निहतः। तस्येदं शिरः, सखङ्गो बाहुः, कबन्धश्च प्रमाणानि। इदानीमेतच्छरीरं कस्य कृते रक्षामि। तद्देहि भर्त्रा सहाग्निप्रवेशाभ्यनुज्ञाम्। यतः—
शशिना सह याति कौमुदी
सह मेघेनतडित् प्रलीयते।
प्रमदाः पतिमार्गगा इति
प्रतिपन्नं हि विवेतनैरपि॥१॥
मृते भर्तरि या नारी समारोहेद् हुताशनम्।
साऽरुन्धतीव पूज्या स्यात् स्वर्गलोके निरन्तरम्”॥२॥
तस्यास्तद्वचनं श्रुत्वा राजा श्रीखण्डादिभिः चितां विरचय्य तस्यै अनुज्ञां ददौ। सा चानुज्ञाता भर्तुःशरीरेण सममग्निं विवेश। ततः सूर्य्योऽस्तमगात्।
अभ्यासः।
१. सन्धियुक्त करो—मम+अपि+एकम्। भटैः+हतः। गगने+उत्पतितः। राज्ञः+समीपे। एतत्+शरीरम्।
२. रिक्त स्थानों में उपयुक्त शब्द लगाओ—
कश्चित् पुरुषः राजानं ———।———युद्धम् आरब्धम्। एतत्
शरीरं———कृते रक्षामि॥ कौमुदी———सह याति।
शब्दार्थ—
ऐन्द्रजालिकः। लाघवम्। कबन्धः। तडित्।
मदारी। कर्तब। धड़। बिजली।
प्रलीयते। श्रीखण्डः-डम्।
लीन हो जाती है। चन्दन।
————————
इन्द्रजालप्रदर्शनम्।(२)
प्रभाते राज्ञि विक्रमे सिंहासनमलंकुर्वति स एव पुरुषः पूर्ववत् खङ्गहस्तः समागत्य राज्ञः कण्ठेकल्पतरुकुसुमग्रथितां मालां निधाय, तस्मैनानाविधयुद्धगोष्ठीः वक्तुं प्रवृत्तः। तं समागतं दृष्ट्वासर्वाऽपि सभा विस्मयं गता। पुनश्च तेन भणितम्,—“राजन्, मयि अस्मात् स्थानात् स्वर्गं गते, तत्र महेन्द्रस्य दैत्यानाञ्चमहान् संग्रामोऽभूत्। तस्मिन् बहवो राक्षसा दैत्याश्चहताः। अन्ये पलायिताः। युद्धावसाने देवेन्द्रेण भणितम्,—भो नायक, त्वया अद्य भूतले न गन्तव्यम्। तव शापस्यावसानं जातम्। तवाहं प्रसन्नोऽस्मि”।
देवेन्द्रवचनं श्रुत्वा मयोक्तम्,—“देवराज, भवदाज्ञाशिरोधार्य्या। परमत्रआगमनसमये मया भार्या विक्रमादिव्यसमीपे निक्षिप्ता। तां गृहीत्वा झटिति पुनरागमिष्यामिः”। इति पुरन्दरमुक्त्वा समागतोऽस्मि। अधुना सा मम भार्यासत्वरं दातव्या, येन मेस्वर्गगमने विलम्बो न भवेत्” इति।
तद्वचनं श्रुत्वा राजा परं विस्मितः तुष्णीं स्थितः। पुनस्तेन गदितम्,—“राजन, किं जोषमास्यते?”
राज्ञःसमीपस्थैःभणितम्,—“तव भार्या अग्निं प्रविष्टा”। तेनोक्तम्,—किमर्थम?”
राज्ञोक्तम,—“भद्र, भवतः खङ्गं, बाहुं, हिरः, कबन्धं च
क्रमेण पतितं दृष्ट्वाभवन्तं युद्धनिहतं मत्वा तव पत्नीममानुमत्या अनलंप्रविष्टवती”।
तेन पुरुषेणोक्तम्,—“राजन, नैतद्विश्वासिमि। सुरूपा युवती च मे पत्नीभवता निजग्रहे गोपायिता”।
ततः सकलसभासद्भिरुक्तम्,—“भो नायक, अस्माकं समक्षं सा अनलंप्रविष्टा”।
ततः, “नहि नहि” इत्युक्त्वा नायकः त्वरितमुत्थाय सिंहासनपश्चाद्वर्तिगृहाभ्यन्तरात् तामेव भार्यां करे गृहीत्वा राजसभामध्यमानीय तद्वक्त्रावरणञ्चउन्मोच्य प्रदार्शितवान्। ततः सर्वे लज्जावनतमुखाः परं विस्मयं जग्मुः।
अथ स सहासं राजानमुक्तवान,—“महाराज, ब्रह्मायुर्भव। अहं स महेन्द्रजालिकः।तव पुरतः मया इन्द्रजालाविद्यालाघवंदर्शितम्”। तदा प्रसन्नेन राज्ञा बहु पारितोषिकं दत्वा बहुमानपुरस्सरं प्रस्थापितः स्वगृहं जगाम।
अभ्यासः।
१. नीचे लिखे पदोंका परिचय दो—
तस्यै, राज्ञि, अन्ये, भवतः,शिरः।
२. स्थितः, वक्तुम्, हताः, जातम्, प्रविष्टाः—इन शब्दों को संस्कृतवाक्यों में प्रयुक्त करो।
३. खङ्गदहस्तः, भवदाज्ञा, विद्यालाघवम्, शिरोधार्या, देवराज—
इनका विग्रह करो।
शब्दार्थ—
अवसानम्। पुरन्दरम्। तूष्णीम्, जोषम्।
अन्त। इन्द्र को। चुप।
गोपायिता। सहासम्। वक्त्रावरणम्।
छुपाई गईहै। हंसी के साथ। धूंघट।
——————
योगिसन्दर्शनम्। (१)
विक्रमो राजा षण्मासं राज्यं करोति, षण्मासं च देशान्तरं भ्रमति। एकदा स देशान्तरं गतो नानादेशान् परिभ्रम्य पद्मालयं नाम नगरमगच्छत्। तस्य बहिरुद्याने अतिविमलोदकं सरोवरं दृष्ट्वातत्रोदकं पीत्वा उपविष्टः। ततोऽन्येऽपि केचन वैदेशिकाः समागत्य जलपानं विधायोपविष्टाः परस्परं गोष्टीः कुर्व्वन्ति,—“अहो,अस्माभिरनेके देशा दृष्टाः, बहूनि तीर्थस्थानानि दृष्टानि, अतिदुर्गमाः कैरप्यन- धिगम्याः पर्व्वता आरूढाः, परमेकत्रापि महापुरुषदर्शनं नाभूत्”। अन्येन भणितम्,—“कथं महापुरुषदर्शनं भविष्यति। यत्र महासिद्धोऽस्ति तत्र गन्तुमशक्यम्। यतः मार्गोऽतिदुर्गमः। मध्ये अनेके विघ्नाः सम्भवन्ति। येन देहस्य नाशो भवति, येनात्मा संशये पतति, तत कदापि बुद्धिमता न कार्य्यम्। यतः—
पुनर्दाराः पुनर्वित्तं पुनः क्षेत्रं तथैव च।
पनः शुभाशुभं कर्म्मशरीरं न पुनः पुनः।
राजापि तस्य वचनं श्रत्वा ब्रवीति,—“अहो वैदेशिक, किमेवमुच्यते?यावत् पुरुषेण पौरुषं साहसं च क्रियते, तावदेव सफलं कार्य्यंदुर्लभं न भवति। उक्तञ्च—
दुष्प्राप्याणि च वस्तूनि लभ्यन्ते वाञ्छितानिच।
पुरुषैः संशयारूढैरलसैर्नकदाचन”॥
एतद्राजवचनं श्रुत्वा तेनोक्तम्,—“भो महासत्त्व, किं कार्य्यम्? कथय”। राज्ञोक्तम,—“अस्मात् स्थानात् द्वादशयोजनपर्य्यन्तं यदि गम्यते, तर्हितत्र महारण्यमध्ये विषमः कश्चित् पर्व्वतोऽस्ति। तत्र त्रिकालनाथोनाम योगीश्वरो वर्त्तते। यदि तस्य दर्शनं क्रियते, तर्हिस सर्व्वं वाञ्छितमर्थं दास्यति। अहं तत्र॒ गच्छामि”। तैरुक्तम्,—“वयमपि गमिष्यामः। राज्ञोक्तम्,—सुखेन आगच्छत”।
अभ्यासः।
१.सन्धिच्छेदकरो—कश्चित्, योगीश्वरः, तैरुक्तम्, तावदेव, तथैव, पुनर्वित्तम्।
२. नीचे लिखे समस्त पदों का विग्रह करो—
अतिविमलोदकम्, महापुरुषदर्शनम्, त्रिकालनाथः, राजवचनम्।
३. वाच्य परिवर्तन करो—तेन गम्यते। मया दर्शनं क्रियते। पृरुषैःवस्तूनि लभ्यन्ते। त्वया किम् उच्यते।
शब्दार्थ—
गोष्टीः। संशयारूढाः। योजनम्। विषमः
बातचीत, संदेहग्रस्त। चार कोस। दुर्गम,
वार्तालाप। ** संशये। **
दुस्तर।
कष्ट (आपद्) में।
———————
योगिसन्दर्शनम्। (२)
ततस्ते राज्ञा सह निर्गता महारण्यमार्गमतिविषमं दृष्ट्वा राजानं प्रोचुः,—“महासत्त्व, कियद्दूरे पर्व्वतोऽस्ति”?राज्ञोक्तम्,—“इतःअष्टयोजनात् विद्यते”। “तर्हिवयं गमिष्यामः”,—इत्युक्त्वा षड् योजनानि गत्वा पुरतो यावद् गच्छन्ति, तावन्महाकालवदनः विषाग्निमुद्वमन् अतिभयङ्करः कश्चित् सर्पःमार्गमावृत्य तिष्ठति। तेऽपि तंसर्पं दृष्ट्वा सभयाःपलायाञ्चक्रिरे। राजा पुनरपि मार्गं गन्तुं प्रवृत्तः।
अथ सर्पः समागत्य राजानं वेष्टयित्वा समदशत्। ततः स विषमज्वालाकुलं विषवत् शरीरं वस्रखण्डेन आवृत्य दुर्गमं पर्व्वतमारुह्य त्रिकालनाथंयोगिनंदृष्ट्वानमश्चकार। योगिदर्शनमात्रेण सर्पस्तं त्यक्त्वा गतः। राजापिनिर्व्विषो बभूव। योगिनोक्तम्,—भोः साहसिक, महाप्रमादभूयिष्ठमेवममानुषं स्थानम् अतिकष्टेन किमर्थमागतोऽसि”? राज्ञोक्तम,—“भोः स्वामिन्, भवत्सन्दर्शनद्वारेण सकलमपि पातकं गच्छताीत्यतः कथं न कष्टं सहित्वाहंधन्यः कृतकृत्योऽस्मि, यतो महतां दर्शनमतीव दुर्लभम।
अन्यच्च—
यावत् स्वस्थमिदं शरीरमखिलं यावज्जरा दूरतो।
यावच्चेन्द्रियशक्तिरप्रतिहता यावत् क्षयोनायुषः॥
आत्मश्रेयसि तावदेव विदुषा कार्य्यःप्रयत्नो महान्।
उद्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः”॥
ततः प्रसन्नेन योगिना कठिनी, योगदण्डः, कन्था च दत्ताः। उक्तञ्च,—राजन, अनया काठिन्या भूमौ यावत्यः रेखा लिख्यन्ते, तावन्ति योजनानि एकस्मिन् दिने गन्तुं शक्यन्ते। एनं योगदण्डं दक्षिणहस्ते धृत्वा यं स्पृरासि, सोऽचिरात् सञ्जीवत्येव। वामहस्तेन तु यदि विपक्षं स्पृशसि, स तत्क्षणात् विनश्यति। इयं कन्थापि ईप्सितवस्तूनि प्रयच्छति”। राज्ञापि तत् त्रयं गृहीत्वा योगिनं नमस्कृत्य अनुज्ञां लब्ध्वा यावदागम्यते, तावत् पर्व्वतपार्श्वे स कञ्चित् खुकुमारदेहं कुमारं पर्व्वतात् पतनोद्यतं ददर्श। दष्ट्वातं निवार्य्य च अपृच्छत्,“सौम्य, किमिवंक्रियते”? तेनोक्तम्,—अहं कश्चिद् राजकुमारः। मम राज्यं दायादैरपहृतम्। अतोऽहं प्राणांस्त्यक्तुकामोऽस्मि”।
ततो राजा तस्याभयं दत्त्वा कठिनीं, योगदण्डं, कन्थाञ्च तस्मैददौ, तेषां गुणानपि च उवाच। राजकुमारोऽपि तं साक्षाद्देवं मत्वा प्रणम्य अतिसाहसस्य परिणामम् इव तानि द्रव्याणि गृहीत्वा स्वदेशं ययौ। राजा च गृहं प्रत्याजगाम।
अभ्यास;।
१. हस्, पठ्, रक्ष्, सेव्, और हन् धातुओं के तुमुन्नन्त रूप संस्कृतवाक्योंमें प्रयुक्त करो।
२. दृश्, स्था, सेव्, रूद्, रुध्, कृ और क्री धातुओं के लोट् उत्तम—
पुरुष बहवचन के रूप लिखो।
शब्दार्थ—
योगदण्डः। कन्था। कठिनी।
जादू का डण्डा। गुदड़ी। खरिया, वाक।
** ईप्सित—(आप्+सन्+क्त)। दायादः।**
अभीष्ट बन्धु, रिश्तेदार
————————
हासविद्यस्य। (१)
हासेन विद्यया यस्तु प्रभोर्भवतिबल्लभः।
विकृताङ्गवचःकृत्यैर्हासविद्यः स उच्यते॥१॥
बभूव काञ्ची नाम राजधानी। तस्यां सुप्रतापो नाम राजा। तत्रेकदा कस्यापि धनिकस्य धनं चोरयन्तश्चत्वारश्चौराः सन्धिद्वारे प्रशास्तृपुरुषैःप्राप्ताः, शृङ्खलेन बद्ध्वा राज्ञे निवेदिताश्च। राजा च घातकपुरुषानादिदेश,—“रे रे घातकपुरुषाः, चतुरोऽपि चौरानेतान्नगराद् वहिर्नीत्वा शूलमारोप्य मारयतः”। ततो राजाज्ञया घातकपुरुषैस्त्रयश्चौराःशूलमारोप्य हताः। चतुर्थेन चिन्तितं यत्—
“प्रत्यासन्नेऽपि मरणे रक्षोपायो विधीयते।
उपाये सफले रक्षा भवत्येव न संशयः”॥२॥
चौर उवाच,—“रे रे घातकपुरुषाः, त्रयश्चौरा युष्माभिर्हता एव। इदानीं राजाग्रेमद्वचनं श्रावयित्वा मां मारयत। यतोऽहमेकां महतीं विद्यां जानामि। मयि मृते साऽस्तं यास्यति। राजा तु तां गृहीत्वा मां मारयतु।येन विद्या मर्त्यलोके तिष्ठेत्”। घातका ऊचुः—“रे चौर पुरुषाधम, वधस्थानमानीतोऽसि। किमधुनाऽपि जीवितुमिच्छसि? कां विद्यां जानासि? कथं वा तवाधमस्य विद्या भूपालेन ग्रहीतव्या?” चोर उवाच,—“रे घातकाः, किं ब्रूथ? राजकार्यबाधां कर्त्तु मिच्छथ। यदि राजा ज्ञास्यति तदाऽवश्यं तेन ग्रहीतव्या
महतीयं विद्या। किंच, विद्यावार्त्ताकथकेभ्यो युष्मभ्यमपि प्रभुणा प्रसादः कर्त्तव्यः”। ततस्तस्य चौरस्य वचनैःस्वामिकार्यानुरोधेन घातकैःसा वार्त्ता राज्ञे निवेदिता। राजाच कौतुकमाकर्ण्यचौरमाहूय प्रष्टुमारभत।
अभ्यासः।
१, द्वि, त्रि, चतुर् , पञ्चन्, और षष् के प्रथमा, द्वितीया और षष्ठी विभक्तियों के रूप लिखो।
२. प्रभोः, मयि, महती, इयम्, वचः—इन पदों के शब्द, विभक्ति और वचन लिखो।
३. सन्धिच्छेद करो—
हता एव, त्रयश्चौराः, रक्षोपायः।
शब्दार्थ—
सन्धिद्वारे। प्रशास्तृ-।
शृङ्खलेन।
सेंध के दरवाज़ेपर। राजा। जजीर से।
घातकपुरुषाः। ** शूलम्।
प्रत्यासन्ने।**
जल्लाद। सूली पर। समीप आने पर।
————————
हासविद्यस्य। (२)
राजोवाच,—“रे, कां विद्यांजानासि”? चौर उषाच,—“देव, सुवर्णकृषिं जानामि”। राजोवाच,—“का परिपाटी”? चौर उवाच,—“देव, सर्षपपरिमाणानि सुवर्णवीजानि कृत्वा भूमावुप्यन्ते। मासमात्रेण सर्षपसदृशा एव कन्दलाभवन्ति। देवः प्रत्यक्षं पश्यतु”। राजोवाच,—“चोर, सत्यमेतत्”? चौर उवाच,—“देवस्य पुरतः कस्यासत्यभाषणे शक्तिः? यदि मम वचनं व्यभिचरति, तदा मासान्ते ममाप्यन्तो भविष्यति। तदाऽपि देवः शास्तिकरणे च प्रभुरेव स्थास्यति”।
राजोवाच,—“भद्रम्, वप सुवर्णम्”। ततश्चौरः सुवर्णंदाहयित्वा सर्षपमात्राणि बीजानि कृत्वा राजान्तःपुरक्रीडासरसस्तटे परमनिगूढ- स्थाने भूपरिष्कारं कृत्वा बभाषे,—“देव, क्षेत्रबीजे संपन्ने वप्ता कश्चिद्दीयताम्”। राजोवाच,—त्वमेव किं न वपसि?” चौर उवाच,—“यदि सुवर्णवपने ममौवाधिकारो भवति, तदा किमहं दुःखीभवामि। किन्तु स्वर्णवपने चौरस्याधिकारो नास्ति। येन कदाऽपि किमपि न चोरित- मस्ति, स वपतु।देव एव किं नवपति ?”
राजेवाच,—“मया चारणेभ्यो दातुं तातचरणानां धनं चोरितम्”।
चौर उवाच,—“तर्हिमन्त्रिणो वपन्तु”।
मन्त्रिण ऊचुः,—वयंराजोपजीविनः कथमस्तेयिनो भवामः”।
चौर उचाच,—“तर्हिधर्माधिकारी वपतु”।
धर्माध्यक्ष उवाच,—मयाऽपि बाल्यदशायां मातुर्मोदकाश्चोरिताः”।
चौर उवाच,—“यूयं सर्वेऽपि चौराः। कथमहमेव मारणीयोऽसि”।
तच्चौरवचनं श्रुत्वा सभासदः सर्वे जहसुः। राजाऽपि हास्यरसापनीतक्रोधो विहस्याह,—“रे चौर, न मारणीयोऽसि। हे मन्त्रिणः, कुबुद्धिरपि बुद्धिमानयं चौरः हास्यरसप्रवीणश्च।ततो ममैव संनिधाने तिष्ठतु, प्रस्तावे मां हासयतु मोदयतु च”। ततः स चौरो राज्ञा स्व- सन्निधाने धृतः।
न चौरादधमः कश्चित् सं हि हासेन विद्यया।
मृत्युपाशं समुच्च्छिद्य राज्ञो बल्लभतां गतः॥
अभ्यासः।
१. सन्धिच्छेद करो—
प्रभुरेव, ततश्चोरः, भूमावुप्यन्ते, ममाप्यन्तः।
२. नीचे लिखे समस्त पदोंका विग्रह करके समासों के नाम लिखो—
सुवर्णकृषिम् , सर्षपपरिमाणानि, सर्षपसदृशाः, हास्यरसप्रवीणः।
३.जानामि, स्थास्यति, आह, हासयतु—इन क्रियाओं के धातुओं
के लट् प्रथमपुरुष बहुवचन के रूप संस्कृतवाक्योंमें प्रयुक्त करो—
शब्दार्थ—
परिपाटी। शास्ति- चारणः।
रीति (तरीका)। दण्ड (सज़ा)। वैतालिक या नट।
प्रस्तावः। कुबुद्धिः प्रवीणः
उचित समय (मौक़ा) कुशील। चतुर, निपुण।
——————
युद्धवीरस्य (१)
कातरः शूरतां याति क्रियावानलसो भवेत्।
युद्धवीरकथां श्रुत्वा जयमाप्नोति साम्प्रतम्॥१॥
आसीत् मिथिलायां नान्यदेवनाम्नोराज्ञः पुत्री मल्लदेवनामधेयः कुःमारः। स च सिंह इव स्वभावात् पराक्रमरसिकः चिन्तयामास,— “यदहं युवराजोऽपि पितुरुपार्जितराज्ये सुखमनुभवामीति न मम पौरुषम्। यतः—
सिंहाः सत्पुरुषाश्चैव निजदर्पोपजीविनः।
पराश्रयेण जीवन्ति कातराः शिशवः स्त्रियः॥२॥
ततः क्वापि भुजबलेन पौरुपमर्जयामी” ति परामृदयय स कुमारः कान्यकुब्जं नाम जनपदं जगाम। नत्र च श्रीजयचन्द्रनाम्नो राज्ञः काशीश्वरस्य सभां प्राप्तः। राजा तच्छौर्य्याकृष्टःतमात्मसहचरमकरोत्। कुमागेऽपि तत्सेवायां प्रवृत्तः।
अथ काले याते तेनालोचितम्,—“नृपतिः मां न पूर्ववद् आदरदृष्ट्या अवलोकयति”। एवमवधार्यतेनैकदा महाराज उक्तः,—“देव, भवतः प्रभुधर्मं श्रुत्वाऽहमिहागतोऽस्मि। साम्प्रतमन्यत्र यास्यामि”।
राजोवाच,—“कुमार, किं तवोद्वेगे कारणम्? येनान्यत्र यासि”।
मल्लदेव उवाच,—“देव, भवतः समादरः क्रमेण शिथिलोभवति। इत्याशङ्क्याहमितोऽन्यत्र गच्छामि”।
राजोवाच, “कथमवगतमिदम्”।
कुमार उवाच,—“शौर्यमूलको मादृशां समादरो भवति। शौर्यं तु वाग्युद्धेन केवलं ख्यापयितुमशक्यम्। अद्य युद्धं तु भवतो राज्ये न दृश्यते”।
राजोवाच,—“आसमुद्रकरग्राहिणो मम युद्धे परिपन्थी कोऽपि नास्ति, तत्केन समं युद्धं भविष्यति”?
कुमार उवाच,—“देव, राज्यस्य फलंविजयसुखम्। विना युद्धेन कुतो विजयः कुतो वा सुखम्? यदि देवो मन्यते, तदाहमितो गच्छामि। यस्य च राज्यमहं गमिष्यामि स एव देवस्य युद्धपरिपन्थी भविष्यति”।
अभ्यासः।
१. शिशवः, स्त्रियः, पितुः भवतः, नाम—इन रूपों के शब्द, विभक्ति और वचन लिखो।
२. नीचे लिखे समस्त पदों का विग्रह करके समासों के नाम भी बताओ—
युवराजः, सत्पुरुषाः, विजयसुखम्, पराक्रमरसिकः,भूजबलेन।
३. अकरोत, दृश्यते, अनुभवामि, गच्छामि, आप्नोति—इनके धातु, लकार, पुरुष और वचन लिखो।
शब्दार्थ—
कातरः। अनुभवामि। दर्पः। उद्वेगः। परिपन्थी।
डरपोक। भोगता हूं। साहस। विरक्ति। शत्रु।
———————
युद्धवीरस्य। (२)
राजा सक्रोधमाह,—“रे कुमार, कस्त्वं कुमारः?केन वा दर्पेणैवं भाषसे? गच्छ तावद् यत्र गच्छसि। यत्र त्वं यास्यसि, तत्रैवाहं प्रयाणंकरिष्यामि”।
मल्लदेव उवाच,—“अयमहं गच्छामि”।
ततः कुमारः चीत्कारनाम्नो राज्ञो राज्यं जगाम। ततस्तं तत्र गतं श्रुत्वा काशीश्वरस्तुरगबलसाहितः चीत्कारदेशमाक्रान्तवान्।
कियतापि कालेन तं सन्निधानमागतं श्रुत्वा चीत्कारः स्वमन्त्रिभिः सार्धं मन्त्रयामास। मन्त्रिण ऊचुः,—“देव, भवतः परिमितबलस्य तेन महाबलेन युद्धं नोचितम्। तदिदानीं पलायनेनात्मरक्षणमेवोचितम्”। ततः पलायितुमुद्यतं चीत्कारराजं दृष्ट्वा मल्लदेवोऽब्रवीत्,—“राजन, किमिति पलायसे?भवन्तमुद्दश्यकाशीश्वरो न कदाप्यागतो, न चाग्रेऽप्यागमिष्यति। भवता न भेतव्यम्”।
चीत्कार उचाच,—“किं तन्निमित्तम?” मल्लदेवः पूर्वकथां कथयामास।
चीत्कारोऽवदत्,—“तर्हि किमुचितम्”?
मल्लदेवोऽब्रवीत्,—“स यतो मामेवोद्दिश्य समायाति, ततो
भवता न पलायितव्यम्। किंच, मयैकेन समं बहूनां तत्सुभटानां संग्रामे कौतूहलं दृष्टव्यम्”।
चीत्कार उवाच,—“कुमार, तेन महाराजेनानन्तबलेन सममेकाकिनस्तव न समुचितं युद्धम्। रीतिविरुद्धमेतत्”।
कुमार उवाच,—“शूरः स्वकर्मणि परामर्शं न सहते”।
चीत्कार उवाच,—“कुमार, अविमृश्यकारिणःविपदंलभन्ते”।
कुमार उवाच,—“देव, अलममुना विवादेन—
स्वयं करिष्ये यत् कर्मभोक्ष्ये तस्य स्वयं फलम्।
स्वापराधविपन्नानां विपत्तिः केन शोच्यते”॥३॥
चीत्कार उवाच,—
“युक्त तुल्यबलंयुद्धं यत्रास्ति जयसंशयः।
प्रबलेऽरिबले वह्नौके पतन्ति पतङ्गवत्”॥४॥
कुमार उवाच,—
“प्राणत्राणाय संग्रामात् पलायन्ते हि ये नराः।
मृत्युरावश्यकस्तेषां कार्यण्यमतिरिच्यते”॥५॥
चीत्कार उवाच,—“कुमार, भवान् महावीरः, काशीश्वरो महाराजः। ततो युवयोः संग्रामोऽस्माभिः श्रोतुमपि न शक्यते, किं पुनर्द्रष्टुम्।”
कुमार उवाच,—“यदि भवतो युद्धस्य दर्शनमप्यनभिमतं, तदा भवान् गच्छतु क्वार्पिश्यमपुरुषानिरीक्ष्यमाणं स्थानम्। गत्वा च भवत्वमरः।मया शून्यस्यापि भवतो नगरस्यावेक्षा कर्तव्या”।
चीत्कारः नगरात् पलायितः। तदग्रिमप्रभातेऽसंख्यबलसहितः महाराजोजयचन्द्रस्तन्नगरसन्निधानमाजगम। मल्लेदेवस्तमागतं ज्ञात्वा परिगृहीतास्रः गजारुढः पुरो गत्वा राजानं ददर्श।
अभ्यासः।
१.सन्धिच्छेद करो और नियम भी लिखो—
तत्रैवाहम्, ततस्तम् , कदाप्यागतः, गजारूढः, तन्निमित्तम्।
२. रेखाङ्कित पदोंमें नियमसहित कारक बताओ—
मया समम्।अलममुना विवादेन। दर्पेण भाषसे। मन्त्रिभिः सार्धम्।
३. सहते, लभन्ते, भोक्ष्ये, गच्छतुअब्रवीत्—इनका परिचय दो।
शब्दार्थ—
प्रयाणम्। कौतूहलम्। संशयः। कार्पण्यम्।
चढ़ाई। अद्भुत कार्य। संभावना। कायरपन।
———————
युद्धवीरस्य। (३)
राजोवाच,—“कस्त्वं रे, कुञ्जरारूढः,, संधानार्थिनश्चीत्कारस्य दूतो वा, युद्धार्थिनो मल्लदेवस्य वा”?
मल्लदेव उवाच,—“देव, नहि दूतो, न संधानार्थी, किन्तु तव प्रतियुद्धार्थी मल्लदेवोऽस्मि”।
राजा विहस्याह,—“भद्र, मम प्रतिमल्लता सिद्धैव। त्वमिदानीमनुसर माम्”।
मल्लदेव उवाच,—“त्वमेव किं न मामनुसरसि? संप्रति त्वं तुरगारूढोऽसि, अहं गजारूढोऽस्मि। त्वमप्यस्त्राणि धारयसि, अहमप्यस्राणि धारयामि। तदिदानीं प्रहारसमये क्ववचनबैचित्र्यावकाशः”।
राजा साश्चर्यंसैनिकान् आह,—“रे रे सुभटाः, मल्लदेवं धृत्वा में दत्त”। ते च सर्वे तमाक्राम्यन्। ततो निरोद्धुकामान् परितो भटान् बहून मल्लदेवः खङ्गप्रहारैर्यमसदनं प्रहितवान्। तेन विनिहतान् निजप्रियसुभटान् भूमौ पतितान् दृष्ट्वाजयचन्द्रःसैनिकान् आदिदेश,—“रे वीराः, यद्येनं मुमूर्षुमवरोद्धुंन शाक्नुथ, तदा शरासारैःस्नपयतः”। ततस्तां प्रभोराज्ञोमासाद्य सुभटास्तं मल्लदेवं युगपदेव शरासारैरभ्यषिञ्चन्। शरशकालित शरीरः कुञ्जराद् भूमौ पपात।
अशीतिवर्षदेशीयश्चीत्कारः प्रपलायितः।
षोडशाब्दस्तुकर्णाटः सम्मुखः पतितो रणे॥५॥
तं च संग्रामभूमौपतितं दृष्ट्वाराजोवाच,— “कुमार, जीषिष्यासि”?
मल्लदेव उवाच,—“आवयोः केन जितं युद्धम्”?
राजोवाच,—“भवता जितम्”!
मल्लदेवोऽवदत्,—“कथमिदानीमवधारणीयम्”? राजोवाच,—
“अस्माभिः कृतसंग्रामो यदेको बहुभिर्हतः।
जिगीषसि तथाप्यस्मान् कथं न विजयी भवान्”॥६॥
ततस्तेन राजः प्रशंसावचनेन पुलकितगात्रोमल्लदेवोऽब्रवीत्,—“देव, जीविष्यामि”।
तदनन्तरं तच्छौर्यपरितुष्टेन जयचन्द्रेण राज्ञा कुमारः शरान्उद्धत्य स्वस्थानं नीतः। पुत्रप्रेम्णा परिपाल्य क्षतेषु निर्वाणेषु, प्रतिनिधिः कृतश्च।
अभ्यासः।
१.नीचे लिखे पदोंमें कौन २ समास हैं?
कुञ्जरारूढः, षोडशाब्दः, कृतसंग्रामः, यमसदनम् , प्रशंसावचनेन, शरशकलितशरीरः, निरोद्धुकामान्।
२. भवता, विजयी, भूमौ, प्रभोः, अर्थिनः—
इनके शब्द, विभक्ति और वचन लिखो।
३. अब्रवीत्,शक्नुय, अवदत्—
इनके धातुओंके लङ् प्रथम पुरुष बहुवचन के रूप संस्कृतवाक्योंमें प्रयुक्त करो।
शब्दार्थ—
कुञ्जरारूढ़ः। मुमूर्षुः। उद्धृत्य।
अब्दः।
हाथी पर चढ़ा आसन्नमृत्यु, निकालकर। बरस।
हुआ। जिसकी मृत्यु
समीप आगई है।
अशीतिवर्षदेशीयः। जिगीषसि।
लगभग अस्सी बरस का। जीतना चाहता है।
——————
शस्रविद्यस्य। (१)
स्वभावाच्छस्रविद्यायाः शास्रविद्या कनीयसी।
शस्राण रक्षिते राष्ट्रे शास्रचिन्ता प्रवर्तते॥
बभूव धारा नाम राजधानी। तत्र विवेकशर्म्मणःपुत्रो निर्विवेको नाम ब्राह्मणः प्रत्युवास। स च वेदाध्ययनपराङ्मुखः स्वाचारनिरपेक्षः व्याधसमाजेन मृगयारसिको बभूव।कदाचिदेकदा मातुरनुनयेन मृगवधार्थमरण्यं न जगाम।गृहाङ्गणे निषण्णः पुर एव देवकुलकोटरे क्वणतः पारावतान्टष्ट्वाचिन्तयामास,—“इदं देवकुलमारुह्य पारावतशावकान्पातयामि”इति।
ततः स ब्राह्मणः पारावतशावकार्थी देवकुलमारुह्य कोटरे निक्षिप्तहस्तः कोटरस्थं सर्पं धृत्वा कपोतशावकभ्रमेण चकर्ष। कोटरादाकृष्टेन तेन सरीसृपेण वेष्टितबाहुःस परमत्रस्ताश्चिन्तयामास,—“अहं सर्पमत्यजन्नेकहस्तावलम्बेन देवकुलादवरोढुंन शक्नोमि, त्यज्ञँश्च सर्पेणैव द्रष्टव्योऽस्मि। तत्किमिदानींकरवाणि”इति। तदनन्तर सङ्कटपातत उच्चैरार्त्तरावञ्चकार। “त्रायन्तां मां लोकाः” इति प्रोवाच दुर्बुद्धिः। यतः
ज्ञातदोषमनादृत्य व्यसनेषु प्रवर्तते।
कुधीः कातरतां याति लब्ध्वा व्यसनजं फलम्॥
तदीयमार्त्तरवमाकर्ण्यलोका वर्तुलबिभूवुः। पश्चात्तां कथां श्रुत्वा भोजदेवोऽपि ब्राह्मणरक्षार्थी तत्राजगाम।
अभ्यासः।
१. वाच्यपरिवर्तन करो—
तां कथां श्रुत्वा भोजदेवः; तत्र आगच्छत्। कुधीःव्यसनजं फलंलब्ध्वा कातरतां याति। सङ्कटपतितः उच्चैःआर्त्तरावम् अकरोत्। अहं देवकुलाद् अवरोढुंन शक्नोमि।
२.नीचे लिखेसमस्त पदों का विग्रह करो और समासों के नाम बताओ—
मृगयारसिकः, कपेतशावकः, संकटपतितः, मृगवधार्थम्।
३. अस्मद् और युष्मद् के सब विभक्तियों के रूप बताभो—
शब्दार्थ—
राष्ट्रे। क्वणतः। सरीसृपेण।
वर्तुलीबभूवुः।
राज्य में, गूं गृंकरते- सर्प से। चारों तरफ इकट्ठे
देश में। हुओं को। होगये।
——————
शस्त्रविद्यस्य। (२)
तदनन्तरं सर्वैर्विचिन्त्यमानोऽपि ब्राह्मणरक्षाक्षमः शीघ्रतया कश्चिदुपायो न निर्धारितः। तस्योच्चतरस्याभ्रंलिहशिरसो देवकुलस्यैकहस्तमात्रावलम्बेन स्थितं सन्दिग्धजीचितं ब्राह्मणं दृष्ट्वा करुणहृदयो भोजदेवो राजा सर्वानादिदेश,—“भो भोलोकाः, कश्चिदस्ति यष्माकं मध्ये य एनं ब्राह्मणं त्रायते, सुवर्णलक्षं च गृह्णाति। यस्य प्रयुक्त्या पराक्रमेण वा ब्राह्मणोऽयंकुशली देवकुलादवतरति, तस्मैनिश्चितमहं लक्षं सुवर्णानि दास्ये।”
तदाकर्ण्यसिंहलनाम्ना केनापि राजपुत्रेण धनुर्विद्याविचक्षणेनोक्तम,—देव, ब्राह्मणार्थं महती प्रयुक्तिर्न कर्त्तव्या। अहमल्पेनैवायासेन ब्राह्मणमवतारयिष्यामि। ब्राह्मणस्तावदिदानीं सर्पवेष्टितं बाहुं स्तब्धं कृत्वा दर्शयतु।”
तथा कृतवति ब्राह्मणे राजपुत्रः कोदण्डमाकृष्य, सन्धानं विधाय, नाराचचक्रेण सर्पस्य शिरश्चिच्छेद, यथा छिन्नं सर्पकलेवरं भूमौनिपपात। ब्राह्मणकरे कुशपत्रधाराग्रसमानाऽपि लेखा न भूता।पश्चात् करस्थितं सर्पफणं परित्यज्य, लब्धस्वायत्तिर्ब्राह्मणो देवकुलात्पूर्ववदेवावततार। राजा तं राजपुत्रं स्वीकृतसुवर्णलक्षं दत्त्वापरैश्च वासःप्रभृतिभिर्वस्तुभिः स्तुतिभिश्च तोषयामास।
ब्राह्मणस्य कृता रक्षा लब्धं लक्षं च काञ्चनम्।
राज्ञा चाभ्यर्चितो बाहुविद्यया किन्नलभ्यते॥
अभ्यासः।
१. नीचे लिखे रूपोंके शब्द, विभक्ति और वचन लिखो—
कुशली, कृतवति, शिरः, भूमौ, विद्यया, राज्ञा।
२.नीचे लिखे समस्त पदोंका विग्रह करो और समासों के नाम भी बताओ—
धनुर्विद्याविचक्षणेन, करणहृदयः, राजपुत्रः, सर्पकलेवरम्, सर्पवेष्टितम्।
३. नीचे लिखे पदोंका परिचय दो—
लभ्यते, गृह्णाति, दास्ये, दर्शयतु, कर्तव्या।
शब्दार्थ—
अभ्रंलिह-। प्रयुक्तिः। स्तब्धः।
कोदण्डम्-ण्डः।
आकाश से प्रयत्न। अकड़ा हुआ। धनुष,
बातें करने वाला। कमान।
नाराचः।
तीर।
——————
सत्यवीरस्य। (१)
कलौकामादिभिर्युक्तो मानवोऽनृतवागपि।
सत्यवीरकथां श्रुत्वा सर्वपापैः प्रमुच्यते॥
पुरा हस्तिनापुरनाम्नि नगरे मुहम्मदनाम्नायवनेश्वरो बभूव।तस्मिन् धरणीं शासति, काफरनरपतिः तम् अभियोद्धुंसकलबलसहितः तत आजगाम। यवनेश्वरःआयान्तं ज्ञात्वा न बहुभिः अश्ववारैःपरिवृतः पुराद् वहिर्भूय तेन संग्रामम् अङ्गीचकार।
तदुभयसमारब्धे संग्रामे, महीयसा काफरसैन्येन हन्यमानाः तद्बलयोधाः पराभूताः। ततस्तादृशं निजबलं दृष्ट्वायवनेश्वरउवाच,—“रे रे मम सैन्यसुभटा राजानोराजपुत्राश्च, युष्माकं मध्ये कोऽपि तथा नास्ति, य इदानीं रिपुभयभग्नंमम सैन्यं स्वेन बाहुबलेन क्षणम् अवलम्वेत।”
तच्च यवनराजवचनं श्रुत्वा कार्णाटककुलसंभवोनरसिंहदेवनाम्ना, चौहानकुलसंभवः चाचिकदेवनामा च राजकुमारौऊचतुः,—“राजन, क इदानीं निम्नाभिमुखं पततः पयस इव, रिपुत्रासभग्नस्य भवद्बलस्य परित्राता भवतु।यदि क्षणं परावत्य भवान् आलोकते, तदा आवां भवतो विपक्षं खङ्गधाराप्रहारपरिकृत्तशिरस्कं करवावः”। यवनेश्वर उवाच,—साधु, कुमारौ, युवाभ्यामन्यः कएवं करोतिः”।
ततो नरासिंहदेवः कशाघातन तुरङ्गंत्वरायित्वा परावृत्य अतर्कित एव काफरबलं प्रविवेश। प्रविश्य च काफरनृपं शल्येन
हृदि हतवान्। काफरेश्वरस्तु गतप्राणो भूमौ निपपात। चाचिकदेवेन च भूमौ पतितस्य शिरश्छित्वा यवनेश्वरस्य पुरो नीतम्। यवनेश्वर उवाच,—“केनासौहतः”? चाचिको ब्रूते—“राजन्, नरासिंहदेवेन हतः। ततःपश्चाद्गामिना मया शिरश्छिन्नम्। यवनेश्वरः पृच्छति,— “नरसिंहदेवः कुत्र?” चाचिको ब्रूते,— काफरेश्वरसन्निधानवर्तिभिःस्वामिवधक्रुद्धैःसुभटैःबहुभिरेकोहन्यमानो मया दृष्टः, क्व गतः, क्वेदानीम अस्ति वा, तन्न ज्ञायते”।
ततो यवनराजः परसैन्यं हतनायकं पलायमानं दृष्ट्वापरमसानन्दो बभूव।तदनुगामिनश्चस्वसैनिकान् प्रत्याह,— “भो भो मम सैनिकाः, पलायमानान् भटान् किं हथ। संप्रति मम राज्यरक्षितारं नरसिंहदेवं मेविज्ञापयत।”
अभ्यासः।
१. नीचे लिखे पदों के शब्द, विभक्ति और वचन लिखो—
परित्राता, पततः, शासति, पयसः, मे।
२. नीचे लिखे पदोंको संस्कृतवाक्यों में प्रयुक्त करो—
हतवान्, नीतम्, छन्नम्, दृष्टः, अभियोद्धुम्।
३. वाच्यपरिवर्तन करो—चाचिकः ब्रूते।केन स हतः।क एवं करोति।बहुभिरेको हन्यमानो मया दृष्टः।
शब्दार्थ—
अभियोद्धुम्। रिपुभयभग्नम्। परिकृत्त-। कशा,
लड़ने के लिये। शत्रु केडर से कटा हुआ। कोड़ा।
तितर वितर हुई को।
——————
सत्यवीरस्य। (२)
तदनन्तरम् एकत्र संग्रामप्रदेशे बहुतरनाराचभिन्नशरीरं वहद्रुधिरधारासहस्रंपुष्पितं किंशुकमिव वेदनोमूर्च्छितं नरसिंहदेवं यवनेश्वरोददर्श। अश्वाद् उत्तीर्यच बभाषे,—“नरसिंहदेव, जीविष्यसि”? नरासिंहदेव उवाच,—“राजन, मया यत् कृतं तदवगतं भवता”? यवनेश्वर उवाच,—“ज्ञातं मया, कथितं चाचिकदेवेन यत् त्वया मम शत्रुर्हतः”। नरसिंहदेव उवाच,—“तर्हिजीविष्यामि। यतः—
स्वीकृतं दुष्करं कर्ममयायस्य हितेच्छया।
तेन विज्ञायमानो मे फलितः श्रमपादपः”॥
ततस्तस्य शरीरात् नाराचान् उद्धृत्य यवनेश्वरस्तं कुमारं नानाभेषजप्रयोगेण स्वल्पैरेव दिवसैः निर्वाणक्षतम् अकारयत्। तदनन्तरं सहस्रसंख्यैरश्वैः, लक्षसंख्यैःकाञ्चनैः, चामरादिभिश्च तं पूजयितुम् उपचक्रमे।
नरसिंहदेव उवाच,—“राजपुत्राणां युद्धं स्वाभाविक एव धर्मः। तत् किम् अद्भुतं कृतं, यदित्थं पूजा क्रियते। यदि पूजैव कर्तव्या, तदा चाचिकदेवस्य क्रियताम्, येन रिपुशिरोऽप्यानीय सत्यानुरोधेन भवतः पुरस्तात् मम यशःप्रकाशितं, स्वपौरुषं न प्रख्यापितम्। अन्यथा नीयमानं रिपुमारणाचिह्नंरिपुशिरो दृष्ट्वाको वा जानीयात्, यन्मया मारितो रिपुरिति। तदयमेव प्रथमं पूज्यताम्”।
चाचिकदेव उवाच,—“कुमार नरसिंह, मैवं ब्रूहि। कथम् अहं तवपराक्रमफलम् आदाय परोच्छिष्टजीवी भविष्यामि”। नरसिंहदेव उवाच,—“साधु, सत्यवीर, साधु!
अनेन तव सत्येन सर्वमेवोचितं तव।
महेच्छोऽसि विदग्धोऽसिसतीपत्रोऽसि चाचिक”।
** ततस्तयोः परस्परालापम् आकर्णयता समुपजातपरितोषेण यवनेश्वरेण द्वावपि कुमारौतुल्यमेव सत्कृतौ।**
अभ्यासः।
१. प्रश्नाः—कमभियोद्धुमागतः काफरराजः?पराभूतं स्वसैन्यं दृष्ट्वा किमवदत् यवनेश्वरः? कावुद्यतौयवनराजस्य शत्रून् हन्तुम्? कथं च ताभ्याम् अभाीष्टसिद्धिर्निष्पादिता? किं नाम तात्पर्यमस्याःकथायाः?
२. दा, नी, कृ, और ब्रू धातुओं के विधिलिङ्उत्तमपुरुष एकवचन के रूप सस्कृतवक्यों में प्रयुक्त करो।
शब्दार्थ—
वेदना। पुरस्तात्। उच्छिष्टम। विदग्धः।
पीड़ा, व्यथा। आगे। जूठा। चतुर।
———————
सुभाषितप्रशंसा।
भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते॥
धर्मो यशो नयो दाक्ष्यं मनोहारि सुभाषितम्।
इत्यादिगुणरत्नानां संग्रही नावसीदति॥
द्राक्षा म्लानमुखी जाता शर्करा चाश्मतां गता।
सुभाषितरसस्याग्रे सुधा भीता दिवं गता॥
विद्याप्रशंसा।
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।
व्ययतो वृद्धिमायाति क्षयमायाति संचयात्॥
सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम्।
अहार्यत्वादनर्ध्यत्वादक्षयत्वाच्च सर्वदा॥
ज्ञातिभिर्वण्ट्यते नैव चौरेणापि न नीयते।
दाने नैव क्षयं याति विद्यारत्नं महाधनम्॥
न चौरहार्यं न च राजहार्यं
न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं
विद्याधनं सर्वधनप्रधानम्॥
अभ्यासः।
१. यशस्, विद्या, त्रि (नपुंº)—इनके सब विभक्तियों में रूप लिखो।
२. संग्रही, पृथिव्याम्, कः, काव्यमू—इनके शब्द, विभक्तिऔर वचन लिखो।
३. विधीयते, विद्यते, नीयते, आयाति, अवसीदरतति— इनका परिचय दो।
४. सन्धिचछेद करो— तस्माद्वि, विद्यैव, वर्धत एव।
शब्दार्थ—
पाषाण-। नयः। सुधा। वण्ट्यते।
पत्थर। नीति। अमृत। बाँटा जाता है।
** शर्करा। अनुत्तमम।**
मिसरी। सब से श्रेष्ठ।
———————
दुर्जननिन्दा।
खलःसर्षपमात्राणि परच्छिद्राणि पश्यति।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति॥
दुर्जनःपरिहर्तव्यो विद्ययाऽलङ्कृतोऽपि सन्।
मणिना भूषितः सर्पः किमसौ न भयंकरः॥
उपकारोऽपि नीचानामपकारोहि जायते।
पयःपानं भुजङ्गानां केवलंविषवर्धनम्॥
सर्पदुर्जनयोर्मध्येवरं सर्पोन दुर्जनः।
सर्पो दशति कालेन दर्जनस्तु पदे पदे॥
धनप्रशंसा।
ब्रह्मघ्नोऽपि नरः पूज्यो यस्यास्ति विपुलं धनम्।
शशिना तुल्यवंशोऽपि निर्धनः परिभूयते॥
यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः।
स एव वक्ता स च दर्शनीयः सर्वेगुणाः काञ्चनमाश्रयन्ति॥
धनैर्निष्कुलीनाः कुलीना भवन्ति धनैरापदं मानवा निस्तरन्ति।
धनेभ्यः परोवान्धवो नास्ति लोके धनान्यर्जयध्वं धनान्यर्जयध्वम्॥
त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनश्च।
तमर्थवन्तं पुनराश्रयन्ति ह्यर्थोहि लोके पुरुषस्य बन्धुः॥
अभ्यासः।
१.नीचे लिखे पदों में विग्रह करो और समासों के नाम भी लिखो—
निर्धनः, परच्छिद्राणि, तुल्यवंशः, विषवर्धनम्।
२.त्यजन्ति, जायते, परिभूयते, पश्यति, निस्तरन्ति—
इन क्रियाओं के धातु, लकार, पुरुष और वचन लिखो।
३. वक्ता, पश्यन्, शशिना, श्रुतवान्, धनेभ्यः—
इनके शब्द विभक्ति और वचन छिखो।
शब्दार्थ—
काञ्चनम्। दशति। विपुलम।
सोना। डसता है। बहुत।
———————
धननिन्दा।
लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम्।
शेषे धराभरक्लान्ते शेते नारायणः सुखम्॥
जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु।
मोहयन्ति च संपत्तौ कथमर्थाः सुखावहाः॥
वरमसिधारा तरुतलवासो वरमिह भिक्षा वरमुपवासः।
वरमपि घोरे नरके पतनं न च धनगर्वितवान्धवशरणम्॥
तानीन्द्रियाण्याविकलानि मनस्तदेव,
सा बुद्धिरप्रतिहता वचनं तदेव।
अर्थोष्मणा विरहितः पुरुषः स पव,
ह्यन्यः क्षणेन भवतीति विचित्रमेतत्॥
गुणप्रशंसा।
गुणाः सर्वत्रपूज्यन्ते पितृवंशो निरर्थकः।
वासुदेवं नमस्यन्ति वसुदेवं न मानवाः॥
शरीरस्य गुणानाञ्च दूरमत्यन्तमन्तरम्।
शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः॥
गुणेषु क्रियतां यत्नः किमाटोपैःप्रयोजनम्।
विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः॥
गुणानर्चन्ति जन्तूनां न जातिं केवलां क्वचित्,
स्फाटिकं भाजनं भग्नंकाकिन्यापि न गृह्यते॥
अभ्यासः।
१. सन्धिच्छेदं करो—
मनस्तदेवे, ह्यन्यः, सुखावहाः।
२. गावः, संपत्तौ, भाजनम्, शरीरम्, भिक्षा—इनके शब्द, विभक्ति औरवचन लिखो।
३. जानन्ति, जनयन्ति, शेते, पूज्यन्ते, गृह्यते—
इन क्रियाओं को संस्कृतवाक्यों में प्रयुक्त करो।
शब्दार्थ—
शेषः।
उपवासः।
शेषनाग,—जिसके फणों पर पृथ्वी स्थिर है, भूखे रहना।
ओर शरीर पर भगवान् विष्णु विश्राम करते हैं।
स्फाटिकम्। अप्रतिहता।
काकिन्या।
बिलौर का। कहीं न रुकने वाली। कौड़ी से।
———————
प्रहेलिकाः।
अपदो दूरगामी च साक्षरो न च पण्डितः।
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः॥
अपूर्वोऽयं मया दृष्टः कान्तः कमललोचने।
शोऽन्तरं यो विजानाति स विद्वान्नाज संशयः॥
सदारिमध्यापि न वैरियुक्ता नितान्तरक्तापि सितैव नित्यम्।
यथोक्तवादिन्यपि नैव दूती का नाम कान्तेति निवेदयाशु॥
वृक्षाग्रवासी न च पक्षिराजस्त्रिनेत्रधारी न च शूलपाणिः।
त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रन्नघटो न मेघः॥
सर्वस्वापहरो न तस्करगणो रक्षो न रक्ताशनः।
सर्पो नैव बिलेशयोऽखिलनिशाचारी न भूतोऽपि च।
अन्तधार्नपटुर्नसिद्धपुरुषो नाप्याशुगो मारुतः
तीक्ष्णास्यो नतु सायकस्तमिह ये जानन्ति ते पण्डिताः॥
अन्तरालापाः।
कस्तूरी जायते कस्मात्कोहन्ति करिणां कुलम।
किं कुर्यात्कातरों युद्धे मृगात्सिंहः पलायनम्॥
युधिषिरः कस्य पुत्रोगङ्गा वहति कीदृशी।
हंसस्य शोभा का वास्ति धर्मस्य त्वरिता गतिः॥
भोजनान्ते चकिं पेयं जयन्तः कस्य वैसुतः,
कीदृग् विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम्॥
कः खे चरति का रम्या का जप्या किं विभूषणम्।
को बन्द्यःकीदृशी लङ्का वीरमर्क्कटकम्पिता॥
अभ्यासः
१. श्यूलपाणिः, पक्षिराजः, विष्णुपदम्, अपदः, वैरियुक्ता—
इन समस्त पदों का विग्रह करो और समासों के नाम बताओ।
२. हन्ति, विजानाति, कुर्यात्, निवेदय—
इन क्रियाओं के लोट्, प्रथम पुरुष एकवचन के रूप लिखो।
शब्दार्थ—
शूलपाणिः। तक्रम्। शक्रस्थ। खे।
भगवान् शिव। छाछ। इन्द्र का। आकाश में।
—————
नकुलोलुकमार्जारमूषिकाणाम्। (१)
विनोदसुखलाभाय कथामाख्यामि ते शृणु।
विदिशानगरीबाह्येन्यग्रोधोऽभूत्पुरा महान्॥
चत्वारः प्राणिनस्तत्र वसन्तिस्म महातरौ।
नकुलोलूकमार्जारमूषिकाः पृथगालयाः॥
भिन्ने भिन्ने बिले मूले आस्तां नकुलमूषिकौ।
मार्जारो मध्यभागस्थेतरोर्महति कोटरे॥
उलूकस्तु शिरोभागेऽनन्यलभ्ये लतालये।
मूषिकोऽत्र त्रिभिर्वध्यो मार्जारेण त्रयोऽपरे॥
अन्नाय मार्जारभयान्मूषिको नकुलस्तथा।
स्वभावेनाप्युलूकश्च परिभ्रेमुर्निशि त्रयः॥
मार्जारश्च दिवा रात्रौनिर्भयः प्रभ्रमत्यवसौ।
तत्रासन्ने यवक्षेत्रेसदा मूषिकलिप्सया॥
जग्मुरन्येऽपि युक्त्या च सुकालेऽन्नाभिवाञ्छया।
एकदा लुब्धकस्तत्र चाण्डालःकश्चिदाययौ॥
समार्जारपदश्रेणिं दृष्ट्वा तत्क्षेत्रगामिनीम् \।
तद्वधायाभितः क्षेत्रं पाशन्दत्त्वा ततो ययो॥
तत्र रात्रौ च मार्जारः स मूषिकाजिघांसया।
एत्य प्रविष्टस्तत्पाशेःक्षेत्रे तस्मिन्नवध्यत॥
मूषिकोऽपि ततोऽन्नार्थी स तत्रनिभृतागतः।
बद्धंतं वीक्ष्य मार्जारं जहर्षं च ननर्तच॥
यावद्विशति तत्क्षेत्रं दूरादेकेन वर्त्मना।
तत्रतौ तावदायातावुलूकनकुलावपि॥
अभ्यासः।
१.वर्त्मन्, क्षेत्रम्, महत् (पुं०) इन शब्दों के सब विभक्तियों के एकवचन में रूप लिखो।
२. वाच्यपरिवर्तन करो—
तत्र महान् न्यग्रोध आसीत्।मार्जारः दिवारात्रौभ्राम्यति।अन्येऽपि क्षेत्रम् अगच्छन्। मार्जारः पाशैः अबध्यत।
४. निशि, तरौ, प्राणिनः, ते, असौ—
इनके शब्द, विभक्ति और वचन लिखो।
शब्दार्थ—
न्यग्रोधः। लिप्सया। जिघांसया
वटवृक्ष। पाने की मारने को
इच्छा से। इच्छा से।
——————
नकुलोलूकमार्जारमूषिकाणाम्। (२)
दृष्टमार्जारबन्धौच मूषिकं लब्धुमैच्छताम्।
मूषिकोऽपि च तद्दृष्टा दूराद्विग्नोव्यचिन्तयत्॥
“नकुलोलूकभयदं मार्जारंसंश्रये यदि।
बद्धोऽप्येकप्रहारेण शत्रुर्मामेष मारयेत्॥
मार्जारदूरगं हन्यादुलूको नकुलश्च माम्।
तच्छन्रुसंकटगतः क्व गच्छामि करोमि किम्॥
हन्त, मार्जारमेवेह श्रयाम्यापद्गतो ह्ययम्।
आत्मत्राणाय मां रक्षेत्पाशच्छेदोपयोगिनम”॥
इत्यालोच्य शनैर्गत्वात्वा मार्जारं मूषिकोऽब्रवीत्।
ऋजूनां जायते स्नेहः सहवासाद्रिपुष्वपि।
किन्तु मे नास्ति विश्वासस्तव चित्तमजानतः”॥
तच्छ्रुत्वोवाच मार्जारो, “भद्र विश्वस्यतां त्वया।
अद्य प्रभृति मे मित्रं भवान्प्राणप्रदायकः”॥
इति श्रुत्वैव मार्जारात्तस्योत्सङ्ग स शिश्रिये।
तद्दृष्ट्वानकुलोलूकौनिराशौययतुस्ततः॥
ततो जगाद मार्जारो मूषिकं पाशपीडितः।
“गतप्राया निशा मित्र, तत्पाशांश्छिन्धि मे द्रुतम्॥
मूषिकोऽपिशनैश्छिन्दँल्लुब्धकागमनोन्मुखः।
मृषा कटकटायद्भिर्दशनैरकरोच्चिरम्॥
क्षणाद्रात्रौ प्रभातायां लुब्धके निकटागते।
मार्जारेऽर्थयमाने द्राक्पाशाँश्चिच्छेद मूषिकः॥
छिन्नपाशेऽथमार्जारेलुब्धकत्रासविद्रुते।
मूषिको मृत्युमुक्तः सन् पलाय्य प्राविशद् बिलम्॥
नाश्वसत्पुनराहूतो माजरिण जगाद्च।
“कालयुक्त्या ह्यरिर्मित्रं जायते न च सर्वदा”॥
अभ्यासः।
१.छिन्धि, हन्यात्, अकरोत्, अब्रवीत्—
इन क्रियाओं के धातु, लकार, पुरुष और वचन लिखो।
२. अजानतः, प्रभृति, त्वया, रात्रौ—
इन शब्दों का परिचय दो।
२. सन्धिच्छेद करो—
पाशँश्चिच्छेद, अकरोच्चिरम्, शनैश्छिन्दन्, श्रुत्वैव, ह्ययम्।
शब्दार्थ—
विग्नः। द्राक्।
डरा हुआ। जल्दी।
——————
नागार्जुनस्य। (१)
चिरायुनाम्निनगरे चिरायुर्नामभूपतिः।
पूर्वं चिरायुरेवासीत्केतनं सर्वसम्पदाम्॥
तस्य नागार्जुनो नाम बोधिसत्त्वांशसंभवः।
दयालुर्दानशीलश्चमन्त्रीविज्ञानवानभूत्॥
यः सर्वौषधियुक्तिज्ञश्चक्रे सिद्धरसायनः।
आत्मानं तं च राजानं विजरं चिरजीविनम्॥
कदाचिन्मन्त्रिणस्तस्य बालः पञ्चत्वमाययौ।
नागार्जुनस्य पुत्रेषु सर्वेषु दयितः सुतः॥
स तेन दृष्टसंतापो मर्त्यानां मृत्युशान्तये।
अमृतंसन्दधे द्रव्यैस्तपोदानप्रभावतः॥
शेषौषधस्य त्वेकस्य कालयोगं स मेलने।
यावत्प्रतीक्षतेतावदिन्द्रेण तदबुध्यत॥
इन्द्रः समामन्त्र्यसुरैरश्विनावेवमादिशत्।
“गत्वा नागार्जुनं ब्रूतमिदं मद्वचनाद्भुवि॥
‘कोऽयं कर्तुमिहारब्धो मन्त्रिणाऽप्यनयस्त्वया।
किंत्वं प्रजापतिं जेतुमुद्यतो वत साम्प्रतम्॥
मर्त्यामरणधर्माणस्तेन ये किलनिर्मिताः।
साधयित्वाऽमृतं यत्तानमरान्कर्तुमिच्छसि॥
अभ्यासः।
१. सम्पदाम्, मन्त्री, शान्तये, भुवि, अयम्, अश्विनौ, मे—
इन पदों के शब्द, विभक्ति और वचन लिखो। शब्दों का लिङ्ग भी बताओ।
२. जेतुम्, कर्तुम्, गत्वा, आरब्धः—
इनमें प्रकृति प्रत्यय बताओ।
३. ब्रूतम्, प्रतीक्षते, इच्छसि—इन क्रियाओं के धातु, लकार, पुरुष और वचन लिखो।
शब्दार्थ—
बोधिसत्त्व-। **
विजरम्।**
पूर्ण ज्ञान का अधिकारी, बौद्ध सिद्ध, बुढ़ापे से रहित,
जिसे कुछ योनियां भुगतने के बाद बुद्ध (बूढ़ा न होने वाला)।
की पदवी प्राप्त होती है।
प्रजापतिम्।
ब्रह्मा को।
————————
नागार्जुनस्य। (२)
“एवं कृते विशेषो हि कःस्याद्देवमनुष्ययोः।
यष्टव्ययाजकाभावाद्भज्यते च जगत्स्थितिः॥
तदस्मद्वचनेतत् संहरामृतसाधनम।
अन्यथा कुपिता देवाः शापं दास्यन्ति ते ध्रुवम्॥
यच्छोकादेष यत्नस्ते स स्वर्गेत्वत्सुतः स्थितः”
इति सन्दिश्य शक्रस्तौ प्रजिघायाश्विनावुभौ॥
तौ चागत्य गृहीतार्घौ तदागमनतोषिणे।
ऊचतुः शक्रसन्देशं तस्मैनागार्जुनाय तम्॥
पुत्रं जगदतुश्चास्य दिवि देवैः समं स्थितम्।
ततो नागार्जुनः सोऽत्र विषण्णः सन्नचिन्तयत्॥
“न करोमीन्द्रवाक्यं चेद्देवास्तत्तावदासताम्।
इमावेव न किं शापमश्विनौमे प्रयच्छतः॥
तदेतदास्ताममृतं न सिद्धो मे मनोरथः।
पुत्रश्च मेप्राक्सुकृतैरशोच्यां स गतो गतिम्”॥
इत्यालाच्याश्विनौदेवौसोऽत्र नागार्जुनोऽब्रवीत्।
“अनुष्ठिता मयेन्द्राज्ञा संहराम्यमृतक्रियाम्॥
पञ्चाहेनामृते सिद्धे कृतैवैषाजरामरा।
मयाऽभविष्यत्पृथिवी युवां चेन्नागमिष्यतम्”॥
इत्युक्त्वा तत्समक्षं तत्तद्वाक्यान्निचखान सः।
धरण्याममृतं सिद्धप्रायं नागार्जुनस्तदा॥
ततोऽश्विनौ तमापृच्छ्यगत्वा शक्राय तद्दिवि।
आचख्यतुः कृतं कार्यं ननन्दाथ च देवराट्॥
अभ्यासः।
१.नीचे लिखे समस्त पदों का विग्रह करो ओर समासोंके नाम लिखो—
जगत्स्थितिः, देवमनुष्ययोः, अमृतसाधनम्, देवराट्।
२. सान्धिच्छेद करो—
यच्छोकादेषः, इमावेव, चेन्नागामिष्यतम्, तदेतदास्ताममृतम्।
३. नीचे लिखे रेखाङ्कित पदोंमें नियमसहित कारक लिखो—
देवाः शापं दास्यन्ति ते। अश्चिनौशापं मे प्रयच्छतः।
देवैः समम्। तौ तस्मै शक्रसन्देशम् ऊचतुः।
शब्दार्थ—
देवराट्। प्रजिधाय। विषण्णः। निचखान।
इन्द्र। भेजा। हताश। दबा दिया।
——————
शुभदत्तस्य। (१)
………………………………………………..।
तथाहि कश्चिदासीत्प्राक् पुरे पाटलिपुत्रके॥
शुभदत्तःस नाम्ना च प्रत्यहं काष्ठभारकम्।
वनादानीय विक्रीय पुष्णाति स्म कुटुम्बकम्॥
एकदाच गतो दूरं वनं दैवाद्ददर्शसः।
तत्रस्थाँश्चतुरो यक्षान् दिव्याभरणवाससः॥
ते भीतं वीक्ष्य तं प्रीत्या सर्वं पृष्ट्वायथातथम्।
बुद्ध्वा दरिद्रमुत्पन्नकृपा यक्षा बभाषिरे॥
“इहास्मदन्तिके तिष्ठ भद्र, कर्मकरो भवान्।
अक्लेशं गृहनिर्वाहं करिष्यामो वयं तव”॥
इत्युक्तस्तैस्तथेत्यासीच्छुभदत्तस्तदन्तिके।
स्नानादिपरिचर्यांच कृत्स्नांतेषां चकार सः॥
संप्राप्ते भोजनस्थाने यक्षास्ते जगदुश्च तम्।
“आहारमस्मानमुतो देहि भद्रघटादिति”॥
अन्तःशून्यं स तंदृष्ट्वाघटं यावद्विलम्बते।
तावत्ते गुह्यका भूयस्तमाहुः सस्मिताननाः॥
“शुभदत्त, ने वेत्सि त्वं क्षिप हस्तं घटान्तरे।
यथेष्टंलप्स्यसे सर्वं घटः कामप्रदो ह्यसौ”॥
अभ्यासः।
१. नीचे लिखे पदोंके शब्द, विभक्ति और वचन लिखो—
चतुरः, वयम्, असौ, नाम्ना, बुद्ध्या, भवान्, तेषाम्।
- नीचे लिखोक्रियाओं के धातु, लकार, पुरुष और वचन लिखो—
देहि, लप्स्यसे, आहुः, तिष्ठ।
शब्दार्थ—
आभरण-। यथातथम्। जगदुः। विलम्बते।
भूषण। सारा हाल। बोले। हिचकचाता है।
——————
शुभदत्तस्य। (२)
तच्छ्रुत्वा प्रक्षिपत्यन्तः पाणिं यावद्घटान्तरे।
तावदाहारपानादि कामितं दृष्टवानसो॥
…………………………………………….
शुभदत्तो ददौ तेभ्यो वुभुजेच स्वयं ततः॥
**एवं पारिचरन् यक्षान्भक्त्या भीत्या च सोऽन्वहम्।
तस्थौकुटुम्बचिन्तार्तःशुभदत्तस्तदन्तिके॥ **
तत्कुटम्बं च दुःखार्तंस्वप्नादेशेन गृह्यकैः
आश्वासितं तत्प्रसादाद्रमते सम ततश्च सः॥
मासमात्रेण यक्षास्ते शुभदत्तं तमभ्यधुः।
“तुष्टाः स्मस्तेऽनया भक्त्याब्रूहि किंचिदृदाम ते”॥
तच्छ्रुत्वा स जगादैतांस्,-“तुष्टाः स्थ यदि सत्यतः।
एष भद्रघटस्तन्मे युष्माभिर्दीयतामिति”॥
ततस्तमूचुर्यक्षास्ते,-“नैतं शाक्ष्यसि रक्षितम्।
भङ्गे पलायते ह्येष तद्वृणीष्वापरं वरम्॥
इत्युक्तोऽपि स यक्षैस्तैःशुभदत्तोऽपरं यदा।
वरं नैच्छत्तदा तस्मैते तं भद्रघटंददुः॥
ततः प्रणस्य तान् हृष्टो घटमादाय तंजवात्।
गृहं स शुभदत्तः स्वंप्राप नन्दितबान्धवः॥
तत्र तस्माद् घटाल्लब्ध्वा भोजनादि निवेश्य तत्।
गुप्त्यर्थमन्यभाण्डेषु सोऽभुङ्क्त स्वजनैःसह॥
भारमुक्तो भजन्भोगान् पानमत्तोऽथ जातु सः।
“कुतस्तवैषा भोगश्री”रित्यपृच्छ्यत बन्धुभिः॥
स व्यक्तमब्रवीन्मूढोगर्वेणेप्सितकामदम्।
ग्रहीत्वा घटरकं स्कन्धे प्रारेभे बत नर्तितुम॥
नृत्यतस्तस्य च स्कन्धान्मदोद्रेकस्खलद्गतेः।
स भद्रघटको यातः पतित्वा भुवि खण्डशः॥
तदैव चाक्षतीभूय स जगाम यथागतम्।
पूर्वावस्थां च स प्राप्तःशुभदत्तो विषादवान्॥
तदेवंपानदोषादिप्रमादाद्धतबुद्धयः
अभव्याः प्राप्तमप्यर्थं नैव जानन्ति रक्षितम्॥
अभ्यासः।
१. सन्धिच्छेदकरो और सन्धियों के नियम भी लिखो—
कुतस्तवैषा, तच्छ्रुच्वा, अन्वहम्, यथागतम्।
२. उक्तम्, दत्तम्, प्राप्तम्, रक्षितुम्—इनको संस्कृतवाक्यों में प्रयुक्त करो।
३.एतत् (स्त्रीº), भू—इनके सब विभक्तियों में रूप लिखो।
शब्दार्थ—
अभ्यधुः। जवात्। जातु। अभव्याः।
बोले। वेग से। कभी। अभागे।
——————
पशुपालस्य।
पशुपालो महामुग्धः कोऽप्यासीद्धनवान् वने।
तस्य धूर्ताः समाश्रित्य मित्रत्वे बहवोऽमिलन्॥
ते तं जगदुर,—आढ्यस्य सुता नगरवासिनः।
त्वत्कृते याचितास्माभिः सा च पित्रा प्रतिश्चता”॥
तच्छ्रुत्वा स ददौ तुष्टस्तेभ्योऽर्थं, तं च ते पुनः।
“विवाहस्तव सम्पन्न”इत्यूचुर्दिवसैगतैः॥
ततः स सुतरां तुष्टतेभ्यो भूरि धनं ददौ।
दिनैश्च तं वदन्ति स्म,—“पुत्रो जातस्तवेति” ते॥
ननन्द तेन सर्वंच मूढस्तेभ्यः समर्प्यसः।
“पुत्रं प्रत्युत्सुकोऽस्मीति”प्रारोदीच्चापरेऽहनि॥
रदँश्चादत्त लोकस्य हासं धूर्तैःस वञ्चितः।
पशुभ्य इव संक्रान्तजडिमा पश्युपालकः॥
अभ्यासः।
१.धनवत्, पितृ, अहन्—
इनके सब विभक्तियोंके एकवचन में रूप लिखो।
- सन्धिच्छेद करो—
जातस्तवेति, प्रत्युत्सुकोऽस्मीति, रुदँश्चादत्त।
३. इनका परिचय दो—
अहनि, ते, तेभ्यः, अस्मि, पशुभ्यः, नगरवासिनः, आसीत्।
शब्दार्थ—
त्वत्कृते। भूरि। सुतराम्।
संक्रान्तजड़िमा।
तेरे लिये। प्रचुर। अत्यन्त। जिसमें मूर्खता
(बहुत) आ गई हो।
——————
लोकोक्तयः।
१—शठे शाठ्यं समाचरेत्।
२—संघे शक्तिः कलौयुगे।
३—युक्तिःशक्तेर्गरीयसी।
४—उद्यमे सिद्धिः प्रतिवसति।
५—पदंहि सर्वत्र गुणैर्निधीयते।
६—आदानं हि विसर्गाय सतां वारिमुचामिव।
७—भिन्नरुचिर्हि लोकः।
८—शरीरमाद्यं खलु धर्मसाधनम्।
९—न धमेवृद्धेषु वयः समीक्ष्यते।
१०—गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः।
११—विना पुरुषकारेण दैवमत्र न सिद्ध्यति।
१२— आज्ञा गुरूणां ह्यविचारणीया।
१३—न रत्नमन्विष्यति मृग्यते हितत्।
१४—विकारहेतौसति विक्रियन्त येषां न चेतांसि त एव धीराः
१५—याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा।
१६—हितंमनोहारि च दुर्लभं वचः।
१७—सा लक्ष्मीरुपकुरुते यया परेषाम्।
१८—प्रकृत्यमित्रा हि सतामसाधवः।
१९—महीयांसःप्रकृत्या मितभाषिणः।
२०—सर्वः स्वार्थं समीहते।
२१—श्रेयसि केन तृप्यते।
२२—इह लोके हि धनिनां परोऽपि स्वजनायते।
२३—महान्महत्येव करोति विक्रमम्।
२४—विषवृक्षोऽपि संवर्ध्यस्वयं छेत्तुमसाम्प्रतम्।
२५—सेवाधर्मः परमगहनो योगिनामप्यगम्यः।
२६—दीर्घौबुद्धिमतो बाहू।
२७—यद्धाविष्यो विनश्यति।
२८—सतां साप्तपदं मैत्रम।
२९—छिद्रेष्यनर्था बहुलीभवन्ति।
३०—मौनं सर्वार्थसाधनम।
३१—कृशेकस्यास्ति सौहृदम्।
३२—मनोरथानामगतिर्नविद्यते।
३३—कन्या वरयते रूपं माता वित्तं पिता श्रुतम्।
वान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः॥
३४—रूपमन्ने छविर्वस्त्रे।
३५—सत्यमेव विजयते नानृतम्।
३६—निरस्तपादपे देशे, एरण्डोऽपि द्रुमायते।
३७—अनुक्तमप्यूहति पण्डितो जनः।
३८—अति सर्वत्र वर्जयेत्।
३९—सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः।
४०—बुभुक्षितः किं न करोति पापम्॥
अभ्यासः
१.नीचे लिखे पदों के शब्द विभक्ति और वचन लिखो—
कलौ, सताम्, वयः, रूपम्, वचः, महान्।
२. नीचे लिखी क्रियाओंके धातु, लकार, पुरुष और वचन लिखो—
विक्रियन्ते, उपकुरुते, विनश्यति, विजयते, करोति।
शब्दार्थ—
वारिमुचाम्। विसर्गाय। ऊहति।
मेघोंका। देने के लिये। समझ जाता है।
असाम्प्रतम्। गहनः।
अनुचित। कठिन, दुर्बोध।
———————
प्रह्लादचरितम् (१)
मैत्रेय, श्रुयतां सम्यक् चरितं तस्य धीमतः।
प्रह्लादस्य सदोदारचरितस्य महात्मनः॥
दितेः पुत्रो महावीर्य्योहिरण्यकशिपुः पुरा।
त्रैलोक्यं वशमानिन्ये ब्रह्मणो वरदर्पितः॥
पानासक्तं महात्मानं हिरण्यकशिपुं तदा।
उपासाञ्चक्रिरे सर्वेसिद्धगन्धर्वपन्नगाः॥
तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः।
पपाठ बालपाठ्यानि गुरुगेहे गतोऽर्भकः॥
एकदा तु स धर्म्मात्मा जगाम गुरुणा सह।
पानासक्तस्य पुरतः पितुर्दैत्यपतेस्तदा॥
पादप्रणामावनतं तमुत्थाप्य पिता सुतम्।
हिरण्यकाशिपुः प्राह प्रह्लादममितौजसम्॥
हिरण्यकशिपुरुवाच—
“पठ्यतां भवता वत्स, सारभूतं सुभाषितम्।
कालेनैतावता यत् ते सदोद्युक्तेन शिक्षितम्”॥
प्रह्लाद उचाच—
“श्रूयतां तात, वक्ष्यामि सारभूतं तवाज्ञया।
समाहितमना भूत्वा यन्मे चेतस्यवस्थितम्॥
अनादिमध्यान्तमजमबृद्धिक्षयमच्युतम्।
प्रणतोऽस्मि महात्मानं सर्वकारणकारणम्”॥
पराशर उवाच—
एवं निशम्य दैत्येन्द्रः क्रोधसंरक्ततोचनः।
विलोक्य तद्गुरु प्राह स्फुरिताधरपल्वः॥
हिरण्यकशिपुरुवाच—
“ब्रह्मबन्धो, किमेतत् ते विपक्षस्तुतिसंहितम्।
असारं ग्राहितो बालो मामवज्ञाय दुम्मेते?”॥
गुरुरुवाच—
“दैत्येश्वर, न कोपस्य वदामागन्तुमर्हसि।
ममोपदेशजनितं नायं वदति ते सुतः”॥
अभ्यासः\।
१. नीचे लिखे दों के शब्द, विभक्ति और वचन लिखो—
धीमतः, धर्मात्मा, ते, समाहितमनाः एतावता, पितुः, ब्रह्मणः।
२. जनितम् प्रणतः, अवज्ञाय, अवस्थितम्—
इन रूपों के धातुओं के तुमुन्नन्त रूप लिखो।
३. वदति, प्राह, अस्मि—
इनको संस्कृतवाक्योंमें प्रयुक्त करो।
शब्दार्थ—
समाहितमनाः। ब्रह्मबन्धुः। विपक्ष-।
स्थिरचित्त। नीच ब्राह्मण। शत्रु।
———————
प्रह्लादचरितम्।(२)
हिरण्यकशिपुरुवाच—
“अनुशिष्टऽसिकेनेदृग्? वत्स, प्रह्लाद्, कथ्यताम्।
ममोपदिष्ठं नेत्येष प्रब्रवीति गुरुस्तव” ॥
प्रह्लाद उवाच—
“शास्ता विष्णुरशेषस्य जगतो यो हृदि स्थितः।
तमृते परमात्मानं तात, कः केन शिष्यते”?॥
हिरण्यकशिपुरुवाच—
“कोऽयं विष्णुः सुदुर्बुद्धे, यं ब्रवीषि पुनः पुनः।
जगतामीश्वरस्येह पुरतः प्रसभं ममः”॥
प्रह्लाद उवाच—
“न शब्दगोचरे यस्य योगिध्येयं परं पदम्।
यतो यश्च स्वयं विश्वं स विष्णुः परमेश्वरः”॥
हिरण्यकशिपुरुवाच—
“परमेश्वरसंज्ञोऽज्ञ, किमन्यो मय्यवास्थिते।
तवास्ति? मर्त्तुकामस्त्वंप्रब्रवीषि पुनः पुनः”॥
प्रह्लाद उवाच—
“न केवलंतात, मम प्रजानां
स ब्रह्मभूतो भवतश्च विष्णुः।
धाता विधाता परमेश्वरश्च
प्रसीद, कोपं कुरुषे किमर्थम्”॥
हिरण्यकशिपुरुवाच—
“निष्क्राम्यतामयं दुष्टः शास्यताञ्च गुरोगृहे।
योज्ञितो दुर्म्मतिः केन विपक्षवितथस्तुतौ”॥
पराशर उवाच—
“कालेऽतीते च महति प्रह्लादमसुरेश्वरः।
समाहूयाब्रवीत्,—पुत्र, गाथा काचित् प्रगीग्रताम”॥
प्रह्लाद उवाच—
“यतः प्रधानपुरुषौ यतश्चैतत् चराचरम्।
कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु”॥
हिरिण्यकशिपुरुवाच—
“दुर्बुद्धे, विनिवर्त्तस्व वैरिपक्षस्तवादतः।
अभयं ते प्रयच्छामि मातिमूढमतिर्भव”॥
प्रह्लाद उवाच—
“भयं भयानामपहारिणि स्थिते।
मनस्यनन्ते मम कुत्रतिष्ठति।
यस्मिन् स्मृते जन्मजरान्तकादि-
भयानि सर्वाण्यपयान्ति तात”॥
अभ्यासः।
१. सन्धिस्छेद करो—
नेत्येषः, कोऽयम्, केनेदृक्, मय्यवस्थिते।
२. नीचे लिखे पदों के विग्रह करके समासों के नाम भी लिखो
मर्तुकामः, परमेश्वरः, वैरिपक्षः, असुरेश्वरः।
३. वृत् धातु के साथ क्रम से अनु, प्रति, अभि, वि और उप उपसर्ग लगाकर संस्कृतवाक्य बनाओ।
शब्दार्थ—
तम् ऋते। प्रसभम्
उसके बिना। ज़ोर से, आग्रह से।
मर्तुकामः (मर्तुंकामो यस्य सः)।
मरने की इच्छा करने वाला।
——————
प्रह्लादचरितम्। (३)
हिरण्यकशिपुरुवाच—
“भो भोः सर्पाः, दुराचारमेनमत्यन्तदुर्म्मतिम्।
विषज्वालाकुलैर्वक्त्रैःसद्यो नयत संक्षयम्”॥
पराशर उवाच—
“इत्युक्तास्तेन ते सर्पाः कुहकास्तक्षकान्धकाः।
अदशन् तं समस्तेषु गात्रेष्वतिविषोल्बणाः॥
स त्वासक्तमतिः कृष्णे दश्यमानो महोरगैः।
नविवेदात्मनो गात्रंतत्स्मृत्याह्लादसंस्थितः”॥
सर्पा उचुः—
“दंष्ट्राविशीर्णा मणयः स्फुटन्ति,
फणेषु तापो हृदयेषु कम्पः।
नास्य त्वचः स्वल्पमपीह भिन्नं,
प्रशाधि दैत्येश्वर, कार्य्यमन्यत्”॥
हिरण्यकारेपुरुवाच—
“ज्वाल्यतामसुरा, वह्निरपसर्पत दिग्गजाः।
वायो, समेधयाग्निं त्वं दह्यतामेष पापकृत्”॥
पराशर उवाच—
महाकाष्ठचयच्छन्नमसुरेन्द्रसुतं ततः।
प्रज्वाल्य दानवा वह्निं ददहुः स्वामिनोदिताः”॥
प्रह्लादउवाच—
“तातैष वह्निः पवनेरितोऽपि
न मां दहत्यत्र समन्ततोऽहम्।
पश्यामि पद्मास्तरणास्तृतानि
शीतानि सर्वाणि दिशां मुखानि”॥
पराशर उवाच—
अथ दैत्येश्वरं प्रोचुर्भार्गवस्यात्मजा द्विजाः।
पुरोहिता महात्मानः साम्ना संस्तूय वाग्मिनः”॥
पुराहिता ऊचुः—
“राजन, नियम्यतां कोपो वालेऽत्र तनयेऽनुजे।
कोपो देवनिकायेषु यत्रते सफलो यतः॥
तथा तथैनं बालंते शासितारोवयं नृप,।
यथा विपक्षनाशाय विनीतस्ते भविष्यति॥
बालत्वं सर्व्वदोपाणां दैत्यराजास्पदं यतः।
ततोऽत्र कोपमत्यर्थं योक्तमर्हसि नार्भके”॥
पराशर उवाच—
“एवमभ्यर्थितस्तैस्तु दैत्यराजः पुरोहितैः।
दैत्यैर्निष्कासयामासपुत्रं पावकसञ्चयात्॥
ततो गुरुगृहे बालःस वसन् बालदानवान।
अध्यापयामास मुहुरूपदेशान्तरे गुरोः॥”
अभ्यासः।
१. नीचे लिखे पदों के विग्रह करो और समासों के नाम लिखो—
गुरुगृदे, दैत्यराजः, विषज्वालाकुलैः, विपक्षनाशाय, सर्वदोषाणाम्।
२. त्वचः, गात्रम्, वसन्, तनये, अहम्, दिशाम्—
इनके शब्दविभक्ति और वचन लिखो।
३. प्रशाधि की धातु के लङ् और विधिलिङ्के रूप सब पुरुषों और वचनों में लिखो।
शब्दार्थ—
वक्त्रम्। उरगैः। नोदिताः। अर्भके।
वाग्मिनः।
मुख। सर्पोंसे। प्रेरित। बच्चे पर।
बोलेने में चतुर,
(वाक्पटु)।
निष्कासयामास। पावकः।
उल्बणः।
निकलवाया। अग्नि। उग्र, प्रबल।
——————
भरतस्य कौशल्यया सह संवादः।(१)
सतु राजात्मजश्चापि शत्रुघ्नसहितस्तदा।
प्रतस्थे भरतो यत्र कौशल्याया निवेशनम्॥
ततः शत्रुघ्नभरतौकौशल्यां प्रेक्ष्य दुःखितौ।
पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम्॥
रुदन्तौरुदती दुःखात्समेत्यार्या मनस्विनी।
भरतं प्रत्युवाचेदं कौशल्या भृशदुःखिता॥
“इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम्।
संप्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा॥
प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम्।
कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी॥
क्षिप्रंमामपि कैकेयी प्रस्थापयितुमर्हति।
हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः॥
अथवा स्वयमेवाहं सुमित्रानुचरा सुखम्।
अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्रराघवः॥
कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हासि।
यत्रासौपुरुषव्याघ्रःपुत्रो मे तप्यते तपः॥
इदं हि तव विस्तीर्णं धनधान्यसमाचितम्।
हस्त्यश्वरथसम्पूर्णं राज्यं निर्यातितं तया”॥
इत्यादिबहुभिर्वाक्यैः क्रूरेः संभर्त्सितोऽनघः।
विव्यथे भरतस्तीब्रंव्रणे तुद्येव सुचिना॥
पपात चरणौतस्यास्तदा सम्भ्रान्तचेतनः।
विलप्य बहुधाऽसंज्ञो लब्धसंज्ञस्तदाऽभवत्॥
एवं विलपमानां तां प्राञ्जलिर्भरतस्तदा।
कौशल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम्॥
अभ्यासः।
१. मनस्विनी, कर्मणा, रुदती, मे, तस्याः—
इन रूपों को संस्कृतवाक्यों में प्रयुक्त करो।
२. नीचे लिखे समस्त पदोंका विग्रह करो और समासों के नाम बताओ।
चीरवसनम्, सुमहायशाः, समहान्तचेतनः, पुरुषव्याघ्रः, लब्धसंज्ञः।
शब्दार्थ—
निवेशनम्। समेत्य। चीरवसनम्।
गृह, निवासस्थान। मिलकर। वल्कलके वस्त्रपहने
हुए को।
निर्यातितम। अनघः।
दिलाया गया। निरपराध, निष्पाप।
———————
भरतस्य कौशल्यया सह संवादः। (२)
भरत उवाच—
“आर्ये, कस्मादजानन्तं गर्हसे मामकल्मषम्।
विपुलां च मम प्रीतिं स्थिरां जानासि राघवे॥
कृता शास्त्रनुगा बुद्धिर्माभृत्तस्य कदाचन।
सत्यसन्धः सतां श्रेष्ठोयस्यार्योऽनुमते गतः॥
बलिषड्भागमुद्धृत्य नृपस्थाराक्षितुः प्रजाः।
अधर्मोयोऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः॥
गाश्च स्पृशतु पादेन गुरुन्परिवदेत च।
मित्रेद्रुह्येत सोऽत्यर्थं यस्यार्योऽनुमते गतः॥
विश्वासात्कथित किंचित्परिवादं मिथः क्वचित्।
विवृणोतुस दुष्टात्मा यस्यार्योऽनुमते गतः॥
पुत्रैर्दारैश्चभृत्यैश्च स्वगृहे परिवारितः।
स एको मिष्टमश्नातु यस्यार्योऽनुमते गतः॥
राजस्रीबालवृद्धानां वधे यत्पापमुच्यते।
भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम्॥
अभ्यासः।
१.गो और गुरु शब्दों के सब विभक्तियों में रूप लिखो।
२.सन्धिच्छेद करो और सन्धियों के नियम भी बताओ—
कस्मादजानन्तम्, आर्योऽनुमते, नृपस्यारक्षितुः।
३. नीचे लिखे पदों का एक २ पर्यायशब्द बताओ—
प्रीतिः, नृपः, मित्रम्, दाराः, भृत्यः।
शब्दार्थ—
अकल्मषम्। कृता। सत्यसन्धः।
निष्पाप को। संस्कृता, सत्यव्रत,
परिष्कृता। सच्चीप्रतिज्ञा वाला।
बलिषड्भागम्। परिवदेत। प्रतिपद्यताम्।
शस्य आदि का निन्दा करे, प्राप्त करे।
छठा भाग जो बुरा कहे।
राजा कर रूप में
लेता है।
————————
भरतस्य कौशल्यया सह संवादः। (३)
“संग्रामे समुपोढे च शत्रुपक्षभयङ्करे।
पलायमानो वध्येत यस्यार्योऽनुमते गतः॥
माऽस्य धर्मे मनो भूयादधर्मंस निषेवताम्।
अपात्रवर्षी भवतु यस्यार्योऽननुमते गतः॥
संचितान्यस्य वित्तानि विविधानि सहस्रशः।
दस्युभिर्विप्रलुप्यन्तां यस्यार्योऽनुमते गतः”॥
तदा त शपथैःकष्टैःशपमानमचेतनम्।
भरतं शोकसंतप्तं कौशल्या वाक्यमब्रवीत्॥
“मम दुःखमिदं पुत्र, भूयः समुपजायते।
शपथैःशपमानो हि प्राणानुपरुणात्सि मे॥
दिष्ट्या न चलितो धर्मादात्मा ते सहलक्षणः।
वत्स, सत्यप्रतिज्ञो हि सतां लोकानवाप्स्यसि”॥
इत्युक्त्वा चाङ्कमानीय भरतं भ्रातृवत्सलम्।
परिष्वज्य महाबाहुं रुरोद भृशदुःखिता॥
अभ्यासः।
१. नीचे लिखे समस्त पदों का विग्रह करके समासों के नाम बताओ—
सत्यप्रतिज्ञः, महाबाहुम्, शोकसन्तप्तम्, भ्रातृवत्सलम्।
२. अब्रवीत्, उपजायते, अवाप्स्यसि, निषेवताम्—
इन क्रियाओं के धातु, लकार, पुरुष और वचन लिखो।
३. वाच्य परिवतन करो—
अधर्म सः निषेवताम्। कौशल्या भरतम् इदं वाक्यम् अब्रवीत्।
त्वं मम प्राणान् उपरुणसि।त्वं सतां लोकान् अवाप्स्यसि।
शब्दार्थ—
अपात्रवर्षी। ** दस्युभिः। दिष्ट्या।
सहलक्षणः।**
कृपात्र को दान चोरों से। सौभाग्य से।
शुभगुणसंपन्न।
देने वाला।
————————
हेमन्तवर्णनम्।
वसतस्तस्य तु सुखं राघवस्य महात्मनः।
शरद्व्यपाये हेमन्तऋतुरिष्टः प्रवर्तते॥
ग्रह्वःकलशहस्तस्तु सीतया सह वीर्यवान्।
पृष्ठतोऽनुव्रजन्भ्राता सौमित्रिरिदमब्रवीत्॥
“अयं स कालःसम्प्राप्तः प्रियो यस्ते प्रियंवद।
अलंकृत इवाभाति येन संवत्सरः शुभः॥
प्रकृत्या हिमकोशाढ्योदूरसूर्यश्च सांप्रतम्।
यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः॥
मृदुसूर्याः सुनीहाराः पटुशीताः समाहिताः।
शुन्यारण्या हिमध्वस्ता दिवसा भान्ति सांप्रतम्॥
राविसंक्रान्तसौभाग्यस्तुषारारुणमण्डलः।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते॥
प्रकृत्या शीतलस्पर्शो हिमविद्धश्चसांप्रतम्।
प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः॥
मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः।
दुरमप्युदितः सूर्यः शशाङ्कइव लक्ष्यते॥
एते हि समुपासीना विहगा जलचारिणः।
नावगाहन्ति सलिलमप्रगल्भा इवाहवम॥
वाष्पसंछन्नसलिला रुतविज्ञेयसारसाः।
हिमार्द्रवालुकास्तीरैःसरितो भान्ति सांप्रतम्”॥
अभ्यासः।
१. नीचे लिखे पदों का परिचय दो—
विद्धः, सम्प्राप्तः, समुपासीनाः, वसतः।
२. वाच्यपरिवर्तन करो—सौमित्रिरिदम् अब्रवीत्। चन्द्रमा न प्रकाशते।
३.नीचे लिखे समस्तपदों का विग्रहकरके समासों के नाम वताओ—
यथार्थनामा, शीतलस्पर्शः, कलशहस्तः, हिमविद्धः।
शब्दार्थ—
ग्रह्वः। आढ्यः। समाहिताः। आदर्शः।
नम्र, समृद्ध, संकुचित, दर्पण,
विनीत। सम्पन्न। छोटे। शीशा।
अग्रगल्भाः। आहवम्। वाष्पः-ष्पम्।
कायर। युद्ध में। भाप, कोहरा।
————————
वर्षावर्णनम्। (१)
स तदा वालिनंहत्वा सुग्रीवमभिषिच्य च।
वसन्माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत्॥
“अयं स कालःसंप्राप्तः समयोऽद्यजलागमः।
संपश्य त्वं नभो मेघैःसंवृतं गिरिसंनिभैः॥
मेघोदरविनिर्मुक्ताः कंर्पूरदलशीतलाः।
शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः॥
एष फुल्लार्जुनःशैलः केतकैरभिवासितः।
सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते॥
मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः।
मारुतापूरितगुहाः प्राधीता इव पर्वताः॥
कशाभिरिव हैमीभिर्विद्युद्भिरभिताडितम्।
अन्तस्तनितनिर्घोषं सवेदनमिवाम्बरम्॥
अभ्यासः।
१. हत्वा, पातुम्, शान्तः, संबृतम्—
इन रूपों को संस्कृतवाक्यों में प्रयुक्त करो।
२. इन के शब्द, विभक्ति और वचन लिखो—
एषः, नभः, वसन्,शैलः।
३. नीचे लिखे समस्त पदोंका विप्रह करके समासों के नाम लिखो—
मारुतापूरितगुहाः, कर्पूरदलशीतलाः, शान्तारिः, जलागमः।
शब्दार्थ—
नभः। अजिनम्। प्राधीताः
कशाभिः।
आकाश। मृगचर्म। पण्डित। कोड़ोंसे।
———————
वर्षावर्णनम्। (२)
“रजःप्रशान्तं सहिमोऽद्य वायुर्निदाघदोषप्रसराः प्रशान्ताः।
स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान्॥
क्वचित्प्रकाशंक्वचिदप्रकारं नभः प्रकीर्णाम्बुधरं विभाति।
क्वचित्क्वचित्पर्वतसंनिरुद्धं रूपंयथा शान्तमहार्णवस्य॥
रसाकुलं षट्पदसंनिकाशं प्रभुज्यते जम्बुफलंप्रकामम्।
अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलंविपक्वम्॥
समुद्वहन्तः सलिलातिभारं बलाकिनो वारिधरा नदन्तः।
महत्सु शृङ्गेषु महीधराणां विश्रम्य विश्रम्य पुनः प्रयान्ति॥
वहन्ति वर्षन्ति नदन्ति भान्ति गायन्ति नृत्यन्ति समाश्वसन्ति।
नद्यो घना मक्तगजा वनान्ता रसानुरक्ताः शिखिनः प्लवङ्गाः॥
तडित्पताकाभिरलंकृतानामुदीर्णगम्भीरमहारवाणाम्।
विभान्ति रूपाणि बलाहकानां रणोत्सुकानामिव वानराणाम्॥
मुक्तासमाभंसलिलं पतद्वैसुनिर्मलं पत्रपुटेषु लग्नम्।
हृष्टा विवर्णच्छदना विहङ्गाः सुरेन्द्रदत्तं तृषिताः पिबन्ति॥
मत्ता गजेन्द्रा मुदिता गवेन्द्रा वनेषु विक्रान्ततरा मृगेन्द्राः।
रम्या नगेन्द्रा निभृता नरेन्द्राः प्रकीडितो वारिधरैः सुरेन्द्रः”॥
अभ्यासः।
१. रजः, नभः, फलम्, भूमौ, नद्यः—
इनके शब्द, विभक्ति और वचन लिखो।
२. संनिरूद्धम्, विपक्वम्, प्रशान्तम्—
इनके प्रकृति प्रत्यय बताओ और उपसर्गोके योग से इनके अर्थ में क्या भेद हुआ, यह भी दिखाओ।
३. नृत्यन्ति, पिबन्ति—
इनके धातु और लकार बताकर, भूतकाल लङ्में इनके रूप लिखो।
शब्दार्थ—
प्रकीर्ण-। प्रकामम्। प्लवङ्गाः।
शिखिनः।
विखरे हुए। तृप्त होकर। बंदर। मोर।
बलाहकानाम्। पत्रपुटेषु।
मेघों का। एक दूसरे से जुड़े हुए पत्तों में
निभृताः। प्रक्रीडितः।
निरुद्यम्। खेल रहा है।
————————
अनसूयया सह सीतायाः संवादः।
अनसूया उवाच—
“त्यक्त्वा ज्ञातिजनं सीते, मानवृद्धिं च मानिनी।
अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि॥
नगरस्थो वनस्थो वा शुभो वा यदि वाऽशुभः।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः॥
दुःशीलः कामवृत्तो वा धनैर्वापरिवर्जितः।
स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः”॥
सीता उवाच—
“यद्यप्येष भवेद्भर्ताअनार्योवृत्तिवर्जितः।
भक्त्याऽनुपमया सोऽपि स्त्रिया सेव्यः सदा भवेत्॥
किं पुनर्योगुणश्लाघ्यःसानुक्रोशो जितेन्द्रियः।
स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्पियः॥
यां वृत्तिंवर्तते रामः कौशल्यायां महाबलः।
तामेव नृपनारीणामन्यासामपि वर्तते॥
आगच्छन्त्याश्च विजनं वनमेवं भयावहम्।
समाहितं हि मे श्वश्रवा हृदये यत्स्थिरं मम॥
पाणिप्रदानकालेच यत्पुरा त्वग्निसंनिधौ।
अनुशिष्टं जनन्या मे वाक्यं तदपि मे धृतम्॥
सावित्री पतिशुश्रूषां कृत्वा स्वर्गेमहीयते।
तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥
वरिष्ठा सर्वनारीणामेषा च दिवि देवता।
रोहिणी न विना चन्द्रं मुहूर्तमपि दृश्यते ॥
एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः।
देवलोके महीयन्ते पुण्येन स्वेन कर्मणा” ॥
अभ्यासः।
१. नीचे लिखे समस्त पदों का विग्रह करके समासोंके नाम भी बताओ—
भर्तृदृढव्रताः, पतिशुश्रूषया, महाबलः, स्थिरानुरागः।
२. वर्तते, अनुगच्छसि, भवेत्, दृश्यते—इन क्रियाओं की धातुओं के लङ्के प्रथम पुरुष के रूप लिखो।
३. वरिष्ठा, अवरूद्धम्, अनुशिष्टम्—इनका परिचय दो।
शब्दार्थ—
कामवृत्तः। सानुक्रोशः। वर्तते।
महीयते।
स्वेच्छाचारी। कृपालु, दयाशील। वरतता है। उत्तम पदवी
को प्राप्त हुईहै।
मुहूर्त्तम्।
दोघड़ी (थोड़ी देर)।
——————
शिविराजोपाख्यानम्।
उशीनरेषु राजाऽभूद् धार्मिकः करुणापरः।
दाता धीरः शिविर्नाम सवर्सत्त्वाभयप्रदः॥
परीक्षितुं तस्य धर्ममिन्द्रः श्येनवपुर्धरः।
मायाकपोतवपुषमग्निमन्वपतद् द्रुतम्॥
श्येनाद् भीतः कपोतश्च शिवेरङ्कं समाश्रयत् \।
मनुष्यवाचा श्येनोऽथ राजानं शिविमब्रवीत्॥
“राजन, भक्ष्यमिमं मुञ्च कपोतं क्षुधितस्य मे।
अन्यथा मां मृतं विद्धि कस्ते धर्मस्ततो भवेत्”॥
इत्युक्तः श्येनराजेन महाकारुणिकः शिविः।
अमुमुक्षन् कपोतं तंश्येनराजमथाब्रवीत्॥
“श्येनराज, भवद्भीत्या मामेष शरणं गतः \।
न त्याज्यस्तद् ददाम्यन्यमांसमेतत्समं तव”॥
एवं महीपतेस्तस्य वाचं श्रुत्वा विहङ्गमः।
प्रत्युवाच महीपालं जिज्ञासुस्तस्य मानसम्॥
“यद्येवंतत्समं राजन्, आत्ममांसं प्रयच्छ मे।
भक्षयित्वा यथातृप्ति गमिष्यामि स्वमालयम्”॥
अथ राजा तथेत्युक्त्वा खङ्गमादाय सादरम्।
आत्ममांसं समुत्कृत्य तुलामारोपयत् स्वयम्॥
यथा यथा स्वकं मांसमुत्कृत्यारोपयन्नृपः।
तथा तथा तुलामांसात् कपोतोऽभ्यधिकोऽभवत्॥
असकृद् मांसमुत्कृत्य निर्मांसोऽभूद् यदा नृपः।
तदा श्येनमनस्तृप्त्या आरुरोह स्वयं तुलाम्॥
तौचेन्द्राग्नीततस्त्यक्त्वारूपं श्येनकपोतयोः।
तुष्टावक्षतदेहं तं राजानं चक्रतुः शिविम्॥
दत्त्वातस्मै वरानन्यान् बहून परमदुर्लभान्।
तत्क्षणादेव तौप्रीतावन्तर्धानमवापतुः॥
अभ्यासः।
१. करुणापरः, यथातृप्ति, आत्ममांसम्, श्येनकपोतयोः, इन्द्राग्नी—
इन समस्त पदों का विग्रहकरो और समासों के नाम लिखो।
२.वाच्यपरिवर्तन करो—इमं कपोतं मुञ्च। आत्ममांसं ददामि। मांसं भक्षयित्वा स्वम् आलयं गमिष्यामि।
३. विद्धि, मुञ्च, अन्वपतत्, ददामि—इनके धातु, लकार, पुरुष और वचन लिखो।
शब्दार्थ—
श्येनः। अमुमुक्षन्।
जिज्ञासुः।
बाज़। न देने (छोड़ने) की जानने की।
इच्छा रखने वाला। इच्छा रखने वाला।
————————
दमयन्तीस्वयंवरः। (१)
आसीद्राजा नलोनाम वीरसेनसुतो बली।
उपपन्नो गुणैरिष्टैरूपवानश्वकोविदः॥
ब्रह्मण्योवेदविच्छूरो निषधेषु महीपतिः।
सत्यप्रियः सत्यवादी धीरः सर्वगुणैर्युतः॥
तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः॥
प्रजानां रञ्जने युक्तो धनुर्विद्याविशारदः।
दमयन्ती च तत्कन्या रूपेण तेजसा श्रिया।
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा॥
न देवेषु न यक्षेषु तादृग्रुपवती क्वचित्।
मानुषेष्वपि चान्येषु दृष्टपूर्वाऽथवा श्रुता॥
नलोऽपि नरशार्दूलोलोकेष्वप्रतिमो भुवि।
कन्दर्पइव रुपेण मूर्तिमानभवत्स्वयम्॥
एकदा च वने दृष्ट्वास्वर्णदेहं मरालकम्।
वर्णरूपसमाकृष्टोनलो जग्राह पक्षिणम्॥
ततोऽन्तरिक्षगो वाचं व्याजहार नलंतदा।
“हन्तव्योऽस्मिन ते राजन्, करिष्यामि तव प्रियम्॥
दमयन्तीसकाशंत्वां कथयिष्यामि नैषध।
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित्”॥
अभ्यासः।
१. सन्धिच्छेद करो—
वेदविच्छूरः, धनुर्विद्या, त्वदन्यम्, तथैवासीत्।
२. नीचे लिखे पदों के शब्द, विभाक्तिऔर वचन लिखो—
यशः, तेजसा, वाचम्, श्रिया, राजन्, बली।
३. मंस्यति, कथयिष्यामि, अभवत्, करिष्यामि—
इन क्रियाओं के धातु, लकार, पुरुष और वचन बताकर इनकी धातुओं के “लट्” प्रथम पुरुष के रूप लिखो।
शब्दार्थ—
ब्रह्मण्यः। कन्दर्पः। अन्तरिक्षगः।
व्याजहार।
ब्रह्मणों का कामदेव। पक्षी।
बोला।
हितेच्छु।
अश्वकोविदः।
घोड़ों के लक्षण जानने वाला।
——————
दमयन्तीस्वयंवरः। (२)
एवमुक्तस्ततो हंसमुत्ससर्जमहीपतिः।
असौहंसः समुत्पत्य विदर्भानगमत्ततः॥
विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके।
न्यपतत्सुन्दरः पक्षी सा ददर्शच तं खगम्॥
दृष्ट्वाभीमसुता हंसं समुपाधावदन्तिके।
स मायुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत्॥
“दमयन्ति, नलो नाम निषधेषु महीपतिः।
अश्विनोः सदृशोरूपे न समास्तस्य मानुषाः॥
तस्य वैयदि भार्या त्वं भवेथा वरवर्णिनि।
सफलं ते भवेज्जन्मरूपं चेदं सुमध्यमे॥
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः।
विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत्”॥
एवमुक्ता तु हंसेन दमयन्ती सुलोचना।
अब्रवीत्तत्र तं हंसं,—“त्वमप्येवं नले वद”॥
तथेत्युक्त्वाऽण्डजः कन्यां विदर्भस्य सुभाषिणीम्।
पुनरागम्य निषधान्नले सर्वं न्यवेदयत्॥
अथ भीमः समीक्ष्य स्वां सुतां संप्राप्तयौवनाम्।
अपदयदात्मनः कार्यंदमयन्त्याः स्वयंवरम्॥
तच्छ्रुत्वा पृथिवीपालाः सर्वेतद्रूपमोहिताः।
त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः॥
कनकस्तम्भरुचिरं तोरणेन विराजितम्।
विविशुस्ते नृपा रङ्गं महासिंहा इवाचलम्॥
दमयन्ती ततो रङ्गं प्रविवेश शुभानना।
…………………………………………….॥
नलंदृष्ट्वाच हृष्टा सा लज्जमानायतेक्षणा।
स्कन्धदेशेऽसृजत्तस्य स्रजं परमशोभनाम्॥
अभ्यासः।
१. प्रश्नः—को वैनलो नाम? का च दमयन्ती? किमग्रहीन्नलो हंसम्?हंसश्च किमुवाच तम्? नलदमयन्त्योर्विवाहश्च कथं संजातः?
२. अब्रवीत्, अपश्यत्, न्यपतत्—इनके धातु, लकार, पुरुष और वचन बताकर इनके धातुओं के लृट् प्रथम पुरुष के रूप लिखो।
शब्दार्थ—
रत्नम्। अभीप्सवः। अण्डजः।
श्रेष्ठ। प्राप्त करने की इच्छा वाले। पक्षी।
——————
संक्षिप्तटिप्पणी।
प्रथमोभागः। (गद्यम्)
जरद्गवगृध्रस्य
पृष्ठ ७— चान्द्रायणम्—एक व्रत जिसे शुक्लपक्ष की प्रतिपदा से आरम्भ करके उस दिन एक ग्रास खाते हैं और प्रतिदिन एक २ ग्रास बढ़ाते जाते हैं पूर्णिमा को १५ ग्रास खाते हैं। फिर कृष्णपक्ष की प्रतिपदा को १४ ग्रास, द्वितीया को १३ खाते हैं। इसी भांति क्रम से घटाकर कृष्णपक्ष की चतुर्दशी को एक ग्रास खाते हैं। अमावस्या को कुछ नहीं खाते। इस विधि से जो चान्द्रायण व्रत किया जावे उसको ‘यवमध्यचान्द्रायण’कहते हैं। ‘पिपीलिकातनुमध्यचान्द्रायण’की विधि इससे कुछ भिन्न होती है। उसे १५ ग्रास से आरम्भ करके १५ ग्रास पर ही समाप्त करते हैं।
वीरवरस्य।
पृष्ठ २६— साष्टाङ्गपातम्—आठों अङ्गों को पृथ्वी से लगाकर।
“जानुभ्यां च तथा पद्भ्यांपाणिभ्यामुरसा धिया।
शिरसा वचसा दृष्ट्या प्रणामोऽष्टाङ्ग ईरितः”॥
पृष्ठ २६—सदारपुत्रः—स्त्रीऔर पुत्र सहित।
‘दारः’ शब्द पुंलिङ्गबहुवचन में स्त्री के अर्थमें प्रयुक्त होता है।
पतिव्रताया महत्त्वम्।
पृष्ठ ३०—गृहान्—
घर के अर्थ में ‘गृह’ शब्दपुंलिङ्ग बहुवचन मेंभी प्रयुक्त होता है।
भट्टिपुत्रस्य कमलाकरस्य।
पृष्ठ ४६—शुश्रूषमाणः—
(श्रु—सन्—शानच्) श्रु धातु का सन्नन्त रूप सेवा करने के अर्थ में भी प्रयुक्त होता है।
श्रीरामचरितम्।
पृष्ठ ५२—पृत्रकामेष्टिः—
एक यज्ञ जो पुत्र की प्राप्ति के लिये किया जाता है।
दूतवाक्यम्।
पृष्ठ ६६—अक्षौहिणी—
एकसेना जिसमें २१८७० हस्ती, ६५६१० घुड़सवार, २१८७० रथ और १०९३५० पदाति (पैदल सिपाही) होते हैं।
पृष्ठ ७०—श्लोक आठवां—
पहले पाद में महाभारत वनपर्वान्तर्गत शिवार्जुनयुद्ध का
उल्लेख है। जूए में कौरवों से हारकर पाण्डव बारह वर्ष वनवास और एक वर्ष अज्ञातवास के लिये निकले और काम्यक, द्वैत आदि वनों में रहे। एक दिन पांचों भाई और द्रौपदी उदास बैठे थे कि अचानक श्रीवेदव्यास जी वहां पधारे और युधिष्ठिर से बोले कि श्रुतिस्मृति नाम की विद्या हम आप को देते हैं। अर्जुन से कहो कि इस की सहायता से कैलाश जाकर तप के प्रभाव से इन्द्र और महादेव जी से दिव्यास्त्रप्राप्त करे। तदनुसार युधिष्ठिर ने वह विद्या अर्जुन को सिखाई और अर्जुन ने तपस्या करने के लिये कैलाश को प्रस्थान किया। पहले उन्हें तपास्विवेषधारी इन्द्र के दर्शन हुए। इन्द्र ने उन्हें हतोत्साह करना चाहा पर अर्जुन अपने व्रत पर दृढ़रहे। इन्द्र ने उनकी दृढ़ता और उत्साह से प्रसन्न होकर प्रतिज्ञा की कि तुम शिव जी के दर्शन प्राप्त कर लो तो हम अपने दिव्यास्त्रतुम्हें देंगे। इसके उपरान्त अर्जुन ने कठोर तपस्या आरम्भ की। अन्ततः शिवजी महाराज ने किरातवेष में अर्जुन से युद्ध कर उसकी वीरता और अस्त्र-कौशलपर मुग्ध हो पाशुपत अस्त्रप्रदान कर उस के प्रयोग और संहार के मन्त्र भी सिखाएऔर अन्तर्धान हो गए। इसी समय इन्द्रदेव अपनी प्रतिज्ञा के अनुसार वहां आए और दिव्यास्त्रअर्जुन को दिए।
दूसरे पाद में आदिपर्वान्तर्गत खाण्डव-वन-दहन की कथा का उल्लेख है। कथा का सार यह है कि एक समय अग्निदेव ब्राह्मण
का रूप धारण करके श्रीकृष्ण महाराज औअर्जुन, केपासआए और बोले कि हम बहुत भूखे हैं। श्वेतकीराजाके शतवर्षव्यापी विराट् यज्ञ में निरन्तर हविर्भक्षण करतेकरते हम विकृत हो गए हैं और खाण्डव-वन केजीव जन्तुओं कोजला कर खाने की आकांक्षा हमारे मन में उत्पन्न हुई है। अड़चन केवल यह हैकि इन्द्र का मित्र तक्षक इस वन में रहता है। इन्द्र अपने मित्र को बचाने के लिये अजस्र वारिधारा बरसा कर वन को भस्म न होने देगा। अतः मैंआप से सहायता चाहता हूँ। अर्जुन ने उत्तर दिया कि हे देव, हमारे अस्त्र शस्त्र निकम्मे हैं। यदि अच्छे अस्त्र-शस्त्र मिलजाएं तो हम सहर्ष आपकी इच्छापूर्तिकरेंगे। इस पर अग्निदेव ने ‘गाण्डीव’ धनुष ‘अक्षय’तूणीर और ‘कपिध्वज’ रथ अर्जुन केलिए उपस्थित किया।इन विचित्र अस्त्र-शस्त्रों की प्राप्ति से श्रीकृष्ण और अर्जुन अत्यन्त प्रसन्न हुए और अग्निदेव से बोले कि आप स्वतन्त्रतापूर्वक अपनी इच्छा पूर्ण करे। अग्निदेव ने तुरंत खाण्डव-वन में प्रवेश कर वनदहन आरम्भ कर दिया। इन्द्र ने तक्षक को बचाने के लिये मूसलाधार वर्षा की और भरसक यत्नकिया, परन्तु अर्जुन के अस्त्रप्रभाव से उसे विफलमनोरथ होना पड़ा।
तीसरे पाद में वनपर्वान्तर्गत निवातकवचयुद्ध का उल्लेख है। कथा यह है कि प्रायः तीन करोड़ महाबली दानव थे जों
नियातकवच कहलाते थे। इन्होंने कठोर तपस्या करके ब्रह्मा से वर पाया था कि तुम निरापद हो समुद्रकुक्षि में वास करो और देवताओं सेकभी न हारो। ब्रह्मा के वर से अमित बल पाकर उन्होंने देवताओं को पराजित कर दिया और समुद्रकुक्षि और वहां के अद्भुत विशाल भवनों पर अधिकार कर लिया।पाण्डव जब वनवास में थे तब अर्जुन महर्षिव्यास के उपदेश से कठिन तपस्या द्वारा पहले इन्द्र और अनन्तर महादेव को प्रसन्न करके उनके वर के प्रभाव से दिव्यास्त्र सीखने के लिये स्वर्गगये। देवराज इन्द्र तथा गन्धर्वराज चित्रसेन आदि ने उन्हें दिव्यास्त्र प्रदान कर उनके प्रयागसंहार आदि का रहस्य समझा दिया। चलते समय अर्जुन ने जब गुरुदक्षिणा देने की इच्छा प्रकट की तब इन्द्र ने उन पर निवातकवचों के मारने का भार सौंपा। अर्जुन ने निवातकवचोंके साथ घोर युद्ध किया। उन मायावियों की माया को नष्ट कर दिव्यास्त्रों के बल से उन सब का वध किया और देवताओं को निर्भय किया।
चौथे पाद में विराटपर्वान्तर्गत पाण्डवोंके अज्ञातवास का उल्लेख हैं। वनवास के बारह वर्ष व्यतीत होने पर तेरहवें वर्ष में अज्ञातवास करने के लिये द्रौपदी और पाण्डव भेस बदल कर मत्स्यदेश के राजा विराट के नौकर हो गये। युधिष्ठिरे जुआरी ब्राह्मण का वेष और कङ्क नाम धारण कर विराट के
यहां चौपड़ खिलाने की नौकरी कर ली। भीम वल्लव नाम से रसोइएके काम पर लगाये गए। अर्जुन माथे पर वेणी और कानों में कुण्डल धारण कर नर्तक और कत्थक बन कर बृहन्नलामाम से राजपारिवार की स्त्रियों को नाचना गाना सिखाने के लिये नियुक्त हुए। नकुल ग्रन्थिक नाम से अश्वपाल और सहदेव तन्त्रिपाल नाम से गोपाल बन कर रहे। द्रौपदी सैरन्ध्री नाम धारण कर राजकुल की स्त्रियों की कंघी-चोटी आदि सेवा करने का काम करने लगी। इसके बादएक समय भीष्म द्रोण, कर्ण,दर्योधन आदि ने कौरव सेना समेत विराट की राजधानी का घेर लिया और ग्वालों को मारपीट कर राजा की ६० हज़ार गौएंछीन लीं। ग्वालों के मुखिया ने विराटपुत्र उत्तर को सूचना दी। वह शत्रुसंहार के लिये प्रस्तुत हुए और कहने लगे कि यदि कोई निपुण सारथी हमें मिल जाए तो हम सहज ही में शत्रुओं को हरा सकते हैं। द्रौपदी अर्थात् सैरन्ध्रीने अर्जुन की गुप्त प्रेरणा से राजकुमार से कहा कि बृहन्नला ने एक बार वीर अर्जुन के हां सारथी का काम बड़ीकुशलता से किया था।यह अर्जुन का शिष्य हैऔर धनुर्विद्या में किसी प्रकार अर्जुन से कम नहीं। राजकुमार उत्तर ने वृहन्नला को सारथी का काम करने को राजी कर लिया और रथ मेंसवार हो युद्ध करने निकले, पर कौरवों के सेनादल को देख उत्तर घबरा उठे और भागने गे। अर्जुन ने उन्हें बहुत समझाया पर वे युद्ध
के लिये उद्यत न हुए और राजधानी को लौट जाने के लिये दौड़े। अर्जुन ने उन्हें रोका और कहा कि, “अच्छा तुम रथवान् बनो। हम तुम्हारी ओर से युद्ध करेंगे”। फिर जिस वृक्ष पर गुप्तवास आरम्भ करने से पहले पाण्डवोंने अपने हथियार छिपाकर रक्खे थे, अर्जुन ने उस वृक्ष पर राजकुमार उत्तर को चढ़ा कर अपने हथियार उतरवाएऔर उत्तर को अपना परिचय देकर अपने अस्त्र-शस्त्र से सुसज्जित हो कौरव सेना पर आक्रमण किया और भीष्म, द्रोण, कृप, कर्ण, दुर्योधन आदि सब वीरों को पराजित कर विराटराजकी ६० हजार गौओं को लौटा लिया।
ध्रुवचरितम्।
पृष्ठ ८९—
वनमाली-वनमाला पहनने वाले (श्रीकृष्ण महाराज)। वनमाला ऐसी मालाको कहते हैं जो घुटनों तक लटकी हो, जिसमें सबऋतुओं के फूल गुंथे हों और जिसके मध्य में एक बड़ा कदम्ब का पुष्प लगा हो—
आजानुलम्विनी माला सर्वर्तुकुसुमोज्ज्वला।
मध्ये स्थूलकदम्बाढ्या वनमालेति कीर्तिता॥
,, ,, श्रीवत्सः—भगवान् विष्णु के उर का चिह्न विशेष।
,, ,, कौस्तुभः—एक मणि का नाम है जो समुद्रमथन से निकला था। भगवान् विष्णु इसे अपने उर पर धारण करते हैं।
सूर्यलोकगमनम्
पृष्ठ १०१—सुवर्णभारः—
एक भार लगभग सवा तीन मन का होता है।
१६ भाषाः= कर्षः।
४ कर्षाः= पलम्।
२००० पलानि= भारः।
——————
द्वितीयोभागः। (पद्यम्)
प्रहेलिकाः।
पृष्ठ १४०—
१—पत्र (खत)।
२—अशोक।
३—सारिका
सदारिमध्या—सदा+अरि-मध्या और सदा+रि-मध्या (रिकारो मध्ये यस्याः)।
सिता—सफ़ेद और स्+इता (सकारेण युता)।
कान्ता—प्रेमिका और ककारोऽन्ते यस्याः।
४—नारिकेल (नारियल)।
५—मत्कुण (खटमल)
अन्तरालापाः।
पृष्ठ १४०—
६—तीनो प्रश्नों का उत्तर क्रम से चौथे पादमें है—
मृगात्, सिंहः, पलायनम्।
७—तीनों प्रश्नों का उत्तर क्रम से चौथे पाद में है—
धर्मस्य, त्वरिता, गतिः।
८—तीनों प्रश्नों का उत्तर चौथे पाद में है—
तक्रम्, शक्रस्य, दुर्लभम्।
९—छओं प्रश्नोंका उत्तर चौथे पाद में है—
विः+रमा+ऋक्+कटकम्+पिता= वीरमर्क्कटकम्पित,
अर्थात् विः (पक्षी) आकाश में फिरता है। रमा(लक्ष्मी) सुन्दरीहै। ऋक् (ऋचा=ऋग्वेद का मन्त्र) जपने योग्य है कटकम् (कड़ा) भूषण है। पिता पूज्य है और लङ्कावीरमर्क्कटकम्पिता (वीर वानरों से हिलाई हुई) है।
भरतस्य कौशल्यया सह संवादः।
पृष्ठ १६८—तुद्येव (तुद्य+इव) तुद्+ल्यप्= तुद्य। यह ‘कत्वा’के स्थान में आर्षप्रयोग है।
,, ,, —सूचिना-यह “सूच्या” के स्थान में आर्षप्रयोग है।
,, ,, —विलपसाना-—यह ‘विलपन्ती’ के अर्थ में आर्षप्रयोग है।
,, १६९—‘परिवदेत’—–यह ‘परिवदेत्’ के अर्थ में आर्षप्रयोग है।
,, ,, —‘मित्रे द्रह्येत’—-यह मित्राय द्रुह्येत्, के अर्थमें आर्षप्रयोग है।
हेमन्तवर्णनम्।
पृष्ठ १७३—‘नावगाहन्ति’ यह “नावगाहन्ते”के अर्थ में आर्षप्रयोग है।
पृष्ठ १८३—‘भंस्यति’ यह ‘मंस्यते’ के अर्थ में आर्षप्रयोग है।
——————
]