[[काव्यमञ्जरी Source: EB]]
[
Approved by the Text-Book Committee.
काव्यमञ्जरी
——o——
संक्षिप्तटीकया समेता
श्रीचण्डीचरण स्मृतिभूषणेन
नवम संस्करेणम्
KAVYAMANJARI
(WITH NOTES)
BY
CHANDICHARAN SMRITIBHUSHAN
Ninth Edition
HARE PRESS: CALCUTTA
1908
All rights reserved
Price Six Annas]
[মূল্য ছয় আনা
Approved by the Text-Book Committee.
काव्यमञ्जरी
——O——
संक्षिप्तटीकया समेता
श्रीचण्डीचरण स्मृतिभूषणेन
सङ्कलय्य प्रकाशिता
——O——
नवम संस्करणम्
कलिकाता-राजधान्याम्
४६ नं० वेचुचाटुर्योर ष्ट्रीट्, हेयार प्रेसे
श्रीराधिकाप्रसाद दत्तेन
मुद्रिता
——
संवत् १९६४
বিজ্ঞাপন।
_________
বেতালপঞ্চবিংশতি, পঞ্চতন্ত্র, হিতোপদেশ, পদ্মপুরাণ, বৃহচ্চাণক্য, রামায়ণ ও গরুড়পুরাণ হইতে সঙ্কলন করিয়া কাব্যমঞ্জরীনামক এই গ্রন্থখানি আমি প্রকাশিত করিলাম। ইহাতে যে কয়েকটা বিষয় সন্নিবেশিত হইয়াছে, সেইগুলি সমস্তই নীতিগর্ভ। ফলতঃ বিদ্যাসাগর মহাশয়ের তৃতীয়ভাগ ঋজুপাঠের প্রণালী অনুসারেই ইহা সংগৃহীত। ইহাতে স্থানে স্থানে দুরূহ ও অশ্লীল সমস্ত অংশই পরিবর্ত্তিত এবং কঠিন শব্দগুলির অর্থ সম্যগ্রূপে বিবৃত হইয়াছে। এক্ষণে শিক্ষাবিভাগের অধ্যক্ষ মহোদয়গণ এবং পুস্তক-নির্ব্বাচনসভার সভ্য মহোদয়গণ এই ক্ষুদ্র গ্রন্থখানির প্রতি দৃষ্টিপাত করিলেই শ্রম সার্থক হয়।
সঙ্কলয়িতা
শ্রীচণ্ডীচরণ শর্ম্মা ৷
सूचीपत्रम्।
———
| विषयः | |
| **प्रथमोपाख्यानम् | ** |
| १ | ब्राह्मणस्य |
| द्वितीयोपाख्यानम् | |
| २ | शूरसेनस्य |
| ३ | पञ्चतन्त्रम् |
| ४ | हितोपदेशः |
| ५ | यदुवंशविनाशः |
| ६ | बृहच्चाणक्यम् |
| ७ | रामायणम् सीतापवासनम् |
| ८ | लक्ष्मणवर्ज्जनम् |
| ९ | गरुड़पुराणम् नोतिसारः |
| १० | पम्मपुराणम् ध्रुवोपाख्यानम् |
| ११ | शिविराजोपाख्यानम् |
काव्यमञ्जरी।
_______
प्रथमोपाख्यानम्।
कस्मिंश्चिद्देशे एको ब्राह्मण आसीत्। स एकदा तीर्थानि पर्य्यटितुमभिलषन् तस्य कस्यचिन्मित्रस्य समीपमित्वा प्रोवाच, सखे ! बहवः काला मुधैव (१) यापिता, नैवेदृक् (२) किमप्यनुष्टितं यत् मे परित्राणाय कल्पते, संसारासक्तिर्हि परमार्थविरोधिनी (३), ममेयं भार्य्यापुत्त्रो ममायमिति ममत्ववुद्धिः(४) क्लेशपरम्पराहेतुःदु.खं हि शरीरजन्म (५) पुत्त्रकलत्रादिभिरुपचीयमानं (६) मोक्षस्य लोकानां (७) अन्तरायो भबेत्।
विषयासक्तचित्तस्य वुद्धिरविरलम् (८) आविला
____________________________________________________________________________
(१) वृथैव। (२) इदं दर्शनमस्य ईदृक् इति। (३) मोक्षपथप्रति वन्धिका। (४) ममायमित्यभिमानः। रज्जौ सर्पत्वप्रकारभ्रान्तिमूलःन तु याथार्थ्य इति भावः।
(५) शरीरात् जम्म यस्य तदिति विग्रहः। (६) वृद्धिंगच्छत् सत्। पुत्रदारादिवियोगेनतेषां रोगाद्युपद्रवैश्वशरीरजन्मक्लेशस्यातिवृद्धिर्भवेदिति भावः। (७) स्वर्महर्जनादीनाम्। अन्तरायः विघ्नजनकः। (८) सर्ब्बक्षणम्।
(८) वर्त्तते। न किमपि तस्य शान्तये (१०) अलम् (११) अतोऽहमभिलषामि, (१२) कियतो दिनान् (१२) तीर्थाटनं करिष्यामि (१४)। किन्तु मे किञ्चित् धनं विद्यते (१५), त्वामृते ईदृशं कमपि नान्यं पश्यामि; यस्मिन् तत् विन्यस्य (१६) स्वस्थमना व्रजामि, इत्युक्तः वस्त्राभ्यन्तरात् भस्त्राम् (१७) एकां वहिष्कृत्य तस्य मित्रमिदमुवाच, रक्षणीयातियत्नतो ममैषा भस्त्रा, यावदहं न प्रत्यागच्छामि (१८) तावत् न कस्मैचिदपि दातव्येति। ततः स गृहमागत्य शुभक्षणमासाद्यतीर्थाटनाय प्रतस्थे।
अथासौ बन्धुर्विविक्ते (१८) भस्त्रां परीक्ष्य (२०) कतिपयसंख्यका (२१) रजतमुद्रा दृष्ट्वाभृशमाह्लादितः कतिपयानि ताम्रखण्डकानि निधाय (२२) तत्र स्थितानर्थानात्मसात् (२३) चकार। ब्राह्मणश्चासौक्रमेण
_______________________________________________________________
(८) मलिना। (१०) शमतायै, अलं योगे चतुर्थी। (१२) समर्थः। (१२) प्रार्थयामि। (१३) यद्यपि घस्रोदिनाहनोत्यमरोक्रेःरुपभेदाद्दिनशब्दस्य क्तीवत्वंतथापि उक्तलिङ्गंक्वचित् व्यभिचरतीति नियमात् अच पुंस्त्वम्। (१४) विधास्यामि। (१५) वर्त्तते। (१६) संस्थाप्य। (१०) चर्म्मप्रसेविकां पेटिकामिति यावत्। तोड़ा इति भाषा। (१८) प्रतिनिवर्त्तयामि।
(१८) विजने। ( २० ) दृष्ट्वा। (२१) कतिपयाः संख्या येषां ते। (२२) अर्पयित्वा। (२३) निजाधीनम्।
वारानसोहरिद्वारवृन्दावनप्रभृतीनि तीर्थस्थानान्यवलोकयन् बहोः कालात् परं स्वदेशं प्रत्योजगाम(२४)। ततोऽसौ विन्यस्तभस्त्राप्रार्थनया मित्रमभ्युपैति (२५) स्म। तमागतमालोक्य परां मुदं दर्शयन् तस्य बन्धुर्विशिष्टशिष्टाचारेण (२६) तमभिमुखीचकार (२७)। मिथः(२८) स्वागत प्रश्नानन्तर स ब्राह्मणस्तस्य भस्तां प्रार्थयामास। सोऽपि तत्क्षणमेव यदवस्थेयमासीत् अधुनापि तादृश्येव (२९) इत्युक्ता तामानीय तस्मै प्रत्यर्पितवान्। ब्राह्मणोऽपि भस्त्रामासाद्यहर्षातिरेकेण गृहमागत्य यावदीक्षांचक्रे (३०)।
तावत् कतिपयानि ताम्रखण्डानि विलोक्य शिरसि ताड़यन् प्रोवाच, अहो मुषितो (३१) ऽस्मि अनेन परखापहारिणा, हा (३२) धिक् मां यदहं धूर्त्तेन वञ्चितोऽस्मि, किमयं प्रत्ययस्य परिणामः(३३), किं कर्त्तव्यमिदानीं, नास्त्यत्रप्रमाणं किञ्चित्, यद (३४) अहं धर्म्माधिकरणमेत्य विचारं प्रार्थयामि, भवतु तावत्, अहमपि वञ्चनामिमां प्रतिविधास्यामि (३५)।
_______________________________________________________________
(२४) प्रतिनिवृत्तः। (२५) प्राप्नोति। (२६) अधिकसख्यताचरणेन। (२७) अनभिमुखं अभिमुखं कृतवान् अभिमुखीचकार। अभूततङ्गावेच्विः । ( २८ ) परस्परम्। (२९) तत्प्रकारैव। (३०) अबलोकयामास। (३१) वञ्चितः। (३२) हा खेदे। (३३) परिपाकः फलमिति यावत्। (३४) येन प्रमाणेनेति शेषः। (३५) प्रतिकरिष्यामि।
अथैकदा स ब्राह्मणः पुनरपि मित्रमियाय (३६)। मित्रमपि तमालोक्य हर्षातिरेकव्याजेन (३७) तमभ्यर्थयामास। ब्राह्मणोऽपि गुढ़ाकार (३८) मवलम्ब्यविविधैः प्रस्तावैस्तमतितोषयामास। कियति क्षणेऽतिगते स बन्धुः कार्य्यान्तरेण स्थानान्तरं जगाम। ब्राह्मणस्तु प्रतिविधानं चिन्तयंस्तत्रैव तस्थौ। सहसा तस्य मित्रस्य पुत्रकः सुवर्णालङ्घतः क्रीड़ंस्तत्रोपतस्थौ। ब्राह्मणोऽपि तूर्णं तमङ्के निधाय स्वालयमाजगाम। तस्य शरीरात् भूषणानि व्यपनीय वानरमेकमलञ्चकार (३९), शृङ्खलितं (४०) च कृत्वा तं पुराद्वारि स्थापयामास, बालकमपि यत्नतो निभृतं सङ्गोपयामास।
अथ तस्य बन्धुः गृहमुपागम्य पुत्रमनालोक्य चिन्ता कुलमतिः(४१) समन्तात् (४२) अनुसन्धातुम् (४३) आरेभे, अनुचरांश्च पुत्रान्वेषणाय चतुर्दिक्षु प्रेरयामास। अथासौ ब्रह्मणस्य द्वारमेत्य हृतपुत्रस्थालङ्कारैः शोभितं वानरमेकमालोक्य तमपृच्छत्, सखे ! कुतः प्राप्तोऽसि भूषणान्वेतानि ? एतानि मम पुत्रस्यैव दृश्यन्ते, दृष्टः
_______________________________________________________________
(३६) गतवान्। (३७) आनन्दातिशयच्छलेन। (३८) गुप्ताभिप्रायम्। (३९) भूषयामास। (४०) शृङ्खलाबद्धम्।
(४१) चिन्तया आकूलामतिर्यस्येति। (४२) सर्ब्बतः। अण्वेषयितुम्।
किं मे स बालकः ? तदाकर्ण्य ब्राह्मणः प्राह, सखे ! बहोः(४४) कालात् परं भवतः सुतमालोक्य प्रवृद्धहर्ष-प्रकर्षः(४५) तमङ्के कृत्वा स्वालयमानीतवान्, किन्तु सहसा स वानरत्वमिदं गतः, अतः शृङ्खलेन संयम्य (४६) अत्रैव स्थापितवान्।
तदाकर्ण्य स प्राह, बन्धो ! क्षिप्तोऽसि किं, किमुपहससि वा, किं नरः कदा वानरतामेति (४७)। नाकर्णितं मया पुरैतद् (४८) भूतं, अधुना परिहासेनालं किमिदमनृतं (४९) कथ्यते ? स आह, भोः सत्यवादिन् ! यथा नरो न वानरतामेति तथा रजतमुद्रा नापि ताम्रखण्डानि भवन्ति (५०)। तदर्पय ममार्थान्, यदि ते दारकेण (५१) प्रयोजनं (५२)। एवं तौ विवदमानौ (५३) द्वावपि राजकुलं (५४) गतौ। मम शिशुरनेन चौरेणापहृत (५५) इति सः बन्धुस्तार वरेण (५६) अकथयत्। धर्म्माधिकरणकाः (५७) तं ब्राह्मणमृचुः, भो समर्प्यता (५८) मस्य सुतः।
_______________________________________________________________
(४४) अनेकात्। (४५) सज्जातानन्दातिशयः। (४६) बद्धा।
(४७) कौशत्वम्। (४८) नरस्य वामरत्वम्। (४८) मिथ्याभूतम्। (५०) जायन्ते। (५१) बालकेन। (५२) आवश्यकं अस्तीति शेषः। (५३) कलहं कुर्व्वाणै। (५४) विचारालयम्। (५५) चौरितः। (५६) उचैःस्वरेण। (५०) विचाराधिपाः। (५८) प्रदीयताम्।
ब्राह्मण उवाच, किं करोमि, शिशुरस्य वानरतां गतः। तच्छ्रुत्वा ते प्रोचुः, न त्वया सत्यमभिहितं, किं (५९) नरो वानरतामेति ? स आह, रजतमुदाःकिं (३०) ताम्रखण्डा भवेयुः ? ते प्रोचुः, कथमेतत् ? तदा ब्राह्मणः सभ्यानाम् (६१) आदितः(६२) सर्ब्बंवृत्तान्तं (६३) निवेदयामास, तत् तैर्बिहस्य द्वावपि तौ सम्बोध्य (६४) परस्परं अर्थशिशुप्रदानेन सन्तोषितौ। साध्विद-(६५)मुक्तञ्च।
कृते (६६) प्रतिकृतिं कुर्य्यात् हिंसिते प्रतिहिंसितम्।
तत्र दोषंन पश्यामि शठे शाठ्वसमाचरेत्॥
_______________________________________________________________
(५९) वितर्के। (६०) पृच्छायाम्। ( (१) विचाराधिपानां, सभायां साधवः सभ्याः तेषाम्। (६२) अग्रतः। (६३) वार्त्ताम्। (६४) सम्भाष्य। (६५)। बक्ष्यमाणम्। (६६) अपकारिणि जने। प्रतिकृतिं प्रतीकारं अपकाररूपमित्यर्थः। कुर्य्यांत विदध्यात्। हिंसिते हन्तुमिष्टे जने। हन्तुमिच्छा सा सञ्चाता अन्य हिंसाशब्दात् इत। प्रतारके प्रतारणा न दोषाय किन्तु पुरुषत्वाय एवेति भावः।
द्वितीयोपाख्यानम्।
———o———
कस्मिंश्चिद्देशे शुरसेनो नाम राजासीत्। स सुतनिर्विशेषं प्रकृतीः (१) पालयन् (२) सुखेन कालं निनाय। सुमतिर्नाम तस्य मन्त्री (३)। नृपतिस्तस्मिन्नत्यर्थं प्रीतिमानासीत् (४)। तस्यसचिवस्य ईश्वरे परमा प्रीति (५) र्वभूव। जगतीह नक्तन्दिवं (६) यत् किञ्चित् घटते (७) तत् सर्व्वमेव शुभाय इत्येव तस्य बुद्धिरासीत्। शुभं वाप्यशुभं किञ्चित् धीरस्यास्य चित्तं विकलयितुं (८) न प्रभवतिस्म। विधातृविहितं सर्व्वं स मङ्गलाय एव मन्यते (९) स्म। भगवता विधात्रा यदेव विधीयते तत् सर्व्वमेव शुभाय इति स सर्व्वदैवाकथयत्। नृपतिरपि तस्य प्रमुखादनिशम् (१०) एवमाकर्णयन् कदाचिदचिन्तयत् (११) अहो किमप्येनं वीतधैर्य्यं(१२) कर्त्तुं नालं, भवतु तावत्, अहमस्य धैर्य्यंपरीक्षिष्ये।
_______________________________________________________________
(१) प्रजाः। (२) वर्त्तयन्। (२) वर्त्तत इति शेषः। (४) प्रीतिर्विद्यते यस्य प्रीतिमान् सन्तोषयुक्तः। (५) विश्वासः। (६) अहर्निशम्। (७) उपतिष्ठते। (८) चञ्चलीकर्त्तुम्। (९) जानाति। (१०) नियतम्। (११) अनुध्यातवान्। (१२) धैर्य्यच्युतम्।
अथ दैवेन नृपतेरङ्गुल्यां स्फोटकः सञ्जातः। तेन स अत्यर्थं क्लिश्यमानो मन्त्रिणमेवं (१३) विज्ञापय (१४) इति आदिश्य कञ्चित् दूतं प्रेरितवान्। सचिवस्तस्य प्रमुखतः प्रवृत्तिम् (१५) एतामासाद्यस्वभावधीरतया भगवता विधात्रा यदेबबिधीयते तदेबशुभाय इति प्रतिभाषणं (१६) प्रेषयामास। नृपतिस्तदवगमात् (१७) कोपस्फुरितलोचनोऽवदत् अहो धिगिमं जाल्मं(१८) ; यत् क्लिष्टमपि मां नानुकम्पते (१९), तस्येदमौदासीन्यं (२०) न मया कदापि सोढव्यम्।
अथ कदाचित् पोड़यास्याङ्गुलीस्खलिता वभूव। राजा च भूयसा (२१) क्लेशेन संशयितजीवितः (२२) अभबत्, मन्त्रिणंज्ञापयेत्यादिश्य भूयः (२३) कञ्चित् दूतं प्रेरितबांश्च। सचिबोऽपि निशम्यैतत्, भगबता विधात्रा यदेबबिधीयते तदेब शुभाय, इति प्रतिवचनं ददौ। नृपतिरपि श्रुत्वैतत् (२४) अचिन्तयत्, स्वस्थश्चेत् नूनमेनं हनिष्यामि।
_______________________________________________________________
(१३) स्फोटकजननप्रकारम्। (१४) वोधय। (१५) वार्त्ताम्। (१५) प्रत्युत्तरम्। ( १७ ) मन्त्रिवाक्यश्रवणात्। (१८) असमीक्ष्यकारिणम्। (१९) दयते। (२०) सारल्यं विधात्रनुष्टितंशुभायेत्येवं प्रकारं। (२१) महता (२२) भृतप्रायः। (२३) पुनरपि। (२४) सन्देशं।
अथ दिष्ट्या(२५) स रोगात् निर्म्मुक्तोवभूव। गतेषु दिनेषु असौ सदः समेत्य प्रजानामानन्दं बर्द्धयामास। सचिबोऽपि राजसकाशमागत्य यथाबिधिं तमभिननन्द (२६)। नृपतिस्तु न मधुरबाचा तं पुनः सम्भाषयामास (२७)।
अथैकदा राजा मृगयायै (२८) यातुकामो (२९) मन्त्रिणंप्राह, भो मन्त्रिन्! यथारीति मृगयागमोनोद्योगं बिधेहि। सोऽपि च देवपादा यथाज्ञापयन्ति, इत्युक्वा सर्व्वमेबानुष्टितबान्। ततः स नृपतिरश्वमारुह्य वहुभिर्लोकैरनुगम्यमानो (३०) मन्त्रिणा सह प्रतस्थे। निबिड़काननाभ्यन्तरमासाद्यअनुचरान् सर्व्वानादिदेश, युष्माकं दूरमनुसरणेनालं, मन्त्रिणानुगतोऽहं दूरतरवनमध्यम् (३१) अबगाहिष्ये, भबन्तश्च सायं यावत् मे प्रत्याबर्त्तनमपेक्ष्य गृहं प्रति निबर्त्तन्ताम्।
ततो राजा मन्त्री च अश्वमारुह्य द्रुतं गभीरबनमध्यं प्रबिवेश। सहसा कूपमेकमालोक्य नृपतिरचिन्तयत्, अबसरो (३२) ऽयं सम्यगस्माकं सङ्कल्पसिद्धेः,
_______________________________________________________________
(२५) भाग्येन। (२६) सम्मानितवान्। (२७) प्रत्युत्तरं ददौ। (२८) मृगविनाशार्थम्। (२८) गन्तुमिच्छुः यातुं कामोयस्येति। (३०) अन्वीयमानः। (३१) दूरवत्तिकाननान्तरालम्। (१२) समयः।
(३३) तृष्णाव्याजम् (३४) अवलम्ब्यजलानयनार्थं (३५) मन्त्रिणमादिशामि, कूपसन्निहितञ्चैनं कूपमध्ये पातयामि (३६), इत्यवधार्य्य मन्त्रिणं प्राह, सुमते ! महतीमे तृष्णा जाता, नाहंदूरतरं गन्तुंशक्नोमि (३७) कूपोऽयमारात् (३८) दृश्यते (३९), पश्य तत्र जलमस्ति न वा। मन्त्री नृपतेराज्ञया कूपसन्निधिं गत्वा नततुण्डः(४०) यावत् जलं निरीक्षते तावद्राजा झटिति पृष्ठतस्तं कूपे निविक्षेप।सचिवोऽसौ पतन्नेव, भगवता विधात्रा यदेव विधीयते तदेव शुभाय, इत्युक्ताकूपमध्ये पपात। राजापि विवृत्तवदनस्तूर्णं ततः प्रतस्थे।
तदा सन्ध्यसमागतासीत्। भगवान् काश्यपेयः (४१) स्वीयमयूखान् (४२) संहृत्य अस्ताचलशिखरारो-हणोन्मुखो वभूव। दिनकरविरहेण (४३) सन्तापितचित्ता धरणी (४४) तमोवसनं पिनह्येव वयसां (४५) रुतव्याजेन मानसीं व्यथां प्रकटयामास
_______________________________________________________________
(३३) अभिलषितसम्पादनस्य, मन्त्रिविनाशरूपस्येति यावत्। (३४) पिपासाच्छलम्। (३५) जलस्य आनयनं तस्मै अर्थंअर्थेन सह नित्यसमासः। ( ३६ ) क्षिपामि। ( ३७ ) पारयामि। (३८) समीपे। (३९) मयेति शेषः। (४०) अवनतमुखः।
(४१) सूर्य्यः। (४२) स्वय्येमे स्वीयाःमयखाश्चतान्। (४३) प्रियभूतेनेति भावः। (४४) सूर्य्यप्रिया इति भावः। (४५) पक्षिणां।
(४६) श्वापदाः (४७) सर्व्वे प्रहृष्टमनसो विवरात् (४८) निष्क्रम्य समन्तात् परिधावितुमारेभिरे (४१)। नृपतिर्न कथञ्चित् वनपथात् वहिरायातुमसमर्थः सन्निहितं वृक्षमेकमारुह्य अवतस्थे। अश्वऽपि तदधस्तात्तस्थौ।
अथ निशीथसमयः (५०) सम्भूतः। सहसा वनभागं प्रकम्पयन्नेव तत्रैव महान् कोलाहलः (५१) समुत्थितः। नरपतिस्तु कश्चिदतर्कितो (५२) विपत्पात आपतितो (५३) ऽयमिति मत्वा यावत् पश्यति तावदारात् (५४) समागच्छतो वहून् लोकानवलोकयामास। तेऽपि शनैः शनैः (५५) वृक्षाभ्यासं। (५६) एत्य सज्जिततुरङ्ग (५७) मेकमालोक्य परस्परं कथयामाहुः, सिद्धमेव साम्प्रतमस्माकमभिलाषमिति। तुरङ्गमेन मानवसमागमोऽत्रेति संसूचयति (५८)।
_____________________________________________________________________________
(४६) यथा काचित् अङ्गना प्रियविरहेण सन्तप्तचित्ता सतौ मलिनवसनं परिधाय रोदनेन मनःपीड़ांप्रकाशयति तथेति अप्रस्तुतपतिविरहितनारीप्रतीतेः समासोक्तिरलङ्कारः। (४७) हिंसाः व्याघ्रादय इति यावत्। (४८) गर्त्तात्। (४९) प्रस्तुताः। (५०) अद्धैरात्रकालः। (५१) कलकल-ध्वनिविशेषः। (५२) अनालोचितः असम्भावित इति यावत्।
(५३) आगत उपस्थित इति यावत्। (५४) समीपे। (५५) मन्दं मन्दम। (५६) पादपनिकटम्। (५७) सज्जः संजातोऽस्य सञ्जितः तुरं वेगं गच्छतीति तुरङ्गः। (५८) धूमदर्शनेन वह्यनुमानवत् सज्जिततुरङ्गम-
इदानीमेनमनुसन्धाय राजसकाशं नेष्यामः। अस्माकं नृपतिरपि श्वः (५९) प्रातश्चामुण्डायै वलिमुपचारीकृत्य सिद्धकामो भविष्यति।
इत्याकर्ण्य नृपतिर्वृक्षारूढ़ःसंक्षाहीन इव पत्रान्तरालमध्यवर्त्ती तस्थौ।सहसा तेषामेकतमो वृक्षेऽस्मिन् मानवो दृश्यते मानवो दृश्यते इत्युच्चैरपरान् ज्ञापयामास। तत्क्षणमेव केचित् वृक्षमारुह्य राजानं वद्धा बृक्षात् तस्मादवतेरुः।
अथैनमश्वमारोप्य विजयगीतिं गायन्तः सर्वे यथागतं चलिताः। राजा च आत्मकर्म्मफलानुरूप (६०) मेतदिति विज्ञाय स्थाणुवत् (६१) तस्थौ। ते च तेषां नृपतिमुपागम्य आसादितो (६२) ऽयं वलिरिति निवेदयामासुः। राजा च एनं कारागृहे (६३) स्थापयेत्यादिश्य चामुण्डा मन्दिरं ययौ।
अथ क्रमेण निशावसानमभूत्। ढक्कादुन्दुभिपटहनिनादैर्नृपभवनमचिरेण पूर्णमभवत्। समीरणैः समन्ततः सञ्चाल्यमानैः रक्तध्वजैः (६४) उपशोभितं
दर्शनेन मनुस्यागमनमनुमानं जायते इति भावः। (५९) आगामि दिवसे।
_______________________________________________________________
(६०) मन्त्रिनिक्षेपनिजकार्य्यफलसदृशम्। (६१) शाखापल्लवहीननिश्चलवृक्ष-इव।(६२) प्राप्तः। (६३) बन्धनालये। (६४) रक्तवर्णपताकाभिः।
देवीमन्दिरं वभूव। राजाच परिहितरक्तवसनो रक्तचन्दनानुलिप्तो रक्तमाल्योपशोभितो मातश्चामुण्डे ! प्रसीद प्रसीद, वलिमिमं गृहाणेति कथयन् यावत् देव्याः पुरतो वन्दिनं राजानं संस्थाप्य तस्यावयवं (६५) निरीक्षाञ्चक्रे तावत्तमङ्गुष्ठेन (६६) हीनमालोक्य आःपापाः ! किमिदं (६७) हीनाङ्गुष्ठं नरमिमं कथंवलिरूपेण चामुण्डायैदास्यामि इति कथयित्वा तं दूरीचकार, पूर्णाबयवमन्यमेकमानेतुमादिदेश। नृपतिरयं दिष्ट्याप्राणान् प्राप्य पलायाञ्चक्रे।
अयस काननमासाद्य चिन्तयामास, अहो यदेव सचिबेनोक्तं सत्यमेव तावत् सर्वं, भगवता विधात्रा यदेव विधीयते तदेव शुभाय, इति मयाद्यसम्यक् परीक्षितं, अङ्गुष्ठहीनात् नूनमद्यस मां नाहनिष्यत्, अहो कुत्रस मे मन्त्री, कुत्र स मे भगवत्परायणो(६८) धार्म्मिककुलशेखरो विवेकचूड़ामणिर्म्ममैकवन्धुः (६९)।
_______________________________________________________________
(६५) हलपदादिकम्। (६६) बृद्धाङ्गुल्या।(६७) वल्यर्थपश्वानयनं किं किमर्थंविफलमिति यावत्।असम्पूर्णावयवत्वेन वल्ययोग्यतया एतदानयने युष्माकं विफलप्रयास इति भावः।
(६८) भगवानेव परं प्रधानं अयनं आश्रयस्थानं यस्य सः।
(६९) अत्यन्तसम्भ्रमात् मे ममेति च एतद्वयोपन्यासः न दूषणावहः। अथवा मे इति अनादरे षष्ठीमे मां राजानमपि अनादृत्य भगवत्परायण इत्यर्थः।
धिक् मां यदहं कारणमन्तरेण तं हतवान्। किं अद्यापि स जीवति। भवतु, गत्वा तत्र द्रक्ष्यामि ताबदवधार्य्यस लघुपदं तत्कूपसन्निधा (७०) वागत्य धार्म्मिकप्रवर ! सुमते ! ममैकप्रियवन्धो ! सचिवराज ! किमद्यापि जीवसि ? देहि मे प्रतिवचनम्, इत्युच्चैस्तमाजुहाब। नृपतेर्वचः शुत्वा मन्त्री कूपादतीबार्त्तस्वरेण (७१) प्रोबाच, महाराज ! मृतकल्पो- (७२) ऽत्र तिष्ठामि, यदीच्छसि मामुद्धर।
ततो नृपतिस्तूर्णं तं कूपादुज्जहार। बारशः(७३) चात्मदोषं स्वीकृत्य क्षमस्वेति भूयशश्चानुनीय मन्त्रिणं प्रसादयामास। मन्त्रिणोक्तं, महाराज ! किमिदं किमेवं कथयसि, किमापतितं भवतां देबपादानां, कथमोदृशीमवस्थामापन्नऽसि, कथं हि ते दृष्टिरियं सकातरा बर्त्तते।
ततो राजा प्राह, मन्त्रिन् ! सत्यमुक्तंभबता, भगवता विधात्रा यदेव बिधीयते तदेव शुभाय, इत्यत्र नास्ति मे कश्चित् सन्देहः। इत्युक्ता तस्यादितो यत् वृत्तं(७४) तत् सर्वं कथयामास। तदाकर्ण्य मन्त्री
_______________________________________________________________
(७०) अधिकरणविवक्षायां सप्तमी।
(११) कातरध्वनिना। (१२) प्रेततुल्यः
(७३) बहुवारम्।
(७४) भूतम्।
किञ्चित् विहस्य प्रोबाच, महाराज ! ममापि कूपे निक्षेपो भगबता अनुमोदित एव। हीनाङ्गस्य भबतो मुक्तिश्चेदपि त्वदनुसङ्गिनः पूर्णावयबस्य ममैबपरित्राणंन कथमप्यभविस्यत्। अतो ज्ञायतामेतत् देबपादैर्यत् भगवता विधात्रा यत् विधीयते तदेव शुभाय।ततस्तौ परस्परं प्रीतौ स्वराज्यं प्रतिनिबृत्तौ।
_________
पञ्चतन्त्रम्।
अस्ति कस्मिंश्चिद्देशे मठायतनम् (१)। तत्र देवशर्म्मा नाम परिव्राजक (२) प्रतिवसति स्म। तस्य अनेकयजमान-प्रदत्त-सूक्ष्मवस्त्र-विक्रयवशात् कालेन महतीवित्तमात्रा (३) सञ्जाता।ततः स न कस्यचित् विश्वसिति (४) नक्तन्दिवं कक्षान्तरात् तां न मुञ्चति। अथवा साधु चेदमुच्यते—
अर्थानामर्जने दुःखमर्जितानाञ्च रक्षणे।
नाशे दुःखं न्यये दुःख धिगर्थं दुःखभाजनम्॥
______________________________________________________________
(१) छात्राणां वासस्थानः, मठश्छात्रादिनिलय इत्यमरः।
(२) यः सर्ब्बकर्म्माणि परित्यज्यव्रजति, भिक्षु, यतिः।
(३) वित्तस्य, धनस्य, मीयतेऽमया इति मात्रा परिमाणसाधनं, पावमित्यर्थः, (वेटुया इति भाषा)।यद्वा मां लक्ष्मींत्रायते इति व्युत्पत्या मात्रापदं सिद्धम्, धनाधारत्वात् लक्ष्मीनिबासस्थानमिति मन्यते।
(४) प्रत्येति न कोऽपि तस्य विश्वासपात्रमासीदित्यर्थः।
अथ आषाढ़भूतिः(५) नाम परवित्तापहारी धूर्त्तःअर्थमात्रां तस्य कक्षान्तर्गतांलक्षयित्वा व्यचिन्तयत्; कथं मयास्येयमर्थमात्रा हर्त्तव्येति। अत्र तावत् मठे दृढ़शिलासञ्चयवशात् भित्तिभेदः(६) न भवति। उच्चैस्तरत्वाच्च द्वारे प्रवेशो न स्यात्। तदेनं मायावचनैः (७) विश्वास्याहं छात्रतां व्रजामि, येन विश्वस्तो भवति। एवं निश्चित्य तस्यान्तिकमुपगम्य ‘ओ नमः शिवाय’ इति ब्रुवाणः साष्टाङ्गं (८) प्रणम्य च सप्रश्रयम् (९) उवाच, भगवन् ! असारोऽयं संसारः। तृणाग्निसमं जीवितम् (१०)। अभ्रच्छायासदृशाः (११) भोगाः। स्वप्नसदृशः(१२) पुत्रकलत्रमित्रवर्गसम्बन्धः। एत (१३) न्मया सम्यक् परि-
______________________________________________________________
(५) आषाढ़पालाशदण्डः भूतिः सम्पत्तिर्यस्य सः, आषाढधर इत्यर्थः।
(६) सन्धिखननादिना भित्तिभेद इति यावत्।
(७) कपटदाक्यैः।
(८) जानुभ्याञ्च तथा पङ्ग्यां पाणिभ्यासुरसा धिया। शिरसा वचसा दृष्ट्या प्रणामोऽष्टाङ्ग ईरितः॥
(९) सविनयम्।
(१०) तृणाग्निवत् जीवनं क्षणस्थायीत्यर्थः।
(११) मेघच्छायातुल्याः। वियति मेघविवर्त्तनात् भुवि या छायापतति तद्वत् अस्थिरा इति भावः।
(१२) स्वप्रदर्शनवत् अलीक इत्यर्थः।
(१३) प्रागुक्तंसर्व्वं संसारनिःसारतादिकं सामान्यत्वात् नर्पुंसकम्।
ज्ञातम् (१४)। तत् किं कुर्वतो मे संसारसमुद्रोत्तरणंभविष्यति (१५)?
तच्छ्रुत्वादेवशर्म्मा सादरमाह, वत्स ! धन्योऽसि त्वं यत् प्रथमे वयस्येवं विरक्तभाबः। उक्तञ्च,
पूर्व्वे बयसि (१६) यः शान्तः स शान्त इति मे मतिः।
धातुषु (१७) क्षीयमाणेषु शमः कस्य न जायते॥
तच्छ्रुत्वा (१८) आषाढ़भूतिस्तत्पादौ गृहीत्वा सप्रश्रयम् इदमुवाच,भगवन् ! तर्हि व्रतप्रदानेन (१९) मम प्रसादः (२०) क्रियताम्। देवशर्म्माप्राह, वत्स, अनुग्रहं ते करिष्यामि, परं रात्रौ त्वया मठमध्येन प्रवेष्टब्यम् ; यतो निःसङ्गता (२१) यतीनां प्रशस्यते।
______________________________________________________________
(१४) सर्व्वथा वैराग्यं मे जातमिति तात्पपर्य्यम्।
(१५) यस्मिन्नुपाये अवलम्बिते मम परित्राणं भबिष्यति तं त्वमुपदिश इति भावः।
(१६) यौवने इत्यर्थः।
(१०) देहस्थेषु शुक्रशोणितादिषु। क्षीयमाणेषु दुर्ब्बलतां भजत्सु सत्स्वित्यर्थः। वृद्धानां हि वैराग्यं प्रकृतिसिद्धं यूनान्तु तत्त्वज्ञानमूलकमितिभावः।
(१८) परिव्राजकवचनमाकर्ण्य।
(१९) धर्म्मोपदेशेन।
(२०) अनुग्रहः। व्रतमुपदिश्य मयि प्रसीदेत्यर्थः।
(२१) सहवासराहित्यम्। तदुक्तं सङ्गः सर्ब्बत्मना त्याज्य इति।
तत् त्वया व्रतग्रहादूर्द्ध(२२) मठद्वारे तृणकुठीरके शयितव्यमिति (२३)। स चाह, भगवन् ! भवदादेशःप्रमाणम् (२४)।
अथ तं देबशर्म्माअनुग्रहं दत्त्वा शास्त्रोक्तविधानेन शिष्यतामनयत् (२५)। सोऽपि विविधपरिचर्य्यया तं परं परितोषमनयत् (३६)।पुनस्तथापि मुनिःकक्षान्तरान्मात्रां न मुञ्चति।
अथैवं गच्छति काले आषाढ़भूतिश्चिन्तयामास, अहो न कथञ्चिदप्येष मे विश्वासमागच्छति (२७)। तत् किं दिवापि शस्त्रेण मारयामि, (२८) किं वा विषं प्रयच्छामि, किं वा पशुधर्म्मेण (२९) व्यापादयामि एवं चिन्तयतस्तस्य, देवशर्म्मणोऽपि शिष्यपुत्रः कश्चिद्
_______________________________________________________________
(२२) अनन्तरं, परमिति यावत्।
(२३) तस्य अर्थमात्रापहरणशङ्कया एतदुक्तं यतिनेति भावः।
(२४) मया प्रमाणौक्रियते इत्यर्थः।भवदाज्ञा अवश्यं पालनीयेति भावः।
(२५) प्रापयामास तं शिष्यं चकार इत्यर्थः।
(२६) तस्य परां प्रीतिमुत्पादयामास इत्यर्थः।
(१७) न मां विश्वसितीत्यर्थः।
(२८) व्यापादयामि।
(२८) पशूनां सिंहव्याघ्रादीनां धर्म्मःबधप्रकारस्तेन, हस्तपदादिना इत्यर्थः।
ग्रामादामन्त्रणार्थं समायातः ; प्राह च, भगवन् ! पवित्रारोपणविषये (३०) मम गृहमागम्यतामिति। तच्छुत्वा देवशर्म्माआषाढ़भूतिना सह प्रहृष्टमनाः प्रस्थितः। अथैबंतस्य गच्छतोऽग्रे काचिन्नदौ समायाता। तां दृष्ट्वा मात्रां कक्षान्तरादवतार्य्यकन्यामध्ये सुगुप्तां निधाय आषाढ़भूतिमिदमाह, आषाढ़भूते ! यावदहं स्नात्वा देवार्च्चनं विधाय च समागच्छामि ताबदेषा कन्या योगेश्वरस्य (३१) सावधानतया रक्षणीया, इत्युक्त्वा गतः। आषाढ़भूतिरपि तस्मिन्नदर्शनीभूते (३२) मात्रामादाय सत्वरं प्रस्थितः।
देवशर्म्मापि छात्रगुणानुरञ्जितमनाः(३३) सुविश्वस्तो निर्वर्त्तितव्यापारः शनैः शनैर्यावदागच्छति तावदाषाभूतिं न पश्यति। ततश्च औत्सुक्येन (३४) यावत् कन्यामालोकयति तावन्मात्रा नास्ति। ततश्च
_______________________________________________________________
(१०) पवित्रस्य यज्ञोपवीतस्य आरोपणं विष्णवे समर्पणम्। श्रावणशुक्लद्वादश्यां विष्णुविग्रहे यज्ञोपवीतदानरूपे उत्सवे।
(११) विष्णोः।
(३२) चक्षुर्बिषयमतिक्रान्ते।
(३३) छात्रस्य शिष्यस्य आषाढ़भूतेः गुणैः विनयार्ज्यवादिभिः अनुरञ्जितं परितोषितं मनोयस्य स तथोक्तः।
(३४) उत्कण्ठया।
‘हाहा मुष्टोऽस्मि’ (३५) इति जल्पन् भूतले मूर्च्छया निपपात। तत्क्षणात् चेतनां लब्ध्वाभूयोऽपि समुत्थाय फुत्कर्त्तुमारव्ध—“भो भो आषाढ़भूते! मां वञ्चयित्वा क्व गतोऽसि? तद्देहि मे प्रतिवचनम्।" एवं बहुविधं (३६) विलप्य तस्य पादपद्धतिम् (३७) अन्वेषयन् शनैःशनैःप्रस्थितः।
___________
हितोपदेशः।
अस्ति मगधदेशे (१) चम्पकवती (२) नामारण्यानी (३)। तस्यां चिरान्महता स्नेहेन (४) मृगकाकौ निवसतः। स च मृगः स्वेच्छया भ्राम्यन् हृष्टपुष्टाङ्गः(५) केनचित् शृगालेनावलोकितः। तं दृष्टा
______________________________________________________________
(३५) मुषितोऽस्मि, अपहृतवित्तमात्रोऽस्मीत्यर्थः। मुष्ट इति पदं निपातनात् सिद्धम्।
(३६) वह्निविधा प्रकारो यत्र कर्म्मणि तं नानावचनविन्यासमित्यर्थः।
(३७) पदपङ्क्ति पदचिह्नितमिति यावत्।
(१) विहार इति नामधेये जनपदे।
(२) चस्पूकाः चम्पकवृक्षाः सन्ति अस्याम्।
(३) अरण्यानी महारण्यमिति।
(४) प्रणयेन उपलक्षितोउपलक्षणे तृतीया।
(५) हृष्टंमुख्यं पुष्टं स्थूलं अङ्गंकायो यस्यस तथोक्तः।
शृगालोऽचिन्तयत्, आः कथमेतन्मांसं सुखलितं (६) भक्षयामि? भवतु, विश्वासं तावदुत्पादयामि। इत्यालोच्य उपसृत्य (७) अब्रवीत्, मित्र! कुशलं ते? मृगेणोक्तं, कस्त्वम्? स ब्रूते, क्षुद्रवुद्धिनामा जम्बुकोऽहम् अत्रारण्ये बन्धुहोनो मृतबन्निवसामि, इदानींत्वां मित्रमासाद्य पुनःसबन्धुर्जीवलोकं (८) प्रबिष्टोऽस्मि (९)। अधुना तवानुचरेण मया सर्वथा भवितव्यमिति। मृगेणोक्तम्, एवमस्तु (१०)।
ततः पश्चादस्तं गते सवितरि भगवति (११) मरीचिमालिनि (१२) तौ मृगस्य वासभूमिं गतौ। तत्र चम्पकवृक्षशाखायां सुबुद्धिनामा काको मृगस्य चिरमित्रं निवसति। तौ दृष्ट्वा काकोऽवदत्, सखे ! कोऽयं द्वितीयः? मृगो ब्रूते, जम्बुकोऽयमस्मत्सख्यमिच्छन्नागत। काको ब्रूते, मित्र! अकस्मादागन्तुना (१३) सह मैत्री न युक्ता। तथाचोक्तम्।
______________________________________________________________
(६) अतिमधुरम्।
(७) उपगम्य, तस्यसमीपं गत्वेति यावत्।
(८) संसारमित्यर्थः।
(९) अधुना त्वां मित्रंलब्धा जीवितोऽस्मीति भावः।
(१०) तव मनोरथसिद्धिर्भवतु इति भावः।
(११) ऐश्वर्यशालिनि।
(१२) मरीचिनां माला समूहःविद्यते अस्य तस्मिन्।
(१३) आगन्तुना अचिरागतेन अपरिचितेन जनेनेति यावत्।
अज्ञातकुलशीलस्य (१४) वासो देयो (१५) न कस्यचित्।
मार्ज्जारस्य हि दोषेण हतो गृध्रो जरद्वयः॥
तावाहतुः, कथमेतत् ? काकः कथयति। अस्ति भागीरथीतीरे गृध्रकूटनाम्नि (१६) पर्वते महान् पर्कटी (१७) बृक्षः। तस्य कोटरे दैवदुर्विपाकात् (१८) गलितनखनयनो जरद्गवनामा (१८) वृद्धो गृध्रःप्रतिवसति। अथ कृपया तज्जीवनाय तद्वृक्षवासिनः पक्षिणः स्वाहारात् किञ्चिदुद्धृत्य ददति, तेनासौ जीवति।
अथ कदाचित् दीर्घकर्णमामा मार्ज्जारः पक्षिशावकान् भक्षयितुं तत्रागतः। ततस्तमायान्तं दृष्ट्वा पक्षिमावकैर्भयार्त्तैः कोलाहलः कृतः। तं श्रुत्वा जरद्गवेनोक्तं, कोऽयमायाति ? दीर्घकर्णोगृध्रमवलोक्य सभयमाह, हा इतोऽस्मि (२०)। अथवा,
______________________________________________________________
(१४) कुलञ्च शीलञ्च कुलशौले अज्ञाते कुलशीले यस्य, तस्य।
(१५) केनापीति कर्त्तृपदमध्याहर्त्तब्यम्। दृष्टान्तेन इदं दृढ़यति मार्ज्जारेति।
(१६) गृध्राः कूटे शृङ्गेयस्य सः नाम यस्य तस्मिन्।
(१७) पाकूड़ इति ख्यातः।
(१८) भाग्यविपर्य्ययात्।
(१८) जरन्तःजीर्णाःगावः पक्षतयी यस्य सः तन्नामा।
(२०) गृध्रेणाहमिति शेषः। स प्रतिदुष्टबुद्धिवलेन नीतिं स्मरन्नाहअथवेति।
तावङ्गयस्य (२१) भेतव्यं यावङ्गमनागतम्।
आगतन्तु भयं वौक्ष्य प्रतिकुर्य्यात् तथोचितम्॥
अधुना सन्निधाने (२२) पलायितुमक्षमः। भवतु तावद्विश्वासमुत्पाद्य अस्य समीपमुपगच्छामि। इत्यालोच्य उपसृत्याव्रवीत्, आर्य्य ! त्वामभिवन्दे। गृध्रोऽवदत्, कस्त्वम् ? सोऽवदत्, मार्ज्जारोऽहम्। गृध्रो ब्रूते, दूरमपसर, नो चेद्धन्तव्योऽसि मया। मार्ज्जारोऽवदत्, श्रूयतां तावन्मम वचनम्। ततो यद्यहं बध्यस्तदा हन्तव्यः।
जातिमात्रेण किं कश्चिद्धन्धते पूज्यते क्वचित्।
व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत् (२३)॥
गृध्रो ब्रूते, ब्रूहि किमर्थमागतोऽसि। सोऽवदत्, अहमत्र गङ्गातीर नित्यस्नायीनिरामिषाशी ब्रह्मचारी (२४) चान्द्रायनत्रतमाचरंस्तिष्ठामि। यूयं धर्म्मज्ञानतरां विश्वासभूमय इति पक्षिणः सर्बेसर्वदा ममाग्रे प्रस्तुवन्ति (२५)। अतो भवद्भ्योविद्यावयो-
______________________________________________________________
(२१) भयस्य भयात्, सम्बन्धविवक्षया षष्ठी।
(२२) जरद्गवस्येति शेषः।
(२३) जगति व्यवहारानुसारेण बध्यपूव्यविधिः न तु जातेः उत्कर्षापकर्षाधीन इति भावः।
(२४) उपनयात् परं गुरुगृहे यो नियतात्मा वेदमधीते स ब्रह्मचारी।
(२५) वर्णयन्ति प्रज्ञंसन्तीति भावः।
वृद्धेभ्यो धर्म्मं श्रोतुमिहागतः। भवन्तश्चैतादृशा धर्म्मज्ञाः यन्मामतिथिं हन्तुमुद्यताः। गृहस्थधर्म्मश्चैषः,
अरावप्यूचितं कार्य्यमातिथ्यं गृहमागते।
छेत्तुः पार्श्वगता (२६) च्छायां नोपसंहरति द्रुमः॥
यदि वा धनं नास्ति तदा प्रीतिवचसाप्यतिथिःपूज्यत एव। यतः,
तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता (२७)।
एतान्यपि सतां गेहे नोच्छिद्यन्ते (२८) कदाचन॥
अन्यच्च
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः।
पूजनीयो यथायोग्यं सर्ब्बदेवमयोऽतिथिः॥
अतिथिर्यस्य भग्नाशोगृहात् प्रतिनिवर्त्तते।
स तस्मै दुष्कृर्तदत्वा पुण्यमादाय गच्छति॥
गृध्रोऽवदत् मार्ज्जारा हि मांसरुचयः, पक्षिशाबकाश्चात्र निवसन्ति, तेनाहं ब्रवीमि॥ तत् श्रुत्वा मार्ज्जारो भूमिं स्पृष्ट्वाकर्णौ स्पृशति, ब्रूते च मया
______________________________________________________________
(२६) पार्श्ववर्त्तिनः।
(२७) सूनृता सत्या प्रिया वा मधुरसम्भाषणमिति यावत्। तृणानि तृणनिर्म्मितमासनम्,भूमिःविश्वामार्थंस्थानम्, उदकं पादप्रक्षालनार्थं जलम्।
(२८) न उच्छिद्यन्ते न प्रत्यादिश्यन्ते अन्नाभावे आसनादिदानेनापि अतिथिसत्कारः कर्त्तव्य इत्यर्थः।
धर्म्मशास्त्रं श्रुत्वा वीतरागेणेदं (२९) दुष्करं व्रतं चान्द्रायणमध्यवसितम् (३०)। यतः परस्परं विवदमानानामपि धर्म्मशास्त्राणाम् अहिंसा परमो धर्म्म इत्यत्रैकमत्यम्।
सर्वहिंसनिवृत्ता ये नराः सर्वं सहाश्च (३१) ये।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः॥
एक एव सुहृद्धर्म्मो निधनेऽप्यनुयाति यः।
शरीरेण समं नाशंसर्वमन्यत्तु गच्छति॥
योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम्।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते॥
स्वच्छन्दवनजातेन शाकेनापि प्रपूर्य्यते (३२)।
अस्य दग्धोदरस्यार्थे कः कुर्य्यात्पातकंमहत्॥
एवं विश्वास्य स मार्ज्जारस्तरुकोटरे स्थितः। ततोऽसौ हितेषु गच्छत्सु पक्षिशावकानाक्रम्य कोटरमानीय प्रत्यहं खादति। येषामपत्यानि खादितानि तैः शोकार्त्तैर्विलद्भिरितस्ततो जिज्ञासा समारब्धा। तत् परिज्ञाय मार्ज्जारः कोटरान्निःसृत्य बहिः पलायितः। पश्चात् पक्षिभिरितस्ततो निरुपयद्भिः(३३) तत्र तरुकोटरे शावकास्थीनि प्राप्तानि। अनन्तरं
______________________________________________________________
(२९) वीतरागेण गतस्पृहेण भोग्यवस्तुषु स्पृहाशून्येनेत्यर्थः।
(३०) अनुष्ठितम्।
(३१) क्षमाशीलाः।
(१२) उदरमिति शेषः।
(३२) अन्विष्यङ्गिः।
अनेनैव जरद्गवेनास्माकं शावकाः खादिता इति सर्वैः पक्षिभिर्निश्चित्य गृध्रो व्यापादितः।
इत्याकर्ण्य जम्वुकः सकोपमाह, मृगस्य प्रथमदर्शनदिने भवानप्यज्ञातकुलशील एवासीत्। कथं भवता सह एतस्य स्नेहानुवृत्तिः (३४) उत्तरोत्तरं वर्द्धते ? अथवा,
यत्रविद्वज्जनो नास्ति श्लाघ्लस्तत्राल्पधीरपि।
निरस्तपादपे देशे एरण्डोऽपि दुमायते॥
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानान्तु वसुधैव कुटुम्बकम्(३५)॥
यथायं मृगो मम बन्धुस्तथा भवानपि। मृगोऽब्रवीत् किमनेनोत्तरेण (३६) ? सर्व्वैरेकत्र विश्रम्भालापैः (३७) सुखमनुभवङ्भिःस्थीयताम्। यतः,
न कश्चित् कस्यचिन्मित्रंन कश्चित् कस्यचिद्रिपुः।
व्यवहारेण मित्राणि जायन्ते(३८) रिपवस्तथा॥
करकेनोक्तमेबमस्तु।
______________________________________________________________
(३४) प्रणयानुरागः।
(३५) लघुचेतसाम् असारचित्तानाम्।उदारचरितानां महात्मनां पुनर्वसुधा पृथिव्येव कुटुम्बकं कुलम्। तादृशःपुरुषाः सर्व्वानेव बसुधावासिनी भ्रातृन् मन्यन्त इत्यर्थः।
(३६) उत्तरोत्तरवाक्प्रपञ्चेनालमित्यर्थः।
(३७) विश्वासपूर्णै, प्रणयगर्भैर्वासम्भाषैः।
(३८) उत्पपद्यन्ते। मातृगर्भतो निर्गत एव शत्रूः मित्रं वा न भवति तद्व्यवहारेणमित्रंअसद्व्यवहारेण शत्रश्व भवतीत्यर्थः।
एकदा निभृतं शृगालोब्रूते, सखे मृग ! अस्मिन् वनकदेशे शस्यपूर्णंक्षेत्रमस्ति। तदहं त्वां नीत्वा दर्शयामि। तथा कृते सति मृगः प्रत्यहं तत्र (३९) गत्वा शस्यं खादति। अथ क्षेत्रपतिना क्षेत्रं दृष्ट्वा पाशो योजितः। अनन्तरं पुनरागतो मृगः पाशैर्बद्धोऽचिन्तयत् को मामितः कालपाशादिव व्याधपाशात् त्रातुं समर्थों मित्रादन्यः। अनन्तरं जम्बुकस्तत्रागत्य उपस्थितोऽचिन्तयत्, फलिता ताबदस्माकं कपटप्रबन्धेन (४०) मनोरथसिद्धिः। एतस्योत् कृत्यमानस्य (४१) मांसासृग्लिप्तानि अस्थीनि मयाबश्यं प्राप्तव्यानि। तानि च बाहुल्येन भोजनानि भविष्यन्ति। मृगस्तं दृष्ट्वोल्लासितो ब्रूते, सखे ! छिन्धि तावन्मम बन्धनं, सत्वरं त्रायस्व माम्। यतः,
उत्सवेव्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥
जम्बुकः पाशं विलोक्याचिन्तयत्, दृढ़स्तावदयं बन्धः। ब्रूते च, सखे ! स्नायुनिर्म्मिताः (४२) पाशाः
_______________________________________________________________
(३९) क्षेत्रे अधिकरणविवक्षया सप्तमौ।
(४०) छलप्रयोगेण।
(४१) छिद्यमानस्य चर्म्मतो निर्म्मोच्यमानस्य इत्यर्थः।
(४२)स्नायुभिर्देहान्तवेत्तिभिर्नाड़ीविशेषैर्निर्म्मिता घटिताः।
तदद्य भट्टारकवारे (४३) कथमेतान् दन्तैःस्पृशामि। मित्र ! यदि चित्ते नान्यथा मन्यसे तदा प्रभाते यत् त्वया वक्तव्यं तत् कर्त्तव्यमिति।
अनन्तरं स काकः प्रदोषकाले मृगमनागतमवलोक्य इतस्ततोऽन्विष्यन् तथाविधं दृष्ट्वोवाच सखे ! किमेतत् ? मृगेणोक्तम्, अवधीरितसुहृद्वाक्यस्य फलमेतत्। तथा चोक्तम्,
सुहृदां हितकामानां यः शृणोति न भाषितम्।
विपत् सन्निहिता तस्य स नरः शत्रुनन्दनः(४४)॥
काको ब्रूतेस वञ्चकः क्वास्ते ? मृगेणोक्तं, मन्मांसाथोतिष्ठत्यत्रैव। काको ब्रूते,उक्तमेव मया पूर्व्वम्।
अपराधी न मेऽस्तीति नैतद्विश्वासकारणम्।
विद्यते हि नृशंसेभ्यो भयं गुणवतामपि (४५)॥
परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम्।
वर्ज्जयेत् यद्यतो बन्धुं विषकुम्भंपयोमुखम् (४६)॥
______________________________________________________________
(४३) रविवारे।
(४४) शत्रूणामानन्दकरः।
(४५) मे मम अपराधी नास्ति अतो मे शत्रुर्नास्तीति शेषः। इत्येतत् नविश्वासकारणम् इत्येवं रूपो विश्वासो न कर्त्तव्य इत्यर्थः। यतः नृशंसेभ्यो गुणवतां निरपराधानामपि भयं विद्यते। नृशंसा हि अपराधं विनापि जनंद्विषन्तीति भावः।
(४६) अत्र इव इतिपदमध्याहार्य्यंपयोमुखं विषकुम्भमिव।
ततः काको दीर्घं निःश्वस्य प्राह, अरे वञ्चक। किं त्वया पापकर्म्मणा कृतम् ?
उनकारिणि विश्रब्धेशुद्धमतौ यःसमाचरति पापम्।
त जनमसत्यन्धं(४०) भगवति वसुधे। कथं वदसि॥
अथ प्रभाते क्षेत्रपतिर्लगुड़हस्तस्तं प्रदेशं गच्छन् काकेनावलोकितः। तमालोक्य काकेनोक्तं, सखे मृग! त्वमात्मनं मृतवत्सन्दर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ। अहं तव चक्षुषीचञ्च्वाविलिखामि। यदाहं शब्दं करोमि तदा त्वमुत्थाय सत्वरं पलायिष्यसे। मृगस्तथैव काकवचनेन स्थितः। ततः क्षेत्रपतिना हर्षोत्फुल्ललोचनेन तथाविधो मृग आलोकितः। अथासौ ! आः स्वयं मृतोऽसि ? इत्युक्त्वामृगं बन्धनान्मोचयित्वा पाशान् ग्रहीतुं सत्वरो बभूव। ततः काकशब्दं श्रुत्वा मृगः सत्वरमुत्थाय पलायितः। तमुद्दिश्यं तेन क्षेत्रपतिना क्षिप्तेन लगुड़ेन शृगालो व्यापादितः। ततः काको लघुपतनकः प्राह,
भक्षितेनापि भवता नाहारोसम पष्कलः (४८)।
त्वयि जीवति जीवामि चित्रणीव इवानघ ! (४९)॥
______________________________________________________________
(४०) असत्ये वञ्चनायां सन्धा अभिसन्धिर्यस्य तम्।
(४८) प्रभूतं प्रचुर इति यावत्।
(४९) अनघ ! निष्पाप ! विशुद्धचरित ! इति यावत्। हिरण्यक सम्बोधनमेतत्।
हिरण्यको ब्रूतेचपलस्त्वम्, चपलेन सह मैत्री सर्वथा न कर्त्तव्या। किञ्चान्यत्। शत्रुपक्षो भवान् अस्माकम्। उक्तञ्च,
शत्रुणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना।
सुतप्तमपि पानीयं शमयत्येव पावकम् (५०)॥
दुर्जनः परिहर्त्तव्यो विद्ययालङ्कृतोऽपि सन्।
मणिना भूषितः सर्पः किमसौ न भयङ्करः॥
लघुपतनको व्रुते, श्रुतं मया सर्वं तथापि मम चैतावान् सङ्कल्पः, यत् त्वया सह सौहृद्यमवश्यंकरणीयमिति। नो चेदनाहारेणात्मानं तव द्वारि व्यापादयामि। एतद्वचनमाकर्ण्य हिरण्यको वहिर्निःसृत्याह, आप्यायितोऽहं भबतामनेन वचनामृतेन।
रहस्यभेदो (५१) याच्ञाच नैष्ठुर्य्यंचलचित्तता (५२)।
क्रोधी निःसत्यता (५३) द्युतम् (५४) एतन्मित्रस्य दूषणम्॥
एतद्वचनोक्तमेकमपि दूषणं त्वयि न लक्ष्यते। तद्भवतु भवतोऽभिमतमेव। इत्युक्त्वाहिरण्यको मैत्रं
______________________________________________________________
(५०) सुश्लिष्टेन सुघटितेन दृढ़ेनेति यावत् सन्धिना, शत्रुणा सह न सन्दध्यात् मिलितो न भवेत्। तथाहि, सुतप्तमपि सन्तापेन शीतलत्वनाशात् क्षीणशक्तिकमपि पानीयंजलं कर्त्तृपावकं वह्निंशमयति निर्व्वापयति।
(५१) रहस्यंगुप्तमन्त्रणम् तस्य भेदः अन्यसन्निधौ प्रकाशनम्।
(५२) अव्यवस्थितचित्तता।
(५३) मिथ्यावादिता।
(५४) अप्राणिभिः कीड़नम्।
विधाय भोजनविशेषैर्वायसं सन्तोष्य विवरं प्रविष्टः। वायसोऽपि स्वस्थानं गतः। ततः प्रभृति तयोरन्योन्यनाहारप्रदानेन कुशलप्रश्नैर्विश्रम्भालापैश्च कालोऽतिवर्त्तते। एकदा लघुपतनको हिरण्यकमाह, सखे! वायसस्य कष्टलभ्याहारमिदं स्थानम्, एतत् परित्यज्य स्थानान्तरं गन्तुमिच्छामि। हिरण्यको ब्रूते, मित्र! क्वगन्तव्यम् ? वायसो ब्रूते, अस्ति सुनिरूपितं स्थानं। हिरण्यकोऽवदत् किं तत् ? वायसो ब्रूते, अस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः। तत्र चिरकालोपार्ज्जितः प्रियसुहृन्मे मन्थराभिधानः कूर्म्मःसहजधार्म्मिकः प्रतिवसति। स च भोजनविशेषैर्म्मांसंवर्द्धयिष्यति। हिरण्यकोऽप्याह, तत् किमत्रावस्थाय मया कर्त्तव्यम् ?मामपि तत्र नय।
अथ वायसस्तेन मित्रेन सह चित्रालापसुखेन तस्य सरसः समीपं जगाम। ततो मस्थरोदूरादेव लघुपतनकमवलोक्योत्थाय यथोचितमातिथ्यंविधाय मूषिकस्याप्यतिथिसत्कारं चकार। वायसोऽवदत्, सखे मन्थर! सविशेषपूजामस्मै विधेहि, यतोयं पुण्यकर्म्मणां धुरीणः (५५) कारुण्यरत्नाकरो हिरण्यक-
_______________________________________________________________
(५५) धुरं वहतीति धुरीणः अग्रगण्य इत्यर्थः।
नामा मूषिकराजः। एतस्य गुणस्तुतिं जिह्वासहस्रद्वयेनापि यदि सर्पराजः कदाचित् कर्त्तुं समर्थः स्यात्। इत्युक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान्। मन्थरः सादरं हिरण्यकं सम्पूज्याह, भद्र ! आत्मनो निर्जनवनागमनकारणमाख्यातुमर्हसि। हिरण्यकोऽवदत्, कथयामि, श्रूयताम्-
अस्ति चम्पकाभिधानायां नगर्य्यां परिव्राजकावसथः(५६)। तत्र चूड़ाकर्णो नाम परिव्राजकः प्रतिवसति। स च भोजनावशिष्टभिक्षान्नसहितं भिक्षापात्रं नागदन्तकेऽवास्थस्य स्वपिति। अहञ्च तदन्नमुत्प्लुत्य प्रत्यहं भक्षयामि।अथैकदा तस्य प्रियसुहृद् वीणाकर्णो नाम परिव्राजकः समायातः। तेन सह कथाप्रसङ्गावस्थितो मम त्रासार्थं चूड़ाकर्णो भूमिमताड़यत्। बीणाकर्ण उबाच, सखे ! किमिति मम कथाविरक्तोऽन्यासक्तो भवान् ? चूड़ाकर्ण उवाच, मित्र ! नाहं बिरक्तः, किन्तु पश्यायं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नमुत्प्लुत्य भक्षयति। वीणाकर्णो नागदन्तकं विलोक्याह, कथं मूषिकःस्वल्पबलोप्येतावद् दूरमुत्पतति? तदत्र केनापि
_______________________________________________________________
(५६) अवसथः वासस्थानम् आश्रम इति यावत्।
कारणेन भवितव्यम्। विचिन्त्यपरिव्राजकेनोक्तम्, कारणञ्चात्रधनबाहुल्यमेव प्रतिभाति। यतः,
धनवान् बलवान् लोके सर्व्वः सर्ब्बत्रसर्व्वदा।
प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते॥
ततःखनित्रमादाय तेन विवरं खनित्वा चिरसञ्चितं मम धनं गृहीतम्। ततः प्रभृति निजशक्तिहीनः सत्त्वोत्साहरहितः (५७) स्वाहारमप्युत्पादयितुमक्षमः सत्रासं मन्दं मन्दमुपसर्पंश्चूड़ाकर्णेनाहमवलोकितः। ततस्तेनोक्तम्,
धनेन बलवान् सर्व्वोधनाद् भवति पण्डितः।
पश्यायंमूषिकः पापः स्वजातिसमतां गतः॥
तच्छ्रुत्वा मयालोचितम्, ममात्रावस्थानमयुक्तमिदानीम्, यच्चान्यस्मैएतदृत्तान्तकथनं तदप्यनुचितम्। यतः,
अर्थनाशं मनस्तापं गृहच्छिद्रश्चमन्त्रणाम्।
वञ्चनश्चापमानञ्च मतिमान् न प्रकाशयेत्॥
यच्च याज्चयाजीवनं तदप्यतीव गर्हितम्। यतः,
वरं भिक्षाशित्वं (५८) न च परधनास्वादमसुखं
वरं प्राणत्यागीन पुनरधमानामुपगमः(५९)।
______________________________________________________________
(५७) सत्त्वं साहसम्, उत्साहः अध्यवसायस्ताभ्यां रहितः। अथवा सत्त्वस्य चित्तस्य तत्साहसेन रहितः।
(५८) भिक्षान्नभक्षणम्।
(५९) उपसर्पणम् चानुगत्यमिति यावत्।
वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे
वरंशून्या शाला न च खलु वरोदुष्टवृषभः॥
तत् किमहं परपिण्डेनात्मानं पोषयामि ? कष्टंभोस्तदपि द्वितीयं मृत्युद्वारम्।
रोगीचिरप्रवासी परान्नभोजी परावसथशयी।
यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः॥
इत्यालोच्यापि लोभात् पुनरपि तदीयमन्नं ग्रहीतं ग्रहम् (६०) अकरवम्। यतः,
लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् (६१)।
तृषार्त्ता दुःखमाप्नोति परत्रेह च मानवः(६२)॥
ततोऽहं मन्दं मन्दमुपसर्पंस्तेन वीणाकर्णेन जर्जरवंशखण्डेन ताड़ितोऽचिन्तयम्, लुब्धो ह्यसन्तुष्टो नियतमात्मद्रोही भवति।
सर्व्वाएवापदस्तस्य यस्य तुष्टं न मानसम्।
सर्व्वाः सम्पत्तयस्तस्य सन्तुष्टं यस्य मानसम्॥
सन्तोषामृततृप्तानां यत् सुखं शान्तचेतसाम्।
कुतस्तद्घनलुब्धानामितश्चेतश्चतश्च धावताम्। (५३)
न योजनशतं दूरं वाह्यमानस्य तृष्णया।
सन्तुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः॥
तदत्रावस्थोचितकार्य्यपरिच्छेदः (६४) श्रेयान्
______________________________________________________________
(६०) उद्यमम्।
(६१) अत्युत्कटामिच्छान्।
(६२) लोभोऽधर्म्ममूलं अधार्म्मिकस्य उभयलोको नश्वतीति भावः।
(६३) पर्य्याप्तधनलाभेऽपि न सुखलाभः धर्मतृष्णाया अनिवृत्तेरितिभावः।
(६४) अवस्थानुरुपकार्य्यनिर्णयः।
इत्यालोच्याहं निर्जनवनमागतः। ततोऽस्मत्पुण्योदयादनेन मित्रेणाहंस्नेहानुवृत्त्याअनुगृहीत, अधुना च पुण्यपरम्परया भवदाश्रयःस्वर्ग एव मया प्राप्तः। यतः,
संसारविषवृक्षस्य द्वे एव मधुरे फले।
काव्यामृतरसास्वादःसङ्गमःसज्जनैः सह॥
मन्थर उवाच,युष्माभिरतिसञ्चयः कृतस्तस्यायं दोषः। उक्तच्च,
कर्त्तव्यः सञ्चयो नित्यं कर्त्तव्यो नातिसञ्चयः।
पश्य सञ्चयशीलोऽसौ धनुषा जम्बुको हतः॥
तावाहतुः, कथमेतत् ? मन्थरः कथयति। अस्ति कल्याणकटके (६५) भैरवो नाम व्याधः ! स चैकदा मृगमन्विष्यन् विन्ध्याटवीं गतवान्। ततस्तेन व्यापादितं मृगमादाय गच्छता घोराकृतिः शूकरो दृष्टः। ततस्तेन मृगं भूमौ निधाय शूकरः शरेणाहतः। शूकरेणापि घनघोरगर्ज्जनं (६६) कृत्वा ब्याधो हतश्छिन्नद्रम इव भूमौ पपात। तयोः पादास्फालनेनसर्पोऽपि मृतः; अत्रान्तरेदीर्घरवो नाम जम्बुकः परिभ्रमन्नाहारार्थी तान् मुतान् मृगब्याधसर्पशूक-
______________________________________________________________
(६५) कल्याणनाम्निविवरे अर्द्रिनितम्बे वा।
(६६) मेघभीषणनादृम्।
रानपश्यत् अचिन्तयच्च, अहो ! अद्यमहद्भीष्यं मे समुपस्थितम्। एषां मांसैर्मासत्रयं मे सुखेन गमिष्यति।
मासमेकं नरो याति, द्वौमासौमृगशूकरौ।
अहिरेकं दिनं याति, अद्य भक्ष्यो धनुर्गुणः॥
ततः प्रथममेवेदं निःखादं कोदण्डलग्नं (६७) स्नायुबन्धनं (६८) खादामि इत्युक्त्वातथाऽकरोत्। ततश्च्छिन्नेस्नायुबन्धने द्रुतमुत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरवः पञ्चत्वं गतः। अतोऽहं ब्रवीमि, कर्त्तव्यः सञ्चयो नित्यमित्यादि। यातु, किमिदानीमतिक्रान्तोपवर्णनेन (६९)? सखे ! सर्व्वदा त्वया सोत्साहेन भवितव्यम्। यतः,
उत्साहसम्पन्नमदीर्घसूत्र (७०)
क्रियाविधिञ्च(७१) व्यसनेष्वसक्तम्(७२)।
शूरं कृतज्ञंदृढ़सौहृदञ्च
लक्ष्मीः स्वयं याति निवासहेतोः॥
इति श्रुत्वा लघुपतनको ब्रूते, धन्योऽसि मन्थर ! सर्व्वथा श्लाघ्यगुणोऽसि (७३)।
___________________________________________________________
(६७) धनुषि आरोपितम्।
(६८) पुरावृत्तकथनेन।
(६९) शिरा निर्म्मितगुणम्।
(७०) क्षिप्रकारिणम्।
(७१) कर्म्मानुष्टानाभिज्ञम्।
(७२) दोषवर्जितमित्यर्थः।
(७३) सर्व्वदाश्रयबोधोऽसि इति पाठान्तर।
तदेवं ते स्वेच्छाहारविहारं कुर्व्वाणाः सन्तुष्टाः सुखं निवसन्ति स्म। अथ कदाचिच्चित्राङ्गनामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः। ततः पश्चादायान्तं भयहेतुं सम्भाव्य मन्थरो जलं प्रविष्टः, मूषिकश्च विवरं गतः, काकोऽपि उड्डीय वृक्षमारुढ़ः। तत्रोलघुपतनकेन सुदूरं निरूप्यभयहेतुर्नकोऽप्यावलोकितः। पश्चात्तद्वचनादागत्य पुनः सर्व्वे मिलित्वा तत्रैवोपविष्टाः। मन्थरेणोक्तम् भद्र मृग ! कुशलं ते? स्वेच्छया उदकाद्याहारोऽनुभूयताम्। अत्रावस्थानेन वनमिदं सनाथोक्रियताम्। (७४)। चित्राङ्गो ब्रूते, लुब्धकत्रासितोऽहं भवतां शरणम् (७५) आगतः भवद्भिः सह सख्यमिच्छामि। हिरण्यकोऽवदत्, मित्रत्वं तावदस्माभिः सह अयत्नेनैव निष्पन्नंभवतः। तदत्र भवता स्वगृहनिर्विशेषं (७६) स्थीयताम्।
तच्छ्रुत्वा मृगःसानन्दः कृतस्वरेच्छाहारः पानीयं पीत्वा जलासन्नतरुच्छायायामुपविष्टः। अथ मन्थरेणोक्तम्, सखे मृग ! केन त्रासितोऽसि ? अस्मिन्
______________________________________________________
(७४) पूर्वंत्वया विना वनमिदमनाथमासीत् इदानीमत्रावस्थानेन सस्वामिकं क्रियताम्।
(७५) आश्रयम् आवासभूमिं वा।
(७६) स्वग्रहान्नास्ति विशेषो भेदोयत्र तद्यथा निजगृहवदित्यर्थः।
विजने वने कदाचित् किं व्याधाः सञ्चरन्ति? मृगेणोक्तम्, अस्ति कलिङ्गविषये (७७) रुक्माङ्गदो नाम नृपतिः। स च दिग्विजयव्यापारक्रमेणागत्य चन्द्रभागानदीतीरे समावासितकटको (७८) वर्त्तते। प्रातच्चतेनात्रागत्य कर्पूरसरः समीपे भवितव्यमिति व्याधानांमुखात् किंवदन्ती श्रूयते। तदत्रापि प्रातरवस्थानं भयहेतुरित्यालोच्य यथाकार्य्यंतथारभ्यताम्। तच्छ्रुत्वाकू्र्म्मःसभयमाह, मित्र! जलाशयान्तरं गच्छामि। काकमृगावपि उक्तवन्तौ, मित्र! एवमस्तु। हिरण्यको विमृश्याह, पुनर्जलाशये प्राप्ते मन्थरस्य कुशलम् स्थले गच्छतोऽस्यकः प्रकारः ? (७९)
शृगालेन हतो हस्तौ गच्छता पङ्कवर्त्मना।
भविष्यसि तथैव त्वं प्रयास्यन् स्थलवर्त्मना॥
मन्थरेणोक्तम् कथमेतत् ? हिरण्यकः कथयति। अस्ति ब्रह्मारण्येकर्पूरतिलको नाम हस्ती। तमवलोक्य सर्व्वे मृगालाश्चिन्तयन्ति स्म। यद्यायं केनाप्युपायेन म्रियते, तदस्माकमेतद्देहेन मासचतुष्टयस्य भोजनं भविष्यति। ततस्तन्मध्यादेकेन शृगालेन प्रतिज्ञातम्,
____________________________________________________
(७७) कलिङ्गदेशे।
(७८) समावासितं स्थापितं कटकं शिबिरं येन सः।
(७९) कः प्रकारः स्थले गमनसमयेऽस्य का मतिः।
मया बुद्धिप्रभावादस्य मरणं साधयितव्यम्। अनन्तरं स वञ्चकः कर्पूरतिलकसमीपं गत्वा साष्टाङ्गपातं प्रणम्योवाच देव! दृष्टिप्रसादं (८०) कुरु। हस्ती ब्रूते, कस्त्वम्? कुतः समायातः? सोऽवदत्, जम्बुकोऽहं सर्वैर्वनवासिभिः पशुभिर्मिलित्वा भवत्ससाशंप्रस्थापितः। यद्विना राज्ञाऽवस्थातुं न युक्तम्, तदत्राटवीराज्येऽभिषेक्तुं भवान् सर्वस्वामिगुणोपेतो निरूपितः। तद्यथा लग्नवेला (८१) न विचलति तथा कृत्वा सत्वरमागम्यतां देवेन इत्युक्त्वाउत्थाय चलितः ततोऽसौ राज्यलोभाक्कृष्टःकर्पूरतिलकःशृगालवर्त्मना धावन् महापङ्केनिमग्नः। ततस्तेन हस्तिना उक्तम्, सखे! शृगाल! किमधुना विधेयम्, पङ्के निपतितोऽहं म्रिये, परावृत्य (८२) पश्य। शृगालेन विहस्योक्तम्, देव! मम पुच्छकाबलम्बनं कृत्वा उत्तिष्ठ। यस्य मद्विधस्य वचसि त्वया प्रत्ययः कृतः, तदनुभूयतामशरणं (८३) दुःखमिति। ततो महापङ्के निमग्नो हस्ती शृगालैर्भक्षितः। अतोऽहं ब्रवीमि,
_______________________________________________
(८०) विलोकनानुग्रहम्।
(८१) मेषादिराशौनामुदयकालो लग्नम्। सप्रवेला राज्याभिषेकार्थंशुभकालः।
(८२) प्रवाहृत्य।
(८३) नास्ति शरणं प्रतिकारको यस्य तत् दुःखमिति विहस्योक्तमिति पूर्व्वैश्चान्वयः।
शृगालेन हतो हस्तीत्यादि। तद्वचनमाकर्ण्य महता भयेन विमुग्ध इवतज्जलाशयमुत्सृज्य मन्थरश्चलितः। तेऽपि हिरण्यकादयः स्नेहादनिष्टं शङ्कमाना मन्थरमनुजग्मुः। ततः स्थले गच्छन् केनापि व्याधेन काननं पर्य्यटता मन्थरः प्राप्तः। तञ्च गृहीत्वा उत्थाप्य धनुषि बद्धाधन्योऽस्मीत्यभिधाय स्वगृहाभिमुखं चलितः। अथ ते मृगवायसमूषिकाः परं विषादमुपगतास्तमनुगच्छन्ति स्म। ततो हिरण्यको विलपति।
एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य।
तावद्द्वितीयं समुपस्थितं मे च्छिद्रेष्वनर्था बहुलोभवन्ति (८४)॥
इति मुहुर्विचिन्त्यआह अहो मे दुर्दैवम्। अथवा इत्थमेवैतत्।
कायःसन्निहितापायः (८५) सम्पदः पदमापदाम्।
समागमाः सापगमाः सर्व्वमुत्पादिभङ्गुरम्॥
इति बहु विलप्य हिरण्यकश्चित्राङ्गलघुपतनकावाह, यावदयं व्याधो वनान्न निःसरति, तावन्मन्थरं मोचयितुं यत्नःक्रियताम्। तावूचतुः सत्वरं कार्य्यमुपदिश। हिरण्यकोब्रूते, चित्राङ्गो जलसमीपं गत्वा
_________________________________________________
(८४) एकस्य दुःखस्य चित्रग्रीवजालबन्धनिबन्धनकष्टस्य। द्वितीयंमन्थरनिग्रहजनितदुःखम्। छिद्रेषु रन्ध्रेषु प्रवेशसार्गेषु सत्स्वित्यर्थः। अनर्थाः अमङ्गलानिबहुलोभवन्ति क्रमश आपतन्तीत्यर्थः।
(८५) आशन्नविनाशः।
मृतमिव आत्मानं निश्चेष्टं दर्शयतु। काकश्च तस्योपरि स्थित्वा चञ्च्वाकिमपि विलिखतु। नूनमनेन लुब्धकेन मृगमांसार्थिनाकच्छपं परित्यज्य सत्वरं गन्तव्यम्। ततोऽहं मन्थरस्य बन्धनं छेत्स्यामि। ततश्चित्राङ्गलघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते स व्याधः परिश्रान्तः पानीयं पीत्वा तरोरधस्तादुपविष्टस्तथाविधं मृगमवलोक्य कच्छपं जलसमीपे निधाय कर्त्तरिका (८६) मादाय प्रहृष्टमना मृगान्तिकं चलितः।अत्रान्तरेहिरण्यकेनागत्य छिन्नबन्धनः स कूर्म्मसत्वरं जलाशयं प्रविष्टः। स च मृग आसन्नंतं व्याधं विलोक्य उत्थाय द्रुतं पलायितः। प्रत्यावृत्य लुब्धको यावत्तरु-तलमायाति तावत् कुर्म्ममपश्यन्नचिन्तयत्।
यो ध्रुवाणि (८७) परित्यज्य अध्रुवाणि निषेवते।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि॥
ततोऽसौ निराशः कटकं प्रविष्टः। मन्थरादयश्चसर्वे मुक्तापदः (८८) स्वस्थानं गत्वा यथासुखमास्थिताः।
अथ राजपुत्रैःसानन्दमुक्तम्, सर्वं श्रुतवन्तः सुखिनो वयम्। सिद्धं न समीहितम्। विष्णुशर्म्मोवाच, एतावता भवतामभिलषितं सम्पन्नम्।
_______________________________________________
(८६) छुरिकाम्।
(८७) ध्रुवाणि निश्चितानि उभवस्तुनीत्यर्थः।ध्रुवोऽमेदे क्लीवन्तु निश्चिते शाश्वते विषु इत्यमरः।
(८८) आपन्मुक्ताः।
यदुवंश विनाशः।
कदाचित् सर्व्वे यदुकुमारा नर्म्मदायाम् (१) चर्त्तुम् (२) आजग्मु। तत्र तपन्तं (३) कण्वं महर्षि दृष्ट्वा जाम्बवत्याः सुतं योषिद्देशं कृत्वा (४) तस्योदरे कार्ष्ण्यायसं (५) मुषलं वाससा बद्ध्वाऋषेः समीपमागत्य सर्व्वे तं नमस्कृत्य स्त्रीरूपं शाम्बं कुमारं तस्य पुरतो निधाय अस्या गर्भस्थं स्त्री वा पुरुषो वा भगवन् ! ब्रूहीत्यूचुः। स तु मनसा तद्विधं (६) ज्ञात्वा महामर्षम् (७) आविष्टस्तान् सर्व्वान् (८) अनेन मुषलेन यूयं सर्व्वे निहता भवन्तु इत्युवाच। ते सर्व्वे समुद्विग्नमनसः श्रीकृष्णं समेत्य ऋषिणोक्तं, तत् तस्मै निवेदयामासुः। श्रीकृष्णोऽपि तदायसमुषलं चूर्णीभूतं कृत्वा महाह्रदे निपातयामास। तत्र तदायसमुषलचूर्णीभूतबीजादुद्भूतावज्रसन्निभा एरकाः(९) महोदधौ
__________________________________________________
(१) लक्षणयानर्म्मदाख्यनदीतीरे।
(२) चर्त्तुं चरितुम् भ्रमितुमित्यर्थः। इडभाव आर्षः
(३) तपन्तमित्यार्षप्रयोगः। तपस्तप्यमानं तपोऽर्ज्जयन्तमित्यर्थः।
(४) वस्त्रालहारादिभिः योषिहत्भूषयित्येत्यर्थः।
(५) नीलवर्णलौहनिर्मितम्।
(६) तादृशं योषिद्देशधारिपुरुषोदरे कार्णायासमुषलविन्यासरूपमित्यर्थः।
(७) महाकोषम्।
(८) यादवानित्यर्थः।
(९) एरकानिग्रन्थितृणविशेषाः।
(१०) सम्बभूवुः। तत्र तन्मुषलशेषं कनिष्ठाङ्गुलिमात्रं निक्षिप्तं तं मत्स्यो जग्राह। तं मत्स्यं जरा नाम निषादः(११) हत्वा तदुदरस्थं मुषलशेषमादाय बाणाग्रे (१२) नाराचम् (१३) अकरोत्। कदाचित् सर्व्वेयादवा रामकृष्णप्रद्युम्नादयो महाबलास्त्वन्तःपुराद्विनिष्क्रम्य तिस्रः कोढ्योमहोत्सवयात्रां कर्तुंतन्महाह्रदसमीपमाजग्मुः। तत्र बहुमद्यमांसादिकं भुक्त्वासर्व्वेमत्ताःक्रीड़ार्थं तत्समुद्रह्रदसमुद्भूता उत्पाट्यवज्रधारसन्निभास्तामिः परस्परं जघ्नुः। तदेरकाघातनादेव (१४) सर्व्वेबलभद्रप्रद्युम्नादयो यादवा निःशेषं त्यक्तजीविता बभूवुः। ते सर्व्वेस्वान् स्वांस्त्रिदशान् प्रपेदिरे। एवं मुषलेन सर्व्वंसंहृत्य स्वयमेको वासुदेवो बहुलतागुल्मसमाकीर्णमहीरुहच्छायायां सकलचतुर्विधात्मान्तस्थं (१५) श्रीवासुदेवात्मकम् (१६) आत्मानं चिन्तयन् जानूपरि पदं निधाय योगेनात्मनो मानुष वपुस्तत्याज।
____________________________________________
(१०) लक्षणया महोदधितीरे।
(११) व्याधः।
(१२) बाणाग्रे बाणाग्रे “बाणःस्याद्वीस्तने दैत्यभेदे केवलकाण्डयोः"इति मेदिनी।
(१३) नाराचम् अस्त्र विशेषम्।
(१४) तदेरकाप्रहरणात्।
(१५) सकलचतुर्विधात्मान्तस्थं जरायुजाण्डजोद्भिज्जस्वेदजादिसमस्त प्राणिहृदगतम्।
(१६) निर्म्मलान्तःकरणे प्रकाशमानस्वरूपम्।
बृहच्चाणक्यम्।
मूर्खशिष्योपदेशेन (१) दुष्टस्त्रीभरणेन च। द्विषतां (२) सम्प्रयोगेण (३) पण्डितो प्यवसीदति (४)॥ उन्मत्तानां भुजङ्गानां मद्यपानाञ्च दन्तिनाम् (५) स्त्रीणां राजकुलानाञ्च विश्वसन्ति गतायुषः॥ वैरिणां(६) सह विश्वासं यो नरः कर्त्तुमिच्छति। स वृक्षाग्रेषुसंसुप्तः पतितः प्रतिबुध्यते (७)॥ धनधान्यप्रयोगेषु विद्यासंग्रहणेषु च। आहारव्यवहारेषु त्यक्तलज्जः सदा भवेत्॥ नगुरोः सदृशी माता न गुरोः सदृशः पिता। यस्तारयति संघोरं संसाराब्धिसुदुस्तरम् (८)॥ नच विद्यासमो बन्धुर्न च व्याधिसमो रिपुः। न चापत्यसमः स्त्रीहो न च दैवात् परं बलम्॥
____________________________________________________
(१) अज्ञानशिष्यशिक्षया।
(२) शत्रूणाम्।
(३) सुनीतिशिक्षया।
(४) जन इति कर्त्तृपदमूह्यम्।
(५) दन्तायुधानां व्याघ्रादीनामित्यर्थः।
(६) सम्बन्धविवक्षया षष्ठी।
(७) वृक्षशाखासुप्तोऽनवधानात् विनष्टप्रायी भूत्वा यथा जागरितो भवति तथा शत्रुं विश्वास्य आयुःविनश्यतीति भावः।
(८) संसारसमुद्रतारकतया मातृतः पितृतश्चगुरोःप्राधान्यमिति युक्तियुक्तमेवेति।
विद्या प्रवासिनो (९) मित्रं भार्य्यामित्रं गृहेषु च।
आतुरस्यौषधं मित्रं धर्म्मोमित्रं परत्र च॥
**अनभ्यासैर्हता विद्या नित्यहासैर्हता(१०) स्त्रियः।
कुबीजेन हतं क्षेत्रं भृत्यदोषैर्हतो नृपः॥ **
**यस्य पुत्त्रो न विद्वान् स्यात् न शूरो न च पण्डितः।
अन्धकारं कुलं तस्य नष्टचन्द्रेव शर्व्वरो (११)॥ **
शर्व्वरीदीपकश्चन्द्रः प्रभातदीपको रविः।
त्रैलोक्यदीपको धर्म्मःसुपुत्रःकुलदीपकः॥
**जनयितोपनेता च यस्तु विद्यां प्रयच्छति।
अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः (१२)॥ **
**गुरुपत्नी राजपत्नी मित्रपत्नी तथैव च।
पत्नीमाता स्वमाता च पञ्चैताः मातरः स्मृताः॥ **
**पुत्त्रास्तु विविधैः शास्त्रैर्नियोज्याः सततं बुधैः।
नीतिज्ञा बुद्धिसम्पन्ना भवन्ति खलु पूजिताः॥ **
**पठ पुत्त्र! किमालस्यमपठो भारवाहकः।
पठन् सम्पूज्यते राज्ञा पठ पुत्त्र! दिने दिने॥ **
गुणेषु क्रियतां यत्नः किमतोऽन्यत् प्रयोजनम्।
विक्रयन्ते न घण्टाभि (१३) र्गावः क्षीरविवर्ज्जिताः॥
___________________________________________________
(९) विदेशगतस्य। (१०) दूषिताः।
(११) शशिविरहिणीनिशीथिनीयथा न शोभते तत्कुलमपि न शोभते इति भावः। (११) प्राचीनैरिति शेषः। (१३) भूषिता इति शेषः।
नरस्याभरणं रूपं रूपस्याभरणं गुणः।
गुणस्याभरणंज्ञानं ज्ञानस्याभरणं क्षमा॥
अगुणस्यहतं रूपमशीलस्यहतं कुलम्।
असिद्धेश्चहता विद्या चाभोगस्यहतं धनम्॥
गुणो भूषयते रूपं शौलं भूषयते कुलम्।
सिद्धिर्भूषयते विद्यांभोगो भूषयते धनम्॥
सुकुले योजयेत् कन्यां पुत्त्रंविद्यासु योजयेत्।
व्यसने योजयेच्छत्रं मित्रं धर्म्मेनियोजयेत्॥
नात्युच्च शिखरो मेरुर्नातिनिम्नंरसातलम्।
व्यवसायसहायानां नातिपारो महोदधिः॥
श्लोकेन च तदर्द्धेन पादेनैकाक्षरेण च।
अबन्ध्यंदिवसं कुर्य्यात् दानाध्ययनकर्म्मसु॥
योजनानां सहस्राणि वर्त्म यान्ति पिपीलिकाः।
अगच्छन् वैनतेयो (१४) ऽपि पादमेकं न गच्छति॥
शनैरर्थाः शनैर्विद्या शनैः पर्वतलङ्घनम्।
शनैर्धर्म्मश्च कामश्च व्यायामाश्च (१५) शनैः शनैः॥
गुरुशुश्रूषया विद्यापुष्कलेन (१६) धनेन वा।
अथवा विद्ययाविद्या चतुर्थान्नोपलभ्यते॥
एकाक्षरप्रदातारं यो गुरुं नाभिमन्यते।
श्वानयोनिशतं गत्वा चाण्डालेष्वपि जायते॥
__________________________________________________
(१४) विनतानन्दनः गरुड़ इत्यर्थः।
(१५) श्रमसाधनव्यापाराः। (१६) विपुलेन।
शिल्पं शीलमनालस्यंपाण्डित्यं मित्रसंग्रहः।
अचौरहरणी(१७) विद्या षड़ेते चाक्षया नयाः( १८ )॥।
न हि जन्मनि ज्येष्ठत्वं ज्येष्ठत्वं गुणमुच्यते।
गुणा गुणतरं यान्ति (२९) पयो दधि घृतं यथा॥
किं कुलेन विशालेन गुणवान् पूज्यते नरः।
धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति॥
नावर्थीभजते नावं यावत् पारं न गच्छति।
उत्तीर्णे च गते पारे नौकायाः किं प्रयोजनम्॥
गुणाः कुर्वन्त्यदूरत्वं दूरेऽपि वसतां सताम्।
केतकीगन्धमाघ्राय स्वयं गच्छन्ति षट्पदाः॥
एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना।
कुलं पुरुषसिंहेन चन्द्रेणेव प्रकाश्यते॥
विद्यायाभाजनं कश्चित् कश्चिद द्रव्यस्यभाजनम्।
उभयोर्भाजनं कश्चित् कश्चिन्नोभयभाजनम्॥
नमन्ति फलिनो वृक्षानमन्ति गुणिनो जनाः।
शुष्ककाष्ठञ्चमूर्खश्च भिद्यते न च नम्यते॥
____________________________________________________
(१७) चौर्य्यातिरिक्ता।
(१८) श्रेयाः इति शैषः।(१९) मनुष्या इति शेषः।
रामायणम्।
सीता-प्रवासनम्।
ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः।
उवाच मैथिलीं वाक्यं प्राञ्जलिर्वाक्यसंवृतः(१)॥
हृद्गतं मे महत्श्ल्यंयस्मादार्य्येण धीमता।
अस्मिन्निमित्ते वैदेहि! लोकस्य वचनीकृतः (२)॥
श्रेयो हि मरणं मेऽद्य मृत्युर्वा यत्परं भवेत्।
न चासमीदृशे कार्य्येनियोज्यो लोकनिन्दिते॥
प्रसीद च, न मे पापं कर्त्तुम(३) र्हसि शोभने।
इत्यञ्जलिकृतो (४) भूमौ निपपात स लक्ष्मणः॥
रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः।
मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत्॥
किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण।
पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः॥
शापितोऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः।
तद्ब्रूयाः सन्निधौ मह्यम (५) हमाज्ञापयामि ते॥
वैदेह्या नोद्यमान (६) स्तु लक्ष्मणो दीनचेतनः।
अवाङ्मुखो बाष्पगलोवाक्यमेतदुवाच ह॥
___________________________________________________
(१) संवृतवागित्यर्थः
(२)निन्दनीयः कृत इत्यर्थः। वच—कर्म्मणि अनट् अभूततद्भावे च्विः।
(३) पाप कर्त्तं दोष ज्ञातुमित्यर्थः।
(४) कृताञ्चलिरित्यर्थः।
(५) ममेत्यर्थः। अथवा मह्यंब्रूयात् इति अन्वयः।
(६) प्रेर्य्यमाखः।
श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम्।
पुरे जनपदे चैव त्वत्कृते जनकात्मजे।
रामः सन्तप्तहृदयो मां निवेद्य गृहं गतः॥
न तानि वचनीयानि (७) मया देवि तवाग्रतः।
यानि राज्ञा हृदि न्यस्तान्यमर्षादपवादजात्॥
सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ (८)।
पौरापवादभीतेन ग्राह्यं देवि! न तेऽन्यथा॥
आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि।
राज्ञः शासनमादाय तथैवकिल दौर्हृदम् (९)॥
तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम्।
पुण्यञ्चरमणीयञ्चच मा विषादं कृथाः शुभे॥
राज्ञो दशरथस्यैवपितुर्मे मुनिपुङ्गवः।
सखा परमको (१०) विप्रो वाल्मीकिः सुमहायशाः॥
पादच्छाया (११) मुपागम्य सुखमस्य महात्मनः।
उपवासपरैकाग्रा वस त्वं जनकात्मजे!॥
पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि।
श्रेयस्ते परमं देवि! तथा कृत्वा भविष्यति॥
________________________________________
(७) वक्तुं शक्यानि।
(८) मम सन्निधौ अग्निपरीक्षादिभिः निर्दोषापीत्यर्थः।
(९) दौर्हृदम् आदाय गर्भिण्या अभिलषितमवश्यंकार्य्यमिति ज्ञात्वा इत्यर्थः।
(१०) श्रेष्ठः (स्यार्थेकण्)।
(११) पादच्छायां पादमूलं तत्पादतन्त्रमिति यावत्।
लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा।
परं विषादमागम्य वैदेही निपपात ह॥
सा मुहूर्तमिवासंज्ञाबाष्पपर्य्याकुलेक्षणा।
लक्ष्मणं दीनया वाचा उवाच जनकात्मजा॥
मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण।
धात्रा यस्यास्तयामेऽद्य दुःखमूर्तिः (१२) प्रदृश्यते॥
किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः।
याहं शुद्धसमाचारा त्यक्ता नृपतिना सती॥
पुराऽहमाश्रमेऽवात्सं रामपादानुवर्त्तिनी।
अनुरुद्धापि सौमित्रे दुःखे च परिवर्त्तिनी॥
सा कथं ह्याश्रमे सौम्य! वत्स्यामि विजनीकृता (१३)।
आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा॥
किं नु वक्ष्यामि मुनिषु कर्म्म चासत्कृतं च प्रभोः।
कस्मिन्कारणे त्यक्त्वा राघवेण महात्मना॥
न खल्वद्यैव सौमित्रे!जीवितं जाह्नवीजले।
त्यजेयं राजवंशस्तु भर्त्तुर्म्मेपरिहास्यते (१४)॥
यथाज्ञांकुरु सौमित्रे!त्यज (१५) मां दुःखभागिनीम्।
विदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम॥
________________________________________
(१२) दुःखमूर्त्तिःमूर्त्तिमान् दुःखसमूहः।
(१३) रामविरहितेति भावः।
(१४) विच्छिन्नोभविष्यतीत्यर्थः।
(१५) त्यज विसर्ज्जय।
श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण (१६) च।
शिरसा वन्द्य (१७) चरणौ कूशलं ब्रूहि लक्ष्मण॥
वक्तव्यश्चापि नृपतिर्धर्म्मेषु सुसमाहितः।
जानासि च यथा शुद्धा सीता तत्त्वेन राघव!॥
भक्त्या च परया युक्ता हिता च तव नित्यशः।
अहं त्यक्ता त्वया वीर अयशोभीरुणा जने॥।
यच्च ते वचनीयं स्यादपवादसमुत्थितम् (१८)।
मया च परिहर्तव्यं त्वं हि मे परमा गतिः॥
वक्तव्यश्चैवनृपतिःधर्म्मेषुसुसमाहितः।
यथा भ्रातृषु वर्त्तेथास्तथा पौरेषु नित्यदा॥
परमो ह्येष धर्म्मस्ते तस्मात्कीर्तिरनुत्तमा।
अहन्तुनानुशोचामि स्वशरीरं नरर्षभ!॥
यथापवादं पौराणां तथैव रघुनन्दन! (१९)।
पतिर्हि देवता नार्य्याःपतिर्बन्धुः पतिर्गुरुः॥
प्राणैरपि प्रियं तस्मात् भर्त्तुःकार्य्यं विशेषतः।
इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहम्(२०)॥
________________________________________________
(१६) प्राञ्चलिप्रग्रहेण प्रकृष्टाञ्जलियुक्तेन शिरोविशेषणम्।
(१७) वन्द्यइति आर्षःप्रयोगःवन्दित्वा, क्रमदीश्वरमते वद्यइति प्रयोगो भवितुमर्हति।
(१८) अपवादःनिन्दा मम असाधुत्वरूपास्यातः तस्मात् समुत्थितमुत्पन्नम्।
(१८) यधा पौराणाम् अपवादःअपगच्छेत् तथैव कुरु इत्यर्थ।
(२०) रामं प्रति मदुक्तस्य संक्षेपमित्यर्थः।
इतिब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः।
शिरसा वन्द्य (१२) धरणीं व्याहर्तुं न शशाक ह॥
प्रदक्षिणञ्चतां कृत्वा (२२) रुदन्नेव महास्वनम्।
आरुरोहच पुनर्नावं नाविकं चाभ्यनोदयत्॥
स गत्वा चोत्तरं तीरं शोकभारसमन्वितः।
संमूढ इव दुःखेन रथमध्यारुहद् (२३) द्रुतम्॥
मुहुर्मुहुः परावृत्तदृष्ट्वा सीतामनाथवत्।
चेष्टन्तीं (२४) परतीरस्थां लक्ष्मणः प्रययावथ॥
दूरस्थं रथमालोक्य लक्ष्मणञ्चमुहूर्मुहुः।
निरीक्षमाणातूद्विग्नासीताशोकंसमाविशत्॥
___________
लक्ष्मणवर्जनम्।
तथा तयोः (१) संवदतोदुर्वासा भगवानृषिः।
रामस्य दर्शनाकाङ्क्षी राजहारमुपागमत्॥
सोऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः।
रामं दर्शय मे शीघ्रं पुरा मेऽर्थोऽतिवर्त्तते॥
_______________________________________________
(२१) इति आर्षः प्रयोगः, वन्दित्वा।
(२२) प्रदक्षिणं कृत्वा आर्षः प्रयोगः प्रदक्षिणोकृत्य।
(२३) अध्यारुहत् आर्षःप्रयोग, अध्यारोहत्।
(२४) चेष्टमानाम्।
(१) तयोः कालपुरुषरामयोः।
मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा।
अभिवाद्य महात्मानं वाक्यमेतदुवाच ह॥
किं कार्य्यंब्रूहि भगवन्! को ह्यर्थः किं करोम्यहम्।
व्यग्रो हि राघव ब्रह्मन्! मुहूर्त्तं परिपाल्यताम् (२)
तच्छुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः।
उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा॥
अस्मिन् क्षणे मांसौमित्रे ! रामाय प्रतिवेदय।
विषयं (३) त्वां पुरञ्चैव शपिष्ये राघवं तथा।
भरतञ्चैव सौमित्रं युष्माकं या च सन्ततिः ( ४ )॥
न हि शक्ष्याम्यहं भूयो मन्युं (५) धारयितुं हृदि।
तच्छ्रुत्वा घोरशङ्काशं (६) वाक्यं तस्य महात्मनः।
चिन्तयामास मनमा तस्य वाक्यस्य निश्चयम्॥
एकस्यमरणमेऽस्तु माभूत् सर्व्वविनाशनम्।
इति बुद्ध्याविनिश्चित्य राघवाय न्यवेदयत्॥
लक्ष्मणस्य वचः श्रुत्वा रामः कालं (७) विसृज्य च।
निसृत्य त्वरितो राजा अत्रेः पुत्रं ददर्श ह॥
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा।
किं कार्य्यमिति काकुत्स्थ कृताञ्जलिरभाषत॥
__________________________________________________
(२) प्रतीक्ष्यताम्
(३) राज्यादिकम्
(४) तामपि शपिष्येइत्यन्वय।
(५) क्रोध मन्युर्द्देनो कृतौ क्रुधि इत्यमरः।
(६) भयजनकम्।
(७) कालपुरुषम्।
तद्वाक्यराघवेणोक्तं श्रुत्वा मुनिवरः प्रभुः।
प्रत्याह रामं दुर्ब्बासाः श्रयतां धर्मवत्सल!॥
अद्य वर्षसहस्रस्य समाप्तिर्म्ममराघव !।
सोऽहं भोजनमिच्छामि यथासिद्धन्तवानघ!॥
तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः।
भोजनं मुनिमुख्याय यथा सिद्धमुपाहरत्॥
स तु भुक्त्वामुनिश्रेष्ठस्तदत्रममृतोपमम्।
साधु रामेति सम्भाष्य स्वमाश्रममुपागमत्॥
तस्मिन् गते महाभागे प्रीतो राघवनन्दनः।
संसृत्य कालवाक्यानि (८) ततो दुःखमुपागमत्॥
दुःखेन च सुसन्तप्तः स्मृत्वा तं घोरदर्शनम्।
वाङ्मुखो (९) दीनमना व्याहर्त्तुं न शशाक ह॥
ततो बुद्ध्याविनिश्चित्य कालवाक्यानि राघवः।
नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः।
अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्नुतम् (१०)।
राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत्॥
न सन्तापं महाबाहो ! मदर्थं कर्तुमर्हसि।
पूर्वनिर्माणबद्धाहि कालस्य गतिरीदृशी॥
___________________________________________________
(८) इन्द्रेह्येतत् प्रवक्तव्यंहितं वै यदि मन्यसे। यः शृणोति समीक्षेहास बध्यो भविता तव॥
इति कालवाक्यम्॥
(९) अधोमुखः। (१०) राहुग्रस्तम्।
जहि मां सौम्य। विस्रब्धं प्रतिज्ञां परिपालय।
हीनप्रतिज्ञाः काकुत्स्थ! प्रयान्ति नरकं नराः॥
यदि प्रीतिर्महाराज ! यद्यनुग्राह्यतां मयि।
जहि मां निर्व्विशङ्कस्त्वं धर्म्मंवर्धय राघव॥
लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः।
मन्त्रिणः समुपानीय तथैव च पुरोधसः।
अब्रवीच्चतदा वृत्तं (११) तेषां मध्ये स राघवः।
दुर्व्वा सोऽभिगमश्चैव प्रतिज्ञा तापसस्य च॥
तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासतः।
वशिष्ठस्तु महातेजा वाक्यमेतदुवाच ह॥
दृष्टमेतन्महाबाहो ! क्षयन्ते रोमहर्षणम्।
लक्ष्मणेन वियोगश्च तव राम महायशः!॥
त्यजैनं बलवान् कालो मा प्रतिज्ञां वृथा कृथाः।
प्रतिज्ञायां हि नष्टायां धर्म्मोहि विलयं (१२) व्रजेत्॥
ततो धर्म्मेविनष्टे तु त्रैलोक्यं सचराचरम्।
सदेवर्षिगणं सर्वं विनश्येत्तु न संशयः॥
स त्वं पुरुषशार्दूल ! त्रैलोक्यस्याभिपालनात्।
लक्ष्मणेन विना चाद्यत्रैलोक्यंत्रातुमर्हसि॥
तेषां तत् समवेतानां वाक्यंधर्म्मार्थसंहितम् (१३)।
श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत्॥
___________________________________________
(११) वृत्तान्तम्।(१२) विलयं विनाशम्।
(१३) धर्म्मार्थसंयुक्तम्।
विसर्ज्जये त्वां सौमित्रे ! मा भूद्धर्म्मविपर्ययः।
त्यागो बधो वा विहितः साधूनामुभयं समम्॥
रामेण भाषिते वाक्येवाष्पव्याकुलितेन्द्रियः।
लक्ष्मणस्त्वरितः प्रायात् स्वगृहं न विवेश ह॥
स गत्वा सरयूतोरमुपस्पृश्य (१४) कृताञ्जलिः।
निगृह्य सर्वस्रोतांसि (१५) निश्वासं न मुमोच ह॥
अनिश्वसन्तं युक्तन्तं सशक्राः(१६) साप्सरोगणाः।
देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरन् (१७) तदा॥
अदृश्यं सर्वमनुजैःसशरीरं महावलम्।
प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं (१८) संविवेश ह॥
ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः।
हृष्टाः प्रमुदिताः सर्वे पूजयन्ति स्म राघवम्॥
गरुड़पुराणम्।
नीतिसारः।
सद्भिः (१) सङ्गं प्रकुर्वीत सिद्धिकामः सदा नरः।
नासद्भिरिह लोकाय परलोकाय चाहितम्॥
कालेऽपि रिपुणा सन्धिः काले मित्रेण विग्रहः।
कार्य्यकारणमाश्रिता कालं क्षिपति पतिः॥
______________________________________________________
(१४) आचम्य। (१५) सर्व्वस्रोतांसि सर्व्वेन्द्रियाणि। (१६) सेन्द्राः।
(१७) ववृषुः। (१८) स्वर्गम्।
(१) सज्जनैः सह।
उत्तमैः सह सङ्गत्यं पण्डितैः सह सत्कथाम्।
अलुब्धैःसह मित्रत्वं कुर्वाणो नावसीदति॥
परोऽपि हितवान् बन्धुः बन्धुरप्यहितः परः।
अहितो देहजो व्याधिः हितमारण्यमौषधम्॥
स बन्धुर्यो हिते युक्तः स पिता यस्तु पोषकः।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीवति॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमान् लोके यस्यार्थाः स च पण्डितः॥
त्यजन्ति मैत्राणि धनैर्विहीनं
पुत्राश्च दाराश्च सुहृज्जनाश्च।
ते चार्थबन्तं पुनराश्रयन्ते
चार्थोहि लोके पुरुषस्य बन्धुः॥
मनस्तापं न कुर्वीत आपदं प्राप्य मानवः।
समबुद्धिः प्रसन्नात्मा सुखदुःखे समो भवेत्॥
धीराः कष्टमनुप्राप्ताः न भवन्ति विषादिनः।
प्रविश्य वदनं राहोः किं नोदेति पुनः शशी ?॥
उदयोगः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः।
षड् विधे यस्य उत्साहस्तस्य देवोऽपि शङ्कते॥
शत्नोरपत्यानि प्रियंवदानि
नोपेक्षितव्यानि बुधैर्मनुष्यैः।
तान्येव कालेषु विपत्कराणि
विषस्य पात्राण्यपि दारुणानि (२)॥
_______________________________________________
** **(२) दारुणानि भयजनकानि।
सद्भिरासीत सततं सद्भिः कुर्वीत सङ्गतिम्।
सद्भिर्विवादं मैत्रीञ्चनासद्भिःकिञ्चिदाचरेत्॥
नापेक्षितव्यो दूर्बुद्धिःशत्रुरल्पोऽप्यवज्ञया।
बह्विरल्पोऽपि संग्राह्यःकुरुते भस्मसात् (३) जगत्॥
शौर्ये तपसि दाने वा यस्य न प्रथितं ( ४ ) यशः।
विद्यायामर्थकामे वा मातुरुच्चार (५) एव सः॥
स्वाधीनवृत्तिःसाफल्यं न पराधीनवृत्तिता।
ये पराधीनकर्म्माणो जीवन्तोऽपि च ते मृताः॥
दुर्जनस्यहि सङ्गेन सुजनोऽपि विमुह्यति।
प्रसन्न जलमित्याहुः कर्द्दमैः कलुषीकृतम्॥
लोभप्रमादविश्वासैः पुरुषो नश्यति त्रिभिः।
तस्माल्लोभो न कर्त्तव्यः प्रमादो न च विश्वसेत् ( ६ )॥
अर्थेन किं कृपणहस्तगतेन पुंसां ?
ज्ञानेन किं बहुशठाकुलसङ्कुलेन ? \।
रूपेण किं गुणपराक्रमवर्ज्जितेन ?
मित्रेण किं व्यसनकालपराङ्मुखेन ?॥
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान्।
नासमीक्ष्य(७) परं स्थानं पूर्वमायतनं ( ८ ) त्यजेत्॥
_____________________________________________________
(३) भस्मसात् भस्मीभूतमित्यर्थः।
(४) प्रथितं विस्तृतम्। (५) उच्चार विष्टातुल्यः।
(६) अपरिज्ञाताशयं कमपि जनमिति शेषः।
(७) असमीक्ष्य पर्यालोच्य। (८) आयतनम् आश्रयम्।
लुब्धमर्थेन गृह्णीयात् स्तब्ध (९) मञ्जलिकर्म्मणा।
मूर्खं छन्दानुवृत्या (१०) च यथातत्थेन पण्डितम्॥
यस्य यस्यहि यो भावः तस्य तस्यहि तं नरम्।
अनुप्रविश्य मेधावी (११) क्षिप्रमात्मवशं नयेत्॥
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च।
मज्जनं (१२) चापमानञ्च मतिमान्नप्रकाशयेत्॥
सकृद्दुष्टन्तु यम्मित्रं पुनः सन्धातु (१३) मिच्छति।
स मृत्युमुपगृह्णाति गर्भमश्वतरी तथा॥
ध्रुवोपाख्यानम्।
सुनन्द उवाच।
उत्तानपादनामासीन्मनोः स्वायम्भुवस्य वै।
तनयः सुनयः सर्वराजाचारसमन्वितः।
द्वे चास्य भार्य्ये (१) सुन्दर्य्यौसुनोतिः सुरुचिस्तथा॥
सुरुच्यामुत्तमो ज्येष्ठः सुतस्तस्यमहात्मनः।
सुनीत्यान्तु ध्रुवो जज्ञेकनीयान् प्रगुणाधिकः॥
सुरुच्यां प्रेमवान् राजा सुनीत्यां नैव तादृशः॥
____________________________________________________
(९) स्तश्च बधिरम्।
(१०) छन्दानुवृत्यातदभिप्रायानुगमनेन। (११) मेधावी सुबुद्धिमान्।
(१२) मज्जनं तिरस्कारम्। (१३) सन्धातुं संयोजयितुम्।
(१) आस्तामिति शेषः।
एकदा तु महाराजः सुरुच्या सह लालयन्।
प्रेम्णोत्तमं नाम सुतं वसन्नासीत् वरासने॥
तद्विलोक्य ध्रुवस्तातं राजसिंहासनाश्रितम्।
आरोक्ष्यन्नङ्क (२) मेतस्यशनै (३) रुपजगाम ह॥
अर्द्धासनमथारूढ़ं ध्रुवं दृष्ट्वा महीपतिः।
तातैर्न्वत्स पुत्रेति अभ्यनन्दत (४) भूपतिः॥
तद्विलोक्य कटाक्षेण ध्रतीव प्रेक्ष्यभूपतिम्।
उवाच निष्ठुरां वाचं स्तब्धे(५) शृण्वति राजनि॥
वत्स ध्रुव ! किमारीढुमिच्छस्यङ्गं महीपतेः।
बाल ! बालिशया बुद्ध्यादुर्भागाजठरोद्भवः॥
अस्मिन् सिंहासने वस्तुं न त्वया सुकृतं कृतम्।
यदि वाञ्छसि पुत्र त्वमेतन्नाम नृपासनम्॥
तपसा विष्णुमाराध्य सुकृतानि विधाय च।
मद्गर्भे साधयात्मानं (६) बरसौभाग्यभाजने॥
पश्योत्तममिमं वत्स ! तवैव भ्रातरं नृपः।
स्वाङ्गमारोप्य सुस्निग्धः परमानन्दनिर्वृतः॥
एवमुक्तः स राजेन्द्रस्तया स परिभर्त्सितः।
पतन्नियम्य बाष्पाम्बु धैर्य्यात् किञ्चिन्न चोक्तवान्॥
_____________________________________________________
(२) अहंक्रोडदेशम्। (३) शनैःमन्दं मन्दम्।
(४) अभ्यनन्दत इत्यचात्मनेपदमार्षम्।
(५) तब्धोनिष्पन्दः सन् किमपि वक्तुमसमर्थे !
(६) साधय पुनर्जन्मग्रहणं कुरु।
राजापि किञ्चिन्नोवाच महिष्याः प्रेमयन्त्रितः॥
ध्रुवः प्रणम्य पितरं शोकं संहृत्य (७) चेष्टितैः।
शैशवैरेव धर्म्मात्मा श्वसन्नन्तर्ययौ गृहम्॥
सुनीतिस्तनयं प्रेक्ष्य बिम्लानमुखपङ्कजम्।
अङ्कमारोप्य कृपया ध्रुवं समबमानितम्।
अभिमृज्य च तं बालं मूर्ध्न्युपाघ्राय चासकृत् (८)।
किञ्चित् परिम्लानमुखी पुत्रं पप्रच्छ भूपतेः॥
कथं वत्साद्य ते वक्त्रंपरिम्लानमिवेक्षते।
केन किं कृतमद्येह वद वत्स ! तवाप्रियम्॥
इत्युक्तः स जनन्या वै रुरोद नृपबालकः।
दीर्घंनिःश्वस्यबहुशो वक्तुं किञ्चिन्न चासकृत्॥
माताह वत्स ! मा रोदीर्व्वद विप्रियकारणम्।
विद्यमाने नरपतौ वत्स ! केनावमानितः ?।
अपोऽथ समुपस्पृश्य प्रमृज्याश्रूणि नेत्रयोः।
मात्रा पृष्टोऽपि निर्व्वन्धात् ( ९) ध्रुवस्तां प्रत्यभाषत॥
संपृच्छे जननि ! त्वाहं कथय त्वं न वै मृषा।
भार्य्यात्वेऽपि च सामान्ये(१०) कथं सा सुरुचिः प्रिया॥।
कथं न भवती मातः ! प्रिया क्षितिपतेरसि।
कथमुत्तमतां (११) प्राप्त उत्तमः सुरुचेः सुतः॥
____________________________________________
(७) नियम्य संरुध्यइति यावत्।
(८) असकृत् पुनः पुनः। (९) निर्बन्धात् अतियत्नात।
(१०) सामान्ये साधर्म्मे(११) उत्तमताम् उत्कृष्टताम्।
कुमारत्वेऽपि सामान्येकथं वाहमनुत्तमः।
सुकुक्षिः सुरुचिः कस्मान्मन्दभाग्यासि वा कथम् ? \।
कथं नृपासनार्होऽयमुत्तमो नाहमेव च॥
उत्तमेन कृतं किं नुसुकृतं किं मया पुनः।
दुष्कृतं वा कृतं राज्ञि।तन्मेकथय सुव्रते !॥
इति श्रुत्वा वचस्तस्यसुनीतिः स्वसुतस्यवै।
वक्तुं तमुपचक्राम (१२) त्यक्त्वासापत्न्यभाषितम् (१३)॥
सुनीतिरुवाच।
अयि तात महाबुद्धे! विशुद्धेनान्तरात्मना (१४)।
निवेदयामि ते सर्व्वं मावमाने मतिं कृथाः॥
तया यदुक्तं तत् सर्वं तथ्यमेव (१५) न चान्यथा।
सा हि राज्ञो महाराज्ञी महिषी चातिवल्लभा॥
तया जन्मान्तरे तात ! यत् पुण्यं समुपार्जितम्।
तत्पुण्योपचयाद्राजा सुरुच्यां प्रेमवान् भृशम्॥
मादृशो मन्दभाग्या याः प्रमदाः सुप्रतिष्ठिताः।
केवलं राजपत्नीत्ववादस्तासु न तत्प्रियाः॥
सुकृतैरर्जितैः पूर्वमुत्तमोत्तमोदरे।
उवाच तस्याः पुण्याया नृपसिंहासनोचितः॥
_______________________________________________
(१२) उपचक्राम उपचक्रमे आरब्धवती, परस्मैपदमार्षम्।
(१३) सापत्नप्रभावितं शत्रुताभावम्।
(१४) विशुद्धेनान्तरात्मना निर्म्मलान्तःकरणेन।
(१५) सत्यं।
चन्द्राभमातपत्रञ्च शुभे चापि च चामरे।
भद्रासनं तथोच्चञ्च तुरङ्गाश्च मदोद्धुराः(१६)॥
निःसपत्नंशुभंराज्यं सौभाग्यंसर्वसम्पदः।
सुकृतैरेव जायन्ते सिद्धिर्मानसिकीतथा॥
मानापमानयोस्तात ! सुकृतं कारणं परम्॥
ध्रुव उवाच।
मा बाल इति मत्वा मामवमंस्थास्तपस्विनि!
यद्यहं मानवे वंशे जातोऽस्म्यत्यन्तपावने।
उत्तानपादतनयस्तदीयोदरसम्भवः॥
तप एव हि चेन्मातः! कारणं सर्वसम्पदाम्।
ततोऽहं साधयिष्यामि पदमन्यैर्दुरासदम् (१७)।
अनुज्ञां देहि मे मातराशीर्भिरभिनन्दय॥
साभिज्ञाय कुमारं तं महावीर्य्यंस्वकुक्षिजम्।
उवाच नाहं शक्तास्मि त्वामनुज्ञातुमात्मना॥
क्व पञ्चवर्षबालोऽसि क्व तपोऽतिसुदुष्करम्।
दुराराध्यो हि गोविन्दस्ततो बालक ! वारये॥
त्वदेकतनया तात ! त्वदाधारैकजीविता ( १८ )।
त्वमन्धयष्टिरसि मे शरणं मे त्वमेव हि॥
____________________________________________________________
(१६) मदोद्धुरा मदोद्धताः मदमत्ता इत्यर्थः।
(१७) दुरासदम् दुष्प्रापम्।
(१८) त्वदाधारस्तदाश्रयः एवं केवलं जीवितं यस्याः सा तन्मात्रैकावलम्बनजीविता इत्यर्थः।
स्तब्धोऽसि कतिभिः कृच्छ्रैरिष्ट्यासंप्रार्थ्यदेवताः।
स त्वं वत्स ! कथं याया मां विहाय सुदुःखिनीम्॥
ध्रुव उवाच।
नाहं जीवामि भो! मातस्तत्सपत्न्यायदीरितम्।
प्रविश्य तन्मे हृदयं शरवन्मर्म्म(१८) कृन्तति।
नावमानात् परं दुःखं क्षत्त्रियस्य विशेषतः।
सोऽहमाराधयिष्यामि सर्वदुःखहरं हरिम्॥
सुनन्द उवाच।
सा विमृष्य सुतस्याथ द्विधैव प्राणधारणम्॥
दुष्करं तत्तपस्येव शुभं प्राणवियोजनम्॥
अथोवाच ध्रुवं राज्ञीरुदती करुणं बहु।
गच्छाराधय गोविन्दं तपसा परमेण हि॥
कुशलाः सन्तु पन्थानो देवा रक्षन्तु सर्व्वथा।
सायाभीप्सितं वत्स ! त्वरयास्तु समागमः॥
इत्यनुज्ञां स्वमातुर्वै लब्ध्वाराजकुमारकः।
प्रतस्थे तपसेऽरण्यंहृदयेन विदूयता (२०)॥।
स्वसौधात् स विनिर्गत्य बालोऽबालपराक्रमः।
अनुकूलेन मरुता दर्शिताध्वा महामनाः॥
स मातृदैवतोऽभिज्ञः केवलं राजवर्त्मनि।
न वेद काननाध्वानं क्षणंदध्यौ नृपात्मजः॥
_________________________________________________________________
(१९) मर्म्मजीवनाधारम्।
(१०) विदूयता आर्षप्रयोगः विदूयमानेन परितप्यमानेन हृदयेनोपवचितः, विशेषणेतृतीया।
शिबिराजोपाख्यानम्।
शेष उवाच।
अथाख्यास्ये(१) महाभागः शिविसौशीनरो यथा।
प्राप स्वर्गं महाराजः पुण्यात्मा भुवि विश्रुतः।
स चाश्वमेधं राजर्षिः शिविरीशीनरोऽकरोत्॥
यत्र यज्ञेमहाभागा मुनयश्च तपोधनाः।
पराशरो गालवोऽत्रिर्बशिष्टो जाजलिस्तथा॥
पञ्चैते धर्म्मसहिता (२) ऋत्विजो (३) विजितेन्द्रियाः।
अन्येमहर्षयः सर्वे सदस्याः सर्व्वतः स्थिताः॥
यो यमिच्छति कामं वै शिविः सर्वमपूरयत्।
नापूर्ण कामस्तत्रासीत् यज्ञेतस्य महात्मनः।
ग्रामान्रथान् गजानश्वान् कन्या दासीरलङ्कृताः।
अददद्ब्राह्मणेभ्योऽसौधेनुः शतसहस्रशः॥
सर्वे शशं सुस्तं यज्ञंमहेन्द्रादतिशायनम्।
देवाश्चसर्वे तत्रासन् मूर्तिमन्तः महाग्नयः॥
परीक्षमाणस्तद्धर्म्मंमहेन्द्रः श्येनतां गतः।
कपोतरूपमग्निञ्च पर्य्यधावत वेगवान्॥
उरुंराज्ञः समासाद्य कपोतः श्येनजाद्भयात्।
शरणार्थी महाभाग! निलित्ये भयविह्वलः॥
___________________________________________________________
(१) आख्यास्येआख्यास्यामि आत्मनेपदमार्षम।
(२) धर्म्मसहिताः धार्म्मिकाः।
(२) ऋत्विजःयाजकाः ऋत्विजो याजकाश्चते इत्यमरः।
श्येनो बेगेन धावन् वै शिवेरूरुमुपाश्रितम्।
दृष्ट्वा कपोतमुद्भ्रम्य राजानमिदमब्रवीत्॥
धर्म्मात्मासि महाराज! सर्वैरेव त्वमुच्यसे।
कयं धर्म्मविरुद्धं बैकर्म्माचरसि शत्रुहन् !॥
जन्तूणां विविधा राजन्राहाराः परिकल्पिताः।
तेन बिश्वसृजा सृष्टेः प्रागेव परिमृष्यता॥
मनुष्याणां यथा ह्यन्नंदेवानाममृतं तथा।
पशूनाञ्च तृणान्येबव्याघ्रादीनाञ्चजन्तवः॥
पक्षिणाञ्च तथाहारः प्रतिजाति विशेषतः।
तत्रास्माकं महाराज ! कपोताद्यानिरूपिताः॥
आहारत्वेन तेनैव जीवनार्थं हि वेधसा।
विहितं भक्षणंधात्रा पीड्यमानस्य वै क्षुधा (४)॥
मारक्षोद्धर्म्मलोभेन (५) नैतद्धर्म्मस्यकारणम्॥
मम सप्तदिनान्येव क्षुधितस्यगतानि वै।
निराहारस्य राजेन्द्र ! तद्भवाननुमोदताम्॥
शिविरुवाच।
त्रासितोऽयं त्वया पक्षी मामेव शरणं गतः।
शरणागतमेनं हि कथं त्यक्ष्ये(६) भयान्वितम्॥
एतस्य रक्षणे धर्म्ममहान्तं किं न पश्यसि।
पस्पन्दमानः संभ्रान्तः कपोतः श्येन जायते॥
____________________________________________________
(४) क्षुधा क्षुधया तृतीयान्तं पदम्। (५) कपोतमिति शेषः।
(६) त्वक्ष्ये त्यक्ष्यामि, आत्मनेपदमार्षम्।
जीवितार्थी ममाभ्यासे तस्य त्यागो विगर्हितः।
यत्पापं ब्रह्महत्यायां दोग्धीं हत्वा च यद्भवेत्।
शरणागतसंत्यागे तदेव पातकं नृणाम्॥
श्वेनउवाच।
आहारात् सर्वभूतानि प्रभवन्ति महीपते!
अहारेणैव वर्द्धन्ते आहारैः प्राणधारणम्॥
स्रक्चन्द्रनानुलेपाद्यैर्बसनाभरणादिभिः।
न जीवो रक्षितुं शक्यो विनाहारेण पार्थिव !॥
आहारेण विना प्राणा मम यास्यन्ति सम्प्रति।
मां विना मम ये दाराः पुत्त्राश्च पितरौ तथा।
सर्वे प्राणान् विमोक्ष्यन्ति विनाहारेण भूमिप !॥
एकं कपोतं रक्षस्त्वं हंसि प्राणान् वहूनपि॥
धर्म्मार्थमपि यत् कर्म्मधर्म्मानन्यान् प्रपीड़येत्।
न स धर्म्मइति प्रोक्तो विधर्म्मःस महीपतेः!॥
अविरोधेन यो धर्म्मउत्तमः स हि कीर्त्तितः।
विरोधिषु महीपाल ! विचार्य्यगुरुलाघवम्।
वाधीन यत्र दृश्येततं धर्म्मंसमुपाचरेत्।
गुरुलाघवविज्ञानं धर्म्माधर्म्मेषुशस्यते।
यतो भूयांस्ततो राजन् ! वर्त्तितव्यंभवादृशः॥
राजोवाच।
बहुकल्याणसंयुक्तंभाषसे वचनं खग !।
सुपर्णः(७) पक्षिराजस्त्वंनान्यो भवितुमर्हसि॥
______________________________________________
(७) सुपर्णः गरुड़ःसुपर्णे गरुडस्तार्क्ष्यःइत्यमरः।
तथा हि ते वचः सोम्य ! (८) धर्म्मसन्तानसंयुतम् (९)
धर्म्मज्ञोऽसि महाभाग ! न तेऽस्त्यविदितं क्वचित्।
शरणागतसन्त्यागं कथं बह्वभिमन्यसे॥
आहारार्थं समारम्भो यदि तेऽयं विहङ्गम् !।
शक्यःकर्त्तुंमया सोऽपि बहुधैव तवाधुना॥
गोवृषो वा वराहो वा भृगो वा महिषोऽपि वा।
यं यं कामयसे पक्षिन्! तं ते सम्पादयाम्यहम् ( १० )।
नैनं तक्तुमहं शक्ष्येभयेन शरणागतम्॥
श्येन उवाच।
नवराहं वृषं वापि न मृगान् महिषानथ।
भक्षयामि महाराज ! किं तैर्म्मेये त्वदीरिताः॥
विधात्रा विहितो भक्ष्यः कपोतः क्षत्रियर्षभ !
तं विहायामृतमपि त्वहं भक्ष्यंन कामये।
तमुत्सृज महीपाल ! विधिना कल्पितं मम।
श्येनःकपोतमत्तीति को न जानाति भूतले ?॥
राजोवाच।
राष्ट्रं शिवौनामृद्धिंबै ददामि तव (११) खेचर!।
यच्च कामयसे कामं श्येन। सर्व्वं ददामि ते॥
विनेमं पक्षिनं भीतं शरनार्थिनमागतम्।
________________________________________________________
(८) सौम्य साधो ! शेनसम्बोधनम्। (९) धर्म्मसन्तानं धर्म्मबहुलम्।
(१०) सम्पादयामि अर्पयामि।
(११) तत्र तुभ्यं सम्बन्धविवक्षया षष्ठी।
येन कामेन ते पक्षिंस्त्याजोऽयं हि कपोतकः।
तद्वदस्वददाम्येष तं कामं न कपोतकम्॥
श्येन उवाच।
महाराज ! कपोते ते यदि स्नेहोऽधिको भवेत्।
आत्मनो मांसमुत्कृत्य कपोतेन तुलार्पितम्।
समं कृत्वा ददस्वाद्य तेन तृप्तिर्भवेन्मम॥
राजोवाच।
अनुग्रहमिमं मन्ये श्येन ! यम्मा *भिभाषसे॥
दास्यामि मांसं देहस्य कपोतेन तुलाधृतम्॥
श्येष उवाच।
अथ मांसं स्वमुत्कृत्य राजा परमधार्म्मिकः।
तुलयामास (१२) तुलया (१३) कपोतेन समं द्विज !॥
दीयमाने ततो मांसे गात्रादुत्कृत्य भूभृता।
अतिरिक्तः कपोतोऽभूत् भूयो मांसमदात् नृपः॥
न पर्य्याप्तंयदा मांसं कपोतेन समं द्विज !।
निर्म्मांसोऽथ स भूपाल चारुरोह स्वयं तुलाम्॥
श्येनउवाच।
मा कार्षीः साहसं (१४) राजन्निन्द्रोऽहं समुपागतः।
परीक्षितुं त्वां धर्म्मेषुकपोतोऽग्निरयं स्वयम्॥
________________________________________________________
* मा इति आर्षप्रयोगः मामित्यर्थः।
(१२) तुलयामास समञ्चकार। (१३) तुलयातुलादर्धेन।
(१४) साहसंआत्मार्पणरूपमनुचितकार्ध्यम्।
यदुत्कृत्य स्वमांसानि त्वया दत्तानि भूपते।
एषा ते महती कीर्त्तिर्लोकानभिभविष्यति॥
यावल्लोके मनुष्यास्तत् कथयिष्यन्ति पार्थिव !।
तावत् कीर्त्तिश्च वासश्चत्रिदिवे ते भविष्यति॥
देहश्च ते महाराज ! नोरुजः प्रकृतो भबेत्।
इत्युक्त्वास महीपाल मारुरोह दिवं पुनः॥
साधु साधु महाराज ! कोर्त्तिस्ते विपुला भुवि।
कृपालुस्त्वत्समो राजा न भूतो न भविष्यति।
इत्युक्त्वान्तर्दधे विप्र। राजापि कृतवान् क्रतुम् (१५)
समाप्तयज्ञो नृपतिः स्वपुरं प्रतिजज्ञिबान्।
उपविष्टः स राजर्षिः कञ्चिद्ब्राह्मणमागतम्।
दृष्ट्वा दरिद्रं क्षीणञ्चबिम्लानं कुपटावृतम्।
देहि देहीति याचन्तं पप्रच्छ पुरतः स्थितम्॥
किमिच्छसि द्विज!त्वं हि निर्भयां वद मां प्रति।
यदिच्छसि तदेवाहं ददामि तव तुष्टये॥
ब्राह्मण उवाच।
क्षुधितोऽहं महाराज। भोक्तुमिच्छामि साम्प्रतम्।
जानीहि मां सदा त्वं हि संप्राप्तं ब्रह्मराक्षसम्॥
लालसा (१६) महतीजाता तव दृष्ट्वासुतं नृप !।
नवयौवनसम्पन्नं रूपेणाप्रतिमं भुवि॥
_________________________________________________________
(१५) क्रतुं यज्ञम्।
(१५) लालसा स्पृहा।
तं निहत्य स्वयं राजन् खड्गेननिशितेन (१७) वै।
संस्कृत्य चात्मना मह्यं भक्ष्यं देहि महीपते !॥
राजा तु तत् प्रतिश्रुत्य विचार्येवाब्रवीद् द्विजम्।
यथा करोमि ते ब्रह्मन्नातिथ्यं तव मद्गृहे॥
द्विजस्ताह कुरुष्व त्वं यन्मदर्थं प्रतिश्रुतम्॥
माध्याह्निकाय (१८) गच्छामि नदीं निकटवाहिनीम्।
इत्युक्ता स गतो विप्रो राजापि तनयं नतः।
असिनाहत्य संस्कारं स्वयमेव चकार ह॥
यदा नायात् द्विजः सोऽपि तदा व्यग्रा( १९) महीपति।
शिरसादाय तद्भक्ष्यंनदीतीरं जगाम ह॥
तत्रान्वेष्य द्विजं तञ्च भ्रमति स्म नदीतटे।
तावद्दूतः समागत्यतमाह नृपतिं तदा॥
राजन् ! स एव बिप्रस्ते योऽसौ ब्राह्मणराक्षसः।
पुरं दहति दीप्तेन वह्निना ज्वालमालिना॥
दग्धं प्राप्तं पुरं सर्व्वं यथारुचि तथा कुरु॥
तत्श्रुत्वा स नृपः क्षिप्रं तथैव शिरसा बहन्।
संस्कृतं मांसमस्यैव तृप्त्यर्थं पुरमागमत्॥
तं द्विजं समुपागम्यजगाद कृपणं बचः।
कथं क्रुद्धोऽसि भगवन्नेतत्ते भक्ष्यमुत्तमम्॥
______________________________________________________
(१७) निशितेन शाणितेन।
(१८) माध्याह्निकाय मध्याह्नसन्ध्याद्युपासनार्थम्।
(१९) व्यग्रःव्याकुलः।
यथोक्तमेव सम्पन्नंभुङ्क्ष्वकालात्ययोऽस्तु न॥
तत् श्रुत्वा स द्विजः प्राह श्रद्धा ते ह्यतिथौ परा।
ब्राह्मणे सुतरां राजन् ! मद्वचः पालयाधुना॥
इदं यत् संस्कृतं मांसं तत्भुङ्क्ष्वस्वयमेव हि।
तेन मे विपुला प्रतिस्तृप्तिश्चकिल शाश्वती॥
इत्युक्तः स तथा कर्तुं प्रवृत्तोऽसौ यदा नृपः।
तदा स ब्राह्मणीहस्तं जग्राह च जगाद च॥
अहं प्रजापतिब्रह्मा त्वमायातः परीक्षितुम्॥
सिद्धोऽसि परमोदारः स्वर्गे बासस्तवाक्षयः।
पुरञ्च पश्य सकलं हाटकेन (२०) विनिर्म्मितम्॥
इत्युक्तवति तस्मिन् व देवदेवे जगत्पतौ।
आजगाम स एवास्य कुमारो यौवनान्वितः॥
ववन्दे पितरं तञ्च ब्राह्मणञ्च पुरस्थितम्।
अन्तर्दधेऽथ भगवान् ब्रह्मा विश्वसृजां पतिः॥
स राजा तनये न्यस्य (२१) राज्जंवनगतः स्वयम्।
भौतिक देह मुत्सृज्य जगामत्रिदशालयम्॥
_____________________________________________________
( २० ) हाठकेन्सुवर्णेन।
(२१) न्यस्य निक्षिप्य।
सम्पूर्णम्।
]