[[साहित्यसुधासंग्रहः (तृतीयबिन्दुः) Source: EB]]
[
[TABLE]
[TABLE]
* ओ३म् *
* साहित्य सुधा संग्रहस्य*
तृतीय बिन्दोर्भूमिका
अयिसतत सुरभारतीहितनिहितमतयः सहृदय महोदयाः!
अद्य हि करुणावरुणालयस्य जगदीशितुः परमपितुः निरवग्रहाऽनुग्रहेण श्रीमतां करकमलयो रुपहारी क्रियतेऽयं तृतीयो बिन्दुः। अस्मिन्हि—पौरुषेयैरप्यपौरुषेयैः महतो भूतस्यनिःश्वसितभूतैरपि श्रुतिमयैः वेदमन्त्रैरुपक्रम्य गीर्वाणगिरः प्रथितयशमां कतिपयप्रधानमहाकवीनां दृश्यकाव्येभ्यः प्रकृष्टतमास्ते तेंऽशाः संगृहीता यै यस्य बिन्दो रुपादेयता मार्मिकाणां सर्वसम्मता स्यात्। कालिदासभवभूती हि संस्कृतसाहित्यनभसः सूर्याचन्द्रमसा विति निर्विवादम्। तत्र च श्रीकालिदासस्य शाकुन्तलकथानकं प्रायः कवेरक्षरै रेव चम्पूस्वरूपे निवेश्य प्रथमबिन्दौ विन्यस्तम्। अधुना च “उत्तरे रामचरिते भवभूति र्विशिष्यते" इत्युक्त्यनुसारं संस्कृतसाहित्यस्य समुज्ज्वलतमरत्नं भवभूतिप्रणीतं उत्तररामचरितं इह प्रायः साकल्येनैवसंगृहीतम्। यतोहि कस्याप्येकस्याविकलस्यनाटकस्य पठनमन्तरेण नाटकानां सौन्दर्यं सम्यगनु भवितुं न शक्यते। उत्तररामचरितस्य तृतीयाङ्कगताः केचनाँऽशाः कवेः सर्वस्वभूता अपि नववयस्कविद्यार्थिनां कृतेऽतिगम्भीरत्वादनुपयुक्तत्वाच्च परित्यक्ताः। सर्वत्रैव च प्राकृतभाषामयानंशान् विहाय तेषां संस्कृताऽनुवाद एव स्वीकृतः। अस्मिन्हि संगृहीतांशाः कवीनां कालक्रमेण न निहिताः। अपितु मुद्रणे शीघ्रतावशा द्विशिष्टक्रमस्य भङ्ग एव जातः।
भवभूतिकविताविषये किमपि कथनं दीपेन सूर्यस्य प्रकाशनमिवेति कृतं तत्रवचनव्ययेन। अपरेऽपि जयदेव मुरारि शूद्रकादयः कविमूर्धन्या भारतस्य गौरवहेतव एव। तेषां नाटकेभ्यः प्रसन्नराघव, मुद्राराक्षसा ऽनर्घराघव भर्तृहरि निर्वेद, प्रबोध चन्द्रोदय, मृच्छकटिक प्रभृतिभ्योऽपि समुपात्ता लघवोंऽशा उत्कूष्ठकवित्वद्योतका मनोरञ्जकाः शिक्षा प्रदाश्च सन्ति।
निर्दिष्टकवीनां, तत्कवितायाश्च विषये किंचित्प्रतिपादनं प्राप्तावसर मपि विस्तरभिया, अन्यत्र करिष्यमाणत्वाच्च नाऽत्रक्रियते। अन्ते च सहजसौजन्यधन्यामान्याः समभ्यर्थ्यन्ते यदस्मदीयमति दोषेण, शीघ्रतावशेन, यन्त्रालय प्रमादेन च जातान्यत्र स्खलितानि, तानि क्षन्तव्यानि प्रेक्षावद्मि श्रीमद्मिरिति।
** गुरुकुल काँगड़ी
श्रीमता माश्रवौ
श्रीशिवरात्री चतुर्दश्याम्
श्री भवानी प्रसादः
संवत् १६८३ वैक्र०
श्री वागीश्वरश्च**
| **विषयाः ** |
| १. ईश्वर-प्रार्थना |
| २. शिव संकल्प प्रार्थना |
| ३. कस्मैदेवाय हविषा विधेम |
| ४. सर्वमेधाध्यायः |
| प्रसन्नराघवतः |
| ५. कुब्जकवामनकसंवादः |
| ६. रामपरशुरामसंवादः |
| उत्तररामचरितम् |
| ७. प्रथमोऽङ्कः |
| ८. द्वितीयोऽङ्कः |
| ९. तृतीयोऽङ्कः |
| १०. चतुर्थोऽङ्कः |
| ११. पञ्चमोऽङ्कः |
| १२. षष्ठोऽङ्कः |
| १३. सप्तमोऽङ्कः |
| अनर्घ राघवात् |
| १४. प्रभात वर्णनम् |
| १५. अहल्यो द्धारः |
| विषयाः |
| १६. सिद्धाश्रम वर्णनम् |
| १७. ताडकादि वधः |
| १८. चन्द्र वर्णनम् |
| भर्तृहरि निर्वेदम् |
| १९. तृतीयोऽङ्कः |
| मुद्राराक्षसतः |
| २०. राक्षस विषादः |
| प्रबोधचन्द्रोदयतः |
| २१. द्वितीयोऽङ्कः |
| मृच्छकटिकात् |
| २२. सन्धिच्छेदः |
| अभिज्ञान शाकुन्तलात् |
| २३. प्रातः कालवर्णनम् |
| २४. सुभाषितानि |
इति अनुक्रमणिका
* नाटकप्रयोजनम् *
देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषं
रुद्रेणेदमुमाकृत व्यतिकरे स्वाङ्गे विभक्तं द्विधा।
त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते
नाट्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम्॥
(श्रीकालिदासस्य)
**ओ३म् **
साहित्य-सुधा-संग्रहः
तृतीयो बिन्दुः
तेजोऽसि तेजो मयि धेहि।
वीर्यमसि वीर्यं मयि धेहि॥
बलमसि बलं मयि धेहि।
ओजोऽस्योजो मयि धेहि॥
मन्युरसि मन्युं मयि धेहि।
सहोऽसि सहो मयि धेहि॥
यजु० १६।६
* शिवसङ्कल्प प्रार्थना*
यज्जाग्रतो दूरमुदैति दैवं,
तदु सुप्तस्य तथैवैति।
दूरङ्गमं ज्योतिषां ज्योतिरेकं
तन्मे मनः शिवसङ्कल्पमस्तु॥१॥
येन कर्माण्यपसो मनीषिणो-
यज्ञे कृण्वन्ति विदथेषु धीराः।
यदपूर्वं यक्षमन्तः प्रजानां
तन्मे मनः शिवसङ्कल्पमस्तु॥२॥
यत्प्रज्ञानसुत चेतो धृतिश्च
यज्ज्योतिरन्तरमृतम्प्रजासु।
यस्मान्न ऋते किञ्चन कर्म क्रियते
तन्मे मनः शिवसंकल्पमस्तु॥३॥
येनेदं भूतं भुवनं भविष्यत्
परिगृहीतममृतेन सर्वम्।
येन यज्ञस्तायते सप्त होता
तन्मे मनः शिवसंकल्पमस्तु॥४॥
यस्मिन्नृचः साम यजूंषि यस्मिन्
प्रतिष्ठिता रथानाभाविवाराः।
यस्मिँश्चित्तं सर्वमोतं प्रजानां
तन्मे मनः शिवसंकल्पमस्तु॥५॥
सुषारथिरश्वानिव यन्मनुष्यान्
नैनीयतेऽभीशुभिर्वाजिन इव।
हृत्प्रतिष्ठं यदजिरं जविष्ठं
तन्मे मनः शिवसंकल्पमस्तु॥६॥
______ यजु० ३६ अध्यायः।
* कस्मै देवाय हविषा विधेम *
**हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम॥ **
**ऋ. १०। १२१। १॥ **
**य आत्मदा बलदा यस्य विश्व उपासते प्रशिपं यस्य देवाः।
यस्य च्छायाऽमृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम॥ **
**ऋ. १०। १२१। २॥ **
**यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव।
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम॥ **
**ऋ. १०। १२१। ३॥ **
**यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाऽऽहुः।
यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम॥ **
**ऋ. १०। १२६। ४॥ **
**येन द्यौ रुग्रा पृथिवी च दृढा येन स्वःस्तभितं येन नाकः।
यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम॥ **
**ऋ. १०। १२१॥ ५॥ **
**यं क्रंदसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने।
यत्राऽधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम॥ **
**ऋ. १० \। १२१॥ ६॥ **
**आपो ह यद् बृहतीर्विश्वमायन् गर्भं दधाना जनयन्तीरग्निम्।
ततो देवानां समवर्ततासुरेकः कस्मै देवाय हविषा विधेम॥ **
**ऋ. १०। १२१। ७॥ **
**यश्चिदापो महिना पर्यपश्यद्दक्षं दधाना जनयन्तीर्यज्ञम्।
यो देवेष्वधि देव एक आसीत् कस्मै देवाय हविषा विधेम॥ **
ऋ. १०। १२१। ८॥
मा नो हिंसीज्जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान।
यश्वापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम॥
ऋ. १०।१२१।९॥
प्रजापते! न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव।
यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम्॥
ऋ. १०।१२१।१०॥
यस्य द्यौरुर्वी पृथिवी च मही यस्याद उर्वन्तरिक्षम्।
यस्यासौ सूरो विततो महित्वा कस्मै देवाय हविषा विधेम॥
अ० ४।२।४॥
* सर्वमेधाऽध्यायः *
तदेवाऽग्निस्तदाऽऽदित्यस्तद्वायुस्तदु चन्द्रमाः।
तदेव शुक्रं तद्ब्रह्म ता आपः स प्रजापतिः॥१॥
सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि।
नैनमूर्ध्वं न तिर्य्यञ्चं न मध्ये परिजग्रभत्॥२॥
न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः।
हिरण्यगर्भ इत्येष, मा मा हिं सीदित्येषा,
यस्मान्नजात इत्येषः॥३॥
एषो ह देवः प्रदिशोऽनु सर्वाः
पूर्वो ह जातः स उ गर्भे अन्तः।
स एव जातः स जनिष्यमाणः
प्रत्यङ् जनास्तिष्ठति सर्वतोमुखः॥४॥
यस्माज्जातं न पुरा, किञ्चनैव
य नाबभूव भुवनानि विश्वा।
प्रजापतिः प्रजया संरराण-
स्त्रीणि ज्योतींषि सचते स षोडशी॥५॥
येन द्यौ रुग्रा पृथिवी च दृढ़ा
येन स्वःस्तभितं येन नाकः।
यो अन्तरिक्षे रजसो विमानः
कस्मै देवाय हविषा विधेम॥६॥
यं क्रंदसी अवसा तस्तभाने
अभ्यैक्षेतां मनसा रेजमाने।
यत्राऽधि सूर उदितो विभाति
कस्मै देवाय हविषा विधेम॥७॥
वेनस्तत्पश्यन्निहितं गुहा सत्-
यत्र विश्वं भवत्येकनीडम्।
तस्मिन्निदं सञ्च वि चैत सर्वं
स ओतः प्रोतश्च विभूः प्रजासु॥८॥
प्र तद्वोचेदमृतं नु विद्वान्
गन्धर्वो धाम विभृतं गुहा सत्।
त्रीणि पदानि निहिता गुहास्य
यस्तानि वेद स पितुः पितासत्॥९॥
स नो बन्धुर्जनिता स विधाता
धामानि वेद भुवनानि विश्वा।
यत्र देवा अमृतमानशाना-
स्तृतीये धामन्नध्यैरयन्त॥१०॥
परीत्य भूतानि परीत्य लोकान्
परीत्य सर्वाः प्रदिशो दिशश्च।
उपस्थाय प्रथमजामृतस्या-
त्मनात्मानमभि सं विवेश॥११॥
परि द्यावापृथिवी सद्य इत्वा
परिलोकान् परि दिशः परि स्वः।
ऋतस्य तन्तुं विततं विचृत्य
तदपश्यत्तदभवत्तदासीत्॥१२॥
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम्।
सनिं मेधामयासिषं स्वाहा॥१३॥
यां मेधा देवगणाः पितरश्चोपासते।
तया मामद्य मेधयाऽग्ने! मेधाविनं कुरु स्वाहा॥१४॥
मेधां मे वरुणो ददातु मेधामग्निः प्रजापतिः।
मेधामिन्द्रश्च वायुश्च मेधां धाता ददातु मे स्वाहा॥१५॥
इदं मे ब्रह्म च क्षत्रं चोभे श्रियमश्नुताम्।
मयि दधतु प्रियमुत्तमां तस्य ते स्वाहा॥१६॥
यजु० ३२ अध्यायः।
तृतीयोऽङ्कः।
*कुब्जक वामनक संवादः*
(ततः प्रविशति वामनकः)
वामनकः—(आत्मानं विलोक्य। सविस्मयम्।) अहो अङ्गानां मे तुङ्गत्वम्। अपि नाभे, शैरङ्गैरत्र संलग्नता मया द्वारशिखरं भज्यते। तत्कुब्जो भूत्वा संचरिष्यामि।
(प्रविश्य)
कुब्जकः—वयस्य वामनक ! इदानीं सकलगुणसंयुक्तोऽसि त्वम्।
वामनकः—कथमिव?
कुब्जकः—प्रथममेव वामन इदानींपुनः कुब्जत्वं प्राप्तः।
वामनकः—(सक्रोधम्।) अये मूर्ख ! कथमात्मनः कुब्जत्वं परस्मिन्नारोपयसि। ननु त्वमेव कुब्जकः। मया पुनर्द्वारशिखरभङ्गशङ्कितेनात्मनि कुब्जत्वमारोपितम्।
** कुब्जकः**—(विहस्य।) कथं वितस्तिमात्रेण तवाऽङ्गेन द्वारशिखरं भङ्क्ष्यते। अरे अलोकवाचाल ! केन तव कथितमहं कुब्जकइति।
वामनकः—नन्वनेनैव दृप्तवृषभककुदसदृशेन पृष्ठस्थितेन मांसस्तबकेनोद्वाहितेन
कुब्जकः—(विहस्य।) अये मतिशून्य ! कथमयं मांसस्तबकोऽपि पुनः सौभाग्यलक्ष्म्या उपधानगेन्दुकः।
** वामनकः**—(साशङ्कम्।) अरे, शनैर्जल्प। अस्मादृशानामन्तः पुरचारिणां सौभाग्यवृत्तान्तमाकर्ण्य भर्ता कोपिष्य- ति।
** कुब्जकः—**अलं भीरुत्वेन। इदानीं ध्यानगृहे वर्तते भर्ता।
** वामनकः—**न खलु न खलु। अद्य किल कस्यापि प्राघूर्णकस्य महर्षेरागमनं परिपालयन्वाह्यमण्डपे वर्तते।
** कुब्जकः**—हा हताः स्मः।
** वामनकः—**किमिति।
** कुब्जकः**—ननु प्रथममेवैकेन महर्षिणा याज्ञवल्क्येनोपदिष्टोऽयं राजा अक्षिमीलनै रात्रीर्गमयति। इदानीं पुनर- नेनोपदिष्टोऽन्तःपुरमेव परिहरिष्यति। ततः किमयमस्माभिः क्षपणक इव कर्पटपेटकैः करिष्यति।
** वामनकः**—सत्यमेत्। यद्ययं महर्षिरस्माकं राज्ञ उपदेशार्थमागतो भवेत्। अयं पुनर्हरधनुर्दर्शनार्थम्।
** कुब्जकः-—**किमस्य महर्षेर्होमाऽग्निधूमश्यामलितलोचनस्य हरचापदर्शन। तत्तर्कयामि क्षात्रयब्राह्मणोऽयमिति।
** वामनकः—**(विहस्य) कथं तनुरिव मतिरपि ते वक्रा यदेवं तर्कयसि। सत्यं क्षत्रियब्राह्मणोऽयमिति।
** कुब्जकः—**तत्कोऽप्यनर्थः संभाव्यते यत्किल चिरतपस्याकर्षितोऽयं तीव्र प्रेक्षमाणः क्षत्रियब्राह्मण ऋजुमतेर- स्माकं राजर्षेराज्यं ग्रहितुमागत इति।
** वामनकः—**शान्तं पापम्। ईदृशं मा जल्प। अयं हि चिरतपस्यापरितोषितस्य ब्रह्मणो वाचा क्षत्रियत्वं परिहृत्य ब्राह्मणत्वं प्राप्तः।
** कुब्जकः —**कथं तनुरिव मतिरपि तव वामनी यदीदृशालीकलोकवृत्तान्तेऽपि प्रत्याय्यते। यदि कस्यापि वाचा क्षत्रियोब्राह्मणोभवति तर्हि मम वाचा त्वमपि ब्राह्मणो भवसि।
**वामनकः—**अरे बालिश! कथं तव गोमुखस्य तत्रभवतश्चतुर्मुखस्यापि नास्त्यन्तरम्।
**कुब्जकः—**यद्ययं शुद्धब्राह्मणस्तत्किमस्य चापचिन्तया?
**वामनकः —**अस्तिकारणम्। तस्य पार्श्वे तत एव गृहीतचापविद्यौ द्वौ क्षत्रियकुमारौ वर्तेते। ताभ्यां दर्शयिष्यति चापमिति।
**कुब्जकः —**तच्छुद्धाशयोऽयम्?
**वामनकः—**अथ किम्।
** कुब्जकः —**तत्कथय तावदस्मिन्नलीकदूषणाऽऽरोपेण ननु मम पापमुत्पन्नं न वेति?
**वामनकः —**पापमिति किं भण्यते। ननु महापापमुत्पन्नम्।
**कुब्जकः—**अरे मूर्ख! न जानासि धर्मस्य तत्त्वम्। संबन्धिजने परिहासवचनानि न खलु पापकारणानि।
**वामनकः —**कथं पुनरयं तव संबन्धिजनः।
**कुब्जकः—**अरे, न जानासि। अस्यापि द्वौ कुमारौ, अस्माकमपि द्वे कुमार्यौ। तत्तर्कयामि संबन्धिजनो भविष्यतीति।
** वामनकः —**(विहस्य।) कथमस्माकमीदृशं पुण्यम्
(नेपथ्ये)
ताटङ्किना झटितिताडितताटकेन
रामेण पद्मरमणीयविलोचनेन।
क्रीडाशिखण्डकधरेण सलक्ष्मणेन
साकं मुनिः कुशिकसूनुरितोऽयमेति॥१॥
** वामनकः—**(सहर्षविस्मयम्) अहो, याखलु सकललोकभीषणा राक्षसी ताटकेति श्रूयते सानेन यदि ताडिता तदस्मिन् हरचापारोपणमपि संभाव्यते। तदेहि। इमं कर्णसुधारसं भट्टिनीभ्यः समर्पयामः।
(निष्क्रान्तौ।)
इति प्रवेशकः।
प्रसन्नराघवस्य
चतुर्थोऽङ्कः
* रामपरशुरामसंवादः *
(नेपथ्ये ध्रुवा गीयते)
मणिमयमङ्गलदीपो जनकनरेन्द्रस्य मण्डपे ज्वलति।
चण्डानिलोऽपि प्राप्तो यस्मिन्विफलागमो भवति॥१॥
(पुननपथ्ये।)
अरे क्षत्रियाः ! अपसरत लोचनपथात्॥ नन्वयं—
कुर्वन्कोपादुदञ्चद्रविकिरणसटापाटलैर्दृष्टिपातै-
रद्यापि क्षत्रकण्ठच्युतरुधिरसरित्सिक्तधारं कुठारम्।
तीव्रैर्निःश्वासपातैः पुनरपि भुवनोत्पातमासूचयद्भि-
र्गर्जन्मौर्वीकचापतस्त्रिभुवनविजयी जामदग्न्यः समेति॥२॥
(ततः प्रविशति जामदग्न्यः।)
** जामदग्न्यः—**(साटोपं परिक्रम्य।) अहो धृष्टता जनकस्य। यदयं हरचापारोपणेन पणेन कन्यादानं प्रतिजानीते।
(परशुं विलोक्य।)
सकलनृपकठोरकण्ठपीठीबहलगलद्रुधिरौघधौतधारः।
तदिदमजनकं जगद्विधत्ते परशुरयं जमदग्निनन्दनस्य॥३॥
(विमृश्य।)
उदितोऽर्जुनभुजविपिने ज्वलितस्तुङ्गेषु नृपतिवंशेषु।
निमिकुलकमलकलापं कोपानल ! किं पुनः स्पृशसि॥४॥
(पुनर्विचिन्त्य) अलमस्मिन्नुपेक्षया। मनोरथोपनीतजामातृभुजबलावलेपदुर्ललितः खल्वयम्। तथा हि। संदिष्टमने- नास्मत्परशोः—
“त्वं मित्रं मम, जामदग्न्यपरशो! तेनैतदाभाष्यसे
संप्रत्येव यथाप्रतिश्रुतमियं कन्या मया दीयते।
तेनेह स्वयमेत्य धूर्जटिधनुर्धौरेयदोः संपदो-
जामातुः पुरत श्चिराय भवता धाराजलं त्यज्यताम्”॥३। ३९॥
अहो अस्य दुरवलेपः।
यस्योद्यद्धोरधाराञ्चलदलितगलद्वाहुशाखासहस्र–
प्रोद्गच्छद्रक्तधारानिवहजितनवोन्मीलदर्कांशुजालः।
क्ष्मापालः कार्तवीर्यः सुरपुरसुदृशां पुष्पिताऽशोकशाखि-
भ्रान्तिंदत्त्वाऽपिचित्ते निजपुरसुदृशां शोकशाखीबभूव॥५॥
अपि च।
येनाऽबध्यत नर्मदाम्बुनिवहः संख्ये च लंकेश्वर–
स्तद्यस्मिन्निरमज्जदर्जुनभुजक्षोणीरुहां मण्डलम्।
क्षत्रस्त्रीनयनाऽम्बुपूरमिषतः खेलन्ति यत्केलय–
स्तत्तादृक्परशु र्ममायमधुना धाराजलं मुञ्चति॥६॥
(विलोक्य।) कथमयं शतानन्दशिष्यस्ताण्ड्यायनः।
(प्रविश्य।)
** ताण्ड्यायनः —**भगवन्! अभिवादये।
**जामदग्न्यः —**आयुष्मान्भूयोः। कथय तावत्। अपि नाम भवदुपाध्याययजमानस्य निवृत्ता हरचापाऽऽरोपण- श्रद्धा?
**ताण्ड्यायनः—**निवृत्ता।
** जामदग्न्यः —**(सहर्षम्।) निवृत्ता ?
**ताण्ड्यायनः—**भगवन्! निवृत्ता सहैव चापेन।
जामदग्न्यः —(ससंभ्रमम्।) किमात्थ सहैव चापेन निवृत्तेति ?
**ताण्ड्यायनः—**अथ किम्।
** जामदग्न्यः—**स्फुटं कथय तावत्किं वृत्तमिति।
** ताण्ड्यायनः—**कस्यचिद्—
अखण्डचण्डिमोद्दण्डभुजदण्डनिपीडितम्।
भगवन्भृगुमार्तण्ड! भग्नं भर्गशरासनम्॥७॥
जामदग्न्यः—(सक्रोधम्।) कस्य ?
** ताण्ड्यायनः—**
सुबाहुमारीचपुरःसरा अमी
निशाचराः कौशिकयज्ञघातिनः।
वशे स्थिता यस्य ………………..
**जामदग्न्यः—**अलम्। अतः परं ज्ञातः खलु खलानामग्रणीर्निशाचरग्रामणी
ताण्ड्यायनः—(स्वगतम्।) कथं दशकण्ठेन धनुर्भग्नमिति प्रतीतं भगवता? भवतु तावत्।
** जामदग्न्यः—(सक्रोधम्।) अयमयमिदानीं—**
नृपशतसुकुमारकण्ठनालौ कदनकलाकुशलः परश्वधो मे।
दशवदनकठोरकण्ठपीठीकदनविनोदविदग्धतां दधातु॥८॥
(विमृश्य।) अथवा।
यः कर्ताऽर्जुनभूरुहाऽद्भुतभुजाशाखासहस्रच्छिदां,
दम्भोलेर्गिरिकूटपाटनपटोः शौण्डीर्यतो लज्जते।
तस्यैतस्य परेतराजसदनद्वारः, कुठारस्य मे
का श्लाघा दशकण्ठकण्ठकदलीकाण्डावलीखण्डने॥१०॥
(पुनर्विचिन्त्य।) तथाप्यनुचितमुदासितुमेतस्मिन्कृतागसि, रक्षसि।
तदिदानीं—
दक्षिणस्याऽम्बुधेर्मध्ये, कृत्वा कोङ्कणमष्टमम्।
मद्वाणजन्मा दहनो लङ्काऽऽतङ्काय जायताम्॥११॥
(इति साटोपं परिक्रामति।)
**ताण्ड्यायनः—**(स्वगतम्।) दिष्ट्या स्वस्ति क्षत्रियकुलाय।
(नेपथ्ये।)
“अहो नियोगिनः, कृतविवाहमङ्गलयोः सीतारामचन्द्रयोः स्वस्तिवाचनिका द्विजा आहूयन्ताम्”।
** जामदग्न्यः—**(परिवृत्य। सक्रोधम्।) आः ब्रह्मबन्धो ! कथमलीकदशकण्ठकीर्तिदानेन प्रतारितोऽस्मि। नन्वयमन्यः कोऽपि जनकजामाता।
** ताण्ड्यायनः—**भगवन् ! मम को वाऽपराधः। अर्धोक्त एष भगवता भ्रान्तम्। मयापि संभ्रान्तम्।
**जामदग्न्यः—**तन्निःशेषं तावत्कथय।
**ताण्ड्यायनः—**
………………..शराऽग्रवर्तिनः
प्रतापलेशस्य गताः पराभवम्॥८॥
तस्यैव 'अखण्डचण्डिमा ४/७ इत्यादि पठति।
**जामदग्न्यः—**कः पुनरयं मारीचदमनः?
** ताण्ड्यायनः—**
ये ऋष्यश्रृङ्गचरुभागभुवः कुमाराः
संजज्ञिरे दशरथस्य वधूजनेन।
तेषामयं निरुपमः प्रथमः कुमारो-
रामाऽभिधः कुशिकराजतनूजशिष्यः॥१२॥
जामदग्न्यः—(क्षणं विभाव्य। सामर्षम्।)
दुर्धर्षाः सुरसिद्धकिंनरनरै, स्त्यक्तक्रमं वक्रतां
प्राप्ते यत्र विधातरीवं तरसा तिस्रोऽपि दग्धाः पुरः।
तद्भग्नं यदि राघवेण शिशुना चण्डीपतेः कार्मुकं
** ताण्ड्यायनः—**(स्वगतम्।) किमधुना वक्ष्यति ?
जामदग्न्यः—
तन्मग्नं कुलमेव तर्कय रघोर्मच्छस्त्रधाराऽम्भसि॥१३॥
**ताण्ड्यायनः—**संरब्धोऽयं भगवान्। तदिमं वृत्तान्तमुपाध्यायस्य कथयामि। (इति निष्क्रान्तः।)
जामदग्न्यः—(विलोक्य) अभिनवविवाहमङ्गलतया तर्कयामि—स एष रामः साऽनुज इति। (सहर्षम् निर्वर्ण्य) अर्धमुग्धः खल्वयं जनो यदेनं काम इति वक्तव्ये राम इति जल्पति।
(पुनर्निर्वर्ण्य)
सौन्दर्यं मदनादपि प्रथयति प्रौढिप्रकर्षं, पुरां-
भेत्तारं मदनाऽरिमप्यधरयत्युद्दामदोःक्रीडितम्।
मुग्धत्वं मदनारिमौलिशशिनोऽप्युत्कर्षमालम्बते,
मूर्त्तैस्तत्किमसौ रसैर्विरचितः शृङ्गारवीराऽद्भुतैः॥१२॥
(ततः प्रविशतो रामलक्ष्मणौ।)
** लक्ष्मणः—**(सकौतुकम्।)
मौर्वीं धनु, स्तनुरियं च बिभर्ति मौञ्जीं,
बाणाः कुशाश्च विलसन्ति करेऽसिताऽऽभाः।
धारोज्ज्वलः परशुरेष कमण्डलुश्च,
तद्वीरान्तरसयोः किमयं विकारः॥१५॥
आर्य ! किं पुनरिदं ब्रह्मक्षत्रवर्णात्मकं चित्रमिव स्फुरति ?
** रामः—**वत्स ! न विदितं ते। नन्वयं स भगवान्भार्गवः—
वेध्यं क्रौञ्चमहीधरस्य शिखरं, देयं धरित्रीतलं,
प्रत्यग्रक्षितिखण्डदण्डनविधिक्रीडाविधेयोऽम्बुधिः।
जेयस्तारकसूदनो, युधि करक्रीडाकुठारस्य च
च्छेद्यं यस्य बभूव हैहयपतेरुद्दामदोः काननम्॥१६॥
** लक्ष्मणः—**तर्हि विस्मयनीयशीलोऽयं भगवान्।
**रामः—**विस्मयनीयशीलानां शिखामणिरिति वक्तव्यम्।
** अयं हि—**
एकः स्वर्णमहीधरां क्षितिमिमां स्वर्णैकश्रृङ्गीं यथा
गामेकां प्रतिपाद्य कश्यपमुनौ न स्वात्मने श्लाघते।
किंच क्रौञ्चगिरिं गिरीशतनयस्याविद्धशक्तिक्षतं
विद्ध्वा बाणगणैरुदारहृदयो वैलक्ष्यमालम्बते॥१७॥
(उभौ परिक्रामतः।)
रामः—(अञ्जलिं बद्ध्वा।) भगवन् ! भृगुकुलशिरःशेखरशिखण्डक ! एष सानुजस्य मे परमोन्नतिरमणीयपरिणामः प्रणामः।
** जामदग्न्यः—**समरविजयी भूयाः।
** रामः—**भगवन् ! भृगुकुलमौलिमाणिक्य ! अनुगृहीतोऽस्मि।
** जामदग्न्यः—**(स्वगतम्। सकरुणम्।)
रामे चन्द्राभिरामे विनयवति शिशौ किं प्रकुप्याऽतिमात्रं, (विमश्य। सक्रोधम्।)
हुँ चापं चन्द्रमौलेश्चपलमतिरसाविक्षुदण्डं बभञ्ज। (पुनः सानुक्रोशम्।)
बाला वैधव्यदीक्षां जनकनृपसुता नाऽर्हतीयं मदस्त्रात्,(पुनर्विचिन्त्य। सामर्षम्।)
आः शान्तो मे कुठारः कथमयमधुना रेणुकाकण्ठशत्रुः॥१८॥
(प्रकाशम्।) दाशरथे ! इयमसौ मे त्वयि समुदाचारानुसारिणी वाग्वृत्तिरेव।
** रामः—**(विहस्य।) मनोवृत्तिस्तु कीदृशी ?
** जामदग्न्य—**
चण्डीशकार्मुकविमर्दविवर्धमान-
दर्पावलेपसविशेषविकाशभाजोः।
बाह्वोस्तवाऽहमधुना मधुना समानै-
राराधयामि रुधिरैः कठिनं कुठारम्॥१६॥
** रामः—**भगवन् ! निग्रहानुग्रहयोः स्वाधीनोऽयं जनः। परं ते कोपबीजंज्ञातुमिच्छामि।
** जामदग्न्यः—**अहो दर्पान्धता, यदात्मना कृतमस्माभिरुक्तमपि नाव-
धारयति निजदुर्विनयम्। ननु रे,
येनोपदिष्टमद्यापि पुरस्त्रीविरहव्रतम्।
न भुग्नं, तत्त्वया भग्नं जगद्गुरुशरासनम्॥२०॥
रामः—भगवन् ! अलीकलोकवार्तया निरपराधे मयि मुधा कोपकलङ्कितोऽसि।
जामदग्न्यः—तत्किं स्वस्ति हरकार्मुकाय ?
रामः—नहि नहि।
जामदग्न्यः —तत्कथं निरपराधोऽसि ?
रामः—
मया स्पृष्टं न वा स्पृष्टं कार्मुकं पुरवैरिणः।
भगवन्नात्मनैवेदमभज्यत करोमि किम्॥२१॥
जामदग्न्यः —आः, कथं रे चन्दनदिग्धं नाराचं निधाय हृदयं मे शीतलयसि। तदलमनेन। (कुठारमुद्यम्य।)
हे राम ! कामरिपुकार्मुककर्मघात-
संजातपातक ! तवैष कठोरधारः।
सीताकरव्यतिकरप्रतिकूलबन्धुः
कण्ठं पुरा विशतु निष्करुणः कुठारः॥२२॥
तत्प्रवीरो भव।
रामः—
हारः कण्ठं विशतु यदि वातीक्ष्णधारः कुठारः
स्त्रीणां नेत्राण्यधिवसतु नः कज्जलं वा जलं वा।
संपश्यामो ध्रुवमिह सुखं प्रेतभर्तुर्मुखं वा
यद्वा तद्वा भवतु न वयं ब्राह्मणेषु प्रवीराः॥२३॥
** जामदग्न्यः—**आः, कथं मामपि प्रणतिपात्रं ब्राह्मणमात्रमिव मन्यसे।
(पुनः सामर्षम् )
जानीषे नहि जामदग्न्यमपि रे यद्दीर्घदोःकन्दल-
द्वन्द्वाऽऽस्कन्दितबाहुना रणभुवि स्कन्देन मन्दौजसा।
नास्राक्षीद्भुजसंपदं मम कथं वक्तानुसारादिति
क्रुद्धेनोद्धतमैक्षि शंकरकरन्यस्तं विधातुः शिरः॥२४॥
[पुनः सामर्षम्।] किमात्य रे, किमात्थ। ‘न वयं ब्राह्मणेषु प्रवीराः’ इति। कथं क्षत्रियजातिगर्वितो ब्राह्मणजातिं तृणाय मन्यसे। तदिदानीमावयोः का गरीयसीति सङ्ग्रामतुलैव निर्णेष्यते।
** रामः—**
भो ब्रह्मन् ! भवता समं न घटते संग्रामवार्तापि नः
सर्वे हीनबला वयं, बलवतां यूयं स्थिता मूर्धनि।
**लक्ष्मणः —**जामदग्न्य ! एवमेतत्—
यस्मादेकगुणं शरासनमिदं सुव्यक्तमुर्वीभुजा-
मस्माकं भवतां पुनर्नवगुणं यज्ञोपवीतं बलम्॥२५॥
,
**राम—**वत्स ! अलमिह माननीये मुनौ दुर्विनयवैदग्ध्येन।
**जामदग्न्यः—**अस्य को दोषः—
दारैर्मुक्तकुचांशुकैः परिवृतं प्राचीनमेषां नृपं
नाऽहिंसीद्यदसौ कुठारहतकस्तस्यैतदुज्जृम्भितम्।
यन्नारीकवचाऽन्वयप्रणयिनां क्षत्त्राऽधमानामिमा-
दुर्वाचः प्रविशन्ति मे श्रवणयोर्धिक्क्षत्रगोत्रे कृपाम्॥२६॥
**रामः —**अलमिह क्षीरकण्ठे कठोरकोपतया। तत्क्षम्यताम्।
**जामदग्न्यः —**आः किमुच्यते, क्षीरकण्ठ इति। विषकण्ठःखल्वसौ।
** लक्ष्मणः—**भगवन् ! शितिकण्ठशिष्येण विशेषतः क्षन्तव्यम्।
** जामदग्न्यः—**आः, कथं विषकण्ठनामसाम्येन त्वमपि मे गुरुः।
** लक्ष्मणः—**[विहस्य। ] भगवन् ! अन्याभिसंधानेन मयेदमुक्तंयत्किल—
किरीटमधिरूढेऽपि बाले प्रालेयरोचिषि।
शितिकण्ठस्य किं चित्ते धत्ते कोपाङ्कुरः पदम्॥२७॥
** तद्भवांस्तदन्तेवासीति विशेषतः क्षन्तुमर्हति।**
** जामदग्न्यः—**(स्वगतम्।) अहो, अस्य क्षत्रियवटोर्वाक्परिपाटीपाटवम्। भवतु। (प्रकाशम्।) तदिदं क्षान्तमेव मया। अयं तु न क्षमते प्रकृतिकठोरः कुठारः। शीलं न वेत्सि कथमस्य—
क्रीडाविनिर्मितसुदुर्मददोर्विलास-
निःशेषराजकवधस्य परश्वधस्य।
कीलालकीकसकचैः परितो विचित्य
येन त्रिधाऽपि विदधे पृथिवी त्रिवर्णा॥२८॥
(पुनः सामर्षम्)। कथमस्य हरप्रसादपरशोः शीलमपरिशीलितं ते—
यत्र क्रामति संगराङ्गणभुवं दुर्वारधाराञ्चल-
क्षुरणक्षत्रकिशोरकण्ठरुधिरैर्नीरेणुका भूरभूत्।
तादृग्वीरवरस्वयंवरपरखर्लोककन्याकर-
क्रीडापुष्करदामरेणुभिरभूद्यौरेव रेणूत्कटा॥२६॥
** लक्ष्मणः—**भगवन् ! एतत्सत्यम्। यत्किल भवत्कुठारधाराञ्चलविलसितेन नीरेणुका भूरभूदिति।
** जामदग्न्यः—**(स्वगतम्। ) आः, कथं रेणुकावृत्तान्तेन मर्मविध्यति। भवतु। ( प्रकाशम्। ) अये क्षत्रियपोत ! अलमिह निरपराधे भवति मुधा परश्वधपातेन। तदयं मे प्रकृतिकठोरभाषिणं भवत्कण्ठमेव शातयति कुठारः।
(नेपथ्ये।)
अये जामदग्न्य! कथमतिप्रगल्भसे। तदिदमिदानीं भवच्छासनाय शरासनमानीयते।
** जामदग्न्यः—**(विहस्य।) कथमयं जनकः। (उच्चैः) अये याज्ञवल्क्यशिष्य! किं भवतः शरासनेन। पद्मासनमेवा- बलम्बस्व।
( पुनः सोत्प्रासम्।)
युष्माकं भोः सुघटितबहुन्यस्तपद्माक्षकण्ठाः!
मिथ्योत्कण्ठा किमिति समिति क्षत्रियश्रोत्रियाणाम्।
तेऽन्ये चञ्चत्करतलचलच्चण्डनिस्त्रिंशधारा-
धौताऽरातिद्विपमदमषीपङ्कपूराः प्रवीराः॥३०॥
तदलं भवता। एतावेव तावत्क्षत्रियस्फुलिङ्गौ निर्वापयामि।
(नेपथ्ये।)
अये जामदग्न्न्य! कथं तथा शमधनसमृद्धस्य जमदग्नेस्तनयोऽपि शमदुर्गतोऽसि संवृत्तः।
जामदग्न्यः —कथमयमाङ्गिरसः। (उच्चैः।) अये शतानन्द! कथय तावत्। इदमेवंविधं शमाऽभिधानं कस्मा- दुपात्तम्। भगवतो गौतमाद्वा गोत्रभिदो वा।
(नेपथ्ये।)
आः क्षत्रियापुत्र! निजजननीकण्ठताण्डवितकुठार! कुलाङ्गार! कथं तपस्तुङ्गमाङ्गिरसमपि कुलं कलङ्कयसि ?
** जामदग्न्यः—**आः पाप! कुलपांसन! पांसुलापुत्र,! कथं भृगूणामग्रे तपस्ताण्डवं मण्डयसि ?
** रामः**—भगवन् ! सकललोकविख्यातमिदं भृगूणामाङ्गिरसां च कुलम्। तपोविशेषतस्तु भर्गशिष्यस्य। अत एव विज्ञापयामि—
तपः शान्तं चेतः, स्फटिकमणिमाला परिकरः
कुशाः कुण्डी दण्डः सततमुटजावासनिरतिः।
मुनीनामेतद्वः समुचितमुदग्रं न वचनं
न वक्रभ्रू भङ्गो न शरधनुषी नापि परशुः॥३१॥
(पुनः सविस्मयम्।) भवानेव तावद्विचारयतु।
क्वपरशुरशुभस्ते कुत्र गोत्रं पवित्रं
क्व नु धनुरिदमुग्रं निर्मलं कुत्र शीलम्।
घनसमरकराला कुत्र नराचहेला
कुशकिसलयलीला कुत्र वा पर्णशाला॥३२॥
** जामदग्न्यः**—कथमन्यमिव मां प्रणतिपात्रंमुनिमात्रं मन्यसे। स एषजामदग्न्यः खल्वहं—
क्षण्णक्षत्र कठोरकण्ठविगलत्कीलालधारासरि-
न्निर्वृत्ताभिषवस्य कृत्तशिरसां केशान्कुशान्कुर्वतः।
गृह्णन्रक्तजलाञ्जलीन्पितृगणो यस्य क्षणं विस्मितः
संतोषेण जुगुप्सया करुणया त्रासेन हासेन च॥३३॥
तदलम्। इदानीमपि—
कृत्वा त्रिःसप्तकृत्वः समिति विशसनं पूर्वमुर्वीपतीनां
कृत्वान्यत्सप्तकृत्वः पुनरपि कदनं दुर्मदानां नृपाणाम्।
निर्माय क्ष्मापतीनां प्रतिसमरहृतैरुत्तमैरुत्तमाङ्गैः
कापालोमक्षमालां झटिति भगवतो भैरवस्यार्पयामि॥३४॥
** राम—**
प्रसीद त्वं रोषाद्विरम, कुरु मे चेतसि गिरं,
चिरं यच्चाऽऽयासैर्बहुभिरिह वारैर्जितमभूत्।
यशोवित्तं वृत्तं कितव इव विक्षोभतरलं
तदेतस्मिन्वारे भृगुतिलक ! मा हारय मुधा॥३५॥
** जामदग्न्यः—**कथं रे हारयिष्यामि। (विमृश्य।) अथवा—
किं नाम वाग्डम्बरपण्डितेषु युष्मासु वाणीः प्रचुराः प्रयुञ्जे।
बाणान्रिपुप्राणहरान्मदीयान्सर्वेऽपि यूयं सहिताः सहध्वम्॥३६॥
** रामः—**किमन्यैर्नन्वहमेव हरशरासनारोपणोपनीतजानकीकरकिसलयलीलानिहित कमलमालिकामिलदलि- पटलकोलाहलसंगीतयशः परिमलेन वक्षःस्थलेन सहिष्ये।
** जामदग्न्यः—**
ईशत्यक्तपुराणचापदलनप्रोद्भूतगर्वोद्धति-
व्यग्रस्त्वं कतरः स मे तव गुरुः सोढुं न शक्तः शरान्।
तुष्टादिष्टवरप्रदाद्भगवतः पद्मासनात्सादरं
मन्नाराचभयादयाचत किल ब्राह्मीं तनूं कौशिकः॥३७॥
रामः—(स्वगतम्) कथं भगवन्तं विश्वामित्रमधिक्षिपति ? तदतः परं न सहिष्ये।(प्रकाशम्।)
ईशत्यक्तपुराणचापदलनप्रोद्भूतगर्वोद्धति-
व्यग्रोऽहं कतरः स ते मम गुरुः सोढुं न शक्तः शरान्।
तुष्टादिष्टवरप्रदाद्भगवतः पद्मासनात्सादरं
त्वन्नाराचभयादयाचत किल ब्राह्मीं तनूं कौशिकः॥३८॥
(इति पदव्यत्यासेन पुनः श्लोकं पठति। पुनः साटोपम्।) अये जामदग्न्य !
तत्कोदण्डं कुलिशकठिनं भग्नमेतेन भग्नं
मग्नं शल्यं तव हृदि महद्भग्नमेतावता किम्।
त्रैयक्षं वा भवतु यदि वा नाम नारायणीयं
नैतत्किंचिद्गणयति स मे दुर्मदो दोर्विलासः॥३९॥
** जामदग्न्यः—**(सहर्षम्।) साधु रे क्षत्रियपोत ! साधु। यत्किल जामदग्न्यनास्त्रश्चण्डधाम्नः पुरतः खद्योत इव विद्योतसे। किमात्थ रे, किमात्थ ?
** रामः—**(तदेव पठति।) नन्विदं भूयोऽप्युच्यते। (पुनस्तदेवपठति)
** जामदग्न्यः**—साधु स्मारितोऽस्मि।
** रामः—**किं तत् !
** जामदग्न्यः—**
कराघाताद्विष्णोस्तरलवनमालापरिमल-
भ्रमद्भृङ्गध्वानद्विगुणितविकाशः समजनि।
स यस्य ज्याघोषः सुररिपुवधूवर्गरुदित-
ध्वनिस्वाध्यायानां प्रणव इव तत्कार्मुकमिदम्॥४०॥
** रामः—**
करपङ्केरुहक्रोडे क्रीडितं येन शार्ङ्गिणः।
तदेतत् ॽ
** जामदग्न्यः**—
अथ किं, यदि शक्तोऽसि गृहाण बिगृहाण वा॥४१॥
** रामः**—गृह्णामि।
** जामदग्न्यः—**तदेहि। वाष्पायमाणभवद्वन्धुजनबन्धुरां वसुंधरामतिक्रम्य समरक्षमां क्षमामवतरावः।
(इति निष्क्रान्ती।)
** लक्ष्मणः**—(विलोक्य सहर्षं सकौतुकं च।)
भा शांभवं धनुरिवेदमपि प्रयातु
भङ्गप्रसङ्गमिति मन्दचलद्गुजेन।
आर्येण कार्मुकमपीदमहो ! सहेलं
चक्रीकृतं भगवतो गरुडध्वजस्य॥४२॥
(नेपथ्ये।)
अहो कौतुकम्—
उद्भिन्नश्चापचक्रादमरपरिहृतव्योमरन्ध्रावगाही,
बाणोऽयं राघवस्य, त्रिदशपुरगतिच्छेदकृद्भार्गवस्य।
हंसीभूतः सुरस्त्रीकरकमलगलत्पुष्पसौरभ्यलुभ्य-
द्भृङ्गीसंगीतभङ्गीपरिचलितयशाः स्वर्गपर्यङ्कमेति॥४३॥
(ततः प्रविशतो रामजामदग्न्यौ। )
** जामदग्न्यः**—(रामं विलोक्य निर्वर्ण्यच स्वगतम्।)
त्रिलोकी कोकीयं मुदमुदयताऽनेन लभते
विकाशं वा धत्ते मुनिजनमनःपङ्कजवनम्।
अये कोऽयं बालः कुवलयदलश्यामलतनु-
र्जगद्योनिर्ज्योतिः कथमिदमहो तत्परिणतम्॥४४॥
(पुनर्विमृश्य।)
आपूरणाय पुरवैरिशरासनस्य
बाणात्ममा परिणतः किल लीलया यः।
आरोपणाय पुनरस्य स एव शङ्के
बालात्मना परिणतः पुरुषः पुराणः॥४५॥
(प्रकाशम्।) वत्स ! इतः।
(रामः सलज्जमधोमुखस्तिष्ठति। )
** जामदग्न्यः—**(उपसृत्य। रामस्य चिबुकमुन्नमय्य। ) किमति लज्जास्थानम् ?
कमलबन्धुविलोचन ! यस्त्वया स्वमहिमोन्नमनैरधरीकृतः।
न किमसावधरीकुरुते नरस्त्रिदशकोटिकिरीटमणीनपि॥४६॥
** रामः—**(अञ्जलिं बद्ध्वा।) भगवन् ! अलमनेन।दुर्विनयपङ्कमलिनीकृतमात्मानं तावद्भवच्चरणनखकिर- णतरङ्गिणीजलेन क्षालयामि।
चण्डमेव किल तिग्मरोचिषः सौम्यमेव किल शीतरोचिषः।
चण्डसौम्यमिति कौतुकावहं नौमि तावकमहं महन्महः॥४७॥
(इति पादयोः पतति।)
**जामदग्न्यः—**अयि कल्याणनिधे ! आशीरुक्तिरपि त्वयि पुनरुक्तिरेव।तथापीदमाशास्महे—
यशः पूरं दूरं तनु सुतनुनेत्रोत्पलवनी-
तमस्तन्द्राचण्डातप ! तप सहस्राणि शरदाम्।
इयं चास्तां युष्मच्छरशमितलङ्केश्वरशिरः-
श्रितोत्सङ्गा नन्दत्सुरनरभुजङ्गा त्रिजगती॥४८॥
तदनुजानीहि माम्।( इति निष्क्रान्तः।)
रामः—(लक्ष्मणं प्रति।) ननु कथं नयनपथमतिक्रान्त एव भगवान्। तदेहि।भृगुकुलतिलकवियोगखिन्नमात्मानं बन्धुजनविलोकनेन विनोदद्यावः।
(इति निष्क्रान्ताः सर्वे।)
इति चतुर्थोऽङ्कः
उत्तररामचरितम्।
प्रथमोऽङ्कः
इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे।
वन्देमहि च तां वाणीममृतामात्मनः कलाम्॥१॥
(नान्द्यन्ते।)
** सूत्रधारः**—अलमतिविस्तरेण। अद्य खलु भगवतः कालप्रियानाथस्य यात्रायामार्यमिश्रान्विज्ञापयामि—एवमत्रभ- वन्तो विदांकुर्वन्तु। अस्ति खलु तत्रभवान्काश्यपः श्रीकण्ठपदलाञ्छनः पदवाक्यप्रमाणज्ञो भवभूतिर्नाम जतुकर्णीपुत्रः।
यं ब्रह्माणमियं देवी वाग्वश्यैवाऽन्वर्तत।
उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते॥२॥
एषोऽस्मि कविवशादायोध्यकस्तदानींतनश्च संवृत्तः। (समन्तादवलोक्य।) भो भोः, यदा तावदत्रभवतः पौलस्त्यकुलधूमकेतोर्महाराजरामस्यायं पट्टाभिषेकसमयो रात्रिंदिवमसंहृतनान्दीकः तत्किमिदानीं विश्रान्तचारचर- णानि चत्वरस्थानानि ?
(प्रविश्य।)
**नटः—**भाव ! प्रेषिता हि स्वगृहान्महाराजेन लङ्कासमरसुहृदो महात्मानः प्लवङ्गमराक्षसाः सभाजनोपस्थायिनश्च नानादिगन्तपावनाब्रह्मर्षयोराजर्षयश्च यत्समाराधनायैतावतो दिवसान् प्रमोद आसीत्।
सूत्रधारः—आः अस्त्येतन्निमित्तम् ?
** नटः—**अन्यच्च—
वसिष्ठाधिष्ठिता देव्यो गता रामस्य मातरः।
अरुन्धतीं पुरस्कृत्य यज्ञे जामातुराश्रमम्॥३॥
** सूत्रधारः**—वैदेशिकोऽस्मीति पृच्छामि। कः पुनर्जामाता ?
** नटः—**
कन्यां दशरथ राजा शान्तां नाम व्यजीजनत्।
अपत्यकृतिकां राज्ञे रोमपादाय तां ददो॥४॥
विभण्डकसुतस्तामृष्यश्रृङ्ग उपयेमे। तेन द्वादशवार्षिकं सत्रमारब्धम्। तदनुरोधात्कठोरगर्भामपि जानकीं विमुच्य गुरुजनस्तत्र यातः।
** सूत्रधारः—**तत्किमनेन। एहि। राजद्वारमेव स्वजातिसमयेनोपतिष्ठावः।
** नटः**—तेन हि निरूपयतु राज्ञः सुपरिशुद्धामुपस्थानस्तोत्रपद्धतिंभावः।
** सूत्रधारः**—मारिष !
सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता।
यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः॥५॥
** नटः—**अतिदुर्जन इति वक्तव्यम्—
देव्या अपि हि वैदेह्याः सापवादो यतो जनः।
रक्षोगृहस्थितिर्मूलमग्निशुद्धौ त्वनिश्चयः॥६॥
** सूत्रधारः—**यदिपुनरियं किंवदन्ती महाराजं प्रति स्यन्देत, ततः कष्टं स्यात्।
** नटः—**सर्वथा ऋषयोदेवाश्च श्रेयो विधास्यन्ति। परिक्रम्य। भो भोः, क्वेदानीं महाराजः। (आकर्ण्य।)एवं जनाः कथयन्ति—
स्नेहात्सभाजयितुमेत्य दिनान्यमूनि
नीत्वोत्सवेन जनकोऽद्य गतो विदेहान्।
देव्यास्ततो विमनसः परिसान्त्वनाय
धर्मासनाद्विशति वासगृहं नरेन्द्रः॥७॥
[इति निष्क्रान्तौ। ]
इति प्रस्तावना।
[ततः प्रविशत्युपविष्टो रामः सीता च।]
** रामः**—देवि वैदेहि ! विश्वसिहि। ते हि गुरवो न शक्नुवन्ति विहातुमस्मान्।
किं त्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति।
संकटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता॥८॥
** सीताः**—जानामि आर्यपुत्र ! जानामि। किंतु संतापकारिणो बन्धुजनविप्रयोगा भवन्ति।
** रामः—**एवमेतत्। एते हि हृदयमर्मच्छिदः संसारभागाः। येभ्योबीभत्समानाः संत्यज्य सर्वान्कामानरण्ये विश्राम्य- न्ति मनीषिणः।
[प्रविश्य।]
** कञ्चुकी**—रामभद्र !—[इत्यर्धोक्तं साशङ्कम्।] महाराज !—
** रामः**—[सस्मितम्। ] आर्य ! ननु ‘रामभद्र’ इत्येव मां प्रत्युपचारः शोभते तातपरिजनस्य। तद्यथाभ्यस्तमभिधीयताम्।
** कञ्चुकी**—देव ! ऋष्यशृङ्गाश्रमादष्टावक्रः संप्राप्तः।
सीता—आर्य ! ततः किं विलम्ब्यते ?
** रामः—**त्वरितं प्रवेशय।
[कञ्चुकी निष्क्रान्तः।]
[प्रविश्य।]
** अष्टावक्रः—**स्वस्ति वाम्।
** रामः—**भगवन् ! अभिवादये। इत आस्यताम्।
** सीता—**भगवन् ! नमस्ते। अपि कुशलं सजामातृकस्य गुरुजनस्याऽऽर्यायाः शान्तायाश्च ?
** रामः—**निर्विघ्नः सोमपीथी भावुको मे भगवानृष्यश्रृङ्गः, आर्या च शान्ता ?
** सीता—**अस्मानपि स्मरति?
** अष्टावक्रः—**[उपविश्य।] अथ किम्। देवि ! कुलगुरुर्भगवान्वसिष्ठस्त्वामिदमाह—
“विश्वंभरा भगवती भवतीमसूत
राजा प्रजापतिसमो जनकः पिता ते।
तेषां वधूस्त्वमसि नन्दिनि ! पार्थिवानां
येषां कुलेषु सविता च गुरुर्वयं च”॥६॥
तत्किमन्यदाशास्महे।केवलं वीरप्रसवा भूयाः।
** रामः—**अनुगृहीताः स्मः।
लौकिकानां हि साधूनामर्थं वागनुवर्त्तते।
ऋषीणां पुनराद्यानां वाचमर्थोऽनुवर्तते॥१०॥
** अष्टावक्रः—**इदं च भगवत्याऽरुन्धत्या देवीभिः शान्तया च भूयोभूयः संदिष्टम्—“यः कश्चिद्गर्भदौर्हृदोदयो भवत्यस्याः सोऽवश्यमचिरान्मानयितव्य” इति।
** रामः—**क्रियते यद्येषा कथयति।
** अष्टावक्रः—ननान्दुः पत्या च देव्याः संदिष्टम्—“**वत्से ! कठोरगर्भेति नानीतासि। वत्सोऽपि रामभद्रस्त्वद्विनोदा- र्थमेव स्थापितः। तत्पुत्रपूर्णोत्सङ्गामायुष्मतीं द्रक्ष्यामः” इति।
** रामः—**[सहर्षलज्जास्मितम्] तस्थास्तु। भगवता वसिष्ठेन न किंचिदादिष्टोऽस्मि ?
** अष्टावक्रः—**श्रूयताम्—
“जामातृयज्ञेन वयं निरुद्वास्त्वं वाल एवासि नवं च राज्यम्।
युक्तः प्रजानामनुरञ्जने स्यास्तस्माद्यशो यत्परमं धनं वः”॥११॥
** रामः—**यथा समादिशति भगवान्मैत्रावरुणिः—
स्नेहं दयां च सौख्यं च यदि वा जानकीमपि।
आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा॥१२॥
** सीता—**अत एव राधवधुरंधर आर्यपुत्रः।
**रामः—**कः कोऽत्र भोः। विश्राम्यतादष्टावक्रः।
** अष्टावक्रः—**[उत्थाय परिक्रम्य च।] अये, कुमारलक्ष्मणः प्राप्तः।[इति निष्क्रान्तः।]
[प्रविश्य।]
** लक्ष्मणः—**जयति जयत्यार्यः। आर्य ! अर्जुनेन चित्रकरेणास्मदुपदिष्टमार्यस्य चरितमस्यां वीथ्यामभिलिखितम्। तत्पश्यत्वार्यः।
** रामः—**जानासि वत्स ! दुर्मनायमानां देवीं विनोदयितुम्। तत्कियानवधिः ॽ
** लक्ष्मणः—**यावदार्याया हुताशनशुद्धिः।
** रामः—**शान्तं पापम्। [ ससान्त्ववचनम्। ]
उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः।
तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः॥१३॥
देवि देवयजनसंभवे ! प्रसीद। एष ते जीवितावधिः प्रवादः।
क्लिष्टो जनः किल जनैरनुरञ्जनीय-
स्तन्नो यदुक्तमशुभं च न तत्क्षमं ते।
नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा
मूर्ध्नि स्थितिर्न चरणैरवताडनानि॥१४॥
** सीता—**भवत्वार्यपुत्र ! भवतु। एहि। प्रेक्षामहे तावत्ते चरितम्।
(इत्युत्थाय परिक्रामति।)
**लक्ष्मणः—**इदं तदालेख्यम्।
सीता —(निर्वर्ण्य।) क एते उपरिनिरन्तरस्थिता उपस्तुवन्तीवार्यपुत्रम् ?
**लक्ष्मणः—**देवि ! एतानि तानि सरहस्यानि जृम्भकास्त्राणि। यानि भगवतो भृशाश्वात्कौशिकमुपसंक्रान्तानि। तेन च ताटकावधे प्रसादीकृतान्यार्यस्य
रामः—वन्दस्व देवि ! दिव्यास्त्राणि-
ब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्रं शरदां तपांसि।
एतान्यदर्शन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि॥१५॥
** सीता—**नम एतेभ्यः।
**रामः—**सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति।
**सीता—**अनुगृहीतास्मि।
** लक्ष्मणः—**एष मिथिलावृत्तान्तः।
**सीता—**अहो, दलन्नवनीलोत्पलश्यामलस्निग्धमसृणशोभमानमांसलेन देहसौभाग्येन विस्मयस्तिमिततातदृश्य- मानसौम्यसुन्दरश्रीरनादरत्रुटितशंकरशरासनः शिखण्डमुग्धमुखमण्डल आर्यपुत्र आलिखितः।
** लक्ष्मणः—**आर्ये ! पश्य पश्य—
संबन्धिनो वसिष्ठादीनेष तातस्तवार्चति।
गौतमश्च शतानन्दो जनकानां पुरोहितः॥१६॥
** रामः—**सुश्लिष्टमेतत्—
जनकानां रघूणां च संबन्धः कस्य न प्रियः।
यत्र दाता ग्रहीता च स्वयं कुशिकनन्दनः॥१७॥
** सीता—**एते खलु तत्कालकृतगोदानमङ्गलाश्चत्वारो भ्रातरः। विवाहदीक्षिता यूयम्। अहो जानामि तस्मिन्नेव प्रदेशे तस्मिन्नेव च काले वर्ते।
** रामः—**
समयः स वर्तत इवैष यत्र मां
समनन्दयत्सुमुखि ! गीतमार्पितः।
अयमागृहीतकमनीयकङ्कण-
स्तव मूर्तिमानिव महोत्सवः करः॥१८॥
** लक्ष्मणः—इयमार्या। इयमप्यार्या माण्डवी। इयमपि वधूः श्रुतकीर्तिः।**
** सीता—**वत्स ! इयमप्यपरा का ?
** लक्ष्मणः—**(सलज्जास्मितम्। अपवार्य।) अये, ऊर्मिलां पृच्छत्यार्या। भवतु। अन्यतः संचारयामि। (प्रकाशम्) आर्ये ! दृश्यतां द्रष्टव्यमेतत्। अयं च भगवान्भार्गवः।
** सीता—**(ससंभ्रमम्।) कम्पितास्मि।
** रामः —**ऋषे ! नमस्ते।
** लक्ष्मणः—**आर्ये ! पश्य। अयमार्येण—(कमर्धोक्ते)
रामः—(साक्षेपम्।) अयि ! बहुतरं द्रष्टव्यम्। अन्यतो दर्शय।
सीता—(सस्नेहबहुमानं निर्वर्ण्य) सुष्ठु शोभसे आर्यपुत्र ! एतेन विनयमाहात्म्येन।
** लक्ष्मणः—**एते वयमयोध्यां प्राप्ताः।
** रामः—**(सास्रम्।) स्मरामि हन्त स्मरामि।
जीवत्सु तातपादेषु नूतने दारसंग्रहे।
मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः॥१६॥
** लक्ष्मणः—**एष मन्थरावृत्तान्तः।
** रामः—**(सत्वरमन्यतो दर्शय।) देवि वैदेहि !
इङ्गुदीपादपः सोऽयं शृङ्गिबेरपुरे पुरा।
निषादपतिना यत्र स्निग्धेनासीत्समागमः॥२०॥
** लक्ष्मणः—**[विहस्य। स्वगतम् ] अये, मध्यमाम्बावृत्तान्तमन्तरितमार्येण।
** सीता—**अहो ! एष जटासंयमनवृत्तान्तः।
** लक्ष्मणः—**
पुत्रसंक्रान्तलक्ष्मीकैर्यद्वृद्धेक्ष्वाकुभिर्धृतम्।
धृतं बाल्ये तदार्येण पुण्यमारण्यकव्रतम्॥२१॥
** सीता—**एषा प्रसन्नपुण्यसलिला भगवती भागीरथी।
** रामः—**रघुकुलदेवते ! नमस्ते।
तुरगविचयव्यग्रानुर्वीभिदः सगराध्वरे
कपिलमहसा रोषात्प्लुष्टान्पितुश्च पितामहान्।
अगणिततनूतापस्तप्त्वा तपांसि भगीरथो
भगवति ! तव स्पृष्टानद्भिश्चिरादुदतीतरत्॥२२॥
सा त्वमम्ब ! स्नुयामरुन्धतीव सीतायां शिवानुध्याना भव।
** लक्ष्मणः**—एष भरद्वाजावेदितश्चित्रकूटयायिनि वर्त्मनि वनस्पतिः कालिन्दीतटे वटः श्यामो नाम।
[रामः सस्पृहमवलोकयति।]
** सीता**—स्मरति वा तं प्रदेशमार्यपुत्रः ?
** रामः—**अयि, कथं विस्मर्यते
** लक्ष्मणः—**एष विन्ध्याटवीमुखे विराधसंवादः।
** सीता—**अलं तावदेतेन। पश्यामि तावदार्यपुत्रस्वहस्तधृततालवृन्ताऽऽतपत्रमात्मनोऽत्याहितं दक्षिणारण्यपथि- कत्वम्।
** रामः—**
एतानि तानि गिरिनिर्झरिणीतटेषु
वैखानसाश्रिततरूणि तपोवनानि।
येष्वातिथेयपरमा यमिनो भजन्ते
नीवारमुष्टिपचना गृहिणो गृहाणि॥२३॥
** लक्ष्मणः—**अयमविरलानोकहनिवहनिरन्तरस्निग्धनीलपरिसराण्यपरिणद्धगोदावरीमुखकन्दरः संततमभिष्य- न्दमानमेघमेदुरितनीलिमाजनस्थानमध्यगो गिरिः प्रस्रवणोनाम।
** रामः—**
स्मरसि सुतनु ! तस्मिन्पर्वते लक्ष्मणेन
प्रति विहितसपर्यासुस्थयोस्तान्यहानि।
स्मरसि सरसनीरां तत्रगोदावरी वा
स्मरसि च तदुपान्तेष्वावयोर्वर्तनानि॥२४॥
** लक्ष्मणः—**एष पञ्चवट्यां शूर्पणखाविवादः।
** सीता**—हा आर्यपुत्र ! एतावत्ते दर्शनम्।
** रामः**—अयि वियोगत्रस्ते ! चित्रमेतत्।
** सीता—**यथा तथा भवतु। दुर्जनोऽसुखमुत्पादयति।
** रामः—**हन्त, वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति।
** लक्ष्मणः—**
अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना
तथा वृतं पापैर्व्यथयति यथा क्षालितमपि।
जनस्थाने शून्ये विकलकरणैरार्यचरितै-
रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्॥२५॥
** सीता**—(मास्त्रमात्मगतम्।) अहो, दिनकरकुलानन्दन एवमपि मम कारणात् क्लान्त आसीत् ?
** लक्ष्मणः—**( रामं निर्वर्ण्य साकूतम्। ) आर्य ! किमेतत् ?
अयं तावद्वाष्पस्त्रुटित इव मुक्तामणिसरो-
विसर्पन्धाराभिर्लुठति धरणीं जर्झरकणः।
निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया
परेपामुन्नेयो भवति चिरमाध्मातहृदयः॥२६॥
** रामः—**वत्स !
तत्कालप्रियजनविप्रयोगजन्मा
तीव्रोऽपि प्रतिकृतिवाञ्छया विसोढः।
दुखाग्निर्मनसि पुनर्विपच्यमानो-
हृन्मर्मव्रण इव वेदनां तनोति॥२७॥
** सीता—**हा धिक् हा धिक्। अहमपि अतिभूमिंगतेन रणरणकेन भार्यपुत्रशून्यमिव आत्मानं पश्यामि।
** लक्ष्मणः**—(स्वगतम्) भवतु। आक्षिपामि। (चित्रं विलोक्य प्रकाशम्) अथैतन्मन्वन्तरपुराणस्य तत्रभवत- स्तातजटायुपश्चरित्रविक्रमोदाहरणम्।
** सीता—**हा तात ! निर्व्यूढस्तेऽपत्यस्नेहः।
** रामः**—हा तात ! काश्यप ! शकुन्तराज ! क्व नु खलु पुनस्त्वादृशस्य महतस्तीर्थभूतस्य साधोः संभवः।
** लक्ष्मणः—**अयमसौ जनस्थानस्य पश्चिमतः कुञ्जयान्नाम पर्वतोदनुबन्धाधिष्ठितो दण्डकारण्यभागः। तदिदममुष्य परिसरे मतङ्गाश्रमपदम्। तत्र श्रमणी नाम सिद्धा शवरतापसी। तदेतत्पम्पाभिधानं पद्मसरः।
** सीता—**यत्र किलाऽऽर्यपुत्रेण विच्छिन्नामर्षधीरत्वं प्रमुक्तकण्ठं प्ररुदितमसीत्।
** रामः—**देवि ! परं रमणीयमेतत्सरः
एतस्मिन्मदकलमल्लिकाक्षपक्ष-
व्याधूतस्फुरदुरुदण्डपुण्डरीकाः।
बाष्पाऽम्भः परिपतनोद्गमान्तराले
संदृष्टाः कुवलयिनो मया विभागाः॥२८॥
दिष्ट्या सोऽयं महाबाहुरञ्जनाऽऽनन्दवर्धनः।
यस्य वीर्येण कृतिनो वयं च भुवनानि च॥२६॥
** सीता—**वत्स ! एष स कुसुमितदम्बताण्डवितबर्हिणः किंनामधेयो गिरिः। यत्रानुभावसौभाग्यमात्रपरिशेषसुन्द- रश्रीमूर्छस्त्वया प्ररुदितेनावलम्बितस्तरुतल आर्यपुत्र आलिखितः ?
** लक्ष्मणः—**
सोऽयं शैलः ककुभसुरभिर्माल्यवान्नाम यस्मिन्
नीलः स्निग्धः श्रयति शिखरं नूतनस्तोयवाहः।
आर्येणास्मिन्…………………………………..
** रामः—**
……विरम विरमाऽतः परं न क्षमोऽस्मि
प्रत्यावृत्तः स पुनरिव मे जानकीविप्रयोगः॥३०॥
** लक्ष्मणः—**अतः परमार्यस्य तत्रभवतां राक्षसानां चाऽपरिसंख्यान्युतरोत्तराणि कर्माश्चर्याणि। परिश्रान्ता चेयमार्या। तद्विज्ञापयामिविश्राम्यतामिति।
** सीता—**आर्यपुत्र ! एतेन चित्रदर्शनेन प्रत्युत्पन्नदोहलाया मम विज्ञापनीयमस्ति।
** रामः—**नन्वाज्ञापय।
** सीता—**जाने, पुनरपि प्रसन्नगम्भीरासु वनराजिषु विहृत्य पवित्रनिर्मलशिशिरसलिलां भगवतीं भागीरथीं अवगा- हिष्य इति।
** रामः—**वत्स लक्ष्मण !
** लक्ष्मणः**—एषोऽस्मि।
** रामः—**वत्स ! ‘अचिरादेव संपादनीयो दौहृद’ इति संप्रत्येव गुरुभिः संदिष्टम्। तदस्खलितसंपातं रथमुपस्थापय।
** सीता—**आर्यपुत्र ! युष्माभिरप्यागन्तव्यम्।
** रामः—**अयिकठिनहृदये ! एतदपि वक्तव्यम् ?
** सीता—**तेन हि प्रियं मे प्रियं मे।
** लक्ष्मणः—**यदाज्ञापयत्यार्यः। (इति निष्क्रान्तः।)
** रामः**—प्रिये ! वातायनोपकण्ठे संविष्टा भव।
** सीता**—एवं भवतु। अपहृतास्मि परिश्रमनिद्रया।
** रामः**—तेन हि निरन्तरमबलम्बस्व मामनुगमनाय।
** सीता**—(निद्रां नाटयन्ती।) अस्त्येतत्। आर्यपुत्र ! अस्त्येतत्।(इति स्वपिति।)
** रामः—**कथं प्रियवचनैव प्रसुप्ता। (निर्वर्ण्य)
इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो-
रसावस्याः स्पर्शो वपुपि वहुलश्चन्दनरसः।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः
किमस्या न प्रेयो यदि परमसह्यस्तु विरहः॥३१॥
(प्रविश्य।)
** प्रतीहारी—**देव उपस्थितः।
** रामः—**अयि, कः ?
** प्रतिहारी—**आसन्नपरिचारको देवस्य दुर्मुखः।
** रामः—**(स्वगतम्) शुद्धान्तचारी दुर्मुखः स मया पौरजानपदेष्वपसर्पः प्रहितः। (प्रकाशम्।) आगच्छतु।
(प्रतीहरी निष्क्रान्ता।
(प्रविश्य।)
** दुर्मुखः—**(स्वगतहा कथमिदानीं देवीमन्तरणेदृशमचिन्तनीयं जनापवादं देवस्य कथयिष्यामि। अथवा नियोगः खलु मम मन्दभागधेयस्यैषः।
सीता—(उत्स्वप्नायते।) आर्यपुत्र ! कुत्रासि।
**रामः—**सेयमेव रणरणकदायिनी चित्रदर्शनाद्विरहभावना देव्याः स्वप्नोद्योगं करोति। (सस्नेहमङ्गमस्याः परामृ- शम्।)
अद्वैत सुखदुःखयोरनुगतं सर्वास्ववस्थासु य-
द्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः॥
कालेनावरणात्ययात्परिणते यत्प्रेमसारे स्थितं
भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्रार्थ्यते॥३२॥
दुर्मुखः—(उपसृत्य।) जयतु देवः।
**रामः—**ब्रूहि यदुपलब्धम्।
** दुर्मुखः—**उपस्तुवन्ति देवं पौरजानपदा यथा विस्मरिता वयं महाराजं दशरथं रामदेवेनेति।
**रामः—**अर्थवाद एवैषः। दोषं तु मे कथंचित्कथय येन प्रतिविधीयते।
दुर्मुखः—(मास्त्रम्।) शृणोतु महाराजः। एवमिव।
**रामः—**अहह, अतितीव्रोऽयं वाग्वज्रः। (इति मूर्च्छति।)
**दुर्मुखः—**आश्वसितु देवः।
** रामः—**(आश्वस्य।)
हा हा धिक्परगृहवासदूषणं य-
द्वैदेह्याः प्रशमितमद्भुतैरुपायैः।
एतत्तत्पुनरपि दैवदुर्विपाका-
दालर्कं विषमिव सर्वतः प्रसक्तम्॥३३॥
तत्किमद्य मन्दभाग्यः करोमि। (विमृश्य, सकरुणम्) अथवा किमेतत्—
सतां केनापि कार्येण लोकस्याराधनं परम्।
तत्प्रतीतं हि तातेन मां च प्राणांश्च मुञ्चता॥३४॥
संप्रत्येव च भगवता वसिष्ठेन संदिष्टम्। अपि च।
यत्सावित्रैर्दीपितं भूमिपालै-
र्लोकश्रेष्ठैः साधुचित्रं चरित्रम्।
मत्संबन्धात्कश्मला किंवदन्ती
स्याच्चेदस्मिन्हन्त धिङ्मामधन्यम्॥३५॥
हा देवि देवयजनसंभवे! हा स्वजन्मानुग्रहपवित्रितवसुंधरे! हा मुनिजनकनन्दिनि! हा पावकवसिष्ठारुन्धतीप्रशस्तशीलशालिनि! हा राममयजीविते! हा महारण्यवासप्रियसखि! हा तातप्रिये! हा स्तोकवादिनि! कथमेवंविधायास्तवायमीदृशः परिणामः ?
त्वया जगन्ति पुण्यानि त्यय्यपुण्या जनोक्तयः।
नाथवन्तस्त्वया लोकास्त्वमनाथा विपत्स्यसे॥३५॥
(दुर्मुखं प्रति।) दुर्मुख! ब्रूहि लक्ष्मणम्। एष नूतनो राजा रामः समाज्ञापयति। (कर्णे। ) एवमेवम्। इति।
** दुर्मुखः—**हा, कथमग्निपरिशुद्धाया गर्भस्थितपवित्रसंतानाया देव्यादुर्जनवचनादिदं व्यवसितं देवेन।
**रामः—**शान्तं पापम्, शान्तं पापम्। दुर्जना नाम पौरजानपदाः ?
इक्ष्वाकुवंशोऽभिमतः प्रजानां
जातं च देवाद्वचनीयबीजम्।
यच्चाद्भुतं कर्म विशुद्धिकाले
प्रत्येतु कस्तद्यदिदूरवृत्तम्॥३६॥
तद्गच्छ।
** दुर्मुखः—**हा देवि! (इति निष्क्रान्तः।)
रामः— हा कष्टम्। अतिबीभत्सकर्मा नृशंसोऽस्मि संवृत्तः।
शैशवात्प्रभृति पोषितां प्रियां
सौहृदादपृथगाश्रयामिमाम्।
छद्मना परिददामि मृत्यवे
सौनिके गृहशकुन्तिकामिव॥३७॥
तत्किमस्पृश्यः पातकी देवीं दूषयामि। इति सीतायाः शिरः समुन्नमय्य बाहुमाकृष्य। )
अपूर्वकर्मचण्डालमयि मुग्धे ! विमुञ्च माम्।
श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम्॥३८॥
(उत्थाय।) हन्त हन्त, संप्रति विपर्यस्तो जीवलोकः। अद्याऽवसितं जीवितप्रयोजनं रामस्य। शून्यमधुना जीर्णारण्यं जगत्। असारः संसारः। काष्ठप्रायं शरीरम्। अशरणोऽस्मि। किं करोमि। का गतिः। अथवा—
दुःखसंवेदनायैव रामे चैतन्यमागतम्।
मर्मोपघातिभिः प्राणैर्वज्रकीलायितं हृदि॥३६॥
हा अम्ब अरुन्धति ! भगवन्तौ वसिष्ठविश्वामित्रौ ! भगवन्पावक! हा देवि भूतधात्रि ! हा तात जनक ! हा मातः ! हा प्रियसख महाराज सुग्रीव ! सौम्य हनूमन् ! लङ्काधिपते विभीषण ! हा सखि त्रिजटे ! परिमुषिताः स्थ परिभूताः स्थ रामहतकेन। अथवा को नाम तेषामहमिदानीमाह्वाने।
ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना।
मया गृहीतनामानः स्पृश्यन्त इव पाप्मना॥४०॥
जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम्।
यो देवयजने ! पुण्ये ! पुण्यशीलामजीजनः॥४१॥
(इति रुदनिष्क्रान्तः।)
**सीता—**हा सौम्य आर्यपुत्र ! कुत्रासि। हा धिक्। दुःस्वप्नरणरणकविप्रलब्धा आर्यपुत्रशून्यमिवात्मानं पश्यामि। हा धिक् हा धिक्।
एकाकिनीं प्रसुप्तां मामुज्झित्वा कुत्र गतो नाथः। भवतु। अस्मै कोपिष्यामि यदि तं प्रेक्षमाणा आत्मनः प्रभविष्यामि। कोऽत्र परिजनः।
[प्रविष्य]
** दुर्मुखः—**देवि ! कुमारलक्ष्मणो विज्ञापयति—‘सज्जो रथः। तदारोहतु देवी’ इति।
** सीता—**इयमारूढास्मि। स्फुरति मे गर्भभारः। शनैर्गच्छामः।
** दुर्मुखः—**इत इतो देवी।
** सीता—**नमो रघुकुलदेवताभ्याम्।
[इति निष्क्रान्ताः सर्वे।]
इति महाकवि श्रीभवभूतिविरचित उत्तररामचरिते
प्रथमोऽङ्कः
[नेपथ्ये]
स्वागतं तपोधनायाः।
[ततः प्रविशत्यध्वगवेषा तापसी।]
** तापसी**—अये वनदेवता फलकुसुमगर्भेण पल्लवार्घ्येण दूरान्मामुपतिष्ठते।
[ प्रविश्य।]
** वनदेवता—**[अर्घ्यंवितिर्य।]
यथेच्छाभोग्यं वो वनमिदमयं मे सुदिवसः
सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति।
तरुच्छाया तोयं यदपि तपसां योग्यमशनं
फलं वा मूलं वा तदपि न पराधीनमिह वः॥१॥
** तापसी**—किमत्रोच्यते ?
प्रियप्राया वृत्तिर्विनयमधुरो वाचिनियमः
प्रकृत्या कल्याणी मतिरनवगीतः परिचयः।
पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं
रहस्यं साधूनामनुपधि विशुद्ध विजयते॥२॥
[उपविशतः।]
** वनदेवता—**कां पुनरत्रभवतीमवगच्छामि।
**तापसी—**आत्रेय्यस्मि।
**वनदेवता—**आर्ये आत्रेयि ! कुतः पुनरिहागम्यते किंप्रयोजनोदण्डकारण्योपधनप्रचारः?
** आत्रेयी—**
अस्मिन्नगस्त्यप्रमुखाः प्रदेशे
भूयांस उद्गीथविदो वसन्ति।
तेभ्योऽधिगन्तुं निगमान्तविद्यां
वाल्मीकिपार्श्वादिह पर्यटामि॥३॥
वनदेवता—यदा तावदन्येऽपि मुनयस्तमेव हि पुराणब्रह्मवादिनं प्राचेतसमृषिं ब्रह्मपारायणायोपासते। तत्कोऽयमार्यायाः प्रवासः ?
**आत्रेयी—**तस्मिन्हि महानध्ययनप्रत्यूह इत्येष दीर्घप्रवासोऽङ्गीकृतः।
**वनदेवता—**कीदृशः ?
**आत्रेयी—**तस्य भगवतः केनापि देवताविशेषेण सर्वप्रकाराद्भुतं स्तन्यत्यागमात्रके वयसि वर्तमानं दारकद्वयमुपनीतम्। तत्खलु न केवलं तस्य, अपितु तिरश्चामप्यन्तः करणानि तत्त्वान्युपस्नेहयति।
**वनदेवता—**अपि तयोर्नामसंज्ञानमस्ति ?
**आत्रेयी—**तथैव किल देवतया तयोः कुशलवाविति नामनी च प्रभावश्चाख्यातः।
** वनदेवता—**कीदृशः प्रभावः ?
आत्रेयी—तयोः किल सरहस्यानि जृम्भकास्त्राणि जन्मसिद्धानीति।
** वनदेवता—**अहो नु भोश्चित्रमेतत्।
**आत्रेयी—**तौ च भगवता वाल्मीकिना धात्रीकर्मतः परिगृह्य पोषितौ रक्षितौ च। निर्वृत्तचौलकर्मणोस्तयोस्त्रयीवर्जमितरास्तिस्रो विद्याः सावधानेन परिनिष्ठापिताः। तदनन्तरं भगवतैकादशे वर्षे क्षात्रेण
कल्पेनोपनीय त्रयीविद्यामध्यापितौ। न त्वेताभ्यामतिदीप्तिप्रज्ञाभ्यामस्मदादेः सहाध्ययनयोगोऽस्ति। यतः—
वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जड़े
न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा।
भवति हि पुनर्भूयान्भेदः फलं प्रति तद्यथा
प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः॥४॥
** वनदेवता**—अयमध्ययनप्रत्यूहः ?
**आत्रेयी—**अन्यश्च।
**वनदेवता—**अथापरः कः ?
आत्रेयी—अथ स ब्रह्मर्पिरेकदा माध्यदिनसधनाय नदीं तमसामनुप्रपन्नः। तत्र युग्मचारिणोः क्रौञ्चयोरेकं व्याधेन वध्यमानं ददर्श आकस्मिकप्रत्यवभासां देवीं वाचमानुष्टुभेन छन्दसा परिणतामभ्युदैरयत्।
मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्कौञ्चमिथुनादेकमवधीः काममोहितम्॥५॥
** वनदेवता—**आम्नायादन्यत्र नूतनच्छन्दसामवतारः ?
**आत्रेयी—**तेन हि पुनः समयेन तं भगवन्तमाविर्भूतशब्दप्रकाशमृषिमुपसंगम्य भगवान्भूतभावनः पद्मयोनिरवो- चत्—“ऋषे ! प्रबुद्धोऽसि वागात्मनि ब्रह्मणि। तद्ब्रूहि रामचरितम्। अव्याहतज्योतिरार्षं ते चक्षुः प्रतिभातु। आद्यः कविरसि” इत्युक्त्वाऽन्तर्हितः। अथ स भगवान् प्राचेतसः प्रथमं मनुष्येषु शब्दब्रह्मणस्तादृशं विवर्तमितिहासं रामायणं प्रणिनाय।
** वनदेवता**—हन्त, पण्डितः संसारः।
**आत्रेयी—**तस्मादेव हि ब्रवीमि तत्र महानध्ययनप्रत्यूह इति।
**वनदेवता—**युज्यते।
**आत्रेयी—**विश्रान्तास्मि भद्र। संप्रत्यगस्त्याश्रमस्यपन्थानं ब्रूहि।
** वनदेवता—**इतः पञ्चवटीमनुप्रविश्य गम्यतांमनेन गोदावरीतीरेण।
आत्रेयी—(शास्रम्।) अप्येतत्तपोवनम् ? अप्येषा पञ्चवटी ? अपि सरिदियं गोदावरी ? अप्यर्यं गिरिः प्रस्त्रवणः ? अपि जनस्थानवनदेवता त्वं वासन्ती ?
** वनदेवता—**तथैव तत्सर्वम्।
आत्रेयी— हा वत्से जानकि !
स एष ते वल्लभशाखिवर्गः
प्रासङ्गिकीनां विषयः कथानाम्।
त्वां नामशेषामपि दृश्यमानः
प्रत्यक्षदृष्टामिव नः करोति॥६॥
वासन्ती—(सभयम्। स्वगतम्। कथं नामशेषेत्याह?
(प्रकाशम्।)
किमत्याहितं सीता देव्याः ?
**आत्रेयी—**न केवलमत्यादितम्, सापवादमपि। (कर्णे) एवमिति।
वासन्ती—हा दारुणो दैवनिर्घातः। (इति मूर्च्छति। )
** आत्रेयी—**भद्रे ! समाश्वसिहि।
**आत्रेयी—**हा प्रियसखि ! ईदृशस्ते निर्माणभागः। हा रामभद्र !। अथवा अलं त्वया। आर्ये आत्राय! अथ तस्मादरण्यात्परित्यज्य निवृत्ते लक्ष्मणे सीतायाः किं वृत्तमिति काचिदासीत्प्रवृत्तिः ?
** आत्रेयी**—नहि नहि।
** वासन्ती—**कष्टम्। आर्यारुन्धतीवसिष्ठाधिष्ठितेषु नः कुलेषु, जीवन्तीषु च वृद्धासु राज्ञीषु कथमिदं जातम् ?
** आत्रेयी—**ऋष्यश्रृङ्गसत्रे गुरुजनस्तदासीत्। संप्रति परिसमाप्तं द्वादशवार्षिकं सत्रम्। ऋष्यशृङ्गेण च संपूज्य विसर्जिता गुरवः। ततोभगवत्यरुन्धती—“नाहं वधूविरहितामयोध्यां गच्छामि” इत्याह। तदेव राममातृभिरनुमोदितम्। तदनुरोधाद्भगवतो वसिष्ठस्यापि श्रद्धा— “वाल्मीकिवनं गत्वा तत्र वत्स्यामः” इति।
** वासन्ती—**अथ स रामभद्रः किमाचारः ?
** आत्रेयी—**तेन राज्ञा राजक्रतुरश्वमेधः प्रकान्तः।
** वासन्ती—**अहह धिक्। परिणीतमपि ?
** आत्रेयी—**शान्तम्। नहि नहि।
** वासन्ती—**का तर्हि यज्ञे सहधर्मचारिणी।
** आत्रेयी—**हिरण्मयी सीताप्रतिकृतिर्गृहिणीकृता।
** वासन्ती—**हन्त भोः—
वज्रादपि कठोराणि मृदृनि कुसुमादपि।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥७॥
** आत्रेयी—**विसृष्टश्च वामदेवानुमंत्रितो मेध्याश्वः। प्रक्लृप्ताश्च तस्य यथाशास्त्रं रक्षितारः। तेषामधिष्ठाता लक्ष्मणात्मजश्चन्द्रकेतुर्दत्तदिव्यास्त्रसंप्रदायश्चतुरङ्गसाधनान्वितोऽनुप्रहितः।
** वासन्ती—**( सहर्षकौतुकास्त्रम्। ) कुमारलक्ष्मणस्यापि पुत्र इति मातः ! जीवामि।
** आत्रेयी—**अत्रान्तरे ब्राह्मणेन मृतं पुत्रमुत्क्षिप्य राजद्वारे सोरस्ताडमब्रह्मण्यमुद्धोषितम्। ततः—न राजाऽपचार- मन्तरेण प्रजानामकाल-
** ** मृत्युः संचरतीत्यात्मदोषं निरूपयति करुणामये रामभद्रे सहसैवाऽशरीरिणी वागुदचरत्—
“शम्बूको नाम वृषलः पृथिव्यां तप्यते तपः।
शीर्षच्छेद्यः स ते राम ! तं हत्वा जीवय द्विजम्”॥८॥
इत्युपश्रुत्य कृपाणपाणिः पुष्पकमधिरुह्य सर्वा दिशो विदिशश्च शूद्रतापसान्वेषणाय जगत्पतिः संचारं समारब्धवान्।
** वासन्ती—**शम्बूको नामाधोमुखो धूमपः शूद्रोऽस्मिन्नैव जनस्थाने तपश्चरति। अपि नाम रामभद्रः पुनरिदं वनमलं कुर्यात् ?
** आत्रेयी**—भद्रे ! गम्यतेऽधुना।
** वासन्ती**—आर्ये आत्रेयि ! एवमस्तु। कठोरश्च दिवसः-
** रामः—**
कण्डूलद्विपगण्डपिण्डकषणाकम्पेन संपातिभिः
धर्मस्रंसितबन्धनैश्च कुसुमैरर्चन्ति गोदावरीम्।
छायापस्किरमाणविष्किरमुखव्याकृष्टकीटत्वचः
कूजत्क्लान्तकपोतकुक्कुटकुलाः कूले कुलायद्रुमाः॥६॥
( इति परिक्रम्य निष्क्रान्ते। )
इति शुद्धविष्कम्भः।
[ततः प्रविशति सदयोद्यतखड्गोरामभद्रः।]
** रामः—**
है हस्त ! दक्षिण मृतस्य शिशोर्द्विजस्य
जीवातवे विसृज शूद्रमुनौ कृपाणम्।
रामस्य बाहुरसि निर्भरगर्भखिन्न-
सीताविवासनपटोः करुणा कुतस्ते॥१०॥
(कथंचित्प्रहृत्य)
कृतं रामसदृशं कर्म। अपि जीवेत्स ब्राह्मणपुत्रः ?
(प्रविश्य)
** दिव्यपुरुषः**—जयतु देवः—
दत्ताभये त्वयि यमादपि दण्डधारे
संजीवितः शिशुरसौ मम चेयमृद्धिः।
शम्बूक एवं शिरसा चरणौ नतस्ते
सत्सङ्गजानि निधनान्यपि तारयन्ति॥११॥
** रामः—** द्वयमपि प्रियं नः। तदनुभूयतामुग्रस्य तपसः परिपाकः—
यत्राऽऽनन्दाश्च मोदाश्च यत्र पुण्याश्च संपदः।
वैराजा नाम ते लोकास्तैजसाः सन्तु ते शिवाः॥१२॥
** शम्बूकः—** स्वामिन्! युष्मत्प्रसादादेवैष महिमा। किमत्र तपसा ? अथवा महदुपकृतं तपसा—
अन्वेष्टव्यो यदसि भुवने लोकनाथः शरण्यो-
मामन्विष्यन्निह वृषलकं योजनानां शतानि।
क्रान्त्वा प्राप्तः स इह तपसां संप्रसादोऽन्यथा तु
क्वायोध्यायाः पुनरुपगमो दण्डकायां वने वः॥१३॥
** रामः—**किं नाम दण्डकेयम् ? (सर्वतोऽवलोक्य।) हा, कथम्—
स्निग्धश्यामाः क्वचिदपरतो भीषणाभोगरूक्षाः
स्थाने स्थाने मुखरककुभो झांकृतैर्निर्झराणाम्।
एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्राः
संदृश्यन्ते परिचितभुवो दण्डकारण्यभागाः॥१४॥
** शम्बूकः**—ण्डकैवैषा। अत्र किल पूर्वं निवसता देवेन—
चतुर्दश सहस्राणि चतुर्दश च राक्षसाः।
त्रयश्च दूषणखरत्रिमूर्धानो रणे हताः॥१५॥
येन सिद्धक्षेत्रेऽस्मिन्माद्वशामपि जानपदानामकुतोभयः संचारः संवृत्तः।
** रामः**—न केवलं दण्डकैव, जनस्थानमपि ?
** शम्बूकः**—बाढम्। एतानि खलु सर्वभूतरोमहर्षणान्युन्मत्तचण्डश्वापदकुलाऽऽक्रान्तविकटगिरिगह्वराणि जन- स्थानपर्यन्तदीर्घारण्यानि दक्षिणां दिशमभिवर्तन्ते। तथाहि-
निष्कूजस्तिमिताः क्वचित्क्वचिदपि प्रोच्चण्डसत्त्वस्वनाः
स्वेच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्ताग्नयः।
सीमानः प्रदरोदरेषु विरलस्वल्पाम्भसो यास्वयं
तृष्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते॥१६॥
** रामः—**
पश्यामि च जनस्थानं भूतपूर्वखरालयम्।
प्रत्यक्षानिव वृत्तान्तान्पूर्वाननुभवामि च॥१७॥
(सर्वतोऽवलोक्य) प्रियाऽऽरामा हि वैदेह्यासीत्। एतानि नाम कान्ताराणि। किमतः परं भयानकं स्यात्। (सास्रम्।)
त्वया सह निवत्स्यामि वनेषु मधुगन्धिषु।
इतीवारमहाऽसौ स्नेहस्तस्याः स तादृशः॥१८॥
न किंचिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः॥१६॥
** शम्बूकः—**तदलमेभिर्दुरासदैः। अथैतानि मदकलमयूरकण्ठकोमलच्छविभिरकीर्णानि पर्यन्तैः, अविरलनिविष्ट- नीलबहुलच्छायातरुषण्डमण्डितानि, असंभ्रान्तविविधमृगयूथानि पश्यतु महाभागः प्रशान्तः गम्भीराणि श्वापदकुलशरण्यानि महाऽरण्यानि—
इह समदशकुन्ताऽऽक्रान्तवानीरमुक्त-
प्रसवसुरभिशीतस्वच्छतोया वहन्ति।
फलभरपरिणामश्यामजम्बूनिकुञ्ज-
स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ॥२०॥
** अपि च—**
दधति कुहरभाजामत्र भल्लूकयूना-
मनुरसितगुरूणि स्त्यानमम्बूकृतानि।
शिशिरकटुकषायः स्त्यायते सल्लकीना-
मिभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ॥२१॥
** रामः—**(सवाष्पस्तम्भम्।) भद्र ! शिवास्ते पन्थानो देवयानाः। प्रलयस्व पुण्येभ्यो लोकेभ्यः।
** शम्बूकः —** यावत्पुराणब्रह्मर्षिमगस्त्यमभिवाद्य शाश्वतं पदमनुप्रविशामि।(इति निष्क्रान्तः।)
** रामः—**
एतत्पुनर्वनमहो कथमद्य दृष्टं
यस्मिन्नभूम चिरमेव पुरा वसन्तः।
आरण्यकाश्च गृहिणश्च रताः स्वधर्मे
सांसारिकेषु च सुखेषु वयं रसज्ञाः ॥२२॥
एते त एव गिरयो विरुवन्मयूरा-
स्तान्येव मत्तहरिणानि वनस्थलानि।
आमञ्जुबञ्जुलरुतानि च तान्यमूनि
नीरन्ध्रनीपनिचुलानि सरित्तटानि ॥२३॥
मेघमालेव यश्चायमारादिव विभाव्यते।
गिरिः प्रस्रवणः सोऽयमत्र गोदावरी नदी ॥२४॥
अस्यैवासीन्महति शिखरे गृध्रराजस्य वास-
स्तस्याधस्ताद्वयमपि रतास्तेषु पर्णोटजेषु।
गोदावर्याः पयसि विततानोकहश्यामलश्री-
रन्तः कूजन्मुखरशकुनो यत्र रम्योवानान्तः॥२५॥
अत्रैव सा पञ्चवटी यत्र निवासेन विविधविस्त्रम्भाऽतिप्रसङ्गसाक्षिणः प्रदेशाः प्रियायाः प्रियसखी च वासन्ती नाम वनदेवता। किमिदमापाततमद्य रामस्य ? संप्रति हि—
चिराद्वेगारम्भी प्रसृत इव तीव्रो विषरसः
कुतश्चत्संवेगात्प्रचल इव शल्यस्य शकलः।
व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः
पुराभूतः शोको विकलयति मां नूतन इव॥२६॥
तथा विधानपि तावत्पूर्वसुहृदो भूमिभागान्पश्यामि।
(निरूप्य)
अनवस्थितो भूतसंनिवेशः। तथाहि—
पुरा यत्र स्रातः पुलिनमधुना तत्र सरितां
विषर्यासं यातो घनविरलभावः क्षितिरुहाम्।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं
निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति॥२७॥
हन्त हन्त। परिहरन्तमपि मां पञ्चवटी स्नेहाद्वलादाकर्षतीव।
(सकरुणम्।)
यस्यां ते दिवसास्तया सह मया नीता यथा स्वे गृहे
यत्संबन्धकथाभिरेव सततं दीर्घाभिरास्थीयत।
एकः संप्रति नाशितप्रियतमस्तामेव रामः कथं
पापः पञ्चवटीं विलोकयतु वा गच्छत्वसंभाव्य वा॥२८॥
(प्रविश्य)
** शम्बूकः**—जयतु देवः। भगवानगस्त्यो मत्तः श्रुतसंनिधानस्त्वामाह—“परिकल्पितावरणमङ्गला प्रतीक्षते वत्सला लोपामुद्रा, सर्वे च महर्षयः। तदेहि। संभावयास्मान्। अथ प्रजविना पुष्पकेण स्वदेशमुपगत्याश्वमेधसज्जोस भव” इति।
** रामः—**यथाज्ञापयति भगवान्।
** शम्बूकः**—इत इतो देयः।
** रामः**—(पुष्पकं प्रवर्तयन्। भगवति पञ्चवटि ! गुरुजनादेशोपरोधात् क्षणं क्षम्यतामतिक्रमो रामस्य।
** शम्बूकः—**देव ! पश्य—
गुञ्जत्कुुञ्जकुटीरकौशिकघटाघुक्कारवत्कीवक-
स्तम्बाडम्बरम्रकमौकलिकुलः क्रौञ्चाऽभिधाऽयं गिरिः।
एतस्मिन्प्रचलाकिनां प्रबलतामुद्वेजिताः कृजितै-
रुद्वेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः॥२६॥
** अति च—**
एते ते कुहरेषु गद्गदनदद्गोदावरीवारयो-
मेघाऽऽलम्बितमौलिनीलाशेखराः क्षोणीभृतो दाक्षिणाः।
अन्योन्यप्रतिघातसंकुलचलत्कल्लोलकोलाहलै-
रुत्तालास्त इमे गभीरपयसः पुण्याः सरित्संगमाः॥३०॥
(इति निष्क्रान्ताः सर्वे।)
**इति द्वितीयोऽङ्कः।
(ततः प्रविशति नदीद्वयम्। )
** एका**—सखि मुरले! किमसि संभ्रान्तेव ?
** मुरला—सखि तमसे ! प्रेषितास्मि भगवतोऽगस्त्य पत्न्या लोपामुद्रया सरिद्वरां गोदावरीमभिधातुम्—“**जानास्येव यथा वधूपरित्यागात्प्रभृति-
अनिर्भिन्नो गभीरत्वादन्तर्गुढघनव्यधः।
पुटपाकप्रतीकाशो रामस्य करुणो रसः॥१॥
तेन च तथाविधेष्टजनकष्टविनिपातजन्मना प्रकृष्टगद्गदेन दीर्घशोकसंतानेन संप्रति परिक्षीणो रामभद्रः। तमवलोक्य कम्पितमिव कुसुमसमबन्धनं मे हृदयम्। अधुना च रामभद्रेण प्रतिनिवर्तमानेन नियनमेव पञ्चवटीचने वधूसहनिवासविस्त्रम्भसाक्षिणः प्रदेशा द्रष्टव्याः। तत्र च निसर्गधीरस्याऽप्येवंविधायामवस्थाया मतिगम्भीराभोगशोकक्षोभसंवेगात् पदे पदे महाप्रमादानि शोकस्थानानि शङ्कनीयानि। तद्भगवति गोदावरि ! त्वया तत्रभवत्या सावधानया भवितव्यम्—
वीचीवातैः शीकरक्षोदशीतै-
राकर्षद्भिः पद्मकिञ्जल्कगन्धान्।
मोहे मोहे रामभद्रस्य जीवं
स्वैरं स्वैरं प्रेरितैस्तर्पयेति॥२॥
** तमसा—**उचितमेव दाक्षिण्यं स्नेहस्य। संजीवनोपायस्तु मूलत एव रामभद्रस्य संनिहितः।
** मुरला—**कथमिव ?
** तमसा**—तत्सर्वं श्रूयताम्। अस्ति खलु वाल्मीकितपोवनोपकण्ठात् परित्यज्य निवृत्ते सति लक्ष्मणे सीता देवी प्राप्तप्रसववेदनमतिदुःखसंवेगादात्मानं गङ्गाप्रवाहे निक्षिप्तवती। तदैव तत्र दारकद्वयं च प्रसूता भगवतीभ्यां पृथ्वीभागीरथीभ्यामप्युभाभ्यामभ्युपपन्ना रसातलं च नीता। स्तन्यत्यागात्परेण दारकद्वयं च तस्य प्राचेतसस्य महर्षेर्गङ्गादेव्या समर्पितं स्वयम्।
** मुरला—**(सविस्मयम्। )
ईदृशानां विपाकोऽपि जायते परमाऽद्भुतः।
यत्रोपकरणीभावमायात्येवंविधो जनः॥३॥
** तमसा**—इदानीं तु शम्बूकवृत्तान्तेनाऽनेन संभावितजनस्थानं रामभद्रं सरयूमुवादुपश्रूत्य भगवती भागीरथी यदेव लोपामुद्रया स्नेहादभिशङ्कितं तदेवाभिशङ्क्य सीतासमेता केनचिदिव गृहाचारव्यपदेशेन गोदावरीमुपागता।
** मुरला—**सुष्ठु चिन्तितं भगवत्या भागीरथ्या। राजनीतिस्थितस्यास्य खलु तैश्च तैश्च जगतामाभ्युदयिकैः कार्यैर्व्यापृतस्य रामभद्रस्य नियताश्चित्तविक्षेपाः। अव्यग्रस्य पुनरस्य शोकमात्रद्वितीयस्य पञ्चवटीप्रवेशो महाननर्थ इति। कथं सीतया रामभद्रोऽयमाश्वासनीयः स्यात्।
** तमसा**—भगवत्या भागीरथ्या ‘वत्से देवयजनसंभवे सीते, अद्य खल्वायुष्मतोः कुशलवयोर्द्वादशस्य जन्मवत्सरस्य संख्यामङ्गलग्रन्थिरभिवर्तते। तदात्मनः पुराणश्वशुरमेतावतो मानवस्य राजर्षिवंशस्य प्रसवितारं सवितारमपहतपाप्मानं देवं स्वहस्तापचितैः पुष्पैरुपतिष्ठस्व। न त्वामवनिपृष्ठवर्तिनीमस्मत्प्रभावाद्वनदेवता अपि द्रक्ष्यन्ति किमुत मर्त्याः’इति। अहमप्याज्ञापिता ‘तमसे ! त्वयि प्रकृष्टप्रेमैव
वधूर्जानकी। अतस्त्वमेवास्याः प्रत्यनन्तरीभवइति। साहमधुना यथादिष्टमनुतिष्ठामि।
** मुरला—**अहमप्येतं वृत्तान्तं भगवत्यै लोपामुद्रायै निवेदयामि। रामभद्रोऽप्यागत एवेति तर्कयामि।
** तमसा—**तदियं गोदावरीहृदाग्निर्गत्य—
परिपाण्डुदुर्बलकपोलसुन्दरं
दधती विलोलकबरीकमाननम्।
करुणस्य मूर्तिरथवा शरीरिणी
विरहव्यथेव वनमेति जानकी॥४॥
** मुरला—**इयं हि सा—
किसलयमिव मुग्धं बन्धनाद्विप्रलूनं
हृदयकमलशोषी दारुणो दीर्घशोकः।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं
शरदिज इव घर्मः केतकीगर्भपत्रम्॥५॥
(इति परिक्रम्य निष्क्रान्ते।)
**इति शुद्धविष्कम्भः। **
(नेपथ्ये।)
जात ! जात !
(ततः प्रविशति पुण्याऽपचयव्यग्रा सकरुणौत्सुक्यमाकर्णयन्ती सीता। )
** सीता—**अहो, जानामि प्रियसखी वासन्ती व्याहरतीति।
(पुनर्नेपथ्ये।)
सीतादेव्या स्वकरकलितैः सल्लकीपल्लवाग्रै-
रग्रेलोलः करिकलभको यः पुरा वर्धितोऽभूत्।
** सीता—**किं तस्य ?
(पुनर्नेपथ्ये।)
वध्वा सार्धं पयसि विहरन् सोऽयमन्येन दर्पात्
उद्दामेन द्विरदपतिना सन्निपात्याऽभियुक्तः॥६॥
** सीता**—(ससंभ्रमम्। कतिचित्पदानि गत्वा।) आर्यपुत्र ! परित्रायस्व मम पुत्रकम्।(विचिन्त्य) हा धिक्, हा धिक्, तान्येव चिरपरिचितान्यक्षराणि पञ्चवटीदर्शनेन मां मन्दभागिनी मनुबध्नन्ति। हा आर्यपुत्र !
(प्रविश्य।)
** तमसा**—वत्से ! अलं विवादेन।
(नेपथ्ये।)
विमानराज ! अत्रैव स्थीयताम्।
** सीता**—अहो, जलभरभरितमेघमन्थरस्तनितगंभीरमांसलः कुतो नु भारतीनिर्घोषो प्रियमाणकर्णविवरां मामपि मन्दभागिनीं झटित्युत्सुकापयति। स्वरसंयोगेन प्रत्यभिजानामि नन्वार्यपुत्रेणैवैतद्व्याहृतमिति।
** तमसा—**श्रूयते किल तपस्यतः शुद्रस्य दण्डधारणार्थमैक्ष्वाकोराजा दण्डकारण्यमागत इति।
** सीता**—दिष्ट्या अपरिहीनधर्मः स राजा।
(नेपथ्ये )
यत्र द्रुमा अपि मृगा अपि बन्धवो मे
यानि प्रिया सहचरश्चिरमध्यवात्सम्।
एतानि तानि बहुकन्दरनिर्झराणि
गोदावरीपरिसरस्य गिरे स्तटानि॥७॥
अनेन पञ्चवटी दर्शनेन—
अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः।
उत्पीड इव धूमस्य मोहः प्रागावृणोति माम्॥८॥
हा प्रिये जानाकि ! ( इति मूर्च्छति।)
** सीता—**भगवति तमसे ! परित्रायस्व परित्रायस्व। जीवयाऽऽर्यपुत्रम्।
** तमसा—**त्वमेव ननु कल्याणि ! संजीवय जगत्पतिम्।
** सीता**—यद् भवतु, तद् भवतु, यथा भगवत्याज्ञापयति। (इति ससंभ्रमं निष्क्रान्ता।)
(ततः प्रविशति भूमौनिपतितः सास्त्रया सीतया परिचर्यमाणो रामः।)
** सीता—**भगवति तमसे ! अपसराव तावत्। मां प्रेक्ष्याऽनभ्यनुज्ञातेन सन्निधानेन राजाधिकं कोपिष्यति।
** तमसा—**अयि वत्से ! भागीरथीवरप्रसादाद् वनदेवतानामप्यदृश्यासि।
** सीता—**भगवति ! निष्कारणपरित्यागिनोऽप्येतस्य दर्शनेनैवंविधेन कीदृशी मे हृदयाऽवस्था ?
** तमसा**—जानामि वत्से जानामि—
तटस्थं नैराश्यादपि च कलुषं विप्रियवशाद्
वियोगे दीर्घेऽस्मिन् झटिति घटनात्स्तम्भितमिव।
प्रसन्नं सौजन्याद्दयितकरुणैर्गाढकरुणं
द्रवीभूतं प्रेम्णा तव हृदयमस्मिन् क्षण इव॥६॥
(नेपथ्य)
अहो महान् प्रमादः, प्रमादः—(“सीतादेव्या स्वकरकलितैः” इत्यर्धं पठ्यते।)
** रामः—**(सकरुणौत्सुक्यम्।) किं तस्य ?।
(पुनर्नेपथ्ये)
(“वध्वा सार्धं पयसि” इत्युत्तरार्धं पठ्यते।)
** सीता**—( सनिर्वेदम्।) कः इदानीमभियुज्यते ?
** रामः**—क्वाऽसौ दुरात्मा यः प्रियायाः पुत्रं वधूद्वितीयमभिभवति।(इत्युतिष्ठति।)
(प्रविश्य।)
** वासन्ती—**(संभ्रान्ता) देव ! त्वर्यताम् त्वर्यताम्।
** सीता**—हा कथं मे प्रियसखी वासन्ती ?
** रामः—**कथं देव्याः प्रियसखी वासन्ती ?
** वासन्ती—**देव ! त्वर्यताम् त्वर्यताम्। इतो जटायुशिखरस्य दक्षिणेन सीतातीर्थेन गोदावरीमवतीर्य संभावयतु देव्याः पुत्रकं देवः।
** सीता—**हा तात जटायो ! शून्यं त्वया विनेदं जनस्थानम्।
** वासन्ती—**इत इतो देवः।
** सीता—**भगवति ! सत्यमेव वनदेवताऽपि मां न पश्यति ?
** तमसा—**अयिवत्से ! सर्वदेवताभ्यः प्रकृष्टतममैश्वर्यं मन्दाकिन्याः तत्किमिति विशङ्कसे ?
** सीता**—ततोऽनुसरावः। (इति परिक्रामति।)
** रामः—**भगवति गोदावरि ! नमस्ते।
** वासन्ती—**(निरूप्य।) देव ! मोदस्व विजयिना वधूद्वितीयेन देव्याः पुत्रकेण।
** रामः**—विजयतामायुष्मान्।
** सीताम—**अहो, ईदृशो मे पुत्रकः संवृत्तः। अवियुक्त इदानीं दीर्घायुरनया सौम्यदर्शनया भवतु। तमसे ! अयं तावदीदृशोजातः तौ पुन र्न जानाम्येतावता कालेन कुशलवौ कीदृशौ संवृत्ताविति ?।
** तमसा—**यादृशोऽयं तादृशौ तावपि।
** सीता—**ईदृश्यस्मि मन्दाभागिनी यस्या न केवलं आर्यपुत्रविरहः, पुत्रविरहोऽपि।
** तमसा—**भवितव्यतेयमीदृशी।
** सीता—**किंवा मया प्रसूतया, येनैतादृशं मम पुत्रकयोरीषद्विरलधवलदशनकुड्मलोज्ज्वलम्, अनुबद्धमुग्धकाक- लीविहसितम्, नित्योज्वलं मुखपुण्डरीकयुगलं न परिचुम्बितमार्यपुत्रेण।
** तमसा—**अस्तु देवताप्रसादात्।
** सीता—**भगवति तमसे ! एतेनाऽपत्यसंस्मरणेनोच्छ्वसितप्रस्नुतस्तनी इदानीं वत्सयोः पितुः सन्निधानेन क्षणमात्रं संसारिणी संवृत्ताऽस्मि।
** तमसा—**किमत्रोच्यते ? प्रसवः खलु प्रकृष्टपर्यन्तः स्नेहस्य, परं चेदमन्योन्यसंश्लेषणं पित्रोः—
अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात्।
आनन्दग्रन्थिरेकोऽयमपत्यमिति पठ्यते ॥१०॥
** वासन्ती—**अत्र तावदासनपरिग्रहं करोतु देवः। एतत्तुदेवस्याश्रमपदम्।(राम उपविशति।)
** वासन्ती—**
नीरन्ध्रबालकदलीवनमध्यवर्ती
कान्तासखस्य शयनीयशिलातलं ते।
अत्र स्थिता तृणमदाद्वानगोचरेभ्यः
सीता ततो हरिणकैर्न विमुच्यतेस्म॥११॥
** रामः—**इदमशक्यं द्रष्टुम्।
** सीता—**सखि वासन्ति ! किंत्वया कृतमार्यपुत्रस्य मम चैतद्दर्शयन्त्या। हाधिक् , स एवार्यपुत्रः। तदेव पंचवटी- वनम्। सैव प्रियसखी वासन्ती।त एव विविधविस्रम्भसाक्षिणोगोदावरी काननोद्देशाः।त एव जातनिर्विशेषा मृगपक्षिणः पादपाश्च। मम पुनर्मन्दभाग्याया दृश्यमानमपि सर्वमेवैतन्नास्ति। ईदृशोजीवलोकस्य परिणामः संवृत्तः।
** वासन्ती—**सखि सीते ! कथं न पश्यसि रामभद्रस्याऽवस्थाम्—
नव कुवलयस्निग्धै रङ्गैर्ददन्नयनोत्सवं
सततमपि नः स्वेच्छादृश्यो नवो नव एव सः।
विकलकरणः पाण्डुच्छायः शुचा परिदुर्बलः
कथमपि स इत्युन्नेतव्यस्तथापि दृशोः प्रियः॥१२॥
** सीता—**सखि ! पश्यामि।
** वासन्ती—**
ददतु तरवः पुष्पैरर्घ्यं फलैश्च मधुश्च्युतः
स्फुटितकमलाऽऽमोदप्रायाः प्रवान्तु वनाऽनिलाः।
कलमविरलं रज्यत्कण्ठाः क्वणन्तु शकुन्तयः
पुनरिदमयं देवो रामः स्वयं वनमागतः॥१३॥
** रामः—**एहि सखि वासन्ति ! नन्वितः स्थीयताम्।
** वासन्ती —**(उपविश्य सास्त्रम्।) महाराज ! अपिकुशलं कुमारलक्ष्मणस्य ?
** रामः —**(आत्मगतम्।) अये, “महाराज !” इतिनिष्प्रणय मामन्त्रणपदम्। सौमित्रिमात्रके वाष्पस्खलिताक्षरः कुशल प्रश्नः। तथामन्ये विदितसीतावृत्तान्तेयमिति। (प्रकाशम्) आः कुशलं कुमारलक्ष्मणस्य।
** वासन्ती**—(रुदती) अयिदेव ! किं परं दारुणः खल्वसि ?
** सीता—**सखि वासन्ति ! किंत्वमेवंवादिनी भवसि। पूजार्हः सर्वस्यार्यपुत्रो विशेषतो मम प्रियसख्याः।
** वासन्ती—**
त्वंजीवितं, स्वमसि मे हृदयं द्वितीयं,
त्वंकौमुदी नयनयो रमृतं त्वमङ्गे।
इत्यादिभिः प्रियशतै रनुरुध्य मुग्धां
तामेव—शान्तमथवा, किमतः परेण ?॥१४॥
(इतिमुह्यति।)
** तमसा—**स्थाने वाक्यनिवृत्ति र्मोहश्च।
** रामः—**सखि ! समाश्वसिहि समाश्वसिहि।
** वासन्ती—**(समाश्वस्य) तत्किमिदमकार्यमनुष्ठितं देवेन ?
** रामः—**लोको न मृष्यतीति।
** वासन्ती**—कस्य हेतोः ?
** रामः**—स एव जानाति किमपि।
** तमसा**—चिरादुपालम्भः।
** वासन्ती—**
अयि कठोर ! यशः किल ते प्रियं
किमयशो ननु घोर मतः परम्।
किमभवद्विपिने हरिणीदृशः
कथय नाथ ! कथं बत मन्यसे॥१५॥
** सीता**—सखि वासन्ति ! त्वमेव दारुणा कठोरा च। या एवं प्रलपन्तं प्रलापयसि।
** तमसा**—प्रणय एवं व्याहरति शोकश्च।
** रामः**—सखि ! किमत्र मन्तव्यम्—
त्रस्तैकहायनकुरंगविलोलदृष्टे-
स्तस्याः परिस्फुरितगर्भभरालसायाः।
ज्योत्स्नामयीव मृदुबालमृणालकल्पा
क्रव्याद्भिरङ्गलतिका नियतं बिलुप्ता॥१६॥
(इति रोदिति।)
** सीता—**आर्यपुत्र ! धरामि एषा धरामि। अये, अत्य इव आर्यपुत्रः प्रमुक्तकण्ठं प्ररुदितो भवति।
** तमसा**—वत्से ! सांप्रतिकमेवैतत्। कर्त्तव्यानि खलु दुःखितैर्दुःखनिर्धारणानि।
पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया।
शोकक्षोभे च हृदयं प्रलापैरेव धार्यते॥१७॥
विशेषतो रामभद्रस्य बहुप्रकारकष्टो जीवलोकः—
इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा
प्रियाशोको जीवं कुसुममिव घर्मो ग्लपयति।
स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ—
स्तद्द्यप्युच्छ्वासो भवति ननु लाभो हि रुदितम्॥१८॥
** रामः**—कष्टं भोः कष्टम्—
दलति हृदयं शोकोद्वेगाद् द्विधातु न भिद्यते
वहति विकलः कायो मोहं न मुञ्चति चेतनाम्।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात्
प्रहरति विधि र्मर्मच्छेदी न कृन्तति जीवितम्॥१९॥
है भगवन्तः पौरजानपदाः !
न किल भवतां देव्याः स्थानं गृहेऽभिमतं तत-
स्तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता।
चिरपरिचिता स्तेते भावा स्तथा व्यथयन्ति मा-
मिदमशरणैरद्याऽस्माभिः प्रसीदत रुद्यते॥२०॥
** वासन्ती—**(स्वगतम्।) अतिगम्भीरमापूरणं मन्युभारस्य। (प्रकाशम्।) देव ! अतिक्रान्ते धैर्यमवलम्ब्यताम्।
** रामः—**किमुच्यते धैर्यमिति ?
देव्या शून्यस्य जगतो द्वादशः परिवत्सरः।
प्रणष्टमिव नामापि न च रामो न जीवति॥२१॥
अयि वासन्ति ! मया खलु
यथा तिरश्चीनमलातशल्यं
प्रत्युप्तमन्तः सविषश्च दन्तः।
तथैव तीव्रो हृदि शोकशङ्कु-
र्मर्माणि कृन्तन्नपि किं न सोढः॥२२॥
** सीता—**एवमपिमन्दभागिम्यहं या पुनरायासकारिणी आर्यपुत्रस्य।
** रामः—**एवमतिगूढस्तम्भिताऽन्तःकरणस्याऽपि मम संस्तुतवस्तुदर्शनादद्यायमावेगः।तथाहि—
वेलोल्लोलक्षुभितकरुणोज्जृम्भणस्तम्भनार्थं
यो यो यत्नः कथमपि समाधीयते तं तमन्तः।
हित्वा भित्वा प्रसरति बलात्कोपि चेतोविकार—
स्तोयस्येवाऽप्रतिहतरयः सैकतं सेतुमोघः॥२३॥
** वासन्ती—**(स्वगतम्।) कष्टमत्यासक्तो देवः।तदाक्षिपामि तावत्— (प्रकाशम्।) देव ! पश्य पश्य—
पौलस्त्यस्य जटायुषा विघटितः कार्ष्णायसोऽयं रथ-
स्ते चैते पुरतः पिशाचवदनाः कङ्कालशेषाः खराः।
खङ्गच्छिन्नजटायुपक्षतिरितः सीतां चलन्तीं वह-
न्नन्तर्व्यापृतविद्युदम्बुद इव द्यामभ्युदस्थादरिः॥२४॥
** सीता—**(सभयम्।) आर्यपुत्र ! तातो व्यापाद्यते।तस्मात्परित्रायस्व, अहमप्यपह्रिये।
** रामः**—(सवेगमुत्थाय।) आः पाप ! तातप्राणसीतापहारिन् लङ्कापते ! क्वयास्यसि ?
** वासन्ती**—अयि देव ! राक्षसकुलप्रलयधूमकेतो ! किमद्यापि ते मन्युविषयः ?
** सीता—**अहो, उद्भ्रान्तास्मि।
** रामः—**अन्य एवायमधुना विपर्ययो वर्तते।
उपयानां भावादविरलविनोदव्यतिकरै-
र्विमर्दैर्वीराणां जनितजगदत्यद्भुतरसः।
वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत्
कटुस्तूष्णीं सह्यो निरवधिरयं तु प्रविलयः॥२५॥
** सीता—**बहुमानितास्मि पूर्वविरहे। निरवधिरिति हा हतास्मि।
** रामः—**कष्टं भोः।
व्यर्थं यत्र कपीन्द्रसख्यमपि मे वीर्यं हरीणां वृथा
प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि।
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः
सौमित्रेरपि पत्रिणामविषये तत्र प्रिये ! क्वासि मे॥२६॥
** सीता—**बहुमानितास्मि पूर्वविरहे।
** रामः—**सखि वासन्ति ! दुःखायैव सुहृदामिदानीं रामदर्शनम्। कियच्चिरं त्वां रोदयिष्यामि। तदनुजानीहि मां गमनाय।
** सीता**—(सोद्वेगमोहं तमसामाश्लिष्य।) हा भगवति तमसे ! गच्छतीदानीमार्यपुत्रः। किं करोमि। (इति मूर्च्छति।)
** तमसा—**वत्से जानकि ! समाश्वसिहि समाश्वसिहि। विधिस्तवानुकूलो भविष्यति।तदायुष्मतोः कुशलषयोर्व- र्षर्द्धिमङ्गलानि संपादयितुं भागीरथीपदान्तिकमेव गच्छावः।
** रामः—**अस्ति चेदानीमश्वमेधसहधर्मचारिणी मे।
** सीता**—(सापेक्षम्) आर्यपुत्र ! का ?
** वासन्ती—**परिणीतमपि किम् ?
** रामः—**नहि नहि। हिरण्यमयी सीताप्रतिकृतिः।
** सीता—**(सोच्छ्वासास्रम्।) आर्यपुत्र ! इदानीमसि त्वम्। अहो, उत्खातितमिदानीं मे परित्यागशल्यमार्यपुत्रेण।
** रामः—**तथास्तु।
** सीता**—प्रतिकूलेदानीं मे वासन्ती संवृत्ता।
** तमसा**—वत्से ! एहि गच्छावः।
** सीता—**एवं करिष्यावः। नमः सुकृतपुण्यजनदर्शनीयाभ्यामार्यपुत्रचरणकमलाभ्याम्।(इति मूर्च्छति।)
** तमसा—**वत्से ! समाश्वसिहि।
** सीता—**(आश्वस्य) कियच्चिरं वा मेघान्तरेण पूर्णचन्द्रदर्शनम्।
** तमसा—**अहो संविधानकम्।
एको रसः करुण एव निमित्तभेदा-
द्भिन्नः पृथक्पृथगिव श्रयते विवर्तान्।
आवर्तबुद्बुदतरङ्गमयान्विकारा-
नम्भो यथा सलिलमेव हि तत्समस्तम्॥२७॥
** रामः—**विमानराज ! इत इतः।
(सर्वे उत्तिष्ठन्ति।)
** तमसावासन्त्यौ—**(सीतारामौ प्रति।)
अवनिरमरसिन्धुः सार्धमस्मद्विधाभिः
स च कुलपतिराद्यश्छन्दसां यः प्रयोक्ता।
स च मुनिरनुयातारुन्धतीको वसिष्ठ-
स्तव वितरतु भद्रं भूयसे मंगलाय॥२८॥
(इति निष्क्रान्ताः सर्वे।)
तृतीयोऽङ्कः।
चतुर्थोऽङ्कः।
(ततः प्रविशतस्तापसौ।)
** एकः—**सौधातके ! दृश्यतामद्यभूयिष्ठसन्निधापिताऽतिथिजनस्य समधिकाऽऽरम्भरमणीयता भगवतो बाल्मीके- राश्रमपदस्य।तथाहि—
नीवारौदनमण्डमुष्णमधुरं सद्यःप्रसूतप्रिया-
पीतादभ्यधिकं तपोवनमृगः पर्याप्तमाचामति।
गन्धेन स्फुरता मनागनुसृतो भक्तस्य सर्पिष्मतः
कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते॥१॥
** सौधातकिः**—स्वागतमनेकप्रकाराणां जीर्णकूर्चानामनध्ययनकारणानां तपोधनानाम्।
** प्रथमः—**(विहस्य।) अपूर्वः खलु बहुमानहेतुर्गुरुषु सौधातके?
** सौधातकिः**—भो दण्डायन ! किंनामधेय इदानीमेष महतः स्त्रीसार्थस्य धुरंधरोऽद्यातिथिरागतः।
** दण्डायनः—**धिक्प्रहसनम्। नन्वयमृष्यश्रृङ्गाऽऽश्रमादरुन्धतीं पुरस्कृत्य महाराजदशरथस्य दारानधिष्ठाय भगवा- न्वसिष्ठः प्राप्तः। तत्किमेवं प्रलपसि?
** सौधातकिः—**हुँ वसिष्ठः ?
** दण्डायनः—**अथ किम्।
** सौधातकिः**—मया पुनर्ज्ञातं कोऽपि व्याघ्र इव एष इति।
** दण्डायनः—**आः, किमुक्तं भवति ?
** सौधातकिः—**येन परापतितेनैव सा वराकी कपिला कल्याणी बलात्कृत्य मडमडायिता।
** दण्डायनः—“**समांसो मधुपर्कः” इत्याम्नायं बहुमन्यमानाः श्रोत्रियायाऽभ्यागताय वत्सतरीं महोक्षं वा पचन्ति गृहमेधिनः। तं हि धर्मं धर्मसूत्रकाराः समामनन्ति।
** सौधातकिः—**भोः, निगृहीतोऽसि।
** दण्डायनः—**कथमिव ?
** सौधातकिः—**येनाऽऽगतेषु वसिष्ठमिश्रेषु वत्सतरी विशसिता। अद्यैव प्रत्यागतस्य राजर्षेर्जनकस्य भगवता वाल्मीकिना दधिमधुभ्यामेव निर्वर्तितो मधुपर्कः। वत्सतरी पुनर्विसर्जिता।
** दण्डायनः—**अनिवृत्तमांसाना मेवं कल्पं व्याहरन्ति केचित्। निवृत्तमांसस्तु तत्रभवान् जनकः।
** सौधातकिः—**किंनिमित्तम् ?
** दण्डायनः—**यद्देव्याः सीतायास्तादृशं दैवदुर्विपाकमुपश्रुत्य वैखानसः संवृत्तः, तदस्य कतिपयसंवत्सरश्चन्द्रद्वीप- तपोवने तपस्तप्यमानस्य।
** सौधातकिः—**ततः किमित्यागतः ?
** दण्डायनः—**संप्रति च प्रियसुहृदं भगवन्तं प्राचेतसं द्रष्टुम्।
** सौधातकिः**—अप्यद्य संबन्धिनीभिः समं निवृत्तं दर्शनमस्य नवेति ?
** दण्डायनः—**संप्रत्येव भगवता वसिष्ठेन देव्याः कौसल्यायाः सकाशं भगवत्यरुन्धती प्रहिता। यथा स्वयमुपेत्य स्नेहादयं द्रष्टव्य इति।
** सौधातकिः—**यथैते स्थविराः परस्परमेव मिलिताः, तथाऽऽवामपि बटुभिः सह मिलित्वाऽनध्यायमहोत्सवं खेलन्तो मानयावः। अथ कुत्र स जनकः ?
** दण्डायनः—**तथायं प्राचेतसवसिष्ठावुपास्य संप्रत्याश्रमस्य बहिर्वृक्षमूलमधितिष्ठति। य एषः—
हृदि नित्यानुषक्तेन सीताशोकेन तप्यते।
अन्तःप्रसृप्तदहनो जरन्निव वनस्पतिः ॥२॥
(इति निष्क्रान्तौ।)
इति मिश्रविष्कम्भः।
** जनकः—**
(ततः प्रविश्यति जनकः।)
अपत्ये यत्तादृग्दुरितमभवत्तेन महता
विषक्तस्तीव्रेण व्रणितहृदयेन व्यथयता।
पटुर्धारावाही नव इव चिरेणापि हि न मे
निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति ॥३॥
कष्टं, एवं नाम जरया दुःखेन च दुरासदेन भूयः पराकसांतपनप्रभृतिभिस्तपोभिः शोषिताऽन्तःशरीरघातोरवष्टम्भ एव महानद्यापि मम दग्धदेहो न पतति।अन्धतामिस्त्रा ह्यसूर्यां नाम ते लोका प्रेत्य तेभ्यः प्रतिविधीयन्ते य आत्मघातिन इत्येवमृषयो मन्यन्ते।अनेकसंवत्सराऽतिक्रमेऽपि प्रतिक्षणपरिभावनास्पष्टनिर्भासः प्रत्यग्र इव न मे दारुणोदुःखसंवेगः प्रशाम्यति। अयि मातः देवयजनसंभवे ! ईदृशस्ते निर्माण—
भागः परिणतः, येन लज्जया स्वच्छन्दमप्याक्रन्दितुं न शक्यते। हा पुत्रि !
अनियतरुदितस्मितं विराज-
त्कतिपयकोमलदन्तकुड्मलाऽग्रम्।
वदनकमलकं शिशोः स्मरामि
स्खलदसमञ्जसमञ्जु जल्पितं ते॥४॥
भगगति वसुंधरे ! सत्यमतिदृढासि—
त्वं वह्निर्मुनयो वसिष्ठगृहिणी गङ्गा च यस्याविदु-
र्माहात्म्यं यदि वा रघोः कुलगुरुर्देवः स्वयं भास्करः।
विद्यां वागिव यामसूत भवती शुद्धिं गतायाः पुन-
स्तस्यास्त्वद्दुहितुस्तथाविशसनं किं दारुणे ! मृष्यथाः॥५॥
(नेपथ्ये)
इत इतो भगवतीमहादेव्यी।
** जनकः—**अये ! गृष्टिनोपदिश्यमानमार्गा भगवत्यरुन्धती। (उत्थाय।) कां पुनर्महादेवीत्याह ? (निरूप्य।) हा हा ! कथमयं महाराजस्य दशरथस्य धर्मदाराः प्रियसखी मे कौसल्या। कएतां प्रत्येति यमिति नाम।
आसीदियं दशरथस्य गृहे यथा श्रीः
श्रीरेव वा किमुपमानपदेन सैषा।
कष्टं बतान्यदिव दैववशेन जाता
दुःखात्मकं किमपि भूतमहो विकारः॥६॥
य एव मे जनःपूर्वमासीन्मूर्तो महोत्सवः।
क्षते क्षारमिवाऽसह्यं जातं तस्यैव दर्शनम्॥७॥
(ततः प्रविशत्यरुन्धती कौसल्या कञ्चुकी च)
** अरुन्धती**—ननु ब्रवीमि द्रष्टव्यः स्वयमुपेत्यैव वैदेह इत्येवं वः कुलगुरोरादेशः।अत एव चाहं प्रेषिता। तत्कोऽयं पदे पदे महाननध्यवसायः ?
** कञ्चुकी**—देवि ! संस्तभ्याऽऽत्मानमनुरुध्यस्व भगवतो वसिष्ठस्यादेशमिति विज्ञापयामि।
** कौसल्या—**ईदृशे काले मिथिलाधिपो मया द्रष्टव्य इति सममेव सर्वदुःखान्यवतरन्ति।तस्मान्न शक्नोम्युद्वर्तमान- मूलबन्धनं हृदयं पर्यवस्थापयितुम्।
** अरुन्धती**—अत्र कः संदेहः।
संतानवाहीन्यपि मानुषाणां
दुःखानि संबन्धिवियोगजानि।
दृष्टे जने प्रेयसि दुःसहानि
स्रोतःसहस्त्रैरिव संप्लवन्ते॥८॥
** कौसल्या**—कथं नु खलु वत्साया मे वध्वा वनगतायास्तस्याः—पितू राजर्षेर्मुखं दर्शयामः?
** अरुन्धती—**
एष वः श्लाघ्यसंबन्धी जनकानां कुलोद्वहः।
याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारायणं जगौ॥९॥
** कौसल्या—**एष स महाराजस्य हृदयनिर्विशेषो वत्साया मे वध्वाः पिता विदेहराजो सीरध्वजः। स्मारितास्मि अनिर्वेदरमणीयान्दिवसान्। हा दैव ! सर्वं तन्नास्ति।
** जनकः**—उपसृत्य।) भगवत्यरुन्धति ! वैदेहः सीरध्वजोऽभिवादयते।
यया पूर्तमन्यो निधिरपि पवित्रस्य महसः
पतिस्ते पूर्वेषामपि खलु गुरूणां गुरुतमः।
त्रिलोकीमाङ्गल्यामवनितललीनेन शिरसा
जगद्वन्द्यां देवीमुषसमिव वन्दे भगवतीम्॥१०॥
** अरुन्धती**—अक्षरं ते ज्योतिः प्रकाश्यताम्। स त्वां पुनातु देवः परोरजसां य एष तपति।
** जनकः—**आर्य गृष्टे ! अप्यनामयमस्याः प्रजापालकस्य मातुः ?
** कञ्चुकी—**(स्वगतम्) निरवशेषमतिनिष्ठुरमुपालब्धाः स्मः । (प्रकाशम्) राजर्षे ! अनेनेव मन्युना चिरपरित्यक्त- रामभद्रदर्शनां नार्हसि दुःखयितुमतिदुःखितां देवीम्। रामभद्रस्यापि दैवदुर्योगः कोऽपि। यत्किल समन्ततः प्रवृत्तबीभत्सकिंवदन्तीकाः पौराः। न चाऽग्निशुद्धिमनल्पकाः प्रतियन्तीति दारुणमनुष्ठितं देवेन।
** जनकः—**(रोषम्) आः ! कोऽयमग्निर्नामाऽस्मत्प्रसूतिपरिशोधने ? कष्टमेवंवादिना जनेन रामभद्रपरिभूता अपि पुनः परिभूयामहे।
** अरुन्धती—**(निश्वस्य) एवमेतत्। अग्निरिति वत्सां प्रति लघून्यक्षराणि। सीतेत्येव पर्याप्तम्।हा वत्से !
शिशुर्वा शिष्या वा यदसि मम तत्तिष्ठतु तथा
विशुद्धेरुत्कर्षस्त्वयि तु मम भक्तिं द्रढयति।
शिशुत्वं स्त्रैणं वा भवतु ननु वन्द्यासि जगतां
गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः॥११॥
** कौसल्या**—अहो ! समुन्मूलयन्तीव वेदनाः। (प्रति मूर्च्छति।)
** जनकः**—हन्त ! किमेतत् ?
** अरुन्धती**—राजर्षे ! किमन्यत् ?
स राजा तत्सौख्यं स च शिशुजनस्ते च दिवसाः
स्मृतावाविर्भूतं त्वयि सुहृदि दृष्टे तदखिलम्।
विपाके घोरेऽस्मिन्न खलु न विमूढा तव सखी
पुरंध्रीणां चित्तं कुसुमसुकुमारं हि भवति ॥१२॥
** जनकः—**हन्तः सर्वथा नृशंसोऽस्मि। यच्चिरस्य दृष्टान्प्रियसुहृदोप्रियदारानस्निग्ध इव पश्यामि।
स संबन्धी श्लाघ्यः प्रियसुहृदसौ तच्च हृदयं
स चानन्दः साक्षादपि च निखिलं जीवितफलम्।
शरीरं जीवो वा यदधिकमतोऽन्यत्प्रियतरं
महाराजः श्रीमान्किमिव मम नाऽऽसीद्दशरथः ॥१३॥
कष्टमियमेव सा कौसल्या—
यदस्याः पत्युर्वा रहसि परमंत्रायितमभू-
दभूवं दम्पत्योः पृथगहमुपालम्भविषयः।
प्रसादे कोपे वा तदनु मदधीनो विधिरभू-
दलं वा तत्स्मृत्वा दहति यदवस्कन्द्य हृदयम् ॥१४॥
** अरुन्धती—**हा कष्टम्। अतिचिरनिरुद्धनिःश्वासनिष्पन्दंहृदयमस्याः।
** जनकः—**हा प्रियसखि ! (इति कमण्डलूदकेन सिञ्चति।)
** कञ्चुकी**—
सुहृदिव प्रकटय्य सुखप्रदां
प्रथममेकरसामनुकूलताम्।
पुनरकाण्डविवर्तनदारुणः
परिशिनष्टि विधिर्मनसो रुजम् ॥१५॥
** कौसल्या**—(आश्वस्य) हा वत्से जानकि ! कुत्रासि। स्मरामि ते नवविवाहलक्ष्मीपरिग्रहैकमङ्गलं संफुल्लमुग्धमुखपुण्डरीकमारुहत्कौमुदीचन्द्रसुन्दरम् । एहि मे पुनरपि जाते ! उद्योतय उत्सङ्गम्। सर्वदा महाराज एवं भणति—“एषा रघुकुलमहत्तराणां वधूरस्माकं तु जनकसुता दुहितैव”।
** कञ्चुकी**—यथाह देवी—
पञ्चप्रसूतेरपि तस्य राज्ञः
प्रियो विशेषेण सुबाहुशत्रुः।
वधूचतुष्केऽपि तथैव नान्या
प्रिया तनूजाऽस्य यथैव सीता॥१६॥
** जनकः**—हा प्रियसख महाराज दशरथ ! एवमपि सर्वप्रकारहृदयंगमः कथं विस्मर्यते ?
कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं
संबन्धे विपरीतमेव तदभूदाराधनं ते मयि।
त्वं कालेन तथाविधोऽप्यपहृतः संबन्धबीजं च तद्
घोरेऽस्मिन्मम जीवलोकनरके पापस्य धिग्जीवितम्॥१७॥
** कौसल्या—**जाते जानकि ! किं करोमि। दृढवज्रलेपप्रतिबन्धनिश्चलं हतजीवितं मां मन्दभागिनीं न परित्यजति।
** अरुन्धती**—आश्वसिहि राज्ञि ! बाष्पविश्रामोऽप्यन्तरेषु कर्तव्यएव। अन्यच्च किं न स्मरसि। यदवोचदृष्यश्रृङ्गाश्रमे युष्माकं कुलगुरुः। भवितव्यं तथेत्युपजातमेव। किंतु कल्याणोदर्कं भविष्यतीति।
** कौसल्या—**कुतोऽतिक्रान्तमनोरथाया ममैतत् ?
** अरुन्धती—**तत्किं मन्यसे राजपत्नि ! मृषोद्यं तदिति। न हीदं क्षत्रिये ! मन्तव्यम्।
आविर्भूतज्योतिषां ब्राह्मणानां
ये व्याहारास्तेषु मा संशयोऽभूत्।
भद्रा ह्येषां वाचि लक्ष्मीर्निषक्ता
नैते वाचं विप्लुतार्थां वदन्ति ॥१८॥
(नेपथ्ये कलकलः। सर्वे आकर्णयन्ति।)
** जनकः—**अये ! शिष्टानध्ययन इत्यस्खलितं खेलतां बटूनां कोलाहलः।
** कौसल्या—**सुलभसौख्यमिदानीं बालत्वं भवति। अहो, एतेषां मध्ये क एष रामभद्रस्य कौमारलक्ष्मीसावष्ट- म्भैर्मुग्धललितैरङ्गैर्दारकोऽस्माकं लोचने शीतलयति।
** अरुन्धती—**(स्वगतम्। सहर्षोत्कण्ठम्) इदं नाम भागीरथीनिवेदितं रहस्यकर्णामृतम्। नत्वेवं विद्मः कतरोऽय- मायुष्मतोः कुशलवयोरिति।
(प्रकाशम्)
कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो-
बटुपरिषदं पुण्यश्रीकः श्रियैव सभाजयन्।
पुनरपि शिशुर्भूत्वा वत्सः स मे रघुनन्दनो-
झटिति कुरुते दृष्टः कोऽयं दृशोरमृताऽञ्जनम् ॥१९॥
** कञ्चुकी—**नूनं क्षत्रियब्रह्मचारी दारकोऽयमिति मन्ये ?
** जनकः**—एवमेतत् । अस्य हि—
चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो-
भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम्।
मौर्व्या मेखलया नियन्त्रितमधो वासश्च माञ्जिष्ठकं
पाणौ कार्मुकमक्षसूत्रवलयं दण्डोऽपरः पैप्पलः ॥२०॥
भगवत्यरुन्धति ! किमित्युत्प्रेक्षसे कुतस्त्योऽयमिति ?
** अरुन्धती**—अद्यैव वयमागताः।
** जनकः—**आर्य गृष्टे ! अतिकौतुकं वर्तते। तद्भगवन्तं वाल्मीकिमेवगत्वा पृच्छ। इमं च दारकं ब्रूहि **—“**वत्स ! केऽप्येते प्रवयसस्त्वां दिदृक्षवः” इति।
** कञ्चुकी**—यदाज्ञापयति देवः। (इति निष्क्रान्तः।)
** कौसल्या—**किं मन्यध्वे। एवं भणित आगमिष्यति वा न वेति ?
** जनकः—**भिद्यते वा सद्वृत्तमीदृशस्य निर्माणस्य ?
** कौसल्या—**(निरूप्य।) कथं सविनयनिशमितगृष्टिवचनो विसर्जिताऽशेषसदृशदारक इतोमुखमपसरित एव स वत्सः।
** जनकः—**(चिरं निर्वर्ण्य ) भोः ! किमप्येतत्
महिम्नामेतस्मिन्विनयशिशिरो मौग्ध्यमसृणो-
विदग्धैर्निर्ग्राह्यो न पुनरविदग्धैरतिशयः।
मनो मे संमोहस्थिरमपि हरत्येष बलवा-
नयोधातुं यद्वत्परिलघुरयस्कान्तशकलः ॥२१॥
** लवः—**(प्रविश्य) अविज्ञातवयःक्रमौचित्यात्पूज्यानपि सतः कथमभिवादयिष्ये ? (विचिन्त्य।) अयं पुनरविरुद्धप्र- कार इति वृद्धेभ्यः श्रूयते।(सविनयमुपसृत्य।) एष वो लवस्य शिरसा प्रणामपर्यायः।
** अरुन्धतीजनकौ—**कल्याणिन् ! आयुष्मान्भूयाः।
** कौसल्या—**जात! चिरं जीव।
** अरुन्धती—**एहि वत्स ! (लवमुत्सङ्गे गृहीत्वा। आत्मगतम्।) दिष्ट्या न केवलमुत्सङ्गश्चिरान्मनोरथोऽपि मे पूरितः।
** कौसल्या—**जात इतोऽपि तावदेहि। (उत्संगै गृहीत्वा।) अहो न केवलं दरविस्पष्टकुवलयमांसलोज्ज्वलेन देहबन्धनेन कवलिताऽरविन्दकेसरकषायकण्ठकलहंसघोषघर्घरानुनादिना स्वरेण च रामभद्रमनुसरति।ननु कठोरकमलगर्भपक्ष्मलशरीरस्पर्शोऽपि तादृश एव। जात ! पश्यामि ते मुखपुण्डरीकम्।राजर्षे ! किं न पश्यसि। निपुणं निरूप्यमाणो वत्साया मे बध्वा मुखचन्द्रेणापि संवदत्येव।
** जनकः—**पश्यामि सखि ! पश्यामि।
** कौसल्या—**अहो, उन्मत्तीभूतमिव मे हृदयं कुतोमुखं विलपति ?
** जनकः—**
वत्सायाश्च रघूद्वहस्य च शिशावस्मिन्नभिव्यज्यते
संवृत्तिः प्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः।
सा वाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ
हा हा देवि ! किमुत्पथैर्मम मनः पारिप्लवं धावति॥२२॥
** कौसल्या—**जात ! अस्ति ते माता, स्मरसि वा तातम् ?
** लवः—**नहि।
** कौसल्या—**ततः कस्य त्वम् ?
** लवः—**भगवतः सुगृहीतनामधेयस्य वाल्मीकेः।
** कौसल्यान—**अयि जात ! कथितव्यं कथय।
** लवः—**एतावदेव जानामि।
(नेपथ्ये।)
भो भोः सैनिकाः, एष खलु कुमारश्चन्द्रकेतुराज्ञापयति—“नकेनचिदाश्रमाभ्यर्णभूमय आक्रमितव्या इति।”
** अरुन्धतीजनकौ—**अये, मेध्याश्वरक्षाप्रसङ्गादुपागतोवत्सश्चन्द्रकेतुर्द्रष्टव्य इत्यसौ सुदिवसः।
** कौसल्या—**वत्सलक्ष्मणस्य पुत्रकः आज्ञापयतीत्यमृतबिन्दुसुन्दराणि अक्षराणि श्रूयन्ते।
** लवः—**आर्य ! क एष चन्द्रकेतुर्नाम ?
** जनकः—**जानासि रामलक्ष्मणौ दाशरथी ?
** लवः—**एतावेव रामायणकथापुरुषौ ?
** जनकः—**अथ किम् ?
** लवः—**तत्कथं न जानामि ?
** जनकः—**तस्य लक्ष्मणस्याऽयमात्मजश्चन्द्रकेतुः।
** लवः—**ऊर्मिलायाः पुत्रस्तर्हि मैथिलस्य राजर्षेर्दौहित्रः।
** अरुन्धती**—आविष्कृतं कथाप्रावीण्यं वत्सेन।
** जनकः—**(विचिन्त्य।) यदि त्वमीदृशः कथायामभिज्ञस्तद्ब्रूहि तावत्पश्यामस्तेषां दशरथस्य पुत्राणां कियन्ति किंनामधेयान्यपत्यानि केषु दारेषु प्रसूतानि ?
** लवः—**नायं कथाविभागोऽस्माभिरन्येन वा श्रूतपूर्वः।
** जनकः—**किं न प्रणीतः कविना ?
** लवः—**प्रणीतो न प्रकाशितः। तस्यैव कोऽप्येकदेशः प्रबन्धान्तरेण रसवानभिनेयार्थः कृतः। तं च स्वहस्तलिखितं मुनिर्भगवान्व्यसृजत्
भगवतो भरतस्य तौर्यत्रिकसूत्रधारस्य।
** जनकः—**किमर्थम् ?
** लवः—**स किल भगवान्भरतस्तमप्सरोभिः प्रयोजयिष्यतीति।
** जनकः—**सर्वमिदमाकूततरमस्माकम्।
** लवः—**महती पुनस्तस्मिन्भगवतो वाल्मीकेरास्था। यतः केषां चिदन्तेवासिनां हस्तेन तत्पुस्तकं भरताश्रमं प्रति प्रेषितम्। तेषामनुयात्रिकश्चापपाणिः प्रमादच्छेदनार्थमस्मद्भ्राता प्रेषितः।
** कौसल्या—**भ्रातापि तेऽस्ति ?
** लवः—**अस्त्यार्यः कुशो नाम।
** कौसल्या—**ज्येष्ठ इति भणितं भवति ?
** लवः—**एवमेतत्। प्रसवाऽनुक्रमेण स किल ज्यायान्।
** जनकः—**किं यमावायुप्मन्तौ ?
** लवः—**अथ किम्।
** जनकः—**वत्स ! कथय कथाप्रपञ्चस्य कियान्पर्यन्तः ?
** लवः—**अलीकपौरापवादोद्विग्नेन राज्ञा निर्वासितां देवीं देवयजनसंभवां सीतामासन्नप्रसववेदनामेकाकिनीमरण्ये लक्ष्मणः परित्यज्य प्रतिनिवृत्त इति।
** कौसल्या—**हा वत्से ! मुग्धमुखि ! क इदानीं ते शरीरकुसुमस्य झटिति दैवदुर्विलासपरिणाम एकाकिन्या निपतितः ?
** जनकः—**हा वत्से !
नूनं त्वया परिभवं च वनं च घोरं
तां च व्यथां प्रसवकालकृतामवाप्य।
क्रव्याद्गणेषु परितः परिवारयत्सु
संत्रस्तया शरणमित्यसकृत्स्मृतोऽहम्॥२३॥
** लवः**—आर्ये ! कावेतौ ?
** अरुन्धती—**इयं कौसल्या।अयं जनकः। (लवः सबहुमानखेदकौतुकंपश्यति।)
** जनकः—**अहो, निर्दयता दुरात्मनां पौराणाम्।अहो रामभद्रस्य क्षिप्रकारिता।
एतद्वैशसवज्रघोरपतनं शश्वन्ममोत्पश्यतः
क्रोधस्य ज्वलितुं झटित्यवसरश्चापेन शापेन वा।
** कौसल्या—**(सभयकम्पम्।) भगवति ! परित्रायताम्।प्रसादय कुपितं राजर्षिम्।
** लवः—**
एतद्धि परिभूतानां प्रायश्चित्तं मनस्विनाम्।
** अरुन्धती—**
राजन्नपत्यं रामस्ते पाल्याश्च कृपणा जनाः॥२४॥
** जनकः—**
शान्तं वा रघुनन्दने तदुभयं यत्पुत्रभाण्डं हि मे
भूयिष्ठद्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः॥२५॥
(प्रविश्य संभ्रान्ता बटवः।)
कुमार ! कुमार ! अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते।सोऽयमधुनास्माभिः स्वयं प्रत्यक्षीकृतः।
** लवः—**अश्वोऽश्व इति नाम पशुसमाम्नाये सांग्रामिके च पठ्यते। तद्ब्रूत कीदृशः।
** बटवः—**अये, श्रूयताम्—
पश्चात्पुच्छं वहति विपुलं तच्च धूनोत्यजस्त्रं
दीर्घग्रीवः स भवति खुरास्तस्य चत्वार एव।
शष्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाम्रमात्रा-
न्किं व्याख्यानैर्व्रजति स पुनर्दूरमेह्येहि यामः॥२६॥
(इत्यजिने हस्तयोश्चाकर्षन्ति।)
** लवः—**(सकौतुकोपरोधविनयम्।) आर्याः ! पश्यत।एभिनींतोऽस्मि। (इति त्वरितं परिक्रामति।)
** अरुन्धतीजनकौ—**महत्कौतुकं वत्सस्य।
** कौसल्या—**अरण्यगर्भरूपालापैर्यूयं तोषिता वयं च।भगवति ! जानामि तं प्रेक्षमाणा वञ्चितेव। तस्मादितोऽन्यतो भूत्वा प्रेक्षामहे तावत्पलायमानं दीर्घायुषम्।
** अरुन्धती**—अतिजवेन दूरमतिक्रान्तः स चपलः कथं दृश्यते ?
** कञ्चुकी—**(प्रविश्य।) भगवान्वाल्मीकिराह—“ज्ञातव्यमेतदवसरे भवद्भिरिति”।
** जनकः—**अतिगम्भीरमेतत्किमपि। भगवत्यरुन्धति ! सखि कौसल्ये ! आर्यगृष्टे! स्वयमेव गत्वा भगवन्तं प्राचेतसं पश्यामः।
(इति निष्क्रान्तो वृद्धवर्गः।)
(प्रविश्य बटवः।)
पश्यतु कुमारस्तावदाश्चर्यम्**।**
** लवः—**दृष्टमवगतं च।नूनमाश्वमेधिकोऽयमश्वः।
** बटवः—**कथं ज्ञायते ?
** लवः—**ननु मूर्खाः ! पठितमेव हि युष्माभिरपि तत्काण्डम्। किं न पश्यथ प्रत्येकं शतसंख्याः कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः तत्प्रायमेवान्यदपि दृश्यते। यदि च विप्रत्ययस्तत्पृच्छथ।
** बटवः—**भो भोः, किंप्रयोजनोऽयमश्वः परिवृतः पर्यटति ?
** लवः—**(सस्पृहमात्मगतम्।) अश्वमेध इति नाम विश्वजयिनां क्षत्रियाणार्जस्वलः सर्वक्षत्रपरिभावी महानुत्कर्षनिकषः।
(नेपथ्ये।)
योऽयमश्वः पताकेयमथवा वीरघोषणा।
सप्तलोकैकवीरस्य दशकण्डकुलद्विपः॥२७॥
** लवः**—(सगर्वमिव।) अहो, संदीपनान्यक्षराणि।
** बटवः—**किमुच्यते। प्राज्ञः खलुकुमारः।
** लवः—**भो भोः! तत्किमक्षत्रिया पृथिवी यदेवमुद्धोष्यते ?
(नेपथ्य।)
रे रे ! महाराजं प्रति कुतः क्षत्रियाः ?
लवः—धिग्जाल्मान्।
यदि नो सन्ति सन्त्येव केयमद्य बिभीषिका।
किमुक्तैरेभिरधुना तां पताकां हरामि वः॥२८॥
हे बटवः ! परिवृत्य लोष्ठैरभिघ्नन्त उपनयतैनमश्वम्। एष रोहितानां मध्येचरो भवतु।
(प्रविश्य सक्रोधः।)
** पुरुषः—**धिक्चपल ! किमुक्तवानसि। तीक्ष्णतरा ह्यायुधश्रेणयः शिशोरपि दृप्तां वाचं न सहन्ते। राजपुत्रश्चन्द्रकेतुर्दुदान्तःसोऽप्यपूर्वा-
ऽरण्यदर्शनाक्षिप्तदयो न यावदायाति तावत्त्वरितमनेन तरुगहनेनाऽपसर्पत
** बटवः—**कुमार ! कृतं कृतमश्वेन। तर्जयन्ति विस्फारितशरासनाः कुमारमायुधीयश्रेणयः। दूरे चाऽऽश्रमपदम्। इतस्तदेहि। हरिणप्लुतैः पलायामहे।
** लवः—**किं नाम विस्फुरन्ति शस्त्राणि ? (इति धनुरारोपयन्।)
ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र-
मुद्भूरिघोरघनघर्घरघोषमेतत्।
ग्रासप्रसक्तहसदन्तकवक्त्रयन्त्र-
जृम्भाविडम्बि विकटोदरमस्तु चापम्॥२६॥
(इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे।)
इति चतुर्थोऽङ्कः।
(नेपथ्ये।)
भो भोः सैनिकाः ! जातं जातमवलम्बनमस्माकम्।
नन्वेष त्वरितसुमन्त्रनुद्यमान-
प्रोद्वल्गत्प्रजवितवाजिना रथेन।
उत्खातप्रचलितकोविदारकेतुः
श्रुत्वा वः प्रधनमुपैति चन्द्रकेतुः॥१॥
(ततः प्रविशति सुमन्त्रसारधिना रथेन धनुष्पाणिः साद्भुतहर्षसंभ्रमश्चन्द्रकेतुः।)
** चन्द्रकेतुःः—**आर्य सुमन्त्र ! पश्य पश्य—
किरति कलितकिंचित्कोपरज्यन्मुखश्री-
रविरतगुणगुञ्जत्कोटिना कार्मुकेन।
समरशिरसि चञ्चत्पञ्चचूडश्चमूना-
मुपरि शरतुषारं कोऽप्ययं वीरपोतः॥२॥
आश्चर्यम्।
मुनिजनशिशुरेकः सर्वतः संप्रकोपा-
न्नव इव रघुवंशस्याप्रसिद्धिप्ररोहः।
दलितकरिकपोलग्रन्थिटंकारघोर-
ज्वलितशरसहस्रः कौतुकं मे करोति॥३॥
** सुमन्त्रः—**आयुष्मन् !
अतिशयितसुरासुरप्रभाव॑
शिशुमवलोक्य तथैव तुल्यरूपम्।
कुशिकसुतमखद्विषां प्रमाथे
धृतधनुषं रघुनन्दनं स्मरामि॥४॥
** चन्द्रकेतुः** —मम त्वेकमुद्दिश्य भूयसाऽऽरम्भ इति हृदयमपत्रपते।
अयं हि शिशुरेकको मदभरेण भूरिस्फुर-
त्करालकरकन्दलीजटिलशस्त्रजालैर्बलैः।
क्वणत्कनककिङ्किणीझणझणायितस्यन्दनै-
रमन्दमददुर्दिनद्विरदडामरैरावृतः॥५॥
** सुमन्त्रः** —वत्स ! एभिः समस्तैरपि नाऽलमस्य ! कि पुनर्व्यस्तैः ?
** चन्द्रकेतुः—**आर्य ! त्वर्यतां स्वर्यताम्। अनेन हि महानाश्रितजनममारोऽस्माकमारब्धः। तथा हि—
आगर्जद्भिरिकुञ्जकुञ्जरघटानिस्तीर्णकर्णज्वर-
ज्यानिर्घोषममन्ददुन्दुभिरवैराध्मातमुज्जृम्भयन्।
बेल्लद्भैरवरुण्डखण्डनिकरैर्वीरो विधत्ते भुवं
तृष्यत्कालकरालवक्त्रविघसव्याकीर्यमाणामिव॥६॥
** सुमन्त्रः**—(स्वगतम्) कथमीदृशेन सह वत्सस्य चन्द्रकेतोर्द्वन्द्वसंप्रहारमनुजानीमः ? (विचिन्त्य) अथवा इक्ष्वाकुकुलवृद्धाः खलु वयम्। प्रत्युपस्थिते रणे का गतिः ?
** चन्द्रकेतुः—**(सविस्मयलज्जासंभ्रमम्) हन्त धिक्। अपावृत्तान्येव सर्वतः सैन्यानि मम।
** सुमन्त्रः—**(रथवेगं निरूप्य) आयुष्मन् ! एष ते वाग्विषयीभूतः स वीरः।
** चन्द्रकेतुः**—(विस्मृतिमभिनीय) आर्य ! किं नामधेयमाख्यातमाह्वायकैः ?
** सुमन्त्रः**—लव इति।
** चन्द्रकेतुः—**
भो भो लव ! महाबाहो ! किमेभिस्तव सैनिकैः।
एषोऽहमेहि मामेव तेजस्तेजसि शाम्यतु॥७॥
** सुमन्त्र—**कुमार ! पश्य पश्य-
विनिवर्तित एष वीरपोतः
पृतनानिर्मथनात्त्वयोपहूतः।
स्तनयित्नुरवादिभावलीना-
मवमर्दादिव दृप्तसिंहशावः॥८॥
(ततः प्रविशति धीरोद्धतपराक्रमो लवः।)
** लवः—**साधु राजपुत्र ! साधु। सत्यमैक्ष्वाकः खल्वसि। तदहं परागत एवास्मि।
(नेपथ्ये महान्कलकलः।)
** लवः—**(सावष्टम्भं परावृत्य।) कथमिदानीं भग्ना अपि पुनः प्रतिनिवृत्ताः पृष्ठानुसारिणः पर्यवष्टम्भयन्ति मां चमूपतयः। धिग्जाल्मान्।
अयं शैलाघातक्षुभितवडवावक्त्रहुतभु-
क्प्रचण्डकोधार्चिर्निचयकवलत्वं व्रजतु मे।
समन्तादुत्सर्पद्धनतुमुलहेलाकलकलः
पयोराशेरोघः प्रलयपवनास्फालित इव॥६॥
(सवेगं परिक्रामति।)
** चन्द्रकेतुः—**भो भोः कुमार !
अत्यद्भुतादपि गुणाऽतिशयात्प्रियो मे
तस्मात्सखा त्वमसि यन्मम तत्तवैव।
तत्किं निजे परिजने कदनं करोषि
नन्वेष दर्पनिकषस्तव चन्द्रकेतुः॥१०॥
** लवः**—(सहर्षसंभ्रमं परावृत्य।) अहो, महानुभावस्य प्रसन्नकर्कशा वीरवचनप्रयुक्तिर्विकर्तनकुलकुमारस्य। तत्किमेभिरेनमेव तावत्संभावयामि।
(पुनर्नेपथ्ये कलकलः।)
** लवः**—(सक्रोधनिर्वेदम्।) आः ! कदर्थीकृतोऽहमेभिर्वीरसंवादविघ्नकारिभिः पापैः। (इति तदभिमुखं परिक्रामति।)
** चन्द्रकेतुः**—आर्य ! दृश्यतां द्रष्टव्यमेतत्।
दर्पेण कौतुकवता मयि बद्धलक्ष्यः
पश्चाद्बलैरनुसृतोऽयमुदीर्णधन्वा।
द्वेधा समुद्धतमरुत्तरलस्य धत्ते
मेघस्य माघवतचापधरस्य लक्ष्मीम्॥११॥
** सुमन्त्रः—**कुमार एवैनं द्रष्टुमपि जानाति। वयं तु केवलं परवन्तो विस्मयेन।
** चन्द्रकेतुः**—भो भो राजनः !
संख्यातीतैर्द्विरदतुरगस्यन्दनस्थैः पदाता-
वत्रैकस्मिन्कवचनिचितैर्नद्धचर्मोत्तरीये।
कालज्येष्ठैरपरवयसि ख्यातिकामैर्भवद्भि-
र्योऽयं बद्धोयुधि समभरस्तेन धिग्वो धिगस्मान्॥१२॥
लवः—(सोन्माथम्।) आः, कथमनुकम्पते नाम। (ससंभ्रमं विचिन्त्य।) भवतु। कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भयामि। (इति ध्यानं नाटयति।)
** सुमन्त्रः**—तत्किमकस्मादुल्लोलाः सैन्यघोषाः प्रशाम्यन्ति।
** लवः—** पश्याम्येनमधुना प्रगल्भम्।
** सुमन्त्रः—**(ससंभ्रमम्।) वत्स ! मन्ये कुमारकेणाऽनेन जृम्भकास्त्रम् आमन्त्रितमिति।
** चन्द्रकेतुः**—अत्र कः संदेहः।
व्यतिकर इव भीमस्तामसो वैद्युतश्च
प्रणिहितमपि चक्षर्ग्रस्तमुक्तं हिनस्ति।
अथ लिखितमिवैतत्सैन्यमस्पन्दमास्ते
नियतमजितवीर्यं जृम्भते जृम्भकास्त्रम्॥१३॥
** आश्चर्यमाश्चर्यम्—**
पातालोदरकुञ्जपुञ्जिततमःश्यामैर्नभो जृम्भकै-
रुत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दीप्तिभिः।
कल्पाऽऽक्षेपकठोरभैरवमरुद्व्यस्तैरभिस्तीर्यते
लीनाऽम्भोदतडित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव॥१४॥
** सुमन्त्रः**—कुतः पुनरस्य जृम्भकाणामागमः स्यात् ?
** चन्द्रकेतुः—**भगवतः प्राचेतसादिति मन्यामहे।
** सुमन्त्रः—** वत्स ! नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु। यतः—
भृशाश्वतनया ह्येते भृशाश्वात्कौशिकं गताः।
अथ तत्संप्रदायेन रामभद्रे स्थिता इति॥१५॥
** चन्द्रकेतुः**—अपरेऽपि प्रचीयमानसत्वप्रकाशाः स्वयं सर्वं मन्त्रदृशा पश्यन्ति।
** सुमन्त्रः**—वत्स ! सावधानो भव। परागतस्ते प्रतिवीरः।
** कुमारौ**—(अन्योन्यं प्रति।) अहो प्रियदर्शनः कुमारः। (सस्नेहानुरागं निर्वर्ण्य।)
यदृच्छासंवादः किमु गुणगणानामतिशयः
पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः।
निजोवा संबन्धः किमु विधिवशात्कोऽप्यविदितो-
ममैतस्मिन्दृष्टे हृदयमवधानं रचयति॥१६॥
** सुमन्त्रः—**भूयसां जीविनामेव धर्म एष यत्र स्वरसमयी कस्यचित् क्वचित्प्रीतिः, यत्र लौकिकानामुपचारस्ता- रामैत्रकं चक्षूराग इति। तदप्रतिसंख्येयनिबन्धनं प्रमाणमामनन्ति।
अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया।
स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति॥१७॥
** कुमारौ—**(अन्योन्यमुद्दिश्य।)
एतस्मिन्मसृणितराजपट्टकान्ते
मोक्तव्याः कथमिव सायकाः शरीरे।
यत्प्राप्तौ मम परिरम्भणाभिलाषा-
दुन्मीलत्पुलककदम्बमङ्गमास्ते॥१८॥
किं चाऽऽक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना
शस्त्रेणापि हि तेन किं न विषयो जायेत यस्येदृशः।
किं वक्ष्यत्ययमेव युद्धविमुखं मामुद्यतेऽप्यायुधे
वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते॥१६॥
** सुमन्त्रः**—(सर्वं निर्वर्ण्य सास्त्रमात्मगतम्।) हृदय ! किमन्यथा परिप्लवसे।
मनोरथस्य यद्वीजं तद्दैवेनाऽऽदितो हृतम्।
लतायां पूर्वलूनायां प्रसवस्योद्भवः कुतः॥२०॥
** चन्द्रकेतुः**—अवतराम्यार्यसुमन्त्र ! स्यन्दनात्।
** सुमन्त्रः—**कस्य हेतोः ?
** चन्द्रकेतुः**—एकस्तावदयं वीरपुरुषः पूजितो भवति। अपि च खल्वार्य ! क्षत्रधर्मः परिपालितो भवति। न रथिनः पादचारमभियुञ्जन्तीति शास्त्रविदः परिभाषन्ते।
** सुमन्त्रः**—(स्वगतम्।) आः, कष्टां दशामनुप्रपन्नोऽस्मि।
कथं हीदमनुष्ठानं मादृशः प्रतिषेधतु।
कथं वाऽभ्यनुजानातु साहसैकरसां क्रियाम्॥२१॥
** चन्द्रकेतुः—**यदा तातमिश्रा अपि पितुः प्रियसखं त्वामर्थसंशयेषु पृच्छन्ति तत्किमार्यो विमृशति ?
** सुमन्त्रः—**आयुष्मन् ! एवं यथाधर्ममभिमन्यसे।
एष सांग्रामिको न्याय एष धर्मः सनातनः।
इयं हि रघुसिंहानां वीरचारित्रपद्धतिः॥२२॥
** चन्द्रकेतुः**—अप्रतिरूपं वचनमार्यस्य।
इतिहासं पुराणं च धर्मप्रवचनानि च।
भवन्तएव जानन्तिरघूणां च कुलस्थितिम्॥२३॥
** सुमन्त्रः**—(सस्मेहाऽस्त्रं परिष्वज्य।)
जातस्य ते पितुरपीन्द्रजितोनिहन्तु-
र्वत्सस्य वत्स ! कति नाम दिनान्यमूनि।
तस्याप्यपत्यमनुतिष्ठति वीरधर्मं
दिष्ट्यागतं दशरथस्य कुलं प्रतिष्ठाम्॥२४॥
** चन्द्रकेतुः**—[सकष्टम्।]
अप्रतिष्ठे कुलज्येष्ठे का प्रतिष्ठा कुलस्य नः।
इति दुःखेन तप्यन्ते त्रयो नः पितरोऽपरे॥२५॥
सुमन्त्रः—हृदयमर्मदारणान्येव चन्द्रकेतोर्वचनानि।
** लवः**—हन्त, मिश्रीकृतक्रमो रसो वर्तते।
यथेन्दावानन्दंव्रजति समुपोढे कुमुदिनी
तथैवास्मिन्दृष्टिर्मम कलहकामः पुनरयम्।
रणत्कारक्रूरक्वणितगुणगुञ्जद्गुरुधनु-
र्धृतप्रेमा बाहुर्विकचविकरालव्रणमुखः॥२६॥
चन्द्रकेतुः —[अवतरणं निरूपयन्।] आर्य ! अयमसावैक्ष्वाकश्चन्द्रकेतुरभिवादयते।
** सुमन्त्रः**—अहितस्यैव पुनः पराभवाय महानादिवराहः कल्पताम्।
अपि च—
देवस्त्वां सविता धिनोतु समरे गोत्रस्य यस्ते पति-
स्त्वां मैत्रावरुणोऽभिनन्दतु गुरुर्यस्ते गुरूणामपि।
ऐन्द्रावैष्णवमाग्निमारुतमथो सौपर्णमोजोऽस्तु ते
देयादेव व रामलक्ष्मणधनुर्ज्याघोषमन्त्रो जयम्॥२७॥
** लवः**—अतीव हि नाम शोभसे रथस्थ एव। कृतं कृतमत्यादरेण।
** चन्द्रकेतुः**—तर्हि महाभागोऽप्यन्यं रथमलंकरोतु।
** लवः—**आर्य ! प्रत्यारोपय रथोपरि राजपुत्रम्।
** सुमन्त्रः—**त्वमप्यनुरुद्ध्यस्व वत्सस्य चन्द्रकेतोर्वचनम्।
** लवः**—को विचारः स्वेषूपकरणेषु। किं त्वरण्यसदो वयमनभ्यस्तरथचर्याः।
** सुमन्त्रः—**जानासि वत्स ! दर्पसौजन्ययोर्यदाचरितम्। यदि पुनस्त्वामीदृशमैक्ष्वाको राजा रामभद्रः पश्येत्तदायम- स्य स्नेहेन हृदयमभिष्यन्दयेत्।
** लवः—**अन्यच्च चन्द्रकेतो ! सुजनः स राजर्षिः श्रूयते। [सलज्जमिव।]
यदि च वयमप्येवंप्रायाः क्रतुद्विषतामरौ
क इव न गुणैस्तं राजानं जनो बहु मन्यते।
तदपि खलु मे स व्याहारस्तुरङ्गमरक्षिणां
विकृतिमखिलक्षत्राऽऽक्षेयप्रचण्डतयाऽकरोत्॥२८॥
** चन्द्रकेतुः—**किं नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्षः ?
** लवः—**अस्त्विहामर्षो माभूद्वा। अन्यदेतत्पृच्छामि—दान्तं हि राजानं राघवमनुशुश्रुमः। स किल नाऽऽत्मना दृप्यति नाप्यस्य प्रजा वा दृप्ता जायन्ते। तत्किं मनुष्यास्तस्य राक्षसीं वाचमुदीरयन्ति ?
ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः।
सा योनिः सर्ववैराणां सा हि लोकस्य निष्कृतिः॥२६॥
इति ह स्म तां निन्दन्ति। इतरामभिष्टुवन्ति—
कामं दुग्धे विप्रकर्षत्यलक्ष्मीं
कीर्तिं सूते दुर्हृदो निष्प्रलान्ति।
शुद्धां शान्तां मातरं मङ्गलानां
धेनुं धीराः सूनृतां वाचमाहुः॥३०॥
** सुमन्त्रः—**परिभूतोऽयं बत कुमारः प्राचेतसान्तेवासी। वदत्ययमभ्युपपन्नाऽमर्षेण संस्कारेण।
** लवः**—यत्पुनश्चन्द्रकेतो! वदसि—“किं नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्ष इति” तत्पृच्छामि—किं व्यवस्थितविषयः क्षत्रधर्म इति ?
** सुमन्त्रः—**नैव खलु जानासि देवमैक्ष्वाकम्। तद्विरमातिप्रसङ्गात्।
सैनिकानां प्रमाथेन सत्यमोजायितं त्वया।
जामदग्न्यस्य दमने न हि निर्बन्धमर्हसि॥३१॥
** लवः—**(सहासम्) आर्य ! जामदग्न्यस्य दमनः स राजेति कोऽयमुच्चैर्वादः—
**सिद्धं ह्येतद्वाचि वीर्यं द्विजानां
बाह्वोर्वीर्यं यत्तु तत्क्षत्रियाणाम्।
शस्त्रग्राही ब्राह्मणो जामदग्न्य-
स्तस्मिन्दान्ते का स्तुतिस्तस्य राज्ञः॥३२॥**
** चन्द्रकेतुः**—(सोन्माथमिव) आर्य सुमन्त्र ! कृतमुत्तरोत्तरेण।
कोऽप्येष संप्रति नवः पुरुषावतारो-
वीरो न यस्य भगवान्भृगुनन्दनोऽपि।
पर्याप्तसप्तभुवनाभयदक्षिणानि
पुण्यानि तातचरितान्यपि यो न वेद॥३३॥
** लव—**को हि रघुपतेश्चरितं महिमानं च न जानाति। यदि नाम किंचिदस्ति वक्तव्यम्। अथवा शान्तम्—
वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुँ वर्तते
सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते।
यानि त्रीण्यकुतोमुखान्यपि पदान्यासन्खरायोधने
यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः॥३४॥
** चन्द्रकेतुः—**आः तातापवादिन्, भिन्नमर्याद, अति हि नाम प्रगल्भसे।
** लवः—**अये ! मय्येव भ्रुकुटीमुखः संवृत्तः।
** सुमन्त्रः—**स्फुरितमनयोः क्रोधेन। तथा हि—
क्रोधेनोद्धतधूतकुन्तलभरः सर्वाङ्गजो वेपथुः
किंचित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः।
धत्ते कान्तिमिदं च वक्त्रमनयोर्भङ्गेन भिन्नभ्रुवो-
श्चन्द्रस्योद्भटलाञ्छनस्य कमलस्योद्भ्रान्तभृङ्गस्य च॥३५॥
** लवः—**कुमार ! कुमार ! एह्येहि विमर्दक्षमां भूमिमवतरावः।
(इति निष्क्रान्ताः सर्वे।)
**इति पञ्चमोऽङ्कः।
(ततः प्रविशति विमानेनोज्ज्वलं विद्याधरमिथुनम्।)
** विद्याधरः—**अहो, नु खल्वनयोः, विकर्तनकुलकुमारयोः, अकाण्डकलहप्रचण्डयोः, उद्योतितक्षत्रलक्ष्मीकयोः , अत्यद्भुतोद्भ्रान्तदेवासुराणि विक्रान्तविलसितानि। तथाहि प्रिये ! पश्य—
रणत्करणझञ्झणक्वणितकिङ्किणीकं धनु-
र्ध्वनद्गुरुगुणाटनीकृतकरालकोलाहलम्।
वितत्य किरतोः शरानविरतं पुनः शूरयो-
र्विचित्रमभिवर्तते भुवनभीममायोधनम्॥१॥
जृम्भितं च विचित्राय मङ्गलाय द्वयोरपि।
स्तनयित्रोरिवाऽमन्ददुन्दुभेर्दुन्दुमायितम्॥२॥
तत्प्रवर्त्यतामनयोः प्रवीरयोरनवरतमविरलमिलितविकचकनककमलकमनीयसंहतिः, अमरतरुतरुणमणिमुकुलनिकरमकरन्दसुन्दरः पुष्पनिपातः।
** विद्याधर—** तत्किमिति पुर आकाशं दुर्दर्शतरलतडिच्छटाकडारमपरमिव झटिति संवृत्तम् ?
** विद्याधरः—**तत्किं नु खल्वद्य—
त्वष्टृ यन्त्रभ्रमिभ्रान्तमार्तण्डज्योतिरुज्वलम्।
पुटभेदो ललाटस्थनीललोहितचक्षुषः॥३॥
आं ज्ञातम्। जातक्षोभेन चन्द्रकेतुना प्रयुक्तमप्रतिरूपमाग्नेयमस्त्रम्, यस्यायमग्निवच्छरसंपातः संप्रति हि—
अवदग्धबर्बरितकेतुचामरै-
रपयातमेव हि विमानमण्डलैः।
दहति ध्वजांशुकपटावलीमिमां
नवकिंशुकद्युतिसविभ्रमः शिखी॥४॥
आश्चर्यम्। प्रवृत्त एवाऽयमुच्चण्डवज्रखण्डाऽवस्फोटपटुरटत्स्फुलिङ्गगुरुः उत्तालतुमुललेलिहानोज्ज्वलज्ज्वाला- संभारभैरवो भगवानुषर्बुधः। प्रचण्डश्चाऽस्य सर्वतः संपातः। तत् सुदूरमपसरामि। (तथा करोति।)
** विद्याधरी**—कथमविरलविलोलघूर्णमानविद्युल्लताविलासमांसलैर्मत्तमयूरकण्डश्यामलैरवस्तीर्यते नभोऽङ्गणं जलधरैः ?
** विद्याधरः**—कुमारलवप्रयुक्तवारुणाऽस्त्रप्रभावः खल्वेषः। कथमविरलप्रवृत्तवारिधारासंपातैः प्रशान्तमेव पाव- कास्त्रम्।
** विद्याधरी**—प्रियं मे प्रियं मे।
** विद्याधरः**—हन्त भोः ! सर्वमतिमात्रं दोषाय। यत्प्रलयवातोत्क्षोभगम्भीर गुलुगुलायमानमेघमेदुरितान्धकारनीर- न्ध्रनद्धमिव एकवारविश्वग्रसनविकटविकरालकालमुखकन्दरविवर्तमानमिव युगान्तयोगनिद्रानिरुद्धसर्वद्वारं नाराय- णोदरनिविष्टमिव भूतं विपद्यते। साधु चन्द्रकेतो ! साधु, स्थाने वायव्यमस्त्रमीरितम्। यतः,
विद्याकल्पेन मरुता मेघानां भूयसामपि।
ब्रह्मणीव विवर्तानां क्वापि प्रविलयः कृतः॥५॥
** विद्याधरी—**नाथ ! क इदानीमेव ससंभ्रमोत्क्षिप्तकरभ्रमदुत्तरीयाऽञ्चलो दूरत एव मधुरस्निग्धवचनप्रतिषिद्ध- युद्धव्यापार एतयोरन्तरे विमानवरमवतारयति ?
** विद्याधरः**—(दृष्ट्वा) एष शम्बूकवधात्प्रतिनिवृत्तो रघुपतिः।
शान्तं महापुरुषसंगदितं निशम्य
तद्गौरवात्समुपसंहृतसंप्रहारः।
शान्तो लवः प्रणत एव च चन्द्रकेतुः
कल्याणमस्तु सुतसंगमनेन राज्ञः॥६॥
तदितस्तावदेहि। (इति निष्क्रान्तौ।)
इति विष्कम्भः।
(ततः प्रविशति रामो लवः प्रणतश्चन्द्रकेतुश्च।)
** रामः**—(पुष्पकादवतरन्।)
दिनकरकुलचन्द्र चन्द्रकेतो !
सरभसमेहि दृढं परिष्वजस्व।
तुहिनशकलशीतलैस्तवाऽङ्गैः
शममुपयातु ममाऽपि चित्तदाहः॥७॥
(उत्थाप्य सस्नेहाऽस्त्रं परिष्वज्य।) अप्यनामयं नूतनदिव्याऽस्त्राऽऽयोधनस्य तव ?
** चन्द्रकेतुः—**कुशलमत्यद्भुतप्रियवयस्यलाभाभ्युदयेन। तद्विज्ञापयामि—मामिव विशेषेण स्निग्धेन चक्षुषा पश्यत्वमुं वीरमनरालसाहसं तातः।
** रामः—**(लवं निरूप्य।) दिष्ट्या अतिगम्भीरमधुरकल्याणाऽऽकृतिरयं वयस्यो वत्सस्य।
त्रातुं लोकानिव परिणतः कायवानस्त्रवेदः
क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुप्त्यै।
सामर्थ्यानामिव समुदयः संचयो वा गुणाना-
माविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः॥८॥
** लवः**—(स्वगतम्।) अहो पुण्यानुभावदर्शनोऽयं महापुरुषः।
आश्वास इव भक्तीनामेकमायतनं महत्।
प्रकृष्टस्यैव धर्मस्य प्रसादो मूर्तिसुन्दरः॥६॥
आश्चर्यम् !
विरोधो विश्रान्तः, प्रसरति रसो निर्वृतिघनः,
तदौद्धत्यं क्वापि व्रजति, विनयः प्रहृयति माम्।
झटित्यस्मिन्दृष्टे किमिति परवानस्मि, यदि वा
महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः॥१०॥
** रामः**—तत्किमयमेकपद एव मे दुःखविश्रामं ददात्युपस्नेहयति च कुतोऽपि निमित्तादन्तराऽऽत्मानम् ? अथवा, स्नेहश्च निमित्तसव्यपेक्ष इति विप्रतिषिद्धमेतत्।
व्यतिषजति पदार्थानान्तरः कोऽपि हेतु-
र्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते।
विकसति हि पतङ्गस्योदये पुण्डरीकं
द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः॥११॥
** लवः—**चन्द्रकेतो ! क एते ?
** चन्द्रकेतुः**—प्रियवयस्य ! ननु तातपादाः।
** लवः**—ममापि धर्मतस्तथैव। यतः प्रियवयस्येति भवतोक्तम्। किंतु, चत्वारः किल भवन्त्येवंव्यपदेशभागिनस्त- त्रभवन्तो रामायणकथापुरुषाः। तद्विशेषं ब्रूहि।
** चन्द्रकेतुः—**ज्येष्ठतात इत्यवेहि।
** लवः**—( सोश्वसम्। ) कथं रघुनाथ एव। दिष्ट्या सुप्रभातमद्य
यदयं देवो दृष्टः। (सविनयं निर्वर्ण्य।) तात ! प्राचेतसाऽन्तेवासी लवोऽभिवादयते।
**रामः—**आयुष्मन् ! एह्येहि। (सस्नेहमालिङ्ग्य।) अयि वत्स ! कृतमत्यन्तविनयेन। अङ्गेन मामपरिश्लथं परिरम्भस्व।
परिणतकठोरपुष्करगर्भच्छदपीनमसृणसुकुमारः।
नन्दयति चन्द्रचन्दननिष्यन्दजडस्तव स्पर्शः॥१२॥
** लवः—**(स्वगतम्।) ईदृशो मां प्रत्यमीषामकारणस्नेहः। मया पुनरेभ्य एवाऽभिद्रोग्धुमज्ञेनाऽऽयुधपरिग्रहः कृतः। (प्रकाशम्) मृष्यन्तां त्विदानीं लवस्य बालिशतां तातपादाः।
** रामः—**किमपराद्धं वत्सेन ?
** चन्द्रकेतुः—**अश्वाऽऽनुयात्रिकेभ्यस्तातप्रतापाऽऽविष्करणमुपश्रुत्य वीरायितमनेन।
** रामः—**नन्वयमलंकारः क्षत्रियस्य।
न तेजस्तेजस्वी प्रसृतमपरेषां विषहते
स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः।
मयूखैरश्रान्तं तपति यदि देवो दिनकरः
किमाग्नेयो ग्रावा निकृत इव तेजांसि वमति॥१३॥
** चन्द्रकेतुः—**अमर्षोऽप्यस्यैव शोभते महावीरस्य। पश्यन्तु हि तातपादाः प्रियवयस्यनियुक्तेन जृम्भकास्त्रेण विक्रम्य स्तम्भितानि सर्वसैन्यानि।
** रामः—**(सविस्मयखेदं निर्वर्ण्य। स्वगतम्।) अहो, वत्सस्य ईदृशः प्रभावः। (प्रकाशम्।) वत्स ! संह्रियतामस्त्रम्। त्वमपि चन्द्रकेतो ! निर्व्यापारतया विलक्षणानि सान्त्वय बलानि।
(लवः प्रणिधानं नाटयति।)
** चन्द्रकेतुः—**यथा निर्दिष्टम्। (इति निष्क्रान्तः।)
** लवः**—तात ! प्रशान्तमस्त्रम्।
** रामः**—सरहस्यप्रयोगसंहारजृम्भकास्त्राणि दिष्ट्या वत्सस्यापि संपद्यन्ते।
ब्रह्मादयो ब्रह्महिताय तप्त्वा
परः सहस्रं शरदस्तपांसि।
एतान्यदर्शन्गुरवः पुराणाः
स्वान्येव तेजांसि तपोमयानि॥१४॥
अथैतामस्त्रमन्त्रोपनिषदं भगवान्कृशाश्वः परः सहस्राधिकसंवत्सरपरिचर्यानिरतायाऽन्तेवासिने कौशिकाय प्रोवाच। स भगवान्मह्यमिति
गुरुपूर्वानुक्रमः। कुमारस्य कुतः संप्रदाय इति पृच्छामि ?
** लवः**—स्वतः प्रकाशान्यावयोरस्त्राणि।
** रामः—**(विचिन्त्य।) किं न संभाव्यते। प्रकृष्टपुण्योपादानकः कोऽपि महिमा स्यात्। द्विवचनं तु कथम् ?
** लवः—**भ्रातरावावां यमौ ?
** राम**—स तर्हि द्वितीयः क्व ?
(नेपथ्ये।)
आयुष्मतः किल लवस्य नरेन्द्रसैन्यै -
रायोधनं ननु, किमात्थ ?—सखे ! तथेति।
अद्यास्तमेतु भुवनेषु च राजशब्दः
क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु॥१५॥
** रामः—**
अथ कोऽयमिन्द्रमणिमेचकच्छवि-
र्ध्वनिनैव बद्धपुलकं करोति माम्।
नवनीलनीरधरधीरगर्जित-
क्षणबद्धकुङ्मलकदम्बडम्बरम् ?॥१६॥
** लवः**—अयमसौ मम ज्यायानाऽऽर्यः कुशो नाम भरताऽऽश्रमात्प्रतिनिवृत्तः।
** रामः—**(सकौतुकम्।) तर्हि वत्स ! इत एवैतमाह्वयाऽऽयुष्मन्तम्।
** लवः—**यदज्ञापयति। (इति निष्क्रान्तः।)
(ततः प्रविशति कुशः।)
** कुशः—**(सक्रोधं कृतधैर्यं धनुरास्फाल्य।)
**दत्तेन्द्राऽभयदक्षिणैर्भगवतो वैवस्वतादा मनो-
र्दृप्तानां दमनाय दीपितनिजक्षत्रप्रतापाऽग्निभिः।
आदित्यैर्यदि विग्रहो नृपतिभिर्धम्यंममैतत्ततो-
दीप्ताऽस्त्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः॥१७॥
**
(विकटं परिक्रामति।)
** रामः—**कोऽप्यस्मिन्क्षत्रियपोतके पौरुषातिरेकः। तथाहि
दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा
धीरोद्धता नमयतीव गतिर्धरित्रीम्।
कौमारकेऽपि गिरिवद्गुरुतां दधानो-
वीरोरसः किमयमेत्युत दर्प एव १॥१८॥
** लवः**—(उपसृत्य।) जयत्वार्यः।
** कुशः**—नन्वायुष्मन् ! किमियं वार्ता युद्धं युद्धमिति ?
** लवः—**यत्किंचिदेतत्। आर्यस्तु दृप्तं भावमुत्सृज्य विनयेन वर्तताम्।
** कुशः—**किमर्थम् ?
** लवः**—यदत्र देवो रघुनन्दनः स्थितः। स रामायणकथानायको—ब्रह्मकोशस्य गोप्ता।
** कुशः—**आशंसनीयपुण्यदर्शनः स महात्मा। किंतु स कथमस्माभिरुपगन्तव्य इति संप्रधारयामि ?
** लवः**—यथैव गुरुस्तथोपसदनेन।
** कुशः**—कथं हि नामैतम् ?
** लवः**—अत्युदान्तः सुजनश्चन्द्रकेतुरौर्मिलेयः ‘प्रियवयस्येति’ सख्येन मामुपतिष्ठते। तेन संबन्धेन धर्मतस्तात एवायं राजर्षिः।
** कुशः**—संप्रत्यवचनीयो राजन्येऽपि प्रश्रयः।
(उभौ परिक्रामतः।)
** लवः**—पश्यत्वेनमार्योमहापुरुषमाकारानुभावगाम्भीर्यसंभाव्यमानविविधलोकोत्तरसुचरिताऽतिशयम्।
** कुशः—**(निर्वर्ण्य। )
अहो प्रासादिकं रूपमनुभावश्च पावनः।
स्थाने रामायणकविर्देवीं वाचमवीवृधत्॥१६॥
तात ! प्राचेतसान्तेवासी कुशोऽभिवादयते।
** रामः**—एह्येह्याऽऽयुष्मन् !
** अमृताऽऽध्मातजीमूतस्निग्धसंहननस्य ते।
परिष्वङ्गाय वात्सल्यादयमुत्कण्ठते जनः॥२०॥**
(परिष्वज्य। स्वगतम्।) तत्किमित्ययं च दारकः ?
अङ्गादङ्गात्सृत इव निजस्नेहजो देहसारः
प्रादुर्भय स्थित इव बहिश्चेतनाधातुरेकः।
सान्द्राऽऽनन्दक्षुभितहृदयप्रस्त्रवेणाऽवसिक्तो -
गाढाऽऽश्लेषः स हि मम हिमच्योतमाशंसतीव॥२१॥
** लवः**—ललाटंतपस्तपति घर्मांशुः। तदत्र सालवृक्षच्छायायां मुहूर्तमासनपरिग्रहं करोतु तातः।
** रामः—**भरुचितं वत्सस्य।
(परिक्रम्य यथोचितमुपविशन्ति।)
** रामः**—(स्वगतम्।)
अहो प्रश्रययोगेऽपि गतिस्थित्याऽऽसनादयः।
साम्राज्यशंसिनो भावाः कुशस्य च लवस्य च॥२२॥
वपुरवियुतसिद्धा एव लक्ष्मीविलासाः
प्रतिकलकमनीयां कान्तिमुद्भेदयन्ति। अमलिनमिव चन्द्रंरश्मयः स्वे यथा वा
विकसितमरविन्दं बिन्दवा माकरन्दाः॥२३॥
भूयिष्ठं च रघुकुलकौमारमनयोः पश्यामि।
कठोरपाराबतकण्ठमेचकं
वपुर्वृपस्कन्धसुबन्धुरांसयो
प्रसन्नसिंहस्तिमितं च वीक्षितं
ध्वनिश्च माङ्गल्यमृदङ्गमांसलः॥२४॥
(निपुणं निरूपयन्।) अये, न केवलमस्मद्वंशसंवादिन्याकृतिः—
अपि जनकसुतायास्तच्च तच्चाऽनुरूपं
स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति।
ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो-
रभिनवशतपत्रश्रीमदाऽऽस्यं प्रियायाः॥२५॥
शुक्लाच्छदन्तच्छविसुन्दरेयं
सैवोष्ठमुद्रा स च कर्णपाशः।
नेत्रे पुनर्यद्यपि रक्तनीले
तथापि सौभाग्यगुणः स एव॥२६॥
(विचिन्त्य।) तदेतत्प्राचेतसाध्युषितमरण्यं यत्र किल देवी परित्यक्ता। इयं चानयोराकृतिर्वयोऽनुभावश्च। यत्स्वतः प्रकाशान्यस्त्राणीति च, तत्राऽपि स्मरामि खलु तदपि चित्रदर्शनप्रासङ्गिकं शस्त्राऽभ्यनुज्ञानं प्रबुद्धं स्यात्। न ह्यसंप्रदायिकान्यस्त्राणि पूर्वेषामपि शुश्रुमः। अयं विस्मयसंल्पवमानसुखदुःखातिशयो हृदयस्य मे विप्रलम्भः। यमाविति च भूयिष्ठमात्मसंवादः। जीवद्वयाऽपत्यचिह्नो हि देव्या गर्भिणीभावआसीत्। (सास्रम्।)।
परां कोटिं स्नेहेपरिचयविकासादधिगते
रहो विस्रब्वाया अपि सहजलज्जाजडदृशः।
मयैवादौ ज्ञातः करतलपरामर्शकलया
द्विधा गर्भग्रन्थिस्तदनु दिवसैः कैरपि तया॥२७॥
(रुदित्वा। तत्किमेतौ पृच्छामि केनचिदुपायेन ?
** लवः**—तात ! किमेतत् ?
वाष्पवर्षेण नीतं वो जगन्मङ्गलमाननम्।
अवश्यायाऽवसिक्तस्य पुण्डरीकस्य चारुताम्॥२८॥
** कुशः—**अयि वत्स !
विना सीतादेव्या किमिव हि न दुःखं रघुपतेः
प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति।
स च स्नेहस्तावानयमपि वियोगो निरवधिः
किमेवं त्वं पृच्छस्यनधिगतरामायण इव॥२६॥
** रामः—**(स्वगतम्।) अये, तटस्थ आलापः। कृतं प्रश्नेन। मुग्धहृदय ! कोऽयमाकस्मिकस्ते संल्पवाधिकारः ? एवं निर्भिन्नहृदयावेगः शिशुजनेनाप्यनुकम्पितोऽस्मि। भवतु, तावदन्तरयामि। (प्रकाशम्।) वत्सौ ! रामायणं रामायणमिति श्रूयते भगवतो वाल्मीकेः सरस्वतीनिष्यन्दः प्रशस्तिरादित्यवंशस्य। तत्कौतूहलेन यत्किंचिच्छ्रोतुमिच्छामि।
** कुशः—**कृत्स्न एव संदर्भोऽस्माभिरावृत्तः। स्मृतिप्रत्युपस्थितौ तावदिमौ बालचरितस्यान्ते द्वौ श्लोकौ।
** रामः**—उदीरयतं वत्सौ।
** कुशः—**
प्रिया तु सीता रामस्य दाराः पितृकृता इति।
गुणै रूपगुणैश्चापि प्रीतिर्भूयोऽप्यवर्धत॥३०॥
तथैव रामः सीतायाः प्राणेभ्योऽपि प्रियोऽभवत्।
हृदयं त्वेव जानाति प्रीतियोगं परस्परम्॥३१॥
** रामः—**कष्टमतिदारुणो हृदयमर्मोद्धातः। हा देवि ! एवं किलैतदासीत्। अहो निरन्वयविपर्यासविप्रलम्भस्मृति- पर्यवसायिनस्तावकाः संसारवृत्तान्ताः।
क्वतावानाऽऽनन्दो निरतिशयविस्रम्भबहुलः
क्ववान्योन्यप्रेम क्व च नु गहनाः कौतुकरसाः।
सुखे वा दुःखे वा क्वनु खलु तदैक्यं हृदययो-
स्तथाप्येष प्राणः स्फुरति न तु पापो विरमति॥३२॥
भोः, कष्टम्।
प्रियागुणसहस्राणां क्रमोन्मीलनतत्परः।
य एव दुःसहः कालस्तमेव स्मारिता वयम्॥३३॥
** लवः—**अयं तु चित्रकूटवर्त्मनि मन्दाकिनीविहारे सीतादेवीमुद्दिश्य रघुपतेः श्लोकः—
त्वदर्थमिव विन्यस्तः शिलापट्टोऽयमायतः।
यस्याऽयमभितः पुष्पैः प्रवृष्ट इव केसरः॥३४॥
** रामः—**(सलज्जास्मितस्नेहकरुणम्।) अति हि नाम मुग्धः शिशुजनः। विशेषतस्त्वरण्यचरः। हा देवि ! स्मरसि वा तस्य तत्समयविस्रम्भाऽतिप्रसङ्गस्य ?
(स्तम्भित एव स्थित्वा। सकरुणम्।) अहो नु खलु भोः,
चिरं ध्यात्वा ध्यात्वा निहित इव निर्माय पुरतः
प्रवासे चाश्वासं न खलु न करोति प्रियजनः।
जगज्जीर्णाऽरण्यं भवति च कलत्रेऽप्युपरते
कुकूलानां राशौ तदनु हृदयं पच्यत इव॥३५॥
(नेपथ्ये।)
वसिष्ठो वाल्मीकिर्दशरथमहिष्योऽथ जनकः
सहैवाऽरुन्धत्या शिशुकलहमाकर्ण्य सभयाः।
जराग्रस्तैर्गात्रैरथ खलु सुदूराऽऽश्रमतया
चिरेणाऽऽगच्छन्ति त्वरितमनसो विश्लथजटाः॥३६॥
** रामः—**कथं भगवत्यरुन्धती वसिष्ठोऽम्बाश्च जनकश्चात्रैव ? कथं खलु ते द्रष्टव्याः ? (सकरुणं विलोक्य।) तातजनकोऽप्यत्रैवाऽऽयात इति वज्रेणेव ताडितोऽस्मि मन्दभाग्यः।
संबन्धस्पृहणीयताप्रमुदितैर्ज्येष्ठैर्वसिष्ठादिभि-
र्दृष्ट्वापत्यविवाहमङ्गलविधौ तत्तातयोः संगमम्।
पश्यन्नीदृशमीदृशः पितृसखं वृत्ते महावैशसे
दीर्ये किं न सहस्रधाहमथवा रामेण किं दुष्करम्॥३७॥
(नेपथ्ये। )
भोः भोः, कष्टम्
अनुभावमात्रसमवस्थितश्रियं
सहसैव वीक्ष्य रघुनाथमीदृशम्।
प्रथमप्रबुद्धजनकप्रबोधिता-
विधुराः प्रमोहमुपयान्ति मातरः॥३८॥
** रामः—**
जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम्।
तत्राऽप्यकरुणे पापे वृथा वः करुणा मयि॥३६॥
यावत्संभावयामि। (इत्युत्तिष्ठति।)
** कुशलवौ—**इत इतस्तातः।
(सकरुणं परिक्रम्य निष्क्रान्ताः सर्वे)
**इति षष्ठोऽङ्कः।
(ततः प्रविशति लक्ष्मणः )
लक्ष्मणः—भोः ! किं नु खलु भगवता वाल्मीकिना सब्रह्मक्षत्रपौरजानपदाः प्रजाः सहाऽस्माभिराहूय कृन्स्नएव सदेवाऽसुरतिर्यङ्निकायः सचराचरो भूतग्रामः स्वप्रभावेन संनिधापितः। आदिष्टश्चाहमार्येण—‘वत्स लक्ष्मण ! भगवता वाल्मीकिना स्वकृतिमप्सरोभिः प्रयुज्यमानां द्रष्टुमुपनिमन्त्रिताः स्मः। गङ्गातीरमातोद्यस्थानमुपगम्य क्रियतां समाजसंनिवेशः’ इति। कृतश्च मर्त्याऽमर्त्यस्य भूतग्रामस्य समुचितस्थानसंनिवेशो मया। अयं तु—
राज्याऽऽश्रमनिवासोऽपि प्राप्तकष्टमुनिव्रतः।
वाल्मीकिगोरवादार्य इत एवाऽभिवर्तते॥
(ततः प्रविशति रामः।)
** रामः—**वत्स लक्ष्मण ! अपि स्थिता रङ्गप्राश्निकाः ?
** लक्ष्मणः—**अथ किम्।
** रामः—**इमौ पुनर्वत्सौ कुमारचन्द्रकेतुसमां प्रतिपत्तिं लम्भयितव्यौ।
** लक्ष्मणः—**प्रभुस्नेहप्रत्ययात्तथैव कृतम्। इदं चास्तीर्ण राजासनम्। तदुपविशत्वार्यः।
** रामः—**(उपविश्य।) प्रस्तूयतां भोः।
** सूत्रधारः—(प्रविश्य) भगवान्भूताऽर्थवादी प्राचेतसः स्थावरजङ्गमं जगदाज्ञापयति—**“ यदिदमस्माभिरार्षेण चक्षुषा समुद्वीक्ष्य पावनं
वचनामृतं करुणाद्भुतरसं च किंचिदुपनिबद्धम्। तत्र काव्यगौरवादवधातव्यमिति।
**रामः—**एतदुक्तं भवति। साक्षात्कृतधर्माणो महर्षयः। तेषाममृतंभराणि भगवतां परांरजांसि प्रज्ञानानि न क्वचिद्व्याहन्यन्त इति नहि शङ्कनीयानि।
(नेपथ्ये।)
हाआर्यपुत्र ! कुमार लक्ष्मण ! एकाकिनीमशरणामासन्नप्रसववेदनामरण्ये हताशां श्वापदा अभिलषन्ति। हा इदानीं मन्दभाग्या भागीरथ्यामात्मानं निक्षिपामि।
** लक्ष्मणः—**कष्ट बतान्यदेव किमपि।
** सूत्रधारः—**
विश्वंभरात्मजा देवी राज्ञा त्यक्ता महावने
प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति॥२॥
** रामः**—(सावेगम्) देवि ! देवि ! लक्ष्मणमवेक्षस्व।
** लक्ष्मणः—**आर्य ! नाटकमिदम्।
** रामः—**हा देवि ! दण्डकारण्यवास प्रियसखि ! एष ते रामाद्विपाकः।
** लक्ष्मणः—**आर्य ! आश्वस्य दृश्यताम्। प्रबन्धस्त्वार्षः।
** रामः**—एष सज्जोऽस्मि वज्रमयः।
(ततः प्रविशति उत्सङ्गितैकैकदारकाभ्यां ! पृथिवीगङ्गाभ्यामवलम्बिता प्रमुग्धा सीता )
** रामः—**वत्स ! असं विज्ञातपदनिबन्धने तमसीवाऽहमद्य प्रविशामि। धारय माम्।
** देव्यौ—**
समाश्वसिहि कल्याणि दिष्ट्या वैदेहि ! वर्धसे।
अन्तर्जले प्रसूताऽसि रघुवंशधरौ सुतौ॥३॥
** सीता—**(आश्वस्य ) दिष्ट्या दारकौ प्रसूतास्मि। हा आर्यपुत्र !
** लक्ष्मणः—**(पादयोर्निपत्य) आर्य दिष्ट्या वर्धामहे। कल्याणप्ररोहोरघुवंशः। (विलोक्य) हा कथं क्षुभितवाष्पोत्पीडनिर्भरः प्रमुग्ध एवार्यः ? (वीजयति)
** देव्यौ—**वत्से ! समाश्वसिहि।
** सीता**—(समाश्वस्य) भगवत्यौ ! के युवाम् ? मुञ्चतम्।
** पृथिवी—**इयं ते श्वशुरकुलदेवता भागीरथी।
** सीता**—नमस्ते भगवति !
** भागीरथी—**चारित्रोचितां कल्याणसंपदमधिगच्छ।
** लक्ष्मणः—**अनुगृहीताः स्मः।
** भागीरथी—**इयं ते जननी विश्वंभरा।
** सीता**—हा अम्ब ! ईदृश्यहं त्वया दृष्टा।
** पृथिवी**—एहि पुत्रि ! वत्से सीते !
(उभौ आलिङ्ग्य मूर्च्छतः )
** लक्ष्मणः**—(सहर्षम्) कथमार्या गङ्गापृथिवीभ्यामभ्युपपन्ना ?
** रामः**—दिष्टया खल्वेतत्। करुणान्तरं तु वर्तते।
** भागीरथी—**अत्रभवती विश्वंभरा व्यथते—इति जितमपत्यस्नेहेन। यद्वा सर्वसाधारणो ह्येष मनसो मूढग्रन्थिरान्तरश्चेतनावताभुपप्लवः संसारतन्तुः। सखि भूतधात्रि ! वत्से वैदेहि ! समाश्वसिहि।
** पृथिवी—**(आश्वस्य।) देवि ! सीतां प्रसूय कथमाश्वसिमि ?
सोढश्चिरं राक्षसमध्यवास-
स्त्यागो द्वितीयस्तु सुदुःसहोऽस्याः।
** गङ्गा—**
को नाम पाकाभिमुखस्य जन्तु-
र्द्वाराणि दैवस्य पिधातुमीष्टे॥४॥
** पृथिवी—**भगवति भागीरथि ! युक्तमेतत्सर्वं वो रामभद्रस्य !
न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः।
नाऽहं न जनको नाग्निर्न तु वृत्तिर्न संततिः॥५॥
** सीता**—हा आर्यपुत्र ! स्मरसि ?
** पृथिवी—**आः, कस्तवार्यपुत्रः ?
** सीता—**(सलज्जास्त्रम्।) यथाऽम्बा भणति।
** राम—**अम्ब पृथिवि ! ईदृशोऽस्मि।
** गङ्गा—**भगवति वसुंधरे ! शरीरमसि संसारस्य। तत्किंमसंविदानेव जामात्रे कुप्यसि ?
घोरं लोके विततमयशो या च वह्नौविशुद्धि-
र्लङ्काद्वीपे कथमिव जनस्तामिह श्रद्धधातु।
इक्ष्वाकूणां कुलधनमिदं यत्समाराधनीय
कृत्स्त्रो लोकस्तदिह विषमे किं स वत्सः करोतु॥६॥
** लक्ष्मणः—**अव्याहताऽन्तः प्रकाशा हि देवताः सत्त्वेषु।
** गङ्गा—**तथाप्येषतेऽञ्जलिः।
** रामः—**अम्ब ! अनुवृत्तस्त्वया भगीरथकुले प्रसादः।
** पृथिवी**—नित्यं प्रसन्नास्मि तव। किं त्वसाऽऽवापातदुःसहः स्नेहसंवेगः। न पुनर्न जानामि सीतास्नेहं रामभद्रस्य।
दह्यमानेन मनसा दैवाद्वत्सां विहाय सः।
लोकोत्तरेण सत्त्वेन न प्रजापुण्यैश्च जीवति॥७॥
** रामः—**सकरुणा हि गुरवो गर्भरूपेषु।
** सीता**—(रुदती कृताञ्जलिः।) नयतु मामात्मनोऽङ्गेषु विलयमम्बा।
** गङ्गा**—किं ब्रवीषि। अविलीनां वत्से ! संवत्सरसहस्राणि भूयाः।
** पृथिवी**—वत्से ! भवेक्षणीयौ ते पुत्रौ।
** सीता**—किमेताभ्यामनाथाभ्याम् ?
** रामः—**हृदय ! वज्रमसि।
** गङ्गा—**कथं वत्सौ सनाथावप्यनाथौ ?
** सीता—**कीदृशं मे अभाग्यायाः सनाथत्वम् ?
** देव्यौ**—
जगन्मङ्गलमात्मानं कथं त्वमवमन्यसे।
आवयोरपि यत्सङ्गात्पवित्रत्वं प्रकृष्यते॥८॥
** लक्ष्मणः—**आर्य! श्रूयताम्।
** रामः**—लोकः शृणोतु।
(नेपथ्ये कलकलः)।
** रामः—**अद्भुततरं किमपि।
** सीता**—किमित्याबद्धकलकलं प्रज्वलितमन्तरिक्षम् ?
** देव्यौ—**ज्ञातम्।
भृशाऽश्वः कौशिको राम इति येषां गुरुक्रमः।
प्रादुर्भवन्ति तान्येव शस्त्राणि सह जृम्भकैः॥६॥
(नेपथ्ये।)
देवि सीते ! नमस्तेऽस्तु गतिर्नः पुत्रकौ हि ते।
आलेख्यदर्शनादेव ययोर्दाता रघूद्वहः॥१२॥
** सीता—**दिष्ट्या अस्त्रदेवता एताः। आर्यपुत्र ! अद्यापि ते प्रसादाः परिस्फुरन्ति।
** लक्ष्मणः**—उक्तमासीदार्येण—“सर्वथैतानि त्वत्प्रसवमुपस्थास्यन्तीति”।
** देव्यौ—**
नमो वः परमाऽस्त्रेभ्यो धन्याः स्मो वः परिग्रहात्।
काले ध्यातैरुपख्येयं वत्सयोर्भद्रमस्तु वः॥११॥
** रामः—**
क्षुभिताः कामपि दशां कुर्वन्ति मम संप्रति।
विस्मयाऽऽनन्दसंदर्भजर्जराः करुणोर्मयः॥१२॥
** देव्यौ—**मोदस्व वत्से ! मोदख। रामभद्रतुल्यौ ते पुत्रकाविदानींसंवृत्तौ।
** सीता**—भगवत्यौ ! क एतयोः क्षत्रियोचितविधिं कारयिष्यति ?
** रामः—**
एषा वसिष्ठशिष्याणां रघूणां वंशनन्दिनी।
कष्टं सीतापि सुतयोः संस्कर्तारं न विन्दति॥१३॥
** गङ्गा**—भद्रे ! किं तवाऽनया चिन्तया। एतौ हि वत्सौ स्तन्यत्यागात्परेण भगवतो वाल्मीकेरर्पयिष्यामि।
** रामः—**
वसिष्ठ एव ह्याचार्यो रघुवंशस्य संप्रति।
स एव चानयोर्ब्रह्मक्षत्रकृत्यं करिष्यति॥१४॥
यथा वलिष्टाङ्गिरस ऋषिः प्राचेतसस्तथा।
जनकानां रघूणां च वंशयोरुभयोर्गुरुः॥१५॥
** रामः**—सुविचिन्तितं भगवत्या।
** लक्ष्मणः—**आर्य ! सत्यं विज्ञापयामि। तैस्तैरुपायैरिमौ वत्सौ कुशलबावुत्प्रेक्षे।
एतौ हि जन्मसिद्धास्त्रौ प्राप्तप्राचेतसावुभौ।
आर्यतुल्याकृती वीरौ वयसा द्वादशाब्दकौ॥१६॥
** रामः—**वत्सावित्येवाहं परिल्पवमानहृदयः प्रमुग्धोऽस्मि।
** पृथिवी**—एहि वत्से ! पवित्रीकुरु रसातलम्।
** रामः—**प्रिये ! लोकान्तरं गतासि ?
** सीता**—नयतु मामात्मनोऽङ्गेषु विलयमस्वा। न सहिष्ये ईद्दशं जीवलोकस्य परिभवमनुभवितुम्।
** लक्ष्मणः—**किमुत्तरं स्यात्
** पृथिवी**—मन्नियोगतः स्तन्यत्यागं यावत् पुत्रयोरवेक्षस्व। परेण तु यथा रोचिष्यते तथा करिष्यामि \।
** गङ्गा**—एवं तावत्।
(इति निष्क्रान्ते देव्यौ सीता च।)
** रामः—**कथं प्रतिपन्न एव तावत्।हा चारित्रदेवते ! लोकान्तरे पर्यवसितासि। (इति मूर्छति।)
** लक्ष्मणः—**भगवन्वाल्मीके ! परित्रायस्व परित्रायस्व। एष त काव्यार्थः।
(नेपथ्ये।)
अपनीयतामातोद्यम्। भो जङ्गमस्थावराः प्राणभृतो मर्त्यामर्त्याः, पश्यन्विदानीं वाल्मीकिनाभ्यनुज्ञातं पवित्रमाश्चर्यम्।
** लक्ष्मणः—**(विलोकय।)
मन्थादिव क्षुभ्यति गाङ्गमम्भो-
व्याप्तं च देवर्षिभिरन्तरिक्षम्।
आश्चर्यमार्या सह देवताभ्यां
गङ्गामहीभ्यां सलिलादुपैति॥१७॥
(नेपथ्ये।)
अरुन्धति ! जगद्वन्द्ये गङ्गापृथ्व्यौ जुषस्व नौ।
अर्पितेयं तवाऽऽवाभ्यां सीता पुण्यव्रता वधूः॥१८॥
** लक्ष्मणः**—अहो आश्चर्यमाश्चर्यम्। आर्ये ! पश्य पश्य। कष्टमद्यापि नोच्छ्वसित्यार्थः।
(ततः प्रविशत्यरुन्धती सीता च। )
** अरुन्धती—**
त्वरस्व वत्से वैदेहि ! मुञ्च शालीनशीलताम्।
एहि जीवय मे वत्सं सौम्यस्पर्शेन पाणिना॥१६॥
** सीता**—(ससंभ्रमं स्पृशति।) समाश्वसितु समाश्वसित्वार्यपुत्रः।
** रामः—**(समाश्वस्य सानन्दम्।) भोः, किमेतत् ? (दृष्ट्वा सहर्षाद्भुतम्।) कथं देवी जानकी ? (सलज्जम्। ) अये, कथमम्बाऽरुन्धती। कथं सर्वे ऋष्यश्रृङ्गादयोऽस्मद्गुरवः?
** अरुन्धती—**वत्स ! एषा भागीरथी रघुकुलदेवता देवी गङ्गा सुप्रसन्ना।
(नेपथ्ये।)
जगत्पते रामभद्र ! स्मर्यतामालेख्यदर्शने मां प्रत्याऽऽत्मवचनम्—“सा त्वमम्ब ! स्त्रुषायामरुन्धतीव सीतायां शिवानुध्यानपरा भव” इति। तदनुगाऽस्मि।
** अरुन्धती**—इयं ते श्वश्रू र्भगवती वसुंधरा।
(नेपथ्ये।)
उक्तमासीदायुष्मता बत्सायाः परित्यागे—‘भगवति वसुंधरे ! श्लाध्यां दुहितरमवेक्षस्व जानकीम्’ इति। तदधुना कृतवचनास्मि।
** रामः**—कृतापराधोऽपि भगवति ! त्वयानुकम्पयितव्यो रामः प्रणमति।
** अरुन्धती—**भो भोः पौरजानपदाः ! इयमधुना वसुंधराजाह्नवीभ्यामेवं प्रशस्यमाना मया चाऽरुन्धत्या समर्पिता पूर्वं भगवता वैश्वान-
रेण निर्णीतपुण्यचारित्रा सब्रह्मकैश्चदेवैः स्तुता सावित्रकुलवधूर्देवयजनसंभवा जानकी परिगृह्यताम्। कथमिह भवन्तो मन्यन्ते ?
** लक्ष्मणः**—आर्य ! एवमम्बयारुन्धत्या निर्भर्त्सिताः पौरजानपदाः कृतस्नश्च भूतग्राम आर्यानमस्कुर्वन्ति। लोकपालाः सप्तर्षयश्च पुष्पवृष्टिभिरुपतिष्ठन्ते।
** अरुन्धती—**जगत्पते रामभद्र !
नियोजय यथाधर्मं प्रियां त्वं धर्मचारिणीम्।
हिरण्मय्याः प्रतिकृतेः पुण्यां प्रकृतिमध्वरे॥२०॥
** सीता**—(स्वगतम्।) अपि जानात्यार्यपुत्रः सीताया दुःखं परिमार्ष्टुम् ?
** रामः**—यथा भगवत्यादिशति।
** लक्ष्मणः—**कृतार्थोऽस्मि।
** सीता**—प्रत्युज्जीवितास्मि।
** लक्ष्मणः—**आर्ये! अयं लक्ष्मणः प्रणमति।
** सीता**—वत्स ! ईदृशस्त्वं चिरं जीव।
** अरून्धती—**भगवन्वाल्मीके ! उपनयेदानीं सीतागर्भसंभवौ रामभद्रस्य कुशलवौ। ( इति निष्क्रान्ता।)
** रामलक्ष्मणौ—**दिष्टया तथैवैतत्।
** सीता—**क्वतौ पुत्रकौ ?
(ततः प्रविशति वाल्मीकिः कुशलवौ च।)
** वाल्मीकि—**वत्सौ ! एष वां रघुपतिः पिता। एष लक्ष्मणः कनिष्ठतातः। एषा सीता जननी। एष राजर्षिजनको मातामहः।
** सीता—**(सहर्षकरुणाद्भुतं विलोक्य) कथं तातः ? कथं जातौ ?
** वत्सौ—**हा तात! हा अम्ब! हा मातामह!
** रामलक्ष्मणौ**—(सहर्षमालिङ्ग्य।) ननु वत्सौ! युवां प्राप्तौ स्वः ?
** सीता**—एहि जात कुश! एहि जात लव! चिरस्य मां परिष्वजेथां लोकान्तरादागतां जननीम्।
** कुशलवौ—**(तथा कृत्वा।) धन्यौ स्वः।
** सीता —**भगवन्! एषाऽहं प्रणमामि।
** वाल्मीकिः—**वत्से! एवमेव चिरं भूयाः।
(नेपथ्ये।)
** “उत्खातलवणो मधुरेश्वरः प्राप्तः।”**
** लक्ष्मणः—**सानुषङ्गाणि कल्याणानि।
** रामः**—सर्वमिदमनुभवन्नपि न प्रत्येमि। यद्वा प्रकृतिरियमभ्युदयानाम्।
** वाल्मीकिः—**रामभद्र! उच्यतां किं ते भूयः प्रियमुपहरामि ?
** रामः—**अतः परमपि प्रियमस्ति ? किं त्विदं भरतवाक्यमस्तु
पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि सेयं कथा
माङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च।
तामेनां परिभावयन्त्वभिनयैर्विन्यस्तरूपां बुधाः
शब्दब्रह्मविदः कवेः परिणतां प्राज्ञस्य वाणीमिमाम्॥२१॥
(निष्क्रान्ताः सर्वे। )
इति सप्तमोऽङ्कः।
इति महाकवि श्री भवभूति प्रणीतं
उत्तररामचरितं समाप्तम्
द्वितीयोऽङ्कः
* प्रभातवर्णनम् *
(ततः प्रविशति यजमानशिष्यः।)
शिष्यः—अपि च।अये, प्रभातप्रायेव रजनी। तथा हि—
तमोभिः पीयन्ते गतवयसि पीयूषवपुषि
ज्वलिष्यन्मार्तण्डोपलपटलधूमैरिवः दिशः।
सरोजानां कर्षन्नलिमयमयस्कान्तमणिवत्
क्षणादन्तःशल्यं तपति पतिरद्यापि न रुचाम्॥१॥
अपि च।
जाताः पक्वपलाण्डुपाण्डुमधुरच्छायाकिरस्तारकाः
प्राचीमंकुरयन्ति किंचन रुचो राजीवजीवातवः।
लूतातन्तु वितानवर्तुलमितो बिम्बं दधच्चुम्बति
प्रातः प्रोषितरोचिरम्बरतलादस्ताचलं चन्द्रमाः॥२॥
(सर्वतोऽवलोक्य च।)
दिङ्मण्डलीमुकुटमण्डनपद्मराग-
रत्नांऽकुरे किरणमालिनि गर्भितेऽपि।
सौखप्रसुप्तिकमधुव्रतचक्रवाल-
वाचालपङ्कजवनीसरसाः सरस्यः॥३॥
अपि च।
प्राचीविभ्रमकर्णिकाकमलिनीसंवर्तिकाः संप्रति
द्वे तिस्रो रमणीयमम्बरमणेर्द्यामुच्चरन्ते रुचः।
सूक्ष्मोच्छ्वासमपीदमुत्सुकतया संभूय कोषाद्वहि-
र्निष्क्रामद्भ्रमरौघसंभ्रमभरादम्भोजमुज्जृम्भते॥४॥
अपि च।
एकद्विप्रभृतिक्रमेण गणनामेषामिवास्तं यतां
कुर्वाणा समकोचयद्दशशतान्यम्भोजसंवर्तिकाः।
भूयोऽपि क्रमशः प्रसारयति ताः संप्रत्यमूनुद्यतः
संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान्॥५॥
अपि च।
प्रत्यासन्नसुरेन्द्रसिन्धुरशिरःसिन्दूरसान्द्रारुणा
यत्तेजस्त्रसरेणवो वियदितः प्राचीनमातन्वते।
शङ्के संप्रति यावदभ्युदयते तत्तर्कुटङ्कोन्मृजा-
रज्यद्विम्बरजश्छटावलयितो देवस्त्विषामीश्वरः॥६॥
(पुरोऽवलोक्य) कथमिदमुदयाचलमौलिमाणिक्यमर्कमण्डलमद्यापि न विहायस्तलमलंकरोति। तदस्मद्गुरोर्वितायमानयज्ञस्य कुलपतेः कौशि-
कस्यादेशात्समिदाहरणाय प्रस्थितोऽस्मि। तत्त्वरितं गच्छामि। (इति परिक्रामति।)
* अहल्योद्धार *
(प्रविश्य संभ्रान्तो बदुः।)
** बटुः—**आर्य शुनःशेफ ! किमप्याश्चर्यं भीषणं च वर्तते।
** शुनशेफः—**(सचमत्कारं परिवृत्य ) सखे पशुमेढ्र ! किमाश्चर्य भीषणं च वर्तते ?
** पशुमेढ्रः—**अद्य, राम इति कोऽपि क्षत्रियकुमार आगत इति श्रुत्वा कुतूहलेन धावतस्तपोवनपर्यन्तपरिस्थिता प्रस्तरपुत्रिका सत्य-
मानुषीभूय ममैव संमुखं परापतिता। तां प्रेक्ष्य उत्तरासङ्गवल्कलमप्युज्झित्वा पलायितोऽस्मि।
** शुनःशेफः—**(विहस्य।) सखे ! साधु कृतम्। दिष्ट्या हि जीवतः पुनरावृत्तिः।
** पशुमेढ्रः**—तद्रक्षतु मामार्य एतस्या दुष्टराक्षस्या मुखात्।
** शुनःशेफः**—(सस्मितमुत्थाप्याऽऽलिंग्य च।) वयस्य ! शृणोषि भगवतोगौतमस्य महर्षे रहल्यां नाम धर्मदारान् ?
** पशुमेढ्रः—**या जनकवंशपुरोहितस्य तत्रभवतः शतानन्दस्य जननी ?
** ततस्ततः—**
** शुनशेफः—**सेयं पुरा पुरुहूतखण्डितचरित्रा तस्य दीर्घतपसोमुनेर्मन्युना निजमेव तदिन्द्रियदौर्बल्यमेवं विवर्तमा- नमनुभवन्ती संप्रत्यस्य रघुराजपुत्रस्य तेजसा तस्मादन्धकारान्निरमुच्यत। तदलमावेगेन।
** पशुमेढ्रः—**(उन्मील्य चक्षुषी सर्वतोऽवलोक्य।) अहो आश्चर्यम् ! आर्यस्य प्रसादेन पुनरपि जीवलोके प्रविष्टोऽस्मि। तथापि शङ्काज्वरोऽद्यापि न मां परित्यजति। तदार्य शुनःशेफ ! मुहूर्तं विश्रम्यताम्।
** शुनःशेफः—**सखे ! भयमिति किमेतद्ब्राह्मणस्य ? तत्पर्यवस्थापय आत्मानम्।
(इत्युपविशतः।)
** पशुमेढ्रः—**(चिरं विमृश्य निःश्वस्य च सविस्मयम्।) कथं विषयमृगतृष्णासलज्जलया भगवतो हरेरपि हरिणता विटप्यते ?
** शुनःशेफः**—(विहस्य।) साधु ब्रवीषि। अल्पीयान्खल्वयं लोकः। कथमैहिकसुखाध्यवसायाद्वै अमूर्भूयस्यो रात्रयः पराहण्यन्ते। किं तु मनोहारिभिराहार्यौराह्रियमाणलोचनद्वितयस्यापि न जनो विवेकमङ्कुशयितुमधीष्टे। किं पुनर्नयनसहस्रतयस्य तादृशि विभवे मरुतां पतिः ? चक्षुःप्रीतिमुद्भवन्तीमनूद्भवन्ति चाऽपराणि कुसुमचापचापलानि।
** पशुमेढ्रः—**(विहस्य)) मन्ये एतस्या एव मुनिगृहिण्याः पुण्यपरिणामोऽत्र रामभद्रस्य प्रवासे कारणम् ?
** शुनःशेफः—**इदं तावत्प्रथमम्।
** पशुमेढ्रः—**(साभ्यर्थनम्) आर्य ! द्वितीय मपि श्रोतुमनेन तव वचनेन पर्युत्सुकोऽस्मि।
** शुनःशेफः—**सखे ! त्वयि किमकथनीयं नाम। अस्ति किष्किन्धार्यां पुरंदरस्य नन्दनो बालिर्नाम प्लवगराजः। तं च रजनीचरचक्रवर्तिनादशकंधरेण सह प्रवृत्तमैत्रीकमवलोक्य वानराच्छभल्लगोलाङ्लगूलप्रभूतीनामाचार्यः सर्वामात्यानुमतो जाम्बवानवादीत्—
** पशुमेढ्रः —(सकौतुकम्) ततस्ततः—**
** शुनःशेफः—**ततश्च, “राजन् ! मायाविनी खल्वियं राक्षसजातिः। विशेषेण महेन्द्रावस्कन्दकन्दलितविक्रमः पितृवैरी तवायं रावणः। अपि च त्वदीयदोर्मूलसंपीडनगलितपौरुषो न विश्वविजयीति स्वयमाशङ्कनीयः नापि सामन्ताऽन्तरजिघृक्षायामन्तरावर्तिनि समुद्रेल घुसमुत्थः। तदनेन विराद्धमण्डलेन सहासुरविजयिना मैत्रमनर्थानुबन्धि। किं च सर्वथेयमनुपकारिणी पुलस्त्यापत्येषु प्रीतिरिति भगवानिहोदाहरणं हरिणाङ्कशेखरः। तथा हि—
उक्षा रथो भूषणमस्थिमाला भस्माङ्गरागो गजचर्म वासः।
एकालयस्थेऽपि धनाधिनाथे सख्यौ दशेयं त्रिपुरान्तकस्य ॥७॥
** पशुमेढ्रः—**(सहासम्) अहो स्थविरभल्लूकस्य मन्त्रोपन्यासः परिहासकुशलता च। ततस्ततः—
** शुनःशेफः—**ततश्च तद्वचनं “जराप्रलपितम्” इत्युपहसति हरीश्वरे उपांशु तदनुमत्या महामात्यस्य केसरिणः पुत्रो हनुमान्कुमारं सुग्रीवमादाय ऋष्यमूकं नाम पर्वतदुर्गमनुप्रविष्टः।
** पशुमेढ्रः—**(साकूतम्।) आर्य ! योऽसौ मारुतिः ‘त्रेतामल्लः’ इति श्रूयते ?
** शुनःशेफः—अथ किम्।**
** पशुमेढ्रः—**(सविचिकित्सम्) आर्य ! यथा तथा भवतु। स्वामी स्वाम्येव। तं परित्यज्य न सदृशस्तादृशस्य महानु- भावस्य प्रतिकूलपरिग्रहः।
** शुनःशेफः—**(विहस्य।) पुरैव किलाऽयमाञ्जनेयो भगवतः सहस्रकिरणाद्व्याकरणविद्यामधीयानस्तदात्मजन्मनो वानरयोनेः सुग्रीवस्य साहायकमभिप्रायज्ञो गुरुदक्षिणीचकार।
** पशुमेढ्रः—**(सानन्दम् ) हुं। तदुचितमेव गुरुपुत्रः सब्रह्मचारी वाऽनुवर्त्यते। ततस्ततः—
** शुनःशेफः—**ततश्चाऽहिभयोपजापजर्जरं सुहृद्गृहमुपश्रुत्य राक्षसराजः खरदूषणत्रिशिरोभिर्महामात्यैरधिष्ठितमा- त्मबलैकदेशं सिन्धोरुदीचि कूले बालिप्रतिग्रहाय प्राहिणोत्।
** पशुमेढ्रः—**कथमपरिहीनमित्रधर्मोऽपि स राक्षसः ?
** शुनःशेफः—**सखे ! किमुच्यते। रावणः खल्वसौ—
प्रियाकर्तुं स्वस्मै नवनिजशिरःकतनरस-
प्रहृष्यद्रोमा यः स परमिह लङ्कापरिवृढः।
विलक्षव्यापारं किमपि ददृशुर्यस्य दशमं
शिरस्ते मूर्धानः क्षणधृतपुनर्जन्मसुभगाः॥८॥
** पशुमेढ्रः—**(सकौतुकम् ) ततस्ततः—
** शुनःशेफः—**ततः सुकेतुसुता नागसहस्रबलधारिणी ताडका नाम राक्षसी तस्मादनीकादागत्य मनुष्यमण्ड- लबिहारकौतुकात् इमामस्मदीयां भूमिमधिवसति।
पशुमेढ्रः—(सकौतुकम्।) नागसहस्रबला स्त्री अस्तीत्यश्रुतपूर्वं खल्वेतत्। ततस्ततः—
** शुन शेफः—**ततश्च श्रौतस्य विधेः प्रत्यूहमस्याः शङ्कमानः कुलपतिरिमौ दाशरथी रामलक्ष्मणावानीतवान्।
** पशुमेढ्रः**—जाने रामभद्र इति कोऽपि राक्षसानामुपर्यवतीर्णः खल्वसौ ?
** शुनःशेफः—**सखे ! एवमेतत् रामभद्र इति कोऽप्ययं चतुरक्षरोराक्षसरक्षासिद्धमन्त्रः। विशेषेण पुनरिदानीं भग- वता कौशिकेन ब्रह्म ज्योतिषस्तादृशं विवर्तमाश्चर्यं दिव्यास्त्रमन्त्रपारायणमध्यापितः।
** पशुमेढ्रः—**मन्ये मन्त्रमयीभिरत्रदेवताभिः समं बलातिबले शक्तीअपि रामे संक्रमिष्यतः ?
** शुनःशेफः —**अथ किम्। तदपि वृत्तमेव।
** पशुमेढ्रः—**आर्य ! ननु भणामि यदि निजा एव शक्तयो निजाएवास्त्रविद्याः। तत्किमित्यात्मनो विघ्नोपशमे राघ- वस्य गौरवमुत्पादयति तत्रभवान्कौशिकः ?
** शुनःशेफः—**सखे ! अनभिज्ञोऽसि। स्वयं प्रयोगादन्तेवासिभिर्विहितः प्रयोगो महिमानमाचार्याणामुपचिनोति। पश्य—
स्थानेषु शिष्यनिवहैर्विनियुज्युमाना
विद्या गुरुं हि गुणवत्तरमातनोति।
आदाय शुक्तिषु बलाहकविप्रकीर्णौ-
रत्नाकरो भवति वारिभिरम्बुराशिः॥६॥
किं च दीक्षिष्यमाणा न क्रुध्यन्तीति रक्षितारं क्षत्रियमुपाददते।
** पशुमेढ्रः—**आर्य ! शोभनं मन्त्रयसे। अन्यदपि किमपि प्रष्टुकामोऽस्मि।
** शुनशेफः—**किं तत् ?
** पशुमेढ्रः—**सर्वथा निगूढमपि वानराणां षाड्गुण्यं कथमार्येण प्रतिपन्नम् ?
** शुनःशेफः—**सखे ! सर्वमेतद्योध्यायात्रायां समाधिमयेन चक्षुषा साक्षात्कृतत्रिभुवनवृत्तान्तस्य तातविश्वामित्रस्य मुखादश्रौषम्। (सर्वतोऽवलोक्य।) अये, प्रभातिकी भुवनस्य लक्ष्मीः। तथा हि—
प्रत्यग्रज्वलितैः पतङ्गमणिभिर्नीराजिता भानवः
सावित्राः कुरुविन्दकन्दलरुचः प्राचीमलं कुर्वते।
प्रौढध्वान्तकरालितस्य वपुषश्छायाछलेन क्षणा-
दप्रक्षालितनिर्मलं जगदहो निर्मोकमुन्मुञ्चति॥१०॥
अपि च।
पीत्वा भृशं कमलकुड्मलशुक्तिकोषा-
दोषातनीं तिमिरवृष्टिमथ स्फुटन्तः।
निर्यन्मधुव्रतकदम्बमिषाद्वमन्ति
बिभ्रन्ति कारणगुणानिव मौक्तिकानि॥११॥
अपि च।
विकसितसंकुचितपुनर्विकस्वरेष्वम्बुजेषु दुर्लक्ष्याः।
कलिकाः कथयति नूतनविकासिनीर्मधुलिहामर्घः॥१२॥
(आदित्यमण्डलं निर्वर्ण्य।)
कटुभिरपि कठोरचक्रवाकोत्करविरहज्वरशान्तिशीतवीर्यैः।
तिमिरहतमयं महोभिरञ्जञ्जयति जगन्नयनौघमुष्णभानुः॥१३॥
तदनुजानीहि मां समिदाहरणाय।
** पशुमेढ्रः—‘**अहमपि क्षत्रियकुमारयोर्दर्शने उत्कण्ठितोऽस्मि। तत् कथय कुत्र प्रेक्षे ?
** शुनःशेफः—**(विहस्य।) नन्वेतावेत्र यज्ञवाटमुत्तरेण विहारभूमिषु क्रीड़तः। तदुपेत्य निःशङ्कमवलोकय।
(इति निष्क्रान्तौ।)
* सिद्धाश्रमवर्णनम् *
(ततः प्रविशतो रामलक्ष्मणौ।)
** रामः—अहो विचित्रमिदमायतनं सिद्धाश्रमपदं नाम भगवतोगाधिनन्दनस्य।**
तत्तादृक्तृणपूलकोपनयनक्लेशाङ्घिरद्वेषिभि-
र्मेध्या वत्सतरी विहस्य बटुभिः सोल्लुण्ठमालभ्यते।
अप्येष प्रतनूभवत्यतिथिभिः सोच्छ्वासनासापुटै-
रापीतो मधुपर्कपाकसुरभिः प्राग्वंशजन्माऽनिलः॥१४॥
** लक्ष्मणः—**आर्य ! किलाऽत्रैव—
देवः कौस्तुभकिंजल्कनीलोत्पलमसौ हरिः।
स्वयं किमपि तत्तेपे तपः कपटवामनः॥१५॥
इत्थमेतन्महातीर्थमध्यासीना द्विजातयः।
अकुतोभयसंचाराः षट्कर्माणि प्रयुञ्जते ॥१६॥
(अन्यतश्च दृष्ट्वा।) आर्य !
पश्यैते पशुबन्धवेदिवलयैरौदुम्बरीदन्तुरै-
र्नित्यव्यञ्जितगृह्यतन्त्रविधयो रम्या गृहस्थाश्रमाः।
यत्रामी गृहमेधिनः प्रचलितस्वाराज्यसिंहासना-
वैतानेषु कृपीटयोनिषु पुरोडाशं वषट्कुर्वते ॥१७॥
** रामः—**(सहर्षस्मितम्) वत्स ! इतोऽपि तावत्कृतार्थयावश्चक्षुषी। प्रसन्नपावनोऽयमृषीणां समवायः। इदममीषाम्—
पूरयित्वेवसर्वाङ्गमतिरिक्ताः शिराततीः।
जटारूपेण बिभ्राणैः शिरोभिर्गहनं संदः ॥१८॥
किं च।
तपःकृशतरैरङ्गैः स्रष्टुमाकारितैरिव ।
सांयं प्रातरमी पुण्यमग्निहोत्र प्रयुञ्जते ॥१६॥
(इति परिक्रामतः ।)
** लक्ष्मणः—**(सहासम्।) आर्य ! रमणीयमितो वर्तते।
बालेयतण्डुलविलोपकदर्थिताभि-
रेताभिरग्निशरणेषु सधर्मिणीभिः ।
तत्त्रासहेतुमपि दण्डमुदस्यमान-
माघ्रातुमिच्छति मृगे मुनयो हसन्ति ॥२०॥
** रामः—**(परिक्रामन्सकौतुकानुरागम् ।) वत्स ! इतस्तावत्—
आर्द्रप्रसूतिरियमङ्गनयज्ञवेदि-
र्नेदिष्टमेव हरिणी तृणुते तृणं च।
वत्सीयतापसकुमारकरोपनीत-
नीवारनिर्वृतमपत्यमवेक्षते च॥२१॥
अपि च।
विष्वक्तपोधनकुमारसमर्प्यमाण-
श्यामाकतण्डुलहृतां च पिपीलिकानाम्।
श्रेणीभिराश्रमपथाः प्रथमानचित्र-
पत्रावलीवलयिनो मुदमुद्वहन्ति॥२२॥
** लक्ष्मणः—**अहो पशूनामप्यपत्यवात्सल्यम् ! अहो शिशूनामपि सत्कर्मताच्छील्यम् !
** रामः—**(अन्यतोऽवलोक्य।)
मुनिविनियोगविलूनप्ररूढमृदुशाद्वलानि बर्हींषि।
गोकर्णतर्णकोऽयं तर्णोत्युपकण्ठकच्छेषु॥२३॥
(इति परिक्रामतः।)
** लक्ष्मणः —**आर्य !
इयमेभिरालवालैः पदे पदे ग्रन्थिलासु कुल्यासु।
तीव्रतमा जलवेणिः प्रवहति विश्रम्य विश्रम्य॥२४॥
** रामः—**वत्स ! साधु दृष्टम्।
आलवालवलयेषु भूरुहां मांसलस्तिमितमन्तरान्तरा।
केरलीचिकुरभङ्गिभङ्गुरं सारणीषु पुनरम्बु दृश्यते॥२५॥
तदेहि। भगवतीं कौशिकीमालोकयन्तौ मुहूर्तमात्रमात्मानं पुनीमहे। (परिक्रम्यावलोक्य च।) क्वचित्सांक्रामिकोऽपि विशेषो नैसर्गिकमतिशेते। तथा हि—
जडस्वच्छखादुप्रकृतिरुपहूतेन्द्रियगणो-
गुणो यद्यप्यासामयमयुतसिद्धो विजयते।
तथाप्युत्कर्षाय स्फुरति सरितामाश्रमसदा-
मिदानीं वानीरद्रुमकुसुमजन्मा परिमलः॥२६॥
** लक्ष्मणः—**आर्य ! पुरस्तादनुकौशिकीतीरमालोकय।
तैर्मे बाजननव्रतपणयिभिर्व्यूहैर्बटूनामियं
सिक्ता नित्यवसन्तविभ्रमवती रम्या पलाशावली।
एतस्यां हरिणारिपाणिजसृणिश्रेणिश्रियः कोरका-
गोपायन्ति तपोवनं वनकरिक्रीडाकराकर्षणात्॥२७॥
(नेपथ्ये।)
“रामभद्र ! कियच्चिरमवलोकनेन कृतार्थीक्रियन्ते तपोवनविहारभूमयः। संप्रति हि—
परिणमयति ज्योतिर्वृत्त्या यजूंषि रुचां पतिः
किमपि शमिनः सावित्राख्यं रहस्यमुपासते।
गुरुरयमनुष्ठास्यन्माध्यदिनीं सवनक्रिया-
मिह मखविधौ नैदीयांसं भवन्तमपेक्षते”॥२८॥
** रामः—**(अश्रुतमभिनीय सानुरागम्।)
वारांस्त्रीनभिषुण्वते विदधते वन्यैः शरीरस्थिती-
रैणेय्यां त्वचि संविशन्ति वसते चापि त्वचस्तारवीः।
तत्पश्यन्ति च धाम नाभिपततो यच्चार्मणे चक्षुषी
धन्यानां विरजस्तमा भगवती चर्येयमाह्लादते॥२६॥
(नेपथ्ये पुनस्तदेव पठ्यते।)
** रामः—**(श्रुत्वा ससंभ्रममूर्ध्वमवलोक्य च।) कथं गगनमध्यमध्यारूढो—
निदाघदीधितिः। वत्स ! तदेहि। यज्ञवाटमधिष्ठाय क्रमेण कृताह्निकस्य भगवतः कौशिकस्य प्रत्यनन्तरीभवावः।
(इति परिक्रामतः।)
** लक्ष्मणः—**(सर्वतो दृष्ट्वा।) आर्य !
उद्दामद्युमणिद्युतिव्यतिकरप्रक्रीडदर्कोपल-
ज्वालाजालजटालजाङ्गलतटीनिष्कूजकोयष्टयः।
भौमोष्मप्लवमानसूर्यकिरणक्रूरप्रकाशा दृशो-
रायुष्कर्म समापयन्ति धिगमूर्मध्याह्नशून्या दिशः॥३०॥
अन्तिकतमा चेयं यज्ञवाटभूमिः। तदेतदेव न्यग्रोधच्छायामण्डपमध्यासीना ऋत्विजः प्रत्यवेक्षामहे। गलितयौवने पुनरहनि भगवन्तं द्रक्ष्यावः।
** रामः**—एवमस्तु।
(इति परिक्रम्य नाट्ये नोपविशतः।)
** लक्ष्मणः**—(पार्श्वतोऽवलोक्य।) आर्य !
मध्ये व्योम क्रीडयित्वा मयूखान्भातोर्बिम्बे लम्बमाने क्रमेण।
स्वैरं स्वैरं मूलतः पादपानां पश्य च्छायाः कश्चिदाकर्षतीव॥३१॥
** रामः**—(समन्तादवलोक्य) वत्स ! मध्यंदिनमतिक्रान्तमिति दिनमप्यतिक्रान्तमेव। पश्य—
गगनशिखरमुदयाद्रेरधिरूढाः कष्टमर्करथहरयः।
अस्तमहीधरमधुना झटिति सुखेनावरोहन्ति॥३२॥
** लक्ष्मणः**—आर्य ! नूनमद्य रक्षांसि परापतिष्यन्ति। यदयमध्वरवेदिकासंनिधानं ते शुनःशेफमुखेन भगवानुपाध्यायः प्रशास्ति।
** रामः**—(सरोवाहंकारम्) वत्स ! यद्येवं स्यात्—
कल्पान्तकर्कशकृतान्तभयंकरं मे
निष्प्रघ्नतः क्रतुविघातकृताममीषाम्।
नीराक्षसां वसुमतीमपि कर्तुमद्य
पुण्याहमङ्गलमिदं धनुरादधातु॥३३॥
** लक्ष्मणः—**(विहस्य।) कथं रजनीचरचक्रविनाशोत्कण्ठविसंस्थुलमार्यहृदयमदीर्घदर्शिनं भगवन्तं कौशिकमपि संभावयति।
अविद्याबीजविध्वंसादयमार्षेण चक्षुषा।
कालौ भूतभविष्यन्तौ वर्तमानमवीविशत्॥४॥
** रामः—**किमुच्यते ? तत्रभवान्विश्वामित्रः—
प्रज्ञातब्रह्मतत्वोऽपि स्वर्गीयैरेष खेलति।
गृहस्थसमयाचारप्रक्रांतैः सप्ततन्तुभिः॥३५॥
अपि च।
आर्द्रीकृतो विनयनम्रमहेन्द्रमौलि -
मन्दारदाममकरन्दरसैरिवायम्।
प्रक्रान्तकुण्डलितनूतनभूतसर्ग-
स्त्रैशङ्कवं चरितमद्भुतमाततान॥३६॥
** लक्ष्मणः—**(पुरोऽवलोक्य सहर्षम्।)
आभिरध्वरचर्याभिः श्रौतमर्थं कृतार्थयन्।
अये कुलपतिः सोऽयमित एवाभिवर्तते॥३७॥
(ततः प्रविशति दीक्षितवेषो विश्वामित्रः।)
** रामः—**(निर्वर्ण्य। सबहुमासम्।) वत्स लक्ष्मण ! पश्य।
कर्मणः श्रूयमाणस्य व्यञ्जनैरधिकोज्ज्वलाम्।
तपस्तेजोमयीं लक्ष्मीमद्य पुष्णाति मे गुरुः॥३८॥
** विश्वामित्रः—**(परिक्रामन्सहर्षम्।) हन्त। कृतकृत्यप्रायमात्मानं पश्यामः। यतः।
निर्वृत्तो बहु तावदध्वरभुजामातर्पणोऽयं विधि-
र्दायादेन समं सुकेतुदुहिता चाद्यैव घानिष्यते।
पाणौकृत्य पुनर्वृषध्वजधनुर्भङ्गै कशुल्कां वधू-
मैक्ष्वाके सुरकार्यदिक्षु चलति स्वास्थ्यं विधातास्महे॥३६॥
(रामलक्ष्मणावुत्थायोपसर्पतः)
** विश्वामित्रः—**(राममतिचिरं निर्वर्ण्य सस्नेहकौतुकम्।)
एष वैहारिकं वेषमादधानो धनुर्धरः।
तत्त्वमान्तरमस्माकममृतैरिव लिम्पति॥४०॥
** उभौ—**(उपसृत्य) भगवन् ! दाशरथी रामलक्ष्मणावभिवादयेते।
** विश्वामित्रः—**(आलिङ्ग्य।) वत्सौ ! किमन्यदाशास्महे।
युवाभ्यामभिनिर्वृत्तयोगक्षेमस्य वज्रिणः।
ऐश्वर्यप्रक्रियामात्रकृतार्थाः सन्तु हेतयः॥४१॥
(उभौ तूष्णीमधोमुखौ स्तः। )
** विश्वामित्रः—**(विहस्य।) वत्सौ ! समन्तादुपशीलितोऽयं संनिवेशः। कश्चिदस्मदीयास्तपोवनभूमयो रमयन्ति वामुपस्नेहयति वा गार्हस्थ्यमृषीणाम् ?
** उभौ—**(सप्रश्रयम्।) भगवन् !
रम्यमेतदरम्यं वा कः परिच्छेत्तुमर्हति।
किं तु द्वयातिगं चित्तमद्य नौ पश्यतोरभूत्॥४२॥
(इति सर्वे यथोचितमुपविशन्ति।
** विश्वामित्रः**—(साकूतस्मितम्।) वत्सौ !
इह वनेषु स कौतुकवामनो मुनिरतप्त तपांसि पुरातनः।
तमिव वामलोक्य तपखिनो नयनमद्य मनागुदमीमिलन् ॥४३॥
(उभौ मुहूर्तमुन्मनीभवतः।)
* दिवसावसानवर्णनम् *
** विश्वामित्रः—**(स्वगतम्) अये, किमप्युत्साहवर्धनाय प्राग्भवीयमनुस्मारितमन्तःकरणनयोः। तदेतावदस्तु। अन्यतः प्रक्षिपामि। (प्रत्यगवलोक्य प्रकाशं ससंभ्रमम्।) कथमुदयगिरिकाश्मीरकुङ्कुमकेदारस्य प्रभातसंध्यालतायाः प्रथमस्तबको गभस्तिमाली हस्ताहस्तिकया कुतूहलिनीभिर्दिगङ्गनाभिर्वारुणीं यावदुपनीतः। (सनिर्वेदं च।)
यातोऽस्तमेष चरमाचलचूडचुम्बी
पङ्केरुहप्रकरजागरणप्रदीपः।
आः सर्वतः स्फुरतु, कैरवमाः पिबन्तु
ज्ज्योत्स्नाकरम्भमुदरंभरयश्चकोराः ॥४४॥
(सर्वतोऽवलोक्य।)
अयमपि खरयोपित्कर्णकाषायमीष-
द्विसृमरतिमिरोर्णाजर्जरोपान्तमर्चिः।
मदकलकलविङ्कीकाकुनान्दीकरेभ्यः
क्षितिरुहशिखरेभ्यो भानुमानुश्चिनोति ॥४५॥
अपि च।
मन्त्रसंस्कारसंपन्नास्तन्वदौदन्वतीरपः।
एतत्त्रयीमयं ज्योतिरादित्याख्यं निमज्जति ॥४६॥
** रामः—**(सर्वतो निरूप्य) वत्स लक्ष्मण !
तापनैरेव तेजोभिः प्लुष्टनिर्वाणमेचकाः।
दिशो जाताः प्रतीची तु समुदाचरति क्रमात् ॥४७॥
किं च
कांचिद्विभ्रति भूतिमाश्रमभुवो वैतानवैश्वानर-
ज्वालोपप्लवमानधूमवलभीविभ्रान्तदिग्भित्तयः।
श्रूयन्तै बटवस्तृतीयसवनस्वाध्यायदीर्घानपि
स्पर्धाबन्धमनोहरं प्रति मुहुः स्वान्द्राघयन्तः स्वरान्॥४८॥
** विश्वामित्रः—**वत्स राघव !
उन्मुक्ताभिर्दिवसमधुना सर्वतस्ताभिरेव
स्वच्छायाभिर्निचुलितमिव प्रेक्ष्यते विश्वमेतत्।
पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये
चित्राङ्गीयं रमयति तमःस्तोमलीला धरित्री॥४६॥
** लक्ष्मणः—**(सनिर्वेदम्।)
तेजोमयं तमोमयमन्यतरस्यां तदेव दिक्चक्रम्।
किमपि विचित्रा धात्रा सृष्टिरियं भुवनकोषस्य॥५०॥
(सर्वतोऽवलोक्य।)
चूडारत्नैः स्फुरद्भिर्विषधरविवराण्युज्ज्वलान्युज्वलानि
प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात्कृशानुः।
किं चामी शल्ययन्तस्तिमिरमुभयतो निर्भराहस्तमिस्रा -
संघट्टोत्पिष्टसंध्याकणनिकरपरिस्पर्धिनो भान्ति दीपाः॥५१॥
** रामः—**(विलोक्य।)
विश्वं चाक्षुषमस्तमस्ति हि तमःकैवल्यमौपाधिक-
प्राच्यादिव्यवहारबीजविरहाद्दिङ्मात्रमेव स्थितम्।
गृह्यन्ते भयहेतवः पटुभिरप्यक्षान्तरैर्भाति च
ध्वान्तेनातिघनेन वस्तु वचसा ज्ञातः स्वरेणामुकः॥५२॥
किं च।
घनतरतिमिरघुणोत्करजग्धानामिव पतन्ति काष्ठानाम्।
छिद्रैरमीभिरुडुभिः किरणव्याजेन चूर्णानि॥५३॥
* ताडकादिवधः *
(नेपथ्ये कलकलः।)
(सर्वे ससंभ्रममाकर्णयन्ति।)
(पुनस्तत्रैव।)
निर्मज्जश्चक्षुरन्तर्भ्रमदतिकपिशक्रूरतारा नरास्थि-
ग्रन्थिं दन्तान्तरालग्रथितमविरतं जिह्वया घट्टयन्ती।
ध्वान्तेऽपि व्यात्तवक्त्रज्वलदनलशिखाजर्जरे व्यक्तकर्मा
निर्मान्ती गृध्ररौद्रीं दिवमुपरि परिक्रीडते ताडकेयम्॥५४॥
अपि च।
त्रेताग्निकुण्डपूरं च वर्षन्तो रुधिरच्छटाः।
हिंस्राः सुबाहुमारीचमिश्रा नः परिवृण्वते॥५५॥
** विश्वामित्रः—**(साकूतम्।) कथं ताडका ? वत्स रामभद्र
विधानमानुश्रविकं गृहेषु नः प्रतिस्किरन्ती किमियं प्रतीक्ष्यते।
सुबाहुमुख्येः सममाततायिभिर्गृहाण चापं निगृहाण ताडकाम्॥५६॥
** रामः—**(सघृणातिरेकम्।) भगवन् ! स्त्रियमिमाम् ?
(पुनर्नेपथ्ये।)
“अब्रह्मण्यम्। भोस्तात विश्वामित्र ! परिभूयामहे। ग्रहीयतामधिज्यधन्वा दाशरथिः”।
** रामः—**(विहस्य। नेपथ्यावलोकितकेन।) बालर्षे शुनःशेफः ! मुहूर्तं धीरोभव।
अलं क्लिशित्वा सुरुमल्पकोऽयं विधिस्त्वदाशैव गरीयसी नः।
न कौशिकस्य त्वयि धर्मपुत्रे पुत्रे मधुच्छन्दसि वा विशेषः॥५७॥
** विश्वामित्रः—**वत्स ! कृतमुत्तरोत्तरेण। नन्वयं नेदीयानाश्रमोपघातः।
** लक्ष्मणः—**(सव्यथमिव। स्वगतम्।)
मीमांसते किमार्योऽयं कौशिकेऽप्यनुशासति।
वाचमेषामृषीणां हि शास्त्रमेवानुवर्तते॥५८॥
** रामः—**(स्वगतम्।)
गुर्वादेशादेव निर्मीयमाणो नाधर्माय स्त्रीवधोऽपिस्थितोऽयम्।
अद्य स्थित्वा श्वो गमिष्यद्भिरल्पैर्लज्जास्माभिर्मीलिताक्षैर्जितैव॥५६॥
** किं तु—**
दीर्घं प्रजाभिरतिकौतुकिनीभिराभि-
रस्मिन्नकीर्तिपटहे मम ताड्यमाने।
ज्योतिर्मयेन वपुषा जगदन्तसाक्षी
लज्जिष्यते कुलगुरुर्भगवान्वसिष्ठः॥६०॥
(नेपथ्ये।)
“अलमिष्ट्वामखान्मूर्खाः ! खङ्गधारेयमस्ति नः।
अदवीयानयं पन्थाः स्वर्लोकमुपतिष्ठते”॥६१॥
** रामः—** (श्रुत्वा सरोषं ससंभ्रमं चौत्थाय सविनयमञ्जलिं बद्ध्वा।) भगवन् ! जगत्त्रयगुरो गाधिन्दन !
दशरथगृहे संभूतं मामवाप्य धनुर्धरं
दिनकरकुलास्कन्दी कोऽयं कलङ्कनबाङ्कुरः ।
इति न वनितामेतां हन्तुं मनो विचिकित्सते
यदधिकरणं धर्मस्थीयं तवैव वचांसि नः ॥६२॥
(प्रणिपत्य नेपथ्याभिमुखम्।) भोस्तपोधनाः ! मा भैष्ट।
रजनिचरचमूरमूरपास्यन्नयमहमागत एव रामचन्द्रः।
कुशिकसुतकुशाग्रतोयबिन्दोरिदमनुकल्पमवेत कार्मुकं मे॥६३॥
(इति धनुरारोपयनिष्क्रान्तः।)
** लक्ष्मणः**—(साशङ्कमात्मगतम्।) दिष्ट्या क्षात्रेण धर्मेण कौमारमप्यशून्यमार्यस्यासीत्। (नेपथ्याभिमुखमवलोक्य हर्षं नाटयन्प्रकाशम्।) भगवन्कौशिक ? पश्य पुरस्तादार्ये धृतधनुषि—
वायव्यास्त्रव्यतिकरनिरालम्बनस्ताडकेयः
प्राप्तो जीवन्मरणमसुभिर्विप्रमुक्तः सुबाहुः।
कृत्तोन्मुक्ता भुवि च करुणाश्चर्यबीभत्सहास-
त्रासक्रोधोत्तरलमृषिभिर्दृश्यते ताडकेयम् ॥६४॥
** विश्वामित्रः—**(विलोक्य।) वत्स ! लक्ष्मण विस्मयेन प्रमोदेन च परवन्तो वयं न वाचामधीश्महे। वक्तव्यमेव वा किमस्ति। न खल्वियमद्यतनी वः प्रतिष्ठा।
दिक्कूलंकपकीर्तिधौतवियतो निर्व्याजवीर्योद्धता-
स्ते यूयं रघवः प्रसिद्धमहसो यैः सोऽपि देवाधिपः।
बिभ्राणैरसुराधिराजविजयक्रीडानिदानं धनुः
पौलोमीकुचपत्रभङ्गरचनाचातुर्यमध्यापितः ॥६५॥
** लक्ष्मणः—**भगवन् ! पश्य—
अद्य नैशाचरीं सेनामेनामुन्मूलयन्नयम्।
आधानं वीरधर्मस्य निर्माय त्वामुपस्थितः ॥६६॥
(प्रविश्य।)
** रामः—**(सवैलक्ष्यस्मितम्।
पूषा वसिष्ठः कुशिकात्मजोऽयं त्रयस्त एते गुरवो रघूणाम्।
महामुनेरस्य गिरा कृतोऽपि स्त्रैणो वधो मां न सुखाकरोति॥६७॥
(आश्रममवलोक्य।)
प्रत्यासन्नतुषारदीधितिकरक्लिश्यत्तमोवल्लरी-
बल्याभिर्मखधूमवल्लिभिरमी संमीलितव्यञ्जनाः।
श्वः संचीवरयिष्यमाणबटुकव्याधूतशुष्यत्वचो-
निद्राणातिथयस्तपोधनगृहाः कुर्वन्ति नः कौतुकम्॥६८॥
(पुरतोऽवलोक्य।)
* चन्द्रवर्णनम् *
स्फुरति पुरतो माद्यन्माद्यच्चकोरविलोचन-
प्रकरकिरणश्रेणीदत्तस्वहस्तधनं महः।
हृदय ! लघु मा भूः प्रेयोदर्शनप्रतिभूरयं
कुवलयदृशामिन्दुर्तेत्रे सुधाभिरनक्ति नः॥६६॥
अपि च।
उन्मीलन्ति मृणालकोमलरुचो राजीवसंवर्तिका-
संवर्तव्रतवृत्तयः कतिपये पीयूषभानोः कराः।
अप्युस्रैर्धवलीभवत्सु गिरिषु क्षुब्धोऽयमुन्मज्जता
विश्वेनेव तमोमयो निधिरपामह्नाय फेनायते॥७०॥
(सनिर्वेदम्।)
इन्दुर्यद्युदयाद्रिमूर्ध्नि न भवत्यद्यापि तन्मा स्म भू-
न्नासीरेऽपि तमःसमुच्चयममूरुन्मूलयन्ति त्विषः।
अप्यक्ष्णोर्मुदमुद्गिरन्ति कुमुदैरामोदयन्ते दिशः
संप्रत्यूर्ध्वमसौ तु लाञ्छनमभिव्यङ्क्तुं प्रकाशिष्यते॥७१॥
(सहर्षम्।)
काश्मीरेण दिहानमम्बरतलं वामभ्रुवामानन-
द्वैराज्यं विदधानमिन्दुदृषदां भिन्दानमम्भः शिराः।
प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्घदर्भाङ्कुर-
क्षीबोत्सङ्गकुरङ्गमैन्दवमिदं बिम्बं समुज्जृम्भते॥७२॥
एताश्च—
पौलोमीकुचकुम्भङ्कुकुमरजःस्वाजन्यजन्मोद्धताः
शीतांशोर्द्युतयः पुरंदरपुरीसीम्रामुपस्कुर्वते।
एताभिर्लिहतीभिरन्धतमसान्युद्मथ्नतीभिर्दिशः
क्षोणीमास्तृणतीभिरन्तरतमं व्योमेदभोजायते॥७३॥
अपि च।
नैवायं भगवानुदञ्चति शशी गव्यूतिमात्रीमपि
द्यामद्याऽपि तमस्तु कैरवकुलश्रीचाटुकाराः कराः।
मथ्नन्ति स्थलसीम्नि शैलगहनोत्सङ्गेषु संरुन्धते
जीवग्राहमिव क्वचित्क्वचिदपि च्छायासु गृह्णन्ति च॥७४॥
(ज्योत्स्नातिशयं विभाष्य।)
किं नु ध्वान्तपयोधिरेष कतकक्षोदैरिवेन्दोः करै-
रत्यच्छोऽयमधश्च पङ्कमखिलं छायापदेशादभूत्।
किं वा तत्करकर्तरीभिरभितो निस्तक्षणादुज्ज्वलं
व्योमैवेदमितस्ततश्च पतिताश्छायाछलेन त्वचः॥७५॥
(परिक्रम्य पार्श्वतोऽवलोक्य च।)
दलविततिभृतां तले तरूणामिह तिलतण्डुलितं मृगाङ्करोचिः।
मदचपलचकोरचञ्चुकोटीकवलनतुच्छमिवान्तरान्तराभूत्॥७६॥
(विभाव्य च।)
त्रिभुवनतमोलुण्टाकीनामहो मिहिरत्विषा-
मभिविधिरसौ कोकश्रेणीमनस्यवशिष्यते।
क्षुधमपि तमः कोपादन्तः प्रविश्य विनिघ्नतः
शशधरकरानच्छिन्नाग्रांश्चरन्ति चकोरकाः॥७७॥
अपि चेदानीं—
तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका-
कपाटघ्रीमिन्दुः किरणलहरीमुल्ललयति।
समन्तादुन्मीलद्वहलजलबिन्दुस्तबकिनो-
यथा पुञ्जायन्ते प्रतिगुडकमेणाङ्कमणयः॥७८॥
(परिक्रामन्नूर्ध्वमवलोक्य। )
तरुणतमालकोमलमलीमसमेतदयं
कलयति चन्द्रमाः किल कलङ्कमिति ब्रुवते।
तदनृतमेव निर्दयविधुंतुददन्तपद-
व्रणविवरोपदर्शितमिदं हि विभाति नभः॥७६॥
किं च।
रुचिभिरभितष्टङ्कोत्कीर्णौरिव त्रसरेणुभि-
र्यदुडुभिरपि च्छेदैः स्थूलैरिव भ्रियते नभः।
प्रकृतिमलिनो भास्वद्बिम्बोन्मृजाकृतकर्मण-
स्तदयमपि हि त्वष्टुः कुन्दे भविष्यति चन्द्रमाः॥८०॥
** लक्ष्मणः—**(सर्वतोऽवलोक्य।)
भूयस्तराणि यदमूनि तमस्विनीषु
जौत्स्त्रीषु च प्रविरलानि ततः प्रतीमः।
संध्याऽनलेन भृंशमम्बरमूषिकाया-
मावर्तितैरुडुभिरेव भृतोऽयमिन्दुः॥८१॥
(विहस्य च।) हन्त, यथाधर्ममेतत्।
यत्पीयूषमयूखमालिनि तमःस्तोमावलीढायुषां
नेत्राणामपमृत्युहारिणि पुरः सूर्योढ एवातिथौ।
अम्भोजानि पराञ्चि तन्निजमघं दत्त्वेव तेभ्यस्ततो-
गौराङ्गीवदनोपमासुकृतमादत्ते पतिर्यज्वनाम्॥८२॥
** विश्वामित्रः—(सर्वतोऽवलोक्य। सस्मितम्।) अहह नामधेयमाश्रमाधुर्यात अपरमार्थदृश्वानो विप्रलभ्यन्ते। तथा ह—**
स्मेरा दिशः, कुमुदमुद्भिदुरं, पिबन्ति
ज्योत्स्नाकरम्भमुदरंभरयश्चकोराः।
आः कीदृगत्रिमुनिलोचनदूषिकायां
पीयूषदीधितिरिति प्रथितोऽनुरागः॥८३॥
(रामं च दृष्ट्वा। सहर्षस्मितम्।) कथमयं कुमाराऽङ्कविजयप्रत्यागतोऽपि ताडकानिग्रहेण ह्रिणीयमानः सहसा नोपतिष्ठते वत्सः। (लक्ष्मणं प्रति।) वत्स सौमित्रे ! अस्माकमनेन वृत्तान्तेन प्रदोषलक्ष्मीरियमनूद्यते।पश्य—
निशाचराणां तमसां निहन्ता पुरोऽयमुद्गच्छति रामचन्द्रः।
अथोल्लसद्भिर्नयनैर्मुनीनामत्रं कुमुद्वानजनि प्रदेशः॥८४॥
** रामः—**(विभाव्य। )
मदयति यदुत्पन्नो दुग्धाम्बुधेरयमम्बुधीन्,
नयति नयनादत्रेर्जातो मुदं नयनानि च।
तदखिलसुरश्रेणीसाधारणप्रणया शची-
सहचरवरुस्थाली सोमः समञ्जसमीहते॥८५॥
(सलज्जमुपसृत्य।) भगवन् ! अभिवादये।
** विश्वामित्रः—**(सस्नेहबहुमानमालिङ्ग्य।) वत्स रघुनन्दन ! इत्थमेव—
प्रकृतकर्त्रभिप्रायक्रियाफलवतो विधीन्।
प्रयुञ्जानास्त्वया वीर ! परिपाल्यामहे वयम्॥८६॥
** रामः**—(स्वगतम्।) शिरसा गृहीतमाचार्यवचनम्।
** विश्वामित्रः—**(समरधूलिधूसरं रामस्य कपोलमुन्मार्जयन्।) यत्सत्यममुना नक्तंवरव्यतिकरेण प्रियसुहृदा सीरध्वजेन वितन्यमाने वैताने कर्मणि कम्पितमिव मे हृदयम्।
** रामः—**(सगौरवम्।) भगवन् ! क एष सीरध्वजो नाम यमद्य ते त्रिभुवनदुर्लभोऽयं प्रियसुहृच्छब्दप्रयोगः कमपि महिमानमारोपयति ?
** विश्वामित्रः**—वत्स ! श्रृणोषि विदेहेषु मिथिलां नाम नगरीम् ?
** रामः—**यत्र पवित्रमाश्चर्यद्वयं जनाः कथयन्ति। सकलदुराकर्षमैन्दुशेखरं धनुः, लाङ्गलमुखोल्लिखितविश्वम्भ- राप्रसूतिरगर्भसंभवा मानुषी च।
** विश्वामित्रः—**(विहस्य।) अथ किम् ?
** रामः—**(सकौतुकम्।) ततः किं तस्याम् ?
** विश्वामित्रः—**
असौ सीरध्वजो राजा यो देवाद् द्युमणेरिप।
अध्येैष्ट याज्ञवल्क्यस्य मुखेन ब्रह्मसंहिताम्॥८७॥
तस्य संन्यस्तशस्त्रस्य पुराणराजर्षेर्जनकवंशजन्मनो दीक्षाविलोपशङ्का पर्याकुलयति माम्। तदेतमायुष्मन्तौ, विधिशेषमस्मदीयं समाप्य सहैव मिथिलामुपतिष्ठामहे।
** रामः—**(सहर्षमपवार्य।) वत्स लक्ष्मण ! ममापि तस्मिन्नतरुणरोहिणीरमणचूडामणिपाणिप्रणयिनि शरासने चिरस्य कौतुकमस्ति।
** लक्ष्मणः**—(सहपरिहासम्।) आर्यायामयोनिजन्मनि राजकन्यकायामपि ?
** रामः—**(सरोषस्मितम्।) कथमन्यदेव किमपि प्रहसनं सूत्रयति भवान्। (मुनिं प्रति।) भगवन् इक्ष्वाकुवंशगुरो ! यदभिरुचितं भवते।
(इति परिक्रम्य निष्क्रान्ताः सर्वे।)
इति कौमारविक्रमो नाम द्वितीयोऽङ्कः।
(श्रीमुरारे रनर्घराघवात्)
श्री भर्तृहरि निर्वेदम्
राजाभर्तृहरिः कदाचित्स्वमहिष्या भानुमत्याः प्रेमस्थेमानं परीक्षितुकामो मृगरमणाऽपदेशाद्वनप्रदेशमुपगतो दूतमुखेन श्वापदसंपादितस्वप्राणान्तोदन्तं नितान्तमलीकमपि तस्या अन्तिकं प्राहिणोत्। अनभ्रवज्रपातमिव कुलाऽचलक्षोभकरं, अनिमित्तोत्पातमिव सर्वाऽऽशोपघातकं, म्लेच्छव्रातमिव श्रुतिदाहकं, स्वपतिघातं समाकर्ण्य पतिव्रताततिपताकायमाना सा मानिनी क्षणादेव क्षीणचेतना क्षितितलं जगाम। अथ मृग़याप्रतिनिवृत्तो नरपतिस्तस्यास्तादृशंलीलासंवरणं निशम्य तन्मरणकारणमात्मानमेवावधार्य मोहमुपेयिवान्। प्राप्तचेतनश्चनितरां चुक्रोश। तामङ्के निवेश्य अनुमर्त्तुमेव मतिमकरोत्। अमात्यादिभिः पुनः पुनः प्रबोध्यमानोऽपि न स्थिरचित्तोऽभूत्। एतद्विज्ञाय प्रसिद्धसिद्धः श्रीगुरुगोरक्षनाथ स्तन्महामोहनिशानाशाय योगिरूपेण तत्राऽऽजगाम। नृपतिर्महिष्या यान् यान् गुणान् स्मारं स्मारं यथा यथा विललाप योगी अपि भग्नां स्थालीं पुरतो निधाय तस्यामपि तान् तानेव गुणानाऽऽरोप्य तैस्तै रेवशब्दै रोदितुमारेभे। तच्छोकापनोदाय समागतो राजा वैराग्यचर्चामाचरत्। तत्राऽन्तरे एव योगी “परोपदेशेपाण्डित्यं” इत्याद्युक्त्वा तं लज्जितमकरोत्। राजा च प्राप्तवैराग्यो भवत्।
तृतीयोऽङ्कः।
(ततः प्रविशति सोन्मादो राजा।)
** राजा—**अयि कान्ते काशिराजनन्दिनि !
त्वया त्यक्ताः प्राणाः प्रणयिमरणाऽऽकर्णनवशात्
यशः स्त्रीणां त्रीनप्युपरि बत लोकानिदमभूत्।
अतो देहः शोच्यो बत नामोच्यो यदि मया
कथं वार्यो यूनां गुरुरपयशोदुन्दुभिरयम्॥१॥
इयं च मे साधीयसी प्रत्याशा यदेनामङ्के निधाय मृतस्य, एतदनुध्यानवशाज्जन्मान्तरेऽप्यनया सनाथत्वं भविष्यतीति।
(नेपथ्ये।)
हा डिब्बिके कुत्राऽसि गता। हा दैव ! अति प्रतिकूलतया मां परिहृत्य नाशिता डिब्बिका। (इति विकलं रोदिति।)
(परिजना अनुसरन्ति।)
** राजा**—(विलोक्य।) कथमयं योगी भग्नां स्थालीमनुशोचमानो निपतति। तद्भवतु एनमाश्वासयामि
(ततः प्रविशति यथानिर्दिष्टो योगी।)
** योगी—**हा डिब्बिके ! (इत्यादि पूर्वोक्तं पठित्वा रोदिति।)
** राजा**—योगिन् ! समाश्वसिहि।
** योगी—(**निःश्वस्य।) हन्तं, कीदृश आश्वासो यस्य मम दूरदेशपरिभ्रमणसहचरी अनेकगुणप्रणयिनी डिब्बिका भग्ना ?
** राजा—**(सकरुणम् आत्मगतम्।)
अल्पस्यापि व्यपायेन प्रेयसो विषयस्य कः।
न शोचते पुनः किं स्यान्मादृशामीदृशापदि॥२॥
तथापि बोधयामि योगिनम्।(प्रकाशम्) योगिन् ! किमनया नष्टया एवं परितप्यसे ?
** योगी**—(सास्त्रम्।) के यूयं निष्ठरा एवं भणथ ? अथवा अनभिज्ञागुणनाम्।
** राजा—**के नामाऽस्या गुणाः ?
** योगी—**हन्त ! कियन्तो गण्यन्ताम् ? तथाऽपि केऽपि गण्यन्ते।
करीषानुच्चेतुं दहनमुपनेतुं मुहुरपः
समाहर्त्तुं भिक्षामटितुमथ तां रक्षितुमपि।
पिधातुं पक्तुं चाऽशितुमथ च पातुं क्वचिदथो-
पधातुं नः पात्री चिरमहह चिन्तामणिरभूत्॥३॥
** राजा—**एवमेतत्।
प्रियस्य वस्तुनो नाम गुणान्को गणयिष्यति।
स्नेहेनोपहृताः सव तत्रैव सुखहेतवः॥४॥
तथाप्यशक्यप्रतीकारे विनष्टे वस्तुन्यलमनुतापेन।
** योगी—**मया एव एतस्या दृढत्वं परीक्षितुं प्रवृत्तेन पातिता भन्ना, इति महान् संतापः।
** राजा—**(सखेदम्।) स्वयं नाशिते प्रिये वस्तुन्यविश्रान्तिः संतापस्य।
कथमपि यत्र क्लिष्टे वस्तुनि दृष्टे प्रमोहमेति मनः।
स्वयमेव नाशितेऽस्मिन्क्षणमपि कः प्राणिति हताशः॥५॥
(इत्यश्रूणि विमुच्य सधैर्यम्।) तथापि योगिन् !
भवितव्यता भगवती वस्तु प्रियमप्रियं वापि।
घटयितुमथ विघटयितुं प्रभवति पुरुषस्य को दोषः॥६॥
(योगी अनाकर्णयंस्तत्कर्परोत्कारं हृदये निधाय रोदिति।)
** राजा—**योगिन् ! अलं रुदितेन। दीयते मया इतोऽप्यधिकतरा मृण्मयी रजतयी सुवर्णमयी वा स्थाली।
** योगी—**(कर्णौ विधाय) शान्तं पापम्।अलं सुवर्णादिमय्या डिब्बिकया। यतो मृत्तिकामय्या एव डिब्बिकया एतादृशोऽनर्थः परिणतावुत्पाद्यते किं पुनः सुवर्णादिमय्या ? अपि च—
मदग्राहोद्भ्रान्तिर्भयमकरकोटिव्यतिकरः
स्फुरद्द्वेषाऽऽवर्तस्तरलिमतरङ्गोपचयभूः।
तनीयानप्यर्थोमम यदि दुरर्थोदधिरभूत्
प्रभूतायामापद्यहमिह निमग्नो निपतितः॥७॥
अपि च ! इतोऽप्यधिकतरेत्यलीकमावेदयसि। इयं खलु तथा सुस्पर्शा सुरमणीयाकृतिः सुगभीरविस्तारा सुदृढप्रकृतिः तादृशी तदधिकतरा वा कुतोऽन्या संभाव्यते ?
** राजा—**(सनिर्वेदम्।)
अधिकाधिकानि गुणतो नितरामितराणि सन्तु सुलभानि शतम्।
प्रणयेन वस्तु मनसस्तु परं परितापकारि किमपि क्रियते॥८॥
योगिन् !
अधिकतरं प्रियमेतन्ममेति बुद्धि र्न वस्तुसौन्दर्यात्।
नूनमनपेक्षितगुणो मोहधनः स्नेह एवेह॥९॥
** योगी—**भो मुग्ध ! न खलु केवलं स्नेह एव। शरीरसंवर्धनमप्येतया स्थितया भवेत्।
** राजा—**अथ कियन्तं कालमिदमिदानीमनष्टमपि पात्रं स्थितं स्यात् ?
चेत्कल्पकोटिमथ कल्पशतानि कल्पं
कल्पार्धमप्यथ यदि स्थिरताऽस्य भूयात्।
युक्ताभवेदिह मनागपि शोचना ते
द्वित्रैर्दिनैर्यदि विनङ्क्ष्यति कोऽत्र शोकः॥१०॥
अलं च शरीरसंवर्धकविनाशानुतापेन। यतः—
देहस्यास्य हितानि यद्विरहितान्येतानि वस्तूनि वः
संतापाय भवन्ति हन्त सकलः सोऽयं मनोविभ्रमः।
देहेनैव यदेवमादिविपदां देहेन दुर्जन्मना
द्वित्राण्येव पलानि पाणिपयसोराश्लेष एव भ्रमः॥११॥
** योगी—**तथाऽपि विप्रियं परिहृत्य किमिति प्रियं अनुवर्त्तते लोकः ?
** राजा—**विभ्रमात्। पश्य—
यद्वन्माद्यति सौष्ठवेन विषयस्याऽऽपाततः प्रेयस-
स्तद्वत्ताम्यति तत्र तत्र विपदा तस्यैत्र पर्यन्ततः।
व्यत्यासेन च वस्तु विप्रियमपि स्वे संपदापद्द्वये
तापायाथ मुदे तदेष कुरुते मोहः प्रियं चाप्रियम्॥१२॥
**योगी—**सुष्ठु एतज्ज्ञायते तथाप्यप्रतीकारं ताम्यति मम हृदयम्।
** राजा**—यदि सन्नपि नालमपि वस्तुविचारस्तदा कः प्रतीकारः।
** योगी—**अत्र मरणमेव प्रतीकारः। यतः एतां हृदये कृत्वा म्रियमाणो जन्मान्तरेप्येतया सनाथो भविष्यामि।
** राजा—**(विहस्य।) सोऽयं संसारमूलं महामोहः। यस्य नाम ईदृशानि दुःखमयानि दुर्विलसितानि।
** योगी**—(सौच्चैर्हासम्।)
परोपदेशे पाण्डित्यमिदं मूढस्य गीयते।
तमः समाश्रितस्येव दीपेनाऽन्यप्रकाशनम्॥१३॥
(राजा सवैलक्ष्यमधोमुखश्चिन्तयति।)
** योगी—**राजन् ! किं विचिन्त्यते ?
** राजा—**भगवन् ! किमपरं मद्वाक्यैरेव मामुपदिश्य ममापनीतोऽयं शोकः श्रीपादैः।
** योगी—**एवमेतत्। भगवतीं विन्ध्यवासिनीमवलोक्य परावृत्तेन मया त्वामेवंभूतमवगत्य सत्त्वसुलभेन करुणभावेन तवायमुन्मीलितः प्रबोधः।
** राजा—**तदवधारयामि श्रीगोरक्षनाथपादैर्भवद्भिर्भवितव्यम् !
** योगी—**एवमेतत्।
** राजा—**भगवन् ! साधु उद्धृतोऽहमस्मादन्धकूपात्। (इति पादयोः पतति) (गोरक्षनाथ उत्थापयति।)
** राजा—**(अञ्जलिं बद्ध्वा) यदतः परं तदुपदिशतु गुरुर्येन भूयोऽपि नैतादृशमनर्थमासादये।
** गोरक्षनाथः—**साधु, उत्कटदुःखाऽभिषङ्गलाङ्गलावकृष्टा वस्तुविवेकरसावसेकवती विज्ञानबीजं वप्तुमस्ति योग्या ते चित्तभूमिः।
** श्रूयताम्—**
संकल्पात्सकलापि संसृतिरभृदेषा विशेषान्ध्यभू-
रस्याश्चेद्विनिवृत्तिमिच्छसि तदैतन्मूलमुन्मूलय।
नाऽवच्छिन्नमनेहसा न च दिशा यद्ब्रह्म सच्चिन्मयं
तत्त्वं तत्त्वमिदं विचिन्तय परानन्दं पदं प्राप्स्यसि॥१४॥
** राजा—**भगवन् ! त्यक्ताः खल्वाशापरपर्याया मया संकल्पाः। साधु साधु।
यदामोदो मोहं दिशि दिशि दिशत्याशु मनसः
फलानामास्वादो जनयति यदीयो निपतनम्।
इहैवासां सद्यो वनविषलतानामिव मया
निरासादाशानां जितमहह मोक्षस्तु परतः॥१५॥
तत्त्वचिन्तनं चैतत्कथं स्यात् ?
** गोरक्षाः—**
विषयेभ्यः समाहृत्य मनः शून्ये निवेशय।
स्वयमानन्दमात्मानं स्वप्रकाशमुपैष्यसि॥१६॥
** राजा—**तद्भवतु।संनिहिते एव विजनोपवनैकदेशे गत्वा चिन्तयाम्येतत्।
(इति निष्कान्ताः सर्वे।)
इति तृतीयोऽङ्कः।
षष्ठोऽङ्कः
(ततः प्रविशति रज्जुहस्तः पुरुषः।)
** पुरुषः—**
षड्गुणसंयोगदृढा उपायपरिपाटीघटितपाशमुखी।
चाणक्यनीतिरज्जु रिपुसंयमनोद्यता जयति॥१॥
(परिक्रम्यावलोक्य च।) एष स प्रदेश आर्यचाणक्यस्य पुरत उदुम्बरकेन कथितो यत्र मया आर्यचाणक्याऽऽज्ञप्त्या अमात्यराक्षसः प्रेक्षितव्यः। कथमेष खल्वमात्यराक्षसः कृतशीर्षावगुण्ठन इत एवागच्छति। तद्यावदेभिरुद्यानपादपैरन्तरितशरीरः प्रेक्षे कुत्रासनपरिग्रहं करोतीति।
(ततः प्रविशति यथानिर्दिष्टः सशस्त्रो राक्षसः।)
** राक्षसः—**(सास्त्रम्।) कष्टं भोः, कष्टम्।
उच्छिन्नाश्रयकातरेव कुलटा गोत्रान्तरे श्रीर्गता
तामेवानुगता गतानुगतिकास्त्यक्तानुरागाः प्रजाः।
आप्तैरप्यनवाप्तपौरुषफलैः कार्यस्य धूरुज्झिता
किं कुर्वन्त्वथवोत्तमाङ्गरहितैर्नाङ्गैश्चिरं स्थीयते॥२॥
अपि च।
पतिं त्यक्त्वा देवं भुवनपतिमुच्चैरभिजनं
गता छिद्रेण श्रीर्वृषलमविनीतेव वृषली।
स्थिरीभूता चास्मिन्किमिह करवाम स्थिरमपि
प्रयत्नं नो येषां विफलयति दैवं द्विषदिव॥३॥
मया हि—
देवे गते दिवमतद्विधमृत्युयोग्ये
शैलेश्वरं तमधिकृत्य कृतः प्रयत्नः।
तस्मिन्हते तनयमस्थ, तथाप्यसिद्धि-
र्दैवं हि नन्दकुलशत्रुरसौ न विप्रः॥४॥
अहो विवेकशून्यता म्लेच्छस्य। कुतः—
यो नष्टानपि बीजनाशमधुना शुश्रूपते स्वामिन-
स्तेषां वैरिभिरक्षतः कथमसौ संधास्यते राक्षसः।
एतावद्धि विवेकशून्यमनसा म्लेच्छेन नालोचितं
दैवेनोपहतस्य बुद्धिरथवा सर्वा विपर्यस्यति॥५॥
तदिदानीमपि तावदरातिहस्तगतो विनश्येन्न तु राक्षसश्चन्द्रगुप्तेन सह संदधीत। अथवा मम काममसत्यसंघ इति वरमयशो न तु शत्रुवञ्चनपराभूत इति। (समन्तादवलोक्य सास्त्रम्।) एतास्ता देवपादचंक्रमणपरिचयपवित्रीकृततलाः कुसुमपुरोपकण्ठभूमयः। इह हि—
शार्ङ्गाकर्षाबमुक्तप्रशिथिलकविकाप्रग्रहेणात्र देशे
देवेनाकारि चित्रं प्रजविततुरगं बाणमोक्षश्चलेषु।
अस्यामुद्यानराजौ स्थितमिह कथितं, राजभिस्तैर्विनेत्थं
संप्रत्यालोक्यमानाः कुसुमपुरभुवो भूयसा दुःखयन्ति॥६॥
तत्क्व नु गच्छामि मन्दभाग्यः। (विलोक्य) भवतु। दृष्टमेतज्जीर्णोद्यानम्। अत्र प्रविश्य कुतश्चिच्चन्दनदासप्रवृत्तिमु- पलप्स्ये। अलक्षितनिपाताः पुरुषाणां समविषमदशापरिणतयो भवन्ति। कुतः।
पौरैरङ्गुलिभिर्नवेन्दुवदहं निर्दिश्यमानः शनै-
र्यो राजेव पुरा पुरान्निरगमं राज्ञां सहस्रैर्वृतः।
भूयः संप्रति सोऽहमेव नगरे तत्रैव वन्ध्यश्रमो-
जीर्णोद्यानकमेष तस्कर इव त्रासाद्विशामि द्रुतम्॥७॥
अथवा येषां प्रसादादिदमासीत्त एव न सन्ति। (नाट्येन प्रविश्यावलोक्य च।) अहो जीर्णोद्यानस्यारमणीयता। अत्र हि—
विपर्यस्तं सौधं कुलमिव महाऽऽम्भरचनं
सरः शुष्कं साधोर्हृदयमिव नाशेन सुहृदाम्।
फलैर्हीना वृक्षा विगुणनृपयोगादिव नया-
स्तृणैश्छन्ना भूमिर्मतिरिव कुनीतैरविदुषः॥८॥
** अपि च।**
क्षताङ्गानां तीक्ष्णैः परशुभिरुदग्रैः क्षितिरुहां
रुजा कूजन्तीनामविरतकपोतोपरुदितैः।
स्वनिमौकच्छेदैः परिचितपरिक्लेशकृपया
श्वसन्तः शाखानां व्रणमिव निबध्नन्ति फणिनः॥९॥
एते च तपस्विनः—
अन्तःशरीरपरिशोषमुदग्रयन्तः
कीटक्षतिस्रुतिभिरस्रमिवोद्वमन्तः।
छायावियोगमलिना व्यसने निमग्ना
वृक्षाः श्मशानमुपगन्तुमिव प्रवृत्ताः॥१०॥
यावदस्मिन्विषमदशापरिणामसुलभे भिन्नशिलातले मुहूर्त्तमुपविशामि। (उपविश्याकर्ण्य च) अये, किमिदमस्मिन्काले पटुपटहशङ्खध्वनिमिश्रोनान्दीनादः ? य एषः—
प्रमृद्गञ्छ्रोतॄणां श्रुतिपथमसारं गुरुतया
बहुत्वात्प्रासादैः सपदि परिपीतोज्झित इव।
असौ नान्दीनादः पटुपटहशङ्खध्वनियुतो -
दिशां द्रष्टुं दैर्घ्यंप्रसरति सकौतूहल इव॥११॥
(विचिन्त्य।) आः, ज्ञातम्। एष हि मलयकेतुसंयमनसंजातो राजकुलस्य (इत्यर्द्धोक्ते सासूयम्।) मौर्यकुलस्याधिकपरितोषं पिशुनयति। (सवाष्पम्।) कष्टं।भोः, कष्टम्।
श्रावितोऽस्मि श्रियं शत्रोरुपनीय च दर्शितः।
अनुभावयितुं मन्ये यत्नः संप्रति मां विधेः॥१२॥
** पुरुषः—**आसीनोऽयम्। यावदार्यचाणक्यादेशं संपादयामि।
(राक्षसमपश्यन्निव तस्याग्रतो रज्जुपाशेन कण्ठमुद्वध्नाति।)
** राक्षसः—**(विलोक्य।) अये, कथमात्मानमुद्वध्नात्ययमहमिव दुःखितस्तपस्वी ? भवतु। पृच्छाम्येनम्।भद्र ! किमिदमनुष्ठीयते ?
** पुरुषः—**(मवाष्पम्।) आर्य ! यत्प्रियवयस्यविनाशदुःखितोऽस्मादृशोमन्दभाग्योऽनुतिष्ठति।
** राक्षसः—**(आत्मगतम्।) प्रथममेव मया ज्ञातं—नूनमहमिवार्त्तस्तपस्वीति। (प्रकाशम्।) हे व्यसनसब्रह्मचारिन् ! यदि न गुह्यं नातिभारिकं वा ततः श्रोतुमिच्छामि।
** पुरुषः—**आर्य ! न रहस्यं नातिगुरुकम्। किं तु न शक्नोमि प्रियवयस्यविनाशदुःखितहृदयः एतावन्मात्रमपि मरणस्य कालहरणं कर्तुम्।
** राक्षसः—**(निःस्वस्यात्मगतम्।) कष्टम्, एते सुहृद्व्यसनेषु परमुदासीनाः प्रत्यादिश्यामहे वयमनेन। (प्रकाशम्।) भद्र ! यदि न रहस्यं नातिगुरु तच्छ्रोतुमिच्छामि।
** पुरुषः—**अहो निर्बन्ध आर्यस्य। का गतिः ? निवेदयामि।अस्ति तावदत्र नगरे मणिकारभेष्ठी विष्णुदासो नाम।
** राक्षसः**—(श्रात्मगतम्) अस्ति विष्णुदासश्चन्दनदासस्य सुहृत्। (प्रकाशम्) किं तस्य ?
** पुरुषः—**स मम प्रियवयस्यः।
** राक्षसः—**(सहर्षमात्मगतम्) अये प्रियवयस्य इत्याह। अत्यन्तसंनिकृष्टः संबन्धः। हन्त ! ज्ञास्यामि चन्दनदासस्य वृत्तान्तम्। (प्रकाशम्) भद्र ! किं तस्य ?
** पुरुषः**—स संप्रति दत्ताभरणादिविभवो ज्वलनं प्रवेष्टुकामो नगरान्निष्क्रान्तः। अहमपि यावत्तस्याश्रोतव्यं न शृणोमि तावदात्मानमुद्बध्य व्यापादयितुमिदं जीर्णोद्यानमागतः।
** राक्षसः**—भद्र ! अग्निप्रवेशे सुहृदस्ते को हेतुः? किमौषधपथातिगैरुपहतो महाव्याधिभिः?
** पुरुषः—**नहि नहि।
** राक्षसः—**किमग्निविपकल्पया नरपतेर्निरस्तः क्रुधा?
** पुरुषः—**आर्य ! शान्तं पापं शान्तं पापम्। चन्द्रगुप्तस्य जनपदे न नृशंसा प्रतिपत्तिः।
** राक्षसः—**अलभ्यमनुरक्तवान्कथय किंनु नारीजनं?
** पुरुषः—**(कर्णौ पिधाय) शान्तं पापम्। अभूमिः खल्वेषोऽविनयस्य।
** राक्षसः—**
किमस्य भवतो यथा सुहृद् एव नाशोऽवशः ?॥१३॥
** पुरुषः—**आर्य ! अथ किम्।
** राक्षसः—**(सावेगमात्मगतम्) चन्दनदासस्य प्रियसुहृदिति, तद्विनाशोहुतभुजि प्रवेशहेतुरिति, यत्सत्यं चलितमेवास्ते युक्तस्नेहपक्षपातात् हृदयम्। (प्रकाशम्) तद्विनाशं च, प्रियसुहृद्वत्सलतया मर्तव्ये व्यवसितस्य सुचरितं च विस्तरेण श्रोतुमिच्छामि।
** पुरुषः—**अतोऽपरं न शक्नोमि मन्दभाग्यो मरणस्य विघ्नमुत्पादयितुम्।
** राक्षसः—**भद्र ! श्रवणीयां कथां कथय।
** पुरुषः—**का गतिः ? कि कर्तव्यम् ? एष खलु निवेदयामि। शृणोत्वार्यः।
** राक्षसः—**भद्र ! अवहितोऽस्मि।
** पुरुषः—**अस्ति इह नगरे मणिकारश्रेष्ठी चन्दनदासो नाम \।
** राक्षसः—**(सविषादमात्मगतम्) एतत्तदपावृतमस्मच्छोकदीक्षाद्वारं दैवेन। हृदय ! स्थिरीभव। किमपि ते कष्टतर- माकर्णनीयमस्ति। (प्रकाशम्) भद्र ! श्रूयते मित्रवत्सलः साधुः। किं तस्य ?
** पुरुषः—**स एतस्य विष्णुदासस्य प्रियवयस्यो भवति।
** राक्षसः—**(स्वगतम्।) सोऽयमभ्यर्णः शोकवज्रपातो हृदयस्य।
** पुरुषः—**ततो विष्णुदासेन वयस्यस्नेहसदृशमद्य विज्ञप्तश्चन्द्रगुप्तः।
** राक्षसः—**कथय किमिति ?
** पुरुषः**— देव ! मम गेहे कुटुम्बभरणपर्याप्ताऽर्थवत्तास्ति। तदेतेन विनिमयेन मुच्यतां प्रियवयस्य श्चन्दनदास इति।
राक्षसः—(स्वगतम्।) साधु भो विष्णुदास ! साधु। अहो, दर्शितोमित्रस्नेहः। कुतः—
पितृृन्पुत्राः पुत्रान्परवदभिहिंसन्ति पितरो-
यदर्थं सौहार्दं सुहृदि च विमुञ्चन्तिसुहृदः।
प्रियं मोक्तुं तं यो व्यसनमिव सद्यो व्यवसितः
कृतार्थोऽयं सोऽर्थस्तव सति वणिक्त्वेऽपि वणिजः॥१४॥
(प्रकाशम्।) भद्र ! ततस्तथाभिहितेन किं प्रतिपन्नं मौर्येण ?
** पुरुषः—**आर्य ! तत एवं भणितेन चन्द्रगुप्तेन प्रतिभणितः श्रेष्ठी विष्णुदासः “न मयाऽर्थस्य कारणेन चन्दनदासः संयमितः, किंतु प्रच्छादितोऽनेनामात्यराक्षसस्य गृहजन इति बहुशो ज्ञातम्। तेनापि बहुशो याचितेनापि न समर्पितः”।
** राक्षसः—**भद्र ! न खलु व्यापादितश्चन्दनदासः ?
** पुरुषः—**अद्यतावद्व्यापाद्यते। स खलु सांप्रतं पुनः पुनरमात्यराक्षसस्य गृहजनं याच्यते। न खलु स मित्रवत्सलतया समर्पयति। तदेतेन कारणेन न करोमि मरणस्य कालहरणम्।
** राक्षसः—(सहर्षमात्मगतम्।) साधु वयस्य चन्दनदास ! साधु।**
शिवेरिव समुद्भूतं शरणागतरक्षया।
निचीयते त्वया साधो ! यशोऽपि सुहृदा विना॥१५॥
(प्रकाशम्।) भद्र ! गच्छ गच्छेदानीम्। शीघ्रं विष्णुदासं ज्वलनप्रवेशान्निवारय। अहमपि चन्दनदासं मरणान्मोच- यामि।
** पुरुषः—**अथ पुनः केनोपायेन त्वं चन्दनदासं मरणान्मोचयसि ?
** राक्षसः —**(खड्गमाकृष्य।) नन्वनेन व्यवसायसुहृदा निस्त्रिंशेन। पश्य।
निस्त्रिंशोऽयं सजलजलदव्योमसंकाशमूर्ति-
र्युद्धश्रद्धापुलकित इव प्राप्तसख्यः करेण।
सत्त्वोत्कर्षात्समरनिकषे दृष्टसारः परैर्मे
मित्रस्नेहाद्विवशमधुना साहसे मां नियुंक्ते १६॥
** पुरुषः—**आर्य ! एवं श्रेष्ठिचन्दनदासजीवितप्रदानपिशुनितं विषमदशाविपाकनिपतितं साधु न शक्नोमि त्वां निर्णीय प्रतिपत्तुं। किं सुगृहीतनामधेया अमात्यराक्षसपादा यूयं दिष्ट्या दृष्टाः ?
** राक्षसः—**उत्तिष्ठोत्तिष्ठ। अलमिदानीं कालहरणेन। निवेद्यतां विष्णुदासाय—एष राक्षसश्चन्दनदासं मरणान्मो- चयति। (इति ‘निस्त्रिंशोऽयम्’ ६। १८ इति पठन्नाकृष्य खड्गं परिक्रामति।)
** पुरुषः—**तत्कुरु मे प्रसादं संदेहनिर्णयेन।
** राक्षसः—**सोऽहमनुभूतभर्तृविनाशः सुहृद्विपत्तिहेतुरनार्यो दुर्गृहीतनामधेयो यथार्थो राक्षसः।
** पुरुषः—**(सहर्षं पुनः पादयोः पतित्वा।) आश्चर्यम्। दिष्ट्या दृष्टोऽसि। प्रसीदन्तु अमात्यपादाः। अस्ति तावदत्र प्रथमं चन्न्द्रगुप्तहतकेनार्यशकटदासो वध्यस्थानमाज्ञप्तः। स च वध्यस्थानात्केनाप्यपहृत्य देशान्तरंनीतः। ततश्चन्द्रगुप्तहतकेन—‘कस्मादेष प्रमादः कृतः’ इति, आर्यशकटदासे समुज्ज्वलितः कोपवह्निर्घातकजननिधनेन निर्वापितः। ततः प्रभृति घातका यं कमपि गृहीतशस्त्रमपूर्वं पुरुषं पृष्ठतो वाग्रतो वा प्रेक्षन्ते तदात्मनो जीवितं परिरक्षन्तोऽप्रमत्ता वध्यस्थाने वध्यं व्यापादयन्ति। एवं च गृहीतशस्त्रैरमात्यपादैर्गच्छद्भिः श्रेष्ठिचन्दनदासस्य वधस्त्वरायितो भवति।
** राक्षसः—**(स्वगतम्।) अहो दुर्बोधश्चाणक्यबटोर्नीतिमार्गः।
** कुतः—**
यदि च शकटो नीतः शत्रोर्मतेन ममान्तिकं
किमिति निहतः क्रोधावेशाद्वधाधिकृतो जनः।
अथ न, कृतकं तादृक्कष्टं कथं नु विभावये-
दिति मम मतिस्तर्कारूढा न पश्यति निश्चयम्॥१७॥
(विचिन्त्य।)
नायं निस्त्रिंशकालः प्रथममिह कृते घातकानां विघाते
नीतिः कालान्तरेण प्रकटयति फलं किं तया कार्यमत्र।
औदासीन्यं न युक्तं प्रियसुहृदि गते मत्कृतामेव घोरां
व्यापत्तिं, ज्ञातमस्य स्वतनुमहमिमां निष्क्रयं कल्पयामि॥१८॥
(इति निष्क्रान्ताः सर्वे।)
(षष्ठोऽङ्कः।)
द्वितीयोऽङ्कः।
(ततः प्रविशति दम्भः)
** दम्भः—**आदिष्टोऽस्मि महाराजमहामोहेन। यथा—“वत्स दम्भ ! प्रतिज्ञातं सामात्येन विवेकेन प्रबोधोदयाय। प्रेषिताश्च तेषु तेषु तीर्थेषु शमदमादयः। स चायमस्माकमुपस्थितः कुलक्षयो भवद्भिः अवहितैः प्रतिकर्तव्यः। तत्र पृथिव्यां परमं मुक्तिक्षेत्रं वाराणसीनाम नगरी तद्भवांस्तत्र गत्वा चतुर्णामप्याश्रमाणां निःश्रेयसविघ्नार्थं प्रयततामिति”। तदिदानीं वशीकृतभूयिष्ठा मया वाराणसी। संपादितश्च स्वामिनो यथानिर्दिष्ट आदेशः। (विलोक्य) कोऽप्ययं पान्थोभागीरथीमुत्तीर्य सांप्रतमित एवाभिवर्तते। तथा च यथैषः—
ज्वलन्निवाभिमानेन ग्रसन्निव जगत्त्रयीम्।
भर्त्सयन्निव वाग्जालैः प्रज्ञयोपहसन्निव॥१॥
तथा तर्कयामि। नूनमयं दक्षिणराढाप्रदेशादागतो भविष्यति। तत् एतस्मादाऽऽर्यस्याहंकारस्य वृत्तान्तंज्ञास्यामि। (इति परिक्रामति)
(ततः प्रविशत्यहंकारो यथानिर्दिष्टः)
** अहंकारः—**अहो ! मूर्खबहुलं जगत्। तथाहि—
नैवाश्रावि गुरोर्मतं न विदितं कौमारिलं दर्शनं
तत्त्वंज्ञातमहो न शारिकगिरां वाचरूपतेः का कथा।
सूक्तं नापि महोदधेरधिगतं माहाव्रती नेक्षिता
सूक्ष्मा वस्तुविचारणा, नृपशुभिः स्वस्थैः कथं स्थीयते॥२॥
(विलोक्य) एते तावदर्थावधारणविधुराः स्वाध्यायाध्ययनमात्रनिरता वेदविप्लावका एव। (पुनरन्यतो गत्वा) एते च भिक्षामात्र—
गृहीतयतिव्रता मुण्डितमुण्डाः पण्डितंमन्या वेदान्तशास्त्रं व्याकुलयन्ति। (विहस्य)
प्रत्यक्षादिप्रमासिद्धविरुद्धार्थाभिधायिनः।
वेदान्ता यदि शास्त्राणि बौद्धैः किमपराध्यते॥३॥
तदेतद्वाङ्मात्रश्रवणमपि गुरुतरदुरितोदयाय। (पुनरन्यतो गत्वा) एते च शैवपाशुपतादयो दुरभ्यस्ताक्षपादमताः पशवः पाषण्डाः। अमीषां संभाषणादपि नरा नरकं यान्ति। तदेते दर्शनपथाद्दूरतः परिहरणीयाः। (पुनरन्यतो गत्वा) एते च—
गङ्गातीरतरङ्गशीतलशिलाविन्यस्तभास्वद्बृसी-
संविष्टाः कुशमुष्टिमण्डितमहादण्डाः करण्डोज्ज्वला।
पर्यायग्रथिताक्षसूत्रवलयप्रत्येकबीजग्रह-
व्यग्राऽग्राऽङ्गुलयो हरन्ति धनिनां वित्तान्यहो दाम्भिकाः॥४॥
(पुनरन्यतो गत्वा) एते त्रिदण्डव्यपदेशजीविनो द्वैताद्वैतमार्गपरिभ्रष्टा एव। (अन्यतो गत्वा विलोक्य) अये ! कस्यैतद्द्वारोपान्तनिखातितप्रांशुवंशकाण्डताण्डवितधौतसितसूक्ष्माम्बरसहस्रम् , इतस्ततोविन्यस्तकृष्णाजिन- दृषदुपलसमिच्चषालोलूखलमुसलम्, अनवरतहुताज्यगन्धिधूमश्यामलितगगनमण्डलम्, अमरसरितो नातिदूरे विभात्याश्रममण्डलम्। नूनमिदं कस्यापि गृहमेधिनो गृहं भविष्यति। भवतु। युक्तमस्माकमिति। पवित्रमेतद्द्वित्रिदिवसनिवासस्थानम्। (प्रवेशं नाट्यति)। (विलोक्य च) अये !
मृद्विन्दुलाञ्छितललाटभुजोदरोरः-
कण्ठोष्ठपृष्ठचुबुकोरुकपोलजानुः।
चूडाग्रकर्णकटिपाणिविराजमान-
दर्भाङ्कुरः स्फुरति मूर्त इवैष दम्भः॥५॥
भवतु, उपसर्पाम्येनम्। (उपसृत्य।) कल्याणं भवतु भवताम्। (दम्भोहुंकारेण निवारयति।)
(प्रविशति बटुः।)
** बटुः—**(ससंभ्रमम्।) ब्रह्मन् ! दूरत एव स्थीयताम्। यतः पादौ प्रक्षाल्य एतदाश्रमपदं प्रवेष्टव्यम्।
** अहंकारः—**(सक्रोधम्।) आः पाप ! तुरुष्कदेशं प्राप्ताः स्मः। यत्र श्रोत्रियानतिथीनासनपाद्यादिभिरपि गृहिणो नोपतिष्ठन्ति।
** दम्भः—**(हस्तसंज्ञया समाश्वासयति।)
** बटुः—**एवमाराध्यपादा आज्ञापयन्ति “दूरदेशादागतस्यार्यस्य कुलशीलादिकं न सम्यगस्माकं विदितम्।
** अहंकारः—**आः कथमस्माकमपि कुलशीलादिकमिदानीं परीक्षितव्यम्। श्रूयताम्—
गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढापुरी
भूरिश्रेष्ठकनाम धाम परमं तत्रोत्तमो नः पिता।
सत्पुत्राश्च महाकुला न विदिताः कस्यात्र तेषामपि
प्रज्ञाशीलविवेकधैर्यविनयाऽऽचारैरहं चोत्तमः॥६॥
(दम्भो बटुं पश्यति।)
** बटुः—**(ताम्रघटीं गृहीत्वा) भगवन् ! पादशौचं विधीयताम्।
अहंकारः—(स्वगतम्) भवतु। कोऽत्र विरोधः। एवं क्रियते। (तथा कृत्वोपसर्पति।)
** दम्भः—**(दन्तान्संपीड्य बटुं पश्यति।)
** बटुः—**दूरे तावत्स्थीयताम्। वाताहताः प्रस्वेदकणिकाः प्रसरन्ति।
** अहंकारः**—अहो ! अपूर्वमिदं ब्राह्मण्यम्।
** बटुः**—ब्रह्मन ! एवमेतत्। तथाहि**—**
अस्पृष्टचरणा ह्यस्य चूडामणिमरीचिभिः।
नीराजयन्ति भूपालाः पादपीठान्तभूतलम्॥७॥
** अहंकारः—**(स्वगतम्) अये, दम्भग्राह्योऽयं देशः ! (प्रकाशम्) भवतु अस्मिन्नासने उपविशामि। (तथा कर्तुमि- च्छति।)
** बटुः—**मैवम्। नाराध्यपादानामन्यैरासनमाक्रम्यते।
** अहंकारः**—आः पाप ! अस्माभिरपि दक्षिणराढाप्रदेशप्रसिद्धविशुद्धिभिर्नाक्रमणीयमिदमासनम् ? श्रृणु रे मूर्ख !
नास्माकं जननी तथोज्ज्वलकुला सच्छ्रोत्रियाणां पुन-
र्व्यूढा काचन कन्यका खलु मया तेनास्मि ताताधिकः।
अस्मच्छ्यालकभागिनेयदुहिता मिथ्याभिशप्ता यत-
स्तत्संपर्कवशान्मया स्वगृहिणी प्रेयस्यपि प्रोज्झिता॥८॥
** दम्भः**—ब्रह्मन् ! यद्यप्येवं तथाप्यस्माकमविदितवृत्तान्तो भवान्।तथाहि—
सदनमुपगतोऽहं पूर्वमम्भोजयोनैः
सपदि मुनिभिरुच्चैरासनेषूज्झितेषु।
सशपथमनुनीय ब्रह्मणा गोमयाम्भः-
परीमृजितनिजोरावाशु संवेशितोऽस्मि॥९॥
** अहंकारः**—(स्वगतम्) अहो, दाम्भिकस्य ब्राह्मणस्यात्युक्तिः। (विचिन्त्य) अथवा दम्भस्यैव भवत्वेवं तावत्। (प्रकाशम्) आः, किमेवं गर्गायसे ? (सक्रोधम्)
अरे क इव वासवः कथय कोऽत्र पद्मोद्भवो-
वद प्रभवभृमयो जगति का मुनीनामपि।
अवेहि तपसो बलं मम पुरन्दराणां शतं
शतं च परमेष्ठिनां पततु वा मुनीनां शतम्॥१०॥
** दम्भः—**(विलोक्य। सानन्दम्) अये ! आर्यः पितामहोऽस्माकमहंकारः। आर्य ! दम्भो लोभात्मजोऽहं भो अभिवादये।
** अहंकारः—**वत्स ! आयुष्मान् भव।बालः खल्वसि मया द्वापरान्ते दृष्टः। संप्रति चिरकालविप्रकर्षाद्वार्ध- क्यग्रस्ततया च न सम्यक्प्रत्यभिजानामि। अथ त्वत्कुमारस्यानृतस्य कुशलम् ?।
** दम्भः—**अथ किम्। सोऽप्यत्रैव महामोहस्याऽऽज्ञया वर्तते। नहि तेन विना मुहूर्तमप्यहं प्रभवामि।
** अहंकारः—**अथ तव मातापितरौ तृष्णालोभावपि कुशलिनौ ?।
** दम्भः—**तावपि राज्ञो महामोहस्याज्ञयाऽत्रैव वर्तेते। तयोर्विना क्षणमपि न तिष्ठामि।`आर्यमिश्रैः पुनः केन प्रयोज- नेनात्र प्रसादः कृतः ?
** अहंकारः—**वत्स ! मया महामोहस्य विवेकसकाशादत्याहितं श्रुतम्। तेन तद्वृत्तान्तं प्रत्येतुमागतोऽस्मि।
** दम्भः—**स्वागतमेवार्यस्य। यतो महाराजस्यापीन्द्रलोकादत्रागमनं श्रूयते। अस्ति च किंवदन्ती यद्देवेन वाराणसी राजधानी वस्तुं निरूपितेति।
** अहंकारः—**किं पुनः वाराणस्यां सर्वात्मना मोहस्यावस्थानकारणमिति ?
** दम्भः—**आर्य ! ननु विवेकोपरोध एव तथाहि—
विद्याप्रबोधोदयजन्मभूमिर्वाराणसी ब्रह्मपुरी निरत्यया।
असौ कुलोच्छेदविधिं चिकीर्षुर्निर्वस्तुमत्रेच्छति नित्यमेवम्॥११॥
** अहंकारः—**(सभयम्) यद्यप्येवमशक्यप्रतीकार एवायमर्थः।
यतः—
परममविदुषां पदं नराणां पुरविजयी करुणाविधेयचेताः।
कथयति भगवानिहान्तकाले भवभयकातरतारकं प्रबोधम्॥१२॥
** दम्भः—**सत्यमेतत्तथापि नैतत्कामक्रोधाभिभूतानां संभाव्यते तथा ह्युदाहरन्ति तैर्थिकाः—
यस्य हस्तौ च पादौच मनश्चैव सुसंयतम्।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते॥१३॥
(नेपथ्ये) भो भोः पौराः ! एष खलु संप्राप्तो देवो महामोहः।
ते न—
निष्यन्दैश्चन्दनानां स्फटिकमणिशिलावेदिकाः संस्क्रियन्तां-
मुच्यन्तां यन्त्रमार्गाः प्रचरतु परितो वारिधारा गृहेषु।
उच्छ्रीयन्तां समन्तात्स्फुरदुरुमणयः श्रेणयस्तोरणानां
धूयन्तां सौधमूर्धस्वमरपतिधनुर्वामचित्राः पताकाः॥१४॥
** दम्भः—**आर्य ! प्रत्यासन्नोऽयं महाराजः तत्प्रत्युद्गमनेन संभाव्यतामार्येण।
** अहंकारः—**एवं भवतु (निष्क्रान्तौ )
(प्रवेशकः)
(ततः प्रविशति महामोहो विभवतश्च परिवारः।)
** महामोहः—**अहो, (विहस्य) अहो, निरङ्कुशा जडधियः।
आत्मास्ति देहव्यतिरिक्तमूर्ति र्भोक्ता स लोकान्तरितः फलानाम्।
आशेयमाकाशतरोः प्रसूनात्प्रथीयसी स्वादुफलप्रसूतौ॥१५॥
इदं च स्वकल्पनाविनिर्मितपदार्थाऽवष्टम्भेन जगदेवं दुर्विदग्धै र्वंच्यते।तथाहि—
यन्नास्त्येव तदस्ति वस्त्विति मृषा जल्पद्भिरेवास्तिकै-
र्वावालैर्बनुभिस्तु सत्यवचसो निन्द्याः कृता नास्तिकाः।
हंहो पश्यत तत्त्वतो यदि पुनश्छिन्नादितो वर्ष्मणो-
दृष्टः किं परिणामरूपितचितेर्जीवः पृथक्कैरपि॥१६॥
अपि च न केवलं जगदात्मैव तावदमीसिर्वञ्च्यते। तथाहि—
तुल्यत्वे वपुषां मुखाद्यवयवैर्वर्णक्रमः कीदृशो—
योपेयं वसु चापरस्य तदमुं भेदं न विद्मो वयम्।
हिंसायामथवा यथेष्टगमने स्त्रीणां परस्वग्रहे
कार्याकार्यविचारणा हि यदमी निःपौरुषाः कुर्वते॥१७॥
(विचिन्त्य सश्लाघम्।) सर्वथा लोकायतमेव शास्त्रं, यत्र प्रत्यक्षमेव प्रमाणं , पृथिव्यप्तेजोवायवस्तत्त्वानि, अर्थकामौ पुरुषार्थौ, भूतान्येव चेतयन्ते। नास्ति परलोकः। मृत्युरेवापवर्गः। तदेतदस्मदभिप्रायानुबन्धिना वाचस्पतिना प्रणीय चार्वाकाय समर्पितम्। तेन च शिष्योपशिष्यद्वारेणास्मिंल्लोके बहुलीकृतं तन्त्रम्।
(ततः प्रविशति चार्वाकः शिष्यश्च।)
** चार्वाकः—**वत्स ! जानासि दण्डिनीतिरेव विद्या। अत्रैव वार्तान्तर्भवति धूर्तप्रलापस्त्रयी। स्वर्गोत्पादकत्वेन विशेषाभावात्।
पश्य—
स्वर्गः कर्तृ क्रियाद्रव्यविनाशे यदि यज्वनाम्।
ततो दावाग्निदग्धानां फलं स्याद्भूरि भूरुहाम्॥१८॥
अपि च।
निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते॥
स्वपिता यजमानेन किं न तस्मान्निहन्यते॥१९॥
अपि च।
मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम्।
निर्वाणस्य प्रदीपस्य स्नेहः संवर्धयेच्छिखाम्॥२०॥
** शिष्यः—**आचार्य ! यद्येष एव परमार्थः पुरुषस्य यत्खाद्यते पीयते। तर्हि किमित्येतै स्तीर्थैः संसारसौख्यं परिहृत्याऽऽत्मा घोरघोरतरैः पराकसान्तपनषष्ठकाऽऽत्माशनप्रभृतिभिर्दुःखैः क्षिप्यते ?
** चार्वाकः—**धूर्तप्रणीतागमप्रतारितानामाशामोदकैरियं तृप्तिर्मूर्खाणाम्।
** शिष्यः—**आचार्य ! एवं खलु तैर्थिका आलपन्ति। यद्दुःखमिश्रितं संसारसुखं परिहरणीयमिति।
** चार्वाकः—**(विहस्य) आः, दुर्बुद्धिविलसितमिदं नरपशूनाम्।
त्याज्यं सुखं विषयसंगमजन्म पुंसां
दुःखोपसृष्टमिति मूर्खविचारणैषा।
व्रीहाञ्जिहासति सितोत्तमतण्डुलाढ्यान्
को नाम भोस्तुषकणोपहितान्हितार्थी॥२१॥
** महामोहः—**अये, चिरेण खलु प्रमाणवन्ति वचनानि कर्णसुखमुपजनयन्ति। (विलोक्य सानन्दम्) हन्त, प्रिय सुहृन्मे चार्वाकः !
** चार्वाकः—**(विलोक्य) एष महाराजो महामोहः। (उपसृत्य) जयतु जयतु महाराजः। एष चार्वाकः प्रणमति।
** महामोहः—**चार्वाक ! स्वागतं ते। इहोपविश्यताम्।
** चार्वाकः—**(उपविश्य) एष कलेः साष्टाङ्गं प्रणामः।
** महामोहः—**अये, तत्र कलेः भद्रमव्याहतम् ?।
** चार्वाकः—**देवप्रसादात्सर्वत्र भद्रम्। निर्वर्तितकृत्यशेषश्च देवपादमूलं द्रष्टुमाजिगमिषति।
यतः—
आज्ञामवाप्य महतीं, द्विषतां निपाता-
न्निर्वर्त्य तां, सपदि लब्धसुखप्रसादः
उच्चैः प्रमोदमनुमोदितदर्शनः सन्
धन्यो नमस्यति पदाम्बुरुहं प्रभूणाम्॥२२॥
** महामोहः—**अथ तस्मिन्कलौ कियत्संवृत्तम् ?
** चार्वाकः—**देव !
व्यतीतवेदार्थपथः प्रथीयसीं यथेष्टचेष्टां गमितो महाजनः।
तदत्र हेतुर्न कलिर्न चाप्यहं प्रभोः प्रभावो हि तनोति पौरुषम्॥२३॥
तत्रोत्तराः पथिकाः पाश्चात्याश्च त्रयीमेव त्याजिताः। शमदमा—
दीनां कैव कथा ?अन्यत्रापि प्रायशो जीविकामात्रफलैव त्रयी। यथाऽऽहाऽऽचार्यः—
अग्निहोत्रत्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम्।
प्रज्ञापौरुषहीनानां जीविकेति बृहस्पतिः॥२४॥
तेन कुरुक्षेत्रादिषु तावद्देवेन स्वप्नेऽपि विद्याप्रबोधोदयो नाऽऽशङ्कनीयः।
** महामोहः—**साधु संपादितम्। महत्खलु तत्तीर्थं व्यर्थीकृतम्।
** चार्वाकः—**देव ! अन्यच्च विज्ञाप्यमस्ति।
** महामोहः—**किं तत् ?
** चार्वाकः—**अस्ति विष्णुभक्तिर्नाम महाप्रभावा योगिनी। सा कलिना यद्यपि विरलप्रचारा कृता तथापि तदनुगृ- हीतान्वयमालोकयितुमपि न प्रभवामः। तदत्र देवेनावधातव्यमिति।
** महामोहः—**(सभयमात्मगतम्) आः, प्रसिद्धमहाप्रभावा सा योगिनी स्वभावाद्विद्वेषिणी चास्माकं दुरुच्छेद्या सा। भवतु। (स्वगतम्) कार्यमत्याहितं भविष्यति। (प्रकाशम्) तत्र भद्र ? अलमनया शङ्कया। कामक्रोधादिषु प्रतिपक्षेषु कुत्रेयमुदेष्यति ?
** चार्वाकः—**तथापि लघीयस्यपि रिपौ नाऽनवहितेन जिगीषुणा भवितव्यम्। यतः—
विपाकदारुणो राज्ञां रिपुरल्पोऽप्यरुंतुदः।
उद्वेजयति सूक्ष्मोऽपि चरणं कण्टकाङ्कुरः॥१५॥
** महामोहः—**(नेपथ्याभिमुखमवलोक्य) कः कोऽत्र भोः ?
(प्रविश्य दौवारिकः।)
** दौवारिकः—**जयतु जयतु। आज्ञापयतु देवः।
** महामोहः—**भो असत्सङ्ग ! आदिश्यन्तां कामक्रोधलोभमदमात्सर्याऽऽदयो यथा योगिनी विष्णुभक्तिर्भवद्भिरेवाऽवहितैर्विहन्तव्येति।
** दौवारिकः—**यदाज्ञापयति देवः।
(इति निष्क्रान्तः।)
(ततः प्रविशति पत्रहस्तः पुरुषः। )
** पुरुषः—**
अहमुत्कलदेशादागतोऽस्मि। अस्ति तत्र सागरतीरसंनिवेशे पुरुषोत्तमशब्दितं देवतायतनम्। ततो मदमानाभ्यां भट्टारकाभ्यां महाराजसकाशं प्रेषितोऽस्मि। एषा वाराणसी। इदं राजकुलम्। यावत्प्रविशामि। एष भट्टारकश्चार्वाकेण सार्धं किमपि मन्त्रयंस्तिष्ठति। तदुपसर्पाम्येनम्। (उपसृत्य) जयतु जयतु भट्टारकः। इदं पत्रं तावन्निरूप्यमाणं प्रेक्षतां भट्टारकः। (इति पत्रमर्पयति।)
** महामोहः—**(पत्रंगृहीत्वा) कुतो भवान् ?
** पुरुषः—**अहं पुरुषोत्तमादागतोऽस्मि।
** महामोहः—**(स्वगतम्) कार्यमत्याहितं भविष्यति। (प्रकाशम्।) चार्वाक ! गच्छ। कर्तव्येष्ववहितेन भवता भवित- व्यम्।
** चार्वाकः—**यदाज्ञापयति देवः।
(इति निष्क्रान्तः।)
** महामोहः—**(पत्रं वाचयति।)
‘स्वस्ति श्रीवाराणस्यां महाराजाधिराजपरमेश्वरमहामोहपादान्पुरुषोत्तमायतनात् मदमानौ साष्टाङ्गपातं प्रणम्य विज्ञापयतः—यथा, भद्रमव्याहतम्। अन्यच्च देवी शान्तिर्मात्रा श्रद्धया सह विवेकस्य दौत्यमापन्ना विवेकसंगमाय देवीमुपनिषदमहर्निशं प्रबोधयति। अपि च कामसहचरोऽपि धर्मो वैराग्यादिभिरुपजप्त इव लक्ष्यते। यतः कामाद्विभिद्य कुतश्चिन्निगूढः प्रचरति। तदेतज्ज्ञात्वा तत्र देवः प्रमाणमिति।
** महामोहः—**(सक्रोधम्) आः किमेवमतिमुग्धौ शान्तेरपि बिभ्यतः ? कामादिषु प्रतिपक्षेषु कुतोऽस्याः संभवः ?
(पुरुषं प्रति वदति।)
जाल्म ! गच्छ। कामं सत्वरमुपेत्यादेशमस्माकं प्रतिपादय—“तथा दुराशयो धर्म इत्यस्माभिरवगतम्। तदस्मिन्मुहूर्तमपि न विश्वसितव्यम्। दृढं बध्वा धारयितव्य इति”।
** पुरुषः—**यद्देव आज्ञापयति।
(इति निष्क्रान्तः।)
** महामोहः—**(स्वगतं विचिन्त्य) शान्तेः कोऽभ्युपायः ? अथवा अलम् उपायान्तरेण। क्रोधलोभावेव तावदत्र पर्याप्तौ। (प्रकाशम्) कः कोऽत्र भोः।
(प्रविश्य दौवारिकः।)
** दौवारिकः—**आज्ञापयतु देवः।
** महामोहः—**तावदाहूयतां क्रोधो लोभश्च।
** पुरुषः—**यदाज्ञापयति। देवः।
(इति निष्क्रान्तः।)
(ततः प्रविशति क्रोधो लोभश्च।)
** क्रोधः—**श्रुतं मया, यथा शान्तिश्रद्धाविष्णुभक्तयो महाराजेन प्रतिपक्षमाचरन्तीति। अहो, मयि जीवति कथमासामात्मनि निरपेक्षितं चेष्टितम् ? तथाहि—
अन्धीकरोमि भुवनं बधिरीकरोमि
धीरं सचेतनमचेतनतां नयामि।
कृत्यं न पश्यति, न येन हितं श्रृणोति,
धीमानधीतमपि न प्रतिसंदधाति॥२६॥
** लोभः—**अये, मदुपगृहीता मनोरथसरित्परम्परामेव तावन्न तरिष्यन्ति किं पुनः शान्त्यादींश्चिन्तयिष्यन्ति ? पश्य पश्य सखे !
सन्त्येते मम दन्तिनो मदजलप्रम्लानगण्डस्थला
वातव्यायतपातिनश्च तुरगा भूयोऽपि लप्स्येऽपरान्।
एतल्लब्धमिदं लभे पुनरिदं लब्धाधिकं ध्यायतां
चिन्ताजर्जरचेतसां बत नृणां का नाम शान्तेः कथा॥२७॥
** क्रोधः—**सखे ! विदितस्त्वया मत्प्रभावः ?
त्वाष्ट्रं वृत्रमघातयत्सुरपति, श्चन्द्रार्धचूड़ोऽच्छिनत्
देवो ब्रह्मशिरो, वसिष्ठतनयानाघातयत्कौशिकः।
अपि च—
विद्यावन्त्यपि कीर्तिमन्त्यपि सदाचारावदातान्यपि
प्रौच्चैः पौरुषभूषणान्यपि कुलान्युद्धर्तुमीशोऽस्म्यहम्॥२८॥
** लोभः**—तृष्णे ! इतस्तावत्।
(प्रविश्य तृष्णा)
** तृष्णा**—किमाज्ञापयत्यार्यपुत्रः ?
** लोभः**—प्रिये ! श्रूयताम्—
क्षेत्रग्रामवनाद्रिपत्तनपुरद्वीपक्षमामण्डल-
प्रत्याशाघनसूत्रबद्धमनसां लब्धाधिकं ध्यायताम्।
तृष्णे ! देवि यदिप्रसीदसि तनोष्यङ्गानि तुङ्गानि चेत्
तद्भोः प्राणभृतां कुतः शमकथा ब्रह्माण्डलक्षैरपि॥२९॥
** तृष्णा—**आर्यपुत्र ! स्वयमेव तावदहमस्मिन्नर्थे नित्यमभियुक्ता। सांप्रतमार्यपुत्रस्याऽऽज्ञया ब्रह्माण्डकोट्योऽपि न मे उदरं पूरयिष्यन्ति।
** क्रोधः—**हिंसे ! इत आगम्यताम्।
(प्रविश्य हिंसा)
** हिंसा—**एषास्मि ! आज्ञापयत्वार्यपुत्रः।
** क्रोधः—**प्रिये ! तावत्त्वया सहधर्मचारिण्या मातृपितृवधोऽपि ममेषत्कर एव। तथाहि—
केयं माता पिशाची, क इव हि जनको, भ्रातरः केऽत्र कीटा,
वध्योऽयं बन्धुवर्गः, कुटिलविटसुहृच्चेष्टिता ज्ञातयोऽमी।
(हस्तौ निष्पीड्य)
आगर्भं यावदेषां कुलमिदमखिलं नैव निःशेषयामि
स्फूर्जन्तः क्रोधवह्नेर्न दधति विरतिं तावदङ्गे स्फुलिङ्गाः॥२०॥
(विलोक्य) एष स्वामी। तदुपसर्पामः। (सर्वे उपसृत्य) जयतु जयतु देवः।
** महामोहः—**श्रद्धायास्तनया शान्तिरस्मद्वेषिणी। सा भवद्भिरवहितैर्निर्ग्राह्येति।
** सर्वे—**यदादिशति देवः।
(इति निष्क्रान्ताः।)
** महामोहः**—श्रद्धायास्तनया इत्युपक्षेपेणोपायान्तरमपि हृदयमारूढम्। तथाहि। शान्तेर्माता श्रद्धा। सा च परतन्त्रा। तत् केनाप्युपााायेनोपनिषत्सकाशात्तावच्छ्रद्धापकर्षणं कर्तव्यम्। ततोमातृवियोगदुःखादतिमृदुलतया शान्तिरुपरता भविष्यति। श्रद्धां व्याक्रष्टुं मिथ्यादृष्टिरेव विलासिनी परं प्रगल्भेति तदस्मिन्विषये सैव नियुज्यताम्। (पार्श्वतो विलोक्य) विभ्रमावति ! सत्वरमाहूयतां मिथ्यादृष्टिर्विलासिनी।
** विभ्रमावती**—यद्देव आज्ञापयति।
(निष्क्रम्य मिथ्यादृष्ट्या सह प्रविशति।)
** मिथ्यादृष्टिः**—सखि ! चिरदृष्टस्य महाराजस्य कथं मुखं प्रेक्षिष्ये ? न खलु मां महाराज उपालम्भिष्यते ?
** विभ्रमावती**—सखि ! त्वन्मुखदर्शनेनात्मानमेव महाराजो न वेत्स्यति। कुत उपालम्भिष्यते ?
** मिथ्यादृष्टिः**—सखि ! किं मामलीकसौभाग्यां संभाव्य विडम्बयसि ?
** विभ्रमावती**—सखि ! सांप्रतमेव प्रेक्षिष्येऽलीकत्वं सौभाग्यस्य। एष महाराजः। उपसर्पतु प्रियसखी**।**
** मिथ्यादृष्टिः—**(उपसृत्य) जयतु जयतु महाराजः। आज्ञापयतु महाराजः किंनिमित्तं भट्टारकेण स्मृतास्मि ?
** महामोहः**—प्रिये !
स्मर्यते सा हि वामोरु ! या भवेद्धृदयाद्वहिः।
मञ्चित्तभित्तौ भवती शालभञ्जीव राजते॥३१॥
** मिथ्यादृष्टिः—**महान्प्रसादः।
** महामोहः—**यथैव प्रकाशितैरङ्गैः सर्वत्र विचरसि तथैव प्रवर्तितव्यम्। अन्यच्च दाश्याः पुत्री श्रद्धा विवेकेन सहोपनि- षदंसंयोजयितुं कुट्टिनीभावं प्रतिपन्ना। अतः—
प्रतिकूलामकुलजां पापां पापानुवर्तिनीम्।
केशेष्बाकृष्य तां रण्डां पाषण्डेषु निवेशय॥३२॥
** मिथ्यादृष्टिः—**एतावन्मात्रेऽपि विषये अलं भर्तुरभिनिवेशेन। वचनमात्रेणैवभर्तुर्दासी श्रद्धा सर्वामाज्ञां करिष्यति। सा खलु मया मिथ्या धर्मो, मिथ्या मोक्षो, मिथ्या वेदमार्गो, मिथ्या सुखविघ्नकराणि, मिथ्या शास्त्रप्रलपितानि, मिथ्या स्वर्गफलमिति भण्यमाना वेदमार्गमेव परिहरिष्यति, किं पुनरुपनिषदम् ? अपि च, विषयानन्दविमुक्ते मोक्षे दोषान्दर्शयन्त्या उपनिषदोऽपि विरक्ता करिष्यतेऽचिरं मया श्रद्धा।
** महामोहः—**यद्येवं ,सुष्ठु, मे प्रियं संपादितं प्रियया। तद्भवतु। स्वागारमेव प्रविशामः।
(इति निष्क्रान्ताः सर्वे।)
इतिश्रीकृष्णमिश्रविरचिते प्रबोधचन्द्रोदयनाम्नि नाटके द्वितीयोऽङ्कः॥२॥
सन्धिच्छेद
** विदूषकः—**अपि निद्राति भवान् ?
** चारुदत्तः—**अथ किम् ?
इयं हि निद्रा नयनावलम्बिनी
ललाटदेशादुपसर्पतीव माम्।
अदृश्यरूपा चपला जरेव या
मनुष्यसत्त्वं परिभूय वर्धते॥१॥
** विदूषकः—तत्स्वपिवः।**(नाट्येन स्वपिति)
(ततः प्रविशति शर्विलकः।)
** शर्विलकः—**
कृत्वा शरीरपरिणाहसुखप्रवेशं
शिक्षाबलेन च बलेन च कर्ममार्गम्।
गच्छामि भूमिपरिसर्पणघृष्टपार्श्वो-
निर्मुच्यमान इव जीर्णतनुर्भुजङ्गः॥२॥
(नभोऽवलोक्य सहर्षम्।) अये, कथमस्तमुपगच्छति स भगवान्मृगाङ्कः ? तथा हि—
नृपतिपुरुषशङ्कितप्रचारं
परगृहदूषणनिश्चितैकवीरम्।
घनपटलतमोनिरुद्धतारा
रजनिरियं जननीव संवृणोति॥३॥
वृक्षवाटिकापरिसरे संधि कृत्वा प्रविष्टोऽस्मि मध्यमकम्। तद्यावत् इदानीं चतुःशालकमपि दूषयामि। भोः,
कामं नीचमिदं वदन्तु पुरुषाः स्वप्ने च यद्वर्धते
विश्वस्तेषु च वञ्चनापरिभवश्चौर्यं न शौर्यं हि तत्।
स्वाधीना वचनीयतापि हि वरं बद्धो न सेवाञ्जलि -
र्मार्गो ह्येष नरेन्द्रसौप्तिकवधे पूर्वं कृतो द्रोणिना॥४॥
तत्कस्मिन्नुद्देशे संधिमुत्पादयामि ?
देशः को नु जलावसेकशिथिलो यस्मिन्न शब्दो भवे-
द्भित्तीनां च न दर्शनान्तरगतः संधिः करालो भवेत्।
क्षारक्षीणतया च लोष्टककुशं जीर्णं क्व हर्म्यं भवे-
त्कस्मिन्स्त्रीजनदर्शनं च न भवेत्स्यादर्थसिद्धिश्च मे॥५॥
(भितिं परामृश्य।) नित्याऽऽदित्यदर्शनोदकसेचनेन दूषितेयं भूमिः क्षारक्षीणा।मूषिकोत्करश्चेह। हन्त, सिद्धोऽय- मर्थः। प्रथममेतत्स्कन्दपुत्राणां सिद्धिलक्षणम्। अत्र कर्मप्रारभे। कीदृशमिदानीं संधिमुत्पादयामि ? इह खलु भगवता कनकशक्तिना चतुर्विधः संध्युपायोदर्शितः। तद्यथा—पक्वेष्टकानामाकर्षणम्, आमेष्टकानां छेदनम्, पिण्डमयानां सेचनम्, काष्ठमयानां पाटनमिति। तदत्र पक्वेष्टके इष्टिकाकर्षणम्। तत्र —
पद्मव्याकोशं भास्करं बालचन्द्रं
वापी विस्तीर्णं स्वस्तिकं पूर्णकुम्भम्।
तत्कस्मिन्देशे दर्शयाम्यात्मशिल्पं
दृष्ट्वा श्वोयं यद्विस्मयं यान्ति पौराः॥६॥
तदत्र पक्वेष्टके पूर्णकुम्भ एव शोभते। तमुत्पादयामि।
अन्यासु भित्तिषु मया निशि पाटितासु
क्षारक्षतासु विषमासु च कल्पनासु।
दृष्ट्वा प्रभातसमये प्रतिवेशिवर्गो-
दोषांश्च मे वदति कर्मणि कौशलं च॥७॥
नमो वरदाय कुमारकार्तिकेयाय, नमः कनकशक्तये ब्रह्मण्यदेवाय देवव्रताय, नमो भास्करनन्दिने, नमो योगाचार्याय यस्याहं प्रथमः शिष्यः। तेन च परितुष्टेन योगरोचना मे दत्ता।
अनया हि समालब्धं न मां द्रक्ष्यन्ति रक्षिणः।
शस्त्रं च पतितं गात्रे रुजं नोत्पादयिष्यति॥८॥
(तथा करोति।) धिक्कष्टम्। प्रमाणसूत्रं मे विस्मृतम्। (विचिन्त्य।) आं, इदं यज्ञोपवीतं प्रमाणसूत्रं भविष्यति। यज्ञोपवीतं हि नाम ब्राह्मणस्य महदुपकरणद्रव्यम्, विशेषतोऽस्मद्विधस्य। कुतः—
एतेन मापयति भित्तिषु कर्ममार्ग-
मेतेन मोचयति भूषणसंप्रयोगान्।
उद्घाटको भवति यन्त्रदृढे कपाटे
दष्टस्य कीटभुजगैः परिवेष्टनं च॥९॥
मापयित्वा कर्म समारभे। (तथा कृत्वाऽवलोक्य च।) एकलोष्टाऽवशेषोऽयं संधिः। धिक्कष्टम्। अहिना दष्टोऽस्मि। (यज्ञोपवीतेनाङ्गुलीं बध्या विषवेग नाटयति। चिकित्सां कृत्वा।) स्वस्थोऽस्मि।(पुनः कर्म कृत्वा दृष्ट्वा च।) अये, ज्वलति प्रदीपः। तथा हि—
शिखा प्रदीपस्य सुवर्णपिञ्जरा
महीतले संधिमुखेन निर्गता।
विभाति पर्यन्ततमः समावृता
सुवर्णरेखेव कषे निवेशिता॥१०॥
(पुनः कर्म कृत्वा।) समाप्तोऽयं संधिः। भवतु। प्रविशामि। अथवा न तावत्प्रविशामि। प्रतिपुरुषं निवेशयामि। (तथा कृत्वा।) अये, न कश्चित्। नमः कार्तिकेयाय। (प्रविश्य दृष्ट्वा च। अये, पुरुष—
द्वयं सुप्तम्। भवतु। आत्मरक्षार्थ द्वारमुद्घाटयामि। कथं, जीर्णत्वाद्गृहस्य विरौति कपाटम्। तद्यावत्सलिलमन्वेषयामि। क्वनु खलु सलिलं भविष्यति ? (इतस्ततो दृष्ट्वा सलिल गृहीत्वा क्षिपन्सशङ्कम्।) मा तावद्भूमौ पतच्छब्दमुत्पादयेत्। भवतु। एवं तावत्। (पृष्ठेन प्रतीच्छ्य कपाटमुद्घाट्य।) एवं तावत्। इदानीं परीक्षे किं लक्ष्यसुप्तम्, उत परमार्थसुप्तमिदं द्वयम् ? तथा हि—
निःश्वासोऽस्य न शङ्कितः सुविशदस्तुल्यान्तरं वर्तते
दृष्टिर्गाढनिमीलिता न विकला नाभ्यन्तरे चञ्चला।
गात्र स्त्रस्तशरीरसंधिशिथिलं शय्याप्रमाणाधिकं
दीपं चापि न मर्षयेदभिमुखं स्याल्लक्ष्यसुप्तं यदि॥११॥
(ममन्तादवलोक्य।) अये, कथ मृदङ्गः ? अयं दर्दुरः। अयं पणवः इयमपि वीणा। एते वंशाः। अमी पुस्तकाः। कथं नाट्याचार्यस्य गृहमिदम् ? अथवा भवनप्रत्ययात्प्रविष्टाऽस्मि। तत्किं परमार्थदरिद्रोऽयम्, उत राजभयाच्चौरभयाद्वा भूमिष्ठं द्रव्यं धारयति ? तन्ममापि नाम शर्विलकस्य भूमिष्ठं द्रव्यम् ? भवतु बीज प्रक्षिपामि। (तथा कृत्वा।) निक्षिप्तं बीजं न क्वचित्स्फारीभवति। अये, परमार्थदरिद्रोऽयम्। भवतु।गच्छामि।
** विदूषकः —**(उत्स्वप्नायते।) भो वयस्य ! संधिरिव दृश्यते। चौरमिव पश्यामि \। तद्गृह्णातु भवानिदं सुवर्णभा- ण्डम्।
** शर्विलकः—**किं नु खल्वयमिह मां प्रविष्टं ज्ञात्वा दरिद्रोऽस्मीत्युपहसति? तत्किं व्यापादयामि, उत लघुत्वादु- त्स्वप्नायते ? (दृष्ट्वा।) अये, जर्जरस्नानशाटीनिबद्धदीपप्रभयोद्दीपितं सत्यमेवैतदलंकरणभाण्डम्। भवतु। गृह्णामि। अथवा न युक्तं तुल्यावस्थ कुलपुत्रजनं पीडयितुम्। तद्गच्छामि।
** विदूषकः—**भो वयस्य ! शापितोऽसि गोब्राह्मणकाम्यया, यद्येतत् सुवर्णभाण्डं न गृह्णासि।
** शर्विलकः**—अनतिक्रमणीया भगवती गोकाम्या ब्राह्मणकाम्या च। तद्गृह्णामि। अथवा ज्वलति प्रदीपः। अस्ति च मया प्रदीपनिर्वापणार्थमाग्नेयः कीटो धार्यते। तं तावत्प्रवेशयामि। तस्यायं देशकालः। एष मुक्तो मया कीटो यात्वेवास्य दीपस्योपरि मण्डलैर्विचित्रैर्विचरितुम्। एष पक्षद्रयानिलेन निर्वापितो भद्रपीठेन। धिक्कृतमन्धकारम्। अथवा मयाप्यस्मद्ब्राह्मणकुलेन। धिक्कृतमन्धकारम्।अहं हि चतुर्वेदविदोऽप्रतिग्राहकस्य पुत्रः शर्विलको नाम ब्राह्मणोगणिकामदनिकार्थमकार्यमनुतिष्ठामि। इदानीं करोमि ब्राह्मणस्य प्रणयम्। (इति जिघृक्षति।)
** विदूषकः—**भो वयस्य ! शीतलस्तेऽग्रहस्तः।
** शर्विलकः—**धिक्प्रमादः। सलिलसंपर्काच्छीतलो मेऽग्रहस्तः। भवतु। कक्षयोर्हस्तं प्रक्षिपामि। (नाट्येन सव्यह- स्तमुष्णीकृत्य गृह्णाति।)
** विदूषकः—**गृहीतम् ?
** शर्विलकः—**अनतिक्रमणीयोऽयं ब्राह्मणप्रणयः। तद्गृहीतम्।
** विदूषकः—**इदानीं विक्रीतपण्य इव वणिक् अह सुखं स्वप्स्यामि।
** शर्विलकः—**महाब्राह्मण ! स्वपिहि वर्षशतम्। कष्टम्। एवं मदनिकागणिकार्थे ब्राह्मणकुलं तमसि पातितम्। अथवा आत्मा पातितः।
धिगस्तु खलु दारिद्र्यमनिर्वेदितपौरुषम्।
यदेतद्गर्हितं कर्म निन्दामि च करोमि च ॥१२॥
तद्यावन्मदनिकाया निष्क्रयणार्थं वसन्तसेनागृहं गच्छामि। (परिक्रम्यावलोक्य च।) अये, पदशब्द इव। मा नाम रक्षिणः। भवतु। स्तम्भीभूत्वा तिष्ठामि। अथवा ममापि नाम शर्विलकस्य रक्षिणः ?योऽहं—
मार्जारः क्रमणे, मृगः प्रसरणे, श्येनो ग्रहालुञ्चने,
सुप्तासुप्तमनुष्यवीर्यतुलने श्वा, सपणे पन्नगः।
माया रूपशरीरवेशरचने, वाग् देशभाषान्तरे,
दीपो रात्रिषु, संकटेषु डुडुमो, वाजी स्थले, नौर्जले॥१३॥
अपि च।
भुजग इव गतौ, गिरिः स्थिरत्वे
पतगपतेः परिसर्पणे च तुल्यः।
शश इव भुवनावलोकनेऽहं
वृक इव च ग्रहणे, बले च सिंहः॥१४॥
(प्रविश्य)
** रदनिका—**हा धिक् हा धिक्। बहिर्द्वारशालायां प्रसुप्तो वर्धमानकः। सोऽप्यत्र न दृश्यते। भवतु। आर्यमैत्रेयमाह्वयामि। (इति परिक्रामति)
** शर्विलकः—**(रदनिकां हन्तुमिच्छति। निरुप्य।) कथं स्त्री ? भवतु। गच्छामि। (इति निष्क्रान्तः।)
** रदनिका—**हा धिक् हा धिक्। अस्माकं गृहे संधिं कर्तयित्वा चौरोनिष्क्रामति। भवतु। मैत्रेयं गत्वा प्रबोधयामि। आर्यमैत्रेय ! उत्तिष्ठ उतिष्ठ। अस्माकं गेहे संधि कर्तयित्वा चौरो निष्क्रान्तः।
** विदूषकः—**आः दास्याः पुत्रिके ! किं भणसि—‘चोरं कर्तयित्वा संधिर्निष्क्रान्तः ?
** रदनिका—**हताश ! अलं परिहासेन। किं न प्रेक्षसे एतत् ?
** विदूषकः—**आ दास्याः पुत्रिके ! किं भणसि—‘द्वितीयमिव द्वारमुद्धाटितम्’ इति। भो वयस्य चारुदत्त ! उत्तिष्ठोत्तिष्ठ। अस्माकं गेहे संधि दत्त्वा चौरो निष्क्रान्तः।
** चारुदत्तः—**भवतु। भोः, अलं परिहासेन।
** विदूषकः—**भो, न परिहासः। प्रेक्षतां भवान्।
** चारुदत्तः—**कस्मिन्नुद्देशे ?
** विदूषकः—**भोः, एषः।
** चारुदतः—**(विलोक्य।) अहो दर्शनीयोऽयं संधिः।
उपरितलनिपातितेष्टकोऽयं
शिरसि तनुर्विपुलश्च मध्यदेशे।
असदृशजनसंप्रयोगभीरो-
र्हृदयमिव स्फुटितं महागृहस्य॥१५॥
कथमस्मिन्नपि कर्मणि कुशलता ?
(मृच्छकटिकस्य तृतीयाङ्कात् )
प्रातः काल वर्णनम्
(ततः प्रविशति सुप्तोत्थितः कण्वशिष्यः )
** शिष्यः—**वेलोपलक्षणार्थमादिष्टोस्मि तत्र भवता, प्रवासात् प्रतिनिवृत्तेन कण्वेन, तन्निर्गत्याऽवलोकयामि, कियदवशिष्टंरजन्याइति। (परिक्रम्याऽवलोक्य च) हन्त, प्रभातप्राया रजनी। तथाहि—
यात्येकतोऽस्तशिखरं पतिरोषधीनां
आविष्कृताऽरुणपुरस्सर एकतोऽर्कः।
तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां
लोको नियम्यत इवैष दशान्तरेषु॥१॥
अपि च—
अन्तर्हिते शशिनि सैव कुमुद्वतीयं
दृष्टिं न नन्दयति संस्मरणीयशोभा।
इष्टप्रवासजनितान्यबलाजनेन
दुःखानि नूनमतिमात्र सुदुःसहानि॥२॥
कर्कन्धूनामुपरितुहिनं रञ्जयत्यग्रसन्ध्या
दार्भं मुञ्चत्युटजपटलं वीतनिद्रोमयूरः।
वेदिप्रान्तात्खुरविलिखितादुत्थितश्चैष सद्यः
पश्चादुच्चैर्भवति हरिणः स्वाङ्गमायच्छमानः॥३॥
पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः
क्रान्तं येन क्षयिततमसा मध्यमं धाम विष्णोः।
सोऽयं चन्द्रः पतति गगनादल्पशेषैर्मयूखैः
अत्यारूढिर्भवति महतामप्यपभ्रंशनिष्ठा॥४॥
यावदुपस्थितां होमवेलां गुरवे निवेदयामि॥
(इतिनिष्क्रान्तः )
(अभिज्ञान शाकुन्तलस्यचतुर्थाऽङ्कात्।)
अन्योक्तयः
साधवः
उपरि करवालधाराऽऽकाराः क्रूरा भुजङ्गमपुंगवात्।
अन्तः साक्षाद् द्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः॥१॥
आम्रः
पृष्टाः खलु परपुष्टाः परितो दृष्टाश्च विटपिनः सर्वे।
माकन्द ! न प्रपेदे मधुपेन तवोपमा जगति॥२॥
कूपः
नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः
अत्यन्तसरसहृदयो यतः परेषां गुण ग्रहीतासि॥३॥
कोकिलः
तावत् कोकिल ! विरसान्यापय दिवसान् वनान्तरे निवसन्।
यावन् मिलदलिमालः कोऽपि रसालः समुल्लसति॥४॥
चन्दनम्
पाटीर ! तव पाटीयान्कः परीपाटी मिमामुरीकर्तुम् \।
यत् पिषतामपि नृणां पिष्टोऽपि तनोषि परिमलैः पुष्टिम्॥५॥
भ्रमरः
येनाऽमन्दमरन्दे दलदरविन्दे दिनान्यनायिषत।
कुटजे खलु तेनेहा तेने हा मधुकरेण कथम्॥६॥
मेघः
नापेक्षा न च दाक्षिण्यं, न प्रीति र्न च संगतिः।
तथापि हरते तापं, लोकानामुन्नतो घनः॥७॥
मेघः
श्रृण्वन् पुरः परुषगर्जितमस्य हन्त,
रे पान्थ ! विह्वलमनानि मनागपि स्याः।
विश्वार्तिवारणसमर्पितजीवनोऽयम्
नाकर्णितः किमु सखे ! भवताम्बुवाहः॥८॥
आरामाधिपति र्विवेविकलो नूनं रसा नीरसा,
वात्याभिः परुषीकृता दशदिश श्चण्डातपो दुःसहः।
एवं धन्वनि चम्पकस्य सकले संहारहेता वपि,
त्वं सिञ्चन्नमृतेन तोयद ! कुतोऽप्याविष्कृतो वेधसा॥९॥
ग्रीष्मे भीष्मतरैः करैर्दिनकृता दग्धोऽपि यश्चातकः
त्वां ध्यायन् घन ! वासरान् कथमपि द्राधीयसो नीतवान्।
दैवाल्लोचनगोचरेण भवता तस्मिन्निदानीं यदि,
स्वीचक्रे करकानिपातनकृपा ,तत् कं प्रति ब्रूमहे॥१०॥
( पंडितराजस्य जगन्नाथस्य )
कमलिनी
मकलिनि ! मलिनीकरोषि चेतः,
किमिति बकैरवहेलितानभिज्ञैः।
परिणतमकरन्दमार्मिकास्ते,
जगति भवन्तु चिंरायुषो मिलिन्दाः॥११॥
कमलम्
अयि दलदरविन्द ! स्पन्दमानं मरन्दम्,
तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गाः।
दिशि दिशि निरपेक्ष स्तावकीनं विवृण्वन्,
परिमल मयमन्यो बान्धवो गन्धवाहः॥१२॥
सिंहः
न यत्र स्थेमानं दधुरतिभयभ्रान्तनयना-
गलद्दानोद्रेकभ्रमदलिकदम्बा करटिनः।
लुठन्मुक्ताभारे भवति परलोकं गतवतो-
हरेरद्य द्वारे शिव शिव शिवानां कलकलः॥१३॥
हंसः
पुरा सरसि मानसे विकचसारसाऽलिस्खल-
त्परागसुरभीकृते पयसि यस्य यातं वयः।
स पल्वलजलेऽधुना मिलदनेकभेकाकुले,
मरालकुलनायकः कथय रे कथं वर्त्तताम्॥१४॥
गिरितरुः
मूलं स्थूलमतीवबन्धनदृढं शाखाः शतं मांसला-
वासो दुर्गमहीधरे तरुपते ! कुत्राऽस्ति भीतिस्तव।
एकः किंतु मनागयं जनयति स्वान्ते ममाधिज्वरम्,
ज्वालालीवलयीभवन्नकरुणो दावानलो घस्मरः॥१५॥
मार्गसरः
यातेमय्यचिरान्निदाघमिहिरज्वालाशतैः शुष्कतां,
गन्ता कं प्रति पान्थसंततिरसौ संतापमालाऽऽकुला।
एवं यस्य निरन्तराधिपटलै र्नित्यं वपुः क्षीयते,
धन्यं जीवनमस्य मार्गसरसो धिग्वारिधीनां जनुः॥१६॥
सज्जन प्रशंसा
विवेकः सह संगत्या विनयो विद्यया सह।
प्रभुत्वं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम्॥१७॥
सज्जन एव हि विद्या शोभायै भवति दुर्जने मोघा।
न विदूरदर्शनतया कैश्चिदुपादीयते गृध्रः॥१८॥
भवति सुभगत्वमधिकं विस्तारितपरगुणस्य सुजनस्य।
वहति विकासितकुमुदो द्विगुणरुचिं हिमकरोद्योतः॥१९॥
(सुबन्धोः)
अतिकुपिता अपि सुजना योगेन मृदृभवन्ति न तु नीचाः।
हेम्नः कठिनस्यापि, द्रवणोपायोऽस्ति न तृणानाम्॥२०॥
विषमगता अपि न बुधाः परिभवमिश्रां श्रियं हि वाञ्छन्ति।
न पिबंति भौममम्भः, सरजसमिति चातका एते॥२१॥
साप्तपदीनं सख्यं भवेत् प्रकृत्या विशुद्धचित्तानाम्।
किमुतान्योन्यगुणकथा विस्रम्भनिबद्धभावानाम्॥२२॥
स्पृहणीयाः कस्य न ते सुमतेः सरलाशया महात्मानः।
त्रयमपि येषां सदृशं हृदयं वचनं तथाचारः॥२३॥
दाता न दापयति दापयिता न दत्ते,
यो दानदापनपरो मधुरं न वक्ति।
दानं न दापनमथो मधुरा च वाणी,
त्रीण्यप्यमूनि खलु सत्पुरुषे वसन्ति॥२४॥
प्रियप्रायाबृत्तिर्विनयमधुरो वाचिनियमः।
प्रकृत्या कल्याणी मति रनवगीतः परिचयः।
पुरो वा पश्चाद् वा तदिदमविपर्यासितरसं
रहस्यं साधूना मनुपधि विशुद्धं विजयते॥२५॥
(भवभूतेः)
स्वाम्ये ! पेशलता, गुणे प्रणयिता, हर्षे निरुत्सेकिता,
पत्रे संवृतता श्रुते सुमतिता वित्तोदये त्यागिता।
साधौ सादरता खले विमुखता पापे परं भीरुता,
दुःखे क्लेशसहिष्णुता च महतां कल्याणमाकांक्षति॥२६॥
दान प्रशंसा
मीयतां कथमभीप्सितमेषां दीयतां द्रुतमयाचितमेव।
तं धिगस्तु कलयन्नपि वाञ्छामर्थिवागवसरं सहते यः॥२७॥
उदार प्रशंसा
नाक्षराणि पठता किमपाठि पाठितोऽपि किमु विस्मृत एव।
इत्थमर्थिजनसंशयदोलाखेलतां खलु चकार नकारः॥२८॥
वाग्मि प्रशंसा
तद्वक्ता सदसि ब्रवीतु वचनं यच्छृण्वतां चेतसः,
प्रोल्लासं रसपूणं श्रवणयो रक्ष्णोर्विकास श्रियम्।
क्षुन्निद्राश्रमदुःखकालगतिहृत् कार्यान्तरप्रस्मृतिम्,
प्रोत्कण्ठामानशं श्रुतौ वितनुते, शोकं विरामादपि॥२९॥
सुकवि प्रशंसा
सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे।
उत्पादका न बहवः कवयः शरभा इव॥३०॥
(बाणभट्टस्य)
विनय प्रशंसा
तिष्ठतां तपसि पुण्यमासजन् संपदोऽनुगुणयन् सुखैषिणाम्।
योगिनां परिणमन् विमुक्तये केन मास्तु विनयः सतां प्रियः॥३१॥
(भारवेः)
धननिन्दा।
लभेद्यदयुतं धनं तदधनं धनं यद्यपि
लभेत नियुतं धनं निधनमेव तज्जायते।
तथा धनपरार्धकं तदपि भावहीनात्मकं
यदक्षर पदद्वयान्तरगतं धनं तद्धनम्॥३२॥
अर्जुनीयति यदर्जने जनो वर्जनीयजनतर्जनादिभिः।
मङ्क्षु नश्यति चिराय संचिता वञ्चिता जगति के न संपदा॥३३॥
याचकनिन्दा
द्वारे द्वारे परेषामविरलमटति द्वारपालैः करालैः
दृष्टो योऽप्याहतः सन् रणति गणयति स्वापमानंतु नैव।
क्षन्तुं शक्नोति नान्यं स्वसदृशमितराऽऽगार मप्याश्रयन्तं
श्राम्यत्यात्मोदरार्थे कथमहह शुना नो समो याचकः स्यात्॥३४॥
कृतघ्ननिन्दा
शोकं मा कुरु कुक्कुर ! सत्वेष्वहमधम इति मुधा साधो !
कष्टादपि कष्टतरं दृष्ट्वा श्वानं कृतघ्ननामानम्॥३५॥
दुर्जन निन्दा
अकारणाऽऽविष्कृतवैरदारुणात्,
असज्जनात् कस्य भयं न जायते।
विषं महाहेरिव यस्य दुर्वचः,
सुदुःसहं संनिहितं सदा मुखे॥३६॥
(बाणस्य)
उदर पूरण दूषणम्
कंधरां समपहाय कं धरां प्राप्य संयति जहास कस्यचित्।
मां किलानमयतः स्वपूर्तये दुर्भरात्किमुदराद्वियोगतः॥३७॥
जरावर्णनम्
यममिव करधृतदण्डं हरिमिव सगदं शशाङ्कमिव वक्रम्।
शिवमिव च विरूपाक्षं जरा करोत्यकृतपुण्यमपि॥३८॥
दैवाख्यानम्
आहारे शुचिता ध्वनौ मधुरता वाचालता माधवे,
बन्धौ निर्ममता जनेषु निरता नीडे पराधीनता।
ऐतैरेव गुणैर्युताः परभृतास्त्यत्त्क्वाकिमेते जनाः,
वन्दन्ते खलु खञ्जनं कृमिभुजं चित्रा गतिः कर्मणाम्॥३९॥
सामान्यनीतिः
परोऽवजानाति यदज्ञताजड-
स्तदुन्नतानां न विहन्ति धीरताम्।
समान वीर्याऽन्वयपौरुषेषु यः
करोत्यतिक्रान्ति मसौ तिरस्क्रिया॥४०॥
यदाविगृह्णाति हततदा यशः
करोति मैत्रीमथ दृषिता गुणाः।
स्थितिं समीक्ष्योभयथा परीक्षकः,
करोत्यवशोपहतं पृथग्जनम्॥४१॥
स्तुवंति गुर्वीमभिधेयसंपदं
विशुद्धि मुक्तेरपरे विपश्चतः।
इतिस्थितायां प्रति पूरुषं रुचौ,
सुदुर्लभाः सर्वमनोरमा गिरः॥४२॥
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा।
नीचैर्गच्छत्युपाेर च दशा चक्रनेमिक्रमेण॥४३॥
(कालिदासस्य)
आत्मारामा विहितरतयो निर्विकल्पे समाधौ,
ज्ञानोत्सेकाद् विघटिततमोग्रन्थयः सत्वनिष्ठाः।
यंवीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात्
तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम्॥४४॥
(भट्टनारायणस्य)
लघौलघावेव पुरःसरे वुधै-
र्विधेयमुत्तेजनमात्मतेजसः।
तृणे तृणेढि ज्वलनः खलुज्वलन्
क्रमात् करीषद्रुमकाण्डमण्डलम्॥४५॥
(श्रीहर्षस्य)
विद्वज्जनसंपर्को नष्टेष्टज्ञातिदर्शनाभ्युदयः।
कस्य न सुखाय भवने भवति महानर्थलाभश्च॥४६॥
(बाणभट्टस्य)
मद्वाणि ! मा कुरु विषादमनादरेण,
मात्सर्य मग्नमनसां सहसा खलानाम्।
काव्यारविन्दमकरन्दमधुव्रतानाम्,
आस्येषु धास्यतितमां कियतो विलासान्॥४७॥
निर्माणे यदि, मार्मिकोऽसि नितरामत्यन्तपाकद्रव-
न्मृद्वीकामधुमाधुरीमदपरीहारोद्धुराणां गिराम्।
काव्यं तर्हि सखे ! सुखेन कथय त्वं संमुखं मादृशाम्,
नो चेद्दुष्कृतमात्मना कृतमित्र स्वान्ताद् बहिर्मा कृथाः॥४८॥
तीर्थं किं हरिपादपद्मभजनं किं रत्न मच्छामतिः,
किं शास्त्रं श्रवणेन यस्य गलति द्वैताऽन्धकारोदयः।
किं मित्रं सततोपकाररसिकं तत्वावबोधः सखे !
कः शत्रुर्वद खेददानकुशलो दुर्वासनानां चयः॥४९॥
आ मूलाद्रत्नसानोर्मलयबलयितादा च कूलात् पयोधेः,
यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु।
मृद्वीका मध्यनिर्यन्मसृण रसझरी माधुरी भाग्यभाजाम्
वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्योमदन्यः॥५०॥
वेदस्याध्ययनं कृतं, परिचितं शास्त्रं, पुराणं स्मृतं
सर्वं व्यर्थमिदं , पदं न कमलाकान्तस्य चेत्कीर्त्तितम्।
उत्खातं, सदृशीकृतं विरचितः सेकोऽम्भसा भूयसा
सर्वं निष्फलमालवालवलये क्षिप्तं न बीजं यदि॥५१॥
(पंडित राजस्य)
इति सुभाषितानि
इति तृतीयो बिन्दुः
]