[[साहित्यसुधासंग्रहः (प्रथमबिन्दुः) Source: EB]]

[

[TABLE]

[TABLE]

पूर्वाभाषणम्

मानुषवाङ्मयमात्रेरसात्मिका हि वाणी मानवानां मनांसिबलाद्वशीकरोत्येव, परं सुरवाणीसाहित्यस्य सुमनांसि केनाप्यपूर्वेण सौरभेण सहृदयानां हृदयानि यथाह्लादयन्ति मदयन्ति च, न तथेतरासांभाषाणां कविताकलापः। गीर्वाणवाणीसाहित्य-सुधामास्वादमास्वादं यमानन्दं चेतोऽनुविन्दते, तस्य शतांशमपि नोपलभ्यतेऽन्यत्रेत्यत्र देववाणी विशारदा एव प्रमाणम्। संस्कृतवाण्यां विविधभावप्रादुर्भावसमर्थानां शब्दानां कोशस्य विशालताऽत्र प्रथमो हेतुः। यथानानार्थ-व्यञ्जकैरनन्तशब्दैःविविधाः परः संख्याः श्लेषादयोऽलंकाराःसंस्कृतसाहित्ये निर्मीयन्ते, विविधरसानां परिपाकश्च जायते, तथा मितार्थशब्दकृच्छ्रताक्षीणकलेवरासु परवाक्षु भवितुं नार्हति। संस्कृतसाहित्ये हि शब्दालङ्काराणामर्थालङ्काराणाञ्च या संख्या दरीदृश्यते,तेषामवान्तरभेदानाञ्च यो विस्तरो वरीवर्ति, नवानां दशानां वारसानां यथाविध परिपोषश्च जायते, तदितरभाषा- कवितायां लेशतोऽपि न कुत्रापि प्राप्यते। इतरभाषासु वृत्तमयमेव वाङ्मयं कवितापदभाग्भवति, तत्रैव चमत्कृतेरुपलम्भात्, परं संस्कृतसाहित्येगद्ये पद्ये च द्वयोः समाना कविताश्रीर्विराजते, उभयत्र रमणीयार्थप्रतिपादकशब्दानां विलासात्।

संस्कृतसाहित्यस्य सर्वश्रेष्ठविशिष्टशोभाधायकत्वे वैदिकार्याणांपरिस्थितिविशेषः आर्यभूमौ भारतवर्षे च तेषामादिमो निवासोऽपरंकारणम्। भारतीयार्याणामाद्यपूर्वपुरुषाणामेव विमलमानसमुकुरेषुपुराणपुरुषस्यानादिकवेस्तत्काव्यस्य ज्योतिरुदियाय यस्य विषये“पश्य देवस्य काव्यं न ममार न जीर्यतीति” श्रुतिर्जागर्तितराम्। अनादिकवस्तित् पुराणं काव्यमेव सततमधीयाना आर्यपुरुषोत्तमाःनिसर्गत एव कविताप्रणयिनः काव्यरसिकाश्च संबभूवुः। तेषां नित्यंव्यवहार्याणि वाक्यान्यपि कवितामयान्येव जातानि। तेनैव हेतुनासंस्कृतस्यापभ्रंशभूताया हिन्दीभाषाया व्रजभाषाया वापि माधुर्यां कापि भाषा जगतीतले तुलां नाधिरोहति। एनमेव विषयमधिकृत्यदन्तकथा प्रचलिता—यदेकः पारसीकः कविर्व्रजभाषाकवितां संग्रहीतुंव्रजमण्डलमाययौ।मध्येमार्गं कस्याश्चिद्ग्रामटिकाया रथ्यामटन्कस्याश्चिज्जलघटवाहिकायाःकुर्मायाः “सांकरी गली में माय कांकरीगडतु है” (मातः संकीर्णपद्धत्यां शर्कराः पादौ पीडयन्ति) इतिमधुरालापमश्रौषीत्। स “साँकरी काँकरी" इत्यनुप्रासपुष्ट्याभणित्या विस्मितोऽवोचत्—अहो ! यस्य देशस्य जलवाहिका ग्रामीणाःकुमार्योऽपि साधारणालापेऽनुप्रासं प्रयुञ्जते तस्य कवीनां वाचःकैरपूर्वैर्मनोहरैरलङ्कारैर्भूषिताः स्युः।

कस्यचिद्देशस्य प्राकृतिकशोभापिकवीनां प्रतिभाया विकासनेप्रबला प्रेरिका भवति, पुण्यभारतभूमेर्मनोहरविशाल-गिरिकाननानि,निर्मलसलिलप्रवाहाः सरितः, प्रशस्यशस्यक्षेत्राणि, शाश्वतहरिच्छाद्वलान्यपि भारतकवीनां वाचः प्रसभं सततं मुखरयन्ति स्म। संसारसारभूतस्य भूमण्डलललामस्य प्रकृतिदेव्याः लोलानिकेतस्य भारतवर्षस्यवसन्तवर्षाशरद्धेमन्तादयः षडृतवोऽपि भारतीयकवीनां प्रतिभामनिशमुद्बोधयामासुः। वनवासविलाससुभगस्य प्रकृतिशोभानिरीक्षण-

निरतस्यैव पुण्यसलिलां वितमसां तमसामवगाहमानस्याऽऽदिकवेर्महर्षेर्वाल्मीकेर्व्याधबाणविद्धकोञ्चदर्शनेनोत्थितः शोकः श्लोकत्वमापद्यत। तमेव श्लोकमादाय स मुनिसत्तमः सूर्यवंशावतंसस्यमर्यादापुरुषोत्तमस्य श्रीरामस्य सच्चरितवर्णनपरं रामायणरूपं तदमरममूल्यग्रन्थरत्नमग्रथ्नाद्यदपरेषां कविकुलगुरुश्रीकालिदासादीनांसकलरामयशोविस्तारक-कवीनामुपजीव्यम्, निबिडान्धकाराच्छन्नेतिवृत्तेऽज्ञानमये चास्मिन्समये परपददलितेभ्यो भारतीयेभ्यः कञ्चिदितिहास-प्रकाशमर्पयति, यस्मादेव विरलश्रुतिप्रचारेऽपि कलिकालेऽधुना धर्मभीरवो भारताभिजनाः सदाचारसरणिं शिक्षन्ते, येनैवैतद्देशीया दास्यदीना अपि जनाः समुन्नतानामपरेषां राष्ट्राणामग्रे स्वमस्तकानि समुन्नमयन्ति।

ततो द्वापरे कालिन्दीकूलकमनीयकाननेऽतिवाहितकालः कृष्णद्वैपायनर्षिप्रवरः पाण्डवानां जयज्ञापकं जयाभिधानं महाकाव्यंप्रणिनाय, यत् परस्ताज्जैमिनिसौतिप्रभृतिमुनिसत्तमैः प्रवर्धितो भारताख्यां लेभे, आर्याणाञ्च धर्मस्य, दर्शनस्य च समासेन सर्वविज्ञानानांविश्वकोशस्य पदवीं प्रापत्, यदधिकृत्य “न तदस्ति हि लोकेऽस्मिन्भारते यन्न दृश्यते” इति लोकोक्तिश्च भारतीयेषु प्रचरति, प्रशंसावादेन च यत्पञ्चमो वेदो जनैरुच्यते, महत्वाच्चमहाभारतमभिधीयते।कालक्रमेण कथ्याभाषारूपेण विरतदेववाणीप्रचारे विवृद्धविषयाभिलाषे कलियुगेऽपि शरीरसुखमेव संसारसारं मन्यमानानां मानवेन्द्राणांपरिषदामलङ्कार-भूता भासकालिदासभारविभवभूतिभट्टबाणमाघश्रीहर्षादयः सिद्धसारस्वताः समये समये सुरवाणीकवितामातुःसेवापरा आसन्। तेषां मनोरमाणि काव्यानि संप्रत्यपि भारतगौरववर्धनानि। परमाश्रयदातॄणां विषयैषिणां विलासासक्त-चेतसांधराधीशानां संगदोषाद्विलासवर्णनवचनीयता तेषां कमनीय-

कवितामपि संक्रान्तवती, येनान्यान् रसान् विहाय शृंगार एव प्रायशस्तेषांकाव्यानां वर्णनीयविषयो बभूव। “व्यवहारविदे शिवेतरक्षतये सदुपदेशयुजे” चोद्दिष्टा कविता “ध्यायतो विषयान् पुंसः संगस्तेषूपजायतेसंगात्संजायते कामः’ इति भगवद्भणितिनिविष्टानिवार्यनियमाद्विषयप्रावण्याय कामोद्दीपनाय च प्रबभूव। उक्तञ्च प्रबोधचन्द्रोदये !

  • “सन्तु–विलोकन–भाषण विलास–परिहास–केलिपरिरम्भाः।स्मरणमपि–कामिनीनामलमिह मनसो–विकाराय”॥*

प्रणेतृभिराद्याश्रमसेविभ्यः स्वप्नेऽपि नोपकल्पितानि काव्यान्येतानि सुशब्दप्रयोगपाटवोपदेशाय मनोहरवाक्यविन्यास-शिक्षणाय चपरमोपयोगितया वर्णिनां पाठ्यपुस्तकरूपेण पाठशालास्वपि प्रसरंप्रापुः, येनापरिपक्कमतयोऽपि बालाः स्वामूल्यं समयं सर्वङ्कषकामकथास्वतिवाहयामासुः। बाल्य एव शृङ्गारस्य शृंगेण मर्माहतानिमन्मथेनोन्मथ्यमानानि तेषां कोमलमनांसि विद्याविनयवर्धकब्रह्मचर्यव्रतपालनपराङ्मुखाण्यभूवन्। संलग्नसंस्काराणि नवभाजनानीव तेषां बालबुद्धयो बाल्यादेव काम-कुसंस्कारोपहता विषयसेवां स्वीकृत्येन्द्रियग्राममुच्छृङ्खलयामासुः, यौवनोन्मेषकमनीयान्यपि तेषां शरीराणीन्द्रियाणाम-निग्रहादसंयमनाद्वा निस्तेजस्कानि हतश्रीकानि चसमपद्यन्त। परिणामतः पाठप्रणाल्याऽमयाऽद्यापि काव्यपरिशीलनपरा नाना जघन्यरोगाक्रान्ता, विहतबुद्धयो, मंदमतयो, यौवनेएवजराजीर्णा, अपरजीवनं दुःखेन यापयन्तः, किमपि पराक्रमसाध्यंकार्यं नाचरन्तः स्वल्पायुष्येव संसारादस्मात् प्रतिष्ठन्ते। किन्नुकष्टमतःपरं यद्भारतीयाः सभ्यताशिखरारूढेभ्यः सर्वापर-देशीयेभ्यःस्वल्पिष्ठमायुर्मानं दधते। सर्वविनाशकं काव्याध्ययनविधिमिमं विगर्हमाणाः केचित् प्राक्तना विपश्चितः ‘काव्यालापांश्च वर्जयेदि’त्यवादिषुः।

भारतस्यपतितावस्थयानयाविदीर्णहृदयो दयार्द्रचित्तोविषयवासनाप्रवणेऽप्यस्मिन् कलिकाले विलुप्तप्रायब्रह्मचर्यप्रथा-पुनरुद्धारक आर्यसमाजसंस्थापक ऋषिप्रवरः श्रीदयानन्दोऽपि गुरुकुलानांपुनःस्थापनमुपदिशंस्तेषां पाठ्यक्रमञ्च निर्दिशन् शृंगाररसप्रधानानिकाव्यानि वर्जयामास, श्रीवाल्मीकिरामायणमहाभारतयोश्चोपादेयांशान् काव्यत्वेन पाठ्यपुस्तकेषु निर्धारयामास।

तत्स्वर्गारोहणानन्तरमाय्यर्समाजेन स्थापितेषु गुरुकुलेषुतेषामन्तेवासिनः सुकविप्रयुक्तपदालित्येन वरेण्यवचोविन्यासेन चवञ्चिता मा भवेयुरिति मनसि निधाय गुरुकुलपाठ्यप्रणाली प्रणेतारःकेषां काव्यानां के केंऽशाः पाठ्यन्तामस्माभिरिति वितर्कयामासुः।यतःसुललितभाषाप्रयोगः सुकविप्रयुक्तशब्दैरेव शिक्ष्यते, सुकविप्रयुक्तशब्दानां पठनमनिवार्यमेवेति कृत्वा मुख्ये हरिद्वारसमीपस्थ कांगड़ीगुरुकुलविश्वविद्यालये समये समये भिन्नाः भिन्नाः काव्यांशा अन्वशील्यन्त। प्रायः प्रतिवर्षं पाठ्यपुस्तकपरिवर्तनेन समुद्वेजितास्तस्याधिकारिणः पुरुषाः सर्वेषां मुख्यकाव्यानां वर्णिनामुपयोगिनोऽशांनेकत्र संग्राहयितुं संकल्पयामासुः। कठिनकार्यमेतत्सकलसंस्कृतसाहित्यपारावारीणेन केनापि परमविदुषैव सुसाध्यमासीत्, परंकांगड़ीगुरुकुल- विश्वविद्यालयस्य कृतविद्यानां महोपाध्यायानामध्यापनकार्यानवकाशवशादन्यस्माद्वा कारणान्तरात्संग्रहकार्यमिदं संपादयितुमयोग्योऽप्यहं मत्परमानुग्राहकेणोपाचार्येण श्रीरामदेव महोदयेनाज्ञप्तः। संग्रहसाधने सर्वथात्मन्यविश्वस्तोऽप्ययं जन “आज्ञाप्रभूणांह्यविलिंघनीयेत्यनुसृत्य विद्वद्वर्य्यविद्यावाचस्पतिवेदान्तसांख्यतीर्थोपाधिकव्याकरणमहोपाध्याय श्री पंडित-कन्हैयालालशास्त्रिभिर्दत्तावलंबो, मित्रवर्यैः साहित्यमहोपाध्याय श्री पंडित वागीश्वर विद्यालंकारैश्चप्रतिश्रुतसाहाय्यो दुस्तरेऽपि कार्येऽस्मिन् प्रावर्त्तत।

प्रशंसितानां महानुभावनां साहाय्येनानुमत्या चस्वस्वल्पसामर्थ्यानुसारेणैवैतत्साहित्यसंग्रहं कृतवानस्मि। तदिदं सम्प्रति प्रथमम् पाण्डुलिपिरूपेण विदुषामग्रेसमुपाह्रियते, द्वितीयमुद्रणावसरे च तेषां परामर्शा नादाय समुचितं संस्करणमेष्यति। विषय-विषमपवाह्य वर्णिभ्यःसंजीवनप्रापणप्रेप्सया संग्रहेऽस्मिन् सुधात्वारोपादस्य नाम साहित्यसुधासंग्रहः कृतः। स च काँगड़ी-गुरुकुलविश्वविद्यालये महाविद्यालयविभागस्य चतुर्वर्षव्यापिश्रेणिचतुष्टयात्मकत्वात् प्रत्येकं श्रेणिनिमित्तं चतुर्षु बिन्दुषुविभज्यते। मंगलाचरणार्थं प्रत्येकं बिन्दुराऽऽदिकाव्येन वेदेन प्रारभ्यते। प्रथमो बिन्दुः प्रथमश्रेण्यैउद्दिष्टः सुगमतरैरथर्वसूक्तैरुद्धाट्यते, ततस्तस्मिन् कालानुक्रमेण धरामिमामलंकृतवताम् प्रातःस्मरणीयानां कविकुलगौरवाणां वाल्मीकिव्यासपतञ्जलिप्रभृतीनां वाग्विलासाः संगृहीताः। प्रत्येकंबिन्दोरन्तिमे भागेसभाचातुर्योपयोगीनि मनोरंजकानि कतिचित् पद्यानि प्रदत्तानि।

अवसाने चेदं पुनरुक्तवदेवयत्स्वक्षुद्रमत्यनुरूपं कृतोऽप्ययंसंग्रहः परमकृपालूनां प्राक् प्रशंसितानां महाशयानामेव साहाय्येनप्रस्तुतं रूपं प्राप। माननीयमित्रमुपाचार्यो विद्वद्वरेण्यः श्रीराम देवमहोदयोऽप्यस्यक्रमविधौ प्रचुरं साहाय्यं दत्तवानिति तस्यापि बहु कृतज्ञोऽस्मि। अस्य संग्रहस्य मुद्रणे ये दृष्ट्यादिदोषा दृश्येरंस्ते दयादाक्षिण्याद्युदारगुणैः सुधीभिः समाधेयाः।

विषयः
भूमिका
१. मंगलाचरणम्
अथर्ववेदतः
२. सौमनस्य सूक्तम्
३. ब्रह्मचर्य्य सूक्तम्
४. पृथिवी सूक्तम्
शतपथ ब्राह्मणतः
५. दकार त्रयोपदेशः
ऐतरेय ब्राह्मणतः
६. सत्य–महिमा
गोपथब्राह्मणतः
७. सप्तविकार–विजय विधानम्
बृहदारण्यकोपनिषदः
८. आत्मज्ञानमहिमा
कठोपनिषदः
९. आत्मज्ञानेन मोक्षाधिगमः
विषयः
श्रीवाल्मीकिरामायणतः
१०. वर्षावर्णनम्
११. शरद्वर्णनम्
१२. हेमन्त वर्णनम्
१३. चन्द्रवर्णनम्
भगवद्गीतायाः
१४. प्रथमोध्यायः
१५. द्वितीयोध्यायः
श्री पातञ्जलमहाभाष्यतः
१६. सुशब्दप्रयोगमहिमा
१७. कालविभागः
चरकसंहितायाः
१८. एषणात्रयव्याख्या
रघुवंशमहाकाव्यम्
१९. प्रथमः सर्गः
२०. द्वितीयः सर्गः
२१. तृतीयः सर्गः
२२. चतुर्थः सर्गः
२३. पञ्चमः सर्गः
२४. अष्टमः सर्गः
२५. नवमः सर्गः
२६. दशमः सर्गः
२७. एकादशः सर्गः
विषयः
२८. द्वादशः सर्गः
२९. त्रयोदशः सर्गः
३०. चतुर्दशः सर्गः
३१. अभिज्ञानशाकुन्तलचम्पूः
कुमारसंभवतः
३२. हिमाचलवर्णनम्
३३. पार्वतीतपस्या
३४. पार्वतीपरिणयः
बुद्धचरितात्
३५. बुद्धवैराग्यम्
३६. श्रमणत्वनिश्चयः
३७. सुभाषितानि

साहित्य-सुधा-संग्रहः

प्रथमो बिन्दुः

आ ब्रह्मन् ! ब्राह्मणो ब्रह्मवर्चसीजायताम्। आ राष्ट्रे राजन्यः शूर इषव्योऽतिव्याधी महारथो जायताम्। द्रोग्ध्रीधेनु र्वोढानङ्कानाशुः सप्तिःपुरन्धिर्योषा जिष्णू रथेष्ठाःसभेयो युवास्य यजमानस्य वीरोजायताम्। निकामे निकामे नः पर्जन्यो वर्षतु। फलवत्यो न ओषधयःपच्यन्ताम्। योगक्षेमो नः कल्पताम्॥

(यजुर्वेदात् २२-२२)

सौमनस्यसूक्तम्

सहृदयं सांमनस्य मविद्विषं कृणोमि वः।
अन्यो अम्यमभि हर्यत वत्सं जातमिवाध्न्या॥१॥

अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः।
जाया पत्ये मधुमतीं वाचं वदतु शान्तिषाम्॥२॥

मा भ्राता भ्रातरं द्विक्षन्मास्वसारमुतस्वसा।
सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया॥३॥

येन देवा न वियन्ति नो च विद्विषते मिथः।
तत्कृणमो ब्रह्म वो गृहेसंज्ञानं पुरुषेभ्यः॥४॥

ज्यायस्वन्तश्चिन्तितो मा वि यौष्ट
संराधयन्तः सधुराश्चरन्तः।
अन्योऽन्यस्मै वल्गु वदन्त एत,
सध्रीचीनान् वः समनसस्कृणोमि॥५॥

समानि प्रपासह वोऽन्नभागः,
समाने योक्तेसह वोयुनज्मि।
सम्यञ्चोऽग्निंसपर्यता-
ऽऽणनाभि मिवाऽभितः॥६॥

सध्रीचीनान् वः संमनसस्कृणो-
म्येकश्नष्टीन्त्संवननेन सर्वान्।
देवा इवाऽमृतं रक्षमाणाः
सायंप्रातः सौमनसो वो अस्तु॥७॥

(अथर्ववेदात् ३-३०)

ब्रह्मचर्यसूक्तम्

ब्रह्मचारीणश्चरति रोदसी उभे,
तस्मिन् देवाः संमनसो भवन्ति।
स दाधार पृथिवीं दिवं च,
स आचार्य तपसा पिपर्ति॥१॥

आचार्य उपनयमानों
बृह्मचारिणं कृणुते गर्भमन्तः।
तं रात्रीस्तिस्र उदरे बिभर्ति
तं जातं द्रष्टुमभिसंयन्तिदेवाः॥३॥

इयं समित् पृथिवी द्यौर्द्वितीयो-

ताऽन्तरिक्षं समिधा पृणाति।
बृह्मचारी समिधा मेखलया
श्रमेण लोकस्तपसा पिपर्ति॥४॥

पूर्वोजातो ब्रह्मणो ब्रह्मचारी
धर्मं वसान स्तपसोदतिष्ठत्।
तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं
देवाश्च सर्वे अमृतेन साकम्॥५॥

इमां भूमिं पृथिवीं ब्रह्मचारी
भिक्षामा जभार प्रथमो दिवं च।
ते कृत्वा समिधावुपास्ते
तयोरार्पिता भुवनानि विश्वा॥६॥

ब्रह्मचर्येण तपसा राजा राष्ट्रं विरक्षति।
आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते॥७॥

ब्रह्मचर्येण कन्या युवानं विन्दते पतिम्।
अनङ्गान् बह्मचर्येणाऽश्वोघासं जिगीर्षती॥८॥

ब्रह्मचर्येण तपसादेवा मृत्युमुपाघ्नत।
इन्द्रोह ब्रह्मचर्येण देवेभ्यः स्वराभरत्॥९॥

ओषधयो भूतभव्यमहोरात्रे वनस्पतिः।
संवत्सरः सहर्तुभिस्ते जाता ब्रह्मचारिणः॥१०॥

ब्रह्मचारी ब्रह्म भ्राजद् बिभर्ति
तस्मिन् देवा अधि विश्वे समोताः।
प्राणापानौ जनयन्नाद् व्यानं
वाचं मनो हृदयं ब्रह्म मेधाम्॥११॥

(अथर्ववेदात् ११–५)

पृथिवीसूक्तम्

सत्यं बृहद्रतमुग्रं दीर्क्षांतपो ब्रह्मयज्ञःपृथिवींधारयन्ति।
सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु॥१॥

असबाधं मध्यतो मानवानां यस्या उद्धृतः प्रवतः समं बहु।
नानावीर्याओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः॥२॥

यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः।
यस्यामिदं जिन्वति प्राणदेजत् सा नो भूमिः पूर्वप्रेये दधातु॥२॥

यस्याश्चतस्त्रः प्रदिशः पृथिव्या यस्यामन्नंकृष्टयः संबभूवुः।
याबिभर्ति बहुधा प्राणदेजत् सा नो भूमिर्गोष्वप्यन्ने दधातु॥४॥

यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्तयन्। .
गवामश्वानां वयसश्चविष्ठा भगं वर्चः पृथिवी नो दधातु॥५॥

विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतोः निवेशनी।
वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रेऋषभोद्रविणे नो दधातु॥६॥

यार्णवेऽधि सलिलमग्नआसीद्
यां मायाभिरन्वचरन् मनीषिणः।
यस्या हृदयं परमे व्योमन्
सत्येनाऽऽवृतममृतं पृथिव्याः।
सा नोभूमिस्त्विषि बलं राष्ट्रे दधातूत्तमे॥७॥

गिरयस्ते पर्वता हिमवन्तो-
ऽरण्यं ते पृथिवि ! स्योनमस्तु’।
बभ्रुंकृष्णां रोहिणीं विश्वरूपां
ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम्।
अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम्॥८॥

यो नो द्वेषत् पृथिवि ! यःपृतन्याद्
योऽभिदासान्मनसा यो वधेन।
तं नो भूमे ! रन्धय पूर्वकृत्वारि !॥९॥

त्वज्जातास्त्वयि चरन्ति मर्त्या-
स्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः।
तवेमे पृथिवि ! पञ्च मानवा-
येभ्यो ज्योतिरमृतं मर्त्येभ्य-
उद्यन्त्सूर्यो रश्मिभिरातनोति॥१०॥

विश्वस्वं, मातरमोषधीनां,
ध्रुवां, भूमिं पृथिवीं धर्मणा धृताम्।
शिवां स्योनामनु चरेम विश्वहा॥११॥

महत् सधस्थं महती बभूविथ
महान् वेग एजथु र्वेपथुष्टे।
महांस्त्वेन्द्रो रक्षत्यप्रमादम्
सा नो भूमे प्र रोचय, हिरण्यस्यैव
संदृशि, मा नो द्विक्षत कश्चन॥१२॥

यस्यां वृक्षावानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा।
पृथिवींविश्वश्चायसं धृतामच्छाबुदामसि॥१३॥

यावत् तेऽभि विपश्यामि भूमे सूर्येण मेदिना।
ताबन्मे चक्षुर्मा मेष्टोत्तरामुत्तरां समाम्॥१४॥

सा नो भूमि रादिशतु यद्धनं कामयामहे।
भगो अनुप्रयुङ्क्तामिन्द्र एतु पुरोगवः॥१५॥

यस्यामन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः।
भूम्यै पर्जन्यपत्न्यै नमोऽस्तु वर्षमेदसे॥१६॥

निधिंबिभ्रती बहुधा गुहा
वसु मणिं हिरण्यं पृथिवी ददातु मे।
वसूनि नो वसुदा रासमाना
देवी दधातु सुमनस्यमाना॥१७॥

ये ग्रामा यदरण्यं याः सभा अधि भूम्याम्।
ये संग्रामाः समितयस्तेषु चारु वदेम ते॥१८॥

त्वमस्याऽऽवपनी जनाना-
मदितिः कामदुघापप्रथाना।
यत् त ऊनं तत् त आ पूरयाति
प्रजापतिः प्रथमजा ॠतस्य॥१९॥

उपस्था स्तेअनमीघाअयक्ष्मा
अस्मभ्यं सन्तु, पृथिवी ! प्रसूताः।
दीर्घं न आयुः प्रतिबुध्यमाना
वयं तुभ्यं बलिहृतः स्याम॥२०॥

भूमे ! मातर्निधेहि मा भद्रया सुप्रतिष्ठितम्।
संविदाना दिवा कवे श्रियां मा धेहि भूत्याम्॥२१॥

(अथर्ववेदात् १२-१)

दकार–त्रयोपदेशः

त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्य्यमूषुर्देवा मनुष्याअसुराः। उषित्वा ब्रह्मचर्यं देवा ऊचुः “ब्रवीतु नो भवानिति” तेभ्यो हएतदक्षरमुवाच “द” इति। “व्यज्ञासिष्टा ३ इति” “व्यज्ञा-

सिष्मेति” ह ऊचुः, “दाम्यतेति–न भात्य इति”। “ओमिति” ६ उवाच, “व्यज्ञासिष्टेति”॥१॥

अथ ह एनंमनुष्या ऊचुः “ब्रवीतु नो भवानिति”। तेभ्योह एतदेवाक्षरमुवाच “द” इति। “व्यज्ञासिष्टा ३” इति। “व्यज्ञासिष्मेति” ह ऊचुः। “दत्त” इति न आत्थ इति”।“ओमिति” हउवाच, “व्यज्ञासिष्टेति॥२॥

अथ ह एनमसुरा ऊचुः “ब्रवीतु नो भवानिति”। तेभ्यो ह एतदेवाक्षर् मुवाच “द” इति। व्यज्ञासिष्टा ३इति”। “व्यज्ञासिष्मइति ह ऊचुः। “दयध्व मिति न आत्थ”।“ओम् इति” ह उवाच,“व्यज्ञासिष्टेति”। तदेतदेवैषादेवीवागनु वदति स्तनयित्नु"र्दददइति।” दाम्यत दत्त दयध्वमिति। तदेतत्त्रयं शिक्षेद्दमन्दानंदयामिति।३॥

(शतपथ ब्राह्मणात्)

सत्यमहिमा

नाभानेदिष्टं वैमानवं ब्रह्मचर्यं वसन्तं भ्रातरो निरभजन्। सोऽब्रवीदेत्यकिं मह्यमभाक्तेति। एतमेव निष्ठावमववदितारमित्यब्रुवन्। तस्माद्धाप्येतर्हि पितरं पुत्रा निष्ठावोऽववदितेत्येवाचक्षते।स पितरमेत्याब्रवीत् त्वां ह वाव मह्यं तताभाक्षुरिति। तं पिताब्रवीत्। मा पुत्रक तदाद्वथाः। अङ्गिरसो वा इमे स्वर्गाय लोकायसत्रमासते। ते षष्ठं षष्ठमेवाहरागत्य मुह्यन्ति। तानेते सूक्तेषष्ठेऽहनि शंसय तेषां यत्सहस्रं सत्रपरिवेषणं तत्ते स्वर्यन्तो दास्यन्तीति।तथेति तानुपैत्प्रतिगृणीत मानवं सुमेधस इति। तमब्रुवन् किंकामो वदसीति। इदमेव वः षष्ठमह प्रज्ञापयानीत्यब्रवीदथ यद्व एतत्सहस्रंसत्रपरिवेषणं तन्मे स्वर्यन्तोऽदत्तेति। तथेति। तानेते सूक्तेषष्ठेऽहन्यशंसयत्। ततो वै तेप्र यज्ञमजानन् प्र् स्वर्गं लोकम्। तद्यदेते सूक्ते षष्ठेऽहनि शंसति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुस्यात्यै। तं स्वर्यन्तो

ऽब्रुवन्।

एतत्ते ब्राह्मण सहस्रमिति। तदेतंसमाकुर्वाणं पुरुषः कृष्णशवास्युत्तरत उपोत्थायाब्रवीन्मम वा इदं मम वैवास्तुहमिति। सोऽब्रवीन्मह्यं वा इदमदुरिति। तमब्रवीत्तद्वैनौतवैव पितरिप्रश्न इति। स पितरमैत्। तं पिताब्रवीत्। ननु ते पुत्रकादुरिति

अदुरेवम इत्यब्रवीत्तत्तु मे पुरुषः कृष्णशवास्युत्तरत उपोदतिष्ठन्ममवा इदं मम वै वास्तुहमित्यादितेति। तं पिताब्रवीत्। तस्यैवपुत्रक तत्तत्तुभ्यं दास्यतीति। स पुनरेत्याब्रवीत्तव ह वाव किल भगव इदमिति मे पिताहेति। सो ऽब्रवीत्। तदहं तुभ्यमेव ददामि य एवसत्यमवादीरिति। तस्मादेवं विदुषा सत्यमेव वदितव्यम्॥

(ऐतरेय ब्राह्मणात् ५-२-१४)

सप्तविकार–विजय–विधानं

जायमानो ह वै ब्राह्मणः सप्तेन्द्रियाण्यभिजायन्ते,

ब्रह्मवर्च्चसञ्चयशश्च स्वप्नञ्च क्रोधञ्च श्लाघाञ्च रूपञ्च पुण्यमेव गन्धं सप्तमम्। तानिह वा अस्यैतानि ब्रह्मचर्य्यमुपेतोपक्रामन्ति, मृगानस्य ब्रह्मवर्च्चसंगच्छत्याचार्य्यं यशोऽजगर स्वप्नो, वराहं क्रोधोऽपश्लाघंकुमारींरूप, मोषधिवनस्पतीन्पुण्यो गन्धः। स यन्मृगाजिनानि वस्ते, तेनतद् ब्रह्मवर्च्चसमवरुन्धे, यदस्य मृगेषु भवति स ह स्नातो ब्रह्मवर्चसीभवति, स यदहरहराचार्य्याय कर्मकरोति तेन तद्यशोऽवरुन्धे यदस्याचार्य्येभवति, स ह स्नातो यशस्वी भवति, स यत्सुषुप्सुर्निद्राम्निनयति तेन तं स्वप्नमवरुन्धे, योऽस्याजगरे भवति। तं ह स्नातं स्वपन्तमाहुःस्वपितु मैनं बोबुधथेति स क्रुद्धो वाचा न कञ्चन हिनस्ति। पुरुषात्पुरुषात् पापीयानिव मन्यमानस्तेन तं क्रोधमवरुन्धे, योऽस्य वराहेभवति तस्य ह स्नातस्य क्रोधा श्लाघीयसं विशन्तेऽथाद्भिः

श्लाघ्यमानो न स्नायात्तेन तं श्लाघामवरुन्धे, योऽस्याप्सुभवति सह स्नातः

श्लाघीयोऽन्नैभ्यः श्लाध्यतेऽथैतद्ब्रह्मचारिणो रूपं

यत्कुमार्य्यास्तान्नग्नान्नोदीक्षेदेतिवेतिमुखं विपरिधापयेत्तेन तद्रूपमवरुन्धे, यदस्य कुमार्य्यांभवति तं स्नातं कुमारीमिवनिरीक्षन्तेऽथैतद्ब्रह्मचारिणः पुण्योगन्धो य ओषधिवनस्पतीनां तासां पुण्यं गन्धं प्रच्छिद्य नोपजिघ्रेत्तेनतं पुण्यं गन्धमवरुन्धे, योऽस्यौषधिवनस्पतीषु भवति स ह स्नातःपुण्यगन्धिर्भवति॥१॥

(गोपथब्राह्मणात् २-२)

आत्मज्ञान–महिमा

स वा एष महानजआत्मा योऽयं विज्ञानमयः प्राणेषु। य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिःस न साधुना कर्म्मणा भूयान्नो एव असाधुना कनीयान् एष सर्वेश्वरएष भूताधिपतिरेष भूतपाल एषसेतुर्विधरण एषां लोकानामसम्भेदाय तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनैमेव विदित्वा मुनिर्भवति एतमेव प्रव्राजिनो लोकमिच्छन्तःप्रव्रजन्ति एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजयाकरिष्यामो येषां नोऽयमात्माऽयं लोक इति ते ह स्म पुत्रैषणायाश्चवित्तेषणायाश्च लोकैषणायाश्च व्युत्थायाऽथ भिक्षाचर्यंचरन्ति याह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणेएव भवतः। स एषनेति नेत्यात्माऽगृह्योन हि गृह्यतेऽशीर्य्यो न हिशीर्य्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते नतरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः॥२२॥

(बृहदारण्यकोपनिषदः ४-४-२२)

आत्मज्ञानेन मोक्षाधिगमः

आत्मानं रथिनं विद्धि शरीरं रथमैव तु।
बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च॥१॥

इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्।
आत्मेन्द्रियमनोयुक्तं भोक्त्येत्याहुर्मनीषिणः॥२॥

यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वाइवसारथेः॥३॥

यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः॥४॥

यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः।
न स तत्पदमाप्नोति संसारञ्चाधिगच्छति॥५॥

यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते॥६॥

विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमम्पदम्॥७॥

इन्द्रियेभ्यः परा ह्यर्थाअर्थेभ्यश्च परं मनः।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः॥८॥

महतः परमव्यक्तमव्यक्तात् पुरुषः परः।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः॥९॥

एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते।
दृश्यते त्वग्रयथा बुद्ध्यासूक्ष्मया सूक्ष्मदर्शिभिः॥१०॥

उतिष्ठत जाग्रत प्राप्य वरान्निबोधत।
क्षुरस्य धारा निशिता दुरत्यया
दुर्गम्पथस्तत्कवयो वदन्ति॥११॥

अशब्दमस्पर्शमरूपमव्ययं
तथाऽरसन्नित्यमगन्धवच्च यत्।
अनाद्यनन्तम्महतः परन्ध्रुवं
निचाय्य तन्मृत्युमुखात्प्रमुच्यते॥१२॥

(कठोपनिषदः ३-१)

वर्षावर्णनम्

अयं स कालः संप्राप्तः समयोऽद्य जलागमः।
संपश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः॥१॥

नवमासधृतं गर्भं भास्करस्य गभस्तिभिः।
पीत्वा रसं समुद्राणां द्यौःप्रसूते रसायनम्॥२॥

शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः।
कुटजाऽर्जुनमालाभिरलंकर्तुं दिवाकरः॥३॥

संध्यारागोत्थितैस्ताम्रैरन्तेष्वपि च पाण्डुभिः।
स्निग्धैरभ्रपटच्छेदैर्बद्धव्रणमिवाम्बरम्॥४॥

मेघोदरविनिर्मुक्ताः कर्पूरदलशीतलाः।
शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः॥५॥

मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः।
मारुतापूरितगुहाः प्राधीता इव पर्वताः॥६॥

कशाभिरिव हैमीभिर्विद्युद्भिरभिताडितम्।
अन्तस्तनितनिर्घोषं सवेदनमिवाऽम्बरम्॥७॥

रजःप्रशान्तं सहिमोऽद्य वायु-
र्भिदाघदोषप्रसराः प्रशान्ताः।
स्थिता हि यात्रा वसुधाधिपानां
प्रवासिनो यान्ति नराः स्वदेशान्॥८॥

क्वचित्प्रकाशं क्वचिदप्रकाशं नभः प्रकीर्णाम्बुधरं विभाति।
क्वचित्क्वचित्पर्वतसंनिरुद्धंरूपं यथा शान्तमहार्णवस्य॥९॥

व्यामिश्रितं सर्जकदम्बपुष्पैर्नवं जलं पर्वतधातुताम्रम्।
मयूरकेकाभिरनुप्रयातं शैलापगाः शीघ्रतरं वहन्ति॥१०॥

रसाकुलं पटपदसंनिकाशं प्रमुज्यते जम्बुफलं प्रकामम्।
अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलं विपक्वम्॥११॥

विद्युत्पताकाः सबलाकमालाः शैलेन्द्रकूटाकृतिसंनिकाशाः।
गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगस्थाः॥१२॥

वर्षोदकाऽऽप्यायितशाद्वलानि प्रवृत्तनृत्तोत्सवबर्हिणानि।
वनानि निर्वृष्टबलाहकानि पश्याऽपराह्णेष्वधिकं विभान्ति॥१३॥

समुद्वहन्तः सलिलातिभारं बलाकिनोवारिधरा नदन्तः।
महत्सु शृङ्गेषु महीधराणां विश्रम्य विश्रम्य पुनः प्रयान्ति॥१४॥

मेघाभिकामा परिसंपतन्ती संमोदिता भाति बलाकपंक्तिः।
वातावधूता वरपौण्डरीको लम्बेव माला रुचिराऽम्बरस्य॥१५॥

बालेन्द्रगोपांन्तरचित्रितेन विभाति भूमिर्नवशाद्वलेन।
गात्रानुपृक्तेन शुकप्रभेण नारीव लाक्षोक्षितकम्बलेन॥१६॥

जाता वनान्ताः शिखिसुप्रनृत्ता जाताः कदम्बाः सकदम्बशाखाः।
जाता वृषा गोषु समानकामा जाता मही सस्यवनाभिरामा॥१७॥

वहन्ति वर्षन्ति मदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति।
नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवंगाः॥१८॥

प्रहर्षिताः केतकिपुष्पगन्ध माघ्राय मत्ता वननिर्झरेषु।
प्रपातशब्दाकुलिता गजेन्द्राः सार्धं मयूरैः समदा नदन्ति॥१९॥

धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः।
क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति॥२०॥

अङ्गारचूर्णोत्करसंनिकाशैः फलैः सुपर्याप्तरसैः समृद्धैः।
जम्बूद्रुमाणां प्रविभान्ति शाखा निपीयमाना इव षट्पदौधैः॥२१॥

तडित्पताकाभिरलंकृताना मुदीर्णगम्भीरमहारवाणाम्।
विभान्ति रूपाणि बलाहकानां रणोत्सुकानामिव वानराणाम्॥२२॥

मार्गानुगः शैलधनानुसारी संप्रस्थितो मेघरवं निशम्य।
युद्धाभिकामः प्रतिनादशङ्की मत्तो गजेन्द्रः प्रतिसंनिवृत्तः॥२३॥

क्वचित्प्रगीता इव षट्पदौधैः क्वचित्प्रनृत्ता इव नीलकण्ठैः।
क्वचित्प्रमत्ता इव वारणेन्द्रैर्विभान्त्यनेकाश्रयिणो वनान्ताः॥२४॥

मुक्तासमाभं सलिलं पतद्वै सुनिर्मलं पत्रपुटेषु लग्नम्।
हृष्टा विवर्णच्छदना विहंगाः सुरेन्द्रदत्तं तृषिताः पिबन्ति॥२५॥

षट्पादतन्त्रीमधुराभिधारं प्लवंगमोदीरितकण्ठतालम्।
आविष्कृतं मेघमृदङ्गनादै र्वनेषु संगीतमिव प्रवृत्तम्॥२६॥

क्वचित्प्रनृत्तैः क्वचिदुन्नदद्भिःक्वचिच्चवृक्षाग्रनिषण्णकायैः।
व्यालम्बबर्हाभरणैर्मयूरै र्वनेषु संगीतमिव प्रवृत्तम्॥२७॥

स्वनैर्घनानां प्लवगाः प्रबुद्धा विहाय निद्रां चिरसंनिरुद्धाम्।
अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति॥२८॥

नीलेषु नीला नवारिपूर्णा मेघेषु मेघाः प्रतिभान्ति सक्ताः।
दवाग्निदग्धेषु दवाग्निदग्धाः शैलेषु शैला इव बद्धमूलाः॥२९॥

प्रमत्तसंनादितबर्हिणानि सुशक्रगोपाकुलशाद्वलानि।
चरन्ति नोपार्जुनवासितानि गजाः सुरम्याणि वना

न्तराणि॥३०॥

नवाम्बुधाराहत केसराणि ध्रुवं परित्यज्य सरोरुहाणि।
कदम्बपुष्पाणि सकेसराणि नवानि दृष्टा भ्रमराः पिबन्ति॥३१॥

मता गजेन्द्रा मुदिता गवेन्द्रा वनेषु विक्रान्ततरा मृगेन्द्राः।
रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः॥३२॥

मेघाः समुद्धृतसमुद्रनादा महाजलौघैर्गगनावलम्बाः।
नदीस्तटाकानिसरांसि वापीर्महींव कृत्स्नामपवाहयन्ति॥३३॥

वर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्णवेगाः।
प्रनष्टकूलाः प्रवहन्ति शीघ्रं नद्यो जलं विप्रतिपन्नमार्गाः॥३४॥

नरैर्नरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्रनीतैः पवनोपनीतैः।
घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति॥३५॥

घनोपगूढं गगनं न तारा न भास्करो दर्शनमभ्युपैति।
नवैर्जलौघैर्धरणी वितृप्ता तमोविलिप्ता न दिशः प्रकाशाः॥३६॥

महान्ति कूटानि महीधराणां धाराविधौतान्यधिकं विभान्ति।
महाप्रमाणैर्विपुलैः प्रपातैर्मुक्ताकलापैरिव लम्बमानैः॥३७॥

शैलोपलप्रस्खलमानवेगाः शैलोत्तमानां विपुलाः प्रपाताः।
गुहासु संनादितबर्हिणासु हारा विकीर्यन्त इवावभान्ति॥३८॥

शीघ्रं प्रवेगा विपुलाः प्रपाताः निर्धौतशृङ्गोपतला गिरीणाम्।
मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्संगतलैर्ध्रियन्ते॥३९॥

( श्री वाल्मीकि–रामायणस्य
किष्किन्धाकाण्ड–२८ सर्गात्)

शरद्वर्णनम्

शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम्।

लीलासु चैवोत्तमवारणानां श्रियं विभज्याऽद्यशरत्प्रवृत्ता॥१॥

संप्रत्यनेकाश्रयचित्रशोभा लक्ष्मीः शरत्कालगुणोपपन्ना।
सूर्याऽग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति॥२॥

सप्तच्छदानां कुसुमोपगन्धी षट्पादवृन्दैरनुगीयमानः।
मत्तद्विपानां पवनानुसारी दर्पं विनेष्यन्नधिकं विभाति॥३॥

अभ्यागतैश्चारुविशालपक्षैः स्मरप्रियैः पद्मरजोविकीर्णैः।
महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः॥४॥

मदप्रगल्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु।
प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीर्बहुधा विभक्ता॥५॥

नमः समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु।
प्रियास्वरक्ता विनिवृत्तशांभागतोत्सवा ध्यानपरा मयूराः॥६॥

मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पाग्रभाराऽवनताऽग्रशाखैः।
सुवर्णगौरैर्नयनाभिरामैरुद्योतितानीव वनान्तराणि॥७॥

प्रियान्वितानां नलिनीप्रियाणां वनप्रियाणां कुसुमोद्धृतानाम्।
मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः॥८॥

व्यक्त नभःशस्त्रविधौतवर्णकृशप्रवाहानि नदीजलानि।

कुहारशीताः पवनाः प्रवान्ति तमोविमुक्ताश्च दिशः प्रकाशाः॥९॥

सूर्याऽऽतपक्रामणनष्टपङ्का भूमिश्चिरोद्धाटितसान्द्ररेणुः।
अन्योन्यवैरेण समायुतानामुद्योगकालोऽद्य नराधिपानाम्॥१०॥

शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांसुसमुत्थिताङ्गाः।
मदोत्कटाः संप्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति॥११॥

त्यक्त्वा वराण्यात्मविभूषितानि बर्हाणि तीरोपगता नदीनाम्।
निर्भर्त्स्यमाना इव सारसौघैः प्रयान्ति दीना विमना मयूराः॥१२॥

वित्रास्य कारण्डवचक्रवाकान्महारवैर्भि

ष्टकटागजेन्द्राः।
सरःसु बद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति॥१३॥

व्यपेतपंकासु सबालुकासु प्रसन्नतोयासु सगोकुलासु।
ससारसाऽऽरावविनादितासु नदीषु हंसा निपतन्ति हृष्टाः॥१४॥

नदीघनप्रस्रवणोदकाना मतिप्रवृद्धानिलबर्हिणानाम्।
प्लवंगमानां च गतोत्सवानां ध्रुवं रवाः संप्रति संप्रनष्टाः॥१५॥

अनेकवर्णाः सुविनष्टकाया नवोदितेष्वम्बुधरेषु नष्टाः।
क्षुधार्दिता घोरविषा बिलेभ्यश्चिरोषिता विप्रसरन्ति सर्पाः॥१६॥

विपक्वशालिप्रसवानि भुक्त्वाप्रहर्षिता सारसचारुपंक्तिः।
नभः समाक्रामति शीघ्रवेगा वातावधूता प्रथितेवमाला॥१७॥

सुप्तैकहंसंकुमुदैरुपेतं महाह्रदस्थंसलिलं विभाति।
घनैर्विमुक्तं निशि पूर्णचन्द्र तारागणाकीर्णमिवाऽन्तरिक्षम्॥१८॥

प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम्।
वाप्युत्तमानामधिकाऽद्य लक्ष्मी र्वरांगनानामिव भूषितानाम्॥१६॥

वेणुस्वव्यञ्जिततूर्यमिश्रः प्रत्यूषकालेऽनिलसंप्रवृत्तः।
संमूर्च्छितो गहरगोवृषाणामन्योन्यमापूरयतीष शब्दः॥२०॥

नवैर्नदीनां कुसुमप्रहासै र्व्याधूयमानैर्मृदुमारुतेन।
धौताऽमलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि॥२१॥

वनप्रचण्डा मधुपानशौण्डाःप्रियान्विताः षट्चरणाः प्रहृष्टाः।
वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः॥२२॥

जलं प्रसन्नं कुसुमप्रहासं क्रौञ्चस्वनं शालिवनं विपक्वम्।
मृदुश्च वायुर्विमलश्च चन्द्रः शंसन्ति वर्षव्यपनीतकालम्॥२३॥

लोकं सुवृष्ट्यापरितोषयित्वा नदीस्तटाकानि च पूरयित्वा।
निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रनष्टाः॥२४॥

प्रसन्नसलिलाःसौम्य कुरराऽभिविनादिताः।
चक्रवाकगणाकीर्णा विभान्ति सलिलाऽऽशयाः॥२५॥

अन्योन्यबद्धवैराणां जिगीषूर्णा नृपात्मज।
उद्योगसमयः सौम्य पार्थिवानामुपस्थितः॥२६॥

(श्री वाल्मिीकि–रामायणस्य
किष्किन्धाकाण्ड३० सर्गात्)

हेमन्तवर्णनम्**

**

वसतस्तस्य तु सुखं राघवस्य महात्मनः।
शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तत॥१॥

स कदाचित्प्रभातायां शर्वर्यांरघुनन्दनः।
प्रययाऽवभिषेकार्थं रम्यां गोदावरीं नदीम्॥२॥

प्रह्नः कलशहस्तस्तु सीतया सह वीर्यवान्।
पृष्ठतोऽनुव्रजन्भ्राता सौमित्रिरिदमब्रवीत्॥३॥

अयं स कालः संप्राप्तः प्रियो यस्ते प्रियंवद !।
अलंकृत इवाऽऽभाति येन संवत्सरः शुभः॥४॥

नीहारपरुषो लोकः पृथिवी सस्यमालिनी।
जलान्यनुपभोग्यानि सुभगो हव्यवाहनः॥५॥

नवाऽऽग्रयणपूजाभिरभ्यर्च्य पितृदेवताः।
कृताऽऽग्रयणकाः काले सन्तो विगतकल्मषाः॥६॥

प्राज्यकामा जनपदाः संपन्नतरगोरसाः।
विचरन्ति महीपाला यात्रार्थं विजिगीषवः॥७॥

सेवमाने दृढं सूर्ये दिशमन्तकसेविताम्।
विहीनतिलकेव स्त्रो नोत्तरा दिक्प्रकाशते॥८॥

प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च सांप्रतम्।
यथार्थनामा सुव्यक्तं हिमवान्हिमवान्गिरिः॥९॥

अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः।
दिवसाः सुभगादित्या श्छायासलिलदुर्भगाः॥१०॥

मृदुसूर्याः सुनीहाराः पटुशीताः समाहिताः।
शून्यारख्या हिमध्वस्ता दिवसा भान्ति सांप्रतम्॥११॥

निवृत्ताऽऽकाशशयनाः पुष्यनीता हिमारुणाः।
शीतवृद्धतराऽऽयामा स्त्रियामा यान्ति सांप्रतम्॥१२॥

रविसंक्रान्त सौभाग्य स्तुषाराऽरुणमण्डलः।
निःश्वासाऽन्ध स्वाऽऽदर्शश्चन्द्रमा न प्रकाशते॥१३॥

ज्योत्स्नातुषारमलिना पौर्णमास्यां न राजते।
सीतेव चातऽऽपश्यामा लक्ष्यते न च शोभते॥१४॥

प्रकृत्या शीतलस्पर्शोहिमविद्धश्च सांप्रतम्।
प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः॥१५॥

वाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च।
शोभन्तेऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः॥१६॥

स्वर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः।
शोभन्ते किंचिदालम्बाः शालयः कनकप्रभाः॥१७॥

मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः।
दूरमप्युदितः सूर्यः शशाङ्क इव लक्ष्यते॥१८॥

आग्राह्यवीर्यः पूर्वाह्णेमध्याह्ने स्पर्शतः सुखः।
संसक्तः किंचिदापाण्डुरातपः शोभते क्षितौ॥१९॥

अवश्यायनिपातेन किचित्प्रक्लिन्नशाद्वला।
वनानां शोभते भूमिर्निविष्टतरुणातपा॥२०॥

स्पृशन्सुविपुलं शीतमुदकं द्विरदः सुखम्।
अत्यन्ततृषितो वन्यः प्रतिसंहरते करम्॥२१॥

एते हि समुपासीना विहगा जलचारिणः।
नाऽवगाहन्ति सलिलमप्रगल्भा इवाऽऽहवम्॥२२॥

अवश्यायतमोनद्धा नीहारतमसाऽऽवृताः।
प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः॥२३॥

वाष्पसंछन्नसलिला रुतविज्ञेयसारसाः।
हिमार्द्रवालुकास्तीरैः सरितो भान्ति सांप्रतम्॥२४॥

(श्री वाल्मीकि रामायणस्य)
(अरण्यकाण्ड १६ सर्गात्)

चन्द्रवर्णनम्

ततः स मध्यंगतमंशुमन्तं ज्योत्स्ना वितानं मुहुरुद्वमन्तम्।
ददर्श धीमान्भुवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम्॥१॥

लोकस्य पापानि विनाशयन्तं महोदधि चाऽपि समेधयन्तम्।
भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशु मथाऽभियान्तम्॥२॥

या भांति लक्ष्मीर्भुवि मन्दरस्था यथा प्रदोषेषु च सागरस्था।
तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था॥३॥

हंसो यथा राजतपञ्जरस्थः सिंहोयथा मन्दरकंदरस्थः।
वोरो यथा गर्वितकुञ्जरस्थश्चन्द्रोऽपि बभ्राज तथाऽम्बरस्थः॥४॥

स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाऽचलः श्वेत इवार्ध्वशृङ्गः।
हस्तीव जाम्बूनदबद्धशृङ्गो विभाति चन्द्रः परिपूर्णशृङ्गः॥५॥

विनष्टशीताऽम्बुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः।
प्रकाशलक्ष्म्याश्रय निर्मलांङ्को रराज चन्द्रो भगवाञ्छशाङ्कः॥६॥

शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः।
राज्यं समासाद्य यथा नरेन्द्रस्तथा प्रकाशो विरराज चन्द्रः॥७॥

(श्री वाल्मीकिरामायणस्य)
सुन्दरकाण्ड ५म सर्गात्

श्रीकृष्णार्जुनसंवादः

प्रथमोऽध्यायः

धृतराष्ट्र उवाच

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।
मामकाः पांडवाश्चैव किमकुर्वत संजयः॥१॥

संजय उवाच

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।
आचार्यमुपसंगम्य राजा वचनमब्रवीत्॥२॥

पश्यैतां पांडुपुत्राणामाचार्य महतीं चमूम्।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥३॥

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि।
युयुधानो विराटश्च दुपदश्च महारथः॥४॥

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्।
पुरुजित्कुंतिभोजश्च शैब्यश्चनरपुंगवः॥५॥

युधामन्युश्च विक्रान्त उत्तमौजाश्चवीर्यवान्।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥६॥

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम !।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते॥७॥

भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च॥८॥

अन्ये च बहवः शूरामदर्थे त्यक्तजीविताः।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥९॥

अपर्याप्तं तदस्माकं बलं भीष्माऽभिरक्षितम्।
पर्याप्तं त्विदमेतेषां बलं भीमाऽभिरक्षितम्॥१०॥

अयनेषु च सर्वेषु यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षंतु भवंतः सर्व एव हि॥११॥

तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः।
सिंहनादं विनद्योच्चैः शंखं दध्मौ प्रतापवान्॥१२॥

ततः शंखाश्चभेर्यश्च पणवानकगोमुखाः।
सहसैवाभ्यहन्यंत स शब्दस्तुमुलोऽभवत्॥१३॥

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।
माधवः पाण्डवश्चैव दिव्यौ शंखौ प्रदध्मतुः॥१४॥

पाँचजन्यं हृषीकेशो देवदत्तं धनञ्जयः।
पौंड्रं दध्मौ महाशंखं भीमकर्मा वृकोदरः॥१५॥

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ॥१६॥

काश्यश्च परमेष्वासः शिखण्डी चमहारथः।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः॥१७॥

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते !।
सौभद्रश्च महाबाहुः शंखान्दध्मुः पृथक्पृथक्॥१८॥

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥१९॥

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पांडवः॥२०॥

अर्जुन उवाच

हृषीकेशंतदावाक्यमिदमाह महीपते।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत !॥२१॥

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्।
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे॥२२॥

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धेप्रियचिकीर्षवः॥२३॥

संजय उवाच

एवमुक्तो हृषीकेशो गुडाकेशेन भारत !।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्॥२४॥

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्।
उवाच पार्थ ! पश्यैतान्समवेतान्कुरूनिति॥२५॥

तत्राऽपश्यत्स्थितान्पार्थः पितृनथ पितामहान्।
आचार्यान् मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा॥२६॥

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।
तान्समीक्ष्य स कौंतेयः सर्वान्बंधूनवस्थितान्॥२७॥

कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्।

अर्जुन उवाच

दृष्ट्वेमं स्वजनं कृष्ण ! युयुत्सुं समुपस्थितम्॥२८॥

सीदन्ति मम गात्राणि मुखं च परिशुष्यति।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते॥२९॥

गाँडीवं स्रंसते हस्तात्वक्चैव परिदह्यते।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः॥३०॥

निमित्तानि च पश्यामि विपरीतानि केशव !।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे॥३१॥

न कांक्षे विजयं कृष्ण ! न च राज्यं सुखानि च।
किं नो राज्येन गोविन्द ! कि भोगैर्जीवितेन वा॥३२॥

येषामर्थे कांक्षितं नो राज्यं भोगाः सुखानि च।
त इमेऽवस्थिता युद्धेप्राणांस्त्यक्त्वा धनानि च॥३३॥

आचार्याः पितरः पुत्रास्तथैव च पितामहाः।
मातुलाः श्वशुराः पौत्राः श्यालाः संबंधिनस्तथा॥३४॥

एतान्न हंतुमिच्छामि घ्नतोऽपि मधुसूदन !।
अपि त्रैलोक्यराज्यस्य हेतोः किंनु महीकृते॥३५॥

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन !।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः॥३६॥

तस्मान्नार्हा वयं हंतुं धार्तराष्ट्रान्स्वबान्धवान्।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव !॥३७॥

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्॥३८॥

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन !॥३९॥

कुलक्षये प्रणश्यंति कुलधर्माः सनातनाः।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत॥४०॥

अधर्माऽभिभवात्कृष्ण ! प्रदुष्यंति कुलस्त्रियः।
स्त्रीषु दुष्टासु वार्ष्णेय ! जायते वर्णसंकरः॥४१॥

दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः।
उत्साद्यंते जातिधर्माः कुलधर्माश्च शाश्वताः॥४२॥

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन !।
नरके नियतं वासो भवतीत्यनुशुश्रुम॥४३॥

अहो बत महत्पापं कर्तुं व्यवसिता वयम्।
यद्राज्यसुखलोभेन हंतुं स्वजनमुद्यताः॥४४॥

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्॥४५॥

संजय उवाच

एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत्।
विसृज्य सशरं चापं शोकसंविग्नमानसः॥४६॥

॥इति प्रथमोऽध्यायः॥

द्वितीयोऽध्यायः

संजय उवाच

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेऽऽक्षणम्।
विषीदंतमिदं वाक्यमुवाच मधुसूदनः॥१॥

श्री भगवानुवाच

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन !॥२॥

क्लैब्यंमा स्म गमः पार्थ ! नैतत्त्वय्युपपद्यते।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप !॥३॥

अर्जुन उवाच

कथं भीष्ममहं संख्ये द्रोणं च मधूसूदन !।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन !॥४॥

गुरुनहत्वाहि महानुभावाञ्छ्रेयो भोक्तुं भैक्ष्यमपीह लोके।
हत्वाऽर्थकामांस्तु गुरूनिहैवभुंजीय भोगान्रुधिरप्रदिग्धान्॥५॥

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः।
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः संमुखे धार्तराष्ट्राः॥६॥

कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्॥७॥

न हि प्रपश्यामि ममाऽपनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम्।
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम्॥८॥

संजय उवाच

एवमुक्त्वा हृषीकेशं गुडाकेशः परंतपः।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह॥९॥

तमुवाच हृषीकेशः प्रहसन्निव भारत !
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः॥१०॥

श्री भगवानुवाच

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।
गतासूनगतासूंश्च नानुशोचंति पंडिताः॥११॥

न त्वेवाऽहं जातु नाऽऽसं न त्वं नेमे जनाधिपाः।
न चैव न भविष्यामः सर्वे वयमतः परम्॥१२॥

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा।
तथा देहांतरप्राप्तिर्धीरस्तत्र न मुह्यति॥१३॥

मात्रास्पर्शास्तु कौंतेय ! शीतोष्णसुखदुःखदाः।
आगमापायिनो नित्यास्तांस्तितिक्षस्व भारत !॥१४॥

यं हि न व्यययंत्येते पुरुषं पुरुषर्षभ !।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते॥१५॥

नाऽसतो विद्यते भावो नाऽभावो विद्यते सतः।
उभयोरपि दृष्टान्तस्त्वनयोस्तत्वदर्शिभिः॥१६॥

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्।
विनाशमव्ययस्याऽस्य न कश्चित्कर्तुमर्हति॥१७॥

अंतवंत इमे देहा नित्यस्योक्ताः शरीरिणः।
अनाशिनोऽप्रमेयस्य तस्माद्युद्ध्यस्व भारत॥१८॥

य एनं वेत्ति हंतारं यश्चैनं मन्यते हतम्।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥१९॥

न जायते म्रियते वा कदाचि-
न्नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो,
न हन्यते हन्यमाने शरीरे॥२०॥

वेदाविनाशिनं नित्यं य एनमजमव्ययम्।
कथं स पुरुषः पार्थ कं घातयति हंति कम्॥२१॥

वासांसि जीर्णानि यथा विहाय,
नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही॥२२॥

नैनं छिन्दंति शस्त्राणि नैनं दहति पावकः।
न चैनं क्लेदयंत्यापो न शोषयति मारुतः॥२३॥

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः॥२४॥

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि॥२५॥

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्।
तथापि त्वं महाबाहो ! नैनं शोचितुमर्हसि॥२६॥

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि॥२७॥

अव्यक्कादीनि भूतानि व्यक्तमध्यानि भारत !
अव्यक्तनिधनान्येव तत्र का परिदेवना॥२८॥

आश्चर्यवत्पश्यति कश्चिदेन-
माश्वर्यवद्वदति तथैव चान्यः।
आश्चर्यवच्चैनमन्यः शृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित्॥२९॥

देही नित्यमबध्योऽयं देहे सर्वस्य भारत !
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि॥३०॥

स्वधर्ममपि चावेक्ष्य न विकंपितुमर्हसि।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते॥३१॥

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्॥
सुखिनः क्षत्रियाः पार्थ ! लभन्ते युद्धमीदृशम्॥३२॥

अथचेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मंकीर्तिं च हित्वा पापमवाप्स्यसि॥३३॥

अकीर्तिं चापि भूतानि कथयिष्यंति तेऽव्ययाम्।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते॥३४॥

भयाद्रणादुपरतं मंस्यते त्वां महारथाः।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्॥३५॥

अवाच्यवादांश्च बहून्वदिष्यंति तवाहिताः।
निन्दन्तस्तवसामर्थ्यं ततो दुःखतरं नु किम्॥३६॥

हतो वाप्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्।
तस्मादुत्तिष्ठ कौंतेय ! युद्धाय कृतनिश्चयः॥३७॥

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥३८॥

एषा तेऽभिहिता सांख्येबुद्धियोगे त्विमां शृणु।
बुद्ध्यायुक्तोयथापार्थ ! कर्मबन्धंप्रहास्यसि॥३९॥

नेहाभिकमनाशोऽस्ति प्रत्यवायो न विद्यते।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्॥४०॥

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन !
बहुशाखा ह्यनन्ताश्चबुद्धयोऽव्यवसायिनाम्॥४१॥

यामिमां पुष्पितां वाचं प्रवदंत्यविपश्चितः।
वेदवादरताः पार्थ ! नान्यदस्तीति वादिनः॥४२॥

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥४३॥

भोगैश्वर्यप्रसक्तानां तयाऽपहतचेतसाम्।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते॥४४॥

त्रैगुण्यविषयावेदा निस्त्रैगुण्योभवाऽर्जुन !
निर्द्वन्द्वो नित्यसत्वस्थो निर्योगक्षेम आत्मवान्॥४५॥

यावानर्थ उदपाने सर्वतः संप्लुतोदके।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः॥४६॥

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते संगोऽस्त्वकर्मणि॥४७॥

योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनंजय।
सिद्ध्यसिद्ध्योःसमो भूत्वा समत्वं योग उच्यते॥४८॥

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय !
बुद्धौशरणमन्विच्छ कृपणाः फलहेतवः॥४९॥

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्॥५०॥

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः।
जन्मबंधविनिर्मुक्ताः पदं गच्छंत्यनामयम्॥५१॥

यदा तेमोहकलिलंबुद्धिर्व्यतितरिष्यति।
तदा गंतासि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥५२॥

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि॥५३॥

अर्जुन उवाच

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव !
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥५४॥

श्री भगवानुवाच

प्रजहाति यदा कामान्सर्वान्पार्थ ! मनोगतान्।
आत्मन्यैवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते॥५५॥

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते॥५६॥

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।
नाभिनंदति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता॥५७॥

यदा संहरते चायं कूर्मोंगानीव सर्वशः।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥५८॥

विषया विनिवर्तंते निराहारस्य देहिनः।
रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्त्तते॥५९॥

यततो ह्यपि कोंतेय ! पुरुषस्य विपश्चितः।
इन्द्रियाणि प्रमाथीनि हरंति प्रसभं मनः॥५०॥

तानि सर्वाणि संयम्य युक्त आसीत मत्परः।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥६१॥

ध्यायतो विषयान्पुंसः संगस्तेषूपजायते।
संगात्संजायते कामः कामात्क्रोधोऽभिजायते॥६२॥

क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति॥६३॥

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति॥६४॥

प्रसादे सर्वदुःखानां हानिरस्योपजायते।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते॥६५॥

नास्ति बुद्धिरयुक्तस्य न चाऽयुक्तस्य भावना।
न चाऽभावयतः शांति रशांतस्य कुतः सुखम्॥६६॥

इन्द्रियाणां हि चरतां यम्मनोऽनुविधीयते।
तदस्य हरति प्रज्ञां वायुर्नावमिवांऽभसि॥६७॥

तस्माद्यस्य महाबाहो ! निगृहीतानि सर्वशः।
इन्द्रियाणींद्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥६८॥

या निशा सर्वभूतानां तस्यां जागर्ति संयमी।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥६९॥

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशंति यद्वत्।
तद्वत्कामा यं प्रविशति सर्वे स शांतिमाप्नोति न कामकामी॥७०॥

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः।
निर्ममो निरहंकारः स शांतिमधिगच्छति॥७१॥

एषा ब्राह्मी स्थितिः पार्थ ! नैनां प्राप्य विमुह्यति।
स्थित्वाऽस्यामंतकालेऽपि ब्रह्म निर्वाणमृच्छति॥७२॥

( इति भगवद्गीतायाः द्वितीयोऽध्यायः
श्री व्यासकृतमहाभारतात् )

सुशब्द–प्रयोग–महिमा

यस्तु प्रयुङ्क्ते कुशलो विशेषे,
शब्दान् यथावद् व्यवहारकाले।
सोऽनन्तमाप्नोति जयं परत्र,
वाग्योगविद्दुष्यति चाऽपशब्दैः॥

कः ? वाग्योगविदेव।कुत एतत्। यो हि शब्दान् जानाति अपशब्दानप्यसौ जानाति। यथैव हि शब्दज्ञाने धर्मः। एवमपशब्दज्ञानेऽप्यधर्मः। अथवा भूयानधर्मः प्राप्नोति। भूयांसोऽपशब्दाः। अल्पीयांसः शब्दशः। एकैकस्यशब्दस्य बहवोऽपभ्रंशाः। तद्यथागौरित्यस्य गावी गोणी गोता गोपोतलिकेत्येवमादयोऽपभ्रंशाः। अथ योऽवाग्योगवित्। अज्ञानं तस्य शरणम्। विषम उपन्यासः।नाऽत्यन्तायाऽज्ञानं शरणं भवितुमर्हति। यो ह्यजानन् वै ब्राह्मणंहम्यात् सुरां वा पिबेत् सोऽपि मन्ये पतितः स्यात्। एवं तर्हि सोनन्तमाप्नोति जयं परत्र वाग्योगविद्। दुष्यति चाऽपशब्दैः। कः।अवाग्योगविदेव।अथ यो वाग्योगविद्।विज्ञानं तस्य शरणम्। क्वपुनरिदं पठितम्। भ्राजा नाम श्लोकाः। किं च भोः श्लोका अपिप्रमाणम्। किं नाऽतः ?।यदि श्लोका अपि प्रमाणम्। अयमपिप्रमाणं भवितुमर्हति।

यदुदुम्बरवर्णानां घटीनां मण्डलं महत्।
पीतं न गमयेत् स्वर्गं किं तत् क्रतुगतं नयेत्। इति।

प्रमत्तगीत एषः तत्र भवतः। यस्त्वप्रमत्तगीतस्तत् प्रमाणम्।

(श्री पातञ्जल महाभाष्यात् १-१-१)

काल विभागः

सन्ति च खल्वपिकालविभागाः। तिष्ठन्ति पर्वताः स्थास्यन्तिपर्वतास्तस्युःपर्वता इति। किं शक्यन्त एते शब्दाः प्रयोक्तुमित्यतःसन्ति कालविभागाः। नाऽवश्यं प्रयोगादेव। इह हि भूतभविष्यद्वर्त-

मानानां राज्ञां याः क्रियास्ता स्तिष्ठतेरधिकरणम्। इह तावत्तिष्ठन्तिपर्वता इति संप्रति ये राजानस्तेषां याः क्रियास्तासु वर्तमानासु।स्थास्यन्ति पर्वता इति इत उत्तरं ये राजानो भविष्यन्ति तेषां याःकियास्तासु भविष्यतीषु। तस्थुः पर्वता इति इह हि ये राजानोबभूवुस्तेषां याः क्रियास्तास्वतिक्रांतासु। अपर आहुः। नास्तिवर्तमानः काल इति। अपि चात्र श्लोकानुदाहरन्ति।

न वर्तते चक्रमिषुर्न पात्यते,
नस्यन्दते सरितः सागराय।
कूटस्थोयं लोको न विचेष्टिताऽस्ति,
यो ह्येवं पश्यति सोऽप्यनन्धः॥

मीमांसको मन्यमानो युधा मेधाविसंमतः काकंस्मेहानुपृच्छति किं ते पतितलक्षणम्। अनागतेन पतसि, अतिक्रान्ते चकाकन। यदि संप्रति पतसि सर्वो लोकः पतत्ययम्। हिमवानपि गच्छति।

अनागतमतिक्रांतं वर्तमानमिति त्रयम्।
सर्वत्र च गतिर्नास्ति गच्छतीति किमुच्यते॥
क्रियाप्रवृत्तौ यो हेतुस्तदर्थं यद्विचेष्टितम्।
तत्समीक्ष्य प्रयुञ्जीत गच्छतीत्यविचारयन्॥

अपर आह। अस्ति वर्तमानः काल इति। आदित्यगतिवन्नोपलभ्यत इति। अपि चाऽत्रश्लोकमुदाहरन्ति।

विसस्य बाला इव दह्यमाना
न लक्ष्यते विकृतिः सन्निपाते।
अस्तीति तां वेदयन्ते त्रिभावाः
सूक्ष्मो हि भावोऽनुमितेन गम्पः॥

(श्री पातञ्जल महाभाष्यस्य
अ० ३-पा० २-आ० २ वर्तमाने लट् सूत्रात्)

ऐषणात्रय–व्याख्या

“इह खलु पुरुषेणाऽनुपहतसत्वबुद्धिपौरुषपराक्रमेण हितमिहचामुष्मिंश्चलोके समनुपश्यता तिस्र एषणाः पर्येष्टव्या भवन्ति॥१॥

तद्यथा। प्राणैषणा धनैषणा परलोकैषणेति। आसां तुखल्वेषाणानां प्राणैषणां तावत्पूर्वतरमापद्येत। कस्मात्प्राणपरित्यागेहि सर्वत्यागः। तस्यानुपालनं स्वस्थस्य स्वस्य स्वस्थवृत्तिरातुरस्यविकारप्रशमनेऽप्रमादस्तदुभयमेतदुक्तं वक्ष्यते च। तद्यथोक्तमनुवर्तमानः प्राणानुपालनाद्दीर्घमायुरवाप्नोतीति प्रथमैषणा व्याख्याताभवति॥२॥

अथ द्वितीयां धनैषणामापद्येत। प्राणेभ्यो ह्यनन्तरं धनमेवपर्येष्टव्यं भवति। न ह्यतः पापात्पापीयोऽस्ति यदनुपकरणस्यदीर्घमायुः, तस्मादुपकरणानि पर्येष्टुंयतेत। तत्रोपकरणोपायामनुव्याख्यास्यामः॥३॥

तद्यथा। कृपिपाशुपाल्यवाणिज्यराजोपसेवादीनि। यानिचाऽन्यान्यपि सतामविगर्हितानि कर्माणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुम्। तथा कुर्वन्दीर्घजीवितमनुभवन्पुरुषोभवतीतिद्वितीया धनैषणा व्याख्याता भवति॥४॥

अथ तृतीयां परलोकैषणामापद्येत। संशयश्चात्र, कथं ? भविष्याम इतश्च्युता नवेति। कुतः पुनः संशय इति। उच्यते। सन्तिह्येकेप्रत्यक्षपराः। परोक्षत्वात् पुनर्भवस्य नास्तिक्यमाश्रिताः। सन्तिचापरे ये त्वाऽऽगमप्रत्ययादेव पुनर्भवमिच्छन्ति श्रुतिभेदाश्च।

“मातरं पितरं चैके मन्यन्ते जन्मकारणम्।
स्वभावं परनिर्माणं यदृच्छां चाऽपरे जनाः”॥

इत्यतः संशयः। किं नु खल्वस्ति पुनर्भवो न वेति॥५॥तत्र बुद्धिमान्नास्तिक्यबुद्धिं जह्याद्विचिकित्सां च। कस्मात् ? प्रत्यक्षं ह्यल्प मनल्पमप्रत्यक्षमस्ति यदागमानुमानयुक्तिभिरुपलभ्यते।यैरेवतावदिन्द्रियैः प्रत्यक्षमुपलभ्यते तान्येव सन्ति चाऽप्रत्यक्षाणि॥६॥

सतां च रूपाणामतिसंनिकर्षादतिविप्रकर्षादावरणात्करणदौर्बल्यान्मनोऽनवस्थानात्समानाभिहारादभिभवादतिसौक्ष्म्याच्च प्रत्यक्षानुपलब्धिः। तस्मादपरीक्षितमेतदुच्यते–प्रत्यक्षमेवास्ति नान्यदस्तीति॥७॥

तत्राप्तागमस्तावद्वेदो यश्चान्योऽपि कश्चिद्वेदार्थादविपरीत्तःपरीक्षकैः प्रणीतः शिष्टानुमतो लोकानुग्रहप्रवृत्तः शास्त्रवादः सचाऽऽप्तागमः। आप्ताऽऽगमादुपलभ्यते दानं तपो यज्ञः सत्यमहिंसाब्रह्मचर्यमित्यभ्युदयनिःश्रेयसकराणि। न चानतिवृत्तसत्वदोषाणामदोषैरपुनर्भवो धर्मद्वारेषूपदिष्यते, धर्मद्वारावहितैश्च व्यपगतभयरागद्वेषलोभमोहमानैर्ब्रह्मपरैराप्तैः कर्मविद्भिरनुपहतस्वबुद्धिप्रचारैःपूर्वतरैर्महर्षिभिर्दिव्यचक्षुर्भिर्दृष्टोपदिष्टः पुनर्भव इति व्यवस्येदेवंपुनर्भवः पूत्वक्षमपि चोपलभ्यते॥२८॥

मातापित्रोर्विसदृशान्यपत्यानि तुल्यसंभवानांवर्णस्वराकृतिसत्त्वबुद्धिभाग्यविशेषाः। प्रवरावरकुलजन्म, दास्यैश्वर्यं, सुखासुखमायुः, आयुषो वैषम्यम्, इहाकृतस्यावाप्तिः, अशिक्षितानां च रुदितस्तनपानहासत्रासादीनां चप्रवृत्तिः, लक्षणोत्पत्तिः, कर्मसामान्ये फलविशेषो, मेधा क्वचित्, क्वचित्कर्मण्यमेधा, जातिस्मरणम्, इहागमनमितश्च्युतानां च भूतानां समदर्शने प्रियाप्रियत्वम्॥२६॥

अत एवानुमीयतेयत्स्वकृतमपरिहार्यमविनाशिपौर्वदेहिकं दैवसंज्ञकमानुबन्धिकं कर्म तस्यैतत्फलम् इतश्चान्यद्भविष्यतीति,फलाद्बीजमनुमीयते फलं च बीजात्॥३०॥

युक्तिश्चैषा षड्धातुसमुदयाद्गमंजन्म आत्मा व परलोकसम्बन्ध एवेति कर्तृकरणसंयोगात्क्रिया। कृतस्य कर्मणः फलं नाकृतस्य। नाङ्कुरोत्पत्तिरबीजात्। कर्मसदृशं फलम्। नान्यस्माद्बीजादन्यस्योत्पत्तिरिति युक्तिः॥३१॥

एवं प्रमाणैश्चतुर्भिरुपदिष्टैः पुनर्भवो धर्मद्वारेष्वनुविधीयते ॥ ३२॥१

तद्यथा गुरुशुश्रूषायामध्ययने व्रतचर्यायां दारक्रियायामपत्योत्पादने भृत्यभरणेऽतिथिपूजायां दानेऽनभिध्यायां तपस्यन-सूयायां,देहवाङ्मनसे कर्मण्यक्लिष्टेदेहेन्द्रियमनोऽर्थबुद्ध्यात्मपरीक्षायां मनःसमाधाविति। यानि चान्यान्यप्येवंविधानि कर्माणि सतामविगर्हितानि स्वर्ग्याणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुम्। तथाकुर्वन्निह चैव यशो लभते प्रेत्य च स्वर्गमिति तृतीया परलोकैषणाव्याख्याता भवति॥३३॥

( श्रीचरकसूत्रस्थानस्य एकादशाध्यायात्)

कवि–कुल–गुरु श्री कालिदास कृतं

रघुवंश महाकाव्यम्।

प्रथमः सर्गः

वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥१॥

क्व सूर्य्यप्रभवो वंशः क्व चाल्पविषया मतिः।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्॥२॥

मंदः कवियशःप्रार्थी गमिष्याम्युपहास्यताम्।
प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः॥३॥

अथवा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः॥४॥

सोऽहमाजन्मशुद्धाना माफलोदयकर्मणाम्।
आसमुद्रक्षितीशाना मानाकरथवर्त्मनाम्॥५॥

यथाविधिहुताऽग्नीनां यथाकामाऽर्चितार्थिनाम्।
यथाऽपराधदण्डानां यथाकालप्रबोधिनाम्॥६॥

त्यागाय संभृतार्थानां सत्याय मितभाषिणाम्।
यशसे विजिगीषूणां प्रजायै गृहमेधिनाम्॥७॥

शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम्।
वार्द्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम्॥८॥

रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्।
तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः॥९॥ कुलकम्॥

तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः।
हैम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकाऽपि वा॥१०॥

वैवस्वतोमनुर्नाम माननीयो मनीषिणाम्।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव॥११॥

तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव॥१२॥

व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः।
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाऽऽश्रितः॥१३॥

सर्वाऽतिरिक्तसारेण सर्वतेजोभिभाविना।
स्थितः सर्वोन्नतेनोर्वी क्रान्त्वा मेरुरिवाऽऽत्मना॥१४॥

आकारसदृशप्रज्ञः प्रज्ञया सदृशाऽऽगमः।
आगमैः सदृशाऽऽरम्भ आरम्भ सदृशोदयः॥१५॥

भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम्।
अधृष्यश्चाऽभिगम्यश्च यादोरत्नैरिवाऽर्णवः॥१६॥

रेखामात्रमपि क्षुण्णादामनोर्वर्त्मनः परम्।
न व्यतीयुः प्रजास्तस्य नियन्तुर्नेभिवृत्तयः॥१७॥

प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत्।
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः॥१८॥

सेनापरिच्छदस्तस्य द्वयमेषाऽर्थसाधनम्।
शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वीधनुषि चाऽऽतता॥१९॥

तस्य संवृतमन्त्रस्य गूढाऽऽकारेङ्गितस्य च \।
फलाऽनुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव॥२०॥

जुगोपाऽऽत्मानमत्रस्तो भेजे धर्ममनातुरः।
अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत्॥२१॥

ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः।
गुणा गुणाऽनुबन्धित्वा तस्य सप्रसवा इव॥२२॥

अनाकृष्टस्य विषयैर्विद्यानां पारदश्वनः।
तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना॥२३॥

प्रजानां विनयाधाना द्रक्षणाद्भरणादपि।
स पिता पितरस्तासां केवलं जन्महेतवः॥२४॥

स्थित्यै दण्डयतो दण्ड्यान्परिणेतुः प्रसूनये।
अप्यर्थकामौ तस्याऽऽस्तां धर्म एव मनीषिणः॥२५॥

दुदोह गां स यज्ञाय सस्याय मघवा दिवम्।
संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम्॥२६॥

न किलाऽनुययुस्तस्य राजानो रक्षितुर्यशः।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता॥२७॥

द्वेष्योऽपि संमतः शिष्टस्तस्याऽऽर्तस्य यथौषधम्।
त्याज्योदुष्टः प्रियोप्यासीदंगुलीवोरगक्षता॥२८॥

तं वेधा विदधे नूनं महाभूतसमाधिना।
तथाहि सर्वे तस्याऽऽसन्परार्थैकफला गुणाः॥२९॥

सवेलावप्रवलयां परिखीकृतसागराम्।
अनन्यशासनामुर्वीं शशासैकपुरीमिव॥३०॥

तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा।
पत्नी सुदक्षिणेत्यासी दध्वरस्येव दक्षिणा॥३१॥

कलत्रवन्तमात्मानमवरोधे महत्यपि।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः॥३२॥

तस्यामात्मानुरूपाया मात्मजन्मसमुत्सुकः।
विलम्बितफलैः कालं स निनाय मनोरथैः॥३३॥

संतानाऽर्थाय विधये स्वभुजादवतारिता।
तेन धूर्जगतो गुर्वींसचिवेषु निचिक्षिपे॥३४॥

अथाऽभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया।
तौ दंपती वसिष्ठस्य गुरोर्जग्मतुराश्रमम्॥३५॥

स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितौ।
प्रावृषेण्यं पयोवाहं विद्युदैरावताविव॥३६॥

मा भूदाऽऽश्रमपीडेति परिमेयपुरः सरौ।
अनुभावविशेषात्तु सेनापरिवृताविव॥३७॥

सेव्यमानौ सुखस्पर्शैःशालनिर्यासगन्धिभिः।
पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः॥३८॥

मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः।
षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः॥३९॥

परस्पराऽक्षिसादृश्यमदूरोज्झितवर्त्मसु।
मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाऽऽबद्धदृष्टिषु॥४०॥

श्रेणीबन्धाद्वितन्वद्भि रस्तम्भां तोरणस्रजम्।
सारसैः कलनिर्ह्रादैः कचिदुन्नमिताऽऽननौ॥४१॥

पवनस्याऽनुकूलत्वात्प्रार्थनासिद्धिशंसिनः।
रजोभिस्तुरगोत्कीर्णेरस्पृष्टाऽलकवेष्टनौ॥४२॥

सरसीष्वरविन्दानां वीचिविक्षोभशीतलम्।
आमोदमुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम्॥४३॥

ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम्।
अमोघाः प्रतिगृह्णन्ता वर्ध्याऽनुपदमाशिषः॥४४॥

हैयंगवीनमादाय घोषवृद्धानुपस्थितान्।
नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम्॥४५॥कुलकम्॥

काऽप्यभिख्या तयोरासीद् ब्रजतोः शुद्धवेषयोः।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव॥४६॥

तत्तद्भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः।
अपि लङ्गितमध्वानं बुबुधे न बुधोपमः॥४७॥

स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः।
सायं संयमिनस्तस्य महर्षेर्महिषीसखः॥४८॥

वनान्तरादुपावृत्तैःसमित्कुशफलाऽऽहरैः।
पूर्यमाणमदृश्याग्नि–प्रत्युद्यातैस्तपस्विभिः॥४९॥

आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः।
अपत्यैरिव नीवार–भागधेयोचितैर्मृगैः॥५०॥

सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम्।
विश्वासाय विहंगानामालवालाम्बुपायिनाम्॥५१॥

आतपाऽत्ययसंक्षिप्त–नीवारासु निषादिभिः।
मृगैर्वर्तितरोमन्थमुटजाऽङ्गनभूमिषु॥५२॥

अभ्युत्थिताऽग्निपिशुनैरतिथीनाश्रमोन्मुखान्।
पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभिः॥५३॥ कुलकम्॥

अथ यन्तारमादिश्य धुर्यान्विश्रामयेति सः।
तामवाऽऽरोहयत्पत्नींरथादवततार च॥५४॥

तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः।
अर्हणामर्हते चक्रुर्मुनयो नयचक्षषे॥५५॥

विधेः सायंतनस्याऽन्ते स ददर्श तपोनिधिम्।
अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम्॥५६॥

तयोर्जगृहतुः पादान्राजा राज्ञी च मागधी।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः॥५७॥

तमातिथ्यक्रियाशान्त–रथक्षोभपरिश्रमम्।
पप्रच्छ कुशलं राज्ये राज्याऽऽश्रममुनिं मुनिः॥५८॥

अथाऽथर्वनिधेस्तस्य विजिताऽरिपुरः पुरः।
अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः॥५९॥

उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे।
देवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम्॥६०॥

तव मंत्रकृतो मन्त्रैर्दूरात्प्रशमिताऽरिभिः।
प्रत्याऽऽद्दिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः॥६१॥

हविरावर्जितं होत स्त्वया विधिवदग्निषु।
वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम्॥६२॥

पुरुषाऽऽयुपजीविन्यो निरातङ्का निरीतयः।
यन्मदोषाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम्॥६३॥

त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना।
साऽनुबन्धाः कथं न स्युः संपदो मे निरापदः॥६४॥

किं तु वध्वां तवैतस्यामदृष्टसदृशप्रजम्।
न मामवति सद्वीपा रत्नसूरपि मेदिनी॥६५॥

नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः।
न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः॥६६॥

मत्परं दुर्लभं मत्वा नूनमावर्जितं मया।
पयः पूर्वैः स्वनिःश्वासैः कवोष्णमुपभुज्यते॥६७॥

सोऽहमिज्याविशुद्धाऽऽत्मा प्रजालोपनिमीलितः।
प्रकाशश्चाऽप्रकाशश्च लोकाऽऽलोक इवाऽचलः॥६८॥

लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम्।
संततिः शुद्धवंश्या हि परत्रेह च शर्मणे॥६९॥

तया हीनं विधातर्मां कथं पश्यन्न दूयसे \।
सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम्॥७०॥

असह्यपीडं भगवन् ! ऋणमन्त्यमवेहि मे।
अरुंतुदमिवालानमनिर्वाणस्य दन्तिनः॥७१॥

तस्मान्मुच्ये यथा तात ! संविधातुं तथार्हसि।
इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः॥७२॥

इतिविज्ञापितो राज्ञा ध्यानस्तिमितलोचनः।
क्षणमात्रमृषिस्तस्थौ सुप्तमीन इवहृदः॥७३॥

सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणम्।
भाषिताऽऽत्मा भुवो भर्तुरथैनं प्रत्यबोधयत्॥७४॥

पुरा शक्रमुपस्थाय तयोर्वीं प्रति यास्यतः।
आसीत्कल्पतरुच्छाया माश्रिता सुरभिः पथि॥७५॥

धर्मलोपभयाद्राज्ञीमृतुस्नातामिमां स्मरन्।
प्रदक्षिणक्रियायां तस्यां त्वं साधु नाऽऽचरः॥७६॥

अवजानासि मां यस्मादतस्ते न भविष्यति।
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा॥७७॥

स शापो न त्वया राजन्न च सारथिमा श्रुतः।
नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे॥७८॥

ईप्सितं तद्रवज्ञाना द्विद्धि साऽर्गलमात्मनः।
प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः॥७९॥

हविषे दीर्घसत्रस्य सा चेदानींप्रचेतसः।
भुजंगपिहितद्वारं पातालमधितिष्ठति॥८०॥

सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः।
आराधय सपत्नीकः प्रोता कामदुघा हि सा॥८१॥

इति वादिन एवास्य होतुराहुतिसाधनम्॥
अनिन्द्या नन्दिनी नाम धेनुराववृते वनात्॥८२॥

ललाटोदयमामुग्रंपल्लवस्निग्धपाटला।
बिभ्रती श्वतरोमाऽङ्कं संध्येव शशिनं नवम्॥८३॥

भुवं कोष्णेन कुण्डोघ्नीमेध्येनाऽवभृथादपि।
प्रस्रवेणाभिवर्षन्ती वत्साऽऽलोकप्रवर्तिना॥८४॥

रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात्।
तीर्थाभिषेकजां शुद्धिमादधाना महीक्षितः॥८५॥

तां पुण्यदर्शनां दृष्ट्वानिमित्तस्तपोनिधिः।
याज्यमाशंसितावन्ध्य–प्रार्थनं पुनरब्रवीत्॥८६॥

अदूरवर्तिनीं सिद्धि राजन्विगणयात्मनः।
उपस्थितेयं कल्याणी नाम्निकीर्तित एवयत्॥८७॥

वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम्।
विद्यामभ्यसनेनेव प्रसादयितुमर्हसि॥८८॥

प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः।
निपराणायां निपीदाऽस्यां पीताम्भसि पिबेरपः॥८९॥

वधूर्भक्तिमती चैनामर्चितामातपोवनात्।
प्रयता प्रातरन्वेतु सायं प्रत्युद्व्रजेदपि॥९०॥

इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव।
अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम्॥९१॥

तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः।
आदेशं देशकालाः शिष्यः शासितुरानतः॥९२॥

अथ प्रदोषे दोषज्ञः संवेशाय विशां पतिम्।
सूनुः सूनृतवाक्स्रष्टुर्विससर्जोदितश्रियम्॥९३॥

सत्यामपि तपःसिद्धौ नियमापेक्षणा मुनिः।
कल्पवित्कल्पयामास वन्यामेवाऽस्य संविधाम्॥९४॥

निर्दिष्टां कुलपतिना स पर्णशाला-
मध्यास्यप्रयतपरिग्रहद्वितीयः।
तच्छिष्याध्ययननिवेदितावसानां
संविष्टः कुशशयने निशां निनाय॥९५॥

इति प्रथमः सर्गः

अथ द्वितीयः सर्गः।

अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम्।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच॥१॥

तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया।
मार्गं मनुष्येश्वरधर्मपत्नीं श्रुतेरिवार्थं स्मृतिरन्वगच्छत्॥२॥

निवर्त्य राजा दयितां दयालुस्तां सोरभेयीं सुरभिर्यशोभिः।
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम्॥३॥

व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः।
न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः॥४॥

आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दंशनिवारणैश्च।
अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत्॥५॥

स्थितः स्थितामुश्चलितः प्रयातां निषेदुषीमासनबन्धधीरः।
जलाभिलाषी जलमाददानां छायेव तां भषतिरन्वगच्छत्॥६॥

स न्यस्तचिह्नामपि राजलक्ष्मींतेजोविशेषानुमितां दधानः।
आसीद्नाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः॥७॥

लताप्रतानोदुग्रथितैः स केशैरधिज्यधन्वा विचचार दावम्।
रक्षाऽपदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निवदुष्टसत्वान्॥८॥

विसृष्टपार्श्वाऽनुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य।
उदीरयामासुरिषोन्मदानामालोकशब्दं वयसां विरावैः॥९॥

मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम्।
अवाकिरन्बाललताः प्रसूनै राचारलाजैरिव पौरकन्याः॥१०॥

धनुर्भूतोऽप्यस्य दयार्द्रभावमाख्यातमन्तःकरणैर्विशङ्कैः।
विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः॥११॥

स कीचकैर्मारुतपूर्णरन्ध्रैःकूजद्भिरापादितवंशकृत्यम्।
शुश्राव कुक्षेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः॥१२॥

पृक्तस्तुषारैर्गिरिनिर्भराणामनोकहाऽऽकम्पितपुष्पगन्धी।
तमातपक्लान्तमनातपत्र माचारपूतं पवनः सिषेवे॥१३॥

शशाम वृष्ट्याऽपि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः।
ऊनं न सत्वेष्वधिको बबाधे तस्मिन्वनं गोप्तरि गाहमाने॥१४॥

संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम्।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः॥१५॥

तां देवतापित्रतिथिक्रियार्थामन्वग्ययो मध्यमलोकपालः।
बभौच सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना॥१६॥

स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि।
ययौमृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन्॥१७॥

आपीनभारोद्वहनप्रयत्नाद् गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः।
उभावलं चक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम्॥१८॥

वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात्।
पपौ निमेषाऽलसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम्॥१९॥

पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिव धर्मपत्न्या।
तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव संध्या॥२०॥

प्रदक्षिणीकृत्य पयस्विनींतां सुदक्षिणा साऽक्षतपात्रहस्ता।
प्रणम्य चाऽऽनर्च विशालमस्याः शृङ्गान्तरं द्वारामिवार्थसिद्धेः॥२१॥

वत्सोत्सुकाऽपि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्द तुस्तौ।
भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरःफलानि॥२२॥

गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधि दिलीपः।
दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम्॥२३॥

तामन्तिकन्यस्तबलिप्रदीपा मन्वास्य गोप्ता गृहणीसहायः।
क्रमेण सुप्तामनुसंविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत्॥२४॥

इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः।
सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य॥२५॥

अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः।
गङ्गाप्रपातान्तविरुढशष्पंगौरीगुरोर्गह्वरमाविवेश॥२६॥

सा दुष्प्रधर्षा मनसापि हिंस्रैरित्यद्विशोभाप्रहितेक्षणेन।
अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष॥२७॥

तदीयमाक्रन्दितमार्तसाधोगुहानिबद्धप्रतिशब्ददीर्घम्।
रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम्॥२८॥

स पाटलायां गवितस्थिवांसं धनुर्धरः केसरिणं ददर्श।
अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम्॥२९॥

ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः।
जाताभिषङ्गो नृपतिर्निषंगा दुद्धर्तुमैच्छत्प्रसभोद्धृतारिः॥३०॥

वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकंकपत्रे।
सक्तांऽगुलिः सायकपुङ्खएव चित्रार्पिताऽऽरम्भ इवावतस्थे॥३१॥

बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः।
राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रौषधिरुद्धवीर्यः॥३२॥

तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम्।
विस्माययन्विस्मितमात्मवृत्तौ सिंहोरुसत्वं निजगाद सिंहः॥३३॥

अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात्।
न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य॥३४॥

कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम्।
अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम्॥३५॥

अमुं पुरः पश्यसिदेवदारुं पुनीकृतोऽसौ वृषभध्वजेन।
यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः॥३६॥

कण्डूयमानेन कटं कदाचि द्वन्यद्विपेनोन्मथिता त्वगस्य।
अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः॥३७॥

तदाप्रभृत्येव वनद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ।
व्यापारितः शूलभृता विधाय सिंहत्यमङ्कागससत्त्ववृत्ति॥३८॥

तस्याऽलमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण।
उपस्थिता शोणितपारणा मे सुरद्विपाश्चान्द्रमसी सुधेव॥३९॥

स त्वं निवर्तस्वविहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति॥४०॥

इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य।
प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञांशिथिलीचकार॥४१॥

प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वभङ्गे वितथप्रयत्नः।
जडोकृतस्त्र्यम्बकवीक्षणेन वज्र मुमुक्षन्निव वज्रपाणिः॥४२॥

संरुद्धचेष्टस्य मृगेन्द्र ! कामं हास्यं वचस्तद्यदहं विवक्षुः।
अन्तर्गतं प्राणभृतां हि वेद सव भवान्भावम्ताऽभिधास्वे॥४३॥

मान्यः स मे स्थावरजंगमानां सर्गस्थितिप्रत्यवहारहेतुः।
गुरोरपीदं धनमाहिताग्ने नश्यत्पुरस्तादनुपेक्षणीयम्॥४४॥

स त्वं मदीयैन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद।
दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः॥४५॥

अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन्।
भूयः स भूतेश्वरपार्श्ववर्ती किंचिद्विहस्यार्थपतिं बभाषे॥४६॥

एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च।
अल्पस्य हेतार्बहुहातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम्॥४७॥

भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते।
जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ ! पितेव पासि॥४८॥

अथैकधेनोरपराधचण्डाद्गुरोः कृशानुप्रतिमाद्विभेषि।
शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोघ्नीः॥४९॥

तदक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम्।
महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः॥५०॥

एतावदुक्त्वा विरते मृगेन्द्रेप्रतिस्वनेनास्य गुहागतेन।
शिलोच्चयोऽपि क्षितिपालमुच्चैः प्रीत्या तमेवार्थमभाषतेव॥५१॥

निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच।
धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः॥५२॥

क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः।
राज्येन किं तद्विपरीतवृत्तः प्राणैरुपक्रोशमलीमसैर्वा॥५३॥

कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाश्चान्यपयस्विनीनाम्।
इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयास्याम्॥५४॥

सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः।
न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः॥५५॥

भवानपीदं परवानवैति महान् हि यत्नस्तव देवदारौ।
स्थातुं नियोक्तुर्न हि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन॥५६॥

किमप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः।
एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु॥५७॥

सम्बन्धमाभाषणपूर्वमाहुर्वृत्तः स नौसंगतयो वनान्ते।
तद्भूतनाथानुग ! नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुम्॥५८॥

तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः।
स न्यस्तशस्त्रो हरये स्वदेहमुपानयत्पिण्डमिवामिषस्य॥५९॥

तस्मिन्क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम्।
अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता॥६०॥

उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन्।
ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्त्रविणींन सिंहम्॥६१॥

तं विस्मितं धेनुरुवाच साधो ! मायां मयोद्भाव्य परीक्षितोऽसि।
ऋषिप्रभावान्मयिनान्तकोऽपि प्रभुः प्रहर्तुंकिमुतान्यहिंस्राः॥६२॥

भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्र ! वरं वृणीष्व।
न केवलानां पयसां प्रसूतिमवेहि मां कामदुघां प्रसन्नाम्॥६३॥

ततः समानीय स मानितार्थी हस्ती स्वहस्ताऽर्जितवीरशब्दः।
वंशस्य कर्तारमनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे॥६४॥

संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा।
दुग्ध्वा पयः पत्रपुटे मदीयं पुत्रोपभुङ्क्ष्वेति तमादिदेश॥६५॥

वत्सस्य होमार्थविधेश्चशेषमृषेरनुज्ञामधिगम्य मातः !
ऊधस्यमिच्छामि तवोपभोक्तुं षष्ठांशमुर्व्या इव रक्षितायाः॥६६॥

इत्थं क्षितीशेन वशिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव।
तदन्विता हैमवताश्च कुक्षेः प्रत्याययावाश्रममश्रमेण॥६७॥

तस्याः प्रसन्नेन्दमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य।
प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव॥६८॥

स नन्दिनीस्तन्यमनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम्।
पपौवसिष्ठेन कृताभ्यनुज्ञःशुभ्रं यशो मूर्तमिवातितृष्णः॥६९॥

प्रातर्यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य।
तौदंपती स्वां प्रति राजधानीं प्रस्थापयामास यशी वसिष्ठः॥७०॥

प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भर्तुररुन्धतीं च।
धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरप्रभावः॥७१॥

श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः।
ययानुद्धातसुखेन मार्गं स्वेनैव पूर्णेन मनोरथेन॥७२॥

तमाहितौत्सुक्यमदर्शनेन प्रजाः प्रजाऽर्थव्रतकर्शिताङ्गम्।
नेत्रैःपपुस्तृप्तिमनाप्नवद्भिर्नवोदयं नाथमिवौषधीनाम्॥७३॥

पुरदंरश्रीःपुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः।
भुजे भुजंगेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज॥७४॥

अथ नयनसमुत्थं ज्योतिरत्नेरिवद्यौः
सुरसरिदिव तेजो बहिनिष्ठ्यूतमैशम्।
नरपतिकुलभूत्यैगर्भमाधत्त राज्ञी
गुरुभिरभिनिविष्टं लोकपालानुभावैः॥७५॥

इति द्वितीयः सर्गः

तृतीयः सर्गः

अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम्।
निदानमिक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौर्हृदलक्षणं दधौ॥१॥

शरीरसादादसमग्रभूषणा मुखेनसालक्ष्यत लोध्रपाण्डुना।
तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनैव शर्वरी॥२॥

दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः।
अतोऽभिलाषेप्रथमं तथाविधे मनो बबन्धान्यरसान्विलङ्घ्यसा॥३॥

न मे ह्रियाशंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी।
इति स्म पृच्छत्यनुवेलमाद्धतः प्रियासखीरुत्तरकोसलेश्वरः॥४॥

उपेत्य सा दोहददुःखशीलतां यदेव वज्रेतदपश्यदाहृतम्।
न हीष्टमस्य त्रिदिवेऽपि भूपतेरभूदनासाद्यमधिज्यधन्वनः॥५॥

क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानाऽवयवा रराज सा।
पुराणपत्राऽपगमादनन्तरं लतेवसंनद्धमनोज्ञपल्लवा॥६॥

निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपायकाम्।
नदीमिवान्तः सलिलां सरस्वतीं नृपः ससत्त्वां महिषीममन्यत॥७॥

प्रियानुरागस्य मनःसमुज्जतेर्भुंजाऽर्जितानां च दिगन्तसम्पदाम्।
यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः॥८॥

सुरेन्द्रमात्राश्रितगर्भगौरवात् प्रयत्नमुक्तासनया गृहाऽऽगतः।
तयोपचाराञ्जलिखिन्नहस्तयो ननन्द पारिप्लवनेत्रया नृपः॥९॥

कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि।
पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श फाले दिवमभ्रितामिव॥१०॥

ग्रहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितभाग्य संपदम्।
असून पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम्॥११॥

दिशः प्रसेदुर्मरुतो ययुः सुखाः प्रदक्षिणार्चिर्हविरग्निराददे।
बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम्॥१२॥

अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा।
निशीथदीपाः सहसा हतत्विषो बभूवु रालेख्यसमर्पिता इव॥१३॥

जनाय शुद्धान्तचराय शंसते कुमारजन्माऽमृतसंमिताक्षरम्।
अदेयमासीत्त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे॥१४॥

निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम्।
महोदधेः पूर इवेन्दुदर्शनाद् गुरुः प्रहर्षः प्रबभूव नात्मनि॥१५॥

स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते।
दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ॥१६॥

सुखश्रवा मङ्गलतूर्यनिखनाः प्रमोदनृत्यैः सह वारयोषिताम्।
न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि॥१७॥

न संयतस्तस्य बभूवरक्षितुर्विसर्जयेद्यंसुतजन्महर्षितः।
ऋणाभिधानात्स्वयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात्॥१८॥

श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः।
भवेक्ष्य धातोर्गमनार्थमर्थविश्चकार नाम्ना रघुमात्मसंभवम्॥१९॥

पितुः प्रयत्नात्स समप्रसंपदः शुभैः शरीराऽवयवैर्दिने दिने।
पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादि च बालचन्द्रमाः॥२०॥

उमावृषाङ्कोशरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ।
तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ॥२१॥

रथाङ्गनाम्नोरिव भावबन्धनं बभूवयत्प्रेम परस्पराश्रयम्।
विभक्तमप्येकसुतेन तत्तयोः परस्परस्योपरि पर्यचीयत॥२२॥

उवाच धात्र्याप्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम्।
अमृच्चनम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः॥२३॥

तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि।
उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ॥२४॥

अमंस्त चानेन परार्घ्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम्।
स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानामिव सर्गमात्मनः॥२५॥

सवृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः।
लिपेर्यथावद् ग्रहणेन वाङ्मयं नदीमुखेनैव समुद्रमाविशत्॥२६॥

अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम्।
अवन्ध्ययत्नाश्च बभूवुरत्र ते क्रिया हि वस्तूपहिता प्रसीदति॥२७॥

धियः समः स गुणैरुदारधीः क्रमाश्चतस्रश्चतुरर्णवोपमाः।
ततार विद्याः पवनातिपातिभि दिशो हरिद्भिर्हरितामिवेश्वरः॥२८॥

त्वचंमेध्यां परिधाय रौरवी मशिक्षताऽस्त्रंपितुरेव मन्त्रवत्।
न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरोऽपि सः॥२९॥

महोक्षतां वत्सतरः स्पृशन्निवद्विपेन्द्रभावं कलमः श्रयन्निव।
रघुः क्रमाद्यौवनमिवशैशवःपुपोष गाम्भीर्यमनोहरं वपुः॥३०॥

अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद् गुरुः।
नरेन्द्रकन्यास्तमवाप्य सत्पतिं तमोनुदं दक्षसुता इवाऽऽबभुः॥३१॥

युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकंधरः।
वपुःप्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयादद्गश्यत॥३२॥

ततः प्रजानां चिरमात्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरम्।
निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक्॥३३॥

नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीर्युवराजसंज्ञितम्।
अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम्॥३४॥

विभावसुः सारथिनैव वायुना घनव्यपायेन गभस्तिमानिव।
बभूवतेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः॥३५॥

अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दत्त्वायूने सितातपवारणम्।
मुनिवनतरुच्छायां देव्यातथा सह शिश्रिये
गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम्॥३६॥

इति तृतीयः सर्गः

चतुर्थः सर्गः।

स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः॥१॥

दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम्।
पूर्वं प्रधूमितो राज्ञांहृदयेऽग्निरिवोत्थितः॥२॥

पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः।
नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः॥३॥

सममेव समाक्रांतं द्वयं द्विरदगामिना।
तेन सिंहासनं पित्र्यमखिलं वाऽरिमण्डलम्॥४॥

छायामण्डललक्ष्येण तमदृश्या किल स्वयम्।
पद्मा पद्माऽऽतपत्रेण भेजे साम्राज्यदीक्षितम्॥५॥

परिकल्पितसांनिध्या काले काले च वन्दिषु।
स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थेसरस्वती॥६॥

स हि सर्वस्य लोकस्य युक्तदण्डतया मनः।
आददे नातिशीतोष्णो नभस्वानिव दक्षिणः॥७॥

मदोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ।
फलेन सहकारस्य पुष्पोद्गम इव प्रजाः॥८॥

नयविद्भिर्नवे राज्ञिसदसश्चोपदर्शितम्।

पूर्वएवाभवत्पक्ष तस्मिन्नाऽभवदुत्तरः॥९॥

पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः।
नवे तस्मिन्महीपाले सर्वं नवमिवाऽभवत्॥१०॥

यथा प्रह्लादनाश्चन्द्रः प्रतापात्तपनो यथा।
तथैव सोऽभूदन्वर्थोराजा प्रकृतिरञ्जनात्॥११॥

कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने।
चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना॥१२॥

लब्धप्रशमनस्वस्पमथैनं समुपस्थिता।
पार्थिवश्रीर्द्वितीयेच शरत्पङ्कजलक्षणा॥१३॥

निर्वृष्टलघुभिर्मेघैर्मुमुक्तवर्त्मासुदुःसहः।
प्रतापस्तस्य भानोश्च युगपद्वयानशे दिशः॥१४॥

वार्षिकं संजहारेन्द्रो धनुर्जेत्रंरघुर्दधी।
प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ॥१५॥

पुण्डरीकाऽऽतपत्रस्तं विकसत्काशचामरः।
ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम्॥१६॥

प्रसादसुमुखे तस्मिंश्चन्द्रे च विशदप्रभे।
तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः॥१७॥

हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु।
विभूतयस्तदीयानां पर्यस्ता यशसामिव॥१८॥

इक्षुच्छायानिपादिन्यस्तस्य गोप्तुर्गुणोदयम्।
आकुमारकथोद्धानं शालिगोप्यो अमुर्यशः॥१९॥

प्रसादोदयादम्भः कुम्भयोनैर्महौजसः।
रघोरभिभवाऽऽशङ्किचुक्षुभे द्विषतां मनः॥२०॥

मदोदग्राःककुद्मन्तः सरितां कूलमुद्रुजाः।
लीलाखेलमनुप्रापुर्महीक्षास्तस्य विक्रमम्॥२१॥

प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः।
असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः॥२२॥

सरितः कुर्वती गाधाः पथश्वाऽऽश्यानकर्दमान।
यात्रायै चोदयामास तं शक्तेः प्रथमं शरत्॥२३॥

तस्मै सम्यग्धुतो वह्निर्वाजिनीराजनाविधौ।
प्रदक्षिणाऽर्थिर्व्याजेन हस्तेनैव जयं ददौ॥२४॥

स गुप्त मूलप्रत्यन्तः शुद्धपाणिंरथान्वितः।
षड्विधंबलमादाय प्रतस्थे दिग्जिगीषया॥२५॥

अवाकिरन्पयोवृद्धास्तं लाजैःपौरयोषितः।
पृषतैर्मन्दरोद्धूतैः क्षीरोमय इषाऽच्युतम्॥२६॥

स ययौप्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा।
अहिताननलोद्धूतैस्तर्जयन्निव केतुभिः॥२७॥

रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः।
भुवस्तलमिवव्योम कुर्वन्व्योमेव भूतलम्॥२८॥ युग्मम्

प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम्।
ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः॥२९॥

मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः।
विपिनानि प्रकाशानि शक्तिमत्त्वञ्चकार सः॥३०॥

स सेनां महतीं कर्षन् पूर्वसागरगामिनीम्।
बभौ हरजटाभ्रष्टां गंगामिव भगीरथः॥३१॥

त्याजितैः फलमुत्तातैर्भग्नेश्वबहुधा नृपैः।
तस्याऽऽसीदुल्बणो मार्गः पादपैरिव दन्तिनः॥३२॥

पौरस्त्यानेवमाक्रामं स्तांस्ताञ्जनपदाञ्जयी।
प्राप तालीवनश्याममुपकण्ठंमहोदधेः॥३३॥

अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुप्यादिव।
आत्मा संरक्षितः सुह्म वृत्तिमाश्रित्यवैतसीम्॥३४॥

बङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान्।
निचखान जयस्तम्भान् गङ्गास्रोतोऽन्तरेषु सः॥३५॥

आपादपद्मप्रणता कलमा

इवते रघुम्।
फलैः संवर्धयामासुरुत्त्रातप्रतिरोपिताः॥३६॥

स तीर्त्वा कपिशां सेन्यैर्बद्धद्विरदसेतुभिः।
उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ॥३७॥

स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत्।
अङ्कुशं द्विरदस्येच यन्ता गम्भीरवेदिनः॥३८॥

प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः।
पक्षच्छेदोद्यतं शक्रं शिलावर्षीवपर्वतः॥३९॥

द्विपां विवह्यकाकुत्स्थस्तत्र नारोचदुर्दिनम्।
सन्मङ्गलस्नात इस प्रतिपेदे जयश्रियम्॥४०॥

ताम्बूलीनां दलैस्तत्र रचिताऽऽपानभूमयः।
नालिकेराऽऽसवं योधाः शात्रवंच पपुर्यशः॥४१॥

गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः।
श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम्॥४२॥

ततो वेलातटेनैव फलवत्पूगमालिना।
अगस्त्याचरितामाशा मनाशास्यजयो ययौ॥४३॥

बलैरध्युषितास्तस्य विजिगीषोर्गताध्वनः।
मारीचोद्भ्रान्तहारीता मलयाऽदेरुपत्यकाः॥४४॥

ससज्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः।
तुल्यगन्धिषु मत्तेभ–कटेषु फलरेणवः॥४५॥

भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम्।
नाऽस्रसत्करिणां ग्रैवंत्रिपदीछेदिनामपि॥४६॥

दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे॥४७॥

ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः।
ते निपत्य ददुस्तस्मै यशः स्वमिव सञ्चितम्॥४८॥

तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः।
रामाऽस्त्रोत्सारितोऽप्यासीत् सह्यलग्नइवार्णवः॥४९॥

भयोत्सृष्टविभूषाणां तेन केरलयोषिताम्।
अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः॥५०॥

मुरलामारुतोद्धूतमगमत्कैतकं रजः।
तद्योधवारबाणानामयत्नपटवासताम्॥५१॥

अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः।
वर्मभिः पवनोद्धूत–राजतालीवनध्वनिः॥५२॥

खर्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु।
कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः॥५३॥

अवकाशं किलोदम्बान् रामायाऽभ्यर्थितो ददौ।
अपरान्तमहीपाल–व्याजेन रघवे करम्॥५४॥

मत्तेभरनोत्कीर्ण–व्यक्तविक्रमलक्षणम्।
त्रिकूटमेवश्रोच्चैर्जयस्तम्भं चकार सः॥५५॥

पारलोकांस्ततो जेतुं प्रतस्थे खलवर्त्मना।
इन्द्रियाख्यानिव रिपूस्तत्त्वज्ञानेन संयमी॥५६॥

पवनीमुखपद्मानां सेहे मधुमदं न सः।
बालाऽतपमिवाऽब्जानामकालजलदोदयः॥५७॥

संग्रामस्तुमुलस्तस्य पाश्चात्यैरश्वसाधनैः।
शार्ङ्गकूजितविज्ञेय–प्रात्रयोधे रजस्यभूत्॥५८॥

भलाऽपवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम्।
तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव॥५९॥

अपनीतशिरस्त्राणाः शेवास्तं शरणं ययुः।
प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम्॥६०॥

विनयन्ते स्म तद्योवा मधुभिर्विजयश्रमम्।
आस्तीर्णाऽजिनरत्नासु द्राक्षावलयभूमिषु॥६१॥

ततः प्रतस्थे कौवेरीं भास्वानिवरघुर्दिशम्।
शरैरुस्नरिवोदोच्यान् उद्धरिष्यन्रसानिव॥६२॥

विनीताऽध्वभ्रमास्तस्य सिन्धुतोरविचेष्टनैः।
दुधुवुर्वाजिनः स्कन्धान् लग्नकुंकुमकेशरान्॥६३॥

तत्र हूणावरोधानां भर्तृषु व्यक्तविक्रमम्।
कपोलपाटलाऽऽदेशि बभूवरघुचेष्टितम्॥६४॥

काम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराः।
गजाऽऽलानपरिक्लिष्टैरक्षोटैःसार्धमानताः॥६५॥

तेषां सदश्वभूयिष्ठाप्त्तुङ्गा द्रविणराशयः।
उपदा विविशुः शश्व सोत्सेकाः कोसलेश्वरम्॥६६॥

ततो गौरीगुरुं शैलमारुरोहाऽश्वसाधनः।
वर्धयन्निव तस्कूटान् उद्घृतैर्धातुरेणुभिः॥६७॥

शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसंभ्रमम्।
गुहाशयानां सिंहानां परिवृत्त्यावलोकितम्॥६८॥

भृर्जेषु मर्मरीभूतः कीचकध्यनिर्हेतवः।
गंगाशीकरिणो मार्गे मरुतस्तं सिषेविरे॥६९॥

विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः।
दूषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः॥७०॥

सरलासक्तमातङ्ग–प्रैवेयस्फुरितत्विषः।
आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः॥७१॥

तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वचः।
गजवर्ष्मकिरातेभ्यः शशंसुर्देवदारवः॥७२॥

तत्र जन्यं रघोर्घोरं पर्वतीयैर्गणैरभूत्।
नाराचक्षेपणीयाश्म–निष्पेषोत्पतिमानलम्॥७३॥

शरैरुत्सवसंकेतान् स कृत्वा विरतोत्सवान्।
जयोदाहरणं बाह्वोर्गापयामास किंनरान्॥७४॥

परस्परेण विशातस्तेषूपायनपाणिषु।
राज्ञा हिमवतः सारो राज्ञःसारो हिमाद्रिणा॥७५॥

तत्राऽक्षोभ्यं यशोराशिं निवेश्याऽवरुरोह सः।
पौलस्त्यतुलितस्याऽद्रेरादधान इव ह्रियम्॥७६॥

चकम्पे तीर्णलौहित्ये तस्मिन्प्राग्ज्योतिषेश्वरः।
तद्गजालाऽऽनतां प्राप्तैः सह कालाऽगुरुद्रुमैः ॥७७॥

न प्रसेहे स रुद्धार्कमधारावर्षदुर्दिनम्।
रथवर्त्मरजोऽप्यस्य कुत एव पताकिनीम्॥७८॥

तमीशः कामरूपाणामत्याखण्डलविक्रमम्।
भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः॥७९॥

कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम्।
रत्नपुष्पोपहारेण छायामानर्च पादयोः॥८०॥

इसि जित्वा दिशो जिष्णुर्न्यवर्तत रथोद्धतम्।
रजो विश्रामयन्राज्ञांछत्रशून्येषु मौलिषु॥८१॥

स विश्वजितमाजह्रेयज्ञं सर्वस्वदक्षिणम्।
आदानं हि विसर्गाय सतां वारिमुचामिव॥८२॥

सत्रान्ते सचिवसखः पुरस्क्रियाभि-
र्गुर्वीभिः शमितपराजयव्यलीकान्।
काकुत्स्थश्चिरविरहोत्सुकावरोधान्
राजन्यान्स्वपुरनिवृत्तयेऽनुमेने॥८३॥

ते रेखाध्वजकुलिशाऽऽतपत्रचिह्नं
सम्राजश्चरणयुगं प्रसादलभ्यम्।
प्रस्थानप्रणतिभिरंगुलीषु चक्रु–
र्मौलिस्रक्च्युतमकरन्दरेणुगौरम्॥८४॥

इति चतुर्थः सर्गः

पञ्चमः सर्गः।

तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम्।
उपात्तविद्यो गुरुदक्षिणार्थी कौत्सःप्रपेदे वरतन्तुशिष्यः॥१॥

स मृण्मये वीतहिरण्मयत्वात् पात्रे निधायाऽर्घ्यमनर्घशीलः।
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः॥२॥

तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाऽग्रयायी।
विशांपतिर्विष्टरभाजमारात् कृताञ्जलिः कृत्यविदित्युवाच॥३॥

अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे ! कुशली गुरुस्ते।
यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः॥४॥

कायेन वाचा मनसाऽपि शश्वद् यत्संभृतं वासवधैर्यलोपि।
आपाद्यते न व्ययमंतरायैःकश्चिन्महर्षेस्त्रिविधं तपस्तत्॥५॥

आधारबन्धप्रमुखैः प्रयत्नैःसंवर्धितानां सुतनिर्विशेषम्।
कश्चिन्नवाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम्॥६॥

क्रियानिमित्तेष्वपि वत्सलत्वाद् अभग्नकामा मुनिभिः कुशेषु।
तदङ्कशय्याच्युतनाभिनाला कश्चिन्मृगीणामनघाप्रसूतिः॥७॥

निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितृणाम्।
तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कश्चित्॥८॥

नीवारपाकादि कडंगरीयैरामृश्यते जानपदैर्न कश्चित्।
कालोपपन्नाऽतिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं वः॥९॥

अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयाऽनुमतो गृहाय।
कालो ह्यंसंक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते॥१०॥

तवाऽर्हतो नाऽभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे।
अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्माम्॥११॥

इत्यर्घ्यपात्राऽनुमितव्ययस्य रघोरुदारामपि गां निशम्य।
स्वार्थोपपत्तिप्रतिदुर्बलाशस्तमित्यवोचद्वरतन्तुशिष्यः॥१२॥

सर्वत्र नो वार्त्तमवेहि राजन् ! नाथे कुतस्त्वय्यशुभं प्रजानाम्।
सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा॥१३॥

भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग ! तयातिशेषे।
व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः॥१४॥

शरीरमात्रेण नरेन्द्र ! तिष्ठन् आभासि तीर्थप्रतिपादितर्द्धिः।
आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः॥१५॥

स्थाने भवानेकनराधिपः सन्नकिंचनत्वं मखजं व्यक्ति।
पर्यायपीतस्य सुरैर्हिमांशोःकलाक्षयः श्लाध्यतगे हि वृद्धेः॥१६॥

तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्ये।
स्वस्त्यस्तु ते, निर्गलिताम्बुगर्भं शरद्धनं नार्दति चातकोऽपि॥१७॥

एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य।
किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुंक्त॥१८॥

ततो यथावद्विहिताध्वराय तस्मै समावेशविवर्जिताय।
वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुनमावक्षे॥१९॥

समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद् गुरुदक्षिणायै।
स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात्॥२०॥

निर्बन्धसंजातरुपाऽर्थकार्श्यमचिन्तयित्वा गुरुणाहमुक्तः।
वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति॥२१॥

सोऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम्।
अभ्युत्सहे संप्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य॥२२॥

इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण।
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः॥२३॥

गुर्वर्थमर्थीश्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम्।
गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः॥२४॥

स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे।
द्वित्राण्यहान्यर्हसि सोढुमर्हन्! यावद्यते साधयितुं त्वदर्थम्॥२५॥

तथेति तस्यावितथ प्रतीतः प्रत्यग्रहीत्संगरमग्रजन्मा।
गामात्तसारां रघुरप्यवेक्ष्य निष्कष्टमर्थं चकमे कुबेरात्॥२६॥

वसिष्ठमन्त्रोक्षणजात्प्रभावाद्उदन्वदाकाशमहीधरेषु।
मरुत्सखस्यैव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य॥२७॥

अथाधिशिश्ये प्रयतः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम्।
सामन्तसंभावनयैव धीरः कैलाशनाथं तरसा जिगीषुः॥२८॥

प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोशगृहे नियुक्ताः।
हिरणमयींकोशगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः॥२९॥

तं भूपतिर्भासुरहेमराशि लब्धं कुबेरादभियास्यमानात्।
दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम्॥३०॥

जनस्य साकेतनिवासिनस्तो द्वावप्यभूतामभिनन्द्यसत्त्वौ।
गुरुप्रदेयाधिकनिःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च॥३१॥

अत्जोष्ट्रवामीशतवाहितार्थं प्रजेश्वरं प्रीतमना महर्षिः।
स्पृशन्करेणानतपूर्वकायं संप्रस्थितो वाचमुवाच कौत्सः॥३२॥

किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानाम्।
अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा॥३३॥

आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुपस्ते।
पुत्रंलभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव॥३४॥

इत्थं प्रयुज्याशिषमग्रजन्मा राज्ञेप्रतीयाय गुरोः सकाशम्।
राजाऽपि लेभे सुतमाशु तस्माद् आलोकमर्कादिवजीवलोकः॥३५॥

ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम्।
अतः पिता ब्रह्मण एव नाम्ना तमात्मजन्मानमजं चकार॥३६॥

रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम्।
न कारणात्स्याद्विभिदे कुमारः प्रवर्तितो दीप इवप्रदीपात्॥३७॥

उपात्तविद्यंविधिवद्गुरुभ्यस्तं यौचनोद्भेदविशेषकान्तम्।
श्रीः साभिलाषापि गुरोरनुज्ञांधीरेवकन्या पितुराचकांक्ष॥३८॥

अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थंस्वसुरिन्दुमत्याः।
आप्तः कुमारानयनोत्सुकेन भोजेन दूता रघवे विसृष्टः॥३९॥

तं श्लाध्यसंबन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम्।
प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाऽधिपराजधानीम्॥४०॥

** अतः परं संप्रहेऽगृहीतयोःषष्ठसप्तमसर्गयोर्विषयः कथाप्रसंगभंगभयादधस्तात्समासेनैव विन्यस्यते—**

** ततः स राजसूनुरजः कतिपय सुहृत्सैनिकाद्यनुगतः सरणौश्वापदकुलशरण्यान्यरण्यानि विकचराजीवराजि-विराजितपयस्विनीः स्रोतस्विनीः, सरससारसरसितरमणीयपरिसरान् सरोवरान् तटिनीतटप्रोटनपरिणतकरिणः शिखरिणश्च पश्यन्, पटमण्डपोपचारचारुषुजानपदोपदासम्पादितप्रमोदेषु प्रमोदकाननानूनविनोदेषु निवसँश्च निवासेषु परम्परयासुरभिसमीरसमीरिततरुततिनितान्तकान्तं सामसुतासरिदुपान्तप्रान्तंप्रतिपेदे।**

** तत्र च मतंगमुनिवचनप्रतिपन्नमतंगजभावेन तच्छापप्रतीकारकारणीभूतस्वशरप्रहारप्रत्यर्पितपूर्वप्रकृतिना, भूयोपि गन्धर्वभूयमनुभूयभूयःप्रसेदुषा, प्रियदर्शनतनुजनुषा, प्रियंवदाख्यगन्धर्वेण सह साप्तपदीनमहीनं विधाय तेन च प्रत्युपचिकीर्षया निवेद्यमानमनवद्यंसंमोहनाख्यंतदीयमुरीचकार।**

क्रमेण च नानानदनदीनगनगरनिगमग्रामगहननिवेशान् देशान्विलंघयन् भोजभूमिभुजा भुजाऽभिरक्षितं, विपक्षक्षिति-क्षितां तीक्ष्णकटाक्षैरप्यलक्षितं, सुरस्पृहणीयसम्पत्तिगर्भं विदर्भं समाससाद।

ततोऽनेनृपतिकुलाऽलंकारैः कुमारैःपरिवारितायामपि, परिभूतपुरुहूतपरिपत्प्रभायां, स्वयंवरसभायां, प्रचुरनक्षत्रमण्डल-मण्डितायांदिवि चंद्रिकयेव चन्द्रो नृचन्द्रः पतिंवरयेन्दुमत्या गुणानुरागवत्या सएव वरो वव्रे।

अथ स्वकीयस्वसुर्विवाहमहामहं तेन सह निर्वर्त्य भोज स्तंविससर्ज। पथि प्रयान्तं च तं महनीयमहसमहमहमिकया किलाऽऽचक्रामपराजितराजचक्रं कतिपय प्रयाणकाऽनन्तरमीर्षया राजकुमारीजिहीर्षयाच। रघुनन्दनोपि प्रियंवदप्रदत्त-दिव्यास्त्रसाचिव्येन द्रागेव निद्राधीनंविधायं तं विरोधिवर्गमनर्गलमिन्दुमत्या सह सहर्षं निजनगरीमव्राजीत्।

(श्री वागीश्वर विद्यालंकार-
विरचिता चूर्णिकेयम्)

प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं
विजयिनमभिनन्द्य श्लाघ्यजायासमेतम्।
तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभू-
न्न हि सति कुलधुर्ये सूर्यवंश्या गृहाय॥४१॥

इति सप्तमः सर्गः

अष्टमः सर्गः

अथ तस्य विवाहकौतुकं ललितं विभ्रत एव पार्थिवः।
वसुधामपि हस्तगामिनीम् अकरोदिन्दुमतीमिवाऽपराम्॥१॥

दुरितैरपि कर्तुमात्मसात् प्रयतन्ते नृपसूनवोहि यत्।
तथुपस्थितमग्रहीदजः पितुराज्ञेति म भोगतृष्णया॥२॥

अनुभूय वसिष्ठसंभूतैः सलिलैस्तेन सहाऽभिषेचनम्।
विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव॥३॥

स बभूव दुरासदः परैर्गुरुणाऽथर्वविदा कृतक्रियः।
पवनाऽग्निसमागमो॒ ह्यय॑ सहितं ब्रह्मयदस्त्रतेजसा॥४॥

रघुमेव निवृत्तयौवनं तममन्यन्त नवेश्वरं प्रजाः।
स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि॥५॥

अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव संगतम्।
पदमृद्धमजेन पैतृकं विनयेनाऽस्य नवं च यौवनम्॥६॥

सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति।
अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव॥७॥

अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत्।
उदधेरिव निम्नगाशतेष्वभवन्नाऽस्य विमानना क्वचित्॥८॥

न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव।
स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन्॥९॥

अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया।
विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत्॥१०॥

गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः।
पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे॥११॥

प्रशमस्थितपूर्वपार्थिवं कुलमभ्युद्यतनूतनैश्वरम्।
नभसा निभृतेन्दुना तुलाम् उदिताऽर्केण समारुरोह तत्॥१२॥

यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः।
अपवर्गमहोदयाऽर्थयोर्भुवमंशाविव धर्मयोर्गतौ॥१३॥

अजिताऽधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरजः।
अनपायिपदोपलब्धये रघुराप्तैः समिवाय योगिभिः॥१४॥

नृपतिः प्रकृतीरवेक्षितुं व्यवहाराऽऽसनमाददे युवा।
परिचेतुमुपांशुधारणां कुशपूतं प्रवयास्तु विष्टरम्॥१५॥

अनयत्प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान्।
अपरः प्राणिधानयोग्यया मरुतः पञ्च शरीरगोचरान्॥१६॥

अकरोदचिरेश्वरः क्षितौद्विषद्वारम्भफलानि भस्मसात्।
इतरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना॥१७॥

पणबन्धमुखान्गुणानजः षडुपायुंक्त समीक्ष्य तत्फलम्।
रघुरप्यजयेद्गुणत्रयं प्रकृतिस्थ समलोष्टकाञ्चनः॥१८॥

न नवः प्रभुराफलोदयात् स्थिरकर्मा विरराम कर्मणः।
न च योगविधेर्नवेतरः स्थिरधीरापरमात्मदर्शनात्॥१९॥

इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ।
प्रसितावुदयाऽपवर्गयोरुभयोसिद्धिमुभाववापतुः॥२०॥

अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः।
तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः॥२१॥

श्रुतदेहविसर्जनः पितुश्चिरमश्रूणि विमुच्य राघवः।
विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित्॥२२॥

स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः।
शमिताऽधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगत्॥२३॥

क्षितिरिन्दुमती च भामिनी पतिमासाद्य तमग्र्यपौरुषम्।
प्रथमा बहुरत्नसूरभूद् अपरा वीरमजीजनत्सुतम्॥२४॥

दशरश्मिशतोपमद्युतिं यशसादिक्षु दशस्वपि श्रुतम्।
दशपूर्वरथं यमाख्यया दशकंठारिगुरुं विदुर्बुधाः॥२५॥

ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः।
अनृणत्वमुपेयिवान्बभौ परिधेर्मुकं इवोष्णदीधितिः॥२६॥

बलमार्तभयोपशान्तये विदुषां सत्कृतये बहु श्रुतम्।
वसु तस्य विभोर्न केवलं गुणवत्ताऽपि परप्रयोजना॥२७॥

ततः कदाचिदसौ चिदसौरूपनिवृत्तयेशरदिन्दुकान्तिकान्तयाकान्तयेन्दुमत्या समं परमाभिरामं नगराऽऽरामं कमपि जगाम। तत्रच वियति यतो यतिपतेर्नारदस्य वीणाग्राज्जवनपवनवशनिपतितपारिजात प्रसूनजोरसि तरसा ताडिता तडितेव मालतीलता, मरुतेव दीपदशा, पयोभृतेव कौमुदी निमिमील किल राजमहिषी।

अथ तथाविधप्रियजनविप्रयोगजन्येनाऽन्यूनमन्युनाऽनुभ्रवज्रपातेनेवशतधाविदीर्णहृदयो गुरुणा संसारसाराऽसारता-प्रदर्शनपरैरुपदेशवचनैःसिद्धाञ्जैनरिव पुनः पुनरुन्मील्यमानलोचनोऽपि दूयमानमानसः कथंकथमपि प्रकृष्टकष्टादतिवाहित- हायनाष्टकोऽवतीर्णतारुण्यं तनयं नयविनयविशेषशोभिनमप्रतिहतरथं दशरथं नियुज्य राज्यचिन्तायां प्रायोपवेशन-कृतमतिर्गतधृतिर्नृपतिः सुरसग्त्सिरय्वोर्हृदयङ्गमे संगमे नश्वरशरीरव्ययेनाव्ययमियाय पदमित्यत्रत्यावशिष्ठ कथांश संक्षेपः।

( “श्री वागीश्वर विद्यालंकार
विरचिता चूर्णिकेयम् )

इत्यष्टमःसर्गः

नवमः सर्गः

पितुरनन्तरमुत्तरकोसलान् समधिगम्य समाधिजितेन्द्रियः।
दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः॥१॥

अधिगतं विधिवद्यदपालयत् प्रकृतिमण्डलमात्मकुलोचितम्।
अभवदस्य ततो गुणवत्तरं सनगरं नग–रन्ध्रकरौजसः॥२॥

उभयमेव वदन्ति मनीषिणः समयवर्धितयाकृतकर्मणाम्।
बलनिषूदनमर्थपतिं च तं श्रम–नुदं मनु–दण्ड–धराऽन्वयम्॥३॥

जनपदे न गदःपदमादधा वभिभवः कुत एव सपत्नजः।
क्षितिरभृत्फलवत्यजनन्दने शम–रतेऽमर–तेजसि पार्थिवे॥४॥

दशदिगन्तजिता रघुणा यथा श्रियमपुष्यदजेन ततः परम्।
तमधिगम्य तथैव पुनर्बभौ न न महीनमहीन–पराक्रमम्॥५॥

समतया वसुवृष्टिविसर्जनैर्नियमनादसतां च नराधिपः।
अनुययौयमपुण्यजनेश्वरौसवरुणावरुणाग्रसरं रुचा॥६॥

न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाऽऽभरणं मधु।
तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत्॥७॥

न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि।
न च सपत्नजनेष्वपि तेन वाग् अपरुषपरुषाऽक्षरमीरिता॥८॥

उदयमस्तमयं च रघूद्वहाद्उभयमानशिरे वसुधाधिपाः।
स हि निदेशमलंघयतामभूत् सुहृदयो–हृदयः प्रतिगर्जताम्॥९॥

अजयदेकरथेन स मेदिनीमुदधिनेमिमधिज्यशरासनः।
जयमघोपयदस्य तु केवलं गजवती जव–तीव्र–हया चमूः॥१०॥

अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनुर्भूतः।
विजयदुन्दुभितां ययुरर्णवा घन–रवा नरवाहनसंपदः॥११॥

शमितप्रक्षबलः शतकोटिना शिखरिणां कुलिशेन पुरंदरः।
स शरवृष्टिमुचाधनुषा द्विषां स्वनवता नव–तामरसाऽऽननः॥१२॥

चरणयोर्नखरागसमृद्धिभिर्मुकुटरत्नमरीचिभिरस्पृशन्।
नृपतयः शतशो मरुतो यथा शतमखं तमखण्डितपौरुषम्॥१३॥

निववृते स महार्णवरोधसः सचिवकारितबालसुताऽञ्जलीन्।
समनुकम्प्य सपत्नप्रिग्रहान् अनलकानलकाऽनवमां पुरीम्॥१४॥

उपगतोऽपि च मण्डलनाभिताम् अनुदिताऽन्यसिताऽऽतपवारणः।
श्रियमवेक्ष्य स रन्ध्रचलामभूद् अनलसोऽनल–सोम–समद्युतिः॥१५॥

तमपहाय ककुत्स्यकुलोद्भवं पुरुषमात्मभवं च पतिव्रता।
नृपतिमन्वमसेवत देवता स–कमला कमलाघवमर्थिषु॥१६॥

तमलभन्त पतिं पतिदेवताः शिखरिणामिव सागरमापगाः।
मगधकोसलकेकयशासिनां दुहितरोऽहित–रोपित–मार्गणम्॥१७॥

लप्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः।
उपगतो विनिनीषुरिव प्रजा हरि–हयोऽरिह–योग–विचक्षणः॥१८॥

स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः।
स्वभुजबीर्यमगापयदुच्छ्रितं सुर–वधूरवधूत–भयाः शरैः॥१९॥

क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः।
कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसा–सरयूतटाः॥२०॥

अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहाम्।
अधिवसंस्तनुमध्वरदीक्षिताम् असमभासमभासयदीश्वरः॥२१॥

अवभृथप्रयतो नियतेन्द्रियः सुर–समाज–समाक्रमणोचितः।
नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः॥२२॥

असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता।
दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम्॥२३॥

इति नवमः सर्गः

दशमः सर्गः।

पृथिवीं शासतस्तस्य पाकशासनतेजसः।
किंचिदूनमनूनर्द्धेः शरदामयुतं ययौ॥१॥

न चोपलेभे पूर्वेषाम् ऋणनिर्मोक्षसाधनम्।
सुताऽभिधानं स ज्योतिः सद्यः शोकतमोपहम्॥२॥

अतिष्ठत्प्रत्ययापेक्ष–

संततिः स चिरं नृपः।
प्राङ्मन्थादनभिव्यक्त–

रत्नोत्पत्तिरिवार्णवः॥३॥

ऋष्यशृङ्गादयस्तस्य सन्तः संतानकांक्षिणः।
आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः॥४॥

अथ तस्य विशांपत्युरन्ते काम्यस्य कर्मणः।
पुरुषः प्रबभूवाऽग्नेर्विस्मयेन सहर्त्विजाम्॥५॥

हेमपात्रगतं दोर्भ्याम् आदधानः पयश्चरुम्।
अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम्॥६॥

प्राजापत्योपनीतं तद् अन्नं प्रत्यग्रहीन्नृपः।
वृषेव पयसां सारम् आविष्कृतमुदन्वता॥७॥

अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः।
प्रसूतिं चक्रमे तस्मिन् त्रैलोक्यप्रभवोऽपि यत्॥८॥

स तेजो वेष्णवं पत्म्यो विभेजे चरुसंशितम्।
द्यावापृथिव्योः प्रत्यग्रम् अहर्पतिरिवाऽऽतपम्॥९॥

अर्चिता तस्य कौसल्या, प्रिया केकयवंशजा।
अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः॥१०॥

ते बहुज्ञस्य चित्तज्ञेपत्न्यौपत्युर्महीक्षितः।
चरोरर्धार्धभागाभ्यां तामयोजयतामुभे॥११॥

सा हि प्रणयवत्यासीत् सपत्न्योरुभयोरपि।
भ्रमरी वारणस्येव मदनिस्यन्दरेखयोः॥१२॥

ताभिर्गर्भः प्रजाभूत्यै दध्नेदेवांशसंभवः।
सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः॥१३॥

सममापन्नसवास्ता रेजुरापाण्डुरत्विषः।
अन्तर्गतफलारम्भाः सस्यानामिव संपदः॥१४॥

अथाग्र्यमहिषी राज्ञः प्रसूतिसमये सति।
पुत्रं तमोऽपहं लेभे नक्तं ज्योतिरिवौषधिः॥१५॥

राम इत्यभिरामेण वपुषा तस्य चोदितः।
नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम्॥१६॥

रघुवंशप्रदीपेन तेनाऽप्रतिमतेजसा।
रक्षागृहगता दीपाः प्रत्यादिष्टा इवाऽभवन्॥१७॥

शय्यागतेन रामेण माता शातोदरी बभौ।
सैकताम्भोजबलिना जाह्नवीव शरत्कृशा॥१८॥

कैकेय्या स्तनयो जज्ञेभरतो नाम शीलवान्।
जनयित्रीमलंचक्रे यः प्रश्रय इव श्रियम्॥१९॥

सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवेयमौ।
सम्यगाराधिता विद्या प्रबोधविनयाविव॥२०॥

निर्दोषमभवत्सर्वमाविष्कृतगुणं जगत्।
अन्वगादिव हि स्वर्गोगां गतं पुरुषोत्तमम्॥२१॥

तस्योदये चतुर्मूर्त्तेःपौलस्त्यचकितेश्वराः।
विरजस्कैर्नभखद्भिर्दिश उच्छ्वसिता इव॥२२॥

कृशानुरपधूमत्वात् प्रसन्नत्वात्प्रभाकरः।
रक्षोविप्रकृतावास्ताम् अपविद्धशुचाविव॥२३॥

दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः।
मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः॥२४॥

पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः।
आरम्भं प्रथमं चक्रुर्देवदुन्दुभयो दिवि॥२५॥

संतानकमयी वृष्टिर्भवने चाऽस्य पेतुषी।
सन्मङ्गलोपचाराणां सैवाऽऽदिरचनाऽभवत्॥२६॥

कुमाराः कृतसंस्कारास्ते धात्रीस्तन्यपायिनः।
आनन्देनाऽग्रजेनेव समं ववृधिरे पितुः॥२७॥

स्वाभाविकं विनीतत्वं तेषां विनयकर्मणा।
मुमूर्छ सहजं तेजो हविषेवहविर्भुजाम्॥२८॥

परस्पराऽविरुद्धास्ते तद्रघोरनघं कुलम्।
अलमुद्योतयामासुर्देवाऽरण्यमिवर्तवः॥२९॥

समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ।
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः॥३०॥

तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन।
यथा वायुविभावस्वोर्यथा चन्द्रसमुद्रयोः॥३१॥

ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च।
मनो जह्नुर्निदाघाऽन्ते श्यामाऽभ्रा दिवसा इव॥३२॥

स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः।
धर्मार्थकाममोक्षाणाम् अवतार इवाऽङ्गवान्॥३३॥

गुणैराराधयामासुस्ते गुरुं गुरुवत्सलाः।
तमेव चतुरन्तेशं रत्नैरिव महार्णवाः॥३४॥

सुरगज इव दन्तैर्भग्नदैत्याऽसिधारै
र्नयइव पणबन्धव्यक्तयोगैरुपायैः।
हरिरिव युगदीर्घैर्दोर्भिरंशैस्तदीयैः
पतिरवनिपतीनां तैश्चकाशे चतुर्भिः॥३५॥

इति दशमः सर्गः

एकादशः सर्गः।

कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये।
काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते॥१॥

कृच्छ्रलब्धमपि लब्धवर्णभाक् तंदिदेश मुनये सलक्ष्मणम्।
अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता॥२॥

यावदादिशति पार्थिवस्तयो निर्गमाय पुरमार्गसंस्क्रियाम्।
तावदाशुविदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः॥३॥

तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः।
भूपतेरपि तयोः प्रवत्स्यतो नम्रयोरुपरि बाष्पबिन्दवः॥४॥

तौ पितुर्नयनजेन वारिणा किंचिदुक्षित शिखण्डकावुभौ।
धन्विनौ नमृपिमन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ॥५॥

लक्ष्मणाऽनुचरमेवराघवं नेतुमैच्छदृषिरित्यसौ नृपः।
आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा॥६॥

मातृवर्गचरणस्पृशौ मुनेस्तौ प्रपद्य पदवीं महौजसः।
रेजतुर्गतिवशालवर्तिनौभास्करस्य मधुमाधवाविव॥७॥

वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलमप्यशोभत।
तोयदाऽऽगम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितम्॥८॥

तौ बलाऽतिबलयोः प्रभावतो, विद्ययोः पथि मुनिप्रदिष्टयोः।
मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविव॥६॥

पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः।
उद्यमान इव वाहनोचितः पादचारमपि न व्यभावयत्॥१०॥

तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः।
वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे॥११॥

नाऽम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम्।
दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः॥१२॥

स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः।
विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा॥१३॥

तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि।
निन्यतुः स्थलनिवेशिताऽटनी लीलयैव धनुषी अधिज्यताम्॥१४॥

ज्यानिनादमथ गृह्णती तयोः प्रादुरास बहुलक्षपाछविः।
ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी॥१५॥

तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया।
अभ्यभाविभरताऽग्रजस्तया वात्ययेव पितृकाननोत्थया॥१६॥

उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषाऽन्त्रमेखलाम्।
तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः॥१७॥

यश्चकार विवरं शिलाघने ताडकोरसि स रामसायकः।
अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत्॥१८॥

बाणभिन्नहृदया निपेतुषीसा स्वकाननभुवं न केवलाम्।
विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत्॥१९॥

राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा॥२०॥

आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पिताऽर्हणम्।
बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनम्॥२१॥

तत्र दीक्षितमृषिंररक्षतुर्विघ्नतो दशरथात्मजौ शरैः।
लोकमन्धतमसात्क्रमोदितौ रश्मिभिः शशिदिवाकराविव॥२२॥

वीक्ष्य वेदिमथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषिताम्।
संभ्रमोऽभवदपोढकर्मणाम् ऋत्विजां च्युतविकङ्कतस्रुचाम्॥२३॥

उन्मुखः सपदि लक्ष्मणाऽग्रजो बाणमाश्रयमुखात्समुद्धरन्।
रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम्॥२४॥

तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत्स नेतरान्।
किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते॥२५॥

सोऽस्त्रमुग्रजवमस्त्रकोविदः संदधे धनुषि वायुदैवतम्।
तेन शैलगुरुमप्यपातयत् पाण्डुपत्रमिव ताडकासुतम्॥२६॥

यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया।
तं क्षुरप्रशकलीकृतं कृती पत्रिणां व्यभजदाश्रमाद्बहिः॥२७॥

इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम्।
ऋत्विजः कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन्क्रियाः॥२८॥

तौ प्रणामचलकाकपक्षकौ भ्रातराववभृथाऽऽप्लुतो मुनिः।
आशिषामनुपदं समस्पृशद् दर्भपाटिततलेन पाणिना॥२९॥

तं न्यमन्त्रयत संभृतक्रतु मैथिलः स मिथिलां व्रजन्वशी।
राघवावपि निनाय बिभ्रतौ तद्धनु :–श्रवणजं कुतूहलम्॥३०॥

राघवाऽन्वितमुपस्थितं मुनिं तं निशम्य जनको जनेश्वरः।
अर्थकामसहितं सपर्यया देहबद्धमिव धर्ममभ्यगात्॥३१॥

तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू।
मन्यते स्म पिवतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः॥३२॥

यूपवत्यवसितेक्रियाविधौ कालवित्कुशिकवंशवर्धनः।
राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयांबभूव सः॥३३॥

तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः।
स्वं विचिन्त्य चधनुर्दुरानमं पीडितो दुहितृशुल्कसंस्थया॥३४॥

अब्रवीच्च भगवन् ! मतंगजैर्यद्बृहद्भिरपि कर्म दुष्करम्।
तत्र नाऽहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम्॥३५॥

ह्रेपिता हि बहवो नरेश्वरास्तेन तात ! धनुषा धनुर्भृतः।
ज्यानिघातकठिनत्वचो भुजान् स्वान्विधूय धिगिति प्रतस्थिरे॥३६॥

प्रत्युवाच तमृषिर्निशम्यतां सारतोऽयम् —अथवा, गिरा कृतम्।
चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव॥३७॥

एवमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे।
श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि॥३८॥

व्यादिदेश गणशोऽथ पार्श्वगान् कार्मुकाऽभिहरणाय मैथिलः।
तैजसस्य धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः॥३९॥

तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः।
विद्रुतक्रतुमृगानुसारिणं येन बाणमसृजद्वृषध्वजः॥४०॥

आततज्यमकरोत्स संसदा विस्मयस्तिमितनेत्रमीक्षितः।
शैलसारमपि नाऽतियत्नतः पुष्पचापमिव पेशलं स्मरः॥४१॥

भज्यमानमतिमात्रकर्षणात् तेन वज्रपरुषस्वनं धनुः।
भार्गवाय ह्रढमन्यवे पुनः क्षत्रमुद्यतमिव न्यवेदयत्॥४२॥

दृष्टसारमथ रुद्रकार्मुके वीर्यशुल्कमभिनन्द्य मैथिलः।
राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत्॥४३॥

मैथिलः सपदि सत्य संगरोराघवाय तनयामयोनिजाम्।
संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवाऽतिसृष्टवान्॥४४॥

प्राहिणोश्च महितं महाद्युतिः कोसलाऽधिपतये पुरोधसम्।
भृत्यभावि दुहितुः परिग्रहाद् दिश्यतां कुलमिदं निमेरिति॥४५॥

अन्वियेष सदृशीं स च स्नुषां प्राप चैनमनुकूलवाग्द्विजः !
सद्य एव सुकृतांहि पच्यते कल्पवृक्षफलधर्मि कांक्षितम्॥४६॥

तस्य कल्पितपुरस्क्रियाविधेः सुश्रुवान्वचनमग्रजन्मनः।
उच्चचाल बलीभित्सखो वशी सैन्यरेणुमुषिताऽर्कदीधितिः॥४७॥

तौ समेत्य समये स्थितावुभौ भूपतीवरुणवासवोपमौ।
कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः॥४८॥

पार्थिवीमुदवहघूद्रहो लक्ष्मणस्तद्नुजामथोर्मिलाम्।
यौ तयोरवरजौवरीजसौतौकुशध्वजसुते सुमध्यमे॥४९॥

ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः।
सामदानविधिभेदविग्रहाः सिद्धिमन्त इव तस्य भूपतेः॥५०॥

ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थताम्।
सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः॥५१॥

एवमात्तरतिरात्मसंभवान् तान्निवेश्य चतुरोऽपि तत्र सः।
अध्वसुत्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत॥५२॥

तस्य जातु मरुतः प्रतीपगा वर्त्मसु ध्वजतरुप्रमाथिनः।
चिक्लिशुर्भृशतया वरूथिनीम् उत्तटा इव नदीरयाः स्थलीम्॥५३॥

लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपरिवेशमण्डलः।
वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः॥५४॥

श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिराऽऽर्द्रवाससः।
अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः॥५५॥

भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववोशिरे।
क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः॥५६॥

तत्प्रतीपपवनाऽऽदि वैकृतं प्रेक्ष्य शान्तिमधिकृत्य कृत्यवित्।
अन्वयुङ्क्तगुरुमीश्वरः क्षितेः स्वन्तमित्यलघयेत्स तद्वयेथाम्॥५७॥

तेजसः सपदि राशिरुत्थितः प्रादुरास किल वाहिनीमुखे।
यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाऽऽकृतिश्चिरात्॥५८॥

पित्र्यमंशमुपवीतलक्षणं मातृकैं च धनुरूर्जितं दधत्।
यः ससोम इव धर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः॥५९॥

येन रोषपरुषात्मनः पितुः शासने स्थितिभिदोऽपि तस्थुषा।
वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो मही॥६०॥

अक्षबीजबलयेन निर्बभौ दक्षिणश्रवणसंस्थितेन यः।
क्षत्रियान्तकरणैकविंशतेर्व्याजपूर्वगणनामिवोद्वहन्॥६१॥

तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम्।
बालसूनुरवलोक्य भार्गवं स्वांदशां च विषसाद पार्थिवः॥६२॥

नाम राम इति तुल्यमात्मजे वर्तमानमहिते च दारुणे।
हृद्यमस्य भयदायि चाऽभवद् रत्नजातमिव हारसर्पयोः॥६३॥

अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः।
क्षत्रकोपदहनाऽर्चिषंततःसंदधे दृशमुदग्रतारकाम्॥६४॥

तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः।
अङ्गुली विवरचारिणं शरं कुर्वता निजगदे युयुत्सुना॥६५॥

क्षत्रजातमपकारवैरि मे तन्निहत्य बहुशः शमं गतः।
सुप्तसर्प इव दण्डघट्टनाद् रोषितोऽस्मि तव विक्रमश्रवात्॥६६॥

मैथिलस्य धनुरन्यपार्थिवैस्त्वं किलाऽनमितपूर्वमक्षणोः।
तन्निशम्य भवता समर्थये वीर्यशृङ्गमिव भग्नमात्मनः॥६७॥

अन्यदा जगति राम इत्ययंशब्द उच्चरित एव मामगात्।
व्रीडमावहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि॥६८॥

बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रिपू मम मतौ समागसौ।
धेनुवत्सहरणाश्च हैहयस्त्वं च कीर्तिमपहर्तुमुद्यतः॥६९॥

क्षत्रियान्तकरणोऽपि विक्रमस्तेन मामवति नाऽजिते त्वयि।
पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः॥७०॥

विद्धि चाऽऽत्तबलमोजसा हरेः ऐश्वरं धनुरभाजि यत्त्वया।
खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमम्॥७१॥

तन्मदीयमिदुमायुधं ज्यया संगमय्य सशरं विकृष्यताम्।
तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया॥७२॥

कातरोऽसि यदि वोद्गताऽर्चिषा तर्जितः परशुधारया मम।
ज्यानिघातकठिनांगुलिर्वृथा बध्यतामभययाचनाऽञ्जलिः॥७३॥

एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताऽधरः।
तद्धनुर्ग्रहणमेषराघवः प्रत्यपद्यत समर्थमुत्तरम्॥७४॥

पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवत्।
केवलोऽपि सुभगो नवाऽम्बुदः किं पुनस्त्रिदशचापलाञ्छितः॥७५॥

तेन भूमिनिहितैककोटि तत् कार्मुकं च बलिनाऽधिरोपितम्।
निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः॥७६॥

तावुभावपि परस्परस्थितौ वर्धमान–परिहीनतेजसौ।
पश्यति स्म जनता दिनाऽत्यये पार्वणौ शशिदिवाकराविव॥७७॥

तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि।
स्वं च संहितममोघमाशुगं, व्याजहार हरसूनुसंनिभः॥७८॥

न प्रहर्तुमलमस्मि निर्दयं विप्र इत्यभिभवत्यपि त्वयि।
शंस किं गतिमनेन पत्रिणा हन्मि लोकमुत ते मखाऽर्जितम्॥७९॥

प्रत्युवाच तमृषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनम्।
गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा॥८०॥

भस्मसात्कृतवतः पितृद्विषःपात्रसाञ्चवसुधां ससागराम्।
आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया॥८१॥

तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे।
पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपम्॥८२॥

प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकम्।
भार्गवस्य सुकृतोऽपि सोऽभवत् स्वर्गमार्गपरिघो दुरत्ययः॥८३॥

राघवोऽपि चरणौ तपोनिधेः क्षम्यतामिति वदन्समस्पृशत्।
निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये॥८४॥

राजसत्वमवधूय मातृकं पित्र्यमस्मि गमितः शमं यदा।
नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययमनुग्रहीकृतः॥८५॥

साधयाम्यहमविघ्नमस्तुते देवकार्यमुपपादयिष्यतः।
ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाऽग्रजमृषिस्तिरोदधे॥८६॥

तस्मिन्गते विजयिनं परिरभ्य रामं,
स्नेहादमन्यत पिता पुनरेव जातम्।
तस्याऽभवत्क्षणशुचः परितोषलाभः,
कक्षाऽग्निलंघिततरोरिव वृष्टिपातः॥८७॥

अथ पथि गमयित्वा क्लृप्तरम्योपकार्ये,
कतिचिदवनिपालः शर्वरीः शर्वकल्पः।
पुरमविशदयोध्यां मैथिलीदर्शनीनां,
कुवलयितगवाक्षां लोचनैरङ्गनानाम्॥८८॥

इत्येकादशः सर्गः

द्वादशः सर्गः।

निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान्।
आसीदासन्ननिर्वाणः प्रदीपाऽर्चिरिवोषसि॥१॥

तं कर्णमूलमागत्य रामे श्रीर्न्यस्यतामिति।
कैकेयीशङ्कयेवाऽऽह पलितच्छद्मना जरा॥२॥

सा पौरान्पौर–कान्तस्य रामस्याऽभ्युदयश्रुतिः।
प्रत्येकं ह्रादयांचक्रे कुल्येवोद्यानपादपान्॥३॥

तस्याऽभिषेकसंभारं कल्पितं क्रूरनिश्चया।
दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः॥४॥

सा किलाऽऽश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ।
उद्वषामेन्द्रसिक्ताभूर्बिलमग्नाविषोरगौ॥५॥

तयोश्चतुर्दशैकेन रामं प्राऽव्राजयत्समाः।
द्वितीयेन सुतस्यैच्छद् वैधव्यैकफलां श्रियम्॥६॥

पित्रा दत्तां रुदन्रामः प्राङ्महीं प्रत्यपद्यत।
पश्चाद्वनाय गच्छेति तदाऽऽज्ञां मुदितोऽग्रहीत्॥७॥

दधतो मङ्गलक्षौमे वसानस्य च वल्कले।
ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः॥८॥

स सीतालक्ष्मणसखः सत्याद्गुरुमलोपयन्।
विवेश दण्डकारण्यं प्रत्येकं च सतां मनः॥९॥

राजाऽपि तद्वियोगाऽऽर्तःस्मृत्वा शापं स्वकर्मजम्।
शरीरत्यागमात्रेण शुद्धिलाभममन्यत॥१०॥

विप्रोषितकुमारं तद् राज्यमस्तमितेश्वरम्।
रन्ध्राऽन्वेषणदक्षाणां द्विषामामिषतां ययौ॥११॥

अथाऽनाथाः प्रकृतयो मातृबन्धुनिवासिनम्।
मौलैरानाययामासुर्भरतं स्तम्भिताऽश्रुभिः॥१२॥

श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः।
मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः॥१३॥

ससैन्यश्चाऽन्वगाद्रामं दर्शितानाश्रमाऽऽलयैः।
तस्य पश्यन्ससौमित्रे रुदश्रुर्वसतिद्रुमान्॥१४॥

चित्रकूटवनस्थं च कथितस्वर्गति गुरोः।
लक्ष्म्या निमन्त्रयांचक्रे तमनुच्छिष्टसंपदा॥१५॥

स हि प्रथमजे तस्मिन् अकृतश्रीपरिग्रहे।
परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः॥१६॥

तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः।
ययाचे पादुके पश्चात् कर्तुं राज्याऽधिदेवते॥१७॥

स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाऽविशत्पुरीम्।
नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक्॥१८॥

दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः।
मातुः पापस्य भरतः प्रायश्चित्तमिवाऽकरोत्॥१९॥

रामोऽपि सह वैदेह्या वने वन्येन वर्तयन्।
चचार साऽनुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा॥२०॥

रामस्त्वाऽऽसन्नदेशत्वाद् भरताऽऽगमनं पुनः।
आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ॥२१॥

प्रययावातिथेयेषु वसन्नृषिकुलेषु सः।
दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः॥२२॥

बभौ तमनुगच्छन्ती विदेहाऽधिपतेः सुता।
प्रतिषिद्धाऽपि कैकेय्या लक्ष्मीरिवगुणोन्मुखी॥२३॥

अनसूयाऽतिसृष्टेन पुण्यगन्धेन काननम्।
सा चकाराऽङ्गरागेण पुष्पोश्चलितषट्पदम्॥२४॥

संध्याऽभ्रकपिशस्तस्य विराधो नाम राक्षसः।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः॥२५॥

स जहार तयोर्मध्ये मैथिलींलोकशोषणः।
नभोनभस्ययोर्वृष्टिम् अवग्रह इवाऽन्तरे॥२६॥

तं विनिष्पिष्यकाकुत्स्थौ पुरा दूषयति स्थलीम्।
गन्धेनाऽशुचिना चेति वसुधायां निचख्नतुः॥२७॥

पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः।
अनपोढस्थितिस्तस्थौ विन्ध्याऽद्रिः प्रकृताविव॥२८॥

रावणाऽवरजा तत्र राघवं मदनाऽऽतुरा।
अभिपेदे निदाघाऽऽर्ता व्यालीव मलयद्रुमम्॥२९॥

सा सीतां संनिधावेव तं वव्रेकथिताऽन्वया।
अत्याऽऽरूढो हि नारीणाम् अकालज्ञो मनोभवः॥३०॥

कलत्रवानहं बाले ! कनीयांस भजस्व मे।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम्॥३१॥

ज्येष्ठाऽभिगमनात्पूर्वं तेनाऽप्यनभिनन्दिता।
साऽभूद्रामाऽऽश्रया भूयो नदीवोभयकूलभाक्॥३२॥

संरम्भं मैथिलीहासः क्षणसौम्यां निनाय ताम्।
निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः॥३३॥

फलमस्योपहासस्य सद्यःप्राप्स्यसि पश्य माम्।
मृग्याः परिभवो व्याघ्रयाम्इत्यवेहि त्वया कृतम्॥३४॥

इत्युक्त्वा मैथिलीं भर्तुरङ्के निविशतीं भयात्।
रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपद्यत॥३५॥

लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम्।
शिवाघोरस्वनांपश्चाद् बुबुधे विकृतेति ताम्॥३६॥

पर्णशालामथ क्षिप्रं विकृष्टाऽसिः प्रविश्य सः।
वैरूप्यपौनरुक्त्येन भीषणां तामयोजयत्॥३७॥

सा वक्रनखधारिण्या वेणुकर्कशपर्वया।
अङ्कुशाऽऽकारयाऽङ्गुल्यातावतर्जयदम्बरे॥३८॥

प्राप्य चाऽऽशु जनस्थानं खराऽऽदिभ्यस्तथाविधम्।
रामोपक्रममाचख्यौ रक्षःपरिभवं नवम्॥३९॥

मुखाऽवयवलूनां तां नैर्ऋता यत्पुरो दधुः।
रामाऽभियायिनां तेषां तदेवाऽभूदमङ्गलम्॥४०॥

उदाऽऽयुधानाऽऽपततस्तान्गुप्तान्प्रेक्ष्य राघवः।
निदधे विजयाऽऽशंसां चापे सीतां च लक्ष्मणे॥४१॥

एको दाशरथिः कामं यातुधानाः सहस्रशः।
ते तु यावन्त एवाऽऽजौ तावांश्च ददृशे स तैः॥४२॥

असज्जनैन काकुत्स्थः प्रयुक्तमथ दूषणम्।
न चक्षमे शुभाऽऽचारः स दूषणमिवाऽऽत्मनः॥४३॥

तं शरैः प्रतिजग्राह खरत्रिशिरसौ च सः।
क्रमशस्ते पुनस्तस्य चापात्सममिवोद्ययुः॥४४॥

तैस्त्रयाणां शितैर्बाणैर्यथापूर्वविशुद्धिभिः।
आयुर्देहाऽतिगैः पीतं रुधिरं तु पतत्त्रिभिः॥४५॥

तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम्।
उत्थितं दद्वशेऽन्यश्च कबन्धेभ्यो न किंचन॥४६॥

सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम्।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी॥४७॥

राघवाऽस्त्रविदीर्णानां रावणं प्रति रक्षसाम्।
तेषां शूर्पणखेवैका दुष्प्रवृत्तिहराऽभवत्॥४८॥

निग्रहात्स्वसुराप्तानां वधाच्च धनदाऽनुजः।
रामेण निहितं मेने पदं दशसु मूर्धसु॥४९॥

रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ।
जहार सीतां पक्षीन्द्र–प्रयासक्षणविघ्नितः॥५०॥

तौ सीताऽन्वेषिणौ गृध्रं लूनपक्षमपश्यताम्।
प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः॥५१॥

स रावणहृतां ताभ्यां वचसाऽऽचष्ट मैथिलीम्।
आत्मनः सुमहत्कर्म व्रणैराऽऽवेद्य संस्थितः॥५२॥

तयोस्तस्मिन्नवीभूत–पितृव्यापत्तिशोकयोः।
पितरीवाग्निसंस्कारात् परा ववृतिरे क्रियाः॥५३॥

वधनिर्धूतशापस्य कबन्धस्योपदेशतः।
मुमूर्च्छ सख्यं रामस्य समानव्यसने हरौ॥५४॥

स हत्वा वालिनं वीरस्तत्पदे चिरकांक्षिते।
धातोः स्थान इवाऽऽदेशं सुग्रीवं संन्यवेशयत्॥५५॥

इतस्ततश्च वैदेहीमन्वेष्टुं भर्तृचोदिताः।
कपयश्चेरुरार्तस्य रामस्यैव मनोरथाः॥५६॥

प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनात्।
मारुतिः सागरं तीर्णः संसारमिव निर्ममः॥५७॥

दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता।
जानकीं विषवल्लीभिः परीतेव महौषधिः॥५८॥

तस्यै भर्तुरभिज्ञानम् अङ्गलीयं ददौ कपिः।
प्रत्युद्गतमिवाऽनुष्णैस्तदाऽऽनन्दाऽश्रुबिन्दुभिः॥५९॥

निर्वाप्य प्रियसंदेशैः सीतामक्षवधोद्धतः।
स ददाह पुरीं लङ्कां क्षणसोढाऽरिनिग्रहः॥६०॥

प्रत्यभिज्ञानरत्नंच रामायाऽदर्शयत्कृती।
हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत्॥६१॥

श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः।
महाऽर्णवपरिक्षेपं लङ्कायाः परिखालघुम्॥६२॥

स प्रतस्थेरिनाशाय हरिसैन्यैरनुद्रुतः।
न केवलं भुवः पृष्ठे व्योम्नि संबाधवर्तिभिः॥६३॥

निविष्टमुदधेः कूले तं प्रपेदे विभीषणः।
स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदितः॥६४॥

तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः।
काले खलु समारब्धाः फलं बध्नन्ति नीतयः॥६५॥

स सेतुं बन्धयामास प्लवगैर्लवणाऽम्भसि।
रसातलादिवोन्मग्नं शेषं खप्नाय शार्ङ्गिणः॥६६॥

तेनोत्तीर्य पथा लङ्कां रोधयामास पिङ्गलैः।
द्वितीयं हैमप्राकारं कुर्वद्भिरिव वानरैः॥६७॥

रण प्रववृते तत्र भीमः प्लवगरक्षसाम्।
दिग्विजृम्भितकाकुत्स्थ–पौलस्त्यजयघोषणः॥६८॥

पादपाऽऽविद्धपरिघः शिलानिष्पिष्टमुद्गरः।
अतिशस्त्रनखन्यासः शैलरुग्णमतगजः॥६९॥

अथ रामशिरश्छेद–दर्शनोद्भ्रान्तचेतनाम्।
सीतां मायेति शंसन्ती त्रिजटा समजीवयत्॥७०॥

कामं, जीवति मे नाथ इति सा विजहौ शुचम्।
प्राङ्मत्वा सत्यमस्याऽन्तं जीविताऽस्मीति लजिता॥७१॥

गरुडाऽऽपातविश्लिष्ट मेघनादाऽस्त्रबन्धनः।
दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाऽभवत्॥७२॥

ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम्।
रामस्त्वनाहतोऽप्यासीद् विदीर्णहृदयः शुचा॥७३॥

स मारुतिसमानीत–महौषधिहतव्यथः।
लङ्कास्त्रीणां पुनश्चक्रेविलापाऽऽचार्यकं शरैः॥७४॥

स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम्।
मेघस्येव शरत्कालो न किंचित्पर्यशेषयत्॥७५॥

कुम्भकर्णः कपीन्द्रेण तुल्याऽवस्थः स्वसुः कृतः।
रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः॥७६॥

अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान्।
रामेषुभिरितीवाऽसौ दीर्घनिद्रां प्रवेशितः॥७७॥

इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु।
रजांसि समरोत्थानि तच्छोणितनदीष्विव॥७७॥

निर्ययावथ पौलस्त्यः पुनर्युद्धाय मन्दिरात्।
अरावणमरामं वा जगदद्येति निश्चितः॥७९॥

रामं पदातिमालोक्य लङ्केशं च वरूथिनम्।
हरियुग्यं रथं तस्मै प्रजिघाय पुरंदरः॥८०॥

तमाऽऽधूतध्वजपटं व्योमगङ्गोर्मि वायुभिः।
देवसूतभुजाऽऽलंबी जैत्रमध्वाऽऽस्त राघवः॥८१॥

मातलिस्तस्य माहेन्द्रम् भामुमोच तनुच्छदम्।
यत्रोत्पलदलक्लैब्यम् अस्त्राण्यापुः सुरद्विषाम्॥८२॥

अन्योन्यदर्शनप्राप्त

विक्रमावसरं चिरात्।
रामरावणयोर्युद्धं चरिताऽर्थमिवाऽभवत्॥८३॥

भुजमूर्धोरुबाहुल्याद् एकोऽपि धनदाऽनुजः।
ददृशे यथापूर्वोमातृवंश इव स्थितः॥८४॥

जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम्।
रामस्तुलितकैलासम् अरातिं बह्वमन्यत॥८५॥

रावणस्याऽपि रामाऽस्तो भित्वा हृदयमाशुगः।
विवेश भुवमाख्यातुम् उरगेभ्य इव प्रियम्॥८६॥

वचसैष तयोर्वाक्यम्, अस्त्रमस्त्रेण निघ्रतोः।
अन्योन्यजयसंरम्भो ववृधे वादिनोरिव॥८७॥

विक्रमव्यतिहारेण सामान्याऽभूद् द्वयोरपि।
जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव॥८८॥

कृतप्रतिकृत्प्रीतैस्तयोर्मुक्तां सुरासुरैः।
परस्परशरवाताः पुष्पवृष्टिं न सेहिरे॥८९॥

अय शंकुचितां रक्षः शतघ्नीमथ शत्रवे।
हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत्॥९०॥

राघवो रथमप्राप्तां तामाशां च सुरद्विषाम्।
अर्धचन्द्रमुखैर्बाणैश्चिच्छेद कदलीसुखम्॥९१॥

अमोघं संदधे चाऽस्मै धनुष्येकधनुर्धरः।
ब्राह्ममस्त्रंप्रियाशोक-शल्य निष्कर्षणौषधम्॥९२॥

तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम्।
वपुर्महोरगस्यैव करालफणमण्डलम्॥९३॥

तेन मन्त्रप्रयुक्तेन निमेषाऽर्धादपातयत्।
स रावणशिरःपंक्तिम् अज्ञातव्रणवेदनाम्॥९४॥

बालाऽर्कप्रतिमेवाऽप्सु वीचिभिन्ना पतिष्यतः।
रराज रक्षःकायस्य कण्ठच्छेदपरम्परा॥९५॥

मरुतां पश्यतां तस्य शिरांसि पतितान्यपि।
मनो नाऽतिविशश्वास पुनः संधानशंकिनाम्॥९६॥

अथ मद्गुरुप्रक्षैर्लोकपालद्विपाना-
मनुगत मलिवृन्दैर्गण्डभित्तीर्विहाय।
उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः
सुरभि सुरविमुक्तं पुष्पवर्षं पपात॥९७॥

यन्ता हरेः सपदि संहृतकार्मुकज्य-
मापृच्छ्य राघवमनुष्ठितदेवकार्यम्।
नामाऽङ्कराबणशराऽङ्कितकेतुयष्टि-
मूर्ध्वं रथं हरिसहस्रयुजं निनाय॥९८॥

रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां,
प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः।
रविसुतसहितेन तेनाऽनुयातः ससौमित्रिणा
भुजविजितविमानरत्नाऽधिरूढः प्रतस्थे पुरीम्॥९९॥

इति द्वादशः सर्गः

त्रयोदशः सर्गः

अथाऽऽत्मनः शब्दगुणं गुणशः पदं विमानेन विगाहमानः।
रत्नाकरं वीक्ष्य मिथः स जायां रामाऽभिधानो हरिरित्युवाच॥१॥

वैदेहि ! पश्याऽऽमलपाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम्।
छायापथेनैव शरत्प्रसन्नम् आकाशमाविष्कृतचारुतारम्॥२॥

गुरोर्ययक्षोःकपिलेन मेध्ये रसातलं संक्रमिते तुरङ्गे।
तदर्थमुर्वीमवदारयद्भिः पूर्वैः किलाऽयं परिवर्धितो नः॥३॥

गर्भं दधत्यर्कमरीचयोऽस्माद् विवृद्धिमत्राश्नुवते वसूनि।
अबिन्धनं वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन॥४॥

तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना।
विष्णोरिवाऽस्यानवधारणीयम् ईदृक्तया रूपमियत्तया वा॥५॥

ज्ञाभिप्ररूढाम्बुरुहाऽऽसनेन संस्तूयमानः प्रथमेन धात्रा।
अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते॥६॥

पक्षच्छिदा गोत्रभिदाऽऽत्तगन्धाः शरण्यमेनं शतशो महीध्राः।
नृपा इवोपप्लविनः परेभ्यो धर्मोत्तर मध्यममाश्रयन्ते॥७॥

रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः।
अस्याऽच्छमम्भः प्रलयप्रवृद्धं मुहूर्तवक्त्राऽऽभरणं बभूव॥८॥

स-सत्वमादाय नदीमुखाऽम्भः संमीलयन्तो विवृताऽऽननत्वात्।
अमी शिरीभिस्तिमयः सरन्ध्रैःऊर्ध्वं वितन्वन्ति जलप्रवाहान्॥९॥

मातङ्गनक्रैःसहसोत्पतद्भिः भिन्नान्द्विधा पश्य समुद्रफेनान्।
कपोलसंसर्पितया य एषां व्रजन्ति कर्णक्षणचामरत्वम्॥१०॥

बेलाऽनिलाय प्रसृता भुजङ्गा महोर्मिविस्फूर्जथुनिर्विशेषाः।
सूर्यांऽशुसंपर्क समृद्धरागैः व्यज्यन्त एते मणिभिः फणस्थैः॥११॥

प्रवृत्तमात्रेण पयांसि पातुम् आवर्तवेगाद् भ्रमता घनेन।
आभाति भूयिष्ठमयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः॥१२॥

दूराद्यश्चक्रनिभस्य तन्वीतमालतालीवनराजिनीला।
आभाति वेला लवणाम्बुराशेः धारानिबद्धेव कलङ्करेखा॥१३॥

एते वयं सैकतभिन्नशुक्ति-पर्यस्तमुक्तापटलं पयोधेः।
प्राप्ता मुहूर्तेन विमानवेगात् कूलं फलाऽऽवर्जितपूगमालम्॥१४॥

कुरुष्व तावत्करभोरु ! पश्चात् मार्गे मृगप्रेक्षिणि ! दृष्टिपातम्।
एषा विदूरीभवतः समुद्रात् सकानना निष्पततीव भूमिः॥१५॥

क्वचित्पथा संचरते सुराणां क्वचिद्धनानां पततां क्वचिच्च।
यथाविधो मे मनसोऽभिलाषः प्रवर्तते पश्य तथा विमानम्॥१६॥

असो महेन्द्रद्विपदानगन्धिः त्रिमार्गगावीचिविमर्दशीतः।
आकाशवायुर्दिनयौवनोत्थान् आचामति स्वेदलवान्मुखे ते॥१७॥

अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि।
अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि॥१८॥

सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम्।
अदृश्यत त्वच्चरणारविंद-विश्लेषदुःखादिव बद्धमौनम्॥१९॥

त्वं रक्षसा भीरु ! यतोऽपनीता तं मार्गमेताः कृपया लता मे
अदर्शयन्वक्तुमशक्नुवत्यः शास्त्राभिराऽऽवर्जितपल्लवाभिः॥२०॥

मृग्यश्चदर्भाङ्कुरनिर्व्यपेक्षाः तथाऽगतिशं समबोधयन्माम्।
व्यापारयन्त्यो दिशि दक्षिणस्याम् उत्पक्ष्मराजीनि विलोचनानि॥२१॥

एतद्गिरेर्माल्यवतः पुरस्ताद् आविर्भवत्यम्बरलेखि शृङ्गम्।
नवं पयो यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम्॥२२॥

गन्धश्चधाराऽऽहतपल्वलानां कादम्बमर्धोद्गतकेसरं च।
स्निग्धाश्च केकाः शिखिनां बभूवुः यस्मिन्नसह्यानि विना त्वया मे॥२३॥

उपान्तवानीरवनोपगूढान्यालक्ष्यपारिप्लवसारसानि।
दूरावतीर्णा पिवतीव खेदादमूनि पम्पासलिलानि दृष्टिः॥२४॥

अमूर्विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिंकिणीनाम्।
प्रत्युद्व्रजन्तीव

त्वमुत्पतन्त्यो गोदावरीसारसपक्तयस्त्वाम्॥२५॥

एषा त्वया पेशलमध्ययाऽपि घटाऽम्बुसंवर्धितबालचूता।
आनन्दयत्युन्मुखकृष्णसारा दृष्टा चिरात्पञ्चवटी मनो मे॥२६॥

भ्रूमेदमात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार।
तस्याऽविलाम्भः परिशुद्धिहेतोः भौमो मुनेः स्थानपरिग्रहोऽयम्॥२७॥

त्रेताऽग्निधूमाग्रमनिन्द्यकीर्तेः तस्येदमाऽऽक्रान्तविमानमार्गम्।
घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानमात्मा॥२८॥

हविर्भुजामेधवतां चतुर्णांमध्ये ललाटंतपसप्तसप्तिः।
असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः॥२९॥

धारास्वनोद्गारिदरीमुखोऽसौ शृंगाऽग्रलग्नाऽम्बुदवप्रपङ्कः।
बध्नाति मे बन्धुरगात्रि ! चक्षुः दृप्तः ककुद्मानिव चित्रकूटः॥३०॥

एषाप्रसन्नस्तिमितप्रवाहा सरिद्विदुरान्तरभावतन्वी।
मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः॥३१॥

अयं सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य।
यवाऽङ्कुराऽऽपाण्डुकपोलशोभी मयाऽवतंसः परिकल्पितस्ते॥३२॥

अनिग्रहत्रासविनीतसत्त्वम् अपुष्पलिंगात्फलबन्धिवृक्षम्।
वनं तपःसाधनमेतदत्रेःआविष्कृतोदग्रतरप्रभावम्॥३३॥

अत्राऽभिषेकाय तपोधनानां सप्तर्षिहस्तोद्धृतहेमपद्माम्।
प्रवर्तयामास किलाऽनसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम्॥३४॥

वीरासनैर्ध्यानजुषामृषीणाम् अमी समध्यासितवेदिमध्याः।
निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि॥३५॥

क्वचित्प्रभालेपिभिरिन्द्रनीलैः मुक्तामयी यष्टिरिवाऽनुविद्धा।
अन्यत्र मालासितपङ्कजानाम् इन्दीवरैरुत्खचितान्तरेव॥३६॥

क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव पंक्तिः।
अन्यत्र कालागुरुदत्तपत्रा म

क्तिर्भुवश्चन्दनकल्पितेव॥३७॥

क्वचित्प्रभा चान्द्रमसी तमोभिः छायाविलीनैः शबलीकृतेव।
अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवाऽऽलक्ष्यनभः प्रदेशा॥३८॥

क्वचिच्च कृष्णोरगभूषणेव भस्माऽऽङ्गरागा तनुरीश्वरस्य।
पश्याऽनवद्याङ्गि ! विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः॥३९॥

जलानि या तीरनिखातयूपा वहत्ययोध्यामनु राजधानीम्।
तुरंगमेधाऽवभृथाऽवतीर्णैः इक्ष्वाकुभिः पुण्यतरीकृतानि॥४०॥

यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानाम्।
सामान्यधात्रीमिव मानसं मे संभावयत्युत्तरकोसलानाम्॥४१॥

सेयं मदीया जननीव तेन मान्येन राज्ञा सरयू वियुक्ता।
दूरे वसन्तं शिशिराऽनिलैर्मां तरङ्गहस्तैरुपगूहतीव॥४२॥

विरक्तसंध्याकपिशं पुरस्ताद् यतो रजः पार्थिवमुज्जहीते।
शङ्के हनूमंत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः संसैन्यः॥४३॥

अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः।
हत्वा निवृत्ताय मृधे खरादीन् संरक्षितां त्वामिव लक्ष्मणो मे॥४४॥

असौ पुरस्कृत्य गुरु पदातिः पश्चादवस्थापितवाहिनीकः।
वृद्धैरमात्यैः सह चीरवासा मामर्घ्यपाणि र्भरतोऽभ्युपैति॥४५॥

एतावदुक्तवति दाशरथौ तदीया-
मिच्छां विमानमधिदेवतया विदित्वा।
ज्योतिष्पथादवततार सविस्मयाभि-
रुद्वीक्षितं प्रकृतिभिर्भरताऽनुगाभिः॥४६॥

तस्मात्पुरःसरविभीषणदर्शितेन
सेवाविचक्षणहरीश्वरदत्तहस्तः।
यानादवातरददूरमहीतलेन
मार्गेण भङ्गिरचितस्फटिकेन रामः॥४७॥

इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य-
स भ्रातरं भरतमर्घ्यपरिग्रहाऽन्ते।
पर्यश्रुरस्वजत मूर्धनि चोपजघ्रौ
तद्भक्त्यपोढपितृराज्यमहाऽभिषेके॥४८॥

श्मश्रुप्रवृद्धिजनिताऽऽननविक्रियाँश्च
प्लक्षान्प्ररोहजटिलानिव मन्त्रिवृद्धान्।
अन्वग्रहीत्प्रणमतः शुभदृष्टिपातै-
र्वर्ताऽनुयोगमधुराऽक्षरया च वाचा॥४९॥

दुर्जातबन्धुरयमृक्षदरीश्वरो मे,
पौलस्त्य एष समरेषु पुरः प्रहर्ता।
इत्याऽऽदृतेन कथितौ रघुनन्दनैन,
व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे॥५०॥

सौमित्रिणा तदनु संससृजे स चैन-
मुत्थाप्य नम्रशिरसं भृशमालिलिङ्ग।
रूढेन्द्रजित्प्रहरणव्रणकर्कशेन-
क्लिश्यन्निवाऽस्य भुजमध्य मुरःस्थलेन॥५१॥

भूयस्ततो रघुपतिर्विलसत्पताक-
मध्यास्त कामगति साऽवरजो विमानम्।
दोषातनं बुधबृहस्पतियोगदृश्य-
स्तारापति स्तरलविद्यदिवाऽभ्रवृन्दम्॥५२॥

तत्रेश्वरेण जगतां प्रलयादिवोर्वी-
वर्षात्ययेन रुचमभ्रघनादिवेन्दोः।
रामेण मैथिलसुतां दशकण्ठकृच्छ्रा-
त्प्रत्युद्धतां धृतिमतीं भरतो ववन्दे॥५३॥

लङ्केश्वरप्रणतिभङ्गदृढव्रतं तद्
वन्द्यं युगं चरणयोर्जनकाऽऽत्मजायाः।
ज्येष्ठाऽनुवृत्तिजटिलं च शिरोऽस्य साधो-
रन्योन्यपावनमभूदुभयं समेत्य॥५४॥

क्रोशाऽर्धंप्रकृतिपुरःसरेण गत्वा
काकुत्स्थः स्तिमित-जवेन पुष्पकेण।
शत्रुघ्नप्रतिविहितोपकार्यमार्यः
साकेतोपवनमुदारमध्युवास॥५५॥

इति त्रयोदशः सर्गः।

चतुदर्शः सर्गः।

भर्तुः प्रणाशादथ शोचनीयं दशान्तरं तत्र समं प्रपन्ने।
अपश्यतां दाशरथी जनन्यौ छेदादिवोपघ्नतरो र्व्रतत्यौ॥१॥

उभावुभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ।
विस्पष्टमस्त्रान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भात्॥२॥

ओनन्दजः शोकजमश्रु बाष्प स्तयोरशीतं शिशिरो बिभेद।
गङ्गासरय्वोर्जलमुष्णतप्तं हिमाऽद्रिनिस्यन्द इवाऽवतीर्णः॥३॥

ते पुत्रयोर्नैर्ऋतशस्त्रमार्यान् आर्द्रानि

वाऽङ्गे सदयं स्पृशन्त्यौ।
अपीप्सितं क्षत्रकुलाऽङ्गनानां न वीरसूराब्दमकामयेताम्॥४॥

क्लेशाऽऽवहा भर्तुरलक्षणाऽहं सीतेति नाम स्वमुदीरयन्ती।
स्वर्गप्रतिष्ठस्य गुरोर्महिष्यौअभक्तिभेदेव वधू ववन्दे॥५॥

उत्तिष्ठ वत्से ! ननु सानुजोऽसौ वृसेन भर्ता शुचिना तवैव।
कृच्छ्रं महत्तीर्ण इति प्रियाऽर्हां तामूचतु स्ते प्रियमप्यमिथ्या॥६॥

अथाऽभिषेक रघुवंशकेतोः प्रारब्धमानन्दजलै र्जनन्योः
निर्वर्तयामासुरमात्यवृद्धाः तीर्थाऽऽहृतैः काञ्चनकुम्भतोयैः॥७॥

सरित्समुद्रान्सरसीश्च गत्वा रक्षःकपीन्द्रैरुपपादितानि।
तस्याऽऽपतन्मूर्ध्नि जलानि जिष्णोः विन्ध्यस्य मेघप्रभवा इवाऽऽपः॥८॥

तपस्विवेशक्रिययाऽपि तावद् यः प्रेक्षणीयः सुतरां बभूव।
राजेन्द्रनेपथ्यविधानशोभा तस्योदिताऽऽसीत्पुनरुक्तदोषा॥९॥

स मौलरक्षोहरिभिः ससैन्यः तूर्यस्वनाऽऽनन्दितपौरवर्गः।
विवेश सौधोद्गतलाजवर्षाम् उत्तोरणामन्वयराजधानीम्॥१०॥

सौमित्रिणा साऽवरजेन मन्दम् आधूतबालव्यजनो रथस्थः।
धृताऽऽतपत्रो भरतेन साक्षाद् उपायसंघात इव प्रवृद्धः॥११॥

प्रासादकालागुरुधूमराजिः तस्याः पुरो वायुवशेन भिन्ना।
वनान्निवृत्तेन रघूत्तमेन मुक्ता स्वयं वेणिरिवाऽऽबभासे॥१२॥

श्वश्रूजनाऽनुष्ठितचारुवेषां कर्णोरथस्थां रघुवीरपत्नीम्।
प्रासादवातायनदृश्यबन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः॥१३॥

स्फुरत्प्रभामण्डलमानसूयं सा बिभ्रती शाश्वतमङ्गरागम्।
रराज शुद्धेति पुनः स्वपुर्यैसंदर्शिता वह्निगतेव भर्त्रा॥१४॥

वेश्मानि रामः परिवर्तयन्ति विश्राण्य सौहार्दनिधिः सुहृद्भ्यः।
वाष्पायमाणो बलमन्निकेतम् आलेस्यशेषस्य पितु र्विवेश॥१५॥

कृताञ्जलिस्तत्र-यदम्ब ! सत्यान्नाभ्रश्यत स्वर्गफलाद्गुरुर्नः।
तच्चिन्त्यमानं सुकृतं तवेति जहारलज्जां भरतस्य मातुः॥१६॥

तथैव सुग्रीवविभीषणादीन् उपाचरत्कृत्रिमसंविधाभिः।
संकल्पमात्रोदितसिद्धयस्तक्रान्ता यथा चेतसि विस्मयेन॥१७॥

सभाजनायोपगतान्स दिव्यान् मुनीन्पुरस्कृत्य हतस्य शत्रोः।
शुश्राव तेभ्यः प्रभवादि वृत्तं स्वविक्रमे गौरवमादधानम्॥१८॥

प्रतिप्रयातेषु तपोधनेषु सुखादविज्ञातगतार्धमासान्।
सीतास्वहस्तोपहृताग्र्यपूजान्रक्षःकपीन्द्रान्विससर्ज रामः॥१९॥

तच्चात्मचिंतासुलभं विमानं हृतं सुरारेः सह जीवितेन।
कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकमन्वमंस्त॥२०॥

पितुर्नियोगाद्वनवासमेवं निस्तीर्य रामः प्रतिपन्नराज्यः।
धर्मार्थकामेषु समां प्रपेदे यथा तथैवाऽवरजेषु वृत्तिम्॥२१॥

सर्वासु मातृष्वपि वत्सलत्वात् स निर्विशेषप्रतिपत्तिरासीत्।
षडाननाऽऽपीतपयोधरासु नेता चमूनामिव कृत्तिकासु॥२२॥

तेनार्थवाँलोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान्।
तेनाऽऽस लोकः पितृमान्विनेत्रा तेनैव शोकाऽपनुदेन पुत्री॥२३॥

अथाऽधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण।
आनन्दयित्री परिणेतुरासीद् अनक्षरव्यञ्जितदोहदेन॥२४॥

सा दष्टनीवारबलीनि हिंस्रैः संबद्धवैखानसकन्यकानि।
इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि॥२५॥

तस्यै प्रतिश्रुत्य रघुप्रवीरः तदीप्सितं पार्श्वचराऽनुयातः।
आलोकयिष्यन्मुदितामयोध्यां प्रासादमभ्रंलिहमारुरोह॥२६॥

ऋद्धाऽऽपणं राजपथं स पश्यन् विगाह्यमानां सरयूं च नौभिः।
विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे॥२७॥

स किंवदन्तीं वदतां पुरोगः स्ववृत्तमुद्दिश्य विशुद्धवृत्तः।
सर्पाऽधिराजोरुभुजोऽपसर्प पप्रच्छ भद्रं विजिताऽरिभद्रः॥२८॥

निर्बन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश्चरितं त्वदीयम्।
अन्यत्र रक्षोभवनोपितायाः परिग्रहान्मानवदेव ! देव्याः॥२९॥

कलत्रनिन्दागुरुणा किलैवम् अभ्याहतं कीर्तिविपर्ययेण।
श्रयो-घनैनाऽय इवाऽभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे॥३०॥

किमात्मनिर्वादकथामुपेक्षे जायामदोषामुत सन्त्यजामि।
इत्येकपक्षाऽऽश्रयविक्लवत्वाद् आसात्स दोलाचलचित्तवृत्तिः॥३१॥

निश्चित्य चाऽनन्य निवृत्तिवाच्यं त्यागेन पत्न्याः परिमार्ष्टुमैच्छत्।
अपि स्वदेहात्किमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः॥३२॥

स संनिपात्याऽवरजान्हतौजा स्तद्रिक्रियादर्शनलुप्तहर्षान्।
कौलीनमात्माश्रयमाचचक्षे तेभ्यः पुनश्चेदमुवाच वाक्यम्॥३३॥

राजर्षिवंशस्य रविप्रसूतेः उपस्थितः पश्यत कीदृशोऽयम्।
मत्तः सदाचारशुचेः कलङ्कः पयोवातादिव दर्पणस्य॥३४॥

पौरेषु सोऽहं बहुलीभवन्तम् अपां तरद्वेष्विव तैलबिन्दुम्।
सोढुं न तत्पूर्वमर्वर्णमीशे आलानिकं स्थाणुमिव द्विपेन्द्रः॥३५॥

तस्याऽपनोदाय फलप्रवृत्तौ उपस्थितायामपि निर्व्यपेक्षः।
त्यक्ष्यामि वैदेहसुतां पुरस्तात् समुद्रनेमिं पितुराज्ञयेव॥३६॥

अवैमि चैनामनघेति किंतु लोकापवादो बलवान् मतो मे।
छाया हि भूमेः शशिनो मलत्वेनाऽऽरोपिता शुद्धिमतः प्रजाभिः॥३७॥

रक्षोवधाऽन्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय।
अमर्षणः शोणितकांक्षया किं पदा स्पृशन्तं दशति द्विजिह्णः॥३८॥

तदेव सर्गः करुणार्द्रचित्तै र्न मे भवद्भिः प्रतिषेधनीयः।
यद्यर्थिता निर्हृतवाच्यशल्यान् प्राणान् मया धारयितुं चिरं वैः॥३६॥

इत्युक्तवन्तं जनकात्मजायां नितान्तरुक्षाऽभिनिवेशमीशम्।
न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुमासीदनुमोदितुं वा॥४०॥

स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः।
सौम्येति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथगादिदेश॥४१॥

प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव।
स त्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यजैनाम्॥४२॥

स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात्प्रहृतं द्विषद्वत्।
प्रत्यग्रही दग्रजशासनं तद् आज्ञा गुरूणां ह्यविचारणीया॥४३॥

अथाऽनुकूलश्रवणप्रतीताम् अत्रस्नुभिर्युक्तधुरं तुरङ्गैः।
रथं सुमन्त्रप्रतिपन्नरश्मिम् आरोप्य वैदेहसुतां प्रतस्थे॥४४॥

सा नीयमाना रुचिरान्प्रदेशान् प्रियंकरो मे प्रिय इत्यनन्दत्।
नाऽबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम्॥४५॥

जुगूह तस्याः पथि लक्ष्मणो यत् सव्येतरेण स्फुरता तदक्ष्णा।
आख्यातमस्यै गुरु भावि दुःखम् अत्यन्तलुप्तप्रियदर्शनेन॥४६॥

सा दुर्निमितोपगताद्विषादात् सद्यः परिम्लानमुखाऽरविन्दा।
राज्ञः शिवं साऽवरजस्य भूयाद् इत्याशशंसे करणैरवाह्यैः॥४७॥

गुरोर्नियोगाद्वनितां वनान्ते साध्वीं सुमित्रातनयो विहास्यन्।
अवार्यतेवोत्थितवी चिहस्तै र्जह्नोर्दुहित्रा स्थितया पुरस्तात्॥४८॥

रथात्स यन्त्रा निगृहीतवाहात् तां भ्रातृजायां पुलिनेऽवतार्य।
गङ्गां निषादाहृतनौविशेषः ततार संधामिव सत्यसंधः॥४९॥

अथ व्यवस्थापितवाक्कथंचित् सौमित्रि रन्तर्गतवाष्पकण्ठः।
औत्पातिकं मेघ इवाऽश्मवर्षं महीपतेः शासनमुज्जगार॥५०॥

ततोऽभिषङ्गाऽनिलविप्रविद्धा प्रभ्रश्यमानाऽऽभरणप्रसूना।
स्वमूर्तिलाभप्रकृतिं धरित्रींलतेव सीता सहसा जगाम॥५१॥

इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेदकस्मात्पतिरार्यवृत्तः।
इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावत्॥५२॥

सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यताऽन्तः।
तस्याः सुमित्रात्मजयत्नलब्धो मोहाद्भूत्कष्टतरः प्रबोधः॥५३॥

न चाऽवदद्भर्तुरवर्णमार्या निराकरिष्णोर्वृजिनादृतेऽपि।
आत्मानमेव स्थिरदुःखभाजं पुनः पुनर्दुष्कृतिनं निनिन्द॥५४॥

आश्वास्य रामावरजः सतींताम् आख्यातवाल्मीकिनिकेतमार्गः।
निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि ! क्षमस्वेति बभूव नम्रः॥५५॥

सीता तमुत्थाप्य जगाद वाक्यं प्रीताऽस्मि ते सौम्य ! चिराय जीव।
बिडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वम्॥५६॥

श्वश्रूजनं सर्वमनुक्रमेण विज्ञापय प्रापितमत्प्रणामः।
प्रजानिषेकं मयि वर्तमानं सूनोरनुध्यायत चेतसेति॥५७॥

वाच्यस्त्वया मद्वचनात्स राजा वह्नौविशुद्धामपि यत्समक्षम्।
मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य॥५८॥

कल्याणबुद्धेरथवा तवाऽयं न कामचाये मयि शङ्कनीयः।
ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः॥५९॥

उपस्थितां पूर्वमपास्य लक्ष्मींवनं मया सार्धमसि प्रपन्नः।
तदास्पदं प्राप्य तयाऽतिरोषात् सोढाऽस्मि न त्वद्भवने वसन्ती॥६०॥

निरावरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादात्।
भूत्वा शरण्या शरणार्थमन्यं कथं प्रपत्स्ये त्वयि दीप्यमाने॥६१॥

किं वा तवाऽत्यन्तवियोगमोघे कुर्यामुपेक्षां हतजीवितेऽस्मिन्।
स्याद्रक्षणीयं यदि मे न तेजः त्वदीयमन्तर्गतमन्तरायः॥६२॥

साऽहं तपः सूर्यनिविष्टदृष्टिः ऊर्ध्वं प्रसूतेश्चरितुं यतिष्ये।
भूयो यथा मे जननाऽऽन्तरेऽपि त्वमेव भर्ता न च विप्रयोगः॥६३॥

नृपस्य वर्णाऽऽश्रमपालनं यत् स एव धर्मो मनुना प्रणीतः।
निर्वासिताऽप्येवमतस्त्वयाऽहं तपस्विसामान्यमवेक्षणीया॥६४॥

तथेति तस्याः प्रतिगृह्य वाचं रामाऽनुजे दृष्टिपथं व्यतीते।
सा मुक्तकण्ठं व्यसनाऽतिभारात् चक्रन्द विग्ना कुररीव भूयः॥६५॥

नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजहु र्हरिण्यः।
तस्याः प्रपन्ने समदुःखभावम् अत्यन्तमासीद्रुदितं वनेऽपि॥६६॥

तामभ्यगच्छद्रुदिताऽनुसारी कविः कुशेध्माऽऽहरणाय यातः।
निषादविद्धाऽण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः॥६७॥

तमश्रु नेत्राऽऽवरणं प्रमृज्य सीता विलापाद्विरता ववन्दे।
तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान्सुपुत्राऽऽशिषमित्युवाच॥६८॥

जाने विसृष्टां प्रणिधानतस्त्वां मिथ्याऽपवादक्षुभितेन भर्त्रा।
तन्मा व्यथिष्ठां विषयाऽन्तरस्थं प्राप्ताऽसि वैदेहि ! पितुर्निकेतम्॥६९॥

उत्खातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि।
त्वां प्रत्यकस्मात्कलुषप्रवृत्तौ अस्त्येव मन्युर्भरताग्रजे मे॥७०॥

तवोरुकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते।
धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनाऽसि ममाऽनुकम्प्या॥७१॥

तपस्वि संसर्गविनीतसत्वे तपोवने वीतभया वसाऽस्मिन्।
इतो भविष्यत्यनघप्रसूतेः अपत्यसंस्कारमयो विधिस्ते॥७२॥

अशून्यतीरां मुनिसंनिवेशैः तमोपहन्त्रीं तमसां वगाह्य।
तत्सैकतोत्सङ्गबलिक्रियाभिः संपत्स्यते ते मनसः प्रसादः॥७३॥

पुष्पं फलं चाऽऽर्तवमाहरन्त्यां बीजं च बालेयमकुष्टरोहि।
विनोदयिष्यन्ति नवाऽभिषंगाम् उदारवाचो मुनिकन्यकास्त्वाम्॥७४॥

पयोघटैराश्रमबालवृक्षान् संवर्धयन्ती स्वबलाऽनुरूपैः।
असंशयं प्राक्तनयोपपत्तेः स्तनंधयप्रीतिमवाप्स्यसि त्वम्॥७५॥

अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयाऽऽर्द्रचेताः।
सायं मृगाऽध्यासितवेदिपार्श्वं स्वमाश्रमं शान्तमृगं निनाय॥७६॥

तामर्पयामास च शोकदीनां तदागमप्रीतिषु तापसीषु।
निर्विष्टसारां पितृभिर्हिमांशोः अन्त्यां कलां दर्श इवौषधीषु॥७७॥

ता इंगुदीस्नेहकृतप्रदीपम् आस्तीर्णमेध्याऽजिनतल्पमन्तः।
तस्यै सपर्याऽनुपदं दिनान्ते निवासहेतोरुटजं वितेरुः॥७८॥

तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनाऽतिथिभ्यः।
वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासंततये बभार॥७९॥

अपि प्रभुः सानुशयोऽधुना स्यात् किमुत्सुकः शक्रजितोऽपि हन्ता।
शशंस सीतापरिदेवनान्तम् अनुष्ठितं शासनमग्रजाय॥८०॥

बभूव रामः सहसा सवाष्पः तुषारवर्षीव सहस्यचन्द्रः।
कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः॥८१॥

निगृह्य शोकं स्वयमेव धीमान् वर्णाश्रमाऽवेक्षणजागरूकः।
स भ्रातृसाधारणभोगमृद्धं राज्यं रजोरिक्तमनाः शशास॥८२॥

सीतां हित्वा दशमुखरिपुर्नोपयेमे यदन्यां
तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार।
वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः
सा दुर्वारं कथमपि परित्यागदुःखं विषेहे॥८३॥

(रघुवंश महाकाव्यात्)

इति चतुर्दशसर्गः

अभिज्ञान शाकुन्तलचम्पूः

या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हवि, र्या च होत्री,
ये कालं विधत्तः, श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम्।
यामाहुः सर्वभूतप्रकृतिरिति, यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः॥१॥

एकदा दुष्यन्तो नाम राजा मृगयां कर्तुं वनं जगाम। एकेनातिरंहसा मृगेण सुदूरमाकृष्टः सारथिमुवाच—“सूत ! कथमनुपतत एव मे मृगोऽयं प्रयत्नप्रेक्षणीयः संवृत्तः। अयमिदानीमपि—

ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः,
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम्।
दर्भैरर्धाऽवलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा,
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यांप्रयाति॥२॥

सूतोऽब्रवीत्—“आयुष्मन् ! उद्घातिनी भूमिरिति मया रश्मिसंयमनाद्रथस्य मन्दीकृतो वेगः। तेन मृग एष विप्रकृष्टान्तरः संवृत्तः। संप्रति समदेशवर्तिनस्ते न दुरासदो भविष्यतीति”। ततो दुष्यन्ताऽऽज्ञया मुक्तेष्वभीषुषु धावतोऽश्वान्वीक्ष्य राजोवाच—

“मुक्तेषु रश्मिषु निरायतपूर्वकाया,
निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः।
आत्मोद्धतैरपि रजोभिरलङ्घनीया,
धावन्त्यमी मृगजवाऽक्षमयेव रथ्याः॥३॥

सत्यमतीत्य हरितो हरीन् वर्तन्ते वाजिनः। तथाहि—

यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलताम्,।
यदर्धेविच्छिन्नं भवति कृतसंधानमिव तत्।
प्रकृत्या यद्वक्रं तदपि समरेखं नयनयो-
र्न मे दूरे किंचित्क्षणमपि न पार्श्वे रथजवात्”॥४॥

एवमुक्त्वा मृगं व्यापादयितुं यावच्छरसंधानमकरोत्तावद्—“भो राजन् ! आश्रममृगोऽयं न हन्तव्यः न हन्तव्य” इत्युच्चै र्व्याहरन् वैखानसःसह द्वाभ्यामन्याभ्यां तपस्विभ्यां बाणपातवर्तिनः कृष्णसारस्यान्तर उपस्थितोऽवोचच्च— “तूलराशौ वह्निरिवास्मिन्मृदुनि मृगशरीरे बाणो नैव सन्निपात्यः। क्व वत हरिणकानामति लोल जीवितं क्व च तत्र निशितनिपाता वज्रसाराः शराः।

तत्साधुकृतसंधानं प्रतिसंहर सायकम्।
आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि” इति॥५॥

ततोप्यदुन्तेन प्रतिसंहृते शरे वैखानसः पुनरुवाच—“पुरुवंशप्रदीपस्य भवतः सदृशमेवैतत्—

जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव।
पुत्रमेवं गुणोपेतं चक्रवर्तिनमाप्नुहि॥६॥

“वयं समिदाहरणाय प्रस्थिताः, एष खलु कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते। नचेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः। कुलपतिः कण्वो दुहितरं शकुन्तलामतिथिसत्काराय नियुज्य दैवमस्याः प्रतिकूलं शमयितुं सोमतीर्थ मिदानीमेव गतः। तत्र गत्वा—

रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य।
ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिंणाऽङ्क इति॥७॥

वयमपि साधयामोऽधुना” इति। राजा बभाषे—“सूत ! चोदयाश्वान्। पुण्याऽऽश्रम दर्शनेन तावदात्मानं पुनीमहे। शकुन्तलांद्रक्ष्यामि। सा खलु विदितभक्तिर्मामहर्षेः कथयिष्यति”। ततः कतिचित्पदानि गत्वा समन्तादवलोक्य च राजा सूतमुवाच—“सूत ! अकथितोपि ज्ञायतएव यथायमाश्रमाभोगस्तपोवनस्य। किन्न पश्यति भवान्। इह हि—

नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः,
प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाऽऽधारपथाश्च वल्कलशिखानिष्यन्दरेखाऽङ्किताः”॥८॥

तपोवननिवासिनामुपरोधो मा भूदिति दूर एवाऽऽश्रमस्य रथं स्थापयित्वा राजाऽवातरत्। “विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम” इत्युक्त्वा दुष्यन्तः सुतायाभरणानि धनुश्चोपनीयार्पयत्, आज्ञापयामास च—“सुत ! यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः” इति। यदा दुष्यन्त आश्रमं प्रविवेश तदाऽस्य शुभाऽऽशंसी दक्षिणो बाहुः पस्पन्दे। सुशकुनस्यास्य सूचनया चकित स आत्मगतं चिंतयामास—

“शान्तमिदमाश्रमपदं स्फुरति च वाहुः कुतः फलमिहाऽस्य।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र”॥९॥

तस्मिन्नेवक्षणे दक्षिणेन वृक्षवाटिकाम् “इत इतः संख्यो” इत्यालापमशृणोत्। तदा शकुन्तला सह प्रियंवदाऽनसूयाभि-धानाभ्यां

सखीभ्यां स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातु तत्रैवागता।

ता निपुणं निरूप्य तासां मधुरयाऽऽकृत्या विस्मितो दुश्यन्तश्छायामाश्रित्य प्रतिपालयन्स्थितः। अनसूयोवाच— “शकुन्तले ! त्वत्तोपि तातकाश्यपस्याऽऽश्रमवृक्षकाः प्रियतरा इति तर्कयामि, येन नवमालिकाकुसुमपेलवा त्वमप्येतेषा-मालवालपूरणे नियुक्ता”इति। शकुन्तला प्रत्यवदत्—“न केवलं तातनियोग एव, अस्ति मे सोदरस्नेह एतेषु” इति। अनेन संवादेन शकुन्तलां कण्वदुहितरं राजाऽजानात्। तदा सलिलसेकसंभ्रमोद्गतो मधुकरो नवमालिकामुज्झित्वा शकुन्तलाया वदनमभ्यवर्तत। भीता शकुन्तला—“परित्रायेथां मामनेन दुर्विनीतेन दुष्टमधुकरेणाऽभिभूयमानाम्” इति व्याजहार। सख्यौसस्मितं प्रोचतुः “के आवां परित्रातुम्”? राजरक्षितव्यानि तपोवनानि नाम। तस्माद्दुष्यन्तमाक्रन्द” इति। “अवसरोऽयमात्मानं दर्शयितुम्” इति मत्वा दुष्यन्तः सत्वरमुपसृत्य व्याजहार—“न भेतव्यं न भेतव्यम् —

कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम्।
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु”॥ १०॥

सर्वा राजानं दृष्ट्वा किंचिदिव संभ्रांताः। ततोऽनसूयोवाच—“आर्य ! न किमप्यत्याहितम्। इयं नौ प्रियसखी मधुकरेणा-भिभूयमाना कातरीभूता” इति। अनसूया पुनरपि दुष्यन्तं बभाषे—“आर्यस्य मधुरालापजनितो विश्रम्भो मामन्त्रयते। कतम आर्येण राजर्षिवंशोऽलंक्रियते, कतमो वा विरहपर्युत्सुकजनः कृतो देशः, किन्निमित्तं वा सुकुमारतरोऽपि तपोवनागमनपरिश्रमस्याऽऽत्मा पदमुपनीतः” इति। आत्मापहारं कर्तुमिच्छन्, राजा प्रत्यवदत्—“यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः

सोऽहमविघ्नक्रियोपलम्भाय धर्मारण्यमिदमायातः। अपि तपो वर्धते” ? शकुन्तला सा

वानसादवचनाऽतिष्ठत्।

अनसूया तं प्रत्युवाच—“इदानीमतिथिविशेषलाभेन धन्या वयम्। हला शकुन्तले ! गच्छोटजम्। फलमिश्रमर्घ्य-मुपहर। इदं पादोदकं भविष्यति”। राजोवाच—“भवतीनां सूनृतयैव गिरा कृतमातिथ्यम्”। प्रियंवदाऽवदत् “तेनाह्यस्यां प्रच्छायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुपविश्य परिश्रमविनोदं करोत्वार्यः। हलाशकुन्तले ! उचितं नः पर्युपासन-मतिथीनाम्। अत्रोपविशामः”। ततः सर्वे वृक्षच्छायायामुपविष्टाः। अत्रान्तरे, “भोस्तपस्विनः ! सन्निहितास्तपोवन-रक्षायैभवत, प्रत्यासन्नः किल मृगयाविहारी पार्थिवो दुष्यन्तः।

तुरगखुरहतस्तथाहि रेणु-
र्विटपविपक्तजलार्द्रवल्कलेषु।
पतति परिणतारुणप्रकाशः,
शलभसमूह इवाऽऽश्रमद्रुमेषु॥११॥

अपिच—

“तीव्राऽऽघातप्रतिहततरुः स्कन्धलग्नैकदन्तः
पादाकृष्टवततिवलयाऽऽसंगसंजातपाशः।
मूर्तोविघ्नस्तपस इव नो भिन्नसारङ्गयूथो-
धर्मारण्यं प्रविशति गजः स्यन्दनाऽऽलोकभीतः”॥१२॥

इत्युच्चैराश्रमवासिनां वैखानसानामुक्तिः कर्णपथाऽतिथीकृता। तच्छ्रुत्वा राजात्मगतमूचे। “अहो धिक्, पौरा अस्मदन्वेषिणस्तपोवनमुपरुन्धन्ति। भवतु प्रतिगमिष्यामस्तावत्” इति। आरण्यकवृत्तान्तेन पर्याकुला अनसूया यदोटजगमनायानुज्ञा मयाचत तदा राजा-

“वयमपि, यथाऽऽश्रमपीड़ा न भविष्यति तथा प्रयतिष्यामहे” इत्युक्त्वा प्रतिनिवृत्तः। शकुन्तलाव्यापारादात्मानं !निवर्तयितुमक्षमश्च मंदौत्सुक्यो नगरगमनं प्रति—“समेत्यानुयात्रिकान्नातादूरे तपोवनस्य निवेशयेयम्” इति विचार्य च तत्रैवावस्थितः। ततो मृगयाशीलस्यराज्ञः प्रियवयस्यो विदुषको ग्रीष्मविरलपादपच्छायासु वनराजिष्वाहिण्ड्य, निर्वेदमापन्नो राजानमुवाच—“प्रत्यहं श्वापदसमुत्सारणैः संक्षोभितसन्धिबन्धानां गात्राणामनीशोऽस्मि संवृत्तः। तत्प्रसीद, मामेकाहमपि विश्रमितुं विसृजेति”। राजापि शकुन्तलामनुस्मृत्य मृगयायां मन्दाऽऽदरः सेनापतिमाहूय निजगाद— “सेनापते ! मन्दोत्साहः कृतोऽस्मि मृगयापवादिना प्रियवयस्येन” इति। सेनापतिरब्रवीत्—“कोऽपरो मृगयासदृशो विनोदः। ननु प्रभुरेव निदर्शनम्।

“मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः,
सत्वानामपि लक्ष्यते विकृतिमच्चितंभयक्रोधयोः।
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले,
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः”॥१३॥

आश्रमस्यात्यन्तसन्निकृष्टतया, राजा सेनापतेर्वचो नाभ्यनन्दत् उवाच च—

“शमप्रधानेषु तपोधनेषु-
गूढं हि दाहात्मकमस्ति तेजः।
स्पर्शानुकूला इव सूर्यकान्ता-
स्तदन्यतेजोऽभिभवाद्वमन्ति॥१४॥

तेन हि निवर्तय पूर्वगतान्वनग्राहिणः। यथा न मे सैनिकास्तपोधनमुपरुन्धन्ति तथा निषेद्धव्या इति। अद्य तावत्—

“गाहन्तां महिषा निपानसलिलं श्रृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
विश्रब्धं क्रियतां वराहपतिभि र्मुस्ताक्षतिः पल्वले
विश्रामं लभता मिदञ्च शिथिलज्याबन्धमस्मद्धनुः” ॥ १५॥

तस्मिन्नेव क्षणे दर्शनार्थमागतौ द्वावृषिकुमारौ राज्ञो दीप्तिमतोऽपि वपुषो विश्वसनीयतां प्रेक्ष्य विस्मितौ परस्पर-मूचतुः—

“अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये
रक्षायोगादयमपि तपः प्रत्यहं सञ्चिनोति ।
अस्याऽपि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः
पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १६ ॥

नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीम्
एकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति ।
आशंसन्ते समितिषु सुराः सक्तवैरा हि दैत्यै-
रस्याऽधिज्ये धनुषि विजयं पौरुहूते च वज्र”॥ १७॥

ततो राज्ञे फलान्युपहारीकृत्य तं विज्ञापयामासतुः—

“विदितो भवानाश्रमवासिनामिहस्थः। तेच–तत्र भवतः कण्वस्य महर्षेरसान्निध्याद्रक्षांसि न इष्टिविघ्नमुत्पादयन्ति, तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाथीक्रियतामाश्रम इति भवन्तं प्रार्थयन्ते” इति ।

राजा ऋषीणामभ्यर्थनां मानयित्वा सबाणकार्मुकं रथमारुह्य तपोवनमुपेयिवान् । प्रविष्टमात्र एव दुष्यन्ते निरुपप्लवानि तापसानां कर्माणि संवृत्तानि । तपोवनवासावसर एव शकुन्तला-

दुष्यन्तयोरनुरागः परस्परं पर्यचीयत। राजा च तस्याः पाणिं गान्धर्वविधिना जग्राह।

कदाचिदनसूया प्रियंवदामवादीत्—“इज्यारक्षां परिसमाप्य ऋषिभिर्विसर्जितो दुष्यन्त आत्मनोनगरं प्रविश्यान्तः- पुरसमागतः शकुन्तलागतं वृत्तान्तं स्मरति वा न वेति”। सा तां प्रत्यवदत्—“सखि ! विश्रब्धा भव। न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति। तातकाश्यपः पुनरिमं वृत्तान्तं श्रुत्वा न जाने कि प्रतिपत्स्यत इति मे चिन्ता। अनसूयया ऽभ्यधायि—“गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्रथमः तस्य संकल्पः। तं यदि दैवमेव सम्पादयति नन्वप्रयासेन कृतार्थोगुरुजनः। तस्मात्तातस्याऽनुमतंभवेदेतदित्यहं पश्यामीति”। तस्मिन्नैव क्षणे दुर्वासा ऋपिरात्मानमतिथित्वेन न्यवेदयत्। यद्यपि एकाकिन्येव शकुन्तलोटजसंनिहितासीत्तथाऽपिदुष्यन्तमेवध्यायन्ती अभ्यागतमृषिं प्रमादादतिथिसपर्यया न पर्यचरत्। सुलभकोपोऽसौ महर्षिस्तामशपत्—

“विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न मामुपस्थितम्।
स्मरिष्यति त्वां न स बोधितोऽपि सन् कथां प्रमत्तः प्रथमं कृतामिव” ॥१८॥

रोषाऽतिशयवशादुच्चैरुच्चरत्प्रलयघनघनगर्जितमिव तर्जितोत्तरं तत् शापवचनं दूरादेवाऽऽकर्ण्य महर्षौशकुन्तलाम-पराद्धां विहायविज्ञापितोऽनसूया दुर्वासाः— यद्, “भगवन् ! प्रथम इति प्रेक्ष्याऽविज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षितव्य इति। ततो” न मे वचनमन्यथा भवितुमर्हति किंत्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यते” इति मन्त्रयित्वा दुर्वासा अन्तर्हितः।

यदा दुष्यन्तो राजधानीं प्रस्थितस्तदा तेन स्वनामधेयाऽङ्कितमङ्गलीयकं स्मरणीयमिति शकुन्तलाया हस्ते स्वयमेवा-पिनद्धमासीत्

तत्संस्मृत्य संजातकिञ्चिदाश्वासाभ्यां तत्सखीभ्यांनिश्चयः कृतोयद्—“द्वयोरेवाऽवयोर्मुखे शापवृत्तान्त एष तिष्ठतु यतो रक्षितव्या प्रकृतिपेलवा प्रियसखीति”। अथ गते बहुतिथे कालेऽपि यदा दुष्यन्तो लेखमात्रमपि न व्यसृजत् तदोद्विग्नाऽनसूया प्रियंवदया सहाऽचिन्तयत्—“अभिज्ञानमङ्गलीयकं राज्ञे प्रेषयामः। दुःखशीलेतपस्विजने कोऽभ्यर्थ्यताम्। ननु सखीगामीदोष इति व्यवसिताऽपि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्वां शकुन्तलां निवेदयितुमिति। इत्थंगतेऽस्माभिः किं नु खलु करणीयमिति”।

यदा कण्वः प्रवासान्निवृत्याग्निशरणं प्रविष्टस्तदाऽशरीरिया वाण्या शकुन्तलागतो वृत्तान्तस्तस्मै कथितः। ततो लज्जावनतमुखीं शकुन्तलां परिष्वज्य कण्वेनैवमभिनन्दितं—“ वत्से ! सुशिष्यपरिदत्तेव विद्याऽशोचनीयाऽसि मे संवृत्ता। अद्यैव ऋषिपरिरक्षितात्वां भर्तुः सकाशं विसर्जयामीति”। यावच्छकुन्तलाया अङ्गेष्वाभरणविनियोगं सख्यावकुरुतां तावत्स्नानोत्थितः कण्वोऽचिन्तयत्—

“यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्भितवाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम्।
वैक्लव्यं मम तावदीदृशमहो स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं तु तनयाविश्लेषदुःखैर्नवैः”॥१६॥

ततोऽग्नीन् प्रदक्षिणीकृत्य प्रस्थितां शकुन्तलामवलोक्य तातकण्वः स्नेहगद्गदकण्ठेन समीपवर्तिनस्तरून प्रोवाच— “भोः भोः संनिहितास्तपोवनतरवः !

पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या
नाऽऽदत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम्।

आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ”॥२०॥

ततो लताभगिनीं वनज्योत्स्नां समामन्त्र्य द्वित्राणि पदानि प्रचलिता शकुन्तला केनचित् स्पर्शेन गतिभंगमनुभूय परावृत्याऽवलोक्याऽकथयत्—“को नुखल्वेषनिवसने मे सजति”। तातः पु्रत्यूचे— “वत्से !

यस्य त्वया व्रणविरोपणमिङ्गुदीनां
तैलं न्यपिच्यतमुखे कुशसूचिविद्धे।
श्यामाकमुष्टिपरिवर्द्धितको जहाति
सोऽयं न पुत्रकृतकः पदवीं मृगस्ते”॥२१॥

शकुन्तलाऽवोचत् —“वत्स ! किं सहवासपरित्यागिनीमामनुसरसि। अचिरप्रसूतया जनन्या विना विवर्द्धित एव। इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति। तन्निवर्तस्व” इति रुदती प्रस्थिता। ततः कण्वोऽवादीत्—“वत्से ! अलं रुदितेन, स्थिरा भव, इतः पन्थानमवलोकय—

उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं
वाष्पं कुरु स्थिरतया विरतानुबन्धम्।
अस्मिन्नलक्षितनतोन्नतभूमिभागे
मार्गे पदानि खलु ते विषमीभवन्ति॥२२॥

ततः सा सह पित्रा, शार्ङ्गरवादिभिः शिष्यैश्च, अग्रिमं पन्थानमगच्छत्। यदा कण्वः शकुन्तलां दूरमनुलसार तदा शार्ङ्गरव उवाच— “भगवन् ! ओदकान्तात्स्निग्धो जनोऽनुगन्तव्य इति श्रूयते,

तदिदं सरस्तीरम्। अत्र सन्दिश्य प्रतिगन्तुमर्हसीति”। यावत्कण्वोदुष्यन्तस्याऽनुरूपं सन्देशमचिन्तयत्तावन्नलिनीपत्रान्तरितविग्रहमपि सहचरमदृष्ट्वा रटन्तीं चक्रवाकीं प्रेक्ष्य शकुन्तला दुर्निमित्तमिति मत्वा दुःखिता बभूव। कण्व उवाच—“शार्ङ्गरव ! त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः—

अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मनः
त्वय्यस्याः कथमप्यबान्धवकृर्ता स्नेहप्रवृत्तिं च ताम्।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधुबन्धुभिः”॥२३॥

ततः कण्वः शकुन्तलामनुशशास—“सा त्वमितः पतिकुलं प्राप्य—

शुश्रूषस्व गुरून्, कुरु प्रियसखीवृत्तिं सपत्नीजने,
भर्तुर्विप्रकृतापि रोषणतया मास्म प्रतीपं गमः।
भूयिष्ठं भव दक्षिणा परिजने, भाग्येष्वनुत्सेकिनी,
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याऽऽधयः”। इति॥२४॥

ततः प्रस्थिता शकुन्तला “यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्ततस्तस्यैदमात्म नामधेयांकितमंगुलीयकं दर्शय” इति सखीभ्या मुक्ता साऽऽशङ्कमुवाच—“अनेन वां सन्देहेनाकम्पितास्मीति”। सख्या वूचतुः —“मा बिभेहि”। स्नेहःपापशंकीति”। शकुन्तला सगद्गदमुवाच—“कथमिदानीं तातस्याऽङ्कात् परिभ्रष्टा मलयतरूम्मूलिता चन्दनलता इब देशान्तरे जीवितं धारयिष्यामि”। कण्वो जगाद “वत्से ! किमेवं कातरासि-

“अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे
विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला।
तनयमचिरात् प्राचीवार्कं प्रसूय च पावनं
मम विरहजां न त्वं वत्से शुचं गणयिष्यसि”॥२५॥

शकुन्तला पितुः पादयोः पतित्वा तं ववन्दे। कण्वो —“वत्से ! यदहमिच्छामि ते तदस्तु ” इति तमाशिषाऽयुङ्क्त। शकुन्तलाऽऽश्रमाभिमुखी भूत्वा पप्रच्छ—“तात ! कदा नु भूयस्तपोवनं प्रेक्षिष्ये”इति। कण्व उवाच—“श्रूयताम्—

भूत्वा चिराय चतुरन्तमहीसपत्नी
दौष्यन्तिमप्रतिरथं तनयं निवेश्य।
भर्त्रातदर्पितकुटुम्बभरेण सार्द्धं
शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन्”॥२६॥

शकुन्तला भूयः पितरमाश्लिष्य प्रार्थयामास—“तपश्चरणपीडितं तातशरीरम् तदलं मम कृतेऽतिमात्रमुत्कण्ठितुम्। काश्यपः सनिःश्वासमुवाच—

“शममेष्यति मम शोकः कथं नु वत्से ! त्वया रचितपूर्वम्।
उटजद्वारि विरूढं नीवारबलिं विलोकयतः॥२७॥

गच्छ शिवास्ते पन्थानः सन्तु ”।

ततः शकुन्तला शार्ङ्गरवादिभिः सह प्रस्थिता। कण्वश्च सह प्रियंवदाऽनसूयाभ्यामाश्रमं प्रतिनिववृते प्रतिनिवर्तमानश्च मेने—“स्नेहप्रवृत्तिरेवंदर्शिनी। हन्त भोः शकुन्तलां पतिगृहं विसृज्य लब्धमिदानीं स्वास्थ्यम्। कुतः—

अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः।
जातो ममाऽयं विशदः प्रकामं प्रत्यर्पितन्यास इवाऽन्तरात्मा॥२८॥

अथैकदा राजाऽधिकारखेदं निरूप्य विवारयामास—“सर्वः प्रार्थितमधिगम्य सुखी सम्पद्यते जन्तुः राज्ञान्तु चरितार्थतादुःखोत्तरैव। कुतः—

औत्सुक्यमात्रमवसादयति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेव।
नाऽतिश्रमाऽपनयनाय यथा श्रमाय
राज्यं स्वहस्तधृतदण्डमिवाऽऽतपत्रम्॥२६॥

तदैव वैतालिकौ—“जयति जयति देवः—

स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः
प्रतिदिनमथवा ते वृत्तिरेवंविधैव।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं
शमयति परिताषं छायया संश्रितानाम्॥३०॥

नियमयसि कुमार्गप्रस्थितानात्तदण्डः
प्रशमयसि विवादं कल्पसे रक्षणाय।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम
त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम्”॥३१॥

इति तुष्टुवतुः। राजाः तदाऽऽकर्याऽवोचत्—“एतेन कार्य्यऽनुशासनपरिश्रान्ताः पुनर्नवीकृताः स्मः”। तत्क्षणमेव शकुन्तलया

सह शार्ङ्गरवादयो राजकुलमागच्छन्। अथकञ्चुकी—“भोः कामं धर्मकार्यमनतिपात्यं देवस्य, तथापीदानीमेव धर्माऽऽसनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदयितुम्। अथवाऽविश्रमो लोकतन्त्राधिकारः। कुतः—

भानुः सकृद् युक्ततुरङ्ग एव
रात्रिन्दिवं गन्धवहः प्रयाति।
शेषः सदैवाऽऽहित भूमिभारः
षष्ठांशवृत्तेरपि धर्म्म एषः॥३२॥

इति चिन्तयित्वा राजनं विज्ञापयामास—“एते खलु हिमवतो गिरेरुपत्यकारण्यवासिनः काश्यपसन्देशमादाय सस्त्रीकास्तपस्विनः संप्राप्ताः। श्रुत्वा देवः प्रमाणमिति”। अथ दुष्यन्तः— “अमूनाश्रमवासिनः श्रोतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुमर्हसि” इति सोमरातमुपाध्यायं सन्दिश्य तपखिदर्शनोचितं संनिहिनहोमधेनुमग्निशरणाऽलिन्दमारुह्य प्रतिपालयन्स्थितः। प्रतिहारीञ्चोवाच— “वेत्रवति! किमुद्दिश्य तत्रभवता कण्वेन मत्सकाषमृषयः प्रेषिताः ?

किंतावद्व्रतिनामुपोढ़तपसां विघ्नैस्तपो दूषितम्
धर्म्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम्।
आहोस्वित् प्रसवो ममाऽपचरितैर्विष्टम्भितो वीरुधा-
मित्यारूढ़बहुप्रतर्कमपरिच्छेदाकुलं मे मनः॥३३॥

वेत्रवती प्रतिबभाषे—“देवस्य भुजदण्डनिर्वृते आश्रमपदे कुत एवम् किन्तु सुचरिताभिनन्दिन ऋषयः देवं सभाजयितुमागता इति तर्कयामि”। ततः शकुन्तलां पुरस्कृत्य गौतमीसहिताः

शार्ङ्गरवादयो मुनयस्तत्र प्राप्ताः। जनसंबाधं राजकुलं दृष्ट्वा शार्ङ्गरवः सखायं शारद्वतमुवाच—

“महाभागः कामं नरपतिरभिन्नस्थितिरसौ
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते।
तथाऽऽपीदं शश्वत् परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव”॥३४॥

शारद्वतः प्रत्यूचे –“शार्ङ्गरव ! स्थाने खलु पुरप्रवेशास्तवेदृशः संवेगः। अहंतु—

अभ्यक्तमिव स्नातः, शुचिरशुचिमिव प्रबुद्ध इव सुप्तम्।
बद्धमिवस्वैरगतिर्जनमिह सुखसङ्गिनमवैमि”॥३५॥

राजा मुनीन् पप्रच्छ—“अपि निर्विघ्नतपसो मुनय इति”। ते ऊचुः —

“कुतोधर्म्मक्रियाविघ्नः सतां रक्षितरि त्वयि।
तमस्तपति धर्म्मांशौ कथमाविर्भविष्यति”॥३६॥

शार्ङ्गरवः कण्वसन्देशं राज्ञे कथयामास—“मिथः समयादिमां मदीयां दुहितरं भवानुपायंस्त तन्मया प्रीतिमता युवयोरनुज्ञातम्—

त्वमर्हतामग्रसरः स्मृतोऽसि नः
शकुन्तला मूर्त्तिमती च सत्क्रिया।
समानयंस्तुल्यगुणं वधूवरं
चिर

स्यवाच्यं न गतः प्रजापति॥३७॥

तदिदानीमापन्नलत्वेयं प्रतिगृह्यतां सहधर्मचरणायेति”। दुर्वासःशापदोषाद् विस्मृतसर्ववृत्तान्तो राजा— “किमिदमु-पन्यस्तम्”

इत्युवाच। इमं वचनोपन्यासं पावकममंस्त शकुन्तला। शार्ङ्गरव उवाच—“कथमिदं नाम। भवन्त एव सुतरां लोकवृत्तान्तनिष्णाताः—

“सतीमपिज्ञातिकुलैकसंश्रयां
जनोऽन्यथा भर्तृमतीं विशङ्कते।
अतः समीपे परिणेतुरिष्यते
प्रियाऽप्रिया वा प्रमदा स्वबन्धुभिः”॥३८॥

राजाऽब्रवीत्—“किंवाऽत्रभवती मया परिणीतपूर्वा इति। शार्ङ्गरवोऽपृच्छत्—“कि कृतकार्यद्वेषाद्धर्मं प्रति विमुखतो-चिता राशः” इति। राजेमाम् अभिजानीयादिति गौतमी ततः शकुन्तलाया अवगुण्ठनमपाऽऽनयत्। शकुन्तलां निर्वर्ण्य राजा तथोपनतमक्लिष्टकान्तिरूपं प्रथमपरिगृहीतं स्यान्नवेति व्यवस्यन् जोषमास्त। शार्ङ्गरवेण पृष्टः प्रत्युवाच— “भोस्तपोधनाः ! चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि। तत्कथमिमामभिव्यक्तसत्वलक्षणां प्रतिपत्स्ये” इति। शारद्वतो नामाऽपरः कण्वशिष्यः प्रोवाच— “शकुन्तले ! वक्तव्यमुक्तमस्माभिः सोऽयमत्रभवान्दुष्यन्त एव माह। दीयतामस्मै प्रत्ययप्रतिवचनम्” इति। “इदमवस्थातरंगते तादृशेऽनुरागे किं वा स्मारितेन, आत्मदानीं मे शोचनीय इति व्यवसितमेतत्” इत्यात्मगतमभिधाय शकुन्तला प्रकाशमुवाच—“पौरव! न युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं जनं समयपूर्वं प्रतार्येदृशैरक्षरैः प्रत्याख्यातुम्। यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं प्रवृत्तं तदभिचानेनाऽनेन तवाऽऽशङ्कामपनेष्यामीति”। एवमुक्त्वा मुद्रास्थानं परामृश्य यदाऽङ्गलीयकशून्यामङ्गलिमुपलेभे तदा सविषादं गौतमीमुखे दृष्टिं विक्षेप। गौतम्युवाच—“नूनं ते शक्राऽवताराभ्यन्तरे शचीतीर्थशलिलं वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम्” इति। राजोवाच—“इदं तत्प्रत्युत्पन्नमति

स्त्रैणमिति यदुच्यते” इति। शकुन्तलोवाच—“अत्र तावद्विधिना दर्शितं प्रभुत्वम्। अपरं ते कथयिष्यामि। नन्वेकस्मिन्दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते संनिहितमासीत्। तत्क्षणं स से पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः। त्वया, अयं तावत्प्रथमं पिवत्वित्यनुकम्पिनोपच्छन्दित उदकेन। स न पुनस्तेऽपरिचयाद्धस्ताभ्याशमुपगतः। पश्चात्तस्मिन्नेव मया गृहीते सलिले, तेन कृत प्रणयः। तदा त्वमित्यं प्रहसितोऽसि— सर्वः सगन्धेषु विश्वसिति। द्वावप्यत्रारण्यकाविति”। राजोवाच—“एवमादिभिरात्मकार्यनिर्वर्तिनीनामनृतवाङ्मधुभिरा-कृष्यन्ते विषयिणः”। गौतमी जगाद—“महाभाग ! नार्हस्येवं मन्त्रयितुम्। तपोवनसंवर्द्धितोऽनभिज्ञोऽ यं जनः कैतवस्य”।

राजा प्राह —“तापसवृद्धे !

स्त्रीणामशिक्षितपटुत्वममानुषीषु,
संदृश्यते किमुत याः प्रतिबोधवत्यः।
प्रागन्तरिक्षगमनात् स्वमपत्यजातम्,
अन्यैर्द्विजैः परभृताः खलु पोषयन्ति”॥३६॥

इति राज्ञोक्ते शकुन्तला सरोपमभिदधे—“अनार्य ! आत्मनो हृदयानुमानेन पश्यसि। क इदानीमन्यो धर्मकञ्चुक प्रवेशिनः तृणच्छन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते” इति।

ततः शारद्वतः—

“तदेषा भवतः कान्ता त्यज वैनां गृहाण वा।
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी”॥४०॥

इति राजनमुक्त्वा प्रस्थितः। शकुन्तलापि तमन्वगच्छत्। तदा शार्ङ्गरवः सरोषं निवृत्य तां जगाद—“शकुन्तले !

यदि यथा वदति क्षितिपस्तथा
त्वमसि किं पितुरुत्कुलया त्वया।
अथ तु वेत्सि शुचि व्रतमात्मनः
पतिकुले तव दास्यमपि क्षमम्॥४१॥

तत् तिष्ठ, साधयामो वयम्” इति। राजा पुरोहितमन्वयुङ्क्त—“भवन्तमेवाऽत्रगुरुलाघवं पृच्छामि—

मूढः स्यामहमेषा वा वदेन्मिथ्येतिसंशये।
दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः”॥४२॥

पुरोहितः प्रत्यूचे—“अत्रभवती तावदाप्रसवादस्मद्गृहे तिष्ठतु। कुत इदमुच्यते इति चेत्, त्वं साधुभिरादिष्टपूर्वः—प्रथममेव चक्रवर्त्तिनं पुत्रं जनयिष्यसीति। स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नोभविष्यत्यभिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यसि। विपर्यये तु पितुरस्याः समीपगमनमुपस्थितमेव” इति। “यथा गुरुभ्यो रोचते” इत्युक्त्वा राजा पुरोहितस्य वचोऽनुमेने”। “भगवति वसुधे ! देहि मे विवरम्” इति रुदती शकुन्तला सह पुरोधसा तपस्विभिश्च निष्क्रान्ता। यावद्राजा पर्याकुलः शकुन्तलागतमेवाचिन्तयत्तावत् पुरोहितः प्रतिनिवृत्योवाच—“देव ! परावृत्तेषु कण्व शिष्येषु—

सा निन्दन्ती स्वानि भाग्यानि बाला
बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता।
स्त्रीसंस्थानं चाऽप्सरस्तीर्थमारा-
दुत्क्षिप्यैनां ज्योतिरेकं जगाम”॥४३॥

राजोवाच— “भगवन् ! प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव।

किं वृथा तर्केणान्विष्यते। विश्राम्यतु भवानिति”। ततः पुरोहितोनिष्क्रान्तः। राजा पर्याकुलमानसः—

“कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम्।
बलवत्तु दूयमानं प्रत्याययतीव मे हृदयम्”॥४४॥

इति वदन् शयनभूमिं जगाम।

शक्राऽवताराभ्यन्तरवासी कश्चिद्धीवरो जालोद्गालादिभिर्मत्स्यबंधनोपायैः कुटुम्बभरणमकरोत्। एकस्मिन्दिवसे तेन रोहितमत्स्यः खण्डशः कल्पितः। तदा तस्योदराभ्यन्तरे रत्नभासुरमङ्गुलीयकं तेन दृष्टम्। पश्चाद्विक्रयाय तद् दर्शयन् नागरिकेण राजश्यालेन चौर्याऽपराधे निगृहीतः स यथायथमङ्गुलीयकाऽऽगमं तस्मै न्यवेदयत्। श्यालोऽपि तस्याङ्गुलीयकस्य विस्रगन्धमाघ्राय मत्स्योदरसंस्थितमेव तदिति निश्चित्य धीवरं निरोद्धुं रक्षिणावादिश्य राजकुलं जगाम। तत्र राज्ञे यथागमनमङ्गुलीयकं निवेद्य राजशासनमादायप्रतिनिवृत्तः—“मुच्यतामेष जालोपजीवी, उपपन्नः किलाऽ- ङ्गुलीयकस्याऽऽगमः, एष भर्त्राङ्गलीयकमूल्य संमितो दापितः प्रसादः” इत्युक्त्वा पुरुपं बन्धनादुन्मुच्यार्थं तस्मै प्रायच्छत्। ततः “सत्यमूढपूर्वा मया तत्रभवती रहसि शकुन्तला मोहाच्च प्रत्यादिष्टा” इति स्वाङ्गुलीयकदर्शनादनुस्मृत्य पश्चात्तापमुपगतो दुष्यन्तः कुत्रापि निर्वृतिमलभमानः शिशिरातपच्छेदरमणीये प्रमदवनोद्देशे आत्मानं विनोदयितुं सह विदूषकेणगतः। तदैव प्रतीहारी पत्रहस्ता प्रविवेश विज्ञापयामास च—“देव ! अमात्यो विज्ञापयति—अर्थजातस्य गणनाबहुलतया एकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षीकरोतु” इति। ततो राजा पत्रिकां गृहीत्वावाचयत्—“समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यवसने विपन्नः। अनपत्यश्च किल तपस्वी। राजगामी तस्यार्थसञ्चयः” इति। अनन्तरमुवाच

राजा—“एतदमात्येन लिखितम्। कष्टं खल्वनपत्यता। वेत्रवति ! महाधनत्वाद् बहुपत्नीकेन तत्रभवता भवितव्यम्। विचार्यतां यदि काचिदापन्नसत्वा तस्य भार्याषुस्यादिति”। प्रतीहारी प्रत्युवाच—“इदानीमेव साकेतस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायाऽस्य श्रूयते” इति। दुष्यन्तः प्रतीहारीमुवाच—“ननु गर्भः पित्र्यं रिक्थमर्हति। गच्छ। एवममात्यं ब्रूहि। अन्यच्च—

येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना।
स स पापादृते तासां दुष्यन्त इति घुष्यताम्”॥४५॥

राजा दीर्घमुष्णं च निश्वस्याऽऽत्मगतं प्राह स्म—“एवं भोः सन्ततिच्छेदनिरवलम्बानां कुलानां मूलपुरुषावसाने सम्पदः परमुपतिष्ठन्ति। ममाप्यन्ते पुरुवंशश्रिय एष एव वृत्तान्तः। धिङ्मामुपस्थितश्रेयोऽवमानिनम्—

संरोपितेऽप्यत्मनि धर्मपत्नी
त्यक्ता मया नाम कुलप्रतिष्ठा।
कल्पिष्यमाणा महते फलाय
वसुंधरा काल इवोप्तवीजा”॥४६॥

सार्थवाहवृत्तान्तेन विमनायमानं राजानं दृष्ट्वा चतुरिका प्रतीहारीम् उवाच—“देवमाश्वासयितुं मेघप्रतिच्छन्दा-दाऽऽर्यमाढव्यं गृहीत्वाऽऽगच्छ”इति। राजोवाच—“अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः। कुतः—

अस्मात्परं बत यथाश्रुति संभृतानि
को नः कुले निवपनानि नियच्छतीति।
नूनं प्रसूतिविकलेन मया प्रसिक्तं
धौताऽश्रुशेषमुदकं पितरः पिवन्ति”॥४७॥

एवमुक्त्वा मोहमुपगतः। तस्मिन्नेव क्षणे—“अब्रह्मण्यम् अब्रह्मण्यम्” इति माढव्यस्यार्तस्वरेण दुष्यन्तः पुनश्चेतनां लेभे। प्रतीहारी ससंभ्रमं प्रविश्योवाच—“परित्रायतां देवः संशयगतं वयस्यं, योऽदृष्टरूपेण केनापि सत्त्वेनाक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्याऽग्रभूमिमारोपितः” इति। ततो राजा सशरं धनुरादाय सोपानमार्गमागत्य सर्वं शून्यं दृष्ट्वोवाच – “भोस्तिरस्करिणीगर्वित ! मदीयमस्त्रं त्वां द्रक्ष्यति। एष तमिषुं संदधे—

यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम्।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः”॥४८॥

एवमुक्त्वाऽस्त्रं समधत्त। तदा विदूषक्रमुत्सृज्य मातलिरिन्द्रसारथिः प्रादुर्भयोवाच—

“कृताः शरव्यं हरिणा तवासुराः
शरासनं तेषु विकृष्यतामिदम्।
प्रसादसौम्यानि सतां सुहृज्जने
पतन्ति चक्षूंषि न दारुणाः शराः॥४९॥

राजा मातलिं दृष्ट्राऽस्त्रमुपसंहृत्य स्वागतं व्याजहार। विदूषकः सविस्मयं उवाच—“अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेनाभिनन्द्यते” इति। मातलिनोक्तम्—“अस्ति कालनेमिप्रसूतिर्दुर्जयो नाम दानवगणः—

सख्युस्ते स किल शतक्रतोरजय्य-
स्तस्य त्वं रणशिरसि स्मृतोनिहन्ता।
उच्छेत्तुं प्रभवति यन्न सप्तसप्ति-
स्तन्नैशं तिमिरमपाकरोति चन्द्रः॥५०॥

तस्मादात्तशस्त्रो भवानिदानीमैन्द्रं रथमारुह्य विजयाय प्रतिष्ठतामिति”। राजोवाच —“अनुगृहीतोऽहमनया मघवतः संभावनया। अथ वयस्यं प्रति भवता किमेवं प्रयुक्तमिति”। मातलिः प्रत्यवदत्—“कुतश्चिदपि मनःसन्तापादायुष्मान्मया विक्लवो दृष्टः। पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि। कुतः—

ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते।
प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते हि जनः”॥५१॥

राजा विदूषकमुवाच —“वयस्य ! अनतिक्रमणीया दिवस्पतेराज्ञा। तदत्र परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि—

त्वन्मतिः केवला तावत् परिपालयतु प्रजाः।
अधिज्यमिदमन्यस्मिन् कर्मणि व्यापृतं धनुः”॥५२॥

तथेत्युक्त्वा विदुषको निष्क्रान्तः। राजाऽपि रथमारुह्य मातलिना सह जगाम। मघोनो नियोगमनुष्ठाय तेन सविशेषं सत्कृतोदुष्यन्तो मातलिना सहाऽऽकाशयानेन स्वर्गान्महीमभिप्रतस्थे। मार्गे दुष्यन्तो मातलिमुवाच—“स खलु मम मनोरथानामप्यभूमि र्विसर्जनाऽवसरसत्कारः। मम हि दिवौकसां समक्ष मर्धाऽऽसनोपवेशितस्य—

अन्तर्गतप्रार्थनमन्तिकस्थं
जयन्तमुद्वीक्ष्यकृतस्मितेन।
आमृष्टवक्षेहरिचन्दनाऽङ्का
न्दारमाला हरिणा पिनद्धा”॥५३॥

मातलिरुवाच “किमिव नामाऽऽयुष्मान् अमरेश्वरान्नार्हति ।

सुखपरस्य हरेरुभयैः कृतं
त्रिदिवमुद्धृतदानवकण्टकम्।
तव शरैरधुना नतपर्वभिः
पुरुषकेशरिणश्च पुरानखैः”॥५४॥

राजा सविनयमभिदधे—“अत्र खलु शतक्रोरेव महिमा स्तुत्यः—

सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः
संभावनागुणमवेहि तमीश्वराणाम् ।
किं वा भविष्यदरुणस्तमसां विभेत्ता
तंचेत् सहस्रकिरणो धुरि नाऽकरिष्यत्”॥५५॥

राजा मातलिं पप्रच्छ—“मातले ! असुरसंप्रहारोत्सुकेन मया पूर्वेद्युर्दिवमधिरोहता न लक्षितः स्वर्गमार्गः । तत् कतरस्मिन्मरुतां पथि वर्तामहे” । मातलिनाप्रत्युक्तम्—

“त्रिस्रोतसं वहति यो गगनप्रतिष्ठां
ज्योतींषि वर्त्तयति च प्रविभक्तरश्मिः ।
तस्य द्वितीयहरिविक्रमनिस्तमस्कं
वायोरिमं परिवहस्य वदन्ति मार्गम्”॥५६॥

राजा रथाऽङ्गमवलोक्योवाच—“मेघपदवीमवतार्णौस्वः । यतः—

अयमरविवरेभ्यश्चातकैर्निष्पतद्भि-
र्हरिभिरचिरभासां तेजसा चाऽनुलिप्तैः ।

गतमुपरि घनानां वारिगर्भोदराणां
पिशुनयति रथस्ते शीकरक्लिन्ननेमिः”॥५७॥

मातलिरुवाच—“क्षणादायुष्मान्स्वाधिकारभूमौ वर्तिष्यते”। राजाऽधोऽवलोक्योवाच— “बेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः, तथाहि—

शैलानामरोहतीव शिखरादुन्मज्जतां मेदिनी
पर्णाऽभ्यन्तरलीनतां विजहति स्कन्धोदयात् पादपाः।
सन्तानैस्तनुभावनष्टलिला व्यक्तिं भजन्त्यापगाः
केनायुत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते”॥५८॥

ततो हेमकूटं नाम पर्वतं दृष्ट्वा तस्मिंश्च तपस्यन्तं स्वायंभुवान्मरीचेर्जातं प्रजापतिं मातलेरुपश्रुत्य—“प्रदक्षिणीकृत्य भगवन्तं गन्तुमिच्छामि” इति दुष्यन्त उवाच। ततो मातलिर्मारीचाऽऽश्रमस्य समीपे रथमस्थापयत्। राजा रथादवतीर्याऽत्रभवतामृषीणां तपोवनभूमि सविस्मयमवलोक्योवाच—

“प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे बने
तोये काञ्चनपद्मरेणुकपिशे धर्माऽभिषेकक्रिया।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो-
यत् काङ्क्षन्ति तपोभिरन्यमुनयस्तस्पिस्तपस्यन्त्यमी”॥५९॥

ततो राजा भगवते मारीचायाऽऽत्मानं निवेदयितुं मातलिं प्रेषयामास। दक्षिणं बाहुं स्पन्दमानमुपलभ्य यावद्राजाऽब्रवीत्—

“मनोरथाय नाऽशंसे किं वाहो ! स्पन्दसे वृथा।
पूर्वाऽवधीरितं श्रेयो दुःखं हि परिवर्त्तते। इति॥६०॥

तावत्सोऽर्धपीतस्तनं सिंहशिशुं प्रक्रीडितुं बलात्कारेण कर्षन्तमबालसत्त्वं कञ्चिद्बालं तपस्विनीभ्यामनुबध्यमानं ददर्श।तस्य बलाधिक्यं दृष्ट्वाराजोवाच—

“महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे।
स्फुलिङ्गाऽवस्थया वह्निरेधाऽपेक्ष इव स्थितः”। इति॥६१॥

ततस्तपस्विनी बालमुवाच—“वत्स ! एनं बालमृगेन्द्रं मुञ्च। अपरं ते क्रीडनकं दास्यामीति”। बाले क्रीडनकमादातुं हस्तं प्रसारयति सति-तद्धस्तमवलोक्य राजोवाच—“कथं चक्रवर्तिलक्षणमप्यनेन धार्यते। तथा हास्—

प्रलोभ्यवस्तुपूरणयप्रसारितो-
विभाति जालग्रथितांऽगुलिः करः।
अलक्ष्यपत्रान्तरमिद्धरागया
नवोषसा भिन्नमिवैकपंकजम्”॥६२॥

बालकाय वर्णचित्रितं मृत्तिकामयूरं आनेतुमेका तापसी गता। बाल उवाच—“अनेनैव तावत्क्रीडिष्यामि”। राजोवाच— “स्पृहयामि खलु दुर्ललितायास्मै—

आलक्ष्यदन्तमुकुलाननिमित्तहासै-
रव्यक्तवर्णरमणीयवचःप्रवृत्तीन्।
अङ्काऽऽश्रयप्रणयिन स्तनयान् वहन्तो-
धन्यास्तदङ्गरजसा मलिनीभवन्ति”॥६३॥

यदा स दुर्ललितो बालोऽपरां तापसीं नाऽगणयत्तदा सा राजानं दृष्ट्वोवाच—“भद्रमुख ! एहि तावत्। मोचयानेन दुर्मोकहस्तग्रहेण डिम्भलीलया बाध्यमानं बालमृगेन्द्रम्”। राजा बालं निवारयन्नुवाच—“अयि भो महर्षिपुत्र !

एवमाऽऽश्रमविरुद्धवृत्तिना
संयमः किमिति जन्मतस्त्वया।
सत्त्वसंश्रयसुखोऽपि दूष्यते
कृष्णसर्पशिशुनेव चन्दनम्”॥६४॥

बालस्पर्शमुपलभ्य चाऽऽत्मगतं विचारयामास—

अनेन कस्यापि कुलाङ्कुरेण
स्पृष्टस्य गात्रेषु सुखं ममैवम्।
कां निर्वृतिं चेतसि तस्य कुर्याद्
यस्याऽयमङ्कात् कृतिनः प्ररूढः॥६५॥

तापसी बालं दुष्यन्तं च निर्वण्याऽऽश्चर्यमाश्चर्यमिति व्याहृत्य राजानमुवाच—“अस्य बालस्य रूपसंवादिनी त आकृतिरिति विस्मापितास्मि। अपरिचितस्यापि च ते ऽ प्रतिलोमः संवृत्तः” इति। “कोऽस्य व्यपदेशः” इति राज्ञा पृष्टे तापसी जगाद—“पुरुवंशः”। एतच्छ्रुत्वा राजात्मगतमुवाच—“कथमेकान्वयोनाम। अतः खलु मदनुकारिणमेनमत्रभवती मन्यते। अस्त्येतत्पौरवाणामन्त्यं कुलव्रतम्—

भवनेषु रसाऽधिकेषु पूर्वं
क्षितिरक्षार्थमुशन्ति ये निवासम्।
नियतैकपतिव्रतानि पश्चात्
तरुमूलानि गृहीभवन्ति तेषाम्”॥६६॥

तापसीञ्चाऽवदत्—“न पुनरात्मगत्या मानुषाणामेष विषयः”। सा प्रत्यूचे—“अप्सरः संबन्धेनाऽस्य जनन्यत्र देवगुरो-स्तपोवने

प्रसूता”। इति। ततो राजा—“बालस्याऽस्य माता किमाख्यस्य राजर्षेः पत्नी” इति पप्रच्छ। तापसी प्रत्युवाच—“कस्तस्य धर्मदारपरित्यागिनो नाम सङ्कीर्तयितुं चिन्तयिष्यति” इति। दुष्यन्तोऽचिन्तयत्—“इयं कथा मामेव लक्ष्यीकरोति। यदि तावदस्य शिशोर्मातरं नामतः पृच्छेयम् ? अथवाऽन्याय्यः परदारव्यवहारः” इति। तस्मिन्नेव क्षणे मृणमयूरहस्ता तापसी तत्राऽऽगत्य — “सर्वदमन ! शकुन्तलावण्यं पश्य” इति बालमुवाच। नामसादृश्येन वञ्चितः स बालः प्रोवाच — “कुत्र मे माता” इति। ततो दुष्यन्तोऽचिन्तयत्—“किं वा शकुन्तलेत्यस्य मातुराख्या ? सन्ति पुनर्नामधेयसादृश्यानि। अपि नाम मृगतृष्णिकेव नाममात्रप्रस्तावोमे विषादाय कल्पते” इति। सिंहशावविमर्देन बालस्य मणिबन्धात्परिभ्रष्टंरक्षाकरण्डकं तापसीभ्यां प्रतिषिध्यमानोऽपि राजाऽऽददौ। प्रतिषेधकारणं पृष्टा तापसी जगाद—“एषाऽपराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता। एतां किल मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति, अथ गृह्णाति ? ततस्तं सर्पो भूत्वा दशति” इति। तापस्यौ तं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयितुं निष्कान्ते। ‘पुत्रक !, इत्युक्त्वा बालं यदा राजा परिषस्वजे तदा तेनोक्तं—“मम खलु तातो दुष्यन्तो न त्वम्” इति। तापसीमुखाच्छ्रुतवृत्तान्तशकुन्तला राजानमुपाजगाम। तां दृष्ट्वा राजाऽवदत्— “अये सेयमत्रभवती शकुन्तला। यैषा—

वसने परिधूसरे वसाना
नियमक्षाममुखी धृतैकवेणिः।
अतिनिष्करुणस्य शुद्धशीला
मम दीर्घं विरहव्रतं विभर्त्ति”॥६७॥

शकुन्तलायां राज्ञे जवशब्दमुच्चारयंत्यां सवाष्पकण्ठत्वादर्धोके विरमन्त्यां राजा जगाद—

“वाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया।
यत्तेदृष्टमसंस्कारपाटलोष्ठपुटं मुखम्”॥६८॥

दुष्यन्तः शकुन्तलायाः पादयोः प्रणिपत्याऽऽह स्म—

“सुतनु ! हृदयात्पत्यादेशव्यलीकमपैतु ते
किमपि मनसः संमोहो मे तदा बलवानभूत्।
प्रबलतमसामेवंप्रायाः शुभेषु प्रवृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ”॥६९॥

शकुन्तलोवाच—“उत्तिष्ठत्वाऽऽर्यपुत्रः नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणाममुखमासीद्येन सानुक्रोशोऽप्याऽऽर्य पुत्रो मयि विरसः संवृत्तः” इति। तदा निवृत्य मातलिदुष्यन्तमुवाच—“दिष्टया धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान् वर्धते। भगवान् मारीचस्ते दर्शनं वितरति। तदेह्यायुष्मन् !” इति। राजा सह शकुन्तलया पुत्रेण च, अदित्या सार्धमासनस्थं मारीचमुपगम्य प्रणनाम। राजानं दृष्ट्रा मारीचः स्वधर्मपत्नीमुवाच —“दाक्षायणि!

पुत्रस्य ते रणशिरस्ययमग्रयायी
दुष्यन्त इत्यभिहितो भुवनस्य भर्ता।
यापेन यस्य विनिवर्तितकर्मजातं
तत्कोटिमत्कुलिशमाभरणं मघोनः ॥७०॥

राजा च मातलिं प्रत्युवाच—

“प्राहुर्द्वादशधास्थितस्य मुनयो यत्तेजसः कारणं
भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम्।

यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायाऽऽस्पदं
द्वन्द्वं दक्षमरीचिसंभवमिदं तत्स्रष्टुरेकान्तरम्”॥७१॥

सर्वे मारीचमभित उपाऽविशन्। मारीच एकैकं निर्दिश्योवाच—

“दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान्।
श्रद्धा वित्तंविधिश्चेति त्रितयं तत्समागतम् “॥७२॥

राजोवाच—“भगवन् ! प्रागभिप्रेतसिद्धिः। पश्चाद् वो दर्शनम्। अतोऽपूर्वः खलु वोऽनुग्रहः। कुतः—

उदेति पूर्वं कुसुमं ततः फलं
घनोदयः प्राक् तदनन्तरं पयः।
निमित्तनैमित्तिकयोरयं क्रम-
स्तव प्रसादस्य पुरस्तु संपदः॥७३॥

शकुन्तलामिमामाज्ञाकरींवो गान्धर्वेण विवाहेनोपयम्य स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो युष्मत्स-गोत्रस्य कण्वस्य। पश्चादङ्गुलीयकदर्शनात् तद्दुहितरमवगतोऽहम्। तदेतत्चित्रमिव मे प्रतिभाति—

“यथा गजो नेति समक्षरूपे
तस्मिन्नपक्रामति संशयः स्यात्।
पदानि दृष्ट्वातु भवेत्प्रतीति-
स्तथाविधो मे मनसो विकारः”॥७४॥

“वत्स ! अलमात्माऽपराधशंकया, संमोहस्त्वय्यनुपपन्नः इत्युक्त्वा मारीचस्तस्मै दुर्वासःशापादिकं सर्वं कथयाञ्चकार।

तच्छ्रुत्वा—“एष वचनीयान्मुक्तोऽस्मि इति राजाब्रवीत्। मारीचः शकुन्तलामुवाच—“क्त्से ! चरितार्थाऽसि। सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः। पश्य—

शापादसि प्रतिहता स्मृतिरोधरूक्षे
भर्तर्यपेततससि प्रभुता तवैव।
छाया न मूर्छति मलोपहतप्रसादे
शुद्धेतु दर्पणतले सुलभाऽवकाशा॥७५॥

मारीचस्ततो दुष्यन्तमब्रवीत्—“अस्माभिरनुष्ठितजातकर्माणमेनं पुत्रं भाविनं चक्रवर्तिनमवगच्छतु भवान्।

रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः
पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः।
इहाऽयं सत्त्वानां प्रसभदमनात्सर्वदमनः
पुनर्यास्यत्याख्यां ‘भरत’ इति लोकस्य भरणात्”॥७६॥

भगवते कण्वाय प्रियमिदमावेदयितुं मारीचेन शिष्यः प्रहितः। ततोमारीचोदुष्यन्तमुवाच —“वत्स ! त्वमपि स्वाऽपत्यदारसहितः सख्युराखण्डलस्य रथमारुह्य राजधानीं प्रतिष्ठस्व। अपि च—

तव भवतु बिडौजाः प्राज्यवृष्टिः प्रजासु
त्वमपि विततयज्ञः स्वर्गिणः प्रीणयाऽलम्।
युगशतपरिवर्त्तानेवमन्योन्यकृत्यै-
र्नयतमुभयलोकानुग्रहश्लाघनीयैः॥७७॥

अथ किन्ते भूयः प्रियमुपहरामि” इति। राजा प्रत्यब्रवीत्—“अतः परमपि प्रियमस्ति। यदि भगवान् प्रसन्नः प्रियं कर्तुमिच्छति, तर्हीदमस्तु —

प्रर्वर्ततां प्रकृतिहिताय पार्थिवः
सरस्वती श्रुतमहतां महीयताम्।
ममाऽपि च क्षपयतु नीललोहितः
पुनर्भवं परिगतशक्तिरात्मभूः”॥७८॥

ततो दुष्यन्तः सपुत्रकलत्रो राजधानीं जगाम।

इति अभिज्ञानशाकुन्तलम्।

हिमालय वर्णनम्

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।
पूर्वापरौतोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः॥१॥

यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे।
भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम्॥२॥

अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्।
एको हि दोषोगुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाऽङ्कः॥३॥

आमेखलं संचरतां घनानां छायामधःसानुगतां निषेव्य।
उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्याऽऽतपवन्ति सिद्धाः॥४॥

पदं तुषारस्रुतिधौतरकं यस्मिन्नदृष्ट्वाऽपिहतद्विपानाम्।
विदन्ति मार्गं नखरन्धमुक्तैर्मुक्ताफलैः केसरिणां किराताः॥५॥

यः पूरयन्कीचकरन्ध्रभागान्दरीमुखोत्थेन समीरणेन।
उद्गास्यतामिच्छति किंनराणां तानप्रदायित्वमिवोपगन्तुम्॥६॥

कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम्।
यत्र स्रुतक्षीरतया प्रसूतः स्नानूनि गन्धः सुरभीकरोति॥७॥

दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवाऽन्धकारम्।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीव॥८॥

लाङ्गूलविक्षेपविसर्पिशोभैरितस्ततश्चन्द्रमरीचिगौरैः।
यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति बालव्यजनैश्चमर्यः॥९॥

भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः।
यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिखण्डिबर्हः॥१०॥

सप्तर्षिहस्तावचितावशेषाण्यधो विवस्वान्परिवर्तमानः।
पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः॥११॥

यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च।
प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयमन्वतिष्ठत्॥१२॥

(कुमार संभव प्रथम सर्गात्)

“पार्वती तपस्या


तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती।
निनिन्दरूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता॥

इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः।
अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः॥

निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम्।
उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात्॥

मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से क्व च तावकं वपुः।
पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः॥

इति ध्रवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात्।
क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत्॥

कदाचिदासन्नसखीमुखेन सा मनोरथज्ञंपितरं मनस्विनी।
अयाचताऽरण्यनिवासमात्मनः फलोदयान्ताय तपःसमाधये॥

अथाऽनुरूपाऽभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा।
प्रजासु पश्चात्प्रथितं तदाख्यया जगाम गौरीशिखरं शिखण्डिमत्॥

विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम्।
बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति॥

यथा प्रसिद्धैर्मधुरं शिरोरुहैर्जटाभिरप्येवमभूत्तदाननम्।
न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते॥

प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जां त्रिगुणां बभार याम्।
अकारि तत्पूर्वनिबद्ध्या तया सरागमस्या रसनागुणास्पदम्॥

विसृष्टरागादधरान्निवर्तितः तदङ्गरागारुणिताच्च कन्दुकात्।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः॥

महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते।
अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले॥

पुनर्ग्रहीतुं नियमस्थया तथा द्वयेऽपि निक्षेप इवार्पितं द्वयम्।
लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च॥

अतन्द्रिता सा स्वयमेव वृक्षकान् घटस्तनप्रस्रवणैर्व्यवर्धयत्।
गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति॥

अरण्यबीजाञ्जलिदानलालिताः तथा च तस्यां हरिणा विशश्वसुः।
यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने॥

कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम्।
दिदृक्षवस्तामृषयोऽभ्युपागमन्न धर्मवृद्धेषु वयः समीक्ष्यते॥

विरोधिसत्वोज्झितपूर्वमत्सरं द्रुमैरभीष्टप्रसवार्चितातिथि।
नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच्च बभूव पावनम्॥

यदा फलं पूर्वतपःसमाधिना न तावता लभ्यममंस्त कांक्षितम्।
तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे॥

क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाह्यत।
ध्रुवं वपुः काञ्चनपद्मनिर्मितं मृदु प्रकृत्या च ससारमेव च॥

शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा।
विजित्य नेत्रप्रतिघातिनीं प्रभामनन्यदृष्टिः सवितारमैक्षत॥

तथातितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ।
अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम्॥

अया चितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः।
बभूव तस्याः किल पारणा विधिर्न वृक्षवृत्तिव्यतिरिक्तसाधनः॥

निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन सा।
तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुञ्चदूर्ध्वगम्॥

स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपात चूर्णिताः।
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभि प्रथमोदबिन्दवः॥

शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु।
व्यलोकयन्नुन्मिषितैस्तडिन्मयैर्महातपःसाक्ष्य इव स्थिताः क्षपाः॥

निनाय सात्यन्तहिमोत्किराऽनिलाः सहस्यरात्रीरुदवासतत्परा।
परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्तेमिथुनेकृपावती॥

मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाऽधरपत्रशोभिना।
तुषारवृष्टिक्षतपद्मसंपदां सरोजसंधानमिवाऽकरोदपाम्॥

स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः।
तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः॥

मृणालिकापेलवमेवमादिभिर्व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम्।
तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा॥

अथाऽजिनाऽऽषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा।
विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाऽऽश्रमो यथा॥

तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती।
भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः॥

विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम्।
मांस पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः॥

अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते।
अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम्॥

अपि त्वदावर्जितवारिसंभृतं प्रवालमासामनुबन्धि वीरुधाम्।
चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा॥

अपि प्रसन्नं हरिणेषु ते मनः करस्यदर्भप्रणयापहारिषु।
य उत्पलाक्षि ! प्रचलैर्विलोचनैस्तवाऽक्षिसादृश्यमिव प्रयुञ्जते॥

यदुच्यते पार्वति ! पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः।
तथाहि ते शीलमुदारदर्शने ! तपस्विनामप्युपदेशतां गतम्॥

विकीर्णसप्तर्षिबलिप्रहासिभिस्तथा न गाङ्गैःसलिलैर्दिवश्च्युतैः।
यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वयः॥

अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि !।
त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते॥

प्रयुक्तसत्कारविशेषमात्मना न मां परं संप्रतिपत्तुमर्हसि।
यतः सतां संनतगात्रि ! संगतं मनीषिभिः साप्तपदीनमुच्यते॥

अतोऽत्र किंचिद्भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः।
अयं जनः प्रष्टु मनास्तपोधने ! न चेद्रहस्यं प्रतिवक्तुमर्हसि॥

कुले प्रसूतिः प्रथमस्य वेधसः, त्रिलोकसौन्दर्यमिवोदितं त्रपुः।
अमृग्यमैश्वर्यसुखं, नवं वयः, तपःफलं स्यात्किमतः परं वद॥

भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी।
विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि ! त्वयि॥

अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु ! कुतः पितुर्गृहे।
पराभिमर्शो न तवास्ति, कः करं प्रसारयेत्पन्नगरत्नसूचये॥

किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्।
वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते॥

दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः।
अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत्॥

निवेदितं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते।
न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम्॥

मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकरराऽऽप्लुष्टविभूषणास्पदाम्।
शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते॥

कियच्चिरं श्राम्यसि गौरि ! विद्यते ममाऽपि पूर्वाऽऽश्रमसंचितं तपः।
तदर्धभागेन लभस्व कांक्षितं वरं तमिच्छामि च साधु वेदितुम्॥

इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम्।
अथो वयस्यां परिपार्श्ववर्तिनींविवर्तिताऽनञ्जननेत्रमैक्षत॥

सखी तदीया तमुवाच वर्णिनं निबोध साधो ! तव चेत्कुतूहलम्।
यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः॥

इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी।
अरूपहार्यं मदनस्य निग्रहात्पिनाकपाणिं पतिमाप्तुमिच्छति॥

यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधिं विचिन्वती।
तदा सहाऽस्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम्॥

द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टमेष्वपि।
न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः॥

अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया।
अयीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः॥

अथाग्रहस्ते मुकुलीकृताङ्गलौ समर्पयन्ती स्फटिकाक्षमालिकाम्।
कथंचिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत॥

यथाश्रुतं वेदविदांवर! त्वया जनोयमुच्चैः पदलङ्घनोत्सुकः।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते॥

अथाह वर्णी-विदितो महेश्वरः, तदर्थिनी त्वं पुनरेव वर्तसे।
अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे॥

अवस्तुनिर्बन्धपरे ! कथं नु ते करोऽयमामुक्तविवाहकौतुकः।
करेण शंभोर्वलयीकृताऽहिना सहिष्यते तत्प्रथमावलम्बनम्॥

त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः।
वधूदुकूलं कलहंसलक्षणं गजाऽजिनं शोणितबिन्दुवर्षि च॥

चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते।
अलक्तकाऽङ्कानि पदानि पादयोर्विकीर्णकेशासु परतभूमिषु॥

इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया।
विलोक्यवृद्धोक्षमधिष्ठितं त्वया महाजनःस्मेरमुखो भविष्यति॥

द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी॥

वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु।
बरेषु यद्वालमृगाक्षि ! मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने॥

निवर्तयाऽस्मादसदीप्सितान्मनः क तद्विधस्त्वं क्वच पुण्यलक्षणा।
अपेक्ष्यते साधुजनेन वैदिको श्मशानशूलस्य न यूपसत्क्रिया॥

इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया।
विकुञ्चितभ्रूलतमाहिते तया बिलोचने तिर्यगुपान्तलोहिते॥

उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम्।
अगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः॥

अकिञ्चनः सन्प्रभवः स संपदां त्रिलोकनाथः पितृसद्मगोचरः।
स भीमरूपः शिव इत्युदीर्यते न सन्ति याथार्थ्यविदः पिनाकिनः॥

विभूषणोद्भासि पिनद्धभोगि वा गजाऽजिनाऽऽलम्बि दुकूलधारि वा।
कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः॥

तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजोऽपि शुद्धये।
तथाहि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसाम्॥

असंपदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा।
करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली॥

विवक्षता दोषमपि च्यूतात्मना त्वयैकमीशं प्रति साधु भाषितम्।
यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति॥

अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते॥

निवार्यतामालि ! किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराऽधरः।
न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक्॥

इतो गमिष्याम्यथवेति वादिनी चचाल बाला रयभिन्नवल्कला।
स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृपराजकेतनः॥

तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि-
निक्षेपणाय पदमुद्धृतमुद्वहन्ती।
मार्गाऽचलव्यतिकराऽऽकुलितेव सिन्धुः
शैलाऽधिराजतनया न ययौ न तस्थौ॥

अद्य प्रभृत्यवनताङ्गि ! तवास्मि दासः
क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ।
अह्नाय सा नियमजं क्लममुत्ससर्ज
क्लेशः फलेन हि पुनर्नवतां विधत्ते॥

(कुमारसंभवस्य पञ्चम सर्गात्)

पार्वती परिणयः

अथौषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम्।
समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत्॥१॥

वैवाहिकैः कौतुकसंविधानैर्गृहे गृहे व्यग्रपुरंध्रिवर्गम्।
आसीत्पुरं सानुमतोऽनुरागादन्तःपुरं चैककुलोपमेयम्॥२॥

संतानकाऽऽकीर्णमहापथं तच्चीनांशुकैः कल्पितकेतुमालम्।
भासोज्वलत्काञ्चनतोरणानां स्थानान्तरस्वर्ग इवाऽऽबभासे॥३॥

एकैव सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टेवमृतोत्थितेव।
आसन्नपाणिग्रहणेति पित्रोरुमा विशेषोच्छ्वसितं बभूव॥४॥

अङ्काद्ययावङ्कमुदीरिताशीः सा मण्डनान्मण्डनमन्वभुङ्क्त।
संबन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम॥५॥

मैत्रेमुहूर्ते शशलाञ्छनेन योगं गतासुत्तरफल्गुनीषु।
तस्याः शरीरे प्रतिकर्म चक्रुः बन्धुस्त्रियो याः पतिपुत्रवत्यः॥६॥

सा गौरसिद्धार्थनिवेशवद्भिः दूर्वाप्रवालैः प्रतिभिन्नशोभम्।
विर्नाभि कौशेयमुपात्तबाणम् अभ्यङ्गनेपथ्यमलंचकार॥७॥

बभौ च संपर्कमुपेत्य बाला नवेन दीक्षाविधिसायकेन।
करेण भानोर्बहुलावसाने संधुक्ष्यमाणेव शशाङ्करेखा॥८॥

तां लोध्रकल्केनहृताङ्गतैलामाश्यानकालेयकृतांगरागाम्।
वासो वसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुख व्यनैषुः॥६॥

विन्यस्तवैदूर्यशिलातलेऽस्मिन्नाबद्धमुक्ताफलभक्तिचित्रे।
आवर्जिताऽष्टापदकुम्भतोयैः सतूर्यमेनां स्नपयांबभूवुः॥१०॥

सा मङ्गलस्नानविशुद्धगात्रो गृहीतपत्युद्गमनीयवस्त्रा।
निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे॥११॥

तस्मात्प्रदेशाच्च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन।
पतिव्रताभिः परिगृह्य निन्ये क्लृप्ताऽऽसनं कौतुकवेदिमध्यम्॥१२॥

तावद्भवस्यापि कुवेरशैले तत्पूर्वपाणिग्रहणानुरूपम्।
प्रसाधनं मातृभिरादृताभिर्न्यस्तं पुरस्तात्पुरशासनस्य॥१३॥

तद्गौरवान्मङ्गलमण्डनश्रीः सा पस्पृशे केवलमीश्वरेण।
स एव वेषः परिणेतुरिष्टं भावान्तरं तस्य विभोः प्रपेदे॥१४॥

बभूव भस्मैव सिताङ्गरागः कपालमेवाऽमलशेखरश्रीः।
उपान्तभागेषु च रोचनांको गजाजिनस्यैव दुकूलभावः॥१५॥

शङ्खान्तरद्योति विलोचनं यद् अन्तर्निविष्टामलपिङ्गतारम्।
सांनिध्यपक्षे हरितालमय्याः तदेव जातं तिलकक्रियायाः॥१६॥

यथाप्रदेशं भुजगेश्वराणां करिष्यतामाभरणान्तरत्वम्।
शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः॥१७॥

दिवापि निष्ठ्यूतमरीचिभासा वाल्यादनाविष्कृतलाञ्छनेन।
चन्द्रेण नित्यं प्रतिभिन्नमौलेश्चूडामणेः किं ग्रहणं हरस्य॥१८॥

इत्यद्भुतैकप्रभवः प्रभावात्प्रसिद्धनेपथ्यविधेर्विधाता।
आत्मानमासन्नगणोपनीते खड्गेनिषक्तप्रतिमं ददर्श॥१९॥

स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम्।
तद्भक्तिसंक्षिप्तबृहत्प्रमाणमारुह्य कैलासमिव प्रतस्थे॥२०॥

तं मातरो देवमनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः।
मुखैः प्रभामण्डलरेणुगौरैः पद्माकरं चक्रुरिवान्तरीक्षम्॥२१॥

तासां च पश्चात्कनकप्रभाणां काली कपालाभरणा चकासे।
बलाकिनी नीलफ्योदराजी दूरं पुरः क्षिप्तशनहदेव॥२२॥

ततो गणैः शूलभृतः पुरोगैरुदीरितो मंगलतूर्यघोषः।
विमानशृङ्गाण्यवगाहमानः शशंस सेवाऽवसरं सुरेभ्यः॥२३॥

उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम्।
स तद्दुकूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे॥२४॥

मूर्ते च गङ्गायमुने तदानीं सचामरे देवमसेविषाताम्।
समुद्रगारूपविपर्ययेऽपि सहंसपाते इव लक्ष्यमाणे॥२५॥

तमभ्यगच्छत्प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात्।
जयेति वाचा महिमानमस्य संवर्धयन्तो हविषेव वह्निम्॥२६॥

एकैव मूर्तिर्बिभिदे त्रिधा सा सामान्यमेषां प्रथमाऽवरत्वम्।
विष्णोर्हरस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ॥२७॥

तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः।
दृष्टिप्रदाने कृतनन्दिसंज्ञास्तद्दर्शिताः प्राञ्जलयः प्रणेमुः॥२८॥

कम्पेन मूर्ध्मःशतपत्रयोनिं वाचा हरिं वृत्रहण स्मितेन।
आलोकमात्रेण सुरानशेषान्संभावयामास यथाप्रधानम्॥२९॥

तस्मै जयाशीः ससृजे पुरस्तात्सप्तर्षिभिस्तान्स्मितपूर्वमाह।
विवाहयज्ञे विततेऽत्र यूयमध्वर्यवः पूर्ववृता मयेति॥३०॥

विश्वावसुप्राग्रहरैःप्रवीणैः संगीयमानत्रिपुरावदानः।
अध्वानमध्वान्तविकारलंघ्यस्ततारताराऽधिपखण्डधारी॥३१॥

खे खेलगामी तमुवाह वाहः सशब्दचामीकरकिंकिणीकः।
तटाभिघातादिव लग्नपङ्के धुन्वन्मुहुः प्रोतघने विषाणे॥३२॥

स प्रापदप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात्।
पुरोविलग्नैर्हरदृष्टिपातैः सुवर्णसूत्रैरिव कृष्यमाणः॥३३॥

तस्योपकण्ठे घननीलकण्ठः कुतूहलादुन्मुखपौरदृष्टः।
स्वबाणचिह्नादवतीर्य मार्गादासन्नभूपृष्ठमियाय देवः॥३४॥

तमृद्धिमद्बन्धुजनाधिरुढैदैर्वृन्देंर्गजानां गिरिचक्रवर्ती।
प्रत्युज्जगामाऽऽगमनप्रतीतः प्रफुल्लवृक्षैः कटकैरिव स्वैः॥३५॥

वर्गावुभौ देवमहीधराणां द्वारे पुरस्योद्घटितापिधाने।
समीयतुर्दूरविसर्पिघोषौ भिन्नैकसेतू पयसामिवौघौ॥३६॥

ह्रीमानभूद्भूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः।
पूर्व महिम्ना स हि तस्य दूरम् आवर्जितं नात्मशिरो विवेद॥३७॥

स प्रतियोगाद्विकसन्मुखश्रीः जामातुरग्रेसरतामुपेत्य।
प्रावेशयन्मन्दिरमृद्धमेनम् आगुल्फकीर्णापणमार्गपुष्पम्॥३८॥

सत्राऽवतीर्याऽच्युतदत्तहस्तः शरद्वनाद्दीधितिमानिवोक्ष्णः।
क्रान्तानि पूर्वं कमलासनेन कक्ष्यान्तराण्यद्रिपतेर्विवेश॥३९॥

तमन्वगिन्द्रप्रमुखाश्च देवाः सप्तर्षिपूर्वाः परमर्षयश्च।
गणाश्च गिर्यालयमभ्यगच्छन्प्रशस्तमारम्भमिवोत्तमार्थाः॥४०॥

तत्रेश्वरो विष्टरभाग्यथावत्सरत्नमर्घ्यं मधुमच्च गव्यम्।
नवे दुकूले च नगोपनीतं प्रत्यग्रहीत्सर्वममन्त्रवर्जम्॥४१॥

दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधदक्षैः।
वेलासमीपं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादैः॥४२॥

तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुः कुमुदः कुमार्या।
प्रसन्नचेतः सलिलः शिवोऽभूत्संसृज्यमानः शरदेव लोकः॥४३॥

प्रयुक्तपाणिग्रहणं यदन्यद्वधूवरं पुष्यति कान्तिमग्र्याम्।
सांनिध्ययोगादनयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य॥४४॥

प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं चकासे।
मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम्॥४५॥

तौ दंपती त्रिः परिणीय वह्निमन्योन्यसंस्पर्शनिमीलिताक्षौ।
स कारयामास वधूं पुरोधास्तस्मिन्समिद्धार्चिषि लाजमोक्षम्॥४६॥

सा लाजधूमाञ्जलिमिष्टगन्धं गुरूपदेशाद्वदनं निनाय।
कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे॥४७॥

तदीषदार्द्रारुणगण्डलेखमुच्छ्रवासि कालाञ्जनरागमक्ष्णोः।
वधूमुखं क्लान्तयवावतंसमाचारधूमग्रहणाद्वभूव॥४८॥

वधूं द्विजः प्राह तवैष वत्से ! वह्निर्विवाहं प्रति कर्मसाक्षी।
शिवेन भर्त्रासह धर्मचर्या कार्या त्वया मुक्तविचारयेति॥४९॥

आलोचनान्तं श्रवणे वितत्य पीतं गुरोस्तद्वचनं भवान्या।
निदाघकालोल्बणतापयेव माहेन्द्रमम्भः प्रथमं पृथिव्या॥५०॥

ध्रूवेण भर्त्रां ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन।
सा दृष्ट इत्याननमुन्नमय्य ह्रीसन्नकण्ठी कथमप्युवाच॥५१॥

इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ।
प्रणेमतुस्तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय॥५२॥

वधूर्विधात्रा प्रतिनन्द्यते स्म कल्याणि ! वीरप्रसवा भवेति।
वाचस्पतिः सन्नपि सोऽष्टमूर्तौत्वाशास्य चिन्तास्तिमितो बभूव॥५३॥

क्लृप्तोपचारां चतुरस्रवेदीं तावेत्य पश्चात्कनकासनस्थौ।
जायापती लौकिकमेपणीयमार्द्राऽक्षतारोपणमन्वभूताम्॥५४॥

पत्रान्तलग्नैर्जलबिन्दुजालैराकृष्टमुक्ताफलजालशोभम्।
तयोरुपर्यायतनालदण्डमाधत्त लक्ष्मीः कमलातपत्रम्॥५५॥

द्विधाप्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव।
संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्य निबन्धनेन॥५६॥

तौ संधिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम्।
अपश्यतामप्सरसां मुहूर्तं प्रयोगमाद्यं ललिताङ्गहारम्॥५७॥

एवं पार्वतीं परिणीय, समस्तसुरसमाजं विसृज्य, सगणोगणेशगुरुःस्वावासं कैलासमयासीत्।

(कुमारसंभवस्य सप्तमसर्गात् )

बुद्धवैराग्यम्

ततः कदाचिन्मृदुशाद्वलानि पुंस्कोकिलोन्नादितपादपानि।
शुश्राव पद्माकरमण्डितानि शीते निबद्धानि स काननानि॥१॥

श्रुत्वा ततः स्त्रीजनवल्लभानां मनोज्ञभावं पुरकाननानाम्।
बहिः प्रयाणाय चकार बुद्धिम् अन्तर्गृहे नाग इवावरुद्धः॥२॥

ततो नृपस्तस्य निशम्य भावं पुत्राऽभिधानस्य मनोरथस्य।
स्नेहस्य लक्ष्म्या वयसश्च योग्याम् आज्ञापयामास विहारयात्राम्॥३॥

निवर्तयामास च राजमार्गे संपातमार्तस्य पृथग्जनस्य।
मा भूत्कुमारः सुकुमारचित्तः संविग्नचेता इति मन्यमानः॥४॥

प्रत्यंगहीनान् विकलेन्द्रियाँश्च जीर्णाऽतुरादीन् कृपणाँश्च भिक्षून्।
ततः समुत्सार्य परेण साम्ना शोभां परां राजपथस्य चक्रुः॥५॥

ततः कृते श्रीमति राजमार्गे श्रीमान् विनीताऽनुचरः कुमारः।
प्रासादपृष्ठादवतीर्य काले कृताऽभ्यनुज्ञो नृपमभ्यगच्छत्॥६॥

अथो नरेन्द्रः सुतमागताश्रुः शिरस्युपाघ्राय चिरं निरीक्ष्य \।
गच्छेति चाज्ञापयति स्म वाचा स्नेहान्न चैनं मनसा मुमोच॥७॥

ततः स जाम्बूनदभाण्डभृद्भिः युक्तं चतुर्भिर्निभृतैस्तुरङ्गैः।
अक्लीवविद्युच्छचिरश्मिधारं हिरण्मयं स्यन्दनमारुरोह॥८॥

ततः प्रकीर्णीज्वलपुष्पजालं विषक्तमाल्यं प्रचलत्पताकम्।
मार्गं प्रपेदे सदृशाऽनुयात्रः चन्द्रः सनक्षत्र इवान्तरिक्षम्॥९॥

कौतूहलात्स्फीततरैश्च नेत्रैः नीलोत्पलाभैरिव कीर्यमाणः।
शनैः शनैः राजपथं जगाहे पौरैः समन्तादभिवीक्ष्यमाणः॥१०॥

पुरं तु तत्स्वर्गमिव प्रहृष्टं शुद्धाधिवासाः समवेक्ष्य देवाः।
जीर्णं नरं निर्ममिरे प्रयातुं संचोदनार्थं क्षितिपाऽऽत्मनस्य॥११॥

ततः कुमारो जरयाऽभिभूतं दृष्ट्वा नरेभ्यः पृथगाकृतिं तम्।
उवाच संग्राहकमागतास्थः तत्रैव निष्कम्पनिविष्टदृष्टिः॥१२॥

क एष भोः सून ! नरोऽभ्युपेतः केशैः सितैर्यष्टिविषक हस्तः।
भ्रूसंवृताक्षः शिथिलानताङ्गः किं विक्रियैषा प्रकृतिर्यदृच्छा ?॥१३॥

इत्येवमुक्तः स रथप्रणेता निवेदयामास नृपात्मजाय।
संरक्ष्यमप्यर्थमदोषदर्शी तैरेव देवैः कृतबुद्धिमोहः॥१४॥

रूपस्य हर्त्री, व्यसनं बलस्य, शोकस्य योति, र्निधनं रतीनाम्।
नाशः स्मृतीनां रिपुरिन्द्रियाणाम् एषा जरा नाम ययैष भग्नः॥१५॥

पीतं ह्यनेनापि पयः शिशुत्वे कालेन भूयः परिमृष्टमुर्व्याम्।
क्रमेण भूत्वा च युवा वपुष्मान् क्रमेण तेनैव जरामुपेतः॥१६॥

इत्येवमुक्ते चलितः स किंचित् राजाऽऽत्मजः सूतमिदं बभाषे।
किमेष दोषोभविता ममापीत्यस्मै ततः सारथिरभ्युवाच॥१७॥

आयुष्मतोऽप्येष वयः प्रकर्षात् निःसंशयं कालवशेन भावी।
एवं जरां रूपविनाशयित्रींजानाति चैवेच्छति चैपलोकः॥१८॥

ततः स पूर्वाऽऽशयशुद्धबुद्धिः विस्तीर्णकल्पाऽर्जितपुण्यकर्मा।
श्रुत्वा जरां संविविजे महात्मा महाशनैर्घोषमिवान्तिके गौः॥१९॥

निःश्वस्य दीर्घं स शिरः प्रकम्प्य तस्मिँश्च जीर्णे विनिवेश्य चक्षुः।
तां चैव दृष्ट्वा जनतां सहर्षां वाक्यं स संविग्नमिदं जगाद॥२०॥

एवं जरा हन्ति च निर्विशेषं स्मृतिं च रूपं च पराक्रमं च।
न चैव संवेगमुपैति लोकः प्रत्यक्षतोऽपीदृशमीक्षमाणः॥२१॥

एवं गते सूत ! निवर्तयाऽश्वान् शीघ्रं गृहाण्येव भवान् प्रयातु।
उद्यानभूमौ हि कुतो रविर्मेजराभये चेतसि वर्तमाने॥२२॥

अथाऽज्ञया भर्तृसुतस्य तस्य निवर्तयामास रथं नियन्ता।
ततः कुमारो भवनं तदेव चिन्तावशः शून्यमिवप्रपेदे॥२३॥

यदा तु तत्रैव न शर्म लेभे जरा जरेति प्रपरीक्षमाणः।
ततो मरेन्द्राऽनुमतः स भूयः क्रमेण तेनैव बहिर्जगाम॥२४॥

अथाऽपरं व्याधिपरीतदेहं त एव देवाः ससृजुर्मनुष्यम्।
दृष्ट्वा च तं सारथिमाबभाषे शोद्धोदनिस्तद्गतदृष्टिरेव॥२५॥

स्थूलोदरः श्वासचलच्छरीरः स्रस्तांऽसबाहुः कृशपाण्डुगात्रः।
अम्बेति वाचं करुणं ब्रुवाणः परं समाश्लिष्य नरः क एषः ?॥२६॥

ततोऽब्रवीत्सारथिरस्य सौम्य ! धातुप्रकोपप्रभवः प्रवृद्धः।
रोगाभिधानः सुमहाननर्थः शक्रोऽपि येनैव कृतोऽस्वतन्त्रः॥२७॥

इत्यूचिवान् राजसुतः स भूयस्तं सानुकम्पो नरमीक्षमाणः।
अस्यैव जातः पृथगेष दोषःसामान्यतो रोगभयं प्रजानाम् ?॥२८॥

ततो बभाषे स रथप्रणेता कुमार ! साधारण एष दोषः।
एवं हि रोगैः परिपीड्यमानो रुजातुरो हर्षमुपैति लोकः॥२९॥

इति श्रुतार्थः स विषण्णचेताः प्रावेपताऽम्बूर्मिगतः शशीव।
इदं च वाक्यं करुणायमानः प्रोवाच किञ्चिन्मृदुना स्वरेण॥३०॥

इदं च रोगव्यसनं प्रजानां पश्यँश्च विश्रम्भमुपैति लोकः।
विस्तीर्णविज्ञानमहो नराणां हसन्ति ये रोगभयैरमुक्ताः॥३१॥

निवर्त्यतां सूत ! वहिःप्रयाणान्नरेन्द्रसद्मैव रथः प्रयातु।
श्रुत्वा च मे रोगभयं रतिभ्यः प्रत्याहतं संकुचतीव चेतः॥३२॥

ततो निवृत्तः स निवृत्तहर्षः प्रध्यानयुक्तः प्रविवेश सद्म।
तं द्विस्तथा प्रेक्ष्य च संनिवृत्तं पुर्यागमं भूमिपतिश्चकार॥३३॥

श्रुत्वा निमित्तं तु निवर्तनस्य संत्यक्तमात्मानमनेन मेने।
मार्गस्य शौचाधिकृताय चैव चुक्रोश रुष्टोऽपि च नोग्रदण्डः॥३४॥

भूयश्च तस्मै विदधे सुताय विशेषयुक्तं विषयप्रकारम्।
चलेन्द्रियत्वादपि नापि शक्तो नास्मान्विजद्यादिति नाथमानः॥३५॥

यदा च शब्दादिभिरिन्द्रियार्थैरन्तःपुरे नैव सुतोऽस्य रेमे।
ततो बहिर्व्यादिशतिस्म यात्रां रसान्तरं स्यादिति मन्यमानः॥३६॥

ततो विशेषेण नरेन्द्रमार्गे खलङ्कृते चैव परीक्षिते च।
व्यत्यास्य सूतं च रथं च राजा प्रस्थापयामास बहिः कुमारम्॥३७॥

ततस्तथा गच्छति राजपुत्रे तैरेव देवैर्विहितो गतासुः।
तं चैव मार्गे मृतमुह्यमानं सूतः कुमारश्च ददर्श नाऽन्यः॥३८॥

अथाब्रवीद्राजसुतः स सूतं नरैश्चतुर्भिर्ह्रियते क एषः।
दीनैर्मनुष्यैरनुगम्यमानो यो भूषितोऽश्वास्यवरुद्यते च॥३९॥

ततः स शुद्धात्मभिरेव देवैः शुद्धाधिवासैरभिभूतचेताः।
अवाच्यमप्यर्थमिमं नियन्ता प्रव्याजहारार्थविदीश्वराय॥४०॥

बुद्धीन्द्रियप्राणगुणैर्वियुक्तः सुप्तो विसंज्ञस्तृणकाष्ठभूतः।
संबध्य संरक्ष्य च यत्नवद्भिः प्रियाप्रियैस्त्यज्यत एषकोऽपि॥४१॥

इति प्रणेतुः स निशम्य वाक्यं संचुक्षुभे किञ्चिदुवाच चैनम्।
किं केवलस्यैव जनस्य धर्मः? सर्वप्रजानामयमीदृशोऽन्तः १॥४२॥

ततः प्रणेता गदति स्म तस्मै सर्वप्रजानामयमन्तकर्मा।
हीनस्य मध्यस्य महात्मनो वा, सर्वस्य लोके नियतो विनाशः॥४३॥

ततः स धीरोऽपि नरेन्द्रसूनुः श्रुत्वैव मृत्युं विपसाद सद्यः।
अंसेन संश्लिष्य च कूवराग्रं प्रोवाच निह्रादवता स्वरेण॥४४॥

इयं च निष्ठा नियतं प्रजानां प्रमाद्यति त्यक्तभयश्च लोकः।
मनांसि शङ्के कठिनानि नृृणां स्वस्थास्तथा ह्यध्वनि वर्तमानाः॥४५॥

तस्माद्रथं सूत ! निवर्त्यतां नो विहारभूमौ न हि देशकालः।
जानन् विनाशं कथमार्त्तिकाले सचेतनः स्यादिह हि प्रमत्तः॥४६॥

इति वैराग्योदयः
बुद्धचरितस्य तृतीय सर्गात्

अथ भ्रमणत्वनिश्चयः

अथ मन्त्रिसुतैः क्षमैः, कदाचित्सखिभिश्चित्रकथैः कृतानुयात्रः।
वनभूमिदिदृक्षया शमेप्सुर्नरदेवानुमतो बहिः प्रतस्थे॥१॥

नवरुक्मललीनकिंकिणीकं प्रचलच्चामरचारुहेमभाण्डम्।
अभिरुह्य सकण्ठकं सदश्वं प्रययौ क्रेतुमिव द्रुमाब्जकेतुः॥२॥

स निकृष्टतरां वनान्तभूमिं वनलोभाच्च ययौ महीगुणेच्छुः।
सलिलोर्मिधिकारसीरमार्गां वसुधां चैव ददर्श कृष्यमाणाम्॥३॥

हलभिन्नविकीर्णशष्पदर्भां हतसूक्ष्मक्रिमिकाण्डजन्तुकीर्णाम्।
समवेक्ष्यरसां तथाविधां तां स्वजनस्येव वधे भृशं शुशोच॥४॥

कृषतः पुरुषांश्च वीक्षमाणः पवनार्कांऽशुरजोविभिन्नवर्णान्।
वहनकुमविक्लवाँश्चधुर्यान् परमार्यःपरमां कृपां चकार॥५॥

अवतीर्य ततस्तुरङ्गपृच्छनकैर्गांव्यचरच्छुचा परीतः।
जगतो जननव्ययं विचिन्वन कृपणं खल्विदमित्युवाच चार्त्तः॥६॥

मनसा च विविक्ततामभीप्सुः सुहृदस्ताननुपायिनो निवार्य।
अभितश्चलचारुपर्णवत्या विजने मूलमुपेयिवान् सजम्ब्वाः॥७॥

निषसाद च तत्र शौचवत्यां भुवि वैदूर्यनिकाशशाद्वलायाम्।
जगतः प्रभवव्ययौ विचिन्त्य मनसश्च स्थितिमार्गमाललम्बे॥८॥

समवाप्तमनःस्थितिश्च सद्यो विषयेच्छादिभिराधिश्च मुक्तः
सवितर्कविचरमाप शान्तं प्रथमं ध्यानमनाश्रवप्रकारम्॥९॥

अधिगम्य ततो विवेकजं तु परमप्रीतिसुखं समाधिगम्यम्।
इदमेव ततः परं प्रदध्यौ मनसा लोकगतिं निशम्य सम्यक्॥१०॥

कृपणं बत यज्जनः स्वयं सन्नरसो व्याधिजराविनाशधर्मा।
जरयार्दितमातुरं मृतं वा परमज्ञो विजुगुप्सते मदान्धः॥११॥

इह चेदहमीदृशः स्वयं सन् विजुगुप्सेय परं तथास्वभावम्।
न भवेत्सदृशं हि तत्क्षमं वा परमं धर्ममिमं विजानतो मे॥१२॥

इति तस्य विपश्यतो यथावज्जगतो व्याधिजराविपत्तिदोषान्।
बलयौवनजीवितप्रवृत्तौ विजगामाऽऽत्मगतो मदः क्षणेन॥१३॥

न जहर्ष न चापि चानुतेपे विचिकित्सां न ययौ न तन्द्रिनिद्रे।
न च कामगुणेषु संररञ्जे न च दिद्वेष परं न चावमेने॥१४॥

इति बुद्धिरियं च नीरजस्का ववृधे तस्य महात्मनो विशुद्धा।
पुरुषैरपरैरदृश्यमानः पुरुषश्चोपससर्प भिक्षुवेशः॥१५॥

नरदेवसुतस्तमभ्यपृच्छद्वद कोऽसीति शशंस सोऽथ तस्मै।
नरपुङ्गव ! जन्ममृत्युभीतः श्रमणः प्रव्रजितोऽस्मि मोक्षहेतोः॥१६॥

जगति क्षयधर्मके मुमुक्षुर्मृगयेऽहं शिवमक्षयं पदं तत्।
अजनोऽन्यजनैरतुल्यबुद्धि र्विषयेभ्यो विनिवृत्तरागदोषः॥१७॥

निवसन् क्वचिदेव वृक्षमूले विजने वाऽऽयतने गिरौ वने वा।
विचराम्यपरिग्रहो निराशः परमार्थाय यथोपपन्नभिक्षुः॥१८॥

इति पश्यत एव राजसूनोरिदमुक्त्वा स नभः समुत्पपात।
स हि तद्वपुरन्यबुद्धिदर्शी स्मृतये तस्य समेयिवान् दिवौकाः॥१९॥

गगनं खगवद्गते च तस्मिन् नृवरः संजहृषे विसिस्मिये च।
उपलभ्य ततश्च धर्मसंज्ञामभिनिर्याणविधौ मतिं चकार॥२०॥

तत इन्द्रसमो जितेन्द्रियश्च प्रविविक्षुः परमाश्वमारुरोह।
परिवर्त्य जनं त्ववेक्षमाणस्तत एवाभिमतं वनं न भेजे॥२१॥

स जरामरणक्षयं चिकीर्षुर्वनवासाय मतिं स्मृतौ निधाय।
प्रविवेश पुनः पुरं न कामाद्वनभूमेरिव मण्डलं द्विपेन्द्रः॥२२॥

(इति श्रमणत्वनिश्चयः)

श्री अश्वघोष विरचितस्य बुद्ध चरितस्य पञ्चम सर्गात्

* सुभाषितानि*

अथ सुभाषितप्रशंसा

संसदि तदेव भूषणमुपकारकमवसरे धनं मुख्यम्।
सूक्तं दधति सुवर्णं कल्याणमनर्घमिह धन्याः॥१॥

(कस्यापि)

याता यान्ति च यातारो लोकाः शोकाधिका भुवि।
काव्यसंबन्धिनी कीर्तिः स्थायिनी निरपायिनी॥२॥

(श्री अनन्तदेवानाम्)

अविदितगुणापि सुकवेर्भणितिः कर्णेषु वमति मधुधाराम्।
अनधिगतपरिमलापि हि हरति द्वशं मालतीमाला॥३॥

(सुबन्धोः)

ये सूक्तीन्दुकलाकलङ्कजनका ये गाढगर्वज्वरा
ये वा केवलतर्ककर्कशधियः साक्षाच्च ये श्रोत्रियाः।
ये वा द्वेषमपीमलीमसधियस्तान् प्राज्ञगोष्ठीरस-
प्रौढप्रावृडवग्रहान् परिहरन् वाचां प्रसारं कुरु॥४॥

(कस्यापि)

अथ सहृदयकविप्रशंसा

अपि मुदमुपयान्तोवाग्विलासैः स्वकीयैः
परभणितिषु तोपं यान्ति सन्त कियन्तः।
निजघनमकरन्दस्यन्दपूर्णाऽऽलवालः
कलशसलिलसेकं नेहते कि रसालः॥५॥

(जयदेवस्य)

सुजन प्रशंसा

वदनं प्रसादसदनं
सदयं हृदयं सुधामुचो वाचः।
करणं परोपकरणं
येषां केषां न ते वन्द्याः॥६॥

महतोऽपि हि विश्वासान्महाशया दधति नाल्पमपि लघवः।
संवृणुतेऽद्रीनुदधिर्निदाघनद्यो न भेकमपि॥७॥

(गोवर्धनाचार्यस्य )

न भवति भवति च न चिरं
भवति चिरं चेत् फले विसंवादी।
कोपः सत्पुरुषाणां
तुल्यः स्नेहेन नीचानाम्॥८॥

आदिमध्यनिधनेषु सौहृदं सज्जने भवति नेतरे जने।
छेदतापननिघर्षताडनैर्नान्यभावमुपयाति काञ्चनम्॥९॥

सन्तोऽपि सन्तः क्व किरन्तु तेजः
क्व नु ज्वलन्तु क्व ननु प्रथन्ताम्।
विधाय रुद्धा ननु वेधसैव
ब्रह्माण्डकोषे घटदीपकल्पाः॥१०॥

क्षारो वारिनिधिः कलकलुषश्चन्द्रो रविस्तापकृत्
पर्जन्यश्चपलाश्रयोऽ भ्रपटलादृश्यः सुवर्णाचलः।
शून्यं व्योम रसा द्विजह्णविधृता स्वर्धामधेनुः पशुः
काष्ठं कल्पतरुर्द्धषत् सुरमणिस्तत्केन साम्यं सताम्॥११॥

कस्मादिन्दुरसौ धिनोति जगतींपीयुषगर्भैःकरैः
कस्माद्वा जलधारयैव धरणिं धाराधरः सिञ्चति।
भ्रामं भ्राममयं च नन्दयति वा कस्मात् त्रिलोकीं रविः
साधूनां हि परोपकारकरणे नोपाध्यपेक्षं मनः॥१२॥

ये जाते व्यसने निराकुलधियः, संपत्सु नाऽभ्युन्नताः
प्राप्ते नैव पराङ्मुखाः, प्रणयिनि प्राणोपयोगैरपि।
ह्रीमन्तः स्वगुणप्रकाशनविधावन्यस्तुतौ पण्डिता—
स्ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः ॥ १३॥

अथ महतां प्रशंसा

गवादीनां पयोऽन्येद्युः सद्यो वा जायते दधि।
क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः ॥ १४ ॥

(कस्यापि)

ये दीनेषु दयालवः स्पृशति यानल्पोऽपि न श्रीमदो-
व्यग्रा ये च परोपकारकरणे हृष्यन्ति ये याचिताः।
स्वस्थाः सन्ति च यौवनोन्मदमहाव्याधिप्रकोपेऽपि ये
तैः स्तम्भैरिव सुस्थितैः कलिभरक्लान्ता धरा धार्यते ॥ १५ ॥

(कस्यापि)

अङ्गनवेदी वसुधा, कुल्या जलधिः, स्थली च पातालम्।
वल्मीकश्च सुमेरुः, कृतप्रतिज्ञस्य वीरस्य ॥ १६ ॥

(बाणभट्टस्य)

पादाहतं यदुत्थाय मूर्धानमधिरोहति।
स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः ॥ १७ ॥

समूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः।
प्रध्वंसिताऽन्धतमसस्तत्रोदाहरणं रविः ॥ १८ ॥

(माघस्य)

अथ मनस्विप्रशंसा

ब्रह्माण्डं कियदस्ति तत्र वसुधापिण्डं किमाचक्ष्महे
तत्राप्येकतरं तु खण्डममितास्तस्मिन्नृपाः केचन।
तेभ्यो दैन्यशमोपनीतविभवा दृष्टानुकम्पास्तु ते ये
धिङ्मूढाः स्पृहयन्ति हन्त किमपि स्वार्थेन तेभ्योऽपि ये ॥ १६ ॥

(श्री देवगणदेवानाम्)

अथोदारप्रशंसा

कर्णस्त्वचं शिविर्मां सं जीवं जीमूतवाहनः।
ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम्॥२०॥

द्विः शरं नाभिसंधत्ते द्विः स्थापयति नाश्रितान्।
द्विर्ददाति न चार्थिभ्यो रामोद्विर्नाभिभाषते॥२१॥

अथ गुणप्रशंसा

गुणिनि गुणज्ञो रमते नाऽगुणशीलस्य गुणिनि परितोषः।
अलिरेति घनात्कमलं न दर्दुरस्त्वेकवासोऽपि॥२२॥

कौशेयं कृमिजं सुवर्णमुपलाद्दूर्वापि गोरोमतः
पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात्।
काष्ठादग्निरहेःफणादपि मणिर्गोपित्ततो रोचना
प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना॥२३॥

अथ सन्तोष प्रशंसा

वयमिह परितुष्टा वल्कलैस्त्वंदुकूलैः
सम इह परितोषो निर्विशेषो विशेषः।
स हि भवति दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोर्थवान् को दरिद्रः॥२४॥

(भर्तृहरेः)

अथ संसर्ग प्रशंसा

अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च।
पुरुषविशेषं प्राप्य भवन्ति योग्या अयोग्याश्च॥२५॥

(विष्णुशर्मणः)

दुर्जन निन्दा

यद्वीक्ष्यते खलानां माहात्म्यं क्वापि दैवयोगेन।
काकानामिव शौक्ल्यं तदपि हि नचिरादनर्थाय॥२६॥

(गोवर्धनाचार्य्यस्य)

रविरपि न दहति तादृक् यादृक् संदहति बालुकानिकरः।
अन्यस्माल्लब्धपदो नीचः प्रायेण दुःसहो भवति॥२७॥

विषधरतोप्यतिविषमः खल इति न मृषा वदन्ति विद्वान्सः।
यदयं नकुलद्वेषी स कुलद्वेषी पुनः पिशुनः॥२८॥

(सुबन्धोः)

अति मलिने कर्त्तव्ये
भवति खलानामतीव निपुणा धीः।
तिमिरे हि कौशिकानां
रूपं प्रतिपद्यते दृष्टिः॥२९॥

(सुबन्धोः)

विषमा मलिनात्मनो द्विजिह्वा जिह्मगा इव।
जगत्प्राणहरा नित्यं कस्य नोद्वेजकाः खलाः॥३०॥

(हरिगणस्य)

अथ कृपणनिन्दा

यत्करोत्यरतिं क्लेशं तृष्णां मोहं प्रजागरम्।
न तद्धनं कदर्य्याणां हृदयव्याधिरेव सः॥३१॥

(क्षेमेन्द्रस्य)

मृत्युः शरीरगोप्तारं वसुरक्षं वसुंधरा।
दुश्चारिणी च हसति स्वपतिं पुत्रवत्सलम्॥३२॥

(बाणभट्टस्य)

त्यागभोगविहीनेन धनेन धनिनो यदि।
भवामः किं न तेनैव धनेन धनिनो वयम्॥३३॥

(कस्यापि)

कृपणेन समो दाता न भूतो न भविष्यति।
अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति॥३४॥

(व्यासस्य)

दृढतरनिबद्धमुष्टेःकोपनिषण्णस्य सहजमलिनस्य।
कृपणस्य कृपाणस्य च केवलमाकारतोभेदः॥३५॥

विद्यावतः कुलीनस्य धनं याचितुमिच्छतः।
कण्ठे पारावतस्येव वाक्करोति गतागतम्॥३६॥

दक्षिणाऽऽशाप्रवृत्तस्य प्रसारितकरस्य च।
तेजस्तेजस्विनोऽर्कस्य हीयतेऽन्यस्य का कथा॥३७॥

अथ याचकनिन्दा

उड्डीना गुणपत्रिणः सुखफलान्याराद्विकीर्णान्यधः
पर्यस्ताः परितो यशःस्तबकिताः संपल्लतापल्लवाः।
प्रागेवापवृतः प्रमोदहरिण श्छायाकथाऽन्तं गता
दैन्यारण्यमतंगजेन महता भग्नेऽभिमानद्रुमे॥३८॥

अथ दरिद्रनिन्दा

अर्था न सन्ति न च मुञ्चति मां दुराशा
त्यागान्न संकुचति दुर्ललितं मनो मे।
याञ्चाच लाघवकरी स्ववधे च पापं
प्राणाः स्वयं व्रजत किं प्रविलम्बितेन॥३९॥

(माघकवेः)

वासःखण्डमिदं प्रयच्छ यदि वा स्वाऽङ्के गृहाणार्भकं
रिक्तं भूतलमत्र नाथ ! भवतः पृष्ठे पलालोच्चयः।
दम्पत्योरिति जल्पितं निशि यदा चौरः प्रविष्टस्तदा
लब्धं कर्पटमन्यतस्तदुपरि क्षिप्त्वा रुदन्निर्गतः॥४०॥

अथ मूर्खनिन्दा

वितरति गुरूः प्राज्ञे विद्यां यथैव तथा जडे
न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा।
भवति च पुनर्भूयान् भेदः फलं प्रति तद्यथा
प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदां चयः॥४१॥

(भवभूतेः)

लभेत सिकतासु तेलमपि यत्नतः पीडय—
न्पिवेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः।
कदाचिदपि पर्यटञ्छशविषाणमासादयेत्
न तु प्रतिनिविष्टमूर्ख जनचित्तमाराधयेत्॥४२॥

(भर्तृहरेः)

अथ तृष्णानिन्दा

भ्रान्तं याचनतत्परेण मनसा देहीति वाक् प्रेरिता
मुक्तं मानविवर्जितं परगृहे वाशङ्कया काकवत्।
साक्षेपं भ्रुकुटीकटाक्षकुटिलं दृष्टंखलानां मुखं
तृष्णेदेवि ! यदन्यदिच्छसि पुनस्तत्रापि सज्जा वयम्॥४३॥

(कस्यापि)

अन्योक्तिः (चन्द्रः)

प्रथमदिवसचन्द्रः सर्वलोकैकवन्द्यः
स च सकलकलाभिः पूर्णचन्द्रो न वन्द्यः।

अतिपरिचयदोषात् कस्य नो मानहानिः
नव नव गुणरागी प्रायशः सर्वलोकः॥४४॥

कलास्तास्ताः सम्यग्वहसि यदसि त्वं द्विजपति—
र्द्युतिस्तादृग्नूत्रा जनिरपि च रत्नाकरकुले।
बहु ब्रूमः कि वा पुरहरशिरोमण्डनमसि
त्वदीयं तत्सर्वं शशधर ! कलङ्काद्विफलितम्॥४५॥

उच्चैः स्थानकृतोदयैर्बहुविधैर्ज्योतिर्भिरुद्यत्प्रभैः
शुक्राद्यैः किममीभिरत्र वितथा प्रौढिं दधानैरपि।
यावल्लोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते
तावच्चन्द्र ! कथं प्रयाति परमां वृद्धिं स रत्नाकरः॥४६॥

(त्रिलोचनस्य)

अन्योक्तिः (बालाः)

ये शिरसि विनिहिता अपि
भवन्ति न सखे समानसुखदुःखाः।
चिकुरा इव ते बाला
एव, जडाः पाण्डुभावेऽपि॥४७॥

(गोवर्धनाचार्य्यस्य)

अन्योक्तिः (कूपजलम्)

कूपप्रभवाणां परमुचितमपां पट्टबन्धनं मन्ये।
याः शक्यन्ते लब्धुं न पार्थिवेनापि विगुणेन॥४८॥

(गोवर्धनाचार्यस्य)

अन्योक्तिः (चन्दनम्)

यदि चन्दनविटपी फलपुष्पविवर्जितः कृतो विधिना।
निजवपुषैव तथापि हि स हरति संतापमपरेषाम्॥४६॥

अन्योक्तिः (गजः)

यूथपते ! तव कश्चिन्न हि मानस्यानुरूप इह विटपी।
प्रेरय दिनं निदाघद्राघीयः क खलु ते छाया॥५०॥

अन्योक्तिः (मेघः)

शालेयेषु शिलातलेषु च गिरेः शृङ्गेषु गर्त्तेषु च
श्रीखण्डेषु विभीतकेषु च तथा पूर्णेषु रिक्तेषु च।
स्निग्धेन ध्वनिनाऽखिलेऽपि जगतीचक्रे समं वर्षतो -
वन्दे वारिदसार्वभौम ! भवतो विश्वोपकारि व्रतम्॥५१॥

(कस्यापि)

अये हेलावेलातुलितकुलशैले जलनिधौ
कुतो वारामोघं वद जलद ! मोघं वितरसि।
समन्तादुत्तलज्वलदनलकीलाकवलन-
क्लमोपेतानेतानुपचरपयोभिर्विटपिनः॥५२॥

अन्योक्तिः (क्षमाः)

आजन्मसिद्धं कौटिल्यं खलस्य च हूलस्य च
सोढुं तयोर्मुखाक्षेपमलमेकैव सा क्षमा॥५३॥

(कस्यापि)

अन्योक्तिः (गुरुपदम्)

यन्नोपकारकं यन्न भूषणं यत्पूकोपमातनुते।
गुरुणाऽपि तेन कार्यं पदेन किं श्लोपदेनेव॥५४॥

(गोवर्धनाचार्य्यस्य)

अथ देवाख्यानम्

खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके
वाञ्छन्देशमनातपं विधिवशाद्विल्वस्य मूलं गतः।
तत्राऽप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः॥५५॥

(भर्तृहरेः)

प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहु साधनता।
अवलम्बनाय दिनभर्तुरभूत् न पतिष्यतः करसहस्रमपि॥५६॥

(माघकवेः)

अथ प्रकीर्णाख्यानम्

निष्कलङ्ककलयैकयाऽपि यः संयुतः स खलु पूज्यते जनैः।
भद्र ! पश्य जलजोपि धार्य्यते शंकरेण शिरसा निशाकरः॥५७॥

(शार्ङ्गधरस्य)

एके सत्पुरुषः परार्थघटकाः स्वार्थं परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे॥५८॥

(भर्तृहरेः)

भक्ते द्वेषो जुडे प्रीतिररुचिर्गुरुलङ्गनम्।
मुखे च कटुता नित्यं धनिनां ज्वरिणामिव॥५९॥

(कस्यापि)

जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छतु
शीलं शैलतटात्पतत्वभिजनः संदह्यतां वह्निना।
शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोस्तु नः केवलं
येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे॥६०॥

(भर्तृहरेः)

गेहं दुर्गतबन्धुभि र्गुरुगृहं छात्रैरहङ्कारिभिः
हट्टंपत्तनवञ्चकैमुनिजनैः शापोन्मुखैराश्रमान्।
सिंहाद्यैश्च घनं, खलैर्नृपसभां, चौरैर्दिगन्तानपि
संकीर्णानवलोक्य सत्यसरलः साधुः क्व विश्राम्यति॥६१॥

अथ समस्या

विजेतव्या लङ्का चरणतरणीयो जलनिधि-
र्विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः।
तथाप्येको रामः सकलमवधीद्राक्षसकुलं
क्रियासिद्धिः सत्वे वसति महतां नोपकरणे॥६२॥

(कस्यापि)

समस्या

भवति हृदयहारी कोऽपि कस्यापि हेतुः
न खलु गुणविशेषः प्रेमबन्धप्रयोगे।
किसलयितवानान्तेकोकिलारावरम्ये
विकसति न वसन्ते मालति कोऽत्र हेतुः॥६३॥

अथ जातिः (महोक्षः)

गर्जित्वा मेघधीरं प्रथममथ शनैर्मण्डलीकृत्य देहं
शृङ्गाभ्यां भीषयन्तवभिमुखमवनिं दारयन्तौ खुराग्नैः।
मन्दं मन्दं समेत्य स्थिरनिहतपदं दत्तघातौ सरोषं
युध्येते चालयन्तौकुटिलितमसंकृत्पुच्छमेतौ महोक्षौ॥६४॥

(कस्यापि)

धेनुः

आहत्याऽऽहत्य मूर्ध्ना द्रुतमनुपिवतः प्रस्नुतं मातुरूधः
किञ्चित्कुब्जैकजानोरनवरतचलच्चारुपुच्छस्य धेनुः।
उत्तीर्णा तर्णकस्य प्रियतनयतया दत्तहुँकारमुद्रा
विस्त्रंसिक्षीरधारालवशबलमुखस्याङ्गमातृप्ति लेढि॥६५॥

(मयूरस्य)

नैयायिकः

कर्मब्रह्मविचारणां विजहस्तो भोगापवर्गप्रदां
घोषं कञ्चन कण्ठशोषफलकं कुर्वन्त्यमी तार्किकाः।
प्रत्यक्षं न पुनाति नापहरते पापामि पीलुच्छटा
व्याप्तिर्नावति नैव पात्यनुमितिर्नो पक्षता रक्षति॥६६॥

अथ नीतिः

लक्ष्म्या परिपूर्णोहं न भयं मोहनिद्रैषा।
परिपूर्णस्यैवेन्दोर्भवति भयं सिंहिकासूनोः॥६७॥

(कस्याऽपि)

यत्रार्जवेन लघुता गरिमाणं यत्र वक्रता तनुते।
छन्दः शास्त्र इवास्मिल्ँलोके सरलः सखे ! किमसि॥६८॥

(गोवर्धनाचार्यस्य)

विदपि धैर्यमथाऽभ्युदयेक्षमा
सदसि वाक्पटुता युधि विक्रमः।
यशसि चाऽभिरुचि र्व्यसनं श्रुतौ
प्रकृति सिद्धमिदं हि महात्मनाम्॥६६॥

यावत् स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो-
यावच्चेन्द्रियशक्तिरप्रतिहता यावत् क्षयो नायुषः।

आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः॥७०॥

(भर्तृहरेः)

वाङ्माधुर्यान्नान्यदस्ति प्रियत्वं वाक्पारुष्याच्चोपकारोपि नेष्टः।
किं तद्रव्यं को किलेनोपनीतं को वा लोके गर्दभस्यापराधः॥७१॥

(कस्यापि)

यात्येकतोऽस्तशिखरं पतिरोषधीना—
माविष्कृतोऽरुणपुरःसर एकतोऽर्कः।
तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां
लोको नियम्यत इवाऽऽत्मदशान्तरेषु॥७२॥

रम्याणि वीक्ष्य मधुराँश्च निशम्यशब्दा-
न्पर्युत्सुकीभवति यत्सुखितोऽपि जन्तुः।
तच्चेतसा स्मरति नूनमबोधपूर्वं
भावस्थिराणि जननान्तरसौहृदानि॥७३॥

औत्सुक्यमात्रमवसादयति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेव।
नाऽतिश्रमापनयनाय यथा श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम्॥७४॥

ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते।
प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते जन्तुः॥७५॥

सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः
संभावनागुणमवेहि तमीश्वराणाम्।
किं वाऽभविष्यदरुणस्तमसां विभेत्ता
तं चेत्सहस्रकिरणो धुरि नाकरिष्यत्॥७६॥

आलक्ष्यदन्तमुकुलाननिमित्तहासा-
नव्यक्तवर्णरमणीयवचःप्रवृत्तीन्।
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो-
धन्यास्तदङ्गरजसा मलिनीभवन्ति॥७७॥

सर्वः कल्ये वयसि यतते भोक्तुमर्थान् कुटुम्बी।
पश्चात् पुत्रैरपहृतभरः कल्पते विश्रमाय॥७८॥

यदेवोपनतं दुःखात्सुखं तद्र सवत्तरम्।
निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः॥७९॥

पुराणमित्येव न साधु सर्वम् न चापि सर्वं नवमित्यवद्यम्।
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेय बुद्धिः॥८०॥

पात्रविशेषन्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः।
जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य॥८१॥

अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात्।
नवसंरोहण शिथिलस्तरुरिव सुकरः समुद्धर्तुम्॥८२॥

अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव।
दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि॥८३॥

अतिमात्रभासुरत्वं पुष्यति भानोः परिग्रहादनलः।
अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः॥८४॥

श्लिष्टा क्रिया कस्यचिदात्मसंस्था संक्रान्तिरन्यस्य विशेषयुक्ता।
यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव॥८५॥

मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः।
पङ्कच्छिदः फलस्येव निकषेणाऽऽविलं पयः॥८६॥

उपदेशं विदुः शुद्ध सन्तस्तमुपदेशिनः।
श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु॥८७॥

छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोक्षणम्।
एतानि दष्टमात्राणामायुष्या प्रतिपत्तयः॥८८॥

न हि बुद्धिगुणेनैव सुहृदामर्थदर्शनम्।
कार्यसिद्धिपथः सूक्ष्मः स्नेहेनाप्युपलक्ष्यते॥८९॥

प्रतिपक्षेणापि पतिं सेवन्ते भर्तृवत्सलाः साध्व्यः।
अन्यसरितां शतानि हि समुद्रगाः प्रापयन्त्यब्धिम्॥९०॥

(एते कालिदासस्य)

सर्वथा व्यवहर्त्तव्यं कुतो ह्यवचनीयता।
यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः॥९१॥

लौकिकानां हि साधूनामर्थं वागनुवर्तते।
ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति॥९२॥

नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा
मूर्ध्निस्थितिर्न चरणै रवताडनानि॥९३॥

प्रियप्राया वृत्तिर्विनयमसृणो वाचि नियमः
प्रकृत्या कल्याणी मतिरनवगीतः परिचयः।
पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं
रहस्यं साधूनामनुपधि विशुद्धं विजयते॥९४॥

वज्रादपि कठोराणि मृदुनि कुसुमादपि।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति॥९५॥

न किञ्चिदपि कुर्वाणः सौख्ये र्दुःखान्यपोहति।
तत्तस्य किमपि द्रव्य यो हि यस्य प्रियो जनः॥९६॥

अन्तःकरणतत्वस्य दम्पत्योः स्नेहसंश्रयात्।
आनन्दग्रन्थिरेकोऽयमपत्यमितिकथ्यते॥९७॥

पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया।
शोकक्षोभे च हृदयं प्रलापैरेव धार्यते॥९८॥

संन्तानवाहीन्यपिमानुषाणां दुःखानि सद्वन्धुवियोगजानि।
दृष्टजने प्रेयसि दुःसहानि स्रोतःसहस्रैरिव संप्लवन्ते॥९

६॥

सुहृदिव प्रकटय्य सुखप्रदां प्रथममेकरसामनुकूलताम्।
पुनरकाण्डविवर्तनदारुणो विधिरहोविशिनष्टि मनोरुजम्॥१००॥

आविर्भूतज्योतिषां ब्राह्मणानां
ये व्याहारास्तेषु मा संशयोऽभूत्।
भद्रा ह्येषां वाचि लक्ष्मोर्निषिक्ता
नैते वाचं विप्लुतां व्याहरन्ति॥१०१॥

अहेतुः पक्षपातो यस्तस्यनास्ति प्रतिक्रिया।
स हि स्नेहात्मकस्तन्दुरन्तर्मर्माणि सीव्यति॥१०२॥

ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः।
सा योनिः सर्ववैराणां साहि लोकस्य निष्कृतिः॥१०३॥

कामं दुग्धे विप्रकर्षत्यलक्ष्मींकीर्तिंसूतेदुर्हृदो निप्रहन्ति।
शुद्धां शान्तांमातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः॥१०४॥

व्यतिषजति पदार्थानान्तरः कोऽपिहेतु-
र्न खलुबहिरुपाधीन् प्रीतयः संश्रयन्ते।
विकसति हि पतंगस्योदये पुण्डरीकं
द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः॥१०५॥

न तेजस्तेजस्वी प्रसृतमपरेषां विषहते
स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः।
मयूखैरश्रान्तं तपति यदि देवो दिनकरः
किमाग्नेयो ग्रावा निकृत इव तेजांसि वमति॥१०६॥

ते श्रोत्रियास्तत्वविनिश्चयाय भूरि श्रुतं शाश्वतमाद्रियन्ते।
इष्टाय पूर्णाय च कर्मणेऽर्थान्दारानपत्याय तपोऽर्थमायुः॥१०७॥

ये नाम केचिदिह नः प्रथयन्त्यवज्ञां
जानन्तु ते किमपि तान् प्रतिनैष यत्नः।

उत्पत्स्यतेऽस्ति मम कोपि समानधर्मा
कालो ह्ययं निरवधिर्विपुला च पृथ्वी॥१०८॥

यद्वेदाध्ययनं तथोपनिषदां सांख्यस्य योगस्य च
ज्ञानं तत्कथनेन किं नहि ततः कश्चिद्गुणो नाटके।
यत्प्रौढत्वमुदारता च वचसां यच्चार्थतो गौरवं
तच्चेदस्ति ततस्तदेव गमकं पाण्डित्यवैदग्ध्ययोः॥१०९॥

बहिः सर्वाकारप्रगुणरमणीयं व्यवहर-
न्पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति।
जनं विद्वानेकः सकलमतिसंधाय कपटै-
स्तटस्थः स्वानर्थान्घटयति च मौनं च भजते॥११०॥

शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी।
कालानुरोधः प्रतिभानवत्वमेते गुणाः कामदुघाः क्रियासु॥१११॥

शान्तिः कुतस्तस्य भुजङ्गशत्रो यस्मिन्निबद्धानुशया सदैव।
जागर्ति दंशाय निशातदंष्ट्राकोटिर्विपोद्गारगुरुर्भुजङ्गी॥११२॥

हरेरतुलविक्रमप्रणयलालसः साहसे
स एव भवति क्वणत्कररुहप्रचण्डः सखा।
स्फुरत्करटकोटरस्खलितदानसिक्तानन-
द्विपेश्वरशिरः स्थिरास्थिदलनैकवीरः करः॥११३॥

कुमुदाकरेण शरदिन्दुचन्द्रिका यदि रामणीयकगुणाय संगता।
सुकृतं तदस्तु कतमस्त्वयं विधिर्यदकालमेघविततिर्व्ययूयुजत्॥११४॥

तमांसि ध्वंसन्ते परिणमति भूयानुपशमः
सकृत्संवादेऽपि प्रथत इह चामुत्र च शुभम्।
अथ प्रत्यासङ्गः कमपि महिमानं वितरति
प्रसन्नानां वाचः फलमपरिमेयं प्रसुवते॥११५॥

अमोघशस्त्रं क्षत्रस्य ब्राह्मणानामनुग्रहः।
दुरासदं च तत्तेजः क्षत्रं यद्ब्रह्मसंयुतम्॥११६॥

निस्सन्देहविपर्यये सति पुनर्ज्ञाने विरुद्धक्रियं।
राजा चेत्पुरुषं न शास्ति तदयं प्राप्तः प्रजाविप्लवः॥११७॥

असाध्यमन्यथा दोषं परिच्छिद्य शरीरिणः।
यथा वैद्यस्तथा राजा शस्त्रपाणिर्भविष्यति॥११८॥

अन्योन्यमाहात्म्य विदोरन्यैरविदितात्मनोः।
विभ्राजते विरोधोऽपि नाम स्नेहे तु का कथा॥११९॥

प्राणैरपि हिता वृत्तिरद्रोहो व्याजवर्जनम्।
आत्मनीव प्रियाधानमेतन्मैत्रीमहाव्रतम्॥१२०॥

न कम्पन्ते झंझामरुति किल वाति प्रतिदिशं
समुन्मूर्च्छत्साराः कुलशिखरिणः किञ्चिदपि ते।
न मर्यादां तेऽपि प्रतिजहति गाम्भीर्यगरिम-
स्फुरद्वाग्ब्रह्माणोऽकलितमहिमानोऽम्बुनिधयः॥१२१॥

(भवभूतेः)

अन्योन्यप्रीतिकृतां समानरूपानुरागकुलवयसाम्।
केषाञ्चिदेव मन्ये समागमो भवति पुण्यवताम्॥१२२॥

सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः।
शरीरकस्यापि कृते मूढाः पापानि कुर्वते॥१२३॥

कोडीकरोति प्रथमं यदा जातमनित्यता।
धात्रीव जननी पश्चात्तदा शोकस्यकः क्रमः॥१२४॥

यैरत्यन्तदयापरैर्न विहिता वन्ध्याऽर्थिनां प्रार्थना
यैः कारुण्यपरिग्रहान्न गणितः स्वार्थः परार्थं प्रति।
ये नित्यं परदुःखदुःखितधियस्ते साधवोऽस्तं गता
मातः संहर वाष्पवेगमधुना कस्याग्रतो रुद्यते॥१२५॥

मेदोस्थिमज्जासृङ्मात्रसंघातेऽस्मिंस्त्वचावृते।
शरीरे खलु का शोभा सदा बीभत्सदर्शने॥१२६॥

द्वीपादन्यस्मादपि मध्यादपिजलनिधेर्दिशोऽप्यन्तात्।
आनीयझटिति घटयति विधिरभिमतमभिमुखीभूतः॥१२७॥

(हर्षवर्धनस्य)

तत्क्षणमपि निष्क्रान्ताः कृतदोषा इव विनापिदोषेण।
प्रविशन्ति शङ्कमाना राजकुलं प्रायशोभृत्याः॥१२८॥

प्रायो यत्किञ्चिदपि प्राप्नोत्युत्कर्षमाश्रयान्महतः।
मत्तोभकुम्भतटगतमेति हि शृंगारतां भस्म॥१२९॥

(प्रियदर्शनिकातः)

शून्यमपुत्रस्य गृहं चिरशून्यं यस्यनास्ति सन्मित्रम्।
मूर्खस्य दिशः शून्याः सर्वंशून्यं दरिद्रस्य॥१३०॥

सुखं हि दुःखान्यनुभूयशोभते घनान्धकारेष्विव दीपदर्शनम्।
सुखात्तु यो यातिनरो दरिद्रतां धृतः शरीरेण मृतः स जीवति॥१३१॥

दारिद्र्यान्मरणाद्वा मरणं मम रोचते न दारिद्रयम्।
अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम्॥१३२॥

सत्यं न मे विभवनाशकृताऽस्ति चिन्ता
भाग्यक्रमेण हि धनानि भवन्ति यान्ति।
एतत्तु मां दहति नष्टधनाश्रयस्य
यत्सौहृदादपि जनाः शिथिलीभवन्ति॥१३३॥

दारिद्र्याद्धिमेति यमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो
निस्तेजाः परिभूयते परिभवान्निर्वेदमापद्यते।
निर्विण्णः शुचमेति शोकपिहितो बुद्ध्या परित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम्॥१३४॥

तपसा मनसा वाग्भिः पूजिता बलिकर्मभिः।
तुष्यन्ति शमिनां नित्यं देवताः किं विचारितैः॥१३५॥

दारिद्र्यात्पुरुषस्य बान्धवजनो वाक्ये न सन्तिष्ठते
सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः।

सत्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते
पापं कर्म च यत्परैरपि कृतं तत्तस्य संभाव्यते॥१३६॥

सङ्गं नैव हि कश्चिदस्य कुरुते संभाषते नादरा-
त्संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते।
दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया
मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम्॥१३७॥

सुजनः खलु भृत्यानुकम्पकः स्वामी निर्धनकोऽपि शोभते।
पिशुनः पुनर्द्रव्यगर्वितो दुष्करः खलु परिणामदारुणः॥१३८॥

(शूद्रकस्य)

]