2016-11-21__91 - Divan-e-Ghalib

[[Mohan K.V 2016-11-21, 05:28:39 Source]]

सदास्वादः

91

दर्द् मिन्नत्-कश्-ए दवा न हुआ

(dard minnatkaś-e davā na huā)

Meaning

“My pain did not fall under the debt of any medicine” अयि भो! “वैद्यकं मम निष्फलमभूत्” इति सरलभावं ऋण-परिभाषे कोऽयं कवयति? अपि च, “मिन्नत्-कश्-ए-दवा” (“औषध-ऋणी”) इति विलक्षण-मधुर-प्रयोगः कस्य वा हस्तलाघवम् ?

Context

पादोऽयं मिर्जा असदुल्ला बेग् खान् महोदयस्य “दीवान्-ए-ग़ालिब्” नाम सुविख्यात-संग्रहाद् उद्धृतः । मुघल-साम्राज्यावसान-काले जातोऽयं कविः उर्दू-भाषा-कविकुले प्रायः प्रथमस्थानम् अलङ्करोति “ग़ालिब्” इति नामाङ्कितेन । तस्य कालः अस्मद्-राष्ट्रस्यैव महान् संधिकाल इव भासते । यथा यथा मुघल-राज्यलक्ष्मीः नवीन-भर्तारम् अन्विषन्तीव पश्चिमं प्रति याता, तथा तथा मिर्जा-महोदयस्य जगत् सर्वं पश्चिमावधिमिव प्राप्तम् । मुघल-काव्य-संप्रदायः, उर्दू-फार्सी-भाषा-विलास-वैभवम्, दिल्ली-नगर्याः तद्-वीथीनां च अतिलोकरमणीयं वर्चः, सुकुमार-मनोहर-समयाश्च सर्वे मिर्जा-महोदयस्य समान-व्यसनिनः इव तेनैव सह स्मृतिपथं ययुः ।

“ग़ज़ल्” पद्यशैली उर्दू भाषायाम् अतिविश्रुता, यस्यां ग़ालिबः स्व-प्रतिभा-महापूरां घटी-कृतवान् । गीर्वाण-वाणी-कलस्वनित-कर्णेषु शैलीयं क्वचित् विचित्रा इव श्रूयते । एकस्मिन् ग़ज़ल-गुच्छे 10-12 “शेर्” नाम मुक्तकानि भवन्ति । परं गीतवद् एतेषां न कोऽपि अर्थ-संबन्धः वर्तते ; केवलं छन्दःसाम्य एव संबन्धः । अस्मन्-मात्राच्छन्दवत् ग़ज़ल-वृत्तानि बहुरूपाणि गान-गन्धीनि च । आयान्तु भवन्तः, क्वचित् अस्यापि रसं जिह्वाग्रयिष्यामः ।

ग़ालिबीय-पद्येषु त्रीणि परस्पर-प्रतिरोधीनि सूत्राणि वेणीव अनुस्यूतानि दृष्यन्ते – प्रियाप्रेम, आत्मगौरवम् , तत्त्व-विचारश्च । प्रिया-विषये पद्यमेकं श्रूयताम् –

तू और् आराइश्-ए ख़म्-ए काकुल्

मैं और् अंदेशा-हा-ए दूर्-दराज़ ॥ 71-2

“You, and caring for delicate curls;

Me, and far-reaching anxieties”

प्रियायाः ध्यानम् अलकालङ्करणे सुकुमार-लाघवेन निमग्नम्; विरहतप्तस्य कवेस्तु ताम् एव ध्यायतः मनः असीम-घन-चिन्तोदधौ कुत्रापि दूरं दूरं परिभ्रमति । प्रायः अमरुक-नायकस्य सब्रह्मचारी असौ!

देशैर् अन्तरिता शतैश् च सरिताम् उर्वीभृतां काननैः

यत्नेनापि न याति लोचन-पथं कान्तेति जानन्न् अपि ।

उद्ग्रीवश् चरणार्ध-रुद्ध-वसुधः कृत्वाश्रुपूर्णां दृशं

ताम् आशां पथिकस् तथापि किमपि ध्यायंश् चिरं वीक्षते ॥

“Hundreds of kingdoms and forests and rivers and mighty mountains separate them,

there’s no way he can possibly see her – even though he knows this,

Neck upturned, tip-toed, with teary eyes,

the traveler thoughtfully gazes homeward.”

क्वचिद् अन्यत्र कविः प्रियायाः वाङ्माधुर्यम् वर्णयन्,

देख्ना तक़्रीर् की लज़्ज़त् कि जो उस् ने कहा

मैं ने ये जाना कि गोया ये भी मेरे दिल् में है ॥ ॥ 157-2

“Look at the delight of her speech – whatever she says

I feel, ‘this is in my heart too!’”

मात्रा-वृत्तम् इव तुलयति – देखना तक़ / रीर की लज़् / ज़्ज़त कि जो / उस ने कहा (7-7-7-5) – “सर्फ़रोशी की तमन्ना अब् हमारे दिल् में है” इति विश्रुतगीतवत्

आत्म-बिम्बान् मधुरतरं किमस्ति खलु ब्रह्माण्ड-भाण्डे? :-) कालिदासस्य मालविकाग्निमित्रमिति नाटके मालविकायाः नाट्य-गुरुः ताम् एवं श्लाघते –

यद्यत् प्रयोग-विषये भाविकम् उपदिश्यते मया तस्यै ।

तत्-तत् विशेष-करणात् प्रत्युपदिशतीव मे बाला ॥ Mālavikāgnimitraṃ 1.5

“Whatever [dance] expression I teach her, it is as if she teaches it back to me by improving upon it!”


आत्मगौरवं ग़ालिबस्य जीवनाधार-स्तम्भ इव भासते । आस्थानकविरिति विश्रुतोऽसौ क्षीयमाणे मुघल-कोशे प्रतिभा-मात्र-धनः, अपूर्त-जठर-पिठरः तपति स्म । एकदा दिल्ली-विद्यालयाध्यक्षेण आङ्ग्लाधिकारिणा फार्सी-भाषाध्यापक-पदवी-निमित्तं सः आमन्त्रणं प्राप्तवान् । शतरूप्क्य-वेतना पदवीयं दारिद्र्य-दग्धस्य तस्य बहुप्रयोजनाय स्यात् ।

ग़ालिबः अध्यक्ष-कक्षां गतवान् । आस्थानकविं तं अन्तराह्वातुम् अध्यक्षेण स्वयं द्वारम् आगत्य गौरवं करणीयः किल? न तथाभूत् । कश्चित् परिचारकः ग़ालिबं प्रत्युवाच , “भोः , अध्यक्षः पृच्छति, किं भवान् अन्तः नागच्छति?” । “भोः, गौरवानुसारं स्वयम् अध्यक्षेणाहम् अन्तराह्वयनीयः” । तदा अध्यक्षो ऽवदत् “भवान् अत्र अध्यापक-पदवी-प्राप्त्यर्थम् आगतः। अत्र अस्माकं पद्धतिरेव चर्या, न तु आस्थान-कवि-मर्यादा ।” ग़ालिबः, “भोः , यदि भवत्-संपर्केण अस्मत्-पूर्वसिद्धयः विस्मार्याः, स्वस्ति भवते स्वस्ति च भवत्-पदव्यै!” इति शान्तेनोक्त्वा स्वभवनम् आजगाम ।

तत्-संबद्धं मुक्तकमिदं श्रूयताम् :

बंद्गी में भी वो आज़ादा‐ओ‐ख़ुद्-बीं हैं कि हम्

उल्टे फिर् आए दर्-ए काबा अगर् वा न हुआ ॥ 22-2

“Even in servitude, we have such self-regard, that

we would turn back and come away, if the doors of the Ka’aba didn’t open.”

दासत्वम् अङ्गीकुर्वन्नपि आत्म-गौरवं प्रकटयति कविः । क्वचिद् अन्यत्र वैद्यक-विषयम् इव वर्णयन्,

दर्द् मिन्नत्-कश्-ए दवा न हुआ

मैं न अच्छा हुआ बुरा न हुआ ॥ 26-1

“My pain did not fall under the obligation of any medicine.

I don’t mind that I didn’t recuperate.”

यदि पीडा कस्यापि औषधेन उपशमनं प्राप्ता, कविः तद्-औषधस्य “ऋणी” भवेत् किल! तत्-लेशम् अपि ऋण-बाधां नेच्छति माननिधिः !

याचना-विषये च –

बे-तलब् दें तो मज़ह् उस् में सिवा मिल्ता है

वो गदा जिस् को न हो ख़ू-ए सवाल् अच्छा है ॥ 174-4

“If they would give without asking, the pleasure is something else.

The beggar who doesn’t have a nature of asking is good.”

अस्मत् संस्कृत-कवि-कुलवत् “देहीति दीनं वचः” अस्यापि परम-दुर्भरम् ! सर्वे वयं कस्मिंश्चिदपि विषये याचक-वासिताः एव – यदि वा प्रियायां, यदि वा भगवति, यदि वा जगत्येव । विना याचना-स्वभावेन तत्-तद्-वासनाः क्वचित् सह्यतां यान्ति ।

एतत् “सिवा मज़ह” विषये शतावधानिनः रा। गणेशमहोदयस्य रञ्जकामुपमां स्मरामः – अनिरीक्षित-हितस्य सुखं सुमन्त्रित-हितात् बहुतरां रमणीयम् । अनिरीक्षित-हितः तु मलय-मारुतः ; सुमन्त्रित-हितस्तु विद्युद्-व्यजनं (ceiling fan) :-)


अथ ग़ालिबस्य तृतीयं सूत्रं अन्विषामः , तत्त्व-विचारः । भक्तिविषये समर्पणभावः अनेकत्र दृश्यते । केचित् वित्तं समर्पयन्ति, केचिच्च सेवां । परं सर्वमिदं दत्त्वाऽपि, आत्मानमेव अर्पयित्वाऽपि किं तल्लीन-भक्तस्य ऋण-समाप्ति-भावः संभवति ? न तथेति ब्रूते कविः ।

जान् दी दी हुई उसी की थी

हक़् तो यूँ है कि हक़् अदा न हुआ ॥ 26-7

“I gave my life, [but] it was already his.

In truth, the debt wasn’t fulfilled.”

तस्यैव वस्तु तं प्रत्यर्पयित्वा कथं ऋण-मुक्तो भवितुम् अर्हति? भावोऽयं दास-साहित्ये अनेकत्र विराजते; यथा पुरन्दर-दासस्य विश्रुतगीतम् –

ಕೆರೆಯ ನೀರನು ಕೆರೆಗೆ ಚೆಲ್ಲಿ

ವರವ ಪಡೆದವರಂತೆ ಕಾಣಿರೊ

ಹರಿಯ ಕರುಣದಲಾದ ಭಾಗ್ಯವ

ಹರಿಸಮರ್ಪಣೆ ಮಾಡಿ ಬದುಕಿರೊ

kereya nīranu kerege celli

varava paḍedavara ante kāṇiro

hariya karuṇadali āda bhāgyava

hari-samarpaṇe māḍi badukiro

“It is as if [the devotees of the Lord] offer the waters of a lake back to itself, and are rewarded for it; be like them.

The Lord gives them their fortunes, and they entrust it back to Him”

सङ्ग-परित्यागः, माया-विलासश्च अपि ग़ालिबस्य पद्येषु विलसन्ति, यथा –

बाज़ीचा-ए अत्फ़ाल् है दुनिया मिरे आगे

होता है शब्‐ओ‐रोज़ तमाशा मिरे आगे ॥ 208-1

“The world is a play of children to my eyes.

Night and day, a drama unfolds before me.”

इदं पठतः अस्माकं, “नारायणियं” दिव्य-श्लोक-कर्तुः नारायण-भट्टतिरि-कृतम् अद्भुतपद्यं प्रतिध्वनितम् :

य: कृत्वा विश्व-रङ्गं रजनि-यवनिकं प्रोज्ज्वलद्‌-भानु-दीपम्

शश्वत्-सन्तुष्ट-संप्रेक्षकम् अखिल-जगद्‌-भ्रान्ति-नाट्यं वितत्य ।

कार्मेघोच्चण्ड-मार्द्दङ्गिक-लय-वशगान् वासना-गान-सक्तान्

जीवच्च्छात्रान् मुकुन्दः स्वयम् अभिरमते क्रीडयन् सो ऽस्तु भूत्यै ॥

ya: kṛtvā viśva-raṅgaṃ rajani-yavanikaṃ projjvalad‌-bhānu-dīpam

śaśvat-santuṣṭa-saṃprekṣakam akhila-jagad‌-bhrānti-nāṭyaṃ vitatya |

kārmeghoccaṇḍa-mārddaṅgika-laya-vaśagān vāsanā-gāna-saktān

jīvaccchātrān mukundaḥ svayam abhiramate krīḍayan so ‘stu bhūtyai ||

“The Lord Mukunda created this world-stage, with the night as the screen, the sun as the lamp,

the wise seers as the audience, and spread the madness of the world as the dance.

All living beings are his students, marching to the rhythm of the mṛdaṅga of the mighty monsoon clouds, and singing to the tune of the passions.

May that playful Lord do you good!”

Parting Thought

याचकत्वं तावद् इतः तिष्ठतु, दीयतां क्वचिद् भवद्ध्यानामृतं याचकस्य प्रतिबिम्बाय –

कृपणेन समो दाता न भूतो न भविष्यति ।

अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥

kṛpaṇena samo dātā na bhūto na bhaviṣyati |

aspṛśanneva vittāni yaḥ parebhyaḥ prayacchati ||

“There is no greater donor than a miser;

He gives away all his money, without even touching it!”

“Demonetisation”– दिव्य-तन्त्रेण खट्वान्तरिताया अपि लक्ष्म्याः चापल्यं प्रकटितं, तदुपरि सुखं शयान-कृपणानाम् अक्षपावसानप्रबोध-राज्य-सुख-सन्निपात-निद्राद् उत्थान-सुप्रभातम् उद्गीतम्, परस्मैपदैर् अनाक्रान्त-कर्णविवराणाञ्च तेषाम् आत्मनि पदे पदे दातृत्वं प्रतिपादितं सर्वकारेण !

Please join the Google Group to subscribe to these (~ biweekly) postings:

<https://groups.google.com/group/sadaswada/subscribe?hl=en